एवं निशम्य भगवान् देवर्षेर्जन्म कर्म च
अथ षष्टोऽध्यायः
सूत उवाच—
एवं निशम्य भगवान् देवर्षेर्जन्म कर्म च ।
भूयः पप्रच्छ तं ब्रह्मन् व्यासः सत्यवतीसुतः ॥ १ ॥
भिक्षुभिर्विप्रवसिते विज्ञानादेष्ट्रृभिस्तव ।
वर्तमानो वयस्यद्ये ततः किमकरोद्भवान् ॥ २ ॥
स्वायम्भुव कया वृत्या वर्तितं ते परं वयः ।
कथं वेदमुदस्त्राक्षीः काले प्राप्ते कलेवरम् ॥ ३ ॥
पदरत्नावली
इदं व्यासनारदसंवादोपाख्यानं सूतः शौनकादिभ्योऽब्रवीदिति विज्ञापयितुमाह- एवमिति ॥ हे ब्रह्मन्, सत्यवतीसुतो व्यासः देवर्षेर्जन्म कर्म च एव श्रुत्वा पुनरपि तं नारदं पप्रच्छेत्येकान्वयः ॥
नारदस्नेहपाशात् तद्यशःख्यापनाय च सर्वज्ञोऽपि व्यासस्तद्वयःशेषवृत्तिं पुच्छति - भिक्षुभिरिति ॥ तव विशिष्टज्ञानोपदेष्टृभिर्भिक्षुभिर्ज्ञनभिक्षादानशीलैर्विप्रवसिते देशान्तरे गते, आद्ये बाल्ये वयसि वर्तमानो भवान् तदनन्तरं किमकरोदित्येकान्वयः ॥
तदेव विविच्य पृच्छति- स्वायम्भुवेति ॥ स्वयम्भुवो ब्रह्मणः पुत्र, ते तव परं ज्ञानोपदेशोत्तर-कालीनं वयः कया वृत्या वर्तितम् । मरणकाले प्राप्ते इदं शरीरं कथं वा उदस्त्राक्षीरुत्सृष्टवानसी-त्येकान्वयः ॥ १,२,३ ॥
प्रकाशिका
हरिमाहात्म्यश्रवणेन निवृत्तकर्मानुष्ठानेन चान्तःकरणशुद्धिद्वारा हरिभक्तिसहितं ज्ञानं परोक्षमपरोक्षं च जायत इत्यत्राहमेव दृष्टान्त इति दर्शनाय नारदेन स्ववृत्तान्तकथनमुपक्रान्तं तत्पूर्वाध्याये सम्यङ्न प्रदर्शितमतस्तदीयमपरोक्षज्ञानोत्पत्तिप्रकारं लोकानामनुष्ठानाय तन्मुखेनैव ज्ञापयितुं सर्वज्ञोऽपि कृष्णस्तद्वयःशेषवृत्तिं पृच्छति- भिक्षुभिरिति ॥ भिक्षुभिः संन्यासिभिर्विप्रवसिते देशान्तरं गते सति आद्ये वयसि बाल्यावस्थायाम् । एतदेव विविच्य पुच्छति- स्वायम्भुवेति ॥ स्वायम्भुवो ब्रह्मणः पुत्र परं वय उपदेशोत्तरमायुः । ते त्वया वर्तितं नीतम् । इदं दासीपुत्रभूतम् । उदस्राक्षीरुत्सृष्टवानसि
॥ १,२,३ ॥
प्राक्कल्पविषयामेतां स्मृतिं ते सुरसत्तम ।
नह्येव व्यवधात्काल एष सर्वनिराकृतिः ॥ ४ ॥
पदरत्नावली
सर्वेषां पूर्वजन्मसंज्ञादीनां निराकृतिर्निराकरणं यस्मात्स सर्वनिराकृतिरेष कालः । हे सुरसत्तम ज्ञानिश्रेष्ठ, तवातीतब्रह्मकल्पविषयामेतां स्मृतिं स्मरणशक्तिं नैव व्यधधात् तिरोहितां नैवाकरोत् । आश्चर्यमेतदित्यस्मिन्नर्थे हिशब्दः । एवकारस्त्ववधारणार्थः ॥ ४ ॥
प्रकाशिका
पूर्वजन्मानुभूतमिदानीमुच्यते तत्कथं तव घटत इत्याशयेन पृच्छति- प्राक् कल्पेति ॥ नैव व्यवधात्कथं न तिरोहितामकरोत् । हि यस्मादेषः कालः कल्पान्तररूपः सर्वेषां पूर्वजन्मसंज्ञादीनां निराकृतिर्नाशो यस्मात्स तथा ॥ ४ ॥
नारद उवाच—
भिक्षुभिर्विप्रवसिते विज्ञानादेष्टृभर्मम ।
वर्तमानो वयस्याद्ये तत एतदकार्षम् ॥ ५ ॥
पदरत्नावली
विज्ञातस्वकीर्तिवितरणव्यासाभिप्रायो नारदस्तत्प्रश्नं परिहरति- भिक्षुभिरिति ॥ उक्तार्थः श्लोकोऽयम् ॥ ५ ॥
प्रकाशिका
कार्षमिति पाठे न वैकेनाक्षरेणेति वचनादक्षरस्य शून्यत्वेऽपि न दोषः ॥ ५ ॥
एकात्मजा मे जननी योषिन्मूढा च किङ्करी ।
मय्यात्मजेऽनन्यगतौ चक्रे स्नेहानुबन्धनम् ॥ ६ ॥
पदरत्नावली
स्वस्य संन्यासिनामननुगमने कारणमाह- एकात्मजेति ॥ अहमेक एव आत्मजोऽपत्यं यस्याः सा तथा । योषितां मध्ये मूढा विवेकज्ञानशून्या, किङ्करी दासी च, एवंविधा मम जननी, न अन्या गतिराश्रयो यस्य सोऽनन्यगतिः, तस्मिन्नात्मजे मयि स्नेहानुबन्धनं चक्र इत्येकान्वयः ॥ ६ ॥
प्रकाशिका
स्वस्य संन्यासिभिः सह गमनाभावे कारणमाह- एकात्मजेति ॥ अहमेक एवात्मजो यस्याः सा तथा । योषितां मध्ये मूढा विवेकज्ञानशून्या किङ्करी दासी च । एतानि विशेषणानि सा परित्यागयोग्या न भवतीति सूचनाय । अत्रैव हेत्वन्तरमाह- मय्यात्मज इति ॥ न विद्यतेऽन्या गतिराश्रयो यस्य स तथा तस्मिन् ॥ ६ ॥
साऽस्वतन्त्रा न कल्यासीद्योगक्षेमं ममेच्छती ।
ईषस्य हि वशे लोको योषा दारुमयी यथा ॥ ७ ॥
पदरत्नावली
केवलं स्नेहमेव बद्धवती न त्वशनवसनादिदानपूर्वकमित्याह- सेति ॥ मम योगक्षेमं, अप्राप्तस्य प्राप्त्युपायं योगं, प्राप्तस्य परिपालनं क्षेममिच्छती अस्वतन्त्रा पराधीना कल्या समर्था नासीदित्येकान्वयः । कुतः ? लोकः सेवको जन ईशस्य स्वामिनो वशे हि यस्मात्तस्मा-दित्यर्थः । ईशावास्यामिति श्रुतेरीशस्य परमेश्वरस्येति वा । कथमिव दारुमयी काष्ठनिर्मिता योषा यथा जडप्रवर्तकयन्तृपुरुषाधीना तथेत्यन्वयः ॥ ७ ॥
प्रकाशिका
केवलं स्नेहमेव करोति । न त्वशनवसानादिदानसमर्था इत्याह- साऽस्वतन्त्रेति ॥ अस्वतन्त्रा पराधीना । न कल्पा न समर्था । योगक्षेमकरण इति शेषः । योगेन सहितं क्षेमम् । योगोऽप्राप्तस्य प्राप्तिः । क्षेमं प्राप्तपरिरक्षणम् । ननु कुतस्त्वज्जनन्याः पराधीनत्वमित्यत आह- ईशस्येति ॥ ईशस्य कर्मानुसारेण प्रेरकस्य । वशे तिष्ठतीत्यर्थः । हि यस्मात्तस्मादस्वतन्त्रासीदित्यन्वयः
॥ ७ ॥
अहं च तद्द्रह्मकुल ऊषिवांस्तदपेक्षया ।
दिग्देशकालव्युत्पन्नो बालकः पञ्चहायनः ॥ ८ ॥
पदरत्नावली
तर्हि किमिति तत्र वास इति तत्राह- अहमिति ॥ चशब्द एवार्थः, पूर्वेण समुच्चयार्थो वा । अहं तस्या मातुरपेक्षया तस्मिन् ब्रह्मकुल एव ब्राह्मणगृह एव ऊषिवानित्यन्वयः । ‘कुलं वंशे गृहे सार्थे जातिसांकर्ययोरपि’इत्यभिधानात् । तत्र वासे हेत्वन्तरञ्चास्तीत्याह- दिगिति ॥ दिगाद्यनभिज्ञाने कारणमाह- बालक इति ॥ पञ्चहायनो बालकः सोऽहमित्येकान्वयः ॥ ८ ॥
प्रकाशिका
अहं चाहमपि ब्रह्मकुले ब्राह्मणगृहे ऊषिवान्वासंकृतवान् । तदपेक्षया मात्रापेक्षया । तत्रैव स्वस्य वासे हेत्वन्तरमाह- दिगिति ॥ दिगाद्यनभिज्ञे कारणमाह- बालक इति ॥ न जातमात्र इत्याह- पञ्चेति ॥ पञ्चवर्षः ॥ ८ ॥
एकदा निर्गतां गेहाद्दुहन्तीं निशि गां पथि ।
सर्पोऽदशत्पदा स्पृष्टः कृपणां कालचोदितः ॥ ९ ॥
पदरत्नावली
कियन्तं कालमवात्सीदिति प्रश्नस्य मातृमरणपर्यन्तमवात्समिति परिहारमभि-प्रेत्याह- एकदेति ॥ स्पृशउपताप इति धातोर् आक्रमणेन तप्तः गां गोमतल्लिकाम् । अदशद् अभक्षयत् । कालेन मृत्युना चोदितः प्रेरितः ॥ ९ ॥
प्रकाशिका
इदानीं स्वनिर्गमनकारणं वक्तुमाह- एकदेति ॥ गां दुहन्तीं हेतौ शतृप्रत्ययः । दोग्धुं निर्गतमित्यर्थः । पदा पादेन । आस्पृष्ट ईषदाङ्क्रान्तः । अदशदखादत् । कालनामकेन संहारकर्त्रा हरिणा प्रेरितः ॥ ९ ॥
तदा तदहमीशस्य भक्तानां समभीप्सितम् ।
अनुग्रहं मन्यमानः प्रातिष्ठं दिशमुत्तराम् ॥ १० ॥
पदरत्नावली
अहं तदा मातुरन्त्यकर्म कुत्वा तन्मरणं भक्तानामभीष्टमीशस्यानुग्रहं मन्यमान उत्तरां दिशं प्रातिष्ठमित्यन्वयः ॥ १० ॥
प्रकाशिका
तन्मातुर्मरणम् । प्रातिष्ठं प्रस्थितोऽस्मि ॥ १० ॥
स्फीतान् जनपदांस्तत्र पुरग्राम व्रजाकरान् ।
खेटान् पट्टनवाटीश्च वनान्युपवनानि च ॥ ११ ॥
विचित्रधातुचित्राद्रीनिभभग्नभुजद्रुमान् ।
जलाशयांश्छिवजलान्नलिनीः सुरसेविताः ॥ १२ ॥
चित्रखनैः पत्ररथैर्विभ्रमद्भ्रमरश्रियः ।
नलवेणुशरस्तम्भकुशकीचकगह्वरम् ॥ १३ ॥
एक एवातियातोऽहमद्राक्षं विपिनं महत् ।
घोरं प्रतिभयाकारं व्यालोलूक शिवाजिरम् ॥ १४ ॥
परिश्रान्तेन्द्रियात्माहं तृदपरीतो बुभुक्षितः ।
स्नात्वा पीत्वा ह्रदे नद्या उपस्पृष्टो गतश्रमः ॥ १५ ॥
तस्मिन्निर्मनुजेऽरण्ये पिप्पलोपस्य आश्रितः ।
आत्मनात्मानमात्मस्थं यथाश्रुतमचिन्तयम् ॥ १६ ॥
तात्पर्यम्
मृगयाजीविनां खेटो वाटी पुष्पोपजीविनाम् ।
ग्रामो बहुजनाकीर्णो राजराजाश्रयं पुरम् ॥
जलस्थलायतिस्फीतं पट्टनं कीर्त्यते बुधैः ॥ इति स्कान्दे ॥ ११ ॥
पदरत्नावली
एक एव सहायरहितो ऽहं तत्रोत्तरस्यां दिशि देशान् पुरादिभिः समेतानतीत्य यात इति चतुर्थश्लोकेनान्वयः । व्याला दुष्टगजाश्च उलूकाश्च शिवाः सृगालाश्च व्यालोलूकशिवाः, तासामजिरं क्रीडास्थानं प्रतिभयाकरं मृत्युमाह्वयदिव स्थितं, अत एव घोरं महदपारं विपिनमद्राक्ष-मित्येकान्वयः । सर्वर्तुसंपत्या स्फीतान् समृद्धान् पुराणि ग्रामाश्च व्रजाश्च आकराश्च पुरग्रामव्रजाकरास् तान् । पुरं राजराजाश्रयः, ग्रामो बहुजनाकीर्णः, गोपालानां गवां च निवासस्थानं व्रजः, रत्नाद्युत्पत्तिस्थानम् आकारः खेटान् मृगयोपजीवनप्रदेशान् पट्टनानि च वाट्यश्च तास्तथोक्तास् ताः । पट्टनवाटीः । जलस्थलायतिः स्फीता राजधानीपट्टनम् । पुष्पोपजीविनां निवासस्थानं वाटी । वृक्षसमुदायो वयम् । आरोपितवृक्षसमुदाय उपवनम् ।
इमैर्गजैर्भग्ना भुजद्रुमा भूर्जवृक्षा येषु ते तथोक्ताः । ‘भुजपत्रे भुजोभूर्जे मुदुत्वक्चर्ममल्लिकौ’इति यादवः । इभभग्ना भुजाः शाखा येषां ते तथोक्ताः, इभभग्नभुजा द्रुमा येषु ते तथोक्ता इति वा तान् । विचित्रधातुभिर् नानाविधगैरिकहरितालादिभिश् चित्रा आश्चर्यरूपा अद्रयः गिरयस् तान् । शिव-जलान् गुरुत्वादिदोषरहितान् जलाशयान् सरोवरादिजलाधारान् । देवनिषेविता कलिनीः पुष्करिणीः ॥
चित्रस्वनैर्नानाविधस्वरमधुरैः पत्ररथैः पक्षिभिः सह विभ्रमन्त इतस्ततश्चलन्तः भ्रमरा भृङ्गा विभ्रमद्भ्रमराः, विभ्रमद्भ्रमराणां श्रीः शोभा समृद्धिर्वा यासु तास्तथोक्तास्ताः । शराणां स्तम्बाः शरस्तम्बा नलानि च वेणवश्च शरस्तम्बाश्च कुशाश्च कीचकाश्च ते तथोक्ताः । तैर्गह्वरः निबिडोऽरण्य-विशेषः । वायुना उद्भुतस्वना वेणवः कीचका इति उच्यन्ते ॥
तृषा परीतः पानीयपानेच्छुर् बुभुक्षितोऽन्नकामः, अत एव परिश्रान्तेन्द्रियदेहोऽहं तत्र महारण्ये नद्या ह्रदे उपस्पृष्टः कृतपादप्रक्षालनादिकः स्नात्वा, तर्पणादिसकलाः क्रिया विधाय, स्वादूदकं पीत्वा तेन हेतुना गतश्रमोऽपगतालस्यो भूत्वा ॥
मनुष्यसञ्चाररहितेऽरण्ये पिप्पलोपस्थे अश्वत्थमूले आश्रितः स्वस्तिकासन उपविष्टः समाहितचित्तो भूत्वा आत्मना विषयेभ्य आहृतेन मनसा आत्मस्थं हृदि संस्थितम् आत्मानं प्रत्यगात्मानं यथा परमहंसेभ्यः श्रुतं तथा अचिन्तयमित्येकान्वयः ॥ ११-१६ ॥
प्रकाशिका
स्फीतान्समृद्धान् जनपदादीन् । अतियातोऽतीत्य यातः सन् महद्विपिनमद्राक्षमिति वक्ष्यमाणेनान्वयः । जनपदादिषु नानागुणदोषयुक्तेषु दृष्टेष्वपि न मम चित्तविकारः कोऽपि जात इति प्रदर्शनायेदमुक्तमिति ज्ञातव्यम् । जनपदान्देशान् । अत्र पुरग्रामखेटपट्टणवाटीशब्दानामर्थान्प्रमाणेनैव दर्शयति- मृगयेति ॥ मृगयया मृगादिहिंसारूपया जीवंत्यस्मिन्निति मृगया जीविनः । व्याधाद्यधिष्ठित-देशः खेटशब्दवाच्य इत्यर्थः । एवं पुष्पैरुपजीवन्ति यत्र सा पुष्पोपजीविनां भूमिर्वाटीशब्दवाच्येत्यर्थः । उभयत्रापि जीवनमिति पाठे स्थानमिति शेषः । जले स्थले वाऽऽयतिर्विस्तारो यस्य तज्जलस्थलायति । स्फीतं समृद्धम् । जलदुर्गं स्थलदुर्गं वा पट्टनमित्यर्थः । व्रजोगोगोपानामावासदेशः । आकरो रत्नाद्युत्पत्तिस्थानम् । स्वतो विवृद्धवृक्षसमुदायो वनम् । आरोपितवृक्षसमुदायमुपवनम् ॥
विचित्रैर्धातुभिः स्वर्णरजताद्यैर्गैरिकाद्यैर्वा विचित्रितानद्रींश्च । कथं भूतानद्रीन् । इभैर्गजैर्भग्ना भुजाः शाखा येषां ते द्रुमा येषु तान् । शिवानि भद्राणि जलानि येषु तान् जलाशयानह्रदान् । नलिनीः पुष्करिणीश्चित्राः स्वना ध्वनयो येषां तैः पत्ररथैः पक्षिभिर्निमित्तैर्विभ्रमद्भिरितस्ततश्चलद्भिर्भ्रमरैः श्रीः शोभा यासां ता नलिनीः । शराणां स्वंबश् च लाश्च वेणवश्च शरस्तम्बाश्च कुशाश्च कीचकाश्च ते तथोक्ताः । तैर्गव्हरं दुर्गमम् । वनविशेषणमेतत् । वायुनोद्धूतस्वना वेणवः कीचका इत्युच्यन्ते । घोरं दुःसहं प्रतिभयाकारं सम्यग्भयजनकरूपं व्यालादीनामजिरं क्रीडास्थानम् । परिश्रान्तानीन्द्रियाण्यात्मा देहश्च यस्य । तृषापरितो व्याप्तः यानीयं पानेच्छुर्बुभुक्षितोऽन्नकाम उपस्पृष्ट आचान्तः पिप्पलोप-स्थेऽश्वत्थमूले आश्रित उपविष्ट आत्मना मनसाऽऽत्मस्थं स्वान्तर्यामिणमात्मानं परमात्मानम् । यथा संन्यासिभ्यां श्रुतं तथाऽचिन्तयं ध्यातवानस्मि ॥ ११-१६ ॥
स्वप्नो मायाऽग्रहः शय्या जाग्रदाभास आत्मनः ।
नामरूपक्रियावृत्तिः संविच्छास्त्रं परं पदम् ॥ १७ ॥
नेन्द्रियार्थं च न स्वप्नं न सुप्तं न मनोरथम् ।
न निरोधं चानुगच्छेच्चित्रं तद्भगवत्पदम् ॥ १८ ॥
स एको भगवानग्रे क्रीडिष्यन्निदमात्मनः ।
सृष्ट्वा विहृत्य तज्जग्धा उदास्ते केवलः पुनः ॥ १९ ॥
पदरत्नावली
यथाश्रुतमचिन्तयमित्येतद्दर्शयितुं जाग्रदाद्यवस्थास्वरूपं निरूपयति- स्वप्न इति ॥ स्वप्नाद्यवस्था आत्मनः परमात्मनः सकाशादात्मनो जीवस्योत्पद्यन्त इत्यन्वयः । तन्त्रेणोपात्त-त्वादात्मशब्दस्य द्विरावृत्तिः कर्तव्या । जीवमनसि संस्थितमायाख्यदृष्टश्रुतवस्तुसंस्कारोपादानको जाग्रत्पदार्थसदृशकरितुरगाद्यनेकपदार्थदृष्टिरूपः स्वप्नः । सर्वेन्द्रियोपरतिरूपत्वात्स्वाप्नजागरितविषयग्रहण-रहिता शय्यापरपर्याया सुषुप्तिः, नामरूपक्रियासु वृर्त्तियस्य स तथोक्तः । आभासः प्रत्ययः, नामरूपक्रियाविषयप्रत्ययो जाग्रत् । एतदवस्थात्रयकारणं ब्रह्म, न मृदादिवत् कार्यानुस्यूतं, किन्तु ततो विलक्षणं, तदित्यभिप्रेत्याह- संविदिति ॥ सं समीचीना प्रकृतिप्राकृतमिश्ररहिता । विद् वित्तिर् ज्ञानं यस्य तत्तथोक्तं सम्यञ्चं निर्दोषमात्मानं वेत्तीति संवित् । ‘तदात्मानमेवावेदहं ब्रह्मास्मि’ इति श्रुतेः । शास्त्रं सर्वनियन्तृ । पद्यत इति पदम् । परमुत्तमं, प्राप्तव्योत्तमम् । एवं जाग्रदाद्यवस्थाकर्तृत्वे-नात्मादिभ्योऽत्यन्तोपकारकं विशिष्टज्ञानघनं सर्वान्तर्यामि प्राप्तव्योत्तमं तुर्यं ब्रह्मस्वरूपं श्रुतं तदेवाचिन्तयमिति भावः ॥
एतदेव विविच्य दर्शयति- नेति ॥ चित्रमाश्चर्यरूपम् । चित्तरम् अविमिश्रितज्ञानात्मकं वा । चित्तं चेतनं जीवं त्रायत इति वा । चिज् ज्ञानम् । तनोति राति ज्ञानिनां ज्ञानं बहुलीकरोति तदन्येषां ददाति गुरुमुखेनेति वा । चित्तरतं वा ‘स हि सर्वमनोवृत्तिप्रेरकः समुदाहृत’इति स्मृतेः । चिनोतीति चिच् चेता स्त्रष्टा ब्रह्मा, तं तरति अतीत्य वर्तते, तनोति सृजति रमयतीति वा, तस्मादुत्तममिति वा । भगवद् ऐश्वर्यादिगुणसामग्रीमत्पदं स्वरूपम् । हरेरिति शेषः । तत् ततं व्याप्तम् । भगवतः हरेः पदं वा । एवं विधं तत्प्रकृत्यादिसंबन्धविधुरत्वादिन्द्रियार्थं जाग्रदवस्थां नानुगच्छेत् । न स्वप्नावस्थाम् । न सुप्त्यवस्थां च । ‘मिथ्या चिन्ता मनोरथा’ इत्याभिधानान् न मनोरथम् । अत एव न निरोधं मरणम् । अनुगच्छेदित्यस्य प्रत्येकमन्वयः । चशब्दौ मिथःसमुच्चयार्थौ ॥
ननु कालतोऽपि स्वप्नाद्युत्पत्तिदर्शनात्तत्कर्त्तृत्वं हरेः कथमित्याशङ्क्य सकलप्रपञ्चकर्तृत्वेन मुख्य-कर्तृत्वात्तदन्तःपातिस्वप्नाद्यवस्थाकर्तृत्वं किं वक्तव्यमित्यभिप्रेत्य प्रपञ्चसृष्ट्यादिकर्तृत्वमाह- स इति ॥ सृष्ट्यग्रे ‘स एको भगवानासीत्’ इत्यवान्तरान्वयः । स पुनः सिसृक्षुर् अन्तर्यामितया अवतारैश्च क्रीडिष्यन् क्रीडितुमिच्छन्नात्मनः स्वस्मात्स्वोदराद् ब्रह्मादिपरमाणुपर्यन्तमिदं जगत्सृष्ट्वा अन्तर्यामितया प्रविश्य, प्रादुर्भावैश्च विहृत्य, पुनश्च तज्जग्ध्वा संहृत्य प्रलये केवल एकाकी उदास्ते जीवप्रवृत्तिं प्रत्युदासीनो वर्तत इत्यन्वयः । ‘जग्ध्वा उदास्त’ इति सन्ध्यभावः प्रकृत्यादिसाधनान्तरमन्तरेणापि स्रष्टुं शक्त इति महामाहात्म्यं द्योतयितुम् । सृष्टिस्थितिसंहारकर्तृत्वमेव न, ज्ञानादिकर्तृत्वञ्चास्यास्तीति वा
॥ १८-१९ ॥
प्रकाशिका
संन्यासिभ्यः किं श्रुतं यत्त्वया ध्यातमित्यतस्तद्दर्शयति- स्वप्न इत्यादिश्लोक-त्रयेण ॥ माया जीवमनःस्थितदृष्टश्रुतवस्तुवासनोपादानकपदार्थदर्शनरूपः स्वप्नो अग्रहः स्वाप्नजागरित-विषयग्रहाभावरूपा शय्या सुप्तिः । नामरूपक्रियासु वृत्तिर्विषयीकरणं यस्य स तथोक्तः । आभासः प्रत्ययो जाग्रद्बाह्यनामरूपक्रियाविषयकः प्रत्ययो जाग्रदवस्थेत्यर्थः । एतदवस्थात्रयमात्मनो जीवजातस्य यस्माद्भवति तत् संवित् स्वपरगताखिलविशेषविषयज्ञानरूपं शास्त्रं, सर्वान्तर्यामि, परंपदमनुत्तमं ज्ञेयम् । प्राप्यं च इन्द्रियार्थम् इन्द्रियजन्यज्ञानविषयीभूतमर्थम् । जाग्रदवस्थामिति यावत् । यन्नानुगच्छेदिति प्रत्येकं सम्बन्धः । स्वप्नं च स्वप्नावस्थां च सुप्तं सुषुप्त्यावस्थां मनोरथं चिन्ताम् । चिन्ता मनोरथ इत्यभिधानात् । निरोधं मरणम् । चशब्दादुत्पत्त्यादिकं च । यन्नानुगच्छेज्जीवेन सह स्वयं न प्राप्नुयात्तच्चित्रं लोकविलक्षणम् । भगवत्पदं भगवत्स्वरूपम् । अग्रे सृष्ट्यभावकाले । स्थित इति शेेषः । क्रीडिष्यन्क्रीडितुमिच्छन् । अवताररूपैर् जगन्नियामकरूपैश्चेति शेषः । आत्मनो जीवजातस्य सम्बन्धि । तदुपकारकमिति यावत् । इदं जगत्सृष्ट्वा विहृत्य तत्पालनाय प्रादुर्भावादि कृत्वा तत्पुनर्जग्ध्वा संहृत्य प्रलये केवलः पुरुषान्तररहितः । उत्कृष्टतयाऽऽस्ते । नैकाकित्वेन तस्य भयादिप्राप्तिरिति भेदः । अथवोदास्ते जीवं प्रत्युदासीनो वर्तत इत्यर्थः ॥ १७-१९ ॥
ध्यायतश्चरणाम्भोजं भावनिर्वृतचेतसः ।
उत्कण्ठाश्रुकलाक्षस्य हृद्यासीन्मे शनैर्हरिः ॥ २० ॥
पदरत्नावली
भावेन भक्त्या निर्वृतं परमानन्दमाप्तं चेतः यस्य सस् तथा तस्य । उत्कण्ठया जातानाम् अश्रूणां बाष्पाणां कलाभिर् बिन्दुभिर् युक्ते अक्षिणी यस्य स तथा तस्य । शनैर् अव्यग्रेण स्वचरणकमलं ध्यायतः मे हृदि हरिर् आसीत् प्रत्यक्षोऽभूदित्येकान्वयः ॥ २० ॥
प्रकाशिका
एवं तदुपदिष्टं स्वध्यातमर्थं दर्शयित्वेदानीं तध्यानफलं दर्शयति- ध्यायत इति ॥ भावेन भक्त्या निर्वृतमानन्दपूर्वं चेतो यस्य स तथा तस्य । उत्कण्ठया जातानामश्रूणां बाष्पाणां कलाभिर्बिन्दुभिर्युक्तेऽक्षिणी यस्य स तथा तस्य । शनैरभ्यासपाटवानन्तरं हृद्यासीत्प्रत्यक्षोऽभूत् ॥ २० ॥
प्रेमातिभारनिर्भिन्नपुलकाङ्गोऽतिनिर्वृतः ।
आनन्दसंप्लवे लीनो नापश्यमुभयं मुने ॥ २१ ॥
तात्पर्यम्
उभयं द्वितीयं नापश्यं तमेवापश्यम् ॥ २१ ॥
पदरत्नावली
प्रेम्णो ऽतिशयितभारेण निर्भिन्नः समुल्लब्धः सञ्जातः पुलकः रोमाञ्चः । प्रेमातिभारनिर्भिन्नपुलको ऽङ्के यस्य स तथा आनन्दविप्लवे सुखप्रलयोदके मग्नो ऽहं तमेवापश्यम् । उभयं द्वितीयं सममधिकं वा नापश्यं सर्वोत्तमत्वादित्यन्वयः ॥ २१ ॥
प्रकाशिका
प्रेम्णाऽतिभारेण निर्भिन्नानि निर्गतानि पुलकानि रोमाञ्चानि येषां तान्यङ्गानि यस्य । आनन्दानां सम्प्लवे महासमुद्रे । परमानन्दसमूह इति यावत् । लीनो मग्नः सन् उभयं नापश्यम् । अत्रोभयं द्वयं परमपरं च नापश्यमिति व्याख्याति परदर्शनाभावोऽपि प्राप्तोऽत उभयशब्दविवक्षितमर्थं दर्शयंस्तात्पर्यमाह- उभयमिति ॥ तथा चात्रोभयशब्दो न द्वयपर इति भावः ॥ २१ ॥
रूपं भगवतो यत्तन्मनःकान्तं सुखावहम् ।
अपश्यन्सहसोत्तस्थौ कैवल्याद्दुर्मना इव ॥ २२ ॥
पदरत्नावली
ततः परं किमभूदिति तत्राह- रूपमिति ॥ मनःकान्तं मनोहरं हरेर् यद्रूपम् अद्राक्षं तत्सहसा अपश्यन् अचक्षाणः दुर्माना दुःखितान्तःकरणः मुक्तिं प्राप्तः कैवल्यान् मोक्षादिव उत्तस्थौ उदतिष्ठमित्यन्वयः ॥ २२ ॥
प्रकाशिका
मनःकान्तं मनसोऽभीष्टम् । मनोहरमिति यावत् । यदद्राक्षं तद्रूपं सहसा बाह्यकारणाभावेऽपि । दुर्मना इव दुष्टान्तःकरणपुरुष इव अपश्यन् अचक्षाणः । कैवल्यात्परमानन्दानु-भवादुत्तस्थावुत्थितोऽस्मि । उझ्झितोऽस्मीति यावत् ॥ २२ ॥
दिदृक्षुस्तदहं भूयः प्रणिघाय मनो हदि ।
वीक्षमाणोऽपि नापश्यमवितृप्त इवातुरः ॥ २३ ॥
पदरत्नावली
पुनः हरेः रूपं दिदृक्षुर् हृदि मनः प्रणिधाय स्थित आतुरः रोगीव अवितृप्तो ऽसन्तुष्टः वीक्षमाणोऽपि अहं नापश्यमित्यन्वयः ॥ २३ ॥
प्रकाशिका
तद्धरे रूपं वीक्ष्यमाणोऽपि ध्यायमानोऽप्यवितृप्तोऽहमातुर इव । अभवमिति शेषः
॥ २३ ॥
एवं यतन्तं विजने मामाहागोचरो गिराम् ।
गम्भीरश्लक्ष्णया वाचा शुचः प्रशमयन्निव ॥ २४ ॥
पदरत्नावली
हरेर्भक्तवात्सल्यमाश्चर्यमिति दर्शयति- एवमिति ॥ गिरां वाचाम् अगोचरो ऽविषयः गम्भीरया अगाधया मधुरया वाचा मानसाीः शुचः प्रशमयन्निव नष्टाः कुर्वन्निव स्थितः हरिर् एवं विजने जनसंचाररहिते कान्ता द्रष्टुं यतमानं मामाहेत्येकान्वयः ॥ २४ ॥
प्रकाशिका
गिरामगोचरोऽस्मत्कर्तृकसंवादनाविषयः । अदृश्य इति यावत् । गम्भीरया बह्वर्थया श्लक्ष्णया मधुरया वाचा ॥ २४ ॥
हन्तास्मिञ्जन्मनि भवान्न मां द्रष्टुमिहार्हति ।
अविपक्वकषायाणां दुर्दर्शोऽहं कुयोगिनाम् ॥ २५ ॥
पदरत्नावली
किमाह हरिरिति तत्राह- हन्तेति ॥ हन्त विस्मये । भवान् इह भूलोके अस्मिन् जन्मनि शूद्रयोनौ मां द्रष्टुं नार्हति । कुतः कषेण भोगेन अयते अपगच्छतीति कषायः पापम् । अभुक्तपापफलानां कुयोगिनां जन्मना अनभिज्ञानेन वा कुत्सितः योगः ध्यानादिक एषामिति कुयोगिनः । तेषां पुंसां दुर्दर्शः द्रष्टुमशक्यः ॥ २५ ॥
प्रकाशिका
हन्तेति सानुकम्पसम्बोधने । इह भूलोकेऽस्मिन् जन्मनि शूद्रदेहे मां द्रष्टुं नार्हति । कुतः । यतो न विपक्वा अदग्धाः कषयाः कामादिदोषा येषां ते तेषां कुयोगिनामसम्पूर्णयोगानाम्
॥ २५ ॥
सकृद्यद्दर्शितं रूपमेतत्कामाय तेऽनघ ।
मत्कामः शनकैः साधु सर्वान्मुञ्चति हृच्छ्रयान् ॥ २६ ॥
पदरत्नावली
तर्हि किमिति दर्शितमिति तत्राह- सकृदिति ॥ अनध सांसारिकदुःखरहितस् ते तव कामाय अथ कदा नु पश्येयमिति उत्कण्ठायै । तया किं फलमभूदिति तत्राह- मत्काम इति ॥ मद्भक्तः पुरुषः क्रमेण सर्वान् हृच्छ्रयान् प्राकृतान् कामान् साधु मुञ्चतीत्यन्वयः ॥ २६ ॥
प्रकाशिका
तर्हि किमिति दर्शितमित्यत आह- सकृदिति ॥ सकृद्दर्शितं मयेति यदे-तत्कामायानुरागाय । त्वत्कामेन किमित्यत आह- मत्काम इति ॥ मत्कामः पुमान् हृच्छ्रयान्कामादीन् मत्कामनया कामादिसर्वमनोदोषराहित्यं भवतीति भावः ॥ २६ ॥
सत्सेवया दीर्घया वै जाता मयि दृढा मतिः ।
हित्वावद्यमिमं लोकं गन्ता मज्जनतामसि ॥ २७ ॥
पदरत्नावली
परमहंससेवाफलमाह- सदिति ॥ दीर्घया बहुकालीनया सतां परमहंसानां सेवया परिचर्यया मयि दृढा मतिर् मननलक्षणा भक्तिर् जाता वै यस्माद् अतो ऽवद्यं दोषरूपं शूद्रजातित्वाद् इमं लोकं देहं हित्वा पश्चाद् ब्रह्मपुत्रत्वेन जातस् त्वं मज्जनतां मम जनतां परमभागवतत्वं गन्तासीत्यन्वयः ॥ २७ ॥
प्रकाशिका
संन्यासिसेवाफलमाह- सत्सेवयेति ॥ दीर्घया बहुकालीनया सतां संन्यासिनां सेवया वै यस्मान्मयि दृढा मतिर्जाता तस्मान्मज्जनतां मद्भक्तनां गन्तोऽसि । किमस्मिन्नेव जन्मनि नेत्याह । अवद्यं शूद्रजातितया निन्द्यमिमं लोकं देहं हित्वेति ॥ २७ ॥
मतिर्मयि निबद्धेऽयं न विपद्येत कर्हिचित् ।
प्रजासर्गनिरोधेऽपि स्मृतिश्च मदनुग्रहात् ॥ २८ ॥
पदरत्नावली
मयि निबद्धा इयं मतिः कदाचिदपि न विपद्येत न नश्येत् । प्रजानां सर्गः सुष्टिर् निरोधः संहार एतयोः स्मृतिनाशकयोः स्मृतिर् जातिस्मरणशक्तिश्च न विपद्येत । कस्मान् मदनुग्रहात् । अनेन भगवद्भक्तसङ्गोऽभिमतफलद इत्युक्तं भवति ॥ २८ ॥
प्रकाशिका
प्रजानां सर्गे निरोधे संहारेऽपि महाप्रलयानन्तरं पुनः सृष्टौ जातायामपीति यावत् । न विपद्यते नाशं न प्राप्नुयात् । स्मृतिश्च पूर्वजन्मानुभूतस्मृतिश्च । मद्भक्तसेवाजातान्मदनुग्रहात् ॥ २८ ॥
एतावदुक्त्वोपिरराम तन्महद्भूतं नभोलिङ्गमलिङ्गमीश्वरम् ।
अहञ्च तस्मै महतां महीयसे शीर्ष्णावनामं विदधेऽनुकम्पितः ॥ २९ ॥
पदरत्नावली
ईश्वरम् ईशनशीलं सकलजगत्प्रवर्तनशक्तिमद् अलिङ्गं जडशरीररहितम् । रुद्राद्यन्यद्वा । ईश्वरमित्युक्त्या भूतविग्रहवान् हर इति शङ्कानिरासार्थं वा अलिङ्गमित्युक्तम् । नभः लिङ्गं गमकं दृष्टान्तत्वेन यस्य तत्तथोक्तम् । आकाशवत्सर्वगतमित्यर्थः । तन्महदुक्त्वा विरराम । तेन अनुकम्पितः कृपापात्रीकृतो ऽहञ्च महतां महीयसे तस्मै महाभूताय शीर्ष्णा शिरसा अवनामं नमस्कारं विदधे कृतवानित्यन्वयः ॥ २९ ॥
प्रकाशिका
तत्प्रसिद्धं महद्भूतं महद्भूतशब्दवाच्यं परं ब्रह्म नभसि विद्यमानं लिङ्गशरीरं यस्य तन्नभोलिङ्गमलिङ्गं जडशरीररहितमीश्वरमीशनशीलं शीर्ष्णा शिरसाऽवनामं नमस्कारं विदधे कृतवानस्मि । अनुकम्पितः कृपापात्रीकृतः ॥ २९ ॥
नामान्यनन्तस्य गतत्रपः पठन्गुह्यानि भ्रदाणि कृतानि च स्मरन् ।
गां पर्यटंस्तुष्टमना गतस्पृहः कालं प्रतीक्षन्नपटो विमत्सरः ॥ ३० ॥
पदरत्नावली
गतत्रपः लज्जारहितो ऽनन्तस्य हरेः कृतानि विक्रमलक्षणानि गां भूमिं तुष्टमना यदृच्छालाभेनालम्बुद्धिमान् गतस्मृहः परवस्तुस्पृहारहितः । ‘पट गतावि’ति धातोः पटो गतिः । न विद्यते गतिर् ईश्वरादन्यो यस्य सो ऽपरः । अनन्यगतिरित्यर्थः । असङ्गः विरक्त इति वा । कन्थादिप्रावरणरहितो वा । ‘अ आ अम् अः पुराणर्षिः’ इति वाक्याद् अ इति व्याससम्बन्धं वा । हे अव्यास पटो समर्थ । अपटः निकेतनरहित इति केचित् । तच्चिन्त्यम् । विमत्सरः विगतमात्सर्यः । एवंविधोऽहं मरणकालं प्रतीक्षमाणोऽभूवमिति शेषः ॥ ३० ॥
प्रकाशिका
गतत्रपस्त्यक्तलज्जस्तुष्टमना यदृच्छालाभेनालम्बुद्धिमान् । अत एव गतस्पृहोऽधिकाकाङ्क्षारहितः । कालं मरणकालम् । अपटः पट गताविति धातोः पटो गतिर्न विद्यते ईश्वरादन्यः पटो यस्य स तथा । अनन्यगतिरित्यर्थः । कन्थादिप्रावरणरहित इति वा ॥ ३० ॥
एवं कृष्णमतेर्ब्रह्मन्नसक्तस्यामलात्मनः ।
कालः प्रादुरभूत्काले तटित्(विद्युत्)सौदामिनी यथा ॥ ३१ ॥
पदरत्नावली
कृष्णे परमानन्दबलात्मके हरौ मतिर् यस्य स तथा तस्य कालः मरणकालः प्रावृट्काले प्राप्ते सौदामिन्याख्या तटिद् विद्युत् तथा सहसाभिपद्यते तथेत्यर्थः । ‘तडिद्दीप्ता शतह्रदा । सौदामिन्यैरावती च तद्भेदेऽप्यन्तिमत्रयमि’ति वचनात् कुरुपाण्डववत् पृथगुक्तिर्युज्यत इति भावः ॥३१॥
प्रकाशिका
कृष्णे परमानन्दबलात्मके हरौ मतिर्यस्य स तथा तस्य । कालो मृत्युः काले स्वावसरे प्रादुरभूदाविर्बभूव । अकस्मात्प्रादुर्भावे दृष्टान्तमाह- विद्युदिति ॥ सौदामिनीति विशेषणं स्फुटत्वप्रदर्शनार्थम् । सुदाममाला तत्र भवा सौदामिनी मालाकारेत्यर्थः ॥ ३१ ॥
एवं मयि प्रयुञ्जाने शुद्धां भागवतीं तनुम् ।
प्रारब्धकर्मनिर्वाणो न्यपतत्पाञ्चभौतिकः ॥ ३२ ॥
पदरत्नावली
मयि शुद्धां निर्दोषां भागवतीं तनुं हरिमूर्तिम् एवं प्रयुञ्जाने ध्यायति सति फलदानस्य प्रारब्धकर्मविनाशवत् पञ्चभिर् भूतैर् निर्मितः देहः न्यपतद् इत्यन्वयः ॥ ३२ ॥
प्रकाशिका
शुद्धां निर्दोषां(निर्दुष्टां) भागवतीं तनुं हरिमूर्तिं मयि एवं प्रयुञ्जाने ध्यायति सति प्रारब्धकर्मणो निर्वाणं नाशो यस्मात्स तथा देहरूपफलभोगेन हि कर्मनाशः प्रसिद्धः ॥ ३२ ॥
कल्पान्त इदमादय शयानेऽम्भस्युदन्वतः ।
शिशयिष्णोरनुप्राणं विवेशान्तरहं विभोः ॥ ३३ ॥
पदरत्नावली
हरिं ध्यायन् मुक्तस् त्वं कं लोकं गत इति तत्राह- कल्पान्त इति ॥ अहं कल्पावसाने स्वसृष्टमिदं विश्वामादाय स्वोदरे निवेश्य उदन्वतोऽम्भसि शेषपर्यङ्के शयाने हरौ शिशयिष्णोः शयितुमिच्छोर् विभोर् विरिञ्चस्य अन्तरनुप्राणम् अन्तर्गच्छच्छ्वासमनु विवेश प्रविष्टवानस्मीत्यन्वयः ॥ ३३ ॥
प्रकाशिका
कल्पान्ते पूर्वब्रह्मकल्पावसाने इदं स्वसृष्टं विश्वमादाय स्वोदरे निवेश्योदन्वतः प्रलयार्णवस्याम्भसि जले शिशयिष्णोः शयितुमिच्छोर्विर्भोर्नारायणस्यान्तरहमनुप्राणं मुख्यप्राणप्रवेशद्वारा प्रविवेश प्रविष्टवानस्मि ॥ ३३ ॥
सहस्त्रयुगपर्यन्त उत्थायेदं सिसृक्षतः ।
मरीचिमिश्रा ऋषयः प्राणोभ्योऽहञ्च जज्ञिरे ॥ ३४ ॥
पदरत्नावली
सहस्त्रयुगपर्यन्ते चतुर्युगसहस्त्रपरिमितस्वनिशावसाने विष्णोर् उत्थाय उत्पद्य इदं सिसृक्षतो विरिञ्चस्य अङ्गाद् अहं जज्ञे । मरीच्यत्रिमुख्या ऋषयश्च तस्य प्राणेभ्यो जज्ञिरे इत्येकान्वयः
॥ ३४ ॥
प्रकाशिका
सहस्रयुगपर्यन्ते । अत्र सहस्रयुगशब्देन ब्राह्मं वर्षशतं ग्राह्यम् । तत्पर्यन्तः समाप्तिः। तस्मिन्सति । उत्थायेदं जगत्सिसृक्षतः स्रष्टुमिच्छतो विष्णोः सकाशादुत्थायोत्पत्तिं प्राप्येदं जगत्सिसृक्षतो ब्रह्मणः प्राणेभ्य इन्द्रियेभ्यो मरीचिमिश्रा मरीचिप्रमुखा ऋषयो जज्ञिरे । अहं च तदङ्काज्जज्ञे । अत्र सहस्रयुगशब्दस्वारस्येन पूर्वब्रह्मदिनस्यैव ग्रहणे पूर्वदिने नारदाभावः प्राप्नोति । न च प्रतिदिनं नारदभेदे प्रमाणमस्ति । अत एवं व्याख्यातमित्यवगन्तव्यम् ॥ ३४ ॥
अन्तर्बहिश्च लोकान्स्त्रीन्पर्येम्यस्कन्दितव्रतः ।
अनुग्रहान्महाविष्णोरविघातगतिः क्वचित् ॥ ३५ ॥
पदरत्नावली
विष्णुनाम्नः यजमानादपि महतो विष्णोर् अनुग्रहाद् अप्रतिहतगमनो ऽस्खलित-ब्रह्मचर्यादिव्रतोऽहं त्रीन् लोकान् अन्तर्बहिश्च पर्येति पर्यटामीत्येकान्वयः ॥ ३५ ॥
प्रकाशिका
ये कर्मिणस्ते त्रिलोक्या बहिर्न यान्ति । अहं तु महाविष्णोरनुग्रहादखण्डित-ब्रह्मचर्यादिव्रतःसन् त्रीन्लोकानंतर्बहिश्च पर्येमि पर्यटामि । क्वचिदप्यविघाताऽप्रतिहता गतिर्यस्य स तथा
॥ ३५ ॥
देवदत्तामिमां वीणां स्वरब्रह्मविभूषिताम् ।
मूर्च्छयित्वा हरिकथां गायमानश्चराम्यहम् ॥ ३६ ॥
पदरत्नावली
तदेवाह- देवदत्तामिति ॥ स्वरब्रह्मविभूषितां सप्तस्वरलक्षणवेदेनालंकृतां नाम्ना देवदत्ताम् इमां वीणां मूर्च्छयित्वा, स्वराणामारोहणावरोहणक्रमो मूर्च्छा, तां कारयित्वा हरिकथां गायमानोऽहं चरामीत्यर्थः ॥ ३६ ॥
प्रकाशिका
एतदेव विशदयति- देवेति ॥ स्वरब्रह्मविभूषितां सप्तस्वरलक्षणवेदेनालङ्कृतां नाम्ना देवदत्तां वीणां मूर्च्छयित्वा । स्वराणामारोहणावरोहणक्रमो मूर्च्छा तां कारयित्वा ॥ ३६ ॥
प्रगायतश्च वीर्याणि तीर्थपादः प्रियश्रवाः ।
आहूत इव मे शीघ्रं दर्शनं याति चेतसि ॥ ३७ ॥
पदरत्नावली
तीर्थं गङ्गाख्यं पादे यस्य सस् तीर्थपात् तस्य वीर्याणि चरितलक्षणानि प्रकृष्टं गायतः । चशब्द एवार्थे । एवम् उपासकस्यैव मम चेतसि प्रियश्रवा भगवान् आहूत इव शीघ्रम् अविलम्बितं दर्शनं याति अपरोक्षीभवतीत्यन्वयः ॥ ३७ ॥
प्रकाशिका
एवं गायने स्वप्रयोजनमाह- प्रगायत इति ॥ तीर्थं गङ्गाख्यं पादे यस्य स तथा । प्रियं प्रियकरं श्रवः श्रवणं यशो वा यस्य स तथा । स्ववीर्याणि प्रकर्षेण गायतो मे मम चेतसि दर्शनं यातीत्यन्वयः ॥ ३७ ॥
एतदातुरचित्तानां मात्रास्पर्शेच्छया मुहुः ।
भवसिन्धुप्लवो दृष्टो हरिचर्यानुवर्णनम् ॥ ३८ ॥
पदरत्नावली
हरिचर्यानुवर्णनं समाधिभाषया भगवच्चरितानुवर्णनं यत् तदेतन् मुहुर् मात्रा-स्पर्शेच्छया विषयभोगेच्छया अप्राप्तिनिमित्तमातुरचित्तानां क्लिष्टमनसां पुंसां भवसिन्धुप्लवः संसार-सागरतरीविशेषः दृष्टः । साक्ष्यादिप्रमाणैरिति शेषः । इति यस्मात् तस्मात् सात्विकहिताय सैव वर्णनीयेति भावः ॥ ३८ ॥
प्रकाशिका
परप्रयोजनं च वदन्नुपसंहरति- एतदिति ॥ मात्रा विषयास्तेषां स्पर्शा भोगास्तेषामिच्छयाऽऽतुराणि चित्तानि येषां तेषां हरिचर्यानुवर्णनं यत्तदेव । भवसिंधोः प्लवस्तरणाय नौरिव । न केवलं श्रुतिप्रामाण्येन किं त्वस्मदादिभिर्दृष्ट एवेत्यर्थः । तस्मात्त्वमपि तल्लोकहिताय कुर्वित्याशयः ॥ ३८ ॥
यमादिभिर्यागपथैः कामलोभहतो मुहुः ।
मुकुन्दसेवया यद्वत्तथात्माद्धा न शाम्यति ॥ ३९ ॥
पदरत्नावली
तर्हि यमादियोगानुष्ठानविधानं व्यर्थमिति तत्राह- यमादिभिरिति ॥ मुकुन्दकथा-सेवया तथात्मा जीवो ऽञ्चसा शाम्यति भगवन्निष्ठबुद्धिमान् भवति तथा कामलोभाभ्यां वैरिभ्यां हतः पीडितो ऽनुष्ठितैर् योगमार्गैर् यमादिभिर् अद्धा न शाम्यति । तस्मात् हरिकथासेवैव संसारतरीत्येकान्वयः ॥ ३९ ॥
प्रकाशिका
यमादिभिरन्यथासिद्धिं परिहरति- यमादिभिरिति ॥ मुकुन्दसेवया तच्चरित-श्रवणादिरूपयाऽऽत्मा जीवः शाम्यति भगवन्निष्ठबुद्धिमान्भवति । मुकुन्दचरितश्रवणेन हरेः स्वातन्त्र्ये ज्ञाते कामादिपीडा न भवतीति भावः ॥ ३९ ॥
सर्वं तदिदमाख्यातं यत्पृष्टोऽहं त्वयानघ ।
जन्मकर्मरहस्यं मे भवतश्चात्मतोषणम् ॥ ४० ॥
पदरत्नावली
उपसंहरति- सर्वमिति ॥ अतीतजन्मविषयत्वाद् रहस्यं मम यज् जन्म कर्म प्रति अहं त्वया पृष्टस् तदिदं सर्वम् आख्यातम् । तुभ्यमिति शेषः । कीदृशम् । नित्यसन्तुष्टस्यापि भवत आत्मनः मनसस् तोषणं तुष्टिमजनकम् । भवत आख्यातमिति वा । चशब्दो जन्मकर्मणोः समुच्चये । श्रोतृणाम् आत्मनां जीवानां तुष्टिजनकमिति वा ॥ ४० ॥
प्रकाशिका
मे जन्मकर्मरहस्यं चेत्यन्वयः । कीदृशं भवत आत्मनो मनसस्तोषण-मलम्बुद्धिजनकम् । यदुद्दिश्याहं त्वया पृष्टस्तत्सर्वमाख्यातमित्यन्वयः ॥ ४० ॥
सूत उवाच—
एवं सम्भाष्य भगवान्नारदो वासवीसुतम् ।
आमन्त्र्य वीणां रणयन्ययौ यादृच्छिको यतिः ॥ ४१ ॥
पदरत्नावली
सूतः व्यासनारदसंवादं शौनकादीन् ब्रूते इत्याह- एवमिति ॥ वासवीसुतं सत्यवत्याः पुत्रं व्यासम् एवं पूर्वोक्तप्रकारेण सम्भाष्य उक्त्वा गच्छामीत्यामन्त्र्य आज्ञां गृहीत्वा वीणां रणयन् ध्वनयन् ययौ । यादृच्छिको ऽतर्कितगमनागमनः । यतिर् निर्जितेन्द्रियग्रामः ॥ ४१ ॥
प्रकाशिका
वासव्याः सत्यवत्याः सुतं व्यासमामन्त्र्यापृच्छ्य रणयन्ध्वनयन्यादृच्छिको हरीच्छामात्राधीनो यतिः संन्यासी ॥ ४१ ॥
अहो देवर्षिर्धन्योऽयं यः कीर्तिं शार्ङ्गघन्वनः ।
गायन् माध्व्या गिरा तन्त्र्या रमयत्यातुरं जगत् ॥ ४२ ॥
॥ इति श्रीमद्भागवते प्रथमकन्धे षष्ठोऽध्यायः ॥
पदरत्नावली
शार्ङ्गधन्वनः हरेः कीर्तिं माध्व्या मधुरया गिरा तन्त्र्या वीणया गायन् आतुरं क्लिष्टं जगद् रमयति यः सोऽयं देवर्षिर् नारदः धन्यः कृतकृत्यः । अहो आश्चर्यमेतत् । शूद्रयोनेरप्येतादृशमाहात्म्यमभूदिति । नारं ज्ञानं ददातीति नारदः । अरदो दोषदो न भवतीति वा । आरवद् अङ्गारकवद् आयुःखण्डको न भवतीति वा । ‘दोऽवखण्डने’ ॥ ४२ ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुविरचितायां प्रथमस्कन्धे षष्ठोऽध्यायः ॥
प्रकाशिका
नारदं स्तौति सूतः- अहो इति ॥ माध्व्या मधुरया गिरा तन्त्र्या वीणया च । आतुरं संसारे क्लिष्टम् ॥ ४२ ॥
**॥ इति श्रिमद्भागवते प्रथमस्कन्धे प्रथमाध्यायटिप्पण्यां **
वेदेशतीर्थपूज्यपादशिष्ययदुपतिविरचितायां षष्ठोऽध्यायः ॥ १-६ ॥