ॐ नमो भगवते वासुदेवाय
भगवद्बादरायणप्रणीतम्
श्रीमद्भागवतम्
प्रथमस्कन्धः
अथ प्रथमोऽध्यायः
ॐ नमो भगवते वासुदेवाय
जन्माद्यस्य यतोऽन्वायादितरतश्चार्थेष्वभिज्ञः स्वराट्
तेने ब्रह्म हृदा य आदिकवये मुह्यन्ति यं सूरयः ।
तेजोवारिमृदां यथा विनिमयो यत्र त्रिसर्गो मृषा
धाम्ना स्वेन सदा निरस्तकुहकं सत्यं परं धीमहि ॥ १ ॥
**श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितः **
श्रीमद्भागवततात्पर्यनिर्णयः
ॐ श्रीमद्धनुमद्भीममध्वान्तर्गतरामकृष्णवेदव्यासात्मकलक्ष्मीहयग्रीवाय नमः ॥
**सृष्टिस्थित्यप्ययेहानियतिदृशितमोबन्धमोक्षाश्च यस्माद् **
अस्य श्रीब्रह्मरुद्रप्रभृतिसुरनरद्व्यीशशत्र्वात्मकस्य ।
विष्णोर्व्यस्ताः समस्ताः सकलगुणनिधिः सर्वदोषव्यपेतः
पूर्णानन्दोऽव्ययो यो गुरुरपि परमश् चिन्तये तं महान्तम् ॥
जन्माद्यस्येत्यादि । तं परं धीमहि । अन्वयात् । ‘यतो वा इमानि’ इत्यादिश्रुतिस्मृतिभ्यः । इतरतस् तर्कतश् चेतनाद्धि पित्रादेः पुत्रादिरुत्पद्यते । अभिज्ञः सर्वज्ञः । अतो युज्यते ‘यं कामये तं तमुग्रं कृणोमि’ ‘मम योनिः’ इत्यन्येषां तदपेक्षत्वात् । न चान्यापेक्षोऽसौ । स्वराट् । कुतः । तेने ब्रह्म हृदा य आदिकवये । स हि ‘विश्वा जातानि परिता बभूव’ नान्यः । हृदा स्नेहेन । ‘यो ब्रह्माणं विदधाति पूर्वं’ इति च । स्वात्मत एव हि तस्य बुद्धिप्रकाशः । न च प्रसादं विना ज्ञातुं शक्यः । मुह्यन्ति यं सूरयः । न चातृप्तः प्रवर्तते । किन्तु मृषा वृथैव । ‘भित्वा मृषाश्रुः’ इतिवत् । ‘देवस्यैष स्वभावोयं’ इति च । यत्रेति विशेषणान्नान्यत्र । स्वविषय एव वृथा । जीवेश्वरजडानां सर्गस्त्रिसर्गः । एकस्य तेजसो बहुत्ववदीश्वरसर्गः । वारिनिमित्तप्रतिबिम्बवज्जीवसर्गः । मृदो घटादिवदव्यक्ताज्जडसर्गः । न च मायामयी सृष्टिः । धाम्ना स्वेन सदा निरस्तकुहकम् । तद्धाम्ना श्रियो निरस्तकुहकत्वं मुक्तानां च । न च मुक्तवत्पूर्वं बन्धभाक्त्वम् । सदा निरस्तकुहकत्वात् । सत्यं निर्दुःखनित्यनिरतिशयानन्दानुभवरूपम् । परं सम्पूर्णगुणम् । परत्वसाधकं जन्मादीत्यादि । तन्त्रभागवते च ।
सृष्टिस्थित्यप्ययेहादेः श्रुतिस्मृतिसमन्वयात् । युक्तितश्चेत्तृपूर्वादेः श्रीब्रह्मभवपूर्विणः ॥
सुरगन्धर्वमनुजपितृदैत्यात्मनः पृथक् । कर्ता विष्णुरजो नित्यः सर्वज्ञत्वान्न चापरः ॥
अनन्याधिपतिश्चासौ गरीयान् ब्रह्मणो यतः । तत्प्रसादमृते तस्य नान्यो वेत्तास्ति कश्चन ॥
तेजसो रूपवद्रूपं बहुधा कुरुते हरिः । वारिस्थतेजःप्रतिमा जीवास्तस्माद् विनिर्गताः ॥
कुलालेन मृदा यद्वन्निर्मीयन्ते घटादयः । विष्णुनैवं प्रकृत्यैव निर्म्यते जगदीदृशम् ॥
एष त्रिसर्गो विष्णोस्तु वृथा लोकस्य चावृथा । इन्द्रजालविधां सृष्टिं मन्यन्ते ज्ञानर्दुर्बलाः ॥
नित्यं निरस्तेन्द्रजाले स्वत एव कथं भवेत् । अक्षमाः सत्यसृष्टौ हि मायासृष्टिं वितन्वते ॥
अनन्ताचिन्त्यविभवः कथं तामीहते हरिः । निर्दुःखपूर्णानन्दत्वाद्यमाहुः सत्यमच्युतम् ॥
निर्दोषगुणपूर्णत्वात् परं चाहुर्जनार्दनम् । एवंविधानुभावो यः स कथं निन्दितं सृजेत् ॥
स्वप्नादिकं परो देवः प्राणादिस्थस्तनोत्यसौ । केवलस्य परस्यास्य मायासृष्टिर्न युज्यते ॥
तस्माद् बाधायुताः सर्वे स्वप्नाद्या ये त्वकेवलाः । इदं न बाध्यते सर्वं जगत्केवलजं यतः ॥
मोक्षवत् केवलस्यास्य शक्त्या सम्यग्विजृम्भितम् । एतद्रहस्यं परमं ब्रह्मसूत्रपदोदितम् ॥
ये त्वेवं न विजानन्ति ते हि यान्त्यधरं तमः । ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् ॥
सर्वज्ञानविमूढांस्तान् विद्धि नष्टानचेतसः । ये त्वेतदनुतिष्ठन्ति पारम्पर्यागतं मम ॥
ते यान्ति परमं स्थानं ममैवोदितमञ्जसा ॥ इत्यादि ।
‘वैधर्म्याच्च न स्वप्नादिवत्’ ‘प्रघान्वस्य महतो महानि सत्या सत्यस्य करणानि वोचम्’ इत्यादि । ब्रह्मसूत्रमहाभारतगायत्रीवेदसम्बन्धश्चायं ग्रन्थः । उक्तं च गारुडे ।
अर्थोऽयं ब्रह्मसूत्राणां भारतार्थविनिर्णयः । गायत्रीभाष्यरूपोऽसौ वेदार्थपरिबृंहितः ॥
पुराणानां साररूपः साक्षाद्भगवतोदितः । द्वादशस्कन्धसंयुक्तोऽयं शतविच्छेदसंयुतः ॥
ग्रन्थोऽष्टादशसाहस्रः श्रीमद्भागवताभिधः ॥ इति ॥ १ ॥
**श्रीमद्विजयध्वजतीर्थविरचिता **
पदरत्नावली
ॐ यतो जन्माद्यस्य श्रुतिसुनयमानैकविषयान् स्वतन्त्रस्तन्त्रज्ञो गुरुरपि गुरोर्यश्च जगताम् ।
विमूढा सत्तत्वं प्रकटमिह वेत्तु सुमनसो मुकुन्दं ध्यायेमापहतकुहकं तं स्वमहसा ॥ १ ॥
त्रिसर्गो यत्रायं लसति चिदचिद्विष्णुविषयोऽनलीको नानेयं विकृतिरिव तेजोजलमृदाम् ।
विशुद्धं चैतन्यं प्रकृतिविकलं यच्च विततं परं ब्रह्मात्मानं स्मर हृदय सत्यं गुरुतमम् ॥ २ ॥
यदीयकृतिरञ्जसा सुमनसां सुमानं सतां सती सकलसन्नता सकलवेदवाणीनिधिः ।
स चित्सुखपयोनिधिः सरसिजेक्षणः श्रीपतिः पराशरशरीरजः शरणमस्तु मे सन्ततम् ॥ ३ ॥
मम वचसि मङ्गलदेवता प्रणयवति सन्निदधात्वियम् ।
विलसदुरसीव मुरद्विषः कमलवनमध्य इवान्वहम् ॥ ४ ॥
श्रुतिषु वितता यस्य ब्राह्मी प्रमाणमनाकुलं परमविषये सम्यक् प्रेक्षावतां न मृषा क्वचित् ।
हिमकरलसद्बिम्बच्योतत्सुधारसजित्वरीं स मम सुदृशं देयादानन्दतीर्थमहामुनिः ॥ ५ ॥
मणिगणवराः शाणोल्लीढा इवाधिवार्धि समुत्त्विषः शमदमगुणा यत्रात्रस्ता लसन्ति सन्ततमेष सः ।
चरणनलिने दैत्यारातेर्भवार्णवोत्तरसत्तरीं दिशतु विशदां भक्तिं मह्यं महेन्द्रतीर्थयतीश्वरः ॥ ६ ॥
क्व शब्दः क्वाभ्यासः श्रुतिरपि गुरोः क्वाग्रसरणं समीक्षा पौराणी क्व खलु विबुधा मत्सरधियः ।
तथापि व्यामोहाद्गुरुगुरुकटाक्षैकशरणो मनाग्व्याकुर्वे भागवतसुपुराणं प्रगहनम् ॥ ७ ॥
आचार्यैरपरैरपि प्रविवृतं मागा मनःखेदितां खद्योतस्तपनप्रकाशितपदे किं तत्र कुर्यादिति ।
तन्मार्गानुगमेन वाक्तनुमनःशुद्धिक्रियायै यतः श्रीमद्भागवतं पुराणमतुलं व्याकर्तुकामो यते ॥ ८ ॥
तदस्यां पद्यायां झटिति कृतयात्रे मयि कृपां महान्तः कुर्वन्तः द्यवि भुवि वसन्तः सदयने ।
निरस्तासूया ये परमपदभक्तिक्षितिधरोद्वहप्रह्वग्रीवा विपुलकरुणाः सर्वसुहृदः ॥ ९ ॥
अनन्त(न्द)तीर्थविजयतीर्थाै प्रणम्य मस्करिवरवन्द्यौ ।
तयोःकृतिं स्फुटमुपजीव्य प्रवच्मि भागवतपुराणम् ॥ १० ॥
अथ कलिमलापनुत्तये विधिभवपुरःसरैरमरवरैरादाराभ्यर्थितो दितिसुतबलभरपरिखिन्नधरणीतले चिरसमयसमाचीर्र्णतपस्यायां सत्यवत्यां पराशरादवतीर्णो व्यासनामा मुरमथनः समुद्धृतसमुत्सन्न-निगमकल्पतरुरल्पमतिमनुजदयालुः शाखोपशाखाभेदेन विभक्तवेदस्तदर्थं निर्णिनीषुर्विरचितब्रह्मसूत्र-स्तदनधिकारिजनापवर्गाय प्रकाशितपुराणविद्यापद्योऽपि कालदोषेण विलीनान् भागवतधर्मानाविश्चिकीर्षु-र्भागवतपुराणसंहितां वेदार्थप्रकाशिकां द्वादशस्कन्धसम्मिताम् अष्टादशसहस्त्रसङ्ख्योेपेतां चिकीर्षुर्निरन्तरा-परोक्षीकृतात्मस्वरूपो निरन्तरायोऽपि प्रेक्षावच्छिक्षायै मङ्गलाचरणाद्यनेकप्रयोजनाय च सर्वेष्टदेवतां नारायणाख्यामनुस्मरति- जन्माद्यस्य यत इति ॥ अत्र यच्छब्दश्रुतेस्तच्छब्दोऽध्याहार्यः । अस्य जगतो जन्मादि यतः,यश्चार्थेष्वभिज्ञः, यश्च स्वराट्, यश्च ब्रह्मा हृदा आदिकवये तेने, यं प्रति सूरयो मुह्यन्ति, तेजोवारिमृदां विनिमयो यथा तथा त्रिसर्गोऽपि यत्र मृषा, तं स्वेन धाम्ना सदा निरस्तकुहकं सत्यं परं धीमहीति समस्तान्वयः । तत्र प्रथमं परं धीमहीति व्यस्तान्वयः । पश्चादाकाङ्क्षावशादादितः सर्वेषामन्वयः । परं पूर्णं,गुणैरिति शेषः । पृ पालनपूर्णयोरिति धातोः । द्विविधा हि देवता ग्रन्थारम्भे नमस्कारादिमङ्गलक्रियामर्हति आधिकारिकी अभीष्टा चेति । यथा ज्योतिःशास्त्रे सूर्यादिग्रहलक्षणा देवताधिकारिकी नमनादिक्रियार्हा । परमप्रेमादिविषया ह्यभीष्टा । भगवांस्तूभयरूप इत्यभिप्रायेण परमित्युक्तम् । परमात्मा हि सकलप्राणिनां संसारोन्मूलनायास्मिन् शास्त्रे प्रतिपाद्यते । ‘तदेतत्प्रेयः पुत्रात्प्रेयोऽन्यस्मात्सर्वस्मादन्तरन्तरं यदयमात्मेति’श्रुतेः स एव परमप्रेमविषयः । परोऽपि नारायण एव नान्यः कश्चित् । ‘यदेतत्परमं ब्रह्म वेदवादेषु पठ्यते । स देवः पुण्डरीकाक्षः स्वयं नारायणः परम्’इति हरिवंशे सत्यतपःप्रश्नोत्तरे दुर्वाससः प्रतिवचने परस्य नारायणत्वोक्तेः । ‘ब्रह्मविदाप्नोति परम्’इति श्रुतेश्च । धीमहि ध्यायेम ।
जन्माद्यस्य यत इत्यादिविशेषणैः परशब्दोक्तान् गुणान् विशिनष्टि । पालनपूरणाभ्यां यथासम्भवं सृष्ट्यादयो वाच्या इत्यूहनीयम् । अलौकिकवस्तुनो लक्षणोपदेशमन्तरेण ज्ञातुमशक्यत्वात् शशविषाण-कल्पं तदित्यतो वा लक्षणमाह- जन्माद्यस्य यत इति ॥ अस्य प्रत्यक्षस्य जगतो जन्म आदिर्यस्य तज्जन्मादिति तद्गुणसंविज्ञानो बहुव्रीहिः । यतो यस्मात्, भवतीति शेषः । आदिशब्देन स्थितिसंहार-नियमनज्ञानाज्ञानबन्धमोक्षा गृह्यन्ते । न केवलं स्थितिसंहारौ श्रुतिस्मृतिविरोधात् । यथा सास्नादिमान् गौरिति वृद्धोपदिष्टः सास्नादिमन्तं पदार्थमश्वादिभ्यो व्यावृत्तं गोशब्दवाच्यं प्रत्येति तथा जन्मादिकारणं परमितिश्रुत्याऽऽचार्योपदिष्टः जन्मादिकारणं जीवादिभ्यो व्यावृत्तं परं विजानाति पुरुषः । जन्मादिकं प्रत्येकं परब्रह्मलक्षणतया ज्ञातव्यं, वेदान्तसूत्रेषु प्रतिपादितत्वात् ।
ननु परस्य जन्मादिकारणत्वं कुत इति तत्राह- अन्वयादिति ॥ ‘यतो वा इमानि भूतानि जायन्ते’ ‘येन जातानि जीवन्ति’ इत्यादिश्रुतीनां ‘अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते’ ‘स्रष्टा पाता तथैवात्ता निखिलस्यैक एव तु’ इत्यादिस्मृतीनां च जगत्कारणे हरावन्वयात् । उपक्रमोपसंहारादि-तात्पर्यलिङ्गात् परं ब्रह्मैव जगत्कारणं नान्यदिति भावः ।
ननु रुद्रादीनामपि जगज्जन्मादिकारणत्वं श्रूयते । अतः कथं परस्यैवेत्यवधार्यते ? उच्यते । यद्यपि रुद्रादीनां वेदैकदेशप्रतिपाद्यत्वमस्ति । तथाप्यनन्तवेदपदकदम्बप्रतिपादितत्वं विष्णोरेव । ‘सर्वे वेदा यत्पदमामनन्ति’ ‘वेदैश्च सर्वैरहमेव वेद्यः’ इत्यादिश्रुतिस्मृतिभ्यः ।
ननु श्रुत्यादेः पिपीलिकालिपिवद् अप्रमाणत्वम् । माणवकदृष्टशार्दूलकल्पत्वेन, तन्निश्चयाभावात् । अतः परमाणुपुञ्जस्यैव कारणत्वमिति तत्राह- इतरत इति ॥ प्रत्यक्षागमाभ्यामनुगृहीतादितरस्मात्तर्कात् परब्रह्मणः कारणत्वं ज्ञायते । ‘समुदाय उभयहेतुकेऽपि तदप्राप्तिः’ इति भगवता कृष्णद्वैपायनेन परमाणुपुञ्जवादस्य निरस्तत्वात् । तत्र श्रुत्याद्यनुगृहीततर्काभावात्केवलतर्कस्य अप्रतिष्ठितत्वात् ।
ननु कार्यं कारणपूर्वकं कार्यत्वादिति कारणसामान्यमात्रं सिद्धं, विशेषस्तु कुतः सिद्ध्येदिति चेत् । सत्यम् । प्रधानादेरचेतनत्वेन बुद्धिपूर्वककर्तुत्वानुपपत्तेरस्वातन्त्र्याच्च क्षित्यादेश्चेतनकर्तुकत्वं परिशेष-सिद्धम् । चेतनाद्धि पित्रादेः पुत्राद्युत्पत्तिदर्शनात्तद्दृष्टान्तेन ब्रह्मादिचेतनजातं परमचेतनाद्धिष्णोरुत्पद्यत इति सुशकोऽयं तर्कः समुत्तिष्ठते । चशब्दः समुच्चये । वेदानामपौरुषेयत्वेन कर्तुप्रसिद्ध्यभावाद-संदिग्धप्रमाणत्वेन तदनुगृहीततर्कस्यापि प्रतितर्कपराहतिर्नाशङ्कनीयेत्यस्मिन्नर्थे वा । अनेन ‘अथातो ब्रह्मजिज्ञासा’ ‘जन्माद्यस्य यतः’ ‘शास्त्रयोनित्वात्’ ‘तत्तु समन्वयात्’ इति चतुःसूत्री च व्याख्याता । जिज्ञासैव धीमहीत्यनेनोच्यते । वेदविचारनिर्णीतगुणोपसंहाररूपत्वात् । इयानेव विशेषः। ध्यानमेव ज्ञानसाधनं न कर्मादिकमित्यतो धीमहीतिपदं कर्मणा शुद्धान्तकरणस्य ध्यानसम्भवादिति ।
यस्तु श्रुतिस्मृती अनादृत्य केवलतर्केण ब्रह्मणो जन्मादिकारणत्वं विघटयितुं प्रत्यवतिष्ठते सोऽन्वय-व्यतिरेकात्मकतर्केणापहस्तितव्य इत्यतो वाऽऽह- अन्वयादितरत इति ॥ अन्वयाद् अन्वयानुमानाद् इतरतो व्यतिरेकानुमानात् । तौ च दर्शितौ । चशब्दस्तु परोक्ततर्कस्य केवलस्य व्याप्तिशून्यत्वादस्य च प्रत्यक्षगृहीतव्याप्तिकत्वेन बलीयस्त्वादप्रतिहतः स्वार्थं साधयतीत्येतस्मिन्नर्थे वर्तते ।
ननु पयोम्ब्वादेरचेतनस्य स्यन्दनादिप्रवृत्तिदर्शनात्तन्निदर्शनेन प्रधानस्य कारणत्वं किं न स्यादिति तत्राह- अर्थेष्विति ॥ अर्थेषु घटपटादिष्वभितः सर्वतः विशेषकारणं जानातीति अभिज्ञः । प्रधानस्य जडत्वेन ज्ञानाश्रयत्वलक्षणासंभवान्नितरां न सर्वज्ञत्वम् । विष्णोस्तु सर्वज्ञत्वं श्रुतिस्मृतिसिद्धम् । ‘यः सर्वज्ञः सर्ववित्’ ‘तान्महं वेद सर्वाणि न त्वं वेत्थ परन्तप’ इत्यादि ।
नन्वस्य हेतोः सर्वज्ञे रुद्रादावपि वृत्तेरसाधकत्वमिति तत्राह- स्वराडिति ॥ स्वयमेव राजत इति स्वराट् । स्वस्य स्वयमेव राजा नान्योऽधिपतिरिति वा । अयं भावः । ‘यं कामये तं तमुग्रं कृणोमि’इति रुद्रादीनां श्रीप्रसादायत्तज्ञानादिगुणवत्वात्तद्गतानां विशेषाणामनन्तानां तैरज्ञातत्वान्न तेषां निरुपचरित-सर्वज्ञत्वमतो न तेषु तस्य हेतोर्व्यभिचार इति स एव सर्वकर्तेति । ‘न ते विष्णो जायमानः’‘एष सर्वेश्वर एष भूताधिपतिः’इत्यादिश्रुतिरनन्याधिपतित्वे सर्वाधिपत्ये च मानम् । सुष्ठु राजान्तररहित इति वा स्वराट् । स्वम् आत्मानं स्वयमेव राजयति प्रकाशयति न परेच्छयेति वा ।
ननु श्रुतीनामनन्तत्वादेकत्र हरेरन्याधीनत्वकथनसम्भवादतः कुतो निश्चयः परोऽनन्याधीन इति तत्राह- तेन इति ॥ यः पर आदिकवये चतुर्मुखाय ब्रह्म सांगं वेदं हृदा स्नेहेन तेने विस्तारितत्वात् । तस्य सकृदुपदेशमात्रेणाशेषविशेषग्रहणसामर्थ्येऽपि ‘वक्तव्यं ब्रह्म गुरुणा चतुर्वारमथापि वे’त्युपदेश-शास्त्रमनुसृत्य तेन इत्युक्तम् । शिष्यशिक्षायै तथोपदेशसंभवात् । चतुर्मुखस्य वेदोपदेशेन हरेरन-न्याधिपतित्वस्य किमायातमिति चेन्न । ‘प्रजापते न त्वदेतान्यन्यो विश्वा जातानि परिता बभूवे’ति श्रुतौ चतुर्मुखस्य निरतिशयमाहात्म्यकथनात्तदुपदेशात्तस्यानन्याधिपतित्वसिद्धेः । ‘यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मा’ इति श्रुतेः सकलवेदविद्योपदेशोऽपि सिद्धः । आदिकवित्वं च ब्रह्मणः ‘कविर्यः पुत्र स इमा चिकेते’त्यादिश्रुतिसिद्धम् । ‘ब्रह्म वेदस्तपस्तत्वं ब्रह्म विप्रः प्रजापति-रि’त्यभिधानम् । ‘हृत्स्नेहे मनसि स्निग्धे सुहृद्बन्धौ हरावपी’ति च । न प्रहेलिकावदुपदेश इति द्योतनाय हृदेत्युक्तम् । तेने ब्रह्मेति सर्वज्ञत्वे हेत्वन्तरं वा । सकलचेतनराश्युत्तमस्य चतुराननस्योपदेष्टुः शार्ङ्गपाणेः सर्र्वज्ञत्वं न्यायप्राप्तमिति भावः ।
‘वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः परस्ता’दिति श्रुतौ नारायणविषयज्ञानस्वातन्त्र्यकथना-त्तदुपदिष्टज्ञानेनैव तज्ज्ञानं कथं संगच्छत इत्याशङ्क्य ‘यमेवैष वृणुते तेन लभ्य’इति श्रुतेस् तत्प्रसादायत्तज्ञानेन तद्विषयं ज्ञानं, न तु स्वप्रतिभया । अन्यथा ज्ञानमेव न स्यादुक्तहेतोरित्यभिप्रेत्याह- मुह्यन्ति यं सूरय इति ॥ यं प्रति भूतभविष्यद्वर्तमानब्रह्मादयो यत्प्रसादमन्तरेण मुह्यन्ति । ‘मुह वैचित्य’इति धातोः । चितिर्ज्ञानम् । न जानन्ति, क्वचिदन्यथा च जानन्तीत्यर्थः । तस्माद् ब्रह्मादिचेतनराश्यचिन्त्यमहिमामहीधर इति प्रमीयते ।
नन्वीश्वरः सृष्ट्यादौ प्रवर्तमानः प्रयोजनार्थी सृजति अन्यथा वा? न प्रथमः । यत्प्रयोजनार्थं प्रवर्तते तस्य पूर्वं तदभावादपूर्णत्वेनाशक्तत्वात् सृष्ट्यनुपपत्तेः । न द्वितीयः । प्रवृत्तिमात्रस्य प्रयोजनोद्देशेन दृष्टत्वाद् वृथा तदनुपपत्तेरतो मायामयी सृष्टिरेष्टव्येत्यत आह- तेजोवारीति ॥ तेजोवारिमृदां विनिमयो यथा तथा त्रिसर्गः । यत्र यस्मिन् भगवति विषये मृषैव पूर्वप्राप्तप्रयोजनप्रापको न भवति । कथं तर्हि प्रवृत्तिरिति चेद् उच्यते । ‘देवस्यैष स्वभावोऽयमाप्तकामस्य का स्पृहा’‘लोकवत्तु लीलाकैवल्यं’इति श्रुतिसूत्रबलादाप्तसमस्तप्रयोजनस्य हरेर् लीलयैव प्रवृत्तिरिति भावः । जीवेश्वरजडानां सर्गस्त्रिसर्गः यथा एकमेव मूलतेजः स्वकार्येषु पार्थिवादिपदार्थेषु बहुधा भूत्वा प्रविशति बहिश्च मथनादिनाविर्भवति तथेश्वरोऽपि जगत्सृष्ट्वा बहुरूपीभूय जगदन्तः प्रविशति बहिश्च भक्तानुकम्पया वासुदेवादिबहुरूप आविर्भवति । अयमीश्वरसर्गः । दीपाद्दिपान्तरोत्पत्तिर्यथा तथैव सूक्ष्मस्थूलशरीरा-द्युपाधिनिमित्तैः प्रतिबिम्बभूता जीवा हरेरुत्पद्यन्ते । एष जीवसर्गः । यथा कुलालो मृदमुपादानीकृत्य घटादीन् सृजति तथेश्वरो जडप्रकृतिमुपादानीकृत्य महदहङ्काराद्यशेषजडपदार्थान् सृजति । एषः जडसर्गः । अनेन मायामयी सृष्टिरित्यस्य किमायातमिति चेदुच्यते । यत्र ईश्वर इति विशेषणाद् अन्यत्र जगति अमृषा मिथ्या न भवति । तथा च योजना- यथा तेजोवारिमृदां विनिमयः कार्यम् अर्थक्रिया-योग्यत्वात्सदसद्विलक्षणो न भवति तथा यत्र यदाधारतया क्रियमाणस्त्रिसर्गो मिथ्या न भवति । अतो अर्थक्रियानुपपत्तिरेव मिथ्यात्वबाधिकेति भावः ।
ननु तेजःकार्यं केशोंड्रकादि, वारिकार्यं फेनादि, मृत्कार्यं घटादि यथा मिथ्या तथा यत्र जगन्मिथ्येत्यर्थः स्यात् । तथा च श्रुतिः ‘वाचारंभणं विकारः’ । अनुमानञ्च विमतं मिथ्या दृश्यत्वाद् इत्यतो मायामयी सृष्टिरिति तत्राह- धाम्नेति ॥ स्वेन धाम्ना स्वरूपज्ञानमहिम्ना सदा नित्यं निरस्तं कुहकम् इन्द्रजालादिमाया येन यस्य वा स तथोक्तस् तम् । ‘यः सर्वज्ञः’ ‘अथैनमाहुः सत्यकर्मेति’ ‘विश्वं सत्यमि’त्यादिश्रुतिविरोधादुदाहृतश्रुतेरर्थान्तरत्वसंभवादनुमानस्य च व्याप्तिशून्यत्वेन तद्विरोधा-भावान्नित्यनिरस्तेन्द्रजालो विष्णुर्न मायामयीं सृष्टिं विदधाति । किन्तु सत्यामेव । लोके च असमर्थः सन्निन्द्रजालादिकं सृजति न तु समर्थः । विष्णुस्तु नित्यपरिपूर्णशक्तिः किमर्थं तत्करोतीत्यर्थः । मुक्तव्यावृत्तये सदेत्युक्तम् । तेषां मुक्तेः पूर्वं बन्धभाक्त्वेन कुहकित्वसम्भवात् । ननु विष्णोः सदा निरस्तकुहकत्वे मुक्तव्यावृत्तिर्घटते तदेव कुत इत्यत आह- सत्यमिति ॥ सत्यं निर्दुःखनित्य-निरतिशयानन्दानुभवरूपम् । ‘सच्छब्द उत्तमं ब्रूयादानन्दं तीति वै वदेत् । येति ज्ञानं समुद्दिष्टमि’ति वचनान्नित्यनिरस्तकुहकत्वेन मुक्तव्यावृत्तिर्युज्यत इति भावः ।
एतदुक्तं भवति । उपक्रमादितात्पर्ययुक्त्युपेतसर्वश्रुतिस्मृतितात्पर्यपर्यालोचनया सर्वजगत्सृष्ट्यादि-कर्तृत्वात्सर्वज्ञत्वादनन्याधिपतित्वाच्चतुर्मुखज्ञानोपदेष्टृत्वात्स्वानुग्रहमन्तरेण दुर्ज्ञेयत्वात्स्वप्रयोजनानुद्देशेन केवललीलयैव जगत्सर्जनादिप्रवृत्तिमत्वात्स्वत एव नित्यनिरस्तेन्द्रजालत्वेन सत्यमहिमत्वा-न्नित्यनिर्दुःखनिरतिशयानन्दानुभवरूपत्वाच्च सर्वगुणपूर्णो विष्णुः सर्वैध्येय इति तात्पर्यार्थः ।
ननु धीमहीति छान्दसप्रयोगः कस्मात् कृतः? उच्यते । गायत्रीप्रतिपाद्यं नारायणाख्यं परं ब्रह्मैव, न सूर्यः । तस्य‘चक्षोः सूर्यो अजायत’इति श्रुत्या तदङ्गजननोक्तेरिति दर्शयितुं,यथा वेदाध्ययनोपक्रमे गायत्र्यधीयते विशिष्टफलहेतुत्वात्तथा भागवतोप्रकमेऽपीति वा, गायत्र्याद्यशेषवेदप्रतिपाद्यो नारायण एव भागवते प्रतिपाद्यत इति वा, इतरेषां भगवत्कृतत्वेन तत्परत्वेऽपि तद्व्यावृत्तये इति वा, इतरेभ्योऽप्यस्य माहात्म्याधिक्यप्रकटनायेति वा धीमहीति छान्दसं पदं प्रायुंक्त भगवान् बादरायणः । तथा च मात्स्यपुराणे पुराणदानमाहात्म्यं प्रस्ताव्य तन्माहात्म्यं तल्लक्षणं च प्रदर्शितम्- ‘यत्राधिकृत्य गायत्रीं वर्ण्यते धर्मविस्तरः । वृत्रासुरवधश्चापि यत्तद्भागवतं विदुः । लिखित्वा तच्च यो दद्याद्धेमसिंहसमन्वितम् । पौर्णमास्यां प्रोष्ठपद्यां स याति परमं पदम् । अष्टादशसहस्त्राणि पुराणं तत्प्रकीर्तितमि’ति । स्कान्दे च ‘ग्रन्थोऽष्टादशसहस्त्रो द्वादशस्कन्धसम्मितः । हयग्रीवब्रह्मविद्या यत्र वृत्रवधस्तथा । गायत्र्या च समारभ्यो यत्र भागवतं विदुरि’ति । गारुडे च ‘अर्थोऽयं ब्रह्मसूत्राणां भारतार्थविनिर्णयः । गायत्रीभाष्यरूपोऽसौ वेदार्थपरिबृंहितः । द्वादशस्कन्धसंयुक्तः शतविच्छेदसंयुतः । ग्रन्थोऽष्टादशसाहस्त्रः श्रीमद्भागवताभिधः’इति । अन्ये चतुर्विंशत्साहस्त्रं भागवतमिति वदन्ति । तदसंप्रदायविदां वचन-मित्युपेक्षणीयम् । गायत्र्यर्थोऽप्यनेन श्लोकेन सूचितः । तथाहि- तत्सवितुर्देवस्येत्यस्यार्थो जन्माद्यस्य यत इति । ‘वामं वरेण्यं परमि’त्यभिधानाद्वरेण्यमित्यस्य व्याख्यानं परमिति । भर्ग इत्यस्य व्याख्यानं धाम्ना स्वेन सदा निरस्तकुहकमिति । भर्गः सकलदुरितभर्जनं ज्योतीरूपम् । तत्पदार्थव्याख्यानं स्वाराडिति । धियो यो नः प्रचोदयादित्यस्य विवरणं तेने ब्रह्म य आदिकवये इति । यः सविता जन्मादिकर्ता नो ऽस्माकं धियः बुद्धीः । उपलक्षणमेतत् । सर्वेन्द्रियाणि । स्वतत्वविषयं ज्ञानं गुरुमुखेनोपदिश्य तज्ज्ञानसाधनानि सर्वाणि करणानि प्रचोदयात् प्रचोदयति स्वात्मविषयतया प्रेरयति, तस्य सवितुर्देवस्य क्रीडादिगुणसम्पन्नस्य नारायणस्य अनन्याधीनतया ततत्वाद्व्याप्तत्वात्तद्वरेण्यं सकलगुणाकरतया परममङ्गलं भर्गः ज्योतीरूपं भरणगमनयोगात्सर्वज्ञं वा वपुर् ज्ञानानन्दागुणविरचितकरचरणाद्यवयववाद् धीमहि ध्यायेम । ज्ञानमेव तत्प्रीतिजनकं, न कर्मादीकम् । तस्मात् तच्चिन्तनं कर्तव्यमित्यर्थः ।
यत्तु केनचिद्वेदसम्मितैवंविधग्रन्थव्याख्यानारम्भसमये प्रजल्पितम्- ‘पदच्छेदः पदार्थोक्तिर्विग्रहो वाक्ययोजना । आक्षेपश्च समाधानमिति व्याख्यानलक्षणम् । अतिरिक्तं पदं त्याज्यं हीनं वाक्ये निवेशयेत् । विप्रकृष्टं च सन्दध्यादानुपूर्वीं च कल्पयेत् । लिङ्गं धातुं विभक्तं च योजयेच्चानुलोमतः । वाक्यार्थस्यानुसारेण तेषाञ्च व्यत्ययोऽपि वे’इति तदनुपादितग्रन्थसम्प्रदायवित्सज्जनचरणैरुत्प्रेक्षितमिति न विदुषां परिषदि सारस्यम् आधत्ते । नहि यथावेदादावकरित्यत्राकरोदिति पदम् अशक्यनिवेशनं तथात्राप्यतिरिक्तं पदं सन्त्यज्य हीनं संयोज्य व्याख्यानं तल्लक्षणं भवति । तस्माद्यथास्थित-ग्रन्थव्याख्यानमेव सज्जनचित्तरञ्जनमिति सन्तोष्टव्यम् ।
ननु नायं श्लोकार्थः किन्त्वन्य एव । तथाहि तं सत्यं धीमहि । ननु मृत्तिकेत्येव सत्यमिति मृदादेरपि सत्यत्वं श्रूयते । तद्वदत्रापीति तत्राह- परमिति ॥ मृदादेः कार्यापेक्षया सत्यत्वम् अयं तु पारमार्थिकः सत्यः ‘तत्सत्यं स आत्मे’ति श्रुतेः । परस्य सत्यस्यावाङ्ग्मनोगोचरस्य कथं ध्यातृध्येयध्यानादिव्यवहारगोचरत्वमित्याशङ्क्याह- जन्मादीति ॥ अस्य जगतो जन्मस्थितिभङ्गं यतः परात्सत्यात् तं धीमहीत्यर्थः । ‘यतो वा इमानि भूतानि जायन्त’इति श्रुतिसिद्धजगत्कारणरूपेण वाङ्मनोगोचरस्यापि ध्यातृध्यानादिव्यवहारो घटत इति भावः ।
ननु ब्रह्मणः सिद्धरूपत्वात् प्रमाणान्तरगोचरत्वमतस्तत्र वेदान्तानामनुवादकत्वादप्रामाण्य-मित्याशङ्क्याह- अन्वयादिति ॥ वेदान्तानां ब्रह्मण्येवान्वयात्सम्यगन्वयात्तात्पर्यादित्यर्थः । तथा च श्रुतिस्मृती- ‘सर्वे वेदा यत्पदमामनन्ति’ ‘वेदैश्च सर्वैरहमेव वेद्य’इति । प्रमाणान्तरासिद्धत्वेन ह्यननुवादकत्वं सिद्धमित्यपि ज्ञातव्यम् । न केवलं श्रुत्यन्वयात् स्मृत्यन्वयाच्चेत्याह- इतरतश्चेति ॥ ‘अहं सर्वस्य जगतः प्रभवः प्रलयस्तथे’ति स्मृतितश्चेत्यर्थः । अथवा प्रतिपदोक्तविवक्षितार्थसिद्धये हेतुमाह- अन्वयादितरतश्चेति ॥ अस्ति प्रकाशते इति ब्रह्मण एव कार्यप्रपञ्चे मृदादेरिव घटादौ समन्वयादितरतोऽस्तिप्रकाशव्यतिरेकेण कदाचिदपि कस्याप्यप्रतिभासान्मृदादिव्यतिरेकेण घटादेरिवे-त्यन्वयव्यतिरेकौ दर्शितौ । ननु तर्हि साङ्ख्यपरिकल्पितं प्रधानमेव जगत्कारणमस्तु किं ब्रह्मणेति तत्राह- अर्थेष्वभिज्ञ इति ॥ उत्पाद्यसर्वपदार्थेष्वभिज्ञः सः । अभितः सर्वतः सर्वं जानातीति । एवंविधस्यैव कारणत्वं नेतरस्य । प्रधानस्य जडत्वान्न सर्वज्ञत्वम् । तथा च ‘यः सर्वज्ञः’ इति श्रुतिः । तर्ह्यर्थेष्वभि-ज्ञानां जीवानामेव जगत्कारणत्वमस्त्वित्याशङ्क्याह- स्वराडिति ॥ स्वयमेव राजत इति स्वराट् । जीवानां परिच्छिन्नज्ञानत्वेन पराधीनत्वान्न स्रष्टृत्वं सम्भवतीति भावः । ‘एष सर्वेश्वर एष लोकपाल’इति श्रुतेः । नन्वीश्वरस्यापि ‘न तस्य कार्यं करणं च विद्यत’इति श्रुत्या कार्यकारणाद्यभावात् कथं सर्वज्ञत्वमिति तत्राह- तेने ब्रह्मेति ॥ आदिकवये ब्रह्मणे यः ब्रह्म ऋग्वेदादिलक्षणं साङ्गं वेदं हृदा मनसा मनोमात्रेण साधनान्तरनिरपेक्षतया तेने पूर्वप्रलये सूक्ष्मरूपेण स्वस्मिन् स्थितं वेदं सृष्ट्यादौ स्वरमात्रवर्णपदवाक्यादिक्रमेण विस्तारितवान् । अथवा हृदोपनिषदा सह सङ्कल्पमात्रेण कार्यकारण-सम्बन्धरहितोऽपि भगवान् सर्वान्तर्यामी ब्रह्मादिकार्यकारणसाक्षित्वेन सर्वज्ञ इत्यर्थः । एवं जगत्कारणे सच्चिदानन्दात्मके वेदैकवेद्ये निरवद्ये सर्वेश्वरे परैरुद्भाव्यदोषकलामात्रमपि नास्तीत्यभिधत्ते- मृह्यन्तीति ॥ यं प्रति सूरयः कपिलादयः शास्त्रप्रणेतारः मुह्यन्तीत्युक्ते तत्प्रणीतशास्त्रस्य निर्मूलत्वेनाप्रामाण्या-त्तद्विरोधगन्धोऽपि नास्तीत्यर्थः । ‘नानाऽसत्तर्ककलिलान्तःकरणदुरवग्रहवादिनां विवादानवसरे, उपरतसमस्तमायामये,भगवति को नु दुर्घट,’ इति स्वोक्तेः । अतःपरमसत्यादप्युत्पन्नस्य जगतः कुतः सत्यत्वं किन्तु मिथ्यात्वमेवेति दर्शयति- तेजोवारीति ॥ विनिमयः कार्यम् । तेजोविनिमयः केशोंड्रकादिः । वारिणो विनिमयः हिमकरकादिः । मृदो विनिमयो घटादिः । यथा येन प्रकारेण तथा । कारणसत्ताप्रतीतिव्यतिरेकेण कार्यस्य पृथक् सत्ताप्रतीतिशून्यत्वमेवात्र मिथ्यात्वम् । तद्वत्तेजोवारि-मृदामपि कारणसत्ताप्रतीतिव्यतिरेकेण पृथक् सत्ताप्रतीत्यभावान्मिथ्यात्वमिति भावः । किञ्च, त्रिवृत्कृतानामत्रिवृत्कृतानां चोभयेषां दृष्टान्तदार्ष्टान्तिकव्याजेन मिथ्यात्वं कथितमिति सम्प्रदाय-विदामभिप्रायः ।
ननु ब्रह्मणो जगत्कारणत्वे क्रियाकारकादिसम्बन्धाद् ‘असङ्गो ह्ययं पुरुषः’ इति विरुध्येतेत्यतो वाऽऽह- तेजोवारीति ॥ त्रिसर्गस्त्रयाणां तेजोवारीमृदां सर्गः । उपलक्षणं चैतत् । पञ्चानां भूतानां सृष्टिर् यत्र मृषा । कथं? तथा तेजोवारीमृदां विनिमयो मिथ्या तथा जगदपि मिथ्येत्यर्थः । ‘वाचारंभणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्’ इति श्रुतेः । इदानीमेवंविधप्रपञ्चकारणत्वेन कल्पितमाया-सम्बन्धनिबन्धनं किञ्चिदपि चिद्रूपपरमसत्यात्मके ईश्वरे स्वदृष्ट्या वस्तुगत्यापि नास्तीति दर्शयति- धाम्नेति ॥ धाम्ना प्रकाशेन स्वरूपभूतेनात्मचैतन्येनोपचारतः कारणत्वेन कल्पितेन सदा सर्वदा निरस्तं निराकृतं कुहकं कपटं मायाख्यं येन स तथोक्तस् तम् । सदेति जीवाद्वैलक्षण्यप्रदर्शनाय । अर्थादसङ्गत्वं कूटस्थत्वं चोक्तम् । तस्मादेकमेव ब्रह्मोपहितानुपहितभेदेन ‘द्वे वाव ब्रह्मणो रूपे मूर्तं चैवामूर्तं चे’ति श्रुत्या प्रतिपाद्यते । तत्र सगुणब्रह्मोपासनाजनितेन ज्ञानेन शुद्धान्तःकरणस्य निर्गुणब्रह्मोपास्तौ बुद्धिरुपतिष्ठते । ततश्च सकलं स्वात्मानं पश्यन्नात्मव्यतिरिक्तं किञ्चिदप्यपश्यर्न्निगुण एवावतिष्टते इत्येषोऽर्थोऽनेन प्रतिपाद्यते । नापरोऽप्रामणिक इति । तदेतत्कण्ठशोषणं पलालज्वलनज्वालातुल्यमिति न परिक्षकाः क्षणमपि कटाक्षेण प्रेक्षन्ते । पूर्वापरपर्यालोचनया स्वोत्प्रेक्षितयुक्तिविरुद्धत्वाच्छ्रुतिस्मृती-नामतात्पर्यार्थत्वात्प्रत्यक्षादिप्रमाणप्रहरणप्रहतशिरस्कत्वादाचार्यैस्तत्र तत्र निराकृतत्वाच्छ्रुत्यादीनां मिथ्यापरत्वे विरोधस्य दर्शितत्वादस्मदुक्तार्थे बहुप्रमाणसंवादाद् ग्रन्थबाहुल्यभयान्न तन्निराकरणं प्रपञ्च्यते । नहि ‘अपरस्परसम्भूतं किमन्यत्कामहैतुकमि’ति वदतां सम्प्रदायवित्त्वमिति ॥ १ ॥
**श्री यादवार्यविरचिता **
भागवतप्रकाशिका
श्रीमद्भनुमद्भीममध्वान्तर्गतरामकृष्णवेदव्यासात्मकलक्ष्मीहयग्रीवाय नमः ।
सकलगुणसुपूर्णः सर्वदोषातिदूरः श्रुतिततिहृदयाप्यः सौख्यपूर्णो गुरुर्यः ।
जनिभृतिमृतिपूर्वं यस्तनोति स्वयोग्यं प्रकृतिविधिभवादेः सोऽस्तु चित्ते रमेशः ॥ १ ॥
भूखण्डप्रकटीकृतामलवपुर्विस्तारिताशेषगु-
र्वेदान्ताब्जविकासको हरिजगत्तत्त्वप्रकाशप्रदः ।
ध्वस्तध्वान्तततिः शरण्यजनसन्मार्गप्रदर्शी मुहु-
र्वेदव्यासदिवाकरो लसतु मे हार्देऽम्बरे सर्वदा ॥ २ ॥
मध्ववाक्वामधेनुर्नो भूयात्सुमतिदुग्धदा ।
स्वपोषकाणां या दोग्धि सतां सर्वमभीप्सितम् ॥ ३ ॥
वाणि ते करवाण्यम्ब चरणौ हृदि सर्वदा ।
मद्वाक्यसरणिर्भूयाच्छ्रीमदाचार्यभावगा ॥ ४ ॥
उमेशाद्याः सुरा वोऽहमीडे चेतोभिमानिनः ।
यूयं सर्वे प्रकुरुत मनो मे मध्वभावगम् ॥ ५ ॥
श्रीमज्जयार्यान्विजयध्वजादीन् टीकाकृतः पूर्वतनान्मुनीन्द्रान् ।
वेदेशतीर्थाभिधमद्गुरूंश्च वन्दे मरुच्छास्त्रविशुद्धबुद्धीन् ॥ ६ ॥
श्रीमद्भागवतस्यार्थतात्पर्यं यत्प्रदर्शितम् ।
श्रीमदानन्दतीर्थार्यैर्व्याकुर्वे तद्यथामति ॥ ७ ॥
न पाण्डित्यान्न मात्सर्यान्न चार्थादिव्यपेक्षया ।
यत्नोऽयं किन्तु वाग्बुद्धिशुद्ध्यर्थः केवलं मम ॥ ८ ॥
भगवता बादरायणेन प्राणिनां निःश्रेयसाय प्रणीतमपि श्रीभागवताख्यं पुराणम् असाधु निवन्धान्धतमसाऽवगुण्ठितत्वेनाप्रणीतमिव मन्यमानो भगवानानन्दतीर्थमुनिर्यथाचार्याभिप्रायमस्य तात्पर्यं विवक्षुर्विलीनप्रकृतितयांऽतरायविधुरोऽपि अनवरतमीश्वरप्रवणकायकरणप्रवृत्तिरपि परब्रह्मचिन्तनादिरूपं मङ्गलं प्रारिप्सितस्यानन्तरायपरिसमाप्तेः प्रचयस्य च हेतुतयाऽविगीतशिष्टाचारादिनाऽवगतमवश्यकरणीयं शिष्यादिन्ग्राहयितुं ग्रन्थादौ निबध्नाति- सृष्टीति ॥ इदं पद्यं श्रीमद्भागवताद्यपद्यगतविशेषण-विवरणपरमतस्तेषां यानि प्रयोजनानि भगवत्पादैरग्रे वक्ष्यन्ते तान्येवात्रत्यविशेषणानां प्रयोजनानि ज्ञातव्यानि । अप्ययः संसारः । ईहा इच्छा, प्रवृत्तिर्वा । नियतिर्नियमनम् । दृशिर्ज्ञानम् ।
तमोऽज्ञानम् । जन्मादीति पदार्थव्याख्यानमेतत् । यद् इत्यस्यार्थो यस्मादिति । अस्येत्यनूद्य श्रीब्रह्मेत्यादि व्याख्यानम् । श्रीब्रह्मरुद्राः प्रभृतयो येषां ते तथा ते च ते सुराश्च नराश्च व्द्यीशा द्युपतयो देवास्तेषां शत्रवश्च तदात्मकस्यास्येत्यन्वयः ।
क्षितिपऋषिगन्धर्वपित्रादेर्जडस्य चोपलक्षकमेतत् । सृष्ट्यादयः सर्वे न सर्वत्र । अचेतने ज्ञाना-देरभावात् । श्रीदेव्यां तम आदेरभावादतै आह- व्यस्ताः समस्ता इति ॥ क्वचिव्द्यस्ता विस्तृताः । सकला इति यावत् । क्वचित्समस्ताः सङ्कुचिताः । कतिपया इति यावत् । भवन्तीति शेषः । परमित्यस्य विवरणम्- सकलेति ॥ अग्रे तथा वक्ष्यमाणत्वात् । सकलगुणा नितरां धीयन्तेऽस्मिन्निति सकलगुणनिधिः । सदा निरस्तकुहकमित्यस्य तात्पर्यम्- सर्वदोषव्यपेत इति ॥ तथा च कुहकपदं सर्वदोषोपलक्षकमिति भावः । सत्यमित्यस्य विवरणम्- पूर्णेति ॥ पूर्णानन्दस्य व्ययो नाशो न विद्यते यस्येत्यर्थः । निरतिशयनित्यानन्द इति यावत् । एतच्चाग्रे प्रदर्शयिष्यामः । तेने ब्रह्मेत्यस्य तात्पर्यम्- गुरुरिति ॥ अभिज्ञ इत्यस्य विवरणम्- परम इति ॥ परा सर्वविषया मा ज्ञानं यस्येति व्याख्यानात् । धीमहीत्यस्य विवरणम्- चिन्तय इति ॥ स्वराडित्यस्य तात्पर्यम्- महान्तमिति ॥ पूर्णानन्दत्वोक्त्या यत्र त्रिसर्गो मृषेत्यस्यापि तात्पर्यं सूचितमिति ज्ञातव्यम् । परम इत्येतदेवान्वयादितरत इत्यस्यपि विवरणम् । परा निर्दाेषत्वेनोत्तमा माः श्रुत्याद्या यस्मिन्नुक्तगुण इत्यपि व्याख्यानात् । एवं सङ्क्षेपतः पद्यरूपेणाद्यपद्यं व्याख्याय विस्तरतोऽपि व्याुिख्यासु प्रतीकं गृह्णाति- जन्माद्यस्येत्यादीति ॥ अत्र तच्छब्दमध्याहृत्य तस्य विशेष्यद्वारा क्रियान्वयं दर्शयति- तं परमिति ॥ अत्र परशब्दो ध्यानविषयस्य भगवतो जीवभेदकं गुणपूर्णत्वं लक्षणं वक्तुमुक्तः । एतल्लक्षणसाधानाय जन्माद्यस्य यत इत्यनेन सृष्ट्यादिकर्तृत्वरूपमपरं च लक्षणमुक्तम् । एतदुभयलक्षणविशिष्टे भगवति किं मानमित्यपेक्षायाम् । अन्वयादितरतश्चेत्युक्तम् । कार्येषु सद्रूपेणान्वयादनुवृत्तेर्मृत्सुवर्णादिवद्ब्रह्म कारणम् । इतरतो व्यावृत्तत्वाद्विश्वं कार्यमित्याद्यन्यथाप्रतीतिवारणाय तत्पदद्वयं क्रमेणानूद्य व्याख्याति- अन्वयादिति ॥ आदिपदेन स इदं सर्वमसृजतेत्याद्या ग्राह्याः ।
यतः सर्वाणि भूतानि भवन्त्यादियुगागमे ।
अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथेत्यादिका स्मृतिः ॥
अनेन श्रुतिस्मृतीनामन्वयाद् उक्तार्थे शक्तितात्पर्यलक्षणसम्बन्धादिति मूलव्याख्यानं सूचयति । अनुमानापरपर्यायं तर्कमेव दर्शयति- चेतनादिति ॥ अप्रचेतनात्कुलालादेर्घटादिसृष्टिर्दृष्टेत्येव वक्तव्यम् । तथाऽपि चेतनाच्चेतनसृष्टिर्न दृष्टा । तथा चास्येत्यस्य श्रीब्रह्मरुद्रप्रभृतीत्यादि व्याख्यानमयुक्तमित्याशङ्का-परिहारायैवमुक्तमिति ध्येयम् । अनेनादिकालीनं चेतनाचेतनात्मकं जगच् चेतनपूर्वकं कार्यत्वा-त्पुत्रादिवत् । इति सामान्यतश्चेतने कर्तरि सिद्धे इतरेषां तदसम्भवात् परिशेषाद्भगवानेव कर्ता सिद्ध्यतीत्युक्तं भवति ।
ननु चेतनत्वेनास्मदादिवदसर्वज्ञस्य कथं जगत्कर्तृत्वादिकमित्यत उक्तं मूले अर्थेष्वभिज्ञ इति ॥ तत्राभिज्ञपदमागमज्ञपरत्वप्रतीति वारणायानूद्य व्याख्याति- अभिज्ञ इति ॥ अभीत्यस्यार्थः । सर्वेति ॥ अनेनार्थेषु प्रवृत्त्यादिषु येऽभितो विद्यमाना विशेषास्तान् सर्वान् जानातीत्यर्थेष्वभिज्ञ इति व्याख्यानं सूचयति । धर्मिग्राहकप्रमाणबाधितं चेतनत्वानुमानं न असार्वज्ञ्यसाधनायालमिति भावः । ततः किमित्यत आह- अत इति ॥ जगत्कर्तृत्वादिकमिति शेषः । अनेन यतोऽर्थेष्वभिज्ञ इति हेतुगर्भ-विशेषणमिति सूचयति । नन्वन्याधीनस्यास्मदादिवन्न सर्वकर्तृत्वं युक्तमित्याशङ्कापरिहारायोक्तम् । स्वराडिति ॥
तत्प्रमाणेनोपपादयन्व्याख्याति यं कामय इति । उग्रमित्यनन्तरमित्याद्युक्त्वेति मम योनिरिती-त्यनन्तरमुक्तत्वेनेति च शेषः । अन्येषां श्रीप्रभृतीनाम् । तदपेक्षत्वाद् भगवदपेक्षत्वावगमात् । न चान्यापेक्षोऽसावित्यनन्तरमित्याहेति स्वराडित्यस्यानन्तरमितीति च शेषः । स्वराट् स्वतन्त्र इति व्याख्यानादुक्तार्थलाभः । ततश्चायमर्थः । अम्भृणीसूक्ते श्रिया यं कामय इत्यादिना ब्रह्मरुद्रादीनां स्वाधीनत्वमुक्त्वा मम योनिरिति वाक्येन स्वसत्ताऽपि भगवदधीनेत्युक्तत्वेन सर्वाधिकायाः श्रियोऽपि भगवदधीनत्वावगमाद् भगवानेव स्वराट् स्वतन्त्रोऽनन्याधीन इति सिध्यतीति । अत्रापि यतः स्वराट् अतो युज्यत इति योजना द्रष्टव्या । तेने ब्रह्मेत्येतन्निवर्त्याशङ्कां प्रदर्शयन्नवतारयति- कुत इति ॥ अत्रापि कुत इत्यनन्तरमित्यत आहेति कवय इत्यनन्तरमितीति च शेषो ज्ञातव्यः । तथा चार्थेष्वभिज्ञत्वं स्वराट्त्वं च भगवतः कुतः सिद्धमिति प्रश्नपरिहारार्थं तेन इत्यादिकमुक्तमित्यर्थः ।
नन्विदं प्रश्नद्वयमनुपपन्नम् । श्रुत्यादिसिद्धजगत्कर्तुत्वाद्यन्यथाऽनुपपत्त्या सार्वज्ञसिद्धेरभिज्ञ इत्यत्राभिप्रेतत्वात् । अन्यथा प्रतिज्ञामात्रेणोक्तशङ्कानिरासासम्भवात् । स्वराट्त्वस्यापि स्वयमेव वाऽभृणीसूक्तार्थपर्यालोचनया सिद्धत्वादिति चेन्मैवम् । जगत्कर्तृत्वान्यथाऽनुपपत्त्या लब्धं सार्वज्ञं जगद्विषय एव । न सर्वत्र । तच्च ब्रह्मसाधारणम् । ईशादन्यत्रालोचने तज्ज्ञानस्यापि सर्वविषयकत्वात् । तथा च ब्रह्मापेक्षयाऽधिकं सार्वज्ञ्यं कुत इत्याद्यप्रश्ने विवक्षितत्वात् । द्वितीयप्रश्नेऽपि तं ब्रह्माणमित्यस्य बृहस्पतिपरतयाऽपि सावकाशत्वेन श्रियो विरिञ्चाधिकताया अलाभादित्याशयात् । एवं च तेने इत्यादिना ब्रह्मोपदेष्टृत्वकथनेन ब्रह्मापेक्षयाऽधिकं सार्वज्ञ्यं सर्वाधिकब्रह्माधिकत्वोक्त्याऽनन्याधीनत्वं चोच्यमानं श्लिष्टतरमिति ज्ञातव्यम् । अत्र श्रियो भगवदधीनत्वस्यालाभाद्यं कामय इत्याद्युपपादनमपि सार्थकम् । न च प्रसिद्धार्थं विनाऽन्योऽर्थो युज्यत इति भाष्योक्तन्यायेन ब्रह्मशब्दस्यान्यपरत्वशङ्कापरिहारसम्भवादिति ध्येयम् । अनेनादिकवये विरिञ्चाय ब्रह्म वेदरूपशब्दराशिं तेने साकल्येनोपदिष्टवानिति मूलं व्याख्येयमिति सूचितम् ।
नन्वनेन ब्रह्मण एव भगवदधीनत्वं लब्धम् । न सर्वस्य जगतः । अतः कथमनेनोक्तरूपं स्वराट्त्वं सिद्ध्यतीत्याशङ्कायां सर्वस्यापि जगतो ब्रह्माधीनत्वप्रतिपादकं ‘प्रजापते न त्वदेतान्यन्यो विश्वा जातानि परिता बभूवे’ति मन्त्रमर्थतः पठन्ति । स हीति ॥ हि यस्मात्स ब्रह्मा विश्वकार्यपरिभवनकर्तऽस्मिन्मन्त्र उक्तस्तस्मादेतादृशब्रह्मोपदेष्टृत्वेनोक्तरूपं स्वराट्त्वं सिद्ध्यतीत्यर्थः । हे प्रजापते, भवान् जातान्युत्पत्ति-मन्ति विश्वानि सर्ववस्तूनि परिभूतत्वान् तत्स्वामित्वेन वर्तते । त्वदन्यस्तु न परिबभूवेति मन्त्रार्थः । हृदेत्यस्य मनसेति व्यख्यानं न प्रकृतसङ्गतमित्याशयेन तदनूद्य व्याचष्टे- हृदेति ॥ स्नेहेनेति ॥ प्रसादेनेत्यर्थः । तेन इत्यादिनोक्तं ब्रह्मोपदेष्टृत्वमेव कुतः सिद्धमित्यत आह- यो ब्रह्माणमिति ॥ ‘यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै’ तं ह देवमात्मबुद्धिप्रकाशं मुमुक्षुर्वै शरणमहं प्रपद्य इति च श्रुतिरुक्तार्थेऽस्तीति शेेषः । ननु यदि विष्णोरप्यन्य उपदेष्टा तर्हि तस्यैव निरुपचरितं सार्वज्ञ्यं स्यादित्याशङ्कापरिहारायोदाहृतश्रुतिगतमात्मबुद्धिप्रकाशमित्येतदर्थतोऽनुवदति- स्वात्मत एवेति ॥ हि यस्मादुदाहृतश्रुतावात्मबुद्धिप्रकाशमित्यनेन स्वात्मत एव तस्य विष्णोर्बुद्धिप्रकाशो बुद्ध्याविर्भाव उक्तस्तस्मात्तस्यान्य उपदेष्टा नास्तीति निश्चीयत इति शेषः । मुह्यन्ति यं सूरय इत्येतत्प्रकृत-सङ्गतत्वेनावतारयति- न च प्रसादमिति ॥ शक्य इत्यनन्तरमित्याहेति सूरय इत्यनन्तरमितीति च शेषः। तथा च हृदेत्यनेन प्रसादपूर्वकं वेदं वेदार्थभूतो विष्णुः सूरिभिरप्युपदेशादिना न सम्यग्ज्ञातुं शक्य इत्याह मुह्यन्ति यं सूरय इति वाक्येनेत्यर्थः । अतो हृदेत्यनेनोक्तः प्रसाद आवश्यक इति भावः । यत्र त्रिसर्गो मृषेत्येतत्प्रकृतसङ्गतत्वेनावतार्य व्याख्यातुमाह- न चेति ॥ अतृप्तोऽपूर्णः । स्वप्रयोजनार्थमिति शेषः ।
ननु तर्हि पूर्णस्य किमर्थं प्रवृत्तिरित्याक्षिपति- किन्त्विति ॥ इत्यत आहेति शेषः । मृषे-त्त्यनन्तरमितीति च । मिथ्यार्थताप्रतीतिवारणाय व्याख्याति- वृथैवेति ॥ न स्वप्रयोजनायेत्येवकारार्थः । मृषेत्यस्य वृथेत्यर्थत्वे प्रयोगं दर्शयति- भित्वेति ॥ ‘भित्वा मृषाऽश्रुर्दृषदस्मना रहो जघास हैय्यङ्गवमन्तरं गत’इति वक्ष्यमाणप्रयोग एवेत्यर्थः । तत्र प्रत्यक्षबलान्न मिथ्यार्थत्वमिति भावः ।
नन्वेवं प्रवृत्त्यनुपपत्तिरित्याशंकायां स्वभावादेव प्रवृत्तिरित्याशयेनात्र श्रुतिमेव पठति- देवस्येति ॥ अयं जगत्सृष्ट्यादिलक्षण एष इच्छारूपः । परप्रयोजनार्थत्वेनापि तदुपपत्तिरिति यत्रेति विशेषणा-त्सूचितमित्याह- यत्रेतीति ॥ कथमिदं लब्धमित्यतस्तदभिप्रायमाह- स्वविषय एवेति ॥ तथा च यत्रेति विषयसप्तमी । वृथैवेत्यध्याहृतैवकारस्य यत्रेत्यनेनापि सम्बन्धस्तेन चोक्तार्थलाभ इति भावः । त्रयाणां तमोरजःस्वत्वानां सर्गो भूतेन्द्रियदेवतारूप इति व्याख्यानं वक्ष्यमाणप्रमाणविरुद्धमित्याशयेन त्रिसर्ग इत्येतव्द्याख्याति- जीवेश्वरेति ॥ अत्र यद्यपीश्वरस्याभ्यर्हितत्वादीश्वरशब्दः प्रथममुद्देष्ठव्यस्तथापि जीवशब्दस्याल्पाच्त्तरत्वेन जडापेक्षया प्राधान्येन प्रथमोद्देशः । तेजोवारिमृदां यथा विनिमय इत्यनेन मृषेत्युक्तमिथ्यात्वे दृष्टान्त उच्यते । तेजो वारिमृदां विनिमयो व्यत्ययो ऽन्यस्मिन्नन्यावभासः स यथेति । तत्र तेजसि वारिबुद्धिर्मरिचितोये प्रसिद्धा मृदि च काचादौ वारिबुद्धिर्वारिणि च काचादि-बुद्धिरित्यादि यथायथमूह्यमिति व्याख्यानं वक्ष्यमाणप्रमाणविरुद्धमित्याशयेन तद्यथावद्दृष्टान्तदार्ष्टान्तिकभावं दर्शयन्व्याचष्टे- एकस्येति ॥ अत्र चाभ्यर्हितत्वाभिप्रायेणेश्वरसर्ग आदितो व्याख्यात इति ज्ञातव्यम् । तथा च त्रिसर्ग इत्यत्रैवायं दृष्टान्तो न मृषेत्यत्र । विनिमयशब्दश्चावस्थान्तरापत्तिरूपव्यत्ययवाचीत्युक्तं भवति ।
ननु जगत्सृष्टेरैन्द्रजालिकपदार्थसृष्टिवन्मायानिर्मितत्वान्मिथ्याभूतजन्मादिकर्तृत्वेन भगवतः कथमनन्त-गुणपूर्णत्वं जीवभेदलक्षणं पारमार्थिकं सिद्ध्येत् । जीवस्य स्वप्रकाशकतया नित्यसिद्धत्वादतः कथं तज्जिज्ञासारूपचिन्तनमुपपद्यत इति शङ्कानिरासाय अमृषेति छेदं मृषेत्यस्य मिथ्यार्थत्वं चाभिप्रेत्य तत्तात्पर्यं दर्शयति- न चेति ॥ कुत इत्याशङ्कायां धाम्ना स्वेन सदा निरस्तकुहकमिति हेतुगर्भविशेषण-मुक्तमित्याशयेन तदनुवदति- धाम्नेति ॥ तत्र स्वेनेत्यस्य व्यावर्त्यं दर्शयति- तद्धाम्नेति ॥ मुक्तानां चेत्यनन्तरमतस्तव्द्यावृत्तये स्वेन धाम्नेत्युक्तमिति शेषः । सदेत्यनेन सूचितमर्थं दर्शयति- न च मुक्तवदिति ॥ इति सूचनाय सदेत्युक्तमिति शेषः । अनेन कुहकपदं बन्धापादकदोषमात्रोपलक्षकमिति सूचयति । तथा च स्वसामर्थ्येनापि कुहकस्य न मुक्तवत्पूर्वं प्रसक्तस्य निरास इति वस्तुस्थितिज्ञापनाय सदेत्युक्तमिति भावः । धाम्ना स्वेनेत्यादेरुक्तप्रतिज्ञायां हेतुत्वं दर्शयति- सदेति ॥ धाम्ना स्वेनेत्यपि ग्राह्यम् । पञ्चमीप्रयोगेन मूले यत इत्यध्याहारं सूचयति । न च मायामयी सृष्टिरिति सम्बन्धः । अत्रैव हेतुगर्भं सत्यं परमिति विशेषणद्वयम् । तत्क्रमेणोपादायोक्तार्थहेतुत्वं यथा स्यात्तथा व्याख्याति- सत्यमिति ॥ अत्र सदित्यस्यार्थः- नित्यनिर्दुःखेति ॥ त्वित्यस्यार्थः- निरतिशयेति ॥ येत्यस्यार्थः- अनुभवेति ॥ यतेर्गत्यर्थत्वात् । आनन्देत्यस्य योग्यतया साधुभाववाचिसच्छब्देन वा लाभः । कर्मधारयार्थः- रूपमिति ॥ परं सम्पूर्णगुणमिति । पृ पालनपूरणयोरिति धातोरिति भावः । गुणानां योग्यतया सम्बन्ध इति ध्येयम् । तथा चैवंविधानुभावस्य सृष्टिः कथं मायामयी स्यादिति भावः । एवमर्थेष्वभिज्ञ इत्यादीनि विशेषणानि परत्वसाधकस्य जन्माद्यस्य यत इत्यस्य समर्थनपराणीति व्याख्यायेदानीं तानि सर्वाण्यपि विशेषणानि साक्षात्परत्वसाधनपराण्येवेत्यपि व्याख्याति- परत्वसाधक-मिति ॥ अत्रादिपदेन सत्यमित्यन्तं सर्वं ग्राह्यम् । ततश्च जन्मादिकर्तृत्वात्सर्वज्ञत्वादनन्याधि-पतित्वाद्विरिञ्चगुरुत्वात्स्वानुग्रहमन्तरेण ज्ञातुमशक्यत्वाच्च स्वप्रयोजनानुद्देशेऽपि स्वभावेनैव प्रवृत्तिमत्वा-त्स्वसामर्थ्येनैव निरस्तसमस्तदोषत्वान्नित्यनिर्दुःखनिरतिशयानन्दानुभवस्वरूपत्वाच्च परं पूर्णगुणं ब्रह्म धीमहीति व्याख्येयमित्यर्थः । उक्तार्थसमर्थनाय तन्त्रभागवतसम्मतिमाह- तन्त्र भागवत इति ॥ न केवलमस्माभिरेवैवं व्याख्यातमिदं पद्यं किन्तु तन्त्रभागवते चैवमेव व्याख्यातमित्यर्थः । सृष्टिस्थि-त्यप्ययेहादेः । कर्ता विष्णुरिति सम्बन्धः । अनेन जन्माद्यस्य यत इत्येतद्विवृतम् । अन्वयादित्यस्य व्याख्यानम् । श्रुतीति ॥ इतरत इत्यस्यार्थः । युक्तित इति ॥ तामेव युक्तिं दर्शयति- चेत्रिति ॥ चेता चेतनः । भावप्रधानो निर्देशः । चेतनपूर्वकत्वादेरित्यर्थः । आदिपदेन कार्यत्वसङ्ग्रहः । ततश्च विमतं कार्यं चेतनपूर्वकं कार्यत्वाद्घटवदिति । सामान्यतश्चेतने कर्तरि सिद्धे ब्रह्मादीनां परिच्छिन्नशक्त्यादिमत्त्वेन तत्कर्तृत्वे बाधिते विमतं भगवत्कर्तृकमसम्भवदितरचेतनकर्तृकत्वे सति चेतनकर्तृकत्वात् । यदसम्भव-वद्यदितरकर्तृकत्वे सति सकर्तृकं तत्तत्कर्तृकमिति सामान्यसिद्धपरिशेषलक्षणा युक्तिरुक्ता भवतीति ज्ञातव्यम् । चेतनकर्तृकमित्यत्र चेतनपदं साङ्ख्यमतनिरासयेति ज्ञातव्यम् । अस्येत्यस्य व्याख्यानम्- श्रीब्रह्मेति ॥ पृथगित्यनेन यथायोग्यमिति सूचयति । विष्णोर्जन्मादिमत्वे सर्वकर्तृत्वमसम्भवि स्यादतोऽजो नित्य इति विशेषणद्वयमुक्तम् । इदं च मूलेऽप्युपलक्षणतया ग्राह्मम् । अर्थेष्वभिज्ञ इत्यनेन तदुक्तार्थे हेतुकथनायोक्तमित्याशयेनाह- सर्वज्ञत्वादिति ॥ न चापर इत्यनेनोक्तपरिशेषानुमाने विशेषणासिद्धिः परिहृता । स्वराडित्येतदपि हेतुगर्भमित्याशयेनाह- अनन्याधिपतिरिति ॥ तेने ब्रह्मेत्यादिकमपि हेतुसूचकमित्याशयेनाह- गरीयानिति ॥ मुह्यन्ति यं सूरय इत्यस्य तात्पर्यम्- तत्प्रसादमृते इति ॥ तेजोवारीत्यादिकं त्रिसर्ग इत्यत्रैव दृष्टान्तो न मृषेत्यत्रेत्याशयेन तव्द्याख्याति- तेजसो रूपवदिति ॥ अत्र रूपशब्दः स्वरूपपरः । तथा च तेजसः स्वरूपेण तुल्यं हरिः स्वस्वरूपं बहुधा कुरुत इत्येष ईश्वरसर्ग आद्य इति योज्यम् । अभिमानिदेवतापेक्षयैवैतदिति ज्ञातव्यम् । वारिस्थं तेजः सूर्यादिप्रतिबिम्बरूपं तद्वदीश्वरप्रतिबिम्बभूता इत्यर्थः । विनिर्गता इत्यनन्तरमित्ययं जीवसर्गो द्वितीय इति पूरणीयम् । ईदृश-मित्यनन्तरमयं जडसर्गस्तृतीय इति शेषः । मृषेत्यस्य व्याख्यानम् । एष त्रिसर्ग इति ॥ यत्रेत्यस्य तात्पर्यम्- विष्णोरिति ॥ तुशब्दोऽवधारणार्थः । अनेन मूलेऽवधारणमध्याहार्यमिति सूचयति । वृथैवेति सम्बन्धः । विष्णोरेवेति च तत्सम्बन्धमभिप्रेत्य तल्लब्धमर्थं दर्शयति- लोकस्येति ॥ अवृथा चेति सम्बन्धः । मृषेत्यस्य मिथ्येति व्याख्यानं कुर्वन्तो न तत्त्वज्ञानिन इत्याह- इन्द्रजालेति ॥ मन्यन्ते । मृषा पदेनेति शेषः । ज्ञानदुर्बला ज्ञानशून्याः । अनेन मूलेऽमृषेत्यपि छेदं दर्शयति । कुत एतदित्याकाङ्क्षायां धाम्ना स्वेनेत्यादिविशेषणमुक्तमित्याशयेन तव्द्याख्याति- नित्यमिति ॥ कुहक-मित्यस्यार्थः- इन्द्रजालेति ॥ स्वेन धाम्नेत्यस्य तात्पर्यम्- स्वत एवेति ॥ स्वसामर्थ्येनैवेत्यर्थः । कथं सम्भवेत् । इन्द्रजालविधासृष्टिरिति शेषः । हेतोरप्रयोजकतां परिहरति- अक्षमा इति ॥ धाम्ना स्वेनेत्यादेरनुवादो ऽनन्ताचिन्त्यविभव इति । सत्यं परमपि विशेषणद्वयमप्यत्र हेतुकथनाय प्रवृत्तमिति दर्शयन्स्तव्द्याचष्टे- निर्दुःखेति ॥ यमाहुरिति यच्छब्दस्य स कथमिति वक्ष्यमाणेनान्वयः । एवंविधानु-भावो निर्दोषगुणपूर्णः । निन्दितमिन्द्रजालविधम् । किं चेदं न मायामयमबाध्यत्वात् । अबाध्यत्वं च केवलैश्वरजत्वादित्यनुमानं वक्तुं तस्य स्वप्नादौ व्यभिचारपरिहाराय व्यतिरेकव्याप्तिमुपपादयितुमाह- स्वप्नादिकमिति ॥ अत्र स्वप्नपदेन तदारोपितजाग्रत्वं ग्राह्यम् । आदिपदेनेन्द्रजालम् । प्राणादिस्थः स्वप्न प्राणस्थ इन्द्रजाले मायाविपुरुषस्थ इति विवेकः । तनोति प्रदर्शयति । कुत इत्यत आह- केवलस्येति ॥ केवलस्यान्यानधिष्ठितस्य परस्य परमात्मनः । सकाशादिति शेषः । मायासृष्टिर्मिथ्या-प्रदर्शनरूपा न युज्यते । सदा निरस्तसमस्तकुहकत्वादित्यादियुक्तिविरोधादिति भावः। तथा च स्वप्नादौ हेतोरेवाभावान्न व्यभिचार इत्याह- तस्मादिति ॥ तस्मादित्युक्तमेव दर्शयति- यद्यस्मादकेवला इति ॥ अन्यानधिष्ठितेश्वरप्रदर्शिता न भवन्तीत्यर्थः । एवं व्याप्तिमुपपाद्य प्रयोगं दर्शयति- इदमिति ॥ पक्षधर्मतामपि दर्शयति- केवलस्येति ॥ विजृम्भितं जातम् । सृष्टित्रयमिति प्रसिद्धमिति शेषः । अनेन मूलेऽस्य जन्मादि यत एवेत्यपि योजनां सूचयति । आगमानुगृहीतत्वान्नात्रोपाध्यादिशङ्केत्याशयेन ब्रह्मसूत्रसंवादं तावदाह- एतदिति ॥ जगतोऽमायामयत्वादिकमित्यर्थः । मरमं रहस्यं सकलागमानां महातात्पर्यविषयभूतम् । अनेनान्वयादित्यस्यामृषेत्यत्रापि सम्बन्ध इति दर्शयति ।
नन्वागमानां कुतस्तत्र तात्पर्यमित्याशङ्कापरिहाराय तदज्ञानेनानर्थं तत्ज्ञानेन मोक्षं च फलं दर्शयति- ये त्वेवमिति ॥ संनिहितज्ञानित्वासुरत्वादिरूपविशेषसूचनाय तुशब्दः । तदुपदेशादिनेति शेषः ।
असुराणां तमःप्राप्तिस्तदा नियमतो भवेत् ।
यदा तु ज्ञानिसद्भावे नैव गृह्णन्ति तत्परम् ॥
इत्यादिप्रमाणप्रसिद्धिं हिशब्देन दर्शयति । ननु ज्ञानिसन्निधानेऽपि कुतो न जानन्तीत्यतोऽत्र कारणमाह- ये त्वेतदिति ॥ तुशब्दस्य पूर्ण एवार्थः । सर्वज्ञानेत्यत्र ज्ञानपदं ज्ञेयपरम् । परापरतत्त्वविषये भ्रान्तानित्यर्थः । नष्टान्दुष्टान् । अचेतसोऽशुद्धमनसः । अनेन तेषां स्वरूपयोग्यतां लक्षयति । ये त्वेतदित्यत्र तुशब्दः सत्स्वरूपत्वादिरूपविशषसूचकः । मम स्थानमिति सम्बन्धः । अञ्जसैवादरेणैव मयोदितमनुतिष्ठन्तीति सम्बन्धः । ननु तवेदानीं व्यवहितत्वात्कथं त्वदुदितमनु-तिष्ठन्तीत्यत उक्तम्- पारम्पर्यागतमिति ॥ अनेन मूले यत्रेति विशेषणान्नान्यत्र वृथेति यल्लब्धं तत्प्रदर्शितमिति ज्ञातव्यम् । ब्रह्मसूत्रपदोदितमित्युक्तं किञ्चिद्दर्शयति- वैधर्म्यादिति ॥ श्रुतिसंवादमपि दर्शयति- प्रघान्विति ॥ नु इदानीमस्य महतः सत्यस्य परमेश्वरस्य महन्ति सत्यानि कर्माणि प्रावोचमेवेति श्रुत्यर्थः । कर्मणां सत्यत्वं विषयसत्यतामन्तरेण नोपपद्यत इति विश्वसत्यतासिद्धिरिति ज्ञातव्यम् । इत्यादि यथा स्यात्तथा उक्तमिति शेषः । जन्माद्यस्य यत इत्यादीनां प्रकारान्तरेणापि सार्थक्यं दर्शयति- ब्रह्मसूत्रेति ॥ अयं ग्रन्थ इत्यनन्तरमिति दर्शयितुं जन्मादीत्यादिकमुक्तमिति शेषः । तथा च प्रमाणत्वे सतीष्टसाधनावबोधकब्रह्मसूत्रादिसम्बन्धेनास्यापि प्रामाण्यादिसम्भवान्नानारम्भणीयत्व-शङ्केति दर्शयितुं जन्माद्यस्येत्यादिकमुक्तमिति भावः । सम्बन्धप्रदर्शनं च तत्रत्यपदानामाद्यपद्ये व्यवहारेणेति ज्ञातव्यम् । जन्माद्यस्य यतोऽन्वयादिति सूत्रसम्बन्धप्रदर्शनम् । इतरतोऽर्थेष्वभिज्ञ इत्यारभ्य सत्यं परमित्यन्तैर्भारतवेदसम्बन्धो दर्शितः । एतादृशानामेव शब्दानां तत्रोभयत्र सम्भवात् । धीमहीति गायत्रीसम्बन्धप्रदर्शनम् । सूत्रादिसम्बन्धश्च तत्प्रतिपाद्यप्रतिपादकत्वरूप इति द्रष्टव्यम् । ननूक्तरीत्या प्रदर्शितः सूत्रादिसम्बन्धोऽस्य ग्रन्थस्य कुत इत्यतोऽत्र प्रमाणं दर्शयति- उक्तं चेति ॥ अयं भागवतोक्तोऽर्थो ब्रह्मसूत्राणामर्थः प्रतिपाद्यः । भारतार्थस्य विनिर्णयो यस्मात्स भारतार्थविनिर्णयः । ग्रन्थ इत्यन्वयः । वेदार्थेन परिबृंहितः पूर्णः । प्रतिपदं वेदार्थप्रतिपादक इति यावत् । साक्षान्मुख्यत एव न तु नारदादिवदुपचारेण भगवता व्यासेनोदितः कृतः । स्कन्धविच्छेदशब्दार्थौ ग्रन्थान्तरादवगन्तव्यौ । अष्टादशसहस्त्राणि परिमाणमस्येत्यष्टादशसहस्त्रः । ततश्चायं श्लोकार्थः । श्रीनारायणापरतनुर्भगवान्व्यासो मन्दबुद्ध्यादिमन्मनुजानुजिघृक्षया श्रीमद्भागवताभिधं पुराणं चिकीर्षुः स्वयमन्तरायविधुरोऽपिशिष्टाचार-परिपालनायप्रारिप्सितपरिसमाप्त्यादिप्रयोजनतया अविगीतशिष्टाचारपरम्परागतमीश्वरचिन्तनरूपं मङ्गलं ग्रन्थादावुपनिबध्नाति- जन्माद्यस्य यत इति ॥ अत्र यच्छब्दश्रवणात्तमित्यध्याहार्यम् । तं परं धीमही-त्यन्वयः । ध्यायतर्लिङि छान्दसं रूपम् । ध्यायेमेत्यर्थः । जीवव्यतिरिक्तेश्वराभावाज्जीवस्य च स्वप्रकाशतया नित्यसिद्धत्वान्न ध्येय इत्याशङ्कानिवारणाय परमित्युक्तम् । गुणपूर्णमित्यर्थः । पृ पालनपूरणयोरिति धातोः । तथा च परात्परमित्यादिश्रुतौ ध्येये परशब्दश्रवणात्तस्य च गुणपूर्ति-वाचित्वाज्जीवस्य चाल्पगुणतयाऽनुभवसिद्धत्वाज्जीवव्यतिरिक्तं गुणपूर्णं वस्तु ध्येयं भविष्यतीति भावः । अनेन ब्रह्मजिज्ञासा कर्तव्येति सूत्रान्तरांशस्य तात्पर्यमुक्तमिति ज्ञातव्यम् । ननु परशब्दोक्तं गुणपूर्णत्वरूपं जीवभेदकलक्षणं ब्रह्मण्यसम्भावितमित्यतोऽस्यासम्भावनापरिहाराय लक्षणान्तरं द्वितीयसूत्रे उक्तं तदनुवदति । जन्माद्यस्य यत इति । आदिपदेन सृष्टिस्थितिसंहारेच्छानियतिर्ज्ञानाज्ञानबन्धमोक्षादयो सकर्तृकं कार्यत्वादित्यादिसामान्यसिद्धिपरिशेषरूपयुक्तिसिद्धत्वात् । गुणपूर्णत्वे च जगत्सृष्ट्यादिकर्तृत्वमेव युक्तिरिति भावः । केवलयुक्तेरसाधकत्वात्तदनुग्राहकमागममप्यत्र दर्शयति- अन्वयादिति ॥ ‘यतो वा इमानि भूतानि जायन्त’इत्यादिश्रुतीनाम् ।
सृष्टिः स्थितिश्च संसारो नियतिर्ज्ञानमावृतिः ।
बन्धमोक्षौ च पुरुषाद्यस्मात्स हरिरेकराट् ॥
इत्यादिस्मृतीनां चात्र समन्वयाच्छक्तितात्पर्यलक्षणसम्बन्धादित्यर्थः । नन्वस्मादादेरिवासर्वज्ञस्या-न्याधिपतियुक्तस्य च न सर्वसृष्ट्यादिकर्तृत्वं युक्तमित्यत उक्तम्- अर्थेष्वभिज्ञः स्वराडिति ॥ यतः प्रकृत्यादिष्वर्थेषु विषयेषु सर्वज्ञो यतश्च स्वराडनन्याधिपतिः । अतो जन्माद्यस्य यत इत्यन्वयः । ननु सर्वज्ञत्वानन्याधिपतित्वे एवास्य कुतः सिद्ध इत्यत उक्तम्- तेन इत्यादि ॥ आदिकवये । सर्वगुरव इति यावत् । विरिञ्चस्य ब्रह्म वेदादिरूपं शब्दराशिं तदर्थभूतं परब्रह्म च तेने उपदिष्टवान् । नायमुपदेशो ब्रह्मणा विरोचनं प्रतीवेत्याह- हृदेति ॥ स्नेहेनेत्यर्थः। प्रसादपूर्वकमिति यावत् । तथा च सर्वाधिकब्रह्मगुरुत्वादुक्तं विशेषणद्वयमवश्याङ्गीकार्यम् । ब्रह्मणः सर्वाधिक्यं तद्गुरुत्वं चेश्वरस्योदाहृत-श्रुत्यादिसिद्धमिति भावः । नन्वथाऽपि न जगत्सृष्ट्यादिकर्तृत्वं युक्तम् । अवाप्तसमस्तकामस्य तेन प्रयोजनाभावादित्याशङ्कायां तस्य प्रयोजनाभावेऽपि सृष्ट्यादिव्यापार इत्याह- यत्र त्रिसर्गो मृषेति ॥ तेजोवारिमृदां यथा विनिमय एवं त्रयाणामीश्वरजीवजडानामुक्तरीत्या सर्गस्त्रिसर्गः । यत्र यस्मिन्विषये मृषा वृथैव । तथाऽपि स्वभावेन प्रवर्तत इति भावः । अथवा । यत्रैवेति योजनायामितरत्र प्रयोजन-सद्भावसूचनेन स्वप्रयोजनाभावेऽपि परप्रयोजनसद्भावात्सृष्ट्यादिप्रवृत्युपपत्तिरुक्ता भवतीति ज्ञातव्यम् । ननु सृष्टेरैन्द्रजालसृष्टिवन्मिथ्यात्वात्कथं तत्कर्तृत्वेन पारमार्थिकं गुणपूर्णत्वं जीवभेदकं सिद्ध्येत् । जीवश्च स्वप्रकाशतया नित्यसिद्धः । अतो विषयाभावान्न ध्यानमुपपन्नमित्यत आह- अमृषेति ॥ अत्र मृषा शब्दो मिथ्यार्थकः । कुत इत्यत आह- धाम्ना स्वेन सदा निरस्तकुहकमिति ॥ अत्र कुहकशब्दः कपटादिसर्वदोषोपलक्षकः । मुक्तव्यावृत्त्यर्थं सदेत्युक्तम् । रमाव्यावृत्तये स्वेन धाम्ना सामर्थ्येनेति । न चैवं सदेति व्यर्थम् । स्वसामर्थ्येनापि मुक्तानामिव न पूर्वं प्रसक्तस्य बन्धापादकदोषस्य निरासः किन्तु सदैवेति वस्तुस्थितिज्ञापनायैव सदेत्युक्तं न व्यर्थमिति द्रष्टव्यम् । तथा च स्वेन धाम्ना सदैव समस्तनिरस्तदोषत्वान्न परमेश्वरस्य मायादिदोषसम्भावना येनेन्द्रजालविधां मिथ्यासृष्टिं कुर्यादिति भावः । अमृषेत्यत्र पुनरपि हेतुद्वयं दर्शयति- सत्यं परमिति ॥ सन्निर्दुःखं नित्यं साधुभावापरपर्यायं सुखं तद् अपरिच्छिन्नं यमनुभवतीत्यर्थः । परं गुणपूर्णं यतोऽतो न मृषेत्यन्वयः । एवंविधानुभावस्य मिथ्यासृष्टि-कर्तृत्वमसम्भावितमेवेति भावः । अथवा । परशब्दोक्तगुणपूर्णत्वसाधनायैव जन्माद्यस्येत्यारभ्य सत्यमित्यन्तानि सर्वाण्यपि विशेषणानि योज्यानि । अस्मिन्पक्षे योजना प्रागेवोक्ता । यद्वा । नेदं पुराणमारम्भणीयम् । प्रमाणत्वे सतीष्टसाधनावबोधकत्वशून्यत्वादित्याशङ्कायां प्रामाण्याद्युपेतब्रह्मसूत्र-महाभारतवेदगायत्रीसम्बद्धत्वादस्यापि प्रामाण्यादिकमस्ति । अत इदमारम्भणीयमेवेति भावेनास्य ग्रन्थस्य ब्रह्मसूत्रादिसम्बन्धं दर्शयितुमेतानि पदानि । अस्य पुराणस्य ब्रह्मसूत्रादिसम्बन्धस्तत्प्रतिपाद्य-प्रतिपादकत्वरूपस्तत्प्रदर्शनं चाद्यपद्ये ब्रह्मसूत्रादिगतशब्दोच्चारणेनैवेति ज्ञातव्यम् । तच्च प्रागेव प्रदर्शितमिति ॥ १ ॥
धर्मः प्रेज्झितकैतवोऽत्र परमो निर्मत्सराणां सतां
वेद्यं वास्तवमत्र वस्तु शिवदं तापत्रयोन्मूलनम् ।
श्रीमद्भागवते महामुनिकृते किं वाऽपरैरीश्वरः
सद्यो हृद्यवरुद्यतेऽत्र कृतिभिः शुश्रूषुभिस्तत्क्षणात् ॥ २ ॥
तात्पर्यम्
अधिकारिविषयफलान्युच्यन्तेधर्म इति ॥ प्रोज्झितकैतवः फलानपेक्षया । ईश्वरापर्णेन परमः ।
तितिक्षवः कारुणिकाः सुहृदः सर्वदेहिनाम् । अजातशत्रवः शान्ताः साधवः साधुभूषणाः ॥
मय्यनन्येन भावेन भक्तिं कुर्वन्ति ये दृढाम् ॥ इत्यादि सतां लक्षणम् ।
सतां च मात्सर्यमर्जुनस्य एकलव्य इव कुत्रचिद् दृश्यते । तद्वर्जनीयमुत्तमेषु ज्ञानार्थिना । महासंहितायां च-
उत्तमे स्वात्मनो नित्यं मात्सर्यं परिवर्जयेत् । कुरुते यत्र मात्सर्यं तत्तत्तस्य विहीयते ॥ इति ।
**नित्यनिरस्तदोषपूर्णगुणं वास्तवम् । **
नित्यसंहितायां च-
निरस्ताखिलदोषं यदानन्दादिमहागुणम् । सर्वदा परमं ब्रह्म तस्माद्वास्तवमीयते ॥ इति ।
**वस्तु अप्रतिहतं नित्यं च । **
स्कान्दे च-
वसनाद् वासनाद्वस्तु नित्याप्रतिहतं यतः । वासनेदं यतस्तुन्नमतस्तद्ब्रह्म शब्द्यते ॥ इति ।
**किं वा परैर् अर्थकामादिकथनैः । **
गारुडे च-
धर्मार्थकाममोक्षाणामेकमेव पदं यतः । अवरोधो हृदीशस्य पृथग्वक्ष्ये न तानहम् ॥ इति ।
सद्यःशब्द आपेक्षिक इति तत्क्षणादिति । न चासम्पूर्णाधिकारिणां तत्क्षणादवरुध्यते इति सद्यःशब्दः । अधिकारिविषयफलानां स्मरणात् फलाधिक्यं भवति । वामने च-
अधिकारं फलं चैव प्रतिपाद्यं च वस्तु यत् । स्मृत्वा प्रारभतो ग्रन्थं करोतीशो महत्फलम् ॥ इति ॥ २ ॥
पदरत्नावली
ननु जन्माद्यास्य यत इत्यनेन सकलपुराणार्थस्य सङ्क्षेपतो दर्शितत्वात्किमुत्तर-श्लोकेनेत्यतो ग्रन्थारम्भे मङ्गलाचरणाद्युक्त्या नारायणस्य प्रस्तुतत्वं न तु साक्षाद्विषयत्वेन । विषयस्त्वन्य एवेति संशयनिरासार्थं विषयतत्साधनाधिकारिप्रयोजननानि द्वितीयश्लोकेन दर्शयति-धर्म इति ॥ ननु यदिष्टसाधनावबोधकं प्रायस्तदेव प्रमाणतयोपादेयम् । अतः कथमस्य ग्रन्थस्येत्यतो वाऽऽह- धर्म इति ॥
अत्र श्रीमद्भागवते प्रोज्झितकैतवः परमो धर्मः प्रतिपाद्यते । अत्र श्रीमद्भागवते निर्मत्सराणां सतां वेद्यं वास्तवं शिवदं तापत्रयोन्मूलनं वस्तु प्रतिपाद्यते । किं विशिष्टे ? महामुनिकृते । अपरैः किं वा ? शुश्रूषुभिः कृतिभिर् अत्र श्रीमद्भागवते अभ्यस्यमाने ईश्वरः सद्यस्तत्क्षणात् हृदि अवरुध्यत इत्येकान्वयः ।
अत्र अस्मिन् श्रीमद्भागवते । श्रीमत्त्वं नाम श्रूयमाणरमणीयतयाऽर्थपर्यालोचनया चास्येतरेभ्य आधिक्यम् । तथाचोक्तं-
‘राजन्ते तावदन्यानि पुराणानि सतां गणे ।
यावन्न दृश्यते साक्षाच्छ्रीमद्भागवतं परमि’ति ॥
ध्रियते अनेन अधः पतन् पुरुष इति धर्मः । धारयतीति धरो भगवान् सः मीयते ज्ञायते अनेनेति वा । दधाति कर्तारं रमयति मिनुते हिनस्ति पापमिति वा भगवत्प्राप्तिसाधनभूतः । ननु धर्मोऽन्यत्रापि प्रतिपाद्यते,किमत्रैवेति-प्रोज्झितकैतवः ॥ कितवस्य भावः कैतवं, प्रकर्षेण उज्झितं त्यक्तं कैतवं येन सस् तथोक्तः । कितवो नाम लोके मनस्यन्यदभिसन्धायान्यदभिधत्ते, अन्यदाचरति । तद्वदत्रापि भगवत्प्रीतिमन्तरेण स्वर्गादिफलं मनस्यभिसन्धाय भगवद्गुणप्रतिपादनलोलुपनिगमार्थम् अन्यथावदन् स्वात्मनो देहेन्द्रियाणामीश्वराधिष्टितत्वम् ईश्वरनियम्यत्वं निगूह्य हरेः कारयितृत्वं फलदातृत्व-मप्यवगणय्याहमेवेदं करिष्येऽर्थी समर्थो विद्वानहमेव स्वतन्त्र इति बुद्ध्या कुर्वन् । तेन क्रियमाणो धर्मः कैतव इत्युच्यते । अतोऽफलकामनयैव धर्मः कर्तव्य इत्ययमर्थोऽत्र प्रतिपाद्यत इत्यर्थः । ‘तत्कर्म यन्न बन्धाय सा विद्या या विमुक्तय’इति विष्णुपुराणे । तर्ह्येतावता पूर्यत इति तत्राह-परम इति ॥
‘यत्करोषि यदश्नासि यज्जुहोषि ददाति यत् ।
यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम्’ ॥
इति स्मृतेर् भगवदर्पणतः परमो भवतीत्यर्थः । परः परमात्मा मीयतेऽनेनेत्येतदभिप्रायेण परम इत्यभ्यधायि । ‘परोऽरिपरमात्मनो’रित्यभिधानात् । परः शत्रुः ससारः मीयते प्रमीयते प्रलीयते इति वा । ‘मीङ् हिंसायाम्’ । ‘प्रमया हिंसा च संज्ञपनमि’त्यभिधानम् । किञ्च यतोऽधिकतमः सुखहेतुर्न भवति स परमो धर्मः । स च भक्तियोगलक्षण एव । तथाच भारते,भीष्मयुधिष्ठिरसंवादे-‘को धर्मः सर्वधर्माणां भवतः परमो मतः’ इति पृष्टे,
‘एष मे सर्वधर्माणां धर्मोधिकतमो मतः ।
यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्चेन्नरः सदे’त्युक्तम् ।
‘एतावानेव लोकेऽस्मिन् पुसां धर्मः परः स्मृतः ।
भक्तियोगो भगवति तन्नामग्रहणादिभिः’ ॥
‘नृणामयं परो धर्मः सर्वेषां समुदाहृतः ।
त्रिंशल्लक्षणवान्साक्षात्सर्वत्मा येन तुष्यतीति ॥’
स्वोक्ते केषामधिकारः कश्च साक्षाद्विषय इति तत्राह- निर्मत्सराणामित्यादिना ॥ भावप्रधानो निर्देशः । निर्गतं मात्सर्यं येषां ते तथोक्तास् तेषाम् । सतां प्रशस्तकर्मणां पुरुषाणाम् । सतामपि क्वचित् क्वचिन्मात्सर्यं स्यात्तन्न कर्तव्यं स्वोत्तमेष्वित्यतो निर्मत्सराणामित्युक्तम् । वेद्यं ज्ञेयम् । ‘कृद्योगे षष्ठी’ति सतामिति षष्ठी । वेदनं ज्ञानमेवार्हति न कर्मादिकमित्यतो वेद्यमित्युक्तम् । वास्तवं नित्यनिरस्तदोषं गुणपूर्णम् । वस्तु अप्रतिहतनित्यम् अप्रतिहतनित्यत्वेन वसनशीलत्वादित्यर्थः । दुःखनिवृत्तिसुखप्राप्ति- लक्षणस्य पुरुषार्थत्वात्तदभावात् किमनेनेति तत्राह- शिवदमिति ॥ परमानन्दं ददातीति । तापत्रयो-न्मूलनम् आध्यात्मिकादिसकलदुःखनिवर्तकञ्च । ‘वेत्ता वेद्यस्य सर्वस्य मुनिः सद्भिरुदाहृत’ इत्यभिधानान्मुनयो ब्रह्मादयः । तेभ्योऽप्यतिशयितसार्वज्ञ्यान्महामुनिर्व्यासः साक्षान्नारायणः । ‘कृष्णद्वैपायनं व्यासं विद्वि नारारणं प्रभुमि’ति वचनात् । तेन कृते प्रणीते । ननु किमिति ईश्वरतुष्टिकरो भक्तियोगलक्षणो धर्म ईश्वरश्चात्र प्रतिपाद्यो न धर्मादिरिति तत्राह- किं वेत्ति ॥ भक्तियोगलक्षणधर्मस्य हरेरपरोक्षज्ञानमुत्पाद्य तत्प्रसादान्तरङ्गसाधनत्वेन अपवर्गलक्षणानश्वरफलहेतुत्वात्, बहिर्मुखमनोरञ्जकत्वेन स्वर्गादिक्षयिष्ण्वल्पफलमुत्पाद्य संसारावृत्तिहेतुत्वाद् अपरैर् धर्मादिकथनैः किं वा प्रयोजनं न किमपीत्यतस् तानन्तरेण भक्तियोगलक्षणधर्मस्तद्विषय ईश्वरश्चात्र प्रतिपाद्यात इत्यर्थः । ननु दृष्टफल-प्रवृत्तिद्वारा अदृष्टफलप्रवृत्तिदर्शनात् किमत्र दृष्टफलमिति तत्राह- ईश्वर इति ॥ अस्मिन् भागवतशास्त्रे सम्यगभ्यस्यमाने, कृतिभिः शिक्षितबुद्धिभिः । शुश्रूषुभिर् मनोवाक्कायकर्मभिर् गुर्वादिपरमपुरुष-परिचरणादिकुशलैः साधनसामग््रयुपेतैर् अधिकारिभिः । ईश्वरः लक्ष्मीशादिचेतनगणद्वार उत्तमस् तत्प्रवर्तनशीलो वा परमात्मा । हृदि हृदयकमले । सद्यः शीघ्रम् । तत्क्षणात् कालव्यवधानमन्तरेण । अवरुध्यते भक्तिशृङ्खलया बद्धो दृश्यत इत्यर्थः । अत्र सद्यस्तक्षणशब्दौ अधिकारिविशेषद्योतकतया प्रयुक्तौ । ये साधनसामग्रीमन्तस्तेषां यस्मिन् क्षणे ग्रन्थोपक्रमस्तस्मिन् क्षण एव भगवान् दृश्यते । तदुक्तं- ‘शनकैर्भगवल्लोकान्नृलोकं पुनरागत’इति । ये भविष्यत्साधनसंपत्तिसंपादनयोग्यास्तेषामपि सद्यः साधनसामग््रयां सत्यां दृश्यते । यन्नियतं कालान्तरभावि तच्च झटिति भवत्येवेति वक्तुं शक्यत्वात् । भक्तियोगलक्षणधर्मेश्वरौ विषयतया, निर्मत्सरसदधिकारिभिः प्राप्यं निर्दुःखपरमानन्दाख्यं प्रयोजनमित्ये-तत्त्रितयमत्र प्रतिपाद्यत इत्यभिप्रायेणात्रेति त्रिशः कथितम् । न तु सगुणं ब्रह्म, तत्तुष्टिकरः परमधर्मः,निराकारं निर्गुणं ब्रह्म चेति त्रितयाभिप्रायेणात्रेति त्रित्वमिति । कर्मदेवब्रह्मकाण्डार्थोऽप्यत्रैव निर्णीयत इति वा । धर्म इति कर्मकाण्डार्थः । निर्मत्सराणां सतामिति देवताकाण्डार्थः। देवतानामेव मात्सर्यराहित्येन मुख्यसत्त्वेनोत्तमाधिकारित्वाच्च । वेद्यमिति ब्रह्मकाण्डार्थः । तस्मान्नारायणावतारेण सर्वज्ञतमेन कृष्णद्वैपायनेनाप्ततमेन प्रणीतत्वेन प्रमाणतमत्वादिदं श्रीमद्भागवतं सर्वमुमुक्षुभिर्निरन्तर-मभ्यसनीयमिति सिद्धम् ॥ २ ॥
प्रकाशिका
धर्मः प्रोझ्झितेति श्लोकेऽसङ्गतं किमुच्यत इत्यतस्तत्प्रतिपाद्यं दर्शयति- अधिकारीति ॥ प्रवृत्तधर्मव्यावृत्यर्थं प्रोझ्झितकैतवः, परम इति धर्मस्य विशेषणद्वयमुक्तम् । तद्यथा तव्द्यावर्तकं स्यात्तथा व्याख्याति- प्रोझ्झितेति ॥ फलानपेक्षयेत्यनेन प्रकर्षेणोझ्झितं कैतवं स्वर्गादिफललक्षणं यस्मिन्स तथोक्तः । फलस्योझ्झित्विश्च न स्वरूपेण किन्तु कामनात्यागेनैवेति व्याख्यानं सूचयति । वस्तुतो मोक्षार्थं निवृत्तकर्मपरं वेदमापाततः प्रतीतिमनुसृत्य काम्यकर्मपरं व वदन् कितव उच्यते । ततश्च स्वर्गादिफलस्यापातप्रतीत्यनुसारित्वात्कैतवत्त्वमिति ज्ञातव्यम् । ईश्वरार्पणेति ॥ ‘नाहं कर्ता हरिः कर्ता तत्पूजा कर्म चाखिलम्’ इत्याद्यनुसन्धानरूपेणेत्यर्थः । अनेन परः परमात्मा मीयते ज्ञायते कर्तृत्वेन यत्र स परम इति व्याख्यानं सूचयति । ततश्चानेन विशेषणद्वयेन निवृत्तकर्म-स्वरूपं दर्शितम् । ‘निष्कामं ज्ञानपूर्वं तु निवृत्तम्’ इति वचनात् । अधिकारिनिरूपणाय निर्मत्सराणां सतामित्युक्तम् । तत्र सतां किं लक्षणमित्याकाङ्क्षायां कपिलेन देवहूतिं प्रति वक्ष्यमाणं सतां लक्षणं दर्शयति- तितिक्षव इति ॥ लक्षणं वक्ष्यतीति शेषः । नन्वेवंविधानां मात्सर्यमसम्भावितमेवातो निर्मत्सराणामिति व्यर्थमित्यतस्तत्प्रयोजनं वक्तुमाह- सतां चेति ॥ तथा च सतां मात्सर्यमसम्भावित-मित्येतन्न युक्तमिति भावः । नन्वेकलव्यस्य मणिमन्नामकासुरांशत्वात्तत्र मात्सर्यमर्जुनस्य गुण एवातः कथं तद्वर्जनं विधीयत इत्यत आह- ज्ञानार्थिनति ॥ तद्वर्जनस्य ज्ञानादिगुणकारणत्वादिति भावः । इति वक्तुं निर्मत्सराणां सताम् । इत्युक्तमिति शेषः । अनेन निर्मत्सराणामित्यत्रोत्तमेष्वित्यध्याहारं सूचयति । उक्तार्थे प्रमाणमाह- महासंहितायामिति ॥ नित्यं सर्वथा तत्तदिति तच्छब्देन वीप्साश्रवणाद्यत्र यत्रेति योज्यम् । तथा च यत्र यत्र ज्ञानादौ विषये य आत्मन उत्तमेषु मात्सर्यं कुरुते तस्य मात्सर्यकर्तुस्तत्तत्ज्ञानभक्त्यादिकं विहीयते विगतं भवतीत्यर्थः । ‘धर्मः प्रोझ्झित’ इत्यादिनाऽ-वान्तरविषयमुक्त्वा प्रधानविषयं दर्शयितुं वेद्यं वास्तवमत्रेत्यादिकं वाक्यम् । तत्र वस्तुनो ब्रह्मणः सम्बन्धिचेतनाचेतनात्मकं जगद्वास्तवं तद्वस्तु वस्त्वेव न ततोऽतिरिक्तमिति । वेद्यमयत्नेनैव ज्ञातुं शक्यमिति व्याख्यानमप्रामाणिकं प्रमाणविरुद्धं चेति भावेन वास्तववस्तुशब्दयोरभिमतमर्थं सप्रमाणक-माह- नित्यनिरस्तेति ॥ नित्यं सर्वदा निरस्तदोषं च तत् पूर्णगुणं चेति विग्रहः । यद् यस्मात्सर्वदा निरस्ताखिलदोषमिति सम्बन्धः । इदं च मुक्तानामिव निर्दोषत्वं न कादाचित्कमिति प्रदर्शनाय । एतत्प्रमाणबलादेव वास्तवशब्दादुक्तार्थलाभ इति मन्तव्यम् । अप्रतिहतं देशतोऽपरिच्छिन्नम् । नित्यं कालतोऽप्यपरिच्छिन्नम् । इदं वस्तुशब्दस्यार्थद्वयं पौराणिकरूढिमाश्रित्योक्तम् । वसनाद्वासनादित्यनेन जगति वसतीति जगत्स्वस्मिन्वासयतीति च वस्तुशब्दो यौगिको व्याख्यातः । रूढिमाश्रित्यापि व्याख्याति- नित्येति ॥ नित्यमप्रतिहतं च यतोऽतोऽपि वस्त्वित्यर्थः । प्रकारान्तरेणापि प्रयोगं दर्शयति- वासेनेति ॥ इदं जगत्तुन्नं व्यथनविषयीकृतम् । संसारिकृतमिति यावत् । अतो ब्रह्म तद् वस्तु शब्द्यत इत्यर्थः । धर्मादीनां मध्ये निवृत्तधर्मः प्रतिपाद्य इत्युक्तम् । प्रवृत्तधर्मस्यार्थकामयोश्चत्र कुतो न कथनमित्यत उक्तम्- किं वा परैरिति ॥ अत्र प्रक्रमानुगुण्याय कथितैरिति शेषमभिप्रेत्य तात्पर्यमाह- अर्थकामादिकथनैरिति ॥ सतः प्रति अर्थादीनां निरूपणस्य गुर्वादितुष्टिद्वारेश्वरस्य हृद्यवरोधनमेव साध्यं फलम् । तच्चात्र साक्षादेव श्रवणादिना लभ्यतेऽतो न तेषामप्यत्र कथनमिति भावः । अत्र पुराणसंमतिमाह- गारुडे चेति ॥ धर्मार्थकाममोक्षाणां प्रतिपादितानां सकाशाद्धृदीशस्यावरोध इति यत्तदेवैकं मुख्यं पदं प्राप्यं फलं यतो यतश्च तत्फलनिवृत्तधर्मादिप्रतिपादकैतत्पुराणश्रवणमात्रेण भवति । अतस्तान्धर्मादीन् पृथक् निवृत्तधर्मादिवद्विस्तरेण न वक्ष्य इति पुराणकर्तुरेव वाक्यम् । सद्य इत्युक्तत्वात्तत्क्षणादिति व्यर्थमित्यतस्तत्कृत्यमाह- सद्यः शब्द इति ॥ आपेक्षिक इति ॥ मासाद्यपेक्षया दिवसादेरपि सद्यःशब्दार्थत्वादित्यर्थ इति हेतोः सद्यःशब्दार्थभूतं कालविशेषं दर्शयितुं तत्क्षणादित्युक्त-मित्यर्थः । तर्हि सद्यःशब्दो व्यर्थ इत्यतस्तस्यापि प्रयोजनमाह- न चेति ॥ अधिकारिभेदादुभयं सार्थकमिति भावः । नन्वत्राधिकार्यादिकथनं व्यर्थम् । ब्रह्मसूत्रादिसम्बन्धपददर्शनेनैव अनारम्भणीयत्व-शङ्काया निरस्तत्वादित्यत आह- अधिकारीति ॥ स्मरणात्कथनात् । अत्र प्रमाणमाह- वामने चेति ॥ तत्स्मृत्वेवेति सम्बन्धः । ततश्चायं श्लोकार्थः । प्रधानविषयप्रतिपत्यर्थत्वादवान्तरविषयं प्रथमं दर्शयति- धर्म इति ॥ अत्र श्रीमद्भागवते धर्मः प्रतिपाद्यः । प्रवृत्तधर्मं व्यावर्तयितुं प्रोझ्झितकैतवः परम इति विशेषणद्वयम् । प्रकर्षेणोझ्झितं कैतवं स्वर्गादिफललक्षणं यस्मिन्स तथोक्तः । उझ्झितिश्च न स्वरूपेण किन्तु कैतवशब्दवाच्यमिति हृदयम् । परः परमात्मा मीयते ज्ञायते कर्तृत्वेन यत्र स परमः । नाहं कर्तेत्याद्यनुसन्धानेन क्रियमाणमित्यर्थः । ततश्चानेन निवृत्तधर्मस्वरूपं निरूपितं भवति । निष्कामं ज्ञानपूर्वं तु निवृत्तमिति वाचनात् । अधिकारिनिरूपणाय निर्मत्सराणां सतामित्युक्तम् । सतामपि दुष्टेषु मात्सर्यं दृश्यते । तत्सर्वथा न कार्यं स्वोत्तमेष्विति प्रदर्शनाय निर्मत्सराणामित्युक्तम् । इदानीं प्रधानप्रतिपाद्यं दर्शयति- वेद्यमिति ॥ वास्तवं नित्यनिरस्तदोषं पूर्णगुणं वस्तु कालतो देशतश्चा-परिच्छिन्नम् । वेद्यं प्राधान्येन प्रतिपाद्यम् । वास्तववस्तुशब्दाभ्यां देशतः कालतो गुणतश्च परिपूर्णं सर्वदा निर्दोषं ब्रह्म प्रतिपाद्यतयोक्तमिति ज्ञातव्यम् ।
ननु यज्ज्ञानादात्यन्तिकानिष्टनिवृतीष्टप्राप्तिरूपो मोक्षस्तस्यैव प्राधान्येन विषयत्वं युक्तम् । न चोक्तरूपस्य ब्रह्मज्ञानस्य तदस्ति । सुराणकादिष्वदर्शनात् । अतः कथमेतदित्यत उक्तम् । अत्र निर्मत्सरेषु सत्सु शिवदं तापत्रयोन्मूलनमिति । स्वज्ञानेनेति शेषः । शिवशब्देन स्वरूपानन्दा-विर्भावादिकम् । तापत्रयशब्देन चात्यन्तिकमनिष्टं ग्राह्यम् । सुराणकदायश्च नोक्तरूपा इति भावः । अनेन फलमुक्तमिति ज्ञातव्यम् । भागवतस्य श्रीमत्वं नामेतरपुराणेभ्य आधिक्येन पुरुषार्थप्रदत्वम् । तत्कुत इत्यत उक्तम्- महामुनिकृत इति ॥ यद्यपीदं शैवादिपुराणसाधारणं तथापि महान्पूज्यो मुनिर्नारदो यस्य प्रेरकः स तथोक्तस्तेन कृत इति व्याख्यानाददोषः । नारदेन हि प्रार्थितो व्यासो मनुष्योत्तमानुजिघृक्षयेदं पुराणं कृतवान् । अत इदं सतां मनुष्याणामितरपुराणापेक्षयाऽऽधिक्येन पुरुषार्थप्रदं जातमिति भावः । यद्वा । ‘वेत्ता वेद्यस्य सर्वस्य मुनिः सद्भिरुदाहृत’ इति वचनान्मुनयो ब्रह्माद्यास्तेभ्योऽप्यतिशयेन सार्वज्ञान्महामुनिव्यासस्तेन कृते प्रणीते इत्यर्थः । इतरपुराणानि तु न व्याससार्वज्ञमूलानि किन्तु मोहार्थमेव प्रणीतानीति भावः । ननु निवृत्तधर्मादिवदर्थकामादिकमपि कुतोऽत्र न कथ्यत इत्यत आह- किं वाऽपरैरिति ॥ अपरैरर्थकामादिभिः कथितैः किं वा फलं स्यान्न किमिति । कुत इत्यत आह- ईश्वर इत्यादि ॥ अत्र श्रीमद्भागवते कृतिभिः शिक्षितबुद्धिभिः शुश्रूषुभिर्गुर्वादिसेवाकरणकुशलैः श्रोतुमिच्छद्भिर्वा ईश्वरो हृदि स्वहृदये सद्यः शीघ्रं तत्क्षणाव्द्यवधान-मन्तरेणावरुद्ध्यते भक्तिपाशेन बद्धो भवतीत्यर्थः । अत्र सद्यस्तत्क्षणशब्दावधिकारिभेदविवक्षयोपात्तौ । ये सम्यक् सामग्री सम्पन्नास्तेषां तत्क्षणात्, ये तु न तादृशास्तेषामपि सद्यः शीघ्रमेव नेतरपुराणा-भ्यासिनामिव विलम्बेनेति । सज्जनान्प्रत्यर्थकामादिकथनस्य हि गुर्वादितुष्टिद्वारेश्वरस्य हृद्यवरोधनमेव फलतया वाच्यम् । तच्चेश्वरपरभागवतश्रवणादिनैव लभ्यते । अतस्तदप्यत्र न वाच्यमिति भावः । अनेन भागवतस्यैवोक्तं श्रीमत्वमप्युपपादितं भवतीति ज्ञातव्यम् ॥ २ ॥
निगमकल्पतरोर्गलितं फलं शुकमुखादमृतद्रवसंयुतम्
पिबत भागवतं रसमालयं मुहुरहो रसिका भुवि भावुकाः ॥ ३ ॥
तात्पर्यम्
ज्ञानफलस्यापि प्रशंसाविधिभ्यां क्षिप्रप्रवृत्तिर्भवतीति प्रशस्य विधत्ते । निगम-कल्पतरोरिति । भगवता गलितम् । शुकेन द्रवीकृतम् । उक्तं च ब्रह्माण्डे-
धर्मपुष्पस्त्वर्थपत्रः कामपल्लवसंयुतः । महामोक्षफलो वृक्षो वेदोऽयं समुदीरितः ॥
शातितानि फलानीह कृष्णद्वैपायनेन तु । भारताख्यानि यानीह तथा भागवतं भुवि ॥
आद्रीकृतानि तानीह शुकप्रभृतिभिर्जनैः । ख्यापयद्भिर्गुरुप्रोक्तान् वेदार्थान् ग्रन्थनिष्ठितान् ॥
कानिचिद् दर्शयामास वृक्षस्याग्रे फलानि तु । व्याचक्षमाणो वेदार्थं भगवाल्लोकपूजितः ॥
**एतेषामथ तेषां वा रसान् पिबत सज्जनाः । आमोक्षान्महती तृप्तिरहो मे पश्यतो भवेत् ॥ इति **
॥ ३ ॥
पदरत्नावली
एवं ज्ञानफलानामपि प्रेक्षावतां प्रशंसाविधिभ्यां भागवतशास्त्रश्रवणाद्यभ्यासे क्षिप्रप्रवृत्तिः स्यादिति प्रशस्य, विधत्ते- निगमकल्पतरोरिति ॥
भुवि, हे भावुका रसिकाः । यन्निगमकल्पतरोर्गलितं, शुकमुखादमृतद्रवसंयुतं भागवतं फलं, तस्य रसमालयं मुहुः पिबतेत्येकान्वयः । मर्त्यलोके भवनशीला रसज्ञा यूयम् । निगमयति नितरां ज्ञापयत्यापेक्षिताशेषपुरुषार्थानिति निगमो वेदः । स एव कल्पतरुः कल्पितं सङ्कल्पितं भक्ताकाङ्क्षितं तरति वितरति ददातीति कल्पतरुः सुरपादपः । ‘उपसर्गः स्वयं धातुलीनमर्थं प्रकाशयति । न स्वत उत्पादयती’ति धातुवृत्तिकारदर्शनवचनात् तरतिर्दानार्थोऽपि भवति । ‘विश्राणनं वितरणं स्पर्शनं प्रदिपादनमि’त्यभिधानाच्च । तस्माद् व्यासनाम्ना मया गलितं पतितम् । शिवावतारस्य मत्पुत्रस्य शुकनाम्नो मुनेर्मुखात् परीक्षिते प्रवचनादमृतद्रवेण संयुतम् । पूर्वमप्यमृतद्रवीकृतं पश्चाच्छुकाचार्य-मुखप्रवचनेनातीव द्रवीकृतमित्यर्थः । तथाच पाद्मपुराणे अम्बरीषं प्रति गौतमवचनं-
‘अम्बरीष शुकप्रोक्तं श्रुणु भागवतं सदा ।
पठस्व स्वमुखेनापि यदीच्छसि भवक्षयम्’ ॥
इति भागवताख्यं फलं निष्पन्नं, पक्वमिति यावत् । तस्य फलस्य मधुरं रसं, आलयं लिङ्गशरीर-मोक्षपर्यन्तं, मुहुर् आवृत्त्या, श्रवणाञ्जलिपुटैः पिबत पानं कुरुत । श्रवणादिनाऽऽस्वादयतेत्यर्थः । अहो इति बालानुन्मुखीकरोति अस्य फलस्यामृतरसास्वादसुखानुभवं पश्यतेति । रसशब्दस्य तिक्तादिषु षट्सु वृत्तावपि अमृतद्रवेत्युक्तेः, तदन्यथानुपपत्त्या मधुररसो ग्राह्यः । पानप्रारम्भसमयेऽपि मधुर एवायं रसः न फलत इति वा अहो इति ।
इति भागवताख्यं फलं निष्पन्नं, पक्वमिति यावत् । तस्य फलस्य मधुरं रसं, आलयं लिङ्गशरीर-मोक्षपर्यनिगमकल्पः वेदाख्यकल्पवृक्षः । ‘कल्पः सुरपादपेऽपि संप्रोक्त’इति वचनात् । तमवतारयति प्रकाशयतीति निगमकल्पतरुः । तस्माच्छुकाचार्याननाद् गतिं व्याख्यातम् । परीक्षित इति शेषः । अमृतं कैवल्यम् । तस्य द्रवो गतिः, तया युक्तम् । कैवल्यप्रापकमिति यावत् । रससम्पत्तेर्निवासस्थानं भागवतं फलं पिबतेति वा । अत्र पिबतिर्भक्षणार्थः । अनेकार्थत्वाद्धातूनाम् । न चायमाचार्योक्तोऽर्थो नेत्यश्रद्धेयम् । चतुर्मुखमुखलेखबुद्धिगोचरापरिमितार्थभागवततात्पर्यार्थं दर्शयातां पूर्णप्रमतीनामाचार्याणा-मप्ययं कश्चिद् बुद्धिसमुद्रार्थतरङ्ग इति निश्चित्य वक्तुं शक्यत्वात् । भुवि गलितमिति वा । देवलोके देवैः पेपीयमानं सज्जनमनुकृपया भुवि पतितमित्यर्थः ।
प्रकाशिका
पूर्वश्लोके फलादीनामुक्तत्वेनात्र प्रेक्षावत्प्रवृत्तिसम्भवात्किमर्थं निगमकल्पतरो-रित्युत्तरश्लोके भागवतं प्रशस्य तत्छ्रवणं विधीयत इत्याशङ्कामपाकुर्वन् उत्तरश्लोकमवतारयति- ज्ञातफलस्यापीति ॥ फलशब्देन विषयादिकमपि ग्राह्यम् । ज्ञातं फलं येन स तथोक्तस्तस्य पुरुषस्येत्यर्थः । प्रशंसा ग्रन्थस्य विधिस्तछ्रवणस्य ताभ्यामित्यर्थः । क्षिप्रप्रवृत्तिः । ग्रन्थश्रवणे इति शेषः। इतिशब्दो हेतौ । प्रशस्य निगमवृक्षफलत्वादिना भागवतमिति शेषः । विधत्ते । तच्छ्रवणं पिबतेत्यनेन विधत्त इत्यर्थः । प्रेक्षावतां क्षिप्रप्रवृत्त्यर्थं ग्रन्थप्रशंसादिकमत्र क्रियत इति भावः । गलितमित्यस्य स्वत एव पतितमित्यन्यथाप्रतीतिवारणायार्थमाह- भगवतेति ॥ व्यासेनेत्यर्थः । तथा च गलितमित्यस्य शातितमित्यर्थ इति भावः । शातितमिति वक्तव्ये गलितमिति वचनं वक्तुरायासाभावसूचनाय । शुकमुखादमृतद्रवसंयुतमित्यस्य तात्पर्यं दर्शयति- शुकेनेति ॥ तथा च शुकः शुकमुनिर्मुखं मुख्यः प्रधानो यस्य सूतादिवक्तृसमूहस्य स तथोक्तस्तस्मादित्यर्थ उक्तो भवति । मुखशब्दस्य वक्त्रवाचित्वे शुखमुखेनेत्यत्वक्षत् । प्रधान्यार्थत्वे तु शुकप्रभृतिभिरिति वक्ष्यमाणप्रमाणमप्यनुसृतं भवतीति ज्ञातव्यम् । समग्रश्लोकतात्पर्यं प्रमाणेनैव दर्शयति- उक्तं चेति ॥ निगमकल्पहेतुत्वात्पुरुषस्य विवरणम् । धर्मपुष्प इत्यादि । पुष्पस्य फलहेतुत्वाद्धर्मस्य च मोक्षरूपफलहेतुत्वात्पुष्पत्वेन विवरणम् । पत्राणां पुष्पकारण-त्वादर्थस्य च धर्मकारणत्वात्पत्रत्वेन निरूपणम् । पल्लवानां पत्रकारणत्वात्कामस्य चार्थकारण-त्वात्पल्लवत्वेनोक्तिः । फलस्य महत्वविशेषणं वक्ष्यमाणभारताद्यवान्तरफलव्यावृत्त्यै । गलितमित्यस्य विवरणम्- शातितानीति ॥ कृष्णद्वेपायनेत्यनेन कर्तृपदस्याध्याहारं सूचयति । आदिपदेन भागवतस्यापि लाभेऽपि तथा भागवतमित्युक्तिर्भागवतस्येतरपुराणवैलक्षण्यद्योतनाय । शुकमुखादमृतद्रवसंयुतमित्यस्य तात्पर्यम्- आर्द्रीकृतानीति ॥ द्रवीकृतानीत्यर्थः । आर्द्रीकरणमेवाह- ख्यापयद्भिरिति ॥ गुरूपदेशानु-सारेण वेदार्थप्रतिपादकत्वप्रदर्शनमेवार्द्रीकरणमत्र विवक्षितमिति भावः । प्रसिद्धवृक्षे हि केनचन पुरुषेण फलेषु शातितेष्वप्यग्रे तदशातितानि फलानि तिष्ठन्ति । तथा च कृष्णद्वैपायनाशातितानि फलानि कानीत्यपेक्षायामाह- कानिचिदिति ॥ पञ्चरात्रमूलरामायणादीत्यर्थः । वृक्षस्य निगमवृक्षस्याग्रे पूर्वम् । विद्यमानानीति शेषः । वेदार्थं तद्ग्रन्थनिष्टितम् इति शेषः । अनेन कृष्णद्वैपायनेन वेदार्थव्याख्यानरूपा निबन्धाः केचन पूर्वं विद्यमानाः शिष्येभ्यो व्याख्याताः । केचन स्वेनैव कृता इत्युक्तं भवति । रसं पिबतेत्यस्य तात्पर्यमाह- एतेषामिति ॥ एतेषां व्यासकृतानाम् । तेषां पूर्वतनानाम् । वाशब्दश्चशब्दार्थः। रसांस्तात्पर्यविषयीभूतार्थान्पिबत पानं कुरुत । श्रवणादिनाऽऽस्वादयतेत्यर्थः । रसिका इत्यस्य तात्पर्यम् । सज्जना इति ॥ आलयमित्यस्य तात्पर्यम्- आमोक्षादिति ॥ मोक्षमभिव्याप्येत्यर्थः । तथा च मोक्षेऽप्येतत्पानं न त्याज्यमिति भावः । अहो इत्यनेन सूचितं पानफलं दर्शयति- महतीति ॥ अत्र अहो इत्यनुवादः । पश्यतः पानकर्तृनिति शेषः । भगवद्वाक्यमिदम् । तेन भगवत्प्रीतिरेव पानफल-मित्युक्तं भवति । अत्र भागवतस्यापि निगमकल्पतरोः शातितत्वादेरुक्तत्वात्प्रकृतसङ्गतिरिति ध्येयम् । ततश्चायं श्लोकार्थः । भुवि मर्त्यलोके भावुका भवनशीला रसिका रसज्ञाः सज्जना यूयं निगमो वेदः स एव कल्पतरुः सर्वपुरुषार्थप्रदत्वात् । तस्माद्भगवता व्यासेन गलितं शातितं फलं वेदार्थसारत्वात्फल-स्थानीयं यद्भागवतं तस्य रसमास्वाद्यत्वाद् रसस्थानीयं तात्पर्यविषयीभूतमर्थं मुहुर्मुहुर्वारंवारमालयं मोक्षमभिव्याप्य पिबत पानं कुरुत । श्रवणादिनेति शेषः । आस्वादयतेत्यर्थः । ननु लोके फलं शुकपक्षिमुखस्पृष्टममृतद्रवसंयुतं भवतीति प्रसिद्धं तदत्र कथमित्यपेक्षायामुक्तम् । शुकमुखादमृतद्रव-संयुतमिति । शुको मुनिः स एव मुखः प्रधानो यस्य सूतादिव्याख्यातृसमूहस्य स तथोक्तस्तस्मादमृताय मोक्षाय द्रवो द्रवणं गुरूपदेशानुसारेण वेदव्याख्यानरूपत्वप्रदर्शनं तेन संयुतमिति ग्रन्थपक्षे व्याख्येयम् । फलपक्षे तु शुकः पक्षिविशेषस्तस्य मुखं मुखस्पर्शस्तस्मादमृतोऽमृततुल्यो द्रवो रसस्तेन संयुतमित्यर्थो द्रष्टव्यः । अहो इत्यास्वादनेनेदं सूचयति । भगवान्व्यासो मच्छातितरसपानकर्तृन् भवतोऽवलोक्य मम युष्मासु महती प्रीतिर्भवति यया युष्माकमशेषपुरुषार्थप्राप्तिर्भविष्यतीति ॥ ३ ॥
नैमिषेऽनिमिषक्षेत्रे ऋषयः शौनकादयः
सत्रं सर्गाय लोकाय सहस्त्रसममासत ॥ ४ ॥
त एकदा तु मुनयः प्रातर्हुतहुताशनाः ।
सत्कृतं सूतमासीनं पप्रच्छुरिदमादृताः ॥ ५ ॥
तात्पर्यम्
प्रकारान्तरेण पुरुषार्थशङ्कानिवृत्त्यर्थमाख्यायिका । पाद्मे च -
आख्यायिकाः प्रदर्श्यन्ते सर्ववेदेषु सर्वशः । द्योतयन्त्यस्तु महतां तात्पर्यं तत्र तत्र ह ॥
अलाभः पुरुषार्थस्य प्रोक्तमर्थमृते त्विति । द्योतनाय महाराज श्रद्धावृद्ध्यर्थमेव च ॥ इति ॥ ४ ॥
पदरत्नावली
ननु ‘ब्रह्मज्ञानेन वा मुक्तिः प्रयागमरणेन वा । अथवा स्नानमात्रेण गौतम्यां कृष्णसन्निधावि’ति स्मृतेः, प्रकारान्तरेणापि पुरुषार्थः स्यात्, किमनेनेत्यतोऽनेनैव पुरुषार्थो नान्येनेति ख्यापनाय, अस्य ग्रन्थस्य शिष्टपरिगृहीतत्वज्ञापनाय, श्रोतृप्रवक्तृणां महापुण्यफलवत्ववेदनाय च शौनकादिमुनिवरसूतप्रश्नप्रतिवचनरूपामाख्यायिकामाह- नैमिष इति ॥ शौनकादय ऋषयो ऽनिमिषक्षेत्रे नैमिषे स्वर्गाय लोकाय सहस्त्रसमं सत्रम् आसतेत्येकान्वयः । शुनकस्यापत्यं शौनकः । तदेव तस्य नाम । शौरिरितिवत् । स आदिर्येषां ते तथोक्ताः । ऋषयस्त्रिकालदर्शिनः, मन्त्रद्रष्टारो वा । अनिमिषक्षेत्रे श्रीनरहर्यादिसुरवरसन्निधानावासे । निमिषा ऋषिनिषेव्यफला वृक्षविशेषाः, तेऽस्मिन् सन्तीति नैमिषम् । ‘चित्रकृन्निमिषो नेमिश्चञ्चुलोऽथायुगच्छद’ इत्यभिधानात् । विशिष्टक्षेत्रदर्शनाय देवप्रहितस्य सुदर्शनस्य नेमिर्यस्मिन् व्यशीर्यत तन्निमिषं तदेव नैमिषारण्ये । स्वरतो विष्णुः, तेन गतो लोको वैकुण्ठाख्यस् तस्मै । सदानन्दमूर्तित्वात्स्वर्गो विष्णुः, लोक आश्रयस् तदर्थमिति वा । स्वरिति विष्णुस्तं गमयति प्रापयति ज्ञापयतीति स्वर्गः । ‘लुक् प्रकाशन’ इति धातोर्लाेकः प्रकाशः ज्ञानम् । विष्णुविषय-ज्ञानार्थमिति वा । न तु ‘मनःप्रीतिकरः स्वर्गो नरकस्तद्विपर्यय’ इति दुःखासम्भिन्नदेवसेव्यदेश-विशेषायेति वाच्यम् । तस्य नश्वरत्वश्रुतेः । सहस्त्रं समा यस्मिंस्तत्तथोक्तम् । वर्षसहस्त्रसमाप्यमित्यर्थः । सतः सुजनान् त्रायत इति,सतो ब्रह्मणस्त्राणमस्येति वा सत्तरं प्रशस्ततरं कर्मसु श्रेष्टमिति वा सत्त्रं बहुकर्तृकं यागविशेषम् । आसत उपाविशन् । अदीक्षयन्नित्यर्थः ॥ ४ ॥
ये सत्रयागे दीक्षितास्ते मुनयः, सर्वज्ञा अपि एकदा कस्मिंश्चित्काले । स्वाश्रमं प्रत्यागतं सत्कृतं तद्योग्यसत्कारैः पूजितम् । आसीनं सुखं पीठे उपविष्टम् । सूतम् इदं स्वबुद्धिस्थितम् । पप्रच्छुः । किं विशिष्टाः ? आदृता विनिताः । तेनापि पूजिता वा । हुतं हविरश्नातीति हुताशनोऽग्निः । प्रातःकाले हुतः हुताशनो यैस्ते तथोक्ताः । हुतेन पयआदिद्रव्येण हुतोऽग्निर्यैस्ते हुतहुताग्नय इत्यसत् । हुतशब्दस्य पयआदिष्वपाठात् । तुशब्दो लोकानुकम्पाद्योतकः । पृच्छतेर्द्विकर्मकत्वात् सूतमिदं पप्रच्छुरिति कर्मद्वयं युज्यते ॥ ५ ॥
प्रकाशिका
ननु नैमिष इत्युदिनोत्तरग्रन्थेन किमसङ्गतमुच्यत इत्यतस्तत्प्रयोजनमाह- प्रकारान्तरेणेति ॥ शिवदं तापत्रयोन्मूलनमिति भगवत्ज्ञानस्य मोक्षहेतुत्वमुक्तं तदयुक्तम् । ‘अपामसोमममृता अभूमे’ति कर्मणोऽपि मोक्षश्रवणादिति प्रकारान्तरेणोक्तप्रकारादन्येन प्रकारेण मोक्षशङ्कायां तन्निवृत्यर्थं नैमिष इत्यादिनाऽऽख्यायिका । उच्यत इति शेषः । यदि कर्मणैव मोक्षस्तर्हि कर्मकर्तृणां शौनकादीनां ‘तत्र तत्राञ्जसाऽऽयुष्मान् भवता यद्विनिश्चितम् । पुंसामेकान्ततः श्रेयस्तन्नः शसितुमर्हसी’त्यादिना हरिमाहात्म्यकतनप्रार्थनमयुक्तं स्यात्तेन ज्ञायते न कर्म साक्षान्मोक्षसाधनं किन्तु ज्ञानद्वारैवेति वक्ष्यमाणाख्यायिकयोक्तशङ्कानिवृत्तिर्ज्ञातव्या । तथा चोक्तार्थसमर्थनायाख्यायिकोच्यतेऽतो नासङ्गतिरिति भावः । आख्यायिकानामुक्तार्थसमर्थनार्थत्वे प्रमाणमप्याह- पाद्मे चेति ॥ सर्वशः सर्वास् तत्र तत्र प्रमेयविशेषेषु । हेत्यनेनाख्यायिकानां पुराकल्परूपार्थवादत्वेन तात्पर्यलिङ्गत्वं युक्तमेवेति सूचयति । पुरुषार्थस्य मोक्षादिरूपस्य । श्रद्धावृद्ध्यर्थम् । उक्तार्थ इति शेषः । अलाभ एवेत्यन्वयः । तथा च काश्चनाख्यायिकास्तात्पर्यद्योतनाय काश्चनोक्तार्थम् ऋते पुरुषार्थालाभकथनाय काश्चन श्रद्धावृद्ध्यर्थं प्रदर्श्यन्त इत्यर्थः । स्पष्टत्वात्त्यक्तस्य नैमिष इत्यादिश्लोकद्वयस्यायमर्थः । शुनकस्यापत्यं शौनकः । तन्नामकऋषिरादिर्योषां ते शौनकादयः । ऋषयस्त्रिकालदर्शिनो नैमिषे निमिषमात्रेण यत्र दानवबलं निहितं तदरण्यं नैमिषमित्युच्यते । नैमिषारण्य इत्यर्थः । यथोक्तं वराहपुराणे । एवं कृत्वा ततो देवो मुनिं गौरमुखं तदा । उवाच निमिषेणेदं निहतं दानवं बलम् । अरण्येऽस्मिंस्ततस्त्वेतन्नैमिषारण्य-संज्ञितम् । भविष्यति यथार्थं वै ब्राह्मणानां विशेषकम्’॥ इति । अनिमिषक्षेत्रे । अनिमिषो विष्ण्वादयो देवास्तेषामावासस्थाने । सत्रं बहुकर्तृकं यागविशेषमुद्दिश्य स्वः स्वरतो विष्णुर् गः गतो यस्मिन्स स्वर्गो वैकुण्ठाख्यः । तस्मै लोकाय तल्लोकप्राप्तये । सहस्त्रं समाः संवत्सरा अनुष्ठानकालो यस्य तत्सहस्त्रसमम् । सत्रविशेषणमेतत् । आसत उपाविशन् अदीक्षयन्नित्यर्थः । ये सत्रयागे दीक्षितास्ते मुनयः सर्वज्ञा अपि । एकदा तु कस्मिंश्चित्कालविशेषे स्वाश्रमं प्रत्यागतं सत्कृतं तत्तद्योग्यपूजासाधनैः पूजितमासीनम् । स्वदत्तपीठ इति शेषः । इदं वक्ष्यमाणं कथं भूताः । आदृतास्तेनापि पूजिताः ॥ ४,५ ॥
ऋषय ऊचुः—
त्वया खलु पुराणानि सेतिहासानि चानघ ।
आख्यातान्यप्यधीतानि धर्मशास्त्राणि तान्युत ॥ ६ ॥
पदरत्नावली
प्रशंसितः प्रवक्ता सूतः स्वप्रश्नोत्तरं सन्तुष्य सम्यग्वक्तीति हृदि कृत्वा प्रष्टव्यार्थं पृष्टतः कृत्वा तं प्रशंसन्ति शौनकादय इत्याह- त्वया स्वल्विति ॥ हे अनघ ‘दुःखैनोव्यसनेष्वघ-मि’त्यभिधानान्निरस्तसमस्तकार्यव्यसनम् । त्वया, सेतिहासानि भारतादीतिहाससहितानि पुराणानि । चशब्दादुपपुराणानि । अधीतानि वेदवत् पठितानि । आख्यातानि व्याख्यातान्यपि । यानि मनुयाज्ञवल्क्यादिप्रणीतानि धर्मशास्त्राणि तानि । उत अपि । अधीत्य व्याख्यातानीत्येकान्वयः ॥ ६ ॥
प्रकाशिका
पृष्टव्यार्थं वक्तुं तव ज्ञानमस्तीत्याशयेन सम्यगुत्तरदानाय सूतं स्तुवन्तीत्याह- त्वयेति ॥ चशब्दादुपपुराणानि । यानि मनुयाज्ञवल्क्यादि प्रणीतानि तानि धर्मशास्त्राणि तान्युत तान्यपि । अधीतानि आख्यातान्यपीत्यन्वयः ॥ ६ ॥
यानि वेदविदां श्रेष्ठो भगवान् बादरायणः ।
अन्ये च मुनयः सूत परावरविदो विदुः ॥ ७ ॥
वेत्थ त्वं सौम्य तत्सर्वं तत्वतस्तदनुग्रहात् ।
ब्रूयुः स्निग्धस्य शिष्यस्य गुरवो गुह्यमप्युत ॥ ८ ॥
तात्पर्यम्
‘यानि भगवज्ज्ञातान्यन्यैरप्यृषिभिर् ज्ञायन्ते तानि वेत्थ । उक्तं च ब्रह्माण्डे-
द्वैपायनेन यद्बुद्धं ब्रह्माद्यैस्तन्न बुध्यते । सर्वबुद्धं स वै वेद तद्बुद्धं नान्यगोचरम्’ इति ॥ ७-८ ॥
पदरत्नावली
अस्य ज्ञानेयत्तां वदन्तीत्याह- यानीति ॥ वेदविदां श्रेष्ठः बादरायणो भगवान् यानि वेद,अन्ये च परावरविदः मुनयस् तान्येव विदुः । किञ्च ते मुनयो वेदादन्यत्र यानि विदुर् हे सौम्य त्वं तदनुग्रहात् तत्वतस् तत्सर्वं वेत्थेत्येकान्वयः। वेदवादरतानां वादिनामाश्रयत्वाद् बादरायणः,वबयोः सावर्ण्यात् । बदराणां संबन्धित्वाद् बादरम् अयनं स्थानं यस्य स तथोक्त इति वा । परं ब्रह्म अपरं ब्रह्म च विदन्तीति परावरविदः । अतीतानागतविदो वा । हे सौम्य भक्तिज्ञानलक्षणसोमार्ह । ‘विद कृतावि’ति धातोर् भगवान् यानि वेद चकार,अन्ये च मुनयो यानि चक्रुस् तत्सर्वं जानासीति वा । गुरवः स्निग्धस्य स्नेहलक्षणभक्तिसंपन्नस्य शिष्यस्य गुह्यम् अतिगोप्यं ब्रूयुः । उत अपि, तत्संभावितमित्यन्वयः । ब्रूयुरपि ब्रूयुरेवेत्यर्थ इति वा ॥ ७, ८ ॥
प्रकाशिका
त्वं बादरायणसम्प्रदायाभिज्ञोऽसीत्याशयेनाहुरित्याह- यानीति ॥ अत्र यानि बादरायणो वेद । अन्ये च मुनयो यानि विदुस्तत्सर्वं वेत्थेत्युक्त्या बादरायणाज्ञातज्ञानित्वं मुनीनां प्रतीयते । न चेदं युक्तम् । विदां श्रेष्ठ इति तस्य सर्वज्ञत्वाभिधानात् । अतोऽत्र विवक्षितं तात्पर्यं दर्शयति- यानीति ॥ यानि भगवत्ज्ञातानीति पूर्वार्धतात्पर्यम् । तान्यन्यैरपि ऋषिभिर्ज्ञायन्त इति द्वितीयार्धस्य । तानि वेत्थेति तृतीयार्धस्य । प्रतीतार्थे प्रमाणविरोधं दर्शयति- उक्तं हीति ॥ तदित्यनन्तरं सर्वमिति शेषः । सर्वं बुद्धं स वै वेदेत्यनेन विदां श्रेष्ठ इत्येतदुक्तार्थम् । तद्बुद्धं ब्रह्मादिबुद्धम् । अत्रापि सर्वमिति शेषः । अन्येषां सूतादीनां बुद्धिगोचरं नेत्यर्थः । ततश्चायं श्लोकार्थः । निरुपचरितं सार्वज्ञं सूचयितुं विदां श्रेष्ठ इत्युक्तम् । तदुपपादनाय भगवानिति । तथा च विदां सर्वज्ञानां श्रेष्ठो भगवान् बादरायणो यानि प्रमेयानि वेद परावरविदः परावरतत्त्वविदः । अतीतानागतान्येव स्वस्वयोग्यतानुसारेण तत्त्वतस्तदनुग्रहाद् बादरायणानुग्रहाद्विदुर्न तदविदितानि । हे सौम्य साधो । त्वं तत्सर्वं तस्य मुनिविदितस्य मध्ये सर्वं वैदिकव्यतिरिक्तं सर्वं पुराणादिकं तेषामनुग्रहात्तत्वतो वेत्थेति । तत्त्वतो ज्ञानहेतुमाह- ब्रूयुरिति ॥ स्निग्धस्य भक्तिसम्पन्नस्य । प्रेमवत इति वा । अत एव गौप्यमपि ब्रूयुरेवेत्यर्थः ॥ ७, ८ ॥
तत्र तत्राञ्जसाऽयुष्मान् भवता यद्विनिश्चितम् ।
पुंसामेकान्ततः श्रेयस्तन्नः शंसितुमर्हति ॥ ९ ॥
पदरत्नावली
इदानीमभिमतार्थमाहुरित्याह-तत्रेति ॥ आयुष्मान् प्रशस्तायुरुपेत सूत । भवता तत्र तत्र पुराणादिषु अञ्जसा ऋजुमार्गेण यत् पुंसाम् एकान्ततः श्रेयः विनिश्चितं तन् नः शंसितु-मर्हसीत्यन्वयः ॥ ९ ॥
प्रकाशिका
इदानीमभिमतार्थं वक्तुं प्रार्थयन्तीत्याह- तत्र तत्रेति ॥ हे आयुष्मन्प्रशस्तायुषसम्पन्न । तत्र तत्र ग्रन्थेषु । अञ्जसा उपक्रमादितात्पर्यलिङ्गानुसारेण पुंसामधिकारिणामेकान्ततो नियमेन श्रेयः श्रेयःसाधनं भवता यद्विनिश्चितं निर्णीतम् । परधर्म एव तादृशश्चेत्स एव कीदृश इति प्रश्नाशयः ॥ ९ ॥
प्रायेणाल्पायुषो मर्त्याः कलावस्मिन् युगे जनाः ।
मन्दाः सुमन्दमतयो मन्दभाग्या ह्युपद्रुताः ॥ १० ॥
पदरत्नावली
ननु किमिति संक्षिप्य कथनं, विस्तरेण किन्न स्यादिति तत्राह- प्रायेणेति ॥ अस्मिन् कलौ युगे जना अल्पायुषः । अत एव मर्त्या मरणशीलाः । मन्दाः कर्मकरणशक्तिशून्याः । सुमन्दमतयो ऽत्यल्पप्रज्ञाः । मन्दभाग्या अल्पपुण्यभागिनः । कुष्ठभगन्दरादिव्याधिभिरुपद्रुताः । प्रायेणेति प्रत्येकमभिसम्बध्यते । बहुलमेवं,कश्चिदेवोक्तार्थदन्यथा स्यादित्यर्थे वर्तत इत्यन्वयः ॥ १० ॥
प्रकाशिका
अधिकारिणां पुंसां बहुकालेन बहुशास्त्रश्रवणादिना श्रेयःसाधननिर्णयो भविष्यत्यतः किं मदीयेन तच्छंसनेनेति शङ्कायां नेत्याहुरित्याह- प्रायेणेति ॥ अल्पायुषस्तत्रापि मन्दा अलसास्तत्रापि सुमन्दमतयस्तत्रापि मन्दभाग्या अल्पपुण्याः । विघ्नाकुला इति यावत् । तत्राप्युपद्रुता रोगादिपीडिताः । प्रायेणेति प्रत्येकमभिसम्बद्ध्यते ॥ १० ॥
भूरीणि भूरिकर्माणि श्रोतव्यानि विभागशः ।
अतः साधोऽत्र यत्सारं समुद्धृत्य मनीषया ।
ब्रूहि भद्राय भूतानां येनात्माऽऽशु प्रसीदति ॥ ११ ॥
पदरत्नावली
अल्पायुष्ट्वादिना अत्यन्तं दुर्बलानां श्रेयःसाधनशास्त्राणि हित्वा अर्थादिविषयानेक शास्त्रश्रवणं दुःशकमित्याह- भूरीणीति ॥ अन्यथा विभागशः प्रत्येकं विभक्तानि पृथक्कृतानि । भूरीणि बहूनि । भूरिकर्माणि बहुव्यापारवन्ति । श्रोतव्यानि अर्थादिविषयशास्त्राणि सन्ति यद् इत्यन्वयः । प्रश्नार्थं निगमयति- अत इति ॥ यत एवमर्थादिविषयशास्त्रज्ञानं दुःशकं,श्रेयःपरिपन्थि च,आयुरादिकं चाल्पम् अतः साधो हीनजात्युत्पन्नत्वेऽपि निर्दोष अत्र एषु शास्त्रेषु यत्सारं तन् मनीषया बुद्ध्या समुद्धृत्य इदमेवोपादेयमिति उपादाय नः ब्रूहि । किमर्थं ? भूतानां भद्राय । येन भवदुक्तसारश्रवणेन आत्मा हरिर् आशु प्रसीदति अनुग्रहोन्मुखो भवतीत्येकान्वयः ॥ ११ ॥
प्रकाशिका
ननु श्रेयःसाधने विप्रतिपत्त्यभावान्न मदीयशंसनस्य कृत्यमस्तीत्यत उक्तम् । भूरीणीति ॥ भूरिकर्माणि भूरीणि अनुष्ठेयानि येषु तानि तथोक्तानि । कष्टसाध्यानीति यावत् । विभागशो वादिनां विभागेन यतः सन्तीति शेषः । तथा च वादिनां शैवादीनां विभागेनानेकत्वेन तत्तद्वाद्युदितानि कष्टसाध्यानि बहूनि श्रेतव्यानि श्रेयःसाधनानि यतः संत्यतो विप्रतिपत्तिसद्भावेन निश्चयासम्भवाद्यत्सारं श्रेष्ठमव्यभिचारि ऋजुमार्गेणानुष्ठेयं वा । श्रेयःसाधनं समुद्धृत्य निश्चित्य भद्राय मोक्षायात्मा परमात्मा मनो वा प्रसीदति निर्मलं भवतीति ॥ ११ ॥
सूत जानासि भद्रं ते भगवान् सात्वतां पतिः ।
देवक्यां वसुदेवस्य जातो यस्य चिकीर्षया ॥ १२ ॥
तन्नः शुश्रूषमाणानामर्हस्यङ्गानुवर्णितुम् ।
यस्यावतारो भूतानां क्षेमाय विभवाय च ॥ १३ ॥
पदरत्नावली
सारश्च हरेः कृष्णावतारकथैवेत्याशयवन्तः पुनराहुरित्याह- सूतेति ॥ भोः सूत जानासि । सकलमिति शेषः । ते तुभ्यं भद्रं मङ्गलमस्तु । ते तव योग्यं बिम्बभूतं भद्रं सर्वमङ्गलं भगवन्तं,जानासीति वा । सात्वतां पतिर्भगवान्,यस्य कार्यविशेषस्य चिकीर्षया वसुदेवस्य सकाशाद्देवक्यां जातस् तद्द्वारा प्रकाशितः । यस्यावतारो,भूतानां क्षेमायैहिकामुष्मिकसुखाय विभवाय चाभिवृद्धये च भवति । अङ्ग हे वत्स । तस्य कृष्णस्य, तं कार्यविशेषं चरितापरपर्यायं शुश्रूषमाणानां श्रोतुकामानां नो ऽस्माकं, अनुवर्णितुं सम्यग्वक्तुमर्हसीत्येकान्वयः ।
सात्वतामिति ॥ सद् ब्रह्म कृष्णाख्यमुपास्यमेषामस्तीति सत्वन्तः, त एव सात्वन्तः । प्रज्ञादित्वात् स्वार्थे अण् । तस्यादर्शनं छान्दसम् । यद्वा सातिः सौत्रो धातुः सुखार्थः । वाऽसरूपन्यायेन क्विपि स्यात्, परमात्मा । स एषामस्तीति सात्वन्तो भक्तास्तेषां पतिः । मरुत्वानितिवत् सात्वानिति प्रातिपदिके सुगमः । यद्वा सात्वतप्रतिपदिके ‘तत्करोति तदाचष्ट’ इति णिचि कृते,‘क्विप् चे’ति क्विपि च कृते,णिचो लोपे,अतो लोपे च कृते आमि च सात्वतामिति रूपसिद्धिः । सात्वतां पञ्चरात्रोक्तानुष्ठानकारिणाम् । यादवानां वा ॥ १२,१३ ॥
प्रकाशिका
प्रश्नान्तरं कुर्वन्तीत्याह- सूत जानासीति ॥ कृष्णावतारकृत्यादिकमिति शेषः । भद्रं त इत्यौत्सुक्यं नाशीर्वादः । सात्त्वतां पञ्चरात्रोक्तकर्मकुर्वतां यादवादीनां पतिः पालकः । यस्य कार्यविशेषस्य । अङ्ग प्रियेति सम्बोधनम् । मूलरूपस्य हरेर्यशः श्रवणस्यावश्यकतामुपपादयन्तीत्याह- यस्यावतार इत्यादिना कलिमलापहमित्यन्तेन ॥ यस्य हरेरवतारो भूतानां सज्जनानां क्षेमाय प्राप्त-संरक्षणाय । विभवायाप्राप्तैश्वर्यादि प्राप्तये । तस्य यशः को वा न शृृणुयादित्यन्वयः । परोपकारि-पुरुषयशःश्रवणं मनःशुद्धिकरमिति प्रसिद्धमेवेति भावः । तथा च मनः शुद्धिकरत्वाद्धरिचरित्रश्रवण-मावश्यकमित्युक्तं भवति ॥ १२,१३ ॥
आपन्नः संसृतिं घोरां यन्नाम विवशो गृणन् ।
ततः सद्यो विमृच्येत यं बिभेति स्वयं भवः ॥ १४ ॥
तात्पर्यम्
विवशः बह्वभ्यासात् । उक्तं च स्कान्दे-
शारीराद् वाचिकाभ्यासो वाचिकान्मानसो भवेत् । मानसाद्विवशान्मुच्येन्नान्यथा मुक्ति-रिष्यते ॥ इति ॥ १४ ॥
पदरत्नावली
सारत्वात् कृष्णचरितमेवानुवर्णनीयं नान्यत्, यतस्तस्य वासुदेवादिनामोच्चारणा-दखिलबन्धनिवृत्तिः, तत्र किं वक्तव्यं तच्चरितश्रवमननाभ्यामित्याशयवन्त आहुरित्याह- आपन्न इति ॥ भवः संसारः । अहङ्काररूपेण बन्धको रुद्रो वा । यं प्रति बिभेति भयादपसृतो भवति । यन्नाम यस्य नाम । गृणन् उच्चारयन् । विवशः बह्वभ्यासात् । घोरां संसृतिमापन्नः पुरुषः । ततः घोरसंसारात् । सद्यस्तदानीमेव । विमुच्यते विशिष्टां मुक्तिमाप्नोति ॥ १४ ॥
प्रकाशिका
कैमुत्यन्यायेनापि हरिचरित्रश्रवणस्य शुद्धिकरत्वमुपपादयन्तीत्याह- आपन्न इति द्वाभ्याम् ॥ अत्र यन्नामविवशोगृणन्संसारात्सद्यो विमुच्यत इत्युच्यते । न चेदं सम्भवति । परवशस्य नामग्रहणस्यैवासम्भवात् । सम्भवे वा तेन सद्यो विमुक्तेश्चासम्भावितत्वादित्याशङ्कायामेतदुभय-मुपपादयति- विवश इति ॥ मानसाद् बह्वभ्यासादित्यर्थः । तथा च निरन्तरं हरिस्मरणरूपान्मान-साऽभ्यासाद्विवशः शरीरादिबाह्यविषयवशो न भवतीत्यर्थस्तत्र विवक्षितत्वान्नोक्तदोष इति भावः । एतादृशमानसाभ्यासस्य कारणं कार्यं च दर्शयितुं प्रमाणं पठति- उक्तं चेति ॥ शारिरात् कायिकात् । विष्णुवैष्णवसेवारूपादभ्यासाद् वाचिकाभ्यासोऽध्ययनव्याख्यानादिरूपो वा, मानसो निरन्तरहरिस्मरण-रूपः । मानसादभ्यासाद्विवशो विषयादिरूपपरवशतारहितः । ततश्च ‘आपन्नःसंसृतिं घोरां’ इत्यादेरयमर्थः । घोरां संसृतिमापन्नः प्राप्तोऽधिकारी विवशो विषयासक्तिशून्यः सन् यस्य हरेर्नाम गृणन् अर्थानुसन्धानपूर्वकमुच्चारयंस्ततः संसृतेः सद्यः शीघ्रं विमुच्यते । कुत इत्यत उक्तम्- यं हरिं प्रतिभवः संसारः स्वयं बिभेति ॥ तथा च हरिनामोच्चारणं संसारान्मोचकं संसारभीषकस्य नामोच्चारणत्वात् । यद्यद्भिषकनामोच्चारणं तत्तस्मान्मोचकम् । यथा सर्पभीषकगरुडनामोच्चारणं सर्पान्मोचकमित्यनुमान-मत्राभिप्रेतम् । एवं चोक्तमानसाभ्यासाद्विवशस्य यदा नामोच्चारणमात्रं संसारनिवर्तकं तदा तस्य तद्यशःश्रवणं शुद्धिकरमिति किं वक्तव्यमिति कैमुत्यमत्र द्रष्टव्यम् ॥ १४ ॥
यत्पादसंश्रयाः सूत मुनयः प्रशमायनाः ।
सद्यः पुनन्त्युपस्पृष्टाः स्वर्धुनीवानुसेवया ॥ १५ ॥
को वा भगवतस्तस्य पुण्यश्लोकेड्यकर्मणः ।
शुद्धिकामो न शृणुयाद्यशः कलिमलापहम् ॥ १६ ॥
पदरत्नावली
किञ्च यत्पादसंश्रया यस्य पादावेव संश्रयो येषां ते तथोक्ताः । प्रकृष्टः शमो भगवान्निष्ठैव अयनमाश्रयो येषां ते प्रशमायना मुनयः यैः प्राणिभिरुपस्पृष्टास्तान् सद्यः पुनन्ति पवित्रीकुर्वन्ति । यत्पादसंश्रयादिति पाठे यच्चरणनिषेवणादात्मानं पुनन्तीत्यर्थः । तत्र निदर्शनम्- अनुसेवया अनुसेवनेन निषेवणेन उपस्पर्शनस्नानाचमनादिना । स्वर्धुन्याप इति पाठे गङ्गाजलपरमाणवश् चिरकालसेवया, मुनयः सद्य इति विशेषः ॥ १५ ॥
पुण्यश्लोकैर्ब्रह्मादिभिर् ईड्यं स्तुत्यं कर्म कंसवधादिचरितं यस्य स तथा । पुण्यश्लोकश्चायमीड्यकर्मेति वा । तस्य हरेः,कलिमलापहं कलिनिमित्तं मलं पापलक्षणमपहन्तीति । यशश् चारितापरपर्यायम् । शुद्धिकामो ऽन्तःकरणनिर्मलतां कामयमानः, को वा पुरुषः न श्रुणुयादित्येकान्वयः ॥ १६ ॥
प्रकाशिका
किञ्च यस्य हरेः पादावाश्रयौ येषां ते तथोक्ताः । क्वचित्पादसंश्रयादिति पाठः । प्रकृष्टः शमो भगवन्निष्ठबुद्धिस्तस्य अयना आश्रयास् तद्वन्त इति यावत् । उपस्पृष्टा यैः प्राणिभिः सेवितास्तान्सद्यः शीघ्रं पुनन्ति । तत्त्वोपदेशादिना पवित्रीकुर्वन्ति । स्वर्धुनी स्वर्नदी गङ्गेव । सेवया स्नानपानादिरूपया । अनुपश्चात् । गङ्गा हि स्नानादिना सेविता सती गुरूपदेशं प्रापयित्वा पुनाति । सेविता मुनयस्तु तत्कालमेवेति सूचयितुं सद्य इति अन्विति चोक्तम् । स्वर्धुन्यां पादसंश्रयत्वं पादान्निःसृतत्वरूपं द्रष्टव्यम् । अत्र यदा यस्य भक्तानामपि सेवा शुद्धिकरी तदा तस्य यशःश्रवणरूपा सेवा शुद्धिकरीति किं वक्तव्यमिति कैमुत्यमुक्तमिति ज्ञातव्यम् । स्वार्धुन्याप इति पाठे गङ्गोदकमिवेति लुप्तोपमा । पुण्यश्लोकैर्ब्रह्मादिभिरीड्यानि कर्माणि कंसहननादीनि यस्य स तथोक्तस्तस्य । शुद्धिकामो मनःशुद्धिकामः यशश्चरितम् । कलिनिमित्तं मलं पापमहन्तीति कलिमलापहम् ॥ १५,१६ ॥
तस्य कर्माण्युदाराणि परिगीतानि सूरिभिः ।
ब्रूहि नः श्रद्दधानानां लीलया दधतः कलाः ॥ १७ ॥
पदरत्नावली
न केवलं कृष्णकथैव वक्तव्या । मत्स्याद्यवतारान्तरकथाऽपीत्याहुरित्याह- तस्य कर्माणीति ॥ लीलया मत्स्यादिका दधतस् तस्य हरेः, सूरिभिर्ब्रह्मादिभिः परिगीतानि, उदाराण्यक्लिष्टानि । उद्गतदोषाणि वा । कर्माणि ब्रूहीत्येकान्वयः ॥ १७ ॥
प्रकाशिका
प्रश्नान्तरं कुर्वन्तीत्याह- तस्य कर्माणीति ॥ तस्य मूलरूपस्य हरेः कर्माणि सृष्ट्यादीनि । कलाश्चतुःपञ्चदशद्वादशशतसहस्त्रादिव्यूहान् ॥ १७ ॥
अथाख्याहि हरेर्धीमन्नवतारकथाः शुभाः ।
लीला विदधतः स्वैरमीश्वरस्यात्ममायया ॥ १८ ॥
तात्पर्यम्
आत्ममायया स्वरूपभूतेच्छया ।
महामायेत्यविद्येति नियतिर्मोहिनीति च । प्रकृतिर्वासनेत्येव तवेच्छानन्त कथ्यते ॥ इति स्कान्दे ॥
विष्णुसंहितायां च -
इच्छाशक्तिर्ज्ञानशक्तिः क्रियाशक्तिरिति त्रिधा । शक्तिशक्तिमतोश्चापि न भेदः कश्चनेष्यते ॥ इति ॥ १८ ॥
॥ इति प्रथमोध्यायः ॥
पदरत्नावली
तदेवास्माकं वर्णनीयमित्यभिप्रेत्याहुरित्याह- अथेति ॥ यत एवं यच्छ्रद्दधाना-नामस्माकं कलिमलापहं, अथ तस्माद् आत्ममायया स्वरूपभूतेच्छया स्वैरं यथेष्टं लीलाः प्रलयजल-विहारादिक्रीडा विदधत ईश्वरस्य स्वतन्त्रस्य हरेः,शुभा मङ्गला अवतारकथाः, हे धीमन् अस्माकमाख्याहीत्येकान्वयः ॥ १८ ॥
प्रकाशिका
अथेति प्रश्नान्तरे तस्मादित्यर्थे वा । उक्तरीत्या तत्कथाश्रवणस्य मनःशुद्धि-करत्वादित्यर्थः । अवताराणां मत्स्यादीनाम् । यतः शुभा मङ्गलरूपा लीलाः प्रलयजलविहरणादिक्रीडा विदधतः कुर्वतः । पराधीनं करणमिति शङ्कापरिहाराय स्वैरमित्युक्तम् । यथेष्टमित्यर्थः । नन्वीश्वरस्य जडान्तःकरणाभावात्कथं तत्कार्येच्छेत्याशङ्कायां यथेष्टमित्युक्तं विवृणोति- आत्ममाययेति ॥ अनेनोक्तशङ्कापरिहारो यथा स्यात्तथाऽनूद्य व्याख्याति- आत्ममाययेति ॥ तथा च जडान्तःकरण-जन्येच्छाभावेऽपि स्वस्वरूपभूतेच्छानुसारेणैव करोति । अतः स्वैरमित्युपपन्नमिति भावः । मायाशब्द-स्येच्छावाचित्वे प्रमाणमाह- महामायेति ॥ अत्र यद्यपि न मायाशब्दोऽस्ति तथाऽपि ‘मायां तु प्रकृतिं विद्यात्’इति प्रमाणान्मायाशब्दपर्यायत्वं प्रकृतिशब्दस्यास्ति । ततश्च प्रकृतिशब्दस्येच्छावाचित्वे प्रदर्शिते मायाशब्दस्यापि तत्सेत्स्यतीत्यभिप्रेत्येदमिति ज्ञातव्यम् । इच्छाया भगवत्स्वरूपत्वे च प्रमाणं दर्शयति- विष्ण्विति ॥ इच्छादिरूपा शक्तिरिति व्याख्येयम् । त्रिधेत्यनन्तरं हरेः शक्तिरिति शेषः । चशब्दोऽव-धारणार्थः कश्चन वैलक्षण्यरूपो वा । अन्योन्याभावरूपो वा । भेदोऽपि नैवेष्यत इत्यन्वयः ॥ १८ ॥
वयं तु न वितृप्याम उत्तमश्लोकविक्रमैः ।
यच्छृण्वतां रसज्ञानां स्वादु स्वादु पदे पदे ॥ १९ ॥
पदरत्नावली
भवतां बहुशः श्रुतहरिकथानां किमित्ययमुत्कण्ठाविशेष इत्यत उच्यते- वयमिति ॥ वयमुत्तमश्लोकस्य हरेर्विक्रमैः श्रुतैर्न वितृप्यामः । अन्येषां तृप्तिरस्तु वा, नास्माकमलम्बुद्धिरित्येतस्मिन्नर्थे तुशब्दः । यद्विक्रमजातं शृृण्वतां रसविवेकविदुषां नः स्वादु स्वाद्वतिमधुरं भवतीत्येकान्वयः । ‘रसो रगे विषे वीर्ये तिक्तादौ पारदे द्रव’ इति विशेषज्ञा रसज्ञाः ॥ १९ ॥
प्रकाशिका
बहुशः श्रुतहरिविक्रमाणां युष्माकं किमर्थमेवं प्रश्न इत्यत आहुरित्याह- वयं त्विति ॥ नान्यपुरुषवद्वयमिति विशेषसूचनाय तुशब्दः । उद्गच्छति तमो यस्मात्स उत्तमः । तथाभूतं लोको यशो यस्य स तथा । तस्य विक्रमैश्चरित्रैः । श्रुतैरिति शेषः । न वितृप्यामो न विशेषेणालम्बुद्धिं प्राप्नुमः । यद्विक्रमजातम् । रसज्ञानां सारविदुषाम् । शृृङ्गारादिनवरसज्ञानिनां वा । स्वादुतोऽपि स्वादु । पदे पदे प्रतिपदम् । उपलक्षणमेतत् । वाक्ये वाक्ये श्लेके श्लेके इत्याद्यपि ग्राह्मम् ॥ १९ ॥
कुतवान् किल वीर्याणि सह रामेण केशवः ।
अतिमर्त्यानि भगवान् गूढः कपटमानुषः ॥ २० ॥
पदरत्नावली
संप्रति कृष्णावतारचरितश्रवण एव उत्कण्ठाविशेष इत्यभिप्रेत्याहुरित्याह-कृतवानिति ॥ स्वमहिम्ना गूढः कपटमानुषः केशवो भगवान् रामेण सह यानि मर्त्यवीर्यमतिक्रम्य विद्यमानानि वीर्याणि वीरकर्माणि पराक्रमलक्षणानि कृतवान् किल तान्यस्माकं ब्रूहीत्येकान्वयः । मानुषेष्वपि कं सुखं पटति प्राप्तोतीति कपटमानुष इत्येषोऽर्थोऽपि ग्राह्य इति ॥ २० ॥
प्रकाशिका
‘देवक्यां वसुदेवस्य जातो यस्य चिकीर्षये’त्यत्र यत्सामान्यतः पृष्टं कृष्णावतार-चरितं तदेव पुनरौत्कण्ठ्यविशेषाद्विशेषाकारेणापि पुच्छन्तीत्याह- कृतवानिति ॥ वीर्याणि पराक्रमान् । अतिमर्त्यानि मर्त्यानतिक्रान्तानि । मनुष्येष्वसम्भावितानित्यर्थः । गूढो जनानुपलब्ध-माहात्म्यः कपटमानुषः कपटो भ्रान्तिकल्पितो मानुषो मनुष्यदेहो यस्य स तथोक्तः ॥ २० ॥
कलिमागतमाज्ञाय क्षेत्रेऽस्मिन् वैष्णवे वयम् ।
आसीना दीर्घसूत्रेण कथायां सक्षणा हरेः ॥ २१ ॥
पदरत्नावली
दीर्घसत्रे दीक्षितानामस्माकं हरिकथाश्रवणावसरोऽस्तीत्याहुरित्याह-कलिमागत-मिति ॥ आगतं प्रविष्टं कलिमाज्ञायास्मिन् वैष्णवे क्षेत्रे दीर्घसत्रेणासीना व्यापारान्तरं विहाय स्थिताः । वयं, हरेः कथायां कथाश्रवणे । सक्षणाः सावसरा इत्येकान्वयः ॥ २१ ॥
प्रकाशिका
ननु याजनाध्यापनादिव्यापारेषु व्यग्राणां भवतां कुत एतच्छ्रवणावकाशः स्यादित्यत आहुरित्यह- कलिमागतमिति ॥ आज्ञाय सम्यग्ज्ञात्वा तद्भिया व्यापारान्तरं विहाय दीर्घसत्रेण निमित्तेनास्मिन्वैष्णवक्षेत्रे यत आसीना वयमतो हरेः कथायाः सक्षणाः सावसरा इत्यर्थः ॥ २१ ॥
त्वन्नः सन्दर्शितो धात्रा दुस्तरं निस्तितीर्षताम् ।
कलिं सत्वहरं पुंसां कर्णधार इवार्णवम् ॥ २२ ॥
पदरत्नावली
पुंसां सत्वगुणहरं, दुस्तरं तर्तुमशक्यं कलिं, निस्तितीर्षतां नितरां तर्तुमिच्छतां नः, हे सूत त्वं धात्रा दैवेन सन्दर्शितः । क इव ? दुस्तरमर्णवं निस्तितीर्षतां सांयात्रिकाणां कर्णधार इव । कर्णधारः यूपकाग्रस्थायी पुरुषः ॥ २२ ॥
प्रकाशिका
अस्मिंश्च समये त्वद्दर्शनमीश्वरेणैव सम्पादितमित्यभिनन्दन्तीत्याह- त्वं न इति ॥ धात्रा दैवेन पुंसां सत्त्वहरं सत्वकार्यज्ञानादिनाशकं दुस्तरं तर्तुमशक्यं कलिं निस्तितीर्षतां निश्चयेन तर्तुमिच्छताम् । क इव । दुस्तरमर्णवं निस्तितीर्षतां कर्णधार इव नाविक इव ॥ २२ ॥
ब्रूहि योगेश्वरे कृष्णे ब्रह्मण्ये धर्मकर्मणि ।
स्वां काष्ठामधुनोपेते धर्मः कं शरणं गतः ॥ २३ ॥
इति प्रथमोऽध्यायः
पदरत्नावली
प्रश्नान्तरं कुर्वन्तीत्याह- ब्रूहीति ॥ अधुना, धर्मरूपाणि यस्य सः धर्मकर्मा तस्मिन् । ब्रह्मण्ये ब्राह्मणहितकारिणि । अणिमाद्यष्टयोगेश्वरे । भक्तिज्ञानलक्षणयोगयोर् ईश्वरे वा । ‘कृषिर्भूवाचकः शब्दो णश्च निर्वृतिवाचकः । तयोरैक्यं परं ब्रह्म कृष्ण इत्यभिधीयत’इति वचनात् सच्चिदानन्दलक्षणे कृष्णे, स्वां काष्टां गुणपूर्णस्वमूलरूपम् । उपेते गतवति सति । पूर्वनिर्दिष्टो धर्मः भक्तिज्ञानलक्षणः, कं पुरुषं शरणं गत इति तम् अस्माकं ब्रूहीत्येकान्वयः ॥ २३ ॥
‘पुंसामेकान्तत’इति श्रेयःसाधनविषयः, ‘ब्रूहि भद्राये’ति प्रत्यगात्मविषयः, ‘अर्हस्यङ्गानुवर्णितु-मि’ति कृष्णावतारविषयः, ‘ब्रूहि नः श्रद्दधानानामि’ति यशोविषयः, ‘अथाख्याही’त्यवतारान्तरविषयः, ‘ब्रूहि योगेश्वर’इति धर्मविषयः, इति षट् प्रश्नाः ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुविरचितायां प्रथमस्कन्धे प्रथमोऽध्यायः ॥
प्रकाशिका
प्रश्नान्तरं कुर्वन्तीत्याह- ब्रूहीति ॥ ब्राह्मणेषु साधुर्ब्रह्मण्यस्तस्मिन् । धर्मरूपाणि कर्माणि यस्य स धर्मकर्मा तस्मिन्स्वां काष्टां स्वमूलरूपम् । धर्मः पूर्वं कृष्णेन रक्षितो भक्तिज्ञानादि-लक्षणो धर्मः । शरणं रक्षकम् । कृष्णगमनानन्तरं धर्मरक्षकः को जात इति प्रश्नाशयः ॥ २३ ॥
**॥ इति श्रिमद्भागवते प्रथमस्कन्धे प्रथमाध्यायटिप्पण्यां **
वेदेशतीर्थपूज्यपादशिष्ययदुपतिविरचितायां प्रथमोऽध्यायः ॥ १-१ ॥