०८ अष्टमोऽध्यायः

पुत्रशोकातुराः सर्वे पाण्डवाः सह कृष्णया

अथ अष्टमोऽध्यायः

सूत उवाच—

पुत्रशोकातुराः सर्वे पाण्डवाः सह कृष्णया ।

स्वानां मृतानां यत्कृत्यं चक्रुर्निर्हरणादिकम् ॥ १ ॥

पदरत्नावली

भक्तिविधानार्थं भक्तवात्सल्याद्यचिन्त्यमाहान्त्यं मुरारेर्निरूप्यतेऽस्मिन्नध्याये । तदर्थं मृतानां यत्कर्तव्यं लौकिकं तदुच्यते- पुत्रशोकेति ॥ सर्वे पाण्डवा मृतानां प्राणवियोगं प्राप्तानां स्वानां बन्धूनां यत्कृत्यं निर्हरणादिकं शवदाहादिकं तच्चक्ररित्यन्वयः ॥ १ ॥

प्रकाशिका

भक्तिविधानार्थं भक्तवात्सल्याख्याचिन्त्यमाहात्म्यं मुरारेर्निरूप्यतेऽस्मिन्नध्याये । निर्हरणं दाहानार्थं नयनम् ॥ १ ॥

अथो निशामयामास कृष्णायाः(कृष्णायै) भगवान्पुरा ।

पतितायाः पादमूले रुदन्त्या यत्प्रतिश्रुतम् ॥ २ ॥

पश्य राज्ञ्यरिदारांस्ते रुदतो मुक्तमूर्धजान् ।

आलिङ्ग्य स्वपतीन्भीमगदाभग्नोरुवक्षसः ॥ ३ ॥

पदरत्नावली

‘भीमाहतान्दर्शयिष्य’ इति पुरा यत्प्रतिश्रुतं तद् अस्यै द्रौपद्यै निशामयामास दर्शयामासेत्यन्वयः ॥

हे राज्ञि ते अरिदारान् शत्रुभार्या मुक्तमूर्धजान् मुक्तकेशीर् भीमस्य गदया भग्ना ऊरव उत्सङ्गाश्च वक्षांसि च येषां ते तथोक्ताः । ऊरूणि विस्तीर्णानि वक्षांसीति वा ॥ २,३ ॥

प्रकाशिका

पुरा वनवासदशायां भीमहतान्स्वपतीनालिङ्ग्य मुक्तकेशा रुदतीर्दुर्योधनादि-भार्यास्तव दर्शयिष्य इति स्वेन यत्प्रतिश्रुतं तत्कृष्णाया द्रौपद्या निशामयामास दर्शयामास ॥ २,३ ॥

अथ ते सम्परेतानां स्वानामुदकमिच्छताम् ।

दातुं सकृष्णा गङ्गायां पुरस्कृत्य ययुस्त्रियः ॥ ४ ॥

पदरत्नावली

स्त्रियः पुरस्कृत्य । सम्परेतानां युद्धे मृतानाम् । सकृष्णा द्रौपद्या सहिताः । कृष्णेन यादवेन्द्रेण सहिता वा ॥ ४ ॥

प्रकाशिका

सम्परेतानां युद्धे मृतानाम् ॥ ४ ॥

ते निनीयोदकं सर्वे विलप्य च भृशं पुनः ।

आप्लुता हरिपादाब्जरजःपूतसरिज्जले ॥ ५ ॥

पदरत्नावली

ते पाण्डवास् तिलोदकं निनीय दत्वा, भृशं विलप्य परिदेवनलक्षणं रोदनं कृत्वा, पश्चात् हरेः पादपद्मपरागेण पूते शुद्धे सरितः गङ्गाया जले आप्लुताः स्नाता अभूवन्नित्यन्वयः॥ ५ ॥

प्रकाशिका

निनीय दत्वा हरिपादाब्जरजोभिः पूता सरिद् गङ्गा तस्या जले । पुनर्ग्रहणा-दादावपि स्नाता इति गम्यते ॥ ५ ॥

तत्रासीनं कुरुपतिं धृतराष्ट्रं सहानुजम् ।

गान्धारीं पुत्रशोकार्तां पृथां कृष्णाञ्च माधवः ॥ ६ ॥

पदरत्नावली

सहानुजम् अनुजेन सञ्जयेन सह वर्तमानम् ॥ ६ ॥

प्रकाशिका

कुरुपतिं युधिष्ठिरम् । सहानुजं भीमादिभिः सहितम् ॥ ६ ॥

सान्त्वयामास मुनिभिर्हतपुत्राञ्छुचार्पितान् ।

भूतेषु कालस्य गतिं दर्शयन्नप्रतिक्रियाम् ॥ ७ ॥

पदरत्नावली

मुनिभिः सह । हताः पुत्रा येषां ते तथा तान् । भूतेषु प्राणिषु कालरूपस्य हरेर् गतिं विक्रमम् अप्रतिक्रियाम् अपरिहार्यं दर्शयन् ॥ ७ ॥

प्रकाशिका

मुनिभिः सह । कालस्य कालनामकस्य हरेर्गतिं पराक्रममप्रतिक्रियां प्रतीकार-शून्याम् ॥ ७ ॥

घातयित्वाऽसतो राज्ञ्याः कचस्पर्शहतायुषः ।

साधयित्वाऽजातशत्रोः स्वारज्यं कितवैर्हृतम् ॥ ८ ॥

पदरत्नावली

घातयित्वा वधं कारयित्वा, पाण्डवैरिति शेषः । कचानां केशनां स्पर्शेन हतानि नष्टानि आयूंषि येषां ते तथा तान् । अजातः सुयोधनः शत्रुर् यस्य सस् तथोक्तः । तथाचोक्तं- ‘सुयोधनादयः सर्वे त्वजाता जज्ञिरे घटात् । व्यासेनानन्तवीर्येण मार्तण्डाधिकतेजसा’ इति प्रयोगात् । न जातः शत्रुर् यस्य स तथोक्त इति केचित् । कितवैश् चोरप्रायैर् दुर्योदनादिभिः ॥ ८ ॥

प्रकाशिका

घातयित्वा वधं कारयित्वा । पाण्डवैरिति शेषः । द्रौपदीकचस्पर्शेन हतं नष्टमायु-र्येषां तान् । न जातः शत्रुर्यस्य स तथोक्तस्तस्य युधिष्ठिरस्य । कितवैः कपटिभिर्दुर्योधनादिभिः ॥ ८ ॥

याजयित्वाऽश्वमेधैस्तं त्रिभिरुत्तमकल्पकैः ।

तद्यशः पावनं दिक्षु शतमन्योरिवातनोत् ॥ ९ ॥

आमन्त्र्य पाण्डुपुत्रांश्च शैनेयोद्धवसंयुतः ।

द्वैपायनादिभिर्विप्रैः पूजितैः प्रतिपूजितः ॥ १० ॥

पदरत्नावली

मध्यमाधमकल्पयोर् उत्तमकल्पकैः । शतं मन्यवः क्रतवः यस्य स तथा तस्येन्द्रस्य यशः वामनावतारे हरिर् यथा ततान तथा आतनोत् । ‘तनु विस्तारे’ ॥ ९ ॥

प्रकाशिका

याजयित्वेत्यादि भाविकथासङ्क्षेपः । त्रिभिस्त्रिगुणफलैः । पञ्चभिरिति शेेषः । पञ्चानां त्रिगुणफलकत्वोपपादनायैवोत्तमकल्पकैरित्युक्तम् । दक्षिणादिविषये विहितोत्तमकल्पयुतैरित्यर्थः । यथोक्तं श्रीमहाभारततात्पर्यनिर्णये भगवत्पादैः । ‘तद्यज्ञपञ्चकमजस्त्रिगुणं स एभ्यः सद्दक्षिणां क्रतुपतिर्निखिलामवाप्य । चक्रेऽश्वमेधत्रयमेकमेकं तेषां हरिर्बहुसुवर्णकनामधेयम्’ इति । शतं मन्यवः क्रतवो यस्य स तथा । तस्येन्द्रस्य यशो यथा वामनावतारे ततान तथाऽऽतनोत् । तनु विस्तारे । व्याप्तं कृतवान् ॥ ९,१० ॥

गन्तुं कृतमतिर्ब्रह्मन्द्वरकां रथमास्थितः ।

उपलेभेऽभिधावन्तीमुत्तरां भयविह्वलाम् ॥ ११ ॥

पदरत्नावली

भगवान् यदा द्वारकां गन्तुं कृतमतिः रथमास्थितस् तदा पाहि पाहित्यादिवादिनीं भयेन विवशाम् आत्मानमुद्दिश्य आगच्छन्तीम् उत्तराम् उपलेभे ददर्शेत्यन्वयः ॥ ११ ॥

प्रकाशिका

उत्तरामभिमन्युभार्यामिभिमुखं धावतीमुपलेभे ददर्श ॥ ११ ॥

उत्तरा उवाच—

पाहि पाहि महायोगिन्देव देव जगत्पते ।

नान्यं त्वदभयं पश्ये यत्र मृत्युः परस्परम् ॥ १२ ॥

पदरत्नावली

यत्र मर्त्यलोके परस्मरं मृत्युः । तत्र त्वदन्यम् अभयम् अभयप्रदं न पश्ये । स्वस्याभिमतप्रदर्शनायात्मनेपदप्रयोगः ॥ १२ ॥

प्रकाशिका

त्वदन्यमभयं भयरहितं न पश्ये पश्यामि । अतस्त्वदन्यो न प्रार्थनायोग्य इति भावः । यत्र लोके परस्परं मृत्युर्भवति तत्र ॥ १२ ॥

अभिद्रवति मामीश शरस्तप्तायसो विभो ।

कामं दहतु मां नाथ मा मे गर्भो निपात्यताम् ॥ १३ ॥

पदरत्नावली

अयसः विकार आयसः । तप्तश्चासावायसश्चेति तथोक्तः । शरः हननशीलः बाणः । शरीरविनाशनशक्तिप्रदर्शनाय-आयसेति ॥ अपरिच्छिन्नस्य तव गर्भरक्षणम् अशक्यसाधनं किं ? इति द्योतनाय- विभो इति ॥ नाथ ऐश्वर्यशक्तियुत । मां यथेष्टं दहतु । किं तर्हि ? मम गर्भो मा न निपात्यतामिति ॥ १३ ॥

प्रकाशिका

प्रस्तुतं भयमावेदयति- अभिद्रवतीति ॥ अभिमुखमायातीत्यर्थः । तप्तमाय-समयोमयं शल्यं यस्य स तथोक्तः । कामं यथेष्ठम् । निपात्यतामिति ब्रुवन्तीमिति शेषः । ददर्शेत्यन्वयः

॥ १३ ॥

सूत उवाच—

उपधार्य वचस्तस्या भगवान्भक्तवत्सलः ।

आपाण्डवमिदं कर्तुं द्रोणेरस्त्रमबुध्यत ॥ १४ ॥

पदरत्नावली

भगवान् तस्या उत्तराया वच उपधार्य श्रुत्वा निश्चित्य । इदम् अवनिमण्डलम् अपाण्डवं पाण्डुपुत्ररहितं कर्तुं मुक्तं द्रोणेर् अस्त्रम् अबुध्यतेत्यन्वयः ॥ १४ ॥

प्रकाशिका

इदं भूमण्डलमपाण्डवं पाण्डुवंशरहितं कर्तुम् । मुक्तमिति शेषः ॥ १४ ॥

तर्ह्येवाथ भृगुश्रेष्ठ पाण्डवाः पञ्चसायकान् ।

आत्मनोऽभिमुखान्दीप्तानालक्ष्यास्त्रण्युपाददुः ॥ १५ ॥

पदरत्नावली

हे भृगुश्रेष्ठ अथ तर्ह्येव तदानीमेव पञ्च पाण्डवा आत्मनो ऽभिमुखान् ज्वलितान् पञ्चसायकान् अन्तकरान् बाणान् आलक्ष्य अनन्तरमेव अस्त्राण्युपाददुः । ‘षोऽन्तकर्मणि’ इति धातोः स्यन्ति अन्तं कुर्वन्तीति सायकाः । ण्वुल् आयादेशः युगागमश्च ॥ १५ ॥

प्रकाशिका

तर्ह्येव तदानीमेव । हे भृगुश्रेष्ठ शौनक । सायकान् बाणान् ॥ १५ ॥

व्यसनं वीक्ष्य तत्तेषाम् अनन्यविषयात्मनाम् ।

सुदर्शनेन स्वास्त्रेण स्वानां रक्षां व्यधाद्विभुः ॥ १६ ॥

पदरत्नावली

अनन्यविषय आत्मा येषां ते अनन्यविषयात्मनस् तेषाम् । अन्येषु भगवद्वार्ता-रहितेषु विषयेषु शब्दादिषु आत्मा मनः न गच्छति येषां ते तथोक्तास् तेषामिति वा । पाण्डवानां तद्व्यसनं वीक्ष्य विभुः सुदर्शनाख्यस्वास्त्रेण स्वानां पाण्डवानां रक्षां व्यधान् इत्येकान्वयः ॥ १६ ॥

प्रकाशिका

अनन्यविषयात्मनां न विद्यतेऽन्यविषयमात्मा मनो येषां ते तथा । तेषां स्वैक-निष्ठमनसामित्यर्थः ॥ १६ ॥

अन्तस्थः सर्वभूतानामात्मा योगेश्वरो हरिः ।

स्वमाययाऽवृणोद्गर्भं वैराट्याः कुरुतन्तवे ॥ १७ ॥

पदरत्नावली

सर्वप्रणिनाम् अन्तर्हृदि स्थित आत्मा आदानादिकर्ता । योगेश्वरः सहजाणिमादि-योगैश्वर्यवान् । सर्वोपायानामीश्वरो वा । हरिः संसारदुःखहरणशीलः कुरूणां सन्तत्यविच्छेदाय वैराट्या विराटपुत्र्या उत्तराया गर्भं स्वमायया स्वयोगसामर्थ्येन यथा ब्रह्मास्त्रं न दहेत् तथा आवृणोत् । आत्मना गूहितमकरोद् इत्येकान्वयः ॥ १७ ॥

प्रकाशिका

स्वमायया स्वसामर्थ्येन । वैराट्या विराटपुत्र्या उत्तराया गर्भमावृणोत् । यथा तदस्त्रं तं न दहेत्तथा स्वसामर्थ्येनावृतमकरोदित्यर्थः । कुरुतन्तवे कुरुसन्तानाय ॥ १७ ॥

यद्यप्यस्त्रं ब्रह्मशिरस्त्वमोघञ्चाप्रतिक्रियम् ।

वैष्णवं तेज आसाद्य समशाम्यद् भृगूद्वह ॥ १८ ॥

पदरत्नावली

यद्यपि ब्रह्मशिरोस्त्रन्तु अमोघम् अव्यर्थम् अप्रतिक्रियं प्रतीकाररहितञ्च । तथापि वैष्णवं तेज आसाद्य सम्यक् अशाम्यदित्येकान्वयः ॥ १८ ॥

प्रकाशिका

वैष्णवं तेजः सुदर्शनम् । सामर्थ्यं वा । समशाम्यत्सम्यक् शान्तमासीत् । स्वसंनिधाने तिरोहितमस्त्रं स्वप्रयाणमवेक्ष्य पुनरुद्भूतं सुदर्शनेन शान्तमकरोदित्याशयः । इदं सर्वं महाभारततात्पर्यनिर्णयानुक्तमत्राधिकमुक्तमिति ज्ञातव्यम् ॥ १८ ॥

मा मंस्था ह्येतदाश्चर्यं सर्वाश्चर्यमयेऽच्युते ।

य इदं मायया देव्या सृजत्यवति हन्त्यजः ॥ १९ ॥

पदरत्नावली

यः भार्यया देव्या देदीप्यमानया इच्छया ब्रह्मादिजगत्सृजति रक्षति संहरति । स्वयं जन्मरहितस् तस्मिन् सर्वाश्चर्यस्वरूपे अच्युते विनाशरहिते हरौ एतद् ब्रह्मास्त्रोपशमनलक्षणम् आश्चर्यं मा मंस्था न चिन्तयेत्येकान्वयः ॥१९ ॥

प्रकाशिका

एतद् ब्रह्मास्त्रशमनं मा मंस्था मा मन्यस्व । सर्वाश्चर्यमये सर्वाश्चर्यरूपे । अत्रोत्पत्त्यनन्तरमपि ब्रह्मास्त्रेण हतमश्वमेधार्थं पुनरागत्य ररक्षेत्यपि ग्राह्यम् । अन्यथोत्तरत्रानुवादा-सम्भवात् ॥ १९ ॥

ब्रह्मतेजो विनिर्मुक्तैरात्मजैस्सह कृष्णया ।

प्रयाणाभिमुखं कृष्णमिदमाह पृथा सती ॥ २० ॥

पदरत्नावली

ब्रह्मास्त्रतेजोमुक्तैर् आत्मजैर् युधिष्टिरादिभिः पुत्रैः सह सती साध्वी ॥ २० ॥

प्रकाशिका

ब्रह्मतेजसा ब्रह्मास्त्रेण विनिर्मुक्तैरात्मजैर्युधिष्ठिरादिभिः । प्रयाणाभिमुखम् । सती साध्वी ॥ २० ॥

पृथा उवाच—

नमस्ते पुरुषं त्वाद्यमीश्वरं प्रकृते परम् ।

अलक्ष्यं सर्वभावानामन्तर्बहिरपि ध्रुवम् ॥ २१ ॥

पदरत्नावली

संसारिव्यावृत्तये आद्यं पुरुषमिति । हिरण्यगर्भव्यावृत्तये ईश्वरमिति । जगत्सृष्ट्या-द्यैश्वर्यवत्वं न ततो व्यावृत्तमित्यतः प्रकतेः परमिति । एतत्सर्वं कुत इत्यत उक्तं- अलक्ष्यमिति ॥ लक्षणया वृत्याऽपि ज्ञातुमशक्यम् । तर्हि शून्यप्रायमित्यत उक्तं- सर्वभावानामिति ॥ सर्वभावानाम् अन्तर्बहिश्च व्याप्यस्थितम् । ‘अन्तर्बहिश्च तत्सर्वमि’ति श्रुतेः । आद्यस्य कथम् अन्तर्बहिश्च व्याप्यस्थितत्वमित्यत उक्तं भूतप्रलयेऽपि ध्रुवं नित्यम् अविनाशिनम् ॥ २१ ॥

प्रकाशिका

त्वा त्वाम् । ननु कनिष्ठं मां कथं नमस्करोषीत्यत उक्तम्- आद्यं पुरुषमिति ॥ कुतः । प्रकृतेः परम् । तदपि कुतः । ईश्वरं प्रकृतेरपि नियन्तारम् । अत एव सर्वभूतानामन्तर्बहिश्च ध्रुवम् । सर्वदा स्थितमिति वक्तव्ये ध्रुवमिति वचनं भूतनाशेऽपि न तव नाश इति सूचयितुम् । तथाऽप्यलक्ष्यमपरोक्षेण ज्ञातुमशक्यम् ॥ २१ ॥

मायायवनिकाच्छन्नो मयाऽधोक्षज मर्त्यया ।

न लक्ष्यसे मूढदृशा नटो नाट्यचरो यथा ॥ २२ ॥

पदरत्नावली

त्वां नमस्य इत्यपरोक्षतया उक्तस्य कथमलक्ष्यत्वमिति तत्राह- मायेति ॥ हे अधोक्षज वशीकृतेन्द्रिय । जीवस्वगुणाच्छादिकपरमाच्छादिकोभयविधमायाख्यतिरस्करिण्या छन्नस् त्वं मूढदृशा विपरीतज्ञानया मर्त्यया मया लक्ष्यमाणोऽपि न लक्ष्यसे । यथा नाट्यचरः नटः दृश्यमानोऽपि तदङ्गुल्याद्यभिनयलक्षितकथाविशेषाज्ञानेन नरेण न लक्ष्यते तथा । तस्माद् अलक्ष्यस्त्वमित्यर्थः ॥२२॥

प्रकाशिका

त्वामित्यपरोक्षतया निर्दिष्टस्य कथमलक्ष्यत्वमित्यतोऽलक्ष्यत्वं विशदयति- मायेति ॥ मायैव जवनिकाऽऽच्छादिका तया छन्न आच्छादितो जीवगतपरमाच्छादिकमायाविषय इत्यर्थः । अत एवाधोक्षजोऽधःकृतेन्द्रियजन्यज्ञानः । ब्रह्मादिभिर्दृश्यमानत्वात्कथमेतदित्यत उक्तम्- मर्त्ययेति ॥ मनुष्यैरपि साधनपरिपाके दृश्यत एवात उक्तम्- मूढदृशेति ॥ देहाद्यभिमानवत्येत्यर्थः । अवताररूपस्य दृश्यत्वेऽपि न तस्य सर्वभूतान्तःस्थितत्वादिरूपं माहात्म्यं तदनुग्रहमन्तरेणापरोक्षीकर्तुं शक्यमिति भावः । नाट्यचरो नर्तनकारी नटो यथा भरतशास्त्रज्ञेन दृश्यमानोऽप्यङ्गुल्याद्यभिनय-विशेषवत्वेन न लक्ष्यते तथेत्यर्थः ॥ २२ ॥

तथा परमहंसानां मुनीनाममलात्मनाम् ।

भक्तियोगविधानार्थं कथं पश्येमहि स्त्रियः ॥ २३ ॥

तात्पर्यम्

भक्तियोगविधानविषयम् ॥ २३ ॥

पदरत्नावली

इतोऽपि मादृशीनां त्वद्दर्शनमसुशकमित्याह- तथेति ॥ यथा अमलात्मनाम् अविद्याकामकर्मादिमलरहितमनसां मुनीनां सर्वज्ञानां परमहंसानां सनकादीनां भक्तियोगविधानार्थं भक्तियोगकरणविषयं त्वां ते पश्यन्ति तथा रागादिमत्यः स्त्रियो वयं कथं त्वां पश्येमहि इत्येकान्वयः । स्त्रीषु तारतम्यविशेषद्योतनार्थम् आत्मनेपदप्रयोगः ॥ २३ ॥

प्रकाशिका

भक्तिविधानेनाहं दृष्टुं शक्य इत्यात आह- तथेति ॥ अत्र मुनीनां भक्तियोग-विधानार्थं वयं कथं पश्येमहीति व्यधिकरणमुच्यते । अतोऽर्थशब्दस्य विवक्षितमर्थं दर्शयति- भक्तियोगेति ॥ भक्तियोगस्य विधानं करणं तस्य विषयमित्यर्थः । तथा चात्रार्थशब्दो विषयपर इति भावः । ततश्चायं श्लोकार्थः । तथाशब्दः समुच्चये । परमहंसानां सनकादीनां मुनीनां ध्यानशीलानाम-मलात्मनां देहाद्यभिमानशून्यमनसां भक्तिलक्षणोपायविषयं त्वां कथं पश्येमहि । सुदृढस्नेहपूर्वकमिति शेषः । यतःस्त्रियोऽतथाभूता इत्यर्थः । तथा च त्वं मादृशीनां भक्तियोगकरणविषयोऽपि न भवसीत्यर्थः

॥ २३ ॥

कृष्णाय वासुदेवाय देवकीनन्दनाय च ।

नन्दगोपकुमाराय गोविन्दाय नमो नमः ॥ २४ ॥

पदरत्नावली

तर्हि स्त्रीणां भगवदुपासनाभावेन तज्ज्ञानाभावान् मोक्षाभाव इत्याशङ्क्य तत्स्तुतिरेव अपरोक्षज्ञानजनकतया मोक्षसाधिकेत्याभिप्रेत्य कृष्णं स्तौति- कृष्णायेति ॥ कृषति विलिखति दारयति मोहपटलमिति कृष्णः । तस्मै नमो नमः । नीलोत्पलदलश्यामलाय वा । वसुना दीव्यतीति वसुदेव आनकदुन्दुभिः । तस्य पुत्रो वासुदेवस् तस्मै । ‘वस आच्छादन’ इति धातोर् इदं जगद् आच्छाद्य दीव्यतीति वासुदेवस् तस्मै इति वा । बलाद् दैत्यनिरसनशीलक्रीडादिगुणसंपन्नाय वा । देवकी लक्ष्मीस् तां नन्दयितुं शीलमस्यास्तीति देवकीनन्दनः, तस्मै । नन्दगोपनाम्नः राज्ञः कुत्सितं कुष्टं मारयति नाशयति इति नन्दगोपकुमारः, तस्मै । पुराणान्तरसिद्धार्थमवलम्ब्य कथितोऽयमर्थः । अन्यः प्रसिद्धः । गवां विन्दो लाभो यस्य स तथा तस्मै । गवा वेदेन लभ्यत इति गोविन्द इति वा ॥२४॥

प्रकाशिका

एवं ज्ञानभक्तिविधानयोरशक्यात्वमुक्त्वा नमस्कारविधानमेवास्माकं पुरुषार्थसाधन-मित्याशयेन पुनःपुनर्नमति । कृष्णायेति ॥ गवां विन्दो लाभो यस्य स तथा । तस्मै ॥ २४ ॥

नमः पङ्कजनाभाय नमः पङ्कजमालिने ।

नमः पङ्कजनेत्राय नमस्ते पङ्कजांघ्रये ॥ २५ ॥

यथा हृषीकेश खलेन देवकी कंसेन रुद्धातिचिरं शुचार्पिता ।

विमोहिताहञ्च सहात्मजा विभो त्वयैव नाथेन मुहुर्विपद्गणात् ॥ २६ ॥

पदरत्नावली

पङ्कजं नाभौ यस्य सस् तथा तस्मै । पङ्काज् जनं जननं यस्य तत् पङ्कजनं पद्मं, तद् आभायति अभिभवति आभातीति वा पङ्कजनाभः, तस्मै । पङ्कजैः रचिता माला अस्यास्तीति पङ्कजमाली, तस्मै । पङ्कजदलवन् नेत्रे यस्य स तथा तस्मै । पङ्कजाकारा रेखा अङ्घ्र्योर् यस्य स तथा तस्मै ॥

हे हृषीकेश इन्द्रियगणनाथ । ‘कसि हिंसायामि’ति धातोः कंसेन हिंसाशीलेन खलेन इन्द्रियारामेण अतिचिरं कारागृहे रुद्धा शुचार्पिता देवकी त्वया यथा विमोचिता, हे विभो सहात्मजा पुत्रैः सहिता अहञ्च त्वयैव नाथेन विपद्गणान् मुहुर्मोचितेत्येकान्वयः ॥ २५,२६ ॥

प्रकाशिका

तत्कृतानुपकाराननुस्मरति । द्वाभ्याम् । रुद्धा कारागृह इति शेषः ॥ २५,२६ ॥

विषान्महाग्नेः पुरुषाददंशनादसत्सभाया वनवासकृच्छ्रतः ।

मृधे मृधेऽनेकमहारथास्त्रतो द्रौण्यस्त्रतश्चास्म हरेऽभिरक्षिताः ॥ २७ ॥

पदरत्नावली

विपद्गणं विविच्याह- विषादित्यादिना ॥ हे हरे वयं, भीमाय दत्तकाकूट-विषात् । जतुगृहदाहप्रयुक्तमहाग्नेः । पुरुषादानां हिडिम्बबककिर्मिरादीनां दंशनाद् भक्षणात् । असतां दुर्योधनादीनां द्रोपदीकेशग्रहणादिनिन्दितकर्मणां सभायाः । वनवाससङ्कटात् । मृधे मृधे रणे रणे अनेकेषां महारथानां नागाद्यस्त्रतः । तथाश्वत्थाम्नो ब्रह्मास्त्रतश्च त्वया अभिरक्षिता आस्मेत्येकान्वयः । तस्मादहमद्य त्वां शरणं गताऽस्मीति वाक्यशेषः ॥ २७ ॥

प्रकाशिका

विपद्गणं विविच्याह- विषादिति ॥ विषाद्भीमाय दत्तकालकूटविषात् । महाग्नेर्जतु-गृहदाहकाग्नेः । पुरुषादा हिडिम्बबकादयस्तेषां दंशनाद्भक्षणात् । असतां दुर्योधनादीनां सभाया अभितो रक्षितास्म अभवाम ॥ २७ ॥

विपदः सन्तु नः शश्वत्तत्र तत्र जगत्पते ।

भवतो दर्शनं यत्स्यादपुनर्भवदर्शनम् ॥ २८ ॥

तात्पर्यम्

अपुनर्भवं दर्शयति ॥ २८ ॥

पदरत्नावली

भवत्स्मरणविरोधिसम्पत्परम्पराया भवद्दर्शनकरविपत्परम्परैव श्रेयसी । भवद्दर्शन-हेतुत्वात् । अत सम्पद्भ्यो भवद्दर्शनकरविपद एवास्माकं सन्त्विति विज्ञापयति- विपद इति ॥ हे जगत्पते, नो ऽस्माकं तत्र तत्र सांसारिकव्यापारेषु निरन्तरं विपदः सन्तु । यासु यासु विपत्सु अपुनर्भवं मोक्षं दर्शयतीति अपुनर्भवदर्शनं भवतो दर्शनं स्यादिति यद् यस्मात् तस्मात् ताः स्युरिति वाक्यशेषः ॥ २८ ॥

प्रकाशिका

त्वद्दर्शनहेतुत्वाद्विपत्परम्परैव श्रेयसीत्याशयेनाह- विपद इति ॥ तत्र तत्र सांसारिकव्यापारेषु । यद्यासु विपत्सु । स्मरणे सतीति शेषः । आपत्प्राप्तौ भवतः स्मरणं भवति । तेन च दर्शनमित्यर्थः । अत्रापुनर्भवदर्शनमित्यपुनर्भवस्य दर्शनमिति व्याख्यानेऽसङ्गतिमालोच्यान्वयार्थमाह- अपुनर्भवमिति ॥ मोक्षमित्यर्थः । दर्शयति सम्पादयति । इत्यपुनर्भवदर्शनमिति शेषः ॥ २८ ॥

जन्मैश्वर्यश्रुतश्रीभिरेधमानमदः पुमान् ।

नार्ह इत्यभिधातुं वै त्वामकिञ्चनगोचरम् ॥ २९ ॥

पदरत्नावली

सम्पद्भ्यो विपदां श्रेयस्त्वं कुत इति तत्राह- जन्मेति ॥ अभिजनैश्वर्यशास्त्रश्रवण-जनितविद्याधनश्रीमदैर् वर्धमानमदः पुमान् अकिञ्चनानां परमहंसानां विषयं ज्ञातुं योग्यं त्वाम् इति इत्थम् अभिधातुं वक्तुम् । उपलक्षणञ्चैतत् । स्मर्तुं वा नार्हो ऽयोग्यः वै यस्मात् तस्मात् त्वत्स्मरणहेतुविेपद एव श्रेयस्यः सम्पद्भ्य इति भावः ॥ २९ ॥

प्रकाशिका

सम्पदस्तु त्वद्दर्शनविरोधिन्य इति कैमुत्येनाह- जन्मैश्वर्येति ॥ सत्कुले जन्म । ऐश्वर्यं स्वामित्वम् । श्रुतं श्रवणजनितविद्या श्रीर् धनसम्पत्तिः । ताभिर्वर्धमानमद इत्यभिधातुं कृष्णाय वासुदेवायेत्युक्तप्रकारेणाभिधातुं वै एव नार्हो न समर्थस्तथा स्मर्तुं द्रष्टुं वा नार्ह इति किं वाच्यमिति भावः । कुतो नार्ह इत्यत उक्तम्- अकिञ्चनगोचरमिति ॥ आकिञ्चनानां जन्मादिजनितमदशून्या-नामभिधानादिविषयम् ॥ २९ ॥

नमोऽकिञ्चनवित्ताय निवृत्तगुणवृत्तये ।

आत्मारामाय शान्ताय कैवल्यपतये नमः ॥ ३० ॥

पदरत्नावली

श्रीकृष्णाद् अन्यत् किञ्चनोपादेयं न विद्यते येषां ते अकिञ्चनाः । त एव वित्तं यस्य सस् तथा तस्मै । निवृत्ताः सत्वादिगुणानां वृत्तयः जाग्रदाद्यवस्था यस्मात् सस् तथोक्तस् तस्मै, अकिञ्चनैर्ज्ञातायेति वा । निरन्तरं वृत्ता ज्ञानादिगुणानां वृत्तिः स्थितिर् यस्य सस् तथोक्तस् तस्मै वा । अत एव आत्मनि आरमत इति आत्मारामस् तस्मै । आत्मनां चेतनानाम् आरामाय क्रीडाकृत्रिमवनाय । अत एव शान्ताय सुखपूर्णाय । अत एव कैवल्यपतये मुक्तिनाथाय मुक्तिनाथाय नम इत्यन्वयः॥३०॥

प्रकाशिका

भक्त्युद्रेकात्पुनर्नमति- नम इति ॥ अकिञ्चना भक्तास्त एव वित्तं यस्य स तथा तस्मै । निवृत्ताः सत्वादिगुणानां वृत्तयः कार्याणि यस्मात्स तथा तस्मै । अत एवात्मारामाय स्वरमणाय शान्ताय सुखपूर्णाय । कैवल्यपतये मोक्षस्वामिने ॥ ३० ॥

मन्ये त्वां कालमीशानम् अनादिनिधनं परम् ।

समं चरन्तं सर्वत्र भूतानां यन्मिथः कलिः ॥ ३१ ॥

तात्पर्यम्

तत्तद्योग्यतया समत्वम् ॥ ३१ ॥

पदरत्नावली

न विद्यते आदिनिधने यस्य सस् तथा तम् अनादिनिधनम् । अनस्य प्राणस्य जन्मलयकर्तारमिति वा ईशं शिवम् आनयति चेष्टयतीति ईशानस् तम् । सर्वेश्वरं वा । जगच्चेष्टाशक्तिमन्तं वा । परं सर्वस्मादन्यम् । सर्वत्र स्वपरेषु समं यथायोग्यं चरन्तम् । त्वां कालं संहर्तारं मन्ये । कुरु-पाण्डवादिभूतानां यद् यस्मात् त्वन् मिथो ऽन्योन्यं कलिः कलहः । तं त्वामिति वाक्यशेषः ॥ ३१ ॥

प्रकाशिका

न त्वं वसुदेवपुत्र इत्याशयेनाह- मन्य इति ॥ कालं संहारकमीशानं जगत्प्रेरकम् । आदिनिधनशून्यम् । परं लोकविलक्षणम् । तदेव दर्शयति- सममिति ॥ अत्र देवासुरमनुष्येष्वेक-प्रकारेणैव चरन्तमित्यन्यथाप्रतीतिवारणाय विवक्षितं समत्वं दर्शयति- तत्तद्योग्यतयेति ॥ तत्तद्योग्यता यादृशी तदनुरूपमेव फलं ददाति न योग्यतातिक्रमेणातो भगवान्सम इत्युच्यत इत्यर्थः । लोके तु नैवमित्याह- भूतानामिति ॥ लोके भूतानां प्राणिनां मिथोऽन्योन्यं यद्यस्मात्कलिः कलहः । योग्यतानुसारेण समत्वं नेत्यर्थः । अतस्तस्य परत्वमिति भावः ॥ ३१ ॥

न वेद कश्चिद्भगवंश्चिकीर्षितम् ।

तवेहमानस्य नृणां विडम्बनम् ।

न यस्य कश्चिद्दयितोऽस्ति कर्हिचित् ।

द्वेष्यश्च यस्मिन् विषमा मतिर्नृणाम् ॥ ३२ ॥

पदरत्नावली

समं चरन्तमित्येतद्विवेचयति- ने वेदेति ॥ यस्य तव योग्यतातिरेकेण कर्हिचित् कश्चिद् दयितः नास्ति । कश्चिद् द्वेष्योऽपि, नास्तीति शेषः । एवमपि यस्मिन् त्वयि नृणाम् आसुर-प्रकृतीनां मतिर् विषमा अर्जुनमनुगृह्यायं दुर्योधनं द्वेष्टीति । ताभ्याम् उभाभ्यां बहूपचितपुण्यद्वेष-निचयावगणय्य, हे भगवन्, नृणां विडम्बनम् अनुकरणम् ईहमानस्य चेष्टमानस्य ‘द्विषदन्नं न भोक्तव्यं द्विषन्तं नैव भोजयेदि’त्यादिवचनात् । तस्य तव कश्चित् पुरुषश् चिकीर्षितं कर्तुमिष्टं न वेद न जानातीत्येकान्वयः । अथवा लोके यस्मिन् पुंसि, योग्यतातिरेकेण स्नेहद्वेषकारिणि नृणां मतिर् विषमा, अस्य दयितोऽयम् अस्य द्वेषीति न भवांस्तादृश इत्यतः समचारीति वैदिका इति ॥ ३२ ॥

प्रकाशिका

नन्वेवं योग्यतानुसारेण मम सर्वत्र समत्वे लोकाः किमिति पाण्डवेष्वेव स्निग्धो न दुर्योधनादिष्वतो विषम इति मयि विषमां मतिं कुर्वन्तीत्यपेक्षायां त्वच्चिकीर्षिताज्ञानादेव तथा तेषां मतिरित्याह- न वेदेति ॥ चिकीर्षितं कर्तुमिष्टम् । योग्यतानुसारेण समत्वं कुतो न वेदेत्यत उक्तं नृणां विण्डबनमनुकरणम् ईहमानस्य कुर्वति इति मनुष्यवदेवाचरणं कुर्वत इत्यर्थः । कथंभूतस्य तव । यस्य योग्यतातिरेकेण कश्चिद्दयितः प्रियो नास्ति कर्हिचित्कदाऽपि द्वेष्यश्च नास्ति । अत एव यस्मिंश्च विषये नृणां विषमा मतिः । प्रसिद्धा तस्य तवोत्यन्वयः । लोकानुकरणेनास्मास्वयमप्येक इति बुद्ध्वा त्वच्चिकीर्षितमज्ञात्वा त्वयि वैषम्यबुद्धिं कुर्वन्तीति भावः ॥ ३२ ॥

जन्म कर्म च विश्वात्मन्नजस्याकर्तुरात्मनः ।

तिर्यङ्नृपशुयादस्सु तदत्यन्तविडम्बनम् ॥ ३३ ॥

पदरत्नावली

अधुना अनादिनिधनत्वं समर्थयते- जन्मेति ॥ हे विश्वात्मन् सर्वान्तर्यामिन् अजस्य अजातस्य अनायासेन, फलानपेक्षया वा अकर्तुर् आत्मनः स्वामिनस् तव तिर्यक्षु नृषु पशुषु यादस्सु जलजन्तुषु यज्जन्म तत्तज्जात्यनुकारिकर्म च । तद् अतिशयेन विडम्बनम् । अतोऽनादि-निधनोऽसीति भावः । अजस्य आत्मनस् तिर्यगादिषु यज्जन्म अकर्तुरात्मनस् तज्जात्यनुसारि यत्कर्म तदुभयमत्यन्तविडम्बनमिति वा योजना ॥ ३३ ॥

प्रकाशिका

नृणां विडम्बनमीहमानस्येत्युक्तमेव विशदयति- जन्मेति ॥ हे विश्वात्मन्पूर्ण-स्वरूप । अजस्योत्पत्तिशून्यस्यात्मनः स्वामिनः प्रयोजनोद्देशेनाकर्तुस्तव तिर्यङ्नृपशुयादःसु यज्जन्म यच्च तज्जात्यनुसारेण कर्म तदत्यन्तविडम्बनमित्यन्वयः । तिर्यक्षु वराहादिरूपेण । नृषु रामादिरूपेण । ऋषिषु महिदासादिरूपेण । यादःसु जलचरेषु मत्स्यादिरूपेणेति द्रष्टव्यम् ॥ ३३ ॥

गोप्याददे त्वयि कृतागसि दाम तावद् ।

या ते दशाश्रुकलिलाञ्जनसम्भ्रमाक्षम् ॥

वक्त्रं विनम्य भयभावनया स्थितस्य ।

सा मां विमोहयति भीः प्रति यं बिभेति ॥ ३४ ॥

पदरत्नावली

इदञ्चातिविडम्बनं विदुषामपि मोहकमित्यभिप्रेत्याह- गोपीति ॥ त्वयि कृतागसि दधिभाण्डं भित्वा नवनीतापहारिणि सति, यदा गोपी नाम्ना यशोदा नित्यमुक्तं त्वां बद्धुं दाम आददे तावत् तदा यं त्वां प्रति भीः सर्वजनस्य भयकारिणी दुर्गाऽपि बिभेति तस्य भयभावनया अश्रुभिः कलिलं कलुषम् अञ्जनं यस्य तत् तथोक्तम् । अश्रुकलिलाञ्जनञ्च तत् संभ्रमयुक्तञ्च अक्षि यस्य तत्तथोक्तम् । वक्त्रं विनम्य अवाचीनतया कृत्वा स्थितस्य ते तव यादृशावस्था सा मां विमोहय-तीत्येकान्वयः । तस्मात् तदनुकरणं विदुषामपि मोहकमिति भावः ॥ ३४ ॥

प्रकाशिका

इदं चातिविडम्बनं मम मोहकमित्याशयेनाह- गोपीति ॥ गोपी यशोदा त्वयि कृतागसि दधिभाण्डस्फोटनं कृतवति सतीति यावत् । यदा त्वां बद्धुं दाम पशुबन्धकरज्जुमाददे तावत्तदा या ते दशाऽवस्था सा मां विमोहयति । कथंभूतस्य । अश्रुभिः कलिलं व्यामिश्रमञ्जनं ययोस्ते च ते सम्भ्रमे व्याकुलेऽक्षिणी यस्मिंस्तद्वक्त्रं विनम्याधःकृत्वा ताडयिष्यतीति भयस्य भावनया ध्यानेनास्थि-तस्य । पुनः कथंभूतस्य । यं त्वां प्रति भीरपि भयाभिमानिदेवता स्वयं बिभेति ॥ ३४ ॥

केचिदाहुरजं जातं पुण्यश्लोकस्य कीर्तये ।

यदोः प्रियस्यान्ववाये मलयस्येव चन्दनम् ॥ ३५ ॥

पदरत्नावली

इदानीम् एवंविधस्य तव देवक्यां जन्मानुकरणे निमित्तं विद्वांसोऽनेकधा वदन्ति इति विज्ञापयति- केचिदित्यादिना ॥ केचिद्विद्वांसः पुण्यकीर्तेर् भगवद्भक्तस्य यदोः राज्ञो ऽन्ववाये अन्वये तस्य कीर्तये जातं त्वाम् आहुरित्यन्वयः । नाम्ना मलयस्य पर्वतस्य कीर्तये चन्दनमिव ॥ ३५ ॥

प्रकाशिका

मनुष्यानुकरणं कुर्वतस्तव चिकीर्षितस्य दुर्ज्ञेयत्वादेव ज्ञानिनस्त्वदवतारप्रयोजनं बहुधा वर्णयन्तीत्याह- केचिदिति चतुर्भिः ॥ पुण्यश्लोकस्य प्रियस्य यदोरन्ववाये वंशे । मलयस्य पर्वतस्य कीर्तये चन्दनमिव ॥ ३५ ॥

अपरे वसुदेवस्य देवक्यां याचितोऽभ्यगात् ।

अजस्त्वमस्य क्षेमाय वधाय च सुरद्विषाम् ॥ ३६ ॥

पदरत्नावली

अपरे बुधा देवैर् याचितोऽजस्त्वम् अस्य सज्जनस्य क्षेमाय सुरद्विषां बधाय च वसुदेवस्य सकाशाद् देवक्याम् अभ्यगाद् आविर्भूत इति ब्रुवते ॥ ३६ ॥

प्रकाशिका

याचितः । देवैरिति शेषः । अभ्यगात् । पुत्रत्वमिति शेषः । प्रथमपुरुषश्छान्दसः। अस्य सज्जनवर्गस्य । आहुरित्युत्तरश्लोकत्रयेऽप्यनुवर्तते ॥ ३६ ॥

भारावतारणायान्ते भुवो नाव इवोदधौ ।

सीदन्त्या भूतिभारेण जातो ह्यात्मभुवार्थितः ॥ ३७ ॥

पदरत्नावली

अन्ये प्राज्ञा उदधौ हिरण्यादिभूरिभारेण सीदन्त्या आसन्नमज्जनाया नाव इव दुःसहासुरजनभारेण परिखिन्नाया भुवः भारावतरणाय आत्मभुवा प्रार्थितः जातोऽसीत्याचक्षते ॥३७॥

प्रकाशिका

उदधौ हिरण्यादिभूरिभारेण सीदन्त्या आसन्नमज्जनाया नाव इव । असुरजनभारेण सीदन्त्याः खिन्नाया भुवो भारावतारणायान्ये प्राज्ञास्त्वं जात इत्याहुः । हि यस्मात्तदर्थमात्मभुवा ब्रह्मणाऽर्थितः ॥३७ ॥

भावेऽस्मिन् क्लिश्यमानानामविद्याकामकर्मभिः ।

श्रवणस्मरणार्हाणि करिष्यन्निति केचन ॥ ३८ ॥

पदरत्नावली

केचन पण्डिता अस्मिन् भवे संसारे अविद्याकामकर्मभिः क्लिश्यमानानां दुःखेन परिभूयमानानां श्रवणार्हाणि नामानि स्मरणार्हाणि रूपाणि करिष्यन्नवातरदिति वदन्ति ॥ ३८ ॥

प्रकाशिका

अर्हाणीत्यनन्तरं कर्माणीति शेषः । तत्क्लेशनिवृत्तये करिष्यन् जात इति केचिदाहुरित्यर्थः । भवे क्लिश्यमानानां त्वत्कर्मश्रवणस्मरणैः ॥ ३८ ॥

श्रुण्वन्ति गायन्ति गृणन्त्यभीक्ष्णशः ।

स्मरन्ति नन्दन्ति तवेहितं जनाः ।

त एव पश्यन्त्यचिरेण तावकम् ।

भवप्रवाहोपरमं पदाम्बुजम् ॥ ३९ ॥

पदरत्नावली

कर्मणां श्रवणस्मरणैः किं फलमिति तत्राह- श्रुण्वन्तीति ॥ ये जनास् तव ईहितं चेष्टितम् अभीक्ष्णशः श्रुण्वन्ति गायन्ति गृणन्ति स्मरन्ति नन्दन्ति, त एव अचिरेण क्षिप्रं भवप्रवाहोपरमं संसारप्रवाहस्य उपरमो निवृत्तिर्विनाशः यस्मात् तत् तावकं पदाम्बुजं पश्यन्तीत्येकान्वयः । तस्मात् त्वत्कर्मश्रवणादिफलं मुक्तिरेवेति भावः ॥ ३९ ॥

प्रकाशिका

भवे क्लिश्यमानानां त्वत्कर्मश्रवणस्मरणैः किं साक्षादेव क्लेशनिवृत्तिर्भवति नेत्याह- शृृण्वन्तीति ॥ नन्दंत्यन्यैः कीर्त्यमानमभिनन्दन्ति । ईहितं चेष्टितम् । भवप्रवाहस्य सांसारिकक्लेश-परम्पराया उपरमो निवृत्तिर्यस्मात्तत्तावकं पदाम्बुजं पश्यन्ति । श्रवणादीनामपरोक्षज्ञानद्वारैव क्लेशनिवर्तकत्वादिति भावः ॥ ३९ ॥

अप्यद्य नस्त्वं स्वकृतेहितः प्रभो ।

जिहाससि स्वित्सुहृदोऽनुजीविनः ।

येषां न चान्यद्भवतः पदाम्बुजा-

त्परायणं राजसु योजितांहसाम् ॥ ४० ॥

पदरत्नावली

स्वात्मादिभ्योऽत्यन्तहितकरत्वात् त्वद्विरहो ऽस्माकम् अतिदुःसह इत्याभि-प्रेत्याह- अप्यद्येति ॥ हे प्रभो राजसु योजितांहसां कृतापराधानां येषाम् अस्माकं भवतः पदाम्बुजाद् अन्यत् परायणं नास्ति । त्वं तान् सुहृदो ऽनुजीविनः किङ्करान् त्वद्भुक्तभोजनसिक्थसेविनः नो ऽस्मान् जिहाससि अपिस्विद् द्वारकागमनव्याजेन त्युक्तुमिच्छसि किंस्वित् ? कीदृशस्त्वं स्वकृतेहितः स्वतन्त्रचेष्टितः । स्वार्थे भृत्यार्थे हितो वा । भृत्यप्रयोजनाय कृतचेष्टो वा । चशब्द एवार्थे ॥ ४० ॥

प्रकाशिका

इदानीं तवास्मत्परित्यागोऽनुचित इत्याशयेनाह- अपीति चतुर्भिः ॥ सुहृदोऽनु-जीविनः किङ्कराश्च । नोऽस्मान् । अद्यापि स्वित् किंस्वित् । त्वं जिहाससि द्धारकागमनव्याजेन त्यक्युमिच्छसि । येषामस्माकमन्यत्परायणं नास्ति । कुतः । राजसु योजितं कृतमंहोऽपराधो यैस्तेषां सर्वेऽप्यस्माकं वैरिण इति भावः । तान्सुहृद इत्यन्वयः । कथंभूतस्त्वम् । स्वकृतेहितः स्वानां कृतमीहितमपेक्षितं येन स तथा । स्वेनैव कृतमीहितं चेष्टितं यस्येति वा । स्वतन्त्रचेष्टित इत्यर्थः । स्वानामर्थे कृतं चेष्टितं यस्येति वा ॥ ४० ॥

ते वयं नामरूपाभ्यां यदुभिः सह पाण्डवाः ।

भवतो दर्शनं यर्हि हृषीकाणामिवेशितुः ॥ ४१ ॥

तात्पर्यम्

यर्हि भवतो दर्शनं तदा यदूनामस्माकं च नामरूपे ॥ ४१ ॥

पदरत्नावली

तत्कुत इति तत्राह- त इति ॥ यदा ईशितुर् इन्द्रियस्वामिनः दर्शनं तदैव हृषीकाणाम् इन्द्रियाणां दर्शनादिशक्तिर् अन्यथा नास्तीति यथा, तथा यदूनाम् अस्माकञ्च यर्हि यदा भवतः दर्शनं तदा वयं ते तव सकाशाद् यदुभिः सह पाण्डवाः । कथं ? नामरूपाभ्यां युधिष्ठिरादिनाम्ना शुक्लादिरूपेण च, युक्ता इति शेष इत्यन्वयः । यदा येषां यदूनाम् अस्माकञ्च भवतो दर्शनं तदा ते यादवा वयं पाण्डवाश्च ते वयं नामरूपवन्त इति वा । के वयमिति केचित् पठन्ति । यर्हि भवतो ऽदर्शनं तदा नाम्ना यशसा रूपेण बलकोशाद्यात्मना यदुभिः सह वयं के ? असत्कल्पा एवेति । तस्मात् त्वद्विरहोऽस्माकं मरणकल्प इत्यर्थः ॥ ४१ ॥

प्रकाशिका

ननु तव सुहृदो यादवाः पुत्राः पाण्डवाश्च शूरा रक्षकाः सन्ति । अतः कथमन्य-त्परायणं नास्तीति वचनमित्यत आह- ते वयमिति ॥ अत्राभिप्रेतं तात्पर्यं दर्शयति - यर्हीति ॥ तदेत्यध्याहृतम् । अस्माकं पाण्डवानाम् । नामरूपे ख्यातिसमृद्धी भवत इति भाव इति शेषः । ततश्चायं श्लोकार्थः । यर्हि यदा भवतो दर्शनं सन्निध्यं तदैव ते प्रसिद्धा यदुभिः सह विद्यमाना वयं पाण्डवाः । नाम्ना ख्यात्या रूपेण समृद्ध्या च युक्ताः । भवत्सान्निध्येनैवास्माकं यदूनां च नामरूपे नान्यथेति भावः । अत्र दृष्टान्तः । तथा हृषीकाणामिन्द्रियाणामीशितुः प्राणस्य सान्निध्ये शरीरस्य नामरूपे भवतास्तद्वत् ॥ ४१ ॥

नेयं शोभिष्यते तत्र यथेदानीं गदाधर ।

त्वत्पदैरङ्किता भाति स्वलक्षणविलक्षितैः ॥ ४२ ॥

पदरत्नावली

भो गदाधर इयं राजधानी इदानीं ध्वजादिलक्षणैर् विशेषेण चिह्नितैस् त्वत्पदैरङ्किता यथा भाति त्वयि द्वारकां गते तथा न शोभिष्यते इत्येकान्वयः । अथवा इयं भूस् त्वपदैर् अङ्किता यथा भाति त्वयि वैकुण्ठं गते तथा न शोमिष्यत इति वा ॥ ४२ ॥

प्रकाशिका

किं चेयं नगरी यथेदानीं स्वैरसाधारणैर्वज्राङ्कुशरेखादिरूपैर्लक्षणैर्विलक्षितैर्विशेषेण चिह्नितैस्त्वत्पदैरङ्किता सती भाति । तत्र तदा त्वयि निर्गते सति तथा न शोभिष्यते ॥ ४२ ॥

इमे जनपदाः स्वृद्धाः सुपक्वौषधिवीरुधः ।

वनाद्रिनद्युदन्वन्तो ह्येधन्ते तव वीक्षिताः ॥ ४३ ॥

पदरत्नावली

न केवलमस्माकमेव त्वद्गमनं दुःखकरम् । एषां जनपदादीनामपीत्याह- इम इति ॥ इमे जनपदादयस् तव सन्निधानात् सुष्ठु वृद्धास् त्वत्कारुण्यामृतदृष्ट्या वीक्षिता एधन्ते हि यस्मात् तस्मादित्येकान्वयः ॥ ४३ ॥

प्रकाशिका

न केवलमस्मन्नगर्या एव त्वत्सन्निधानेन शोभा किन्तु जनपदानां चेत्याह- इमे इति ॥ सुष्टु वृद्धाः स्वृद्धा वनाद्रिनदीषूदकवन्तः सन्तः । हि यस्मादेधन्ते तस्मादस्मत्त्यागोऽनुचित इत्यर्थः ॥ ४३ ॥

अथ विश्वेश विश्वात्मन् विश्वमूर्ते स्वकेषु मे ।

स्नेहपाशमिमं छिन्दि ध्रुवं पाण्डुषु वृष्णिषु ॥ ४४ ॥

पदरत्नावली

पाण्डवयादवेषु भागवतत्वेन स्नेह आवश्यक इति जानन्त्यपि पुत्रमित्रादिस्नेहः संसारहेतुत्वात् हेय इति ज्ञापयितुमाह- अथेति ॥ अथ अनन्तरम् एतदनुगृहाण किन्तदिति । हे विश्वेश विश्वात्मन् विश्वव्यापिन् विश्वमूर्ते अनन्तविग्रह स्वकेषु स्वीयत्वेन अभिमतेषु पाण्डवेषु पाण्डव-सम्बन्धिषु यादवेषु च मम गाढं पुत्रमित्रादिस्नेहपाशं छिन्धीत्यन्वयः । पुत्रादिस्नेह एव छेद्यः । न तु भागवतस्नेहः । तस्य शास्त्रे कर्तव्यत्वेन विहितत्वादित्यभिप्रेत्य उक्तम् इममिति ॥ ४४ ॥

प्रकाशिका

गमने पाण्डवानामकुशलम्(अननुकूलम्) । अगमने च यादवानामित्युभयतो व्याकुलचित्ता सती तेषु स्नेहपाशनिवृत्तिं प्रार्थयते- अथेति ॥ विश्वात्मन् विश्वव्यापिन् । विश्वमूर्ते विश्वान्तर्गत अनन्तमूर्ते इति वा । स्वकेष्वित्युक्तं विवृणोति- पाण्डवेषु वृष्णिष्विति ॥ अथशब्दः कात्स्न्यार्थः । कृत्स्नं स्नेहपाशमिति । ननु हरिभक्तेषु पाण्डवादिषु स्नेहो गुण एवातः कथं तच्छेदप्रार्थनमित्यत उक्तम्- इममिति ॥ पुत्रमित्रत्वादिनिमित्तमित्यर्थः ॥ ४४ ॥

त्वयि मेऽनन्यविषया मतिर्मधुपतेऽसकृत् ।

रतिमुद्ववहतादद्धा गङ्गेवौघमुदन्वति ॥ ४५ ॥

पदरत्नावली

न केवलं विषयविरक्त्या अलम् । किन्तु त्वय्यनपायिनीं रतिं त्वं वितरेत्याह- त्वयीति ॥ हे मधुपते आनन्दनाथ । न अन्यविषया रुद्रादिविषया अनन्यविषया । ओघं जलप्रवाहवेगम् । उदन्वति समुद्रे ॥ ४५ ॥

प्रकाशिका

एवं विषयस्नेहच्छेदानन्तरं मम त्वय्येव स्नेहप्रवाहोऽस्त्विति प्रार्थयते- त्वयीति ॥ अन्यत्र स्नेहपाशनाशेनानन्यविषया सती मे मतिर्बुद्धिरूपं मनः । हे मधुनामक यादवविशेषाणां पते । त्वयि रतिः स्नेहम् । उद्वहतादुत्कृष्टतया प्राप्नुयात् । ओघं पूरम् । जलप्रवाहमिति यावत् । उदन्वति समुद्रे ॥ ४५ ॥

श्रीकृष्ण कृष्णसख वृष्णिवृषावनिध्रुग्राजन्यवंशदहनामरवन्द्यवीर्य ।

गोविन्द गोद्विजसुरार्तिहरावतार योगेश्वराखिलगुरो भगवन्नमस्ते ॥ ४६ ॥

पदरत्नावली

स्तुतिमुपसंहरति- श्रीकृष्णेति ॥ श्रिया अतसीकुसुमसदृक्षया कृष्ण नीलवर्ण । कृष्णसख अर्जुनसख । वृष्णिवृष वृष्णिकुलश्रेष्ठ । वृष्णिवन् मेघवद् भक्ताभिमतवर्षण । ‘वृष्णिः कुलविशेषे तु वर्षन्मेघेऽपि कथ्यते’ इत्यभिधानात् । अवनिद्रुहां भूकण्टकानां राज्ञां वंशम् अन्वयं दहतीति अवनिद्रुग्राजन्यवंशदहनः । अवनिध्रुग्राजन्याख्यवेणुदाहक इति वा । तस्य सम्बुद्धिर् अवनिध्रुग्राजन्यवंश-दहन । अमरवन्द्यवीर्यदेवस्तुत्यपराक्रम । गोविन्द वेदवाणीलब्धविभव । गवां द्विजानां सुराणाम् आर्तिहरः यस्य सस् तथोक्तः । तस्य संबुद्धिर् गोद्विजसुरार्तिहरावतार । योगैश्वर्ययुक्त । अखिलगुरो यथायोग्यं ज्ञानोपदेशकर्ता । ते तुभ्यं नम इत्यन्वयः ॥ ४६ ॥

प्रकाशिका

एवं प्रार्थयित्वा पुनः प्रणमति- श्रीकृष्णेति ॥ श्रिया सहितः कृष्णः श्रीकृष्ण-स्तस्य सम्बुद्धिः श्रीकृष्णेति । ते नमः । तदवतारकृत्याननुस्मरन्ती बहुधा सम्बोधयति । कृष्णसख अर्जुनस्य सखे । वृष्णीनां यादवविशेषाणामृषभ श्रेष्ठ । अवन्यै भूम्यै द्रुह्यन्ति ये राजन्यस्तेषां वंशस्य दहन । अमरस्तुतपराक्रम ॥ ४६ ॥

सूत उवाच—

पृथयेत्थं कलपदैः परिगीताखिलोदयः ।

मन्दं जहास वैकुण्ठो मोहयन्योगमायया ॥ ४७ ॥

तां बाढमित्युपामन्त्र्य प्रविश्य गजसाह्वयम् ।

स्त्रियश्च स्वपुरं यास्यन्प्रेम्णा राज्ञा निवारितः ॥ ४८ ॥

॥ इति श्रीमद्भागवते अष्टमोऽध्यायः ॥

पदरत्नावली

विकुण्ठा नाम काचिदृषिपत्नी । तत्पुत्रत्वेन जातः । वैकुण्ठपुरनाथोऽपि वैकुण्ठ इति वा । पृथया कुन्त्या कलपदैः स्त्रीत्वाद् अव्यक्तमधुरपदैः । योगमायया स्वरूपशक्त्या ॥ ४७ ॥

यत्त्वदभीष्टं तथास्त्विति बाढमिति तामुक्त्वा द्रौपदीपूर्वाः स्त्रियश्च द्वारकां गमिष्यामीत्युपामत्र्त्य गङ्गातीराद् गजसाह्वयं प्रविश्य स्वपुरं द्वारकां यास्यन् गमिष्यन् प्रेम्णा सम्प्रति न गन्तव्यमिति राज्ञा निवारितः । पाण्डववात्सल्यात् तत्रैवावात्सीदित्येकान्वयः ॥ ४८ ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुविरचितायां प्रथमस्कन्धे अष्टमोऽध्यायः ॥

प्रकाशिका

कलानि मधुराणि पदानि येषु तैर्वाक्यैः परिगीतः स्तुतः । अखिल उदयो महिमा यस्य स तथा । मन्दमीषद्योगमायया योगसामर्थ्येन । त्वयि मेऽनन्यविषया मतिरिति यत्प्रार्थितं तद्वाढमित्युक्त्वा तां द्रौपद्याद्याः स्त्रियश्चोपामन्त्र्यानुज्ञाप्य रथस्थानाद् गजसाव्हयं गजसमाननामधेयं पुरं प्रविश्य राज्ञा युधिष्ठिरेण त्वत्प्रयाणसमयेऽस्माकमस्त्रदर्शनाद्यनिष्टजातं तत्त्वया परिहृतं त्वयि गते पुनरुद्भूतं भविष्यतीति शङ्कया निवारित इति भावः ॥ ४७,४८ ॥

**॥ इति श्रिमद्भागवते प्रथमस्कन्धे प्रथमाध्यायटिप्पण्यां **

वेदेशतीर्थपूज्यपादशिष्ययदुपतिविरचितायामष्टमोऽध्यायः ॥ १-८ ॥