०४ चतुर्थोऽध्यायः

इति ब्रुवाणं संस्तूय मुनीनां दीर्घसत्रिणाम्

अथ चतुर्थोऽध्यायः

इति ब्रुवाणं संस्तूय मुनीनां दीर्घसत्रिणाम् ।

वृद्धः कुलपतिः सूतं बह्वृचः शौनकोऽब्रवीत् ॥ १ ॥

पदरत्नावली

‘सोऽहं वः श्रावयिष्यामि’इति सूतेनोक्तोऽपि शौनकः श्रीभागवतश्रवणे श्रद्धालुत्वदर्शनाय विशेषप्रश्नाय च सूतमाह- इतीति ॥ दीर्घसत्रिणां प्रशस्तं दीर्घकालिनं सत्रमेषा-मस्तीति तेषां मध्ये ज्ञानवयोवृद्ध ऋषिकुलाचाररक्षकः बह्वृच ऋग्वेदेषु निष्णातः शौनक इति ब्रुवाणं सूतं संस्तूय तमब्रवीदित्यन्वयः ॥ १ ॥

प्रकाशिका

मुनीनां मध्ये वृद्धो ज्ञानवयोवृद्धः । कुलपतिर् ऋषिकुलाचाररक्षको, बह्वृच ऋग्वेदी । इदं सर्वं शौनकस्य प्रश्नकरणे प्राधान्योपपादकम् ॥ १ ॥

शौनक उवाच—

सूत सूत महाभाग वद नो वदतां वर ।

कथां भागवतीं पुण्यां यामाह भगवान् शुकः ॥ २ ॥

पदरत्नावली

महाभाग भक्तिभाग्ययुक्त, सूतसूतेति तात्पर्ये द्विरुक्तिः । एकत्र पुण्यकर्मवासनेति वा । शुको भगवान् पूजावान् पुनातीति पुण्यां यां भागवतीं कथाम् आह, परीक्षित इति शेषः, हे वदतां वर तां कथां नोऽस्माकं वदेत्यन्वयः ॥ २ ॥

कस्मिन् युगे प्रवृत्तेयं स्थाने वा केन हेतुना ।

कुतः संचोदितः कृष्णः कृतवान् संहितां मुनिः ॥ ३ ॥

पदरत्नावली

विशेषप्रश्नं दर्शयति- कस्मिन्निति ॥ चतुर्णां युगानां मध्ये कस्मिन्नियं प्रवृत्ता, कस्मिन् वा स्थाने देशे, केन कारणेन, कस्माद्धेतोः संचोदितः कृष्णद्द्वैपायन इमां संहितां कृतवानित्यन्वयः ॥ ३ ॥

प्रकाशिका

वाशब्दः कस्मिन्नित्यनुकर्षार्थः । कुतः केन पुरुषेण । कृष्णो व्यासः ॥ ३ ॥

तस्य पुत्रो महायोगी समदृक् निर्विकल्पकः ।

एकान्तगतिरुन्निद्रो गूढो मूढ इवेयते ॥ ४ ॥

तात्पर्यम्

निर्विकल्पकः मदीयं तदीयमिति भेदमपहाय सर्वमीश्वराधीनमिति विज्ञाय स्थितः ।

साम्यमीश्वररूपेषु सर्वत्र तदधीनताम् । पश्यति ज्ञानसम्पत्त्या विनिद्रो यः स योगवित् ॥ इति ब्राह्मे ॥ ४ ॥

पदरत्नावली

शुकः परिक्षितं श्रावयमासेति त्वद्वचनमनुपपन्नमेव, केनापि श्रीशुकावगमनस्या-सुलभत्वादित्याशयवानाह- तस्येति ॥ तस्य व्यासस्य पुत्रः शुकः महायोगी महाध्यानी वा अत एव सर्वदेशकालवस्तुषु ज्ञानादिसर्वगुणैः समम् एकप्रकारं ब्रह्म पश्यतीति समदृक् । मया श्रिया सह वर्तत इति वा समम् । अत एव निर्विकल्पक इदं मदीयं, तत् तदीयमिति भेदबुद्धिमपहाय सर्वमीश्वराधीनमिति स्थितः । अत एव एक एवान्तस् तस्मिन् हरौ मनसा सन्ततगतिर्यस्य स तथा । अत एवोद्गता निद्रा अज्ञानादिदोषपरंपरा यस्मात्स तथा । भस्मना अवगुंठिताग्निरिव गूढ इव अज्ञ इव, ईयते दृश्यते, जनैरिति शेषः । तस्मात्तद्दर्शनमसुलभमिति मन्य इत्यन्वयः ॥ ४ ॥

प्रकाशिका

स तु संश्रावयामासेति यदुक्तं तदयुक्तमिवाभाति । जनानां तद्दर्शनस्यैवा-सुलभत्वादित्याशयेनाह- तस्य पुत्र इत्यादिना ॥ निर्विकल्पक इत्येतस्य निरस्तभेद इत्यन्यथा-प्रतीतिनिवारणायार्थमाह- निर्विकल्पक इति ॥ भेदमपहाय भेदबुद्धिमपहाय, भगवदितरस्य स्वातन्त्र्यबुद्धिं त्यक्त्वेत्यर्थः । अनेन निर्गतो विकल्प उक्तरूपा भेदबुद्धिर्यस्मात्स निर्विकल्पक इति विग्रहं सूचयति । तर्हि किं सर्वमेकमेवेति ज्ञानवानिति शङ्कायां निर्विकल्पकशब्दार्थबललब्धमर्थं दर्शयति- सर्वमीश्वराधीनमिति ॥ स्थितो दृढनिश्चयवान् । मूले योगीत्यनूद्य समदृक्त्वादिकं विधीयत इति भाति तदयुक्तम् । योगस्य समदृक्त्वाद्यपेक्षया पूर्वकालीनत्वासम्भवात् । अतः समदृक्त्वाद्यनुवादेन योगित्वमेव विधेयमित्याशयेन समाख्याप्रमाणं पठति- साम्यमीश्वररूपेष्विति ॥ अनेन समदृगित्येतस्य तात्पर्य-मुक्तम् । तेन समं सर्वरूपेष्वेकप्रकारं ब्रह्म पश्यतीति समदृगिति व्याख्यानं सूचयति निर्विकल्पक-शब्दार्थल्लब्धमर्थं दर्शयति- सर्वत्रेति ॥ सर्वस्य जगत इत्यर्थः । एकान्तगतिरित्यस्य तात्पर्यम्- ज्ञानसम्पत्त्येति ॥ अनेनान्ते तारतम्यान्त एको मुख्य इत्येकान्तो भगवांस्तस्य गतिर्ज्ञानं यस्य स तथोक्त इति व्याख्यानं सूचयति । उन्निद्र इत्यस्यार्थः- विनिद्र इति ॥ तथा चोद्गता निद्राऽज्ञानं यस्मादिति व्याख्येयमिति भावः । अत्रैकान्तगतिरित्यस्य हेतुत्वमित्याशयेन ज्ञानसम्पत्त्येति तृतीयानिर्देशः । योगीत्यस्य तात्पर्यम्- योगविदिति ॥ विद्ृ लाभे योगवानित्यर्थः । यः स इत्युक्त्या मूले यत्तच्छब्दयोरध्याहारं सूचयति । ततश्चायं श्लोकार्थः । यस्तस्य व्यासस्य पुत्रः समदृक्त्वादिगुणकः । गूढोऽप्रकटः । मूढ इव भ्रान्त इवेयते ज्ञायते । लोकैरिति शेषः । अत एव स महायोगीतर-पूज्यभक्त्यादियोगसम्पूर्णः ॥ ४ ॥

कथमालक्षितः पौरैः संप्राप्तः कुरुजाङ्गलम् ।

उन्मत्तमूकजडवद्विचरन् गजसाह्वये ॥ ५ ॥

पदरत्नावली

कुरुजाङ्गलं कुरुविषयं प्राप्तः गजसाह्वये हस्तिनपुरे क्वचिदुन्मत्तवत् क्वचिन्मूकवत् क्वचिज्जडवद्विचरन् मुनिः पुरवासिभिः कथमालक्षितः, शुकत्वेनेति शेषः । पौरैरपि तज्ज्ञानं दुःशकं, किं पुनरन्तःपुरवासिभिः ॥ ५ ॥

प्रकाशिका

स कथं पौरैरालक्षितः शुकत्वेन ज्ञातः । पौराणामपि तद्दर्शनं न सुलभं किंम्वतस्थस्य राज्ञ इति भावः । ननु शुकस्य तस्मिन्देशे पुरे वाऽभावादेव पौराणामदर्शनमित्यत उक्तम् । कुरुजाङ्गलं सम्प्राप्तः प्रथमम् । पश्चाद्गजसाह्वये विचरन्निति । कुरवो जाङ्गलाश्च देशविशेषाः । गजेन समान आह्वयो नाम यस्य तस्मिन्हस्तिनामके पुर इत्यर्थः । हस्तिनाम्ना राज्ञा इदं पुरं निर्माय स्वनाम तस्य दत्तमतस्तद्धस्तिनपुरनामकं जातमित्याहुः । मूढ इवोत्युक्तं विशदयति- उन्मत्तेति ॥ ५ ॥

कथं वा पाण्डवेयस्य राजर्षेर्मुनिना सह ।

संवादः समभूत्तात यत्रैषा सात्वती श्रुतिः ॥ ६ ॥

पदरत्नावली

किंच परीक्षितस् तद्दर्शनानन्तरकालीनस्तेन सह संवादः सुतरामसुलभ इत्याशय-वानाह- कथमिति ॥ यत्र ययोः संवादे सात्वतो हरिस् तत्संबन्धिनी श्रुतिर्वर्तते तादृशः संवादः पाण्डवेयस्य राजर्षेः परीक्षितस् तेन मुनिना सह कथं वा समभूत् । न कथमपि घटत इत्येकान्वयः॥६॥

प्रकाशिका

एवं तद्दर्शनमेव दुर्लभं तेन सह संवादस्तु सुतरां दुर्लभ इत्याह- कथं वेति ॥ वाशब्दः कैमुत्यसूचकः । यत्र यस्मिन्संवादे सात्त्वतो हरिस्तत्सम्बन्धिनी श्रुतिः संहिता । प्रवृत्तेति शेषः

॥ ६ ॥

स गोदोहनमात्रं हि गृहेषु गृहमेधिनाम् ।

अवेक्षते महाभागस्तीर्थीकुर्वंस्तदाश्रमम् ॥ ७ ॥

पदरत्नावली

इतोऽपि तस्य तेन सह संवादो दुर्घट इत्याशयवानाह- स इति ॥ तदाश्रमं तेषां गृहस्थानां सतां गृहं तीर्थीकुर्वन् स्वपादक्रमणेन स महाभागः शुकः गृहमेधिनां गृहं गत्वा पाणिभिक्षामाचरन् गोदोहनमात्रं ततो नाधिकम् अवाङ्मुखतया ईक्षमाणस् तिष्ठति, ततः परमन्यतो याति हि यस्मात्तस्मात् तद्दर्शनमसुलभमित्येकान्वयः ॥ ७ ॥

प्रकाशिका

पुराणकथनमेकत्र बहुकालावस्थानसाध्यं तस्य त्वेकत्रावस्थानं दुर्लभमित्याह- स इति ॥ गोदोहनमात्रं गोदोहनपरिमितं कालमवेक्षते । भिक्षानयनमिति शेषः । गृहमेधिनां गृहस्थाश्रमोचितयज्ञवताम् । अवेक्षणमपि न स्वार्थं किन्तु तेषामाश्रमं गृहं तीर्थीकुर्वन्स्वावस्थानेन पवित्रीकुर्वन् । तस्मादेवंभूतः पुराणं श्रावयामासेत्यसम्भावितमिति भावः ॥ ७ ॥

अभिमन्युसुतं सूत प्राहुर्भागवतोत्तमम् ।

तस्य जन्म महाश्चर्यं कर्माणि च गृणीहि नः ॥ ८ ॥

पदरत्नावली

किंच हे सूत प्राज्ञा अभिमन्युसुतं परीक्षितं भागवतश्रेष्ठं प्राहुः, ततः किमिति तत्राह- तस्येति ॥ तस्य परीक्षितः महाश्चर्यं, श्रोतृणामिति शेषः । जन्म कलिबन्धनादीनि कर्मारि च अस्माकं गृणीहीत्यन्वयः ॥ ८ ॥

प्रकाशिका

एवं वक्तुः शुकस्य पुराणकथनमसम्भावितमित्युपपाद्येदानीं श्रेतुः परीक्षितः प्रायोपविष्टं गङ्गायामिति यत्प्रायोपवेशनमुक्तं तत्किंनिमित्तमिति प्रष्टुं तावदादौ परीक्षित्कथाश्रवण-स्यावश्यकत्वमुपपादंयस्तत्कथाकथनं प्रार्थयते- अभिमन्युसुतमिति ॥ यस्मादभिमन्युसुतं परीक्षितं ज्ञानिनो भागवतोत्तमं प्राहुस्तस्मात्तस्य जन्मादि गृणीहि कथय । आश्चर्यं जननकाले ब्रह्मास्त्रेण हतोऽपीश्वरेण जीवितोऽत आश्चर्यकरमित्यर्थः । कर्माणि कलिबन्धनादीनि ॥ ८ ॥

स सम्राट् कस्य वा हेतोः पाण्डूनां मानवर्धनः ।

प्रायोपविष्टो गङ्गायामनादृत्याधिराट्श्रियम् ॥ ९ ॥

पदरत्नावली

तस्य वैराग्यहेतुं पृच्छति- स सम्राडिति ॥ पाण्डवानामभिमानवर्धनः सः साम्राट् अप्रतिहताज्ञश्चक्रवर्ती कस्य वा हेतोरधिराट्श्रियं चक्रवर्तिपदलक्ष्मीमनादृत्य तृणवत्कृत्वा गंगायां प्रायोपविष्टोऽभूदित्यन्वयः ॥ ९ ॥

प्रकाशिका

सम्राट् चक्रवर्ती । वेति वितर्के । मानं मर्यादां वर्धयतीति मानवर्धनः । अधिराज्ञां चक्रवर्तिनां श्रियं सम्पदम् । अधिराट् श्रियं दर्शयन् ॥ ९ ॥

नमन्ति यत्पादनिकेतमात्मनः शिवाय चानीय धनानि शत्रवः ।

कथं स धीरः श्रियमङ्ग दुस्त्यजामियेष चोत्स्नष्टुमहो सहासुभिः ॥ १० ॥

पदरत्नावली

एवंविधश्रीसंत्यागे महता कारणेन भवितव्यं, तत्किमित्याशंकत इत्याह- नमन्तीति ॥ शत्रवः मण्डलपतयः, आत्मनः शिवाय स्वकल्याणाय धनानि चानीय यस्य परीक्षितः पादयोर्निकेतं पीठाख्यस्थानं नमन्तीत्यन्वयः । अङ्ग सूत स धीरो ऽसुभिः सह दुस्त्यजां श्रियम् अधिराज्यसंज्ञाम् उत्स्रष्टुं हातुम् इयेष ऐच्छद् अहो आश्चर्यमेतत् । अतो महता हेतुना भवितव्यं, तत्किमिति भावः ॥ १० ॥

प्रकाशिका

एतदेव पुच्छति- नमन्तीति ॥ पादनिकेतं पादपीठम् । आत्मनः शिवाय स्वकल्याणाय । शत्रवः शत्रुभूतराजानः । हे अङ्ग । श्रियमसुभिः प्राणैः सहोत्सृष्टुं हातुमियेषैच्छत् । अहो आश्चर्यमेतत् । एतादृशश्रीपरित्यागे महता कारणेन भाव्यं, तत्किमित्याशयः ॥ १० ॥

शिवाय लोकस्य भवाय भूतये य उत्तमश्लोकपरायणा जनाः ।

जीवन्ति नात्मार्थमसौ परां श्रियं मुमोच निर्विद्य कुतः कलेवरम् ॥ ११ ॥

पदरत्नावली

पुनरपि तदेव पृच्छति- शिवस्येति ॥ ये उत्तमश्लोकपरायणा जनास् ते लोकस्य शिवादिप्राप्तये जीवन्ति । न स्वार्थं जीवन्तीत्यन्वयः । तस्मात्परार्थैकजीवनोऽसौ कस्मात्कारणात् परामुत्कृष्टां श्रियं निर्विद्य विरज्य कलेवरं देहं मुमोचेत्यन्वयः ॥ ११ ॥

प्रकाशिका

हरौ स्नेहातिशयेन तुच्छीकृतविषयाणां किमुक्तसम्पत्त्या प्रयोजनमित्यत आह- शिवायेति ॥ शिवाय सुखाय । भवाय समृद्ध्यै । भूतये ऐश्वर्याय । उत्तमश्लोको हरिः स एव परायण उत्तमाश्रयो येषां ते तथोक्ता हरिभक्ताः । विरक्ता इति यावत् । परां श्रियं परोपकारार्थं श्रियं कलेवरं च निर्विद्यापि कुतो मुमोच । परोपकाराय विरक्तेनापि तेन स्वराज्ये तथैव स्थातव्यमिति भावः ॥११॥

तत्सर्वं नः समाचक्ष्व पृष्टो यदिह किञ्चिन ।

मन्ये त्वां विषये वाचां स्नातमन्यत्र छान्दसात् ॥ १२ ॥

पदरत्नावली

इहास्यामवस्थायां प्रश्नराशौ वा, यत् किंचनप्रश्नरूपं पृष्टस्त्वं तत्सर्वं किञ्च-नेत्यनुर्वरीकृत्य सम्यगाचक्ष्व । कुतः ? छान्दसाद्वेदविषयादन्यत्र पुराणादौ, वाचां विषये स्नातं निष्णातं मन्य इति यस्मात्तस्मादित्यन्वयः ॥ १२ ॥

प्रकाशिका

वक्तुं तव सामर्थ्यमस्तीत्याह- मन्य इति ॥ छान्दसाद्वेदविषयात् । अन्यत्र वाचां पुराणानां विषये स्नातं पारङ्गतम् । सूतस्यात्रैवर्णिकत्वात् । छान्दसादन्यत्रेत्युक्तम् ॥ १२ ॥

सूत उवाच—

द्वापरे समनुप्राप्ते तृतीये युगपर्यये ।

जातः पराशराद्योगी वासव्यां कलया हरेः ॥ १३ ॥

तात्पर्यम्

तृतीये द्वापरे युगे पर्यवसानं प्राप्ते सति ॥ १३ ॥

पदरत्नावली

कस्मिन् युगे इति प्रश्नं परिहरति- द्वापर इति ॥ कृतयुगापेक्षया तृतीये द्वापरे युगे युगपर्यये युगपर्यवसाने समनुप्राप्ते सति हरेः कलयांशेन पराशरात् पराकृतः शरो हिंसा येना स तथोक्त, तस्माद् वासव्यां वसोरुपरिचरस्य पुत्र्यां सत्यवत्यां योगी नित्यज्ञानी नाम्ना व्यासो जातोऽवतीर्णः । अतो द्वापरे युगपर्यवसाने भागवतप्रवृत्तिरिति भावः ॥ १३ ॥

प्रकाशिका

कस्मिन्युग इत्यादिप्रश्नानां व्यासजन्मकथनपूर्वकमुत्तरमाह- द्वापर इति ॥ अत्र तृतीये इत्यस्य युगपर्यय इत्यनेनान्वयभ्रान्तिं वारयन्युगपर्यय इत्यत्र विवक्षितं छेदं दर्शयति- तृतीय इति ॥ तथा च तृतीये कृतयुगापेक्षया तृतीये द्वापर इत्येवान्वय इति भावः । युगे इति छेदप्रदर्शनेन युगशब्दे विद्यमानायाः सप्तम्याः सुपां सुलुगितीत्यादिना लोप इति सूचयति । पर्ययशब्दार्थं वदंस्तस्यान्वयं सूचयति- पर्यवसानं प्राप्ते सतीति ॥ अनेन पर्यये पर्यवसाने समनुप्राप्ते सतीत्यन्वयः सूचित इति ज्ञातव्यम् । तथा चायमर्थः । तृतीये द्वापरे युगे तृतीयस्य द्वापरस्य युगस्य पर्यवसाने द्वापरान्ते प्राप्ते सति वासव्यां वसुवीर्यजातायां सत्यवत्यां हरेः कलया स्वरूपांशेन योगी व्यासो जातः प्रादुर्भूत इति

॥ १३ ॥

स कदाचित्सरस्वत्या उपस्पृश्य जलं शुचिः ।

विविक्त एक आसीन उदिते रविमण्डले ॥ १४ ॥

तात्पर्यम्

नित्यज्ञानस्य चिद्दृष्टिर्लोकदृष्ट्यपेक्षया ।

**सर्वज्ञोप्यज्ञवद्देवः सर्वशक्तिरशक्तिवत् । प्रत्याययति लोकानामज्ञानं मोहनाय च ॥ इति कौर्मे **

॥ १४ ॥

पदरत्नावली

अवतारप्रयोजनमाह- स कदाचिदिति ॥ स व्यासो भगवान् शुचिः शुद्धः, कदाचित्सरस्वत्या नद्या जलम् उपस्पृश्य सन्ध्याक्रियादिकं निर्वर्त्य, पश्चाद्रविमण्डले उदिते सति तत्तटे विविक्ते एकान्ते स्वाश्रम एवासीन एकाकी ॥ १४ ॥

प्रकाशिका

सरस्वत्या नद्या जलमुपस्पृश्य तत्र स्नानादिकं कृत्वेत्यर्थः । विविक्ते देशे आसीनो बभूव । रविमण्डले उदिते सतीति कालविशेषोक्तिः ॥ १४ ॥

परावरज्ञः स ऋषिः कालेनाव्यक्तरंहसा ।

युगधर्मव्यतिकरं प्राप्तं भुवि युगे युगे ॥ १५ ॥

भौतिकानां च भावानां शक्तिह्रासं च तत्कृतम् ।

अश्रद्दधानान्निःसत्वान् दुर्मेधान् ह्रसितायुषः ॥ १६ ॥

दुर्भगांश्च जनान्वीक्ष्य मुनिर्दिव्येन चक्षुषा ।

सर्ववर्णाश्रमाणां यद्दध्यौ चिरममोघदृक् ॥ १७ ॥

पदरत्नावली

परावरज्ञः कालत्रयज्ञानी स= सर्वतः सारः, सर्वोत्तम ऋषिर् ऋषिकुलाव-तीर्णः । परावरज्ञत्वे हेतुर्वा । त्रिकालदर्शित्वादिति । अव्यक्तरंहसा अनभिव्यक्तवेगेन । भुवि युगे युगे प्राप्तं युगधर्मव्यतिकरं युगधर्मसांकर्यं तथा तत्कृतं कालकृतं, भौतिकानां भूतकार्याणां भावानां पदार्थानां शक्तिह्रासं चात एव जानांश्चाश्रद्दधानान् तात्पर्यशून्यान्निःसत्वान्निरुत्साहान्, दुष्टा मेधा येषां ते दुर्मेधास्तान् धारणाशक्तिशून्यान् वा । ‘एध’शब्दवदयमप्यकारान्तः । ह्रसितायुषो ऽल्पायुषः दुष्टभाग्यान्वीक्ष्य मुनिर्मौनवान् दिव्येन चक्षुषा अपरोक्षज्ञानेन सर्ववर्णाश्रमाणां यद्धितं तच्चिरं दध्यौ चिन्तितवानित्येकान्वयः । सर्वज्ञस्य चिरध्यानमज्ञदृष्ट्यपेक्षया दुष्टमोहनाय चेति ज्ञातव्यम् । अमोघदृक् अवन्ध्यज्ञानः ॥ १५,१६,१७ ॥

प्रकाशिका

परावरज्ञः परापरतत्त्वज्ञोऽव्यक्तरहंसाऽनभिव्यक्तवेगेन । भुवि युगे युगे प्राप्तं युगधर्मव्यतिकरं सङ्करम् ॥

भौतिकानां भूतकार्याणां भावानां शरीरादिपदार्थानाम् । तत्कृतं युगधर्मव्यतिकरकालाभ्यां कृतम् । अत एव जनांश्चाश्रद्दधानान् आस्तिक्यबुद्धिशून्यान्निस्सत्त्वान्साधुभावशून्यान्दुर्मेधान्धारणाशक्तिशून्यान् दुष्टप्रज्ञानिति वा । दुर्भगान्दुष्टभाग्यान् । अभाग्यानिति वा । मुनिर्व्यासो दिव्येन चक्षुषा ज्ञानदृष्ट्या सर्ववर्णाश्रमवतां यत् हितमिति शेषः । तच्चिरं दध्यौ चिन्तितवान् । अमोघदृगबाध्यज्ञानः । अत्र नित्यज्ञाने व्यासे कादाचित्कज्ञानदृष्ट्या चिन्तनं बाधितमतोऽत्र तात्पर्यं प्रमाणेनैव दर्शयति- नित्यज्ञानस्येति ॥ व्यासादिरूपस्य हरेरिति शेषः । कादाचित्कज्ञानदृष्ट्युक्तिर्लोकदृष्टिव्यपेक्षया लोकदर्शनमाश्रित्येत्यर्थः । ननु कुत एवमविद्यमानं दर्शयति भगवानित्यत आह- सर्वज्ञोऽपीति ॥ अप्यर्थस्य चशब्दस्य सर्वशक्तिरपीति सम्बन्धः । अज्ञानां लोकानामिति सम्बन्धः । सतामधिकपुण्य-ह्रासायेत्यनुक्तसमुच्चयार्थो वा चशब्दः ॥ १५,१६,१७ ॥

चातुर्होत्रं कर्मशुद्धं(शुद्धिं) प्रजानां वीक्ष्य वैदिकम् ।

व्यदधाद्यज्ञसन्तत्यै वेदमेकं चतुर्विधम् ॥ १८ ॥

पदरत्नावली

एवं विचिन्त्य किं हितमपश्यदिति तत्राह- चातुर्होत्रमिति ॥ चत्वारो होतारो होत्रध्वर्यूद्गातृब्रह्माणो यस्मिंस्तत्तथोक्तम् । दशहोत्रादिचातुर्होत्रपर्यन्तैर्मन्त्रैः प्रकाश्यं वा अग्निष्टोमादिकं कर्म । प्रजानां वैदिकानां शुद्धिं शुद्धिकरं, रागादिप्रयुक्तिवर्जितं वा वीक्ष्य यज्ञसन्तत्यै अग्निष्टोमादि-यज्ञपरंपराप्रवर्तनाय एकमविभक्तं वेदम् ऋगादिभेदेन चतुर्विधं व्यदधादित्येकान्वयः । आदिमध्यावसानेषु हरिस्मृत्या तत्पूजात्वेन क्रियमाणं कर्म प्रजानां ज्ञानद्वारा शुद्धिकरमपश्यदिति भावः ॥ १८ ॥

प्रकाशिका

यद्धितमपश्यदित्युक्तं तद्दर्शयति- चातुर्होत्रमिति ॥ अत्र होतृ- पदमृत्विगुप-लक्षकम् । चत्वारो होत्रध्वर्यूद्गातृब्रह्मसंज्ञा ऋत्विजश् चतुर्होतारस्तैरनुष्ठेयं कर्म चातुर्होत्रम् । शुद्धं समग्राङ्गोपेतम् । वैदिकं मूलवेदोक्तम् अग्निष्टोमादिकं कर्म प्रजानां कर्तुमशक्यं वीक्ष्य यज्ञसन्तत्यै यज्ञपरम्पराप्रवर्तनायैकमेकत्वेन विज्ञातं वेदं प्रागेव चतुर्धा विभक्तं वेदराशिं तदुक्तं कर्म च चतुर्विधं व्यधदात् । ‘‘सर्वकर्मकृतौ यस्मादशक्ताः सर्वजन्तवः । शाखाभेदं कर्मभेदं व्यासस्तस्मादचीक्लृपत्’’ ॥ इति वचनात् ॥ १८ ॥

ऋग्यजुःसामाथर्वाख्या वेदाश्चत्वार उद्धृताः ।

इतिहासपुराणं च पञ्चमो वेद उच्यते ॥ १९ ॥

पदरत्नावली

कथं विभक्ता इति तत्राह- ऋगिति ॥ वेदव्यासेन मूलवेदसमुद्राद् ऋग्यजुः-सामाथर्वाख्याश्चत्वारो वेदा उद्धृता न तु कृताः । तदर्थज्ञानाय कृतम् इतिहासपुराणं च वेदार्थवेदकत्वात्पञ्चमो वेद इत्युच्यत ‘पञ्चमो वेद’इत्युक्तेः । इतिहासादीनां शब्दतो रचनं, न त्वर्थतस् तस्य नित्यत्वादिति ज्ञातव्यम् ॥ १९ ॥

प्रकाशिका

वेदचातुर्विध्ये प्रदर्शिते तदुक्तं कर्मचातुर्विध्यं स्वयमेव सिद्ध्यतीत्याशयेन वेदचातुर्विध्यमेव दर्शयति- ऋग्यजुरिति ॥ प्रागेव विभक्तेभ्यो ऋगादिमूलवेदेभ्यो ऋगादिसंज्ञकाश्चत्वार उपवेदा उद्धृताः पृथक् प्रदर्शिता न तु कृताः । तदर्थनिर्णयायेतिहासपुराणं चोद्धृतं कृतम् । नन्वितिहासपुराणस्य पौरुषेयस्य कथं प्रामाण्यनिश्चय इत्यत उक्तम् । पञ्चमो वेद उच्यत इति ॥ ‘इतिहासपुराणः पञ्चमो वेदानां वेद’ इति श्रुताविति शेषः । तथा चेतिहासपुराणस्य वेदसमानतयोक्त-त्वान्न तत्राप्रामाण्यशङ्का युक्तेति भावः ॥ १९ ॥

तत्रर्ग्वेदधरः पैलः सामगो जैमिनिः कविः ।

वैशंपायन एवैको निष्णातो यजुषां ततः ॥ २० ॥

पदरत्नावली

तत्र तेषां वेदानां मध्ये ऋग्वेदप्रवर्तकः पैलोऽभूदिति प्रत्येकमन्वयः । जिमिनस्यापत्यं जैमिनिः । साम गायति शिष्येषु गमयति प्रवर्तयतीति वा सामगः । कविः सूक्ष्यज्ञानी । ततो जैमिनेरनन्तरम् एकः प्रधानः वैशंपायन एव यजुर्वेदानां निष्णातः । प्रवर्तकतयेति शेषः । एवशब्देन सूर्यादन्यः प्रतिषिध्यते, न तु सूर्यस् तथा सति वक्ष्यमाणविरोधात् ॥ २० ॥

प्रकाशिका

ऋग्वेदादीनां प्रवर्तकान्व्यासशिष्यान्दर्शयति- तत्रेति ॥ तत्र तेषां मध्ये ऋग्वेदधरो ऋग्वेदप्रवर्तकः । साम गमयति प्रवर्तयतीति सामगः । एको मुख्यो निष्णातः पारङ्गतः । ततस्तदनन्तरं सूर्यादयोऽन्येऽपि निष्णाता इति शेषः ॥ २० ॥

अथर्वाङ्गीरसामासीत्सुमंतुर्वारुणो मुनिः ।

इतिहासपुराणानां पिता मे रोमहर्षणः ॥ २१ ॥

पदरत्नावली

वारुणो वरुणपुत्रः सुमन्तुर्नाम मुनिरथर्वाङ्गिरसां निष्णातो ऽथर्ववेदानां प्रवर्तक आसन् । मे पिता रोमहर्षण इतिहासपुराणानां प्रवर्तकः ॥ २१ ॥

प्रकाशिका

आसीत् । प्रवर्तक इति शेषः । वारुणो वरुणपुत्रः सुमन्तुर्नामतः ॥ २१ ॥

त एव ऋषयो वेदं स्वं स्वं व्यस्यन्ननेकधा ।

शिष्यैः प्रशिष्यैस्तच्छिष्यैर्वेदास्ते शाखिनोऽभवन् ॥ २२ ॥

पदरत्नावली

भगवदाज्ञापूर्वकं चतुर्णां वेदानां शाखोपशाखाभेदेन ऋषिकृतविभागमाह- त एवेति ॥ त एव पैलादय ऋषयः स्वं स्वं वेदमनेकधा व्यस्यन् व्यभजन्नित्यन्वयः । ते वेदाः शिष्य-प्रशिष्यादिभिः शाखिनस् तन्नामपूर्वकशाखावन्तोऽभवन्नित्यन्वयः ॥ २२ ॥

प्रकाशिका

व्यस्यन् व्यभजन् । तच्छिष्येत्यनन्तरं विभक्ता इति शेषः । शाखिनस्तन्नाम-पूर्वकशाखावन्तः ॥ २२ ॥

त एव वेदा दुर्मेधैर्धार्यन्ते पुरुषैर्यथा ।

एवं चकार भगवान् व्यासः कृपणवत्सलः ॥ २३ ॥

पदरत्नावली

व्यासनामनिर्वचनाशयवानाह- त एवेति ॥ दुर्मेधैर् अल्पप्रज्ञैः पुरुषैस् त एव वेदा यथा धार्यन्ते पठिता अवधृतार्थाः क्रियन्ते एवं तथा शिष्यप्रशिष्यादिभिः शाखोपशाखाभेदेन चकार व्यस्यत् । तस्माद् व्यास इति । किमर्थमिति तत्राह- कृपणवत्सलः दीनजनस्निग्धः ॥ २३ ॥

प्रकाशिका

एवं शिष्यप्रशिष्यादिद्वारा व्यास एव वेदविभागं कृतवान् न तेषां तत्र स्वातन्त्र्य-मिति दर्शयन्वेदविभागप्रयोजनमाह- त एवेति ॥ दुर्मेधैरल्पज्ञैः । अनेन वेदान्व्यस्यतीति व्यास इति तन्नामनिर्वचनं सूचितमिति ज्ञातव्यम् । एवं चकार ॥ २३ ॥

स्त्रीशूद्रद्विजबन्धूनां त्रयी न श्रुतिगोचरा ।

कर्मश्रेयसि मूढानां श्रेय एवं भवेदिह ।

इति भारतमाखानं कृपया मुनिना कृतम् ॥ २४ ॥

तात्पर्यम्

भारतं ब्राह्मणादीनां वेदार्थपरिवित्तये । त एव वेदास्त्वन्येषां नर्ते तत्कस्यचित् सुखम् ॥ इति स्कान्दे ॥ २४ ॥

पदरत्नावली

एवं भगवद्भक्तानां त्रैवर्णिकानां वैदिककर्मानुष्ठानेन शुद्धान्तःकरणानामधोक्ष-जोपासनजनितज्ञानेन मुक्तिः स्यादिति व्यासेन स्थापितम् । तदनधिकारिणां स्त्रीशूद्रादीनां हरिभजनं कुत्रोक्तोपायेनेत्याकाङ्क्षायामाह- स्त्रीशूद्रेति ॥ वेदोक्तकर्माख्यश्रेयसि पुरुषार्थसाधने मूढानामत एवा-नधिकारिणां स्त्रीशूद्रद्विजाधमानां त्रयी त्रयो वेदाः श्रोतुं न योग्या इति यस्मादत एवं मया करिष्य-माणभारतादिशास्त्रोक्तविधिना इह जने श्रेयो भवेदिति कृपया मुनिना सर्वज्ञेन व्यासेन भारतमाख्यानं कृतमित्यन्वयः । अत्रैतत्प्रमेयमवगन्तव्यम् । स्त्रीशूद्रादिकृपया भगवता भारताख्यानस्य कृतत्वात्तेषामेव तत्राधिकारो नान्येषामिति शङ्का मा भूत् । ‘इतिहासपुराणाभ्यां वेदं समुपबृंहयेत्’इति वचनाद् ब्राह्मणादीनामपि वेदार्थपरिज्ञानाय भारताद्यभ्यासस्य आवश्यकत्वेनोक्तत्वादुभयत्राधिकारो युज्यते । तेषां स्त्रीशूद्रादीनां तु गत्यन्तराभावात्तदुक्तानुष्ठानेन मुक्तिरिति भावः ॥ २४ ॥

प्रकाशिका

स्वानुगृहीतशिष्यप्रशिष्यादिद्वारा एवं वेदाधिकारिणां त्रैवर्णिकानां श्रेयःसाधन-शुद्धकर्मानुष्ठानसिद्ध्यर्थं वेदविभागं कृत्वा तदनधिकारिणां स्त्रीशूद्रद्विजबन्धूनां श्रेयःसाधनावबोधकं विचिन्त्य कृतमित्याह- स्त्रीशूद्रेति ॥ द्विजान् बन्धून्वदन्ति न स्वयं द्विजा इति द्विजबन्धवः । त्रयी वेदो न श्रुतिगोचरा न श्रवणगोचरा । अतः कर्मणि वेदोक्तयज्ञादिरूपे । श्रेयसि श्रेयःसाधने मूढानां तद्विषयकज्ञानरहितानां श्रेयः श्रेयःसाधनावबोध(क)ः । एवं वक्ष्यमाणप्रकारेण इह स्त्रीशूद्रादिषु भवेदिति विचिन्त्य भारतं भारतादिकं कृतम् । अत्र वेदानधिकारिस्त्रीशूद्राद्यर्थं भारतं कृतमित्युक्त्या ब्राह्मणादीनामत्र नाधिकार इति भाति । अतोऽत्र विवक्षितं तात्पर्यं प्रमाणेनैव दर्शयति- भारतमिति ॥ भारतपदं पुराणादेरुपलक्षकम् । वेदार्थज्ञानाय आवश्यकमिति शेषः । अन्येषां स्त्रीशूद्रादीनां त एव भारतादय एव वेदा वेदस्थानीयाः । श्रेयः साधनावबोधका इति यावत् । तद्भारतादिकमृते कस्यचिन्मोक्षाधिकारिणः सुखं मोक्षो न भवेत् । मूलेऽपि स्त्रीशूद्राद्यर्थमेवेत्यवधारणाभावादेतदेवाभि-प्रेतमिति भावः ॥ २४ ॥

एवं प्रवृत्तस्य सदा भूतानां श्रेयसि द्विजाः ।

सर्वात्मकेनापि यदा नातुष्यत् हृदयं ततः ॥ २५ ॥

पदरत्नावली

केन हेतुना कुतः संचोदित इति प्रश्नं परिहरिष्यन् प्रायः कृतावतारकार्यस्य दुर्जनान् मोहयतो व्यासस्य लोकानुकरणप्रकारमाह- एवमित्यादिना ॥ हे द्विजाः, भूतानां सदा श्रेयसि नित्यमुक्तिसाधने एवं प्रवृत्तस्यापि यदा हृदयं सर्वात्मकेन नातुष्यन् मे मनो ऽवतारप्रयोजनेन सर्वप्रकारेणालमित्यलंबुद्धिं नाप । ततस्तदा ॥ २५ ॥

प्रकाशिका

एवमवतारं तत्प्रयोजनं च संक्षेपतो निरूप्येदानीं भागवतकरणप्रयोजकं तस्य विचारप्रकारं सनिमित्तं दर्शयति- एवमिति ॥ भूतानां प्राणिनां श्रेयसि श्रेयःसाधनप्रदर्शने । हे द्विजाः । सर्वात्मकेनापि सर्वाधिकारिसाधारणेनापि । भारतेनेति शेषः । यदा यस्माद्धृदयं मनो नातुष्यत्ततस्तस्मात् ॥ २५ ॥

नातिप्रसन्नहृदयः सरस्वत्यास्तटे शुचौ ।

वितर्कयन्विविक्तस्य इदं चोवाच धर्मवित् ॥ २६ ॥

तात्पर्यम्

अतोषोऽनलम्बुद्धिः । ‘श्रुत्वा कथां न तुष्यामि हरेरद्भुतकर्मणः’ इति मात्स्ये । अप्रसादश्च स एव । ‘कः प्रसन्नो भवेद् दिव्यां कथां शृण्वन् हरेः पराम्’ इति च ॥ २६ ॥

पदरत्नावली

धर्मज्ञानी नातिप्रसन्नहृदयो ऽवतारप्रयोजनानलंबुद्धिमान् सरस्वत्यास्तटे तत्रापि शुचौ देशे विविक्तस्थ एकान्ते तिष्ठन् लोकदृष्ट्याऽनलंबुद्धिकारणं किंवेति विविधं तर्कयन् विचारयन्निदं च वक्ष्यमाणमेवात्मानं प्रत्युवाचेत्यन्वयः ॥ २६ ॥

प्रकाशिका

तत इत्युक्तमेव हेतुं विशदयति- नातिप्रसन्नहृदय इति ॥ शुचौ देशे वितर्कयन्विचारं कुर्वन् विविक्तस्य एकान्ते स्थितः । इदं वक्ष्यमाणं प्रोवाच । स्वात्मानं शिष्यान् वा प्रतीति शेषः । धर्मविदतीन्द्रियार्थदर्शी । अत्र नातुष्यदित्यस्य सन्तोषं नापेत्यन्यथा प्रतीतिवारणायार्थ-माह- अतोष इति ॥ लोकोपकारकग्रन्थकरणविषयेऽलम्बुद्ध्यभाव एवातोषो न सन्तोषाभावः । तस्य पूर्णानन्दत्वादिति भावः । तुषधातोरलम्बुद्ध्यर्थत्वे प्रयोगं दर्शयति- श्रुत्वेति ॥ अत्र तुष्यामीत्यस्या-लम्बुद्ध्यर्थत्वाभावे वाक्यार्थो बाधितो भवतीति भावः । नन्वेवं नातिप्रसन्नहृदय इत्यनुवादानुपपत्तिरित्यत आह- अप्रसादश्चेति ॥ स एवालम्बुध्यभाव एव कुत इत्यतः प्रसन्नशब्दस्यालम्बुद्ध्यर्थत्वे प्रयोगं दर्शयति- क इति ॥ अत्रापि प्रसन्न इत्यस्यात्यन्तमलम्बुद्ध्यर्थत्वाभावे वाक्यार्थो बाधित इति भावः । तथा च नातिप्रसन्नहृदय इत्यस्यात्यन्तमलम्बुद्धिशून्य इत्यर्थः । अल्पाग्रन्थकरणबुद्धिरवशिष्टाऽस्तीति भावः ॥ २६ ॥

धृतव्रतेन हि मया छन्दांसि गुरवोऽग्नयः ।

मानिता निर्व्यलीकेन गृहीतं चानुशासनम् ॥ २७ ॥

तात्पर्यम्

आचारापेक्षया धृतव्रतत्वादिपरिपूर्णस्य ॥ २७ ॥

पदरत्नावली

धृतव्रतेन लौकिकाचारापेक्षया वेदव्रतधारणवता मया निर्व्यलीकेन निर्व्याजेन, चेतसेति शेषः । छन्दांसि वेदाः, गुरवोऽध्यापकास् त्रेताग्नयः मानिताः, अनुशासनमाज्ञा च गृहीता । हिशब्देन विप्रादिभिर्वेदव्रतादिवैदिककर्मावश्यं कर्तव्यमिति दर्शयति ॥ २७ ॥

प्रकाशिका

किमुवाचेत्यत आह- धृतव्रतेनेति ॥ छन्दांस्युद्दिश्य वेदाध्ययनमुद्दिश्य । धृतं व्रतं वेदाध्ययनोपयुक्तं येन स तथा तेन । मया मानिताः पूजिताः । निर्व्यलीकेन कापट्यशून्येन । चेतसेति शेषः । कपटवर्जितेन मयेति वा । गुरूणामनुशासनमाज्ञा । गृहीतं कृतम् । अत्र व्यासेन स्वकीयाचारः कथ्यते । स कथं परिपूर्णस्य युज्यत इत्यतोऽत्र तात्पर्यमाह- आचारापेक्षयेति ॥ लोकानामिति शेषः । आचारपदेन तच्छिक्षा लक्ष्यते । तथा च लोकानामाचारशिक्षापेक्षया धृतव्रतत्वादिकथनम् । युज्यत इति शेषः । ‘यद्यदाचरति शेष्ठस्तत्तदेवेतरो जन’ इति वचनादिति भावः । आत्मना विभुरित्येतल्लब्धार्थ-प्रदर्शनम्- परिपूर्णस्येति ॥ अनेनान्यथात्मना विभुरित्यत्र परिपूर्णतोक्तिरयुक्ता स्यादिति बाधकं सूचितमिति ज्ञातव्यम् ॥ २७ ॥

भारतव्यपदेशेन ह्याम्नायार्थः प्रदर्शितः ।

दृश्यते यत्र ध(र्मो हि)र्मादि स्त्रीशूद्रादिभिरप्युत ॥ २८ ॥

पदरत्नावली

यत्र भारते स्त्रीशूद्रादिभिरपि त्रैवर्णिकैरुतानुष्ठेयो दृश्यते, तस्य भारतस्य करणे-नाम्नायार्थः वेदादिसंप्रदायार्थः प्रदर्शितो हि । तत्र किञ्चिदुर्वरितं नास्तीत्यर्थः ॥ २८ ॥

प्रकाशिका

यदर्थमवतीर्णोऽस्मि तदपि कृतमित्याह- भारतव्यपदेशेन व्याजेन इति ॥ आम्नाया अपि उद्धृता इति ग्राह्यम् । धर्मादि निवृत्तधर्मपरापरतत्त्वादिकमित्यर्थः ॥ २८ ॥

अथापि बत मे दैह्यो ह्यात्मा चैवात्मना विभुः ।

असंपन्न इवाभाति ब्रह्मवर्चस्वि(स्य)सत्तमः ॥ २९ ॥

तात्पर्यम्

दैह्यः देहरूपः । आत्मना विभुः स्वत एव व्याप्तः ।

तस्य सर्वावतारेषु न विशेषोऽस्ति कश्चन । देहदेहिविभेदश्च न परे विद्यते क्वचित् ॥

सर्वेऽवतारा व्याप्ताश्च सर्वे सूक्ष्माश्च तत्त्वतः । ऐश्वर्ययोगाद् भगवान् क्रीडत्येवं जनार्दनः ॥ इति महासंहितायाम् । अवतारप्रयोजनासम्पत्त्याऽसम्पन्न इव । ब्रह्मवर्चसयुक्तानामुत्तमः ॥ २९ ॥

पदरत्नावली

अथापि भारतकृत्या आम्नायार्थप्रदर्शनानन्तरमपि दैह्यो देहरूप आत्मा आत्मना स्वत एव विभुर्व्याप्तो मे ममात्मावतारप्रयोजनासंपत्या असंपन्नो ऽप्राप्तप्रयोजन इवाभाति । कीदृशः ? ब्रह्मवर्चस्विसत्तमः वृत्ताध्ययनसम्पन्नानां मध्ये श्रेष्ठ इत्यन्वयः । ‘ब्रह्मवर्चस्यसत्तम’इति पाठेऽप्ययमेवार्थः

॥ २९ ॥

प्रकाशिका

दैह्यो देहे भवः । आत्मा जीवः । आत्मना ब्रह्मणाऽसम्पन्न इव तादात्म्यमप्राप्त इवेति व्याख्यानमसदिति भावेन दैह्य इत्यादिकं सम्यग्व्याख्याति- दैह्य इत्यादिना ॥ स्वार्थे यत् प्रत्यय इति भावः । आत्मना विभुरित्यन्वयप्रदर्शनेन परोक्तान्वयो न ग्राह्य इति सूचयति । एवमन्वयं प्रदर्श्य पदद्वयार्थं दर्शयति- स्वत एवेति ॥ आत्मनेत्यस्यार्थः- स्वत इवेति ॥ चशब्दार्थ एवेति । विभुरित्यस्यार्थः व्याप्त इति परिपूर्ण इत्यर्थः । ननु मूलरूपस्य भगवतः पूर्णत्वेऽपि तदवतारभूतस्य व्यासस्यापूर्णत्वेनैवेयमुक्तिः किं न स्यात् । कथं देहरूप इति व्याख्यानम् । आत्मनो देहातिरिक्तताया अस्मदादिषु प्रसिद्धत्वाद् विभुपदेनोक्तस्य व्याप्तत्वस्य देहे असम्भवाच्चेत्याशङ्कापरिहाराय हिशब्दसूचितं प्रमाणमेवोदाहरति- तस्येति ॥ भगवत इत्यर्थः । अनेनाद्यशङ्कानिरासः । चशब्द एवार्थे । परे परमात्मन्येव । न विद्यत इत्यनेन द्वितीयशङ्कानिरासः । क्वचित्कुत्रचिदप्यवतारे । व्याप्ताः पूर्णाः । अनेन तृतीयशङ्कानिरासः । नन्वेवं व्यासादिदेहानां देशतः परिच्छिन्नत्वबुद्धिरप्रमा स्यादित्यत उक्तम् । तत्त्वतः सर्वे सूक्ष्माः परिच्छिन्नाश्चेति । ननु कथमेकत्र विरुद्धं परिमाणद्वयमित्यत उक्तम्- ऐश्वर्य-योगादिति ॥ अघटितघटकैश्वर्यरूपाद्घटकादित्यर्थः । ऐश्वर्योपपादनाय भगवानित्युक्तम् । नन्वेवं परिपूर्णस्य किमर्थमवतारग्रहणमित्यतः क्रीडयैवेत्याह- क्रीडत्येवमिति ॥ न किञ्चित्स्वप्रयोजनमित्यर्थः । नन्वात्मनेत्यस्य विभुरित्यनेनान्वयेऽसम्पन्न इत्यत्रापेक्षिततृतीया केत्यतस्तां सूचयन्मूले इवशब्दलब्धमर्थं दर्शयति- अवतारेति ॥ सम्पन्न एव वस्तुतो युक्त एव । अनेन मूलेऽवतारप्रयोजनासम्पत्त्येत्य-ध्याहार्यमिति सूचयति । अवतारप्रयोजनसम्पत्त्याऽसम्पन्न इवेति पाठः सुगमः । ब्रह्मवर्चस्विसत्तम इत्यत्र कर्मधारयादिप्रतीतिं वारयन्सत्तमशब्दार्थं दर्शयति- ब्रह्मवर्चसयुक्तानामिति प्रत्ययार्थनुवादः । सत्तमशब्द उत्तमशब्दपर्यायः । निर्धारणषष्ठ्यैवातिशयलाभ इति भावः । ततश्चाथाऽपीत्यादेरयमर्थः । अथाऽप्येवं लोकाचारशिक्षणलोकोपकारग्रन्थकरणादि- रूपावतारप्रयोजनसम्पत्त्या युक्तोऽपि मे आत्मा तयाऽसम्पन्न इवाभातीत्यन्वयः । बतेति लोकदृष्ट्या खेदोक्तिः । ननु त्वत्स्वरूपस्योक्तरीत्या पूर्णत्वेऽपि त्वदतिरिक्ते देह एवैवं बुद्धिरित्यत उक्तम्- दैह्य इति ॥ देहाभिन्न इत्यर्थः । ननु देहात्माभेदो लोकविरुद्ध इत्यत उक्तम्- म इति ॥ भगवदवतारभूतस्य म इत्यर्थः । अनेन देहात्मभेदो लोक एव न पर इति सूचयति । अत्र प्रमाणप्रसिद्धिद्योतको हिशब्दः । नन्ववतारप्रयोजनसम्पत्त्या पूर्णत्वेऽपि त्वत्स्वरूपं स्वत एवापूर्णमत एवं भातीत्यत उक्तम्- आत्मना च विभुरिति ॥ स्वत एव परिपूर्ण इत्यर्थः । अत्र प्रमाणप्रसिद्धिं वैशब्देनाह । नन्वथाऽपि त्वदात्मा व्रताध्ययनादिजनितं यत्तेजो ब्रह्म-वर्चससंज्ञं तद्युक्तो न भवत्यत एवं भातीत्यत उक्तम्- ब्रह्मवर्चस्विनां मध्ये सत्तम उत्तम इति ॥ २९ ॥

किं वा भागवता धर्मा न प्रायेण निरूपिताः ।

प्रियाः परमहंसानां त एव ह्यच्युतप्रियाः ॥ ३० ॥

तात्पर्यम्

**पुनरपेक्षितत्वान्न प्रायेण निरूपिताः । **

**यथा तु भारते देवो न तथान्येषु केषुचित् । **

उच्यते न तथापीशं जानन्त्यज्ञा जनार्दनम् ॥ इति स्कान्दे ॥ ३० ॥

पदरत्नावली

प्राय इदमेवानलंबुद्धौ कारणमाह- किं वेति ॥ भागवता धार्माः प्रायेण न निरूपिताः । किं वा भारते निरूपिता अपि पुनः शास्त्रान्तरेण निरूपणीय इत्यतः प्रायेणेत्युक्तम् । किं विशिष्टाः ? परमहंसानां प्रियाः । ततः किं ? ते परमहंसा एवाच्युतप्रिया हि यस्मात्तस्मादसंपन्न इवाभातीति भावः ॥ ३० ॥

प्रकाशिका

असम्पत्तौ हेतुं स्वयमेव सम्भावयति- किं वेति ॥ अत्र प्रायेणेत्युक्त्या करिष्यमाणभागवतापेक्षया प्राक्तने भारते धर्माः साकल्येन न निरूपिता इति भाति । न तद्युक्तम् । वक्ष्यमाणप्रमाणविरोधात् । अतोऽत्र विवक्षितमर्थं दर्शयति- पुनरपेक्षितत्वादिति ॥ मन्दाधिकारिणां ग्रन्थान्तरकरणनेति शेषः । तथा च यद्यपि भारते हरिधर्माश्च सर्वान् प्रति निरूपितास्तथाऽपि भारतस्य दुर्गमार्थतया मन्दाधिकारिणां भारतप्रतिपादितमेव प्रमेयं पुनर्ग्रन्थान्तरेण बोधितं चेदस्माकं सम्यग्बोधो भविष्यतीति ग्रन्थान्तरकरणस्यापेक्षितत्वात्प्रायेणेत्युक्तमित्यर्थः । प्रतीतार्थ एव किं न स्यादित्यतोऽत्र प्रमाणविरोधं दर्शयति- यथा त्विति ॥ तुशब्दोऽनुक्तसमुच्चायकचशब्दार्थः । तथा च देवो धर्माश्चेत्यर्थः । अनेन मूले देवोऽप्युपलक्षणीय इति सूचयति । अन्येषु ग्रन्थेषु । अज्ञा मन्दाधिकारिणः । न जानन्ति । भारतादिति शेषः । तस्य दुर्गमार्थत्वादिति भावः । तथा च भागवतधर्मा भगवांश्च प्रायेण सर्वाधिकारिबोधानुसारेण मया न निरूपिताः । अतोऽसम्पन्न इवाभातीत्यन्वयः । हि यस्मात्त एव धर्मा अच्युतस्य प्रिया अतः परमहंसानां प्रिया इति श्लोकार्थः ॥ ३० ॥

तस्यैवं खिन्नमात्मानं मन्यमानस्य खिद्यतः ।

कृष्णस्य नारदोऽभ्यागादाश्रमं प्रागुदाहृतम् ॥ ३१ ॥

तात्पर्यम्

**खेदोऽनलम्बुद्धिः । **

अतुष्टिरप्रसादश्च खेदोऽतृप्तिस्तथैव च ।

अनलत्वं वदन्त्येते सर्वे पर्यायवाचकाः ॥ इति ब्राह्मे । मन्यमानस्य स्वेच्छया ॥ ३१ ॥

पदरत्नावली

‘केनचित्प्रेरित एव महापुरुषः स्वकार्ये प्रवर्तत’इति न्यायाद् भागवतकृतिरेवा-लम्बुद्धिहेतुरिति निश्चयवानपि नारदप्रेरितः भागवतमकार्षीदिति नारदस्य लोके महती कीर्तिः स्यादिति भक्तवत्सलत्वान्नारदागमनमाकांक्षमाणं व्यासं प्रति तदागमनमाह-तस्येति ॥ खिन्नम् अलंबुद्धिमप्राप्तम् अत एव खिद्यतो ऽनलंबुद्धिगतस्य ॥ ३१ ॥

प्रकाशिका

खिन्नं खेदवन्तं, खिद्यतः खेदं प्राप्नुवत इति खेद उच्यत इत्यतोऽत्र विवक्षितं खेदशब्दार्थं दर्शयति- खेदोऽनलम्बुद्धिरिति ॥ अत्र पूर्वोत्तरत्र चाभिधानं दर्शयति- अतुष्टिरिति ॥ पर्यायवाचका एवेत्यन्वयः । नन्वेवमात्मानं खिन्नं मन्यमानस्येत्यनुवादो न सम्भवति । अशेषनिश्चयवति व्यासे किं वेत्यादिनोक्तसम्भावनाया असम्पन्न इवाभातीत्युक्तेश्च बाधितत्वात् । अतोऽत्र विवक्षितं तात्पर्यं दर्शयति- मन्यमानस्येति ॥ तथा च लोकानुकरणाय स्वेच्छयैव पूर्वं व्यासेन तथोक्तम् । अतोऽत्र स्वेच्छया एवं मन्यमानस्येति मूलं योजनीयमिति भावः । प्रागुदाहृतं सरस्वतीतीरस्थम् ॥ ३१ ॥

तमभिज्ञाय सहसा प्रत्युत्थायागतं मुनिम् ।

पूजयामास विधिवन्नारदं सुरपूजितम् ॥ ३२ ॥

इति श्रीमद्भागवते प्रथमस्कन्धे चतुर्थोऽध्यायः

पदरत्नावली

अभिज्ञाय संज्ञापूर्वकं विज्ञाय, सहसा कालक्षेपमन्तरेण । सरस्वतीतीरवर्ति-स्वाश्रमस्थितो भागवतधर्मज्ञापनहेतोर्नारदेन चोदितः श्रीकृष्णो भागवतसंहितामकरोदिति शौनकप्रश्न-परिहारः ॥ ३२ ॥

इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुविरचितायां प्रथमस्कन्धे चतुर्थोऽध्यायः ॥

प्रकाशिका

अभिज्ञाय संज्ञापूर्वकं विज्ञाय सहसा कालक्षेपमन्तरेण ॥ ३२ ॥

**॥ इति श्रिमद्भागवते प्रथमस्कन्धे प्रथमाध्यायटिप्पण्यां **

वेदेशतीर्थपूज्यपादशिष्ययदुपतिविरचितायां चतुर्थोऽध्यायः ॥ १-४ ॥