इति सम्प्रश्नसम्पुष्टो विप्राणां रौमहर्षणिः
अथ द्वितीयोऽध्यायः
इति सम्प्रश्नसम्पुष्टो विप्राणां रौमहर्षणिः ।
प्रतिपूज्य वचस्तेषां प्रवक्तुमुपचक्रमे ॥ १ ॥
पदरत्नावली
शौनकादिविप्राणां, इति=पूर्वोक्तैः षड्भिः । समीचीनैः प्रश्नैः सम्यक् पृष्टः । रोमहर्षणस्य अपत्यं रौमहर्षणिः सूतः । तेषां शौनकादीनाम् । वचः प्रतिपूज्य प्रवक्तुं व्याख्यातुम् उपचक्रम इत्येकान्वयः । एतद्व्यासवचनम् ॥ १ ॥
प्रकाशिका
विप्राणां शौनकादीनां सम्प्रश्नैर्भगद्विषयतया समीचीनैः प्रश्नैः सम्यक् श्रद्धापूर्वकं पृष्टो रोमहर्षणस्यापत्यं रौमहर्षणिः सूतः प्रतिपूज्य सत्कृत्य प्रवक्तुं तदुत्तरत्वेन श्रीमद्भागवतं वक्तुमुपचक्रमे उपक्रान्तवान् ॥ १ ॥
सूत उवाच—
यं प्रव्रजन्तमनुपेतमपेतकृत्यं
द्वैपायनो विरहकातर आजुहाव
पुत्रेति तन्मयतया तरवोऽपि नेदु-
स्तं सर्वभूतहृदयं मुनिमानतोऽस्मि ॥ २ ॥
तात्पर्यम्
अनुपेतं देहादिभिः । अनभिमानात् । अकातरः कातरवददर्शयत् । उक्तं च स्कान्दे ।
नित्यतृप्तः परानन्दो योऽव्ययः परमेश्वरः । यस्य पुत्रफलं नैव यज्जातं जगदीदृशम् ॥
यदधीनश्रियोपाङ्गाद् ब्रह्मरुद्रादिसंस्थितिः । स पुत्रार्थं तपस्तेपे व्यासो रुद्रस्य चेश्वरः ॥
कातर्यं दर्शयामास वियोगे लौकिकं हरिः । कुतः कातरता तस्य नित्यानन्दमहोदधेः ॥ इति ।
ईशन्नपि हि लोकस्य सर्वस्य जगतो हरिः । कर्माणि कुरुते विष्णुः कीनाश इव दुर्बलः ॥ इति चोद्योगे ।
‘देवत्वे देववच्चेष्टा मानुषत्वे च मानुषी’ इति श्रीविष्णुधर्मे । सर्वभूतहृदयम् अहङ्कारात्म-कत्वात् । ‘अहङ्कारात्मको रुद्रः शुको द्वैपायनात्मजः’ इति स्कान्दे ॥ २ ॥
पदरत्नावली
शौनकादिप्रश्नपरिहारतया भागवतपुराणं व्याकर्तुकाम उग्रश्रवाः सूतः स्वेष्टगुरुं रुद्रावतारं श्रीशुकमुनिं प्रणमति- यमिति ॥ विरहकातरः पुत्रवियोगकातरः, अधीर इव स्थितः । स द्वैपायनो यदा प्रव्रजन्तमनुपेतं यं पुत्रेति आजुहाव तदा तन्मायतया तरवोऽपि नेदुर् अहं सर्वभूतहृदयं तं मुनिं सर्वज्ञमानतोऽस्मीत्येकान्वयः । द्वीपो नदीमध्यप्रदेशः । स अयनमाश्रयः यस्य सस् तथा द्वीपायनः । स एव द्वैपायनः । द्वीपस्यापत्यं द्वैपायनः । नदीद्वीपे समुत्पन्नत्वात्तदपत्यत्वव्यपदेश औपचारिकः । तद्वतः पराशरसुतत्वमप्यौपचारिकमिति ज्ञापयितुम् एतदेव प्रसिद्धनामाकरोत् । प्रव्रजन्तं सर्वपरित्यागरूपाश्रममाश्रयन्तम् । तत्र कारणमाह- अनुपेतं देहाद्यभिमानशून्यम् । न उपेतः केनापि सख्या, तम् एकाकिनमिति वा । न चोपनयनशून्यो ऽनुपेतो । अनुपनीतस्य प्रव्रजनायोगात् । न च प्रव्रजनं न सन्न्यासः, किन्तर्हि प्रकर्षेण गमनमेवेति वाच्यम् । ‘यदहरेव विरजेत्तदहरेव प्रव्रजेदि’ति गौतमसूत्रविरोधात् । अपगतं कृत्यं यस्मात्सो ऽपेतकृत्यस् तं कृतकृत्यम् । अपेतं निराकृतं कृत्यं छेदनादिकर्म येन स तथा । अवाप्ताहिंसालक्षणाश्रमत्वात्तमिति वा । पुत्रेति दूरादाह्वाने प्लुताभाव-श्छान्दसः । सर्वगतत्वज्ञापनाय वा । तन्मयतया अहङ्कारात्मकरुद्रावतारशुकस्य व्याप्तिमत्तया वृक्षा अपि प्रतिशब्दम् अदुः, किमुत शरीरिण इति द्योतयितुं ‘अपि’ शब्दः । सर्वभूतानां हृत्स्थानमयते गच्छतीति सर्वभूतहृदयस् तम् । अहङ्कारतत्वाभिमानित्वेन सर्वत्र स्थितमित्यर्थः ॥ २ ॥
प्रकाशिका
आदौ तावच्छिष्टाचारपरिपालनाय सूतः स्वगुरुं शुकं नम्यत्वप्रयोजकं माहात्म्यं तस्य दर्शयन् प्रणमतीत्याह- यं प्रवजन्तमिति ॥ अत्रानुपेतं मामुपनयस्वेत्युपनयनार्थमनुपसन्नमिति व्याख्यानं न प्रव्रजनोक्त्यनुगुणम् । अनुपनीतस्य सन्यासाय गमनासम्भावात् । अतोऽध्याहारेण यथावव्द्याख्याति- अनुपेतमिति ॥ ननु देहेन्द्रियादेः प्रत्यक्षेणोपलम्भात्कथमेतदित्यत आह- अनभिमानादिति ॥ तथा च देहादौ सत्यपि तत्राभिमानाभावाच्छुको देहाद्यनुपेत इत्युच्यत इति भावः । अभिमानाभावश्च प्रव्रजनोपयोगीति प्रसिद्धम् । विरहकातर इत्युक्त्या व्यासस्य कातर्यमधैर्या-परपर्यायं प्रतीयते । न च भगवदवतारे तस्मिंस्तद्युज्यतेऽतोऽत्र तात्पर्यं दर्शयति- अकातर इति ॥ अदर्शयत् । आत्मानमिति शेषः । तथा च कातर इत्येतत्कातर इव दृश्यमान इति लक्षणया व्याख्येय-मिति सूचयति । उक्त एवार्थ इत्यत्र प्रमाणमाह- उक्तं चेति ॥ तपस्तेपे । रुद्रं प्रतीति शेषः । रुद्रस्य च रुद्रस्यापि । नित्यतृप्त्यादिविशेषणैर्वस्तुतो व्यासः पुत्रकामादिशून्य इति दर्शयति- तपस्तेप इति दर्शयामासेत्यन्वयः । कातर्यं चेत्यपि चशब्दसम्बन्धः । दर्शयामास । दुष्टानां मोहनायेति शेषः । वियोगे संन्यासार्थं शुके गते सति । लौकिकं पामरजनेषु विद्यमानम् । स्वयमतथाभूतोऽपि लोके मोहनाय कर्माणि करोतीत्यत्र प्रमाणान्तरमप्याह- ईशन्नपीति ॥ हीति तत्र प्रमाणप्रसिद्धिं दर्शयति- कर्माणीति ॥ कातर्यप्रदर्शनादीनि । विष्णुर्व्यासादिरूपो दुर्बलः कीनाशः कर्षकः । कुत्सित इति यावत् । स इव । कातर्यादिप्रदर्शने निमित्तान्तरमपि प्रमाणेनैवाह- देवत्व इति ॥ देवानां देवत्वे मूलरूपेणावस्थाने देववद्देवानामिव चेष्टा कर्तव्या । मानुषत्वे मनुष्येष्ववतारे मानुषी मनुष्यसम्बन्धिनी चेष्टा कर्तव्येति विष्णुधर्मे यत उक्तमतो देवशिक्षणायापि कातर्यपूर्वकाह्वानादिव्यापारे मनुष्यावतारेण व्यासेन दर्शित इति वाक्यशेषः । ततश्चायं श्लोकार्थः । यं प्रव्रजन्तं संन्यासाश्रममाश्रयन्तम् । अत्र हेतुसूचकं विशेषणमनुपेतमिति । अभिमानाभावाद् देहादिभिरनुपेतमत एवापेतमपगतं कृत्यं गृहाश्रमोचितं यस्मात्स तथाभूतम् । द्विर्भूता आपो यस्मिन्स द्वीपः स एवायनमाश्रयो यस्य स द्वीपायनः । द्वीपायन एव द्वैपायनः । विरहकातरो विरहे शुकवियोगे सति कातरोऽधीर इव दृश्यमानः पुत्र इति आजुहावाहूतवान् । दूराह्वाने प्लुते विद्यमानेऽपि सन्धिश्छान्दसः । तदा तन्मयतया तत्प्रचुरतया । तेन शुकेन अधिष्ठिततयेति यावत् । तरवोऽपि वृक्षशरीरा अपि । किमु मनुष्यशरीरिण इति कैमुत्यसूचनायापिशब्दः । नेदुः प्रत्युत्तरमुक्तवन्तः । न तव मद्वियोगोऽस्ति मम सर्वप्राणिदेहेषु सत्वात् । अतस्त्वया न कातरेण भवितव्यमिति पितृसांत्वनाय स्वस्य सर्वत्रावस्थितिं ज्ञापयन् शुकः स्वयमेव सर्वप्राणिषु स्थित्वोत्तरं दत्तवानिति भावः । तं मुनिमानतोऽस्मीति । अत्र सर्वप्राणिनां तन्मयत्व-मुपपादयितुमुक्तम् । सर्वभूतहृदयमिति ॥ तदिदं शुकस्य सर्वभूतहृदयत्वं कथमित्यतस्तदुपपादयति- सर्वभूतहृदयमिति ॥ अहङ्कारात्मकत्वात् । मनःप्रभेदरूपाहङ्काराभिमानित्वादित्यर्थः । तथा च हृन्मनोविशेषरूपमहङ्कारं प्रेरकतयाऽयतीति हृदयमिति व्याख्यानं सूचयति । नन्वहङ्कारात्मकत्वं रुद्रे प्रसिद्धं न शुकस्येत्यतः शुकोऽपि रूद्रात्मक एवेति प्रमाणानाह- अहङ्कारात्मक इति ॥ अनेनाहङ्काराभिमानित्वेन सर्वप्राणिशरीरस्थत्वरूपमाहात्म्यं शुकस्य नम्यत्वप्रयोजकमुक्तं भवतीति ज्ञातव्यम् ॥ २ ॥
यः स्वानुभावमखिलश्रुतिसारमेक-
मध्यात्मदीपमतितीर्षतां तमोऽन्धम्
संसारिणां करुणयाऽऽह पुराणगुह्यं
तं व्याससूनुमृपयामि गुरुं मुनीनाम् ॥ ३ ॥
तात्पर्यम्
स्वानुभावं ब्रह्म ॥ ३ ॥
पदरत्नावली
पुनरपि भक्त्युद्रेकात्तमेव प्रणमति- य इति ॥ यः स्वानुभावम् अनन्याधीनसामर्थ्यं ब्रह्म माऽऽह उपादिशत्, यश्च अन्धन्तमो ऽन्धत्वापादकमज्ञानम् अतितीर्षतां तर्तुमिच्छतां संसारिणां जीवानां करुणया अखिलानां श्रुतीनाम् अर्थज्ञापकतया सारमुत्तमम् । अखिलस्य जगतः श्रुतेः श्रवणेन्द्रियस्य सारं सुखदं वा एकं सकलपुराणोत्तमं देहादीश्वरपर्यन्ततत्वानि दीपयति प्रकाशयती-त्यध्यात्मदीपं पुराणगुह्यं पुराणेषु गोप्यम् । पुराणस्य भगवतः सन्निधातुं योग्यमिति वा भागवताख्यं पुराणं मम व्याचख्यौ, मुनीनां गुरुं तं व्याससूनुं शुकम् । उपयामि शरणं गच्छामीत्येकान्वयः ।
अखिलश्रुतीः सरति गच्छति विषयतयेति अखिलश्रुतिसारः । कर्मण्यण् प्रत्ययः । वेदार्थेषु सारभूतमिति वा । अध्यात्मं देहस् तत्र दीपवद्वर्तमानं, पुराणेषु गोपितं स्वानुभावं ममोपदिदेशेति वा
॥ ३ ॥
प्रकाशिका
इदं च सर्वतत्त्वाभिमानिसाधारणमतोऽसाधारणमपि तद्दर्शयन् भक्त्युद्रेका-न्मङ्गलान्तरमाचरतीत्याह- य स्वानुभावमिति ॥ अत्र स्वस्यानुभावः सामर्थ्यमिति व्याख्याय शुकसामर्थ्यस्यैव ग्रहणे तत्राखिलश्रुतिसारत्वादिविशेषणानामनुपपत्तिरतोऽत्र विवक्षितमर्थं दर्शयति- स्वानुभावं ब्रह्मेति ॥ ततश्च स्व स्वीयोऽनन्याधीनानुभावो यस्येति सूचयति । ततश्चायं श्लोकार्थः । अन्धयतीत्यन्धं तमोऽज्ञानाख्यमतितितीर्षतामतिशयेन तर्तुमिच्छतां संसारिणामस्मदाद्यधिकारिणां स्वानुभावमनन्याधीनसामर्त्यमखिलश्रुतीनां सारं प्रतिपाद्योत्तममेकं सर्वोत्तममात्मनं जीवमधिकृत्य वर्तमानं शरीरं तत्र दीपं दीपवद्वर्तमानं पुराणगुह्यं भागवतादिपुराणरहस्यभूतं परं ब्रह्म करुणयाऽऽहोपदिष्टवान् । अत एव मुनीनां गुरुं तमुपयामि शरणं व्रजामीति । ‘गुरोर्नाम न गृह्णीयाच्छिष्य’ इति वचनात् । पूर्वश्लोके मुनिमिति अत्र व्याससूनुमिति निर्देश इति ध्येयम् । अत्र कृपालुत्वं सर्वमुनीनां श्रीमद्भागवतादि पुराणरहस्यार्थभूतपरब्रह्मोपदेष्टृत्वेन गुरुत्वं चासाधारणं नम्यत्वप्रयोजकं दर्शितमिति ज्ञातव्यम् ॥ ३ ॥
नारायणं नमस्कृत्य नरञ्चैव नरोत्तम् ।
देवीं सरस्वतीं व्यासं ततो ग्रन्थमुदीरये ॥ ४ ॥
पदरत्नावली
इष्टदेवताशास्त्रगुर्वादीन् प्रणमति- नारायणमिति ॥ नारायणं शास्त्रप्रतिपाद्यम् । तथा तमेव शास्त्रकर्तृत्वाद्गुरुं व्यासञ्च नमस्कृत्य सकलभाग्यात्मिकां श्रियं देवीं तथा परमगुरुं नरोत्तमं वायुं तथा विद्याभिमानिनीं सरस्वतीं तथा उपसाधकं नरं शेषञ्च प्रणम्य, ततस्तेषां प्रसादात् श्रीभागवताख्यं ग्रन्थमुदीरये व्याख्यास्ये, भवत्प्रश्नपरिहारत्वेनेति शेषः, इत्येकान्वयः । श्रीभागवतादि-सर्वशास्त्रप्रवक्तृश्रोतृभिस्तेऽवश्यं नमस्कार्या इति द्योतयितुमेवेत्युक्तिः ॥ ४ ॥
प्रकाशिका
एवं गुरून्प्रणम्यावश्यं नम्यान्देवतादीनपि नत्वा ग्रन्थारम्भं प्रतिजानीते- नारायणमिति ॥ नारायणं देवतारूपं नारायणं व्यासं नारायणात्मकं व्यासं ग्रन्थकर्तारं देवीं भाग्यात्मिकां रमाम् । नरोत्तमं साधकेशं वायुं सरस्वतीं विद्याभिमानिनीम् । नरमुपसाधकं शेषं नमस्कृत्यैवेति सम्बन्धः । तेनैतेषां ग्रन्थारम्भसमये नमनमावश्यकमिति सूचयति । ततस्तेषां प्रासादाद्ग्रन्थं भागवताख्यम् उदीरये भवत्प्रश्नपरिहारत्वेन व्याख्यास्य इत्यर्थः ॥ ४ ॥
मुनयः साधु पृष्टोऽहं भवद्भिर्लोकमङ्गलम् ।
यत्कृतः कृष्णसंप्रश्नो येनात्माऽऽशु प्रसीदति ॥ ५ ॥
पदरत्नावली
संप्रति सूतः शौनकादिप्रश्नसंहृष्टस्तत्प्रश्नं स्तौतीत्याह- मुनय इति ॥ कृष्णविषयः समीचीनः प्रश्नः कृत इति यद् यस्माद् अतोऽहं भवद्भिः साधु सर्वसाधनेषूत्तमं साधनं प्रति पृष्टः । न केवलम् उभयेषामस्माकं साधु, किन्तु लोकमङ्गलं, लोकं जनं मङ्गलयतीति श्रवणमननाभ्यां कल्याणजन-कत्वादित्यर्थः । कुतः? येन कृष्णसंप्रश्नेन आत्मा परमात्मा मनो वा प्रसीदति तस्मादित्येकान्वयः॥ ५॥
प्रकाशिका
तेषां वचः प्रतिपूज्येति यदुक्तं तत्प्रतिपूजनं करोति- मुनय इति ॥ लोकानां सज्जनानां मङ्गलं मोक्षमुद्दिश्य यद्यस्मात्कृष्णस्य मूलरूपस्य देवकीसुतस्य च सम्प्रश्नश्चरित्रप्रश्नः कृतस्तस्मात्साधु यथा भवति तथा पृष्ट इत्यन्वयः । ननु कृष्णसम्प्रश्नकरणेन कथं मोक्ष इत्यत उक्तम्- येनात्मेति ॥ आत्मा परमात्मा मनो वा । अतः साधोऽत्र यत्सारमिति प्रश्नस्यापि कृष्ण एव पर्यवसानमभिप्रेत्यैवमुक्तम् ॥ ५ ॥
स वै पुसां परो धर्मो यतो भक्तिरधोक्षजे ।
औतुक्यव्यवहिता ययाऽऽत्माऽऽशु प्रसीदति ॥ ६ ॥
पदरत्नावली
भगवद्भक्तिजनकत्वात् कृष्णसंप्रश्न एव परमधर्म इत्याह- स वा इति ॥ यतः कृष्णसंप्रश्नाद् अधोक्षजे औतुकी अव्यवहिता भक्तिर्भवति, पुसां परो धर्मः स वा इत्येकान्वयः । अक्षजन्यज्ञानमधःकृत्यातीत्य वर्तत इत्यधोक्षजः । भगवत्प्रसादमन्तरेण काम्यफलहेतुशून्या औतुकी । विक्षेपादन्यप्रसङ्गादिव्यवधानशून्याऽव्यवहिता । न च ‘अन्योऽसावन्योऽहमस्मी’ति ‘नाविष्णुः कीर्तयेद्विष्णुमि’त्यादिश्रुतिस्मृतिनिषिद्धत्वाद् भेदबुद्ध्यपरपर्यायव्यवधानशून्येत्यर्थ इति । ‘व्यवधानं तिरोधानमपिधानमथोच्यत’इत्यभिधानविरोधात् । न च श्रुतिस्मृतिविरोधः । अनयोरन्यार्थत्वात् । अविष्णुर् न विष्णुर्यस्य स तथा, तदभक्त इत्यर्थः । अन्यः स्वतन्त्रः । अप्रतिहतेति पाठेऽस्खलितेत्यर्थः । यया भक्त्या आत्मा आशु प्रसीदति । समुद्गृह्य मनीषयेत्युक्तं दार्शयति- स इति ॥ स एव परो धर्मः यतो धर्माद् अधोक्षजे भक्तिर्भवतीति वा ॥ ६ ॥
प्रकाशिका
तत्र यत्प्रथमं पृष्टमेकान्तिकं श्रेयो ब्रूहीति । तत्रोत्तरम् । स वै पुंसामिति ॥ परः परमो यतो धर्मात् । भक्तिर्भवतीति शेषः । अधःकृतमक्षजं प्रत्यक्षं येन स तथोक्तः । प्रत्यक्षाविषय इति यावत् । अनेन तत्र भक्तिः साधनान्तरसाध्या न भवतीति दर्शयति । कथंभूता । औतुकी भगवत्प्रसादमन्तरेणान्यफलानुसन्धानरूपहेतुरहिता । अव्यवहिता विषयासक्त्यादिव्यवधानरहिता ॥ ६ ॥
वासुदेवे भगवति भक्तियोगः प्रयोजितः ।
जनयत्याशु वैराग्यं ज्ञानञ्च यदहैतुकम् ॥ ७ ॥
पदरत्नावली
भक्तिरपि वैराग्यद्वारेण अपरोक्षज्ञानसाधनमित्याह- वासुदेव इति ॥ वासुदेवे भगवति प्रयोजितः भक्तियोगः वैराग्यं यदहैतुकं ज्ञानं तच्च जनयतीत्येकान्वयः । वसति सर्वत्र, स्वस्मिन् सर्वं वासयतीति वासुः । देवनात् क्रीडादिकरणाद् देवः । वासुश्चासौ देवश्चेति वासुदेवः । तस्मिन् भक्तिलक्षण उपायः भक्तियोगः । वैराग्यं विषयेष्वसारताबुद्धिम् । अकारवाच्यविष्णुप्रसाद एव हेतुर्निमित्तं यस्य तत्तथोक्तम् । द्रव्यलाभादिहेतुसंबन्धीन्द्रजालादिज्ञानं न भवतीति वा ॥ ७ ॥
प्रकाशिका
ननु तमेनमात्मानं वेदानुवचनेन ब्रह्मणा विविदिषन्ति । यज्ञेन दानेन तपसा नाशकेन’इत्यादिश्रुतिभ्यो धर्मस्य ज्ञानहेतुत्वं प्रसिद्धं तत्कुतो भक्तिहेतुत्वमुच्यत इत्यत आह- वासुदेव इति ॥ भक्तियोगो भक्तिलक्षणोपायः । तथा चोदाहृतश्रुतीषु भक्तिवैराग्यद्वारैव यज्ञादिधर्मस्य ज्ञानहेतुत्वमभिप्रेतं न साक्षादतो न विरोध इति भावः । औतुकं शुष्कतर्कादिरूपहेत्वजन्यम् । औपनिषदमिति यावत् ॥ ७ ॥
धर्मः स्वनुष्ठितः पुंसां विश्वक्सेनकथाश्रयाम् ।
नोत्पादयेद्यदि रतिं श्रम एव हि केवलम् ॥ ८ ॥
पदरत्नावली
ननु नित्यनैमित्तिकादिधर्माणां सत्वात् कथमस्यैव परमत्वमित्याशङ्क्य तेषामपि कृष्णकथारतिजनकतया तत्साधनत्वेन परमत्वमित्याह- धर्म इति ॥ यः पुरुषैः स्वनुष्टितो धर्मः विष्वक्सेनकथाश्रयां रतिं यदि नोत्पादयेत्तर्हि पुंसां सः केवलं श्रम एव हीत्येकान्वयः । शास्त्रोक्त-सदाचारद्रव्यदेशकालादिमत्तया सुष्ठु अनुष्टितः स्वधर्मः । यन्नामि्न कीर्तिते विष्वक् सर्वतो ऽञ्चति दैत्यसेनामिति विष्वक्सेनः, तस्य कथासु रतिं निरन्तराभ्यासरूपाम् । केवलं श्रम एव क्रियाकाले उत्तरकालेऽपि दुःखरूपत्वाद् आयास एवेत्यर्थः । हिशब्देन ‘अनेवंविन् महत्पुण्यं कर्म करोति तद्धास्यान्ततः क्षीयत’इति श्रुतिप्रसिद्धिं दर्शयति ॥ ८ ॥
प्रकाशिका
ननु धर्मस्य सुष्ट्वनुष्ठानेनैव परत्वं भविष्यतीति शङ्कायां तस्यापि भक्तिजनकत्वाभावे न परत्वमित्याह- धर्म इति ॥ विष्वक् सर्वतो विद्यमाना ब्रह्मादिरूपा सेना यस्य स विष्वक्सेनो हरिः । रतिं भक्तिम् । केवलं श्रम एव । क्रियाकाले दुःखहेतुत्वात् । उत्तरकालेऽपि पतनभयग्रस्ताल्प-फलकत्वादिति भावः । तथा च क्रियाकरणकाले सुखमेवकारव्यवच्छेद्यम् । उत्तरकालीनमनश्वराल्पसुखं केवलशब्दव्यवच्छेद्यमित्यतो न पौनरुक्त्यमिति द्रष्टव्यम् ॥ ८ ॥
धर्मस्य ह्यापवर्ग्यस्य नार्थोऽर्थायेह कल्पते ।
नार्थस्य धर्मैकान्तस्य कामो लाभाय हि स्मृतः ॥ ९ ॥
कामस्य नेन्द्रियप्रीतिर्लाभो जीवति यावता ।
जीवस्यातत्वजिज्ञासोर्नार्थो यश्चेह कर्मभिः ॥ १० ॥
पदरत्नावली
ननु धर्मस्य भगवत्कथारत्यजनकत्वे कथं श्रमैकफलत्वम्? धर्मादर्थो ऽर्थात्कामः कामात्सुखम् इत्यर्थशास्त्रादौ प्रसिद्धेरिति तत्राह- धर्मस्येति ॥
अपवर्गो मोक्षस् तत्साधनमापवर्ग्यं, तस्य धर्मस्य इहार्थः काञ्चनादिद्रव्यम् अर्थाय फलाय न कल्पते हि यस्मात् तस्माद्धरिकथारतिजनकत्वमेव फलमित्यर्थः । धर्म एव एकान्तं नियमेन फलं यस्य स धर्मैकान्तः, तस्य धर्मसाधनस्यार्थस्य कामो लाभाय प्रयोजनाय न स्मृतः । विद्वद्भिरिति शेषः । अत्रापि हिशब्दो हेतौ ॥ ९ ॥
कामस्य इन्द्रियप्रीतिर्लाभो न भवति । तर्हि अशनाच्छादनाद्यभावेन क्षुधादिना मरणमेव स्याद् इति चेत्तत्राह- जीवतीति ॥ यावता अर्थादिना जीवति शरीरयात्रानिर्वाहको भवति, तावानेव विषय-भोगरूपः संपादनीय इति शेषः । तस्मादर्थशास्त्रादौ प्रतिपादितकामो बहिर्मुखानामिति भावः । ब्रह्मार्पणबुद्ध्या कृतस्य कर्मणः भगवत्कथारतिसाधनत्वमित्याह- जीवस्येति ॥ इह कर्मभिर् योऽर्थः सोऽतत्वजिज्ञासोर्जीवस्य न भवति । भगवत्तत्वमजानतः पुरुषस्य तदनर्पणबुद्ध्या कृतैः कर्मभिः फलम् ऐहिकामुष्मिकं न स्यादिति भावः ॥ १० ॥
प्रकाशिका
एवं हरिभक्तिद्वारा विषयवैराग्यभगवत्ज्ञानपर्यन्तो यो धर्मः स एव पर इति स्वयं तमुक्त्वा तद्दार्ढ्यायेदानीं धर्मस्यार्थः फलमर्थस्य कामः कामस्येन्द्रियप्रीतिस्तत्प्रीतेश्च पुनरपि धर्मादि-परम्परेति ये ये मन्यन्ते तान्निराकरोति- धर्मस्येत्यादि सार्धश्लोकेन ॥ आपवर्ग्यस्यापवर्गो मोक्ष-स्तत्साधनस्य महाफलसाधनत्वादिहेतुसूचनायेदं विशेषणम् । हिशब्देन यन्महाफलकं न तस्याल्पं फलमिति । यथा पद्मरागस्य तण्डुलमुष्ठिरिति व्याप्तिं प्रमाणप्रसिद्धिं च दर्शयति । इहाधिकारिवर्गेऽर्थः काञ्जनादिः । अर्थाय फलाय । फलत्वायेति यावत् । नोपकल्पने योग्यो न भवति । धर्म एकान्तो नियमेन फलं यस्य स धर्मैकान्तस्तस्य । उक्तरीत्या भक्त्यादिद्वारा मोक्षपर्यवसायिधर्मरूपमहाफलकस्येति यावत् । इदमपि विशेषणमुक्तरीत्या हेतुसूचनाय । कामो विषयभोगो लाभाय फलत्वाय । स्मृतः । विद्वद्भिरिति शेषः । अनेनागमविरोधोऽप्युक्त इति ज्ञातव्यम् । हिशब्दस्य पूर्ववदेवार्थः । लाभः फलम् । तर्हि विषयभोगरूपकामस्य कथं महाफलहेतुत्वं येनेन्द्रियप्रीतिरस्याल्पफलं न स्यादित्यत आह- जीवेत यावतेति ॥ यावता हर्यर्पितविषयभोगरूपकामेन जीवेत । विष्णुवैष्णवसेवार्थमिति शेषः । तावानेव हर्यर्पितविषयभोगरूपः कामः सम्पाद्यत इति शेषः । अनेनोक्तरूपकामस्य हर्यादिसेवोपयुक्तं जीवनमेव महाफलम् । ततोऽधिकमिन्द्रियप्रीतिरूपं तु फलं तुुच्छमित्युक्तं भवति । धर्मस्य भक्तिवैराग्यद्वारा ज्ञानजनकत्वमित्युक्तम् । तत्रापरमपि द्वारं व्यतिरेकेणाह- जीवस्येति ॥ कर्मभिर्यज्ञादिरूपैधर्मैर्योऽर्थो भक्त्यादिद्वारा ज्ञानफललक्षण इह प्रकारेण पूर्वमुक्तः सोऽतत्त्वजिज्ञासोस्तत्त्वजिज्ञासाशून्यस्य न भवति । ततश्च यज्ञादिधर्मैर्भगवद्भक्तिस्तया वैराग्यं तेन श्रवणादिरूपा तत्त्वजिज्ञासा तया ज्ञानमित्युक्तं भवति
॥ ९,१० ॥
वदन्ति तत्तत्वविदस्तत्वं यज्ज्ञानमद्वयम् ।
ब्रह्मेति परमात्मेति भगवानिति शब्द्यते ॥ ११ ॥
सत्तामात्रं तु यत्किञ्चित्सदसच्चाविशेषणम् ।
उभाभ्यां भाष्यते साक्षाद्भगवान् केवलः स्मृतः ॥ १२ ॥
तात्पर्यम्
**अद्वयम् असमाधिकम् । तथा च भाल्लवेयश्रुतिः ‘स पुरुषः सोऽद्वय इति न ह्येनमभि कश्चन न ह्येनमपि कश्चनेति’ इति । ‘सोऽद्वयः पुरुषस्तस्मान्न समो नाधिको ह्यतः’ इति महासंहितायाम् । तत्त्वशब्दार्थस्तत्रैवोक्तः । **
अतीतानागते काले यत्तादृशमुदीर्यते । कुतश्चिदन्यथा नेयात् तत्त्वं तत्त्वतो विदुः ॥ इति ॥
सत्तामात्रमानन्दमात्रम् । तथा च पैङ्गिश्रुतिः- ‘अथ कस्मादुच्यते सत्तेति नन्दति नन्दयति चेति’ इति । न कार्यकारणविषयविशेषितवैषयिकज्ञानम् । केवलमेव तज्ज्ञानम् । स्रष्टृत्वादिभिः कार्यकारणविशेषितं च । तन्त्रभागवते च
विषयापेक्षि न ज्ञानं विषयैश्च विशेषितम् । यत्तदानन्दमात्रं च तद्ब्रह्मेत्यवधार्यताम् ॥ इति ।
यत्किञ्चिद् अलोकसिद्धम् ॥ ११,१२ ॥
पदरत्नावली
ननु अतत्वजिज्ञासोरित्युक्तम् । किन्तत्तत्वम् । येन तदज्ञस्य कर्मभिः पुरुषार्थो न स्यादिति तत्राह- वदन्तीति ॥ यद् अद्वयम् असमाधिकं, ज्ञानं ज्ञानस्वरूपं, देशकालादिषु बृंहितत्वात् सर्वान्तर्यामिवद् ऐश्वर्यादिगुणित्वाद् ब्रह्मेति,परमात्मेति, भगवानिति शब्द्यते । यच्च सत्तामात्रं= केवलानन्ददेहम् अत एव यत् किंचिद् लोकविलक्षणं तत् तत्वविदस् तत्वं वदन्ति त्रिकालेेप्यनन्यथा-भूतमेकविधं ब्रुवते । न ब्रह्मणो ज्ञानस्वरूपत्वं युक्तिमत्, लोके ज्ञानस्य विषयापेक्षयोत्पत्तिविनाशदर्शनाद् अस्यापि तथात्वेन अनित्यत्वप्रसङ्गादिति तत्राह- सदसदिति ॥ सत् कार्यम् असत् कारणं च अविशेषणं न स्वनियतविशेषापादकम् । यस्येति शेषः । विषयापेक्षया अनुत्पाद्यमपि उभाभ्यां सदसद्भ्यां भाष्यते मृत्स्त्रष्ट्रघटस्त्रष्ट्रमृज्ज्ञातृघटज्ञात्रित्याद्यनन्तकार्यकारणविशिष्टतया व्यवहृियते । अतो भगवान् साक्षात्केवलः प्रकृतिसम्बन्धविधुरः स्मृतः ॥
‘यद्विषयज्ञानं भक्तियोगो जनयेत् तद् ब्रह्म किं प्रमाणगोचर उत अगोचरः ? गोचरश्चेद् घटादिवदब्रह्मत्वं, अगोचरश्चेन्नास्त्येवेत्याशङ्क्योभयदोषपरिहारायाह- वदन्तीति ॥ न वयं प्रमाणैर् अनुमिमीमहे । न चैतावता नास्ति, किन्तर्हि यद् ज्ञानमद्वयं ज्ञातृज्ञेयलक्षणरहितं तत्वविदस्तत्तत्वं जगदाकारेण विवर्तत इति वदन्ति तदेव वेदान्तिभिर् ब्रह्मेति परमात्मेति शब्द्यते तत्रायं विभागः । बृहत्त्वाद् ब्रह्मेति वेदान्तिनः, परं केवलम् आदानादिकर्तृत्वाद् आत्मेति योगिनः षड्गुणयुक्तत्वाद् भगवानिति पौराणिकाः । तत्र किं तत्सत्यम् इति तत्राह- सत्तेति ॥ तस्मादत्र सगुणं प्रमाणवेद्यं न निर्गुणमिति शास्त्रमथितार्थ’ इति केचिद् व्याचक्षते तदसारं, अत्रैव पूर्वापरवाक्यार्थपर्यालोचनया स्वविरोधात् ॥ ११,१२ ॥
प्रकाशिका
ननु किं तत्त्वं यस्य जिज्ञासाऽपि धर्मस्य फलमित्यत आह- वदन्तीत्यादि केवलः स्मृत इत्यन्तम् ॥ अत्राद्वयशब्दस्य स्वातिरिक्तद्वितीयराहित्यमर्थ इति प्रतीतिवारणाय विवक्षितमर्थं दर्शयति- अद्वयमिति ॥ तथा च द्वयशब्दस्य स्वसमाधिकरूपद्वितीयमात्रपरत्वेन सङ्कोच इति भावः । कुतः सङ्कोचेनार्थकथनमित्यत आह- तथा चेति ॥ भाल्लवेयश्रुतिस्तथा च तथैवाहेति शेषः । एनं पुरुषमभि प्रति । अनेन समराहित्यमुक्तमिति ज्ञातव्यम् । अति अतिक्रम्य । अनेनाधिकराहित्यं लब्धम् । अत्र स्पष्टां स्मृतिं दर्शयति- सोऽद्वय इति ॥ ‘सोऽद्वयः पुरुष’इति श्रुत्यन्तरस्थपदद्वयमनूद्याद्वयपदं तावद्व्याख्याति- तस्मादिति ॥ हि यस्मात्तस्माद्विष्णोर्न समो नाधिकोऽतः सोऽद्वय इत्यन्वयः । पुरुषशब्दव्याख्यानमेतत्स्मृतिस्थं नोदाहृतं प्रकृतानुपयोगात् । नन्वत्र ब्रह्मणि तत्त्वपदं प्रयुज्यते । तस्य चानारोपितत्वमर्थस्तेनान्यदारोपितमिति लभ्यते । अतः कथमद्वय-पदस्य द्वितीयाभावपरत्वाभाव इत्यत आह- तत्वशब्दार्थ इति ॥ तत्रैव महासंहितायामेव । तादृशं वर्तमानकाले यादृशं तादृशमित्यर्थः । कालत्रयेऽप्येकप्रकारमिति यावत् । कुतश्चित्कारणात् । अन्यथा पराधीनविशेषं नेयान्न गच्छेत् । सत्तामात्रमित्येतत्स्वरूपसत्तैव । तदभिन्ना अस्ति । न ततोऽतिरिक्ता धर्मा इत्यन्यथाप्रतीतिवारणाय व्याख्याति- सत्तामात्रमिति ॥ अत्र आ सम्यक् नन्दो यस्य यस्मादिति वा विग्रहस्य विवक्षितत्वान्न वक्ष्यमाणश्रुतिविसंवादः । मात्रशब्दो मीयत इति व्युत्पत्या देहपरः । तथा चोक्तानन्दशब्दार्थ मात्रा देहो यस्य तदानन्दमात्रमिति व्याख्येयम् । सत्ताशब्दस्योक्तानन्दर्थत्वे प्रमाणमाह- तथा चेति ॥ यद्वा यत्ज्ञानमद्वयमिति भगवत्स्वरूपस्य ज्ञानभेद उक्तः । स न युक्तः । ज्ञानस्य विषयसंन्निकृष्टकरणजन्यस्य विषयसापेक्षत्वेन तदभिन्नस्य भगवतोऽपि तदापत्त्या ‘केवलो निर्गुण’ इत्यादौ केवलत्वोक्त्यनुपपत्तिप्रसङ्गात् । अतः कथं तयोरैक्यमित्याशङ्कायां भगवत्ज्ञानमपि नोक्तरीत्या विषयसापेक्षं किन्तु केवलं जडामिश्रमेवेति वक्तुं मूले सदसच्चाविशेषणमित्युक्तम् । अत्र सदसतोर्ज्ञानाविशेषणत्वोक्त्या ज्ञानस्य विषयानपेक्षत्वं कथमुक्तमित्यतस्तात्पर्यं दर्शयति- न कार्यकारणेति ॥ अनेन सदसच्छब्दावुक्तर्थौ । विशेषितेति ॥ भेदितेत्यर्थः । इदं वैषयिक-शब्दार्थान्तर्गतविषयविशेषणम् । वैषयिकं विषयसंनिकृष्टकरणजन्यं भगवत्ज्ञानं कार्यकारणात्मना प्रभिन्नविषयसन्निकृष्टकरणजन्यं नेत्यर्थः । तथा च मूलगतौ सदसच्छब्दौ कार्यकारणात्मकाशेष-विशेषविषयोपलक्षकावित्याशयः । एवं च विषयापेक्षि न ज्ञानं’ इति वक्ष्यमाणप्रमाणविसंवादो न भवतीति ज्ञातव्यम् । केवलमेवेत्यतः पूर्वं किं त्विति शेषः । तर्ह्युभाभ्यां भाषत इति भगवत्ज्ञानस्य कार्यकारणरूपविषयविशेषितत्वोक्तिः कथमित्यतस्तात्पर्यमाह- स्रष्टृत्वादिभिरिति ॥ कार्यकारणैरव्यक्त-महदादिरूपैर्विषयैस्तटस्थैरेव विशेषितं व्यावर्तितं चेत्यर्थः । कुत एतदित्यत उक्तम् । सृष्टृत्वादिभिरिति । हेतुभिरिति शेषः । विशेषितं चेत्यतः परममित्यवगम्यत इति शेषः । यदि भगवत्ज्ञानं कार्यकारणरूपविषयैरव्यक्तमहदादिभिस्तटस्थैरेव व्यावर्तितं न स्यात् तर्हि भगवतः स्रष्टृत्वं पातृत्वं च न स्यात् । कार्यकारणादिरूपविषयविशेषितज्ञानवदेव सष्टृत्वादिरूपात्वात् । वर्तते च तत्प्रमाणसिद्धम् । अतो भगवत्ज्ञानं कार्यकारणरूपविषयव्यावर्तितमित्यवगम्यत इत्यर्थः । अत्र प्रमाणमाह- तन्त्रभागवत इति ॥ विषयापेक्षविषयसन्निकृष्टकरणजन्यम् । विषयैस्तटस्थैर्विशेषितं व्यावर्तितम् । यत्ज्ञानमिति सम्बन्धः । यदुक्तरूपं ज्ञानं तद् ब्रह्म यच्चोक्तरीत्याऽनन्दमात्रं तद् ब्रह्मेति वाक्यद्वयमेतत् । अत्राद्यपादेन सदसच्चाविशेषणमित्यस्य, द्वितीयपादेनोभाभ्यां भाष्यत इत्यस्य, तृतीयपादेन सत्तामात्रमित्यस्य, चतुर्थपादेन ब्रह्मेतीत्यस्य च तात्पर्यमुक्तमित्यवगन्तव्यम् । यत्किञ्चिदित्यस्य ब्रह्मलक्षणत्वसिद्धयेऽर्थमाह- यत्किञ्चिदिति ॥ अलोकसिद्धं लोकप्रसिद्धं न भवतीत्यर्थः । यत्किञ्चिच्छब्दस्याप्रसिद्धवस्तुष्वेव प्रयोगादिति भावः । ततश्चायं वदन्तीत्यादिश्लोकद्वयार्थः । तत्त्वविदः कपिलाद्याः । अद्वयमसमाधिकं यत्ज्ञानं ज्ञानरूपम् । ब्रह्मादिज्ञानव्यावृत्त्यर्थमद्वयमिति ज्ञानविशेषणम् । यच्च सत्तामात्रमुक्तरीत्याऽ-नन्दमात्रं यच्च यत्किञ्चिल्लोकसिद्धं न भवतीति जिज्ञास्यत्वोपपादकमेतत् । तत्तदेव तत्त्वम् । सर्वदैकप्रकारतयाऽवस्थितत्वयोगेनैव तत्त्वशब्दवाच्यं वदन्ति । न घटादिकमिवानारोपितत्वेनेत्यर्थः । ननु श्रुतिषु क्वचिद् ब्रह्मणः क्वचित्परमात्मनः क्वचिद् भगवतो जिज्ञासा कर्तव्यतयोच्यते । अतो विरोध इत्यत आह- ब्रह्मेतीति ॥ उक्तरूपतत्वमेव तत्र तत्र ब्रह्मादिशब्दैः शब्द्यते प्रतिपाद्यते । अतो न विरोध इति भावः । ननु ज्ञानस्य विषयसापेक्षस्य न भगवद्रूपत्वं युक्तम् । तथात्वे भगवति स्मृत्यादिसिद्धकेवलत्वस्यौपचारिकत्वप्रसङ्गादित्याशङ्कायामाह- सदसच्चेति ॥ यदिति वर्तते । तथा च सन्महदादिकार्यमसदव्यक्तं च । एतदात्मकम् । विषयजातमिति यावत् । यस्मिन्ज्ञानेऽविशेषणं स्वसन्निकृष्टकरणजन्यत्वादिरूपविशेषापादकं न भवति । किन्तु केवलमेव तत्ज्ञानमतस्तदभिन्नो भगवान्साक्षान्मुख्यत एव केवलः स्मृत्यादावुक्तः । नोपचारेणेत्यर्थः । नन्वेवं भगवत्ज्ञानस्य कार्यकारणरूपविषयासंस्पर्शे भगवतः स्रष्टृत्वादिकं न स्यत् । निर्विषयस्य ज्ञानस्य सृष्ट््यादावनुपयोगा-दित्यत उक्तम् । उभाभ्यां कार्यकारणात्मकविषयाभ्यां तटस्थाभ्यां भाष्यते व्यावृत्ततया व्यवह्रीयत इति । तथा च विषयसंन्निकृष्टकरणजन्यत्वरूपस्य सापेक्षितत्वस्य भगवत्ज्ञानेऽभावेन केवलत्वेऽपि तस्य न निर्विषयत्वं विषयस्य तटस्थतया तत्र व्यावर्तकत्वेन तव्द्यावर्तितत्वरूपस्य तद्विषयत्वस्य सत्वात् । भगवत्स्वरूपस्यापि सर्वावभासकस्यैतादृशत्वान्नोक्ताभेदानुपपत्तिरिति ॥ ११,१२ ॥
तच्छ्रद्दधाना मुनयो ज्ञानवैराग्ययुक्तया ।
पश्यन्त्यात्मनि चात्मानं भक्त्या श्रुतिगृहीतया ॥ १३ ॥
तात्पर्यम्
यस्मात् परमात्मैव तत्त्वं तस्मात् तमेव पश्यन्ति मुनयः ॥ १३ ॥
पदरत्नावली
तत्राह- तदिति ॥ एवमुक्तप्रकारेण ब्रह्म परमात्माद्यनन्तवैदिकादिपदवाच्यतया सगुणः सर्वज्ञः सर्वजगत्कर्ता परमात्मैव तत्वमिति यद् यस्मात् तत् तस्मान्मुनयो ज्ञानिनः श्रद्दधानाः शास्त्रोक्तवस्तुनि आस्तिक्यबुद्धियुक्ताः श्रुतिगृहीतया वेदान्तशास्त्रश्रवणेन दृढगृहीतया तत्वज्ञानेन विषयवैराग्येण च युक्त्या भक्त्या तमेवात्मानं परमात्मानम् आत्मनि हृदि पश्यन्ति । चकारस्तु ‘आत्मन्येवात्मानं पश्येत्’इति श्रुतिप्रसिद्धिद्योतकः । न तु आत्मनि क्षेत्रज्ञे जीवे आत्मानं परमात्मानं पश्यन्ति, परमात्मनि क्षेत्रज्ञञ्चेति समुच्चयार्थः । तस्माज्जगदाकारेण विवर्तितं तत्वमन्यर्न्निगुणमन्य-त्तत्वमिति नार्थः ॥ १३ ॥
प्रकाशिका
श्रवणादिरूपजिज्ञासयाऽपि साध्यं दर्शयति- तच्छ्रद्दधाना इति ॥ अत्र तत्त्वजिज्ञासायाः पूर्वमुक्तत्वात्तया तत्त्वं पश्यन्तीत्येव वक्तव्यं नात्मानं पश्यन्तीत्येवं शङ्कायां मूले तत्तस्मादिति हेतुरुक्तः । तत्र को हेतुः पूर्वोक्तो योऽनेन परामृश्यत इत्यतस्तद्दर्शयन् उक्त शङ्कामपाकरोति- यस्मादिति ॥ तमेव परमात्मानमेव । न जीवमित्यर्थः । ततश्चायं श्लोकार्थः । यस्मादेवं परमात्मैव तत्त्वं तत्तस्मान्मुनयो ज्ञानिनः श्रद्दधानाः शास्त्रोक्तवस्तुन्यास्मिक्यबुद्धिं दधता ज्ञानं श्रवणादिरूपजिज्ञासाजन्यं परोक्षं तेन वैराग्येण युक्तया श्रुतिगृहीतया हरिमाहात्म्यश्रवणेन दृढीकृतया भक्त्या । चोऽवधारणे । आत्मानं च परमात्मानमेवात्मनि हृदि पश्यन्तीति ॥ १३ ॥
अतः पुम्भिर्द्विजश्रेष्टा वर्णाश्रमविभागशः ।
स्वनुष्ठितस्य धर्मस्य संसिद्धिर्हरितोषणम् ॥ १४ ॥
पदरत्नावली
उपसंहरति- अत इति ॥ हे द्विजश्रेष्टाः, संसिद्धिः फलम् ॥ १४ ॥
प्रकाशिका
एवं परम्परया जातस्यात्मसाक्षात्कारस्यापि फलं दर्शयति- अत इति ॥ हे द्विजश्रेष्ठा धर्मस्याऽतो भक्त्यादिदर्शनान्ताव्द्यापाराद्धरितोषणं हरिप्रीतिः । हरिप्रसाद इति यावत् । संसिद्धिः फलम् ॥ १४ ॥
तस्मादेकेन मनसा भगवान्सात्वतां पतिः ।
श्रोतव्यः कीर्तितव्यश्च ध्येयः पूज्यश्च नित्यदा ॥ १५ ॥
पदरत्नावली
कृष्णसंप्रश्नस्य परमधर्मत्वं निगमयति- तस्मादिति ॥ यतः कृष्णसम्प्रश्नस्यैव परमधर्मत्वं तस्माद्धेतोर् एकेन एकाग्रेण । चकारौ परस्परसमुच्चयार्थौ । श्रवणादि तत्तत्काले कर्तव्यं न क्वचित् काले वृथा यापनीय इत्यस्मिन्नर्थे नित्यदाशब्दः ॥ १५ ॥
प्रकाशिका
एवं श्रवणादिरूपजिज्ञासाया हरिप्रसादफलपर्यन्तं फलमभिधाय तेनैव हेतुना श्रवणादेर्नित्यदा कर्तव्यत्वं विधत्ते- तस्मादिति ॥ तस्मादेवं हरिप्रसादपर्यन्तं फलसद्भावात् । एकेनैकाग्रेण । पूज्य इति पूजया यज्ञादिकर्ममात्रमुपलक्षणीयम् ॥ १५ ॥
यदनुध्यायिनो युक्ताः कर्मग्रन्थिनिबन्धनम् ।
छिन्दन्ति कोविदास्तस्य को न कुर्यात्कथारतिम् ॥ १६ ॥
पदरत्नावली
फलदर्शनं पुरोधाय प्रवृत्तिदर्शनात् श्रवणादिना किं फलमिति तत्राह- यदिति ॥ यं भगवन्तम् अनुसवनं निरन्तरं ध्यातुं शीलमेषामिति यदनुध्यायिनः । युक्ता मनोयोगयुक्ताः । कर्मग्रन्थ्या कर्मपाशेन यन् नितरां बन्धनं तच् छिन्दन्ति । तस्य कथासु रतिं को न कुर्यात् ? अत्र श्रवणादिफलमपरोक्षज्ञानद्वारा मुक्तिरेव ॥ १६ ॥
प्रकाशिका
परमात्मदर्शनजन्यप्रसादेनापि किं फलमित्यपेक्षायां तद्दर्शयन्नित्यदा श्रोतव्य इत्युक्तमुपपादयति- यदनुध्यायिन इति ॥ यत्परमात्मरूपं तत्त्वमनु निरन्तरं ध्यातुं शीलमेषा-मस्तीत्यनुध्यायिनो युक्ता योगफलयुक्ताः । दर्शनजन्यहरिप्रसादवन्त इति यावत् । कर्माण्येव ग्रन्थयः पाशास्तैर्नितरां बन्धनम् । छिन्दन्ति, कर्मक्षयरूपां मुक्तिं प्राप्नुवन्तीति यावत् । कोविदाः कृतज्ञास् तस्येवं परमोपकारिणः कथारतिं श्रवणादिरतिम् ॥ १६ ॥
शुश्रूषोः श्रद्दधानस्य वासुदेवकथारतिः ।
स्यान्महत्सेवया विप्राः पुण्यतीर्थनिषेवणात् ॥ १७ ॥
पदरत्नावली
हरिकथारतिः केन स्यादिति तत्राह- शुश्रूषोरिति ॥ हे विप्राः शुश्रूषोर् गुर्वादिपरिचर्याशीलस्य वेदादिषु श्रद्दधानस्य महतां सेवया पुण्यतीर्थानां भागवतादिसच्छास्त्राणां, गङ्गादितीर्थानां च नितरां सेवनाच्च वासुदेवकथारतिः स्यादित्येकान्वयः ॥ १७ ॥
प्रकाशिका
हरिकथाश्रवणादिरतिरेव केन स्यादित्यत आह- शुश्रूषोरिति ॥ शुश्रूषोर्हरि-स्वरूपश्रवणेच्छोः श्रद्दधानस्यास्तिक्यबुद्धिमतः । हे विप्राः पुण्यतीर्थानां निषेवणात्सेवनान्महतां सेवा स्यात्तयाऽस्तिक्यबुद्धिस् ततः श्रवणेच्छा ततो वासुदेवकथारतिः स्यादित्यर्थः ॥ १७ ॥
शृृण्वतां स्वकथां कृष्णः पुण्यश्रवणकीर्तनः ।
हृद्यन्तस्थो ह्यभद्राणि विधुनोति सुहृत् सताम् ॥ १८ ॥
पदरत्नावली
श्रवणफलमाह- शृृण्वतामिति ॥ सुहृद् अनिमित्तबन्धुः । पुण्ये श्रवणकीर्तने यस्य स तथा ॥ १८ ॥
प्रकाशिका
रत्यनन्तरं श्रृण्वतां फलमाह- शृृण्वतामिति ॥ पुण्यकरे श्रवणकीर्तने यस्य स यथा । अभद्राणि पापानि । अतः सतां सुहृदानिमित्तबन्धुः ॥ १८ ॥
नष्टप्रायेष्वभद्रेषु नित्यं भागवतसेवया ।
भगवत्युत्तमश्लोके भक्तिर्भवति नैष्ठिकी ॥ १९ ॥
पदरत्नावली
सर्वामङ्गलनाशफलमाह- नष्टेति ॥ लिङ्गशरीरभङ्गपर्यन्तमभद्राणां संभवात् प्रायेष्वित्युक्तम् । नैष्टिकी अचला । उत्तम उद्गतदोषः श्लोकः कीर्तिर् यस्य सस् तथोक्तस् तस्मिन् ॥ १९ ॥
प्रकाशिका
अभद्रनाशानन्तरं भावि फलमाह- नष्टेति ॥ सर्वाभद्रनाशस्य ज्ञानोत्तर-कालत्वात्प्रायग्रहणम् । भागवतानां भगवद्भक्तानां भगवत्सम्बन्धिधर्माणां वा । नैष्ठिकी निश्चला । अनेन तीर्थयात्रादिरूपधर्मस्य भक्तिजनकतया यत्परमत्वमुक्तं तन्महत्सेवादिरूपद्वारकथनेन प्रपञ्चितमिति ज्ञातव्यम् ॥ १९ ॥
तदा रजस्तमोभावाः कामलोभादयश्च ये ।
चेत एतैरनाविद्धं स्थितं सत्वे प्रसीदति ॥ २० ॥
एवं प्रसन्नमनसो भगवद्भक्तियोगतः ।
भगवत्तत्वविज्ञानं मुक्तसङ्गस्य जायते ॥ २१ ॥
भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि दृष्ट एवात्मनीश्वरे ॥ २२ ॥
तात्पर्यम्
आत्मनीश्वरे इति न जीवैक्यमुच्यते । परेषामपि ब्रह्मादीनां यतोऽवरत्वं स परावरः । ‘भेददृष्ट्याभिमानेन’ इति च कापिलेये । ‘ब्रह्म प्रधानमुपयान्त्यगताभिमानाः’ इति च । ‘विद्यात्मनि भिदाबोधः’ ‘यत्र हि द्वैतमिव भवति’ ‘अन्यमीशमस्य महिमानमिति’ ‘अनश्न्नन्यो अभिचाकशीति’ ‘छायातपौ ब्रह्मविदो वदन्ति’ ‘एको बहूनां यो विदधाति कामान्’ ‘सत्यः सो अस्य महिमा गृणे शवो यज्ञेषु विप्रराज्ये’ ‘सत्यमेनमनु विश्वे मदन्ति’ ‘यत्र पूर्वे साध्याः सन्ति देवाः’ ‘शृण्वे वीर उग्रमुग्रं दमायन्’ इत्यादि च । ‘मग्नस्य हि परेऽज्ञाने किं न दुःखतरं भवेत्’ बहवः पुरुषा ब्रह्मन्नुताहो एक एव तु । नैतदिच्छन्ति पुरुषमेकं कुरुकुलोद्वह ॥ इत्यादि मोक्षधर्मे ।
‘भेददृष्ट्याभिमानेन पश्यन्तो यान्ति तत्पदम्’ इति वायुप्रोक्ते । ‘अनुपपत्तेस्तु न शारीरः’ ‘भेदव्यपेशाच्च’ ‘शारीरश्चोभयेपि हि भेदेनैनमधीयते’ ‘पृथगुपदेशात्’ इत्यादि च । सत्यत्वं च भेदस्योक्तं भाल्लवेयश्रुतौ । ‘स्थाणुर्होच्चक्राम स प्रजापतिमुवाच कोसि के स्म कः स इति स होवाच । योस्मि ये स्थ यः स इति । अथ हैनमुपाक्रोशत् । सत्यं भिदा सत्यं भिदा सत्यं भिदेति । मैवारुवण्यो मैवारुवण्यो मैवारुवण्य इति’ इति । ‘सत्यमेनम्’ ‘सत्यः सो अस्य’ इति चोक्तम् । महासंहितायां च
त्रिविधं जीवसङ्घं च परमात्मानमव्ययम् । तेषां भेदं च ये सत्यं विदुर्मोहविवजिताः ॥
ते यान्ति परमं स्थानं विष्णोरेवाचलं ध्रुवम् । जीवेश्वरभिदां भ्रान्तिं केचिदाहुरपण्डिताः ॥
अनारतं तमो यान्ति परमात्मविनिन्दनात् । पराधीनश्च बद्धश्च स्वल्पज्ञानसुखेहितः ॥
अल्पशक्तिः सदोषश्च जीवात्मानीदृशः परः । वदता तु तयोरैक्यं किं तेनादुष्कृतं कृतम् ॥
अन्तर्याम्यैक्यवाचीनि वचनानीहि यानि तु । तानि दृष्ट्वा भ्रमन्तीह दुरात्मानोल्पचेतसः ॥
अस्यास्मि त्वमहं स्वात्मेत्यभिधागोचरो यतः । सर्वान्तरत्वात् पुरुषस्त्वन्तर्यामी नियामयन् ॥ अतो भ्रमन्ति वचनैरासुरा मोहतत्परैः । तन्मोहने परा प्रीतिर्देवानां परमस्य च ॥
अतो महान्धकारेषु पतन्त्यज्ञानमोहिताः ॥ इत्यादि ॥ २२ ॥
पदरत्नावली
भक्तिफलमाह- तदेति ॥ यदा हरावचला भक्तिस् तदा ये रजआदयः भावा एतैर् अनाविद्धम् असंसक्तम् । शुद्धसत्वे स्थितं, बलज्ञानसमाहारवति हरौ स्थितं वा । चेतः प्रसीदति सकलदोषविधुरतया निरन्तरं परमात्मानं स्मरतीत्यर्थः । रजस्तमोभ्यां भाव उत्पत्तिर्येषां ते तथोक्ताः कामलोभादयः । चकारात्प्रमादादय इति वा ॥ २० ॥
निरन्तरहरिस्मरणफलमाह- एवमिति ॥ भगवत्तत्वविज्ञानं स्वबिंबापरोक्षज्ञानम् ॥ २१ ॥
आत्मनि जीवे ईश्वरे ब्रह्मणि दृष्टे ब्रह्मणि जीवे दृष्टे चेति परस्परभेदनिरासेनाहमेव ब्रह्मेत्येवं दृष्टे व्यतिहारन्यायेन हृदयग्रन्थिरहङ्कारः भिद्यत इति केचित् । तदयुक्तं श्रुतिस्मृतिविरोधात् । ‘सत्य आत्मा सत्यो जीवः’‘द्वा सुपर्णा’‘विद्याऽऽत्मनि भिदाबोधः’भेददृष्ट्याभिमानेनेति भागवत एव औतज्ञान-निषेधाच्च ॥ २२ ॥
प्रकाशिका
कर्मक्षयपर्यन्तमुक्तां फलपरम्परामप्यनुक्तकथनेन प्रपञ्चयति । तदा रज इत्यादि श्लोकत्रयेण ॥ रजस्तमोभ्यां भाव उत्पत्तिर्येषां ते तथोक्ताः । चकारः प्रमादादिसङ्ग्रहार्थः । अनाविद्ध-मतिरस्कृतं सत्त्वे बलज्ञानसमाहाररूपे हरौ स्थितं तद्विषयं सत्प्रसीदति । अनवरतं तत्स्मरणक्षमं भवति । अनेन भक्त्या वैराग्यं तेन श्रवणादिरूपा जिज्ञासेति यदुक्तं तत्प्रपंचितमिति ज्ञातव्यम् । एवं भगवद्भक्तियोगतो मुक्तसङ्गस्य त्यक्तविषयस्नेहस्य । विरक्तस्येति यावत् । प्रसन्नमनसो नित्यं भगवद्विषयकस्मरणादिरूपजिज्ञासावतः । भगवद्रूपतत्त्वस्य विज्ञानं स्वयोग्यमपरोक्षज्ञानं जायत इत्यन्वयः । अत्र पूर्वोक्तसाधनानामेकत्र कथनेन दर्शनस्य विज्ञानत्वोक्त्या च प्रपञ्चितमिति ज्ञातव्यम् । विज्ञानफलमाह- भिद्यत इति ॥ हृदयस्य जडमनसो ग्रन्थिर्ग्रथनं यस्मिन्स लिङ्गदेहो भिद्यते । दग्धेन्धनायितो भवति । सर्वसंशयाः परापरतत्त्वविषयाः कर्माण्यप्रारब्धान्यनभीष्टान्यात्मन्यन्तर्यामिणि स्वबिम्बभूतेश्वरे दृष्ट एव दर्शनानन्तरमेव न विलम्बेनेत्यर्थः । अत्र बहूनां फलानां कथनात्प्रपञ्चनं स्पष्टम् । अत्र केचिदात्मनि स्वस्वरूपभूते ईश्वरे इति ईश्वरस्य जीवैक्यदर्शनविषयत्वमयुक्तमिति व्याचक्षते तन्निराकरोति- आत्मनीति ॥ आत्मनीश्वर इति समानाधिकरणपदाभ्यामीश्वरस्य जीवैक्यमुच्यत इति नेत्यर्थः । कुतो नेत्यतस्तस्मिन्द्रुष्टे परावर इति समाख्याश्रुतिविरोधादिति हेतुं मनसि निधाय तत्रापि परावरस्वरूपे इत्येवार्थः किं न स्यादित्याशङ्कां परिहर्तुं तत्रत्यं परावरपदं व्याख्याति- परेषामिति ॥ यतो यस्माद्धरेः । अनेन परेऽवरे यस्मादसौ परावरो इति विग्रहो दर्शितः । वस्तुनो द्वैरूप्यासम्भवेन न परावरस्वरूप इति व्याख्यानं युक्तमिति भावः । उत्तरवाक्यविरोधाच्च नैवं व्याख्यानमत्र युक्तमित्या-शयेनाह- भेददृष्ट्येति ॥ जीवेश्वरभेददर्शनेनाभिमानेनेश्वरे बहुमानेन । ब्रह्मसङ्गत्येति वक्ष्यमाणेनान्वयः । अत्र मोक्षजनकापरोक्षज्ञानविषयत्वेन भेदस्य स्पष्टमुक्तत्वान्नैक्यं तथात्वेनात्र वाच्यमित्यर्थः । कापिलेये कपिलदेवहूतिसंवादे । इदं गौणमुक्तिसाधनमुक्तम् । परममुक्तिसाधनमैक्यज्ञानमत्रोच्यते । तेन न विरोध इत्याशङ्कायामन्यदुत्तरवाक्यमुदाहरति- ब्रह्मेति ॥ अगताभिमाना अगतजीवत्वज्ञानाः । प्रधानं ब्रह्मोप-यान्तीत्युक्त्याऽहं जीव एवास्मीति ज्ञानस्यैव परममुक्तिसाधनत्वे-नोक्तत्वात्तद्विरोध इति भावः । नन्वत्र गताभिमाना इत्येव पाठः । अतो न विरोध इत्यतो वाक्यान्तरविरोधं दर्शयति- विद्येति ॥ का विद्येति प्रश्ने तदुत्तरत्वेनात्मनि जीवे परमात्मनि च भिदाया भेदस्य बोधो विद्येति भेदज्ञानस्यैव विद्यात्वेनोक्तत्वात् । तद्विरोधोऽपरिहार्य इति भावः । ननु चेतनभेदस्याप्रामाणिकत्वाद्भिदाया अबोधो भेदविषयकबोधविरुद्ध ऐक्यबोध इति यावत् । सैव विद्येति व्याख्येयमिति चेन्नैवम् । भेदस्य श्रुतिस्मृतिसूत्रसिद्धत्वेनैवं व्याख्यानस्य प्रमाणविरुद्धत्वादित्याशयेन भेदे श्रुत्यादिकं दर्शयति- यत्र हि द्वैतमिवेति ॥ यत्र हि द्वैतमिव भवति तदितर इतरं पश्यतीत्यादिना यत्र यस्यामवस्थायां द्वैतमिव भवति । इतरास्वातन्त्र्याभावादिवेत्युक्तम् । पराधीनोऽपि भेदोऽस्ति तत्तदा तदितर इतरं पश्यतीत्यादिना दर्शनादिभोगो युज्यत इति व्यप्तिमभिधाय यत्रत्वस्य सर्वमात्मैवाभूत् तत्केन कं पश्येदिति मोक्षे ऐक्याङ्गीकारे दर्शनादिभोगाभावापादनं क्रियते । तस्य विपर्ययपर्यवसाने भेदसिद्धिः स्पष्टैवेति भावः । जुष्टं यदा पश्यत्यन्यमीशमित्यस्यैव प्रकृतसङ्गतत्वेनोदाहर्तव्यत्वेऽप्यस्य महिमानमित्यस्योदाहरणं भेदज्ञानं मोक्षसाधनमित्येतदपि श्रुतिसिद्धमिति दर्शयितुमिति ज्ञातव्यम् । ब्रह्मविदो ऋतं पिबन्तौ यौ भगवद्रूपविशेषौ तौ छायातपौ विद्वदविदुषोः सुखदुःखप्रदौ वदन्तीतीश्वरस्य जीवसुखदुःखप्रदत्वोक्त्या भेद उक्तः । एको बहूनामित्यत्रापि ईश्वरस्य जीवकामितकरत्वेन भेदः । अस्य परमात्मनः स पूर्वोक्तमहिमा सत्यः । अहं तं सत्यमहिमानं विप्रप्रधानकेषु यज्ञेषु शवः सुखमुद्दिश्य गृणे स्तौमीति सत्यभूतविरुद्धधर्माधिकरणत्ववचनेन स्तुत्यस्तोतृभावोक्त्या च भेद उक्तः । सत्यं निर्दुःखपूर्णसुखानु-भवरूपम् । एनं परमात्मानमन्वनुसृत्योपजीव्य विश्वे सर्वे प्रणिनः । मदन्ति सुखं प्राप्नुवन्तीत्युप-जीव्योपजीवकभावोक्त्या भेदलाभः । यत्र नाकपदवाच्ये निर्दुःखस्वरूपे विष्णौ पूर्वे पूर्वकल्पे मुक्ता देवाः सन्ति तन्नामका आस्मिन्कल्पे मुक्ता देवाः सचन्त आप्नुवन्निति देवानां विष्णौ सायुज्यरूप-मोक्षोक्त्या भेदसिद्धिः । अध्यवसायान्तगामी परमेश्वरः सर्वानुग्रान्दैत्यान्दमयंस्तद्विरुद्धान्देवान् संसारमतिक्रम्य स्वपदं नयन्वेदादिषु श्रूयत इतीश्वरस्य देवदैत्यगतिप्रदत्वेन भेदलाभः । इत्यादिवाक्यानि यतो भेदं वदन्ति अतो न वाच्यमिति सम्बन्धः । एवमग्रे । ननु यत्र हि द्वैतमिव भवतीत्यत्र मोक्षे भेदाभावे दर्शनादिभोगो न स्यादित्यापादने तात्पर्यमुक्तम् । तत्रेष्टापत्तिमाशङ्क्य प्रमाणविरोधमाह- मग्नस्येति ॥ परेऽज्ञाने मग्नस्य दर्शनादिभोगाभाववत इत्यर्थः । दुःखतरं न भवेत्किं भवेदेव । तथा च मोक्षे दुःखाङ्गीकारोऽनुचित इतीष्टापत्तिर् नाशङ्कनीयेति भावः । पुरुषाश्चेतनाः किं बहव उतैक एवेति जनमेजयप्रश्ने एतद् एतस्मिन् जगति एकं पुरुषं न इच्छन्तीति वैशम्पायनेन चेतनैक्यस्य निराकृतत्वात् । ‘बहूनां पुरुषाणां च यथैका योनिरुच्यते । तथा तं पुरुषं विश्वमाख्यास्यामि गुणाधिकमिति’परमपुरुषस्य सर्वजीवकारणतया पृथगभिधानाच्च भेदसिद्धिः । मोक्षधर्मे यतो भेद उक्तोऽतो न वाच्यमित्यर्थः । एवं वायुप्रोक्त इत्यादिकमपि योज्यम् । सूत्रेषु तत्तद्वाक्यविषयेषु जीव एव प्रतिपाद्यत इति पूर्वपक्षे जीवोऽत्र प्रतिपाद्यो न किं त्वीश्वर इति समर्थनेन, भेदव्यपदेशादित्यत्राभेदनिरासेन, पृथगुपदेशादित्यत्र स्वातन्त्र्येण भेदस्योक्तत्वेन भेदसिद्धिः । आदिशब्दात् ‘स्थित्यदनाभ्यां चे’त्यादीनां ग्रहणम् । ननूदाहृतानि वचनानि मिथ्याभूतभेदपराण्यतो न विरोध इत्यत आह- सत्यत्वं चेति ॥ स्थाणू रुद्र उच्चक्रामोत्कृष्टतया पादविक्षेपं कृतवान् शीघ्रमाजगामेत्यर्थः । आगत्य ब्रह्माणं प्रत्याक्षेपं कृतवान् । किमिति । क इत्यादि किंशब्दत्रयमाक्षेपे । त्वं कोऽसि न कोऽपि । अस्मत्तो हरेश्च भिन्नो नासि । एवं वयं के स्मः न केऽपि त्वत्तो हरेश्च भिन्ना नस्मः । तथा स हरिरपि को न कोऽपि त्वत्तोऽस्मत्तश्च भिन्नो न भवति । यस्तु भेदः प्रतीयते स सर्वोऽपि मिथ्यैव । औतवादिभिस्तथाप्रतिपादनादिति । एवमाक्षेपे स ब्रह्मोवाच । किमिति । य इत्यादौ यच्छब्दत्रयश्रवणात्तच्छब्दत्रयमध्याहार्यम् । तथा चाहं यो यद्भेदवत्तया प्रतीतोऽस्मि स तद्भेदवानेवास्मि । एवं नाना भिन्ना यूयं ये यद्भेदवत्तया प्रतीतास्त एव तद्भेदवन्त एव स्थः । स हरिरपि यो यद्भेदवत्तया प्रतीतः स एव तद्भेदवानेव । प्रतीत्यनुसारेण सर्वे भिन्ना एव नाभिन्नाः । बाधकाभावात्प्रतीतस्य भेदस्य न मिथ्यात्वं कल्प्यमिति भावः । अथानन्तरमेनमिदानीं बाधकाभावेऽप्युत्तरत्र बाधो भविष्यति । औतवादिभिस्तथा प्रतिपादनादिति शङ्कमानं रुद्रमुप तत्समीपे आक्रोशं कृतवान् । कोपाटोपेन शपथपूर्वकमुत्तरं दत्तवान् । किमिति । भिदा प्रतीयमानो भेदः सत्यं सत्यमिति त्रिवारमुक्त्या शपथपूर्वोक्तिरियमिति ज्ञायते । उत्तरत्रापि बाधो न भविष्यतीति भावः । तर्हि कथमद्वैतवादिनां वचनमित्यतस्तत्रापि शपथपूर्वकमुत्तरमाह- मैवारुवण्य इति ॥ अत्रारुभिर्दोषि-भिर्वननीयो न तदुक्तप्रकारेण हरिर्ज्ञेयो न । औतवादिनां मिथ्याज्ञानादिदोषकत्वेन तद्वचनं न तत्त्वव्यवस्थापकमिति भावः । पूर्वं भेदसद्भावप्रतिपादनायोदाहृते श्रुती तत्सत्यत्वमपि प्रतिपादयत इत्याशयेन पुनरुदाहरति- सत्यमेनमिति ॥ एनमनु विश्वे मदन्तीति यत्तत्सत्यमित्यर्थः । तथा चात्रोपजीव्योपजीवकभावस्य भेदव्याप्तस्य सत्यत्वे सत्यः सोऽस्येत्यत्र च भेदव्याप्तविरुद्धधर्मस्य सत्यत्वे भेदस्यापि सत्यत्वं सेत्स्यतीति भावः । एवं भेदस्य सत्यत्वे श्रुतीरुदाहृत्य स्मृतिमप्युदाहरति- महासंहितायां चेति ॥ मोहविवर्जिता अयं भेदो मिथ्येति मोहवर्जिताः । अनेन भेदज्ञानस्य मोक्षसाधनत्वं यत्पूर्वमुक्तं तदपि प्रमापितमिति ज्ञातव्यम् । भ्रान्तिं भ्रान्तिकल्पिताम् । अनारतमविरतम् । अनवसानमिति यावत् । ननु जीवेश्वरभेदस्य भ्रान्तिकल्पितत्वं वदतां कथं परमात्मविनिन्दकत्व-मित्यतस्तद्दर्शयंस्तमःसाधनं सर्वमपि पापं तेषामस्तीत्याह- पराधीनश्चेति ॥ तुर् विशेषाकारेण । तयोः सदोषनिर्दोषयोरैक्यं वदता तेन मायावादिना किं दुष्कृतं पापं न कृतं सर्वमपि पापं कृतमेवेति भावः । यद्वा । तेन मायावादिना कृतं कर्मादुष्कृतं दुष्कृतभिन्नं किमस्ति सर्वमपि दुष्कृतमेवेत्यर्थः । अनेन निर्दोषस्य दोषिणैक्यं वदतां तन्निन्दकत्वं स्पष्टमेवेति दर्शितम् । ननु कुत एवं वदन्तीत्यतोऽत्र कारणमाह- अन्तर्याम्यैक्येति ॥ यानीहेश्वरे तु महातात्पर्येण अन्तर्याम्यैक्यवाचीनि वचनानि ‘तत्त्वमस्यहं ब्रह्मास्मी’त्यादीनि तानि तानि दृष्ट्वा श्रुत्वेहेश्वरे जीवैक्यं वदन्ति । यतो दुरात्मानोऽनादि-वासनादूषितान्तःकरणा अत एवाल्पचेतसोऽधिष्ठानमात्रज्ञानिनः । नन्वेवं तत्त्वमसीत्यादिवाक्यानामीश्वर-स्यान्तर्यामिभगवद्रूपैक्यपरत्वे त्वमस्यस्मि स्व आत्मा पुरुषोंऽतर्यामीत्यादि जीवे प्रयुज्यमानानां शब्दानां तदन्तस्थे ब्रह्मणि लक्षणाप्रसङ्ग इत्यतो महायोगवृत्त्यैव तेषां तत्परत्वमिति दर्शयन् ऐक्यवचने साक्षात्कारणभूतां भ्रान्तिं च दर्शयति- अस्यस्मीति ॥ असनादसि नित्यास्मितामानादस्मि, अपरोक्षत्वात्त्वम्, ओयत्वादहं, स्वातन्त्र्यात्स्वः । आततगुणत्वादात्मेति अभिधागोचरो मुख्यवृत्ति-विषयः । सर्वान्तरत्वादित्यनेन पूर्षु देहेषु शेत इति निर्वचनं सूचयति । अस्यस्मीत्यादौ निमित्तानि प्रमाणान्तरेण प्रसिद्धानीति नोक्तानि । अतो वस्तुनः शक्त्या भगवत एवोक्तशब्दविषयत्वात् । वचनैस्त्वमस्यहमस्मीत्यादिरूपैर्भ्रमन्ति जीवैक्यमुच्यत इति भ्रान्ता भवन्ति । तत्परशब्दो भावप्रधानः । तथा चासुरमोहे मोहने तत्परत्वं तात्पर्यं येषां ते तथा तैरित्यर्थः । ननु मोहने तात्पर्यं च चेतनधर्मः स कथमचेतनेषु वेदादिवचनेष्वित्यत आह- तन्मोहन इति ॥ देवानां वेदादिवचनाभिमानिनां परमस्य मुख्यतो वेदद्रष्टुः परमेश्वरस्य परमस्य भारतादिकर्तुरिति वा । तस्मादात्मनीश्वर इत्यस्योक्त एवार्थ इति स्थितम् ॥ २०-२२ ॥
अतो वै कवयो नित्यं भक्तिं परमया मुदा ।
वासुदेवे भगवति कुर्वन्त्यात्मप्रसादनीम् ॥ २३ ॥
पदरत्नावली
निगमयति- अत इति ॥ अतः निःशेषदुःखनिवृत्त्यलम्बुद्धिगोचरसुखानुभव-लक्षणमोक्षाख्यपुरुषार्थलाभाद्धि कवयः परमया मुदा आत्मप्रसादानीं भक्तिं वासुदेवे भगवति कुर्वन्तीत्येकान्वयः । आत्मप्रसादनीं मनसो नैर्मल्यापादनीं विष्णुप्रसादजननीं वा । मुक्तामुक्ता-श्चेत्युभयेऽपि हरौ भक्तिं कुर्वन्तीत्येतस्मिन्नर्थे वैशब्दः ॥ २३ ॥
प्रकाशिका
अत्र सदाचारं प्रमाणयन् उपसंहरति- अत इति ॥ अतो भक्तिजनकस्यैव धर्मस्य परत्वात् । भक्तेर्मोक्षपर्यन्तफलजनकत्वाच्च । आत्मप्रसादिनीं मनोनैर्मल्यापादीनीं विष्णुप्रसाद-जननीं वा ॥ २३ ॥
सत्वं रजस्तम इति प्रकृतेर्गुणास्तै-
र्युक्तः परः पुरुष एव इहास्य धत्ते
स्थित्यादये हरिविरिञ्चहरेति सञ्ज्ञाः
श्रेयांसि तत्र खलु सत्वतनौ नृणां स्युः ॥ २४ ॥
तात्पर्यम्
विष्णोरेव त्रिसञ्ज्ञाः । वामनपुराणे च-
ब्रह्मविष्ण्वीशरूपाणि त्रीणि विष्णोर्महात्मनः । ब्रह्मणि ब्रह्मरूपः स शिवरूपी शिवे स्थितः ॥
पृथगेव स्थितो देवो विष्णुरूपी जनार्दनः ॥ इति ।
त्रयोऽपि गुणा विष्ण्वाश्रयाः । तथापि सत्वतनौ जीवे श्रेयांसि स्युः ॥ २४ ॥
पदरत्नावली
उक्तश्रवणभक्त्यादिलभ्यमुक्तौ कोऽधिकारीत्याशङ्क्य सात्विकप्रकृतिरेव तत्राधिकारीति वक्तुं सत्वादिगुणान् तदाश्रयांश्चाह- सत्वमिति ॥ सत्वं रजस्तम इति एते त्रयः गुणा जडप्रकृतेः स्वरूपभूताश् चित्प्रकृत्यभिमता हरेर् जगदुत्पत्तौ उपादानभूताः । तैर् गुणैः स्वयम् अगुणः सन्नपि तत्प्रवर्तकतया युक्तः परः पुरुषोऽस्य जगतः स्थित्यादये पालनसृष्टिसंहारान्कर्तुं हरिविरिञ्चहरेति संज्ञा नामानि एक एव धत्ते । विष्णुर्ब्रह्मा शिव इति संज्ञावत्वेनावतरति । तत्र सत्वगुण-सम्बन्धविधुरोऽपि सत्वगुणप्रवर्तनेन जगत्पालयन् विष्णुसंज्ञो हरिरनन्याधिष्टिततया पृथगेव स्थितः । चतुर्मुखस्थो ब्रह्माख्यो विष्णुः स्वयमरजा अपि रजोगुणमुपादनीकृत्य जगत्सृजन्नास्ते । शिवाख्यो विष्णुः स्वयमतमा अपि तमोगुणप्रवर्तकतया जगत् संहरन् शिवे तिष्ठति । तत्सन्निधानविशेषादेव कमलासनवृषासनयोर्ब्रह्मशिवनामवत्त्वम् । तस्माद्धरेरेव त्रिसंज्ञाः, न तु लोकप्रसिद्धहरिविरिञ्चहराणां स्वरूपभेदनिरासेन संज्ञाः । तथात्वे ‘ब्रह्मविष्ण्वीशरूपाणि त्रीणि विष्णोर्महात्मनः । ब्रह्मणि ब्रह्मरूपः सन्’ इत्यादिवामनपुराणविरोधात् । एवं त्रयोऽपि गुणा विष्ण्वाश्रयाः, तथापि सात्विकरा-जसतामसशरीरिणां नृणां मध्ये सत्वतनौ सात्विकशरीरिणि देवप्रकृतौ जीवराशावेव श्रवणभक्त्यादिश्रेयांसि स्युः । न राजसतामसशरीरिषु मिश्रमनुष्येषु असुरेषु च इत्येकान्वयः ।
सत्वतनोर्विष्णोः कैवल्यं भवतीति दर्शयितुं मूर्तित्रयस्वरूपमाह- सत्वमिति ॥ सत्वादयः प्रकृतेर् मायाया गुणास्तैर्युक्त एकः परः पुरुषः हर्यादिसंज्ञा धत्ते । किमर्थं ? जगतः स्थितिसृष्टिभङ्गार्थम् । तत्र तेषां त्रयाणां मध्ये । ‘सत्वगुणस् तनुः शरीरं यस्य स सत्वतनुः, तस्माद्विष्णोः श्रेयांसि स्युरि’ति वाणी न युक्ता, ‘केवलो निर्गुणश्च’इति श्रुतिव्याकोपात् । न चास्याः सर्वगुणराहित्यमर्थः । ‘सत्यं ज्ञानमनन्तं ब्रह्म’ ‘गुणाः सर्वेऽपि वेत्तव्या ध्यातव्याश्च न संशयः’ ‘आनन्दादयः प्रधानस्य’ इति श्रुतिस्मृतिसूत्रैर्ज्ञानादिगुणविधानात् । अत्रापि ‘साक्षी चेता केवल’इत्यादिसाक्षित्वादिगुणप्रतीतेश्च । तस्मात् सत्वादिगुणराहित्यमेवास्य अर्थ इति सन्तोष्टव्यम् । किञ्च हरिविरिञ्चहरा इत्युक्तिं विहाय हरेत्युक्तेः प्रमाणसिद्धः कश्चिदर्थविशेषोऽस्तीति विज्ञायते । स च सकलसुरवरपुरटमुकुटपटलकोटितट-परिघट्टितचरणकमलपरागैः श्रीमद्बादरायणान्तेवासिप्रवरैः श्रीमदानन्दतीर्थभगवत्पादाचार्यैर्दर्शित इति नास्माभिरत्र प्रयतीतव्यम् ॥ २४ ॥
प्रकाशिका
ननु यदि विष्णुप्रसाद एव मोक्षजनकस्तर्हि सात्त्विकानामिव राजसानां तामसानां च कुतो न मोक्षः । त्रयाणामपि प्रकृतिगुणानां विष्ण्वाश्रितत्वाविशेषादित्याशङ्क्य सत्त्वगुणस्य रजस्तमोभ्यामुत्तमत्वात्सात्त्विकानामेव मोक्षो नेतरेषामित्याह- सत्त्वं रज इति ॥ नन्वत्र परः पुरुषः परमात्मा हरिविरिञ्चहरेति संज्ञा धत्त इति कथं विरिञ्चहरसंज्ञयोर्ब्रह्म रुद्रगतत्वादित्याशङ्कायां ब्रह्मरुद्रयोस्ते संज्ञे तन्नामकविष्णुरूपाधिष्ठितत्वेनैव निमित्तेन न साक्षात् साक्षाद्विष्णोरेव ताः संज्ञा अतः मूलोक्तं युक्तमित्याशयेनाह- विष्णोरेव त्रिसंज्ञा इति ॥ अत्र प्रमाणमाह- वामनपुराणे चेति ॥ मूलेऽसङ्गतिशङ्कापरिहारायापेक्षितमध्याहृत्य सत्त्वतनौ विष्णाविति प्रतीतिं वारयन्योजनां संक्षेपतो दर्शयति- त्रयोऽपीति ॥ यद्यपीति शेषः । तैर्युक्त इत्यस्य तात्पर्यम्- विष्ण्वाश्रया इति ॥ ततश्चायं योजना । पुरुषः पूर्णषड्गुणो हरिः प्रकृतेः परोऽप्यप्राकृतविग्रहोऽपि सत्त्वं रजस्तम इति प्रकृतेर्ये गुणास्तैर्युक्तस्तेषामाश्रयः सन् इह जगत्येक एक एव हरिर्विरिञ्चहरेति संज्ञा नामानि धत्ते । तत्संज्ञकान् अवतारान्कृतवानिति यावत् । नाममात्रभेदोऽत्र नार्थत इति दर्शयितुमेकः संज्ञा धत्त इत्युक्तम् । हरा इतीति वक्तव्ये हरेति संधिश्छान्दसः । किमर्थं धत्त इत्यत उक्तम् अस्य जगतः स्थित्यादयः । स्थित्युत्पत्तिसंहारान्कर्तुमिति । सत्त्वप्रवर्तकतया सत्त्वाश्रयो विष्णुर्जगतः स्थितिम् । रजःप्रवर्तकतया रजोगुणाश्रयो ब्रह्मनामा हरिः सृष्टिम् । तमः प्रवर्तकतया तमोगुणाश्रयो हरनामा हरिः संंहृतिं करिष्यत्यत एवमुक्तम् । यद्यप्येवं त्रयो गुणा विष्ण्वाश्रयास्तथाऽपि तत्र तत्र गुणात्मके जगति विद्यमानानां नृणां मनुष्यदेहिनां मध्ये यः सत्त्वतनुः सत्त्वगुणप्रचुरदेहवान् जीवस्तस्मिन्नेव श्रेयांसि श्रेयःसाधनानि भक्त्यादीनि स्युः । न राजसतामसदेहवज्जीवेषु । खल्वित्यनेन सत्त्वगुणस्योत्तमत्वादिति हेतुं सूचियति ॥ २४ ॥
पार्थिवाद्दारुणो धूमस्तस्मादग्निस्त्रयीमयः ।
तमसस्तु रजस्तस्मात्सत्वं यद् ब्रह्मदर्शनम् ॥ २५ ॥
तात्पर्यम्
मेघरूपत्वाद् धूम उत्तमः ॥ २५ ॥
पदरत्नावली
ननु त्रयाणां गुणानां प्राकृतत्वाविशेषेण कथं सत्वस्यैव श्रेयःप्राप्तिहेतुत्वमित्याशंक्य सात्विकानामेवोत्तमत्वेन ब्रह्मविद्याधिकारित्वप्रतिपादनाय गुणत्रितये सत्वगुणस्य उत्तमत्वं सोदाहरणमाह- पार्थिवादिति ॥ अत्र उत्तम इति पदमध्याहृत्य व्यख्येयम् । पर्थिवात् पृथिवीकार्यात् । दारुणः वृक्षात् । पार्थिवो धूम उत्तमः, लोकोपकारकमेघरूपत्वात् । तस्माद् धूमात् पार्थिवोऽग्निरुत्तमः । कीदृशः ? त्रय्या मीयते प्रतिपाद्यत इति त्रयीमयः सकलपदार्थप्रकाशकः । अत्र यथा वृक्षधूमाग्नीनां पार्थिवत्वा-विशेषेऽप्यग्निराधानेन संस्कृतो विशिष्टपुरुषार्थसिद्धये याज्ञिकैरुत्तमत्वेन पूज्यते, तथा प्राकृतात् तमस-स्तमोगुणाद्रजोगुण उत्तमः, तस्मात् सत्त्वं परब्रह्मादिसकलदेवतातत्त्वप्रकाशकः सत्वगुण उत्तमः । यद्यस्मात् सत्वगुणाद्ब्रह्मदर्शनं ब्रह्मज्ञानं, भवतीति शेषः । यत्सत्वं ब्रह्म दर्शयति अपरोक्षयतीति वा । तस्मात् सात्विका एव ब्रह्मज्ञानाधिकारिण इति सिद्धम् । अनेन चेतनानामपवर्गनरकतमःप्राप्तियोग्यानां त्रैविध्यं सूचितम् ॥ २५ ॥
प्रकाशिका
सत्त्वगुणस्योत्तमत्वं कुत इत्यतो दृष्टान्तमुखेनोपपादयति- पार्थिवादिति ॥ अत्राग्नेर्धूमादुत्तमत्वे त्रयीमय इति हेतुरुक्तः । धूमस्य दारुपदोदितकाष्ठोत्तमत्वे न कोऽपि हेतुरुक्तोऽतस्तं दर्शयति- मेघरूपत्वादिति ॥ धूमस्यान्तरिक्षसम्बन्धिमेघोपादानत्वात् पृथिवीसम्बन्धिकाष्ठा-पेक्षयोत्तमत्वमित्यर्थः । ततश्चायं श्लेकार्थः । यथा तथा उत्तम इति पदत्रयमध्याहार्यम् । यथा पार्थिवात्पृथिवीलोकसम्बन्धिनो दारुणः काष्ठाद्भूम उत्तमः । अन्तरिक्षसम्बन्धिमेघात्मना परिणतत्वात् । तस्माद्भूमादग्निरुत्तमः । यतस्त्रयीमयो वेदप्रतिपाद्येन्द्रादिदेवप्रदर्शनशक्तिमान्सम्यक् संस्कृतेऽग्नौ तत्तन्मन्त्रै-रिष्टा देवाः प्रत्यक्षा भवन्तीति हि प्रसिद्धम् । तथाऽधोगतिसाधनात्तमसो रज उत्तमं स्वर्गादिसाधन-कर्मजनकत्वादिति हेतुं तुशब्देन फलविशेषद्योतकेन सूचयति । तस्माद्रजोगुणात्सत्त्वमुत्तमम् । यद्यस्माद् ब्रह्म वेदार्थभूतं परं ब्रह्म दर्शयतीति ब्रह्मदर्शनम् । तथा च दारुधूमापेक्षयाऽग्नेर्वेदार्थप्रदर्शने शक्तिमत्वाद्यथोत्तमत्वं तथा सत्त्वगुणस्यापि वेदार्थप्रदर्शनशक्तिमत्वादितरगुणद्वयापेक्षयोत्तमत्वमिति भावः। अत्र धूमदृष्टान्तेन रजोगुणस्योत्तमत्वकथनं यादृशं सत्त्वगुणस्योत्तमत्वं तादृशं नेतरत्रेति प्रदर्शनाय । प्रयोगस्तु सत्त्वं तमोरजोभ्यामुत्तमं तत्कार्यापेक्षयोत्तमकार्यजननशक्तिमत्वात् । यो यत्कार्यापेक्षयोत्तम-कार्यजननशक्तिमान्स तस्मादुत्तमः । तथा दारुधूमापेक्षयोत्तमकार्यजननशक्तिमानग्निर्दार्वाद्यपेक्षयोत्तम इति द्रष्टव्यम् ॥ २५ ॥
भेजिरे मुनयोऽथाग्रे भगवन्तमधोक्षजम् ।
सत्वं विशुद्धं क्षेमाय कल्पते नेतराविह ॥ २६ ॥
तात्पर्यम्
सात्त्विकानां वासुदेवे भक्तिरुत्पद्यते ॥ २६ ॥
पदरत्नावली
उक्तार्थे शिष्टाचारं दर्शयति- भेजिर इति ॥ अथ तस्मात् सात्विकानाम् उत्तमाधिकारित्वात् । अग्रे पूर्वम् । मुनयो ज्ञानिनो ब्रह्मादयः । अधोक्षजं भेजिरे । तस्मदिह गुणेषु विशुद्धं सत्वं क्षेमाय मोक्षय कल्पते नेतरौ तमोरजोगुणौ मुक्तये न कल्पते इत्येकान्वयः ॥ २६ ॥
प्रकाशिका
सत्त्वगुणस्यैव श्रेयःसाधनत्वे शिष्टाचारं प्रमाणयति- भेजिर इति ॥ मुनयः सात्विकप्रकृतयः । अग्रे पूर्वं भेजिर यतोऽथो तस्मादिह संसारिषु विशुद्धं रजस्तमोभ्यामनभिभूतं सत्त्वं क्षेमाय मोक्षाय कल्पते समर्थं भवति । इतरौ तमोरजोगुणौ क्षेमाय न समर्थावित्यर्थः । अत्र सत्त्वं क्षेमाय भवतीत्येतदुपपादयति- सात्विकानामिति ॥ यत इति शेषः । भक्त्या चोक्तरीत्या मोक्ष इति भावः ॥ २६ ॥
मुमुक्षवो घोरमूढान् हित्वा भूतपरीनथ ।
नारायणकलाः शान्ता भजन्ति ह्यनसूयवः ॥ २७ ॥
पदरत्नावली
इदानीमपि सदाचारं दर्शयति- मुमुक्षव इति ॥ ब्रह्मादिपरमसात्विका वासुदेवं भेजिर इति यतोऽथ तस्मात्, असूयादिदोषरहिता दुस्तरसंसारान् मुमुक्षवो वर्तमानभविष्यत्सात्विका अपि घोरमूढान् राजसतामसान् भूतपतीन् रुद्रादीन् हित्वा शान्ताः परिपूर्णसुखात्मिका वासुदेवकला भगवन्मूर्तीः संप्रति भजन्ति भजिष्यन्ति हि च इत्येकान्वयः ॥ २७ ॥
प्रकाशिका
मोक्षार्थं भगवत एव भजनीयत्वेऽपि शिष्टाचारं प्रमाणयति- मुमुक्षव इति ॥ घोररूपान् राजसांस्तामसांश्च राजसतामसफलप्रदान् भूतपतीन्भूतपत्यादीन् रुद्रादीन् शान्ताः परिपूर्ण-सुखात्मिका वासुदेवकला भगवन्मूर्तीः । अनसूयवोऽसूयादिदोषरहिताः । हि यस्माद्भजंत्यथ तस्माद्वासुदेव एव । भजनीय इति शेषः ॥ २७ ॥
रजस्तमःप्रकृतयः समशीलान् भजन्ति वै ।
पितृभूतप्रजेशादीन् श्रियैश्वर्यप्रजेप्सवः ॥ २८ ॥
तात्पर्यम्
भूतेशप्रजेशादीन् ॥ २८ ॥
पदरत्नावली
इदानीं प्रसङ्गात्तामसराजससेव्यानाह- रज इति ॥ श्रियैश्वर्यप्रजेप्सवः रजस्तम-प्रकृतयः पुरुषाः समशीलान् पितृभूतप्रजेशादीन् भजन्ति वा इत्येकान्वयः । ‘निर्दोषं हि समं ब्रह्म’ इति वचनात् समं ब्रह्म तच्छीलान् यत्सेवकस्य यच्छीलं सेव्यस्यापि तच्छीलमस्तीति वा समशीलान् । श्रीकामाः प्रजेशान् ऐश्वर्यकामा भूतपतीन् प्रजाकामाः पित्रीशान्, श्रियं च ऐश्वर्यं च प्रजाश्च प्राप्तुमिच्छन्तः श्रियैश्वर्यप्रजेप्सवः ॥ २८ ॥
प्रकाशिका
ननु श्रेयस्कामाः केचिदन्यानपि भजन्ते दृश्यन्ते । सत्यम् । न ते मुमुक्षुव इत्याह- रजस्तमः प्रकृतय इति ॥ रजस्तमसी प्रकृतिः स्वभावो येषां ते तथा । अत एव स्वैः समं शीलं येषां ते तथा तान् । श्रिया सहैश्वर्यं च प्रजाश्चेप्सन्तीति श्रियैश्वर्यप्रजेप्सवः । इयङादशे । श्रियं चैश्वर्यं प्रजाश्चेति वा । पितृभूतप्रजेशादीनित्यत्र द्वन्द्वान्ते श्रूयमाणेशशब्दस्य प्रत्येकं सम्बन्धेऽपि पितृणां भजनीयत्वं न स्यादतोऽत्र विविक्षितविग्रहं दर्शयति- भूतेशप्रजेशादीनिति ॥ तथा च भूतानि च प्रजाश्च तासामीशाः । अत्रान्ते श्रूयमाण ईशशब्दः प्रत्येकमभिसंबध्यते । ततः पितरश्च भूतप्रजेशाश्चेति विग्रहः कार्य इति भावः ॥ २८ ॥
वासुदेवपरा वेदा वासुदेवपरा मखाः ।
वासुदेवपरा योगा वासुदेवपराः क्रियाः ॥ २९ ॥
वासुदेवपरं ज्ञानं वासुदेवपरं तपः ।
वासुदेवपरो धर्मो वासुदेवपरा गतिः ॥ ३० ॥
पदरत्नावली
सकलशास्त्रतात्पर्यपर्यालोचनया सकलैरवश्यं सेव्यः श्रीनारायण एवेत्यभिपेत्याह- वासुदेवपरा इति ॥ अत्र वेदा वासुदेवपरा इत्यादि प्रतिपादमन्वेतव्यम् । वासुदेवगुणोत्कर्ष-प्रतिपादनतात्पर्यवन्तः । मखाः संसारमदं खनन्ति नाशयन्तीति मखा अग्निष्टोमादयः, वासुदेवोद्देश्या नान्योद्देश्याः । योगा अष्टाङ्गा वासुदेवविषयाः । श्रुतिस्मृतिविहिताः सन्ध्योपासनादिकाः क्रियाः । ज्ञानम् औपनिषदं, तपः कृच्छ्रचान्द्रायणादिकायक्लेशः । धर्मो दानादिः । गम्यत इति गतिः फलं परलोकः । अनेन हरेरखिलऋग्वेदादिशास्त्रमुख्यविषयत्वेन सर्वोत्तमत्वम् उक्तम् ॥ २९,३० ॥
प्रकाशिका
मोक्षार्थिभिर्भगवानेव भजनीयः । मोक्षफलकवेदादिशास्त्रमहातात्पर्यविषयित्वा-दित्याशयेन वेदादिशास्त्रमहातात्पर्यविषयत्वं वासुदेवस्य दर्शयति- वासुदेवपर इति द्वाभ्यां श्लोकाभ्याम् ॥ पर उद्देश्यः । महातात्पर्यगोचरो येषां ते तथा । ननु वेदेषु क्वचिदग्निष्टोमाद्या मखाः प्रतिपाद्यन्ते क्वचित्प्राणायामादयो योगाः क्वचित्सन्ध्योपासनादिक्रियाः । क्वचिद्देवतातारतम्यादि ज्ञेयम् । क्वचित्कायक्लेशात्मकं तपः क्वचित्पूर्तादिलोकरूपो धर्मः । क्वचित्सत्यादिलोकरूपं गम्यम् । अतः कथं सर्वेषां वेदानां वासुदेवपरत्वमित्यत आह- वासुदेवपरा मखा इत्यादि ॥ यद्वेदेषु मखादिकमुच्यते तत्सर्वं वासुदेवोद्देश्यकमेवातस्तेषामवान्तरतात्पर्यविषयत्वेऽपि महातात्पर्यगोचरत्वं वासुदेवस्यैवेति भावः । वासुदेवपरं ज्ञानमित्यत्र ज्ञानशब्दो ज्ञेयपरः ॥ २९,३० ॥
स एवेदं ससर्जाग्रे भगवानात्ममायया ।
सदसद्रूपया चासौ गुणमय्याऽगुणो विभुः ॥ ३१ ॥
तात्पर्यम्
आत्ममायया स्वेच्छया । सदसद्रूपया प्रकृत्या च ॥ ३१ ॥
तया सदसद्रूपया । विज्ञानेन विजृम्भितः विज्ञानेन सम्पूर्णः ॥ ३२ ॥
तद्गुणानेव भुङ्क्ते न दोषान् । ‘सर्वत्र सारभुग् देवो नासारं स कदाचन’ इति वामनपुराणे । अनश्ननित्यशुभापेक्षया परवशत्वापेक्षया क्ऌप्त्यपेक्षया च ।
अक्ऌप्त्या च स्वतन्त्रत्वादशुभस्य च वर्जनात् । अभोक्ता शुभभोक्तृत्वाद् भोक्तेत्येव च तं विदुः ॥
अन्यूनानधिकत्वाच्च पूर्णस्वानन्दभोजनात् । विरागाच्च परस्यास्य भोक्तृत्वप्रतिषेधनम् ॥ इति स्कान्दे ॥ ३४ ॥
॥ इति द्वितीयोध्यायः ॥
पदरत्नावली
अत्र हेतुमाह- स एव इति ॥ यः सर्ववेदान्तादिमुख्यविषयः परमसात्विक-ब्रह्मादीष्टदेवता वासुदेवः सोऽसावेवागुणः सत्वादिगुणविधुरः, मुख्यकारणं वा । विभुर् व्याप्तः भगवान् नारायणः, अग्रे सृष्टेः पूर्वं, आत्ममायया स्वेच्छया निमित्तकारणरूपया, सदसद्रूपया व्यक्ताव्यक्तरूपया, गुणमय्या सत्वादिगुणात्मिकया जडप्रकृत्योपादानकारणरूपया चेदं जगत् ससर्जेत्येकान्वयः । अतो विष्णुरेव सत्यजगत्स्रष्टृत्वात् सर्वोत्तम इत्यर्थः ॥ ३१ ॥
प्रकाशिका
ननु सृष्ट्यादिव्यापारशीले एव वस्तुनि वेदसमन्वयो मीमांसायां प्रसिद्धः । अतः कथं वासुदेवपरत्वं वेदानामित्याशङ्कां परिहरन् ‘तस्य कर्माण्युदाराणि ब्रूहीति’ प्रश्रस्योत्तरमाह- स एवेदमिति चतुर्भिः श्लोकैः ॥ तत्रादौ जगत्सृष्टिरूपं कर्म वक्तुं स एवेति श्लोकः । अत्र सदसद्रूपयाऽऽत्ममायेति सामानाधिकरण्येन व्याख्याने चशब्दवैयर्थ्यमतो व्याचष्टे- आत्ममाययेति ॥ स्वेच्छयेति ॥ स्वरूपभूतेच्छयेत्यर्थः । निमित्तकारणरूपया । तथा चात्मरूपया माययेति व्याख्येयमिति भावः । सदसद्रूपया कार्यकारणरूपया प्रकृत्येति अनुकृष्टस्य मायाशब्दास्यार्थः । उपादानभूतया । तया विलसितेष्वित्यत्र पूर्वं द्विविधमायायाः प्रकृतत्वात्तयेत्यनेन कस्याः परामर्श इति न प्रतीयतेऽत आह- तया सदसद्रूपयेति ॥ तथा च विलसितेष्वित्यस्य परिणतेष्विति व्याख्यानं सूचयति । विज्ञानेन विजृम्भित इत्येतदप्रतीतेर्व्याख्याति- विज्ञानसम्पूर्ण इति ॥ विजृम्भितशब्दस्यात्यूर्जितवाचित्वादिति भावः । भुङ्क्ते भूतेषु तद्गुणानित्यत्र गुणशब्दस्य विषयपरत्वादशुभविषयभोगस्यापि प्राप्तौ विवक्षितं तात्पर्यं दर्शयति- गुणानेवेति ॥ शुभानेवेत्यर्थः । न दोषान्दुष्टान् । अशुभानिति यावत् । अनेन मूले गुणशब्दः शुभवाची स च सावधारणो विवक्षित इत्युक्तं भवति । अत्र प्रमाणमाह- सर्वत्रेति ॥ सर्वत्र सर्वप्राणिदेहेषु सारभुक् श्रेष्ठविषयभुक् । शुभभुगिति यावत् । नासारं भुंक्त इति शेषः । उत्तरार्धस्थेन तादृशेन पदेन वाऽन्वयः । नन्वेवमनश्नन्नन्य इत्यादि श्रुतिविरोध इत्यतः श्रुत्यभिप्रायमाह- अनश्नन्निति ॥ प्रवृत्तमिति शेषः । यदत्र निषिद्ध्यतेऽशनं तदशुभस्यैव विषयस्य शुभस्यापि परवशस्य यत्नसाध्यस्य वा । न तु सर्वथेति भावः । परवशत्वापेक्षयेत्यादौ शुभस्यापि विषयस्येति शेषः । क्लृप्तिर्यत्नः । अपरवशत्वापेक्षया अक्लृप्त्यापेक्षयेति पाठेऽशुभापेक्षयेत्यत्र लक्षणयाऽशुभनिषेधापेक्षयेत्यर्थः । अत्र प्रमाणमाह- अक्लृप्त्या चेति ॥ यत्नाभावेनेत्यर्थः । तथा चानश्नन्नित्यत्र शुभेषु विषयेषु यत्न एव निषिद्ध्यत इति भावः । स्वतन्त्रत्वात्परवशत्वाभावादित्यनेन परवशत्वमेव तत्र निषिद्ध्यत इति ज्ञातव्यम् । अभोक्ताऽभोक्तेत्युच्यते । सर्वथा भोगाभावपरतया व्याख्याने प्रमाणविरोध इत्याह- शुभभोक्तृत्वादिति ॥ भोक्ता चेत्येव तं विदुः । न तु सर्वथाऽभोक्ता इति । ज्ञानिप्रत्यक्षमेव प्रमाणमत्र दर्शितमिति ज्ञातव्यम् । उदाहृतश्रुतेरर्थान्तरमाह- अन्यूनेति ॥ न्यूनत्वाधिकत्वयोरभावादित्यर्थः । विषयभोगेनोच्चत्वं तदभावेन नीचत्वं च निषिद्ध्यते श्रुतौ न विषयभोग एवेति भावः । स्वानन्दः स्वरूपभूतानन्दो विषयभोगानभिव्यक्तस्तस्य भोजनादित्यर्थः । अनेन श्रुतौ विषयभोगजन्यमेव सुखं निषिद्ध्यत इति सूचयति । विरागाच्चेत्यनेन विषयभोगकामनैव निषिद्ध्यत इति दर्शयति ।
ततश्चायं श्लोकचतुष्टयस्यार्थः । यः सर्वदेवादिशास्त्रमहातात्पर्यविषयतया पूर्वमुक्तः स एव भगवान्वासुदेवोऽगुणः सत्त्वादिगुणसम्बन्धशून्यः । विभुः सर्वकारणेषु प्रवर्तकतया व्याप्तः सन् अग्रे आदिकाले आत्ममायया स्वस्वरूपेच्छया निमित्तभूतया सदसद्रूपया कार्यकारणरूपया गुणमय्या सत्त्वादिगुणत्मिकया च माययोपादानरूपया जडप्रकृत्या चेदं महदादिकार्यजातं ससर्ज ॥ ३१ ॥
तया विलसितेष्वेषु गुणेषु गुणवानिव ।
अन्तःप्रविष्ट आभाति विज्ञानेन विजृम्भितः ॥ ३२ ॥
पदरत्नावली
नियन्तृत्वमपि तदेकनिष्ठमित्यह- तयेति ॥ स हरिस् तया सदसद्रूपया विलसितेषु भूतभौतिकदेहेन्द्रियाद्यात्मना परिणतेष्वेषु गुणेषु अन्तःप्रविष्टो गुणवान् जीव इव आभाति । अज्ञानामिति शेषः । कुतः ? विज्ञानेन विजृम्भितः विज्ञानपूर्णः । इदं हेतुगर्भविशेषणम् । नानाकर्मविपाकिनां जीवानां विज्ञानाभावादस्य तत्पूर्णत्वात्, तेन नियम्यत्वं तेषामिति भावः ॥ ३२ ॥
प्रकाशिका
नन्वेवमगुणस्य भगवतः कथं केचिद्रुणबद्धजीवाभेदं वदन्तीति शङ्कायां तेषां तथा वचननिमित्तभ्रान्तौ कारणं दर्शयन् सृष्ट्यनन्तरं तस्य नियमनाय सर्र्वजगदन्तःप्रवेशरूपं कर्माह- तयेति ॥ तया सदसद्रूपया जडप्रकृत्या विलसितेषु प्रकाशितेषु । भूतभौतिकदेहेन्द्रियाद्यात्मना परिणतेष्विति यावत् । एषु प्रत्यक्षादिसिद्धेषु गुणेषु कार्येषु प्रेरणायान्तःप्रविष्टो यतोऽतो गुणवानिव गुणबद्धजीव इव । जीवात्मनेति यावत् । आभाति । अज्ञानामिति शेषः । वस्तुतस्तु न जीववत् । यतो विज्ञानेन विशेषविषयकज्ञानेन विजृम्भितः पूर्णः । जीवस्तु नैतादृश इत्यनुभवसिद्धमिति भावः ॥ ३२ ॥
यथा व्यवहितो वह्निर्दारुष्वेकः स्वयोनिषु ।
नानेव भाति विश्वात्मा भूतेषु च तथा पुमान् ॥ ३३ ॥
पदरत्नावली
न च स्थानभेदादद्वयस्य हरेर्भेदाशङ्का कार्येत्याह- यथेति ॥ यथैको वह्निः स्वयोनिषु स्वस्य व्यक्तिस्थानेषु दारुषु व्यवहितः भूतानामदृश्यतया स्थितः नानेव भाति । मथनादिनेति शेषः । दारूणाम् आनन्त्यात्, तथैको विश्वात्मा विश्वव्यप्तः पुमान् भूतेषु प्रविष्टो नानेव भाति । न तु नाना । ‘नेह नानाऽस्ति किञ्चन’इति श्रुतेः । अग्नेः किञ्चिद् विशेषसंभवेऽपि नास्य कश्चिद्विशेष इति चशब्दार्थः ॥ ३३ ॥
प्रकाशिका
नन्वेवं सकलकार्येषु प्रेरणाय समग्ररूपेणावस्थाने स्थानभेदात्तस्मिन् भेदप्रसक्ति-रित्याशङ्कापरिहारायैकस्यैवानेकेषु बहुरूपत्वेनैवावस्थानं न भेदनेत्याशयेन तस्य बहुधा भवनरूपं कर्म सोदाहरणमाह - यथेति ॥ एको वह्निः स्वयोनिषु स्वव्यक्तिस्थानेषु दारुषु व्यवहितोऽदृश्यतया स्थितो नानेव भाति । बहुरूपः सन्निति शेषः । न वस्तुतो नाना । अभिमानिदेवतापेक्षयैतत् । तथैकः पुमान्परमपुरुषः । चशब्दोऽप्यर्थः । विश्वात्मा समग्रस्वरूप एव भूतेषु प्राणिषु प्रविष्टोऽपि नानेव भाति । बहुरूपो भूत्वेति शेषः । वस्तुतो न नानेत्यर्थः ॥ ३३ ॥
असौ गुणमयैर्भावैर्भूतसूक्ष्मेन्द्रियादिभिः ।
स्वनिर्मितेषु निविष्टो भुंक्ते भूतेषु तद्गुणान् ॥ ३४ ॥
पदरत्नावली
न च दुर्भगशरीरेषु प्रविष्टस्य जीववद् दुःखभोगः सम्भाव्यत इत्याह- असाविति ॥ असौ परमात्मा गुणमयैः सत्वादिगुणविकारैर् भूतसूक्ष्मेन्द्रियात्मभिः पञ्चमहाभूत-पञ्चतन्मात्रा-दशेन्द्रिमनोभिर्भावैस् तत्वैरुपादानरूपैः, स्वनिर्मितेषु स्वेन तत्वेषु प्रविष्टेन विरचितेषु भूतेषु, शरीरेषु निर्विष्टः योगैश्वर्यादसङ्गतया प्रविष्टस्तद्गुणानन्दादीनेव भुंक्ते, न तु दोषनिमित्तदुःखादीन् । तस्माद् दुर्भगशरीरस्थत्वेऽपि न दुःखादिभोगस्तस्य, स्वातन्त्र्यादित्यर्थः ॥ ३४ ॥
प्रकाशिका
एवं बहुरूपस्य तस्य शुभविषयभोगरूपं कर्माह- असाविति ॥ असौ परमपुरुषो गुणमयैः सत्त्वादिगुणविकारैर्भूतानि पञ्चसूक्ष्माणि पञ्चतन्मात्ररूपाणीन्द्रियाणि दश आत्मामनस्तै-र्भावैस्तत्त्वैरुपादानरूपैः स्वनिर्मितेषु । अनेन भोगे परवशत्वाभावं दर्शयति । भूतेषु प्राणिदेहेषु निविष्ट ऐश्वर्यादसङ्गतया प्रविष्टस्तद्रुणांस्तत्तदिन्द्रियविषयान् शुभानेव भुङक्त इति ॥ ३४ ॥
भावयन्नेष सत्वेन लोकान् वै लोकभावनः ।
लीलावतारानुगतस्तिर्यङ्नरसुरादिषु ॥ ३५ ॥
इति श्रीमद्भागवते प्रथमस्कन्धे द्वितीयोऽध्यायः ।
पदरत्नावली
उत्तराध्यये ‘अथाख्याहि’इति प्रश्नं परिहरिष्यन् तदर्थं संक्षेपतो दर्शयति- भावयन्निति ॥ लोकभावनः जगदुत्पादकः । सत्वेन गुणेन इतरगुणानभिभूय लोकान् भावयन् पालनेन वर्धयन् एष परमपुरुषस्तिर्यङ्नरसुरादिषु तिर्यक्षु वराहादिजातिषु नरेषु मनुष्येषु देवेषु आदिशब्दात् स्तम्भादिषु लीलावतारानुगतो, भवतीति शेषेणान्वयः । लीलयैवावतारान् अनुगच्छति न तु पूर्वकर्मणा । यो योऽवतारो जगदवनादावनुकूलः स्यात्तं तमवतारं गृह्णातीत्यस्मिन्नर्थे अनुशब्दः ॥ ३५ ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुविरचितायां प्रथमस्कन्धे द्वितीयोऽध्यायः ॥
प्रकाशिका
तस्य लीलापालनरूपमपि कर्मवदन् आख्याहीति प्रश्नस्योत्तरमुत्तराध्याये वक्तुं भूमिकामारचयति- भावयन्निति ॥ लोकभावनो जगत्कर्ता । एषः परमपुरुषः सत्त्वेन सत्त्वगुणेन लोकान्सज्जनान् भावयन्पालयंस्तिर्यङ्नरसुरादिषु तिर्यक्षु वराहादिषु नरेषु मनुष्येषु सुरेषु । आदिशब्दादृष्यादिषु । लीलयैव न कर्मणा येऽवताराः प्रादुर्भावास्तैस्ताननुगतोऽनुगच्छन्ति । यज्जातिमध्ये स्वयमवतरति तज्जात्यनुसारिणीं चेष्टां करोतीति भावः ॥ ३५ ॥
**॥ इति श्रिमद्भागवते प्रथमस्कन्धे प्रथमाध्यायटिप्पण्यां **
वेदेशतीर्थपूज्यपादशिष्ययदुपतिविरचितायां द्वितीयोऽध्यायः ॥ १-२ ॥