निर्गते नारदे सूत भगवान्बादरायणः
अथ सप्तमोऽध्यायः
शौनक उवाच—
निर्गते नारदे सूत भगवान्बादरायणः ।
श्रुतवांस्तदभिप्रेतं ततः किमकरोद्विभुः ॥ १ ॥
पदरत्नावली
भागवतकरणापदेशेन भगवति भक्तिस् तन्माहात्म्यं च प्रतिपाद्यतेऽस्मिन्नध्याये- निर्गत इति ॥ तद् अभिप्रेतं भागवतकरणम् । तस्य नारदस्य वा । ततो नारदनिर्गमनानन्तरम् ॥ १ ॥
प्रकाशिका
तदभिप्रेतं तस्य नारदस्याभिप्रेतं श्रुतवान्सन् ॥ १ ॥
सूत उवाच—
ब्रह्मनद्याः सरस्वत्या आश्रमः पश्चिमे तटे ।
शम्याप्रास इति प्रोक्त ऋषीणां सत्रवर्धनः ॥ २ ॥
तात्पर्यम्
शम्यां प्रास्य तत्र शालां कृत्वा यत्र यज्ञः क्रियते स शम्याप्रासः ॥ २ ॥
पदरत्नावली
लकुटीकृतशम्यानामयाज्ञीयतरुशाखापतितस्थले कृतशालान्तर्यज्ञकरणात् शम्याप्रास इति लोके रूढिः । सत्रं वर्धयति, अधिकफलं करोतीति सत्रवर्धनः ॥ २ ॥
प्रकाशिका
व्यासाश्रमं विविच्य दर्शयति- ब्रह्मनद्या इति ॥ ब्राह्मणैराश्रिता ब्रह्मदैवत्या वा नदी ब्रह्मनदी तस्याः । अत्र शम्याप्रासशब्देन विवक्षितमर्थं दर्शयति- शम्यामिति ॥ सरस्वत्याः पश्चिमे तीरे प्रत्यहं दीक्षापूर्वकं कर्तव्यान्येकानि सत्राणि सन्ति । तत्रेतिकर्तव्यमाश्वलायनादिभि-र्निरूपितम् । सरस्वत्याः पश्चिमे तीरे विद्यमाने देशविशेषे यागं कुर्युरिति । स देशविशेषः कीदृश इत्याकाङ्क्षायां यत्र स्थण्डिले आवहनीयगार्हपत्याग्नी स्थापितौ भवतः । तस्मात्स्थण्डिलाद्बहिराग्नेयकोण- गषट्त्रिंशदङ्गुलपरिमिता या भूमिस्तत्प्रान्तदेशरूप इत्युक्तम् । तत्र ब्रह्माख्यो ऋत्विक् तदभिमुख-माहवनीयगार्हपत्यस्थण्डिलसमीपे स्थित्वा तं देशविशेषमुद्दिश्य षट्त्रिंशदङ्गुलपरिमितं शम्यानामकं सत्रं पात्रविशेषं यथा तस्मिन्स्थण्डिले एव पतेन्नार्वाक्तनमतिक्रम्य तथा हस्तलाघवेन प्रासेत्प्रक्षिपेत् । तच्छम्यानामकं प्रक्षिप्तपात्रं(मात्रं) यस्मिन् षट्त्रिंशदङ्गुलपरिमितभूप्रान्तदेशेति यावत् । तत्र गार्हपत्यस्याग्नेर्मण्टपमादौ कृत्वा ततः पूर्वस्थानाद्गार्हपत्याग्निं नीत्वा तस्मिन्मण्टपे कुण्डमध्ये तं प्रतिष्ठाप्य यागः कर्तव्य इत्युक्तं भवति । अतः स यागप्रदेशः शम्यानामकसत्रपात्रप्रासाधिकरणत्वात् शम्याप्रास-शब्देनोच्यत इत्यप्युक्तम् । तदिदं मनसि निधायोक्तं शम्याप्रासेत्यादि । शम्यां तन्नामकं षट्त्रिंशदङ्गुलपरिमितं सत्रपात्रं प्रास्य असुक्षेपेणे क्षिप्त्वा पूर्वोक्ते शम्यानामके सत्रप्राप्तप्रदेशे शालायां मण्टपं कृत्वा तन्मध्ये गार्हपत्याग्निं प्रतिष्ठाप्येत्याद्यपि ग्राह्मम् । स देशविशेषः शम्याप्रास शम्याप्रास-शब्दवाच्य इत्यर्थः । सत्रं कर्मविशेषं वर्र्धयतीति अधिकफलं करोतीति सत्रवर्धनः । सत् त्रायते इति सत्रं ब्रह्मविचारस्तद्वर्धयतीति वा ॥ २ ॥
तस्मिन् ऋष्याश्रमे व्यासो बदरीषण्डमण्डिते ।
आसीनोऽत्र उपस्पृश्य प्रणिदध्यौ मनश्चिरम् ॥ ३ ॥
पदरत्नावली
ऋष्युपभोगयोग्यफलबदरीवृक्षसमूहालङ्कृते ऋषिसामान्याश्रमे । अत्रातीतानागत-वर्तमानानन्तकोटिब्रह्माण्डबाह्याभ्यन्तरवर्त्यपरिमितपदार्थान् अशेषविशेषैः सह करतलामलकवत् सततम् अपरोक्षीकृर्वतश् चिरं मनःप्रणिधानम् असुरजनमोहनायेति बोद्धव्यम् ॥ ३ ॥
प्रकाशिका
बदरीणां षण्डेन समूहेन मण्डितेऽलङ्कृते मनः प्रणिदध्यौ स्थिरीचकार । ध्यानं कृतवानिति यावत् । नित्यं व्यक्तसर्वज्ञानस्य व्यासस्येदं मनःप्रणिधानकथनमसुरजनमोहनायेति ज्ञातव्यम्
॥ ३ ॥
भक्तियोगेन मनसि सम्यक् प्रणिहितेऽमले ।
अपश्यत् पुरुषं पूर्णं मायाञ्च तदपाश्रयाम् ॥ ४ ॥
तात्पर्यम्
भक्तियोगेन सम्यक् प्रणिहिते लोकानां मनसि ॥ ४ ॥
पदरत्नावली
ध्यानेन किं लब्धमभूदिति तत्राह- भक्तीति ॥ भक्तियोगेन सम्यक् एकाग्रतया हरौ प्रणिहिते सम्यक् स्थापिते अमले रागादिदोषरहिते सतां पुरुषाणां मनसि प्रत्यक्षीभवन्तं पूर्वं देशतः कालतः गुणतश्चापरिच्छिन्नं पुरुषं परमात्मानं जीवानां संसारकारीं मायां बन्धकशक्तिञ्च तदपाश्रयां तस्य हरेर् अधीनाम् अपश्यदित्येकान्वयः । प्रकृतिपुरुषौ विविक्ततया द्रष्टुं लोकानां मनसि सम्यक् प्रणिहिते सति शक्यावित्यपश्यदिति वा । एतदभिप्रायेण ‘तदपाश्रयामि’त्युक्तं, ततोऽपगत्य आश्रित्य स्थितां ‘स्थातुमीक्षापथेमुये’ति वक्ष्यति ॥ ४ ॥
प्रकाशिका
भक्तियोगेनेत्यत्र व्यासो ध्यानेन स्वमनसि पूर्णं पुरुषमपश्यदित्यन्यथाप्रतीतिवारणाय लोकानामित्यध्याहृत्य योजनां दर्शयति- भक्तियोगेनेति ॥ अन्यथा भक्तियोगेनेत्यादिकं बाधितार्थकं भविष्यतीति भावः । तथा चायं श्लोकार्थः । भक्तियोगेनामले रागादिदोषरहिते सम्यक् प्रणिहितेऽति-शयेन भगवति स्थिरीकृते लोकानां मनसि प्रत्यक्षीभवन्तं पूर्णं देशतः कालतो गुणतश्चापरिच्छिन्नं पुरुषमीश्वरमपश्यन् । मायां च जीवबन्धिकां प्रकृतिं च तदपाश्रयां तस्य हरेरधीनां तस्माज्जीवादपगत्य अनाश्रित्य(अन्यानाश्रित्य) स्थितामिति वा अपश्यत् । लोकानां मनसि भक्तियोगेन रागादिदोषरहिते च सति लोके भगवान्दृष्टुं शक्य इति । ततो भगवदधीना जीवबन्धिका माया तस्मादपगता भविष्यतीति चापश्यदिति भावः ॥ ४ ॥
यया संमोहितो जीव आत्मानं त्रिगुणात्मकम् ।
परोऽपि मनुतेऽनर्थं तत्कृतञ्चाभिपद्यते ॥ ५ ॥
पदरत्नावली
ननु अनिर्वाच्याविद्या माया नाम । अतः कथं बन्धकशक्तिरियमित्याशङ्क्य अनिर्वाच्याया अर्थक्रियाऽयोगाद् अस्यास् तद्दर्शनाद् अत्र बन्धकशक्तिरेवोच्यत इत्याभिप्रेत्याह- ययेति ॥ परोऽपि त्रिगुणात्मकप्रकृतेरन्योऽपि यथा सम्मोहितो जीव आत्मानं त्रिगुणात्मकं त्रिगुणोपादानक-देहरूपं मनुते । तत्कृतं मायाकृतं तादृशमननकृतं वा जननमरणाद्यनर्थम् अहं कर्तेत्यनर्थं वा अभिपद्यत इत्यन्वयः । तस्माद् एवंविधमायाबन्धनिवर्तकम् अपरोक्षज्ञानद्वारा भक्तियोगमद्राक्षीदिति भावः ॥ ५ ॥
प्रकाशिका
मायागृतं बन्धं दर्शयति- ययेति ॥ आत्मानं स्वात्मानं परोऽपि त्रिगुणात्मक-देहादन्योऽपि त्रिगुणात्मकं त्रिगुणात्मकदेहाभिन्नं मनुते । देहाद्यत्यन्तविविक्तमात्मानं न जानातीति यावत् । तत्कृतमविवेककृतमनर्थं जननमरणरूपादिसंसारम् । एवंविधमायाबन्धनिवर्तकं हर्यपरोक्षज्ञानद्वारा भक्तियोगमेवापश्यदिति भक्तियोगेनेत्यादेः फलितार्थः ॥ ५ ॥
अनर्थोपशमं साक्षाद्भक्तियोगमधोक्षजे ।
लोकस्याजानतो विद्वांश्चक्रे सात्वतसंहिताम् ॥ ६ ॥
पदरत्नावली
ततः किमकरोदिति तत्राह- अनर्थेति ॥ साक्षाद् आहत्येष्टानिष्टप्राप्ति-परिहारोपायमजानतो लोकस्य सात्विकप्रकृतेर् बन्धकशक्तिनिमित्तमनर्थमुपशमयति नाशयतीत्यनर्थोप-शमम् । अधोक्षजे भक्तियोगं विद्वान् महत्वज्ञानपूर्वकप्रेमलक्षणभक्तियोगप्रदर्शनाय सात्वतसंहितां भागवतसंहितां चक्रे इत्येकान्वयः ॥ ६ ॥
प्रकाशिका
ततः किमकरोदित्यत आह- अनर्थोपशममिति ॥ अपरोक्षज्ञानानन्तरमपि जायमानपरमप्रसादसाधनीभूतातिदृढभक्तियोगमपेक्ष्य साक्षादनर्थोपशममित्युक्तम् । लोकस्यार्थम् इति शेषः । सात्त्वतसंहितां भगवन्माहात्म्यप्रतिपादिकां भागवतसंहिताम् ॥ ६ ॥
यस्यां वै श्रूयमाणायां कृष्णे परमपूरुषे ।
भक्तिरुत्पद्यते पुंसां शोकमोहभयापहा ॥ ७ ॥
प्रकाशिका
संहिताया अनर्थोपशमकत्वं दर्शयति- यस्यामिति ॥ वैशब्दः कैमुत्यर्थः । यस्यां श्रूयमाणायां भक्तिरुत्पद्यते । किं पुनः श्रुतायां व्याख्यातायां चेति ॥ ७ ॥
स संहितां भागवतीं कृत्वानुक्रम्य चात्मजम् ।
शुकमध्यापयामास निवृत्तिनिरतं मुनिम् ॥ ८ ॥
पदरत्नावली
अनया कथं भक्तिरुत्पद्यत इति तत्राह- यस्यामिति ॥ अनुक्रम्य संशोध्य नत्ववद्यबुद्ध्या ॥ ८ ॥
प्रकाशिका
अनुक्रम्य मुहूर्ताद्यनुसारेणारभ्य निवृत्तिनिरतं मनसो विषयेभ्यो निवृत्तौ नितरां रतम् । नितरां वृत्तिर् व्याप्ततया स्थितिर्यस्य भगवतस्तत्र निरतमिति वा ॥ ८ ॥
शौनक उवाच—
स वै निवृत्तिनिरतः सर्वत्रोपेक्षको मुनिः ।
कस्य वा बृहतीमेतामात्मारामः समभ्यसत् ॥ ९ ॥
पदरत्नावली
निवृत्तिनिरतमित्यस्य फलाभिसन्धिरहितमित्यर्थमविद्वानिव शौनकश्चोदयति- स वा इति ॥ आत्मनि आरमत इति आत्मारामः । मुनिः सर्वज्ञः मौनी वा । अत एव सर्वत्र शिष्यसंग्रहादौ उपेक्षक उदासीनबुद्धिः । निवृत्तिनिरतः सः शुकः कस्य फलस्य अर्थे बृहतीम् एतां संहितां समभ्यसद्वै इत्यन्वयः । चतुर्षु पुरुषार्थेषु कस्य पुरुषार्थस्येति वाशब्दः । शुकगताविति धातोः परब्रह्मण्यव्याहतबुद्धिगतित्वात् शुकः ॥ ९ ॥
प्रकाशिका
सर्वत्र चतुर्ष्वपि पुरुषार्थेषु कस्य वा हेतोर् बृहतीमेतां विततामात्मनि परमात्मनि आ सम्यक् रमत इत्यात्मारामः ॥ ९ ॥
आत्मारामाश्च मुनयो निर्ग्राह्या अप्युरुक्रमे ।
कुर्वन्त्यहैतुकीं भक्तिम् इत्थंभूतगणो हरिः ॥ १० ॥
पदरत्नावली
परिहरतीत्याह- आत्माराम इति ॥ चशब्दोऽप्यर्थे । आत्मारामाः स्वरूपसुख एव रममाणा अपि एव निर्ग्राह्या निरुपादेया मुनय उत्तमाधिकारिण उरुक्रमे उरवः क्रमाः पादविक्षेपा यस्य सस् तथा तस्मिन् औतुकीं प्रयोजनविधुराम् आनन्दरूपां भक्तिं कुर्वन्ति । किं पुनः, बहुजन्मस्वपरोक्षीकृतपरतत्वा ये भक्त्यादिसाधनातिशयेन मुक्तौ आनन्दातिशयमाकांक्षमाणाः शुकादय उरुक्रमे भक्तिं कुर्वन्तीति वर्णनीयमित्येकान्वयः । इत्थंभूतगुणः निरपेक्षमुक्तमनोवशीकरणक्षमगुणः । किमुतामुक्तमनोवशीकरणक्षमगुण इति वाच्यमिति भावः ॥ १० ॥
प्रकाशिका
चशब्दोऽप्यर्थे । निर्ग्राह्या निर्गतोपादेयाः । प्रयोजनशून्या अपीति यावत् । औतुकीं निर्निमित्ताम् । भक्तिं श्रवणादिरूपाम् । अत्र हेतुमाह- इत्थम्भूतगुण इति ॥ निरपेक्षभक्त-मनोवशीकरणक्षमगुणक इत्यर्थः ॥ १० ॥
हरेर्गुणाक्षिप्तमतिर्भगवान्बादरायणिः ।
अध्यगान्महदाख्यानं नित्यं विष्णुजनप्रियम् ॥ ११ ॥
पदरत्नावली
अतः शुकेन भागवताभ्यसनं कृतमित्याह- हरेरिति ॥ हरेर् अतिशय-ज्ञानानन्दगुणैर् आक्षिप्ता आकृष्टा मतिर् यस्य सस् तथोक्तः बादरायणसुतो भगवान् नित्यं भागवत-जनहृदयङ्गमं महदाख्यानं, आख्यायते भगवन्महिमा अनेनेति आख्यानं भागवतपुराणम् अध्यगात् । अन्यांश्च अध्यापयामासेत्येकान्वयः ॥ ११ ॥
प्रकाशिका
एतदेव विशदयति- हरेरिति ॥ गुणैर्ज्ञानानन्दसौन्दर्यादिभिराक्षिप्ताऽऽकृष्टा मतिर्बुद्धिर्यस्य स तथोक्तः । अध्यगादधीतवान् । आ सम्यक् ख्यायते विष्णुमाहात्म्यं येन तदाख्यानं भागवतमितरपुराणापेक्षया महान् । एतेन तस्य पुत्रो महायोगीत्यादिना शुकस्य व्याख्याने प्रवृत्तिः कथमिति यत्पृष्टं तस्याप्युत्तरमुक्तप्रायमिति ज्ञातव्यम् ॥ ११ ॥
परीक्षितोऽथ राजर्षेर् जन्मकर्मविलापनम् ।
संस्थाञ्च पाण्डुपुत्राणां वक्ष्ये कृष्णकथोदयाम् ॥ १२ ॥
पदरत्नावली
कस्मिन्युग इत्यादि शौनकप्रश्नं परिहृत्य तस्य जन्मेति प्रश्नं परिहरतीत्याह- परीक्षित इति ॥ अथ परीक्षितो राजर्षेर्जन्म कर्म विलापनं मरणं वक्ष्ये । तदर्थं प्रथमतः पाण्डुपुत्राणां संस्थां स्वर्गारोहणं युद्धादुपरितनमहाभिषेकादि महाप्रस्थानान्तां संस्थां स्थितिञ्च वक्ष्ये । कीदृशीं संस्थाम्? कृष्णकथाया उदयः यस्यां सा तथोक्ता ताम् ॥ १२ ॥
प्रकाशिका
इदानीं तस्य जन्म महदाश्चर्यमित्यादिना पृष्टस्योत्तरमाह- परीक्षित इति ॥ विलापनं मरणं मुक्तिं वा । तदर्थं पाण्डुपुत्राणां संस्थां च युद्धोपरतानां महाभिषेकादिमहाप्रस्थानं स्थितिं च वक्ष्ये । कीदृशीम् । कृष्णकथाया उदयो उत्कर्षः यस्यां सा तथोक्ता ताम् ॥ १२ ॥
यदा मृधे कौरवपाण्डवानां वीरेष्वथो वीरगतिं गतेषु ।
वृकोदराविद्धगदाभिमर्शभग्नोरुदण्डे धृतराष्ट्रपुत्रे ॥ १३ ॥
पदरत्नावली
अथो कथान्तरं निरूप्यते- यदेति ॥ कौरवपाण्डवानां मृधे युद्धे भीष्मादिषु वीरेषु वीरगतिं स्वर्गं गतेषु धृतराष्ट्रपुत्रे दुर्योधने वृकोदरेण आविद्धाया भ्रान्ताया गदाया अभिमर्शेन सम्यक् ताडनेन भग्न ऊरुदण्डः यस्य स तथोक्तस् तस्मिन् सति, दुर्योधनपातमारभ्य ॥ १३ ॥
प्रकाशिका
तत्र परीक्षितो जन्म निरूपयिष्यन् आदौ तावद्गर्भस्थ एवाश्वत्थाम्नो ब्रह्मास्त्रा-त्कृष्णेन रक्षित इति वक्तुं कथां प्रस्तौति- यदेत्यादिना ॥ मृधे युद्धे वीरेषु भीष्मादिषु वीरगतिं स्वर्गङ्गतेष्वथोऽनन्तरं धृतराष्ट्रपुत्रे दुर्योधने वृकोदरेणाऽविद्धायाः क्षिप्ताया गदाया अभिमर्शेन सम्यक् सम्बन्धेन भग्नावूरु दण्डौ यस्य स तथोक्तस्तस्मिन्सति ॥ १३ ॥
भर्तुः प्रियं द्रौणिरिति स्म पश्यन्कृष्णासुतानां स्वपतां शिरांसि ।
अपाहरद्विप्रियमेतदस्य जुगुप्सितं कर्म विगर्हयन्ती ॥ १४ ॥
माता शिशूनां निधनं सुतानां निशम्य घोरं परितप्यमाना ।
तदारुदद्बाष्पकलाकुलाक्षी तां सान्त्वयन्नाह किरीटमाली ॥ १५ ॥
तन्मा शुचस्ते प्रमृजाशु भद्रे यद्ब्रह्मबन्धोः शिर आततायिनः ।
गाण्डीवमुक्तैर्विशिखैरुपाहरे त्वाक्रम्य यत्स्नास्यसि नेत्रजैर्जलैः ॥ १६ ॥
तात्पर्यम्
**स्वात्मन एव विप्रियं न भर्तुः । **
प्रयोजनाभावाद् विप्रियमिव च अस्य । प्रियमिति हि प्रस्वापोक्तम् ॥ स्वप्नोऽयम् ।
**पार्थानुयातमात्मानं द्रौणिः स्वप्ने ददर्श ह । बन्धनं चात्मनस्तत्र द्रौपद्या चैव मोक्षणम् ॥ **
इति स्कान्दे । तस्मान्नैषीकविरोधः ॥ १४-१६ ॥
पदरत्नावली
भर्तुः स्वस्वामिनो दुर्योधनस्य मया प्रियं कार्यमिति पश्यन् निरूपयन् द्रौणिर् यदा स्वपतां निद्रां कुर्वतां कृष्णासुतानां द्रौपदीपुत्राणां शिरांसि अपाहरत्, तदा सुतानां माता द्रौपदी शिशूनां सुतानां निधनं निशम्य घोरं यथा भवति तथा परितप्यमाना । निधनविशेषणं वा । अस्य द्रौणेर् जुगुप्सितं निन्दितम् एतत् शिशुनिधनं कर्म विगर्हयन्ती अरुददित्येकान्वयः । कीदृशं कर्म ? द्रौणेरेव विप्रियं, न तु दुर्योधनस्य । भारते पांस्वभिषेकादिना प्रियत्वोक्तेः । इदानीं द्रौणिना शिश्वादिवधा-त्पूर्वदृष्टस्वप्नप्रकारमाह- तामिति ॥ किरीटमाली अर्जुनः सान्त्वयन् दुःखं शमयन् तां द्रौपदीमाह ॥
किमाह- तन्मा शुच इति ॥ गाण्डीवान् निःसृतैर् विशिखैर् विविधशिखैः शरीरं खनित्वा विशन्तीति वा शरैर् आततायिनः हनिष्यन्मरिष्यामीति क्रूरक्रियाकारिणः ब्रह्मबन्धोर् ब्राह्मणाधमस्य द्रौणेः शिर उपाहरे छेत्स्यामि । त्वं तच्छिरः पुरतः स्थितं पदा आक्रम्य पुत्रवधदुःखनिमित्त-नयनजातैर् जलैः स्नास्यसि स्नानं करिष्यसि कारयिष्यसीति यस्मात् हे भद्रे मा शुचः शोकं मा कुरु । अश्रु पाणिना निमृजन् मा रुदेत्यसान्त्वयदित्यन्वयः । शुचः मा नैवेति वा । ‘अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः । क्षेत्रदारहरश्चैव षडेते ह्याततायिनः’ ॥ इति, ‘आततायिनमायान्त हन्यादेवा-विचारयन्’ इति स्मृतेश्च ॥ १४-१६ ॥
प्रकाशिका
अस्य भर्तुरेतच्छिशुनिधनं वस्तुतो विप्रियमेवेति प्रतीतिनिरासायास्येत्यनेन परामृश्यं दर्शयन् विप्रियमेतदस्येत्यस्यार्थमाह- स्वात्मन एवेति ॥ द्रौणेरेवेत्यर्थः । नन्वेवं भर्तुश्च विप्रियमिति वक्ष्यमाणविरोध इत्यतस्तस्यार्थमाह- प्रयोजनाभावादिति ॥ पृथिव्या अपाण्डवत्वकारणरूप-प्रयोजनस्यानेन सम्यगजातत्वाद्भर्तुर्दुर्योधनस्य विप्रियमिव वक्ष्यमाणवाक्ये प्रयोजनाभावेन मुख्यार्थसादृश्येन विप्रियशब्दो गौणो न मुख्यार्थ इत्यर्थः । ननु भर्तुरेवाप्रियं किं न स्यादित्यतोऽत्र बाधकमाह- अस्येति ॥ अस्य दुर्योधनस्येदं शिशुनिधनं प्रियमिति प्रस्वापे सौषुप्तिके पर्वण्युक्तं हि यस्मात्तस्मा-त्स्वात्मन एव विप्रियमित्यर्थः । भर्तुर्दुर्योधनस्य । स्मेति वितर्के । इत्येवं प्रियं स्यादिति पश्यंश्चिंतयन् शिशूनां सुतानां निधनं निशम्य श्रुत्वाऽस्याश्वत्थाम्नो विप्रियं जुगुप्सितं श्रुत्वा निषिद्धमेतत् शिशूनां निधनरूपं कर्म विगर्हयन्ती निन्दयन्ती ।
घोरं यथा स्यात्तथा परितप्यमाना माता द्रौपदी बाष्पस्य कलाभिर्बिन्दुभिराकुलेऽक्षिणी यस्याः सा । पूर्वोक्तयदाशब्दस्यात्र सम्बन्धः । यदाऽरुदत्तदा तां द्रौपदीं किरीटमालेऽस्यास्त इति किरीटमाली अर्जुनः । ननु भारते भीमेनैव द्रौपदीसांत्वनं द्रौण्यनुयानं तद्बन्धनं च कृतमिति स्पष्टमुक्तमतः कथमेतत्सर्वमर्जुनस्यात्रोच्यमानमुपपद्यत इत्यत आह- स्वप्नोऽयमिति ॥ अयमत्रोच्यमानोऽर्थः स्वप्नो द्रौणिना स्वप्नावस्थायामनुभूतः । न तु बाह्यः । अतो न विरोध इति भावः । तथा च भीमेनैव द्रौण्यनुयानं बन्धनं शिरोरत्नापहरणं च कृतम् । तदनन्तरं द्रौपद्या मोचितो द्रौणिः स्वप्नदृष्टं स्मरन् जगामेति भारतीकथाऽत्रापि ग्राह्या । तदनन्तरं कीदृशस्वप्नो द्रौणिना दृष्ट इत्याशङ्कायां सांत्वय-न्नित्यादिना द्रौणिदृष्टं स्वप्नमध्यायसमाप्तिपर्यन्तमनुवदति सूत इति भावः । नन्वर्जुनकर्तृकं द्रौण्यनुयानादिकं स्वाप्नमेवेत्यत्र प्रमाणं दर्शयति- पार्थानुयातमिति ॥ बन्धनं चेत्यत्र पार्थेनेति शेषः । तेनैवकारस्य सम्बन्धः । मोक्षणं च ददर्शेत्यन्वयः । ततश्चायं सांत्वयन्नित्यादिमूलस्यार्थः । तां द्रौपदीं सांत्वयन् दुःखं शमयन् । हे भद्रे । त्वं मा शुचः शोकं मा कुरु । ते शुचः शोकाश्रूणि तत्तदा प्रमृजामि पाणिना परिमार्जयामि यद्यदा ब्रह्मबन्धोर्ब्राह्मणाधमस्याततायिनोऽकर्तव्यकारिणो गाण्डीवाद्धनुषो मुक्तैर्विशिखैर्विविधशिखैर्बाणैरुपाहरे छित्वा त्वत्समीपमानयामि । यच्छिर आक्रम्य क्रोधेन पदा स्पृष्ट्वा दुःखोद्रेकेण नयनजातैर्जलैः स्नास्यसि स्नानं करिष्यसि छिन्नशिरः स्पर्शे शुद्ध्यर्थं पुत्रवधकारिशिरो-दर्शनसमुद्भूतदुःखोद्रेकनिर्गतनेत्रजलैरेव स्नानं त्वं करिष्यसीति भावः ॥ १४-१६ ॥
इति प्रियां वल्गुविचित्रजल्पैः स सान्त्वयित्वाच्युतमित्रसूतः ।
अभ्यद्रवद्दंशित उग्रधन्वा कपिध्वजो गुरुपुत्रं रथेन ॥ १७ ॥
पदरत्नावली
स कपिध्वज इति वल्गवः मनोहरा विचित्रा विविधा आश्चर्यभूता जल्पा वाग्विशेषा ये तथोक्तास् तैः प्रियां भार्यां सान्त्वयित्वा रथेन गुरुपुत्रमभ्यद्रवदित्यन्वयः । अच्युत एव मित्रम् अनिमित्तबन्धुः सूतः यन्ता च यस्य सस् तथोक्तः । दंशितः कवचितः । उग्रं भयङ्करं धनुर् यस्य सस् तथोक्तः ॥ १७ ॥
प्रकाशिका
वल्गवो रम्या विचित्रा विविधाश्चर्यभूता जल्पा वाग्विशेषास्तैः सोऽर्जुनोऽच्युतः कृष्ण एव मित्रं सूतश्च यस्य स तथाऽभ्यद्रवत् । दंशितो बद्धकवचः । उग्रं धनुर्यस्य कपिर्हनुमान्ध्वजे यस्य स तथोक्तः ॥ १७ ॥
तमापतन्तं स विलोक्य दूरात्कुमारहोद्विग्नमना रथेन ।
पराद्रवत्प्राणपरीप्सुरुर्व्यां यावद्गमं रुद्रभयाद्यथार्किः ॥ १८ ॥
पदरत्नावली
कुमारहा कुमारान् हतवान् द्रौणिर् उर्व्यां भूमौ यावद् गन्तुं शक्यं तावद् रथेन पराद्रवदित्यन्वयः । किं कृत्वा ? आपतन्तम् अर्जुनं दूराद्विलोक्य उद्विग्नमनाः सम्भ्रान्तचेताः प्राणपरीप्सुर् जीवनलाभेच्छुः । क इव? रुद्रभयाद् आर्किर् अर्कपुत्रः शनैश्चरः । पुरा यथा रुद्रस्य तृतीयनेत्रस्य तेजसः भयाद् आर्किः परिधावति तथेति वा । पुराणान्तरप्रसिद्धमिदम् । यथा क इति केचित्पठन्ति । ब्रह्मपञ्चमशिरच्छेदनाय प्रवृत्तं रुद्रं दृष्ट्वा ब्रह्मा परिधावतीत्येतद् असुरजनव्यामोहनायेति ज्ञातव्यम्
॥ १८ ॥
प्रकाशिका
आपतन्तमाधावन्तं स द्रौणिः कुमारहा बालघाती उद्विग्नमनाः कम्पितहृदयः प्राणपरीप्सुः प्राणांल्लब्धुमिच्छुर्यावद्गमं यावद्गन्तुं शक्यं तावदुर्व्यां पराद्रवदपलायत । क इव । को ब्रह्मा यथा रुद्रभयात्स्वकीयपञ्चमशिरश्छेदार्थमागतस्य रुद्रस्य भयात्पराद्रवत्तथैवेति । आर्किरिति पाठेऽर्कसूनुः शनैश्चरो रुद्रस्य तृतीयनेत्रतेजसो भयादार्किः पराद्रवदिति पुराणान्तरे प्रसिद्धम् । अर्क इति पाठे विद्युन्माली नाम राक्षसः । रुद्रेण दत्तसौवर्णं विमानमारुह्य सूर्यस्य पृष्ठतो गच्छन्विमानदीप्त्या रात्रिं विलोपितवांस्ततोऽर्केण तद्विमानं पातितम् । तत् श्रुत्वा रुद्रे कुपिते सति तद्भयादर्कः पराद्रवदिति वामनपुराणे प्रसिद्धम् ॥ १८ ॥
यदाऽशरणमात्मनमैक्षत श्रान्तवाहनम् ।
अस्त्रं ब्रह्मशिरो मेन आत्मत्राणं द्विजात्मजः ॥ १९ ॥
पदरत्नावली
अशरणं पालकरहितम् । आत्मत्राणम् आत्मानं त्रायत इति । ब्रह्मशिरोनामास्त्रं ब्रह्मास्त्रम् ॥ १९ ॥
प्रकाशिका
अशरणं रक्षकरहितम् । ननु पलायनमेव रक्षकमित्यत उक्तम्- श्रान्तवाहनमिति ॥ ब्रह्मशिरो ब्रह्मास्त्रम् । आत्मत्राणमात्मत्राणकरम् । द्विजात्मज इति ब्रह्मास्त्रसिद्धिसूचकम् ॥ १९ ॥
अथोपस्पृश्य सलिलं सन्दधेऽस्त्रं समाहितः ।
अजानन्नपि संहारं प्राणकृच्छ्र उपस्थिते ॥ २० ॥
ततः प्रादुष्कृतं तेजः प्रचण्डं सर्वतो दिशम् ।
प्रापतत्तदभिप्रेक्ष्य विष्णुं जिष्णुरुवाच ह ॥ २१ ॥
पदरत्नावली—अस्त्रप्रयोगे इतिकर्तव्यतामाह- अथेति ॥ अथ ईक्षणानन्तरम् । उपस्पृश्य आचम्य । संहारम् उपसंहारम् । अपिशब्देन विद्याया असाकल्यं दर्शयति । तर्हि किमर्थं सन्दधे इति तत्राह- प्राणेति ॥ ततस् तस्माद् अस्त्राद् उत्पन्नं सर्वतो दिशं प्रापतद् व्याप्नुवन् प्रचण्डम् अतिक्रूरं तत्तेजो ऽभिप्रेक्ष्य दृष्ट्वा जिष्णुर् अर्जुनः । हेत्यनेन मनसि आश्चर्यं कृत्वेति दर्शयति ॥ २०,२१ ॥
प्रकाशिका
उपस्पृश्याचम्य तद् ब्रह्मास्त्रं समाहितः कृतध्यानः संहारमुपसंहारम् उपसंहार-मजानतोऽपि सन्धाने हेतुः ॥ प्राणकृच्छ्र इति ॥ ततोऽस्त्रात्प्रापतद्वयाप्नुवद्विष्णुं कृष्णं जिष्णुरर्जुनः । हेत्यनेनाश्चर्यं कृत्वेति दर्शयति ॥ २०,२१ ॥
अर्जुन उवाच—
कृष्ण कृष्ण महाभाग भक्तानामभयङ्कर ।
त्वमेको दह्यमानानामपवर्गोऽसि संसृतेः ॥ २२ ॥
पदरत्नावली
कृष्ण सदानन्दात्मकः । कृष्ण दुःखकर्षणशील । संसृतेर् जातेन तापाग्निना दह्यमानानां पुंसां त्वमेक एष संसृतेर् अपवर्गोऽपि दुःखनाशकरोऽसीत्यन्वयः ॥ २२ ॥
प्रकाशिका
संसृतेर्दह्यमानानां संसृतेरपवर्गो ऽपवर्गप्रदाता मोक्षप्रदातेत्यर्थः ॥ २२ ॥
त्वमाद्यः पुरुषः साक्षादीश्वरः प्रकृतेः परः ।
मायां व्युदस्य चिच्छक्त्या कैवल्ये स्थित आत्मनि ॥ २३ ॥
पदरत्नावली
अनिष्टपरिहारसामर्थ्यं तवास्तीत्याह- त्वमिति ॥ पापानि औषद् अदहद् इति पुरुषः । ‘सर्वान् पाप्मन औषत् तस्मात् पुरुष’ इति श्रुतेः । पुरु बहु सरतीति वा । सर्वेषाम् आदौ भवनाद् आद्यः । साक्षाद् ईश्वरः निरुपचरितैश्वर्योपेतः । तत्कथमिति तत्राह- प्रकृतेरिति ॥ चित्प्रकृतेरप्युत्तमः । एवंविधस्त्वं चिच्छक्त्या स्वरूपज्ञानशक्त्या मायां बन्धकशक्तिं निरस्य कैवल्ये प्रकृतिप्राकृतसंबन्धरहिते आत्मनि स्वरूपे स्थितः यतो ऽत इत्यन्वयः । ‘स भगवः कस्मिन्प्रतिष्ठित इति स्वे महिमि्न’ इति श्रुतेः ॥ २३ ॥
प्रकाशिका
त्वं तु नित्यमुक्त इत्याह- त्वमिति ॥ चिच्छक्त्या स्वरूपज्ञानशक्त्या मायां बन्धकप्रकृत्यादिरूपां व्युदस्य दूरीकृत्य कैवल्ये स्वार्थे ष्यञ् प्रत्ययः । केवले प्रकृतिप्राकृतरहित आत्मनि स्वरूपे स्थितः । अनन्याश्रितो नित्यमुक्तश्चेत्यर्थः ॥ २३ ॥
स एव जीवलोकस्य मायामोहितचेतसः ।
विधित्सुः स्वेन वीर्येण श्रेयो धर्मादिलक्षणम् ॥ २४ ॥
पदरत्नावली
सः प्रकृतिप्राकृतसंबन्धरहित एव बन्धकशक्त्या मोहितबुद्धेर्जिवलोकस्य स्वरूप-वीर्येण धर्मादिलक्षणं श्रेयो विधित्सुः, अवतरतीति शेषेणान्वयः ॥ २४ ॥
प्रकाशिका
त्रिवर्गदाताऽपि त्वमेवेत्याह- स एवेति ॥ विधत्से करोषि । अवतारान्कृत्वेति शेषः । वीर्येण प्रराक्रमेण । विधित्सुरिति पाठेऽवतरतीति शेषः ॥ २४ ॥
तथाऽयञ्चावतारस्ते भुवो भारजिहीर्षया ।
स्वानाञ्चानन्यभावानामनुध्यानाय चासकृत् ॥ २५ ॥
पदरत्नावली
भगवदवतारास् ते यथा पुंसाम् अनुध्यानादिना मोक्षहेतवः, तथा भुवः भार-जिहीर्षया कृतो ऽयं तव अवतारश्च अनन्यभक्तानां स्वानाम् असकृदनुध्यानाय स्यादित्यतो मोक्षं साधयतस् तव भक्तैहिकदुःखनिवारकत्वं किं वर्णनीयमिति भावः । भूभारध्यानयोः समुच्चये चशब्दः
॥ २५ ॥
प्रकाशिका
भारजिहीर्षया कृत इति शेषः । स्वानां ज्ञातीनाम् । अनन्यभावानामेकान्तिनां चानुध्यानायानुध्यानादिना । मोक्षाय भवतीति शेषः । तथा च मोक्षादिप्रदस्य तवैतद्दुःखपरिहारे सामर्थ्यमस्तीति किं वाच्यमिति भावः ॥ २५ ॥
किमिदं स्वित्कुतो वेति देव देव न वेद्म्यहम् ।
सर्वतोमुखमायाति तेजः परमदारुणम् ॥ २६ ॥
पदरत्नावली
यत्तेजः परमदारुणं सर्वतोमुखमायाति हे देव तदिदं किंस्वित् कुतो वेति अहं न वेद्मीत्यन्वयः ॥ २६ ॥
प्रकाशिका
सर्वतो मुखं यत्तेज आयाति तदिदं किं किमात्मकम् । कुतो वाऽऽयातीति स्विद्वितर्के ॥ २६ ॥
श्रीभगवानुवाच—
वेत्थेदं द्रोणपुत्रस्य ब्राह्ममस्त्रं प्रदर्शितम् ।
नैवासौ वेद संहारं प्राणबाध उपास्थिते ॥ २७ ॥
पदरत्नावली
यत्तेजस् तदिदं द्रोणपुत्रस्य ब्राह्ममस्त्रं वेत्थेत्यन्वयः । कीदृशं ? प्राणबाधे जीवाधिष्ठितदेहनाशे उपस्थिते आसन्ने सति प्रदर्शितम् । प्राणबाध इत्येतत्कुतोऽवगतमिति तत्राह- नेति ॥ असौ द्रौणिर् अस्य अस्त्रस्य संहारं न वेदेति यस्माद् अतो ज्ञायते प्राणबाधे मुक्तमिति ॥ २७ ॥
प्रकाशिका
प्राणबाध उपस्थिते सति प्रदर्शितं प्रकटीकृतम् । न तु तत्प्रयोगकुशल इत्याह- नैवेति ॥ त्वं तु संहारमुपसंहारं वेत्थेत्यपि योज्यम् ॥ २७ ॥
न ह्यस्यान्यतमं किञ्चिदस्त्रं प्रत्यवकर्षणम् ।
जह्यस्त्रतेज उन्नद्धमस्त्रज्ञो ह्यस्त्रतेजसा ॥ २८ ॥
पदरत्नावली
अस्त्राणाम् अन्यतमं किञ्चिदस्त्रम् अस्य प्रत्यवकर्षणं प्रतीकारसमर्थं निवर्तकं नहि । अतो ऽस्त्रज्ञः विसर्गोपसंहारपूर्वकमस्त्रं जानन् त्वम् अस्त्रतेजसा उन्नद्धम् उद्धतम् अस्त्रतेजः जहीत्यन्वयः । हिशब्दः हेतौ ॥ २८ ॥
प्रकाशिका
अस्त्राणां मध्येऽन्यतमम् । प्रत्यवकर्षणं प्रतीकारसमर्थम् । निवर्तकमिति यावत् । जहि प्रतिबद्धं कुरु । उन्नद्धमुत्कृष्टं हि यस्मादस्त्रज्ञोऽसि । विसर्गे उपसंहारविषयकमिति शेषः । अस्त्रस्य ब्रह्मास्त्रस्य तेजसा । एतदस्त्रप्रतिबन्धार्थं त्वमपि ब्रह्मास्त्रं प्रयोजयेति भावः ॥ २८ ॥
सूत उवाच—
श्रुत्वा भगवता प्रोक्तं फल्गुनः परवीरहा ।
सृष्ट्वाऽपस्तं परिक्रम्य ब्राह्मं ब्राह्माय सन्दधे ॥ २९ ॥
पदरत्नावली
परेषां शत्रूणां संबन्धिनः वीरान् हन्तीति परवीरहा । शत्रुवीरानिति वा । तं कृष्णं परिक्रम्य प्रदक्षिणीकृत्य ॥ २९ ॥
प्रकाशिका
परेषां शत्रूणां सम्बन्धि ये वीरास्तान्हन्तीति तथा । आपः स्पृष्ट्वाऽऽचम्य तं कृष्णं परिक्रम्य प्रदक्षिणीकृत्य ब्राह्माय ब्रह्मास्त्रशांत्यै ॥ २९ ॥
संहत्यान्योन्यमुभयोस्तेजसी शरसंवृते ।
आवृत्य रोदसी खञ्च ववृधातेऽर्कवह्निवत् ॥ ३० ॥
पदरत्नावली
उभयोर् अस्त्रयोः शरसंवृते तेजसी अन्योन्यं संहत्य संघट्टनं कृत्वा रोदसी द्यावापृथिव्यौ खम् आकाशञ्च आवृत्य अर्कवह्निवद् ववृधाते इत्यन्वयः ॥ ३० ॥
प्रकाशिका
उभयोरस्त्रयोस्तेजसी शरसंवृत्ते शरारूढेऽन्योन्यं परस्परं संहत्य मिलित्वा ववृधाते प्रवर्धताम् । किं कृत्वा । रोदसी द्यावापृथिव्यौ खमन्तरिक्षं चावृत्य । यथा प्रलये सङ्कर्षणमुखाग्नि-रुपरिस्थितोऽर्कश्च संहत्य वर्धेते तद्वत् ॥ ३० ॥
दृष्ट्वऽस्त्रतेजस्तु तयोस्त्रींल्लोकान्प्रदहन्महत् ।
दह्यमानाः प्रजास्सर्वाः सांवर्तकममंसत ॥ ३१ ॥
पदरत्नावली
सांवर्तकं प्रलयकालीनदाहम् अमंसत न्यरूपयन् ॥ ३१ ॥
प्रकाशिका
तयोर्द्रौणिफल्गुनयोस्तेन दह्यमानाः सांवर्तकं प्रलयाग्निममंसत मेनिरे ॥ ३१ ॥
प्रजोपप्लवमालक्ष्य लोकव्यतिकरं च तम् ।
मतञ्च वासुदेवस्य संजहारार्जुनो द्वयम् ॥ ३२ ॥
पदरत्नावली
व्यतिकरः विनाशः । अस्त्रद्वयोपसंहारलक्षणं वासुदेवमतम् ॥ ३२ ॥
प्रकाशिका
व्यतिकरं व्यत्ययम् । नाशमिति यावत् । वासुदेवस्य कृष्णस्य मतमुभयास्त्रोप-संहाररूपमालक्ष्य ज्ञात्वा द्वयं ब्रह्मास्त्रद्वयं सञ्जहारोपसंहृतवान् ॥ ३२ ॥
तत आसाद्य तरसा दारुणं गौतमीसुतम् ।
बबन्धामर्षताम्राक्षः पशुं रशनया यथा ॥ ३३ ॥
पदरत्नावली
गौतमीसुतं कृपीपुत्रम् । रशनया रज्वा ॥ ३३ ॥
प्रकाशिका
गौतमवंशजाता गौतमी कृपी तस्याः सुतममर्षेण कोपेन ताम्रे रक्तेऽक्षिणी यस्य स तथा । निष्कृपत्वे दृष्टान्तः पशुं रशनया यथेति ॥ ३३ ॥
शिबिराय निनीषन्तं रज्वा बध्वा रिपुं बलात् ।
प्राहार्जुनं प्रकुपितो भगवानम्बुजेक्षणः ॥ ३४ ॥
पदरत्नावली
शिबिराय स्कन्धावाराय, सेनानिवेशनस्थानायेति यावत् । निनीषन्तं नेतुमिच्छन्तम्
॥ ३४ ॥
प्रकाशिका
रज्ज्वा रशनया बद्ध्वा शिबिराय सेनानिवेशस्थानाय निनीषन्तं नेतुमिच्छन्तम्
॥ ३४ ॥
मैनं पार्थार्हसि त्रातुं ब्रह्यबन्धुमिमं जहि ।
योऽसावनागसः सुप्तानवधीन्निशि बालकान् ॥ ३५ ॥
पदरत्नावली
हे पार्थ ब्रह्मबन्धुं ब्राह्मणाधमम् एनम् अश्वत्थामानं त्रातुं नार्हसि । किन्तु योऽसौ निशि रात्रौ सुप्तान् बालकान् अवधीद् इमं जहि हनेत्यन्वयः । अनागसो ऽकृतापराधान् । अत्राश्वत्थाम्नः वध्यत्वे, अनागस्त्वं सुप्तत्वं बालकत्वमिति हेतुत्रयमनादृत्य तद्धननं कारणमिति ज्ञातव्यम् । ‘अनागसं प्रसुप्तञ्च बालकं हन्ति यो नरः । स खण्डशो निशातव्य इत्येवं मनुरब्रवीत्’ इति स्मृतेः ॥ ३५ ॥
प्रकाशिका
अनागसो निरपराधान् ॥ ३५ ॥
मत्तं प्रमत्तमुन्मत्तं सुप्तं बालं स्त्रियं जडम् ।
प्रपन्नं विरथं भीतं न रिपुं हन्ति धर्मवित् ॥ ३६ ॥
पदरत्नावली
रिपुणा नैते हन्तव्या इत्याह- मत्तमिति ॥ मत्तं मद्यादिपानेन मदान्धम् । प्रमत्तं विस्मृतिमन्तम् । उन्मत्तं ग्रहग्रस्तम् । जडं स्वतो विवेकज्ञानशून्यम् । सुप्तं निद्रितम् । बालं दिग्विशेषानभिज्ञम् । स्त्रियं बाल्ये तारुण्ये वार्धके च पराधीनवृत्तिम् । प्रपन्नं शरणागतम् । विरथं रथादियुद्धसाधनरहितम् । विपथं युद्धमार्गादपक्रान्तमिति केचित् पठित्वा व्याचक्षते । तत् ‘भी भयचलनयोरि’ति धातोर् भीतं चलितं युद्धमार्गादपसृतमित्यनेन पुनरुक्तम् । न च कम्पितार्थत्वं, धातुपाठविरोधात् । अतोऽनुपासितगुरुचरणैरुत्प्रेक्षितमित्युपेक्षणीयम् ॥ ३६ ॥
प्रकाशिका
मत्तं मद्यादिना । प्रमत्तं विस्मृतिमन्तम् । उन्मत्तं ग्रहसंनिपातादिना, जडं विवेकज्ञानशून्यम् । प्रपन्नं शरणागतम् ॥ ३६ ॥
स्वप्राणान्यः परप्राणैः प्रपुष्णात्यघृणः खलः ।
तद्वधस्तस्य हि श्रेयः यद्दोषाद्यात्यधः पुमान् ॥ ३७ ॥
पदरत्नावली
खल इन्द्रियारामः । अघृणः दयारहितः । तद्वधस् तस्य हिंसकस्य हननं श्रेयः साधुः । कुतः ? येषां हिंसादिदोषाद् अधः नरकं यातीति यस्मात् तस्मादिति ॥ ३७ ॥
प्रकाशिका
उत्तरत्र ‘तदसौ वध्यतां पाप’ इति द्रोणेर्वधो विधीयते । तत्र ब्राह्मणवधः कथं मया कार्य इत्यर्जुनमानसशङ्कापरिहाराय तद्वधस्तत्कृतपापस्य दण्डरूपो भविष्यति । अतस्तद्धितायैव त्वया कार्य इत्याशयेनाह- स्वप्राणानिति ॥ अघृणः कृपारहितः खल इन्द्रियारामः । तद्वधो दण्डरूपो राज्ञा क्रियमाणस्तस्य परहिंसया स्वप्राणपोषकस्य श्रेयः पुरुषार्थो यद्यस्माद्दोषाद्दण्डः प्रायश्चित्तरहिता-द्दोषात्पुमान् दोष्यधो नरकाद्यनर्थं याति । हिशब्देन ‘राजभिर्धृतदण्डास्तु कृत्वा पापानि मानवः । विधूतकल्मषा यान्ति स्वर्गं सुकृतिनो यथा’ इति स्मृतिप्रसिद्धं दर्शयति । हि यस्मादेवं तत्तस्मादसौ वध्यतामिति वा हिशब्दान्वयः ॥ ३७ ॥
प्रतिश्रुतञ्च भवता पाञ्चाल्यै शृण्वतो मम ।
आहरिष्ये शिरस्तस्य यस्ते मानिनि पुत्रहा ॥ ३८ ॥
पदरत्नावली
प्रतिज्ञा च रक्षणीयेत्याह- प्रतिश्रुतमिति ॥ हे मानिनि मानार्हे । यस् ते पुत्रान् हतवान् तस्य शिर आहरिष्ये इति मम शृृण्वतः सतः पाञ्चाल्यै द्रोपद्यै प्रतिज्ञातञ्च यस्मात् तस्मादित्यन्वयः ॥ ३८ ॥
प्रकाशिका
हे मानिनि मानार्हे ॥ ३८ ॥
तदसौ वध्यतां पाप आतताय्यात्मबन्धुहा ।
भर्तुश्च विप्रियं वीर कृतवान्कुलपांसनः ॥ ३९ ॥
पदरत्नावली
‘आत्मबन्धुः सुतस्तोकः पुत्रोऽङ्गज उदाहृतः’ इत्यभिधानाद् आत्मबन्धून् - सुतान् हतवानिति यस्मात् तस्माद् असौ पापः । विप्रियं तु लोकदृष्ट्या इति ज्ञातव्यम् ॥ ३९ ॥
प्रकाशिका
‘आत्मबन्धुः सुतस्तोकः पुत्रोऽङ्गज उदाहृतः’ इत्यभिधानादात्मबन्धून्सुतान्हन्तीति तथा । भर्तुश्च दुर्याेधनस्यापि विप्रियं प्रयोजनाभावाद्विप्रियमिव स्थितं शिशुहननं कृतवान् । कुलपांसनः कुलदूषकः ॥ ३९ ॥
एवं परीक्षता धर्मं पार्थः कृष्णेन चोदितः ।
नैच्छद्धन्तुं गुरुसुतं यद्यप्यात्महनं महान् ॥ ४० ॥
पदरत्नावली
हरिणा अर्जुनं प्रति द्रौणिवधप्रतिपादनम् अर्जुनधर्मपरीक्षणाभिप्रायमेव, न तु वधाभिप्रायमिति कथनपूर्वकम् अर्जुनस्य गुरुभक्त्यतिशयं कथयति- एवमिति ॥ पार्थः गुरुसुतं हन्तुं नैच्छदित्यन्वयः । कथंभूतं ? यद्यपि एवं धर्मं परीक्षता कृष्णेन चोदितः । तथापि नैच्छत् । कथंभूतं ? आत्मानं हतवन्तम् । अयमपि कश्चिद्धेतुः । पुनरपि कथंभूतं ? महान् महापुरुषः । महत्वान्नैच्छदिति भावः ॥ ४० ॥
प्रकाशिका
यद्यपि चोदितस्तथाऽपि तं हन्तुं नैच्छदित्यन्वयः । कुतो नैच्छत् । आत्महनं बालहत्यादिदोषेण स्वात्मानं च हतवन्तम् । यतो महान्विवेकी । पार्थविशेषणमेतत् ॥ ४० ॥
अथोपत्य स्वशिबिरं गोविन्दप्रियसारथिः ।
न्यवेदयत्तं प्रियायै शोचन्त्या आत्मजान् हतान् ॥ ४१ ॥
पदरत्नावली
अथ गोविन्दः प्रियश्च सारथिश्च यस्य स तथोक्तः । सः पार्थः स्वशिबिरम् उपेत्य द्रोणिना हतान् आत्मजान् पुत्रान् प्रति शोचन्त्यै प्रियायै द्रौपद्यै तं न्यवेदयदित्येकान्वयः ॥ ४१ ॥
प्रकाशिका
गोविन्दः प्रियः सारथिश्च यस्य स तथा । द्रोणिना हतानात्मजानुद्दिश्य शोचन्त्यै प्रियायै द्रौपद्यै ॥ ४१ ॥
तथाहृतं पशुवत्पाशबद्धम् अवाङ्मुखं कर्मजुगुप्सितेन ।
निरीक्ष्य कृष्णापकृतं गुरोः सुतं वामस्वभावा कृपया ननाम ॥ ४२ ॥
पदरत्नावली
वामस्वभावा मृदुस्वभावा, चारुतरशीलेति यावत् । कृष्णा तथाहृतं, तदेवाह- पशुवत् पाशेन बद्धं कर्मजुगुप्सितेन कर्मणा लज्जया अवाङ्मुखम् अपकृतं पुत्रहत्यया अपकर्तारमपि गुरोः सुतं निरीक्ष्य कृपया ननामेत्येकान्वयः ॥ ४२ ॥
प्रकाशिका
तथाऽऽहृतमित्येतदेव विशदयति- पशुवत्पाशबद्धमिति ॥ जुगुप्सितं च तत्कर्म च कर्मजुगुप्सितम् । विशेषणस्य परनिपातः । तेनावाङ्मुखम् । अपकृतं चापकर्तारमपि कृपया निरीक्ष्य ननाम । यतो वामस्वभावा शोभनशीला ॥ ४२ ॥
उवाचासहन्त्यस्य बन्धनाऽनयनं सती ।
मुच्यतां मुच्यतामेष ब्राह्यणो नितरां गुरुः ॥ ४३ ॥
पदरत्नावली
न केवलं नत्वा तूष्णीमभूत्, किन्तु वचनञ्चोवाचेत्याह- उवाचेति ॥ अस्य द्रौणेर् बन्धनेन आनयनम् असहमाना । सती प्रशस्तसौशील्यादिगुणवती । ब्राह्मण एव वर्णानां गुरुः, अयं च नितरां युष्माकं गुरुः ॥ ४३ ॥
प्रकाशिका
बन्धनेनानयनम् ॥ ४३ ॥
सरहस्यो धनुर्वेदः सविसर्गोपसंयमः ।
अस्त्रग्रामश्च भवता शिक्षितो यदनुग्रहात् ॥ ४४ ॥
पदरत्नावली
सरहस्यः सकीलकः धनुर्वेदः सविसर्गोपसंयमः प्रयोगोपसंहारसहितो ऽस्त्रग्रामः ब्रह्मास्त्राद्यस्त्रसमूहः यस्य द्रोणस्य अनुग्रहाद् भवता शिक्षितो ऽभ्यस्तः ॥ ४४ ॥
प्रकाशिका
कथमयं गुरुरित्यतो गुरुपुत्रत्वादित्याह- सरहस्य इति ॥ गोप्यमन्त्रसहितो विसर्गोऽस्त्रप्रयोग उपसंयम उपसंहारस्ताभ्यां सहितोऽस्त्राणां ग्रामः समूहो यस्य द्रोणस्यानुग्रहात् ॥४४॥
स एष भगवान्द्रोणः प्रजारूपेण वर्तते ।
तस्यात्मनोऽर्घं पत्न््नयास्ते नान्वगाद्वीरसूः कृपी ॥ ४५ ॥
पदरत्नावली
स एषः द्रोणः भगवान् प्रजारूपेण ‘आत्मा वै पुत्रनामासि’ इति श्रुतेः पुत्र-रूपेण वर्तते यतो ऽतः । गुरुपुत्रस्य गुरुवत् पूजार्हत्वादिति भावः । किञ्च अन्योऽपि हेतुरस्तीत्याह- तस्येति ॥ तस्य द्रोणस्य आत्मनः शरीरस्य अर्धम् अर्धाङ्गी सती वीरसूर् वीरपुत्रवती कृपी संप्रत्यास्ते । पतिं नान्वगात् । अनुगमनं न कृतवती यतो ऽतः । गुरुपत्नीभक्त्या च मुच्यतामिति भावः ॥ ४५ ॥
प्रकाशिका
प्रजारूपेण पुत्ररूपेण वर्तते । आत्मा वै पुत्रनामाऽऽसीदिति श्रुतेः । अतो गुरुरिति पूर्वेणान्वयः । गुरुपत्नीभक्त्या चायं मुच्यतामित्याशयेनाह- तस्येति ॥ तस्य द्रोणस्यात्मनो देहस्यार्धाङ्गी कृपी सम्प्रत्यास्ते । अर्धत्वे हेतुः । यतः सा पत्नी । ‘अर्धो वा एष आत्मनो यत्पत्नी’ इति श्रुतेः । ननु भर्तृरि मृते सति सा कथं तिष्ठतीत्यत उक्तम् । नान्वगात्पतिमिति शेषः । यतो वीरसूः पुत्रवती ॥ ४५ ॥
तद्धर्मज्ञ महाभाग भवद्भिः कौरवं कुलम् ।
वृजिनं नार्हति प्राप्तुं पूज्यं वन्द्यमभीक्ष्णशः ॥ ४६ ॥
पदरत्नावली
न केवलं गुरुभक्तिरेवात्र हेतुर् अन्योऽप्यस्तीत्याह- तदिति ॥ गुरौ गुरुपुत्रेषु च आचारलक्षणः यः धर्मस् तं जानातीति धर्मज्ञः । हे धर्मज्ञ भगानां भाग्यानां समुदायः भागः । महान् भागः यस्य सस् तथा तस्य संबुद्धिर् महाभाग अश्वत्थाम्नो दुःखे सति तन्मातुरपि दुःखं स्यात् । तेन तत्कोपेन अस्मत्कुलस्यापि पापं भवेदिति यत् तत् तस्माद् अभीक्ष्णशः सर्वदा सर्वैः पूज्यं वन्द्यं कौरवं कुलं भवद्भिर् वृजिनं पापं तन्निमित्तं दुःखं वा प्राप्तुं नार्हति योग्यं न भवति ॥ ४६ ॥
प्रकाशिका
किं चैतद्धननं तव कुलस्यापि पापसम्पादकमतोऽयं मुच्यतामित्याह- तद्धर्मज्ञेति ॥ स चासौ धर्मश्च तद्धर्मस्तं जानातीति तथा । गुर्वादिभक्तिजनितधर्मज्ञ । भगानां भाग्यानां समुदायो भागो महान् भागो यस्य स तथा तस्य सम्बुद्धिर्महाभाग । अभीक्ष्णशः सर्वदा सर्वैः पूज्यं वन्द्यं च कौरवं कुरोः सम्बन्धि कुलं भवद्धिः कर्तृभिर् वृजिनं ब्रह्मद्रोहनिमित्तं दुःखं प्राप्तुं नार्हति योग्यं न भवति
॥ ४६ ॥
मा रोदीदस्य जननी गौतमी पतिदेवता ।
यथाऽहं मृतवत्साऽऽर्ता रोदिम्यश्रुमुखी मुहुः ॥ ४७ ॥
पदरत्नावली
यथा अश्रुमुखी मृतवत्सा मृतपुत्रा अत एव आर्ता अहं मुहुर् अनिशं रोदिमि तथा पतिरेव देवता यस्याः सा तथा गौतमी कृपी अस्य अश्वत्थाम्नः जननी माता मा प्ररोदीदित्येकान्वयः । तस्माद् अस्मत्कुलहिताय वा मुुच्यतामयं गुरुपुत्र इत्यर्थः ॥ ४७ ॥
प्रकाशिका
अस्य वधे एतज्जनन्या दुःखं भविष्यतीत्यतोऽप्ययं मुच्यतामित्याह- मा रोदीदिति ॥ मृतवत्सा मृतपुत्रा ॥ ४७ ॥
यैः कोपितं ब्रह्मकुलं राजन्यैरकृतात्मभिः ।
तत्कुलं प्रदहत्याशु सानुबन्धं शुचार्पितम् ॥ ४८ ॥
पदरत्नावली
विपक्षे बाधकमाह- यैरिति ॥ अकृतात्मभिर् अशिक्षितबुद्धिभिर् यैः राजन्यैर् ब्राह्मणकुलं कोपितं तत् कुपितं शुचा अर्पितं प्राप्तशोकं सानुबन्धं समूलभूतं तेषां राज्ञा कुलं तत्क्षणमेव प्रदहतीत्यन्वयः ॥ ४८ ॥
प्रकाशिका
विपक्षे बाधकमप्याह- यैरिति ॥ ब्रह्मकुलं कर्तृ । तेषां राजन्यानां कुलं कर्म । कथं सानुबन्धं सपरिवारं यथा स्यात्तथा । कीदृशं ब्रह्मकुलम् । शुचा शोकेनार्पितं व्याप्तं सत् ॥ ४८ ॥
सूत उवाच—
धर्म्यं न्याय्यं सकरुणं निर्व्यलीकं समं महत् ।
राजा धर्मसुतो राज्ञ्याः प्रत्यनन्दद्वचो द्विजाः ॥ ४९ ॥
पदरत्नावली
धर्म्यं धर्मादनपेतम् । न्याय्यं न्यायोपेतम् । दयया सहितम् । निर्व्यलीकं सत्यम् । समं शत्रुमित्रभावशून्यम् । सर्वशास्त्रानुसृतं वा । अर्थतो महान् ॥ ४९ ॥
प्रकाशिका
धर्म्यं धर्मादनपेतम् । मुच्यतां मुच्यतामिति । न्याय्यं न्यायादनपेतं ‘सरहस्यं’ इत्यादि सकरुणं ‘तस्यात्मनोऽर्धमि’ति निर्व्यलीकं, ‘तद्धर्मे’ति समं, ‘मा रोदीदि’ति दुःखे स्वसाम्योक्तेः । महत् ‘यैः कोपितमि’ति निष्ठुरोक्त्या हितोपदेशात् । एवंभूतं राज्ञ्या राजपत्न््नया वचः प्रत्यनन्ददनुमोदितवान् । हे द्विजाः ॥ ४९ ॥
नकुलः सहदेवश्च युयुधानो धनञ्जयः ।
भगवान्देवकीपुत्रो ये चान्ये याश्च योषितः ॥ ५० ॥
पदरत्नावली
एते नकुलादयश्च प्रत्यनन्दन्नित्यध्याहृत्यान्वयः । युयुधानः सात्यकिः । ये चान्ये अनुजीविनस् ते च । याश्च स्त्रियस् ताश्च ननन्दुरिति भावः ॥ ५० ॥
प्रकाशिका
नकुलादयश्च प्रत्यनन्दन् । युयुधानः सात्यकिः ॥ ५० ॥
तत्राहामर्षितो भीमस् तस्य श्रेयान्वधः स्मृतः ।
न भर्तुरात्मनश्चार्थे योऽहन्सुप्तान् शिशून् वृथा ॥ ५१ ॥
पदरत्नावली
तत्र तस्याम् अवस्थायाम् अमर्षितः भीम आहेत्यन्वयः । यो भर्तुर् दुर्योधनस्य आत्मनः स्वस्य च नार्थे सुप्तान् शिशून् वृथा अहन् हतवान् । वृथाशब्दो वध्यविषयः । अवध्यानामर्थे च न भवति । तस्य वधस् तस्यैव श्रेयान् स्मृतः । नास्माकं पापमिति भावः ॥ ५१ ॥
प्रकाशिका
तत्र तस्यामवस्थायां तस्य द्रौणेर्वधः श्रेयान् तस्य पापनाशकः स्मृत उक्तस्मृति-सिद्धः । न शिक्षकाणामस्माकं तेन पापमिति भावः । अन्यथाऽस्य नरकादिप्राप्तिप्रसङ्गादित्याशयेनाह- न भर्तुरिति ॥ अहन् जघान । वृथाशब्दोऽवध्यानामप्यर्थे नेत्यर्थकः ॥ ५१ ॥
निशम्य भीमगदितं द्रौपद्याश्च चतुर्भुजः ।
आलोक्य वदनं सख्युरिदमाह हसन्निव ॥ ५२ ॥
पदरत्नावली
चतुर्भुजः भीमगदितं श्रुत्वा द्रोपद्याश्च, वचनमिति शेषः । सख्युर् अर्जुनस्य वदनम् आलोक्य मन्दस्मितं कुर्वन् इदमाहेत्येकान्वयः ॥ ५२ ॥
प्रकाशिका
सख्युरर्जुनस्य ॥ ५२ ॥
श्री भगवान् उवाच—
ब्रह्मबन्धुर्न हन्तव्य आततायी वधार्हणः ।
मयैवोभयमाम्नातं परिपाह्यनुशासनम् ॥ ५३ ॥
पदरत्नावली
हन, न हन, इत्युभयं मयैव आम्नातम् अभिहितं यस्मात् तस्माद् अनुशासनम् आत्मवचनं परिपाहीत्यन्वयः ॥ ५३ ॥
प्रकाशिका
वधार्हणो वधार्हो, मयैव शास्त्रकृता उभयमहननं हननं चेत्युभयमाम्नातमभिहितम् । ‘ब्राह्मणो न हन्तव्यः’ ‘आततायिनमायान्तमपि वेदान्तपारगं जिघांसन्तं जिघांसीयान्न तेन ब्रह्महा भवेत्’ इत्यादिवाक्यैरिति शेषः । यस्मादभिहितं तस्मात्तदुभयमप्यनुशासनं मदाज्ञारूपम् । ‘श्रुतिस्मृती ममैवाज्ञा’ इति वचानात् ॥ ५३ ॥
कुरु प्रतिश्रुतं सत्यं यत्तत् सान्त्वयता प्रियाम् ।
प्रियञ्च भीमसेनस्य पाञ्चाल्यै मह्यमेव च ॥ ५४ ॥
प्रकाशिका
प्रियां सांत्वयता त्वया यत्प्रतिश्रुतं हननं तच्च सत्यं कुरु । मह्यं मम । तत्र वधे भीमस्य प्रियं भवति, अवधे द्रौपद्याः, द्वये कृष्णस्येति ज्ञेयम् ॥ ५४ ॥
सूत उवाच—
अर्जुनः सहसाऽऽज्ञाय हरेर्हार्दमथासिना ।
मणिं जहार मूर्धन्यं द्विजस्य सहमूर्धजम् ॥ ५५ ॥
पदरत्नावली
अथ अर्जुनः सहसा झटिति हरेर् हार्दं हृदि स्थितम् आज्ञाय सम्यक् क्षुरधारेण असिना द्विजस्य सहमूर्धजं केशैः सहितम् । मूर्धन्यं मूर्ध्ना सहोप्तन्नं मणिं जहारेत्यन्वयः ॥ ५५ ॥
प्रकाशिका
हार्दमभिप्रायम् । आज्ञाय ज्ञात्वा । न ह्यशक्यमुभयमाप्तोविदध्यादतोऽय-मस्याभिप्राय इति ज्ञात्वेत्यर्थः । असिना खङ्गेन मूर्धन्यं मूधर्ि्न जातम् । सहमूर्धजं केशैः सहोत्पन्नम् । सहजमिति यावत् ॥ ५५ ॥
विमुच्य रशनाबद्धं बालहत्या हतप्रभम् ।
तेजसा मणिना हीनं शिबिरान्निरवापयत् ॥ ५६ ॥
पदरत्नावली
तेजसा सामर्थ्येन शरीरकान्त्या वा । रत्नेन च रहितं शिशूनां वधेन हतप्रभम् अलक्ष्मीनिधानं रज्वा बद्धं विमुच्य शिबिरान् निरवापयत् शवनिर्गमवन् निष्कासयामासेत्येकान्वयः
॥ ५६ ॥
प्रकाशिका
तेजसा सामर्थ्येन शरीरकान्त्या वा मणिना च हीनम् । निरवापयन्निःसारितवान् । अनेन कृष्णाभिप्रेतं सर्वं सम्पादितमिति भावः ॥ ५६ ॥
बन्धनं द्रविणादानं स्थानान्निर्यापणं तथा ।
एष हि ब्रह्मबन्धूनां वधो नान्योऽस्ति दैहिकः ॥ ५७ ॥
॥ इति श्रीमद्भागवते सप्तमोऽध्यायः ॥
पदरत्नावली
ब्रह्मबन्धूनां प्राणत्यागलक्षणमरणप्रतिनिधिरयं वध इत्याह- बन्धनमिति ॥ ब्रह्मबन्धूनाम् एष एव वधः वधप्रतिनिधिः । अन्यो दैहिको नेत्रोत्पाटनादिको नास्तीत्यन्वयः । शास्त्रविहितो नास्तीति भावः । कोऽसाविति तदाह- बन्धनमिति ॥ पाशेन करौ पृष्ठे कृत्वा बन्धनम् । द्रविणादानं हिरण्याद्याहरणम् । स्थानान्निर्यापणं स्वदेशार्न्निगमनम् । तथाशब्दः प्रत्येकमभिसंबन्धयितव्यः । ‘तां सान्त्वयन्नित्यारभ्य नान्योऽस्ति दैहिक’ इत्यन्तं यदुक्तं तदिदं द्रौणिना स्वप्ने दृष्टं कथितम् । अन्यथा ग्रन्थान्तरविरोधः । तत्र भीमेन कृतमित्युक्तत्वादिति ज्ञातव्यम् ॥ ५७ ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुविरचितायां प्रथमस्कन्धे सप्तमोऽध्यायः ॥
प्रकाशिका
ननु भीमोक्तवधस्याकृतत्वात्कथं सर्वं सम्पादितमित्यत आह- बन्धनमिति ॥ वधो वधप्रतिनिधिः । दैहिको देहे क्रियमाणोऽन्यो हस्तपादाद्यवयवच्छेदरूपः । न विहित इति शेषः ॥५७॥
॥ इति श्रिमद्भागवते प्रथमस्कन्धे प्रथमाध्यायटिप्पण्यां
वेदेशतीर्थपूज्यपादशिष्ययदुपतिविरचितायां सप्तमोऽध्यायः ॥ १-७ ॥