जगृहे पौरुषं रूपं भगवान् महदादिभिः
अथ तृतीयोऽध्यायः
सूत उवाच—
जगृहे पौरुषं रूपं भगवान् महदादिभिः ।
सम्भूतं षोडशकलमादौ लोकसिसृक्षया ॥ १ ॥
तात्पर्यम्
**व्यक्त्यपेक्षया जगृह इति । तथा च तन्त्रभागवते- **
ओयमनुपादेयं यद्रूपं नित्यमव्ययम् । स एवापेक्ष्य रूपाणां व्यक्तिमेव जनार्दनः ॥
अगृह्णद् व्यसृजच्चेति कृष्णरामादिकां तनुम् । पठ्यते भगवानीशो मूढबुद्धिव्यपेक्षया ॥
तमसा ह्युपगूढस्य यत्तमःपानमीशितुः । एतत्पुरुषरूपस्य ग्रहणं समुदीर्यते ॥
कृष्णरामादिरूपाणां लोकव्यक्तिमपेक्षया ॥ इति ॥
**महदादिभिः सम्भूतम् अन्तर्गतमहदादि । न महदादिशरीरम् । **
**‘यस्मिन्नेताः षोडशकलाः प्रभवन्ति’ इति हि श्रुतिः । **
यत्किञ्चिदिह लोकेऽस्मिन् देहबद्धं विशांपते । सर्वं पञ्चभिराविष्टं भूतैरीश्वरबुद्धिजैः ॥
ईश्वरो हि जगत्स्रष्टा प्रभुर्नारायणो विराट् । भूतान्तरात्मा विज्ञेयः सगुणो निर्गुणोऽपि च ॥
भूतप्रलयमव्यक्तं शुश्रूषुर्नृपसत्तम ॥ इति मोक्षधर्मे ।
‘नासीदहो न रात्रिरासीन्नासदासीत् तन्महद्वपुस्तदा
**अभवद्विश्वरूपं सा विश्वरूपस्य रजनी’ इति भाल्लवेयश्रुतिः । **
**न तस्य प्राकृता मूर्तिर्मांसमेदोऽस्थिसम्भवा । **
न योगित्वादीश्वरत्वात् सत्यरूपोऽच्युतो विभुः ॥ इति वाराहे ।
सर्वे नित्या शाश्वताश्च देहास्तस्य परात्मनः । हानोपादानरहिता नैव प्रकृतिजाः क्वचित् ॥
परमानन्दसन्दोहा ज्ञानमात्राश्च सर्वतः । सर्वे सर्वगुणैः पूर्णाः सर्वे भेदविवर्जिताः ॥
अन्यूनानधिकाश्चैव गुणैः सर्वैश्च सर्वतः । देहिदेहभिदा चात्र नेश्वरे विद्यते क्वचित् ॥
तत्स्वीकारादिशब्दस्तु हस्तस्वीकारवत् स्मृतः । वैलक्षण्यान्न वा तत्र ज्ञानमात्रार्थमीरितम् ॥
केवलैश्वर्यसंयोगादीश्वरः प्रकृतेः परः । जातो गतस्त्विदं रूपं तदित्यादि व्यवह्रियते ॥ इति महावाराहे ।
‘एकमेवाद्वितीयं’ ‘नेह नानास्ति किञ्चन’
**‘एवं धर्मान् पृथक् पश्यन्’ इत्यादि च । तस्यैवास्थूलत्वाद्यैश्वर्ययोगात् । **
तथा च कौर्मे-
अस्थूलश्चानणुश्चैव स्थूलोणुश्चैव सर्वतः । अवर्णः सर्वतः प्रोक्तः श्यामो रक्तान्तलोचनः ॥
ऐश्वर्याद्भगवान् विरुद्धार्थोऽभिधीयते । तथापि दोषाः परमे नैवाहार्याः कथञ्चन ॥
गुणा विरुद्धा अपि तु समाहार्याश्च सर्वतः ॥ इति ।
**विष्णुधर्मोत्तरे च- **
गुणाः सर्वेऽपि युज्यन्ते ह्यैश्वर्यात् पुरुषोत्तमे । दोषाः कथञ्चिन्नैवात्र युज्यन्ते परमो हि सः ॥
गुणदोषौ माययैव केचिदाहुरपण्डिताः । न तत्र माया मायी वा तदीयौ तौ कुतो ह्यतः ॥
तस्मान्न मायया सर्वं सर्वमैश्वर्यसम्भवम् । अमायो हीश्वरो यस्मात् तस्मात् तं परमं विदुः ॥ इति ॥ १ ॥
पदरत्नावली
भावयन्नेष सत्वेनेति द्वितीयाध्यायान्ते सूचितानवातारान् कथयितुं प्रथमतः परमपुरुषाख्यभगवदभिव्यक्तिप्रकारमाह- जगृह इति ॥ भगवानादौ लोकसिसृक्षया महदादिभिः सम्भूतं षोडशकलं पौरुषं रूपं जगृह इत्येकान्वयः । भगवानादौ लोकसिसृक्षया महदादिभिः सम्भूतं षोडशकलं पौरुषं रूपं जगृह इत्येकान्वयः । प्रलयकालीनस्वगूहकतमःपानेन परमपुरुषाख्यं निजं रूपम् आविष्चक्रे तत्तु विराड्रूपम् । महदादिभिः प्रलयकाले स्वोदरनिविष्टैर्महदहंकारादिसप्तप्रकृतिविकृतिभिः शरीर-स्थानीयादिभिः सम्भूतं सहितम् । ‘कलाश्च पञ्चभूतानि ज्ञानकर्मेन्द्रियाणि च । पञ्च पञ्च मनश्चेति षोडशोक्ता महर्षिभिरि’ति, षोडशकला अन्तर्गता यस्मिन्निति तत् षोडशकलम् । ‘यस्मिन्नेताः षोडशकलाः प्रभवन्ति’इति श्रुतेः प्राणादिषोडशकलासहितं वा । सिसृक्षया सृष्टीच्छया । यः प्राक् जगत् संहृत्य सूक्ष्मरूपतया स्वोदरे निवेश्य प्रलयोदके श्रीपर्यङ्के श्रीभुजान्तरगतः प्रकृतिमयतमसा निगूढः स्थितः स एव परमपुरुषः पुनरुत्पत्तिकाले स्वगूहकं तमः पीत्वा स्वात्मानं प्रकाशितवानित्येतदेवात्र पुरुषरूपग्रहणमभिप्रेतं न तु रामकृष्णादिवद् लोकव्यक्त्यभिप्रायोऽपि इत्युक्तं भवति ॥ १ ॥
प्रकाशिका
अथाखाहि हरेरिति यत्पृष्टं तदुत्तरत्वेनावताराननुक्रमिष्यन् भावयन्नेष सत्त्वेनेत्युक्त-मेव प्रपञ्चयन्नादौ तावद् ब्रह्माण्डान्तर्विराण्णामकपुरषावतारं दर्शयति- जगृह इति ॥ अत्र पूर्वमविद्यमानं रूपं जगृह इति प्रतीतिनिरासाय तद्यथावद्व्याचष्टे- व्यक्त्यपेक्षयेति ॥ उक्तमिति शेषः । नन्वत्र ग्रहणं जन्मरूपमेव किं न स्यादिति शङ्कायामत्र बाधकं, व्यक्तिरेव तस्य जन्मेत्यत्र साधकं च प्रमाणमुदाहरति- तथाहीति ॥ यथा अस्माभिरुक्तं तथा हि यस्मात्तन्त्रभागवते उक्तं तस्मादुक्तं युक्तमित्यर्थः । यस्य भगवतो रूपं शरीरमहेयं त्यक्तुमयोग्यमनुपादेयमुपादातुं नूतनतया गृहीतुमयोग्यम् । उभयत्र हेतुकथनाय नित्यमित्युक्तम् । नित्यत्वमेव कैमुत्येनोपपादयितुमव्ययमिति । यस्यैकदेशेनापि व्ययो नास्ति तत्कथमनित्यं स्यादिति भावः । तर्ह्यगृण्हाद्व्यसृजच्चेत्यादि वचनानां कोऽर्थ इत्यपेक्षायामाह- भगवानिति ॥ भगवानीशो जनार्दनः स एव एवंविधदेहे वसन् रूपाणां व्यक्तिमेवापेक्ष्य रामकृष्णादिकां तनुम् अगृह्णदिति पठ्यते । मूढबुद्धिव्यपेक्षया व्यासृजच्चेति पठ्यते ।
ननु परमात्मरूपाणां स्वं प्रति नित्यव्यक्तत्वात्कथं व्यक्त्यपेक्षया ग्रहणं व्याख्यातम् । लोकानां व्यक्त्यपेक्षयैव तदुक्तमिति चेन्न । पुरुषरूपग्रहणकाले लोकानामभावेन तदसंभवादित्याशङ्कायां पुरुषरूपे व्यक्तिशब्दार्थं दर्शयति- तमसेति ॥ तमसा ब्रह्माण्डान्तर्गतेनोपगूढस्याच्छादितस्य । हिशब्दः प्रमाणप्रसिद्धिद्योतकः । पानं नाशनम् । तथा चावरणनिवृत्तिरेवात्र व्यक्तिशब्देन ग्राह्येति भावः । कृष्णरामादीति ॥ तदा लोकसद्भावादुक्तावरणाभावाच्चेति भावः । नन्वेवं भगवद्रूपाणामनादिनित्यत्वेन यदि व्यक्तिरेव ग्रहणशब्दार्थः । तर्हि सम्भूतं महदादिभिरिति कथं जननमुच्यत इत्यतस्तात्पर्यं दर्शयति- महदादिभिरिति ॥ तथा च सम्भूतशब्दो न जातशब्दपर्यायोऽत्र विवक्षितः किन्तु युक्तार्थको योगश्चान्तरेव न बहिरिति भावः । ब्रह्माण्डान्तर्विराण्णामा पुरुषः प्राणिनां देहादिसृष्ट्यर्थं बहिर्विद्यमानानां महदादीनां तत्त्वानामंशानुदरान्तः स्थापयित्वा व्यक्तोऽभूदिति मूलार्थम् उक्तो भवतीति ज्ञातव्यम् । महदादिभिः सम्भूतमित्यस्य महदाद्यात्मकं शरीरमिति व्यख्यानं दूषयति- न महदादिशरीरमिति ॥ नन्वेवं पुरुषरूपस्य षोडशकलामिति षोडशकलात्मकत्वं कथमुक्तमित्यतस्तदपि षोडशकलाः प्राणाद्या यस्मिन्नित्येव व्याख्येयमित्याशयेन परमात्मनः षोडशकलाश्रयत्वे श्रुतिमाह- यस्मिन्निति ॥ प्रभवन्तिप्रकर्षेण तिष्ठन्ति । हि प्रसिद्धा श्रुतिः । भगवतः षोडशकलाश्रयत्वम् । तत्कुत इत्यपेक्षायां भगवतः प्राकृतशरीराभावादिति हेतुं मनसि निधाय तत्साधनाय प्रमाणान्युदाहरति- यत्किञ्चिदित्यादिना ॥ पञ्चभिर्भूतैराविष्टं बद्धम् । देहानां पञ्चभूतात्मकत्वादिति भावः । ईश्वर इत्यादेर्न तस्य भौतिकदेहसम्बन्ध इत्यत्र तात्पर्यम् । सगुणोऽपि ज्ञानानन्दादिपूर्णगुणोऽपि निर्गृणः सत्त्वादिगुणशून्यः । चशब्दो विशेषणसमुच्चयार्थः । भूतानां प्रलयो यस्मिंस्तदव्यक्तंतदभिमानिनी रमा तस्य शुश्रूषुः सेवाकरणशीला । अनेनाव्यक्तात्मकदेहबन्धोऽपि तस्य नास्तीति सूचितम् । मोक्षधर्मे भगवतो जडदेहाभाव उक्त इति शेषः । एवमग्रे वारह इत्यादिकमपि व्याख्येयम् । सत् कार्यं तन्महद्वपुस्तदाऽऽसीदिति प्रलयेऽपि भगवच्छरीरस्य स्थित्युक्त्या न तच्छरीरं प्रकृत्यादिजन्यमिति लभ्यत इति भावः । श्रुतिः प्राकृतदेहाभावं गमयतीति शेषः । प्राकृता प्रकृतिजन्या । ङीबभावश्छान्दसः । योगित्वाद्योगजधर्मवत्वान्न । किं त्वीश्वरत्वात् । सत्यं परिपूर्णानन्दानुभावात्मकं रूपं शरीरं तेनाच्युतश्च्युतिरहितो यतो अतो विभुरित्यर्थः । शाश्वताः सर्वदेकप्रकाराः । परमानन्दसमूहात्मकाः, ज्ञानमात्राः केवलज्ञानात्मकाः । सर्वगः सर्वत्र सर्वावयवेषु भेदवर्जिताः । अन्योन्यं भगवता च । एवकारस्य नैवेत्यन्वयः । सर्वैश्चेत्यत्र चशब्दोऽप्यर्थः । स चाभिव्याप्त्यर्थः । सर्वतः सर्वत्र । ननु देहदेहिनोरभेदे भगवान्देहं स्वीकृतवान् जगृहेऽगृण्हादित्यादिशब्दाः कथमित्यत आह- तत्स्वीकारा-दिति ॥ तुशब्दः स्वीकारादिशब्दस्य वेदादिगतत्वरूपं विशेषमाह । हस्तस्वीकारवद्धस्तस्वीकार-शब्दवत् । देवदत्तदेहस्य हस्तरूपावयवेनाभेदेऽपि देवदत्तदेहः स्वहस्तंं स्वीचक्रे जगृहे इत्यादि कर्तृकर्मभावेन शब्दः प्रयुज्यते । तद्वद्भगवतस्तद्देहानां चाभेदेऽपि स्वीकारादिशब्द उपपद्यत इत्यर्थः ।
ननु दृष्टान्ते हस्तदेहयोर्भेदाभेदौ स्तः । अतस्तथाऽत स्वीकारादिशब्द उपपद्यते । न प्रकृते । अत्यन्ताभेदेन तद्वैलक्षण्यादिति शङ्कायां तत्र भगवति न वाऽयं दृष्टान्त इत्याह- वैलक्षण्यादिति ॥ तर्हि किमर्थमुक्तमित्यत आह- ज्ञानमात्रार्थमिति ॥ अभेदज्ञानमात्रार्थमित्यर्थः । स्थूलमतीनां ज्ञापनार्थमभेदमात्रे साम्यमुपादाय पूर्वमुक्तम् । न त्वत्यन्तसाम्यविवक्षयेत्यर्थः । तर्हि कथमत्यन्ताभेदे स्वीकारादिशब्दघटनेत्यत आह- केवलेति ॥ अनन्यसाधारणेत्यर्थः । जात इति देहिनो देहस्य च भेदव्यवहारः । इदं रूपं गतः प्राप्तस्तद्रूपं गत इति देहिदेहयोर्देहानां च भेदव्यवहार उक्त इति ज्ञातव्यम् । भगवतो देहाभेदे श्रुतिद्वयमाह- एकमेवेति ॥ एवं देहग्रहणस्यापि क्रियारूपस्य भगव-द्धर्मत्वेन भगवदभेदे एकस्यैव क्रियाकर्तृभावोऽपि केवलैश्वर्ययोगादेवोपपादनीय इत्याशयेन धर्माणां भगवदभेदे प्रमाणमाह- एवं धर्मानिति ॥ इदं श्रुतिर् भगवद्धर्माणां भगवता भेददर्शिनो निन्दां करोति । तेन भगवद्धर्माणां भगवतश्चात्यन्तमभेद एवेति सिद्ध्यति । किञ्च प्राकृतदेहाभावेऽस्थूलमन-ण्वित्यादिवाक्यमपि मानम् । ‘अन्यभावव्यवृत्तेश्च’ इत्यत्र प्राकृतस्थौल्यादिराहित्यस्यैतदर्थतयोक्तत्वात् । नन्वेवं भगवत्यप्राकृतं स्थौल्यमणुत्वं च युगपद्विरुद्धमापद्यत इत्याशङ्कायां तत्राप्यैश्वर्यमेवोपपादकमित्याह- तस्यैवेति ॥ एकस्यैवेत्यर्थः । अस्थूलत्वादिति ॥ अप्राकृतस्थूलत्वाणुत्वादिकमित्यर्थः । ऐश्वर्ययोगा-द्धटत इति शेषः । कुत इत्यत एतत् श्रुत्यर्थप्रतिपादकं प्रमाणं पठति- तथा चेति ॥ सर्वतः स्थूल एवास्थूलश्च प्रोक्तः । सर्वतोऽणुरेवानणुश्च प्रोक्त इति सम्बन्धः । अप्राकृतस्थौल्यादिमानपि प्राकृत-स्थौल्याद्यभावेनास्थूलादिपदप्रतिपाद्यो भवतीत्यर्थः । अस्थूलमित्यादिश्रुतिगतावर्णपदस्य विवक्षितमर्थं दर्शयति- अवर्ण इति ॥ श्यामोरक्तान्तलोचनः । अप्राकृतश्यामादिरूपवानपि भगवानैश्वर्ययोगादेवा-वर्णोऽरूपः प्रोक्तः । प्राकृतरूपाभावादिति भावः । नन्वेवं विरुद्धं युगपदणुत्वं महत्वं च कथं भगवतीत्यत आह- तथाऽपीति ॥ यद्यप्येवं परमैश्वर्ययोगाद्भगवति विरुद्धधर्मघटनास्ति तथाऽपि कथञ्चन केनापि प्रकारेण प्राकृता वाऽप्राकृता वा दोषा नैवाहार्या नोपसंहार्या न ध्येया इत्यर्थः । कुत इत्यत उक्तम्- परम इति ॥ परमेश्वर इत्यर्थः । दोषकल्पनायामैश्वर्यमपगच्छति । अत ऐश्वर्यमपि स्वविरोधिविरुद्धधर्मस्य न घटकमिति भावः । तुशब्द ऐश्वर्यविरोधित्वादिति हेतुसूचकः । चशब्द एवार्थे । सर्वतः सर्वे । अत्रैव स्पष्टं प्रमाणान्तरमाह- विष्णुधर्मोत्तरे चेति ॥ सर्वेऽपि विरुद्धा अविरुद्धाश्च । हिशब्द ऐश्वर्यादि अविरुद्धत्वादिहेतुसूचकः । हि यस्मात्परमः परमेश्वरः सः दोषकल्पनायां तस्य परमेश्वरत्वमेवानुपपन्नमिति भावः ।
ननु विरुद्धगुणदोषाङ्गीकारेऽपि नैश्वर्यहानिः । तयोर्मायिकत्वात् । ततश्च सर्वमपि विरुद्धं भगवति मायैवोपपादनीयं नैश्वर्ययोगादिति केचिदाहुस्तन्मतं दूषयति- गुणदोषाविति ॥ उपलक्षणमेतत् । सर्वमपि विरुद्धम् । मायया सर्वमपि विरुद्धं घटत इति वदतां कोऽभिप्रायः । किमीश्वराश्रितया माययेश्वरे विरुद्धधर्माः कल्पिताः प्रतिभासन्ते । उतान्येन मायाविना कल्पिता इति । नोभावपि कल्पौ युक्तावित्याह- न तत्रेति ॥ कुत इत्यत आह- तदीयाविति ॥ हि यस्मात्तदीयौ तदधीनौ तौ मायामायाविनौ सर्वस्य तदधीनत्वादिति भावः । अतस्तौ तत्र कुतः स्वकार्यं करिष्यत इत्यर्थः । न हि स्वाधिनं स्वात्मनो भ्रामकमिति युक्तमिति भावः । निगमयति- तस्मादिति ॥ किञ्च भ्रान्तिरप्यैश्वर्य-विरोधिनी न तत्र युक्तेत्याह- अमायो हीति ॥ आमयो मायाकृतभ्रान्तिरहितः । हीति तत्र प्रमाणप्रसिद्धिं दर्शयति । तस्मात्तस्मादेव परमं परमेश्वरम् । अन्यथा तन्न स्यादिति भावः ॥ १ ॥
यस्याम्भसि शयानस्य योगनिद्रां वितन्वतः ।
नाभिह्रदाम्बुजादासीद्ब्रह्मा विश्वसृजां पतिः ॥ २ ॥
पदरत्नावली
एवं स्वगूहकतमःपानेन प्रकाशितः परमपुरुषः महदादितत्वान्युत्पाद्य तैर्ब्रह्माण्डं सृष्ट्वा तदण्डान्तः प्रविश्य अन्तरुदरे शेषपर्यङ्कशायी स्वनाभेर्लोकात्मकं पद्मं निर्माय पद्मनाभनामा भूत्वा तस्मात् पद्माच्चतुर्मुखमस्राक्षीदित्याह- यस्येति ॥ अम्भसि शयानस्य योगनिद्रां वितन्वतः यस्य भगवतः नाभिह्रदाम्बुजाद्विश्वसृजां दक्षादीनां पतिर्ब्रह्मा आसीत् ॥ २ ॥
प्रकाशिका
तस्य महिमानमाह मूले- यस्येति ॥ यस्य पुरुषरूपस्याम्भसि प्रलयार्णवे शयानस्य विश्रान्तस्य योगः समाधिस्तद्रूपां निद्रां विस्तारयतो नाभिरेव ह्रदस्तस्मिन्यदाम्बुजं तस्मादासीत् पाद्मकल्प इति शेषः । विश्वसृजां दक्षादीनां पतिः ॥ २ ॥
यस्यावयवसंस्थानैः कल्पितो लोकविस्तरः ।
तद्वै भगवतो रूपं विशुद्धं सत्वमूर्जितम् ॥ ३ ॥
तात्पर्यम्
यस्यावयवसंस्थानैः ‘नाभ्या आसीदन्तरिक्षम्’ इत्यादि । सत्वं साधुगुणवत्वम् । ज्ञानबलरूपं वा । ‘बलज्ञानसमाहारः सत्वमित्यभिधीयते’ इति मात्स्ये ॥ ३ ॥
पदरत्नावली
स एव पुनर्ब्रह्माण्डे ‘नाभ्या आसीदन्तरिक्षं’ इत्यादिना अन्तरिक्षादिलोक-कल्पकावयववान् पुरुषाख्यो अवततारेत्याह- यस्येति ॥ पातालमित्यादिलोकविस्तरश् चतुर्दशभुवन-विस्तरः । यस्य पुरुषनाम्नाऽवतीर्णस्य अवयवसंस्थानैश्चरणाद्यवयवविन्यासैः कल्पितस् तदुत्पन्नत्वेन तदाधारत्वेन विद्वद्भिर्निरूपितः न तु तदात्मत्वेन ।
‘सच्चिदानन्दरसं ब्रह्मचैतन्यम् अविद्यादर्पणे प्रतिबिम्बितं सज् जीव इत्यभिधीयते । तदेव ब्रह्म वशीकृतमायम् ईश्वर इति । तत्र सच्चिदद्वयानन्दब्रह्मलक्षणपुरुषो भगवान् ईश्वरः पौरुषं रूपं जगृहे । पौरुषं रूपं विराड्रूपम् । स्वमायाकल्पितमहदहंकारादिभिः संभूतम् उत्पन्नम् अत एव पञ्चभूतादि-षोडशकलोपेतम् । किमर्थं ? अनेन लोकसिसृक्षया । कोऽसौ भगवानित्यपेक्षायामाह- यस्येति ॥ स्वमायया परिणतभूतसूक्ष्मेषु शयानस्य तत्तद्रूपेण व्याप्तस्य योगनिद्रां जगत्कारणमायाशक्तिं वितन्वतो विस्तारयतः सृष्टौ प्रेरयतो यस्य नाभिह्रदाम्बुजात् पञ्चीकृतभूतनिष्पन्नलोकपद्मान् ब्रह्माऽऽसीत् । यस्य ब्रह्मोत्पादकजगत्पद्मस्यावयवविन्यासैः पद्मदलायमानैर्लोकविस्तरः कल्पितः न वस्तुतः सत्यः । तद्भगवतस्त्रैलोक्यात्मकं प्रथमं रूपं’इति केचित् ।
तद्दूषयति- तदिति ॥ भगवतस्तद्रूपं पुरुषादिरूपत्रयं विशुद्धं निर्दोषम् ऊर्जितम् उद्रिक्तं, सत्वं संपूर्णबलज्ञानादिसर्वगुणसमूढम् । वै इति पदेन परकृतापव्याख्यानस्य प्रमाणविरोधं स्वविरोधं च दर्शयति । ‘निरनिष्टो निरवद्य’इति श्रुतेर्नित्यनिरस्ताविद्याविलासस्य ब्रह्मणोऽविद्यादर्पणे प्रतिबिम्बीभूय जीवत्वं न घटते । न हि नित्यनिर्मुक्तशिरोवेदनो लीलया कदाचित्तद्वान् स्यामिति कामयते । पञ्चीकरणमपि स्वकल्पनामन्तरेण न प्रमाणपदवीम् अध्यास्ते । अत उपेक्षणीयमेतन्मतम् ॥ ३ ॥
प्रकाशिका
महिमान्तरमाह- यस्येति ॥ पूर्वस्यास्य च यच्छब्दस्योत्तरेण तच्छब्देनान्वयः । लोकविस्तरश्चतुर्दशभुवनविस्तारो यस्य पुरुषनाम्नोऽवयवसंस्थानैश्चरणाद्यवयवरूपसमीचीनस्थानैः कल्पित-स्तदुत्पन्नत्वेन तदाधारत्वेन विद्वद्भिर्निरूपितस्तत्पूर्वोक्तभगवतो रूपं विशुद्धं निर्दुष्टमूर्जितं सर्वाेत्कृष्ट-मित्यर्थः । लोककल्पकावयवत्वेन तत्र दोषादिशङ्का न कार्येति भावः । अत्र केनावयवेन को लोकः कल्पितः किञ्च तत्र प्रमाणमित्यत आह- यस्येति ॥ लोकविस्तर इत्यादि यथा स्यात्तथा वेदेन निरूपित इत्यर्थः । सत्त्वं सत्त्वगुणात्मकमित्यन्यथाप्रतीतिवारणाय व्याख्याति- सत्त्वमिति ॥ साधुगुणत्वं साधुगुणमित्यर्थः । सद्भावे साधुभावे चेति वचनात्सच्छब्दः साधुगुणवाची स्वार्थ एव च त्व प्रत्यय इति भावः । अत एवापरितोषादाह- ज्ञानबलेति ॥ अत्र प्रमाणमाह- बलज्ञानेति ॥ समाहारः संमेलनम् ॥ ३ ॥
पश्यन्त्यदो रूपमदभ्रचक्षुषः सहस्त्रपादोरुभुजाननाद्भुतम् ।
सहस्त्रमूर्धश्रवणाक्षिनासिकं सहस्त्रमौल्यम्बरकुण्डलोल्लसत् ॥ ४ ॥
पदरत्नावली
इतोऽपि तन्मतमयुक्तमित्याह- पश्यन्तीति ॥ अदभ्रचक्षुषः पूर्वज्ञाना ब्रह्मादयो ऽदो रूपत्रयं पश्यन्ति । कीदृशं ? सहस्त्रशब्दोऽनन्तवाची प्रत्येकमभिसंबध्यते । सहस्त्रं पादाश्च उरवश्च भुजाश्च आननानि च सहस्त्रपादोरुभुजाननानि तैरद्भुतम् । सहस्रं मूर्धश्रवणाक्षिनासिका यस्मिन् तत्तथोक्तम् । सहस्त्रमौल्यम्बरकुण्डलैरुल्लसच्छोभमानम् । निरस्ताविद्यैरुत्तमाधिकारिभिर्ब्रह्मादि-भिरपरोक्षतया दृष्टत्वान्नैतद्रूपत्रयं मायाकल्पितमिति भावः ॥ ४ ॥
प्रकाशिका
योगिप्रत्यक्षगम्यत्वादिरूपं तस्य महिमान्तरमाह- पश्यन्तीति ॥ अदभ्रमनल्पं चक्षुर्ज्ञानदृष्टिर्येषां ब्रह्मादीनां ते तथा । सहस्रशब्दोऽनन्तवाची प्रत्येकमभिसम्बद्ध्यते । सहस्रपादा-श्चोरवश्च भुजाश्च आननानि च तैरद्भुतम् । सहस्रमूर्धादयो यस्मिंस्तत् । सहस्रं यानि मौल्यादीनि तैरुल्लसच्छोभमानम् ॥ ४ ॥
एतन्नानावताराणां निधानं बीजमव्ययम् ।
यस्यांशांशेन सृज्यन्ते देवतिर्यङ्नरादयः ॥ ५ ॥
तात्पर्यम्
निधानम् अत्रैकीभवन्त्यन्त इति । अंशांशेन सामर्थ्यैकदेशेन । ब्राह्मे च ‘यच्छक्त्यैकांशसम्भूतं जगदेतच्चराचरम्’ इति ॥ ५ ॥
पदरत्नावली
त्रयाणां रूपाणां मध्ये पद्मनाभाख्यं रूपमवतारकारणमित्याह- एततिति ॥ यत्क्षीरार्णवशायिपद्मनाभाभिधं रूपम् एतन्मत्स्यादिनानावताराणां बीजं व्यञ्जकम् । निधानम् अन्ततोऽत्र सर्वावतारानिधीयन्ते एकीक्रियन्त इति । न व्येतीत्यव्ययम् । यस्य पद्मनाभस्यांशांशेन सामर्थ्यैकदेशेन देवादयः सृज्यन्ते स पद्मनाभ एव सर्वावतारहेतुरित्यर्थः ॥ ५ ॥
प्रकाशिका
महिमान्तरमाह- एतदिति ॥ एतदण्डान्तर्गतं पुरुषरूपं निधीयतेऽस्मिन्निति निधानं कार्यवसाने प्रवेशस्थानमित्यर्थः । अत्राश्रयाश्रितभावोक्त्या भेदः प्रतीयते । अतोऽत्र तात्पर्यं दर्शयति- निधानमिति ॥ निधीयन्ते एकीक्रियन्तेंऽततः कार्यावसान इत्येव निधानशब्देन विवक्षितम् । न त्वाश्रयाश्रितभाव इति भावः । बीजमुद्गमनस्थानम् । एतच्च श्वेतद्वीपादिस्थानां नारायणवासुदेव-वैकुण्ठादीनां साक्षाद्रामकृष्णादीनां तु श्वेतद्वीपस्थैतत्स्वरूपांशद्वारेति ज्ञातव्यम् । नैतत् प्रसिद्धबीज-तुल्यमित्याह- न व्येतीत्यव्ययमिति ॥ यस्यांशांशेनेत्यत्र यस्यांशो ब्रह्मा तस्यांशो मरीच्यादिस्तेनेत्यन्यथा प्रतीतिवारणाय विवक्षितमर्थं दर्शयति- अंशाशेनेति ॥ तथा चाद्यांशशब्दः सामर्थ्यपरो द्वितीय एकदेशपर्याय इत्युक्तं भवति । एवमेवात्रार्थः कुत इत्यतः प्रमाणान्तरसमाख्यां दर्शयति- ब्राह्मे चेति ॥ शक्तिः सामर्थ्यमेकांश एकदेशः देवतिर्यङ्नरादय इत्यस्यार्थः- जगदेतच्चराचरमिति ॥ ५ ॥
स एव प्रथमं देवः कौमारं सर्गमास्थितः ।
चचार दुश्चरं ब्रह्मा ब्रह्मचर्यमखण्डितम् ॥ ६ ॥
तात्पर्यम्
कुमारो नाम भगवान् स्वयं स्वस्मादजायत । दिदेश ब्रह्मणे ब्रह्म ब्रह्मचर्ये स्थितो विभुः ॥
यस्मात् सनत्कुमारश्च ब्रह्मचर्यमपालयत् । यः स्थाणोः स्थाणुतां प्रादाद् भगवानव्ययो हरिः ॥ इति ब्राह्मे ॥ ६ ॥
पदरत्नावली
स एव पद्मनाभो देवः प्रथमं स्वस्मादेव कौमारं सर्गं सनत्कुमाराभिधमवतारम् आस्थितः । ब्रह्मा बंृहितः स्वतः पूर्णोऽपि शिष्टजनशिक्षणायान्यैर्दुश्चरं ब्रह्मचर्यमखण्डितमप्रतिहतं यथा भवति तथा चचारेत्यन्वयः । सनत्कुमारोऽन्यः सनकादिषु पठितः ॥ ६ ॥
प्रकाशिका
एतन्नानावताराणां बीजमित्युक्तमेव प्रपञ्चयन्नाह- स एवेति ॥ योंऽडान्तर्गतः पुरुषनामा हरिः स एव देवः प्रथमं कौमारं विद्यमानं सर्गमवतारमास्थितः प्राप्तवान् ब्रह्म पूर्ण एवान्यैर्दुश्चरं ब्रह्मचर्यमखण्डितमप्रतिहतं यथा भवति तथा चचार । अत्र किं नाम किमर्थमवतार इति न प्रतीयते सनत्कुमार एवेति च प्रतीयतेऽतोऽत्र विवक्षितमवतारं तच्चरित्रं च प्रमाणेनैव दर्शयति- कुमार इति ॥ यस्माच्छिक्षित इति शेषः । स्थाणोः रुद्रस्य । अनेन मूले ब्रह्मचर्यं चचारेत्येतदुपलक्षणमिति सूचयति ॥ ६ ॥
द्वितीयं तु भवायास्य रसातलगतां महीम् ।
उद्धरिष्यन्नुपादत्त यज्ञेशः सौकरं वपुः ॥ ७ ॥
पदरत्नावली
रसातलगतां महीमुद्धरिष्यन्नुद्धर्तुकामो यज्ञेशः श्रीनारायणोऽस्य जगतः भवाय तु स्थित्यर्थमेव सौकरं सूकरस्य वराहस्य विद्यमानं वपुरुपादत्तेत्यन्वयः ॥ ७ ॥
प्रकाशिका
अस्य विश्वस्य भवाय स्थित्यर्थं महीमुद्धरिष्यन्निति तत्कर्मोक्तिः । एवं सर्वत्राव-तारस्तत्कर्म चोक्तमिति द्रष्टव्यम् । यज्ञेशो यज्ञप्रवर्तकपुरुषनामा हरिर् वराहदेहेन यज्ञसामग््रया-जातत्वादेवमुक्तम् । सौकरं वराहस्य विद्यमानं तत्सदृशम् ॥ ७ ॥
तृतीयमृषिसर्गं वै देवर्षित्वमुपेत्य सः ।
तत्र सात्वतमाचष्ट नैष्कर्म्यं कर्मणां यतः ॥ ८ ॥
तात्पर्यम्
अवतारस्तृतीयोऽस्य देवर्षिः प्रथितो दिवि । महिदासस्त्वैतरेयो यस्तन्त्रं नारदेऽवदत् ॥ इति च ॥ ८ ॥
पदरत्नावली
ऋषिषु सर्गोऽभिव्यक्तिर्यस्य स तथोक्तः । ऋषीणां स्वभावो यस्य स वा । तं तृतीयं महिदासाभिधावतारमुपेत्य देवर्षित्वं चोपेत्य स भगवांस्तत्रावतारे सात्वतं पञ्चरात्रं नाम ग्रन्थविशेषमाचष्ट व्याचख्यौ । नारदायेति शेषः । यतः सात्वततन्त्रोक्तानुष्ठानात्कर्मणां नैष्कर्म्यं मोक्षसाधनत्वं स्यादित्यन्वयः । ‘सर्गः स्वभावनिर्मोकनिश्चयाध्यायसृष्टिषु’इत्यभिधानम् । श्रुत्यादि-प्रसिद्धिद्योतकेन वैशब्देन देवर्षित्वं नारदत्वमुपेत्येत्यपव्याख्यानमपहस्तितमिति ज्ञातव्यम् । भोः शोनकादयः, तृतीयमृषिसर्गं वित्तेति वा । तदवतारप्रयोजनमाह- देवर्षित्वमिति ॥ ८ ॥
प्रकाशिका
ऋषिसर्गमृषिष्ववतारमुपेत्य देवर्षित्वमुपेत्य सात्वततन्त्रं पञ्चरात्र्याख्यं शास्त्रं नारदायाचष्टे व्याचख्यौ । यतः सात्त्वतशास्त्रात्तदुक्तप्रकारेणानुष्ठानात्कर्मणां नैष्कर्म्यं मोक्षसाधनत्वं भवति । अत्रायमवतारः क इति न प्रतीयते नारद इति च प्रतीयतेऽतोऽत्राभिमतावतारं प्रमाणेन दर्शयति- अवतार इति ॥ देवर्षिरिति प्रथितः । तन्त्रं पञ्चरात्रम् ॥ ८ ॥
तुर्यं धर्मकलासर्गे नरनारायणावृषी ।
भूत्वाऽऽत्मोपशमोपेतमकरोद्दुश्चरं तमः ॥ ९ ॥
तात्पर्यम्
धर्मकलासर्गः धर्मे स्वांशावतारः । लोकदृष्ट्यात्मशमोपेतम् ॥ ९ ॥
पदरत्नावली
भोः शौनकादयः, तुर्यं चतुर्थं शृृणुत । कथं ? स पद्मनाभः धर्मनामि्न भगवति कलासर्गे स्वांशावतारे नाम्ना नरनारायणौ इति ऋषी भूत्वा अज्ञलोकदृष्ट्याऽऽत्मनोऽन्तः-करणस्योपशमेनाधिकशांत्या उपेतं युक्तम् अन्यैः कर्तुमशक्यं तपोऽकरोदित्येकान्वयः । अत्र ‘कालसर्ग’ इत्युक्त्या नारायणस्यावतारत्वं नरे तु विशेषावेश एव इति ज्ञातव्यम् । ‘तुर्ये’ इति केचित्पठन्ति, तत्र तुर्ये चतुर्थे धर्मकलासर्गे इति सुगमोऽन्वयः ॥ ९ ॥
प्रकाशिका
धर्मकलासर्ग इत्यत्र धर्मस्य कलाऽर्धांशरूपा भार्या तस्याः सर्ग इति व्याख्याने कलाशब्दो न स्वरस इत्यभिप्रेत्य स्वयं व्याख्याति- धर्मेति ॥ तथा च सप्तमीतत्पुरुष एवात्र विवक्षित इति भावः । स्वांशावतारः स्वस्वरूपभूतांशावतारः । नरस्य शेषत्वेऽपि तत्र स्वरूपांशस्यावेशावतारोऽ-स्त्येवेति ज्ञातव्यम् । आत्मोपशमोपेतमित्येतदात्मनोंऽतःकरणस्योपशमोऽधिकभगवन्निष्ठा तेनोपेतमिति व्याख्येयम् । इदं च भगवति बाधितमत आह- लोकदृष्ट्येति ॥ ततश्चायं श्लोकार्थः । तुर्ये च चतुर्थे । धर्मे यमधर्मे कलया स्वांशेन सर्गेऽवतारे । नरनारायणनामानौ ऋषी भूत्वा । लोकदृष्ट्याऽऽत्मनोऽन्तः-करणस्योपशमोऽधिकभगवन्निष्ठता तेन युक्तमन्यैर्दुश्चरं तप आलोचनात्मकमकरोदिति । अत्र तुर्यमिति पाठे तुर्यं वित्तेति व्याख्येयम् ॥ ९ ॥
पञ्चमः कपिलो नाम सिद्धेशः कालविप्लुतम् ।
प्रोवाचाऽऽसुरये सांख्यं तत्वग्रामविनिर्णयम् ॥ १० ॥
तात्पर्यम्
तन्त्रं साङ्ख्यं वेदानुसारि । पाद्मे च-
कपिलो वासुदेवाख्यस्तन्त्रं साङ्ख्यं जगाद ह । ब्रह्मादिभ्यश्च देवेभ्यो भृग्वादिभ्यस्तथैव च ॥
तथैवासुरये सर्ववेदार्थैरुपबृंहितम् । सर्ववेदविरुद्धं च कपिलोऽन्यो जगाद ह ॥
साङ्ख्यमासुरयेऽन्यस्मै कुतर्कपरिबृंहितम् ॥ इति ॥ १० ॥
पदरत्नावली
पञ्चमोऽवतारोऽपि कपिलो नामेत्यन्वयः । स सिद्धेशः कपिलः कालबलेन तिरोहितं तत्वानां चतुर्विंशतिसंख्याकानां ग्रामः समूहः, तस्य विशेषेण निर्णयो भगवत्परत्वेन यस्मिंस्तत्तथोक्तम् । सांख्यं भगवज्ज्ञानप्रतिपादनपरं वेदार्थपरिबृंहितं नाम्नाऽऽसुरये सच्छिष्याय प्रोवाचेति पश्चादन्वयः । अत्राज्ञलोकप्रसिद्धसांख्यशास्त्रप्रणेता कपिलस् तच्छिष्य आसुरिश्चान्य एवेति सतां सम्प्रदायः ॥ १० ॥
प्रकाशिका
प्रोवाचासुरये साङ्ख्यमित्यत्र वेदविरुद्धं साङ्ख्यशास्त्रमिति प्रतीयते । अत आह- तन्त्रमिति ॥ तथाच तन्त्रमित्येतदनुवर्तनीयमिति भावः । ननु तथाऽपि कथमुक्तशङ्कापरिहार इत्यतस्तन्त्रशब्दार्थं दर्शयति- वेदानुसारीति ॥ तथा च वेदार्थनिर्णायकशास्त्र एव तन्त्रशब्दो रूढ इति भावः । ननु कुत एवं व्याख्येयम् । अयमेव कपिलः दुःशास्त्रप्रणेताऽस्त्वासुरिरपि दुष्ट एव तच्छिष्योऽस्त्वित्याशङ्कां प्रमाणेनैवापाकरोति- पाद्मे चेति ॥ भृग्वादिभ्यश्चेत्यन्वयः । तथैव यथा ब्रह्मादिभ्यस्तथैव । न प्रकारान्तरेणेत्यर्थः । एवमग्रेऽपि । आसुरये इति उत्तरार्धस्य चशब्दान्वयः । अन्यः कपिलो भगवदवतारादन्यः । हेति प्रमाणप्रसिद्धिं सूचयति । ततश्चायं मूलार्थः । पञ्चमः । अवतार इति शेषः । अन्यकपिलव्यावृत्त्यर्थं सिद्धेश इत्युक्तम् । कालविप्लुतं कालबलेन तिरोहितम् । तत्त्वानां ग्रामः समूहस्तस्य विशेषेण निर्णयो यस्मिंस्तत्तथोक्तम् । आसुरये तन्नामकसच्छिष्याय ॥१०॥
षष्ठमत्रेरपत्यत्वं वृतः प्राप्तोऽनसूयया ।
आन्वीक्षिकीमलर्काय प्रह्लादादिभ्य ऊचिवान् ॥ ११ ॥
तात्पर्यम्
आन्वीक्षिकीं तत्त्वविद्याम् । ‘आन्वीक्षिकी कुतर्काख्या तथैवान्वीक्षिकी परा’ इति मात्स्ये ॥ ११ ॥
पदरत्नावली
यः पद्मनाभो ऽनसूयया अत्रिपत्न््नया वृतो ऽत्रेर्ऋषेरनसूयायामपत्यत्वं प्राप्तः, आन्वीक्षिकीं तर्कविद्यामलर्काय शिष्याय प्रह्रादादिभ्यश्चोचिवान् । तमवतारं षष्ठं वित्त ॥ ११ ॥
प्रकाशिका
दत्तात्रेयावतारमाह- षष्ठेति ॥ स पुरुषोऽत्रेः सकाशाद्वृतोऽत्रिणैव प्रार्थितः सन् अनसूययाऽनसूयायां तत्पन्त्यामपत्यत्वं पुत्रभावं प्राप्तः । अयं षष्ठोऽवतारः । षष्ठमिति पाठे एनं षष्ठमवतारं वित्तेत्यर्थः । अलर्काय तन्नामकाय सच्छिष्याय प्रह्लादादिभ्यश्चान्वीक्षिकीमूचिवान्व्याचख्यौ । आदिपदेन यदुहैहयाद्या ग्राह्याः । अनसूयया मत्समं मत्सदृशापत्यवरणमिषेण मामेवापत्यं वृतवानित्य-सूयाराहित्येनात्रेरपत्यत्वं प्राप्त इत्याहुः । नन्वान्वीक्षिकी तर्कविद्येति गौतमप्रणीततर्कशास्त्रे आन्वीक्षिकी-शब्दः प्रसिद्धस्तत्कथमयमूचिवानित्यत आह- आन्वीक्षिकीमिति ॥ तत्त्वविद्यां परापरतत्त्वविद्याम् । कुत एवमान्वीक्षिकीद्वैविध्यमतोऽत्र प्रमाणमाह- आन्वीक्षिकीति ॥ कुत्सितास्तर्का यस्यां सा कुतर्का । तथाऽऽख्या यस्यां सा विद्या कुतर्काख्या एका । पराऽन्योत्तमा वा । तथैव प्रसिद्धतर्कशास्त्रवत्तर्कोपेतैव
॥ ११ ॥
ततः सप्तम आकूत्यां रुचेर्यज्ञोऽभ्यजायत ।
स यामाद्यैः सुरगणैरपात्स्वायंभुवान्तरम् ॥ १२ ॥
पदरत्नावली
ततः सः पद्मनाभः सप्तमे रुचेर् ऋषेर् आकूत्यां पत्न््नयां नाम्ना यज्ञे अभ्यजायत । जातः स यज्ञो, नाम्ना यामा आद्या येषां ते तथा तैः सुरगणैः सह स्वायम्भुवमन्वन्तरमपाद् अरक्षदित्यन्वयः । प्रतिमन्वन्तरं देवानां नामभेदाद्यामा इत्युक्तम् ॥ १२ ॥
प्रकाशिका
आकूत्यां रुचस्तन्नामकादृषेर्यज्ञनामाऽभ्यजायत । सप्तमोऽवतारः । स च यज्ञो यामास्तन्नामानो देवा आद्या येषां तैः सुरगणैः सह स्वायम्भुवमन्वन्तरमपादरक्षत् । तदा स्वयमिन्द्रोऽभूदित्यर्थः ॥ १२ ॥
अष्टमो मेरुदेव्यां तु नाभेर्जात उरुक्रमः ।
दर्शयन्वर्त्म धीराणां सर्वाश्रमनमस्कृतम् ॥ १३ ॥
पदरत्नावली
य उरुक्रमः नाभेराग्रीध्रपुत्रान् मेरुदेव्यां पत्न्यां जातः सर्वाश्रमनमस्कृतं धीराणां विद्यारतानां वर्त्म पारमहंस्याश्रमं दर्शयन्नभूत् तस्य सोऽष्टमोऽवतारः । न शुक्लशोणितमिश्रतयाऽस्य जननं, किन्तु द्वारमात्रमित्यस्मिन्नर्थे तुशब्दः ॥ १३ ॥
प्रकाशिका
ऋषभावतारमाह- अष्टम इति ॥ उरुक्रमः पुरुषनामा हरिः । नाभेराग्निध्र-पुत्रान्मेरुदेव्यां तत्पन्त्यां जातः । इदं जननं न शुक्लशोणितसम्बन्धेनेति दर्शयितुं तुशब्दः । किं कुर्वन् । सर्वाश्रमनमस्कृतं वर्त्म चतुर्थाश्रमसम्बन्धिनं मार्गं धीराणां हरिविषयकधियां रममाणानां दर्शयन् । अयमष्टमोऽवतारः ॥ १३ ॥
ऋषिभिर्याचितो भेजे नवमं पार्थिवं वपुः ।
दुग्धवानोेषधीर्विप्रास्तेनायं च उशत्तमः ॥ १४ ॥
तात्पर्यम्
पृथुशरीराविष्टरूपम् । ‘आविवेश पृथुं देवः शङ्खी चक्री चतुर्भुजः’ इति पाद्मे । उश इच्छायाम् । सत्यकामः ॥ १४ ॥
पदरत्नावली
ऋषिभिः प्रार्थितः पद्मनाभः नवमावतारं पार्थिवं पृथुचक्रवर्तिशरीराविष्टं रूपं भेजे । हे विप्रा ज्ञानिनः, गोरूपिण्या भुव ओषधीः क्षीरात्मिका दुग्धवान्, इति येन तेन कर्मणाऽयं भगवानुशत्तमः सत्यकामेषु श्रेष्टः । उश इच्छायाम् । चशब्दो दोहनकर्मणोऽमानुषत्वं द्योतयति ॥ १४ ॥
प्रकाशिका
पृथुराजाविष्टं पृथुनामकावतारं दर्शयति- ऋषिभिरिति ॥ अत्र पार्थिवं पृथोर्विद्यमानं वपुर्भेज इति वचनेन पृथुशरीरमेव भगवतो नवमं शरीरमिति प्रतीयतेऽतोऽत्र विवक्षित-मर्थमाह- पृथुशरीरेति ॥ ततश्च पार्थिवमित्यस्य पृथुशरीरसम्बन्धि तदाविष्टमिति व्याख्यानं सूचयति । अत्र प्रमाणमाह- आविवेशेति ॥ पृथुं पृथुशरीरम् । मूले औषधीरित्युपलक्षणं सर्वाणि सारभूतवस्तूनीत्यपि द्रष्टव्यम् । हे विप्राः । तेन दोहनेन । अयं च राजाऽपि । न केवलं तदाविष्टो हरिरित्यर्थः । उशत्तमोऽत्र वश कान्ताविति धातोः कमनीयतम इति व्याख्यानमयुक्तम् । दोहनस्यात्र हेतुत्वकथनासम्भवादित्याशयेनान्यथा व्याचष्टे । उश इच्छायामिति धातोः । सत्यकाम उशत्तमशब्दार्थ इति शेषः । अतिशयेनोशन् उशत्तमः । अतिशयश्चेच्छाया अमोघत्वं, तेन सत्यकाम इति लभ्यत इति भावः ॥ १४ ॥
रूपं स जगृहे मात्स्यं चाक्षुषान्तरसंल्पवे ।
नाव्यारोप्य महीमय्यामपाद्वैवस्वतं मनुम् ॥ १५ ॥
पदरत्नावली
स भगवान् चाक्षुषान्तरसंप्लवे चाक्षुषमन्वन्तरप्रलये, मात्स्यं मत्स्यस्य विद्यमानं रूपं जगुहे । किञ्च महीमय्यां नावि तरीस्थानीयभूमौ वैवस्वतं मनुमारोप्यापादित्यन्वयः ॥ १५ ॥
प्रकाशिका
स परमात्मा मात्स्यं मत्स्यस्य विद्यमानं रूपम् । चाक्षुषमन्वन्तरप्रलये महीमय्यां नावि भूम्यात्मिकायां वैवस्वतमनुसंज्ञकं सत्यव्रतमारोप्यापाद्रक्षितवान् । अयं दशमोऽवतार इति शेषः
॥ १५ ॥
सुरासुराणामुदधिं मथ्नतां मन्दराचलम् ।
दध्रे कमठरूपेण पृष्ठ एकादशं विदुः ॥ १६ ॥
पदरत्नावली
सुरासुराणामुदधिं समुद्रं मथ्नतां सतां यो भगवान् पातालम् आविशन्तं मन्दरं पर्वतं कूर्मरूपेण पृष्ठे दध्रे बभारेत्येकान्वयः । तमवतारमेकादशं विदुरिति ॥ १६ ॥
प्रकाशिका
मथ्नतां सतां मन्दराचलं मन्दरपर्वतं यः कमठरूपेण कूर्मरूपेण दध्रे तमवतारमेकादशं विदुः ॥ १६ ॥
धान्वन्तरं द्वादशमं त्रयोदशममेव च ।
अपाययत्सुधामन्यान् मोहिन्या मोहयन् स्त्रिया ॥ १७ ॥
पदरत्नावली
द्वादशममवतारं धान्वन्तरं धन्वन्तर्याख्यरूपसम्बन्धिनं विधुः । स हरिर्यस्मिन् अवतारे मोहिन्या मोहकशक्तिमत्या स्त्रिया स्त्रीमूर्त्याऽन्यानुसारान् मोहयन् सुरान् सुधामपाय-यत्तत्त्रयोदशममेव विदुरित्येकान्वयः । चशब्दो मोहयन्नित्युक्त्या मायामयं तद्रूपमिति शङ्कानिरासार्थः
॥ १७ ॥
प्रकाशिका
धान्वन्तरं धन्वन्तरिशब्दवाच्यमवतारं द्वादशमं द्वादशत्वसङ्ख्यापूरकम् । एवमुत्तरत्र । यया मोहिन्या मोहकशक्तिमत्या स्त्रिया स्त्रीमूर्त्या । अन्यानसुरान्मोहयन्सुरान् अमोहयन्सुधामपाययत् । तमेवावतारं त्रयोदशं विदुरित्यन्वयः ॥ १७ ॥
चतुर्दशं नारसिंहं विभ्रद्दैत्येन्द्रमूर्जितम् ।
ददार करजैरूरावेरकान् कटकृद्यथा ॥ १८ ॥
पदरत्नावली
नरसिंहरूपसम्बन्धिविग्रहं बिभ्रत् स भगवान् करजैर्नखैरूर्जितं दैत्येन्द्रं हिरण्यकशिपुम् ऊरौ अङ्के निपात्य तथा ददार यथा कटकृत् तृणास्तरणकर्ता एरकान् दीर्घाकारान् तृणविशेषान् दारयति । तमवतारं चतुर्दशं विदुरित्येकान्वयः ॥ १८ ॥
प्रकाशिका
नारसिंहं नरसिंहसम्बन्धिविग्रहं बिभ्रद्भगवान् करजैर्नखैरूर्जितमुत्कृष्टं दैत्यं हिरण्यकशिपुनामकमुरावंके निपात्य तथा ददार । यथा कटकृत्तृणास्तरणकर्ता । एरकान्दीर्धाकारान् ग्रन्थिकांस्तृणविशेषान्दारयति । तमवतारं चतुर्दशं विदुः ॥ १८ ॥
पञ्चदशं वामनकं कृत्वाऽगादध्वरं बलेः ।
पदत्रयं याचमानः प्रत्यादित्सुस्त्रिविष्टपम् ॥ १९ ॥
पदरत्नावली
त्रिविष्टपं त्रैलोक्यं प्रत्यादित्सुर् बलेराच्छिद्य इन्द्राय दातुकामः, तदर्थं बलिं पदत्रयं याचमानः स पद्मनाभः पञ्चदशमवतारं वामनसम्बन्धिनं कृत्वा बलेरध्वरं यज्ञमगादित्यन्वयः
॥ १९ ॥
प्रकाशिका
पञ्चदशं वामनकं वामननामकम् । अवतारं कृत्वा त्रिविष्टपं त्रिलोकीं प्रत्यादित्सुर्बलेराच्छिद्य गृहीतुमिच्छुस्तदर्थं पदत्रयं याचमानः ॥ १९ ॥
अवतारे षोडशमे यच्छन्ब्रह्मद्रुहो नृपान् ।
त्रिःसप्तकृत्वः कुपितो निःक्षत्रामकरोन्महीम् ॥ २० ॥
पदरत्नावली
षोडशमे अवतारे स भगवान् जमदग्निसुतो भूत्वा ब्रह्मद्रुहः ब्राह्मणद्रोहिणो नृपान् यच्छन् घ्नन्, त्रिःसप्तकृत्व एकविंशतिवारं महीं निःक्षत्रां क्षत्रियजातिरहितामकरोदित्येकान्वयः । कुपित इति कुपिताकारं दर्शयन्न तु कुपितः । नहि ईश्वरस्य कोपः संभवति अशक्तस्य हि सः । ‘कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत्’इति हेयत्वात्तस्येति ॥ २० ॥
प्रकाशिका
परशुरामावतारमाह- अवतार इति ॥ ब्रह्मद्रुहो ब्राह्मणद्रोहिणस्त्रिसप्तकृत्वस् त्रिगुणं यथा भवति तथा सप्तकृत्वः सप्तवारम् एकविंशतिवारमित्यर्थः । कुपितः प्रतीपबुद्धिमान्न तु प्रसिद्ध-कोपयुक्तः । तस्य तामसस्य भगवत्यभावात् । निःक्षत्रां क्षत्रियजातिरहिताम् ॥ २० ॥
ततः सप्तदशे जातः सत्यवत्यां पराशरात् ।
चक्रे वेदतरोः शाखा दृष्ट्वा पुंसोऽल्पमेधसः ॥ २१ ॥
तात्पर्यम्
रामात् पूर्वमप्यस्ति व्यासावतारः । ‘तृतीयं युगमारभ्य व्यासो बहुषु जग्मिवान् (जज्ञिवान्)’ इति कौर्मे ॥ २१ ॥
पदरत्नावली
ततः सः हरिः सप्तदशेऽवतारे पराशरात्सत्यवत्यां जातोऽल्पमेधसो ऽल्पप्रज्ञान् पुरुषान् दृष्ट्वा वेदतरोः शाखाश्चके्र कृतवान् ॥ २१ ॥
प्रकाशिका
वेदव्यासावतारमाह- तत इति ॥ सप्तदशावतारे कर्तव्ये सति स हरिः सत्यवत्यां जातः सन् अल्पमेधसोऽल्पप्रज्ञान्पुंसः पुरुषान्दृष्ट्वा तदनुग्रहाय वेदाख्यतरोः शाखाश्चक्र इत्यर्थः । ननु रामावतारात्पूर्वं कथं व्यासावतारोक्तिः । तस्य रामावतारानन्तर्यस्य ग्रन्थान्तरसिद्धत्वादित्यत आह- रामादिति ॥ रामावतारादित्यर्थः । अत्र प्रमाणमाह- तृतीयमिति ॥ वैवस्वतमनुसम्बन्धिषु एकसप्ततिमहायुगेषु तृतीयमहायुगमारभ्य व्यासः ‘तृतीये सप्तमे चैव षोडशे पञ्चविंशके । अष्टाविंशतिके कृष्णः सत्यवत्यामजायत’इति प्रमाणोक्तेषु बहुषु महायुगेषु जग्मिवान् अवतारं प्राप्तवानित्यर्थः । जज्ञिवानिति पाठे जज्ञेऽवतारं कृतवानित्यर्थः । तथा च रामावतारस्यैव वैवस्वतमनोरष्टा-विंशमहायुगान्तर्गतत्रेतायुगे जातत्त्वात्ततः पूर्वतनमहायुगेषु जातानां व्यासावताराणां सप्तदशकत्वोक्ति-र्युक्तेति भावः ॥ २१ ॥
नरदेवत्वमापन्नः सुरकार्यचिकिर्षया ।
समुद्रनिग्रहादीनि चक्रे वीर्याण्यतःपरम् ॥ २२ ॥
पदरत्नावली
अतः परं सप्तदशात्परं पश्चादष्टादशावतारे देवकार्यकरणेच्छया नरदेवत्वं राजत्वं प्राप्तः समुद्रनिग्रहादीनि सेतुबन्धनपूर्वाणि वीर्याणि वीरकर्माणि कृतवानित्येकान्वयः ॥ २२ ॥
प्रकाशिका
रामावतारमाह- नरदेवत्वमिति ॥ राजत्वमित्यर्थः । समुद्रे निग्रहः सेतुबन्ध-स्तदादीनि वीर्याणि वीर्यकर्माणि । अतः सप्तदशात्परं पश्चादष्टादशावतारेत्यर्थः ॥ २२ ॥
एकोनविंशे विंशतिमे वृष्णिषु प्राप्य जन्मनी ।
रामकृष्णाविति भुवो भगवानहरद्भरम् ॥ २३ ॥
तात्पर्यम्
**आवेशो बलभद्रे । **
**शङ्खचक्रभृदीशेशः श्वेतवर्णो महाभुजः । आविष्टः श्वेतकेशात्मा शेषांशं रोहिणीसुतम् ॥ **
इति महावाराहे ॥ २३ ॥
पदरत्नावली
स भगवानेकोनविंशे विंशतिमे चावतारे वृष्णिषु नाम्ना रामकृष्णाविति जन्मनी प्राप्य भुवो भरं भारम् असुरपृतनालक्षणमहरदित्येकान्वयः । ‘जन्मनी’ इति द्विवचनाद्बलभद्रे विशेषादेशो ज्ञातव्यः ॥ २३ ॥
प्रकाशिका
एकोनविंशे विंशतितमे । तकारलोपश्छान्दसः । अवतारे कर्तव्ये । रामकृष्णा-विति । रामकृष्णनामनी जन्मनी प्राप्य भुवो भारमहरदित्यन्वयः । अत्र बलरामस्यापि साक्षादवतारत्वं प्रतीयतेऽतस्तात्पर्यमाह- आवेश इति ॥ अत्र प्रमाणमाह- शङ्खचक्रेति ॥ रोहिणीसुतं बलभद्रम्
॥ २३ ॥
ततः कलौ सम्प्रवृत्ते सम्मोहाय सुरद्विषाम् ।
बुद्धो नाम्ना जिनसुतः कीकटेषु भविष्यति ॥ २४ ॥
तात्पर्यम्
मोहनार्थं दानवानां बालरूपी पथि स्थितम् । पुत्रं तं कल्पयामास मूढबुद्धिर्जिनः स्वयम् ॥
ततः सम्मोहयामास जिनाद्यानसुरांशकान् । भगवान् वाग्भिरुग्राभिरहिंसावाचिभिर्हरिः ॥ इति ब्रह्माण्डे ॥ २४ ॥
पदरत्नावली
ततः कलौ युगे सम्प्रवृत्ते सति सुरद्विषां त्रिपुरवासिनां दैत्यानामयोग्यानां वेदमार्गे प्रवर्तमानानां मोहय नाम्ना बुद्धः कीकटेषु मगधविषयेषु जिनसुतः जिनेन सुतत्वेन वृतः भविष्यती-त्यन्वयः ॥ २४ ॥
प्रकाशिका
जिनसुत इत्यत्र विवक्षितमर्थं प्रमाणेनैव दर्शयति- मोहनार्थमिति ॥ अहिंसा-वाचिभिर् हिंसाभावस्य धर्मत्वप्रतिपादकादिभिः । कीकटेषु मध्ये अगम्यप्रदेशे ॥ २४ ॥
अथासौ युगसन्ध्यायां दस्युप्रायेषु राजसु ।
जनिता विष्णुयशसो नाम्ना कल्की जगत्पतिः ॥ २५ ॥
पदरत्नावली
अथ बुद्धावतारादनन्तरम् असौ जगत्पतिः पद्मनाभो युगसंध्यायां प्रप्तायां राजसु दस्युप्रायेषु बहुलं चोरेषु सत्सु नाम्ना कल्की, नाम्ना विष्णुयशसो विप्राज्जनितोत्पत्स्यत इत्येकान्वयः
॥ २५ ॥
प्रकाशिका
अथ बुद्धावतारानन्तरमसौ पुरुषनामा हरिर्युगसन्ध्यायां कलिकृतयुगयोः सन्धिकाले राजसु दस्युप्रायेषु बहुलं चोरेषु सत्सु विष्णुयशसस्तन्नामब्राह्मणान्नाम्ना कल्की जनिता जनिष्यते ॥२५॥
अवतारा ह्यसंख्येया हरेः सत्वनिधेर्द्विजाः ।
यथा विदासिनः कुल्याः सरसः स्युः सहस्त्रशः ॥ २६ ॥
तात्पर्यम्
विदासिन उन्नताद् भिन्नाद्वा । ‘त्रिविधाः पुरुषा लोके नीचमध्यविदासिनः’ इति ब्राह्मे । ‘चतुर्धा वर्णरूपेण जगदेतद्विदासितम्’ इति च ॥ २६ ॥
पदरत्नावली
हरेरवताराणामनन्तत्वादनन्तपुरुषायुषेऽपि समापयितुं नास्माकं शक्तिर-स्तीत्यभिप्रेत्याह- अवतारा इति ॥ हे द्विजाः सत्वनिधेर्बलज्ञानादिमहागुणनिधानस्य हरेरवतारा असंख्येया, हि यस्मात्तस्मात्प्राधान्यतः संख्याताः, न साकल्येन समापयितुं शक्याः । तत्रोदाहरणमाह- यथेति ॥ यथा विदासिन उन्नतस्थलाद् भिन्नाद्वा सरसः सहस्त्रशः कुल्याः क्षुद्रनद्यः स्युरिति । इदं मन्दमतीनपेक्ष्योक्तं, न तु योगिनः । क्षुद्रनदीनां तैः संख्येयत्वेऽपि न हरेरवताराः संख्यातुं शक्यन्त इत्यतो बुद्ध्यवतारार्थमिति ज्ञातव्यम् ॥ २६ ॥
प्रकाशिका
हरेरवताराणामनन्तत्वान्न साकल्येन तेषां निरूपणं शक्यमित्यभिप्रेत्याह- अवतारा इति ॥ सत्त्वनिधेः साधुगुणपूर्णस्य । हे द्विजाः । तत्र दृष्टान्तमाह- यथेति ॥ अत्र विदासिन इत्यस्य प्रकृतसङ्गतमर्थं द्वेधा दर्शयति- विदासीन इति ॥ उन्नतादुन्नतप्रदेशस्थाद्भिन्नाद्वेति वाऽर्थ इत्यर्थः । अर्थद्वये क्रमेण तच्छब्दप्रयोगं दर्शयति- त्रिविधा इति ॥ अत्र नीचमध्योन्नता इति वक्तव्ये विदासिन इत्युक्तत्वाद्विदासिशब्द उन्नतत्वार्थक इति सिद्ध्यति । तथा च जगदेतद् ब्राह्मणादीनां वर्णानां रूपेण ब्राह्मणत्वादिधर्मेण चतुर्धा विभेदितमिति वक्तव्ये विदासितमित्युक्त्या विदासशब्दो विभेदपर्याय इति ज्ञायत इति भावः । ततश्च यथा विदासो भेदो विदारणमस्यास्तीति विदासि तस्मात्सरसस्तटाकात्कुल्याः क्षुद्रप्रवाहाः सहस्रशः स्युः । तथैवासङ्ख्येया इति मन्दमतीनां बुद्ध्यारोहार्थमुक्तम् । न वस्तुतः । कुल्यानामसङ्ख्येयत्वाभावादिति मूलयोजना द्रष्टव्या ॥ २६ ॥
ऋषयो मनवो देवा मनुपुत्रा महौजसः ।
कलाः सर्वे हरेरेव सप्रजापतयः स्मृताः ॥ २७ ॥
पदरत्नावली
इदानीं प्रतिबिम्बाशानाह- ऋषय इति ॥ मनुपुत्राः प्रियव्रतादयः, प्रजापतिभि-र्दक्षादिभिः सहिता एते ऋष्यादयः हरेःकला भिन्नांशाः स्मृताः स्मृतिषु उक्ताः ॥ २७ ॥
प्रकाशिका
इनानीं प्रतिबिम्बांशानाह- ऋषय इत्यादिना ॥ मनुपुत्राः प्रियव्रतादयः । प्रजापतिभिर्दक्षादिभिः सहिताः सप्रजापतयः । हरेः कला भिन्नांशाः प्रतिबिम्बरूपांशा इति यावत् । स्मृताः स्मृतिषूक्ताः ॥ २७ ॥
एते स्वांशकलाः पुंसः कृष्णस्तु भगवान् स्वयम् ।
इन्द्रारिव्याकुलं लोकं मृडयन्ति युगे युगे ॥ २८ ॥
तात्पर्यम्
एते प्रोक्तावताराः । मूलरूपी कृष्णः स्वयमेव ।
जीवास्तत्प्रतिबिम्बांशा वराहाद्याः स्वयं हरिः । दृश्यते बहुधा विष्णुरैश्वर्यादेक एव तु ॥ इति ब्रह्मवैवर्ते ॥ २८ ॥
पदरत्नावली
तर्हि के स्वरूपांशा इति तत्राह- एत इति ॥ ‘स एष प्रथममि’त्यारभ्य ‘अथासावि’त्यन्तेन प्रोक्ता एते शेषशायिनः परमपुरषस्य स्वांशकलाः स्वरूपांशावताराः, न तत्रांशांशिनोर्भेदः प्रतिबिम्बांशवत् । किमुक्तं भवति ? कृष्णो मेघश्यामः शेषशायी मूलरूपी पद्मनाभो भगवान् स्वयं तु स्वयमेव । न शाखिशाखावद् भेदाभेदोऽपीति भाव इत्याह- इन्द्रारीति ॥ इन्द्रारिभिर्दैत्यैर्व्याकुलं जनं तत्स्थानं च युगे युगे अवतीर्य मृडयन्ति रक्षन्तीत्यन्वयः ॥ २८ ॥
प्रकाशिका
तर्हि पूर्वोक्ताः कुमारादयः कल्क्यन्ता अपि किमेवं भिन्नांशा नेत्याह- एत इति ॥ अत्रैत इत्यनेन प्रकृतानाम् ऋष्यादीनां परामर्श इति प्रतीतिं वारयन् कृष्णो देवकीपुत्रः स्वयं साक्षादेव भगवान् आविर्भूतसर्वतच्छक्तिमत्वादितरे तु न तथेति च प्रतीतिं वारयन्योजनामाह- एत इति ॥ प्रोक्तावताराः कुमाराद्याः कल्क्यन्ताः । कृष्ण इत्यनूद्य मूलरूपीति व्याख्यानम् । एवेति तुशब्दर्थः । अनेनोक्तावताराणां प्रतिबिम्बांशवद्भेदो न । किन्तु एते पूर्वोक्ताः स्वांशकलाः स्वरूपांशरूपाः कला विभागा अवताराः कुमाराद्याः कल्क्यन्ताः कृष्णो मूलरूपी भगवान् स्वयमेव तदभिन्ना एवेति मूलव्याख्यानं सूचयति । अत्र प्रमाणसंवादमाह- जीवा इति ॥ ऋषय इत्यादेस्तात्पर्यमिदम् । एते स्वांशकला इत्यादेस्तात्पर्यं वराहाद्याः स्वयं हरिरिति । तुशब्दोऽवधारणे । हरिः स्वयमेवेति सम्बन्धः । नन्वेकस्य हरेः कथं बहुभिरवतारैरभेद इत्याशङ्कायामाह- बहुधेति ॥ एक एव विष्णुरैश्वर्यादघटित-घटकैश्वर्यबलाद्वहुधा बहुत्वेन योगिभिर्दृश्यते । तथा च प्रमाणप्रसिद्धे ऐश्वर्यरूपोपपादकवति का कथंतेति भावः । स्वरूपांशानां प्रयोजनमाह- इन्द्रारीति ॥ इन्द्रारिभिर्दैत्यैर्व्याकुलमुपद्रुतं लोकं जनं स्थानं वा युगे युगेऽवतीर्य मृडयन्ति सुखिनं कुर्वन्ति ॥ २८ ॥
जन्म गुह्यं भगवतो य एवं प्रयतो नरः ।
सायम्प्रातर्गृणान् भक्त्या दुःखग्रामाद्विमुच्यते ॥ २९ ॥
पदरत्नावली
फलमाह- जन्मेति ॥ प्रयतः प्रकर्षेण निर्जितेन्द्रियग्रामो यो नरो ज्ञानी एवमुक्त-प्रकारेण जन्मरहस्यं सायंप्रातर्भक्त्या गृणन् पठन् सः सांसारिकदुःखसमूहान् मुच्यत इत्यन्वयः ॥ २९ ॥
प्रकाशिका
एतत्कीर्तनफलमाह- जन्मेति ॥ जन्मनामवताराणां गुह्यं रहस्यम् । प्रयतः प्रकर्षेण यत्नवान् । निर्जितेन्द्रियग्राम इति यावत् । गृणन्पठन्दुःखानां ग्रामः समूहो यस्मिंस्तस्मात्संसारात्
॥ २९ ॥
एतद्रूपं भगवतो ह्यरूपस्य चिदात्मनः ।
मायागुणैर्विरचितं महदादिभिरात्मनि ॥ ३० ॥
तात्पर्यम्
एतज्जडरूपम् ।
नारायणवराहाद्याः परमं रूपमीशितुः । जैवं तु प्रतिबिम्बाख्यं जडमारोपितं हरेः ॥
एवं हि त्रिविधं तस्य रूपं विष्णोर्महात्मनः ॥ इति पाद्मे ॥ ३० ॥
पदरत्नावली
इदानीं प्रतिमारूपमाह- एतदिति ॥ मायागुणैः प्रकृतिविकारैर् महदहङ्क•रादि-भिरुपादानकारणैर् आत्मनि सर्वगते हरिणा विरचितम् एतज् जडं ब्रह्माण्डमरूपस्य प्रकृतिविकृतरूप-रहितस्य, चिदात्मनः केवलज्ञानरूपस्य भगवतो रूपं प्रतिमास्थानीयम् । हिर्हेतौ । यस्माद् एतज् जडं तस्मात्प्रतिमैव, न साक्षात्स्वरूपम् । ‘चिदेकरूपस्य भगवतो मायाकल्पितसत्वादिगुणैर्महदाद्याकारेण परिणतैरेतत्प्रतीयमानं विराड्रूपमात्मनि चिद्रूपे कल्पितम् । अत एव तन्मिथ्या । अतस्मिंस्तद्बुद्धेरि’ति यत् कैश्चिदुच्यते तन्न युक्तं प्रमाणविरोधादित्यस्मिन्नर्थे वा ॥ ३० ॥
प्रकाशिका
एवं हरेः स्वरूपभूतं कौमारादिरूपम् । ऋष्यादिजीवाख्यं प्रतिबिम्बरूपं चोक्त्वेदानीं जडाख्यमारोपितरूपमाह- एतदिति मूलम् ॥ अत्रैतच्छब्देन संन्निहितप्रकृतस्वरूपांश-परामर्शप्रतीतिवारणाय परामृश्य दर्शयन् व्याख्याति- एतज्जडं रूपमिति ॥ आरोपितमिति पूरणीयम् । तथा चैतच्छब्दो न प्रकृतपरामर्शकः । किन्तु प्रत्यक्षादिना बुद्धिसंनिहितस्य जडस्येति भावः । एवं चैतज्जडमार•ेपितरूपमिति मूलयोजना कृतेति ज्ञातव्यम् । एवं भगवद्रूपत्रैविध्ये प्रमाणसंवादं दर्शयति- नारायणेति ॥ नारायणो धर्मसूनुः । परममप्राकृतम् । स्वरूपभूतमिति यावत् । आरोपितमारोपिताख्यं रूपमित्यर्थः ॥ ३० ॥
यथा नभसि मेघौघा रेणुर्वा पार्थिवोऽनिले ।
एवं द्रष्टरि दृश्यत्वमारोपितमबुद्धिभिः ॥ ३१ ॥
**व्तात्पर्यम् **
**दृश्यत्वं जडरूपत्वम् । **
अविज्ञाय परं देहमानन्दात्मानमव्ययम् । आरोपयन्ति जनिमत् पञ्चभूतात्मकं जडम् ॥ इति स्कान्दे ॥ ३१ ॥
पदरत्नावली
प्रतिमात्वकल्पनामन्तरेण साक्षाद्रूपत्वं किं न स्यादित्याशंक्य सा भ्रान्तिरिति सोदाहरणमाह- यथेति ॥ यथा मेघौघा नभस्यारोपिता मेघौघान् दृष्ट्वाऽयमाकाश इति कल्पयन्ति विवेकशून्याः, यथा अनिले वायौ पार्थिवो रेणुरारोपितः, वायुनोद्धूयमानमूर्ध्वमुखं रेणुं दृष्ट्वाऽयं वायुरिति । आकाशवाय्वोश्चाक्षुषत्वाभावाद्भ्रान्तिरेव सा । एवं द्रष्टरि सर्वज्ञे भगवति प्रतिमां दृष्ट्वा मांसदृष्ट्यगोचरे अबुद्धिभिरज्ञैर्भ्रान्त्या दृश्यत्वं जडरूपत्वम् आरोपितं कल्पितम् । तस्मात्तद्भ्रान्तम् । अतो न साक्षाद्रूपं, प्रतिमैवेति भावः ॥ ३१ ॥
प्रकाशिका
द्रष्टरि दृश्यत्वमित्यस्य प्रकृतसङ्गतमर्थमाह- दृश्यत्वमिति ॥ दृश्यं जडं तदात्मत्वं तद्धर्मवत्वं चेत्यर्थः । अत्र प्रमाणसंवादमाह- अविज्ञायेति ॥ अनेनाबुद्धिभिरित्येतदुक्ततात्पर्यम् । परमप्राकृतम् । अनेनारूपस्य चिदात्मन इत्येतदुक्ततात्पर्यम् । जनिमदित्यनेन विरचितमित्येतदुक्तार्थम् । मायागुणैर्महदादिभिरित्यस्य तात्पर्यम्- पञ्चभूतात्मकं जडमिति ॥ आरोपितमित्यस्य तात्पर्यम्- आरोपयन्तीति ॥ हरिदेहात्मतयेति शेषः । जनिमदित्यनेन धर्मारोपमपि सूचयति । ततश्चायं श्लोक-द्वयार्थः । अरूपस्य स्वतो जडरूपरहितस्य चिदात्मनो ज्ञानात्मकदेहस्य भगवत एतज्जडमारोपितं रूपम् । एतदुपपादनायैवारूपस्येत्याद्युक्तम् । कथंभूतमेतत् । मायागुणैः प्रकृतिकार्यैर्महदादिभिः पञ्चभूतान्तैर्विरचितमुत्पादितम् । इदं विशेषणं जडस्य हरिस्वरूपदेहाद्भेदोपपादनाय । पुनः कथं भूतम् । आत्मनि परमात्मस्वरूपदेहे आश्रितमिति शेषः । आरोपोपपादनायेदं विशेषणम् । नन्वेवं जडस्यारोपितरूपत्वे मिथ्यात्वप्रसङ्ग इत्यतोऽत्र विवक्षितदृष्टान्तमुखेनोपपादयति- यथेति ॥ नभसि आकाशे आश्रिता मेघौघा मेघसमूहाः सत्या आप्यारोपिता इत्युच्यन्ते । मेघचलनं दृष्ट्वा नभश्चलतीत्यबुद्धिभिरारोपितत्वात् । यथा वाऽनिले वायौ पार्थिवो रेण्वादिः सत्योऽपि वायावारोपित इत्युच्यते । रेण्वादिनिष्ठस्य रूपस्य दर्शनेन वायू रूपवानित्यबुद्धिभिरारोपितत्वात् । एवं द्रष्टरि चेतनात्मके हरिदेहेऽबुद्धिभिर्भगवद्देहस्य ज्ञानानन्दात्मकत्वज्ञानशून्यैर्दृश्यत्वं जडरूपत्वं जडधर्मभूतं जन्मादिमत्वं चारोपितम् । यथाऽकाशाद्याश्रितमेघादिकं सत्यमप्याकाशादौ चलनाद्यारोपप्रधानत्वेनाबुद्धि-भिरारोपितमित्युच्यते । तथा हरिस्वरूपदेहाश्रितमिदं जडं सत्यमपि भगवत्स्वरूपदेहे जन्माद्यारोप-प्रधानत्वादबुद्धिभिरारोपितमित्युच्यते । न वस्तुत आरोपितम् । अनेनैव विवक्षया जडमारोपितं रूपमित्युक्तमिति भावः ॥ ३१ ॥
अतः परं यदव्यक्तमव्यूढगुणबृंहितम् ।
अदृष्टाश्रुतवस्तुत्वात्स जीवो यः पुनर्भवः ॥ ३२ ॥
तात्पर्यम्
अतः परं जडेश्वररूपयोः परम् । अव्यूढगुणबृंहितंम् अनादिकाले । कदाचिदप्यनप-गतसत्वादिगुणबृंहितम् । अदृष्टाश्रुतवस्तुत्वात् पुनर्भवः ॥ ३२ ॥
पदरत्नावली
एवं हरेर्वासुदेवादि परमं रूपं ब्रह्माण्डाख्यं प्रतिमारूपं च निरूप्य जैवं रूपमाह- अत इति ॥ यज्जैवं रूपमत उक्तयोर् जडेश्वररूपयोः परम् अन्यद् अव्यक्तं सूक्ष्ममव्यूढ-गुणबंृहितम् अनादिकालात् कदाचिदप्यनपगतसत्वरजस्तमोगुणपूर्णं, यश्च अदृष्टाश्रुतवस्तुत्वादश्रुतामतानु-पासितानपरोक्षितपरमात्मस्वरूपत्वात्पुनःपुनः भव उत्पत्तिर्यस्य स तथोक्तः पुनः पुनर्जायमानो म्रियमाणश्च स जीवः । तस्मादश्मादिवदत्यन्तेश्वरवशं जैवं रूपमिति भावः । ‘अतः कार्यरूपात् परं व्यतिरिक्तं यदव्यक्तम् अनभिव्यक्तं रूपादिभिर् व्यक्तिसाधनैः शून्यम् अव्यूढम् अनभिव्यक्तं गुणानां बृंहितं कार्यं यस्मिन् तदव्यूढगुणबृंहितं, अत एव अदृष्टाश्रुतवस्तु तस्मादव्यक्तं, स प्रसिद्धो जीवो यद्यस्मात्पुन-र्भवति । जीवेन सह वर्तमानः, पुनर्भवतीति पुनर्भवः देहादिप्रपञ्चलक्षणः संसारो यस्माद्भवतीति वा । तत्कारणमि’ति यद् व्याख्यानं तददृष्टाश्रुतवस्तुत्वादिति हेत्वभिधानविरुद्धम् । तस्मिन् पक्षे यददृष्टादि-विशेषणैर्विशिष्टं तद्वस्तु मूलकारणमिति वक्तव्यम् । प्रकृतानुपयुक्तं च । अत्र देहादिप्रपञ्चस्य मिथ्यात्ववाचिपदं प्रक्षेप्यं, अतो यत्किञ्चिदेतत् ॥ ३२ ॥
प्रकाशिका
एवं कुमारादिदेहानां भगवत्स्वरूपत्वं जडस्यारोपितरूपत्वं चोपपाद्येदानीं तद्विलक्षणं जीवरूपं दर्शयति- अतः परमिति ॥ अत्रातःशब्देनाव्यवहितमारोपितरूपमेव परामृश्यत इति प्रतीतिवारणाय तत्परामृश्य दर्शयति- अतः परमिति ॥ अधिष्ठानत्वेनेश्वररूपस्यापि प्रकृतत्वादिति भावः । अव्यूढगुणबृंहितमित्येतदप्रतीत्या व्याचष्टे- अव्यूढेति ॥ ऊढशब्दस्य स्वीकृतवाचित्वेन व्यूढशब्दोऽस्वीकृतवाची । ततश्चाव्यूढशब्दात्स्वीकृत एवेत्यर्थो लभते । द्वौ नञौ प्रकृतमर्थं सातिशयं गमयत इति वचनात् । तस्येदं तात्पर्यम्- कदाऽप्यनपगतेति ॥ गुणेत्यस्यार्थः- सत्वादीति ॥
बृंहितं पूर्णम् । अदृष्टाश्रुतवस्तुत्वादित्यस्य विवक्षितमन्वयं दर्शयति- अदृष्टेति ॥ ततश्चायं श्लोकार्थः । अत आभ्यां जडेश्वररूपाभ्यां परमन्यद्यदव्यक्तमकार्यमानाविभूतनिजरूपं वा । अत्र हेतुरव्यूढगुणबृंहितमनादिकाले कदाऽप्यनपगतसत्त्वादिगुणाच्छादितं यच्चैतन्यम् । अत एवादृष्टाश्रुत-वस्तुत्वात् । वस्तुशब्दः परमात्मपरः । श्रुतपदं मताद्युपलक्षकम् । तथा चाश्रुतामतानुपासिता-दृष्टपरमात्मस्वरूपत्वात् । पुनः पुनर्भव उत्पत्तिर्यस्य स तथोक्तः । पुनः पुनर्जायमान इति यावत् । स जीव इति ॥ ३२ ॥
यत्रेमे सदसद्रूपे प्रतिषिद्धे स्वसंविदा ।
अविद्ययाऽऽत्मनि कृते इति तद्ब्रह्मदर्शनम् ॥ ३३ ॥
तात्पर्यम्
अविद्यया जीवे कृते परमेश्वरे प्रतिषिद्धे इति ब्रह्मदर्शनम् ॥ ३३ ॥
पदरत्नावली
जीवस्यैवंविधानादिबन्धनिवर्तकं ब्रह्मज्ञानमेव, न कर्मादिकमित्यभिप्रेत्याह- यत्रेति ॥ यत्र परमात्मनि सदसद्रूपे व्यक्ताव्यक्तप्रकृतिप्राकृतरूपे स्वसंविदा स्वरूपज्ञानेन प्रतिषिद्धे अनादित एव निवृत्ते अविद्यया अज्ञानेन आत्मनि जीवे कृते इति यद्दर्शनं ज्ञानं तद्ब्रह्मज्ञानं, संसारनिवर्तकमिति शेष इत्येकान्वयः ॥ ३३ ॥
प्रकाशिका
ननु जीवव्यतिरिक्तस्य ब्रह्मणोऽभावाज्जीवस्य चाहमिति दृष्टत्वान्नादृष्टवस्तुत्वं तस्येत्यत आह- यत्रेमे इति ॥ अत्र स्वसंविदा स्वसमीचीनज्ञानेन प्रतिषिद्धे प्रतिषेधार्हे भगवतो यद्यस्मादविद्ययाऽऽत्मनि कृते कल्पित इत्यन्यथाप्रतीतिवारणाय सापेक्षिताध्याहारेण व्याख्याति- अविद्ययेति ॥ परमेश्वराज्ञानेन । आत्मनीत्यस्यार्थः- जीव इति ॥ जीवे कृते ईश्वरेणैव जीवाश्रिते कृत इत्यर्थः । यत्रेत्यस्यार्थः- परमेश्वर इति ॥ प्रतिषिद्धे नित्यनिरस्ते इत्यर्थः । ततश्चायं श्लोकार्थः । यत्र यस्मिन्परमेश्वरे इमे पुनर्भव इत्यव्यूढगुणबृंहितमिति पदद्वयसूचिते सदसद्रूपे स्थूलसूक्ष्मशरीरे स्वसंविदा नित्यं स्वविषयकसाक्षात्कारेण प्रतिषिद्धे नित्यनिरस्ते ईश्वरसाक्षात्कारस्य तदुभयविरोधित्वेन सर्वदा तद्वति तदुभयसम्बन्धो न सम्भावित इति भावः । अविद्यया तत्साक्षात्कारप्रतिबन्धकयाऽऽत्मनि जीवे कृते जीवसम्बन्धिनी येन कृते तदेव ब्रह्म न जीव इति यन्नित्यमुक्तत्वेन जीवस्य बन्धकत्वेन च दर्शनं तदेव ब्रह्मदर्शनं नाहमिति इत्यत उक्तं युक्तमिति ॥ ३३ ॥
यद्येषोपरता देवी माया वैशारदी मतिः ।
संपन्न एवेति विदुर्महिमि्न स्वे महीयते ॥ ३४ ॥
तात्पर्यम्
**विशारदः परमेश्वरः । तन्मतिर्माया यदा नैनं शोचयामीत्युपरता तदा सम्पन्न एव **
॥ ३४ ॥
पदरत्नावली
कण्ठोक्त्याऽऽह- यदीति ॥ यदि सम्यगपरोक्षज्ञानोदयसाध्योत्तमप्रसादरूपैषा विशारदस्य हरेर्विद्यमाना देवी द्योतमाना मतिर्ज्ञानरूपा माया इच्छा अपरोक्षज्ञानदानेन ‘नैनं जीवं संसारयामी’त्युपरता तस्मान्निवृत्ता तर्हि तं जीवं संपन्न एवेति परं ब्रह्म प्राप्त एवेति विदुः । किञ्च स्वे स्वरूपे ज्ञानानन्दाद्यात्मके महिमि्न स्थितः स्वावरमुक्तजनैर्महीयते पूज्यत इत्यन्वयः ।
महीयत इत्युक्त्या ‘एषा कार्यकारणलक्षणप्रपञ्चविवर्तरूपा देवस्य विष्णोः सम्बन्धिनी माया वैशारदी विघटमानसंसारघटनरूपा मतिर्बुद्धिर्यद्युपरता, तदा स्वात्मरूपं ब्रह्म संपन्नं तदैक्यमापन्नं विदुरि’त्येतन्निरस्तम् । भेदनिष्ठत्वात्पूज्यपूजकभावस्येति भावः ॥ ३४ ॥
प्रकाशिका
अदृष्टाश्रुतवस्तुत्वादित्यत्र ब्रह्मदर्शनं संसारनिवर्तकमित्यर्थादुक्तम् । तदयुक्तम् । ब्रह्मज्ञानवतामपि शुकादीनां मुक्त्यभावादित्यत आह- यद्येषेति ॥ अत्र वैशारदी मतिरित्यस्य कुशलसम्बन्धिनी मतिरित्यन्यथाप्रतीतिनिरासायाह- विशारद इति ॥ तन्मतिर्माया तद्विषयकमतिरूपा मायेत्यर्थः । देवीत्युक्तमायायाश्चेतनत्वादुपरमो नाशो न युक्त इत्यतोऽत्राभिप्रेतमुपरमं दर्शयन् अपेक्षितमध्याहृत्यान्वयं दर्शयति- यदा नैनमिति ॥ एनं जीवं न शोचयामीति बुद्ध्योपरता जीवे संसारापादनरूपव्यापारान्निवृत्ता तदैनं जीवं ब्रह्मसम्पन्न एवेति विदुरित्यन्वय इति भावः । ततश्चायं श्लोकार्थः । एषा सत्त्वाद्यभिमानिनी देवी द्योतमाना माया बन्धकप्रकृतिरूपा दुर्गा यदि यदोपरतैनं जीवं न शोचयामीति बुद्ध्या जीवस्य संसारापादनरूपव्यापारान्निवृत्ता । निवृत्तेत्यनुक्त्वोपरतेत्युक्त्या प्रारब्धकर्मवशादुप जीवसमीपे किञ्चिद्रताऽपि भवतीत्यपि सूचयति । कुतः । यतो वैशारदी परमेश्वरविषयिणी मतिर्मतिरूपा जाता । भगवद्विषयकदृष्टिं दत्वा तदभिमानिनी जातेति यावत् । तदैनं जीवं ब्रह्मसम्पन्नः प्राप्त एवेति विदुः । कर्मक्षयरूपमुक्तेर्जातत्वात्परममुक्तेश्च सामीप्यात् । तथा च नोक्तव्यभिचार इति भावः । प्रारब्धकर्मावसाने तु स्वे स्वरूपभूते महिम््नयाविर्भूतज्ञानानन्दादिरूपे महत्वे स्थितः सन्महीयते स्वावरमुक्तैः पूज्यत इति ॥ ३४ ॥
एवं जन्मानि कर्माणि ह्यकर्तुरजनस्य च ।
वर्णयन्ति स्म कवयो वेदगुह्यानि हृत्पतेः ॥ ३५ ॥
तात्पर्यम्
अप्रयत्नात् स्वतन्त्रत्वात् फलानां च विवर्जनात् । क्रियायाश्च स्वरूपत्वादकर्तेति च तं विदुः ॥
कर्तृत्वं भ्रान्तिजं प्राहुरतस्तत्तत्त्वविदो जनाः । ऐश्वर्यजं तु कर्तृत्वं सम्यक् तत्तत्त्ववेदिनः ॥ इति पाद्मे ३५ ॥
पदरत्नावली
हरेरेवंविधावतारकर्मभिराप्तकामत्वेन प्रयोजनाभावेऽपि जीवानां प्रयोजनमस्ती-त्याह- एवमिति ॥ अनन्याधीनकर्तृत्वात्फलोद्देशाभावाद्वाऽकर्तुरजनस्य जननरहितस्य जनविलक्षणस्य वा हृत्पतेर् मनःपे्ररकस्य विष्णोरेवंविधानि वेदगुह्यानि उपनिषत्प्रतिपाद्यानि जन्मानि कर्माणि च कवयः संसारमोक्षाय वर्णयन्ति । हिशब्देन हरेः साकल्येन क्रियाराहित्यं प्रतिषेधति । अन्यथोत्तरश्लोक-विरोधादित्येकान्वयः । तस्माज्जीवानां संसारमोक्ष एव भगवदवतारप्रयोजनमित्यर्थः ॥ ३५ ॥
प्रकाशिका
एवमीश्वरस्य रूपत्रयमभिधायेदानीमजनस्य परमात्मनोऽवताररूपेण जन्मान्यकर्तुः क्रियारहितस्य तत्तदवतारकृतकर्मणि च न वास्तवानि किन्तु भ्रान्तिकल्पितान्येवेति केचिदाहुस्ते न भगवत्तत्वविद इत्याशयेनाह- एवमिति ॥ एवमुक्तरीत्याऽघटितघटकैश्वर्यादेवाजनस्य जन्मान्यकर्तुः कर्माणि च । स्मशब्द एवार्थे । कवय एव सम्यग्भगवत्तत्ववेदिन एव वर्णयन्ति । नेतरे । ते तु भ्रान्तिकल्पितान्येव वदन्ति । अतस्ते न कवय इति भावः । ननु तेऽपि कवय इव कुतो न वर्णयन्तीत्यत उक्तम् । वेदगुह्यानीति । वेदेषु गोप्यतया प्रतिपादितानि न स्फुटतयाऽतो वेदसंप्रदाया-ज्ञानात् तथा वर्णयन्तीति भावः । ननु कवीनामिव वेदसम्प्रदायज्ञानमपि तेषां कुतो नेत्यत उक्तम्- हृत्पतेरिति ॥ तत्तद्योग्यतानुसारेण भगवानेव तेषां तेषां मनस्तथा तथा प्रेरयतीति भावः । अत्र सर्वत्र प्रमाणप्रसिद्धिद्योतको हिशब्दः ॥ ३५ ॥
स वा इदं विश्वममोघलीलः सृजत्यवत्यत्ति न सज्जतेऽस्मिन् ।
भुतेषु चान्तर्हित आत्मतन्त्रः षाड्वर्गिकं जिघ्रति षड्गुणेशः ॥ ३६ ॥
पदरत्नावली
फलाभिसन्ध्यभावादकर्तृत्वं, न कर्तृत्वाभावादिति यत्तत्स्पष्टमाह- स वा इति ॥ अमोघलीलः सत्यकामलक्षणक्रीडः स पद्मनाभ एव इदं विश्वं सृजति, अवति रक्षति, अत्ति संहरति । न रुद्रादिः । तथाप्यस्मिन् जगति न सज्जते लौकिककर्तृवत्फलासक्तो न भवति । अतोऽकर्ता, न तु कर्तृत्वाभावात् । अभोक्तृत्वमपि दुःखाभोगादेव न तु भोगाभावात्, सुखभोक्तृत्वसंभवादित्यभिप्रेत्याह-भूतेष्विति ॥ पञ्चभूतैः संभूयोत्पन्नत्वाद् भूतेषु शरीरेेष्वन्तर्हितः मनःश्रोत्रादिषडिन्द्रियवर्गग्राह्य-शब्दादिविषयसारं जिघ्रति भुंक्ते, न तु दुःखादिकम् । कुतः ? आत्मतन्त्रः । नहि स्वतन्त्रस्य दुःखादनं घटते । इतोऽपि नेत्याह- षडिति ॥ षड्गुणेशः षडिन्द्रियविषयेशो ऽतश्च सारभुक् । तस्मादभोक्तृत्वं नाम दुःखाभोगादेव, न तु भोक्तृत्वाभावादित्यर्थः ।‘आत्मतन्त्र’इत्यनेन विशेषणेन ‘ईश्वर एव देहे प्रविष्टो जीवो भवति, नान्य इत्ययमर्थः स वा इदमित्यनेन समर्थ्यत’इत्येतद् दूषितम् । नहि सुखमेव स्याद् दुःखमण्वपि न स्यादिति कर्तुं समर्थ ईश्वरः सुखदुःखपात्रीभूतं जीवत्वमभिकांक्षते ईश्वरत्व-विरोधात् ॥ ३६ ॥
प्रकाशिका
नन्वेवं कर्तृत्वस्य स्वाभाविकत्वेऽकर्तृत्वप्रतिपादकश्रुतिविरोध इत्याशङ्कापरिहाराया-कर्तृत्वश्रुतेरर्थान्तरं दर्शयति- स वा इति ॥ स परमपुरुषः । यद्यपीदं विश्वं सृजतीत्यादि । तथाऽपि अस्मिन्स्वक्रियाजनिते फले न सज्जने आसक्तो न भवति । अतोऽकर्तेत्युच्यत इति शेषः । तथा च फलासक्त्यभावनिबन्धनमकर्तृत्ववचनमिति भावः । कुत एवमित्यत उक्तम्- अमोघलील इति ॥ अतः सत्यक्रिय इत्यर्थः । सार्धश्लोकार्थं प्रमाणेन दृढयति- अप्रयत्नादिति ॥ अनायासादित्यर्थः । स्वतन्त्रत्वादप्रयत्न इति शेषः । तथा चान्याधीनप्रयत्नाभावादित्यर्थः । फलानां चेति । चशब्दो निमित्तान्तरसमुच्चयार्थः । फलोद्देशेन कारणाभावादित्यर्थः । क्रियायाः परिस्पन्दरूपायाः स्वतन्त्रत्वाद् अन्याधीनत्वाभावात् स्वरूपत्वम्, स्वरूपादिति पाठः सुगमः । मूलेऽनुक्तसमुच्चायकचशब्दार्थकेन वैशब्देनाप्रयत्नादित्यादिकमपि निमित्तमुक्तमित्यवगन्तव्यम् । चशब्दोऽवधारणे । अप्रयत्नादित्यादौ सर्वत्र सम्बध्यते । एतैरेव निमित्तैस्तं भगवन्तमकर्तेति विदुर्न सर्वथा कर्तृत्वाभावेनेत्यर्थः । ननु सर्वथा कर्तृत्वाभाव एवाकर्तेत्यस्यार्थः । प्रतीयमानं तु कर्तृत्वं भ्रान्तिकल्पितमित्येव किं न स्यादित्यत आह- कर्तृत्वमिति ॥ भ्रान्तिजं भ्रान्तिकल्पितम् । ननु निर्विकारस्य कथं क्रियावेशरूपं कर्तृत्वं स्वाभाविकमित्यत आह- ऐश्वर्यजमिति ॥ ऐश्वर्येण घटनीयमित्यर्थः । नन्वेवं कर्तृत्वस्य स्वाभाविकत्वे भोक्तृत्वमपि तस्य स्यादित्यतोऽत्रेष्टापत्तिमाह- भूतेष्विति ॥ प्राणिदेहेष्वित्यर्थः । चशब्दः कर्तृत्वसमुच्चयार्थः । आत्मतन्त्रः स्वतन्त्रः । अनेनानश्नन्नन्य इति श्रुतेरन्याधीनाशनाभावार्थकत्वं सूचयति । षाड्वर्गिकं श्रोत्रादिषडिन्द्रियवर्गविषयम् । जिघ्रति भुङ्क्ते । शुभविषयभोग एवास्य नाशुभविषयभोग इति सूचयितुं षड्गुणेश इत्युक्तम् । षडिन्द्रियग्राह्यगुणसत्तादिप्रद इत्यर्थः । अनेनानशनश्रुतिरशुभभोगाभावपराऽपीति सूचयति ॥ ३६ ॥
न चास्य कश्चिन्निपुणं विधातुरवैति जन्तुः कुमनीष ऊतिम् ।
नामानि रूपाणि मनोवचोभिः सन्तन्वतो नटचर्यामिवाज्ञः ॥ ३७ ॥
पदरत्नावली
एवंविधमिथ्याज्ञानी तत्स्वरूपाज्ञानाद्भगवद्भजनादावनधिकारीत्याह- न चेति ॥ वचोभिः संकीर्तनयोग्यानि नामानि, मनोभिः स्मरणयोग्यानि रूपाणि, सम्यक् तन्वतः विस्तारयतः मनोवचोभिर्नामरूपात्मकं प्रपञ्चं सृजतो वा सतां निपुणं भद्रं विधातुर् अस्य हरेर् ऊतिम् अभिप्रायं गतिं वा कश्चिदपि नावैति न जानाति । कीदृशः ? कुमनीषः मिथ्याज्ञानी जन्तुः कृमिसदृशः । जन्तुरिति पुनः पुनर्जायमानो म्रियमाणः मिश्रबुद्धिः संसारी । कुमनीष इति कुत्सितं प्रमाणविरुद्धं सर्वमिथ्यात्वं मनसा मन्यते, न तु युक्त्या वक्तुं शक्नोतीत्यद्वैतवादी वा । कथमिव ? नटस्यांगुल्याद्यभिनयविशेषाज्ञो नटचर्यां भारतादिकथात्मिकां यथा न जानाति तथाऽयमिति भावः ॥ ३७ ॥
प्रकाशिका
नामरूपात्मकं विश्वं सृजतीति पूर्वमुक्तम् । तत्र भगवांश्चतुर्मुखादिरूपाणि विरिञ्चादिनामानि च रुद्रादिगतानि कस्मान्न करोति । ईश्वरत्वेन तस्य सामर्थ्यसद्भावात् पूर्णानन्दस्य तस्य किं विषयभोगेन कृत्यमित्यत आह- न चास्येति ॥ निपुणं यथा स्यात्तथा विधातुर्जगत्कर्तुर्मनसा रूपाणि वचोभिर्नामानि सन्तन्वतस्तत्तव्यक्तिविशेषनिष्ठतया विस्तारयतश् चशब्दाद्विषयभोक्तुश्चास्य परमपुरुषस्योतिमभिप्रायं गतिं वा कश्चित्कोऽपि जन्तुर्जीवो नावैति । कुतः । यतः कुमनीषः कुत्सितबुद्धिः । असर्वज्ञ इति यावत् । क इव । नटस्याङ्गुल्याद्यभिनयविशेषरूपां चर्यां चेष्टामज्ञ इव भरतशास्त्रार्थज्ञानशून्यः पुरुषो यथा नावैति तथैवेत्यर्थः ॥ ३७ ॥
स वेद धातुः पदवीं पदस्य दुरन्तवीर्यस्य रथाङ्गपाणेः ।
योऽमायया सन्ततयाऽनुवृत्त्या भजेत तत्पादसरोजगन्धम् ॥ ३८ ॥
पदरत्नावली
तर्हि कीदृशो वेदेति तत्राह- स इति ॥ यो वेदप्रमाणको ऽमायया अव्याजेन, इदमखिलं मायाकल्पितमनिर्वाच्यं न भवतीति भावेन वा सन्ततया निरन्तरया प्रवाहरूपया अनुवृत्या सेवया हृत्कमलमध्यनिवासिनस्तस्य पादसरोजयोर्गन्धं भजेत अत्रैवास्वाद्य मग्नमना भवेत् स पुरुषः दुरन्तवीर्यस्य असंख्यातपराक्रमस्य परस्य पूर्णस्य धातुः पोषणादिकर्तुः रथाङ्गपाणेः श्रीनारायणस्य पदवीं मार्गं स्वरूपस्थितिं वेदेत्येकान्वयः । धातुरित्युक्ते चतुर्मुखोऽपि स्यादित्यतः परस्येति । चतुर्मुखपरत्वमप्यक्षरस्यास्ति अतो रथाङ्गपाणेरिति । तस्माद्भागवता एव भगवदापरोक्ष्यं लभन्ते नेतर इति सिद्धम् ॥ ३८ ॥
प्रकाशिका
ननु भक्तस्य तदितिज्ञानं स्यादित्यतः सोऽपि भजनादिना कथञ्चित्तदीयां स्थितिं मार्गं जानाति न सम्यक् तत्स्थितिमित्याह- स वेदेति ॥ धातुर्जगत्पोषणादिकर्तुः । इन्द्रादिव्यावृत्त्यर्थं परस्येति । पदवीं मार्गम् । अमायया कुटिलभावशून्यया, सन्ततया निरन्तरं क्रियमाणयाऽनुवृत्त्या भक्त्या तत्पादसरोजगन्धम् । हृदि व्यक्तं रूपम् । ‘हृदि व्यक्तं तु यद्रूपं हरेर्गन्धः स उच्यत’ इति वक्ष्यमाणत्वात् । भजेत तत्रैव मग्नमना भवेत, स पदवीं वेदेत्यन्वयः ॥ ३८ ॥
अथेह धन्या भगवन्त इत्थं यद्वासुदेवेऽखिललोकनाथे ।
कुर्वन्ति सर्वात्मक आत्मभूतं न यत्र भूयः परिवर्त उग्रः ॥ ३९ ॥
पदरत्नावली
भागवता अपि भवादृशा एवेत्याशयवानाह- अथेति ॥ हे भगवन्तः पूजावन्तः, भाग्यवन्तो वा, यत्र यस्मिन् भगवत्यात्मभावे स्वामिभृत्यभावे क्रियमाणे सति भूयः पुन उं रुद्रमपि ग्रसतीति उग्रः कूरः परिवर्तः संसारः मरणं वा न स्यात् तस्मिन्नखिललोकनाथे सर्वात्मके सर्वान्तर्या-मिणि वासुदेवे इत्थमुक्तप्रकारेणात्मभावं कुर्वन्तीति यद् यस्माद् अथ तस्मादिह चेतनराशौ यूयं धन्या निरपेक्षगुणपूर्णाः कृतकृत्या इत्येकान्वयः । यत्र यस्मिन्नात्मभावे क्रियमाणे परिवर्तो न स्यात् तमात्मभावमिति वा ॥ ३९ ॥
प्रकाशिका
भक्तिमार्गे प्रवृत्तानृषीन्सावधानं स्ववचनश्रवणायाभिनन्दयति- अथेति ॥ यतो भक्त एव भगवत्तत्वं वेदाथ तस्माद् एव भगवन्तः पूज्या धन्या निरपेक्षगुणपूर्णाः कृतार्था इति यावत् । कुतः । यद्यस्मादित्थमुक्तप्रकारेण सर्वात्मके सर्वान्तर्यामिण्यात्मभावं स्वामित्वेन भावनां मनोवृत्तिनिष्ठां वा । यत्र यस्मिन्नात्मभावे सति परिवर्तो जन्ममरणाद्यावर्तः । संसार इति यावत् । उग्रः क्रूरः ॥ ३९ ॥
इदं भागवतं नाम पुराणं ब्रह्मसंमितम् ।
उत्तमश्लोकचरितं चकार भगवानृषिः ॥ ४० ॥
तात्पर्यम्
धर्मः कं शरणं गत इत्यस्य तमेव व्यासरूपिणमिति परिहार उच्यते ‘इदं भागवतम्’ इत्यादिना ॥ ४० ॥
इति तृतीयोध्यायः ॥
पदरत्नावली
धर्मः कं शरणं गत इति प्रश्नं परिहरति- इदमित्यादिना ॥ ऋषिः सर्वज्ञो व्यासो भगवान् ब्रह्मणा वेदेन संमितं तुलितम् उत्तमश्लोकचरितम् उत्तमश्लोकस्य हरेश्चरितानि यस्मिन् सन्ति तत्तथोक्तम् इदं बुद्धिस्थं भागवतं पुराणं चकार ॥ ४० ॥
प्रकाशिका
इदं भागवतं नामेत्यादेः सङ्गत्यप्रतीतेस्तां दर्शयति- धर्म इति ॥ तमेव कृष्णमेव । परिहार उच्यत इत्यनन्तरं सूत किमपूर्वं पुराणं निर्मायास्माकं कथयसीति विप्राणां मानस-संशयनिरासपूर्वकमिति शेषः । इत्यादिनेत्यादिशब्देन पुराणार्कोऽमुनोदित इत्यन्तस्य ग्रहणम् । तथा चेदं भागवतमित्यादिना पूर्वोक्तशङ्कामादौ निराकृत्यान्त्यश्लोके एव परिहार उच्यत इत्यर्थः । ब्रह्मसंमितं वेदतुल्यम् । उत्तमश्लोकस्य हरेश्चरितानि यस्मिंस्तत्तथोक्तम् । ऋषिर्व्यासः ॥ ४० ॥
निःश्रेयसाय लोकस्य धन्यं स्वस्त्ययनं महत् ।
तदिदं ग्राहयामास सुतमात्मवतां वरम् ॥ ४१ ॥
पदरत्नावली
किमर्थं ? लोकस्य निःश्रेयसाय मोक्षाय । धन्यं पुष्टिकरं स्वस्त्ययनं सर्वमङ्गला-नामालयं, अर्थतः शब्दतोऽपि महद् यदेवंविधं तदिदं स व्यास आत्मवतां वशीकृतमनसां वरं सुतं शुकं ग्राहयामास ॥ ४१ ॥
प्रकाशिका
धन्यं ज्ञानादिपुष्टिकरं स्वस्त्ययनं सर्वमङ्गलाश्रयम् । तत्प्रदमिति यावत् । महच्छब्दतोऽर्थतश्च । सुतं शुकम् । आत्मवतां जितमनसाम् ॥ ४१ ॥
सर्ववेदेतिहासानां सारं सारं समुद्धृतम् ।
स तु संश्रावयामास महाराजं परीक्षितम् ॥ ४२ ॥
प्रायोपविष्टं गङ्गायां परीतं परमर्षिभिः ।
तस्य कीर्तयतो विप्रा राजर्षेर्भूरितेजसः ॥ ४३ ॥
अहं चाध्यगमं तत्र निविष्टस्तदनुग्रहात् ।
सोऽहं वः श्रावयिष्यामि यथाऽधीतं यथामति ॥ ४४ ॥
पदरत्नावली
कुत एतदेवाग्राहयदिति तत्राह- सर्वेति ॥ वेदादिसर्वशास्त्रोत्तमत्वादिदमेव ग्राहितमिति भावः । स तु शुकः परमऋषिभिः परीतं समन्वितं गङ्गायां प्रायोपविष्टम् अनशनव्रतमाचरन्तं परीक्षितं नाम महाराजं चक्रवर्तिनं श्रावयामास । किं चाहं च विप्रा हे विप्रास् तदनुग्रहात्तत्र गङ्गायां तदन्तिके निविष्टः मम योग्यस्थाने उपविष्टः, भूरितेजसः क्षात्रसामर्थ्योपेतस्य ब्रह्मापरोक्षज्ञानवतो वा तस्य राजर्षेरर्थे कीर्तयतः शुकादध्यगमं पठितवानस्मि । योऽहं तत्राध्यगमं सोऽहम् । तत्र, ‘तत्रेत्यादि’प्रश्नपरिहाराय सर्ववेदेतिहासादिसारत्वेन भगवतोद्धृतं श्रीभागवतं वः युष्माकं श्रावयिष्यामि । कथं ? यथापठितं यथाप्रज्ञम् । इत्येकान्वयः ॥ ४२-४४ ॥
प्रकाशिका
सारं सारमत्यन्तसारम् । अत्युत्तमप्रमेयमिति यावत् । समुद्धृतं सम्यगुद्धृत्य ग्रथितम् । यस्मिन्निति शेषः ॥
प्रायोपविष्टं प्रायेण मृत्युपर्यन्तानशनेनोपविष्टम् । अनेन परमवैराग्यं सूचितम् परमर्षिभिः परीतमित्यनेन तत्र विप्रलम्भादिशङ्का नेति सूचयति ॥
सोऽहम् एवं पुरातनपुराणश्रवणवान् । यथाऽधीतमित्यनेन विप्रलम्भनशङ्कामपाकरोति । यथामतीत्य-नेन मम साकल्येन तत्प्रवचने न सामर्थ्यमित्याह ॥ ४२-४४ ॥
कृष्णे स्वधामोपगते धर्मज्ञानादिभिः सह ।
कलौ नष्टदृशां पुंसां पुराणार्कोऽमुनोदितः ॥ ४५ ॥
इति श्रीमद्भागवते तृतीयोऽध्यायः
पदरत्नावली
यत्पृष्टं ‘धर्मः कं शरणं गत’इति तत्रोत्तरं धर्मज्ञानादिभिः सह कृष्णे स्वधाम वैकुण्ठं प्राप्ते सति, कलियुगे नष्टज्ञानानां पुसां सर्वसद्धर्मप्रकाशकश्रीभागवतपुराणार्कोऽमुना वेदव्यासेन उदित उदयं प्रापितः । तस्मात्स धर्मः सच्छास्त्रैर्ज्ञानसद्धर्मप्रवर्तकं तमेव व्यासरूपिणं कृष्णं शरणं गत इति भावः ॥ ४५ ॥
इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुविरचितायां प्रथमस्कन्धे तृतीयोऽध्यायः ॥
प्रकाशिका
एवं विप्राणां मानससंशयं परिहृत्येदानीं ‘धर्मः कं शरणं गत’ इत्यस्योत्तरमाह- कृष्ण इति ॥ अमुना व्यासेनोदित उदयं प्रापितः । कलौ धर्मज्ञानप्रदर्शनायेति शेषः । तथा च कलौ धर्मज्ञानप्रदर्शकपुराणकर्तारं कृष्णापररूपं व्यासमेव धर्मः शरणं स्वरक्षकं गत इति परिहारोऽत्रोक्तो भवतीति भावः ॥ ४५ ॥
**॥ इति श्रिमद्भागवते प्रथमस्कन्धे प्रथमाध्यायटिप्पण्यां **
वेदेशतीर्थपूज्यपादशिष्ययदुपतिविरचितायां तृतीयोऽध्यायः ॥ १-२ ॥