चतुर्थोऽध्यायः
न यत्र वाचो न मनो न सत्त्वं तमो रजो वा महदादयोऽमी । न प्राणबुद्धीन्द्रियदेवता वा न सन्निवेशः खलु लोककल्पः ॥ २० ॥
न यत्र वाच इत्यादि कालाख्यस्य ब्रह्मणः स्वरूपम् ॥ २० ॥
बुद्धेर्जागरणं स्वप्नः सुषुप्तिरिति होच्यते ।
मायामात्रमिदं राजन् नानात्वं प्रत्यगात्मनि ॥ २५ ॥
‘प्रत्येकं विष्णुरूपाणां भ्रान्तिमात्रा भिदा मता ।
जगतश्चैव विष्णोश्च सत्यो भेदः सदैव तु ॥
यथाऽऽकाशघटौ नित्यं भिन्नावेव परस्परम् ।
एवमीशो जगच्चैव भिन्नावेव परस्परम्’’॥ इति च ॥ २५ ॥
एते ह्यवयवाः प्रोक्ताः सर्वावयविनामिह ।
विनाऽर्थेन प्रतीयेरन् पटस्येवाङ्ग तन्तवः ॥ २७ ॥
‘अवयव्यवयवाभेदात् कोट्यंशो भेद ईरितः ।
सोऽपि भेदो न चाभेदात् पृथगेव प्रवर्तते ॥
अवयव्यवयवानां च कार्यकारणवस्तुनाम् ।
एक एव नियन्ताऽसौ हरिर्नारायणः परः’’॥ इति च ॥ २७ ॥
न हि सत्यस्य नानात्वमविद्वान् यदि मन्यते ।
नानात्वं छिद्रयोर्यद्वज्ज्योतिषोर्वा तयोरपि ॥ ३० ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये द्वादशस्कन्धे चतुर्थोऽध्यायः ॥
‘महाकाशो बहिस्थश्च घटाद्यन्तःस्थ एव च ।
द्वेधा समुदितोऽन्यौ च द्वावाकाशौ प्रकीर्तितौ ॥
घटरूपस्तदन्यश्च महाकाशात् परो लघुः ।
महाकाशवदेवात्र परमात्मा सनातनः ॥
घटान्तःस्थमहाकाशप्रतिमोऽन्तर्गतो हरिः ।
घटस्यान्तर्गताकाशो महाकाशात् परो मतः ॥
तद्वद्देवादयः सर्वे जीवा मुक्त्युपयोगिनः ।
तमोगाश्चैव ये सर्वे घटरूपखवन्नराः’’॥ इति तत्त्वसंहितायाम् ॥३०॥
पञ्चमोऽध्यायः
इति ब्रह्मोदिताक्षेपैः स्थानादिन्द्रः प्रचालितः ।
बभूव सम्भ्रान्तमतिः सविमानः सतक्षकः ॥ २२ ॥
तं पतन्तं विमानेन सहतक्षकमम्बरात् ।
विलोक्याङ्गिरसः प्राह राजानं तं बृहस्पतिः ॥ २३ ॥
‘स्वसन्तानोद्भवं कीर्त्या योजयन् जनमेजयम् ।
शक्तोऽप्यशक्तवद्यष्टुरिन्द्र आसीदुपेक्षकः ।
एवमेव ऋषीणां च कीर्तिं योजयताऽमुना ॥
कृतोपेक्षा महेन्द्रेण किमु विष्णुः परात्परः ।
तस्माद्विष्णोरशक्यं न भूतभव्यभवत्स्वपि ॥
न चानिष्टं गुणैरेष पूर्णो नारायणः सदा’’॥ इति वामने ॥ २२-२३ ॥
नित्यादोषस्वरूपाय गुणपूर्णाय सर्वदा ।
नारायणाय हरये नमः प्रेष्ठतमाय मे ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये द्वादशस्कन्धे पञ्चमोऽध्यायः ॥
॥ द्वादशः स्कन्धः समाप्तः ॥