०९ नवमोऽध्यायः

व्यासाद्यैरीश्वरेहाज्ञैः कृष्णेनाद्भुतकर्मणा

अथ नवमोऽध्यायः

सूत उवाच—

व्यासाद्यैरीश्वरेहाज्ञैः कृष्णेनाद्भुतकर्मणा ।

प्रबोधितोऽपीतिहासैर् नाबुध्यत शुचार्पितः ॥ १ ॥

पदरत्नावली

स्वानन्दानुभवलक्षणो मोक्षः सकलपुरुषार्थोत्तमः । स च भगवदपरोक्षज्ञान-लब्धविष्णुप्रसादलभ्य इत्ययमर्थः प्रतिपाद्यतेऽस्मिन्नध्याये । तज् ज्ञापयितुम् उपोद्घातं रचयति- व्यासाद्यैरित्यादिना ॥ स्वराज्ये अभिषिक्तोऽपि ज्ञातितदनुबन्धिवधात् पापबुध्या राज्यानिच्छुर्युधिष्ठिरो राजा नाबुध्यत । अयं धर्म इति ज्ञानं नापेत्यन्वयः । कथंभूतः ? ईश्वरस्य ईहां सृष्ट्यादिलक्षणां चेष्टां जानन्तीति ईश्वरेहाज्ञास् तैर् व्यासाद्यैर् मुनिभिर् अद्भुतपराक्रमेण कृष्णेन च इतिहासैः पुरावृत्त-कथाविशेषैः प्रकर्षेण बोधितोऽपि ज्ञात्यादिमरणनिमित्तशुचानुविद्धः ॥ १ ॥

प्रकाशिका

अथ भीष्मस्मरणं वक्तुमुपोद्घातकथां प्रस्तौति- व्यासाद्यैरिति ॥ व्यासाद्यैः प्रबोधितोऽपि शुचार्पितो व्याप्तः सन्नाबुद्ध्यत । विष्णुद्विट्तदनुबन्धिनिग्रहः परो धर्म इति ज्ञानं न प्राप । कथंभूतैर्व्यासाद्यैः । ईश्वरस्य पाण्डवान्निमित्तीकृत्य या भूभारहरणादिरूपा चेष्टा तां पाण्डवानां धर्मादिवृद्ध्यर्थमेव जानद्भिः । भूभारहरणेन जन्यं फलं मुख्यमस्य मा भूदित्यभिसन्धिना बहिः प्रबोध-यन्नप्यन्तः संशयमेव दृढीचकारेति सूचयितुमद्भुतकर्मणेत्युक्तम् । इतिहासैः पुरावृत्तकथाविशेषैः ॥ १ ॥

आह राजा धर्मसुतश् चिन्तयन्सुहृदां वधम् ।

प्राकृतेनात्मना विप्राः स्नेहमोहवशं गतः ॥ २ ॥

पदरत्नावली

इत्थं बोधितोऽपि धर्मे अधर्मबुद्धिः किञ्चकारेति तत्राह- आहेति ॥ हे विप्राः, श्रुणुतेति शेषः । प्राकृतेनात्मना धर्माधर्मविवेकविधुरेण मनसा । तत्कारणमाह- स्नेहाज् जातः मोहः भ्रमः स्नेहमोहः । तस्य वशं गतस् तस्मात् । तन्निमित्तमाह- सुहृदां ज्ञातितदनुबन्धिनां वधम् अहर्निशं चिन्तयन् धर्मसुत इत्थमाहेत्येकान्वयः । स्नेहमोहवशं गत इत्यनेन धर्मात्मनः धर्मसुतस्य कथं धर्मे हरिविमुखदुष्टतदनुबन्धिवधलक्षणे त्वधर्मत्वशङ्का अभूदित्येतद् दूरतोऽपास्तम् ॥ २ ॥

प्रकाशिका

इत्थं बोधितोऽपि धर्मेऽधर्मबुद्धिः किं चकारेत्यत आह- आहेति ॥ हे विप्राः । प्राकृतेन धर्माधर्मविवेकशून्येनात्मना चित्तेन । ननु धर्मावतारस्यास्य कथं धर्मेऽधर्मबुद्धिरित्यत उक्तम्- स्नेहमोहवशं गत इति ॥ स्नेहेन जातो मोहो ममैते इति मिथ्याज्ञानं तद्वशं प्राप्त इत्यर्थः । स्नेहेऽपि निमित्तप्रदर्शनाय सुहृदां वधं चिन्तयन्नित्युक्तम् ॥ २ ॥

अहो मे पश्यताज्ञानं हृदि रूढं दुरात्मनः ।

पारक्यस्यैव देहस्य बह्व्यो मेऽक्षोहिणीर्हताः ॥ ३ ॥

पदरत्नावली

किमाहेति तत्राह- अहो इति ॥ मे हृदि रूढम् अङ्कुरितम् अज्ञानतरुं पश्यत । अहो आश्चर्यम् । कथं ? मे पारक्यस्य परकीयस्य श्वसृगालभोगयोग्यस्य मे देहस्यार्थे बह्व्यो ऽक्षोहिणीर् अक्षोहिण्यः हता एव, यस्मात् तस्मादिति शेषः ॥ ३ ॥

प्रकाशिका

पारक्यस्य परकीयस्य श्वसृगालाद्याहाररूपस्य देहस्यार्थे मे मया बह्वीर् बह्व्योऽक्षौहिणीरक्षौहिण्य अभयत्रापि जस् । अक्षौहिणीप्रमाणमन्यत्रोक्तम् । ‘अक्षौहिणीप्रसङ्ख्यानं रथानां द्विजसत्तमाः । सङ्ख्यागणनतत्त्वज्ञैः सहस्राण्येकविंशतिः । शतान्युपरि चैवाष्टौ तथा भूयश्च सप्ततिः । गजानां च प्रसङ्ख्यानमेतदेव प्रकीर्तितम् । ज्ञेयं शतसहस्रं तु सहस्राणि नवैव तु । नराणामपि पञ्चाशच्छतानि त्रीणि चैव हि । पञ्चषष्ठिसहस्राणि तथाश्वानां शतानि च । दशोत्तराणि षट् प्राहुः सङ्ख्यातत्त्वविदो जनाः । एतामक्षौहिणी प्राहुर्यथावदिह सङ्ख्ययेति’ । अन्यत्रापि । अक्षौहिण्याः परिमाणं ‘खागाष्टैकद्विकैर्गजैः । रथैरेतैर्हयैस्त्रिघ्नैः पञ्चघ्नैश्च पदातिभि’रिति । अस्यार्थः । खमाकाशमिति शून्यस्य नाम । अगाः पर्वता इति सप्तसङ्ख्याकस्य वैपरीत्येन चाङ्काः स्थापनीयाः । त्रिघ्रैस्त्रिगुणितैः पञ्जगुणितैः ॥ ३ ॥

न मे स्यान्निरयान्मोक्षो ह्यपि वर्षायुतायुतैः ।

बालद्विजसुहृन्मित्रपितृभ्रातृगुरुद्रुहः ॥ ४ ॥

पदरत्नावली

तत्फलमाह- न म इति ॥ मे निरयान् मोक्षोऽपि वर्षाणाम् अयुतायुतैर् न स्याद्धि । कथम्भूतस्य ? मे बालान् सौभद्रादीन्,द्विजान् द्रोणादीन्, सुहृदः द्रुपदादीन्, मित्राणि धनदानेनेष्टान् भटविशेषान् पितृन् भूरिश्रवःप्रभृतीन् भ्रातृन् दुर्योधनादीन्, गुरून् भीष्मादीन् द्रोहितवान् हिंसितवानिति बालद्विजसुहृन्मित्रपितृभ्रातृगुरुध्रक् तस्य ॥ ४ ॥

प्रकाशिका

मे निरयान्मोक्षो निर्गमनं वर्षाणामयुतायुतैरपि न न स्याद्धि प्रमाणप्रसिद्धमेतत् । कथंभूतस्य मे । बाला अभिमन्युप्रभृतयो द्विजा द्रोणादयः सुहृदो द्रुपदादयः । मित्राणि सखादयोऽश्वत्थामादयः पितरो भुरिश्रवप्रभृतयः पितृव्या भ्रातरो दुर्योधनादयो गुरवो भीष्मादय-स्तान्द्रुह्यतीति क्रुट् तस्य ॥ ४ ॥

नैनो राज्ञः प्रजाभर्तुर् धर्मो युद्धे वधो द्विषाम् ।

इति मे न तु बोधाय कल्पते शाश्वतं वचः ॥ ५ ॥

तात्पर्यम्

‘यः पदातिं हन्ति स भवति चातुर्मास्ययाजी यः सादिनं सोग्निष्टोमस्य यो हन्ति गजरथौ सोश्वमेधराजसूयाभ्याम्’ इत्यादि शाश्वतं वचः ॥ ५ ॥

पदरत्नावली

प्राजभर्तुः प्रजापालकस्य राज्ञः । हरिद्विषां वधः नैनः न पापं भवति । प्रत्युत युद्धे धर्म, वैरिणां राज्ञः वधः धर्मः धर्मसाधनमिति यत् ‘यः पदातिं हन्ति स भवति चातुर्मास्ययाजी’ त्यादिशाश्वतं नित्यं वेदवचः मे बोधाय भ्रमं निरस्य यथार्थज्ञानाय न कल्पत इत्यन्वयः । तुशब्द एवार्थे नञा तस्यान्वयः ॥ ५ ॥

प्रकाशिका

ननु श्रुतिविहिते विष्णुविद्विषां वधे कथमधर्मबुद्धिरित्यतः श्रुतेरर्थान्तरपरत्व-मित्याशयेनाह- नैन इति ॥ युद्धे द्विषां वधो राज्ञ एनः पापं न । किन्तु धर्म इति यत् शाश्वत-मपौरुषेयं वचस्तत्तु मे बोधाय दुर्योधनादिहननस्य धर्मत्वबोधनाय न तु नैव । कुत इत्यत उक्तम्- प्रजाभर्तुरिति ॥ अयं भावः । स्वप्रजानामन्यतो बाधे प्रसक्ते तद्वधस्तत्र कर्तव्यतयोक्तः । मद्भ्रात्रा दुर्योधनेन स्वप्रजायां पाल्यमानायां मया केवलं राज्यलोभेन तद्वधस्य कृतत्वात्पापमेवेदमिति । अत्र किं तच्छाश्वतं वच इत्यपेक्षायां तद्दर्शयति- यः पदातिमिति ॥ सादिनमश्वारोहम् । अग्निष्टोमस्याग्निष्टोमेन याजी पूजक इत्यनुवर्तते । एवमग्रेऽपि । शाश्वतं वचोऽपौरुषेयं वाक्यम् । अप्रामाण्यशङ्काऽनर्ह इति सूचनायेदम् । अत एवार्थान्तरं प्रजाभर्तुरित्यनेन सूचितम् ॥ ५ ॥

स्त्रीणां मद्धतबन्धूनां द्रोहो योसाविहान्वितः ।

कर्मभिर्हयमेधोयैर्नाहं कल्यो व्यपोहितुम् ॥ ६ ॥

पदरत्नावली

कुतो न कल्पत इति तत्राह- स्त्रीणामिति ॥ मद्धतबन्धूनां मया हता बन्धवो यासां तास् तथा तासाम् । मन्निमित्तं हता बन्धवः यासामिति वा । स्त्रीणां योऽसौ द्रोहः हिंसालक्षणः वैधव्यप्राप्त्या मय्यन्वियः सम्पृक्तस् तमहं हयमेधीयैर् अश्वमेधसम्बन्धिभिः कर्मभिर् व्यपोहितुं परिहर्तुं न कल्य न समर्थ इत्येकान्वयः ॥ ६ ॥

प्रकाशिका

अस्तु वा युद्धे पुंसां द्वेषिवधो धर्मः । मया हता बन्धवो यासां तास्तासां स्त्रीणां योऽसौ द्रोहो वैधव्याद्यापादनजन्योऽधर्म इह युद्धेऽन्वितस् तमहं हयमेधीयैरश्वसम्बन्धिभिः कर्मभि-र्व्यपोहितुमपाकर्तुं कल्पः समर्थो नास्मि ॥ ६ ॥

यथा पङ्केन पङ्काम्भ सुरया वा सुराकृतम् ।

भूतहत्यां तथैवैतां न यज्ञो मार्ष्टुमर्हति ॥ ७ ॥

पदरत्नावली

तत्र दृष्टान्तमाह- यथेति ॥ पङ्काम्भः कर्दमजलं पङ्केन कर्दमेन युक्तं द्रव्यं शोधयितुं यथा न शक्नोति । सुरया कृतं मिश्रितं यथा सुरा दोषं व्यपोह्य शुद्धं कर्तुं न शक्ता । स्वयमशुद्धत्वात् । तथैव यज्ञः हिंसरूपत्वाद् एतां भूतहत्यां मार्ष्टुं मार्जयितुं नार्हतीत्येकान्वयः । ज्ञानपक्षमाश्रित्य युधिष्ठिरेण यज्ञः निन्दितः । न त्वकर्तव्यत्वबुध्या । ‘ब्रह्मार्पणं ब्रह्महवि’रित्यादौ ब्रह्मार्पणबुध्या कर्तव्यत्वेन विहितत्वात् । ‘कर्मणा ज्ञानमातनोती’त्यादेश्च ॥ ७ ॥

प्रकाशिका

कुत इत्यतो दृष्टान्तमुखेनोपपादयति- यथेति ॥ यथा घनीभूतेन पङ्केन पङ्काम्भः पङ्कमिश्रिताम्भो न मृज्यते न शुद्धं भवति । यथा वा सुरबिन्दुना मिश्रीकृतं क्षीरादिकं बाह्यया सुरया न मृज्यते । अधिकाशुद्धिहेतुत्वात् । तथैव तां मया कृतां भूतहत्यां बालद्विजादिरूपप्राणिहिंसाम् । तज्जन्यमधर्ममिति यावत् । मार्ष्टुमपाकर्तुम् । यज्ञस्यापि पशुहिंसादियुतत्वेन पापसाधनत्वादिति भावः । ननु यागीयपशुहिंसाया अधर्मसाधनत्वं कथं धर्मसुतो वदतीति चेत् । अयमिहाभिप्रायस्तस्य । सत्यं ब्रह्मार्पणं ब्रह्महविर्ब्रह्माग्नौ ब्रह्मणाहुतमित्यादिनोक्तं हर्यनुसन्धानपूर्वकं कृतं यज्ञादिकं पापसाधनं न भवति प्रत्युत तच्छोधकमेवेति । इदानीं मया सुहृत्स्नेहमोहकलिलेन मनसा न हर्यनुसन्धानं कर्तुं शक्यम् । अतस्तद्विधुरो यज्ञो मया कृतश्चेत्पापहेतुरेव भविष्यतीति ॥ ७ ॥

सूत उवाच—

इति भीतः प्रजाद्रोहात्सर्वधर्मविवित्सया ।

ततो विशसनं प्रायाद्यत्र देवव्रतोऽपतत् ॥ ८ ॥

पदरत्नावली

प्रजाद्रोहाद् इति भीतः युधिष्ठिरः सर्वधर्मज्ञानेच्छया ततो हस्तिनपुराद् विशसनं युद्धस्थानं कुरुक्षेत्रं प्रायात् । तत्रापि यत्र देवव्रतः भीष्मो ऽपतदित्येकान्वयः ॥ ८ ॥

प्रकाशिका

विवित्सया वेदितुमिच्छया । विशसनं युद्धस्थानं कुरुक्षेत्रम् । देवव्रतो भीष्मः॥८॥

तदा तद्भ्रातरः सर्वे सदश्वैस्स्वर्णभूषितैः ।

अन्वगच्छन्रथैर्विप्रा व्यासधौम्यादयस्तथा ॥ ९ ॥

पदरत्नावली

तस्य युधिष्ठिरस्य भ्रातरः भीमादयः । सन्तः प्रशस्ता अश्वा येषां ते तथा तैः । तथा व्यासादयो विप्रा अन्वगच्छन्नित्येकान्वयः ॥ ९ ॥

प्रकाशिका

सन्तः श्रेष्ठा अश्वा येषु तै रथैः । व्यासधौम्यादयो विप्राः ॥ ९ ॥

भगवानपि विप्रर्षे रथेन सधनञ्जयः ।

स तैर्व्यरोचत नृपः कुबेर इव गुह्यकैः ॥ १० ॥

पदरत्नावली

सधनञ्जयः सार्जुनः । गुह्यकैर् यक्षैः कुबेरः वैश्रवणः । व्यरोचत अराजत । ‘रुच दीप्तौ’ ॥ १० ॥

प्रकाशिका

गुह्यकैर्यक्षैः ॥ १० ॥

दृष्ट्वा निपतितं भूमौ दिवश्च्युतमिवामरम् ।

प्रणेमुः पाण्डवा भीष्मं सानुगाः सहचक्रिणः ॥ ११ ॥

पदरत्नावली

सहचक्रिणश् चक्रिणा कृष्णेन सहिताः । दिवः स्वर्गाच् च्युतं समागतं देवमिव द्योतमानम् ॥ ११ ॥

प्रकाशिका

निपतितं भीष्ममित्यन्वयः । दिवः स्वर्गाच्च्युतं भूमौ निपतितम् । अमरं देवमिव । द्योतमानमिति शेषः ॥ ११ ॥

तत्र ब्रह्मर्षयः सर्वे देवर्षयश्च सत्तम ।

राजर्षयश्च तत्रासन्द्रष्टुं भरतपुङ्गवम् ॥ १२ ॥

पदरत्नावली

तत्र तदा सर्वे देवर्षयः नारदादयः, ब्रह्मर्षयो व्यासादयः राजर्षयो विश्वा-मित्रादयः, तत्र भरतपुङ्गवं भीष्मं द्रष्टुम् आयाता आसन्नित्यन्वयः ॥ १२ ॥

प्रकाशिका

तत्र तदा तत्रासन् तत्क्षणमेव योगसामर्थ्येन तत्रागता आसन्नित्यर्थः । भरतपुङ्गवं भीष्मम् ॥ १२ ॥

पर्वतो नारदो धौम्यः भगवान्बादरायणः ।

बृहदश्वो भरद्वाजः सशिष्यो रेणुकासुतः ॥ १३ ॥

पदरत्नावली

तेषां नामान्याह- पर्वत इत्यादिना ॥ रेणुकासुतः श्रीपरशुरामः ॥ १३ ॥

प्रकाशिका

रेणुकासुतः परशुरामः ॥ १३ ॥

वसिष्ठ इन्द्रप्रमदस्त्रितो गृत्समदोऽसितः ।

कक्षीवान्गौतमोऽत्रिश्च कौशिकोऽथ सुदर्शनः ॥ १४ ॥

पदरत्नावली

कौशिकः विश्वामित्रः ॥ १४ ॥

प्रकाशिका

कौशिको विश्वामित्रः ॥ १४ ॥

अन्ये च मुनयो ब्रह्मन्ब्रह्मरातादयोऽमलाः ।

शिष्यैरुपेता आजग्मुः कश्यपाङ्गिरसादयः ॥ १५ ॥

पदरत्नावली

ब्रह्मरातः शुकः । पर्वताद्या आङ्गिरसान्ता मुनय आजग्मुरित्यन्वयः ॥ १५ ॥

प्रकाशिका

ब्रह्मरातः शुकः । अङ्गिरसो बृहस्पतिः ॥ १५ ॥

तान्समेतान्महाभाग उपलभ्य वसूत्तमः ।

पूजयामास धर्मज्ञो देशकालविभागवित् ॥ १६ ॥

पदरत्नावली

महाभागः वसूत्तमः भीष्मः समेतान् सङ्गतान् तान् ऋष्यादीन् उपलभ्य दृष्ट्वा मनसा प्रतिगम्य वा पूजयामास । कथंभूतः ? देशकालविभागवित् । देशः कुरुक्षेत्रम् । कालः शरतल्पशयनलक्षणः । तयोर् विभागम् औचित्यं वेत्तीति । प्रत्युत्थानाभिवादनाभिपूजनायाम् अशक्तत्वान् मानसीं वाचिकीम् आञ्जलिकीं वा पूजां कृतवानित्यर्थः । अन्यत्र तत्तद्देशतत्त्कालविभागं जानातीति । धर्मज्ञ आपत्सम्पद्धर्मौ जानातीति । धर्मः भगवान् तं जानातीति वा ॥ १६ ॥

प्रकाशिका

वसूत्तमो भीष्मः । कथंभूतः । देशकालयोः शक्ताशक्तसम्बन्धित्वेन द्वैविध्यज्ञानी । शक्तेन हि महतां दूरतः प्रत्युद्गमः साष्टाङ्गप्रणामपूर्वकं पूजा कार्या । अशक्तेन तु स्वयं यस्मिन्देशे काले वा तिष्ठति तत्रैव स्थित्वा मानसं वाचकं वा प्रणामादिकं कार्यमिति जानन्स्वयमपि मनसा वचसा वा प्रणामादिकं कृतवानिति भावः ॥ १६ ॥

कृष्णञ्च तत्प्रभावज्ञ आसीनं जगदीश्वरम् ।

हृदिस्थं पूजयामास माययोपात्तविग्रहम् ॥ १७ ॥

पदरत्नावली

कृष्णञ्च पूजयामासेत्यन्वयः । कथंभूतः ? तस्य कृष्णस्य प्रभावं सामर्थ्यं जानातीति तत्प्रभावज्ञः । कथंभूतम् ? तत्रासीनम् । जगत ईश्वरम् । मायया स्वेच्छया पितृत्वे-नाङ्गीकृतवसुदेवशरीरम् । हृदि मनसि स्थितम् । ध्यानलक्षणोपासनया शरीरमध्ये पुण्डरीककर्णिकायां दीपवद्देदीप्यमानं वा ॥ १७ ॥

प्रकाशिका

हृदि स्थितम् । पुरत आसीनम् । माययेच्छयोपात्तः प्रकटीकृतो विग्रहो यस्य ॥१७॥

पाण्डुपुत्रानुपासीनान्प्रश्रयप्रेमसन्नतान् ।

अभ्याचष्टानुरागास्त्रैरन्धीभूतेन चक्षुषा ॥ १८ ॥

पदरत्नावली

प्रश्रयगुणेन प्रेमगुणेन च सम्यक् नतान् । समीपे निषण्णान् । पाण्डोः पुत्रान् । तेष्वनुरागप्रयुक्तैरस्त्रैर् बाष्पैरन्धीभूतेन चक्षुषा युक्तः । ‘इत्थम्भूतलक्षणे तृतीये’ति सूत्रम् । अभ्याचष्ट आह । आभिमुख्येनापश्यदिति वान्वयः ॥ १८ ॥

प्रकाशिका

उपासीनान् उप समीपे उपविष्टान् । प्रश्नयो विनयः प्रेमः स्नेहस्ताभ्यां सम्यङ्न तान्नतान् नम्रान् अभ्याचष्ट ददर्श । अभ्यभाषते इति वा ॥ १८ ॥

भीष्म उवाच—

अहो कष्टमहोऽन्याय्यं यद्यूयं धर्मनन्दन ।

जीवितुं नार्हथ क्लिष्टं विप्रधर्माच्युताश्रयाः ॥ १९ ॥

पदरत्नावली

यो धर्मनन्दन युधिष्ठिर । यूयं क्लिष्टं क्लेशयुक्ततया जीवितुं नार्हथ । विप्रादिषु एकैकोऽपि सुखजीवनायालम् । किमु बहुत्वे इत्यभिप्रायेणोक्तं- विप्रधर्माच्युताश्रया इति ॥ तथापि यत् क्लिष्टं जीवथ तत्कष्टम् अन्याय्यम् अहो अहो आश्चर्यादप्याश्चर्यम् । अहो अन्याय्यमिति प्रगृह्यसंज्ञाभावो लोकदृष्टिमपेक्ष्यैवोक्तः । न तु पाण्डवानां दुःखमस्तीति । तेषां भूभारावतरणायावतीर्णानाम् असुरजन-निधनेन वनवासादावपि नित्यसुखित्वादि’ ति द्योतनार्थः । धर्मस्य नन्दनः । धर्मं नन्दयतीति वा । धर्म एव नन्दनो यस्य स तथेति वा । धर्मेण सुखक्रीडा यस्य स तथेति वा । तस्मान् नन्दनं सुखं यस्य सस् तथेति वा ॥ १९ ॥

प्रकाशिका

तदेवाभिभाषणं दर्शयति- अहो इति ॥ हे धर्मनन्दन युधिष्टिर । यूयं क्लिष्टं क्लेशयुक्तं जीवितुं नार्हथ यद्यस्माद्विप्रधर्माच्युताश्रयाः । एतदेकतराश्रया अपि क्लिष्टं जीवितुं नार्हन्ति । यूयं तु त्रयाश्रया नार्हन्तीति किं वाच्यम् । अथाऽपि यत्क्लिष्टं भवतां जीवनं तत्कष्टमहोऽन्याय्यमहो आश्चर्यादप्याश्चर्यम् ॥ १९ ॥

संस्थितेऽतिरथे पाण्डौ पृथा बालप्रजावधूः ।

युष्मत्कृते बहून्क्लेशान्प्राप्ता तोकवती यथा ॥ २० ॥

पदरत्नावली

अतिरथे पाण्डौ संस्थिते स्वर्गं गतवति सति अतोकवती पुत्ररहिता यथा बहुक्लेशवती भवति तथा बालप्रजा युष्मन्माता पृथा पुत्रवत्यपि युष्मत्कृते युष्मत्पोषणपालनाद्यर्थं बहून् क्लेशान् प्राप्ता । पुत्रबाहुल्ये मतुप्प्रत्ययः । पुत्रवती पुत्रपोषणादावतिक्लेशं प्राप्नोति यथा तथेत्यन्वय-दृष्टान्तो वेत्येकान्वयः ॥ २० ॥

प्रकाशिका

कथमस्माकं जीवनं कष्टमित्यतः सङ्क्षेपतो दर्शयति- संस्थित इति ॥ संस्थिते मृते बालाः प्रजाः पुत्रा यस्याः सा वधूश्चेति दैन्यं दर्शितम् । अतोकवती पुत्ररहिता । यथा बहून्क्लेशान्प्राप्नोति तथेत्यर्थः ॥ २० ॥

सर्वं कालकृतं मन्ये भवताञ्च यदप्रियम् ।

सकालो यद्वशे लोको वायोरिव घनावलिः ॥ २१ ॥

पदरत्नावली

एवंविधयुष्मदप्रिये भवदारब्धकर्मनियामको हरिरेव हेतुरित्यभिप्रेत्याह- सर्वमिति ॥ भवतां यदप्रियं दुःखादि तत्सर्वं युष्मत्प्रारब्धकर्मनियामककालाख्यहरिकृतं मन्ये । वायोर् वशंगता घनावलिरिव जडाजडलोको यस्य भगवतः वशे वर्तते सः नारायणः सर्वगुणपूर्णत्वात् काल इत्युुच्यत इत्येकान्वयः ॥ २१ ॥

प्रकाशिका

दृष्टकारणाभावेऽप्यदृष्टं किञ्चित्कारणमस्तीति स्वयमेवाह- सर्वमिति ॥ विप्रधर्मा-च्युताश्रयाणामपि भवतां सर्वमप्रियं दुःखं कालकृतं भवत्प्रारब्धकर्मनियामकहरिकृतम् । कः कालो वायोर्वशे यथा घनावलिर्मेघपङ्क्तिस्तथा यद्वशे लोकस्थिष्ठति स हरिः कालो गुणपूर्णत्वात्कालशब्दवाच्य इत्यर्थः ॥ २१ ॥

यत्र धर्मसुतो राजा गदापाणिर्वृकोदरः ।

कृष्णोऽस्त्री गाण्डिवं चापं सुहृत्कृष्णस्ततो विपत् ॥ २२ ॥

पदरत्नावली

अन्यथानुपपत्तितर्कतोऽपि अयं हेतुः सिध्यतीत्याह- यत्रेति ॥ यत्र राजा रञ्जकः, धर्मस्य सुतः यत्र च तस्य राज्ञः कनिष्ठः क्षितिभारायितदितिसुतशोणितदिग्धां गदां पाणौ बिभ्रद् भक्त्या वशीकृतपरब्रह्मा वृकोदरः । तथा यत्र चेन्द्रावतारः कृष्णो ऽर्जुनो ऽस्त्री द्रोणादुपा-त्तास्त्रग्रामः । तस्य च करे रिपूणां पूयशोणितवमनकारिगाण्डीवाख्यं धनुः । यत्र चैषां सर्वसुपर्वाधि-राजोऽनन्तबलवीर्यैश्वर्याद्यनन्तगुणार्णवः श्रीमान् वसुदेवपुत्रः कृष्णः सुहृद् अनिमित्तबन्धुः । ततस् तत्र विपत् । तेषां प्रारब्धकर्माभावे विपत्कुतस्स्यात् । अस्ति च । तस्मादित्येकान्वयः ॥ २२ ॥

प्रकाशिका

अन्यथानुपपत्तिसिद्धोऽयमर्थ इत्याह- यत्रेति ॥ कृष्णोऽर्जुनो ऽस्त्री अस्त्रज्ञस् ततस् तत्रापि विपद्भवति यत् तत्कर्मनियामकहरिकृतमेवेति कल्पनीयमिति शेषः ॥ २२ ॥

न ह्यस्य कर्हिचिद्राजन्पुमान्वेद विधित्सितम् ।

यद्विजिज्ञासाया युक्ता मुह्यन्ति कवयोऽपि हि ॥ २३ ॥

पदरत्नावली

सुहृदस्तस्य विपत्करत्वं कथयति तत्राह- न हीति ॥ अपरिच्छिन्नत्वाद् यस्य स्वरूपजिज्ञासया युक्ताः कवयोऽपि मुह्यन्ति । अयमित्थभूत इति निर्देष्टुं न जानन्ति । हे राज तस्यास्य विधित्सितं कर्तुमिष्टं कश्चिदपि पुमान् कदाचिन्न वेद । हि यस्मात् तस्मात् सर्वेषां स्वकृतादृष्टानु-सारिफलधातुरस्य भवत्सुहृत्वेऽपि प्रारब्धकर्मानुकूल्येन विपत्करत्वं युक्तमित्येकान्वयः ॥ २३ ॥

प्रकाशिका

ननु स्वभक्तैः पापरूपाणि कर्माणि कारयित्वा तेभ्यस्तत्फलरूपविपदः कस्मा-द्ददातीत्यत आह- न ह्यस्येति ॥ विधित्सितं कर्तुमिष्टं यस्य कालनामकस्य गुणपूर्णस्य विजिज्ञासया युक्ताः कवयोऽपि मुह्यन्ति तस्यास्येत्यन्वयः । हिशब्दः प्रमाणसिद्धोऽयमर्थ इति सूचयति ॥ २३ ॥

तस्माज्जगद्दैवतन्त्रं व्यवस्य भरतर्षभ ।

तस्यानुविहितोऽनाथा नाथ पाहि प्रजाः प्रभो ॥ २४ ॥

पदरत्नावली

विवक्षितकथनं निगमयति- तस्मादिति ॥ तस्माद् उक्तहेतुभ्यः दैवस्य हरेस् तन्त्रम् अधीनं जगन् निश्चित्य तस्य हरेर् अनुकूलया श्रुतिस्मृतिलक्षणया आज्ञया भगवद्द्विट्तदनुबन्धि-निग्रहशिष्टजनपरिपालनाख्ये स्वधर्मे विहितः विधिमनुवर्तमानस् तत्राधर्मबुद्धिमपहाय हे भरतर्षभ भरतकुलश्रेष्ट प्रभो समर्थ नाथ प्रजानाथ अनाथास् त्वदन्यनाथरहिताः प्रजाः पाहि इत्येकान्वयः ॥२४॥

प्रकाशिका

निगमयति- तस्मादिति ॥ हरेः स्वतन्त्रकर्तृत्वादित्यर्थः । इदं जगद्दैवतन्त्र-मीश्वराधीनम् । व्यवस्य निश्चित्य । अनुविहित आज्ञानुवर्ती सन् भगवदाज्ञारूपश्रुत्यादिविहित-विष्णुद्विट्तदनुबन्धिनिग्रहरूपो स्वकर्मणि अधर्मबुद्धिमपहायेति यावत् । हे नाथ । कुलपरम्परागत-स्वामिन् प्रभो समर्थ । अनाथास्त्वदन्यनाथरहिताः प्रजाः पाहि ॥ २४ ॥

एष वै भगवान्साक्षादाद्यो नारायणः पुमान् ।

मोहयन्मायया लोकं गूढश्चरति वृष्णिषु ॥ २५ ॥

पदरत्नावली

एतावन्तं कालम् ईश्वरं परोक्षतयाऽभिधाय इदानीम् अपरोक्षतया हस्तग्राहेण निर्दिशन्निव निदिशति- एष वा इति ॥ यः साक्षाद् आद्यः नारायणः भगवान् स एषः पुमान् लोकम् अज्ञजनं यथार्थज्ञानाच्छादिकया मायया मनुष्य इति मोहयन् गूढो ऽविज्ञातो वृष्णिषु चरति वै यस्मात् तस्माद् अयमेव कालाख्य इत्येकान्वयः ॥ २५ ॥

प्रकाशिका

ननु कृष्ण एवायं धर्म इति मां बोधयति नेश्वरो येन तदनुविहितः प्रजाः पालयामीत्यतः स एव कृष्ण इत्याह- एष इति ॥ मायया बन्धकशक्त्या मोहयन्नहमपि मनुष्य इति भ्रमवन्तं कुर्वन् ॥ २५ ॥

अस्यानुभावं भगवान्वेद गुह्यतमं शिवः ।

देवर्षिर् नारदः साक्षाद्भगवान्कपिलो नृप ॥ २६ ॥

पदरत्नावली

तर्हि क एवं यथावद्वेदेति तत्राह- अस्येति ॥ हे नृप सदाशिवः भगवान् अस्य हरेर् गुह्यतमम् अनुभावं वेद । तथा देवर्षिर् नारदः साक्षात् कपिलो भगवानपि जानीत इत्येकान्वयः ॥ २६ ॥

प्रकाशिका

तर्हि क एनं यथावद्वेदेत्यपेक्षायामाह- अस्यानुभावमिति ॥ गुह्यतममतिशयेन वेदतात्पर्यविषयीभूतं साक्षान्मुख्यत एव भगवान्न नारदादिवदुपचारेण ॥ २६ ॥

यं मन्यसे मातुलेयं प्रियं मित्रं सुहृत्तमम् ।

अकरोः सचिवं दूतं सौहृदादथ सारथिम् ॥ २७ ॥

पदरत्नावली

त्वं यं कृष्णं मातुलेयं मातुलस्य वसुदेवस्य अपत्यं प्रियं बन्धुं मित्रं सङ्कटेषु मित्वा ज्ञात्वा रक्षितारं सुहृत्तमम् अतिशयेन सुहृदं मन्यसे, यञ्च सौहृदात् सौहार्दात् सचिवं मन्त्रिणं दूतं सन्देशहरं सारथिं यन्तारम् अकरोः, तस्यास्येति पूर्वेण संबन्धः ॥ २७ ॥

प्रकाशिका

तन्मायया तवापि मोह इत्याशयेनाह- यं मन्यस इति ॥ यं कृष्णं मातुलेयं मातुलस्य वसुदेवस्यापत्यं प्रियं प्रीतिविषयं, मित्रं सखायं, सुहृत्तममनिमित्तोपकारकं, सौहृदात्सौहार्दात् । सचिवं मन्त्रिणम् । दूतं सन्देशहरम् । सारथिं यन्तारं चाकरोः कृतवानसि । तस्यास्येति पूर्वेणान्वयः

॥ २७ ॥

सर्वात्मनः समदृशो ह्यद्वयस्यानहङ्कृतेः ।

तत्कृतं मतिवैषम्यं निरवद्यस्य न क्वचित् ॥ २८ ॥

पदरत्नावली

तथाप्यहो सर्वोत्तमोऽहमनेन सारथित्वादिषु विहितो नन्वति विषमबुद्धि-र्नास्यास्तीत्याह- सर्वात्मन इति ॥ सर्वात्मनः सर्वान्तर्यामिणः ‘पिता माता सुहृद्बन्धुरि’ त्यादिवाक्याद् बन्ध्वादिषु स्थित्वा बन्ध्वादीनां बन्ध्वादित्वापादकत्वेन मुख्यबन्ध्वादित्वाद् बन्ध्वादिसर्वरूपत्वात् सर्वात्मनो वा समदृशः यथावस्तु तथा सर्वपदार्थान् जानतो ऽद्वयस्य समाधिकरहितस्य अनहंकृतेः प्राकृतवैकृतशरीररहितत्वाद् देहाद्यहंबुद्धिरहितस्य अत एव निरवद्यस्य रागादिसर्वदोषरहितस्य इत्येतैर्हेतुभिर् अस्य कृष्णस्य तत्कृतं सारथित्वादिकृतिनिमित्तं त्वयि मतिवैषम्यं क्वचिदपि नास्ति । अनेवंविधानां जीवानां हि तद् इत्येकान्वयः ॥ २८ ॥

प्रकाशिका

ननु कृष्ण ईश्वरश्चेत्कथं नीचे सारथ्यादौ कर्मणि प्रवृत्त इत्यत आह- सर्वात्मन इति ॥ समदृशो योग्यतामनुसृत्यैव जीवान्पश्यतः । तत्कृतं नीचोच्चकर्मकृतं ममेदं योग्यमिदमयोग्यमिति मतेर्वैषम्यं क्वचिदपि कदाऽपि नास्ति । सज्जना इति ज्ञात्वा तद्वात्सल्येन नीचमपि कर्म तद्धिताय कर्म करोतीति भावः । हेत्वन्तरमप्याह- निरवद्यस्येति ॥ रागादिदोषशून्यस्येत्यर्थः । तत्कुतः । अनहङ्कृतेरहङ्कारतत्त्वकार्याहङ्काररहितस्य । तदपि कुतः । अद्वयस्य समाधिकरहितस्य । तत्र हेतुः- सर्वात्मन इति ॥ सर्वस्वामिन इत्यर्थः ॥ २८ ॥

तथाप्येकान्तभक्तेषु पश्य भूपानुकम्पितम् ।

यन्मेऽसूंस्त्यजतः साक्षात्कृष्णो दर्शनमागतः ॥ २९ ॥

पदरत्नावली

एवंविधविषममतिष्वस्मास्वस्य संसर्गकारणं किमित्याशंक्य युष्मद्विधभक्तभक्त्या द्रवीकृतमनोनुकम्पैव कारणमित्याह- तथापीति ॥ हे भूप तथापि एवमुक्तप्रकारेण कृतकृत्यप्रकारेण कृतकृत्यस्याप्यस्य एकान्तभक्तेषु अव्यभिचीर्णभक्तिमत्सु युष्मासु अन्येषु मयि च अनुकम्पितम् अनुकम्पां कृपां पश्य । कुत इति तत्राह- यदिति ॥ प्राणत्यागकाले प्रायः स्वेन पुष्टाः पुत्रादयोऽपि पूर्वमेव विमुखा गच्छन्त्यहो । असून् प्राणान् त्यजतः मे मम स्वामी श्रीकृष्णः साक्षाद्दर्शनं दृष्टिविषयमागत इति यद् यस्मात् तस्माद् भक्तानुकम्पैव संसर्गकारणमित्येकान्वयः ॥ २९ ॥

प्रकाशिका

तस्य सज्जनेषु वात्सल्येऽहमपि दृष्टान्त इत्याशयेनाह- तथाऽपीति ॥ ममाह-मित्यहङ्कारकार्याभिमानाभावेऽपीत्यर्थः । हे भूप । अनुकम्पितमनुकम्पम् । साक्षाद्दर्शनं साक्षात्काररूपं ज्ञानमागतस्तद्विषयो जातः ॥ २९ ॥

भक्त्यावेश्य मनो यस्मिन् वाचा यन्नाम कीर्तयन् ।

त्यजन्कलेवरं योगी मुच्यते कामकर्मभिः ॥ ३० ॥

पदरत्नावली

प्राणात्यागकाले हरिदर्शनफलमाह- भक्त्येति ॥ भक्त्या हरौ मन आवेश्य वाचा यस्य हरेर् नारायणादिनाम कीर्तयन् कलेवरं शरीरं त्यजन् योगी कामकर्मभिर् मुच्यते मुक्तः स्यात् । तं प्रत्यक्षतो दृष्ट्वा म्रियमाणस्य मे मुक्तिः किं वर्णनीयेति वाक्यशेषः । तस्मात् तत्प्रीतिकृद्धर्मोऽप्रीतिकृदधर्मोऽतस्तदुक्तप्रकारेण स्वधर्मेऽधर्मबुद्धिं हित्वा त्वं राज्यं कुर्विति परमतात्पर्यार्थः

॥ ३० ॥

प्रकाशिका

प्राणत्यागकाले हरिदर्शनेन किं फलं येन तत्तदनुकम्पा स्यादिति शङ्कायां तत्फलं कैमुत्याभिप्रायेणाह- भक्त्येति ॥ यदा प्राणत्यागकाले यं स्मरन् गृणन्नपि मुच्यते तदा तं साक्षात्पश्यन्मुच्यत इति किं वाच्यमिति भावः ॥ ३० ॥

स देवदेवो भगवान्प्रतीक्षतां

कलेवरं यावदिदं हिनोम्यहम् ।

प्रसन्नहासारुणलोचनोल्लसन्-

मुखाम्बुजो ध्यानपथश्चतुर्भुजः ॥ ३१ ॥

पदरत्नावली

युधिष्ठिरं प्रत्यभिधाय इदानीं स्वच्छन्दमृत्युर्भीष्म उत्तरायणसमयपर्यन्तं भगवदोऽवस्थानं प्रार्थयते- स इति ॥ अहं यावदिदं पञ्चभूतरचितं कलेवरं हिनोमि त्यजामि तावद् उत्तरायणपर्यन्तं स देवदेवो भगवान् प्रतीक्षतां मयि कृपया अनुग्रहं कुर्यादिति प्रार्थये इत्यन्वयः । कथंभूतः ? प्रसन्नो हासश्च अरुणे लोचने नेत्रे च प्रसन्नहासारुणलोचनानि तैर् उल्लसन् मुखमेव अम्बुजं यस्य सस् तथा । ध्यानपथ उपासनाविषयः द्रष्टुं ध्यानमेव पन्था मार्गो यस्य स तथा । चत्वारो भुजा यस्य स तथा । इदमेव ध्यानविषयं वपुः । पुरतः स्थितस्य द्विभुजत्वाद् अत एव स इति परोक्षतया निर्देशः ॥ ३१ ॥

प्रकाशिका

इदानीं स्वदेहत्यागपर्यन्तं श्रीकृष्णस्य कृपापूर्वकनिरीक्षणं स्वस्मिन्प्रार्थयते- स देवेति ॥ यावदिदं हिनोमि त्यजामित्यनेन स्वेच्छामरणत्वं स्वस्य सूचयति । इदं भौतिकम् । प्रसन्न-हासेनारुणलोचनाभ्यां चोल्लसन्मुखाम्बुजं यस्य स तथा । ध्यानस्य पन्था विषयो यो निरन्तरं ध्यानविषयः स एव पुरतः स्थितः प्रतीक्षतामिति भावः ॥ ३१ ॥

सूत उवाच—

युधिष्टिरस्तदाकर्ण्य शयानं शरपञ्चरे ।

अपृच्छद्विविधान् धर्मान् ऋषीणामनुशृृण्वताम् ॥ ३२ ॥

पदरत्नावली

अथ युधिष्ठिरो भीष्मोक्तमाकर्ण्य शरतल्पे शयानं भीष्मं विविधान्धर्मान-पृच्छदित्यन्वयः । पृच्छतेर्द्विकर्मकत्वाद् भीष्मं धर्मानिति युज्यते ॥ ३२ ॥

प्रकाशिका

‘तत् प्रजाः पाही’ति भीष्मवाक्यमाकर्ण्य श्रुत्वा शरपञ्जरे शरसमूहरूपास्तरणे शयानमित्यनेन नेयं हरिधर्मान्वक्तुं तस्यावस्था तथाऽपि धर्मलोभादपृच्छदिति सूचयति ॥ ३२ ॥

पुरुषस्वभावविहितान्यथावर्णं यथाश्रमम् ।

वैराग्यरागोपाधिभ्यामाम्नातोभयलक्षणान् ॥ ३३ ॥

पदरत्नावली

धर्माणां तत्वविद्भीष्म एतान् धर्मान् नानाख्यानात्मकेष्वितिहासेसु वर्णया-मासेत्यन्वयः । कान् कथंभूतान् ? वर्णिपुरुषस्यैते निजत्वेन विहिता धर्मा तत्तदाश्रमिपुरुषस्यैते विहिता धर्मा इति विविच्य यथावर्णं यथाश्रमं वर्णिनाम् आश्रमिणां च पुरुषाणां स्वभावविहितान् निजत्वेन विहितान् धर्मान् वैराग्योपाधिना रागोपाधिना च एते निवृत्तिधर्मा एते प्रवृत्तिधर्मा इति ‘निष्कामं ज्ञानपूर्वमि’त्यादिवचनैः प्रतिपादितोभयविधलक्षणान् ॥ ३३ ॥

प्रकाशिका

यथावर्णं ब्राह्मणादिवर्णाननतिक्रम्य वर्तमानान् । यथाश्रमं ब्रह्मचर्याद्याश्रमाननति-क्रम्य वर्तमानान्पुरुषाणां स्वभावो योग्यता देवासुरनरत्वादिरूपमनुसृत्य विहितान्वैराग्यरागाभ्यामुपाधिभ्यां निमित्ताभ्याम् । क्रमेणाम्नातं श्रुत्यादिना प्रतिपादितमुभयं निवृत्तिप्रवृत्तिरूपं लक्षणं स्वरूपं येषां तान्

॥ ३३ ॥

दानधर्मान्राजधर्मान्मोक्षधर्मान्विभागशः ।

स्त्रीधर्मान्भगवद्धर्मान्समासव्यासयोगतः ॥ ३४ ॥

पदरत्नावली

विभागशः पृथक् पृथक् । भगवतः सर्वजगत्स्त्रष्टृत्वादिधर्मान् ॥ ३४ ॥

प्रकाशिका

पुनस्तेषु विशेषमाह- दानधर्मानिति ॥ मोक्षधर्मान् शमदमादीन् भगव-द्धर्मान्हरितोषकरान्मासोपवासादिरूपान् भगवतो जगज्जन्मादिकर्तृत्वादिरूपानिति वा । समासव्यासौ सङ्क्षेपविस्तारावेव योगावुपायौ ताभ्यामिति ॥ ३४ ॥

धर्मार्थकाममोक्षांश्च सहोपायान्यथा मुने ।

नानाख्यानेतिहासेषु वर्णयामास तत्ववित् ॥ ३५ ॥

पदरत्नावली

तथा धर्मार्थकाममोक्षांश्च तत्तत्साधनसहितान् समासव्यासयोगतः संक्षेपविस्तराभ्यां यथा यथावत् । तात्विकदेवोत्तमयुधिष्ठिरादिबोधने भीष्मस्यासामर्थ्याद् भीष्मस्य कीर्त्यर्थं तस्मिन् तत्काले विशेषाविष्टः श्रीकृष्ण एव पाण्डवप्रश्नान् व्यचख्यावित्यस्यार्थे यथेति ॥ ३५ ॥

प्रकाशिका

यथा यथावन्नानाख्यानेषु ये इतिहासास्तेषु यथा सन्ति तथेति वा ॥ ३५ ॥

धर्मान्प्रवदतस्तस्य स कालः प्रत्युपस्थितः ।

यो योगिनश् छन्दमृत्योर्वाञ्छितस्तूत्तरायणः ॥ ३६ ॥

पदरत्नावली

स्वच्छन्दमृत्योः स्वेच्छया मरणं कुर्वतः योगिनः ज्ञानिनः वाच्छित उत्तरायणाख्यः कालः यः सः भीष्मस्य प्रत्युपस्थित इत्यन्वयः । उत्क्रमिप्यतो ज्ञानिनः काले अनुगुणे किञ्चित् सुखाधिक्यं भवति, नान्यथा मुक्त्यभाव इत्येतमर्थं तुशब्दः वक्ति ॥ ३६ ॥

प्रकाशिका

छन्देनेच्छया मृत्युर्यस्य । तुशब्दो दक्षिणायनापेक्षयोत्तरायणस्य विशेषद्योतकः

॥ ३६ ॥

तदोपसंहृत्य गिरं सहस्त्रणीर्विमुक्तसङ्गं मन आदिपूरुषे ।

कृष्णे लसत्पीतपटे चतुर्भुजे पुरः स्थितेऽमीलितदृग्व्यधारयन् ॥ ३७ ॥

पदरत्नावली

तदा उत्तरायणे प्राप्ते सति सहस्त्रणीः स्वमुक्तिसमये स्वोपादिष्टानेकजननेता । एकादशाक्षौहिणीनायकस्य बलवतां सहस्त्रसंख्यावतां नायकत्वकथनं निन्द्यत्वादुपेक्षणीयम् । अमीलितदृक्प्रफुल्ललोचनः विशेषत उच्छ्वसितज्ञानो वा । भीष्मः गिरं विषयसम्बन्धिनीम् उपसंहृत्य मुक्तो विषयसङ्गः येन तत्तथोक्तं तन् मनः पुरःस्थिते प्रत्यक्षे चतुर्भिर् भुजैर् उपलब्धे शोभमानपि-शङ्गवस्त्रे आदिपुरुषे नारायणावतारे श्रीकृष्णे व्यधारयद् विशेषेणाचलतयाऽधारयदित्येकान्वयः । मीलितदृक् अर्धमुकुलितचक्षुर्वा ॥ ३७ ॥

प्रकाशिका

तदोत्तरायणे प्राप्ते गिरमन्यविषयां वाचमुपसंंहृत्य समाप्य सहस्रणीः । सहस्रशब्दो बहुपरः । बहुसङ्ख्याकान् भृत्यान् शिष्यान्वा नयन्तीति सहस्रणीर्विमुक्तसङ्गं त्यक्तविषयस्नेहम् । अमीलितदृक् फुल्लनेत्र एव सन् । ध्यानकाले नेत्रमीलनं भवति । तदकृत्वैव पुरःस्थितं कृष्णं पश्यंस्तस्मिन्मनो व्यधारयदित्यर्थः ॥ ३७ ॥

विशुद्धया धारणया धुताशुभस्तदीक्षयैवाशु गतायुधव्यथः ।

निवृत्तसर्वेन्द्रियवृत्तिविभ्रमस् तुष्ठाव जल्पं विसृजञ्जनार्दनम् ॥ ३८ ॥

पदरत्नावली

विशुद्धया फलरागादिदोषरहितया हरौ निरन्तरमनोधारणया धुताशुभः निरस्तपापस् तस्य श्रीकृष्णस्येक्षया निरीक्षणेनैव नान्येन आशु तत्क्षणं विनष्टायुधनिमित्तव्यथो ऽत एव तदितरत्र निवृत्तः निरस्तः सर्वेषाम् इन्द्रियाणां वृत्तीनां व्यापाराणां विभ्रमः विलासः यस्य सस् तथोक्तः । निवृत्तसर्वेन्द्रियवृत्तिश्चायं विगतभ्रमश्चायमिति वा । पद्यमयं जल्पं वचनं विसृजन् रचयन् व्यर्थवचनं मुञ्चन्वा । जनं जनान् अर्दयति विनाशयति । उपलक्षणमेतत् । मरणञ्च । जननमरणनाशकत्वेन नित्यमुक्तिदातृत्वाज् जनार्दनस् तं तुष्टावेत्येकान्वयः ॥ ३८ ॥

प्रकाशिका

विशुद्धया विषयसङ्गशून्यया धारणयैकैकाङ्गमाहात्म्यस्मरणलक्षणया । सर्वेषामिन्द्रियाणां वृत्तिर्व्यापारो विभ्रमोऽहंममाभिमानो निवृत्तौ सर्वेन्द्रियवृत्तिविभ्रमौ यस्य स तथा । जल्पं वाग्व्यापारं विसृजन्कुर्वन् । यद्यपि सर्वेन्द्रियनिवृत्तवृत्तिस्तथाऽपि हरिविषयवागिन्द्रियव्यापारं कुर्वंस्तुष्टावेति भावः । जनान् भूभारभूतान् अर्दयतीति जनार्दनस्तम् ॥ ३८ ॥

भीष्म उवाच—

इति मतिरुपकल्पिता वितृष्णा भगवति सात्वतपुङ्गवे विभूमि्न ।

स्वसुख उपगते क्वचिद्विहर्तुं प्रकृतिमुपेयुषि यद्भवप्रवाहः ॥ ३९ ॥

पदरत्नावली

ननु किमियं स्तुतिर् मानसी वाचनिकी वा ? नाद्यः । परार्थे जीवतः स्वप्रयोजनाय स्तुतेर् अनुपपन्नत्वात् । द्वितीयो युक्त इत्यभिप्रेत्याह- इतीति ॥ इतिशब्दो हेत्वर्थः । प्रकरणार्थो वा । समाप्तिवचनो वा । यत एवं भगवान् संकलप्रवर्तकस् तस्मात् तस्मिन् मतिर् मननशीला बुद्धिर् उपकल्पिता तद्विषयीकृता । सकलशास्त्रप्रकरणे वक्ष्यमाणप्रकरणे वा समाप्तो मरणकाले । किं विशिष्टे ? । विभूमि्न परिपूर्णे । अपरिच्छेदलक्षणपूर्णत्वं देशकालयोरप्यस्तीत्यत उक्तम्- भगवतीति ॥ निरवधिकैश्वर्यादिगुणवति । यः कश्चिद् ऋषिसत्तमो निर्दिश्यत इति शङ्का माभूदित्याह- सात्वतपुङ्गवे यादवेश्वरे । स्वसुखे स्वरूपानन्दे उपगते आगते अतिनिकटवर्तिनीति वा । ‘विलीनो हि प्रकृतौ संसारमेती’ ति श्रुतेर् यस्याः सकाशाज्जीवानां संसारप्रवाहो भवति, क्वचित् सृष्टिकाले नानावतार-रूपैर्विहर्तुं महदहङ्कारादिजगत्स्त्रष्टुकामां तां प्रकृतिं श्रियं जडात्मिकाञ्च उपेयुषि प्राप्तवति । कीदृशी मतिः ? वितृष्णा विषयतृष्णारहिता । वौ हरौ तृष्णा यस्या सा तथा वा । ‘विः पक्षिपरमात्मनो-रि’त्याभिधानम् ॥ ३९ ॥

प्रकाशिका

आदौ तावद्बाल्यमारभ्यैतत्कालपर्यन्तं या स्वकीयमनोवृत्तिस्तां श्रीकृष्णायार्पयति- इतीति ॥ इतिशब्दः पूर्वानुभूतप्रकारवचनः । एवं प्रकारा मतिर्मनोवृत्तिरुपकल्पिता समर्पिता । क्व विशेषणे भूमि्न परिपूर्णे । सात्त्वतानां यादवानां पुङ्गवे श्रीकृष्णे । वितृष्णा विगता तृष्णा । कथंभूते । क्वचित्कदाचित्सृष्टिकाले विहर्तुं नानारूपैः क्रीडां कर्तुं प्रकृतिं चेतनामचेतनां चोपेयुषि प्राप्तवति । ननु क्रीडायाः प्रयोजनत्वेऽपूर्णत्वप्रसङ्ग इत्यत उक्तम्- स्वसुखेति ॥ स्वस्वरूपभूतसुखे उपगते निकटवर्तिन्यपीत्यर्थः । पूर्णसुखे विद्यमानेऽपि स्वभावादेव विहारकरणमिति भावः । ननु प्रकृतिं प्राप्यैव कथं तस्य विहरणमित्यत उक्तम्- यदिति ॥ यद्यस्याः प्रकृतिः सकाशाज्जीवानां भवप्रवाहः संसार-परम्परा भवति । तां प्रकृतिमिति सम्बन्धः । प्रकृत्या जीवानां नानाविधशरीरप्राप्तौ तत्प्रेरणया तद्भरणाय च नानाविधरूपग्रहणरूपं विहरणं भगवतो भवतीति भावः ॥ ३९ ॥

त्रिभुवनकमनं तमालवर्णं रविकरगौरवराम्बरं दधाने ।

वपुरककुलावृत्ताननाब्जं विजयसखे रतिरस्तु मेऽनवद्या ॥ ४० ॥

पदरत्नावली

विजयो ऽर्जुनः सखा यस्य सस् तथा तस्मिन् श्रीकृष्णे मम अनवद्या रागाद्यवद्यविधुरा रतिरस्तु । रतिरनवद्या निर्दुष्टाऽस्त्विति वान्वयः । कथंभूते ? त्रिषु भुवनेषु कमनं कमनीयं त्रिभुवनानां कमनम् इच्छा यस्मिन् तत्तथोक्तमिति वा । तमालपुष्पवद्वर्णः यस्य तत्तथा । वरञ्च तद् अम्बरञ्च वराम्बरम् । नवस्य रवेर् आदित्यस्य करः किरण इव गौरम् अरुणं वराम्बरं यस्य वपुषस् तत्तथोक्तम् । ‘गौरोऽरुणे सिते पीते स्वच्छे च परिकीर्त्यत’ इत्यभिधानम् । अलककुलैः कुन्तलकुलैर् आवृत्तम् आच्छन्नम् आननाब्जं यस्य तत्तथा । एवंविधं वपुर् दधाने ॥ ४० ॥

प्रकाशिका

इदानीं श्रीकृष्णवपुर्वर्णयन् रतिं प्रार्थयते- त्रिभुवनेति ॥ त्रिभुवनेषु त्रिलोक्यां कमनं कमनीयम् । तमालपुष्पवन्नीलवर्णो यस्य तत् । उद्यद्रवेः करः किरणस्तद्वद्गौरं रक्तं वरं श्रेष्ठमम्बरं वस्त्रं यस्य तत् । अलककुलैः कुन्तलसमूहैरावृतमाननाब्जं यस्मिंस्तद्वपुःशरीरं दधाने । विजयोऽर्जुनः सखा यस्य तस्मिन् । अनवद्या फलानुसन्धानादिदोषरहिता रतिर्भक्तिः ॥ ४० ॥

युधि तुरगरजोविधूम्रविध्यत्कचलुलितश्रमवार्यलंकृतास्ये ।

मम निशितशरैर्विभिद्यमानत्वचि विलसत्कवचेऽस्तु कृष्ण आत्मा ॥ ४१ ॥

तात्पर्यम्

**असङ्गश्चाव्यथोऽभेद्योऽनिग्राह्योऽशोष्य एव च । विद्धोसृगञ्चितो बद्ध इति विष्णुः प्रदर्श्यते ॥ **

असुरान्मोहयन् देवः क्रीडयैव सुरेष्वपि । मानुषान् मध्यया दृष्ट्या न मुक्तेषु कथञ्चन ॥ इति स्कान्दे ॥ ४१-४५ ॥

॥ इति श्रिमद्भागवते नवमोध्यायः ॥

पदरत्नावली

मम आत्मा मनः कृष्णे अस्तु इत्यन्वयः । कथंभूते ? विलयत् शोभमानं कवचं यस्य स तथा तस्मिन् । विलसत् सर्पोऽनन्तः कवचं शयनस्थानीयं यस्य स तथा तस्मिन्निति वा । अच्छेद्याभेद्यत्वेऽपि असुरमोहनाय मम निशितैः शरैर् विभिद्यमानेव त्वक् यस्य स तथा तस्मिन् । वीत्युपसर्गाद्भिद्यमानत्वमपि अविद्यमानमेवेति ज्ञातव्यम् । निशितशरैरपि अभिद्यमानत्वगिति तात्पर्यार्थः । विप्रिय इतिवत् । युद्धे तुरगाणां खुरनिपातोत्थितै रजोभिर् विशेषेण धूम्रवर्णैश्च तैर् विध्वद्भिः परस्परम् आध्नद्भिः कचैः केशैर् लुलितैः कलुषितैः श्रमवारिभिः श्रमनिमित्तैः स्वेदोदबिन्दुभिर् अलङ्कृतम् आस्यं मुखं यस्य य तथोक्तस् तस्मिन् ॥ ४१ ॥

प्रकाशिका

इदानीं स्वकृतापराधसहिष्णुत्वरूपं गुणं स्मरंस्तस्मिन्मनोदार्ढ्यं प्रार्थयते- युधीति ॥ आत्मा मनः कृष्णेऽस्वित्यन्वयः । कथंभूते । युधि युद्धे तुरगाणां खुररजस्तुरगरजस्तेन विधूम्रा विशेषेण धूम्रवर्णास्ते च ते विद्ध्यन्तः परस्परं घ्नन्तः । सन्घर्षयन्त इति यावत् । कचाः कुन्तलाश्च तैर्विलुलितानि विशेषेण संश्लिष्टानि श्रमवारीणि स्वेदबिन्दुरूपाणि तैरलङ्कृतमास्यं यस्य तस्मिन् । पुनः कथंभूते । निशितैस्तीक्ष्णैः शरैर्विभिद्यमाना त्वक् यस्य तस्मिन् । शरैरेव विलसत्कवचं यस्य तस्मिन् । अत्र चिदानन्ददेहस्य तु विभेद उत्तरत्र क्षतजपरिप्लुतत्वं च कथमित्यतो ऋजुमुक्त-व्यतिरिक्तसर्वजीवमोहनायेश्वरस्तथा दृश्यते न वास्तवं तस्य त्वग्भेदादिकमित्याशयेनात्र प्रमाणमाह- असङ्ग इति ॥ सर्वत्र सत्वेऽपि तत्तद्वस्तुकृतलेपशून्यो, मोहयन्नेवेति सम्बन्धः । नन्वेवं मोहनेन स्वस्य किं प्रयोजनमित्यत उक्तम्- क्रीडयेति ॥ अत्र वा एवशब्दसम्बन्धः । सुरेष्विति ॥ निर्धारणे सप्तमी । तेन सुरेषु कांश्चिदेव मोहयन्नित्यर्थः । मध्यया दृष्ट्येत्यनेन सुराणामीषन्मोहोऽसुराणामत्यन्तमिति सूचयति ॥ ४१ ॥

सपदि सखिवचो निशम्य मध्ये निजपरयोर्बलयो रथं निवेश्य ।

स्थितवति परसैनिकायुरक्ष्णा हृतवति पार्थसखे रतिर्ममास्तु ॥ ४२ ॥

पदरत्नावली

पार्थसखे श्रीकृष्णे मम रतिरस्तु इत्यन्वयः । ‘सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युते’ ति सख्युर् अर्जुनस्य वचः निशम्य सपदि वचःश्रवणानन्तरं निजपरयोः पाण्डवकौरव-सम्बन्धिनोर्बलयोः सैन्ययोर्मध्ये रथं प्रवेश्य स्थितवति अक्ष्णा निरीक्षणेन परसैनिकानां कौरवसैन्यानाम् आयुर् जीवनलक्षणं हृतवति ॥ ४२ ॥

प्रकाशिका

अनायासेनैव भूभारहरणसामर्थ्यरूपं गुणं स्मरन् रतिं प्रार्थयते- सपदीति ॥ ‘सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युते’ति सख्युरर्जुनस्य वचो निशम्य सपदि तत्क्षणमेव निजपरयोः पाण्डवकौरवबलयोः सैन्ययोर्मध्ये रथं निवेश्य स्थितवति । अक्ष्णा निरीक्षणेनैव परेषां परस्परापेक्षया परेषां पाण्डवानां कौरवाणां च सेनासम्बन्धि यदायुरायुष्यं तद्धृतवति ॥ ४२ ॥

व्यवसितपृतनामुखं निरीक्ष्य स्वजनवधाद्विमुखस्य दोषबुद्ध्या ।

कुमतिमहरदात्मविद्यया यश्चरणरतिः परमस्य तस्य मेऽस्तु ॥ ४३ ॥

पदरत्नावली

यः परमः वीरस्वर्गं प्राप्तुं युद्धाय व्यवस्थितयोर् निश्चितयोः पृतनयोः सेनयोर् मुख्यं भीष्मादिकं निरीक्ष्य ‘हत्वार्थकामांस्तु गुरूनिहैवे’ति दोषबुद्ध्या ‘न योत्स्य’ इत्युक्त्वा स्वजनहननाद्विमुखस्य निवृत्तस्य अर्जुनस्य कुमतिं दुष्टनिग्रहशिष्टपरिपालनलक्षणव्यापारबुद्धेर् विपरीतबुद्धिं ‘अशोच्यानन्वशोचस्त्वमि’त्यादिरूपया आत्मविद्यया अहरत् ‘करिष्ये वचनं तवे’ति दुष्टनिग्रहलक्षणे धर्मे बुद्धिं कारितवान् । मे तस्य परमस्य चरणयोः स्मरणेन ज्ञानसाधनयोर् अवयवविशेषयोः रतिरस्तु इत्यन्वयः ॥ ४३ ॥

प्रकाशिका

इदानीमर्जुनं निमित्तीकृत्य गीतोपदेशव्याजेन सकलसज्जनकुमतिनाशकत्वरूपं गुणमनुसन्दधानो रतिं प्रार्थयते- व्यवसितेति ॥ व्यवसितयोर्मर्तुं निश्चितयोः पृतनयोर्मुखमिव मुखमग्रे स्थितं तमिमं भीष्मादिकं निरीक्ष्य विमुखस्य निवृत्तस्य कुमतिमहं हन्तेत्यादिरूपाम् । आत्मनः स्वस्य विद्यया गीतारूपया ॥ ४३ ॥

स्वनियममपहाय मत्प्रतिज्ञामृतमधिकर्तुमवप्लुतो रथस्थः ।

धृतरथचरणोऽभ्ययाद् बलाग्रे हरिरिव हन्तुमिभं गतोत्तरीयः ॥ ४४ ॥

पदरत्नावली

अथ ‘युद्धे आयुधं न ग्रहीष्यामि’ इति स्वनियमं प्रतिज्ञालक्षणं विहाय यो भक्तानुकम्पी ‘आयुधं ग्राहयिष्यामी’ति मत्प्रतिज्ञामृतम् अधि सत्ये स्थितां कर्तुं धृतरथचरण उद्धृत-सुदर्शनचक्रः रथस्थः रथादवप्लुतोऽवतीर्णः गतोत्तरीयः श्लथितोत्तरीयवस्त्रः हरिः सिंह इभं गजमिव बलाग्रे उभयोः सेनयोः पुरतो मां हन्तुमभ्ययात् ॥ ४४ ॥

प्रकाशिका

इदानीं स्वप्रतिज्ञापालकत्वरूपं भक्तवात्सल्यं स्मरति- स्वनियममिति ॥ युद्धे आयुधं न गृहिष्यामीति स्वनियमं स्वप्रतिज्ञां विहाय । आयुधं ग्राहयिष्यामीति मत्प्रतिज्ञामृतमधि अधिऋतं सत्यमधिकृत्य वर्तमानं कर्तुम् । अव्ययस्य परनिपातश्छान्दसः । ऋतं यथा स्यात्तथाऽधिकर्तुम् आधिक्येन कर्तुमिति वा । अवप्लुतः सहसैवावतीर्णः सन् योऽभ्ययादभिमुखमधावत् । इभं गजं हन्तुम् । हरिः सिंह इव । कथंभूतः । धृतरथचरणे धृतो रथचरणश्चक्रो येन स तथा । सम्भ्रमेण पथि गतं पतितमुत्तरीयवस्त्रं यस्य स बलस्य सैन्यस्याग्रे पुरतः स्थितं माम् । प्रतीति शेषः ॥ ४४ ॥

शितविशिखहतो विशीर्णदंसः क्षतजपरिप्लुत आततायिनो मे ।

प्रसभमभिससार मद्वधार्थं स भवतु मे भगवान् मुदे मुकुन्दः ॥ ४५ ॥

पदरत्नावली

यश्च आततायिनो मे शितैस् तेजितैर् विशिखैर् बाणैर् हतः विद्धः विशीर्णदंसः खण्डितकवचः क्षतजेन रुधिरेण परिप्लुतः स्नात इव प्रसभं ‘रथान्नावतर’ ‘भीष्मं न प्रहर’ इत्युर्जुनवाक्यम् अनादृत्य बलात्कारेण मम वधार्थम् अभिससार । स मुकुन्दो भगवान् मम मुद्रे भवत्विति श्लोकद्वयान्वयः

॥ ४५ ॥

प्रकाशिका

अपराधिनोऽपि भक्तस्य मुक्तिप्रदत्वरूपं तन्माहात्म्यं सूचयन्मोक्षसुखं प्रार्थयते- शितविशिखेति ॥ एवं यदाऽभ्ययात्तदाऽऽततायिनो मे शितैस्तीक्ष्णैर्विशिखैर्बाणैर्हतोऽतो विशीर्णदंशः खण्डितकवचः क्षतजेन रुधिरेण परिप्लुतः स्नात इव स्थितः प्रसभं बलान्न गन्तव्यमिति वारयन्त-मप्युर्जुनम् । अतिक्रम्येति यावत् ॥ ४५ ॥

विजयरथकुटुम्ब आत्ततोत्रे धृतहयरश्मिजितश्रमेक्षणीये ।

भगवति रतिरस्तु मे मुमूर्षोर्यमिह निरीक्ष्य हता गताः स्वरूपम् ॥ ४६ ॥

पदरत्नावली

इह युद्धे यं निरीक्ष्य हताः स्वरूपं वैष्णवं धाम गताः । मुमूर्षोर् म्रियमाणस्य मे तस्मिन् भगवति रतिरस्त्वित्यन्वयः । कथंभूते ? विजयस्य अर्जुनस्य रथ एव कुटुम्बं रक्षणीयवर्गः यस्य स तथा तस्मिन् । आत्ततोत्रे गृहीतप्रतोदे । धृता हयरश्मयः कविकामुखरज्जवः येन स तथा । जितश्रम इति भावप्रधानो निर्देशः । जितश्रमतया ईक्षणीयः दर्शनीयः । धृतहयरश्मिश्चायं जितश्रमे-क्षणीयश्चेति तथोक्तस् तस्मिन् । जितश्रम इति कृष्णविशेषणं वा । स्वरूपं मूलरूपं वा ॥ ४६ ॥

प्रकाशिका

अर्जुनोपकारित्वं प्राणत्यागकाले दर्शनमात्रेण मोक्षप्रदत्वं च स्मरन् रतिं प्रार्थयते- विजयेति ॥ विजयोऽर्जुनस्तस्य रथ एव कुटुम्बो रक्षणीयत्वसाम्याद् यस्य तस्मिन् । आत्तं गृहीतं तोत्रं प्रतोदो येन तस्मिन् । धृता हयरश्मयः प्रग्रहा येन स धृतहयरश्मिः स चासौ जितश्रमश्चासावीक्षणीश्च तस्मिन् । इह युद्धे हता यं नीरीक्ष्य स्वरूपमाविर्भूतं स्वस्वरूपं मूलरूपं वा गताः प्राप्ता भविष्यन्तीति दिव्यदृष्ट्या पश्यन्नाह ॥ ४६ ॥

ललितगतिविलासवल्गुहासप्रणयनिरीक्षणकल्पितोरुमानाः ।

कृतमनुकृतवत्य उन्मदान्धाः प्रकृतिमनुः किल यस्य गोपवध्वः ॥ ४७ ॥

पदरत्नावली

यस्य ललितानि गतिविलासादीनि तथोक्तानि । गतिश्च विलासश्च वल्गुहासः मन्दस्मितञ्च प्रणयेन निरीक्षणञ्च तथोक्तानि तैः कल्पितम् उरु पृथु मानं यासां तास् तथोक्ताः । ललितगत्यादिभिः कृष्णे कल्पितं समर्पितम् उरुमानं महापूजा याभिस् तास् तथोक्ता इति वा । अत एव उत्कृष्टेन मदेन अन्धाः । कृतं पूतनावधादिपराक्रमम् अनुकृतवत्यः कृष्णायमानत्वेनानुकुर्वाणा गोपवध्वः गोपस्त्रियः प्रकृतिं जडशरीरं विहाय स्वभावाविर्भावलक्षणं मोक्षम् अगुः किल । तस्मिन् कृष्णे रतिरस्त्विति पूर्वेणान्वयः ॥ ४७ ॥

प्रकाशिका

यदा मदान्धानां गोपस्त्रीणां कामेनापि स्वात्मानं ध्यायतां मुक्तिं ददाति तदा स्वस्ववर्णाश्रमविहितधर्मैः स्वात्मानां भजतां पुंसामयं मुक्तिं दास्यतीति किं वाच्यमित्याशयेनाह- ललितेति ॥ ललिता मनोहरा गतिश्च विलासो रासादिश्च वल्गुहासो मन्दहासश्च प्रणयेन स्नेहेन निरीक्षणं च तैरात्मीयैस्तदीयैर्वा कल्पित उरुमानः पूजा यासां ताः । अत उत्कटेन मदेनान्धाः । कृतं कृष्णकृतं पूतनावधादिकम् । अनुकृतवत्यः कृष्णायमानत्वेनानुकुर्वाणा गोपवध्वो यस्य कृष्णस्य प्रकृतिं निर्दुःखपरमानन्दस्वभावमगुः प्राप्ताः कृष्णवत्स्वयमपि निर्दुःखपरमानन्दस्वभावा जाता इत्यर्थः । यस्यानुग्रहादिति वा । किलेति प्रमाणप्रसिद्धिमाह । तस्मिन्मे रतिरस्त्विति पूर्वेणान्वयः ॥ ४७ ॥

मुनिगणनृपवर्यसंकुलेऽन्तः सदसि युधिष्ठिरराजसूय एषाम् ।

अर्हणमभिपेद ईक्षणीयो मम दृशिगोचर एष आविरात्मा ॥ ४८ ॥

पदरत्नावली

मुनीनां गणैर् नृपाणां वर्यैश्च सङ्कुले निबिडे युधिष्ठिरराजसूये यज्ञे अन्तः सदसि एषाम् ऋष्यादीनां मध्ये यो ऽर्हणम् अग्रपूजाम् अभिपेदे प्राप्तवान् । युधिष्ठिरपृष्टभीष्ममुखेन अयमेवाग्रपूजार्ह इति शास्त्रत उपपाद्यादत्तेति वा । स एष आत्मा परमात्मा मत्कारुण्यान्मरणसमये मम दृशिगोचरः दृष्टिविषय आविरभूत्, अहो मम भाग्यमिति शेषः । आविरात्मा प्रकाशरूप इति ॥ ४८ ॥

प्रकाशिका

तस्य जगत्पूज्यतामनुस्मरन्नाह- मुनिगणेति ॥ मुनिगणैर्नृपवरैश्च सङ्कुले व्याप्ते । अन्तः सदसि सभामध्ये एषां मुनिगणादीनां मध्ये योऽर्हणमग्रपूजामभिपेदे प्राप्तवान् । स एष आत्मा सर्वान्तर्यामी मत्कारुण्यान्मरणसमये मम दृष्टिविषयः सन् आविः प्रकटो वर्तते । अहो मम भाग्यमिति भावः ॥ ४८ ॥

तमिममहमजं शरीरभाजां हृदि हृदि विष्ठितमात्मकल्पितानाम् ।

प्रतिदृशमिव नैकधार्कमेकं समधिगतोऽस्मि विधूतभेदमोहः ॥ ४९ ॥

पदरत्नावली

आत्मत्वविवरणपूर्वकं स्तौति- तमिममिति ॥ चक्षुरभिमानित्वेेन प्रतिदृशं दृशं दृशं प्रति नैकधा चक्षुरिन्द्रियनियामकतया अनेकरूपं स्थितमर्कं यथैकमेव समधिगच्छति ज्ञानी, तथाहमपि आत्मना कल्पितानां सृष्टानां शरीरभाजां जीवानां हृदि हृदि विष्ठितं विविधं बहुरूपं स्थितं तमिममजं कृष्णम् एकत्वसङ्ख्याविशिष्टं न द्वित्वोपेतं समधिगतोऽस्मि ज्ञातवानस्मि । कीदृशोऽहं ? विधूतभेदमोहो ऽवतारगुणादिषु निरस्तभेदभ्रमबुद्धिः । यथावस्थितवस्तुविज्ञानी वा । अधिगन्त्रधिगम-नाधिगम्यानां भेदस्य अबाधितानुभवसिद्धत्वाद् अन्योऽहं कृष्णोऽन्य इति भेदमोहनिरासवचनं निजदर्शनदुराग्रहविजृम्भितम् । अविद्याकल्पितत्वमात्मपदप्रयोगेण निरस्तम् । अन्यथा तस्य वैय्यर्थ्यं स्यात् । शरीरभाजामित्यनेन चेतनबहुत्वसिद्धेश्च । नित्यो नित्यानां चेतनश्चेतनाना’मिति श्रुतेः ॥ ४९ ॥

प्रकाशिका

ननु तस्य सर्वान्तर्यामित्वे स्थानभेदे भेदः प्राप्त इत्याशङ्कायां सर्वप्राणिषु विद्यमान-स्यापि तस्यैक्यमेव न भेदोऽस्मदादिप्रत्यक्षादनुमानाच्चेत्याशयेनाह- तमिममिति ॥ आत्मकल्पितानां स्वेनैव सृष्टानां शरीरभाजां प्राणिनां हृदि प्रतिहृदयं विष्ठितं विविधरूपैः स्थितं तं परमात्मानमिममजं कृष्णं चैकमभिन्नं सम्यगधिगतोऽस्मि । सम्यक्त्वमेवाह- विधूतभेदमोह इति ॥ स्थानभेदादिलिङ्गजनित-भेदभ्रमरहित इत्यर्थः । अनेनात्यन्तमभेदं पश्यामीत्युक्तं भवति । यद्वा ‘ईशस्यापूर्णताज्ञानं विष्णोरन्यस्य चेष्यता । भेदस्तस्यावतारेषु जीवस्येशत्वमेव च । तथा जीवत्वमीशस्य जडभेदस्तयोरपि । भेदमोह इति प्रोक्तः सर्वदा स न हरौ क्वचित् । अन्येषां तत्प्रसादेन शनैर्याति सतामपि’ इति प्रमाणोक्तभेदमोह-विवर्जित इत्यर्थः । अत्र दृष्टान्तमाह- प्रतिदृशमिवेति ॥ चक्षुरभिमानित्वेन शरीरभाजां प्रतिदृशं प्रतिनेत्रं नैकधाऽनेकरूपैः स्थितमर्कं यथैकं समधिगच्छति तथैवेति । अहमधिगतोऽस्मीत्युपलक्षणयोक्तम् । सर्वेऽपि ज्ञानिन एवमेव पश्यन्तीति भावः । अनेन सर्वत्रावस्थित ईश्वरः स्वगतभेदशून्यश्चेतनत्वा-त्तत्त्वाभिमानिवदिति युक्तिं सूचयति ॥ ४९ ॥

क्षितिभरमवरोपितुं कुरूणां श्वसन इवासृजदक्षवंशवह्निम् ।

तमिममजमनुव्रतार्तिहांघ्रिं हृदि परिरभ्य जहामि मर्त्यनीडम् ॥ ५० ॥

पदरत्नावली

स्तुतिमुपसंहरति- क्षितिभरमिति ॥ श्वसन इव वायुर्यथा वंशेषु वेणुषु मिथः सङ्घर्षणाद्वह्रिं सृजति तथा अयं श्रीकृष्णः क्षितिभरं भूभारम् असुरबललक्षणम् अवरोपयितुम् अवतारयितुं कुरूणाम् अक्षवंशे अक्षतवंशे वह्रिं द्यूताख्यदहनम् असृजत् । तमिमम् अनुव्रतानां भक्तानाम् आर्तिं हतवानार्तिहा अङ्घिर्यस्य सस् तथोक्तस् तम् अजं श्रीकृष्णं हृदि परिरभ्य मर्त्यनीडं मरणधर्मशरीरं जहामि, स कृष्णोऽत्रानुग्रहं करोत्विति वाक्यशेषः ॥ ५० ॥

प्रकाशिका

ननु द्यूतमेव क्षितिभारहरणे निमित्तं प्रसिद्धमतः कृष्ण एव भूभारहन्तेति कथं प्रसिद्धिरित्याशङ्कायां द्यूतमपि तेनैव कारितमतः स एव हन्तेति स्मरन् स्तोत्रफलं सूचयन् स्वकर्तव्यं दर्शयति- क्षितीति ॥ क्षितिभरं भूभारमवरोपितुमुन्मूलयितुं कुरूणां दुर्योधनादीनां पाण्डवानां चाक्षवंश-वह्निम् । अत्र बुद्ध्या विवेकेनार्थो वर्णनीयः । यथा श्वसनो वायुर्वंशेषु वेणुषु मिथः सङ्कर्षणाद्वह्निं सृजति तथा कृष्णोऽपि कुरूणां सङ्घर्षणाद् द्यूताख्यं वंशनाशकं वह्निमसृजदिति अनुव्रतानां भक्तानां संसाररूपामार्तिं हन्तीति अनुव्रतार्तिहा तादृशोऽङ्घ्रिर्यस्य तम् । अनेन स्तोत्रफलमपि सूचितमिति ज्ञातव्यम् । मर्त्यनीडं मरणशीलं शरीरम् ॥ ५० ॥

सूत उवाच—

कृष्ण एवं भगवति मनोवाग्दृष्टिवृत्तिभिः ।

आत्मन्यात्मानमावेश्य सोऽन्तःश्वास उपारमत् ॥ ५१ ॥

पदरत्नावली

कथङ्कारं शरीरमत्याक्षीदिति तत्राह- कृष्ण इति ॥ एवम् उक्तप्रकारेण मनसो वाचो दृष्टेर् वृत्तिभिः । हृदि परिरभ्येत्युक्तत्वाद् आत्मनि हृदि स्थिते बहिः स्थिते च श्रीकृष्णे भगवति आत्मानं स्वजीवचैतन्यलक्षमन्तःकरणं नाहं स्वतन्त्रस् तदधीन एवेत्यावेश्य निधाय स भीष्मो ऽन्तःश्वासः रेचकपूरके कृत्वा श्वासोच्छ्वासरूपप्राणापानौ कुम्भके कृत्वा मूलाधाराद् ब्रह्मनाड्या नाभिचक्रदिक्रमेण उदानवायुम् ऊर्ध्वं नीत्वा उपारमत् शरीरं जहवित्येकान्वयः ॥ ५१ ॥

प्रकाशिका

तस्य शरीरत्यागप्रकारं दर्शयति- कृष्ण इति ॥ आत्मनि व्याप्ते आत्मानं मनोंऽतःश्वासः प्राणायामेन निरोधितश्वास उपारमद् योगाभ्यासेन शरीरं जहावित्यर्थः ॥ ५१ ॥

संपद्यमानमाज्ञाय भीष्मं ब्रह्माणि निष्फले ।

सर्वे बभूवुस्ते तूष्णीं वयांसीव दिनत्यये ॥ ५२ ॥

पदरत्नावली

समागतास्ते सर्वे निष्कले षोडशकलावर्जिते ब्रह्मणि हरौ सम्पद्यमानं प्राप्नुवन्तं भीष्ममाज्ञाय तूष्णीं बभूवुः । कथमिव ? दिनात्यये सन्ध्यासमये वयांसि पक्षिण इवेत्यन्वयः ॥ ५२ ॥

प्रकाशिका

मरणात्पूर्वमेव ब्रह्मणि सम्पद्यमानमसम्प्रज्ञातसमाध्यवस्थापन्नं पश्चात्स्वमूलरूपे सम्पद्यमानं प्राप्तवन्तमाज्ञाय सम्यग्ज्ञात्वा दिनात्यये सायङ्काले वसांसि पक्षिणः ॥ ५२ ॥

तत्र दुन्दुभयो नेदुर् देवगन्धर्वनादिताः ।

शशंसुः साधवो ब्रह्मन् खात्पेतुः पुष्पवृष्टयः ॥ ५३ ॥

पदरत्नावली

तत्र भीष्मस्य निर्याणसमये स्वाद् आकाशात्, भीष्ममूर्ध्नीति शेषः ॥ ५३ ॥

तस्य निर्हरणादीनि संपरेतस्य भार्गव ।

युधिष्ठिरः कारयित्वा मुहूर्तं दुःखितोऽभवत् ॥ ५४ ॥

पदरत्नावली

सम्परेतस्य मृतस्य निर्हरणादीनि शवसंस्कारपुरःसराणि कर्माणि कृत्वा भीमादिभिश्च कारयित्वा ॥ ५४ ॥

प्रकाशिका

सम्परेतस्य मृतस्य निर्हरणादीनि शवदाहादीनि । भो भार्गव शौनक । कारयित्वा भीमादिभिरिति शेषः ॥ ५४ ॥

तुष्टुवुर्मुनयो हृष्टाः कृष्णं तद्गुह्यनामभिः ।

ततस्ते कृष्णहृदयाः स्वाश्रमान्प्रययुः पुनः ॥ ५५ ॥

पदरत्नावली

भगवन्महिम्ना हृष्टा रोमाञ्चितसर्वाङ्गास् तस्य कृष्णस्य गुह्यनामभिर् वेदशिरोगतात्यन्तरहस्यनामभिः कृष्णहृदयाः कृष्णः हृदये येषां ते तथोक्ताः । कृष्णे हृदयं मनो येषामिति वा ॥ ५५ ॥

प्रकाशिका

ते मुनयः ॥ ५५ ॥

ततो युधिष्ठिरो गत्वा सकृष्णो गजसाह्वयम् ।

पितरं सान्त्वयामास गान्धारीञ्च तपस्विनीम् ॥ ५६ ॥

पदरत्नावली

गजसाह्वयं गजसमाननाम हस्तिनपुरम् । पितरं धृतराष्ट्रम् ॥ ५६ ॥

प्रकाशिका

पितरं धृतराष्ट्रम् ॥ ५६ ॥

॥ इति श्रिमद्भागवते प्रथमस्कन्धे प्रथमाध्यायटिप्पण्यां

वेदेशतीर्थपूज्यपादशिष्ययदुपतिविरचितायां नवमोऽध्यायः ॥ १-९ ॥

पित्रा चानुमनो राजा वासुदेवानुमोदितः ।

चकार राज्यं धर्मेण पितृपैतामहं विभुः ॥ ५७ ॥

॥ इति श्रीमद्भागवते प्रथमस्कन्धे नवमोऽध्यायः ॥

पदरत्नावली

अनुमोदितो अनुज्ञातः पित्रा धृतराष्ट्रेण च पितृपैतामहं पितृपितामहागतम् । धर्मेण शास्त्रोक्तवर्त्मना । विभुः राज्यकरणशक्तिमान् ॥ ५७ ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुविरचितायां प्रथमस्कन्धे नवमोऽध्यायः ॥