०५ पञ्चमोऽध्यायः

अथ तं सुखमासीन उपासीनं बृहच्छ्रवाः

अथ पञ्चमोऽध्यायः

सूत उवाच—

अथ तं सुखमासीन उपासीनं बृहच्छ्रवाः ।

देवर्षिः प्राह विप्रर्षिं वीणापाणिः स्मयन्निव ॥ १ ॥

पदरत्नावली

अथार्घ्यपाद्यादिसमर्हणानन्तरं सुखमुपविष्टो विस्तृतकीर्तिर् वीणा महती नाम पाणौ यस्य स तथोक्तः । मन्दस्मितं कुर्वन्निव प्रसन्नवदनो देवर्षिः समीप उपविष्टं तं विप्रर्षिं व्यासं प्राहेत्येकान्वयः ॥ १ ॥

प्रकाशिका

उप समीपे आसीनम् । बृहच्छ्रवा महायशा । विप्रर्षिं व्यासम् । स्मयन् ईषद्धसन् इवेत्यनेन मुखप्रसादो द्योत्यते ॥ १ ॥

नारद उवाच—

पाराशर्य महाभाग भवतः कच्चिदात्मना ।

परितुष्यति शारीर आत्मा मानस एव वा ॥ २ ॥

तात्पर्यम्

शारीरमानसयोरभेदादुभयथापि युज्यते । स्वतन्त्रत्वादात्मनैव ह्यलम्बुद्धिः ॥ २ ॥

पदरत्नावली

विज्ञातभगवदभिप्रायस् तदनुकरणानुगुणानुकरणवान्नारदो नित्यकुशलं तस्य संजानन्नपि तदनुवदन्निव कुशलं पृच्छतीत्याह- पाराशर्येति ॥ महाभाग ऐश्वर्याद्यनन्तभाग्यनिधे, पाराशर्य पराशरपुत्र, भवतः शारीरः मानसो वा, शरीररूपो मनोरूपो वा । भेदाभावादेव मुक्तिः । आत्मा अवतारप्रयोजनकृत्यात्मना स्वत एव परितुष्यति कच्चित् ? स्वतन्त्रतया कृतावतारकार्यत्वा-त्परितुष्यतीत्येवकारार्थः ॥ २ ॥

प्रकाशिका

भगवदभिप्रायज्ञो नारदस्तमनुकुर्वंल्लौकिकीं रीतिमाश्रित्य तस्य कुशलं तावदादौ पृच्छति- पाराशर्येति ॥ पाराशर्य पराशरपुत्र । महान् भागो भाग्यं यस्य । हे महाभाग । शारीरो मानसो वा आत्माऽऽत्मनैव स्वत एव परितुष्यति कच्चिद् अलम्बुद्धिं प्राप्नोति किमित्यर्थः । ननु भगवतः शरीरं मनो वा तुष्यति किमित्येव लोकानुसारेण पृष्टव्यम् । शारीरो मानसो वा आत्मेत्यात्मविशेष्यकः कृतः प्रश्नः कथं युज्यते । लोके एवं प्रश्नकरणस्यादर्शनादित्यतोऽत्राभिप्रायमाह- शारीरमानसयोरिति ॥ मूलानुसारेण स्वर्थिकप्रत्ययप्रयोगः । अभेदादात्माभेदात् । तथा चेतरत्र शरीरमनसोरात्मभिन्नत्वेनात्मविशेष्यकप्रश्नासम्भवेऽपि भगवति तयोरात्माभिन्नत्वादात्मविशेष्यको वा शरीरादिविशेष्यको वा प्रश्नो युक्त एवेति भावः । अनेन शारीरः शरीररूपो मानसो मनोरूप इति मूलं व्याख्येयमिति सूचयति । आत्मनैव परितुष्यतीत्यैतदुपपादयन्व्याख्याति- स्वतन्त्रत्वादिति ॥ अलम्बुद्धिरित्यनेन परितुष्यतीत्येतदुक्तार्थम् । स्वतन्त्रत्वात् । अन्यस्य नियामकस्याभावात्स्वत एवालम्बुद्धिर्जाताऽस्ति किमिति प्रश्नाशय इत्यर्थः ॥ २ ॥

जिज्ञासितं सुसंपन्नमपि ते महदद्भुतम् ।

कृतवान्भारतं यस्त्वं सर्वार्थपरिबृंहितम् ॥ ३ ॥

पदरत्नावली

कुत इति तत्राह- जिज्ञासितमित्यादि ॥ यस्त्वं धर्मादिसर्वपुरुषार्थैर् बंृहितं पूर्णं भारतं कृतवांस्तेन ते त्वया सुसंपन्नं सुखपूर्णमद्भुतम् आत्ता रुद्रो यस्मादभूद् यत्तदद्भुतम् । देशतः कालतः गुणतश्चापरिच्छिन्नं ब्रह्म जिज्ञासितं विचारितम् । अपिशब्दो वक्ष्यमाणसमुच्चये । शब्दतो ऽर्थतोऽपि महद् अद्भुतं गहनं ‘व्यवहारे धने शास्त्रे वस्तुहेतुनिवृत्तिषु’इति वचनात् तन्त्रन्यायेन अर्थशब्दस्य द्विरावृत्या सर्वशास्त्रार्थपरिबंृहितं कृतवानिति यत् तेन लोकानां ज्ञातुमिष्टं सुष्ठु सम्पूर्णम् अभूदिति वा ॥ ३ ॥

प्रकाशिका

कुशलप्रश्ने निमित्तमथाऽपि शोचसीत्यादिना वक्तुमवतारप्रयोजनं तव सर्वं सम्पन्नमिति तावदाह- जिज्ञासितमिति ॥ जिज्ञासितं विचारितं यद्धर्मादि तत्सर्वं सुसम्पन्नं सम्यग्ज्ञातम् । अपिशब्दादनुष्ठितं चेत्यर्थः। अयीति पाठे सम्बोधनम् । सुसम्पन्नत्वे हेतुर् महदद्भुतमित्यादि । शब्दतोऽर्थतश्च महदद्भुतं भाषात्रयोपेतत्वादिना गहनं सर्वैर्धर्मादिभिरर्थैः पुरुषार्थैः परिबृंहितं पूर्णम् । तत्प्रदमिति यावत् । एतादृशं भारतं यस्मात्कृतं तस्मादिति पूर्वेणान्वयः ॥ ३ ॥

जिज्ञासितमधीतञ्च ब्रह्म यत्तत्सनातनम् ।

तथापि शोचस्यात्मानमकृतार्थ इव प्रभो ॥ ४ ॥

तात्पर्यम्

शोचति प्रकाशयति । ‘अजस्रेण शोचिषा शोशुचानः’ इति श्रुतिः ॥ ४ ॥

पदरत्नावली

किञ्च यच्च उपाध्यायपरंपरया भवता अधीतं सनातनं नित्यं वेदात्मकं शब्दब्रह्म, तदपि जिज्ञासितं विचारितम् । तस्मात् कृतावतारकार्याेऽसि । तत एव नातुष्टिकारणं पश्यामीत्यर्थः । तथाऽपि एवमपि कृतावतारकार्याेऽपि अकृतावतारप्रयोजन इव आत्मानं शोचसि प्रकाशयसि । हे प्रभो प्रभूतज्ञान इत्यन्वयः ॥ ४ ॥

प्रकाशिका

जिज्ञासितं विचारितम् । ब्रह्म वेदराशिस्तदर्थभूतं परब्रह्म च । वेदे क्रमादि-व्यत्यासाभावेन सनातनत्वम् । तथाऽप्येवं कृतावतारप्रयोजनोऽप्यात्मानमुक्तरीत्या शारीरं मानसं चात्मानं शोचसि । अत्र शोकं करोषीत्यन्यथाप्रतीतिवारणायाह- शोचसीति ॥ प्रकाशयसीत्यनेन शोचसीत्ये-तदन्तर्णीतण्यर्थमिति दर्शयति । शुच धातोः प्रकाशार्थत्वे वैदिकप्रयोगं प्रमाणयति- अजस्रेणेति ॥ ‘त्वं भासा रोदसी अत तथाजस्रेण शोशुचान’इति श्रुतेः । नित्येन प्रकाशेन पुनः पुनर्भृशं प्रकाशमान इत्यर्थः । यतस्त्वमात्मानमकृतार्थ इव प्रकाशयस्यतो मया कुशलप्रश्नः कृत इति भावः ॥ ४ ॥

व्यास उवाच—

अस्त्येव मे सर्वमिदं त्वयोक्तं तथापि नात्मा परितुष्यते मे ।

तत्मूलमव्यक्तमगाधबोधं पृच्छामहे त्वाऽऽत्मभवात्मभूतम् ॥ ५ ॥

तात्पर्यम्

**ज्ञानशक्तिस्वरूपोऽपि ह्यज्ञाशक्तं वदेद्धरिः । **

अज्ञानां मोहनायेशस्तेन मुह्यन्ति मोहिताः ॥ इति पाद्मे ॥ ५ ॥

पदरत्नावली

एवं नारदेन पृष्टोऽपरिमितज्ञानशक्तिस्वरूपोप्यज्ञवद्दुष्टजनमोहनाय तत्कारणं तमेव पृच्छतीत्याह- आस्त्येवेति ॥ हे नारद त्वयोक्तमिदं सर्वं मे अस्त्येव । न किञ्चिदवशिष्य-मस्ति । तथाऽपि मे आत्मा मनः न परितुष्यते । नालम्बुद्धिं प्राप्नोति । तुष्यतीति वक्तव्ये तुष्यत इति प्रयोगाद् अज्ञजनमोहनार्थमेव हरिणा प्रश्नः क्रियते नाज्ञानाद् इति महान् विशेषो विज्ञायते । आत्मनः विष्णोर् भवतीति आत्मभवः ब्रह्मा । तस्य आत्मनः शरीराद् भूत उत्पन्न आत्मभवात्मभूतः ब्रह्मपुत्र इत्यर्थः ॥ आत्मभाविनो ममेति वा । तं त्वाम् । अव्यक्तं सूक्ष्मं तस्य अपरितोषस्य मूलं कारणं पृच्छामहे । अल्पज्ञश्चेत् प्रश्नोत्तरं कथं ब्रूयादित तत्राह- अगाधेति ॥ अपरिमितज्ञानं, प्रश्नोत्तरवचन-समर्थमित्यर्थः । अत्रापि समित्युपसर्गमन्तरेण पृच्छतेरात्मनेपदप्रयोगेण नारदस्य ज्ञानं चुलुकजल-परिमितं, व्यासज्ञानं तु प्रलयसमुद्रवदपरिमितमिति तात्पर्यं शब्दज्ञैरेव विज्ञायते । आत्मभुवात्मभूतमिति केचित्पठन्ति । तत्रोवङ्ङादेशश् छान्दसः ॥ ५ ॥

प्रकाशिका

आत्मा शारीरो मानसश्च । तन्मूलम् । तस्यापरितोषस्य कारणमव्यक्तमस्फुटम् । त्वा त्वां पृच्छामहे । आत्मनो विष्णोर्भवतीत्यात्मभवो ब्रह्मा तस्यात्मनो देहाद्भूतमुद्भूतम् । अत एवागाधबोधम् । अस्मदनलम्बुद्धिकारणज्ञाने तव सामर्थ्यमस्तीति प्रदर्शनायेदं विशेषणम् । अत्र तन्मूलं त्वां पृच्छामीत्युक्त्या व्यासस्याज्ञानाशक्ती प्रतीयेतेऽतस्तदुक्तेरभिप्रायं प्रमाणेनैव दर्शयति- ज्ञानशक्तीति ॥ अत्र प्रमाणप्रसिद्धिं दर्शयितुं हिशब्दः । अज्ञाशक्तमज्ञमशक्तं चेत्यर्थः । हरिर्व्यासादिरूपः । तेन तथा वचनेन मोहिता वाञ्चिता मुह्यन्ति मिथ्याज्ञानिनो भवन्तीत्यर्थः ॥ ५ ॥

स वै भवान् वेदसमस्तगुह्यम् उपासितो यः पुरुषः पुराणः ।

परावरेशो मनसैव विश्वं सृजत्यवत्यत्ति गुणैरसङ्गः ॥ ६ ॥

पदरत्नावली

नारदस्य स्वात्मानलंबुद्धिहेतुवेदनकारणं वक्तीत्याह- स वा इति ॥ यो गुणैर् विरचितशरीरगतसुखदुःखादिफलसङ्गरहितः विश्वं मनसैव स्वतन्त्रसाधनान्तरनिरपेक्षतया सृजति अवति संहरति सः परावरयोर् मुक्तामुक्तप्रपञ्चयोर् ईष्ट इति परावरेशः । जगदुत्पत्तेः पुराप्यस्तीति पुराणः । पुरम् अणतीति वा । पुरूणि कर्मफलानि सनोति ददातीति पुरुष उपासित इति यद् अतः स भवान् समस्तगुह्यं वेद वा इत्येकान्वयः । एतदुक्तं भवति । चतुर्मुखप्रियपुत्रत्वात् तवैव सर्वजगत्सृष्ट्यादि-कर्तृभगवदुपासकत्वेन सर्वज्ञत्वात् तत्प्रसादाद् अस्मदनलम्बुद्धिहेतुवेदनमस्तीति ॥ ६ ॥

प्रकाशिका

अगाधबोधतां प्रपञ्चयन्नाह- स वा इति ॥ समस्तगुह्यज्ञाने हेतुमाह- उपासित इत्यादिना ॥ यः परावरेशो मुक्तामुक्तप्रपञ्चयोरीशः । मनसैव सङ्कल्पमात्रेणैव । गुणैरसङ्गः सत्त्वादि-गुणकृतसुखदुःखादिसङ्गरहितः । पुराणः पुरातनः पुरुषः स यस्मात्त्वयोपासितोऽपरोक्षीकृतोऽतो भवान्समस्तं गुह्यं वेदेत्यन्वयः ॥ ६ ॥

त्वं पर्यटन्नर्क इव त्रिलोकीमन्तश्चरो वायुरिवात्मसाक्षी ।

परावरे ब्रह्मणि धर्मतो व्रतैस्स्नातस्य मे न्यूनमलं विचक्ष्व ॥ ७ ॥

पदरत्नावली

भगवत्प्रसादजनितापरोक्षज्ञानेन सर्वत्राव्याहतगतिकर्मणा च योगप्रभावेन सर्वप्राणिशरीरान्तश्चरणेन च अनलम्बुद्धिहेतुवित्त्वमाह- त्वमिति ॥ त्रिलोकीं पर्यटन्नर्क इव त्रिलोक्यामव्याहतगतिः । सर्वप्राण्यन्तश्चरो वायुरिव आत्मसाक्षी सर्वजीवबुद्धिवर्तिवृत्तज्ञस् त्वं परे ब्रह्मणि तथा अवरे तत्प्रतिपादकवेदाख्यशब्दब्रह्मणि च धर्मतः वेदोक्तभगवद्धर्मानुष्ठानेन तदधिकारापादकवेद-व्रतादिभिश्च अनुष्ठापितैर् लोकमोहाय च मया अनुष्ठितैः स्नातस्य कृतकृत्यस्य मे अवतारप्रयोजनं न्यूनं नितराम् उर्वरितम् अलं यथा भवति तथा विचक्ष्व विशिष्टतया ब्रूहीत्येकान्वयः ॥ ७ ॥

प्रकाशिका

इतोऽप्यस्मदनलम्बुद्धिकारणज्ञानं तव सम्भावितमित्याह- त्वं पर्यटन्निति ॥ अर्क इव त्रिलोकीं पर्यटन् अन्तश्चरो वायुः प्राण इव सर्वात्मसाक्षी सर्वप्राणिमनोवृत्तिज्ञास्त्वं परे ब्रह्मणि तथाऽवरे वेदाख्ये ब्रह्मणि धर्मतो वेदोक्तधर्मानुष्ठानेन व्रतैः स्वाध्यायनियमैश्च स्नातस्य पारङ्गतस्य मे न्यूनं नितरामूनम् उर्वरितमवतारप्रयोजनमलं यथा भवति तथा विचक्ष्व विचार्य ब्रूहि ॥ ७ ॥

नारद उवाच—

भवतानुदितप्रायं यशो भगवतोऽमलम् ।

येनैवासौ न तुष्येत मन्ये तद्दर्शनं खिलम् ॥ ८ ॥

पदरत्नावली

नारदोऽपि सर्वज्ञस्य व्यासस्य हृदिस्थिताभिप्रायं विद्वान् तत्प्रसादमादित्सुर् ऊनावतारप्रयोजनं वक्तीत्याह- भवतेति ॥ हे व्यास भवता भगवतः हरेर् अमलं यशो ऽनुदितप्रायं बाहुल्येन न प्रतिपादितम् । येन अनुदितेन यशःप्रतिपादकशास्त्रेण असौ भवत आत्मा नैव तुष्यते । अहं तस्य यशसः प्रतिपादकं शास्त्रं खिलम् उर्वरितं मन्ये इत्यन्वयः ॥ ८ ॥

प्रकाशिका

एवं लोकान्मोहयता व्यासेन पृष्टो नारदस्तदभिप्रायज्ञस्तमनुकुर्वन्नुत्तरमाह- भवतेति ॥ हे व्यास भवता भारतादौ यद्यपि भगवतोऽमलं यश उदितं तथाऽपि तदनुदितप्रायम् । मन्दाधिकारिणः प्रतीति शेषः । भारतोक्तं भगवद्यशो मन्दाधिकारिभिः सम्यग्ज्ञातुं न शक्यं भाषात्रयोपेतत्वादिति भावः । अतो येन मन्दाधिकारिणामपि भगवद्यशोबोधकेन पुराणेनेदानीमप्य-कृतेनासौ भवतः शारीरो मनसो वाऽऽत्मा न तुष्येत तद्दर्शनं मन्दाधिकारिणामपि भगवद्यशःप्रतिपादकं पुराणं खिलमुर्वरितं मन्य इत्यर्थः ॥ ८ ॥

यथा धर्मादयो ह्यर्था मुनिवर्यानुवर्णिताः ।

न तथा वासुदेवस्य महिमा ह्यनुवर्णिनः ॥ ९ ॥

तात्पर्यम्

धर्मादीनाल्पकथनेन पूर्तिः । न वासुदेवमहिम्नोतिकथितस्यापि ॥ ९ ॥

पदरत्नावली

भारतादिशास्त्रेषु हरियशसो बहूदितत्वात् कथं खिलं मन्य इत्युच्यत इति तत्राह- तथेति ॥ हे मुनिवर्य सर्वज्ञतम मुनिभिर् व्रियत इति वा, मुनिवरप्राप्य इति वा, मुनिवर्यः । धर्मादयः पुरुषार्था यथानुवर्णितास्तथा वासुदेवस्य महिम्नः भारतादावतिकथितस्यापि । सतां तत्र तात्पर्यातिशयात् फलाधिक्याच्च । नहि सूर्याेदयाकांक्षमाणस्य खद्योतोदयेनेच्छा निवर्तत इत्येतमर्थं ‘हि’शब्देनाह । द्वितीयो ‘हि’शब्दो हेत्वर्थः ॥ ९ ॥

प्रकाशिका

ननु मन्दाधिकारिभिरपि धर्मादिकमिव भगवद्यशोऽपि भारतात्कुतो न सम्यग्ज्ञातुं शक्यमित्यत आह- यथेति ॥ अत्र भारते धर्मादिकमेव प्राचुर्येण वर्णितं न वासुदेवमहिमेत्यन्यथा-प्रतीतिवारणाय तात्पर्यमाह- धर्मादीनामिति ॥ अल्पकथनेन भारतरूपैकग्रन्थे कथनेन पूर्तिर् अलम्बुद्धिः । तत्कर्तुर्व्यासस्य जातेति शेषः । भारतेनैव सर्वैरप्यधिकारिभिर्धर्मादेर्ज्ञातुं शक्यत्वेन धर्मादिबोधनार्थं मया ग्रन्थान्तरं कार्यमिति बुद्धिर्न जातेति भावः । अनेन पूर्वार्धतात्पर्यमुक्त-मित्यवगन्तव्यम् । द्वितीयार्धतात्पर्यमाह- नेति ॥ वासुदेवमहिम्नोऽल्पकथनेन भारतरूपैकग्रन्थे कथनेन पूर्तिर्व्यासस्यालम्बुद्धिर्नेत्यर्थः । ननु तत्र धर्माद्यपेक्षयाऽल्प एव वासुदेवमहिमा कथितः न बहुतरोऽतोऽ-नलम्बुद्धिरित्यत उक्तम् - अतिकथितस्यापीति ॥ सर्वापेक्षयाऽतिशयेन कथितस्यापीत्यर्थः । भारते धर्माद्यपेक्षया भगवन्महिमा यद्यप्यतिशयेनैव ज्ञातुमशक्यत्वादिति व्यासस्यानलम्बुद्धिर्जाता । मन्दाधि-कारिभिर्दुर्गमार्थत्वेन भारतेन भगवन्महिम्नो ज्ञातुमशक्यत्वादिति भावः । ततश्चायं श्लोकार्थः । हे मुनिवर्य सर्वज्ञश्रेष्ठ । त्वया धर्मादयोऽर्थाः पुरुषार्थाः । प्रसिद्धस्वस्वसाधनोपेता इत्यर्थे हिशब्दः । अनुवर्णिता यथा सर्वाधिकारिबोधानुकूल्येन भारते वर्णिता इत्यर्थः । तथा सर्वाधिकारिबोधानुकूल्येन अनुवर्णितः कीर्तितो हि यस्मात्तस्मात्तद्दर्शनं खिलं मन्य इत्यन्वयः । भारतस्य दुर्गमार्थत्वात् । तत्रातिशयेन वर्णितोऽपि वासुदेवमहिमा मन्दाधिकारिभिर्भारतेन न ज्ञातुं शक्यः । अतस्तेषां श्रेयसे वासुदेवमाहात्म्य-ज्ञानाय ग्रन्थान्तरकरणमावश्यकमिति भावः ॥ ९ ॥

न तद्वचश्चित्रपदं हरेर्यशो जगत्पवित्रं न गृणीत कर्हिचित् ।

तद्वायसं तीर्थमुशन्ति मानसा न यत्र हंसा न्यपतन्मिमंक्षया ॥ १० ॥

तात्पर्यम्

वायसं तीर्थं वयोमात्रानुजीवि शास्त्रम् ॥ १० ॥

पदरत्नावली

धर्मादीनाम् अल्पकथनेन कथं पूर्तिः स्यादिति तत्राह- नेति ॥ यद्वचो जगत्पवित्रं जगत्पावनकरं हरेर्यशो न गृणीत कर्हिचिदपि न प्रतिपादयेत् तच् चित्रपदमपि चित्राणि पदानि यस्मिंस्तत्तथोक्तं, वचो न । वक्ति प्रतिपादयति तत्वमिति वचः, शास्त्रं तन्न भवतीत्यर्थः । कुतस् तद्वायसं वयोमात्रानुजीवितार्थं शास्त्रम् उशन्ति इच्छन्ति । यत्र काकोच्छिष्टतीर्थे मानसाः प्रेक्षावन्तः मानसाख्यसरोविहारिणो वा हंसाः परमहंसा धवलपक्षा वा जलपयोविवेककारिणः मिमंक्षया विचारलक्षणस्नानेच्छया न न्यपतन् न निपतन्ति न प्रविशन्ति । तथा यत्र यस्मिन् तीर्थे शास्त्रे मानसा ब्रह्मणो मनसो जाताः सनकादयः हंसा निर्लेपा इति वा । तस्मात् सज्जनानादरणीयत्वेन धर्मादीना-मल्पकथनेन न पूर्तिरिति भावः । निरमन्त्युशिक्क्षया उशिक् शुद्धं, क्षयं स्थानं येषां ते तथोक्ताः । शुद्धं ब्रह्म तदेव क्षयो येषां ते तथोक्ता इति वेति पठित्वा केचिद्व्याचक्षते तच्चिन्त्यम् ॥ १० ॥

प्रकाशिका

ननु मन्दाधिकारिणां श्रेयसे न मम ग्रन्थान्तरकरणमावश्यकं तेषां हर्यन्य-विषयकसाहित्यादिशास्त्रेणापि श्रेयः सम्भवादित्यतो न तच्छास्त्रं मोक्षजनकतया ज्ञानिनां संमतमित्याह- न तद्वच इति ॥ यद्वचः शस्त्रं जगत्पावयतीति जगत्पवित्रं जगत्पावनकरं हरेर्यशः कदाऽपि न गृणीत न प्रतिपादयेत् । तच्चित्राण्यलङ्काराद्युपेतानि पदानि यस्मिंस्तत्तथोक्तं चित्रपदमपीत्यर्थः । तद्वचो न मोक्षानुकूलं शास्त्रम् । किं तर्हीत्यत उक्तम्- तद्वायसमिति ॥ लुप्तोपमेयम् । ततश्चास्य दार्ष्टान्तिके काकसम्बन्धीत्यर्थस्यासम्भवाद् अर्थान्तरं दर्शयति- वयोमात्रेति ॥ अत्र वयःशब्देन जीवनमुपलक्ष्यते । मात्रपदेन परलोकं वारयति । जीवनमात्रोपायभूतमित्यर्थः । ततश्चायमर्थः । यथाऽत्र तीर्थे मानसा मानससरोवरविहारिणो हंसा धवलपक्षाः पक्षिणो मिमङ्क्षया तापोपशमनाय स्नातुमिच्छया न न्यपतन्न प्रविष्टाः । तत्तीर्थं वायसं काकसम्बन्धि काकोपजीव्यमुशन्ति जानन्ति । लोका इति शेषः । तथा यत्र शास्त्रे मानसा ब्रह्मणो मनसा जाता हंसा यतयो मिमङ्क्षया परब्रह्मविचारेच्छया न न्यपतन्न प्रविष्टाः । तत्तीर्थं शास्त्रं वायसं जीवनमात्रोपयुक्तमुशन्ति ज्ञानिनः न मोक्षोपयोग्यतो न तेन शास्त्रेण मन्दाधि-कारिणां मोक्ष इति भावः । तस्मान्मन्दाधिकारिणां मोक्षाय भगवद्यशः प्रतिपादकग्रन्थान्तरमवश्यं कार्यम्

॥ १० ॥

स वाग्विसर्गो जनताघविप्लवो यस्मिन् प्रतिश्लोकमवद्धवत्यपि ।

नामान्यनन्तस्य यशोंकितानि शृण्वन्ति गायन्ति गृणन्ति साधवः ॥ ११ ॥

पदरत्नावली

वासुदेवमहिम्नोऽतिकथितस्यापि कथम् अपूर्तिरिति तत्राह- स वागिति ॥ यस्मि-न्निबन्धे प्रतिश्लोकमपशब्दाद्यबद्धवत्यपि शाब्दिकैर्जुगुप्सिते देश-काल-गुणैरनन्तस्य हरेः पारिजातहरणा-द्यात्मकयशोलाच्छितानि नारायणादिनामानि सन्ति, साधवः परमभागवताः शुकादयो यच्च शृृण्वन्ति, गायन्ति, गृणन्ति स जनताया जनसमूहस्याघं पापं विप्लावयति नाशयतीति जनताघविप्लवः, वाचां विसर्गः विशिष्टरचनाविशेष इत्येकान्वयः । यस्मिन् सन्ति प्रशस्तानि अनन्तस्य नामानि साधवः शृृण्वन्तीति यद् यस्मात्तस्मात्स एव वाग्विसर्ग इति वा । जनातापापविनाशहेतुत्वात् सज्जनगृहीतत्वाच्च वासुदेवमाहात्म्यप्रतिपादकमेव शास्त्रं नान्यदतस्तदेव शास्त्रप्रणेतृभि रचनीयमिति भावः ॥ ११ ॥

प्रकाशिका

तस्य मोक्षहेतुत्वं तु साधुजनकृतश्रवणादिविषयत्वेनैव सिद्धं भविष्यतीत्याशयेनाह- स वाग्विसर्ग इति ॥ वाचां विसर्गो विशिष्टवचनानि यस्मिन् ग्रन्थे स तथोक्तः । जनतायाः सज्जनसमूहस्याघं पापं विप्लावयति नाशयतीति जनताघविप्लव इत्यन्वयः । मोक्षहेतुरिति यावत् । यस्मिन् ग्रन्थेऽबद्धवत्यपि चित्रपदत्वाद्यभाववत्यपीत्यर्थः । अनन्तस्य हरेर्यशोंऽकितानि यशःप्रतिपादकानि नामानि पदानि सन्ति स वाग्विसर्गो जनताघविप्लव इत्यन्वयः । कुत इत्यत उक्तम्- यदिति ॥ यस्मात्साधवो हरिभक्ताः शुकादयस्तं ग्रन्थं सति वक्तरि शृृण्वन्ति । श्रोतरि सति गृणन्ति । अन्यदा तु स्वयमेव गायन्तीत्यर्थः । तस्मात्स ग्रन्थो जनताघविप्लव इति निश्चीयत इत्यर्थः । अत्र भगवा-न्माहात्म्यवर्णनस्य भक्तिद्वारैव मोक्षहेतुत्वमभिप्रेतम् । यदाहुः । भक्त्यर्थं भगवन्महिमोक्तिरिति ॥ ११ ॥

नैष्कर्म्यमप्यच्युतभाववर्जितं न शोभते ज्ञानमलं निरञ्जनम् ।

कुतः पुनः शश्वदभद्रमीश्वरे न चार्षितं कर्म यदप्यकारणम् ॥ १२ ॥

तात्पर्यम्

परोक्षज्ञानं न शोभते अपरोक्षज्ञानं न भक्त्या विनोत्पद्यते ।
‘यस्य देवे परा भक्तिः’ ‘यमेवैष वृणुते तेन लभ्यः’ ‘यद्वासुदेवाशरणा विदुरञ्जसैव’ इत्यादेः ॥ १२ ॥

पदरत्नावली

न केवलं वासुदेवमहिमद्योतकयशोंकविधुरशास्त्ररचनमेव मोघं किन्तु हरिभक्ति-विरहितनिर्निमित्तज्ञानकर्मणी अपि निष्फले एवेति विज्ञापयतीत्याह- नैष्कर्म्यमिति ॥ नैष्कर्म्यं स्वतो निष्कर्मणो मुक्तेः साधनम् अलं निरञ्जनं विषयसंगार्जनमलरहितम् अत्यन्तविरक्तिमद् वेदाद्यर्थविषयं परोक्षज्ञानमप्यच्युतभाववर्जितं भगवद्भक्तिरहितं हरावच्युततया निरन्तरभावनया मनोयोजनेन रहितं वा न शोभते अधिकारिणोऽभीष्टफलं न प्रकाशयति, बन्धकतया शश्वत्सर्वदाऽभद्रममंगलम् ईश्वरे हरौ न चार्पितं कर्म न शोभत इति कुतः पुनः किमु वक्तव्यम् । यद्यप्यकारणं फलकामनादिविधुरं तथापीत्यर्थः । शश्वदभद्रमनुष्ठानकाले फलकाले च अमङ्गलं यत्काम्यं कर्म तन्न शोभत इति कुतः पुनः । यदप्यकारणं नित्यं कर्म हरौ नार्पितं चेत्तच्च न शोभत इति किं वक्तव्यमिति वा । अच्युतभाववर्जितमित्यनेना-परोक्षज्ञानस्य भक्तिसाध्यत्वात्परोक्षोपपदमेवात्र ज्ञानं विवक्षितमिति ज्ञायते ॥ १२ ॥

प्रकाशिका

ननु न भक्तिरावश्यकी येन तदर्थं भगवन्माहत्म्यवर्णनमावश्यकं स्यात्तदभावेऽपि मोक्षहेतुतया श्रुत्यादिसिद्धभ्यां भगवत्स्वरूपज्ञाननिवृत्तकर्मभ्यामेव सर्वेषां मोक्षसम्भवादित्याशङ्कायां भक्त्यभावे न ताभ्यामपि मोक्ष इत्याह- नैष्कर्म्यमिति ॥ अत्र ज्ञानमित्यपरोक्षज्ञानं न विवक्षित-मित्याह- परोक्षज्ञानमिति ॥ न शोभते न मुक्तिं साधयति । अपरोक्षज्ञानग्रहणे बाधकमाह- अपरोक्ष-ज्ञानमिति ॥ अच्युतभाववर्जितमिति ज्ञानस्य भक्त्यभावेऽप्युत्पत्तिरुच्यते । तच्च नापरोक्षज्ञानविवक्षाया-मुपपद्यते । तस्य हि भक्तिं विनोत्पत्तेरसम्भावितत्वादित्यर्थः । परोक्षज्ञानं तु शास्त्रादिना भक्तिहीनानामपि भावः । भक्तेर् अपरोक्षज्ञानसाधनत्वे प्रमाणान्याह- यस्य देव इत्यादिना ॥
एषः परमात्मा यं भक्तत्वेन वृणुते तस्य स्वां तनुं विवृणुते । अपरोक्षतया दर्शयतीत्यर्थः । वासुदेवशरणा वादुदेवभक्ता विदुरपरोक्षतया ज्ञातवन्तः । ततश्चायं श्लोकार्थः । अलं निरञ्जनं सम्पादनकाले दोषानापादकं ज्ञानं हरिविषयकं परोक्षज्ञानं नैष्कर्म्यमपि निष्कर्मणो मोक्षस्य जनने योग्यमपि अच्युते भावो भक्तिस्तेन वर्जितं चेन्न शोभते न मोक्षजनकं भवति । तदा शश्वदभद्रं साधनकाले दोषाविना-भूतम् । ‘‘सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृता’’ इति वचनात् । कर्म । चशब्द एवार्थः । ईश्वरे नैवार्पितं भक्तिपूर्वकं भगवदर्पणं विनैव कृतं न शोभते इति कुतः पुनः किमु वक्तव्यम् । ज्ञानं कर्मापेक्षयोत्तमत्वेन प्रसिद्धम् । तदपि यदा भक्त्यभावे न मोक्षजनकं तदा तदवरं कर्म भक्त्यभावे मोक्षजनकं न भवतीति किं वाच्यमिति भावः । ननु कामनया कृतत्वादेव न तन्मोक्षसाधनमित्यत उक्तम्- यदपीति ॥ यद्यप्यकारणं फलानुसन्धानादिरूपकारणरहितं तथाऽपीत्यर्थ इति ॥ १२ ॥

अतो महाभाग भवानमोघदृक् शुचिश्रवाः सत्यरतो धृतवतः ।

उरुक्रमस्याखिलबन्धमुक्तये समाधिनाऽनुस्मर यद्विचेष्टितम् ॥ १३ ॥

तात्पर्यम्

शुचिश्रवा विष्णुः । समाधिना समाधिभाषया । स्मरणं ग्रन्थकृतिः । ‘स्मरन्ति च’ इत्यादेः ॥ १३ ॥

पदरत्नावली

अधुनालंबुद्धिहेतुं विज्ञापयतीत्याह- अत इति ॥ महाभाग अपरिमितभाग्यनिधे, उक्तप्रकारेण कर्मज्ञानयोर्हरिभक्तिरहितयोर्निष्फलत्वाद्धर्मादीनामल्पकथनेनापि पूर्तिर्भगवन्महिम्नाति- कथितेनाप्यपूर्तिरेवेति यतोऽतः साक्षाच्छुचिश्रवा विष्णुरेवात एव भवान्पूज्यस्त्वं सकलसज्जनसंसार- बन्धनविध्वंसनाय उरुक्रमस्य बहुलपराक्रमस्य तव यज्जगत्सृष्टिपालनादिविशिष्टचेष्टितं तत्समाधिना दर्शनगुह्यसमाधिभेदेन त्रिधा भिन्नानां भाषाणां मध्ये यथास्थितवस्तुकथनलक्षणया समाधिभाषयानुस्मर ‘अखिलधर्मगुप्तये’इति पाठे समस्तभागवतधर्मरक्षणायेत्यर्थः ॥ १३ ॥

प्रकाशिका

एवं हरिभक्तेरावश्यकत्वात्तज्जननाय हरिमाहात्म्यप्रतिपादकमेव ग्रन्थं कुर्विति प्रार्थयते- अत इति ॥ अत्रामोघदृगित्यादिविशेषणचतुष्टयं ग्रन्थकर्तुर्व्यासस्याप्तत्वोपपादकम् । अत्र शुचिश्रवा इत्यस्य शुचि शुद्धं श्रवो यश इति व्याख्यानेनास्य विशेषणस्याप्तत्वोपपादकता भवत्यतोऽत्र विवक्षितं तदर्थं दर्शयति- शुचिश्रवा इति ॥ रुद्रो बहुशिरा बभ्रुर्विश्वयोनिः शुचिश्रवा इति तन्नामसु पाठादिति भावः । तथा च भवान्यतो विष्णुरतस्त्वयि करणापाटवादिकं सम्भावयितुमपि नेत्याप्तत्वोपपादकता प्राप्तोति भावः । समाधिनेत्यस्य चित्तैकाग्य्रेणेत्यन्यथाप्रतीतिवारणायार्थमाह- समाधिनेति ॥ समाधिभाषया विष्णुमाहात्म्यप्रतिपादकेन वाक्येन । उक्तो यो महिमा विष्णोः स तूक्तो हि समाधिनेति वचनात् । तथा च भारतवद्दर्शनगुह्यभाषेऽप्यत्र न निवेशनीये इति भावः । अनुस्मरेत्यत्र स्मृतिविषयं कुर्वित्यन्यथाप्रतीतिवारणाय प्रकृत्यर्थं दर्शयति- स्मरणमिति ॥ स्मरतेर्ग्रन्थे प्रयोगं दर्शयति- स्मरन्ति चेति ॥ ग्रन्थं कुर्वन्तीत्यर्थः । आदिपदेन ‘न च स्मार्तमतद्धर्माभिलापादि’त्या-देर्ग्रहणम् । ततश्चायं श्लोकार्थः । यत एवं हरिभक्तिरावश्यक्यतस्तज्जननाय हे महाभाग अपरिमितैश्वर्यादिसम्पन्न । अनेन धनाद्याशयेन न त्वमसत्यवचन इति सूचयति । अमोघदृगबाधितज्ञानो ऽनेन विवक्षितार्थतत्त्वज्ञानमुक्तम् । शुचिश्रवा इत्यनेन विष्णुत्वोक्त्या प्रमादापटुकरणत्वादिदोषराहित्यम् । सत्ये यथादृष्टार्थवचने रत इत्यनेनाविप्रलम्भकत्वम् । धृतं मुक्तिसाधनोपदेशकरणरूपं व्रतं येन स तथेत्यनेन विवक्षा दर्शितेति ज्ञातव्यम् । उरुक्रमस्यापरिमितपराक्रमस्य विष्णोर्यद्विचेष्टितं विविधं चेष्टितं लीलामुद्दिश्याखिलानां सज्जनानां बन्धमोक्षाय समाधिना समाधिभाषयैव न पुनर्गुह्यदर्शनभाषाभ्याम् । अनुस्मर मन्दाधिकारियोग्यतामनुस्मृत्य ग्रन्थं कुर्विति ॥ १३ ॥

अतोऽन्यथा किञ्चन यद्विवक्षितं पृथग्दृशस्तत्कृतरूपनामभिः ।

न कर्हिचित्क्वापि च दुःस्थितामतिर्लभेत वाताहतनौरिवास्पदम् ॥ १४ ॥

पदरत्नावली

केवलधर्मादिविषयशास्त्रकृत्यानर्थोऽपि भवतीति विज्ञापयतीत्याह- अतोऽ-न्यथेति ॥ अतः भगवन्महिम्नोऽन्यथा विरुद्धतया यद्धर्मादिपुरुषार्थकथनाय विवक्षितं तत्किञ्चन यत्किञ्चिन्न पुरुषार्तोपयोगि । कुतस्तत्कृतरूपनामभिस्तस्मिन् ग्रन्थे धर्मादिफलत्वेन प्रतिपादितस्वर्गादि-गतलावण्यादिरूपमदनकलिकेत्यादिनामवत्पदार्थैः पृथग्दृशः ‘ते मम सुखहेतव’इति वस्त्वयथार्थज्ञानिनो रागादिदोषदुष्टत्वेेन स्थिता मतिः कर्हिचित्क्वापि कस्मिश्चिद्विषयेऽपि समुद्रे वातेन वायुना आहता विघटिता नौस्तरीवास्पदमाश्रयं न लभेतेत्येकान्वयः । तस्मात्केवलधर्मादिविषयशास्त्रकृतिरनर्थकरीति भावः । अतोऽन्यथा श्रीभागवतकृतिमन्तरेण यत्किञ्चनग्रन्थकरणं विवक्षितं, तद् ग्रन्थकल्पितरूप-नामभिर्मुग्धस्येति वा । चशब्दान्नरकपातफलमेव स्यादिति सूचयति ॥ १४ ॥

प्रकाशिका

ननु मन्दाधिकारिमोक्षार्थं भगवद्विचेष्टितं न मया वर्णनीयम् । तेषां मोक्षाय कपिलकणादाद्युक्तपदार्थस्वरूपज्ञानेनैव सम्भवादित्यत आह- अतोऽन्यथेति ॥ अतो भगवद्विचेष्टिता-दन्यथा प्रकारान्तरं यत्किञ्चिन प्रधानादिकं विवक्षितं तत्तद्वादिनाम् । मोक्षसाधनत्वेनेति शेषः । तत्कृतरूपनामभिस्तेषु प्रधानादिषु कृतानि कथितानि यानि रूपाणि त्रिगुणत्वगुणाश्रयत्वादिलक्षणानि प्रधानं द्रव्यगुणकर्मसामान्यविशेषसमवायादीनीति नामानि तैः पृथग्दृशो मोक्षसाधनेषु पृथग्ज्ञानिनोऽधि-कारिणो मतिर्बुद्धिर्दुस्थिता चञ्चला सती कर्हिचित्कदाऽपि क्वापि विषये आस्पदं दार्ढ्येनावस्थानं न लभेत । केव । यथा समुद्रे वातेन हता नौरास्पदं न लभते तथैव । सत्यं वाद्यन्तरोक्तानि मोक्षसाधनानीति । तथाऽपि परस्परविरुद्धनामरूपवत्तया कथितानां तेषां दर्शनेनाधिकारिणः संशय एव स्यान्न निश्चय इति भावः । यद्यपीदं न तद्वचश्चित्रपदमित्यादिनैव दूषितं तथाऽप्यैहिकश्रेयःसाधन-प्रतिपादकं साहित्यादिशास्त्रमेव तत्र दूषितं नामुष्मिकश्रेयःसाधनप्रतिपादकमिति मन्वानस्य शङ्काऽत्र निराकृतेति ज्ञातव्यम् । अत एव तत्र चित्रपदमिति वायसमिति चोक्तम् । न च न्यायसाम्यादिदमपि तत्रेव दूषितप्रायम् । कपिलकणादीनामृषित्वेन नारदतुल्यानां वचनेष्वनाश्वासकारणाभावादित्यभिप्रायात् । अत एव संशयः स्यान्न निश्चय इत्येवोत्तरमुक्तम् ॥ १४ ॥

जुगुस्पिसं धर्मकृतेऽनुशासनं स्वभावरक्तस्य महान् व्यतिक्रमः ।

यद्वाक्यतो धर्म इतीतरस्थितो न मन्यते तस्य निवारणं जनः ॥ १५ ॥

तात्पर्यम्

प्रवृत्तधर्मकृते ॥ १५ ॥

पदरत्नावली

न केवलम् अनर्थकार्येव भवेदन्येषां निन्दिताधर्मकारि चेति विज्ञापयति- जुगुप्सितमिति ॥ स्वत एव प्रवृत्तिधर्मादिषु रागिणो जनस्य प्रवृत्तिधर्मादिकृतेऽनुशासनं कुर्विति प्रेरणं जुगुप्सितम् । त्वादृशैरिति शेषः । न केवलं निन्दितं किन्तु महान्व्यतिक्रमः । वृक्षादधः पतितस्य दण्डेन ताडनवन्निःसीमोऽन्यायः । कुतः ‘स यत्प्रमाणं कुरुत’इति न्यायात् । यद्वाक्यतो धर्म इति तस्य जनस्य इतरस्थितो जनो निवारणं न मन्यते इत्यन्वयः । यस्य भवादृशस्य वचनाद्धर्मोऽयमित्यनुष्ठित-स्तस्य प्रवृत्तिमार्गस्थितस्य जनस्येतरस्मिन्निवृत्तिमार्गे स्थितः जनः शुकादिः ‘नायं धर्मश् चरते’ति निवारणं न करोति, तस्मात्तादृशग्रन्थकृतिरनपेक्षितेति भावः ॥ १५ ॥

प्रकाशिका

ननु विषयासक्तान्मन्दान्प्रति काम्यधर्मा एव प्रतिपादनीयास्तेषां तत्राकाङ्क्षा-सद्भावान्न मोक्षसाधनम् । विरक्तानां प्रति वाणिज्योपदेशवदनाकाङ्क्षितत्वादित्यत आह- जुगुप्सितमिति ॥ अत्र धर्मशब्देन निवृत्तिधर्मस्यापि ग्रहणे तदनुशासनस्य जुगुप्सितत्वोक्तेरसम्भवादित्यत आह- प्रवृत्तिधर्मकृत इति ॥ तथा च स्वभावत एवान्योपदेशमनपेक्ष्यैव काम्यविषयेषु रक्तस्यासक्त-स्याधिकारिणः प्रवृत्तिधर्मकृते प्रवृत्तिधर्मज्ञापनायानुशासनं शास्त्रकरणं भवादृशस्य कृपालोर्जुगुप्सितं निन्दितम् । प्रत्युत तन्निवारणमेव त्वया कर्तव्यमिति भावः । कुत इत्यत आह- यद्वाक्यत इति ॥ यस्य भवादृशस्य श्रेष्ठस्य वाक्यतो वचनात्प्रतीत एव धर्मो मुख्यपुरुषार्थहेतुरिति य इतरो जनोऽधिकारीस्थितो विश्वस्तस्तस्य जनस्य कुमार्गे प्रवर्तमानस्य निवारणं स न मन्यते चेत्तस्य श्रेष्ठस्य महान्व्यतिक्रमोऽन्यायो यतोऽतो जुगुप्सितमिति सम्बन्धः । कुमार्गे सक्ताः स्वस्मिन्विश्वस्ताश्चेत्तस्मात्ते वारणीया एव न पुनः प्रवर्तनीया इति कृपालोर्धर्म एवेति भावः ॥ १५ ॥

विचक्षणोऽस्यार्हति वेदितुं विभोरनन्तपारस्य निवृत्तितः सुखम् ।

प्रवर्तमानस्य गुणैरनात्मनस्ततो भवान्दर्शय चेष्टितं विभोः ॥ १६ ॥

तात्पर्यम्

अनन्तपारस्य विभोः सकाशात् सुखम् ॥ १६ ॥

पदरत्नावली

समाधिभाषात्मकग्रन्थेऽधिकार्यभावादुपरम्यत इति न वक्तव्यमिति विज्ञापयति- विचक्षण इति ॥ निवृत्तितो गुणैः प्रवर्तमानस्यानात्मनोऽस्याऽनन्तपारस्य विभोः सुखं विचक्षणो वेदितुमर्हति यस्मात्ततो भवान् पूज्यस्त्वं विभोश्चेष्टितं दर्शयेत्येकान्वयः । अनुष्ठितनिवृत्तिधर्मा-त्सत्वादिगुणैर्जगत्सृष्ट्यादौ प्रवर्तमानस्यास्वामिकार्यस्यास्य जीवस्यापरिमितपूर्तेर्विभोर् भगवतः सकाशाद् यद्भविष्यत्सुखं भवति तत्सुखं विचक्षणो विशिष्टाचारः सात्विकप्रकृतिर्ज्ञातुं योग्य इति यस्मात्तस्माद्विभोः सर्वगस्य हरेश्चरितं समाधिभाषात्मकग्रन्थकरणेन ज्ञापयेत्यतोऽधिकार्यभावान्नोपरन्तव्यमिति भावः । अनात्मनो बुध्यादेर्गुणैः सत्वादिभिः शब्दादिषु प्रवर्तमानस्य जनस्य सुखाय विभोश्चेष्टितं दर्शयेति वा

॥ १६ ॥

प्रकाशिका

ननु कपिलकणादादिवचनेष्विव न मद्वचनेऽपि मन्दाधिकारिणां विश्वासोऽतो न मया हरिचेष्टितप्रतिपादकग्रन्थनिर्माणं तदर्थं कार्यमित्यत आह- विचक्षण इति ॥ अत्रानन्तपारस्य हरेः सुखं वेदितुं स्वपुरुषार्थतया ज्ञातुमर्हतीत्यन्यथाप्रतीतिवारणाय योजनां दर्शयति- अनन्तपारस्य विभोः सकाशादिति ॥ तथा च सकाशादित्यध्याहरेण योज्यमिति भावः । अत्र विभोरित्यस्य पश्चात्कीर्तनं विशेष्यत्वज्ञापनाय । विश्वधृग्विश्वसृग्विभुरिति भगवन्नामसु पाठात् । ततश्चायं श्लोकार्थः । मन्दाधि-कारिष्वपि यो विचक्षणो निपुणः समयपादोक्तन्यायैः कपिलादीनां निश्चितानाप्तत्वो‘ऽमोघदृक् शुचिश्रवा’इत्युक्तरीत्या भगवतो निश्चिताप्तत्वच्चेति यावत् । अनात्मनोऽविजितमनसो गुणैर्विषयैर्निमित्तैः प्रवर्तमानस्याधिकारिणो निवृत्तितो विषयवैराग्यात् । भगवन्माहात्म्यश्रवणादेरुपलक्षणमेतत् । विभोर्गुणतो व्याप्तस्यानन्तपारस्य नान्तः कालतः पारं च देशतो यस्य तस्य हरेः सकाशात् । तत्प्रसादादिति यावत् । यत्सुखं मोक्षाख्यं भविष्यति तद्वेदितुं पुरुषार्थतया निश्चेतुमर्हति । त्वद्ग्रन्थादिति शेषः । ततो भगवान्पूज्यः । त्वमिति शेषः । विभोर्देशतः कालतो गुणतश्च व्याप्तस्य हरेश्चेष्टितं लीलां दर्शय तत्प्रतिपादकं ग्रन्थं कुर्विति ॥ १६ ॥

त्यक्त्वा स्वधर्मं चरणाम्बुजं हरेर्भजन्नपक्वोऽथ पतेत्ततो यदि ।

यत्र क्व वा भद्रमभूदमुष्य को वार्थ आप्तो भजतां स्वधर्मम् ॥ १७ ॥

पदरत्नावली

इतोऽपि प्रवृत्तिधर्मोपदेशान्निवृत्तिधर्मोपदेशो वरीयानित्याह- त्यक्त्वेति ॥ अथ स्वधर्मं त्यक्त्वा हरेश्चरणांबुजं भजंस्ततः यद्यपक्वः पतेत्तदमुष्य यत्र क्व वा भद्रमभूत् स्वधर्मं भजतां को वा अर्थ आप्त इत्येकान्वयः । भगवदविषयस्वधर्मानुष्ठानात्मकप्रवृत्तिर्धर्मं त्यक्त्वा निवृत्तिधर्मविधायक-शास्त्रोक्ताचारैर् हरेः पादपद्मं सेवमानः पुरुषस्तस्मादनधिगतापरोक्षज्ञानादितत्फलपरिपाकः रागा-द्यन्तरायविहतः स्खलेत्तथाप्यमुष्य पुंसः ‘क्षिप्रं भवति धर्मात्मा’इत्यादिप्रमाणाद्यत्र क्व वा जन्मान्तरे श्रीमदादिकुलोद्भूतस्य निवृत्तिधर्मात्मकं भद्रं ‘एष्यत्तु निश्चितं यत्तदतीतत्वेन भण्यत’ इति वचनाद-भूद्भविष्यत्येव । केवलं प्रवृत्तिधर्मं भजतामनुतिष्ठतामस्खलनेऽपि धर्मादिषु को वा पुरुषार्थ आप्तो न कोऽपीति भावः । तस्मान्निवृत्तिधर्मविधायकशास्त्रं भवान् करोत्विति प्रार्थये ॥ १७ ॥

प्रकाशिका

ननु हरिभक्तिजननाय हरिमाहात्म्यप्रतिपादके ग्रन्थे मया कृते सति तदभ्यासिनां हरावेव स्निग्धानां नित्यनैमित्तिकादिधर्मसङ्कोचः प्राप्नोति । तेन चानर्थप्राप्तिरित्यतो हरिभजतां स्वधर्मसङ्कोचः प्राप्तोऽप्यकिञ्चित्कर इति भावेन भक्तेः फलाव्यभिचारं दर्शयति- त्यक्त्वेति ॥ सङ्कुच्येत्यर्थः । अपक्वो भक्तिपरिपाकशून्यस्ततो भजनाद्यदि पतेत् । अन्तरायविहतः सन् स्खलेन्म्रियेत वा तर्हि यत्र क्व वा जन्मन्यमुष्यभक्तिरसिकस्य भद्रमभूद्भद्रमेव भविष्यति । ‘एष्यत्तु निश्चितं यत् तदतीतत्वेन भण्यत’ इति वचनात् । न तु स्वधर्मसङ्कोचनिमित्तोऽप्यर्थः । ‘क्षिप्रं भवति धर्मात्मा’ तत्र तं बुद्धिसंयोगं लभते पौर्वदोहिकमित्यादिप्रमाणात् । नन्वेवं भक्तिं विना स्वधर्ममेव कुर्वतामन्तराय-प्राप्तावपि जन्मानतरे फलसम्भवात्साम्यमेवत्यत उक्तम्- को वेति ॥ अभजतां भक्तिमकुर्वताम् । स्वधर्मं भजतामित्यपि छेदः । तथा च हरिभक्तिं सङ्कुच्य स्वधर्ममेव सम्यग्भजतां कुर्वताम् । कर्तरि षष्ठी । अन्तरायप्राप्तौ को वाऽर्थ आप्तः प्राप्तो न कोऽपि । अतो न साम्यमिति भावः ॥ १७ ॥

तस्यैव हेतोः प्रयतेत कोविदो न लभ्यते यद्भ्रमतामुपर्यधः ।

तल्लभ्यते दुःखवदन्यतः सुखं कालेन सर्वत्र गभीररंहसा ॥ १८ ॥

पदरत्नावली

तस्माद्विवेकिना प्रवृत्तिधर्मं विहाय निवृत्तिधर्म एवानुष्ठेय इत्याह- तस्येति ॥ कोविदस्तस्यैव हेतोः प्रयतेत, उपर्यधो भ्रमतां यन्न लभ्यते । गभीररंहसा कालेनान्यतः सर्वत्र तददुःखवत् सुखं लभ्यत इत्येकान्वयः । अनन्तपारस्येति हरेर्मुख्यप्रसादलभ्य यत्सुखमुक्तं तस्यैव हेतोर्नान्यस्य । तत्सुखहेतुनिवृत्तिधर्माख्यसाधनस्यार्थे प्रयत्नं कुर्याद् यत्सुखं भूस्वर्गादिषु प्रवर्तमानानां प्रवृत्तिधर्मिणां पुरुषाणां न सुलभं, निरन्तरं निवृत्तिधर्मं सेवमानानामव्यक्तवेगेनानेकजन्मपरिमितेन कालेनान्यतः सर्वजीवेभ्योऽत्यन्तभिन्नाद्धरेः सर्वदेशकालेषु निर्दुःखं स्वरूपसुखमभिव्यज्यते, तस्मा-न्निवृत्तिधर्म एव श्रेयानिति भावः । यथा पापिनां प्रयत्नमन्तरेण दुःखं लभ्यते तथा निवृत्तिधर्मिणामपि साधनसामग्रीं विना निरायासेन सुखं लभ्यत इत्यस्मिन्नर्थे ‘दुःखवत्’इति दृष्टान्तो वा । सर्गादौ भ्रमतां यत्सुखं न लभ्यते विवेकी तस्यैव सुखस्य हेतोः प्रयतेत । एवशब्दव्यावर्त्यमाह- तदिति ॥ अन्यतः विषयभोगाद् यद्दुःखोपेतं सुखं तद् गभीररंहसा कालेन सर्वत्र लभ्यते । तस्मात् तादृशसुखार्थं न यतनीयम् । किन्तु तद्व्यतिरिक्तस्य नित्यस्य केवलस्य स्वरूपसुखस्येति वा ॥ १८ ॥

प्रकाशिका

नन्वेवं हरिमेव भजतां लौकिकयत्नेष्वपि सङ्कोचः प्राप्तः । ततश्च विषय-निमित्तसुखाप्राप्तौ शरीरावस्थानमेव न स्यादित्यत आह- तस्यैवेति ॥ उपरि स्वर्गादौ । अधो नरकादौ भ्रमतां कर्तरि षष्ठी । यन्मोक्षसुखमुपर्यधो भ्रमद्भिर्न लभ्यते तस्यैव हेतोस्तदर्थमेव प्रयतेत प्रकर्षेण यत्नं कुर्यात् । तुशब्दस्तुुच्छनश्वरत्वादिविशेषद्योतकः । तत्सुखं विषयसुखमन्यतो यत्नाभावेऽपि प्राचीनकर्मणा गभीररंहसाऽज्ञातवेगेन कालनामकहरिणा दुःखवत्सर्वत्र नरकादावपि लभ्यते । अतो न तदर्थमत्यन्तं यत्नः कार्य इत्यर्थः । यथाऽऽहुः- ‘अप्रार्थितानि दुःखानि यथैवायान्ति देहिनाम् । सुखान्यपि तथा मन्ये दैव्यमत्रातिरिच्यते’ इत्यादि ॥ १८ ॥

न वै जनो जातु कथञ्चन व्रजेन्मुकुन्दसेव्यन्यवदङ्गसंसृतिम् ।

स्मरन्मुकुन्दांध्युपगूहनं पुनर्विहातुमिच्छेन्न रसग्रही जनः ॥ १९ ॥

पदरत्नावली

इतोऽपि निवृत्तिधर्म एव श्रेयानित्याह- न वा इति ॥ अङ्ग, हे भगवन्, मुकुन्दसेवी जनोऽन्यवन्मुकुन्दमसेवमान इव जातु कदाचिदपि कथञ्चन कस्माच्चिन्निमित्तात्संसृतिं न व्रजेत् । ‘वै’शब्देन न हि कल्याणकृत्कश्चिद्दुर्गतिं तत गच्छति’इति वाक्यं प्रमाणयति । कुत इति तत्राह- स्मरन्निति ॥ मुकुन्दस्य मनसा चरणारविन्दालिङ्गनसुखं स्मरन्ननुभवन् रसज्ञो जनः पुनर्विहातुं नेच्छेदित्यन्वयः ॥ १९ ॥

प्रकाशिका

यत्र क्व वा भद्रमभूदमुष्येत्युक्तमेवोपपादयति- न वा इति ॥ हे अङ्ग परम-प्रेमास्पद । मुकुन्दसेवी हरिभक्त्यादिरूपयोगानुष्ठाता जनः । अन्यवन्मुकुन्दासेविजनवदिति व्यतिरेक-दृष्टान्तः । जातु कदाचिदपि कथञ्चन केनापि निमित्तेन संसृतिं देहपरम्परां नाव्रजेन्न प्राप्नुयात् । योगसाधनोपयुक्तदेहपरम्परामेव प्राप्नोतीत्याशयः । वैशब्देन ‘न हि कल्याणकृत्कश्चिद्दुर्गतिं तात गच्छति । शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजातय’ इत्यादिप्रमाणप्रसिद्धिं दर्शयति । तत्र किं विषयाभिलाषेण हरिध्यानादिरूपं योगं विजहाति नेत्याह- स्मरन्निति ॥ पूर्वाभ्यासपाटवेन मुकुन्दाङ्घ्रियोरुपगूहनं मनसाऽऽलिङ्गनं ध्यानमिति यावत् । स्मरन्पुरुषार्थहेतुतया कर्तव्यमिति जानन्पुनस्तुच्छविषयेषु प्राप्तेष्वपि न तद्विहातुमिच्छेत् । तदेव कर्तुं पुनर्यतत इति भावः । यतोऽयं जनो रसग्रही सारग्रही । तदुक्तम्- ‘यतते च ततो भूयः संसिद्धौ कुरुनन्दन । पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि स’ इति । ननूपमर्दं चेत्यत्र ज्ञानिनामनिष्टप्रारब्धस्योपमर्दो भवतीत्यत्र संमतित्वेनायं श्लोकष्टीकाकारैरुदाहृत-स्तत्कथमपक्वविषयतया व्याख्यानमिति चेत् । यदैवमपक्वानां भद्रं भवति तदा भक्त्यादिपरिपाकवतां ज्ञानिनां भद्रं भविष्यतीति किं वाच्यमिति कैमुत्यस्यात्राभिप्रेतत्वेनाविरोधात् ॥ १९ ॥

इदं हि विश्वं भगवानिवेतरो यतो जगत्स्थाननिरोधसंभवः ।

तद्धि स्वयं वेद भवांस्तथापि प्रादेशमात्रं भवतः प्रदर्शितम् ॥ २० ॥

तात्पर्यम्

इतरोऽपि भगवान् विश्वमिव । स्वातन्त्र्यात् ॥ २० ॥

पदरत्नावली

मुकुन्दस्वरूपमाह- इदमिति ॥ स भगवानिदं विश्वमिव न तु विश्वं, किन्तु इतरः जगद्विलक्षणलक्षणः । कुतः ? जगत्स्थाननिरोधसंभव इति यतः । जगत्स्थापयति, निरोधयति संहरति, संभावयति उत्पादयतीति तथोक्तः । जगत्स्त्रष्टृत्वादिलक्षणलक्षितसार्वज्ञ्य-सर्वस्वातन्त्र्य-सर्वशक्ति-सर्वस्वामित्वादिगुणपूर्णत्वादसर्वज्ञत्वादिगुणविशिष्टाज्जगतो भेदोऽनुभवसिद्ध इति ‘हि’शब्दः । किञ्च भवान् स्वयं तद्वैलक्षण्यं वेद जानाति हि यस्मात्तस्मादैक्यकथनं प्रमाणविरुद्धमिति भावः । यद्यपि भवतः सर्वं सिद्धं न मया वक्तव्यांशोऽस्ति, तथाप्युपा यायपुरो बालवदव्याकृताकाशसदृशज्ञानवतः भवतः केवलप्रादेशाकाशपरिमितं ज्ञानं प्रदर्शितम् । ‘मया’इति शेष इत्यन्वयः ॥ २० ॥

प्रकाशिका

करिष्यमाणे ग्रन्थे इदं प्रमेयमेवमवश्यं प्रतिपादनीयमित्याशयेनाह- इदं हीति ॥ अत्रेदं विश्वं भगवानितर इव यः स जीवोऽपि भगवानिति व्याख्यानमसदिति भावेन सम्यग्व्याख्याति- इतरोऽपीति ॥ वस्तुतो जगतो भिन्नोऽपीत्यर्थः । विश्वमिव विश्वाभेदेनेवोच्यते ‘सर्वं खल्विदं’इत्यादौ, न तु वास्तवाभेदेन । तत्र किं निमित्तमित्यत आह- स्वातन्त्र्यादिति ॥ विश्वसत्तादिप्रदत्वादित्यर्थः । वास्तवाभेदनिमित्तकमेव तद्वचनं किं न स्यादित्यत उक्तम्- इतरोऽपीति ॥ अनेनापिशब्दो मूलेऽध्याहार्य इति सूचयति । इतरत्वमेव कुत इत्यत उक्तम्- मूले यत इति । जगतः स्थानं स्थितिर्निरोधो नाशः सम्भव उत्पत्तिर् एते यस्माद्भवन्ति स भगवांस्तथोक्तः । स इतरोऽपीति सम्बन्धः । तत्सर्वंखल्विदं ब्रह्मेत्यादेरुक्ततात्पर्यं भवान्यद्यपि स्वयं स्वयमेव वेद । न तत्र तव परोपदेशापेक्षेति भावः । तथाऽपि भवतः प्रति प्रादेशमात्रमल्पमात्रं लोकशिक्षणायैव मया प्रदर्शितम् । भवान्स्वत एव सर्वज्ञो मया तु लोकसङ्ग्रहाय दिङ्मात्रं प्रदर्शितम् । अतो जीवजडात्मकप्रपञ्चादत्यन्तविलक्षणस्य हरेर्जीवजडाभेदवचनं जीवजडसत्तादिप्रदत्वाभिधायकमेव न वास्तवाभेदप्रतिपादकमिति वर्णयेत्याशयः ॥ २० ॥

त्वमात्मनाऽऽत्मानमवैह्यमोघदृक् परस्य पुंसः परमात्मनः कलाम् ।

अजं प्रजातं जगतः शिवाय तन्महानुभावाभ्युदयोऽपि गण्यताम् ॥ २१ ॥

पदरत्नावली

‘तद्धि स्वयं वेद’इत्युक्तं विविच्य विज्ञापयति- त्वमिति ॥ हे अमोघदृक्, त्वमजमात्मानं परमात्मनः परस्य पुंसः कलां जगतः शिवाय प्रजातमात्मनाऽवैहीत्यान्वयः । आदानादिकर्तुः परमपुरुषस्यांशमवतीर्णं स्वत एव परोपदेशमन्तरेण जानासि । अत्र लोट् लडर्थे । अन्यथाऽमोघदृक्त्वमेवानुपपन्नं स्यत् । ‘तद्धि स्वयं वेद’इति च विरुद्धं स्यात् । तस्मात् तन्महानु-भावाभ्युदयस् तस्य तव महासामर्थ्यलक्षणचरितोदयोऽपि लोकहिताय गण्यतां प्राधान्येन संख्याय कथ्यतां, तेन जगतः शिवं भवतीत्यभिप्रायः ॥ २१ ॥

प्रकाशिका

भगवदवतारत्वात्तव न भगवद्विषयज्ञानेऽस्मदाद्युपदेशापेक्षेति सूचयन् भगव-न्माहात्म्यमपि वर्णयेति विज्ञापयति- त्वमिति ॥ हे अमोघदृक् अबाधितज्ञान । त्वमजमात्मानं परमात्मनः क्षराक्षरोत्तमदेहस्यात एव परस्य लोकविलक्षणस्य पुंसः कलामंशभूतं जगतः सज्जनस्य शिवाय मोक्षादिपुरुषार्थसाधनप्रदर्शनाय प्रजातं शुक्लशोणितसम्बन्दराहित्यलक्षणेन प्रकर्षेणावतीर्णमात्मना स्वयमेवावैहि । लोट् लङर्थे । जानासि । अतस्तवात्रास्मदाद्युपदेशः नापेक्षित इति शेषः । तत्तस्माल्लोकहितार्थमवतीर्णत्वात् । महानुभावस्यापरिमितसामर्थ्यवतो हरेरभ्युदयः पराक्रमोऽपि न केवलं पूर्वोक्तं गण्यतां कथ्यताम् । अधिगम्यतामिति पाठे अधि आधिक्येन प्राधान्येनेत्यर्थः ॥ २१ ॥

इदं हि पुंसस्तपसः श्रुतस्य वा स्विष्टस्य सूक्तस्य च बुद्धदत्तयोः ।

अविप्लुतोऽर्थः कविभिर्निरूपितो यदुत्तमश्लोकगुणानुवर्णनम् ॥ २२ ॥

पदरत्नावली

भगवन्महिमाभ्युदयवर्णनात्कथं जगतः शिवं स्यादिति तत्राह- इदमिति ॥ यदुत्तमश्लोकस्य हरेर्गुणानुवर्णनमिदं हि पुसंस्तप आदेर् अपरोक्षज्ञानद्वारा मोक्षसाधनत्वात्कविभिर-विनष्टकलात्मकोऽर्थो निरूपितः । ‘हि’शब्दोऽवधारणे हेतौ वा । तपः कायक्लेशलक्षणं, श्रुतं शास्त्रश्रवणं, स्विष्टम् उत्तमकल्पतया यजनं, सूक्तमध्ययनं, बुद्धं-ज्ञानं, दत्तं-दानम् । एवं हरिमहिमानु-वर्णनेन सर्वस्य शिवसंभवात्तदेवत्वया कर्तव्यमिति भावः ॥ २२ ॥

प्रकाशिका

भगवन्माहात्म्यवर्णनात्कथं जगतः शिवं स्यादित्यत आह- इदं हीति ॥ श्रुतस्येत्यादौ भावे निष्ठा । इदमेव हि तपः कायक्लेशलक्षणम् । श्रुतं श्रवणं स्विष्टमुत्तमकल्पतया यजनम् । सूक्तमध्ययनम् । बुद्धं बोधो दत्तं दानम् । तथा च त्वया हरिगुणानुवर्णने कृते सद्भ्य-स्तच्छ्राविणां तपआदिकमपरोक्षज्ञानद्वारा नित्यफलजनकं भविष्यतीति भावः ॥ २२ ॥

अहं पुरातीतभवेऽभवं मुने दास्यास्तु कस्याश्चन निर्विवक्षताम् ।

निरूपितो बालक एव योगिनां शुश्रूषणे प्रावृषि निर्विवक्षताम् ॥ २३ ॥

पदरत्नावली

इदानीं हरिकथाश्रवणादि शिवकरमिति वक्तुं स्वातीतजन्मकथनपूर्वकं स्वस्य भागवतसङ्गतिप्रकारमाह- अहमिति ॥ ‘पुरा’शब्दस्यातीतकालसामान्यवाचित्वेन निश्चयानुदयात्तदर्थ-मतीतेत्युक्तम् । अनन्तरातीतजन्मनीत्यर्थः । ‘तु’शब्द इतरदासीजातिवैशिष्ट्यद्योतनार्थः । योगिनां संन्यासिनाम् । ‘क’प्रत्ययः प्रशंसायाम् । लौल्यादिदोषरहितो बालः । प्रावृषि वर्षकाले, निर्विविक्षताम् एकत्र स्थितिमिच्छताम् ॥ २३ ॥

प्रकाशिका

सद्भ्यो हरिमात्म्यश्राविणां फलं भवतीत्यत्राहमेव दृष्टान्त इत्याशयेन स्ववृत्तान्तं कथयति- अहं पुरेति ॥ पुरा पूर्वब्रह्मकल्पेऽतीतभवे पूर्वजन्मनि वेदवादिनां दास्याः सकाशादभवं जातोऽस्मि । तुशब्द इतरदासीवैलक्षण्यद्योतकः । निरूपितो नियुक्तो योगिनां संन्यासिनां शुश्रूषणे । प्रावृषि । उपलक्षणमेतत् । शरदि च । चातुर्मास्य इति यावत् । निर्विविक्षतां निर्वेशमेकत्र वासं कर्तुमिच्छताम् ॥ २३ ॥

ते मय्यपेताखिलचापलेऽर्भके दान्ते यतक्रीडनकेऽनुवर्तिनि ।

चक्रुः कृपां यद्यपि तुल्यदर्शनाः शुश्रूषमाणे मुनयोऽल्पधारिणि ॥ २४ ॥

पदरत्नावली

शिष्यगुणेन तेषां प्रवृत्तिमाह- स इति ॥ निरस्तसमस्तचपलस्वभावे जिह्वादीन्द्रियनिग्रहवति अत एव निरस्तबालक्रीडनसाधने अनुकूलवर्तिनि परिचरति अल्पबलविग्रह-धारिणि मयि ते योगिनो अनुग्रहलक्षणां कृपां चक्रुरित्यन्वयः । किं विशिष्टास्तुल्यदर्शना यद्यपि तुल्यं-गुणक्रियारूपैः समं ब्रह्म पश्यन्तः, यथास्थितव्रस्तुदर्शिनो वा, तथापीति शेषः ॥ २४ ॥

प्रकाशिका

अपेतान्यखिलानि चापलानि चञ्चलस्वभावानि यस्मात्तस्मिन् । दान्ते जिह्वेन्द्रिय-निग्रहवति । अत एव यतक्रीडनके इत्युक्तक्रीडासाधने । अनुवर्तिन्यनुकूले । अल्पभाषिणि मितवचने । अल्पधारिणीति पाठे बालशरीरधारिणीत्यर्थः । कथंभूता योगिनः । तुल्यं मित्रारिपक्षयोः समं दर्शनं येषां ते तथा ॥ २४ ॥

उच्छिष्टलेपाननुमोदितौ द्विजैः सकृच्च भुञ्जे तदपास्तकिल्बिषः ।

एवं प्रवृत्तस्य विशुद्धचेतसस्तद्धर्म एवाभिरुचिः प्रजायते ॥ २५ ॥

पदरत्नावली

किं तच्छुश्रूषाकर्मेति तत्राह- उच्छिष्टेति ॥ ब्रह्मकुलोद्भवानामेव चतुर्थाश्रम इति प्रकाशनाय द्विजैरिति कथितम् । उच्छिष्टपात्रोद्धरणं गोमयोदकेन मार्जन्या वा तत्स्थललेपनं तत्रानुज्ञातः। न हि शूद्रस्य तदनुज्ञानाभावे उच्छिष्टस्पर्शनं सुतरां तद्भक्षणं वा शक्यम् । लिप्यन्ते-उपदिह्यन्ते सिच्यन्ते प्राणा एतैरिति लेपा ओदनास्तद्भुक्तोच्छिष्टानामोदनानामदनं प्रत्यनुज्ञात इति वा । अनेन स्वशरीर-यात्रानिर्वाहमाह । तदनुवर्तित्वं स्पष्टमाह- सकृदिति ॥ चशब्द एवार्थे । यथा यतयः सकृदेव भुञ्जते तथाऽहमपि भुञ्जे । तत्फलमाह- तदिति ॥ तेन कर्मणा सकृद्भोजनेन अपास्तं निरस्तं किल्बिषं पापं यस्य स तथा । ततः किमभूदिति तत्राह- एवमिति ॥ एवमुक्तप्रकारेण प्रवर्तमानस्य विशेषेण शुद्धान्तःकरणस्य तेषां परमहंसानां धर्मे विषयवैराग्यलक्षणे भगवत्कथाश्रवणाद्यभ्यासलक्षणे वा अभिरुचिरुत्कण्ठा प्रजायते इत्यन्वयः सन्ततानुवृत्तिसूचनाय ‘लट्’प्रयोगः ॥ २५ ॥

प्रकाशिका

तदा स्वशरीरयात्राप्रकारमाह- उच्छिष्टेति ॥ उच्छिष्टलेपान् लिप्यन्त इति लेपा उच्छिष्टपात्रलग्नानित्यर्थः । अन्नादीनिति शेषः । तैर्द्विजैः संन्यासिभिरनुमोदितोऽनुज्ञातः सन् । अनुज्ञाभावे शूद्रस्य द्विजोच्छिष्टभोजनमसम्भावितमित्याशयः । चशब्द एवार्थे । यतयः सकृदेव भुञ्जते तथाऽहमपि सकृदेव भुञ्जे । तेन सकृदेवोच्छिष्टभोजनेनापास्तं निरस्तं किल्विषं पापं यस्य स तथा जातोऽस्मीति शेषः । फलान्तरं चाह- एवमिति ॥ तद्धर्म एव तेषां संन्यासिनां धर्म एव वैराग्यभगवत्कथाश्रवणाद्यभ्यासरूपधर्म एवाभिरुचिरुत्कण्ठा प्रजायते प्रकर्षेण जाता । इदानीमपि महात्मनामुच्छिष्टभोजनादिनैतत्फलं भवतीति प्रदर्शनाय लट्प्रयोगः ॥ २५ ॥

तत्रान्वहं कृष्णकथाः प्रगायतामनुग्रहेणाश्रुणवं मनोहराः ।

ताः श्रद्धया मेऽनुसवं विश्रुण्वतः प्रियश्रवस्याङ्ग तदाऽभवन्मतिः ॥ २६ ॥

पदरत्नावली

अभिरुच्या किं जातमिति तत्राह- तत्रेति ॥ तत्र तत्सकाशे मनोहराः कृष्णकथा अनुदिनं प्रातःसवनादनन्तरं प्रगायतां=कीर्तयतां परमहंसानाम् अनुज्ञालक्षणानुग्रहेण अश्रुणवमित्यन्वयः । अङ्ग श्रीवेदव्यस, तदा श्रद्धयानुसवं त्रिसन्ध्यमपि ताः कथा विशेषेण श्रुण्वतो मे मतिर् ध्यानलक्षणोपासना प्रियश्रवसि परममङ्गलकीर्तौ हरावभवदित्यन्वयः ॥ २६ ॥

प्रकाशिका

अभिरुच्याऽपि किं जातमित्यत आह- तत्रेति ॥ तत्र तेषां सकाशे प्रगायतां कीर्तयताम् परमहंसानामनुग्रहेणाऽऽज्ञालक्षणेनाशृृणवं श्रुतवानस्मि । अनुसवं त्रिसन्ध्यम् । प्रियं श्रवो यशो यस्य तस्मिन्हरौ तदा तस्मिन्हरौ तदा तस्मिन्काले मतिर्ज्ञानं हरिमाहात्म्यज्ञानमभवदित्यर्थः

॥ २६ ॥

तस्मिंस्तदा लब्धरुचेर्महामते म्रियश्रवस्यस्खलिता मतिर्मम ।

ययाहमेतत्सदसत्स्वमायया पश्ये मयि ब्रह्मणि कल्पितं परे ॥ २७ ॥

तात्पर्यम्

मयि स्थिते ब्रह्मणि स्थीयतामत्रेतीश्वरेच्छया कल्पितम् ॥ २७ ॥

पदरत्नावली

अखण्डस्मरणोपासनाफलमाह- तस्मिन्निति ॥ रागाद्यवद्यैरनुपहतत्वादस्खलिता निरन्तरं स्थिरतया अखण्डोपासनमभूदित्यन्वयः । ययाऽखण्डोपासनया एतत्सदसत्कार्यकारणात्मकं जगन्मयि स्थिते बिम्बभूते ब्रह्माणि पूर्णे हरौ तत्सृष्टं, तत्पालितं, संहृतं चेति पश्ये । कथम्भूतं ? स्वमायया स्वेच्छया मदनुग्रहाभिमुख्या अत्र स्थीयतामिति कल्पितं संकल्पितमित्यन्वयः । ब्रह्मण्यध्यस्तं जगत्पश्य इत्यङ्गीकारे मिथ्याज्ञानित्वं प्रसज्जते । नहि शुक्त्यध्यस्तरजतं पश्यन् यथार्थज्ञानी भवति, किन्तु नेदं रजतं शुक्तिरेवैषेति पश्यन् । तथा नेदं जगत्किन्तु ब्रह्मैवेति । न चात्र तथेत्यलमिति ॥२७॥

प्रकाशिका

तां मतिमेव विशिनष्टि- तस्मिंस्तदेति ॥ अस्खलिताऽप्रतिहता । अभव-दित्यनुषज्ज्यते । द्वितीयार्धे मयि ब्रह्मणि मदात्मिके ब्रह्मणि । स्वमायया स्वाविद्यया । कल्पित-मारोपितमेतज् जगत्पश्य इत्यन्यथाप्रतीतिवारणाय स्थित इत्यध्याहृत्य योजनां दर्शयति- मयि स्थित इति ॥ स्वमाययेत्यस्य तात्पर्यम्- ईश्वरेच्छयेति ॥ अत्र ब्रह्मणि । तदाश्रितत्वेनेति यावत् । स्थीयतां स्थितिः क्रियताम् । इतिशब्दः प्रकारवचनः । तथा चैवं प्रकारया स्वेच्छयेत्यर्थः । कल्पितं समर्पितम् । स्थापितमिति यावत् । अन्यथाप्रतीतिस्तु उक्तवक्ष्यमाणप्रमाणविरुद्धत्वादुपेक्षणीया । ततश्चायमर्थः । यथाऽस्खलितया मत्याऽहं सदसत्कार्यकारणात्मकमेतज्जगन्मयि स्थिते मन्नियामके ब्रह्मणि स्वमायया स्वेच्छयेदमत्र तिष्ठन्त्विति स्वेच्छया कल्पितं स्थापितं पश्ये विषयीकरोमि । तेषां सेवादिना मन्नियामके ब्रह्मणीदमत्र सुखेन तिष्ठत्विति स्वेच्छयैवाखिलं जगत्स्थापितमित्यर्थविषयाऽचला मतिर्मम जातेत्याशयः

॥ २७ ॥

इत्थं शरत्प्रावृषिकावृत् हरेर्विश्रुण्वतो मेऽनुसवं यशोऽमलम् ।

सङ्कीर्त्यमानं मुनिभिर्महात्मभिर्भक्तिः प्रवृत्ताऽऽत्मरजस्तमोपहा ॥ २८ ॥

पदरत्नावली

भक्त्युपासनयोरन्योन्यनिमित्तनैमित्तिकभावोऽस्तीत्यभिप्रेत्याह- इत्थमिति ॥ इत्थमुक्तप्रकारेण मुनिभिः सर्वज्ञैर्योगिभिः सम्यक् कीर्त्यमानम् अमलं हरेर्यशो ऽनुसवनं शरत्प्रावृषिकावृद् विशेषेण श्रुण्वतो मम हरौ तदितरविरागवत आत्मनो=मनसो रजोगुणतमोगुणनिमित्तरागाद्यन्यथाज्ञानादि दोषहरा महत्वज्ञानलक्षणा भक्तिः प्रवृत्ताऽभूदित्यन्वयः ॥ २८ ॥

प्रकाशिका

एवं माहात्म्यज्ञानेन सुदृढस्नेहोऽपि मम तत्र जात इत्याह- इत्थमिति ॥ शरत्प्रावृषिकावृद् इति ‘कालाध्वनोरत्यन्तसंयोग’ इति द्वितीया । भक्तिः सुदृढस्नेहः प्रवृत्ता प्रकर्षेण जाता । कथंभूता भक्तिर् आत्मनो मनसो रजो रागादिकं तमो निद्राआलस्यादिकमपहन्तीत्यत्मर-जस्तमोपहा ॥ २८ ॥

तस्यैवं मेऽनुरक्तस्य प्रश्रितस्य हतैनसः ।

श्रद्धधानस्य बालस्य दान्तस्यानुचरस्य च ॥ २९ ॥

ज्ञानं गुह्यतमं यत्तत्साक्षाद्भगवतोदितम् ।

अन्ववोचन् गमिष्यन्तः कृपया दीनवत्सलाः ॥ ३० ॥

पदरत्नावली

ननु सद्गुरूपदेशमन्तरेण केवलं यशःश्रवणेनैव कथं ज्ञानोदय इति चेत्तत्राह- तस्येति ॥ ज्ञायतेऽनेनेति ज्ञानं=शास्त्रम् । भगवतोदितं भगवत्संप्रदायादागतम् अन्ववोचत् समग्रानुग्रह-पूर्वकमुपदिष्टवन्तः । गमिष्यन्तश्चातुर्मास्यव्रतम् ॥

समाप्य तीर्थयात्रां करिष्यन्तः ज्ञानदीनेषु स्निग्धा मयि केवलकृपयैव द्रवीकृतचेतसः योगिनः यत्साक्षाद्भगवता श्रीनारायणेन आदिसृष्टौ चतुर्मुखायोपदिष्टं,अहञ्च येन ज्ञानेनैव नान्येन कर्मादिना वेधसः सर्वकर्तुर् वासुदेवस्य भगवतः मायानुभावं माहात्म्यविस्तारम् अविदम् अज्ञासिषम् । येन ज्ञानेन योगिनस् तस्य वासुदेवस्य पदं स्वरूपं वैकुण्ठं वा गच्छन्ति जानन्ति प्राप्नुवन्वि वा । तज् ज्ञानमेवमनुरक्तस्य हरौ भक्तियुक्तस्य प्रश्रितस्य विनयगुणसम्पन्नस्य हतैनसः निष्पापस्य श्रद्दधानस्य गुरुषु देवे गुरुवचने च आस्तिक्यबुध्युपेतस्य बालस्य अणुपरिमाणोपेतस्य दान्तस्य निगृहीतेन्द्रियस्य अनुचरस्य सदा शुश्रूषार्थमनुवर्तमानस्य तस्य मे मम अन्ववोचन् । यथात्मयोग्यमुपादिशन्निति एकान्वयः

॥ २९,३० ॥

प्रकाशिका

गुरुप्रसादाभावे कथं श्रवणमात्रेणाभिमतज्ञानोदय इत्यत आह- तस्यैवमिति ॥ हतैनसो गतपापस्य । ज्ञायतेऽनेनेति ज्ञानं शास्त्रम् । भगवतोदितं भगवत्सम्प्रदायागतम् । गमिष्यन्तश् चातुर्मास्यसमाप्त्यनन्तरमिति शेषः । अन्ववोचन् समग्रानुग्रहपूर्वकमुपदिष्टवन्तः ॥ २९,३० ॥

येनैवाहं भगवतो वासुदेवस्य वेधसः ।

मायानुभावमविदं तेन गच्छन्ति तत्पदम् ॥ ३१ ॥

पदरत्नावली

ननु यत्संसारदुःखनिवर्तकं तदेवावश्यकं ग्राह्यम् । तदस्य कथम् । येन गच्छन्तीत्युक्तेः स्तुतित्वसम्भवादिति तत्रह- एतदिति ॥ ३१ ॥

प्रकाशिका

तदुपदिष्टेन शास्त्रेण किं त्वया लब्धमित्यत आह- येनैवेति ॥ वेधसः सर्वजगत्कर्तुर्मायानुभावमिच्छासामर्थ्यम् । अविदं ज्ञातवानस्मि । येन ज्ञानेन तत्पदं हरिस्थानं गच्छन्ति । ज्ञानिन इति शेषः ॥ ३१ ॥

एतत्संसूचितं ब्रह्मन् तापत्रयचिकित्सितम् ।

यदीश्वरे भगवति कर्म ब्रह्मणि भावितम् ॥ ३२ ॥

पदरत्नावली

ब्रह्मन् सर्वगुणपूर्ण, एतन्मयोक्तं ज्ञानं तापत्रयात्मकसंसारनिवर्तकौषधं समीचीनं सूचितं, लोकस्येति शेषः । तस्मादेतादृशं ज्ञानमेवापाद्यमिति भावः । तर्हि कर्मकरणं व्यर्थमिति तत्राह- यदीति ॥ यद् यायजूकैः क्रियमाणमग्रिष्टोमादि कर्म तदपि यदि ब्रह्मणि अपरिच्छिन्नगुणे ईश्वरे ईशादपि वरे हरौ भावितमर्पितं तर्हि ज्ञानमुत्पद्यते तेन तापत्रयचिकित्सितं भवति । एतदुक्तं भवति । ब्रह्मार्पणबुद्ध्या क्रियमाणेन कर्मणा शुद्धान्तःकरणस्य विषयविरक्तिद्वारा भगवति तीव्रता भक्त्या जनितापरोक्षज्ञानेन तापत्रयात्मकः संसारो निवर्तत इति । यद् ब्रह्मणि भावितं कर्म तदेतत्तापत्रय-चिकित्सितं संसूचितमित्येकान्वयो वा ॥ ३२ ॥

प्रकाशिका

तर्हि कर्मकरणं व्यर्थमित्याशङ्कायां ज्ञानसाधनतया तदप्यावश्यकमित्याशयेन कर्मरहस्यमपि तैरुपदिष्टमित्याह- एतदिति ॥ यदीश्वरे भगवति ब्रह्मणि भावितं समर्पितं कर्म एतत् । तापत्रयस्याध्यात्मिकादेश्चिकित्सितं भेषजम् । संसारनिवर्तकमिति यावत् । इतिशब्दोऽध्याहार्यः । इति तैः संसूचितमुपदिष्टमित्यर्थः ॥ ३२ ॥

आमयोऽयं च भूतानां जायते येन सुव्रत ।

तदेव ह्यामयद्रव्यं तत्पुनाति चिकित्सितम् ॥ ३३ ॥

एवं नृणां क्रियायोगाः सर्वे संसृतिहेतवः ।

त एवात्मविनाशाय कल्पन्ते कल्पिताः परे ॥ ३४ ॥

पदरत्नावली

ननु कर्मणां बन्धकस्वभावत्वात् कथं तापत्रयभैषज्यमिति तत्राह- आमय इति ॥ सुखमेव वृत्तं येन स तथा, तस्य संबुद्धिर् हे सुव्रत सत्यसङ्कल्पत्वादिव्रतोपेतेति वा । येन द्रव्येण भूतानामयमामयः श्लेष्माद्यात्मकः जायते तदेवामयकारणं द्रव्यं चिकित्सितमौषधीकृतं तद्रोगलक्षणं पुनाति=परिहरति हि । तदिदमनुभवसिद्धमिति ‘हि’शब्दार्थः । ‘एव’कारस्तु तस्य प्राधान्यद्योतनार्थः, न तु द्रव्यान्तरनिषेधार्थः । कुत औषधीकरणाय द्रव्यान्तरसंयोगदर्शनात् । ‘च’शब्द उपमार्थस्तद्यथा । एवं नृणां संसारिणां क्रियालक्षणयोगा उपायाः संसारहेतवस् त एव क्रिया योगाः परे पूर्णे ब्रह्मणि कल्पिता=अर्पिता आत्मविनाशस्य अनेकजन्मसंचितदुष्कर्मस्वरूपनाशाय कल्पन्ते । तस्मात्केवलं कर्म बन्धकं, ब्रह्मार्पणेनौषधीकृतं, भक्तिज्ञानद्वारा संसाराख्यरोगनिवर्तकमिति भावः ॥ ३३,३४ ॥

प्रकाशिका

ननु संसारापादकस्य कर्मणः कथं निवर्तकत्वमित्याशङ्कायां सामग्रीभेदादुभयमपि तत्र घटत इति दृष्टान्तमुपपादयति- आमय इति ॥ चशब्दो यथेत्यर्थे । हे सुव्रत जगद्धितोपदेशादि-रूपशोभनव्रतोपेत । भूतानां प्रणिनां येन घृतादिना द्रव्येणायं प्रसिद्ध आमयो रोगो जायते । तदेवामयकरं द्रव्यं तत्तं रोगं चिकित्सितं द्रव्यान्तरसंयोगादिना औषधीकृतं सत्पुनाति परिहरति ॥

हीत्यस्यार्थस्यानुभवसिद्धतामाह- एवमिति ॥ एवं नृणामधिकारिणां क्रियायोगनित्यनैमित्तिकादि-कर्मलक्षणोपायाः कामादियुक्ताः संसृतिहेतवः । आत्मविनाशायात्मनो लिङ्गदेहस्य विनाशाय कल्पन्ते समर्था भवन्ति । कथंभूताः । परे ब्रह्मणि कल्पिताः । समर्पिता इति यावत् ॥ ३३,३४ ॥

यदत्र क्रियते कर्म भगवत्परितोषणम् ।

ज्ञानं यत्तदधीनं हि भक्तियोगसमन्वितम् ॥ ३५ ॥

पदरत्नावली

ज्ञानद्वारा कर्मणो मोचकत्वमाह- यदिति ॥ अत्र कर्मभूमौ भगवदर्पणेन भगवत्परितोषणं यत्कर्म क्रियते जीवैर् यद् भक्तियोगसमन्वितं परोक्षापरोक्षोपपदज्ञानं तज्ज्ञानं, तस्य कर्मणोऽधीनं हि, ‘कर्मणा ज्ञानमातनोति भवति अथामृतानि कर्माणि’इति श्रुतेः । कर्मणा ज्ञानं जायते हि यस्मात्तस्मात्कर्म ज्ञानद्वारा बन्धनिवर्तकमिति भावः । अत्राग्निष्टोमादिकर्मसु यत्कर्म भगव-त्परितोषणमिति वा ॥ ३५ ॥

प्रकाशिका

ब्रह्मण्यर्पिताः क्रियायोगाः किं साक्षादेवात्मविनाशका नेत्याह- यदत्रेति ॥ अत्र कर्मभूमौ भगवतः परितोषणं तुष्टिर्यस्मात्तत्तथा । भगवदर्पणेन तत्प्रीतिजनकमिति यावत् । यत्कर्म क्रियतेऽधिकारिणा । भक्तियोगसमन्वितं यत्ज्ञानं परोक्षं तत्तदधीनम् अन्तःकरणशुद्धिद्वारा तज्जन्यं हि यस्मात्तस्मादात्मविनाशाय कल्प्यन्त इत्यन्वयः ॥ ३५ ॥

कुर्वाणा यत्र कर्माणि भगवच्छिक्षयाऽसकृत् ।

गृणन्ति गुणनामानि कृष्णस्यानुस्मरन्ति च ॥ ३६ ॥

पदरत्नावली

कथंकारं कर्मणा ज्ञानमुत्पद्यते इति तत्राह- कुर्वाणा इति ॥ यत्र यस्य यजमानस्यार्थे यस्मिन्यज्ञे हवनादीनि कर्माणि कुर्वाणा वैदिका ऋत्विगादयः ‘स्मर्तव्यः सततं विष्णुर्विस्मर्तव्यो न जातुचित्’ इति भगवच्छिक्षयाऽसकृन्निरन्तरम् आदिमध्यावसानेषु वा कृष्णस्य गुणान् स्मरन्ति, नामानि च गृणन्ति ॥ ३६ ॥

प्रकाशिका

उक्तरीत्या मोक्षजनकेषु कर्मसु भगवत्प्रीतिरेवोद्देश्येत्यत्र ज्ञापकं शिष्टाचारं दर्शयति- कुर्वाणा इति ॥ यत्र यदा कर्माणि कुर्वाणा भवन्ति । तदेति शेषः । भगवच्छिक्षया । ‘स्मर्तव्यः सततं विष्णुर्विस्मतर्व्यो न जातु चिदि’ति भगवच्छिक्षयाऽसकृदादिमध्यावसानेष्वव्यवधानेन वा गुणप्रतिपादक-नामानि गृणंत्युच्चारयन्ति । यजमानादयः । अनुस्मरन्ति च । नामार्थभूतगुणानिति शेषः । यदि कर्मकरणकाले भगवत्प्रीतिस्तेषामुद्देश्या न स्यात्तर्हि तदा तन्नमोच्चारणादिकं तेषां न स्यात् । वर्तते चैतत्सर्वमतो भगवत्प्रीतिस्तेषामुद्देश्येति ज्ञायत इति भावः ॥ ३६ ॥

ॐ नमो भगवते तुभ्यं वासुदेवाय धीमहि ।

प्रद्युम्नायानिरुद्धाय नमः संकर्षणाय च ॥ ३७ ॥

इति मूर्त्यभिधानेन मन्त्रमूर्तिममूर्तिकम् ।

यजते यज्ञपुरुषं स सम्यग्दर्शनः पुमान् ॥ ३८ ॥

पदरत्नावली

यो यजमानः स्वयं च नित्यमों नमो भगवते तुभ्यम् इत्यादिमूर्त्यभिधानेन मूर्तिवाचकेन मन्त्रेण मन्त्रप्रतिपाद्यमूर्तिम् अमूर्तिकं=प्राकृतवैकृतविग्रहविधुरं वासुदेवादिरूपं यज्ञपुरुषं ‘चत्वारि श्रुङ्गा त्रयो अस्य पादा’इत्यदिऋक्प्रतिपाद्याकारं भगवन्तम् उद्दिश्य यजते स पुमान् यजमानः परोक्षापरोक्षज्ञानवान् भवति । ते च ऋत्विगादयः सम्यग्दर्शनाः समीचीनशास्त्रीयज्ञानाः सर्वज्ञाश्च सम्यञ्चं दर्शयन्ति ज्ञापयन्तीति सम्यग्दर्शनाः, सर्वेषां हरिपरायणत्वात् । ॐ सर्वगुणपूर्ण-सर्वजनरक्षकेति वा । ओमिति अवते रूपम् । भगवते षड्गुणपूर्णाय तुभ्यं नमः । सर्वत्र वसति दीव्यतीति वासुदेवः । बलज्ञानस्वरूपत्वाद्दैत्यनिरसनशीलत्वात् क्रीडाशीलत्वाद्वा । तस्मै धीमहि स्मरेम । प्रकृष्टं द्युम्नं हिरण्य-मिव रूपं यस्य सः प्रद्युम्नः । ‘हिरण्यश्मश्रुर्हिरण्यकेश आप्रणखत्सर्व एव सुवर्ण’ इति श्रुतेः । तस्मै । न केनापि निरुद्ध इत्यनिरुद्धः, अनो=मुख्यप्राणः, सोऽस्यास्तीत्यनी, तेनानिना मुख्यप्राणप्रसादवता पुरुषेण वशीकृत इति वा । अनिरुद्धःसंसारमुक्तास्तान् दधाति धारयति पोषयतीति वा ॥ ३७,३८ ॥

प्रकाशिका

कानि गुणनामानि गृणन्तीत्यपेक्षायां तानि दर्शयन्हरिप्रीत्युद्देश्यककर्मणा न भक्तिसहितपरोक्षज्ञानमेव भवति किं त्वपरोक्षमपि भवतीत्याह- ॐ नम इति ॥ धीमहीत्येकदेशग्रहणेन नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णुः प्रचोदयात्’ इति समग्रा विष्णुगायत्री सङ्गृहीतेति ध्येयम् ॥ इतिशब्दः प्रभृत्यर्थः । मूर्त्यभिधानेन वासुदेवादिमूर्तिप्रतिपादकमभिधानं नाम यस्मिन्मन्त्रजाते तेन । मन्त्रमूर्तिं वासुदेवद्वादशाक्षरादिमन्त्रप्रतिपाद्यमूर्तिर्देहो यस्य तं वासुदेवादिनामानममूर्तिकं जडदेहशून्यं यज्ञपुरुषमृत्विगादिनियामकतया यज्ञनामकं पुरुषं पूर्णषड्गुणं यः पुमान्यजमानो यजते स सम्यग्दर्शनः स्वयोग्यापरोक्षज्ञानी भवति ॥ ३७,३८ ॥

इमं स्वधर्मनियममवेत्य मदनुष्ठितम् ।

अदान्मे ज्ञानमैश्वर्यं स्वस्मिन् भावं च केशवः ॥ ३९ ॥

पदरत्नावली

अनिरस्तमुदाख्यं स्वानुभवसिद्धमिति विज्ञापयति । इममिति ॥ केशवः मदनुष्ठितमिमं स्वधर्मनियममवेत्य ज्ञात्वा ऐश्वरम् ईश्वरविषयं ज्ञानं स्वस्मिन् भावं भक्तिं च मे मह्यम् अदादित्यन्वयः ॥ ३९ ॥

प्रकाशिका

एवं निवृत्तकर्मणा ज्ञानभक्त्यादिकं भवतीत्यत्राप्यहमेव दृष्टान्त इत्याह- इदमिति ॥ ऐश्वर्यमीश्वरविषयं ज्ञानं परोक्षमपरोक्षं च भावं भक्तिम् ॥ ३९ ॥

त्वमप्यदभ्रश्रुत विश्रुतं विभोः समाप्यते येन विदां बुभुत्सितम् ।

प्रख्याहि दुःखैर्मुहुरर्दितात्मनां सङ्क्लेषनिर्वाणमुशन्ति नान्यथा ॥ ४० ॥

तात्पर्यम्

त्वमीश्वरोऽपि ॥ ४० ॥

॥ इति श्रीमद्भागवते पञ्चमोऽध्यायः ॥

पदरत्नावली

इदानीमवतारप्रयोजनालम्बुद्धिकारणविज्ञापनमुपसंहरति- त्वमिति ॥ हे अदभ्रश्रुत श्रोतामन्तेत्यादेः संपूर्णश्रोतृत्वादिगुणसंपन्न, त्वम् ईश्वरोऽपि ऐश्वर्यादिगुणसंपन्नाप्तव्यार्थविधुरोऽपि सज्जनवात्सल्यादेव येन त्वत्कीर्तिग्रन्थकरणेन विदां विदुषां विदन्तीति विदो ज्ञानलाभकामाः, तेषां वा, विचारकाणां वा बुभुत्सितं ज्ञातुमिष्टं समाप्यते संपूर्णं भवति, तादृशं श्रीभागवतलक्षणं विभोः समर्थस्य तव विश्रुतं यशः प्रख्याहि प्रख्यापय कथयेत्यन्वयः । तस्मादन्येषां भागवतकरणशक्त्यभावात्तत्कृतिरेवा-लम्बुद्धिकारणमिति भावः ॥ ४० ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुविरचितायां प्रथमस्कन्धे पञ्चमोऽध्यायः ॥

प्रकाशिका

भगवद्यशोवर्णनेन भवतामिवेश्वरस्य मम न प्राप्तव्यं प्रयोजनमस्त्यतस्तं न करोमीत्यत आह- त्वमपीति ॥ अत्र त्वमपीत्यस्य विवक्षितं दर्शयति- त्वमीश्वरोऽपीति ॥ सर्वनाम्नां बुद्धिस्थवाचकत्वात् । व्यासस्येश्वरत्वं च नारदबुद्धिस्थम् । अत ईश्वरोऽपीति वक्तव्ये त्वमपीत्युक्त-मित्यर्थः । ततश्चायं मूलार्थः- हे अदभ्रश्रुत अदभ्राणामनल्पानां श्रुतं श्रवणं यस्मात् । उत्तमाधिकारिषु कृतोपकारीति यावत् । त्वमपीश्वरोऽपि । अवाप्तव्यशून्योऽपीति यावत् । विभोर् देशतः कालतो गुणतश्च हरेर्विश्रुतं वेदादिप्रसिद्धम् । यश इति शेषः । कथंभूतं यशः । दुःखैर्मुहुरर्दितमनसां विदां मन्दाधिकारिणां बुभुत्सितं बोद्धुमिष्टं येन ग्रन्थेन समाप्यते सम्यग्ज्ञायते । तैरिति शेषः । तं ग्रन्थं प्रख्याहि लोकानां दुःखशांत्यर्थं कृपयैव कृत्वा व्याचक्ष्वेत्यर्थः । अकरणे बाधकमाह- संश्लेशेति ॥ अन्यथा तादृशग्रन्थकरणाभावे । मन्दाधिकारिजन इति शेषः । तव प्रयोजनाभावेऽपि मन्दाधिकारिकृपयैवान्यं हरिमाहात्म्यप्रतिपादकं ग्रन्थं कुर्वित्याशयः ॥ ४० ॥

**॥ इति श्रिमद्भागवते प्रथमस्कन्धे प्रथमाध्यायटिप्पण्यां **

वेदेशतीर्थपूज्यपादशिष्ययदुपतिविरचितायां पञ्चमोऽध्यायः ॥ १-५ ॥