हत्वा स्वरिक्तस्पृध आततायिनो युधिष्ठिरो धर्मभृतां गवि स्थितः
अथ दशमोऽध्यायः
शौनक उवाच—
हत्वा स्वरिक्तस्पृध आततायिनो युधिष्ठिरो धर्मभृतां गवि स्थितः ।
सहानुजैः प्रत्यवरुद्धभोजनः कथं प्रवृत्तः किमकार्षीत्ततः ॥ १ ॥
पदरत्नावली
हस्तिनपुराद् द्वारकायात्राकथनपूर्वकं भगवत्प्रसादलब्धयुधिष्ठिरराज्यसमृद्धिकथनेन हरेर्महिमैव वर्ण्यतेऽस्मिन्नध्याये । तत्र हरितद्भक्तकथायामवितृप्तमनाः शोनकाः पुनरपि पृच्छतीत्याह- हत्वेति ॥ स्वरिक्थं स्वाराज्याख्यद्रव्यम् अस्माकमिति स्वर्धन्त इति स्वरिक्थस्पृधस् तान् । आततायिनः प्रतिवीरं हत्वा मर्तुकामान् दुर्योधनादीन् हत्वा अनुजैः सह प्रत्यवरुद्धभोजनः सङ्क्षिप्तभोगः धर्मभृतां धर्मप्रवर्तकानां व्यासादीनां गवि वाचि स्थिरः निश्चलः युधिष्ठिरः कथं केन प्रकारेण राज्यपालने प्रवृत्तः ? किं कर्माकार्षित् ? अथ कृष्णश्च तेन सह हस्तिनपुरमागतः किमकृत ? तदस्माकं ब्रूहि इत्येकान्वयः ॥ १ ॥
प्रकाशिका
राज्यं चकारेत्युक्तम् । तत्र पृच्छति- हत्वेति ॥ स्वरिक्थे राज्यस्वरूपे धने स्पर्धन्त इति स्वरिक्थस्पृधस्तान् । आततायिन इति ‘अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः । क्षेत्रदारापहर्ता च षडेते ह्याततायिनः’ इति वचनादग्न्यादिदानित्यर्थः । धर्मभृतां व्यासादीनां गवि वाचि स्थिरो निश्चलः । कथं प्रवृत्तः कस्माश्रयेण प्रवृत्तः । राज्यपालन इति शेषः । पत्यवरुद्धभोजनो बन्धुवधनिमित्तदुःखेन सङ्कुचितभोगः ॥ १ ॥
सूत उवाच—
वंशं कुरोर्वंशदवाग्निनिर्हृतं संरोहयित्वा भवताप(भाव)नो हरिः ।
निवेशयित्वा निजराज्य ईश्वरो युधिष्ठिरं प्रीतमना बभूव ह ॥ २ ॥
पदरत्नावली
पाण्डवानां निरतिशयहरिकृपयैव राज्यादिलाभ इति ज्ञापयन् पाण्डवस्थापनादि-कृष्णमहिमानं तावदाह- वंशमिति ॥ ईश्वरः जगच्चेष्टायां समर्थः हरिर् वंशलक्षणदवाद् वनाद् उत्पन्नाग्निना नितरां हृतं कुरोः राज्ञो वंशं संरोहयित्वा परीक्षिदङ्कुरेण जनयित्वा कादाचित्कप्रीत्युक्तिर् लौकिकापेक्षयेत्येतमर्थं हशब्देन प्रसिद्धिद्योतनेनाह । भवभावन इति वा पाठः, सृष्टिवर्धनः । अनेन संरोहणशक्तिरदर्शि । ईश्वर इत्यनेन राज्यस्थापनमाहात्म्यमसूचि । भवतापन इत्यनेन संसारोन्मूलनकर्तुर् हरेः पाण्डवरिपुनिबर्हणं किमु वक्तव्यमिति न्यायो दर्शितः ॥ २ ॥
प्रकाशिका
अजिताश्रयो गां शसासेति कृष्णाश्रित एव राज्ये प्रवृत्त इत्याद्यप्रश्नस्योत्तरं वक्तुमादौ तावद्युधिष्ठिरस्य कृष्णाश्रितत्वं दर्शयति- वंशमिति ॥ कुरो राज्ञो वंशं संरोहयित्वा परीक्षिद्रक्षणेनाङ्कुरीकृत्य । कथं भूतं वंशम् । वंशदवाग्निनिर्हृतं वंश एव दवो वनं तस्मादुद्भूतो यः क्रोधरूपोऽग्निस्तेन निर्हृतं दग्धम् । भवभावनो भवं जगदुत्पत्तिं भावयति करोतीति तथा । अनेन कुरुवंशसंरोहणशक्तिरुपपादितेति ज्ञातव्यम् । भवतापन इति पाठेऽनादिसंसारदाहकस्य हरेः पाण्डववैरि-निबर्हणं न चित्रमिति दर्शयितुं तद्विशेषणात् ॥ २ ॥
याजयित्वाऽश्वमेधैस्तान्त्रिभिरुत्तमकल्पकैः ।
तद्यशः पावनं दिक्षु शतमन्योरिवातनोत् ॥ ३ ॥
पदरत्नावली
याजयित्वेत्ययमुक्तार्थः ॥ ३ ॥
प्रकाशिका
याजयित्वेति श्लोकः पूर्वमेव व्याख्यातः ॥ ३ ॥
निशम्य भीष्मोक्तमथाच्युतोदितं प्रवृत्तिविज्ञानविधूतविभ्रमः।
शशास गामिन्द्र इवाजिताश्रयः प्रणिध्युपात्तामनुजानुवर्तितः ॥ ४ ॥
तात्पर्यम्—अमात्या मन्त्रिणो दूताः श्रेणयश्च पुरोहिताः ।
पुरं जनपदं चेति सप्त प्रणिधयः स्मृताः ॥ इति ब्राह्मे ॥ ४ ॥
पदरत्नावली
किमकार्षिद् इति प्रश्नं परिहरति- निशम्येति ॥ अथ युधिष्ठिरः भीष्मोक्तं धर्मसर्वस्वं तथा अच्युतस्य कृष्णस्य उदितं वाक्यं च निशम्य तदुभयं श्रुत्वा प्रवृत्तम् उत्पन्नं यद्विज्ञानं तेन विशेषेण धूतः निरस्तः विविधभ्रमस् तत्वे नानासंशयो यस्य स तथोक्तः । श्रीकृष्णाश्रयो ऽनुजैर् भीमादिभिरनुवर्तितः । अमात्यादिसप्तप्रणिधिभिर् उपात्तां प्राप्तां गाम् अवनिं स्वर्गम् इन्द्रो यथा तथा शशासेत्येकान्वयः । स्वर्गसमानाम् अपालयदिति द्योतनाय गामित्युक्तम् । ‘आत्मत्या मन्त्रिणो दूताः श्रेणयश्च पुरोहिताः । पुरं जनपदञ्चेति सप्त प्रणिधयः स्मृताः’ इति वचनात् । परिधिः समुद्रः स एव उपान्ते अवसाने यस्याः सा परिध्युपात्ता तामिति पाठो बादरायणमतापरिज्ञानादुुच्छ्वसित इति ज्ञातव्यम् ॥ ४ ॥
प्रकाशिका
इदानीं कथं प्रवृत्तः किमकार्षीदिति प्रश्नद्वयं परिहरति- निशम्येति ॥ अत्राजितः कृष्णः स उक्तरीत्याऽऽश्रयो यस्येति प्रथमप्रश्नस्योत्तरम् । शिष्टं द्वितीयप्रश्नस्य । प्रवृत्तमुत्पन्नं यद्विज्ञानं विशेषज्ञानं हरिरेव स्वतन्त्रो विष्णुद्विट्तदनुबन्धिनिग्रहः परमो धर्म इत्यादि रूपं तेन विधूतो नाशितो विविधो भ्रमोऽहं हन्तेत्यादिरूपो दुर्योधनादिवधोऽधर्म इत्यादिरूपो वा यस्य स तथा । कथंभूतो ऽनुजानुवर्तितोऽनुजैर्भीमादिभिरनुवर्तितः सेवितः सन् । प्रणिध्युपात्तां गां भूमिं शशास । अत्र प्रणिधिशब्दमप्रतीतेर्व्याचष्टे- आमात्या इति ॥ आमात्याः कार्ये सहकारिणो, विचारवक्तारो, दूताः सन्देशहराः, श्रेणयोंऽगरक्षकास्तथा चैवं सप्तप्रणिधिभिरुपात्तां प्राप्तामिति मूलार्थो ज्ञेयः । क इव । अजितो, वामनस्तदाश्रय इन्द्रः स्वर्गमिवेत्यर्थः ॥ ४ ॥
कामं ववर्ष पर्जन्यः सर्वकामदुघा मही ।
सिषिचुः स्म व्रजं गावः पयसाऽत्यूधसो मुदा ॥ ५ ॥
पदरत्नावली
कृष्णाश्रयफलमाह- काममिति ॥ पर्जन्यो मेधाभिमानी देवः । सर्वेषाम् अभीष्टं दोग्धीति सर्वकामदुधा । गावः सौरभे यः पयसा क्षीरेण गोष्ठं सिषिचुः सिक्तवत्यो ऽतिस्थूलम् ऊधः क्षीरपात्रं यासां ता अत्यूधमः ॥ ५ ॥
प्रकाशिका
अजिताश्रयः शशासेत्यत्र कार्यमेव मानमित्याशयेनाह- काममित्यादिना ॥ सर्वेषामभीष्टं दोग्धीति सर्वकामदुघा गावः पयसा क्षीरेण व्रजं गोष्ठं सिषिचुरभ्यषिञ्चन् । कथं भूता गावः । अतिस्थूलमूधः क्षीरस्थानं यासां ता अत्यूधसो मुदा वत्सस्नेहजातया ॥ ५ ॥
नद्यः समुद्रा गिरयः सवनस्पतिवीरुधः ।
फलन्त्योषधयः सर्वाः काममन्वर्तु तस्य वै ॥ ६ ॥
पदरत्नावली
नद्यादय रत्नानि फलन्ति । वनस्पतयः पनसादयः । वीरुधो मातुलुङ्गादयः । ओषधयः व्रीह्यादयः । पर्जन्यादयस् तस्य युधिष्ठिरस्य काममिच्छानुसारेण अन्वृतु ऋतौ ऋतौ वृष्ट्यादिमन्तोऽभूवन्नित्यन्वयः ॥ ६ ॥
प्रकाशिका
तस्य युधिष्ठिरस्य कामं यथा स्यात्तथा । इच्छानुसारेणेति यावत् । अन्वर्तु ऋतावृतौ फलन्ति स्वस्वफलानि रत्नादीनि प्रयच्छन्ति । वा इत्यनेनेदं सर्वं कृष्णाश्रयत्वेन कृतमिति सूचयति ॥ ६ ॥
नाधयो व्याधयः क्लेशा दैवभूतात्महेतवः ।
अजातशत्रावभवन् जन्तूनां राज्ञि कर्हिचित् ॥ ७ ॥
पदरत्नावली
न केवलमिष्टप्राप्तिः, अनिष्टनिवृत्तिश्च सुतरामित्याह- नाधय इति ॥ अजातशत्रौ युधिष्ठिरे जन्तूनां राज्ञि रञ्चके सति कदाचिदप्याध्यादिक्लेशा नासुरित्यन्वयः । आधिर् मानसी पीडा । व्याधिर् भगन्दरादिः । कथम्भूताः ? दैवानि भूतानि च आत्मा च हेतुर् निमित्तं येषां ते तथोक्ताः । अधिदैवहेतुर् अनावृष्ट्यादिः । अधिभूतहेतुर् उन्मादादिः । अध्यात्महेतुः कुष्ठादिः ॥ ७ ॥
प्रकाशिका
अनिष्टनिवृत्तिरपि तत्ज्ञापिकेत्याह- नाधय इति ॥ आधयो मनोव्यथा व्याधयो रोगाः । क्लेशाः कथम्भूताः । दैवं च भूतानि चात्मा जीवश्च हेतुर्येषां ते तथा दैवहेतुकः क्लेशोऽना-वृष्ट्यादिजातो भूतहेतुकश्चोरादिजनितः । आत्महेतुको नरकादिरूपः । आत्मशब्दस्य देहवाचित्वे आत्महेतुको रोगादिरूपः । अजातशत्रौ युधिष्ठिरे राज्ञि रञ्जके सति । जन्तूनां प्राणिनां कर्हिचित्कदा-चिदपि ॥ ७ ॥
उषित्वा हस्तिनपुरे मासान्कतिपयान्हरिः ।
सुहृदाञ्च विशोकाय स्वसुश्च प्रियकाम्यया ॥ ८ ॥
आमन्त्र्य चाभ्यनुज्ञातः परिष्वज्याभिवाद्य तम् ।
आरुरोह रथं कैश्चित्परिष्वक्तोऽभिवादितः ॥ ९ ॥
प्रकाशिका
इदानीं द्वारकागमनं वक्तुमाह- उषित्वेति ॥ स्वसुः सुभद्रायाः । आमन्त्र्यापृच्छ्य तं युधिष्ठिरम् ॥ ८,९ ॥
पदरत्नावली
इदानीं कुरुपुरं प्रविष्टः कृष्णः किमकार्षीदित्याभिप्रायिकं प्रश्नं परिहरति- उषित्वेति ॥ सुहृदां पाण्डवानां विशोकाय स्वसुः सुभद्रायाश्च प्रियकाम्यया कतिचिन्मासान् हस्तिनपुरे उषित्वा । आमन्त्र्य द्वारकां गमिष्यामीति युधिष्ठिरायोक्त्वा शिष्टाचाररक्षणाय युधिष्ठिरं परिष्वज्याभिवाद्य कैश्चिद् अर्जुनादिभिर् आलिङ्गितो वन्दितश्च रथमारुरोहेत्यन्वयः ॥ ८,९ ॥
सुभद्रा द्रौपदी कुन्ती विदुरोऽथ युधिष्ठिरः ।
गान्धरी धृतराष्ट्रश्च युयुत्सुर्गौतमो यमौ ॥ १० ॥
वृकोदरश्च धौम्यश्च स्त्रियो मत्स्यसुतादयः ।
न सेहिरे विमुह्यन्तो विरहं शार्ङ्गधन्वनः ॥ ११ ॥
पदरत्नावली
सुभद्रादयः शार्ङ्गधन्वनः हरेर् विरहं न सेहिरे इत्यन्वयः । युयुत्सुर् धृतराष्ट्राद् वैश्ययां जातो दुर्योधनानुजः । गौतमः कृपाचार्यः । यमौ नकुलसहदेवौ । मत्स्यसुतादय उत्तराप्रभृतयः। विमुह्यन्तः कर्तव्यतामजानन्तः ॥ १०,११ ॥
प्रकाशिका
युयुत्सुर्धृतराष्ट्राद्वैश्यायां जातो, दुर्योधनानुजो, गौतमः कृपाचार्यो, यमौ नकुल-सहदेवौ । मत्स्यसुता उत्तरा । विमुह्यन्तोऽयमस्मत्सम्बन्धीति भ्रान्ता इत्यर्थः ॥ १०,११ ॥
तत्सङ्गान्मुक्तदुःसङ्गो हातुं नोत्सहते बुधः ।
कीर्त्यमानं यशो यस्य सकृदाकर्ण्य रोचनम् ॥ १२ ॥
पदरत्नावली
पार्थाः, मुकुन्दविरहं न सेहिर इत्येतदाश्चर्यं न भवतीत्याह- तत्सङ्गादिति ॥ तस्य हरेः सङ्गात् सेवालक्षणान् मुक्तः दुस्सङ्गः दुःखदः सङ्गो ऽन्यत्र पुत्रदारादिषु सङ्गः येन सः मुक्तदुःसङ्गः बुधो विवेकी जनस् तं हातुं नोत्सहते तस्मादित्यन्वयः । तत्र कैमुत्यमाह- कीर्त्यमान-मिति ॥ भागवतैः कीर्त्यमानं यस्य कृष्णस्य यशः सकृदाकर्ण्य पुंसां रोचनं रुचिजनकम् ॥ १२ ॥
प्रकाशिका
पार्थानां कृष्णविरहासहनं कैमुत्यन्यायेनाह- तत्सङ्गादिति श्लोकद्वयेन ॥ तस्य कृष्णस्य सङ्गान्मुक्तदुःसङ्गो दुःखविषयसङ्गो यस्य स तथा । स बुधो ज्ञानी । यस्य कृष्णस्य सद्भिः कीर्त्यमानं रोचनं रुचिकरं यशः सकृदाकर्ण्य तं हातुं नोत्सहते त्यक्तुं न शक्नोति ॥ १२ ॥
तस्याभ्यस्तधियः पार्थाः सहेरन्विरहं कथम् ।
दर्शनस्पर्शनालापशयनासनभोजनैः ॥ १३ ॥
पदरत्नावली
दर्शनस्पर्शनादिभिर् अभ्यस्तधियः पार्थास् तस्य विरहं कथं सहेरन् । नैव सहन्त इत्येतन्किमु वक्तव्यमिति भावः ॥ १३ ॥
प्रकाशिका
तस्य कृष्णस्य दर्शनादिभिरभ्यस्ता धीर्येषां ते तथा ॥ १३ ॥
सर्वे तेऽनिमिषैरक्षैस्तमनुद्रुतचेतसः ।
वीक्ष्यन्तः स्नेहसंबन्धाद्विचेरुस्तत्र तत्र ह ॥ १४ ॥
पदरत्नावली
विरहमसहमानानां तेषां भक्तिप्रसरसंप्लवातिरेकमाह- सर्व इति ॥ अनिमिषैः पक्ष्मव्यापाररहितैर् अक्षैर् नेत्रैस् तं वीक्षमाणाः कृष्णानुगतहृदयास् ते सर्वे स्नेहात् तत्र तत्र विचेरुरित्यन्वयः । यावद्यावद् दूरं गतस् तावत्तावदुत्तुङ्गभूपृष्ठमारुह्य वीक्षमाणास् तस्थुः । अदर्शनं याते तस्मिन् चेतसा तमनुदुद्रुवुरितीममर्थं हशब्दः सूचयति ॥ १४ ॥
प्रकाशिका
विरहमसहमानानां तेषां कृष्णप्रयाणसमये स्थितिं दर्शयति- सर्व इति ॥ अनिमिषैः पक्ष्मचलनरहितैरक्षैर्नेत्रैस्तत्र तत्र विचेरुः । प्रयाणोपयुक्तसामग्रीसम्पादनायेति शेषः । हेति तदौत्सुक्यास्वादने । तमनुद्रुतचेतस इत्यनेन इतस्ततश्चरन्तीत्येव परं न पुनः किमपि सम्पादयितुं शक्ता आसन्निति सूचयति ॥ १४ ॥
न्यरुन्धन्नुद्गलद्बाष्पमौत्कण्ठ्याद्देवकीसुते ।
निर्यात्यगारान्नाभद्रमिति स्याद्बान्धवस्त्रियः ॥ १५ ॥
पदरत्नावली
बान्धवस्त्रियः देवकीसुते अगाराद् गारो निगरणं नाशलक्षणं यस्मान् न सोऽगारः। अगा वृक्षा एव अराणि वंशवंश्यलक्षणानि यस्येति वा । अगम् अगमनं कान्त्यतिशयाद् अरम् अलं यस्मादिति वा । अगानां स्वर्णात्मकानां पर्वतानाम् आरः प्रवेशलक्षणं गमनं यस्मिन्निति वा । तस्मात् पुरान् निर्याति सति अभद्रम् अमङ्गलं न स्याद् इति भावेन औत्कण्ठ्यान् नेत्रजलं न्यरुन्धन् स्तम्भितवत्य इत्येकान्वयः ॥ १५ ॥
प्रकाशिका
अगारान्निर्याति निर्गच्छति सति औत्कण्ठ्याद्धेतोरुद्गलत्स्रवद्बाष्पमश्रूण्यवरुन्धन् नेत्रेष्वेव स्तम्भितवन्त्यः । तत्र हेतुरभद्रममङ्गलं नो स्यान्माभूदित्येतदर्थम् ॥ १५ ॥
मृदङ्गशङ्खभेर्यश्च वीणापणवगोमुखाः ।
धुन्धुर्यानकघण्टाद्या नेदुदुन्दुभयस्तथा ॥ १६ ॥
पदरत्नावली
मार्दङ्गिकादिभिर् आहता मृदङ्गादयो नेदुरित्यन्वयः । भेरी नाम चर्मपिहितः दीर्घमहादारुकृतो वाद्यविशेषः । धुन्धुरिः कांस्यात्मकं वाद्यम् । दुन्दुभिस्तिरश्चीनवाद्यविशेषः । आनकः पटहः । पणवो ढक्काविशेषः ॥ १६ ॥
प्रकाशिका
भेरीपणवगोमुखधुन्धुर्यानकदुन्दुभयो वाद्यविशेषाः ॥ १६ ॥
प्रासादशिखरारूढाः कुरुनार्यो दिदृक्षवः(या) ।
ववृषुः कुसुमैः कृष्णे प्रेमव्रीडा(ड)स्मितेक्षणाः ॥ १७ ॥
पदरत्नावली
प्रेम्णा व्रीडेन स्मितेन च सहितम् ईक्षणं दर्शनं यासां तास् तथोक्ताः । व्रीडशब्द उभयलिङ्गः । प्रेमव्रीडाभ्यां यत् स्मितं तत्पूर्वमीक्षणं यासामिति वा । कुसुमैः कुसुमानि । व्यत्ययो भक्त्यतिशयद्योतनार्थः । पुष्पैः करणैर् इति वा ॥ १७ ॥
प्रकाशिका
कुसुमैः कुसुमानि प्रेम्णा व्रीडया स्मितेन सहितमीक्षणं निरीक्षणं यासां तास्तथोक्ताः । व्रीडाशब्दस्योभयलिङ्गत्वेन व्रीडस्मितेत्यपि पाठः ॥ १७ ॥
सितातपत्रं जग्राह मुक्तादामविभूषितम् ।
रत्नदण्डं गुडाकेशः प्रियः प्रियतमस्य ह ॥ १८ ॥
पदरत्नावली
गुडाका निद्रा ‘निद्रा गुडाका सम्प्रोक्ता प्रमीा मृतिरुच्यते’ इत्यभिधानम् । तस्या ईशः गुडाकेशः जितनिद्रोऽर्जुनः । इन्द्रकीलके विनिद्रो भूत्वा तप्ततपाः पुशुपतेरेतन्नाम लब्धवान् । गुडवद्रक्तकेशो वा । दीर्धस्तु छान्दसः । मुक्तादामविभूषितं मौक्तिकमालालङ्कृतप्रान्त-मण्डलम् । रत्नखचितदण्डम् । सितातपत्रं श्वेतच्छत्रं जग्राहेत्यन्वयः । हरेरात्मादेरतिशयेन प्रियत्वं ‘तदेतत्प्रेयः’ इत्यादिश्रुतिप्रसिद्धं हशब्देनाह । अर्जुनस्य कैङ्कर्यातिशयदर्शी वा । स्वसारथ्यकरण-लक्षणापराधपरिहारार्थो वा ॥ १८ ॥
प्रकाशिका
गुडाका निद्रा । निद्रा गुडाका सम्प्रोक्तेत्यभिधानात् । तस्या ईशो गुडाकेशः । जितनिद्र इति यावद् अर्जुनो, मुक्तादामविभूषितं मौक्तिकमालाभिरलङ्कृतम् । प्रान्तमण्डलं रत्नखचितदण्डम् । हेत्यस्य पूर्ववदेव तात्पर्यम् ॥ १८ ॥
उद्धवः सात्यकिश्चैव व्यजने परमाद्भुते ।
विकीर्यमाणैः(णः) कुसुमैः रेजे मधुपतिः पथि ॥ १९ ॥
पदरत्नावली
उद्धवसात्यकी च व्यजने जगृहतुरिति पूर्वेण सम्बन्धः । एवशब्दः स्वहस्ताभ्यामेव जगृहतुः, न वाचोक्त्वाऽन्याभ्यां स्वदासाभ्यामित्यस्मिन्नर्थे । मधूनां यादवगोत्रविशेषाणां पतिः । मुक्ताधीशो वा । कुसुमैः, कुरुकुलपुरन्ध्रीकरकमलमुक्तैरिति शेषः । पथि राजमार्गे ॥ १९ ॥
प्रकाशिका
व्यजने चामरे जग्रहतुः । एवकारेणालस्यदिना ग्रहणायोगो व्यवच्छिद्यते । मधूनां यादवविशेषाणां पतिः कृष्णः ॥ १९ ॥
अश्रूयन्ताशिषः सत्यास्तत्र तत्र द्विजेरिताः ।
नानुरूपानुरूपाश्च निर्गुणस्य गुणात्मनः ॥ २० ॥
तात्पर्यम्—पालनानुग्रहजयान् गौणेऽण्डे संस्थितो हरिः ।
करोत्यसौ बहिःसंस्थो न करोतीव निर्गुणः ॥ इति पाद्मे ॥ २० ॥
पदरत्नावली
कुरुपुरे तत्र तत्र तत्तन्मार्गे द्विजवरसुखनिःसृताः ‘दुष्टान् जहि जहि । साधून् पालय पालय । अस्माननुगृहाणे’त्यादिका आशिषः शुभवाक्यप्रबन्धा अश्रूयन्तेत्यन्वयः । कीदृश्य ? सत्या यथार्थविषयाः । निर्गुणस्य सत्वादिगुणप्रवृत्त्युदासीनस्य अण्डाद्बहिःस्थितस्य नानुरूपा अननुकूला इव । सत्वादिगुणकार्याण्डे स्थित्वा सत्वादिगुणान् आतयति सततं प्रवर्तयतीति गुणात्मा । ‘अत सतत्यगमन’ इति धातोर् उणादिप्रत्ययनिमित्तमेतद्रूपम् । तस्य पालनादिकर्तुर् अनुरूपाः पालनानुग्रहादिगुणात्मनो वा । चशब्दः समुच्चये । इवार्थे वा ॥ २० ॥
प्रकाशिका
सत्या अव्यभिचरितार्थाः । नानुरूपाश्चता अनुरूपाश्चेत्यत्रोभयत्र क्रमेण हेतु-प्रदर्शनाय निर्गुणस्य गुणात्मन इति विशेषणद्वयमुक्तम् । तत्र निर्गुणत्वं गुणात्मकत्वं च विरुद्धं तत्रोभयत्र हेतुश्च कथमित्यतोऽत्र विवक्षितं निर्गुणत्वं गुणात्मकत्वं च प्रमाणेनैव दर्शयन् हेतुहेतुमद्भावमुप-पादयितुमाह- पालनेति ॥ शिष्टानां पालनानुग्रहौ । दुष्टानां जयमिति विवेकः । गौणे परम्परया सत्त्वादिगुणकार्ये । अनेन गुणकार्यत्वाद्गुणमण्डमाप्नोतीत्यर्थकस्य गुणात्मपदस्य तात्पर्यमुक्तमिति ज्ञातव्यम् । ब्रह्माण्डाद्वहिःस्थितहरिरत एव निर्गुणो निर्गुणशब्दवाच्यः । अनेन गुणादण्डान्निर्गतो बहिर्गत इति निर्गुणशब्दनिर्वचनं सूचितम् । न करोति, पालनानुग्रहजयानिति वर्तते । अण्डान्तर्बहिः-स्थितयोरत्यन्ताभेदेऽपि विशेषबलादियमुक्तिरिति सूचनाय इवशब्दः । ततः किमित्यतो हेतुहेतुमद्भाव-मुपपादयति- अत इति ॥ यत एवमण्डान्तस्त एव पालनादिकं करोति । न तद्वहिर्गतोऽतो निगुणस्य नानुरूपा गुणात्मनोऽनुरूपाश्चेति वचनं युक्तमिति शेषः । ततश्चायं श्लोकार्थः । द्विजेरिता आशिषः शिष्टान्पालय अस्माननुग्रहाण दुष्टान् जयेत्यादिरूपाः कथं भूताः । निर्गुणस्य गुणात्मनः कृष्णस्य नानुरूपानुरूपाश्च । गुणात्मनो गुणं सत्त्वादिगुणकार्यं ब्रह्माण्डमाप्नोतीति गुणात्मा । गुणान्तस्थ इति यावत् । तस्यानुरूपा योग्यास्तेन पालनादीनां करणात् । निर्गुणस्याण्डाद् बर्हिर्गतस्य नानारुपास्तेन पालनादीनामकरणादिति ॥ २० ॥
अन्योन्यमासीत्सञ्जल्प उत्तमश्लोकचेतसाम् ।
कौरवेन्द्रपुरस्त्रीणां सर्वश्रुतिमनोहरः ॥ २१ ॥
पदरत्नावली
न केवलं कुरुकुलस्त्रियो हरौ पुष्पावकिरणमकुर्वन्, किन्तु तत्स्तुतिमपीति भावेनाह- अन्योन्यमिति ॥ उत्तमश्लोकचेतसां कौरवेन्द्रपुरस्त्रीणां सर्वश्रुतीनां वेदाभिमानिनीनां देवतानां मनोहरः । सर्वेषां जन्तूनां श्रुतीः श्रवणानि मनांसि च हरतीति वा । परस्परं सञ्जल्पः स्तुतिलक्षणः संल्लाप आसीदित्येकान्वयः ॥ २१ ॥
प्रकाशिका
सर्वेषां या श्रुतयः श्रोत्राणि तासां मनोहर इत्यर्थः । सर्वासां श्रुतीनां वेदाभिमानिदेवतानां मनोहर इति वा । वेदाभिमानिन्यस्तं जल्पमभ्यनन्दन्निति भावः ॥ २१ ॥
स्त्रिय ऊचुः—
स वै किलायं पुरुषः पुरातनो य एक आसीदविशेष आत्मनि ।
अग्रे गुणेभ्यो जगदात्मानीश्वरे निमीलितात्मा निशि सुप्तशक्तिषु ॥ २२ ॥
तात्पर्यम्
सत्त्वादिशक्तिषु ॥ २२ ॥
पदरत्नावली
कोऽसाविति तत्राह- स वा इति ॥ हर्यपेक्षया अप्रधानत्वाद् गुणशब्दवाच्येभ्यो महदादितत्वेभ्योऽग्रे निशि महाप्रलये सुप्तशक्तिषु शक्यत्वात्तदधीनत्वाच्छक्तिशब्दवाच्यासु सत्वादि-गुणाभिमानिनीषु श्रीभूदुर्गासु सुप्तासु जगद्व्यापारान् विहाय हरौ रममाणासु सतीषु य एकः प्रधानः जगदात्मनि जगदादानकर्तरि जगत्संहर्तरि न विशेषो ऽधिकः यस्मात् सो ऽविशेषः । तस्मिन् ईश्वरे ईशनादिशक्तिमति ‘सः भगवः कस्मिन्प्रतिष्ठितः’ इति श्रुतेः स्वरूपाधारे स्थितः । निमीलितात्मा ‘तुच्छ्यनाभ्वपिहितं यदासीदि’ति श्रुतेर् गुणतोऽल्पतया तमआदिरूपतया प्रकृत्या निगूहित आसीत् । स पुरातनः पुरुषो विष्णुर् अयं कृष्णः किल परमार्थः सत्यं वै । नानयोः कश्चिद्विशेष इत्यन्वयः
॥ २२ ॥
प्रकाशिका
श्रीकृष्णे तेजःसौन्दर्याद्यतिशयदर्शनेन विस्मिताः काश्चित्स्त्रियः प्रति ज्ञानाधिका अन्या स्त्रियोऽयं साक्षाच्छ्रीनारायणावतारोऽतोऽस्मिन्न विस्मयःकार्य इत्याशयेन कथयन्ति- स वा इत्यादिना ॥ वैशब्दोऽवधारणे । किलेति प्रमाणप्रसिद्धिद्योतकः । अयं कृष्णः स पुरातनोऽनादिकालीनः पुरुषो विष्णुरेव । स कः । य एकः प्रधानः । न विद्यते विशेषोऽतिशयो यस्मात्सोऽविशेषस्तस्मिन् जगत्कार्यजातमादत्ते संहरतीति जगदात्मा तस्मिन् जगत्संहारके ईश्वरे ईशनादिशक्तिमत्यात्मनि स्वस्वरूपे आसीत् । स्वाश्रित एवासीदित्यर्थः । कथंभूतः । निमीलितात्मा प्रकृत्याख्यतमसा गूहितस्वरूपः सन् । शरीरवाचिन आत्मशब्दस्य तदवयवलक्षकत्वेन निमीलिताक्षः सन्निति वा । अक्ष्णोर्निमेषणं कृत्वा यः शेते क्षीरसागर इति प्रमाणानुसारेणान्यत्राचार्यैस्तथा व्याख्यातत्वात् । कदा । निशि महाप्रलये सुप्तसु शक्तिषु सतीषु गुणेभ्य आदिकार्येभ्य सत्वादिभ्योऽग्रे प्रलयानन्तरम् आदिकार्योत्पत्तेः पूर्वमिति यावत् । अत्र शक्तिशब्देन स्वरूपशक्तयो न ग्राह्यास्तासां सुप्त्यसम्भवात् । अत एव श्रीभूदुर्गाणां न ग्रहणम् । अतोऽत्र विवक्षितं शक्तिशब्दार्थं दर्शयति- सत्त्वादिशक्तिष्विति ॥ सत्त्वादिरूपासु शक्तिष्वित्यर्थः । तथा च शक्यत्वाच्छक्तय इति व्युत्पत्त्या प्रकृतिरूपाः सत्त्वादिगुणा एव शक्तयस्तेषां च सुप्तत्वं परिणामोन्मुखत्वाभाव एवेति ज्ञातव्यम् ॥ २२ ॥
स एव भूयो निजवीर्यचोदितां स्वजीवमायां प्रकृतिं सिसृक्षतीम् ।
अनामरूपात्मनि रूपनामनी विधित्समानोऽनुससार शास्तिकृत् ॥ २३ ॥
तात्पर्यम्
श्रीर्भूर्दुर्गेति या भिन्ना जीवमाया महात्मनः । आत्ममाया तदिच्छा स्याद् गुणमाया जडात्मिका ॥ इति महासंहितायाम् ॥ अप्रसिद्धेस्तद्गुणानामनामासौ प्रकीर्तितः । अप्राकृतत्वाद् रूपस्याप्यरूपोऽसावुदीर्यते ॥ इति वासुदेवाध्यात्मे ॥ २३ ॥
पदरत्नावली
स परमपुरुष एव भूयः पुनः सृष्टिदशायां स्वजीवमायां प्रकृतिं स्वभार्यां महालक्ष्मीम् अनुससार । तस्यां वीर्यमाधादित्यन्वयः । कथंभूतां ? निजवीर्यचोदितां स्वसामार्थ्येन प्रेरितां सिसृक्षतीं सृष्टीच्छावतीम् । कथंभूत सः ? अप्रसिद्धगुणत्वाद् अप्राकृतरूपत्वाच्च अनामरूपात्मनि स्वास्मिन्नाधारे रूपनामानी विधित्समानः रूपनामात्मकं प्रपञ्चं स्त्रष्टुमिच्छन् शास्तिकृत् सकल-नियमनकर्ता । य एवंविधः सः हरिरयं कृष्णः किलेत्यन्वयशेषः ॥ २३ ॥
प्रकाशिका
एवं श्रीकृष्णस्य प्रलयकालस्थितेश्वराभेदमुक्त्वेदानीं सृष्टिकाले जगत्स्रष्टा चाय-मित्याशयेनाहुः- स एवेति ॥ अत्र स्वजीवमायां स्वस्वरूपभूतजीवमोहिनीं जडप्रकृतिमिति व्याख्यानमयुक्तम् । जीवानां ब्रह्माभेदस्य जडे सिसृक्षायाश्च प्रमाणबाधितत्वादतोऽत्र विवक्षितं जीवमायाशब्दार्थं प्रमाणेनैव दर्शयति- श्रीभूदुर्गेति ॥ या प्रकृतिशब्दवाच्या रमा भिन्नाऽनेकरूपा । सत्त्वादिगुणाभिमानित्वेनेति शेषः । सा जीवमाया जीवमायाशब्दवाच्या । जीवबन्धिका माया जीवमायेति व्याख्यानात् । महात्मनः परमात्मनः । अधीनेति शेषः । अनेन स्वाधीनां जीवबन्धिकां सत्त्वादिगुणाभिमानित्वेन श्रीभूदुर्गारूपां प्रकृतिं रमामिति मूलव्याख्यानं सूचयति । आत्ममायया आत्मशब्दविशेषितमाया यत्र श्रूयते तत्रात्मभूता मायेति व्याख्यानेन तत्स्वरूपेच्छैव वाच्या स्यादित्यर्थः। गुणमाया त्रिगुणात्मिका माया यत्रोच्यते तत्र जडप्रकृतिरेव मायाशब्देन ग्राह्येत्यर्थः । अनाम-रूपात्मनीत्यत्र सर्वथा नामरूपाभाव एवोच्यत इति प्रतीतिनिरासाय तात्पर्यं प्रमाणेनैव दर्शयति- अप्रसिद्धेरिति ॥ गुणानामित्युपलक्षणम् । रूपाणां कर्मणां चेत्यपि द्रष्टव्यम् । तथा च तद्गुणकर्मादीनां साकल्येन प्रतिपादयितुमशक्यत्वादनामा अशब्द इति प्रकीर्तितः । श्रुत्यादाविति शेषः । प्रशब्दः कीर्तने बाहुल्यरूपप्रकर्षवाचकः । तेन रूढोपचारोऽयमिति सूचयति ।
ततश्चायं श्लोकार्थः- यः प्रलयकालेऽवस्थितः स एव न तु विकृतशरीरादिकं प्राप्तः । भूयः पुनः, सृष्टिप्रवाहस्यानादित्वात् । प्रकृतिं चेतनामनुससार स्वेच्छानुसारेणैव जगाम । तस्यां वीर्याधानं कृतवानिति भावः । कीदृशीम् । निजवीर्यचोदितां स्वसामर्थ्येनैव प्रेरितां स्वजीवमायां स्वाधीनां जीवबन्धिकां मायां श्रीभूदुर्गात्मिकां सिसृक्षतीं स्रष्टुमिच्छन्तीम् । सर्जनोन्मुखीमिति यावत् । किं कर्तुमनुससार । अनामरूपात्मनि । उक्तरीत्या नामरूपरहितस्वाधारत्वेन रूपनामनी नामरूपात्मकं जगद्विधित्समानो विधातुं स्रष्टुमिच्छन् । नन्वेतावतैव कथं सृष्टिरित्यत उक्तम्- शास्तिकृदिति ॥ कालकर्मादिसकल-कारणनियमनकर्ता । एवं विधो हरिरयं किलेत्यन्वयः ॥ २३ ॥
स वा अयं यत्पदमत्र सूरयो जितेन्द्रिया निर्जितमातरिश्वनः ।
पश्यन्ति भक्त्युत्कलितामलात्मना न त्वेष सत्वं परिमार्ष्टुमर्हति ॥ २४ ॥
पदरत्नावली
अत्र कर्मभूमौ जितेन्द्रियाः प्राणायमेन निर्जितमातरिश्वनः वशीकृतप्राणाः सूरयः भवत्या उत्कलितेन विकसितेन अत्कण्ठितेन वा अमलेन रागादिमलरहितेनात्मना स्वरूपान्तःकरणेन यत्पदं यस्य स्वरूपं पश्यन्ति स वा अयं कृष्णः किलेत्यन्वयः । एष कृष्णः सात्मिकानामनुग्राहकः । अस्माकं सत्वं स्वविषयकं ज्ञानं परिमार्ष्टुं नाशयितुं नार्हन्ति । परिपूर्वो मार्ष्टिर् वर्जनार्थे वर्तते । नन्वित्यनेन ‘अपपरी वर्जने’ इति सूत्रं प्रमाणयति । नन्विति पाठे सुगमः । कर्मणान्तःकरणशुद्धिः किं न स्यादिति तत्राह- न न्विति ॥ एषः कर्मणा सत्वम् अन्तःकरणं परितः सर्वतः मार्ष्टुं शोधयितुं नार्हति । किन्तु भक्त्या श्रवणाद्युपसंस्कृतया यावदन्तःकरणं शुध्यति तावन्न कर्मणेति भावः ॥ २४ ॥
प्रकाशिका
मोक्षार्थं ज्ञेयोऽप्ययमेवेत्याहुः- स वा इति ॥ अत्राधिकार्यनधिकारिवर्गे यत्पदं यस्य स्वरूपं निर्जितो मातरिश्वा प्राणो यैस्ते तथा । ह्रस्वच्छान्दसः । केन करणेन भक्त्योत्कलितः विकसितोऽमलो रागादिदोषरहित आत्मा मनस्तेन । मनोनैर्मल्यस्याप्ययमेव हेतुरित्याह । एष एव सत्त्वमन्तःकरणं परिमार्ष्टुं सम्यक् शोधयितुमर्हति ननु । तस्मादस्माकमपि सत्त्वं शुद्धं कृत्वा स्वदर्शनं प्रयच्छतीत्याशयः । न त्विति पाठे तु विशेषाकारेण सत्त्वं ज्ञानम् । सम्यग्ज्ञानमिति यावत् । परिमार्ष्टुं दूरगमनेन नाशयितुं नार्हति । एतादृशमेव ज्ञानमस्माकं निरन्तरं भवत्वित्याशयः । यद्वा । सत्त्वं स्वदर्शनं परिमार्ष्टुं दूरगमनेन नाशयितुं न तु नैवार्हति । निरन्तरमेतद्दर्शनार्थमस्माभिरप्यनेन सहैव गन्तव्यमित्याशय इत्यप्याहुः ॥ २४ ॥
स वा अयं सव्यनुगीतसत्कथो वेदेषु गुह्येषु च वेदवादिभिः ।
य एक ईशो जगदात्मलीलया सृजत्यवत्यत्ति न तत्र सञ्जते ॥ २५ ॥
पदरत्नावली
यो वेदवादिभिर् अनन्तवेदेषु गुह्येषु उपनिषत्सु च अनुगीतसत्कथः निरन्तरोदित-सच्चरितः यश्चैक एव ईशः यश्चात्मलीलया जगत्सृजति, सृष्टमवति तत्तद्योग्यकर्मफलभुक्तये, अत्ति संहरति, यश्च जगति न सज्जते, आप्तकामत्वात् फलं नादित्सती, हे सखि स वा अयं कृष्ण इत्येकान्वयः । गुह्यवादिभिरिति पाठे उपनिषद्विचारकुशलैरित्यर्थः ॥ २५ ॥
प्रकाशिका
सर्ववेदवेद्योऽप्ययमेवेत्याहुः- स वा अयमिति ॥ हे सखि । गुह्येषूपनिष-त्स्वनुगीतसत्कथोऽन्वनु प्रतिदिनं गीताः कीर्तिताः सत्यः कथाश्चरित्राणि यस्य स तथा । गुह्यवादिभि-रिति पाठे रहस्यनिरूपकैः । गानप्रकारमेवाह- य एक इत्यादि ॥ अत इति शब्दोऽध्याहारार्थः॥२५॥
यदा ह्यधर्मेण तमोऽधिका नृपा जीवन्ति तत्रै(व)ष हि सात्वतः किल ।
धर्मं भगं सत्यमृतं दयां यशो भवाय रूपाणि दधद्युगे युगे ॥ २६ ॥
तात्पर्यम्
**सात्त्विकानामनुग्राहकः । अगुणोऽपि परो देवो ह्यनुगृह्णाति सात्त्विकान् । देवांस्तु मानवान् मध्यानुपेक्ष्य क्लेश्यतेऽसुरान् ॥ इति ब्रह्मदर्शने । **
‘सात्त्वतः सात्त्विकस्नेहात् सत्त्वो ह्यानन्दरूपतः’ इति ब्रह्मवैवर्ते ।
धारकत्वाद्धर्मरूपो ह्यैश्वर्यादेर्भगो ह्यसौ । सत्य आनन्दरूपत्वादृतो ज्ञानस्वरूपतः ॥
यशो ह्यलं प्रसिद्धत्वाद् दया हि करुणाकरः ॥ इति तन्त्रभागवते ।
एवं गुणस्वरूपाणि दधद्युगे युगे ॥ २६ ॥
पदरत्नावली
तमोऽधिकास् तामसा असुरप्रकृतयः नृपा अधर्मेण धर्मविरुद्धेन श्रुतिस्मृत्य-विहितप्राणिहिंसादिकर्मणा यदा जीवन्ति स्वशरीरयात्रां कुवन्ति तत्र तदा एषः हरिः सात्वतः सात्विकान् देवादीननुगृह्णन् धर्मादिनामवन्ति रूपाणि युगे युगे दधद् दधानो वर्तते इति शेषः । वराहमत्स्यादिरूपस्य भूम्युद्धरणकर्मणा धर्माख्या । कपिलादेरणिमाद्यष्टैश्वर्ययोगात् षड्गुणपूर्णत्वाद् भगाख्या । कल्क्यादेस् तमोविनाश्यसत्वगुणमभिसंबध्यानन्तगुणाभिव्यञ्जकतया विशेषानन्दरूपत्वात् सत्याख्या । व्यासादेर् ज्ञानप्रवर्तकत्वेन ज्ञानविशिष्टत्वाद् ऋताख्या । किमर्थं ? भवाय चरणप्रणत-जनाभिवृद्धये । तस्मादिदानीम् अधर्मप्रवर्तकान् जरासुतादीन् निगृह्णन् देवावतारान् युधिष्ठिरादीन् अनुगृह्णन् कृष्णात्मनाऽत्रावतीर्णः किलेत्यर्थः ॥ २६ ॥
प्रकाशिका
दुष्टजनसंहाराय नानावतारकर्ताऽप्ययमेवेत्याहुः- यदा इति ॥ अत्र सात्त्वतशब्देन सत्त्वगुणसम्बन्धीति प्रतीतिनिवारणाय प्रकृतसङ्गतत्वेन व्याख्याति- सात्त्विकानामिति ॥ अनुग्राहक इत्यनन्तरं सात्त्वत इति शेषः । सत्त्वगुणसम्बन्धीत्येवार्थः किं न स्यादित्यतोऽत्र बाधकं प्रमाणमाह- अगुणोऽपीति ॥ सत्त्वादिगुणशून्योऽपीत्यर्थः । हीत्यनेन तस्य स्वभाव एव तादृश इति दर्शयति । क्लेश्यते क्लेशयुक्तान्करोति । एतेनेश्वरस्य सुरासुरानुग्रहनिग्रहकारित्वे वैषम्याद्यापत्तिरित्यपि निरस्तम् । एतादृशवैषम्यस्य तत्स्वभावत्वात् । अनेन मूले भवायेति प्रयोजनकथनमुपलक्षणमिति सूचयति । मध्यमानामुपेक्षणायासुराणामन्धे तमसि क्लेशायेत्यपि ग्राह्यम् । सात्त्वतशब्दस्योक्तार्थत्वे प्रमाणमाप्याह- सात्त्वत इति ॥ स्नेहादनुग्रहात् । हीत्यनेन प्रमाणप्रसिद्धिं दर्शयति । रूपग्रहणमात्रेण कथं भक्तानां भद्रं करोतीत्यपेक्षायामुक्तम्- धर्ममित्यादि यश इत्यन्तम् ॥ तस्य धर्मादिप्रेरकं धर्माद्यन्तर्गतं धर्मादिनामकं रूपं दधदित्यर्थो विवक्षित इत्यग्रे वक्ष्यति । तत्र धर्माद्यन्तर्गतस्य हरेर् धर्मादिशब्दवाच्यत्वे प्रवृत्तिनिमित्तानि प्रमाणेनैव दर्शयति- धारकत्वादिति ॥ ऐश्वर्यादेरित्यत्रादिपदेन वीर्यादेर्ग्रहणम् । धर्मरूपो धर्मशब्दवाच्य इत्यर्थः । एवमेव भग इत्यादिकं व्याख्येयम् । हि यस्मात्करुणाकरस्तस्माद्दया-शब्दवाच्य इत्यर्थः । उक्तनिमित्तानां प्रामाणिकत्वं वक्तुं हिशब्दः । धर्ममित्यदिनां रूपाणीत्यनेनान्वया-सम्भवाद्योजनामाह- एवंविधेति ॥ एवं विधगुणाख्यानि तत्प्रेरकाणि तदन्तर्गतानि स्वस्य रूपाणि मत्स्यादिरूपाणि च युगे युगे तत्तदवसरे दधदिति । योज्यमिति शेषः । ततश्चायमर्थः । तमोधिका-स्तामसतामसा नृपा यदाऽधर्मेण वेदाद्युक्तधर्मविरुद्धेन शैवाद्यागमोक्तमार्गेण जीवन्ति प्राणान्पुष्णन्ति । तत्र तदाऽसौ सात्त्वतः सात्त्विकानामनुग्राहको भवाय भक्तजनभद्राय मध्यमानामुपेक्षणाय असुराणां क्लेशाय च धर्मं धारकत्वाद्धर्मनामकं धर्मरूपगुणप्रेरकं धर्मान्तर्गतम् । भगमैश्वर्यादिगुणात्मकत्वे न भगशब्दवाच्यं तदन्तर्गतं तत्प्रेरकम् । सत्यमानन्दरूपत्वेन सत्यशब्दवाच्यं तदन्तर्गतं तत्प्रेरकम् । ऋतं ज्ञानरूपत्वादृतं तच्छब्दवाच्यं तदन्तर्गतं तत्प्रेरकम् । दया कृपानिधित्वाद्दयाशब्दवाच्यं तदन्तर्गतं तत्प्रेरकम् । यशोऽतिप्रसिद्धत्वाद्यशःशब्दवाच्यं तदन्तर्गतं तत्प्रेरकं रूपं स्वस्य रूपाणि मत्स्यादीनि च युगे युगे दधानो य एष हरिः स एवायमिति ॥ २६ ॥
अहो अलं श्लाघ्यतमं यदोः कुलं त्वहो अलं पुण्यतमं मधोर्वनम् ।
यदेष पुंसामृषयः प्रियश्रवाः स्वजन्मना चङ्क्रमणेन चाञ्जति ॥ २७ ॥
पदरत्नावली
प्रियश्रवा मनोहरकीर्तिः । पुंसामृषभः पुरुषोत्तम एषः कृष्णः । यदोर् अतिश्लाघ्यं स्तुत्यम् । मधुवनञ्च अलम् अत्यर्थम् अतिशयेन पुण्यम् । अहो अहो आश्चर्यादाश्चर्यम् । चशब्दः समुच्चये ॥ २७ ॥
प्रकाशिका
एवं मूलरूपस्तुत्या तदभिन्नं कृष्णं स्तुत्वेदानीं श्रीकृष्णमेव स्तुवन्ति पञ्चभिः- अहो इति ॥ मधोर्वनं मधुराऽलमत्यर्थमतिशयेन पुण्यमहो आश्चर्यादप्याश्चर्यम् । यद्यस्मादेषः कृष्णः पुंसामृषभः पुरुषोत्तमः प्रियश्रवा मनोहरकीर्तिः । स्वस्य जन्मना यदोः कुलमञ्चति पूजयति । पूजितं करोतीति यावत् । अतस्तदलं श्लाघ्यतममहो । चङ्क्रमणेन च पादन्यासेन च, न केवलं स्वजन्मना । मधोर्वनञ्चति अतस्तदलं पुण्यतममहो इति योज्यम् ॥ २७ ॥
अहो बत स्वर्यशसस्तिरस्करी कुशस्थली पुण्ययशस्करी भुवः ।
पश्यन्ति नित्यं यदनुग्रहेक्षितस्मितावलोकं स्वपतिं स्म यत्प्रजाः ॥ २८ ॥
पदरत्नावली
अनुग्रह इति तादर्थ्ये सप्तमी । भक्तानुग्रहार्थं क्षितम् उषितं मुखे स्थितं यत् स्मितं तेन युक्तो ऽवलोको यस्य सस् तथोक्तस् तम् । ‘क्षि निवासगत्यो’रिति धातुः । भक्तेष्वनुग्रहेण यदीक्षितं, गोपवधूरुद्दिश्य यः स्मितयुक्तोऽवलोकश्च यस्य स तथोक्तस् तं वा । स्वपतिं स्वस्वामिनं श्रीकृष्णं यत्प्रजा यत्रत्याः प्रजा नित्यं पश्यन्तीति यद्यस्मात् तस्मात् कुशस्थली द्वारावती स्वर्यशसस् तिरस्करी स्वर्गकीर्तिनिरासिनीभुवः पुण्ययशस्करी चेत्यन्वयः । ‘तदैक्षते’ति ईक्षणव्यपदेशाद् ईक्षितम् इच्छा । भक्तानुग्रहेच्छया सहितौ स्तितावलोकौ यस्य स तथा तमिति वा ॥ २८ ॥
प्रकाशिका
अहो बत आश्चर्यम् । स्वर्यशसः स्वर्ग उत्कृष्ट इति यद् यशस् तस्य तिरस्करी परिभवकर्त्री च कुशस्थली द्वारका भुवः भूलोकस्य पुण्ययशःकर्त्री च । स्म यद्यस्माद्यत्प्रजा यस्यां द्वारकायां विद्यमानाः प्रजाः स्वपतिं श्रीकृष्णं नित्यं पश्यन्ति स्म । नैवं स्वर्गस्थाः । अत इति शेषः । कथं भूतं स्वपतिम् । अनुग्रहेक्षितस्मितावलोकं भक्तेष्वनुग्रहेणेक्षितं निरीक्षणं यस्य स तथा । स्मितेनाश्चयर्ेेण मन्दहासेनावलोको भक्तानां यस्मिन्स तथा । अनुग्रहेक्षितश्चासौ स्मितावलोकश्च तम् । अनुग्रहार्थमीक्षितो भक्तैः प्रतीक्षितः स्मितावलोको मन्दस्मितपूर्वकनिरीक्षणं यस्य स तथा तमिति वा
॥ २८ ॥
नूनं व्रतस्नानहुतादिनेश्वरः समर्चितो ह्यस्य गृहीतपाणिभिः ।
पिबन्ति याः सख्यधरामृतं मुहुर् व्रजस्त्रियः सम्मुमुहुर्यदाशया ॥ २९ ॥
पदरत्नावली
अस्य श्रीकृष्णस्य पाणिना गृहीताः पाणयः यासां तास् तथा ताभिर् अस्य भार्याभिर् नूनं निश्चयेन व्रतस्नानादिना ईश्वरः पूर्वं सम्यगर्चितः सत्कृतः । तत्कृतः ? या व्रजस्त्रियः यदाशया यस्य अधरामृतमाधुर्यस्य आस्वादनेच्छया सम्यक् मुमुहुः, हे सखि, तदधरामृतं मुहुः पिबन्ति स्त्रियस् तस्मादित्येकान्वयः । हे सखि, याः स्वियो ऽस्य अधरामृतं पिबन्ति अनेन गृहीतपाणिभिस् ताभिर् नूनं व्रतादिना ईश्वरः समर्चितः । यदाशया व्रजस्त्रियो मुमुहुर् इति वान्वयः ॥ २९ ॥
प्रकाशिका
अस्यानेन । गृहीताः पाणयो हस्ता यासां तास्ताभिः पत्नीभिरीश्वरोऽयमेव नूनं जन्मान्तरेषु समर्चितः । यस्याधरामृतस्य आशया पानेच्छया संमुमुहुः संमोहं प्राप्ताः । तदधरामृतं याः पिबन्ति ताभिर्गृहीतपाणिभिरिति सम्बन्धः ॥ २९ ॥
या वीर्यशुल्केन हृताः स्वयंवरे प्रमथ्य चैद्यप्रमुखान्विशुष्मिणः ।
प्रद्युम्नसाम्बप्रमुखात्मजाः परा याश्च हृता भौमवधे सहस्त्रशः ॥ ३० ॥
पदरत्नावली
ताः का इति तत्राह- या इति ॥ विशुष्मिणः विशिष्टबलाच् चैद्यप्रमुखान् शिशुपालादीन् प्रमथ्य विलोड्य पराजित्य स्वयंवरे वीर्यमेव शुल्कम् उत्कोचं तेन याः स्त्रियः हृता आनीतास् ताः । प्रद्युम्नश्च साम्बश्च तौ प्रमुखौ येषां ते तथा प्रद्युम्नसाम्बप्रमुखाः । ते आत्मजा यासां तास् तथोक्ता रुग्मिण्याद्याः । याश्च परा अपराः सहस्त्रशः कशेर्वादिशतोत्तरषोडशसहस्त्रसंख्या भौमवधे आहृताः ॥ ३० ॥
प्रकाशिका
कास्ता इत्यतस्ता दर्शयितुं श्लोकद्वयम् । विशुष्मिणो विशिष्टबलान्प्रमथ्य पराजित्य । वीर्यं प्रभाव एव शुल्कं मौल्यं तेन । प्रद्युम्नश्च साम्बश्च तौ प्रमुखौ येषां ते तथा । प्रद्युम्नसाम्बप्रमुखा आत्मजा यासां तास्तथोक्ता रुक्मिण्याद्याः परा अपराश्च । ताः का या भौमवधे सति नरकवधानन्तरं सहस्रशः शतोत्तरषोडशसहस्रसङ्ख्याकाः कशेर्वाद्या आहृता द्वारकां प्रति प्रेषिताः । अस्य श्लोकस्योत्तरेण पूर्णेणवान्वयः ॥ ३० ॥
एताः पुरा स्त्रीत्वमवाप्तये समं निरस्तशोकं बत साधु कुर्वते ।
यासां गृहात्पुष्करलोचनः पतिर् न जात्वपैत्याकृतिभिर् हृदि स्पृशन् ॥ ३१ ॥
तात्पर्यम्
अग्निपुत्रा महात्मानस्तपसा स्त्रीत्वमापिरे । भर्तारं च जगद्योनिं वासुदेवमजं विभुम् ॥ इति महाकौर्मे ॥ ३१ ॥
पदरत्नावली
एताः पुरा अग्निपुत्रत्वे कृष्णभार्यात्वाय स्त्रीत्वम् अवाप्तये आप्तुं समं संभूय साधु शोभनं तपआख्यं कुर्वते अकुर्वत । बत हर्षे । निरस्तशोकमिति क्रियाविशेषणम् । साधुविशेषणं वा । कुतः ? पुष्करलोचनः पुण्डरीकाक्षः पतिर् आकृतिभिर् आकारैश् चेष्टाविशेषैर् हृदि स्पृशन् यासां गृहाज् जातु कदाचिदपि नापैति यस्मात् तस्मादित्यन्वयः ॥ ३१ ॥
प्रकाशिका
पुरा पूर्वजन्मनि । अत्र स्त्रीत्वमवाप्ता इत्युक्त्या पुरा पुरुषा इति सूचितम् । ते के पुरुषा इत्यपेक्षायां श्लोकतात्पर्यं प्रमाणेनाह- अग्नीति ॥ निरस्तशोकं यथा स्यात्तथा । समं सम्भूय साधु शोभनं तप आख्यं कर्म कुर्वतेऽकुर्वत । बत हर्षे । कुतः । यतः पुष्करलोचनः पुण्डरीकाक्षः । पतिः कृष्ण आकृतिभिः समीचीनचेष्टाभिरवयवैर्वा हृदि स्पृशन् सन्मनोहरः सन् यासां गृहद्गृहेभ्यो जातु कदाचिदपि नापैति ॥ ३१ ॥
सूत उवाच—
एवंविधा गदन्तीनां स गिरः पुण्ययोषिताम् ।
निरीक्षणेनाभिनन्दन्सस्मितेन ययौ हरिः ॥ ३२ ॥
प्रकाशिका
एवंविधा विचित्रा गिरः । स हरिः ॥ ३२ ॥
अजातशत्रुः पृतनां गोपीथाय मधुद्विषः ।
परेभ्यः शङ्कितः स्नेहात् प्रायुंक्त चतुरङ्गिणीम् ॥ ३३ ॥
तात्पर्यम्
स्नेहमात्रात् ॥ ३३ ॥
पदरत्नावली
परेभ्यः शत्रुभ्यः । गोपीथाय रक्षणाय । चतुरङ्गिणीं हस्त्यश्वरथपादातवतीम् । पृतनां सेन स्नेहात् स्नेहमात्रात् । तदानीं माहात्म्यज्ञानं नास्तीति भावः ॥ ३३ ॥
प्रकाशिका
पृतनां सेनाम् । गोपीथाय रक्षणाय । परेभ्यः शत्रुभ्यः शङ्कितः सन् । कथंभूतां पृतनाम् । ‘हस्त्यश्वरथपादातं सेनाङ्गं स्याच्चतुर्विधम्’इति वचनोक्तचतुरङ्गिणीम् । अत्र स्नेहादिति स्नेहशब्देन भक्तिग्रहणे माहात्म्यज्ञानवतः शङ्काया असम्भवाद्व्याख्याति- स्नेहमात्रादिति ॥ तथा च न भक्तिरत्र विवक्षितेति भावः ॥ ३३ ॥
अथ दूरागताञ्शौरिः कौरवान्विदुरान्वितान् ।
सन्निवर्त्य दृढं स्निग्धान्प्रायात्स्वनगरीं प्रियैः ॥ ३४ ॥
पदरत्नावली
स्वनगरीं द्वारावतीम् । प्रियैः पुरुषैः सह ॥ ३४ ॥
प्रकाशिका
प्रियैरुद्धवादिभिः सह ॥ ३४ ॥
कुरुजाङ्गलपाञ्चालान् शूरसेनान् सयामुनान् ।
ब्रह्मावर्तं कुरुक्षेत्रं मत्स्यान्सारस्वतानथ ॥ ३५ ॥
मरुधन्वमतिक्रम्य सौवीराभीरसैन्धवान् ।
आनर्तान्भार्गवोपागाच्छ्रान्तवाहो मनाग्विभुः ॥ ३६ ॥
पदरत्नावली
हे भार्गव शौनक । कुरुजाङ्गलप्रभृत्येकादशदेशानतिक्रम्य मनाक् ईषत् श्रान्ताश्वः विभुर् आनर्तान् स्वाधिकृतान् देशान् उपागादित्यन्वयः ॥ ३५,३६ ॥
प्रकाशिका
कुरुक्षेत्रं कुरुदेशान्तर्गतमेव । क्रमोऽत्र न विवक्षितः ॥ मरुर्निरुदको देशो धन्वोऽल्पोदक आनर्ताख्यो द्वारकादेशः । हे भार्गव शौनक । आनर्तान्द्वारकादेशान् । मनागीषच्छ्रान्ता वाहा अश्वा यस्य स तथा ॥ ३५,३६ ॥
तत्र तत्र च तत्रत्यैर्हरिः प्रत्युद्यतार्हणः ।
सायं भेजे दिशं पश्चाद्रविष्ठो गां गतस्तदा ॥ ३७ ॥
तात्पर्यम्
गविष्ठ आदित्यः । ‘असौ वाव गविष्ठोऽप्सूदेत्यप्स्वस्तमेति’ इति माध्यन्दिनायन श्रुतिः ॥ ३७ ॥
पदरत्नावली
यदा हरिः सायं सन्ध्यासमये पश्चाद्दिशं पश्चिमां दिशं भेजे । कथंभूतं ? तत्र तत्र च स्वराष्ट्रे प्रतिपदं तत्रत्यैर् जनैः प्रत्युद्यतार्हणः प्रदत्तप्रभूतधनस् तदा गविष्ठः दिवि स्थित आदित्यः गां समुद्रोदकं गतो ऽस्तंगत इत्यर्थः । ‘असौ वा व गविष्ठोऽप्सूदेत्यप्स्वस्तमेती’ति श्रुतेः ॥ ३७ ॥
प्रकाशिका
तत्र तत्र देशे तत्रत्यैर्जनैः प्रत्युद्यतानि प्रत्याहृतान्यर्हणानि पूजासाधनानि यस्मै स तथा । सायं सायङ्काले पश्चाद्दिशं पश्चिमां दिशं भेजे प्राप्तः । तदा गविष्ठो गां गतः । अत्र गविष्ठ- शब्दार्थं दर्शयति- गविष्ठ इति ॥ गवि दिवि समुद्रजले वा तिष्ठतीति योगेनेति भावः । अलुक् समासोऽयम् । युधिष्ठिर इतिवत् । गविष्ठशब्दस्यादित्ये श्रौतमपि प्रयोगं दर्शयति- असाविति ॥ अप्सूदयास्तमयकथनं पूर्वपश्चिमसमुद्रतीरवासिभिर्जनैस्तथा दृश्यमानत्वाद्दर्शनभाषामाश्रित्येति ज्ञातव्यम् । ‘रश्मीनामविशेषेऽपि ह्यन्यदृष्टिव्यपेक्षया सूर्यस्य मण्डलं यान्तीत्युच्यन्ते तददर्शनात्’ इति प्रमाणेन यथा गार्ग्यमरीचयोऽर्कस्यास्तं गच्छतः सर्वा एतस्मिंस्तेजोमण्डले एकीभवन्तीत्यादिश्रुतिव्याख्यानवत् । अत्रोदयेऽस्तमयेऽपि देशान्तरे पृथग्दर्शनादिनादित्यस्योदयास्तमयोरविशेषात् ‘यथोदयो रवेर्भवेत्सदोदितस्य लोकत’ इति वचनाच्च । ततश्च गविष्ठ आदित्यः पश्चिमां गां समुद्रजलं गतः प्रविष्ट इव लोकैर्दृष्टोऽस्तं गत इति यावदिति मूलं व्याख्येयमिति भावः ॥ ३७ ॥
आनर्तान्स उपव्रज्य स्वृद्धाञ्जनपदान्स्वकान् ।
दध्मौ दरवरं तेषां विषादं शमयन्निव ॥ ३८ ॥
पदरत्नावली
सः कृष्णः स्वृद्धान् सृष्टु सम्पन्नान् स्वकान् स्वकीयान् नाम्ना अनर्तान् उपगम्य दरवरं शङ्खश्रेष्ठं दध्मौ पूरयमास । तेषां विषादम् अराजकभयं शमयन् परिहरन्निवेत्यन्वयः ॥ ३८ ॥
प्रकाशिका
स्वृद्धान्समृद्धान् । दरवरं पाञ्चजन्यं शङ्खम् । दध्मौ वादितवान् । तेषाम् आनर्तवासिनां विषादं रक्षणाभावप्रयुक्तं भयम् ॥ ३८ ॥
स उच्चकाशे धवोदरो दरोप्युरुक्रमस्याधरशोणशोणिमा ।
दाध्मायमानः करकञ्जसम्पुटे यथाब्जषण्डे कलहंस उत्स्वनः ॥ ३९ ॥
पदरत्नावली
स दरः पाञ्चजन्याख्य उच्चकाशे । धवलं शुक्लम् उदरं यस्य सः धवलोदरः । अपि धवलोदरोऽपि उरुक्रमस्य श्रीकृष्णस्य अधरोष्ठस्य शोणेन रागेण शेणिमा रक्तभावो यस्य सस् तथोक्तः । दाध्मायमानः देध्मीयमानः पुनःपुनः पूर्यमाणः । करावेव कञ्जे करकञ्जे हस्तकमले तयोः सम्पुटे मध्ये, वर्तमान इति शेषः । करकञ्जसम्पुटे निधाय दाध्मायमान इति वा । तत्र दृष्टान्तो ऽब्जषण्डे कमलवने स्थित उत्स्वत उच्चध्वनिः कलहंसः राजहंसः यथा तथेत्यन्वयः ॥ ३९ ॥
प्रकाशिका
स पाञ्चजन्य उच्चकाशे शुशुभे । धवलं शुक्लमुदरं यस्य स तथा । अपि तथाऽपि उरुक्रमः श्रीकृष्णस्तस्याधरोष्ठस्य शोणेन रागेण शोणिमा रक्तिमा यस्य स तथोक्तः । दाध्मायमानः पुनः पुनर्वाद्यमानः । करावेव कञ्जे हस्यकमले तयोः सम्पुटे मध्ये । वर्तमान इति शेषः । अत्र दृष्टान्तः । अब्जषण्डे रक्तकमलसमूहे स्थित उत्स्वन उच्चध्वनिः कलहंसो राजहंसो यथा तथेति ॥३९॥
तमुपश्रुत्य निनदं जगद्भवभयापहम् ।
प्रत्युद्ययुः प्रजाः सर्वा भर्तुदर्शनलालसाः ॥ ४० ॥
पदरत्नावली
भर्तृदर्शनलालसाः श्रीकृष्णस्य दर्शनोत्सुकाः सर्वाः प्रजा जगतः भवः संसारस् तस्माद् भयम् अपहन्तीति जगद्भवभयापहस् तम् । जगद्भयभयापहम् इति पाठे जगद्भयानां दैत्यानां सकाशाद् यद्भयं तस्य नाशनस् तम् । निनदं शङ्खध्वनिं श्रुत्वा तं कृष्णं प्रत्युद्ययुरित्यन्वयः ॥ ४० ॥
प्रकाशिका
जगतो भवः संसारस्तद्भयमपहन्तीति जगद्भवभयापहस्तम् । जगद्भयभयापहमिति पाठे जगतो भयं यैस्ते जगद्भया दैत्यास्तेभ्यो यद्भयं तद्धन्तीति तथा तमित्यर्थः । प्रत्युद्ययुः प्रत्याजग्मुः। भर्तुः कृष्णस्य दर्शने लालसमौत्सुक्यं यासां तास्तथा ॥ ४० ॥
नत्वोपनीतवलयो रवेर्दिपमिवादृताः ।
आत्मारामं पूर्णकामं निजलाभेन नित्यदा ॥ ४१ ॥
प्रीत्युत्फुल्लमुखाः प्रोचुर्हर्षगद्गदया गिरा ।
पितरं सर्वसुहृदमवितारमिवार्भकाः ॥ ४२ ॥
पदरत्नावली
नित्यदा निजलाभेन स्वतो लब्धेन पूर्णकामम् अत एव आत्मन्येव अ समन्ताद् रममाणं कृष्णं नत्वा हर्षेण गद्गदया स्वलन्त्या गिरा ताः प्रजाः प्रोचुरित्यन्वयः । कीदृश्यः ? प्रीत्योत्फुल्लं विकसितं मुखे यासां तास् तथोक्ताः । उपनीतः समर्षितः वल्लिर् भागधेयः याभिस् ता तथा बलिः पूजासाधनं वा । कथमिव ? तेजःपुञ्जस्य रवेर् दीपमिव आत्मारामस्य बलिम् । दत्वेति शेषः । आदृताः परमादरयुक्ताः । अर्भका बालाः पितरमिव । कथंभूतं हरिं ? अन्नादिदानेन पातृत्वात् पितरम् । सर्वस्मादात्मादेः सुहृदम् अनिमित्तबन्धुम् । ज्ञानादिदानेन अवनकर्तृत्वाद् अवितारम् ॥ ४१,४२ ॥
प्रकाशिका
तत्र तस्मिन्कृष्णे । उपनीता आनीता बलय उपायनानि याभिस्ता आदृता आदरयुक्ता निरपेक्षेऽपि तस्मिन्नादरेण समर्पणे दृष्टान्तः- रवेर्दीपमिवेति ॥ पितरमर्भका इव । सर्वेषां सज्जनानां सुहृदमनिमित्तबन्धुम् । सुहृत्वेनैवावितारं न तु कामेन । तत्र हेतुः । आत्मारामम् । तत्रापि हेतुः । नित्यदा निजलाभेन स्वरूपभूतानन्दप्राप्त्या पूर्णकाममिति ॥ ४१,४२ ॥
नताः स्म हे(ते) नाथ सदाङ्घ्रिपङ्कजं विरिञ्चवैरिञ्चसुरेन्द्रवन्दितम् ।
परायणं क्षेममिहेच्छतां परं न यत्र कालः प्रभवेत्परप्रभुः ॥ ४३ ॥
पदरत्नावली
हे नाथ तव अङ्घ्रिपङ्कजं सदा नताः स्मेत्यन्वयः । कीदृशं ? विरिञ्च-वैरिञ्चसुरेन्द्रैश् चतुर्मुखशङ्करदेवेन्द्रैर् वन्दितम् । इह चेतनराशिमध्ये परं क्षेमं मोक्षम् इच्छतां भक्तानां परायणम् उत्तमाश्रयम् । परस्य हिरण्यगर्भस्य प्रभुः समर्थोऽपि जननमरणधर्मापादकोऽपि कालः यत्र पदारविन्दे भक्तानां न प्रभवेज् जरादिधर्मापादको न भवति । परेषाम् अभक्तानां प्रभुः कालः यत्र भक्तानां न प्रभवेद् अतस् तस्य अङ्घ्रिपङ्कजस्य न समर्थ इति किं वाच्यमिति वा ॥ ४३ ॥
प्रकाशिका
विरिञ्चो ब्रह्मा वैरिञ्चो रुद्रः सुरेन्द्रैः सुरश्रेष्ठैरिन्द्रादिभिश्च वन्दितम् । इह चेतनसमूहमध्ये परं क्षेमं मोक्षमिच्छतां भक्तानां परायणमुत्तमाश्रयम् । कुतः । परेषां संसारिणां ब्रह्मादीनां प्रभुर्जननमरणाद्यापादकः कालः यत्राङ्घ्रिपङ्कजं भक्तो न प्रभवेत् । जननादिधर्मापादने समर्थो न भवेत् ॥ ४३ ॥
भवाय नस्त्वं भव विश्वभावन त्वमेव माताऽऽत्मसुहृत्पिता पतिः ।
त्वं सद्गुरुर्नः परमञ्च दैवतं यस्यानुवृत्या कृतिनो बभूविम ॥ ४४ ॥
पदरत्नावली
हे विश्वभावन जगतः सत्तादिप्रद, त्वं नोऽस्माकं भवाय ज्ञानभवत्यादि-कल्याणाय भव । यस्य तवानुवृत्या सेवालक्षणेन अनुवर्तनेन कृतिनः सुकृतिनः बभूविम । स त्वं नः परमं दैवतम् इष्टदेवता । नः सद्गुरुर् निर्दोषगुरुस्थानीयश्च । त्वमेव माता अभीष्टदानेन । आत्मना त्वयैव नास्मत्प्रयन्तेन सुहृत् । पिता पाता । पतिः स्वामी ॥ ४४ ॥
प्रकाशिका
भो विश्वभावन सकलजगदुत्पादक । भवाय भद्राय भव । यस्यानुवृत्त्या सेवया वयं कृतिनः सुकृतिनो बभूविम सत्वमेव मातेत्यादि । आत्मना स्वेनैव सुहृत् । नास्मत्प्रयत्नेनेत्यर्थः ॥४४॥
अहो सनाथा भवता स्म यद्वयं त्रैविष्टपानामपि दूरदर्शनम् ।
प्रेमस्मितस्निग्धनिरीक्षणाननं पश्येम रूपं तव सर्वसौभगम् ॥ ४५ ॥
पदरत्नावली
हे नाथ तव रूपं पश्येमेति यद् यस्मात् तस्माद्वयं भवता सनाथाः स्म नाथवन्तो भवाम । अहो अस्मद्भाग्यमित्यन्वयः । कथंभूतं रूपं ? त्रैविष्टपानाम् इन्द्रादिदेवानामपि दूरतश् चिरकालतश् चीर्णतपःसम्पत्या दृश्यत इति दूरदर्शनम् । अनेन दर्शनसाधनसामग्य्रेवाभिप्रेता न तु दर्शनाभावः । तैः प्रार्थितत्वेन तत्कार्यार्थमवतीर्णत्वात् । दर्शनतारतम्याभिप्रायो वा । प्रेम्णा स्मितं प्रेमस्मितं स्थिग्धं निरीक्षणं मधुरावलोकनं ताभ्यां युक्तम् आननं यस्मिन् तत्तथोक्तम् । सर्वं पूर्णं सौभगं सौन्दर्यं यस्मिन् तत्तथोक्तम् ॥ ४५ ॥
प्रकाशिका
यद्यस्मात्तव रूपं पश्येम तस्माद्वयं भवता सनाथाः स्मः । अहो अस्मद्भाग्यम् । कथंभूतं रूपम् । त्रैविष्टपानां स्वर्गं सम्बन्धिनां देवानामपि दूरे दर्शनं यस्य तत् । देवैरपि न सहसा द्रष्टुं शक्यमित्यर्थः । प्रेम्णा स्मितं यस्मिन्स्निग्धं निरीक्षणं स्नेहयुक्तमवलोकनं च यस्मिन् । तथाभूतमाननं यस्मिंस्तत् । सर्वं पूर्णं सौभगं सौन्दर्यं यस्मिंस्तत् ॥ ४५ ॥
यर्ह्यम्बुजाक्षाञ्चति माधवो भवान्कुरून्मधून्वाऽथ सुहृद्दिदृक्षया ।
तत्राब्दकोटिप्रतिमः क्षणो भवेद्रविं विनाऽक्ष्णामिव नस्तवाच्युत ॥ ४६ ॥
तात्पर्यम्
कुरूणां मधूनां च नः ॥ ४६ ॥
पदरत्नावली
हे आम्बुजाक्ष अथ यर्हि यदा माधवः श्रीवल्लभः भवान् मधुविषयेभ्यः सुहृदां पाण्डवानां दिदृक्षया दर्शनेच्छया कुरून् कुरुविषयान् प्रत्यञ्चति । कुरुविषयेभ्यः मधून्वा अञ्चति गच्छति । हे अच्युत तत्र तस्याम् अवस्थायाम् । तवेति षष्ठी द्वितीयार्थे । त्वां विना कुरूणां मधूनाञ्च नोऽस्माकं यथा रवि विना अक्ष्णां तथैक क्षणकालो ऽब्दकोटिप्रतिमः वर्षकोटिसमानः स्यादित्ये-कान्वयः ॥ ४६ ॥
प्रकाशिका
हे अम्बुजाक्ष । यर्हि यदा माधवो लक्ष्मीपतिर्भवान्मधुभ्यो कुरूंस्तन्नामकान्देशान् । अथवा कुरुभ्यो मधूंस्तन्नामकदेशान् । सुहृदां पाण्डवानां यादवनां च क्रमेण दर्शनेच्छयांऽचति गच्छति । यद्यपीदानीमानर्तदेशवासिनो यादवास्तथाऽपि पूर्वाभ्यासवशात्मधूनित्युक्तवन्त इति ज्ञातव्यम् । हे अच्युत । अत्र तस्यामवस्थायां तव त्वां विना नोऽस्माकं य एकः क्षण एकक्षणरूपकालोऽब्द-कोटिप्रतिमो वर्षकोटिसमानो भवेद्भवति । केषामिव । रविं चक्षुरिन्द्रियाभिमानिनां बहिः प्रकाशवन्तं वा विनाऽक्ष्णां चक्षुषां यथा तथेत्यर्थः । अत्र न इत्यनेन मधूनामेव ग्रहणे मधूनञ्चतीत्यस्य कुरूणां ग्रहणे कुरूनित्यस्य च वैयर्थ्यम् । योग्यताभावश्चापद्येतातस्तद्ग्राह्यं दर्शयति- कुरूणामिति ॥ न इत्यनूद्य कुरूणां मधूनां चेति व्याख्यातम् । तथा च नान्यतरमात्रग्रहणं येनोक्तदोषः किं तूभयोरपि । ततश्च यदा कुरूनञ्चति तदा नो मधूनां यदा मधूनञ्चति तदा नः कुरूणामिति मूलं योज्यमिति भावः ॥ ४६ ॥
इति चोदीरिता वाचः प्रजानां भक्तवत्सलः ।
शृृण्वानोऽनुग्रहं दृष्ट्या वितन्वन्प्राविशत्पुरीम् ॥ ४७ ॥
पदरत्नावली
दृष्ट्या दर्शनेन । शृृण्वानः शृृण्वन् । चशब्दाद् बन्दिमागधादीनां गिरः ॥ ४७ ॥
प्रकाशिका
इति एवंविधा वाचः । चशब्दादन्याश्च शृृण्वानः शृृण्वन् ॥ ४७ ॥
मधुभोजदशार्हार्हकुकुरान्धकवृष्णिभिः ।
आत्मतुल्यबलैर्गुप्तां नागैर्भोगवतीमिव ॥ ४८ ॥
पदरत्नावली
गुप्तां रक्षिताम् । भोगवती नाम नागानां पुरी । आत्मतुल्यबलैः परस्परम् आत्मना तुल्यवीर्यैः । अधिकदृष्टान्तन्यायो वा ॥ ४८ ॥
प्रकाशिका
द्वारकां वर्णयति पञ्चभिः । मधुभोजादिशब्दा यादवविशेषवाचकाः । आत्मना स्वेन तुल्यं बलं येषां तैरित्यर्थवादमात्रम् । गुप्तां रक्षिताम् । भोगवती नाम नागानां पुरी ॥ ४८ ॥
सर्वर्तुंसर्वविभवैः पुण्यवृक्षलताश्रमैः ।
उद्यानोपवनारामैर्धृतपद्माकरश्रियम् ॥ ४९ ॥
पदरत्नावली
वसन्तादिसर्वर्तूनां सर्वविभवैः पूर्णपुष्पसम्पत्तिभिः । पुण्यैर्वृक्षैर् अश्वत्थादिभिर् लताभिर् न्यग्रोधरुहाभिः । कल्पवल्लीभिर्वा । आश्रमैर् उपवेश्मस्थानैः । उद्यानैः प्रमदादिभिः सह राज्ञां क्रीडाभूमिभिः । उपवनैर् नगरान्नातिदूरे आरोपितवृक्षसमुदायैः । आरामैः पुराद्बहिः रथ्योभयपार्श्वा-रोपितवृक्षसमुदायैः । एतैः सर्वर्तुसर्वविभवादिभिर् धृता पद्माकराणां श्रीः शोभा यथा सा तथोक्ता ताम्
॥ ४९ ॥
प्रकाशिका
सर्वेषु ऋतुषु सर्वे विभवाः पुष्णादिसम्पदो येषां ते । पुण्यवृक्षा अश्वत्थादयो लताश्रया लतामण्टपाश्च तैरुद्यानादिभिश्च । धृता पद्माकराणां सरोवराणां श्रीः शोभा यस्याः सा तथोक्ता ताम् । उद्यानं फलप्रधानं वनम् । उपवनं पुष्पप्रधानम् । आरामः क्रीडार्थं वनम् ॥ ४९ ॥
गोपुरद्वारमार्गेषु कृतकौतुकतोरणाम् ।
चित्रध्वजपताकाग्रैरन्तःप्रतिहतातपाम् ॥ ५० ॥
पदरत्नावली
गोपुरेषु पुरद्वारेषु अन्यद्वारेषु मार्गेषु कृतानि कौतुकतोरणानि उत्सवतोरणानि यस्यां सा तथा ताम् । अन्तः प्रतिहतः निवारित आतपः यस्यां सा तथा ताम् ॥ ५० ॥
प्रकाशिका
गोपुरं पुरद्वारं द्वाराणि गृहद्वाराणि मार्गाश्च तेषु कृतानि कौतुकेन तोरणानि यस्यां सा तथा ताम् । चित्राणां ध्वजपताकानामग््रयैरन्तः प्रतिहतो निवारित आतपो यस्यां सा तथा ताम्
॥ ५० ॥
सम्मार्जितमहामार्गरथ्यापणकचत्वराम् ।
सिक्तां गन्धजलैरुप्तां फलपुष्पाक्षतांकुरैः ॥ ५१ ॥
पदरत्नावली
सम्मार्जितानि विधूतरजस्कराणि महामार्गरथ्यापणकचत्वराणि यस्यां सा तथा ताम् । महामार्गः राजमार्गः । रथ्या रथमार्गः । आपणकानि पण्यविक्रयस्थानानि । चत्वारि चतुष्पथम् । गन्धजलैश् चन्दनादितोयैः सिक्तां प्रोक्षिताम् । क्रमुकफलपुष्पाक्षतांकुरैर् उप्ताम् ॥ ५१ ॥
प्रकाशिका
संमार्जितान्यपसारितरजस्कानि महामार्गादीनि यस्यां सा तथा ताम् । महामार्गो राजमार्ग रथ्यारथगमनमार्गः, आपणकाः पण्यवीथयश्चत्वराण्यङ्गणानि सिक्तां प्रोक्षितामुप्तामवकीर्णाम्
॥ ५१ ॥
द्वारि द्वारि गृहाणाञ्च दध्यक्षतफलेक्षुभिः ।
अलङ्कृतां पूर्णकुम्भैर्बलिभिर्धूपदीपकैः ॥ ५२ ॥
पदरत्नावली
गृहाणां द्वारि द्वारि दध्यक्षतफलेक्षुभिः पूर्णकुम्भैः । बलिभिः पूजासाधनैः, धूपदीपकैर् अलङ्कुताम् एवंविधां पुरीं प्राविशदिति पूर्वेणान्वयः ॥ ५२ ॥
प्रकाशिका
दृष्टिदोषपरिहारार्थं श्रीकृष्णे परिभ्रमणाय कल्पितैः कुसुममिश्रितान्नादिरूपैर्वलिभिः
॥ ५२ ॥
निशम्य कृष्णमायान्तं वसुदेवो महामनाः ।
अक्रूरश्चोग्रसेनश्च रामश्चाद्भुतविक्रमः ॥ ५३ ॥
प्रद्युम्नाश्चारुदेष्णश्च साम्बो जाम्बवतीसुतः ।
प्रहर्षवेगोच्छ्वसितशयनासनभोजनाः ॥ ५४ ॥
वारणेन्द्रं पुरस्कृत्य ब्राह्मणैः ससुमङ्गलैः ।
शङ्खतूर्यनिनादेन ब्रह्मघोषेण चादृतः ।
प्रत्युञ्जग्मू रथैर्हृष्टाः प्रणयागतसाध्वसाः ॥ ५५ ॥
वारमुख्याश्च शतशो यानैस्तद्दर्शनोत्सुकाः ।
चलत्कुण्डलनिर्भातकपोलवदनश्रियः ॥ ५६ ॥
पदरत्नावली
वासुदेवाक्रूरादय आयान्तं कृष्णं निशम्य श्रुत्वा करधुतमौक्तिकपूर्णघटं वारणेन्द्रं पुरस्कृत्य पुरस्कृतैर् ब्राह्मणैश्च सार्धं रथैः साधनैः प्रत्युज्जग्मुरित्यन्वयः । किं विशिष्टाः ? प्रहर्षवेगेन उच्छ्वसितानि सहसा परित्यक्तानि शयनासनभोजनानि यैस्ते तथा । तूर्यं काहलम् । ब्रह्मघोषः वेदध्वनिः । मय्यासन्नेऽपि मां नाभिजग्मुरिति हार्दो भावः साध्वसम् । प्रणयेनागतं साध्वसं येषां ते तथा । वारमुख्या नर्तकीषु गणिकासु श्रेष्टास् तस्य कृष्णस्य दर्शनोत्कण्ठावत्यश् चलद्भिः कुण्डलः निर्भातानि विद्योतितानि कपोलानि येषां तानि तथोक्तानि जलत्कुण्डलनिर्भातकपोलानि च तानि वदनानि च चलत्कुण्डलनिर्भातकपोलवदनानि । तेषां श्रीर् यासां तास् तथोक्ताः ॥ ५३-५६ ॥
प्रकाशिका
प्रहर्षवेगेनोच्छ्वसितानि सहसा परित्यक्तानि शयनासनभोजनानि यैस्ते तथा ॥ वारणेन्द्रं मङ्गलार्थं पुरस्कृत्य । ससुमङ्गलैः सुमङ्गलं फलपुष्पादि तद्युक्तपाणिभिः । ब्रह्मघोषो वेदध्वनिः । आदृता आदरयुक्ताः । प्रणयेन स्नेहेनागतं साध्वसं भ्रमो येषां ते तथा । प्रणयेन भक्त्यतिशयेनागतं साध्वसमालस्यकरणेऽपराधो भविष्यतीति भयं येषामिति वा ॥
चलत्कुण्डलैर्निर्भातानि द्योतितानि यानि कपोलानि तैर्वदनेषु श्रीर्यासां ताः । वारमुख्या वेश्यासु श्रेष्ठाः । प्रत्युज्जग्मुः ॥ ५३-५६ ॥
नटनर्तकगन्धर्वाः सूतमागधबन्दिनः ।
गायन्ति चोत्तमश्लोकचरितान्यद्भुतानि च ॥ ५७ ॥
पदरत्नावली
अभिनयेन शृृङ्गाराद्यनुकरणकर्ता नटः । गीतावाद्यानुसारेण नर्तनकर्ता नर्तकः । षड्जादिकुशला गन्धर्वाः । पुराणाद्यर्थानुसारेण स्तावकाः सूताः । पराक्रमाङ्कितस्तुतिकर्तारो मागधाः । मङ्गलपाठका बन्दिनः ॥ ५७ ॥
प्रकाशिका
नटा अभिनयेन शृृङ्गाराद्यनुकरणकर्तारः । गीतवाद्यानुसारेण नृत्यन्तो नर्तकाः । गायका गन्धर्वाः । ‘सूताः पौराणिकाः प्रोक्ता मागधा वंशशंसकाः । बन्दिनस्त्वमलप्रज्ञाः प्रस्ताव-सदृशोक्तयोः ’ गायन्ति च न केवलं प्रत्युज्जग्मुः । अन्ते विद्यमानस्य चकारस्य बन्दिनश्चेत्यन्वयः
॥ ५७ ॥
भगवांस्तत्र बन्धूनां पौराणामनुवर्तिनाम् ।
यथाविध्युपसङ्गम्य सर्वेषां मानमादधे ॥ ५८ ॥
पदरत्नावली
तत्र तेषु वसुदेवादिष्वागतेषु सत्सु श्रीकृष्णो भगवान् सर्वेषां बन्ध्वादीनां यथाविधिम् उपसङ्गम्य मानम् आदधे चकारेत्यन्वयः ॥ ५८ ॥
प्रकाशिका
यथाविध्युपसङ्गम्य । यैः सह यथोचितं तैः सह तथा समागमं कृत्वा आदधे कृतवान् ॥ ५८ ॥
प्रह्वाभिवन्दनाश्लेषकरस्पर्शस्मितेक्षणैः ।
आश्वस्य(आश्वभ्य) आ श्वपाकेभ्यः वरैश्चाभिमतैर्विभुः ॥ ५९ ॥
पदरत्नावली
कैः ? प्रह्वादिभिः ॥ ५९ ॥
प्रकाशिका
कैरित्यत उक्तम् । प्रह्वेति । प्रह्वा प्रह्वात्वं नम्रीभावः । अभिवन्दनं शिरसा नतिः । आश्वास्य अभयं दत्वा । आश्वभ्य इति पाठे शुनःश्वपाकांश्चाभिव्याप्येति व्याख्येयम् । अभिमतैर्व रैरभीष्टदानैर्मानं कृतवान् ॥ ५९ ॥
स्वयञ्च गुरुभिर्विप्रैस्सदारैः स्थविरैरपि ।
आशीर्भिर्युज्यमानोऽन्यैर्बन्धुभिश्चाविशत्पुरम् ॥ ६० ॥
प्रकाशिका
अन्यैश्च बन्दिभिश्च ॥ ६० ॥
राजमार्गं गते कृष्णे द्वारकायाः कुलस्त्रियः ।
हर्म्याण्यारुरुहुर्विप्रास्तदीक्षणमहोत्सवाः ॥ ६१ ॥
पदरत्नावली
हर्म्याणि सौधानि । तदीक्षणं तस्य कृष्णस्य दर्शनमेवं महानुत्सवो यासां तास् तथोक्ताः ॥ ६१ ॥
प्रकाशिका
तस्येक्षणमेव महानुत्सवो यासां तास्तथा ॥ ६१ ॥
नित्यं निरीक्षमाणानां यद्यपि द्वारकौकसाम् ।
न वितृप्यन्ति हि दृशः श्रियो धामाङ्गमच्युतम् ॥ ६२ ॥
पदरत्नावली
दृष्टचरस्य तस्य अदृष्टपूर्ववद्दर्शने किमित्युत्कण्ठातिशय इति तत्राह- नित्यमिति ॥ श्रियः धाम स्थानम् अङ्गं वपुर् यस्य सस् तथा तम् अच्युतं नित्यं निरीक्षमाणानां द्वारकानिवासिनामपि दृशः न वितृप्यन्ति पुनः पुनः दृष्ट्वाऽपि अलं दर्शनेनेति भावं न प्राप्नुवन्ति यस्मात् तस्माद् युक्त उत्कण्ठातिशयो हीत्यन्वयः ॥ ६२ ॥
प्रकाशिका
यद्यस्मान्नित्यं सदाऽच्युतं निरीक्षमाणानामपि दृशो नैव तृप्यन्ति । अत आरुरुहुः । तृप्त्यभावे हेतुः । श्रियः शोभाया धाम स्थानमङ्गं यस्य तम् ॥ ६२ ॥
श्रियो निवासो यस्योरः पानपात्रं मुखं दृशाम् ।
बाहवो लोकापालानां सारङ्गाणां पदाम्बुजम् ॥ ६३ ॥
पदरत्नावली
नैतदाश्चर्यमित्याह- श्रिय इति ॥ यस्य हरेर् उरः वक्षस्थलं श्रियः लक्ष्म्या निवासस्थानम् । यस्य मुखं द्रष्टृणां लावण्यं पातुं पानपात्रम् । यस्य बाहवः लोकपालानां बलस्थानम् । यस्य पदाम्बुजं सारङ्गाणां सारग्राहिणां ब्रह्मादीनां परायणम् ॥ ६३ ॥
प्रकाशिका
शोभातिशयोप्यत्रैव कुत इत्यत आह- श्रिय इति ॥ श्रीयो लक्ष्म्या यस्योरो वक्षो निवास आवासस्थानम् । यस्य मुखं सर्वप्राणिनां दृशां सौन्दर्यामृतपानस्य पात्रम् । यस्य बाहवो लोकपालानां निवासः सारं श्रेष्ठं परं ब्रह्म गच्छन्तीति सारङ्गा ज्ञानिनस्तेषाम् । यस्य पदाम्बुजं निवासः । तं निरीक्षमाणानां दृश इति पूर्वेणान्वयः ॥ ६३ ॥
सितातपत्रव्यजनैरुपस्कृतः प्रसूनवर्षैरभिवर्षितः पथि ।
पिशङ्गवासा वनमालया बभौ घनो यथार्कोऽडुपचापवैद्युतैः ॥ ६४ ॥
पदरत्नावली
सितातपत्रव्यजनादिभिरलङ्कृतो भगवान् तथा बभौ यथा अर्कादिभिरन्वितो मेधो भातीत्यन्वयः । अत्रायं विभागः- मध्याह्नार्कस्थानीयं श्वेतच्छत्रम् । उडुपस्थानीयं व्यजनम् । इन्द्रचापस्थानीयं पीतवस्त्रम् । विद्युत्स्थानीया माला । मेघस्थानीयो भगवान् । अर्कस्थानीयं किरीटम् । उडुपस्थानीयं श्वेतच्छत्रम् । मन्दारादिप्रसूनमाला इन्द्रचापस्थानीया । विद्युत्स्थानीयं व्यजनमिति वा
॥ ६४ ॥
प्रकाशिका
सितैः शुभ्रैरातपत्रव्यजनैरुपस्कृतो मण्डितः । अत्राभूतोपमामाह- यथेति ॥ अर्कश्चोडूनि नक्षत्राणि पातीत्युडुपो नक्षत्रावृतश्चन्द्रश्चापमिन्द्रधनुश्च वैद्युतं विद्युत्तेजश्च तैरन्वितो मेघो यथा भाति तथेत्यर्थः । अर्कश् छत्रस्योपमानं नक्षत्राणि पुष्पवृष्टेश् चन्द्रश् चामराख्ययोर्व्यजनयोश् चापं वनमालाया विद्युत्तेजः पिशङ्गवाससः मेघो भगवत इति विवेकः । यदि घनस्योपरि सूर्यबिम्बमुभयत-श्चन्द्रो सर्वतो नक्षत्राणि मध्ये च मिलितं चापद्वयं स्थिरं विद्युत्तेजश्च भवेत्तर्हि घनो यथा तैर्भाति तथा हरिरपि सितातपत्राभिर्बभावित्यर्थः ॥ ६४ ॥
प्रविष्टस्तु गृहं पित्रोः परिष्वक्तः स्वमातृभिः ।
ववन्दे शिरसा सप्त देवकीप्रमुखा मुदा ॥ ६५ ॥
पदरत्नावली
पित्रोर् मातापित्रोः । स्वमातृभिर् देवक्यादिभिः । परिष्वक्त आश्लिष्टः॥ ६५ ॥
प्रकाशिका
पित्रोर्मातापित्रोः ॥ ६५ ॥
ताः पुत्रमङ्गमारोप्य स्नेहस्नुतपयोधराः ।
हर्षविह्वलितात्मानः सिषिचुर्नेत्रजैर्जलैः ॥ ६६ ॥
पदरत्नावली
ता मातरः पुन्नाम्नो नरकात् त्रायत इति पुत्रः कृष्णस् तं सिषिचुर् अभ्यषिञ्चन् । ‘पिब सेके’ । हर्षेण विह्वलीकृतः विवशीकृत आत्मा अन्तःकरणं यासां तास् तथोक्ताः ॥ ६६ ॥
प्रकाशिका
हर्षेण विव्हलीकृतो वशीकृत आत्माऽन्तःकरणं यासां तास्तथा सिषिचुरभ्यषिञ्चन्
॥ ६६ ॥
अथाविशत्स्वभवनं सर्वकाममनुत्तमम् ।
प्रासादा यत्र पत्नीनां सहस्त्राणि च षोडश ।
शतमष्टोत्तरं चैव वज्रवैडूर्यमण्डिताः ॥ ६७ ॥
पदरत्नावली
यत्र यस्मिन् भवने वज्रवैडूर्यमणिमण्डिताः षोडशसहस्त्राणि पुनरष्टोत्तरशतं पत्नीनां प्रसादाः सन्ति तदनुत्तमं सर्वकामं स्वभवनमाविशदित्येकान्वयः । काम्यन्त इति कामा इच्छाविषयास् ते सर्वे यत्र सन्ति तत्तथोक्तम् ॥ ६७ ॥
प्रकाशिका
सर्वे कामा विषया यस्मिंस्तत् । अनुत्तमं न विद्यते उत्तमं यस्मात्तत् ॥ ६७ ॥
पत्न्नयः पतिं प्रोष्य गृहानुपागतं विलोक्य सञ्जातमनोमहोत्सवाः ।
उत्तस्थुरारात्सहसाऽऽसनाश्रयः साकम्पितव्रीडितलोचनाननाः ॥ ६८ ॥
पदरत्नावली
पत्न््नय आराद् दूरादेव विलोक्य सञ्जातः मनसि महोत्सवो यासां तास् तथोक्ताः। सहसा झटिति उत्तस्थुरित्यन्वयः । कथंभूतं ? प्रोष्य प्रवासं कृत्वा गृहानुपागतम् । कीदृश्यः पत्न््नयः ? साकम्पिताश्च व्रीडितलोचनाननाश्च साकम्पितव्रीडतलोचनाननाः । सहितमाकम्पितं याभिस्तास् तथा । व्रीडितानि लोचनानि आननानि च यासां तास् तथा ॥ ६८ ॥
प्रकाशिका
प्रेष्य देशान्तरे उषित्वा । आराद्दूरादेव विलोक्य संजातो मनसि महोत्सवो यासां ताः । आकंपितेन सहिताः साकंपिताः । व्रीडितानि लोचनान्याननानि च यासां तास्तथा । साकंपिताश्च ता व्रीडितलोचनाननाश्चेति विग्रहः । आ ईषत्कंपितं कंपनं च व्रीडितं व्रीडा च ताभ्यां सहितानि साकंपितव्रीडितानि लोचनाननानि यासां ता इति वा ॥ ६८ ॥
तमात्मजैर्दृष्टिभिरन्तरात्मा दुरन्तभावाः परिरेभिरे पतिम् ।
निरुद्धमप्यस्रवदम्बु नेत्रयोर् विलज्जतीनां भृगुवर्य वैक्लवात् ॥ ६९ ॥
पदरत्नावली
दुरन्तभावा वेलातीतस्नेहाः । अनन्तशृङ्गारा वा । अन्यैरज्ञाताभिप्राया वा । दृष्टिभिर् आत्मजैर् अन्तरात्मना मनसा च तं पतिं परिरेभिरे । वक्लैवात्परवश्याद्विलज्जतीनां तासां नेत्रयोर् निरुद्धमप्यम्बु अस्त्रवदित्येकान्वयः ॥ ६९ ॥
प्रकाशिका
आयान्तं तं पतिं दर्शनात्पूर्वमन्तरात्मना मनसा परिरेभिरे । ततो दृष्टिभिः । ततः समीपमागतं पुत्रैः पुत्रद्वाराऽऽलिङ्गितवत्य इत्यर्थः । अत्र हेतुः । दुरन्तभावा गम्भीराभिप्रायास्तदा च तासां नेत्रयोर्निरुद्धमप्यम्बुबाष्पं वैल्लवाद्वैवश्यात् । अस्रवत्सुस्राव । हे भृगुवर्य । सावधानं शृृण्विति ज्ञापनाय मध्ये संबोधनम् । एवमग्रेऽपि ॥ ६९ ॥
यद्यप्यसौ पार्श्रगतो रहोगतस्तासां यथाप्यङ्घ्रियुगं नवं नवम् ।
पदे पदे का विरमेत तत्पदाच्चलापि यं श्रीर्न जडाति कर्हिचित् ॥ ७० ॥
पदरत्नावली
नैतत्तासां स्नेहकातर्यं चित्रमित्याह- यदीति ॥ यद्यप्यसौ कृष्णः रहोगत एकान्तगतः । सदा तासां पार्श्वगतः समीपस्थः । तथापि अनुपदं तासां तस्य अङ्घ्रियुगं नवं नवं नूतनान्नूतनम् । तथाहि कां स्त्री तस्य पदकमलाद् अलमिति विरमेत विरामं कुर्यात् ? अन्यत्र चञ्चलविभवप्रदाऽपि श्रीर् यं भगवन्तं कर्हिचिन् न जडातीत्येकान्वयः ॥ ७० ॥
प्रकाशिका
चित्रमेतदित्यह- यद्यप्यसाविति ॥ असौ श्रीकृष्णः पार्श्वगतः समीपस्थस्तत्रापि रहोगतः पदे पदे प्रतिक्षणं नवं नवं नूतनान्नूतनम् । अलंबुद्ध्यास्पदं न भवतीति यावत् । अत्र कैमुत्यन्यायमाह- का विरमेतेति ॥ चला अन्यत्र चंचला,चपलाऽपि श्रीर्यं कर्हिचित्कदाचिदपि न जहाति । तत्पदात्का स्त्री विरमेत अलंबुद्धिं कुर्यात् ॥ ७० ॥
एवं नृपाणां क्षितिभारजन्मनामक्षौहिणीभिः परिवृत्ततेजसाम् ।
विधाय वैरं श्वसनो यथानलं मिथो वधेनोपरतो निरायुधः ॥ ७१ ॥
पदरत्नावली
वायुर्यथा वनदहनाय वेणूनां मिथः सङ्घट्टनेन अग्निमुत्पादयति तथा अक्षौहिणीभिः क्षितिभारजन्मनां भूमेर्भारभूतं जन्म येषां ते तथोक्तास् तेषां परिवृतं परिवृद्धं तेजः येषां ते तथोक्तास् तेषाम् असुराणां विनाशाय कुरुपाण्डवपक्षपातिनां नृपाणां मिथो वैरं विधाय च उपरत उदास्ते इत्यन्वयः
॥ ७१ ॥
प्रकाशिका
सङ्क्षिप्योक्तं कृष्णचरितमुपसंहरति- एवमिति ॥ क्षितेर्भाराय जन्म येषां तेषामक्षौहिणीभिः परिवृत्तं सर्वतः प्रसृतं तेजः प्रभावो येषां तेषाम् । स्वयं निरायुध एव सन् वैरं विधायोत्पाद्य मिथः परस्परं वधेन जातेन निमित्तेनोपरतो निवृत्तव्यापारो जातः । अत्र दृष्टान्तः । श्वसनो वायुर्यथा वेणूनामन्योन्यसङ्घर्षणेनानलमग्निं विधाय मिथो दाहे शाम्यति तथैवेति ॥ ७१ ॥
स एष नरलोकेऽस्मिन्नवतीर्णः स्वमायया ।
रेमे स्त्रीरत्नकूटस्थः भगवान्प्राकृतो यथा ॥ ७२ ॥
पदरत्नावली
स्वमायया स्वेच्छया । प्राकृतः स्त्रीजितः । स्त्रीरत्नकूटस्थः स्त्रीश्रेष्टसमूह्रस्थः
॥ ७२ ॥
प्रकाशिका
नायं मनुष्य इति प्रतिपत्तुमर्ह इत्याह- स एष इति ॥ स्वमायया स्वेच्छया स्त्रीरत्नकूटस्थः स्त्रीश्रेष्ठसमूहगतः । प्राकृतो मूर्खः ॥ ७२ ॥
उद्दामभावपिशुनामलवल्गुहासव्रीडावलोकविहतो मदनोऽपि यासाम् ।
सम्मुह्य चापमजहात् प्रमदोत्तमास्ता यस्येन्द्रियं विमथितुं कुहकैर्न शेकुः ॥ ७३ ॥
पदरत्नावली
स्त्रीश्रेष्टसमूहस्थः स्त्रीजिताननुकरोत्येव । परं न स्वयं स्त्रीजित इत्याह- उद्दामेति ॥ यासामुद्दामभावस्य उत्कृष्टशृङ्गारचेष्टितस्य पिशुनः सूचको ऽमलः निर्व्यलीकः वल्गुः कोमलहासः स्मितम् । व्रीडया अवलोकः कटाक्षवीक्षणम् । उद्दामभावपिशुनामलवल्गुहासेन व्रीडावलोकनेन च विहतस् ताडितः मदनोऽपि सम्मुह्य पुष्पाख्यं चापम् अजहान् मुक्तवान् ताः प्रमदोत्तमाः कुहकैर् उद्दामभावादिभिर् यस्य श्रीकृष्णस्य इन्द्रियं प्रमथ्य वशीकर्तुं न शेकुः । तस्य कुतः स्त्रीजितत्वमित्यन्वयः ॥ ७३ ॥
प्रकाशिका
ननु स्त्रीजितस्य कथमीश्वरावतारत्वमित्यत आह- उद्दामेति ॥ यासामुद्दाम-भावस्योत्कृष्टशृृङ्गारचेष्टाविशेषस्य पिशुनः पिशुन इव सूचकोऽमलो दुर्लक्षणरहितो बल्गु सुन्दरो हासो व्रीडयाऽवलोकश्च ताभ्यां विहतस्ताडितो मदनोऽपि संमुह्य सम्यङ्मोहं प्राप्य पुष्पाख्यं चापमजहान्मुक्त-वान् । ताः प्रमदोत्तमाः कुहकैः पुरुषचित्तविभ्रमकरैर्वल्गुहासादिभिर्यस्य श्रीकृष्णस्येन्द्रियं मनो विमथितुं क्षोभयितुं न शेकुर्न शक्ता बभूवुस्तमित्युत्तरेणान्वयः ॥ ७३ ॥
मन्यते तन्मयं लोको ह्यसङ्गमपि सङ्गिनम् ।
आत्मौपम्येन मनुजं प्रावृण्वानमतोऽबुधः ॥ ७४ ॥
पदरत्नावली
तस्य स्त्रीजितत्वपरिवादोऽज्ञसम्मत्येत्याह- मन्यत इति ॥ अज्ञलेकः स्वसुखानु-भवेनैव आप्तकामतया स्त्रीष्वसक्तमपि आत्मौपम्येन आत्मानं दृष्टान्तीकृत्य स्त्रीसङ्गिनं तन्मयं स्त्रीमयं मन्यते हि यस्मात् तस्मादयं जनो ऽबुधो ऽज्ञः । कथंभूतं मनुजम् ? प्रावृण्वानम् आच्छादयन्तम् ॥ ७४ ॥
प्रकाशिका
आत्मौपम्येन स्वात्मदृष्टान्तेन । कथंभूतम् । मनुजं प्रत्यात्मानं प्रावृण्वान-माच्छादयन्तं हि यस्मात्तस्मादयं जनोऽबुधस्तत्त्वज्ञानशून्य एतादृशे स्त्रीजितत्वप्रवादोऽज्ञानमूलक एवेत्याह- मन्यत इति ॥ तन्मयं स्त्रीप्रधानकम् । तथ च नायं स्त्रीजनः किं त्वेतासां स्त्रीणां स्वभक्तत्वात्तास्वनुग्रहायैव स्वरमणोऽपि रमते । स्त्रीजितत्वप्रवादस्त्वज्ञानमूलक एवेति श्लोकद्वय-स्याभिप्रायः ॥ ७४ ॥
यत्तदीशनमीशस्य प्रकुतिस्थोऽपि तद्गुणैः ।
न युज्यते सदात्मस्थैर्यथा बुद्धिस्तदाश्रया ॥ ७५ ॥
तात्पर्यम्
तदाश्रया बुद्धिः । तज्ज्ञानिनामपि प्रकृतिस्थानां न तत्सङ्गः किमु तस्येति व्यत्यासदृष्टान्तः । व्यत्यासोनन्वयश्चैव प्रसिद्धोऽभूत एव च । सर्वसांहारिकश्चेति दृष्टान्तः पञ्चधा स्मृतः ॥ इति ब्राह्मे ॥ ७५ ॥
पदरत्नावली
तर्हि ज्ञानिप्रवादः कीदृश इति तत्राह- यत्तदिति ॥ प्रकृतिस्थोऽपि सदा आत्मस्थैः स्वाधारैस् तद्गुणैः प्रकृतिगुणैः सत्वादिभिः शब्दादिभिश्च न युज्यते न सम्बध्यत इति यत् तद् ईशस्य ईशनम् ईश्वरत्वम् । तत्र व्यत्यासदृष्टान्तमाह- यथेति ॥ यथा प्रकृतिस्थानां ज्ञानिनां तदाश्रया तस्य कृष्णस्य आश्रया बुद्धिः प्रकृतिगुणैर् न सम्बध्यते । किमु तस्य प्रकृतिगुणसम्बन्धो नेत्यतोऽबुधजनप्रवाद इति भावः ॥ ७५ ॥
प्रकाशिका
ननु प्राकृतस्त्रीसङ्गिनो न तत्कार्यसुखादिगुणसम्बन्ध इत्येतत्कथमित्यपेक्षायामैश्वर्या-देवेत्याशयेनैश्वर्यस्वरूपं दर्शयति- यत्तदिति ॥ प्रकृतिस्थोऽपि सदाऽऽत्मस्थैः स्वाश्रितैस्तद्गुणैः सत्त्वादिभिस्तत्कार्यैः सुखादिभिश्च न युज्यते न सम्बद्ध्यत इति यत्तदेवेशस्येशनमीश्वरत्वम् । अत्र दृष्टान्तमाह- यथा बुद्धिरिति ॥ इदमप्रतीत्या व्याख्याति- तदाश्रयेति ॥ तदाश्रया बुद्धिर्व्यत्यासदृष्टान्त इति सम्बन्धः । कथमित्यतो व्यत्यासदृष्टान्तत्वमुपपादयति- तज्ज्ञानिनामपीति ॥ भगवत्ज्ञानवताम-पीत्यर्थः । तथा च बुद्धिशब्देन तद्वन्तो लक्ष्या इति भावः । प्रकृतिस्थानां तत्कार्यदेहस्थानां न सङ्गस्तत्कार्यैर्दुःखादिभिः । एवं च कैमुत्यप्रदर्शनाय यो दृष्टान्त उपादीयते स एव व्यत्यासदृष्टान्त इत्युक्तं भवति । दृष्टान्तबलेन हि सर्वत्र दार्ष्टान्तिके साध्यसिद्धिः । अत्र तु दार्ष्टान्तिकधर्मिबलेन दृष्टान्ते साध्यधर्मसिद्ध्या दार्ष्टान्तिके धर्मिणि साध्यधर्मसिद्धिरित्यर्थव्यत्यासेनायं व्यत्यासदृष्टान्त इति ज्ञेयम् । नन्वेतादृशदृष्टान्तो न प्रामाणिक इत्यतोऽत्र प्रमाणमाह- व्यत्यास इति ॥ आद्य एवशब्दश्चशब्दार्थः प्रसिद्ध इत्यनेन सम्बद्ध्यते । द्वितीयस्यैवशब्दस्य पञ्चधैवेत्यन्वयः । व्यत्यासः प्रकृत एव । स्वयं तु भगवान्व्यासो व्याप्तज्ञानमहांशुमान् । अनन्ताकाशवत्पश्यन्नित्यत्रानन्तकाशवदित्यनन्वयदृष्टान्तः । अस्यार्थस्तत्त्वप्रकाशिकायामुक्तः । यथाऽऽकाशो व्याप्तस्तथा ज्ञानमिति । तथा च पश्यन्निति समभिव्याहृते दार्ष्टान्तिके विधीयमानस्य दर्शनस्यानन्ताकाशेऽनन्वयादयमनन्वयदृष्टान्तः । तर्हि कुत्रायमन्वित इत्यपेक्षायां यथाऽऽकाशो व्याप्त इति टीकावाक्यम् । तथा चानन्ताकाशवद्व्याप्तं यत्ज्ञानं तल्लक्षणमाह- अंशुमानिति ॥ पूर्वार्धोक्ते ज्ञानव्याप्तत्व एवायं दृष्टान्त इति तद्वाक्यं व्याख्यातं भवतीति ज्ञातव्यम् । प्रसिद्ध उपमेयधर्मवत्तया प्रसिद्धः । यथा चन्द्रवदनः पङ्कजलोचनो बिम्बोष्ठ इत्यादि । अभूतः कदऽपि न जातः यथाऽत्रैव पूर्वमुक्तः । घनो यथाऽर्कोडुपचापवैद्युतैरिति ‘दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता । यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मन ॥ ’ इत्यादिश्च । सर्वसंहारकः सर्वोपसंहारेण गृह्यमाणव्याप्तिप्रदर्शनस्थानम् । यथा यो यो धूमवान्सो सोऽग्निमान्यथा महानस इत्यादि । यद्वा ‘यथा महानसः’ इत्यादिप्रसिद्धदृष्टान्तः । यथा सम्प्रतिपन्नमित्यादिसम्प्रतिपन्नसर्वार्थसङ्ग्राहकः सर्वसंहारकदृष्टान्तः । ततश्च यथा यदा हरिविषयकबुद्धिमान्प्रकृतिस्थः प्रकृतिकार्यदेहे स्थितोऽपि तद्गुणैर्दुःखादिभिर्न युज्यते । तदा हरिस्तत्स्थोऽपि तद्गुणेन न युज्यते इति किं वाच्यमिति मूलं योज्यमिति भावः ॥ ७५ ॥
तं मेनिरे खला मूढास्त्रैणञ्चानुव्रतं हरेः ।
अप्रमाणविदो भर्तुरीश्वरं मतयो यथा ॥ ७६ ॥
॥ इति श्रीमद्भागवते प्रथमस्कन्धे दशमोऽध्यायः ॥
तात्पर्यम्
मतयो यथा यथामति मेनिरे ॥ ७६ ॥
॥ इति प्रथमतात्पर्ये दशमोऽध्यायः ॥
पदरत्नावली
तथाविदोऽपुरा इति सोदाहरणमाह- तमिति ॥ खला इन्द्रियारामा मूढाः शास्त्रार्थाविदस् तामसराजसप्रकृतयो ऽत एव हरेर् अप्रमाणविदो ऽनन्तगुणत्वादिप्रमाणाविदस् तं कृष्णं भृत्यवदनुगतं स्त्रैणं स्त्रीजितं मेनिरे । वैशेषिकादिवादिनां मतयो यथेश्वरं यथामति मेनिरे तथा । तस्मान्न तस्याप्तकामस्य स्त्रीजितत्वमिति भावः ॥ ७६ ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां प्रथमास्कन्धे दशमोऽध्यायः ॥
प्रकाशिका
मन्यते तत्मयं लोक इत्युक्तमेव विशदयति- तं मेनिर इति ॥ खला इन्द्रियारमा मूढा भ्रान्ता अनुव्रतमनुसारिणमीश्वरमपि । कथंभूताः । भर्तुर्जगत्पोषकस्य हरेरप्रमाणविदोऽनंतगुणत्वादि- मर्यादाऽज्ञानिनो निरपेक्षादिमाहात्म्यप्रतिपादकप्रमाणाज्ञानिन इति वा । अत्र मेनिर इत्यत्र मतयो यथेति दृष्टान्त उच्यत इति भाति । न तद्युक्तम् । मतिषु ज्ञानकर्तृत्वासम्भवात् । अतो योजयति- मतयो यथेति ॥ यथा च मूले यथाशब्दो न दृष्टान्तार्थः । किं त्वनतिक्रमार्थः । तथात्वेऽपि समासाभावश्छान्दस इति भावः । तथा च स्वस्वबुद्ध्यनुसारेण मेनिर इति मूलार्थः ॥ ७६ ॥
**॥ इति श्रिमद्भागवते प्रथमस्कन्धे प्रथमाध्यायटिप्पण्यां **
वेदेशतीर्थपूज्यपादशिष्ययदुपतिविरचितायां दशमोऽध्यायः ॥ १-१० ॥