द्वितीयोऽध्यायः
भूतानां देवचरितं दुःखाय च सुखाय च ।
सुखायैव हि साधूनां त्वादृशामच्युतात्मनाम् ॥ ५ ॥
वसुदेव उवाच– भजन्ति ये यथा देवान् देवा अपि तथैव तान् । छायेव कर्मसचिवाः साधवो दीनवत्सलाः ॥ ६ ॥
‘आत्मनो भजने बुद्धिमुत्पाद्य फलदाः सुराः ।
उत्तमानां जनानां तु निकृष्टानां विपर्ययः ॥
शुभाशुभफलानां तु कर्मणां विबुधाः सदा ।
प्रवर्तका यथायोग्यमृषयः करुणाः सदा ॥
सुखमिच्छन्ति भूतानां प्रायो दुःखासहा नृणाम् ।
तथापि तेभ्यः प्रवरा देवा एव हरेः प््रिायाः’‘इत्युद्दामसंहितायाम् ॥ ५-६ ॥
अविद्यमानोऽप्यवभाति हि द्वयो ध्यातुर्धिया स्वप्नमनोरथो यथा । तत्कर्म सङ्कल्पविकल्पकं मनो बुधो निदध्यादभयं ततः स्यात् ॥ ३८ ॥
‘आत्मनो देहगेहादि द्वयशब्देन भण्यते ।
अविद्यमानं जीवस्य प्रतिभाति तदीयवत् ॥
जाग््राद्वत्तु यथा स्वप्नः प्रतिभाति मनोरथः ।
विद्यमानवदेवैतद्देहादीशवशे स्थितम् ॥
विभाति स्ववशत्वेन सैषा संसृतिरुच्यते ।
तस्मात्तद्विषयं त्यक्तवा मनो विष्णौ निवेशयेत्’’॥
इति हरिवंशेषु ॥ ३८ ॥
एवंव््रातश्च प््रिायनामकीर्त्या जातानुरागो द्रुतचित्त उच्चैः । हसत्यथो रोदिति रौति गाय- त्युन्मादवन्नृत्यति लोकबाह्यः ॥ ४० ॥
खं वायुमग्निं सलिलं महीं च ज्योतींषि सत्वानि दिशो द्रुमादीन् । सरित् समुद्रांश्च हरेः शरीरं यत् किञ्च भूतं प्रणमेदनन्यम् ॥ ४१ ॥
‘केचिदुन्मादवद्भक्ता बाह्यलिङ्गप्रदर्शकाः ।
केचिदान्तरभक्ताः स्युः केचिच्चैवोभयात्मकाः ॥
मुखप्रसादाद्दार्ढ्याच्च भक्तिर्ज्ञेया न चान्यतः’’॥ इति वाराहे ॥
‘सर्वं हरेर्वशत्वेन शरीरं तस्य भण्यते ।
अनन्याधिपतित्वाच्च तदनन्यमुदीर्यते ॥
न चाप्यभेदो जगता विष्णोः पूर्णगुणस्य तु’’॥ इति हरिवंशेषु ॥ ४०,४१ ॥
हरिरुवाच– सर्वभूतेषु यः पश्येद् भगवद्भावमात्मनः । भूतानि भगवत्यात्मन्नेष भागवतोत्तमः ॥ ४५ ॥
ईश्वरे तदधीनेषु बालिशेषु द्विषत्सु च । प््रोममैत्रीकृपोपेक्षा यः करोति स मध्यमः ॥ ४६ ॥
अर्चायामेव हरये पूजां यः श्रद्धयेहते । न तद्भक्तेषु चान्येषु स भक्तः प्राकृतः स्मृतः ॥ ४७ ॥
‘पूर्णत्वादात्मशब्दोक्तः कश्चित्सर्वनरोत्तमः ।
स च नारायणो नान्यः स च सर्वेषु संस्थितः ॥
तद्वशा इतरे सर्वे श्रीब््राह्मेशपुरःसराः ।
स एव तु स्वभक्तेषु स्थित्वाऽनुग््राहकारकः ॥
अज्ञेष्वज्ञानयन्ता च द्विषत्सु द्वेषकारकः ।
तत्प््रोरितास्तदन्ये तु प््रिायद्वेषादिकारिणः ॥
अतस्तत्प््रोरणादेव प््रोमाद्या मम जज्ञिरे ।
इति पश्यति यो बुध्द्या स तु भागवतोत्तमः ॥
सर्वाधिकं पृथग्विष्णुं क्षीरसागरवासिनम् ।
ज्ञात्वा तत्र प््रोमयुक्तस्तद्भक्तेषु च मैत्रयुक् ॥
कृपावांश्च तदज्ञेषु तद्द्वेषीणामुपेक्षकः ।
तद्वशत्वं न जानाति सर्वस्य जगतोऽपि तु ॥
तमाहुर्मध्यमं भक्तमर्चायामेव संस्थितम् ।
विष्णुं ज्ञात्वा तदन्यत्र नैव जानाति यः पुमान् ॥
तारतम्यं च तद्भक्तेर्न जानाति कथञ्चन ।
अवजानंश्च तद्भक्तानात्मनो भक्तिदर्पितः ॥
उपेक्षकोऽपि वा तेषु न स्मरेदथवापि तान् ।
मानुषेषु यथा कश्चित्किञ्चिदुच्चः प्रदृश्यते ॥
एवमेवोच्चतां विष्णोरल्पां पश्यति चान्यतः ।
ते तु भक्ताधमाः प्रोक्ताः स्वर्गादिफलभागिनः ॥
तैर्विघि्नता अधो यान्ति तद्भक्तानामुपेक्षकाः ।
कुर्युर्विष्णावपि द्वेषं देवा देवावमानिनः ॥
पूजिता विष्णुभक्तिं च नावज्ञेयास्ततः सुराः ।
उपेक्षकेषु देवानां भक्तिनाशं स्वयं हरिः ॥
करोति तेन विभ््राष्टाः संसरन्ति पुनःपुनः ।
अधो वा यान्ति विद्वेषात्पूज्या देवास्ततः सदा ॥
यस्तान्द्वेष्टि स तं द्वेष्टि यस्ताननु स चानु तम् ।
ऐकात्म्यमागतं विद्धि देवैस्तद्भक्तिपूरितैः ॥
उपेक्षकस्तु देवानां यदैव निरयोपगः ।
तदा तु किमु वक्तव्यमुपेक्षायां जनार्दने ॥
विष्णोरुपेक्षकं सर्वे विद्विषन्त्यधिकं सुराः ।
पतत्यवश्यं तमसि हरिणा तैश्च पातितः ॥
भुङ्क्त्े स्वर्गफलं नित्यं निरयं नैव गच्छति ।
विष्णोस्तु मध्यमो भक्तो जायते मानुषेषु च ॥
अस्मरन्देवता यस्तु भजते पुरुषोत्तमम् ।
योग्यः संस्मरते देवानयोग्यो द्वेष्टि केशवम् ॥
यस्तूत्तमो भागवतः स मुक्तिं परमां व््राजेत् ।
विष्णुना सर्वदेवैश्च मोदते स ह नित्यदा’’। इति च ॥ ४५-४७ ॥
गृहीत्वापीन्द्रियैरर्थान् यो न द्वेष्टि न हृष्यति ।
विष्णोर्मायामिमां पश्यन् स वै भागवतोत्तमः ॥ ४८ ॥
विष्णोर्मायां विष्ण्विच्छाधीनाम् ।
‘विष्णोरिच्छानुसार्यैतज्ज्ञात्वा योग्यान्न चाधिकम् ।
हृष्यति द्वेष्टि वा यस्तु स वै भागवतोत्तमः’’॥ इति ॥
‘सतां वृद्धिकरो धर्मस्त्वसतां ह्रासकारकः ।
अयं तु निश्चितो धर्मो ह्यधर्मोऽन्यो विनिश्चितः ॥
हर्षः सत्सु तथाऽसत्सु धर्मो धर्मविपर्ययः ।
तेषां वृद्धौ तथा हानौ सर्वं ज्ञेयमशेषतः ॥
एतदर्थं च धर्माणां मर्यादा वैदिकादिका ।
मूलधर्मविरुद्धा तु सा न ग््र•ह्या कथञ्चन’’॥ इति च ॥ ४८ ॥
देहेन्द्रियप्राणमनोधियां यो जन्माप्ययक्षुद्भयतर्षकृच्छ्रैः ।
संसारधर्मैरविमुह्यमानः स्मृत्या हरेर्भागवतप्रधानः ॥ ४९ ॥
‘देहेन्द्रियप्राणधियां त्रिधैव त्वभिमानिनः ।
तत्रोत्तमा देवतास्ताः सर्वदोषविवर्जिताः ॥
गुणैः सर्वैः सुसम्पन्ना विरिञ्चादोत्तरोत्तरम् ।
मध्यमा गुणदोषेता असुरा अवमा मताः ॥
ते सर्वे दोषसंयुक्ता आचित्तादुत्तरोत्तरम् ।
तेभ्योऽन्यो मानुषो जीवस्ताभ्यां देवासुरावपि ॥
जीवाभिमानिनश्चैव त्रिविधाः सम्प्रकीर्तिताः ।
जीवमान्युत्तमो ब््राह्मा मध्यमः स्वयमेव तु ॥
अधमः कलिरुद्दिष्टस्तत्र मध्यमनीचयोः ।
मृतिजन्मक्षुधादुःखप्रभृत्यखिलमेव तु ॥
नोत्तमस्य तु जीवस्य देहादेश्च कथञ्चन ।
जन्मादिकृतदुःखं तु देहमान्यसुरस्य ह ॥
सुप्त्याद्यप्ययजं दुःखमसुरेन्द्रियमानिनः ।
क्षुन्निमित्तं तु यद्दुःखं प्राणमान्यसुरस्य तत् ॥
भयतर्षादिजं दुःखं मनोमान्यसुरस्य च ।
केवलं त्वान्तरं दुःखं बुद्धिमान्यसुरस्य तत् ॥
नीचोऽस्मीति तु यद्दुःखमहंमान्यसुरस्य तत् ।
अतीतादिस्मृतेर्दुःखं चित्तमान्यसुरस्य च ॥
जीवमान्यसुरस्य स्यात्सर्वं तत्समुदायतः ।
एवमेव सुखं देवेषूभयं मध्यमेषु च ॥
असुराणामधर्मस्य वृध्या सुखमपीष्यते ।
देवानां नैव केनापि दुःखं प्रीतिस्तु धर्मतः ॥
अधर्मोऽपि प्रीतये स्यादसुराणामधोगतेः ।
देवानां पुण्यपापाभ्यां सुखमेवोत्तरोत्तरम् ॥
तेषां दुःखादिकं किञ्चिदसुरावेशतो भवेत् ।
प्राणस्य नासुरावेश आखणाश्मसमो हि सः ॥
सम्पूर्णानुग््राहाद्विष्णोः प्राणः पूर्णगुणो मतः ।
असुराणां सुखाद्याश्च देवावेशादुदीरिताः ॥
स्वतस्तु निर्गुणाः सर्वे सर्वदोषात्मका मताः ।
विविच्यैवं जगत्सर्वं स्वात्मानं च पृथक्स्थितम् ॥
सर्वतश्च पृथक्सन्तं विष्णुं सर्वोत्तमोत्तमम् ।
जानन्ति ये भागवतास्त उक्ता उत्तमा इति’’॥ इति ब््राह्मतर्के ॥
देहेन्द्रिययोर्जन्माप्ययौ ॥ ४९ ॥
न यस्य स्वः पर इति चित्ते स्वात्मनि वाऽभिदा ।
सर्वभूतसमः शान्तः स वै भागवतोत्तमः ॥ ५२ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये एकादशस्कन्धे द्वितीयोऽध्यायः ॥
चित्ते विद्यमाने । स्वात्मनि केवलात्मभावे मोक्षे च । यस्य जीवपरयोर-भेदो नास्ति ।
‘न क्वापि जीवं विष्णुत्वे संसृतौ मोक्ष एव च ।
यः पश्यति सुरादींश्च यथोत्कर्षं प्रपश्यति ।
स सर्वभूतसमदृग्विष्णुं सर्वोत्तमं स्मरन्’’॥ इति हरिवंशेषु ॥
‘नैवं त्वयाऽनुमन्तव्यं दृष्टो जीवो मयेति ह ।
सर्वभूतगुणैर्युक्तं देवं त्वं ज्ञातुमर्हसि’’॥ इति च मोक्षधर्मेषु ॥
‘नैवं त्वयाऽनुमन्तव्यं जीवात्माहमिति क्वचित् ।
सर्वैर्गुणैः सुसम्पन्नं दैवं मां ज्ञातुमर्हसि’’॥ इति च वाराहे ॥ ५२ ॥
तृतीयोऽध्यायः
अन्तरिक्ष उवाच– एभिर्भूतानि भूतात्मा महाभूतैर्महाभुज । ससर्जोच्चावचान्यादौ स्वयमात्मप्रसिद्धये ॥ ३ ॥
आत्मप्रसिद्धये भूतानां भगवज्ज्ञानार्थम् ॥ ३ ॥
एवं सृष्ट्वा स भूतानि स्थविष्ठैः पञ्चधातुभिः ।
एकधा दशधाऽऽत्मानं विभजन् जुषते गुणान् ॥ ४ ॥
गुणैर्गुणान् स भुञ्जान आत्मप्रद्योतितैः प्रभुः ।
मन्यमान इदं सृष्टमात्मानमिह सज्जते ॥ ५ ॥
कर्माणि कर्मभिः कुर्वन् सनिमित्तानि देहभृत् ।
तत्तत्कर्मफलं गृह्णन् भ््रामतीह सुखेतरम् ॥ ६ ॥
एवं गुणान्भुञ्जानो भगवान् । तं सृष्टं मन्यमानो जीव इह सज्जते ।
‘शरीरे दोषहानेन गुणभोक्तारमीश्वरम् ।
शरीरस्थतया जीवं मन्यमानः पतत्यधः ।
तत्सृष्टा हि सदा जीवा देहादेर्जनिमत्त्वतः ।
नित्यानन्दैकदेहोऽसौ विष्णुस्तत्क्वैकताऽनयोः’’॥ इति च ॥ ४-६ ॥
इत्थं कर्मगतीर्गच्छन् बह्वभद्रावहः पुमान् ।
आभूतसंप्लवात् स्वर्गप्रलयावश्नुतेऽवशः ॥ ७॥
धातूपप्लव आसन्ने व्यक्तं द्रव्यगुणात्मकम् ।
अनादिनिधनः कालो ह्यव्यक्ताय विकर्षति ॥ ८ ॥
‘आभूतसम्प्लवाज्जन्म जीवेशत्वं विजानतः ।
ततः पतत्यधो यस्मादुत्थानं नैव तु क्वचित्’’॥ इति च ।
‘कालाख्यः कलनाद्विष्णुर्व्यक्तमव्यक्तगं नयन्’’। इति च ॥ ८ ॥
ततो विराजमुत्सृज्य वैराजः पुरुषो नृप ।
अव्यक्तं विशते सूक्ष्मं निरिन्धन इवानलः ॥ १२ ॥
वारिणा हृतगन्धा भूः सलिलत्वाय कल्पते ।
सलिलं तद् हृतरसं ज्योतिष्ट्वायोपकल्पते ॥ १३ ॥
हृतरूपं तु तमसा वायौ ज्योतिः प्रलीयते । हृतस्पर्शोऽवकाशेन वायुर्नभसि लीयते ॥ १४ ॥
अव्यक्तं विशतीत्युक्तवा तस्य विस्तारो वारिणा हृतगन्धेत्यादि ।
‘सङ्क्षेपविस्तराभ्यां तु कथयन्ति मनीषिणः ।
बहुवारस्मृतेस्तस्य फलबाहुल्यकारणात्’’॥ इति शब्दनिर्णये ॥
कालात्मना हृतगुणं नभ आत्मनि लीयते ।
इन्द्रियाणि मनो बुद्धिः सह वैकारिकैर्नृप ॥ १५ ॥
प्रविशन्ति ह्यहंकारं स्वगुणैरहमात्मनि ॥ १६ ॥
नभ आत्मनि लीयत इत्युक्त्वेन्द्रियाणीत्याद्यपि विस्ताराय ॥ आत्मनि बुद्धौ ॥ १५,१६ ॥
एषा माया भगवतः सर्गस्थित्यन्तकारिणी ।
त्रिवर्णा वर्णिताऽस्माभिः किं भूयः श्रोतुमिच्छसि ॥ १७ ॥
राजोवाच– यथैतामैश्वरीं मायां दुस्तरामकृतात्मभिः । तरन्त्यञ्जः स्थूलधियो महर्ष इदमुच्यताम् ॥ १८॥
‘त्रिवर्णा वरणादुक्ता त्रिगुणानां हरेर्मतिः ।
गुणात्मकत्वात्प्रकृतिस्त्रिवर्णेति प्रकीर्त्यते ।
तत्र तु प्रकृतिस्तार्या तारिका तु हरेर्मतिः ।
उभयं विष्णुमायोक्तं ज्ञातव्यमुभयं तथा’’॥ इति च ॥
‘बहूनां सहनिर्देश एकयाऽभिधयैव तु ।
तयैवाभिधया तेषां परामृश्यैकमुच्यते ।
तामेतामान्तरीं रीतिं विदुः शब्दविदो जनाः’’॥
इति च ॥ १७,१८ ॥
प्रबुद्ध उवाच– कर्माण्यारभमाणानां दुःखहत्यै सुखाय च । पश्येत् पाकविपर्यासं मिथुनीचारिणां नृणाम् ॥ १९ ॥
नित्यार्तिदेन वित्तेन दुर्लभेनात्ममृत्युना ।
गृहापत्याप्तपशुभिः का प्रीतिः साधितैश्चलैः ॥ २० ॥
एवं लोकं परं विद्यान्नश्वरं कर्मनिर्मितम् ।
अतुल्यातिशयध्वंसाद् यथा मण्डलवर्तिनाम् ॥ २१ ॥
तस्माद् गुरुं प्रपद्येत जिज्ञासुः श्रेय उत्तमम् ।
शाब्दे परे च निष्णातं ब््राह्मण्युपशमाश्रयम् ॥ २२ ॥
तत्र भागवतान् धर्मान् शिक्षेद् गुर्वात्मदैवतः ।
अमाययाऽनुवृत्त्या च तुष्येदात्माऽऽत्मदो हरिः ॥ २३ ॥
मण्डलवर्तिनः युद्धरङ्गस्थाः ॥
‘देवाः सजाया मुच्यन्ते मानुषा उभयात्मकाः ।
विजाया एव योगेशास्तेषां या यैव योग्यता ।
तथा तथैव मुच्यन्ते नान्यथा तु कथञ्चन’’॥ इति संदृश्ये ॥१९-२३॥
सर्वतो मनसोऽसङ्गमादौ सङ्गं च साधुषु ।
दयां मैत्रीं प्रश्रयं च भूतेष्वद्धा यथोचितम् ॥ २४ ॥
‘सन्तस्तु त्रिविधाः प्रोक्ता उत्तमा मध्यमाधमाः ।
उत्तमा देवतास्तत्र ऋष्याद्या मध्यमा मताः ॥
अधमा मानुषोत्कृष्टास्ते चापि त्रिविधा मताः ।
तत्राधमेषु येषां तु सङ्गो विघ्नाय वै भवेत् ॥
तेषामुत्तमसङ्गस्य तेषां सङ्गं परित्यजेत् ।
आदौ तु तेषामपि च सङ्ग उत्तमसङ्गतेः ॥
साधनत्वान्नतु त्याज्यो यदि त्यक्तुं न शक्यते ।
तदा तेऽपि तथा नेया यथा विघ्नो न वै भवेत् ॥
तदुच्चसङ्गतेः क्वापि तदा दोषो न जायते ।
प्रयोजनाय तेषां तु सङ्गः सर्वात्मनेष्यते ॥
सर्वथा चैव देवेषु सङ्गो मुनिगणेषु च ।
भाव्यो हि तं विना नैव पुरुषार्थः क्वचिद्भवेत् ॥
विशेषतः स्वोत्तमेषु विना सङ्गं न मुच्यते ।
स्वनीचेषु तु देवेषु विना सङ्गं न पूर्यते ॥
तस्मात्सत्सूत्तमेष्वेषु सङ्गः कार्यो विशेषतः ।
अनाद्यनन्तकालेषु न च हाप्यः कथञ्चन ॥
सतां तदुत्तमेशेशे किमु विष्णौ परात्परे’’॥ इति गारुडे ॥
‘बह्वपेक्षो हि जिज्ञासुरतो देहादिवृत्तये ।
किञ्चित्सत्स्वपि सङ्गी स्यादशक्ये सति वर्तने ॥
कृतकृत्यस्त्यजेत्सङ्गं सदा गुरुसुरादिषु ।
सङ्गी स्यान्न हि तत्सङ्गं विना तु सुखभाग्भवेत् ॥
तस्मादनाद्यनन्तैव सक्तिर्गुरुसुरादिषु ।
अन्यत्र कृत्यापेक्षा स्यादिति सङ्गविनिर्णयः’’॥ इति भविष्यत्पर्वणि ॥ २४ ॥
श्रद्धां भागवते शास्त्रेऽनिन्दामन्यत्र चापि हि ।
मनोवाक्कायदण्डं च सत्यं शमदमावपि ॥ २७ ॥
‘श्रद्धा भागवते तन्त्रे वेदे भारतपञ्चमे ।
विष्णोरव्यवधानेन वक्तृत्वात्सर्वथा भवेत् ॥
कलाविद्यास्वनिन्दा च व्यवधानेन केशवे ।
प्रवेशाद्यतिभिः कार्या ह्यन्यथा नरकं व््राजेत् ॥
श्रन्नामास्तिक्यबुद्धिः स्यात्सा चैव द्विविधा मता ।
अत्रोक्तमस्तीत्येकाऽत्र ममात्रास्ति प्रयोजनम् ॥
इत्यन्या तत्र पूर्वा तु यतेः कार्या कलास्वपि ।
द्वितीया न तु कर्तव्या पञ्चरात्रविरोधिषु ॥
सदैव निन्दा सर्वैश्च ब््राह्मादिस्थावरान्तकैः ।
सम्यक्वार्या तद्विना च तमो यान्ति विनिश्चयात् ॥
कुर्वन्त्येव सुरास्तत्र तदन्येषां तमो भवेत् ।
पञ्चरात्रं च वेदाश्च मूलरामायणं तथा ॥
पुराणं भागवतं चैव भारतं च न भिद्यते ।
एतेष्वपि यथा विष्णोराधिक्यप्रतिपादनम् ॥
तद्भक्तानां च क्रमशः स एवार्थो न चापरः ।
अन्यथा दृश्यमानं तु मोहायैव विनिर्दिशेत् ॥
तस्मात्सर्वेषु शास्त्रेषु विष्णोराधिक्यमेव तु ।
क्रमेण च तदीयानां प्रतिपाद्यं न चापरम्’’॥ इति ब््राह्माण्डे ।
‘अन्धन्तमः प्रविशन्ति येऽविद्यामुपासते ।
ततो भूय इव ते तमो य उ विद्याया रताः’’॥ इति च ।
‘गृहिणोऽप्यल्पबोधस्य न कलासु प्रयोजनम् ।
आवर्तयेद्वेदतन्त्रं मुख्योक्तो हरिरत्र हि’’॥ इति हरिवंशेषु ॥ २७ ॥
एवं कृष्णात्मनाथेषु मनुष्येषु च सौहृदम् ।
परिचर्यां चोभयत्र महत्सु नृषु साधुषु ॥ ३० ॥
कृष्णात्मनाथेषु मनुष्येष्वपि सौहृदं किमु देवेषु महत्सु देवादिषु ॥ ३० ॥
पिप्पलायन उवाच– स्थित्युद्भवप्रलयहेतुरहेतुरस्य यः स्वप्नजागरसुषुप्तिषु सन् बहिश्च । देहेन्द्रियासुहृदयानि चरन्ति येन सञ्जीवितानि तदवैहि परं नरेन्द्र ॥ ३६ ॥
ओतुः स्वस्य हेतुरन्यो नास्ति । बहिः प्रलये मुक्तौ च ॥ ३६ ॥
नैनं मनो विशति वागुत चक्षुरात्मा प्राणेन्द्रियाणि च यथाऽनलमर्चिषः स्वाः । शब्दोऽप्यबोधकनिषेधतयाऽऽत्ममूल- मर्थोक्तमाह यदृते न निषेध्यसिद्धिः ॥ ३७ ॥
‘ब््राह्माद्या यं न जानन्ति करणाद्यभिमानिनः ।
जानन्त्यनुग््राहाच्चास्य प्रधानाग्निं यथाऽर्चिषः ॥
अग्निपुत्रा नमस्तस्मै यमाह श्रीश्च न स्फुटम् ।
वेदरूपा परं देवं वैलक्षण्यात्समस्तशः ॥
आनन्दो नेदृशानन्द इत्युक्ते लोकतः परम् ।
प्रतिभाति न चाऽभाति यथावद्दर्शनं विना’’॥ इति ब््राह्मतर्के ।
बोधकः परमेश्वरः । ईदृशानन्दो न भवतीति निषेधवचनार्थ एव न सिध्यति विलक्षणानन्दाभाव इत्यर्थतः सिद्धिः ॥ ३७ ॥
सत्त्वं रजस्तम इति त्रिवृदेकमादौ सूत्रं महानहमिति प्रवदन्ति जीवम् । ज्ञानक्रियार्थफलरूपतयोरुशक्ति ब््राह्मैव भाति सदसच्च तयोः परं यत् ॥ ३८ ॥
‘त्रिगुणात्मकं प्रधानं च रजः सत्वं तमस्तथा ।
प्राणो महानहङ्कारो जीवास्तदभिमानिनः ॥
ज्ञानात्मकानीन्द्रियाणि तथा कर्मात्मकानि च ।
शब्दाद्यर्थाः सुखं दुःखमिति प्रोक्तं द्विधा फलम् ॥
एतत्सर्वं हरे रूपमित्याहुर्ज्ञानदुर्बलाः ।
स एव बहुशक्तित्वाद्भाति चैषां तथा तथा ॥
एवं कारणकार्याख्यं समस्तं हरिमेव तु ।
केचित्पश्यन्ति च व्यस्तं केचिदाहुरपण्डिताः ॥
एवं कारणकार्येभ्यः परमानन्दरूपिणम् ।
अज्ञानाद्बहुधा प्राहुरेकं सन्तं सुदुर्जनाः ॥
रूप्यत्वात्तद्वशत्वाच्च तद्रूपं चैतदीर्यते ।
न तु तस्य स्वरूपत्वान्निर्दोषानन्दरूपिणः ॥
कथं जडाजडैक्यं स्यात्कुतः पूर्णाल्पमोदयोः ।
पूर्णाल्पज्ञानयोश्चैव पूर्णशक्त्यल्पशक्तयोः ॥
निर्दुःखदुःखान्वितयोः स्वतन्त्रपरतन्त्रयोः ।
अतः सर्वगुणैर्युक्तं सर्वदोषविवर्जितम् ॥
अन्याभेदेन विज्ञाय तम एव प्रपद्यते ।
निष्कृष्टं सर्वतो विष्णुं सर्वतश्च विलक्षणम् ॥
ज्ञात्वा पूर्णगुणं यान्ति मुक्तिं नास्त्यत्र संशयः’’॥ इति तन्त्रभागवते ॥
‘अहं हि जीवसञ्ज्ञो वै मयि जीवः सनातनः ।
मैवं त्वयाऽनुमन्तव्यं दृष्टो जीवो मयेति ह ।
अहं श्रेयो विधास्यामि यथाधीकारमीश्वरः’‘इति मोक्षधर्मेषु ॥३८॥
नासौ जजान न मरिष्यति नैधतेऽसौ न क्षीयते स च न विध्यति चारिणा हि । सर्वत्र शश्वदनपाय्युपलब्धिमात्रं प्राणो यथेन्द्रियबलेन विकल्पितं सत् ॥ ३९ ॥
‘यथेन्द्रियगतः प्राणस्तेषां शक्त्या विकल्प्यते ।
दृष्टिदः श्रुतिदश्चेति मतिदो ज्ञानदस्तथा ॥
इत्यादिभेदतो वाच्य एक एव महाबलः ।
दृष्ट्यादिशक्तिस्तस्यैव ततो नान्यस्य कस्यचित् ॥
एवं सद्रूपकं ब््राह्म तत्तच्छक्त्या विकल्प्यते ।
एकमेव महाशक्ति प्राणस्यापि बलप्रदम्’’॥ इति हरिवंशेषु ॥ ३९ ॥
अण्डेषु पेशिषु तरुष्ववनिस्थितेषु प्राणेन जीव उपधावति तत्र तत्र । छन्ने मतीन्द्रियगुणेऽहमि च प्रसुप्ते कूटस्थ आस यमृते तदनुस्मृतिर्न ॥ ४० ॥
‘पेशो जरायुरुद्दिष्टः सुवर्णं पेश उच्यते ।
मृदुपिण्डश्च पेशं स्यात्क्वचिद्भद्रमपीष्यते’’॥ इत्यभिधानम् ।
अवनिस्थितेषु स्वेदजेषु । भूस्वेदेन हि प्रायो जायन्ते । तदा कूटस्थे परमात्मन्यास जीवः । यं परमात्मानमृते सुप्त्यनुस्मृतिरेव न ।
‘देहाद्देहान्तरगतौ प्रविशेत्प्राणमेव तु ।
जीवः प्राणः परात्मानमेवं सुप्तावपि स्फुटम् ॥
तदन्या देवताः सर्वाः प्राणस्यैव वशे स्थिताः ।
ईषच्च सुप्तवद्यान्ति नैव मानुषजीववत् ॥
स्वर्गस्थानां न तु स्वापः प्रायो देहेऽपि नाज्ञता ।
मृतिसुप्तिप्रबोधादेर्नियन्ता हरिरेकराट् ॥
तमृते नैव चावस्था नावस्थावान्न च स्मृतिः ।
ततस्तु देवदेवेशः प्राणः प्राणेश्वरो हरिः ॥
न हरेरीशिता त्वन्यः स हि सर्वाधिको मतः’’॥ इति हरिवंशेषु ॥ ४० ॥
राजोवाच– एवं प्रश्नमृषीन् पूर्वमपृच्छं पितुरन्तिके । नाब्रुवन् ब्रह्मणः पुत्रास्तत्र कारणमुच्यताम् ॥ ४३ ॥॥
आविर्होत्र उवाच– कर्माकर्मविकर्मेति वेदवादो न लौकिकः । वेदस्य चेश्वरात्मत्वात् तत्र मुह्यन्ति सूरयः ॥ ४४ ॥
‘जानन्तोऽपि हि दुर्ज्ञेयः प्रश्नोऽयं ज्ञानिनामपि ।
इति वेदयितुं ब््राह्मपुत्रा नोचुर्निमेः पुरा’’॥ इति तन्त्रभागवते ॥
ईश्वरात्मत्वात् ईश्वरविषयत्वात् ॥ ४४ ॥
नाऽऽचरेद् यस्तु वेदोक्तं स्वयमज्ञोऽजितेन्द्रियः ।
विकर्मणा ह्यधर्मेण मृत्योर्मृत्युमुपैति सः ॥ ४६ ॥
वेदोक्तमेव कुर्वाणो निःसङ्गोऽर्पितमीश्वरे । नैष्कर्म्यां लभते सिद्धिं रोचनार्थं फलश्रुतिः ॥ ४७ ॥
अज्ञः सन्नाचरन् ना । विकर्मणा मृत्योर्मृत्युमुपैति । स एवेश्वरार्पितं कुर्वाणः सिद्धिं लभते ।
‘अज्ञात्वा कुर्वतः कर्म स्खलनात्पापकारणम् ।
तदेवार्पयतो विष्णोर्नैव पापाय तद्भवेत् ॥
मनोदोषविहीनस्य न तु दोषवतः क्वचित् ।
सत्सु केशवपूर्वेषु क्रमशो भक्तिहीनता ॥
असद्भक्तिस्तथा स्नेहो बहुमानमथापि वा ।
स्वोत्तमानां प््रिायत्यागादात्मप््रिायचिकीर्षया ॥
अधिकेष्वेव नीचोच्चभक्तिव्यत्यास एव वा ।
स्वोत्तमस्यात्मनश्चैव समस्नेहोऽथवा भवेत् ॥
कार्येषु बहुमाने वा स्वात्मनः समतापि वा ।
आधिक्ये किमु वक्तव्यमात्मनः शक्तिहापनम् । ।
शक्तस्याशक्तवत्कर्म मनोदोषा इतीरिताः’’॥ इति कर्मतन्त्रे ॥४६॥
लब्ध्वा चाव्यग््रामाचार्यं तेन सन्दर्शितागमः ।
महापुरुषमभ्यर्चेन्मूर्त्याऽभिमतयाऽऽत्मनः ॥ ४९ ॥
अव्यग््रात्वेनाचार्यं लब्ध्वा ।
‘परीक्ष्यैव गुरुः शिष्यं शिष्योऽपि गुरुमाव््राजेत् ।
अन्यथा नरकायैव प्रायश्चित्तं गुरोस्तथेऽति च ॥ ४९ ॥
अर्चादौ हृदये वापि यथालब्धोपचारकैः ।
द्रव्यक्षित्यात्मलिङ्गानि निष्पाद्य प्रोक्ष्य चासनम् ॥ ५१ ॥
‘द्रव्यलिङ्गं शिलाद्यं स्यादात्मलिङ्गं मनोमयम् ।
अथवा स्थण्डिलं चैव विष्णोर्लिङ्गं प्रकीर्तितम्’’॥ इति च ॥ ५१ ॥
आत्मानं तन्मयं ध्यायन् मूर्तिं सम्पूजयेद् हरेः ।
शेषमाधाय शिरसि स्वधाम््नयुद्वास्य सत्कृतम् ॥ ५५ ॥
तन्मयं तत्प्रधानम् ।
‘विष्णोर्भृत्योऽहमित्येव सदा स्याद्भगवन्मयः ।
नैवाहं विष्णुरस्मीति विष्णुः सर्वेश्वरो ह्यजः’‘इति च ॥ ५५ ॥
एवमग्न्यर्कतोयादावर्चयेद् हृदये च यः ।
यज्ञेश्वरं स्वमात्मानमचिरान्मुच्यते हि सः ॥ ५६ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये एकादशस्कन्धे तृतीयोऽध्यायः ॥
‘स्वादानात्स्वात्मनो व्याप्त्या विष्णुः स्वात्मेति कथ्यते ।
न तु जीवस्वरूपत्वात्स हि जीवेश्वरः प्रभुः’’॥ इति शब्दनिर्णये ॥ ५६ ॥
चतुर्थोऽध्यायः
भूतैर्यदा पञ्चभिरात्मसृष्टैः पुरं विराजं विरचय्य तस्मिन् ।
स्वांशेन विष्टः पुरुषाभिधानमवाप नारायण आदिदेवः ॥३॥
‘विष्णोस्तु पुरुषाख्यानि त्रीणि रूपाण्यतो विदुः ।
प्रथमं महतः स्रष्टृ द्वितीयं त्वण्डसंस्थितम् ।
तृतीयं देहिनां देहे तानि ज्ञात्वा विमुच्यते’’॥ इति माहात्म्ये ॥३॥
यत्काय एष भुवनत्रयसन्निवेशो यस्येन्द्रियैस्तनुभृतामुभयेन्द्रियाणि । ज्ञानांशकेन विशतो बलमोज ईहा सत्त्वादिभिः स्थितिलयोद्भव आदिकर्ता ॥ ४ ॥
यत्काये ॥ ४ ॥
आदावभूच्छतधृती रजसाऽस्य सर्गे विष्णुः स्थितौ क्रतुपतिर्द्विजधर्मसेतुः । रुद्रोऽप्ययाय तमसा पुरुषः स आद्य इत्युद्भवस्थितिलयाः सततं प्रजासु ॥ ५ ॥
‘ब््राह्मणिस्थोऽसृजद्विष्णुः स्थित्वा रुद्रे त्वभक्षयत् ।
पृथक्स्थित्वा जगत्पाति तद्ब्रह्माद्याह्वयो हरिः’’॥ इति ब््र•ह्मे ॥
रजसा तमसा च ब््राह्मरुद्रदेहसृष्टेः । रागक्रोधकारणत्वाच्च ॥ ५ ॥
धर्मस्य दक्षदुहितर्यजनि स्वमूर्त्या नारायणो नर इति स्वतपःप्रभावः । नैष्कर्म्यलक्षणमुवाच चचार योगं योऽद्यापि चास्त ऋषिवर्यनिषेविताङ्घ्रिः ॥ ६ ॥
स्वविषयज्ञानरूपः प्रभावरूपश्च ॥ ६ ॥
इन्द्रोऽपि नाक्यसुखमेष जिघृक्षतीति कामं न्ययुङ्क्त सगणं स बदर्युपाख्यम् । गत्वाऽप्सरोगणवसन्तसुमन्दवातैः स्त्रीप््रोक्षणेषुभिरविध्यदतन्महिज्ञः ॥ ७ ॥
‘ज्ञानरूपानपि सुरान्विना प्राणं क्वचित्परे ।
आविशन्ति ह्यतस्तेषामज्ञानादि न तु स्वतः’’॥ इति देवतत्त्वे ।
‘अथैनमेव नाऽप्नोद्योऽयं मध्यमः प्राणः । एवमेता देवताः पाप्मना विद्धाः तं हासुरा ऋत्वा विदध्वसुर्यथाऽश्मानमाखणमृत्वा विध्वंसेतैवं हैव विध्वंस-माना विष्वञ्चो विनेशुः’’॥
‘सा वा एषा देवतैतासां देवतानां पाप्मानं मृत्युमपहत्याथैनां मृत्युमत्यवहत सा यदा मृत्युमत्यमुच्यत सोऽग्निरभवत्’’॥ इत्यादिश्रुतिश्च ॥ ७ ॥
त्वां सुन्वतां सुरकृता बहवोऽन्तरायाः कस्तान् विलंघ्य व््राजतात् परमं पदं ते । नान्यस्य बर्हिषि बलिं ददतः स्वभागं धत्ते पदं त्वमविता यदि विघ्नमूर्धि्न ॥ १० ॥
स्वभागं बलिं ददतो विघ्नमूर्धि्न यदि भवान्पदं धत्ते । तर्हि नान्यस्य बलिः॥ १० ॥
हंसस्वरूप्यवददच्युत आत्मयोगं दत्तः कुमार ऋषभो भगवान् पिता नः । विष्णुः शिवाय जगतां कलयाऽवतीर्ण- स्तेनाहृता मधुभिदा श्रुतयो हयास्ये ॥ १७ ॥
‘कुमारनामा तु हरिबर्््राह्मचारिवपुः स्वयम् ।
सनत्कुमाराय परं प्रोवाच जगदीश्वरः’‘इति स्कान्दे ॥
‘विष्णोः सनत्कुमाराख्याच्छुश्रुवुर्ज्ञानमुत्तमम् ।
सनत्कुमारप्रमुखा योगेशाः परमेश्वरात्’’॥ इति प्रकाशसंहितायाम् ॥ १७ ॥
संस्तुन्वतोऽब्धिपतितांच्छ्रमणान् ऋषींश्च शक्रं च वृत्रवधतस्तमसि प्रविष्टम् । देवस्त्रियोऽसुरगृहे पिहिता अनाथा जघ्नेऽसुरेन्द्रमभयाय सतां नृसिंहे ॥ १९ ॥
‘सुपर्णा ऋषयो व्यासं नाथमाना ययुः सदा ।
ध्वान्तं निवारयास्माकं मुमुग्धीति च वादिनः’’॥ इति व्यासतन्त्रे ॥
‘स्मरणात्तु नृसिंहस्य शक्रो मुक्तो बृहद्वधात् ।
हिरण्यकहृताश्चापि तथैवाप्सरसां गणाः’’॥ इति भयभञ्जने ॥ १९ ॥
देवासुरे युधि स दैत्यपतीन् सुरार्थे हत्वाऽन्तरेषु भवनान्यदधात् कलाभिः । भूत्वाऽथ वामन इमामहरद् बलेः क्ष्मां याञ्चाछलेन समदाददितेः सुतेभ्यः ॥ २० ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये एकादशस्कन्धे चतुर्थोऽध्यायः ॥
‘उपेन्द्ररूपी भगवान्प्रतिमन्वन्तरं प्रभुः ।
असुरान् हन्ति नियतं श्राद्धदेव्ये च वामनः’’॥ इति वामने ॥२०॥
पञ्चमोऽध्यायः
वदन्ति तेऽन्योन्यमुपासितश्रियो गृहेषु मैथुन्यपरेषु चाशिषः । यजन्त्यसृष्टान्नविधानदक्षिणा वृत्त्यै परं घ्नन्ति पशूनतद्विदः ॥ ८ ॥
‘ये तु विष्णुमवज्ञाय श्रियमेव ह्युपासते ।
उपेक्ष्य वा हरिं ते तु भूत्वा याज्याः पतन्त्यधः’’॥ इति प्रवृत्तिसंहितायाम् ॥ ८ ॥
लोके व्यवायामिषमद्यसेवा नित्यास्तु जन्तोर्न हि तत्र चोदना । व्यवस्थितिस्तेषु विहाय यज्ञान् सुराग््राहैरासुरवृत्तिरिष्टा ॥ ११ ॥
धनं हि धर्मैकफलं यतोऽस्य ज्ञानं सविज्ञानमनुप्रशान्तिः । गृहेषु युञ्जन्ति कलेवरस्य मृत्युं न पश्यन्ति दुरन्तवीर्यम् ॥ १२ ॥
यद् घ््र•णभक्षो विहितः सुराया- स्तथा पशोरालभनं न हिंसा । एवं व्यवायः प्रजया न रत्यै इमं विशुद्धं न विदुः स्वधर्मम् ॥ १३ ॥
‘व्यवायामिषमद्यानि हरेः पूजार्थमेव तु ।
वामदेव्यो नाम यज्ञो व्यवायो हरिपूजनम् ॥
पितृयज्ञो देवयज्ञो मांसेन हरिपूजनम् ।
व्यवाययज्ञे मद्यं तु सोमात्मकतयेष्यते ॥
क्षत्रियादेर्न विप्राणां विप्रो दोषेण लिप्यते ।
अरागतः प्रवृत्तिः स्याद्रागो दोषस्य कारणम् ॥
घ््र•णभक्षोऽथवा यज्ञे दैवे सर्वस्य चेष्यते ।
पैष्टमद्यस्य माध्व्यादि क्षत्रियस्य न दुष्यति ॥
दैवे रत्यैव च प्रीतिर्विष्णोः पुत्रात्तु मानुषे ।
तस्माद्विहितमात्रेषु रागं मुक्तवा यथाविधि ॥
समाहितो हरिं स्मृत्वा वर्तन् याजी हरेर्भवेत्’’॥ इति क्रियाविधाने ।
यज्ञान्विहाय न चोदना ॥
‘यज्ञेष्वालम्भनं प्रोक्तं देवतोद्देशतः पशोः ।
हिंसा नाम तदन्यत्र तस्मात्तां नाचरेद्वुधः ॥
यतो यज्ञे मृता ऊर्ध्वं यान्ति दैवे च पैतृके ।
अतो लाभादालभनं स्वर्गस्य न तु मारणम्’’॥ इति च ॥११-१३॥
द्विषन्तः परकायेषु स्वात्मानं हरिमीश्वरम् ।
मृतके सानुबन्धेऽस्मिन् बद्धस्नेहाः पतन्त्यधः ॥ १५ ॥
स्वात्मानं स्वस्मिन्नाप्तं च ।
‘आप्तत्वादात्मशब्दोक्तं स्वस्मिन्नपि परेषु च ।
जीवादन्यं न पश्यन्ति श्रुत्वैवं विद्विषन्ति च ॥
एतांस्त्वमासुरान्विद्धि लक्षणैः पुरुषाधमान्’’॥ इति हरिवंशेषु ॥ १५ ॥
एवं युगानुरूपोऽसौ भगवान् युगवर्तिभिः ।
मनुजैरिज्यते राजन् श्रेयसामीश्वरो हरिः ॥ ३५ ॥
‘ध््राुवं तयैव मुच्यन्ते यां मूर्तिं प्रदिशेद्गुरुः ।
शिष्याणां योग्यताऽभिज्ञो विघ्नहानिस्तु तद्युगे ॥
अवतीर्णहरेर्मूर्त्या तत्पूर्वयुगजेन च ।
नृसिंहमूर्त्या च तथा यां चान्यां प्रदिशेद्गुरुः’’॥ इति स्वाभाव्ये ॥ ३५ ॥
देवर्षिभूताप्तनृणां पितॄणां न किङ्करो नायमृणी च राजन् । सर्वात्मना यः शरणं शरण्यं गतो मुकुन्दं परिचर्यया च ॥ ४२ ॥
स्वपादमूलं भजतः प््रिायस्य त्यक्तान्यभावस्य हरिः परेशः । विकर्म यच्चोत्पतितं कथञ्चिद् धुनोति सर्वं हृदि सन्निविष्टः ॥ ४३ ॥
‘सर्वात्मना हरेर्भक्ता देवेशा एव केवलम् ।
देवास्तु सर्वथा भक्ता भक्ता एवेतरे स्मृताः ॥
हरिभक्तयाऽधिकेष्वेव किङ्करश्चाप्यृणी तथा ।
हरिभक्तो नेतरेषां वासुदेवव्यपाश्रयात् ॥
द्विधैव स्वोत्तमर्णानि दातव्यानीतराणि च ।
दातव्येभ्यो विमुच्येत नेतरेभ्यः कथञ्चन ॥
कथं देवानुपकृतो मनो मोक्षेऽपि वर्तयेत् ।
बिम्बत्वात्तदधीनं हि स्वरूपं सर्वशो यतः’’॥ इति जीवनिर्णये ॥
‘उदकैश्च नमस्कारैः स्तुतिभिर्मनसा तथा ।
यतिभिश्चापि सम्पूज्या देवा मोक्षमियासुभिः ॥
मध्ये विष्णुमनुस्मृत्य नान्यथा तु कथञ्चन’’॥ इति समयाचारे ॥
‘प्राधान्येन हरिर्ध्येयस्तत्सम्बन्धात्सुरादयः ।
ध्येया नान्यत्क्वचिध्द्यायेद्धरावनुपयोगि यत्’’॥
इति हरिसंहितायाम् ॥ ४२,४३ ॥
वैरेण यं नृपतयः शिशुपालपौण्ड्र- साल्वादयो गतिविलासविलोकनाद्यैः । ध्यायन्त आकृतधियः शयनासनादौ तत्साम्यमापुरनुरक्तधियः पुनः किम् ॥ ४९ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये एकादशस्कन्धे पञ्चमोऽध्यायः ॥
‘पौण्ड्रकादिषु दैत्येषु सुरांशाः सन्ति सर्वशः ।
बहुमानफलं विष्णोस्ते यान्त्यादाय सद्गतिम् ॥
विद्वेषस्य फलं यत्तु तदादायासुरास्तमः ।
यान्त्यतो नैव विद्वेषो विष्णोः कार्यः कथञ्चन’’॥
इत्यंशविवेके ॥ ४९ ॥
षष्ठोऽध्यायः
त्वं मायया त्रिगुणयाऽऽत्मनि दुर्विभाव्यं व्यक्तं सृजस्यवसि लुम्पसि तद्गुणस्थः । नैतैर्भवानजित कर्मभिरज्यते वै यः स्वे सुखेऽव्यवहितेऽभिरतोऽनवद्यः ॥ ८॥
स्यान्नस्तवाङ्घ्रिरशुभाशयधूमकेतुः क्षेमाय यो मुनिभिरार्द्रहृदोह्यमानः । यः सात्विकैः समविभूतिभिरात्मविद्भि- र्व्यूह्यार्चितः सवनशः समविक्रमैश्च ॥ ८,१० ॥
यः प्रकाशरूपः ॥ १० ॥
पर्युष्टया पतितया वनमालयेयं संस्पर्धिनी भगवती प्रतिपक्षवच्छ्रीः । यः सुप्रणीतममुयाऽर्हणमाददानो भूयात् सदाऽङ्घ्रिरशुभाशयधूमकेतुः ॥ १२ ॥
‘अस्पर्धिनी स्पर्धिनीव श्रीरास्ते वनमालया ।
न हि स्पर्धादयो दोषाः संविद्रूपां स्पृशन्ति ताम्’’॥ इति वामने ॥ १२ ॥
नस्योतगाव इव यस्य वशे भवन्ति देवाश्च यस्तनुभृदायुषि रज्यमानाः । कालस्य ते प्रकृतिपूरुषयोः परस्य शं नस्तनोतु चरणः पुरुषोत्तमस्य ॥ १४ ॥
तनुभृदायुषि सम्बद्धः अश्चेति तनुभृदायुषि रज्यमानाः ।
‘ब््राह्मणा संपरित्यक्तो मृत इत्युच्यते नरः’’। इति भारते ॥ १४ ॥
अस्यासि हेतुरुदयस्थितिसंयमानां अव्यक्तजीवमहतामपि कालमात्रः । सोऽयं त्रिणाभिरखिलापचये प्रवृत्तः कालो गभीररय उत्तमपूरुषस्त्वम् ॥ १५ ॥
कालमात्रः कालनिर्माता ज्ञाता च । सृष्टिलयाद्यर्थम् । नित्यत्वेन च । अव्यक्तस्यापि स्रष्टृत्वात्काल एवं भूतः तस्मादप्युत्तमस्त्वम् ।
‘कालाज्जीवात्तथाऽव्यक्तान्महतश्चोत्तमो यतः ।
उत्तमः पुरुषस्तस्माद्भगवान्विष्णुरच्युतः’’॥ इति ॥ १५ ॥
त्वत्तः प्रधानमधिकृत्य पुमान् स्ववीर्यं धत्ते महान्तमिव गर्भममोघवीर्यः । सोऽयं त्वयाऽनुगत आत्मन आण्डकोशं हैमं ससर्ज बहिरावरणैरुपेतम् ॥ १६ ॥
‘नारायणाख्यः परमः शेते लक्ष्म्याऽन्वितो लये ।
स एव पुरुषाख्यं तु द्वितीयं रूपमात्मनः ।
कृत्वा रमायां पुरुषनामानं तु चतुर्मुखम् ॥
प्रधानाख्यां च गायत्रीं ससर्ज पुरुषात्मकः ।
चतुर्मुखः स पुरुषो महत्तत्त्वाभिधं पुनः ॥
प्रधाननाम््नयां गायत्र्यां ससर्जात्मानमेव तु ।
श्रद्धाभिधां च गायत्रीं ताभ्यां शेषोऽन्वजायत’’॥ इत्यादि सृष्टिविक्षेपे ॥ १६ ॥
तत् तस्थुषश्च जगतश्च भवानधीशो यन्माययोत्थगुणविक्रिययोपनीतान् । अर्थान् जुषन्नपि हृषीकपते न लिप्तो येऽन्ये स्वतः परिहृतानपि बिभ्यति स्म ॥ १७ ॥
येऽन्ये ज्ञानिनः स्वतः परिहृतान्विषयान् बिभ्यति ॥ १७ ॥
बिभ््रात् तवामृतकथोदवहास्त्रिलोक्याः पादावनेजसरितः शमलानि हन्तुम् । आनुश्रवं श्रुतिभिरङ्घ्रिजमङ्गसङ्गै- स्तीर्थद्वयं शुचिषदस्तदुपस्पृशन्ति ॥ १९ ॥
सर्वं बिभ््रातस्तव ॥ १९ ॥
यदुवंशेऽवतीर्णस्य भवतः पुरुषोत्तम ।
शरच्छतं व्यतीयाय पञ्चविंशाधिकं प्रभो ॥ २५ ॥
वत्सराणां शतं चैव ऋतूनां पञ्चविंशकम् ।
अवतीर्णस्य कृष्णस्य यदा प्रागात्तदा हरिम् ।
स्वस्थानगमनापेक्षी ब््राह्मा तुष्टाव सामरः ॥
‘संवत्सरद्वयं चैव पश्चात्स्थित्वा जनार्दनः ।
अभिपेदे परं स्थानं चातुर्मास्याधिकं पुनः’’॥ इति भविष्यत्पुराणे ॥ २५ ॥
तदिदं यादवकुलं वीर्यशौर्यश्रियोद्धतम् ।
लोकं जिघृक्षत्यूर्ध्वं मे वेलामिव महार्णवः ॥ ३० ॥
यद्यसंहृत्य दृप्तानां यदूनां विपुलं कुलम् ।
गन्तास्म्यनेन लोकोऽयमुल्बणेन विनंक्ष्यति ॥ ३१ ॥
‘सतामपि कलौ प्राप्ते विकारो मनसो भवेत् ।
तस्माद्यदूंश्च संजह्ने नैते स्युः पापिनस्त्विति ॥
पुनर्लोकविवृद्ध्यर्थमौत्तरेयादिकान्हरिः ।
आविश्य रक्षामकरोज्जगतः पुरुषोत्तमः ॥
स्वात्मनः सह यानेन पुरुषार्थोऽधिको भवेत् ।
इत्यनुग््राहबुध्द्या च संजह्रे स्वकुलं विभुः’’॥ इति च ॥ ३०,३१ ॥
वाताशना महर्षयः श्रमणा ऊर्ध्वमन्थिनः ।
ब््राह्माख्यं धाम ते यान्ति शान्ताः संन्यासिनोऽमलाः ॥४८॥
वयं त्विह महायोगिन् भ््रामन्तः कर्मवर्त्मसु । त्वद्वार्तया तरिष्यामस्तावकैर्दुस्तरं तमः ॥ ४९ ॥
स्मरन्तः कीर्तयन्तस्ते कृतानि गतितानि च ।
गत्युत्स्मितेक्षणोत्केलि यन्नृलोकविडम्बनम् ॥ ५० ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये एकादशस्कन्धे षष्ठोऽध्यायः ॥
‘आत्मनोऽवमतां ब््राूयुरुत्तमा अपि सर्वशः ।
कदाचिदेव स्वगुणान्स्निग्धेष्वेव हि साधवः’’॥ इति नारदीये ॥
सप्तमोऽध्यायः
यदिदं मनसा वाचा चक्षुर्भ्यां श्रवणादिभिः ।
नश्वरं गृह्यमाणं च विद्धि मायां मनोमयीम् ॥ ७ ॥
विद्धि मायां मनोमयीम् । मन्मनःप्रधानप्रकृतिनिर्मिताम् ।
‘प्रकृतिः सा परा मह्यं रोदसी लोकधारिणी ।
ऋता सत्याऽमराऽजय्या लोकानामात्मसञ्ज्ञिता’’॥ इति मोक्षधर्मेषु ॥ ७ ॥
पुंसोऽयुक्तस्य नानार्थे भ््रामः स गुणदोषकृत् ।
कर्माकर्मविकर्मेति गुणदोषधियो भिदा ॥ ८ ॥
‘स्वर्गाद्याश्च गुणाः सर्वे दोषाः सर्वे तथैव च ।
आत्मनः कर्तृताभ््र•न्त्या जायन्ते नात्र संशयः ॥
परमात्मानमेवैकं कर्तारं वेत्ति यः पुमान् ।
स मुच्यतेऽस्मात् संसारात्परमात्मानमेति च’’॥ इति भारते ॥
इदं मया क्रियते, इदं मया न क्रियते, इदं मया विपरीतं क्रियत इति बुद्धिभेदो रजस्तमोगुणनिमित्तो भ््रामः । सर्वं हि परमेश्वरः करोति ॥८॥
तस्माद् युक्तेन्द्रियग््र•मो युक्तचित्त इदं जगत् ।
आत्मनीक्षस्व विततमात्मानं मय्यधीश्वरे ॥ ९ ॥
‘आत्मशब्दोदितो ब््राह्मा परमात्माऽभिधो ह्यहम् ।
सर्वं ब््राह्मणि वीक्षेत मयि ब््राह्माणमेव च’’॥ इति कालसंहितायाम् ॥ ९ ॥
ज्ञानविज्ञानसंयुक्त आत्मभूतः शरीरिणाम् ।
आत्मानुभवतुष्टात्मा नान्तरायैर्विहन्यते ॥ १० ॥
‘आत्मभूतः आत्मवद्भूतः ।
आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन’’॥ इति वचनात् ॥ १० ॥
दोषबुद्ध्योभयातीतो निषेधान्न निवर्तते ।
गुणबुद्ध्या च विहितं न करोति यथाऽर्भकः ॥ ११ ॥
सर्वभूतसुहृच्छान्तो ज्ञानविज्ञाननिश्चलः ।
पश्यन् मदात्मकं विश्वं न विपद्येत वै पुनः ॥ १२ ॥
‘कर्तृत्वमात्मनो यस्माज्ज्ञाननिष्ठो न मन्यते ।
अतोऽकुर्वन्नपि सदा दोषबुध्द्या न निन्दितम् ॥
गुणबुद्ध्या न विहितं किन्त्वीशप््रोरितोऽस्म्यहम् ।
स एव च मयि स्थित्वा निन्द्यानिन्द्ये करोत्यजः ॥
न मे दोषो न च गुणः कर्तृत्वाभावतः स्फुटम् ।
स्वतन्त्रत्वान्न चेशस्य येऽज्ञास्तेषु भवेदपि ॥
इति मत्वा निवर्तेत निन्द्यात्कुर्याद्गुणानपि’’॥ इति बोद्धव्ये ॥
‘अनित्या मे गुणा न स्युर्दोषा नैव कथञ्चन ।
इति मत्वा शुभं कुर्यान्निवर्तेदशुभादपि ॥
ज्ञानी त्वकर्तृतामानादीशकर्तृत्वनिश्चयात् ।
किन्तु पूर्णगुणायैव न तु दोषापनुत्तये ॥
न चाल्पगुणसिद्ध्यर्थं बालवत्कृतनिश्चयः’’॥ इति वैशारद्ये ॥
‘वैलक्षण्याद्धरेर्भिन्नं तत्तन्त्रत्वात्तदात्मकम् ।
इति विश्वं प्रपश्यन्ति ज्ञाननिष्ठा हरेः प््रिायाः’’॥ इति सार्वज्ञ्ये ॥ ११,१२ ॥
उद्धव उवाच– योगेश योगविन्यास योगात्मन् योगसम्भव । निःश्रेयसाय मे प्रोक्तस्त्यागः संन्यासलक्षणः ॥ १४ ॥
योगो देवादिषु तेन न्यस्त इति योगविन्यासः ।
‘ज्ञानं तु योगशब्दोक्तं युज्यतेऽनेन यत्सुखम् ।
क्वचिद्योग उपायः स्यात्क्वचिच्चित्तनिरोधनम्’’॥ इति दत्तात्रेययोगे ॥
अत्र ज्ञानमुपायश्च ॥ १४ ॥
सत्यस्य ते स्वदृश आत्मन आत्मनोऽन्यं वक्तारमीश विबुधेष्वपि नानुचक्षे । सर्वे विमोहितधियस्तव माययेमे ब््राह्मादयस्तनुभृतो बहिरर्थभावाः ॥ १७ ॥
अभगवत्स्वरूपत्वात्तनुभृत्त्वम् । बहिरर्थापेक्षयैव च तेषां मोहः । परमसुख-साधनादन्योऽर्थो बहिरर्थः ।
‘अशरीरः सदा विष्णुः पूर्णानन्दत्वतः सदा ।
इच्छा च क्रीडयैवास्य न फलाय यतो विभोः ॥
अतो बाह्यार्थकामोऽपि निष्काम इति कथ्यते ।
ब््राह्मा निरभिमानत्वाच्छरीर्यप्यशरीरवान् ॥
नित्यानन्दोपयोग्यन्यकामस्योज्झितितः सदा ।
बहिरर्थविनिर्मुक्तस्तथापि तनुधारणात् ॥
अमूढो मूढ इतिवदुच्यते च सरस्वती ।
रुद्राद्यास्तन्वभीमानाद्बहिरर्थयुजस्तथा ॥
सर्वेषां ब््राह्मपदवीयोग्यानां पूर्वमेव तु ।
अभावस्त्वपरोक्षस्य मोहो ज्ञानस्य भण्यते ॥
ब््राह्मणस्त्वंशरूपेषु भारत्या ज्ञानवर्जनम् ।
ब््राह्मगायत्रिभावे तु नांशावतरणं क्वचित् ॥
शतजन्मसु पूर्वं तु ज्ञानोदय उदीर्यते ।
आपरोक्ष्येण पारोक्ष्यात्पूर्णज्ञानं सदैव तु ॥
शतजन्मगतायाश्च आपरोक्ष्योज्झितिर्भवेत् ।
क्वचित्क्वचित्सरस्वत्यामंशावतरणेष्विति’’॥ इति शक्तिविवेके ॥
‘अशरीरो वायुरभ््रां विद्युत्स्तनयित्नुरशरीराणि वा एतानि’’॥ इति च श्रुतिः।
‘श्रुतिभिस्तनितत्वात्तु स्तनयित्नुर्हरिः स्मृतः ।
अभ््रां भूतानि भरणाच्छ्रीर्वायुर्भरतः स्मृतः ॥
विद्युत्तु भारती प्रोक्ता एत एवाशरीरिणः ।
व्यत्यासेनापि नाम स्यादेतेषां महतां सदा’’॥ इत्युभयनिरुक्ते ॥१७॥
तस्माद् भवन्तमनवद्यमनन्तपारं सर्वज्ञमीश्वरमखण्डविकुण्ठधिष्ण्यम् । निर्वेदधीरहरहर्वृजिनाभितप्तो नारायणं नरसखं शरणं प्रपद्ये ॥ १८ ॥
‘विष्णोर्वायोरनन्तस्य त्रिभिरंशैर्नरः स्मृतः ।
सेन्द्रैश्चतुर्भिः पार्थस्तु द्वाभ्यां तु बललक्ष्मणौ’’॥ इत्यंशविवेके ॥१८॥
श्री भगवानुवाच– प्रायेण मनुजा लोके लोकतत्वविचक्षणाः । समुद्धरन्ति ह्यात्मानमात्मनैवाशुभाशयात् ॥ १९ ॥
लोके तत्त्वे च विचक्षणाः ।
‘पारोक्ष्येणैव तत्त्वं तु लोकं चापि विदन्ति ये ।
तेऽपि सत्स्नेहनिर्मुक्तास्तमो यान्ति विनिश्चयात् ॥
आपरोक्ष्यान्न च ज्ञानं तेषामुत्पद्यते क्वचित्’’॥ इति षाड्गुण्ये ॥१९॥
त्वं हि नः पृच्छतां ब््राह्मन्नात्मन्यानन्दकारणम् ।
ब््राूहि स्पर्शविहीनस्य भवतः केवलात्मनः ॥ ३० ॥
केवलात्मनः शरीरमात्रपरिग््राहस्य ॥ ३० ॥
शश्वत् परार्थसर्वेहां परार्थैकान्तसम्भवम् ।
साधुः शिक्षेत भूमेश्च अनुशिक्षं व््रातान्तरम् ॥ ३८ ॥
परार्थैकान्तसम्भवम् । आत्मनो वृद्धिश्च परार्थेति ।
‘सज्जनार्थेऽनुमन्येत ऐहिकीं वृद्धिमात्मनः ।
पारत्रिकीमैहिकीं च प्रीतये गुरुदेवयोः ॥
देवतानां च सर्वेषां स्वोत्तमानां च सर्वशः’’॥ इति च ॥ ३८ ॥
अन्तर्बहिश्च स्थिरजङ्गमेषु ब््राह्मात्मभावेन समन्वयेन । व्याप्त्याऽव्यवच्छेदमसङ्गमात्मनो मुनिर्नभोवद् विततस्य भावयेत् ॥ ४२ ॥
‘जीवान्तर्यामको विष्णुरात्मनामा समीरितः ।
तस्य तु ब््राह्मरूपत्वाद्बहिरन्तस्तथैव च ।
पश्येदाकाशवद्व्याप्तिमसङ्गत्वं च नित्यशः’’॥ इति तन्त्रभागवते ॥ ४२ ॥
तेजोऽबन्नमयैर्भावैर्मेघाद्यैर्वायुनेरितैः ।
न स्पृश्यते नभस्तद्वत् कालसृष्टैर्गुणैः पुमान् ॥ ४३ ॥
‘गुणान्जीवस्य चेष्टव्यान्सिद्धान्विष्णोर्गुणांस्तथा ।
तत्तद्दृष्ट्या विचिन्वीत पृथगेव सुधीः सदा’’॥ इति लोकतत्त्वे ॥ ४३ ॥
स्वच्छः प्रकृतितः स्निग्धो माधुर्यस्तीर्थवन्नृणाम् ।
मुनिः पुनात्यघान्मित्रमीक्षणस्पर्शकीर्तनैः ॥ ४४ ॥
‘मधुनाम सुखं विन्द्यान्माधुर्यं सुखहेतुता ।
सुखे रतिर्वां सम्प्रोक्ता शब्दतत्त्वविचक्षणैः’’॥ इति शब्दनिर्णये ॥४४॥
तेजस्वी तपसा दीप्तो दुर्धर्षो दूरभाजनः ।
सर्वभक्षोऽपि युक्तात्मा नादत्ते पापमग्निवत् ॥ ४५ ॥
दूरत एव भजनीयः ।
‘पराभवो धर्षणं स्यादवज्ञानमथापि वा ।
न तत्सत्सु सदा कुर्यात्सह शय्यासनं न च’‘इति सद्गुणे ॥ ४५ ॥
क्वचिच्छन्नः क्वचित् स्पष्ट उपास्यः श्रेय इच्छताम् ।
भुङ्क्त्े सर्वत्र दातॄणां दहन् प्रागुत्तराशुभम् ॥ ४६ ॥
स्वमायया सृष्टमिदं सदसल्लक्षणं विभुः ।
प्रविष्ट ईयते तत्तत्स्वरूपोऽग्निरिवैधसि ॥ ४७ ॥
‘जीवस्य छन्नतां शिक्षेत्प्रविष्टत्वं परात्मनः ।
तत्तद्गुणविडम्बं च वह्नेः सर्वमथापि वा ॥
अल्पदारौ यथाऽल्पोऽग्निरेवमल्पशरीरगः ।
दृश्यते परमात्माऽपि स्थूलः स्थूलशरीरगः’’॥ इति वैभवे ॥ ४६,४७ ॥
कालनद्योघवेगेन भूतानां प्रभवाप्ययौ ।
नित्यावपि न दृश्येते आत्मनोऽग्नेर्यथाऽर्चिषाम् ॥ ४९ ॥
‘अवयव्यवयवानां च गुणानां गुणिनस्तथा ।
शक्तिशक्तिमतोश्चैव क्रियायास्तद्वतस्तथा ॥
स्वरूपांशांशिनोश्चैव नित्याभेदो जनार्दने ।
जीवस्वरूपेषु तथा तथैव प्रकृतावपि ॥
चिद्रूपायामतोऽनंशा अगुणा अक्रिया इति ।
हीना अवयवैश्चेति कथ्यन्ते तेऽत्यभेदतः ॥
पृथग्गुणाद्यभावाच्च नित्यत्वादुभयोरपि ।
विष्णोरचिन्त्यशक्तेश्च सर्वं सम्भवति ध््राुवम् ॥
क्रियादेरपि नित्यत्वं व्यक्त्यव्यक्तिविशेषणम् ।
भावाभावविशेषेण व्यवहारश्च तादृशः ॥
विशेषस्य विशिष्टस्याप्यभेदस्तद्वदेव तु ।
सर्वं चाचिन्त्यशक्तित्वाद्युज्यते परमेश्वरे ॥
तच्छक्त्यैव तु जीवेषु चिद्रूपप्रकृतावपि ।
भेदाभेदौ तदन्यत्र ह्युभयोरपि दर्शनात् ॥
कार्यकारणयोश्चापि निमित्तं कारणं विना’’॥ इति ब््राह्मतर्के ।
‘आत्मनि चैवं विचित्राश्च हि’’।
‘सर्वोपेता च तद्दर्शनात्’’।
‘सर्वधर्मो-पपत्तेश्च’’।
‘स्वाभाविकी ज्ञानबलक्रिया च’’।
‘यत्रा सप्त ऋषीन्पर एकमाहुः’’॥ इत्यादेश्च ॥
‘विना दोषांच्छ्रुतमद्धाऽवगम्यं तथा स्मृतं परमे सत्यरूपम् ।
नैवासत्यं क्वचिदस्मिन्परेशे सर्वं युक्तं पूर्णशक्तेः सदैव’’॥ इति च विश्वम्भरश्रुतिः ।
तस्मादेकस्मिन्नपि शरीरे भेदाभेदात्प्रभवाप्ययौ युज्येते । न च विरोधः । स्थूलसूक्ष्मवत् । आपेक्षिकमत्रापि युज्यते ॥ ४९ ॥
बुद्धिसंस्थेन भेदेन व्यक्तस्थ इव तद्गतः ।
लक्ष्यते स्थूलमतिभिरात्मा चाम्बुस्थितार्कवत् ॥ ५१ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये एकादशस्कन्धे सप्तमोऽध्यायः ॥
‘बुद्धिसंस्थस्त्वात्मभेदो व्यक्तस्थो जीव उच्यते ।
तेनैव सह संस्थानात्परात्मा स्थूलबुद्धिभिः ॥
जीववल्लक्ष्यते विष्णुर्यथैवाम्बुस्थितार्कवत् ।
परमार्कः पारिमाण्डिल्याद्वर्तुलत्वादिना तथा ।
अर्कस्वरूपानभिज्ञैः शिरः पादादिवर्जितः ।
अचेतनश्च कल्प्येत तत्तेजोमात्रदर्शिभिः ।
सूर्यदेहादिभिन्नं हि तेजोमण्डलमेव तु ।
दृश्यते स्थूलमतिभिरेवमेव जनार्दनः’’॥ इति प्रभासके ॥ ५१ ॥
अष्टमोऽध्यायः
दृष्ट्वा स्त्रियं देवमायां तद्भावैरजितेन्द्रियः ।
प्रलोभितः पतन्त्यन्धे तमस्यग्नौ पतङ्गवत् ॥ ७ ॥
योषित्सु तल्पाभरणाम्बरादिद्रव्येषु मायारचितेषु मूढः ।
प्रलोभितात्मा ह्युपभोगबुद्ध्या पतङ्गवन्नश्यति नष्टदृष्टिः ॥ ८ ॥
‘महतां वनिताकामः पतत्यन्धे तमस्यलम् ।
अन्यत्र निरयं याति दुःखवान्स्याद्विपर्यये’‘इति धर्मसंहितायाम् ॥
‘मोहकारणभूतां तु मायेत्याहुर्मनीषिणः ।
अविद्यमानं मेत्युक्तं तज्ज्ञापयति यत्स्वयम् ॥
कुत्रचिज्ज्ञानरूपं सल्लाभरूपं च भण्यते ।
मयं प्राचुर्यमुद्दिष्टं माया स्यात्प्रचुरेत्यपि’’॥ इति तन्त्रनिरुक्ते ॥
‘स्वतन्त्रं परमार्थाख्यं स्वतन्त्रैका हरेर्मतिः ।
सैव माया समुद्दिष्टा मुख्यतस्तत्स्वरूपिका ॥
मतिमन्मतिभेदोऽपि न विष्णोः क्वचिदिष्यते ।
पारमार्थ्येन नास्त्येव तदन्यत्तद्वशं यतः ॥
अनाद्यनन्तकालेषु विद्यमानमपि ध््राुवम् ।
अतो मायामयं प्राहुः सर्वं तद्वशगं यतः’’॥ इति मायावैभवे ॥
‘स्वाधीनं सदिति प्रोक्तं पराधीनमसत्स्मृतम् ।
अविद्यमानमेतस्माज्जगदाहुर्विपश्चितः ॥
अनाद्यनन्तकालेषु विद्यमानमपि ध््राुवम् ।
अस्वातन्त्र्यात्तु नास्त्येवेत्येवं वाच्यं जगत्सदा ॥
सदा वृत्तेर्विद्यमानमिति ब््राूयाद्यदि क्वचित् ।
तथापि नाशवद्धीदं प्रवाहाद्ध्यस्य नित्यता ॥
अतो निवर्त्यमित्याहुः प्रपञ्चो ह्यस्ति यद्यपि ।
विष्णोरिच्छावशत्वाच्च मायामात्रमिति स्फुटम् ॥
परमार्थं त्वेकमेव स्वातन्त्र्याद्विष्णुमव्ययम् ।
यदि कल्पयतीदं स स एव विनिवर्तयेत् ॥
विष्णुस्तस्मात्तद्वशत्वान्नास्तीति द्वैतमुच्यते ।
स्वातन्त्र्येण हरौ ज्ञाते पराधीनत्वनिश्चयात् ॥
इत्याहुरुपदेष्टार आचार्यास्तत्त्ववेदिनः ।
यथैव राजन्विज्ञाते नान्योऽस्तीति स्फुटं वचः ॥
स्वातन्त्र्यात्पारतन्त्र्याच्च तद्भृत्यादिषु सत्स्वपि ।
यथैकच्छत्रवांश्चैव एकवीर इतीव च ॥
तथैव सर्वप्राधान्यादद्वितीयो हरिः स्मृतः ।
एवं मुक्ता विजानन्ति सायुज्यं प्रापिता विभोः ॥
अनन्तकालं पश्यन्तो जगदेतच्चराचरम् ।
तस्यैतस्य ह्यविज्ञानात्केवलभ््र•न्तिरूपकम् ॥
जगदुक्त्वा तमो यान्ति ईशितव्येशशापतः’’॥ इति च ॥
‘पुत्रा मे यदि विद्यन्ते मरिष्यन्त्येव ते ध््राुवम् ।
यदि राज्यं करोत्येष नश्यत्येतदसंशयम्’’॥ इति धृतराष्ट्रवचनवत् ।
‘प्रपञ्चो यदि विद्येत’’। इत्यादि ।
‘यदिशब्दस्त्ववस्तुत्वे चास्वातन्त्र्ये च संशये ।
अवस्तुशब्दश्चाशक्ते ह्यल्पशक्तौ च कीर्त्यते’’॥ इति शब्दनिर्णये ॥ ७,८ ॥
सुहृत् प््रोष्ठतमो नाथ आत्मा चायं शरीरिणाम् ।
तं विक्रीयात्मनैवाहं रमेऽनेन यथा रमा ॥ ३४ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये एकादशस्कन्धे अष्टमोऽध्यायः ॥
‘भगवद्भार्यतायोग्याः काश्चिदप्सरसःस्त्रियः ।
रमाऽऽवेशात्कदाचित्स्युस्तास्वेका पिङ्गलाऽभवत् ।
तदन्यासां महान्दोषो भगवद्भर्तृतास्मृतौ’’॥ इति स्वाभाव्ये ॥ ३४ ॥
नवमोऽध्यायः
वासो बहूनां कलहो भवेद् वार्ता द्वयोरपि ।
एक एव चरेत् तस्मात् कुमार्या इव कङ्कणः ॥ १० ॥
‘असज्जनैस्तु संवासो न कर्तव्यः कथञ्चन ।
यावद्यावच्च बहुभिः सज्जनैः स तु मुक्तिदः’’॥ इति षाड्गुण्ये ॥ १० ॥
यस्मिन् मनो लब्धपदं यदेत- च्छनैः शनैर्मुञ्चति कर्मरेणून् । सत्वेन वृद्धेन रजस्तमश्च विधूय निर्वाणमुपैत्यनिन्धनम् ॥ १२ ॥
तदेवमात्मन्यवरुद्धचित्तो न वेद किञ्चिद् बहिरन्तरं वा । यथेषुकारो नृपतिं व््राजन्त- मिषौ गतात्मा न ददर्श पार्श्वे ॥ १३ ॥
‘बाह्यं मनो विलीनं स्यान्मुक्तौ चिन्मात्रकं मनः ।
तेनैवानुभवेत्सर्वं स्वात्माभिन्नेन मुक्तिगः’’॥ इति मुक्तितत्त्वे ॥ १२,१३ ॥
एको नारायणो देवः पूर्वसृष्टं स्वमायया ।
संहृत्य कालकलया कल्पान्त इदमीश्वरः ॥ १६ ॥
एक एवाद्वितीयोऽभूदात्माधारोऽखिलाश्रयः ।
कालेनात्मानुभावेन साम्यं नीतासु शक्तिषु ॥ १७ ॥
सत्वादिष्वादिपुरुषः प्रधानपुरुषेश्वरः ।
परावराणां परम आस्ते कैवल्यसंज्ञितः ॥ १८ ॥
‘कालप्रकृतिजीवादौ लयेऽसत्यप्रवर्तनात् ।
तन्निमित्तस्य कार्यस्य विष्णुरेक इतीर्यते ॥
स हि कालादिकं सर्वं वर्तयत्यमितद्युतिः’’॥ इति तत्त्वलये ॥
‘प्रकृतिश्च गुणाश्चैव शक्यत्वाच्छक्तयः स्मृताः ।
विष्णोः स्वरूपभूता तु शकनाच्छक्तिरुच्यते’’॥ इति शक्तिविवेके ॥ १६-१८ ॥
यत्र यत्र मनो देही धारयेत् सकलं धिया ।
स्नेहाद् द्वेषाद् भयाद् वापि याति तत्तत्सरूपताम् ॥ २२ ॥
कीटः पेशस्कृतं ध्यायन् कुड्यां तेन प्रवेशितः ।
याति तत्साम्यतां राजन् पूर्वरूपमसंत्यजन् ॥ २३ ॥
‘भयादपि हरिं भक्तया चिन्तयंस्तत्स्वरूपताम् ।
पेशस्कारिवदायाति द्विषन् द्वेषसरूपताम् ॥
सुखरूपस्य हि द्वेषो दुःखरूप इतीर्यते ।
तस्माद्दुःखं सदा याति द्वेषवान्पुरुषोत्तमे ॥
नृसिंहद्वेषतो दुःखं रक्षोरूपेण रावणः ।
अगाच्च रामविद्वेषाच्छिशुपालस्तथैव च ॥
ततो भक्त्या परं यातो द्वेषरूपस्त्वधोगतिम् ।
तस्मात्सर्वगुणोद्रेकिविद्वेषात्सर्वदोषवान् ॥
भवेदिति सरूपत्वं द्वेषादेः पुरुषस्य हि’’॥ इति भागवततन्त्रे ॥
‘तं यथा यथोपासते तदेव भवति’’।
‘तं भूतिरिति देवा उपासाञ्चक्रिरे ते बभूवुस्तस्माद्धाप्येतर्हि सुप्तो भूर्भूरित्येव प्रश्वसित्यभूरित्यसुरास्ते ह पराबभूवुः’’॥ इत्यादि च ॥
‘सत्यप्यत्यल्पविद्वेषे भोजनं दास्यतीति तु ।
स्नेहबाहुल्यतः कीटः पेशस्कारिसमो भवेत् ॥
द्वेषे सर्वात्मना नष्टे स्नेहे चैव विवर्धति ।
सरूपता तदैव स्यात्कीटस्यैवं हरेरपि ॥
अत्यल्पोऽपि हरेर्द्वेषः स्नेहस्यानुदयङ्करः ।
सोऽयं विशेषो नान्यस्य फलदाता च केशवः ॥
न हि पेशस्कृतः किञ्चित्फलदातृत्वमिष्यते ।
स्वातन्त्र्याद्विद्विषां चैव केशवो न सुखप्रदः’’॥ इति स्वातन्त्र्यविवेके ॥ २२,२३ ॥
देहो गुरुर्मम विरक्तिविवेकहेतु- र्बिभ््रात् स्म सत्वनिधनं सततात्युदर्कम् । तत्वान्यनेन विमृशामि यथा तथापि पारक्यमित्यवसितो विचराम्यसङ्गः ॥ २५ ॥
सत्त्वनिधनः सत्वं निधीयतेऽस्मिन्परमेश्वर इति । ‘सततमतिशये-नोच्चैरर्करूपः’‘इति सततात्युदर्को भगवान् ॥ २५ ॥
जायात्मजार्थपशुभृत्यगृहाप्तवर्गान् पुष्णाति यत्प्रियचिकीर्षया वितन्वन् । सोऽन्ते सुकृच्छ्रमवरुद्धमनाः स्वदेहं सृष्ट्वा स्वबीजमवसीदति वृक्षधर्मा ॥ २६ ॥
बीजार्थमारोपहणादिकं कुर्वन्निति ॥ २६ ॥
न ह्येकस्माद् गुरोर्ज्ञानं सुस्थिरं स्यात् सुपुष्कलम् ।
ब््राह्मैतदद्वितीयं वै गीयते बहुधर्षिभिः ॥ ३१ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये एकादशस्कन्धे नवमोऽध्यायः ॥
‘एकस्मात्तु गुरोर्ज्ञानं जायते नैव कस्यचित् ।
एकस्मादेव जायेत योग्याद्ब्रह्मपदस्य तु ॥
स्वयं चोपदिशेज्ज्ञानं वैरिञ्चिपदयोगिनि ।
अनुग््राहात्तेन चापि ज्ञानं दत्वा विमुक्तिदः ॥
ज्ञानं प्राप्य बहुभ्योऽपि नर्ते मुक्तिश्चतुर्मुखात् ।
ज्ञानमप्राप्य तेषां तु ज्ञानदो विष्णुरेव हि’’॥ इति गुरुविवेके ॥३१॥
दशमोऽध्यायः
सुप्तस्य विषयालोको ध्यायतो वा मनोरथः ।
नानात्मकत्वाद् विफलस्तथाऽभेदोऽन्यधीगुणैः॥ ३ ॥
बुद्धिगुणैः कामक्रोधादिभिरभेदो विफलः ।
‘वस्तुस्थितेरन्यथात्वं नानात्वमिति कीर्तितम् ।
ज्ञानस्यैव तु नानात्वान्न स्यात्कामाद्यहंमतिः ॥
कामादिषु स्वधीस्थेषु केवलं जीवसंस्थितिः ।
इति बुद्धिरभेदः स्यात्स न कार्यः कथञ्चन ॥
अदुष्टकामश्चिद्रूपो जीवाभिन्नः स्वरूपतः ।
दुष्टकामो मनोधर्मस्तस्माद्धेयः सदैव सः’’॥ इति विवेके ॥ ३ ॥
निवृत्तं कर्म सेवेत प्रवृत्तं मत्परस्त्यजेत् ।
जिज्ञासायां सम्प्रवृत्तो नाद्रियेत् कर्मचोदनाम् ॥ ४ ॥
‘निष्कामं ज्ञानपूर्वं तु निवृत्तमिह चोच्यते ।
निवृत्तं सेवमानस्तु ब््राह्माभ्येति सनातनम्’’॥ इति भारते ॥ ४ ॥
यमानभीक्ष्णं सेवेत नियमान् मत्परः क्वचित् ।
मदभिज्ञं गुरुं शान्तमुपासीत मदात्मकम् ॥ ५ ॥
‘मामेव नित्यं ध्यायेद्यो मदात्मा स प्रकीर्तितः’’। इति च ॥ ५ ॥
निरोधोत्पत्त्यणुबृहन्नानात्वं तत्कृतान् गुणान् ।
अनुप्रविष्ट आधत्ते एवं देहगुणान् परः ॥ ९ ॥
योऽसौ गुणैर्विरचितो देहोऽयं पुरुषस्य हि ।
संसारस्तन्निबन्धोऽयं पुंसोऽविद्यास्थितात्मनः ॥ १० ॥
‘ओहधर्मवान्विष्णुर्देहधर्मवदीर्यते ।
जीवस्त्वदेहधर्माऽपि परतो देहधर्मवान् ॥
स्वयं त्वनभिमानः सन्नज्ञानामेव दर्शयेत् ।
विष्णुर्जीवस्त्वभीमानी यावद्विष्णुपदं व््राजेत्’’॥ इति विष्णुसंहितायाम् ॥ ९-१० ॥
तस्माज्जिज्ञासयाऽऽत्मानमात्मस्थं केवलं परम् ।
सङ्गम्य निरसेदेतद्वस्तुबुद्धिं यथाक्रमम् ॥ ११ ॥
अवस्त्वशक्तमुद्दिष्टं शक्तं वस्त्विह भण्यते ।
तस्मादेकं परं ब््राह्म वस्तुशब्दोदितं सदा’’॥ इति लक्षणे ॥ ११ ॥
वैशारदी साऽतिविशुद्धबुद्धि- र्धुनोति मायां गुणसम्प्रसूतिम् । गुणांश्च संदह्य यदात्म्यमेतत् स्वयं च शाम्यत्यसमिद् यथाऽग्निः ॥ १३ ॥
‘पिशाचवत्स्थिता माया तूच्यते जीवगा सदा ।
दह्यन्ते तद्गुणाः सर्वे सा च प्रातिस्विकी नरे’’॥ इति वैभाव्ये ॥
एतच्छब्देन दुःखादिरपरोक्षतयोच्यते ।
‘क्वचिद्विश्वं क्वचिद्ब्रह्म क्वचिन्निन्द्यमुदीर्यते’’॥ इति तन्त्रनिरुक्ते ।
‘बाह्यान्तःकरणाज्जन्यं ज्ञानं नश्यति मुक्तिगे ।
स्वरूपज्ञानतो भोगान्मुक्तो भुङ्क्ते यथेष्टतः’’॥ इति मुक्तितत्त्वे ॥१३॥
अथैषां कर्मकर्तॄणां भोक्तॄणां सुखदुःखयोः ।
नानात्वमथ नित्यत्वं लोककालागमात्मनाम् ॥ १४ ॥
मन्यसे सर्वभावानां संस्था ह्यौत्पत्तिकी तथा ।
तत्तदाकृतिभेदेन जायते भिद्यते च धीः ॥ १५ ॥
एवमप्यत्र सर्वेषां देहिनां देहयोगतः ।
कालावयवतः सन्ति भावा जन्मादयोऽसकृत् ॥ १६ ॥
‘देहापेक्षमनित्यत्वं जीवानां जननं तथा ।
स्वतस्त्वजाश्च नित्याश्च बहवः सुखरूपिणः ।
उत्तमा जीवसङ्घास्तु नीचा वै नित्यदुःखिनः’’॥ इति जीवतत्त्वे ॥ १४-१६ ॥
तत्रापि कर्मणां कर्तुरस्वातन्त्र्यं च लक्ष्यते ।
भोक्तुश्च सुखदुःखानां कोन्वर्थो विवशं भजेत् ॥ १७ ॥
‘स्वाधिकानां वशत्वात्तु परमं सुखमेव तु ।
तदन्येषां वशे यस्तु किं सुखं तस्य भण्यताम् ॥
स्वाधिकानां वशत्वं च तेषु भक्तिमतः सुखम् ।
तदन्येषां तु दुःखाय तस्माद्भक्तोऽधिको भवेत्’’॥ इति च ॥ १७ ॥
न देहिनां सुखं किञ्चिद् विद्यते विदुषामपि ।
तथा च दुःखमूढानां वृथाऽहङ्कारिणां परम् ॥ १८ ॥
विदुषामपि देहमानिनां यदा न विद्यते सुखं तदा दुःखमूढानामहङ्कारिणां च किम्वित्यर्थः ।
‘पुनःशब्दे प्रस्तुतार्थे तथाशब्द उदीर्यते’’॥ इति शाब्दे ॥ १८ ॥
यदि प्राप्तिं विघातं च जानन्ति सुखदुःखयोः ।
तेऽप्यद्धा न विदुर्योगं मृत्युर्न प्रभवेद् यथा ॥ १९ ॥
ये तु विद्वत्त्वेन प्रसिद्धाः प्राकृतानां तेऽप्यद्धा न विदुर्देहाभिमानिनश्चेत् । दुःखमूढा अधीराऽहङ्कारिणो विशेषतोऽप्यविद्यमानगुणाभिमानिनः ॥१९॥
गुणाः सृजन्ति कर्माणि कालो नु सृजते गुणान् ।
जीवस्तु गुणसंयुक्तो भुङ्क्ते कर्मफलान्यसौ ॥ ३१ ॥
यावत् स्याद् गुणवैषम्यं तावन्नानात्वमात्मनः ।
नानात्वमात्मनो यावत् पारतन्त्र्यं तदैव हि ॥ ३२ ॥
यावदस्यास्वतन्त्रत्वं तावदीश्वरतो भयम् । य एतत् समुपासीरंस्ते मुह्यन्ति शुचाऽर्पिताः ॥ ३३ ॥
यावत्स्याद्गुणवैषम्यमित्यादि य उपासीरंस्ते मुह्यन्ति । गुणसंयुक्तः कर्मफलानि भुङ्क्ते ॥ ३१-३३ ॥
काल आत्माऽऽगमो लोकः स्वभावो धर्म एव च ।
इति मां बहुधा प्राहुर्गुणव्यतिकरेऽसति ॥ ३४ ॥
असति गुणव्यतिकरे कालादिनामानं मामेवाहुरिति स्वसिद्धान्तः ।
‘कालः सर्वगुणोद्रेकादाप्तत्वादात्मनामकः ।
आगमोऽवगतेरस्य लोको ज्ञानस्वरूपतः ॥
स्ववशत्वात्स्वभावोऽयं धारणाद्धर्म इत्यपि ।
उपासते सदा मुक्ताः परानन्दैकभागिनः ॥
तदेतत्तत्त्वमज्ञात्वा प्राहुर्दुर्मतयः परे ।
यावत्तु गुणवैषम्यं तावन्नानात्वमात्मनः ॥
भेदबुद्धिस्तु यावत्स्यात्तावदीश्वरतन्त्रता ।
यावदीश्वरतन्त्रत्वं तावत्तस्माद्भयं भवेत् ॥
उपासते य एवं तु नित्यशोके पतन्ति ते ।
महातमस्यनानन्दे तस्मान्नैवं विचिन्तयेत् ॥
तस्मान्नित्यं तु नानात्वं जीवानामीशतन्त्रता ।
स्वाधिकानां वशत्वं च मुक्तावपि सदेष्यते ॥
एवं ज्ञात्वा विमुच्यन्ते परानन्दं व््राजन्ति च’’॥ इति तन्त्रभागवते ॥ ३४ ॥
उद्धव उवाच– गुणेषु वर्तमानोऽपि देहजेष्वनपावृतः । गुणैर्न बध्यतेऽदेही बध्यते वा कथं विभो ॥ ३५ ॥
एतदच्युत मे ब््राूहि प्रश्नं प्रश्नविदां वर ।
नित्यमुक्तो नित्यबद्ध एक एवेति मे मतिः ॥ ३७ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये एकादशस्कन्धे दशमोऽध्यायः ॥
ओही परमात्मा । बध्यते चेत्कथं बध्यते । नित्यमुक्तो नित्यबद्ध इत्येकजीववादिमतानुसारेण चोदयति ।
‘शिष्योऽपि पूर्वपक्षस्थस्तदेवात्ममतं ब््राुवन् ।
नैव दुष्यत्यसत्येन स्थिरत्वार्थं हि तद्वचः’’॥ इति विक्षेपे ।
‘न मे मोक्षो न बन्धनम्’’।
‘एकस्यैव ममांशस्य जीवस्यैवं महामते ।
बन्धोऽस्याविद्ययाऽनादिर्विद्यया च तथेतरत् ॥
अथ बद्धस्य मुक्तस्य वैलक्षण्यं वदामि ते’’॥ इत्यादिपरिहारात् ॥ ३७ ॥
एकादशोऽध्यायः
श्रीभगवानुवाच– बद्धो मुक्त इति ह्याख्या गुणतो मे न वस्तुतः । गुणस्य मायामूलत्वान्न मे बन्धो न मोक्षणम् ॥ १ ॥
मे गुणतः । मद्वशसत्वादेः ।
‘अमायत्वान्निर्गुणोऽहं बन्धमोक्षौ न चापि मे ।
मदधीनस्य जीवस्य बन्धमोक्षौ मदेव तु’’॥ इति स्वाभाव्ये ॥ १ ॥
शोकमोहौ सुखं दुःखं देहापत्तिश्च मायया ।
स्वप्ने यथाऽऽत्मनः ख्यातिः संसृतिर्नतु वास्तवी ॥ २ ॥
‘स्वप्नोऽयमित्यविज्ञानात्स्वप्ने दुःखमुपाश्नुते ।
निजस्वरूपानुभवराहित्यात्तद्वदेव तु ॥
जाग््राद्दुःखमपि प्रोक्तं विष्णुतत्त्वं न पश्यतः ।
तस्मात्तदस्वभावत्वात्सदप्येतदवास्तवम्’’॥ इति लोकसंहितायाम् ॥ २ ॥
विद्याविद्ये मम तनू विद्ध्युद्धव शरीरिणाम् ।
मोक्षबन्धकरी आद्ये मायया मे विनिर्मिते ॥ ३ ॥
‘विद्याऽविद्ये मम तनू प्रतिमावत्सदोदिते ।
सदा तद्व्यतिरिक्तस्य नित्यज्ञानसुखात्मनः ॥
मदिच्छावशगे नित्यमविद्यानिर्मिता गुणाः ।
सत्वाद्या मदधीनत्वादविद्याया न मे गुणाः ॥
अविद्या चैव विद्या च गुणाः सत्वादिका अपि ।
देहोत्पत्तिः सुखं दुःखं सर्वमेतन्मदिच्छया ॥
अतोऽहं बन्धमोक्षाभ्यां रहितो नित्यमेव तु ।
मुक्तशब्दोदितो बन्धराहित्यान्न विमोक्षतः’‘इति कालसंहितायाम् ।
‘श्रीस्तु विद्या समुद्दिष्टा दुर्गाऽविद्या प्रकीर्तिता ।
ते त्वनादी हरेरिच्छानियते सर्वदैव तु’’॥ इति मायावैभवे ॥ ३ ॥
एकस्यैव ममांशस्य जीवस्यैवं महामते ।
बन्धोऽस्याविद्ययाऽनादिर्विद्यया च तथेतरः ॥ ४ ॥
‘भिन्नांशस्यैव जीवस्य बन्धमोक्षौ न मे क्वचित् ।
अभिन्नांशास्तु मत्स्याद्यास्तेजसः कालवह्निवत् ॥
जीवा भिन्नांशकास्तत्र तेजसः प्रतिबिम्बवत्’’॥ इति वैलक्षण्ये ॥
‘मुक्तस्य तु न मे मोक्षो बन्धाभावात्कथञ्चन ।
मुक्त इत्यपि नामैतद्दीप्यतेऽसौ दिवाकरः ॥
इतिवद्बन्धराहित्यान्न तु वृक्षादिदीप्तिवत् ।
कादाचित्कतया वाच्यं बन्धाभावादमोक्षतः ॥
जीवस्य बन्धमोक्षस्तु मत्प्रसादात्कदाचन’’॥ इति तत्त्वोदये ॥ ४ ॥
अथ बद्धस्य मुक्तस्य वैलक्षण्यं वदामि ते ।
विरुद्धधर्मिणोस्तात स्थितयोरेकधर्मिणि ॥ ५ ॥
मुक्तस्य विष्णोः ।
‘नित्यशुद्धबुद्धमुक्तसत्यसुखाद्वयप्रत्यगेक पूर्ण इत्यतः पदान्वयात्’‘इत्यादिवचनात् ।
बद्धो जीवः ।
‘बद्धा जीवा इमे सर्वे पूर्वबन्धसमन्वयात् ।
नित्यमुक्तत्वतो विष्णुर्मुक्तनामा सदोदितः ॥
अबद्धत्वादमोक्षोऽपि दीप्यतेऽसौ रविर्यथा’’॥ इति ब््राह्मसंहितायाम् ॥ ५ ॥
सुपर्णावेतौ सदृशौ सखायौ यदृच्छया कृतनीडौ च वृक्षे । एकस्तयोः खादति पिप्पलान्न- मन्यो निरन्नोऽपि बलेन भूयान् ॥ ६ ॥
‘अनत्तृत्वं हरेर्दुःखानत्तृत्वादुच्यते सदा ।
विषयान्विनापि पूर्णत्वात्स्वरूपानन्दभोगिनः ॥
शुभमत्त्येव हि सदा सर्वत्रापि स्थितं विभुः ।
स्वादोरदनवद्ध्यत्ति जीवोऽस्वाद्वपि यत्सदा ॥
अनारतं पारवश्यात्स्वाद्वत्तीति ततः श्रुतिः’’॥ इति भोगनिर्णये ॥
‘अस्वादु स्वादुवद्ध्यत्ति जीवो नैव जनार्दनः ।
अतो नात्तीतिवचनमश्नतोऽपि सुखं सदा’’॥ इति परभोगे ।
‘साशनानशनत्वेन नरदेवौ यथोदितौ ।
अत्तिं विनाऽप्यदौर्बल्यात्तथानत्तिर्हरेर्भुजः’’॥ इति स्वाभाव्ये ।
तदेव प्रोक्तं निरन्नोऽपि बलेन भूयानिति । स्वयं त्वत्त्येव तथापि नादननिबन्धनं तस्य बलमित्यर्थः ।
‘यत्रा सुपर्णा अमृतस्य भागमनिमेषं विदथाऽभिस्वरन्ति ।
इनो विश्वस्य भुवनस्य गोपाः स मा धीरः पाकमत्रा विवेश ।
यस्मिन्वृक्षे मध्वदः सुपर्णा निविशन्ते सुवते चाधि विश्वे ।
तस्येदाहुः पिप्पलं स्वाद्वग््रो तन्नोन्नशद्यः पितरं न वेद’’॥ इत्यादिवाक्यशेषात् ।
वृक्षे स्थित्वा मध्वदः सुपर्णाः यस्मिन्नश्नन्ति निविशन्ते, तदाधारत्वेन सुवते च, तस्यैव सुपर्णस्य स्वादु पिप्पलम् । अन्यस्तु स्वादुवदश्नाति, न स्वादु । यावत्पितरं परमात्मानं न वेदेत्यर्थः ।
‘सुपर्णौ द्वौ शरीरस्थौ जीवश्च परमस्तथा ।
पारवश्यादनाज्जीवस्तत्रात्तीति श्रुतौ श्रुतः ॥
स्ववशेनादनाद्विष्णुर्नात्तीत्यत्तापि सन् श्रुतः ।
स एव हि शुभस्यात्ता जीवोऽत्तास्यैव वेदनात्’’॥ इति कूर्मसंहितायाम् ॥
‘सर्वं वा अत्तीति तददितेरदितित्वम्’’।
‘यस्य ब््राह्म च क्षत्रं चोभे भवत ओदनः’’।
‘अत्ता चराचरग््राहणात्’’।
‘अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च’’॥ इत्यादेश्च ॥ ६ ॥
आत्मानमन्यं च स वेद विद्वा- नपिप्पलादो न तु पिप्पलादः । योऽविद्ययाऽन्धः स तु नित्यबद्धो विद्यामयो यः स तु नित्यमुक्तः ॥ ७ ॥
‘जीवो मुक्तोऽपि नो जीवान् परमात्मानमेव च ।
वेत्ति सर्वात्मना विष्णुर्वेत्त्येकः पुरुषोत्तमः ॥
तस्य प्रसादतः किञ्चिद्ब्रह्माद्या अपि जानते ।
अन्यजीवानपेक्ष्यैको जानाति च चतुर्मुखः ॥
सामस्त्येन तदन्ये तु लेशज्ञानाः क्रमात्स्मृताः’’॥ इति विनिर्णये ॥
‘तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप’’॥ इत्यादि च ।
‘अज्ञा जीवास्तु कथ्यन्ते मुक्ता अप्यल्पवेदनात् ।
ज्ञ इत्येवोच्यते नित्यं सर्ववेत्तृत्वतो हरिः’’॥ इति वैशेष्ये ॥
‘अनाद्यविद्ययाऽन्धत्वं जीवस्य यदि योग्यता ।
प्रयत्नश्चानुकूलः स्यादन्तवद्भवति ध््राुवम् ॥
नित्यमेवान्यथाऽन्धत्वमयोग्या मानुषादयः ।
बद्धत्वं सर्वजीवानां नियमान्नित्यमेव तु ॥
बद्धत्वं विष्ण्वधीनत्वमन्धत्वं तददर्शनम् ।
अतः क्वचिदनित्यत्वमन्धताया भविष्यति ॥
मुक्तस्यापि तु बद्धत्वमस्ति यत्स हरेर्वशः ।
मुक्ताख्या दुःखमोक्षात्स्याद्बद्धाख्या हर्यधीनतः ॥
नित्यबद्धा अपि ततो मुक्ता दुःखविमोक्षतः ।
नित्यमुक्तस्त्वेक एव हरिर्नारायणः प्रभुः ॥
स्वतन्त्रत्वात्स्वतन्त्रत्वं तस्यैकस्य न चापरे’‘इति मुक्तविवेके ॥
‘शतं सहस्राणि चतुर्दशेह परा गतिर्जीवगणस्य दैत्य ।
आरोहणं तत्कृतमेव विद्धि स्थानं तथा निःसरणं च तेषाम्’’॥
‘कृष्णो मुक्तैरिज्यते वीतमोहैः’’।
‘मुक्तानां परमा गतिः’’॥ इति भारते ॥
‘कलाः पञ्चदश त्यक्तवा श्वेतद्वीपनिवासिनाम् ।
मुक्ताख्या विष्ण्वधीनास्ते स्वाधिकानां वशे स्थिताः ॥
न चास्मादधिकं किञ्चित्सुखमस्ति हरेर्विना ।
नित्यमुक्तः स एवैकः स्वतन्त्रः स यतः सदा’’॥ इति माहात्म्ये ॥ ७ ॥
देहस्थोऽपि न देहस्थो विद्वान् स्वप्नाद् यथोत्थितः ।
ओहस्थोऽपि देहस्थः कुमतिः स्वप्नदृग् यथा ॥ ८ ॥
‘शरीरस्थोऽपि विद्वत्त्वान्न विष्णुर्बध्यते क्वचित् ।
अविद्वत्त्वात्तु तत्रैव देहे जीवस्तु बध्यते ॥
स्वप्नदृग्वदिमे जीवा हरिः स्वप्नोत्थितो यथा ।
सदा तमोविहीनोऽपि ज्ञापनार्थमुदीर्यते’’॥ इति विवेके ॥ ८ ॥
इन्द्रियैरिन्द्रियार्थेषु गुणैरपि गुणेषु च ।
गृह्यमाणेष्वहंकुर्यान्न विद्वान् यस्त्वविक्रियः ॥ ९ ॥
गुणैरपि गुणेषु अप्रधानैर्जीवैरप्रधानेषु विषयेषु ।
‘आत्मनो वशगैर्जीवैरात्मनो वशगेषु च ।
दुःखेषु गृह्यमाणेषु मनआदिभिरिन्द्रियैः ॥
अहं दुःखीति नैवेशस्त्वहङ्कुर्यात्परः पुमान् ।
जीवगं त्वेव तद्दुःखं विष्णुः पश्यति सर्वदा ॥
अतो न दुःखभाग्विष्णुः स्वातन्त्रत्पुरुषोत्तमः ।
पारतन्त्र्यादहं दुःखीत्येवं जीवः प्रपश्यति ॥
तस्मात्स दुःखभागुक्तो यावदीशः प्रसीदति’’॥ इति स्वातन्त्र्ये ॥९॥
दैवाधीने शरीरेऽस्मिन् गुणभाव्येन कर्मणा ।
वर्तमानोऽबुधस्तत्र कर्ताऽस्मीति निबध्यते ॥ १० ॥
गुणभाव्येन कर्मणा गुणभूतः अस्वतन्त्रोऽहमस्मिन्कर्मणीति भावनीयेन ।
‘अस्वतन्त्रः स्वतन्त्रोऽस्मीत्येवं जीवः प्रभावयन् ।
बध्यते हीशकोपेन राजभावेन भृत्यवत्’’॥ इति च ॥ १० ॥
एवं विरक्तः शयन आसनाटनमज्जने ।
दर्शनस्पर्शनघ््र•णभोजनश्रवणादिषु ॥ ११ ॥
न तथा बध्यते विद्वान् तत्र तत्राददन् गुणान् ।
प्रकृतिस्थोऽप्यसंसक्तो यथा खं सविताऽनिलः ॥ १२ ॥
एवं विरक्तः शयने । एवमस्वातन्त्र्ेण नित्यबद्धोऽपि । एवमात्मनोः स्वातन्त्र्यपारतन्त्र्ययोर्विद्वान् जीवोऽप्यविद्वज्जीववन्न बध्यते । एवं विद्वानित्यन्वयः ।
‘नित्यबद्धोऽपि जीवो य आत्मनो नित्यबद्धताम् ।
विष्णुना नित्यमुक्तत्वं तस्य वेत्ति स मुच्यते ॥
तदधीनत्वबन्धे तु विद्यमानेऽप्यदुःखभाक् ।
देहस्थोऽपि न दुःखी स्यादन्यवत्किमु मुक्तिगः’’॥ इति प्राथम्ये ॥ ११,१२ ॥
वैशारद्येक्षयाऽसङ्गशितया च्छिन्नसंशयः ।
प्रतिबुद्ध इव स्वप्नान्नानात्वाद् विनिवर्तते ॥ १३ ॥
‘नानात्वमिति वै मिथ्याज्ञानं कुत्रचिदुच्यते ।
वस्तुयाथात्म्यतोऽन्यत्वाज्ज्ञानस्योज्झो विवक्षितः’’॥ इति वाल्लभ्ये ॥ १३ ॥
न स्तुवीत न निन्देत कुर्वतः साध्वसाधु वा ।
वदतो गुणदोषाभ्यां वर्जितः समदृङ्मुनिः ॥ १६ ॥
न कुर्यान्न वदेत् किञ्चिन्न ध्यायेत् साध्वसाधु वा । आत्मारामोऽनया वृत्त्या विचरेज्जडवन्मुनिः ॥ १७ ॥
‘दोषश्चैव गुणश्चोभावीशतन्त्रौ न मे वशौ ।
इति जानन्न दोषी स्याद्वर्जितोऽल्पगुणेन च’’॥ इति प्राथम्ये ॥ १६,१७ ॥
शब्दब््राह्मणि निष्णातो न निष्णायात् परे यदि ।
श्रमस्तत्र भ््रामफलो ह्यधेनुमिव रक्षतः ॥ १८ ॥
‘स्थितिशब्देन नियमः क्वचिज्जीवनमुच्यते ।
उत्थितत्वं क्वचिच्चैव क्वचिद्गतिविरोधिता’’॥ इति शब्दनिर्णये ॥१८॥
गां दुग्धदोहामसतीं च भार्यां देहं पराधीनमसत्प्रजां च । वित्तं त्वतीर्थीकृतमङ्ग वाचं हीनां मया रक्षति दुःखदुःखी ॥ १९ ॥
यस्यां न मे पावनमङ्ग कर्म स्थित्युद्भवत्राणनिरोधमस्य । लीलावतारेहितकर्म वा स्याद् वन्ध्यां गिरं तां बिभृयान्न धीरः ॥ २० ॥
‘दुग्धदोहां तु गां रक्षेत् क्षीरमात्रप्रयोजनः ।
यथा तद्वद्धरेरन्यवाचोधारणमिष्यते’’॥ इति हरिवंशेषु ॥ १९,२० ॥
एवं जिज्ञासयाऽपोह्य नानात्वभ््राममात्मनि ।
उपारमेत विरजं मनो मय्यर्प्य सर्वगे ॥ २१ ॥
अर्थादन्यथात्वेन मनसः परिवर्तनं नानात्वभ््रामः ।
‘जीवस्येशत्वविज्ञानं जीवानामेकता तथा ॥
ईशस्य बहुता ज्ञानमीशस्यानीशता तथा ।
जगतोऽसत्यताज्ञानं नानात्वभ््राम उच्यते’’॥ इति विवेके ॥ २१ ॥
त्वं ब््राह्म परमं व्योम पुरुषः प्रकृतेः परः ।
अवतीर्णोऽसि भगवन् स्वेच्छोपात्तपृथग्वपुः ॥ २८ ॥
स्वेच्छोपात्तपृथग्वपुः वसुदेवादिशरीरं स्वेच्छया येन स्वीकृतमिति ।
‘नित्यानन्दशरीरोऽपि वसुदेवादिदेहगः ।
प्रदर्शयेज्जनिं स्वस्य नित्यं देहविवर्जितः ॥
वसुदेवादिदेहेषु प्रवेशस्तस्य भण्यते ।
देहोपादानमिति तु न ह्यन्यो देह इष्यते ॥
अन्याभिमतदेहेषु प्रविष्टः सर्वदा हरिः ।
नान्यानभिमतो देहो विष्णोरस्ति कदाचन ॥
अतोऽशरीरो भगवान् पुत्रताभिमतिस्तु या ।
वसुदेवादिकानां तु सैव मिथ्यामतिर्भवेत् ॥
अन्याहंभावयुग्देह एवासौ हरिरास्थितः ।
न तदन्येषु देहेषु क्वचित्तस्य प्रवेशनम् ॥
मम पुत्रस्त्वयमिति भ्रामणाय यदा हरेः ।
वसुदेवादिदेहेषु तनूपात्तिस्तु सा गतिः ॥
अनुपात्तशरीरस्य तनूपात्तिरितीष्यते ।
तद्देहं पितृदेहत्वे उपादत्ते यतो हरिः’’॥ इति प्रकाशसंहितायाम् ॥ २८ ॥
ज्ञात्वा ज्ञात्वाऽथ ये वै मां यावान् यश्चास्मि यादृशः ।
भजन्त्यनन्यभावेन ते मे भक्ततमा मताः ॥ ३३ ॥
ज्ञात्वाज्ञात्वेति वीप्सा ।
‘ज्ञात्वाऽपि मम माहात्म्यं तत्रोत्सुकतया पुनः ।
विशेषाच्च विशेषेण ज्ञात्वा मामश्नुतेऽधिकम्’’॥ इति विज्ञाने ॥ ३३ ॥
वैष्णवे बन्धुसत्कृत्या हृदि खे ध्याननिष्ठया ।
वायौ मुख्यधिया तोये द्रव्यैस्तोयपुरस्कृतैः ॥ ४४ ॥
‘सर्वदेवोत्तमो वायुरिति ज्ञानान्न चापरम् ।
प््रिायमस्ति हरेः किञ्चित्तथा वायोर्हरेर्विदः ॥
भारतीवायुलक्ष्मीणामात्मनश्च यथाक्रमम् ।
आधिक्यज्ञानतो विष्णुः सर्वतः सम्प्रसीदति’’॥ इति माहात्म्ये ॥
‘वायुर्भीमो भीमनादो महौजाः सर्वेषां च प्राणिनां प्राणभूतः ।
अनावृत्तिर्देहिनां देहपाते तस्माद्वायुर्देवदेवो विशिष्टः’’॥ इति मोक्षधर्मेषु ॥
‘तस्माद्वायुरेव व्यष्टिर्वायुः समष्टिरप पुनर्मृत्युं जयति य एवं वेद’’॥ इति च ।
‘पञ्चभूतमनोबुद्धिरुद्राणां प्रतिदेहकम् ।
बाह्यतश्चापि नेतृत्वाद्वायुर्व्यष्टिः समष्टिकः’’॥ इति प्रभञ्जने ॥४४॥
स्थण्डिले मन्त्रहृदयैर्भोगैरात्मानमात्मनि ।
क्षेत्रज्ञं सर्वभूतेषु समत्वेन यजेत माम् ॥ ४५ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये एकादशस्कन्धे एकादशोऽध्यायः ॥
‘स्वात्मनिस्थो हरिः पूज्य आत्मनामाऽशनादिकैः ।
तत्सम्बन्धादात्मशब्दो जीवे स्यादुपचारतः’’॥ इत्यात्मसंहितायाम् ॥ ४५ ॥
द्वादशोऽध्यायः
श्रीभगवानुवाच– न रोधयति मां योगो न साङ्ख्यं धर्म एव च । न स्वाध्यायस्तपस्त्यागो नेष्टापूर्ते न दक्षिणाः ॥ १ ॥
व््रातानि यज्ञाश्छन्दांसि तीर्थानि नियमा यमाः ।
यथाऽवरुन्धेन्मत्सङ्गः सर्वदुःखापहो हि माम् ॥ २ ॥
‘सङ्गस्तु गुणसम्प्रीतिर्गुणवत्त्वेऽतिनिश्चयात् ।
स चेद्धरौ भवेत्तेन मुच्यते नात्र संशयः ॥
अपरोक्षदृशेर्हेतुर्भवेत्स स्याद्यदि क्षमः ।
अन्यथा सुखभागेन यद्दृशिर्मोक्षकारणम्’’॥ इति दर्शने ॥ १-२ ॥
मत्सङ्गेन तु दैतेया यातुधाना मृगाः खगाः ।
गन्धर्वाप्सरसो नागाः सिद्धाश्चारणगुह्यकाः ॥ ३ ॥
विद्याधरा मनुष्येषु वैश्याः शूद्राः स्त्रियोऽन्त्यजाः ।
रजस्तमःप्रकृतयस्तस्मिंस्तस्मिन् युगेऽनघ ॥ ४ ॥
‘ज्ञात्वाऽपि हरिविद्वेषी तमो याति न संशयः ।
विशेषरूपस्याज्ञोऽपि गुणवत्त्वेऽतिनिश्चितः ॥
गुणसम्प्रीतिमान्नित्यं तं दृष्ट्वा मुक्तिमेष्यति ।
अथवा सुखभागेव स्याद्यावद्दर्शनोपगः’’॥ इति व्यक्ते ॥
‘हरिसङ्गविहीनस्तु हरेर्दर्शनवानपि ।
न मुच्यतेऽखिलज्ञोऽपि तमो याति च निश्चयात् ॥
गुणैरन्यैर्विहीनोऽपि तद्भक्तेष्वपि च क्रमात् ।
सङ्गवान्सुखभागेव स्याद्गुणैर्मुक्तिमेति वा ॥
स्वभक्तसङ्गहीनस्य व्युत्क्रमात्सङ्गिनोऽपि वा ।
स्वसङ्गविघ्नकृद्विष्णुस्तत्सज्जेतैषु तत्र च’’॥ इति सत्सङ्गे ॥ ३-४ ॥
ते नाधीतश्रुतिगणा नोपासितमहत्तमाः ।
अव्रतातप्ततपसो मत्सङ्गान्मामुपागताः ॥ ७॥
केवलेन हि भावेन गोप्यो गावः खगा मृगाः ।
येऽन्ये मूढधियो नागाः सिद्धा मामीयुरञ्जसा ॥ ८ ॥
यं न योगेन सांख्येन दानव्रततपोऽध्वरैः ।
व्याख्यास्वाध्यायसंन्यासैः प्राप्नुयाद् यत्नवानपि ॥ ९ ॥
मत्कामा रमणं जारं मत्स्वरूपाविदोऽबलाः ।
ब््राह्म मां परमं प्रापुः शतशोऽथ सहस्रशः ॥ १३ ॥
‘गोपिकाद्या दिवं गत्वा हरिं ज्ञात्वा यथातथम् ।
परं पदं ययुः पूर्वसङ्गादेव शुभोचिताः’’॥ इति च ॥ ७-९,१३ ॥
तस्मात् त्वमुद्धवोत्सृज्य चोदितां प्रतिचोदनाम् ।
प्रवृत्तं च निवृत्तं च श्रोतव्यं श्रुतमेव च ॥ १४ ॥
मामेकमेव शरणमात्मानं सर्वदेहिनाम् ।
याहि सर्वात्मभावेन यस्मिन्नस्त्यकुतोभयम् ॥ १५ ॥
‘श्रोतव्यं च श्रुतं चैव वक्तव्यं कार्यमेव च ।
निवर्त्यं च हरेः पूजेत्येवं कुर्यान्न चाक्रमात् ॥
एवं कर्ता तु संन्यासी सर्वोत्सर्गाद्धरौ स्मृतः ।
अन्यथा नैव संन्यासी निष्क्रियोऽपि शिला यथा’’॥ इति कर्मविवेके ॥
‘नाहं कर्ता तु सर्वस्य कर्तैको विष्णुरव्ययः ।
इति वित्त्वा तु सन्यासी नान्यथा तु कथञ्चन’’॥ इति निवृत्ते ॥
‘मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा ।
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः’’॥ इति च ॥१४-१५॥
उद्धव उवाच– संशयः शृण्वतो वाचं तव योगेश्वरेश्वर । न निवर्तत आत्मस्थो येन भ््र•म्यति मे मनः ॥ १६ ॥
वायौ मुख्यधियेत्युक्तवा विशेषतो गोपिकाप्रशंसनात्संशयः शृृण्वत इति चोदयति ॥ १६ ॥
श्रीभगवानुवाच– य एष जीवो विवरप्रसूतिः प्राणेन घोषेण गुहां प्रविष्टः । मनोमयं सूक्ष्ममुपैति रूपं मात्रा स्वरो वर्ण इति स्थविष्ठम् ॥ १७ ॥
गोपिका अपि मामापुः किमु वाय्वाद्या इति दर्शयितुं गोपिकाप्रशंसनम् । सर्वैर्गुणैः सर्वोत्तमस्तु वायुरेव । स एव च हिरण्यगर्भ इति दर्शयितुमाह । य एष जीवो विवरप्रसूतिरित्यादि । विशेषेण वराणामहङ्कारादीनामपि प्रसूतिकर्ता । प्राणेन विष्णुना घोषेण वेदात्मिकया प्रकृत्या मनोमात्रा-दयश्च हिरण्यगर्भस्य देव्याः परमात्मनश्च व्यक्तिस्थानानीत्युक्तम् ।
‘प्राणेन घोषेण च सह विवरप्रसूतिर्मनोमयं रूपमुपैति’’॥ इत्यादिना ॥ १७ ॥
यथाऽनलः स्वेऽनिलबन्धुरूष्मा बलेन दारुण्यधिमथ्यमानः । अणुः प्रजातो हविषा समिद्ध्यते तथैव मे व्यक्तिरियं हि वाणी ॥ १८ ॥
एवं गतिः कर्म रतिर्विसर्गो घ्राणो रसो दृक् स्पर्शः श्रुतिश्च । सङ्कल्पविज्ञानमथाभिमानः सूत्रं रजः सत्वतमोविकारः ॥ १९ ॥
तत्रापि विशेषतो भगवत एव व्यक्तिस्थानमित्याह । यथाऽनल इत्यादिना ॥ १८,१९ ॥
अयं हि जीवस्त्रिवृदब्जयोनि- रव्यक्त एको जगतां यथाऽऽद्यः । विश्लिष्टशक्तिर्बहुधैव भाति बीजानि योनिं प्रतिपद्य यद्वत् ॥ २० ॥
यस्मिन्निदं प्रोतमशेषमोतं पटे यथा तन्तुवितानसंस्था । य एष संसारतरुः पुराणः कर्मात्मकः पुष्पफले प्रसूते ॥ २१ ॥
विशेषेण श्लिष्टशक्तिः । अनपगतसामर्थ्यः । यथैकं कलमादिबीजं भूमावुप्तं बह्वङ्कुरं भवति एवं परमात्मानुगृहीतो ब््राह्माऽहङ्कारादिषु बहुधा व्यक्तीभवति ॥
‘सुपर्णशेषरुद्रादिप्रसूतिश्च चतुर्मुखः ।
सर्वजीवोत्तमो जीवो गुणैर्ज्ञानसुखादिभिः ॥
विष्णुभक्त्यादिभिः सर्वैर्नियमात्सार्वकालिकम् ।
मुक्तावपि न सन्देहः स हि देवेन विष्णुना ॥
प्राणप्राणेन जगतामीशेन रमया तथा ।
वेदात्मिक्या च सहितः सूक्ष्मः सन्मनसि स्थितः ॥
वीन्द्रादीनां तु सर्वेषां मात्रावर्णस्वरेषु च ।
स्थूलरूपी सदा तिष्ठन्नेवं श्रोत्रादिखेषु च ॥
सर्वेषां प््रोरको ह्येको ज्ञानानन्दबलैस्त्रिवृत् ।
नित्यशक्तिः सर्वगः सन्बहुधैव प्रतीयते ॥
तस्मिन्नोतमिदं सर्वं पटे लक्षणतन्तुवत् ।
स एव वायुरुद्दिष्टो वायुर्हि ब््राह्मतामगात् ॥
विशेषतो हरेर्व्यक्तिस्थानान्येतानि सर्वशः ।
मन आदीन्यहङ्कारो ब््राह्मा वेदात्मिका रमा ॥
त्रिगुणात्मिका च सैव श्रीः सैवोक्ता संविदात्मिका ।
तस्या अपि नियन्तैको विष्णुः सर्वेश्वरेश्वरः ॥
यथा दारुषु सूक्ष्मः सन्मथितोऽग्निः समिध्यते ।
तथा वेदादिषु हरिर्मथितः सम्प्रदृश्यते ॥
व्यक्तिस्थानान्यथैतानि वेदादीनि हरेर्विदुः’’॥ इति तन्त्रभागवते ॥
‘मनसि व्यक्ततां यामि तस्माद्व्यक्तिर्हि मे मनः’’॥ इति भारते ॥
‘यथैव वस्त्रे दीर्घं च तिर्यक्चापि सुसंस्थिता ।
तन्तुभिः क्रियमाणैव पद्माद्याकारसंस्थितिः ॥
यथा जीर्णानि वस्त्राणि तन्त्वाधाराणि वा पुनः ।
कन्थावयवभूतानि तद्वदेतच्चतुर्मुखे ॥
सोऽपि तद्वद्धरौ नित्यं संस्थितः श्रीरपि स्फुटम्’’॥ इति प्रातिस्विके ॥ २०,२१ ॥
द्वे अस्य बीजे शतमूलस्त्रिनालः पञ्चस्कन्धः पञ्चरसप्रसूतिः । दशैकशाखो द्विसुपर्णनीड- स्त्रिवल्कलो द्विफलः खं प्रविष्टः ॥ २२ ॥
अदन्ति चैकं फलमस्य गृध््र• ग््र•मेचरा एकमरण्यवासाः । हंसा य एवं बहुरूपमिष्टं मायामयं वेद स वेद वेदम् ॥ २३ ॥
एवं गुरूपासनयैकभक्त्या विद्याकुठारेण शितेन धीरः । विवृश्च्य जीवाशयमप्रमत्तः सम्पद्य चात्मानमथ त्यजास्त्रम् ॥ २४ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये एकादशस्कन्धे द्वादशोऽध्यायः ॥
‘जगद्वृक्षस्य बीजे द्वे ब््राह्मा चैव सरस्वती ।
मूलभूतानि कर्माणि मनो बुद्धिरहङ्कृतिः ॥
नालत्वेन समुद्दिष्टाः खमाद्याः स्कन्धसंज्ञिताः ।
एकादशेन्द्रियाण्येव शाखास्तु त्रिगुणास्त्वचः ॥
प्रवृत्तं च निवृत्तं च फले अस्य प्रकीर्तिते ।
पुष्पमैहिकमुद्दिष्टं रसाः शब्दादयस्तयोः ॥
प्रवृत्ताश्च निवृत्ताश्च पक्षिणस्तत्र संस्थिताः ।
वृक्षस्य पृथिवीवच्छ्रीर्विष्णुराकाशवायुवत् ॥
तस्या अपि सदाधार एवं ज्ञात्वा विमुच्यते’’॥ इति निवृत्ते ॥
‘प्राकृतान्तःकरणजं ज्ञानमस्त्रं सृतिच्छिदम् ।
तदेव तेन संछेद्यं चित्तं प्रकृतिसम्भवम् ॥
तेनैव सह संत्याज्यं नैव पूर्वं कथञ्चन ।
ज्ञानं प्रकृतिजं चापि मूलनाशे विनश्यति ॥
ततः परं स्वरूपेण ज्ञानेनैव जनार्दनम् ।
वेत्ति मुक्तस्तस्थाऽऽत्मानं जीवानन्यांश्च सर्वशः’’॥ इति माहात्म्ये ॥
‘बीजभूतावपि ह्यस्य ब््राह्मा चैव सरस्वती ।
न रिष्यतो जगत्सृष्टौ वटवृक्षादिबीजवत् ॥
स्वकार्यतो महान्तौ च गुणतो रूपतस्तथा ।
पृथिव्युदकवत्तस्माद्बीजत्वं न तु बीजवत् ॥
व्यञ्जकत्वान्न चाल्पत्वान्महाक्ष्मावद्रमा स्मृता ।
अण्डो महाक्ष्मा सम्प्रोक्तस्ततः पृथ्व्युदकं तथा ॥
जायते नित्यशस्तस्माद्भुक्तं भुक्तं न हीयते ।
तत्राप्युदकवद्ब्रह्मा मृद्वच्चापि सरस्वती ॥
जलाधारा यतो मृच्च सर्वत्रापि व्यवस्थिता ।
अन्यथा तु रजोभूता नीयते वायुनाऽखिला ॥
अथवा सर्वनाशः स्याज्जलाधारा ततः स्मृता ।
वटादिबीजवत्तस्य पुण्यापुण्यमुदीरितम् ॥
बाह्योदवच्चाग्निवच्च विष्णुरेव प्रकीर्तितः’’॥ इति सत्यसंहितायाम् ॥
श्रियादेरप्याप्यायकत्वाद्बाह्योदवत् । ब््राह्मादेरपि लयकर्तृत्वादग्निवत् । आधारत्वात्सुखदत्वाच्च वायुवत् । अवकाशप्रदत्वाद्व्योमवद्विष्णुः ।
‘व््राीह्यादिवत्तु मूलत्वं कर्मणां जगतः स्मृतम् ।
उदवत्पृथिवीवच्च ब््राह्मणो वाच एव च ॥
मूलभूवच्छ्रियश्चैव मूलभूरण्डमुच्यते ।
बाह्योदाग्नीरखंवत्तु विष्णोर्बीजत्वमिष्यते’’॥ इति विश्वसंहितायाम् ॥
देहेन्द्रियमनोवाक्षु स्थितो भक्त्यादिसाधकः ।
सुपर्णशेषरुद्रादेरपि ब््राह्मा चतुर्मुखः ॥
अतो भक्त्यादिकाः सर्वे गुणास्तस्यैव सर्वगाः ।
अतिरिक्ताश्च सम्पूर्णाः सुपर्णादेः शताधिकाः ॥
सुपर्णादिभिरज्ञातास्तदभीमानवर्जिताः ।
ब््राह्मणस्तु पुनः सन्ति तेषां कर्ता जनार्दनः ॥
तस्मात्सर्वाधिको ब््राह्मा गुणैः सर्वैर्न संशयः ।
वर्णस्थो वर्णनामाऽसौ स्वरस्थः स्वरनामकः ॥
मनःस्थश्च मनोनामा तन्नामा चक्षुरादिगः ।
तस्य सर्वाणि नामानि मुख्यतः कवयो विदुः ॥
तत्स्थानत्वादिन्द्रियादेर्वर्णादेश्चोपचारतः ।
एवमस्योपचारेण विष्णोः साक्षात्तु मुख्यतः’’॥ इति शब्दनिर्णये ॥
‘कृष्णप््रिायाभ्यो गोपीभ्यो भक्तितो द्विगुणाधिकाः ।
महिष्योऽष्टौ विना यास्ताः कथिताः कृष्णवल्लभाः ॥
ताभ्यः सहस्रसमिता यशोदा नन्दगेहिनी ।
ततोऽप्यभ्यधिका देवी देवकी भक्तितस्ततः ॥
वसुदेवस्ततो जिष्णुस्ततो रामो महाबलः ।
न ततोऽभ्यधिकः कश्चिद्भक्त्यादौ पुरुषोत्तमे ॥
विना ब््राह्माणमीशेशं स हि सर्वाधिकः स्मृतः’’ इत्यन्तर्यामिसंहितायाम् ॥
‘पापद्वेषादिका दोषा अवराणां न संशयः ।
भक्त्यादिगुणपूगस्तु पराणामा विरिञ्चतः ॥
स्वातन्त्र्यात्सर्वदेहेषु स्थितानामपि सर्वशः ।
स्पृश्यन्ते नैव दोषैस्ते गुणादानैकतत्पराः’‘इति विवेके ॥
‘यदु किञ्चेमाः प्रजाः । शोचन्त्यमैवासां तद्भवति । पुण्यमेवामुं गच्छति । न ह वै देवान्पापं गच्छति’‘इति च ॥ २२-२४ ॥
त्रयोदशोऽध्यायः
सत्वाद् धर्मो भवेच्छुद्धात् पुंसो मद्भक्तिलक्षणः ।
सात्विकोपात्तया ज्ञानं ततो धर्मः प्रवर्तते ॥ २ ॥
धर्मात्पुनः सत्वोद्रेकः । सत्वोद्रिक्तया बुध्द्या पुनः सत्वोद्रेकात्पुनर्धर्मोद्रेकः॥ २ ॥
वेणुसङ्घर्षजो वह्निर्दग्ध्वा शाम्यति तद्वनम् ।
एवं गुणव्यत्ययजो वेदः शाम्यति तद् यथा ॥ ७ ॥
वेदो वृत्तिज्ञानम् ।
‘मुक्ताश्चाधीयते वेदान् जडज्ञानबहिष्कृताः ।
स्वरूपभूतज्ञानेन पश्यन्तः सर्वमञ्जसा’’॥ इति तात्त्विके ॥ ७ ॥
श्रीभगवानुवाच– एवं पृष्टो महादेवः स्वयम्भूर्भूतभावनः । ध्यायमानः प्रश्नबीजं नाभ्यपद्यत कर्मधीः ॥ १८ ॥
स मामचिन्तयद् देवः प्रश्नपारविनिश्चयम् ।
तस्याहं हंसरूपेण समीपमगमं तदा ॥ १९ ॥
प्रश्नो बीजमस्येति प्रश्नबीजं परिहारम् । गुणानां चेतसश्च कर्म कारण-मिति मन्वानः कर्मधीः ।
‘ब््राह्मा पृष्टस्तु योगीन्द्रैः सनकाद्यैर्मनोगतेः ।
कारणं विषयेष्वद्धा कर्मेति प्रत्यपद्यत ॥
हेतुरन्योऽपि तत्रास्तीत्येवं जानन्नपि प्रभुः ।
विशेषतो मनस्तत्र नाधाज्जानन् हरेः प््रिायम् ॥
स्वात्मना परिहारोक्तिस्तदा ह्यासीद्धरेः प््रिाया ।
अतः स तत्प््रिायं जानन्नाकरोत्तद्विचारणम् ॥
तमेवाचिन्तयद्देवः प्रश्ननिर्णयकारणात् ।
भ््रामतीव मनः क्वापि ब््राह्मणो विष्णुमायया ॥
सर्वज्ञस्यापि तत्रात्मा वक्तुमिच्छेज्जनार्दनः ।
तज्ज्ञात्वा चिन्तितं तस्य चिन्तयत्यमुमेव तु ॥
न स्वयं चिन्तयत्यर्थं स हि तद्भाववित्सदा ।
अन्ये त्वज्ञानसंयुक्ता मोहमीयुर्यथाक्रमम् ।
तस्य मध्यन्दिने सूर्ये क्षोभवत्क्षोभमात्रकम् ।
नैवाज्ञानं यथा सूर्ये तमो नास्ति कदाचन’’॥ इति भावविवेके ॥ १८ ॥
वस्तुनो यद्यनानात्वमात्मनः प्रश्नः ईदृशः ।
कथं घटेत वो विप्रा वक्तुं वाऽनेक आश्रयः ॥ २२ ॥
आत्मनो वस्तुनः परमात्मवस्तुन एकत्वं यद्यङ्गीकृतम् । तदा कथं प्रश्नो घटेत ॥ न हि परमात्मनोऽन्योऽत्र ब््राह्मणा पूज्यः स्यादभिवन्दनादिना । तस्माद्ब्रह्मणो वन्द्यः परमात्मैव स चैक एव अतः कथं प्रश्नः परिहारो वा ॥
पञ्चात्मकेषु भूतेषु समानेषु च वस्तुतः ।
को भवानिति वः प्रश्नो वाचारम्भो निरर्थकः ॥ २३ ॥
वस्तुतः समानेषु हिरण्यगर्भावरत्वात्तद्वन्द्यत्वाभावापेक्षया । तस्माद्ब्रह्मणो वन्दनानन्तरं विचारो न घटते । तस्मात्को भवानिति वाचा प्रारब्धः प्रश्नो निरर्थकः ॥ २३ ॥
मनसा वचसा दृष्टया गृह्यतेऽन्यैरपीन्द्रियैः ।
अहमेव न मत्तोऽन्यदिति बुद्ध्यध्वमञ्जसा ॥ २४ ॥
तस्मान्मन आदिभिर्गृह्यमाणमहं न भवाम्येव । स्वयमपि प्रसादा-त्कथञ्चिद्गृह्यत इत्यत आह । मत्तोऽन्यदिति । यन्मनआदिभिर्विचार्य मत्तोऽन्यत्वेनैव ज्ञायते । तदहं न भवाम्येवेति बुध्यध्वम् । विचारितस्यापि पुनः संशयकारणं परिकल्प्य संशयो न कर्तव्यः । अतः को भवानिति नारब्धव्यः, गुणेष्वाविशते चेत इत्येव प्रश्न आरब्धव्यः ।
‘न युष्माकमपि प्रश्नो घटेतायं कथञ्चन ।
मामृते न हि वन्द्योऽस्ति विरिञ्चेः क्वापि कश्चन ॥
अभिवन्दितपादं मां विरिञ्चेन कथं पुनः ।
पृच्छथान्ये समा यस्मादवरत्वे चतुर्मुखात् ॥
देवा मनुष्याः पितरो गन्धर्वा असुरास्तथा ।
इति पञ्चात्मकं सर्वं ब्रह्मणस्त्ववरं यतः ॥
यन्मदन्यद्विचारेण गृह्यते तन्न चास्म्यहम् ।
इति जानीध्वमद्धैव मत्प्रसादाद्धि मद्दृशिः ॥
अन्यत्स्वभावतो दृश्यं मम प्रेरणयैव तु ।
तस्माद्विवक्षितार्थे तु प्रश्नारम्भो न मद्गतः’’॥ इति तन्त्रभागवते ॥
‘इदं हि विश्वं भगवानिवेतरः’‘इति च ।
‘प्रकृतेर्व्यतिरिक्तो यः पुरुषश्चेति कथ्यते ।
तं विद्यात्परमात्मानं वासुदेवेति यं विदुः’’॥ इति भारते ॥
‘प्रकृतेः प्राकृताच्चैव व्यतिरिक्तं गुणाधिकम् ।
ये विदुः परमात्मानं ते यान्ति परमं पदम्’’॥ इति च ॥
‘नैतदिच्छन्ति पुरुषमेकं कुरुकुलोद्वह ।
बहूनां पुरुषाणां हि यथैका योनिरुच्यते ।
तथा तं पुरुषं विश्वमाख्यास्यामि गुणाधिकम्’’॥ इति च ॥ २४ ॥
गुणेष्वाविशते चेतो गुणाश्चेतसि च प्रजाः ।
जीवस्य देह उभयं गुणाश्चेतो मदात्मनः ॥ २५ ॥
मय्येव मनो यस्य स मदात्मा तस्योभयं देहे दग्धमभवत् ॥ २५ ॥
गुणेषु वाऽऽविशेच्चित्तमभीक्ष्णं गुणसेवया ।
गुणाश्च चित्तप्रभवा मद्रूप उभयं त्यजेत् ॥ २६ ॥
मत्स्वरूपे तदुभयं त्यजेत् । मयि स्थिताश्चेतो गुणाश्चेति ।
‘विष्णुस्था विषयाः सर्वे विष्णावेव मनो मम ।
इति मय्यर्पयन्सर्वं त्यजेत्तत्तं न बाधते’’॥ इति साम्ये ॥ २६ ॥
यर्हि संसृतिबन्धोऽयमात्मनो गुणवृत्तितः ।
मयि तुर्ये स्थितो जह्यात् त्यागस्तु गुणचेतसाम् ॥ २८ ॥
गुणचेतसां त्याग एव बन्धत्यागः ॥ २८ ॥
यावन्नानार्थधीः पुंसो न निवर्तेत युक्तिभिः ।
जाग््रात्यपि स्वपन्नज्ञः स्वप्ने जागरणं यथा ॥ ३० ॥
‘भिन्नस्य त्वेकभावेन तथैकस्य च भेदतः ।
ज्ञानं नानार्थधीः प्रोक्ता नानात्वादर्थतद्धियोः’’॥इति ब््राह्मतर्के ॥ ३० ॥
असत्त्वादात्मनोऽन्येषां भावानां किंकृताऽभिदा ।
गतयो हेतवश्चास्य मृषा स्वप्नदृशो यथा ॥ ३१ ॥
‘अभिधा किङ्कृतैतेषां भावानां परमेश्वरे ।
यतोऽसत्वमशक्तत्वाद्भावानां तस्य शक्तता ॥
ततः सत्वं साधुभावः सत्वमित्युच्यते बुधैः ।
साधुभावश्च शक्तस्य ततोऽन्याऽसाधुता ततः ।
अभेदे जगतो विष्णोर्या वाचो ये च हेतवः ॥
स्वप्नजाग््रात्कल्पकवत्सर्वे ते भ््रामदर्शिताः’’॥ इति शश्वत्संहितायाम् ॥ ३१ ॥
यो जागरे बहुविधान् क्षणधर्मिणोऽर्थान् भुङ्क्ते समस्तकरणो हृदि तत्सदृक्षान् । स्वप्नेऽथ सुप्त उपसंहरते स एकः स्मृत्यन्वयात् त्रिगुणवृत्तिदृगिन्द्रियेशः ॥ ३२ ॥
‘दक्षिणाक्षिस्थितो विष्णुर्भुङ्क्तेऽर्थान् जाग््रादास्थितान् ।
कण्ठसंस्थस्तथा स्वप्नान् जीवानन्दं च सुप्तिगः ॥
श्रुत्यन्वयात्स्मृतिभ्यश्च स एकः परमेश्वरः ।
अस्वतन्त्रस्य जीवस्य स्वतन्त्रो जाग््रादादिदः ॥
स्वयं स्वप्नादिहीनः सन् क्रीडते पुरुषोत्तमः’’॥ इति तत्त्वे ॥
‘स्वप्नेन शारीरमभिप्रहत्यासुप्तः सुप्तानभिचाकशीति’’॥ इत्यादि च ॥ ३२ ॥
वीक्षेत विभ््राममिमं मनसो विलासं दृष्टं विनष्टमतिलोलमलातचक्रम् । विज्ञानमेकमुरुधेव विभाति माया स्वप्ने यथा त्रिगुणसर्गकृतो विकल्पः ॥ ३४ ॥
जाग््रादादिषु परमात्मभेदं विभ््रामं वीक्षेत ।
‘जाग््रादादिकरो देवः परमात्मैक एव तु ।
इति वीक्षेत सततं मुच्यते संसृतेरतः’’॥ इति प्रकाशसंहितायाम् ।
यदा विभ््रामोऽयमिति दृष्टस्तदैव विनष्टः । श्रुतियुक्तिभिर्विचारितेऽतिलोलः । क्षिप्रं विनश्यतीत्यर्थः । अलातस्य चक्राकारत्वभ््रामवत् परमात्मभेदभ््रामः । त्रिगुणैस्तत्कार्यैः पापादिभिश्च बद्धः सन् विज्ञानरूपं परमात्मानं भ््र•न्त्या बहुधा पश्यति ।
‘देहभेदेष्ववस्थासु प्रादुर्भावेषु चैकलम् ।
ज्ञानानन्दैकसद्रूपं भ््र•न्त्या भिन्नं प्रपश्यति ॥
सा च भ््र•न्तिर्विनश्येत यदा भ््र•न्तित्ववेदनम् ।
अतिक्षिप्रं विनश्येच्च न स्थिरं दिग्भ््रामादिवत् ॥
त्रिगुणैर्बन्धिता जीवा ज्ञप्तिमात्रं जनार्दनम् ।
पश्यन्ति बहुधा स्वप्ने यथैकं बहुधा क्वचित् ॥
अभिन्नोऽपि विभिन्नेषु व्यवहारो यथा भवेत् ।
तथैव व्यवहाराय शक्तत्वान्नैव दूषणम् ।
ईशस्य तु तदन्येषामपि यच्छक्तिदायकः’’॥ इति ब््राह्मतर्के ॥
अलातभ््र•मको यदा निवर्तते तदैव भ््रामो निवर्तते । तद्वद्यदा भ््रामनिवृत्ति-मिच्छति तदैव गुरूपसदनान्निवर्तयितुं शक्यः ।
‘अशक्योऽप्यपि शक्योऽयं विनिवर्तयितुं भ््रामः ।
ईशस्थो गुरुसम्पत्त्या यदि शुद्धमनाः पुमान्’’॥ इति सम्यग्ज्ञाने ॥ ३४ ॥
दृष्टिं ततः प्रतिनिवर्त्य निवृत्ततर्ष- स्तूष्णीं भवेन्निजसुखानुभवो निरीहः । सन्दृश्यते क्वच यदीदमवस्तुबुद्ध्या त्यक्तं भ््रामाय न भवेत् स्मृतिरानिपातात् ॥ ३५ ॥
निपातमन्धन्तमः । मोक्षमारभ्य तावत्पर्यन्तं स्मृतिर्यस्माज्ज्ञानिनो वर्तते अतो मूढेषु स्थितो भ््रामो यद्यपि संदृश्यते तेन तथापि भ््रामाय न भवति । फलं हि निपातं स्मरति ॥ ३५ ॥
देहं च नश्वरमवस्थितमुज्झितं च सिद्धो न पश्यति यतोऽध्यगमत् स्वरूपम् । दैवादुपेतमथ दैववशादपेतं वासो यथा परिवृतं मदिरामदान्धः ॥ ३६ ॥
त्रिगुणसर्गकृतो विकल्प इत्युक्तम् । ज्ञानिनोऽपि देहवत्त्वेन त्रिगुणित्वा-द्विकल्पो भवतीत्यत आह । देहं च नश्वरमिति ॥ ३६ ॥
देहोऽपि दैववशगः खलु कर्म यावत् स्वारम्भकं प्रति समीक्षत एव सासुः । तं सप्रपञ्चमधिरूढसमाधियोगः स्वाप्नं पुनर्न भजते प्रतिबुद्धवत् सः ॥ ३७ ॥
‘आदरो भजनं भक्तिर्बहुमानं च सेवनम् ।
पर्यायवाचकाः सर्वे स्मृतिस्तज्जन्म कर्म च’’॥ इति शब्दनिर्णये ॥ ३७ ॥
मां भजन्ति गुणाः सर्वे निर्गुणं निरपेक्षकम् ।
सुहृदं परमात्मानं साम्यासङ्गादयो गुणाः ॥ ४० ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये एकादशस्कन्धे त्रयोदशोऽध्यायः ॥
‘अपूर्णगुणरूपास्तु सम्पूर्णगुणरूपकम् ।
भजन्ति परमं ब््राह्म देवास्त्रिगुणवर्जितम्’’॥ इति कालसंहितायाम् ॥ ४० ॥
चतुर्दशोऽध्यायः
तेन प्रोक्ता च पुत्राय मनवे पूर्वजाय सा ।
ततो भृग्वादयोऽगृह्णन् सप्त ब््राह्म महर्षयः ॥ ४ ॥
‘रुद्रमिन्द्रं कुमारं च विनैवान्याग््राजो मनुः ।
ब््राह्मपुत्रेष्वादिसृष्टावन्यथात्वं पुनर्जनेः’’॥ इति स्कान्दे ॥
‘पूर्वसृष्टौ पूर्वजा ये तेऽधिकाः सर्वतो गुणैः ।
अनाद्यनन्तकालेषु मुक्तावपि यथाक्रमम्’’॥ इति निबन्धे ॥ ४ ॥
एवं प्रकृतिवैचित्र्याद् भिद्यन्ते मतयो नृणाम् ।
पारम्पर्येण केषाञ्चित् पाखण्डमतयोऽपरे ॥ ८ ॥
अनेन पारम्पर्येण केषाञ्चिदेव देवादीनाम् ॥ ८ ॥
मन्मायामोहितधियः पुरुषाः पुरुषर्षभ ।
श्रेयो वदन्त्यनेकान्तं यथाकर्म यथारुचि ॥ ९ ॥
धर्ममेके यशश्चान्ये कामं सत्यं दमं शमम् ।
अन्ये वदन्ति चार्थं वा ऐश्वर्यं त्यागभोजने । केचिद् यज्ञं तपो दानं व्रतानि नियमान् यमान् ॥ १० ॥
आद्यन्तवन्त एवैषां लोकाः कर्मविनिर्मिताः ।
दुःखोदर्कास्तमोनिष्ठाः क्षुद्रानन्दाः शुचार्पिताः ॥ ११ ॥
‘मद्भक्तिवर्जितं श्रेयो ये मन्यन्ते दुराशयाः ।
तेषामन्ते तमो घोरमनन्तं प्राप्यते ध््राुवम्’’॥ इति मान्यसंहितायाम् ॥ ११ ॥
न तथा मे प््रिायतम आत्मयोनिर्न शङ्करः ।
न च सङ्कर्षणो न श्रीर्नैवाऽत्मा च यथा भवान् ॥ १५ ॥
‘कृपानिमित्ता या प्रीतिर्नीचभक्तेषु साऽधिका ।
आन्तरैव तु या प्रीतिः सा तूच्चेषु यथाक्रमम् ॥
यथा कश्चित्स्वमात्मानं प््रिायां पुत्रमथापि वा ।
अतिहाय कृपायुक्तो भिक्षवेऽन्नं ददात्यपि ॥
कदाचिदेव न पुनः स्वात्मादेः सार्वकालिकम् ।
योगक्षेमवहत्वं च नित्यं स्वात्मादिषु स्फुटम् ॥
एवमेव परेशस्य भक्तेषु श्रियजादिषु’’॥ इति प््रिायविवेके ॥
‘यादवेभ्यश्च सर्वेभ्य उद्धवो भगवत्प््रिायः ।
उद्धवाच्च प््रिायतमः प्रद्युम्नस्तु महारथः ॥
तस्मादपि प््रिायतमो रामः कृष्णस्य सर्वदा ।
नैव तस्मात्प््रिायतमो विनैकं तु चतुर्मुखम् ॥
सर्वेऽभ्योऽपि प््रिायतमा हरेः श्रीरेव वल्लभा ।
नैव तस्याः प््रिायतमो विना स्वात्मानमेव तु’’॥ इति यादवाध्यात्मे ॥ १५ ॥
निरपेक्षं मुनिं शान्तं निर्वैरं समदर्शनम् ।
अनुव््राजाम्यहं नित्यं पूयेय स्वाङ्घ्रिरेणुभिः ॥ १६ ॥
स्वाङ्घ्रिरेणुभिस्तं शोधयामीत्यनुव््राजामि ।
‘अनुगच्छति विष्णुस्तु स्वभक्तं तस्य शुद्धये ।
तस्याङ्घ्रिरेणुभिर्वातनीतैरग््रोसरः शुचिः ॥
अग््रातो गमने विष्णोः पादस्पृष्टं रजो भवेत् ।
अतः स्वभक्तं पूयेयेत्यनुव््राजति केशवः’’॥ इति सङ्ख्याने ॥ १६ ॥
कथं विना रोमहर्षं द्रवता चेतसा विना ।
विनाऽऽनन्दाश्रुकलया तुष्येत् भक्त्या विनेश्वरः ॥ २३ ॥
वाग्गद्गदा द्रवते यस्य चित्तं रुदत्यभीक्ष्णं हसति क्वचिच्च । विलज्ज उद्गायति नृत्यते च मद्भक्तियुक्तो भुवनं पुनाति ॥ २४ ॥
‘चित्तद्रवस्तथा स्थैर्यं प्रसादो भक्तिलक्षणम् ।
आधिक्येन तु तत्रापि स्थैर्यमेव विशेषतः ॥
दम्भस्य चलभक्तेश्च यस्मादश्व्रादिकं भवेत् ।
दम्भादिपरिहारार्थं निगृह्णीयाच्च धीरधीः ॥
अत आध्यात्मिकैः क्लेशैराधिभूताधिदैविकैः ।
वाक्यैश्च वेदतन्त्राद्यैरुपदेशैश्च तादृशैः ॥
बलवच्छासनैर्वापि यस्य भक्तिर्न चाल्यते ।
स एव परमो भक्तो विष्णोर्हृदयवल्लभः’’॥ इति भक्तिविवेके ॥ २३-२४ ॥
स्त्रीसङ्गसङ्गिनां सङ्गं त्यक्त्वा दूरत आत्मवान् ।
क्षेमे विविक्त आसीनश्चिन्तयेन्मामतन्द्रितः ॥ २९ ॥
न तथाऽस्य भवेत् क्लेशो बन्धश्चान्यप्रसङ्गतः ।
योषित्सङ्गाद् यथा पुंसो यथा तत्सङ्गिसङ्गतः ॥ ३० ॥
‘केशवे त्वन्यथाबुद्धिः सैव स्त्री सम्प्रकीर्तिता ।
त्रिकालदुःखदत्वेन पुंसा सह निवासनात्’’॥
‘जुष्टत्वाद्योषिदित्युक्ता वननाद्वनितेति च ।
प्रमादकरणत्वात्तु प्रमदेति च गीयते ॥
त्यजेत्तत्सङ्गिनां सङ्गं बुभूषुः पुरुषः सदा ।
न तादृशः क्वचिद्दोषः पुरुषस्यासुखावहः ॥
क्षुद्रपापानि पापानि चोपपातकपातके ।
महापातकनामानि सुमहापातकान्यपि ॥
तथा स्वतिमहान्तानि पातकानि विदो विदुः ।
पिपीलिकावधादीनि क्षुद्रपापोदितानि च ॥
पापमस्थिमतां हत्या फलचौर्यादिरेव वा ।
परदारादिकं चापि ह्युपपातकसंज्ञितम् ॥
पातकं शूद्रहत्यादि ब््राह्महत्यादिकं महत् ।
देवस्वहरणादीनि सुमहान्ति विदो विदुः ॥
देवावज्ञा सतां चैव ततोऽपि सुमहत्तरा ।
महन्महत्तरा तस्या अवज्ञा केशवे तु या ॥
केशवस्य समोऽस्तीति केशवोऽस्म्यहमित्यपि ।
ब््राह्माद्याः केशवात्मानः श्रीर्वा निर्गुण इत्यपि ॥
मुक्तस्य तद्भावमतिररूपत्वमतिस्तथा ।
त्रिगुणात्मकदेहोऽस्याप्यस्तीत्यपि तु या मतिः ॥
जन्ममृत्यादिबुद्धिर्वा दुःखाज्ञानादिबोधनम् ।
तस्यापि परतन्त्रत्वविज्ञानं च तदुत्तमः ॥
अस्तीति या मतिस्तस्य वशादन्यस्य कस्यचित् ।
अस्तीति भावनेत्याद्या अवज्ञाः सम्प्रकीर्तिताः’’॥ इति धर्मविवेके ॥
‘अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम्’’।
‘अपि चेत्सुदुराचारो भजते मामनन्यभाक्’’॥ इत्यादि च ॥
‘बाध्यमानोऽपि मद्भक्तः’’। इत्यादि च ।
‘परदारदृशिः प्रोक्ता क्षुद्रपातकसंज्ञिता ।
उपपातकं तद्गतिश्च वर्णबाह्येषु पातकम् ॥
महापातकसंज्ञं तु पित्रादेर्दारधर्षणम् ।
दारदृष्टिः स्वोत्तमानां मानुषाणां स्वभावतः ॥
सुमहापातकं प्रोक्तं तद्गतिः सुमहत् ततः ।
ऋषिदारेषु मनसो गतिरेव ततोऽधिका ॥
देवदाराभिकामानां सङ्गिसङ्गस्ततोऽधिकः ।
किमु विष्णोस्ततो योषित्सङ्गस्य व्यत्ययस्थितेः ॥
न समं पातकं क्वापि न हि स्वस्त्र्यभिकामतः ।
अवज्ञाता माधवादेस्तस्मात्तं दूरतस्त्यजेत् ॥
मानुषेषु तु दुःखित्वं क्षुद्रपापफलं स्मृतम् ।
पापात्तु वर्णबाह्यत्वं तिर्यग्योनिगतिस्तथा ॥
सहस्रवर्षनरकं क्षुद्रपातकजं फलम् ।
उपपातकतश्चापि नरकं युगमात्रकम् ॥
चतुर्युगावसानं तु पातकस्य फलं स्मृतम् ।
महापातकजन्यं च कल्पावधि समीरितम् ॥
सुमहापातकाच्चापि यावद्ब्रह्मलयो भवेत् ।
तत्पराणां पातकानां फलमन्धन्तमः स्मृतम् ॥
अधोऽधो दुःखबहुलं विष्णुदाराभिमर्शनात् ।
वधादपि हि दाराणां धर्षणं कोपकारणम् ॥
तस्माद्देव्यः सदा वन्द्या अग्निवन्नाभिकामतः’’॥ इति धर्मतत्त्वे ॥ २९-३० ॥
एवं प्रणवसंयुक्तं प्राणसंयममभ्यसेत् ।
दशकृत्वस्त्रिषवणं मासादर्वाग् जितानिलः ॥ ३५ ॥
‘उपास्य प्राणतोऽनुज्ञां हृदिस्थात्प्राप्य सेवकः ।
अनुज्ञानन्तरं मासाद्वशे प्राणो भविष्यति ।
प्रसादभाक्तवं सम्प्रोक्तं प्राणविष्ण्वोर्जयस्त्विति ॥
न हि सर्वविजेतारौ विजेयौ केनचित्क्वचित् ।
अपेक्षितं फलं येन दीयते तज्जितं त्विति ।
यथा जिता वसुमती यथा मोक्षपदं जितम्’’॥ इति प्रभञ्जने ॥ ३५ ॥
तत्र लब्धपदं चित्तमाकृष्य व्योमि्न धारयेत् ।
तच्च त्यक्त्वा मदारोहो न किञ्चिदपि चिन्तयेत् ॥ ४४ ॥
‘व्योमेति व्याप्तशब्दः स्याद्विशेषादोतता यतः’’॥ इति शब्दनिर्णये ।
व्योमि्न धारयेत् सर्वाङ्गेषु धारयेदित्यर्थः । तच्च धारणं त्यक्त्वा स्वत एव मनसस्तत्रैव समाहितत्वादन्यत्किमपि न चिन्तयेत् ।
‘यावत्समग््रास्मरणमचलं केशवे भवेत् ।
समग््रां चिन्तयेत्तावद्यदा तु विचलेत्ततः ॥
प्रत्यङ्गं धारणं कुर्यान्मनो यावत्समग््रागम् ।
प्रत्यङ्गाभ्यासतो यावत्समग््रो सुस्थिरं मनः ॥
तदा पुनः समग््रां तु धारयेद्यत्नतो बुधः ।
यदा तु धारणोऽत्साहं विना तत्राचलं मनः ॥
तिष्ठेत् त्यक्त्वा तदुद्योगं शङ्खचक्राम्बुजाङ्किते ।
आरूढचेताः परमे शृृङ्गाराद्येकधामनि ॥
नैवान्यच्चिन्तयेत्तस्मात्पूर्णानन्दाच्चतुर्भुजात् ।
यतोऽन्यस्मरणे तस्मान्मनश्चलति सुस्थिरम् ॥
धारणार्थप्रयत्नेन तस्मात्तदुभयं त्यजेत् ।
यावत्स्वारूढचेताः स्याद्विष्णो रूपे चतुर्भुजे’’॥ इति ध्यानयोगे ॥ ४४ ॥
एवं समाहितमतिर्मामेवात्मानमात्मनि ।
विचष्टे मयि सर्वात्मन् ज्योतिर्ज्योतिषि संयुतम् ॥ ४५ ॥
परमात्मानं मां स्वदेहे पश्यति । जीवज्योतिर्मयि संयुतं प्रपश्यति ।
‘समाधियोगे सम्पूर्णे हृदि पश्यति केशवम् ।
जीवं तत्प्रतिबिम्बं च तेनैव सह संस्थितम् ॥
तदाधारं तदन्तस्थं तेनैव सदृशं तदा ।
आनन्दज्ञानशक्त्याद्यैः सदा तदवरं गुणैः ॥
जीवन्मुक्तौ च मुक्तौ वा सततं तद्वशे स्थितम्’’॥ इति ।
‘स्वयं प्रकाशरूपत्वाज्जीवोऽपि ज्योतिरुच्यते’’॥ इति च तत्त्वप्रतिपत्तौ ॥ ४५ ॥
ध्यानेनेत्थं सुतीव््रोण युञ्जतो योगिनो मनः ।
संयास्यत्याशु निर्वाणं द्रव्यज्ञानक्रियाभ््रामः ॥ ४६ ॥
॥ इति श्रीभागवततात्पर्यनिर्णये एकादशस्कन्धे चतुर्दशोऽध्यायः ॥
द्रव्यज्ञानक्रियाविषये भ््रामरूपं मनो लयं याति ॥ ४६ ॥
पञ्चदशोऽध्यायः
श्रीभगवानुवाच– सिद्धयोऽष्टादश प्रोक्ता धारणायोगपारगैः । तासामष्टौ मत्प्रधाना ता एव गुणहेतवः ॥ ३ ॥
मय्येव प्राधान्येन सन्ति अन्येषूपचारत इति मत्प्रधानाः ।
‘सर्वाधिका अणीमाद्या विष्णोर्नान्यस्य कस्यचित् ।
स्वाभाविका विरिञ्चस्य तत्प्रसादात्पराधिकाः’’॥ इति स्वाभाव्ये ॥
‘गुणभूतानामन्यासामपि सिद्धीनां ता एव हेतवः ।
स्वतस्तास्वेवाष्टस्वन्यासामन्तर्भावात् । ।
निःसीमाष्टगुणाभावात्सिद्धयोऽष्टादश स्मृताः ।
देवेभ्योऽन्यत्र देवानां सिद्धयोऽष्टैव सम्मताः’’॥ इति प्राकाश्ये ॥३॥
अणिमा महिमा मूर्तेर्लघिमा प्राप्तिरिन्द्रियैः ।
प्राकाश्यं श्रुतदृष्टेषु शक्तिप््रोरणमीशिता ॥ ४ ॥
गुणेष्वसङ्गो वशिता यत्कामस्तदवाप्स्यति ।
एता मे सिद्धयः सौम्याष्टावौत्पत्तिका मताः ॥ ५ ॥
शक्तिप््रोरणमेवेशितृत्वम् । असङ्ग एव वशित्वम् ।
‘यादृशानन्दकामः स्यात्तादृशानन्दसम्भवः ।
भोगान्विनैव प्राकाम्यमणिमादेः पृथक् ततः’’॥ इति च ॥ ४,५ ॥
अनूर्मिमत्त्वं देहेऽस्मिन् दूरश्रवणदर्शनम् ।
मनोजवः कामरूपं परकायप्रवेशनम् ॥ ६ ॥
स्वच्छन्दमृत्युर्देवानां सहक्रीडानुदर्शनम् ।
यथासङ्कल्पसंसिद्धिराज्ञाऽप्रतिहतागतिः ॥ ७ ॥
त्रिकालज्ञत्वमद्वन्द्वं परचित्ताद्यभिज्ञता ।
अग्न्यर्काम्बुविषादीनां प्रतिस्तम्भोऽपराजयः ॥ ८ ॥
अनूर्मिमत्त्वं प्राकाम्येऽन्तर्भूतम् । दूरश्रवणदर्शनं त्रिकालज्ञत्वम् । परचित्ता-द्यभिज्ञता च प्रकाश्यान्तर्भूतानि । मनोजव इत्यादिषट्कं प्राप्त्यन्तर्भूतम् । अन्यत्सर्वमीशित्वान्तर्भूतमपि परमेशत्वाभावे प्रथगित्यष्टादश । अग्न्यर्काम्बुविषादीनामित्यादिशब्दोक्ता । शस्त्रास्त्रनखदन्तताडनशापादिभिरप्रतिहतिः पृथगेव सिद्धिः सप्तदशी । अप्रतिहता आ समन्ताद्गतिर्यस्या आज्ञायाः साऽप्रतिहतागतिः । अद्वन्द्वमप्रतिहतं त्रिकालज्ञत्वम् । अग्न्यर्काम्बुविषाणां प्रतिस्तम्भाश्चतस्रः सिद्धयः । दूरश्रवणदर्शने द्वे सिद्धी ।
‘गरिम्णः सैव हेतुः स्यान्महिमा हेतुधारणा ।
प्रायोऽष्टसिद्धिकथनेष्वथो न पृथगुच्यते’‘इति च ॥
‘प्राप्तिप्राकाश्ययोश्चापि धारणैकापि सम्भवेत् ।
अत ऐक्येन तामुक्त्वा गरिमाणं पृथक् क्वचित्’’॥ इति च ॥
‘मूलभूतास्तु सिद्धीनां देवानामष्टसिद्धयः ।
सर्वसिद्धिप्रधानास्तास्तज्जा अष्टादश स्मृताः ।
अष्टस्वन्तर्गतास्तास्तु तदपेक्षतयाऽल्पकाः’’॥ इति च ॥
कामरूपत्वस्याणिमादित्रयेऽप्यन्तर्भावः । अष्टसिद्धिपक्षे अग्न्यर्कस्तम्भ एकैव सिद्धिः अदाहत्वात् । अग्न्यादिप्रतिस्तम्भस्य वशित्वेऽपि । अनूर्मिमत्त्वा-द्यष्टादशपृथक्सिद्धिपक्षेऽग्न्यर्कस्तम्भयोः पृथक्त्वम् । तस्मिन्पक्षे तासां सकाशात्प्रधानाष्टौ मत्प्रधाना इति व्याख्या ।
‘अनूर्मिमत्त्वसिद्धिस्तु प्राकाम्यान्तर्गता मता ।
दूरश्रुतिर्दूरदृष्टिस्त्रिकालज्ञत्वमेव च ॥
परचित्ताद्यभिज्ञानं प्राकाश्यान्तर्गतानि च ।
अणिमादित्रयान्तश्च कामरूपत्वमिष्यते ॥
अग्न्यर्काम्बुविषादीनां प्रतिस्तम्भो वशित्वगः ।
मनोजवः कामरूपं परकायप्रवेशनम् ॥
स्वच्छन्दमृत्युता देवैः सह क्रीडेष्टसाधनम् ।
प्राप्तावन्तर्गतान्याहुराज्ञाऽप्रतिहतिस्तथा ॥
अग्निस्तम्भो रविस्तम्भ उदकस्तम्भ एव च ।
विषस्तम्भस्तथा शस्त्रशापादिस्तम्भ एव च ॥
ईशित्वान्तर्गतान्याहुरपराजय एव च ।
एवमष्टादशाष्टभ्यो जायन्ते सिद्धयः क्रमात् ॥
अष्टादशभ्यश्चान्यास्तु जायन्ते सिद्धयोऽमिताः ।
अनूर्मिमत्त्वं दुःखस्याभावमात्रमुदाहृतम् ॥
यथेष्टानन्दसम्प्राप्तिः प्राकाम्यमिति कीर्त्यते ।
दुःखाभावोऽपि प्राकाम्ये नेतरे सुखितेष्यते ॥
प्राकाश्यं सर्ववेदादिज्ञानमेव विदो विदुः ।
सहस्रयोजनान्तं तु दूरदर्शनमिष्यते ॥
दूरश्रवणमप्येवं तस्मिन्नेव युगे स्थिते ।
वेदादिकं विना प्रोक्ता त्रिकालज्ञानिता बुधैः ॥
शरीरस्थं विना देहे परचित्ताद्यभिज्ञता ।
अन्येन्द्रियैर्दर्शनादि यथासङ्कल्पवेगिता ॥
प्राप्तिरित्युच्यते सद्भिः स्वमनःसमवेगिता ।
मनोजव इति प्रोक्तः पश्वाद्याकारता तथा ॥
कामरूपत्वमुद्दिष्टं स्वदेहत्यागतः परे ।
परकायप्रवेशः स्याद्युगादर्वाक्तना स्मृता ॥
स्वच्छन्दमृत्युता देवैः क्रीडा चेन्द्रादिभिर्विना ।
यथासङ्कल्पसिद्धिश्चाप्यन्नपानसुतादिषु ॥
चक्षुर्दृश्येष्वणुत्वं तु अणिमा सम्प्रकीर्तिता ।
महिमा चापि सम्प्रोक्ता त्रिलोकान्तरपूरणात् ॥
चक्षुर्दृश्यैर्विवाह्यत्वं लघिमा चापि कीर्तिता ।
त्रिलोकसमभारस्तु गरिमा चापि कीर्तिता ॥
पूर्वशक्तेः कोटिगुणशक्त्युद्रेकस्तथेशिता ।
भुविस्थैः प्राणिभिश्चोक्तकरणं चापि कीर्त्यते ॥
आज्ञाऽप्रतिहतिब््रर्•ह्मादर्वागस्त्रविघातनम् ।
विना महातपस्वींश्च शापप्रतिहतिः स्मृता ॥
अपराजयो मनुष्येभ्यो वशित्वं चाप्यलोलता ।
दाहादिसहनं चापि प्रतिस्तम्भ इतीर्यते ॥
इति षड्विंशतिः प्रोक्ता गरिम्णा सह सप्त वा ।
विंशतिश्च सुरेभ्योऽन्यद्देवेष्वष्टैव सिद्धयः ॥
यतो निःसीमकास्तेषां देवानामष्टसिद्धयः ।
अतोऽष्टादशसिद्धीनां तदन्तर्भाव इष्यते ॥
देवेष्विन्द्रेशवायुश्रीविष्णूनामुत्तरोत्तरम् ।
सिद्धयः परिपूर्णास्तु विष्णोरेकस्य नान्यगाः’’॥ इत्यैश्वर्ये ॥
‘श्रुतेषु तु यथायोगं क्षिप्रग््राहणमेव तु ।
उक्तं प्राकाश्यमन्येषां देवानामश्रुतेष्वपि ॥
ऋषीणां मिश्रभावेन भासते किञ्चिदश्रुतम् ।
विषयेभ्योऽधिकसुखव्यक्तिः प्राकाम्यमेव तु ॥
इतरेषां सुराणां तु निःसीमानन्दभोजनम् ।
एवमेव तु निःसीमा देवानामष्टसिद्धयः ॥
उत्तरोत्तरमत्रापि यावद्विष्णुः सुपूर्णभुक्’’॥ इति हरिवंशेषु ॥
‘अग्न्यादिशक्तिसंस्तम्भ अग्न्यादिस्तम्भ इष्यते’‘इति कौर्मे ॥ ६-८ ॥
भूतसूक्ष्मात्मनि मयि तन्मात्रं धारयन् मनः ।
अणिमानमवाप्नोति तन्मात्रोपासको मम ॥ १० ॥
‘एकस्मात्सिद्धयो विष्णोः स्थानभेदात्पृथग्विधाः ।
एकस्थानगताद्वा स्युः सुस्थिरोपासना यदि’’॥ इति भारते ॥
भूतसूक्ष्माणामात्मनि परमाणुस्थितेऽणुरूपे ।
‘तन्मात्रावयवे सूक्ष्मे परमाण्वभिधानके ।
प्रत्येकमणुरूपं तु विष्णुं ध्यायन्नणुर्भवेत्’’॥ इति कापिलेये ॥
‘आकाशवत्सूक्ष्मतां यो व्यापित्वेनैव मन्यते ।
तन्मात्रव्यापिनं विष्णुं चिन्तयन्स तथा भवेत्’’॥ इति च ॥ १० ॥
महत्यात्मन् मयि परे यथासंस्थं मनो दधत् ।
महिमानमवाप्नोति भूतानां च पृथक्पृथक् ॥ ११ ॥
महति व्याप्ते । महत्तत्त्वस्य पृथगुक्तेः । अस्मात्स्थूलतां प्राप्नवानीत्यपेक्षायां तस्मात्प्राप्नोति । ततोऽन्यस्मादित्यपेक्षायां तस्मादिति पृथक्पृथक् ॥ ११ ॥
परमाणुमये चित्तं भूतानां मयि रञ्जयन् ।
कालसूक्ष्मात्मके योगी लघिमानमवाप्नुयात् ॥ १२ ॥
परमाणुमये भूतानां सकाशादतिशयेनाणुरूपे । कालसूक्ष्माणामात्मनि ॥ १२ ॥
धारयन् मय्यहन्तत्वे मनो वैकारिकेऽखिलम् ।
सर्वेन्द्रियाणामात्मत्वं प्राप्तिं प्राप्नोति मन्मनाः ॥ १३ ॥
अहंतत्वे स्थिते मयि ॥ १३ ॥
महत्यात्मनि यः सूत्रे धारयन् मयि मानसम् ।
प्राकाश्यं पारमेष्ठ्यं मे विन्दतेऽव्यक्तजन्मनः ॥ १४ ॥
सूत्रे स्थिते मयि । गृहे पीठ इतिवत् । अव्यक्तजन्मनः अव्यक्तस्यापि किञ्चित्स्थूलत्वकर्तुः ।
‘तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तम’’॥ इति मोक्षधर्मेषु ।
‘अजरादमरादमूर्तितः शाश्वततमसः’’॥ इति च ।
‘अव्यक्तस्याजन्मवतो विकारो जनिरुच्यते’’॥ इति हरिवंशेषु ।
मे सकाशाद्विन्दते । परमेष्ठिप्रसादादन्येषां भवतीति पारमेष्ठ्यम् । सर्वगुणानां ज्ञानमूलत्वादुपलक्षणत्वेन प्राकाश्यं पारमेष्ठ्यमित्युक्तम् ।
‘सर्वे गुणास्तु प्राणस्य परमात्मप्रसादतः ।
प्राणविष्ण्वोः प्रसादेन भारत्याः सम्प्रकीर्तिताः ॥
प्रसादात्तु त्रयाणां चाप्यनन्तादेः सदा गुणाः’’॥ इति माहात्म्ये ॥ १४ ॥
विष्णौ चाधीश्वरे चित्तं धारयन् कालविग््राहे ।
स ईशित्वमवाप्नोति क्षेत्रक्षेत्रज्ञचोदनम् ॥ १५ ॥
सर्वत्राधीश्वरत्वादौ विद्यमानेऽपि तत्र तत्रोक्ताधीश्वरत्वादिगुणविशिष्ट-त्वेन तत्र तत्रोपासनमिति विशेषः ।
‘तं यथा यथोपासते तदेव भवति’’॥ इति च श्रुतेः ।
‘उपासतः सत्य इति सत्यसङ्कल्पता भवेत् ।
ईशत्वमीश्वर इति गुणं तं तं यथा हरिम्’’॥ इति विशेषे ॥ १५ ॥
श्वेतद्वीपपतौ चित्तं शुद्धे धर्ममये मयि ।
धारयन् श्वेततां याति षडूर्मिरहितोऽमरः ॥ १८ ॥
‘शुद्धः श्वेतः सुखी श्वेतः श्वेतवर्णः क्वचिद्भवेत्’’॥ इति शब्दनिर्णये ॥ १८ ॥
मय्याकाशात्मनि प्राणे मनसा घोषमुद्वहन् ।
तत्रोपलब्धाभूतानां हंसो वाचः शृणोत्यसौ ॥ १९ ॥
आकाशस्यात्मनि । तत्राकाश उपलब्धानां आसमन्तात्स्थितानां भूतानां वाचः । हंसो जीवः ।
‘त्यागात्पूर्वशरीराणां नवानां सञ्चयेन च ।
जीवं हंस इति प्राहुस्तद्धेतुत्वाद्धरिं परम्’’॥ इति भारते ॥ १९ ॥
मनो मनसि संयोज्य देहं तदनु वायुना ।
मद्धारणानुभावेन तत्रात्मा यत्र वै मनः ॥ २१ ॥
मनसि मनस्तत्त्वे । वायुना संयोज्य । मनोऽनुदेहं मनस्तत्त्वे मद्धारणा॥ २१ ॥
यदा मन उपादाय यद्यद् रूपं बुभूषति ।
तत्तद् भजेन्मनोरूपं मद्योगबलमाश्रितः ॥ २२ ॥
परकायं विशन् सिद्ध आत्मानं तत्र भावयेत् ।
पिण्डं हित्वा विशेत् प्राणो वायुभूतः षडङ्घ्रिवत् ॥ २३ ॥
पार्ष्ण्याऽऽपीड्य गुदं प्राणं हृदुरःकण्ठमूर्धसु ।
आरोप्य ब््राह्मरन्ध््रोण ब््राह्म नीत्वोत्सृजेत् तनुम् ॥ २४ ॥
यो वै मद्भावमापन्न ईशितुर्वशितुः पुमान् ।
न कुतश्चन हन्येत तस्य चाज्ञा यथा मम ॥ २७ ॥
मद्भक्त्या शुद्धसत्वस्य योगिनो धारणाविदः ।
तस्य त्रैकालिकी बुद्धिर्जन्ममृत्यूपबृंहिता ॥ २८॥
अग्न्यादिभिर्न हन्येत मुनेर्योगमयं वपुः ।
मद्योगश्रान्तचित्तस्य यादसामुदकैर्यथा ॥ २९॥
‘गजादिरूपमाकाङ्क्षन्गजादिस्थितमीश्वरम् ।
ध्यायन् गजादिरूपः स्यात्परकायस्थितं हरिम् ॥
ध्यायन्विशेत्परे काये वायावन्तर्गतः पुमान् ।
प्राणनामा हरिः प्रोक्तस्तस्मिन्वायुः समाश्रितः ॥
वायावन्तर्गतो जीवो देहाद्देहं प्रयास्यति ।
षडाधारस्थितं विष्णुं ध्यायन्नायुःक्षयं विना ॥
यदि मृत्युमभीप्सेत तथा प्राप्नोत्यसंशयम् ।
त्रिकालप््रोरकं विष्णुं ध्यातुः कालत्रयज्ञता ॥
अग्न्यादिषु हरिं ध्यायंस्तत्प्रतिस्तंभको भवेत्’’॥ इति हरिसंहितायाम् ॥
आत्मानं परमात्मानं तत्र परकाये भावयेत् । तदा वायौ स्थितः प्राणः परमात्मा तत्र गच्छति । तमनु जीवोऽपि गच्छति । वायौ भूतो वायुभूतः ॥
प्राणं परे ब््राह्मणि नीत्वा ।
‘प्राणस्थं प्राणनामानं बहिष्ठे ब््राह्मनामके ।
विष्णुं विष्णावनुस्मृत्य विसृजेद्देहमञ्जसा’’॥ इति प्रभञ्जने ॥
‘अनेयस्य हरेर्नीतिस्तद्गतस्य हरेः स्मृतिः ।
न हि नेयः क्वचित्क्वापि केनचित्स्ववशत्वतः’’॥ इति च ।
मम भावना मद्भावः ।
‘भावो मनश्च भक्तिश्च क्वचिदभ्यास इष्यते’’॥ इति शब्दनिर्णये ॥ २२-२४, २७-२९ ॥
उपासकस्य मामेवं योगधारणया पुनः ।
सिद्धयः पूर्वकथिता उपतिष्ठन्त्यशेषतः ॥ ३१ ॥
जितेन्द्रियस्य दान्तस्य जितश्वासात्मनो मुनेः ।
मद्धारणां धारयतः का नु सिद्धिः सुदुर्लभा ॥ ३२ ॥
अन्तरायान् वदन्त्येतान् युञ्जतो योगमुत्तमम् ।
मया सम्पद्यमानस्य कालक्षपणहेतवः ॥ ३३ ॥
उपासनयाऽऽपरोक्ष्यं कृतवतः, पुनरुपासनं कार्यकाले कुर्वतः कार्यसिद्धि-रित्यतो योगधारणया पुनः इत्युक्तम् ॥
‘उपास्य वायुं प्रथमं वायौ सुष्ठ्वपरोक्षिते ।
अनुज्ञातस्ततस्तद्गं तत्र तत्र हरिं स्मरेत् ॥
कृत्वाऽपरोक्षं तं चापि कालेकाले स्मरेत्पुनः ।
अभीष्टकार्यसिद्धिः स्यात्तस्य नास्त्यत्र संशयः ॥
अकामो यदि वायुं च ध्यात्वा दृष्ट्वा हरिं तथा ।
न किञ्चित्कामयेत्पश्चात्स क्षिप्रं मुक्तिमेष्यति ॥
यदि योगैः फलं भुङ्क्ते पुनः काममपास्य तु ।
तेनैव क्रमयोगेन वायुं दृष्ट्वा हरिं तथा ॥
एष्टव्या मुक्तिपदवी नान्यथा तु कथञ्चन ।
पूर्वदृष्टिर्हि कामार्थे पश्चान्मोक्षार्थमिष्यते ॥
येषां तु जन्मतः सिद्धिस्तेषां दोषो न विद्यते’’॥ इति निवृत्ते ॥ ३१-३३ ॥
जन्मौषधितपोमन्त्रैर्यावतीरिह सिद्धयः ।
योगेनाप्नोति ताः सर्वा यैर्यैर्योगगतिं व््राजेत् ॥ ३४ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये एकादशस्कन्धे पञ्चदशोऽध्यायः ॥
यैर्यैः कैश्चित्कैश्चिदेव जन्मादिभिः योगगतिं व््राजेत् ।
‘जन्मादिभिः कैश्चिदेव प्राप्यते योगजं फलम् ।
योगेन सर्वैः प्राप्येत योगे यत्नं ततः कुरु’’॥ इति च ॥
‘कश्चिदर्थे च यच्छब्दः प्रश्नार्थे च क्वचिद्भवेत् ।
क्वचित्परामर्शवाची क्वचिदाक्षेपवाचकः’’॥ इति तन्त्रनिरुक्ते ॥३४॥
षोडशोऽध्यायः
अहमात्मोद्धवामीषां भूतानां सुहृदीश्वरः ।
अहं सर्वाणि भूतानि तेषां स्थित्युद्भवाप्ययः ॥ ९ ॥
‘सृष्टिस्थित्यादिहेतुत्वाद्भूतानि हरिरुच्यते ।
न तु भूतस्वरूपत्वात्स हि सर्वेश्वरेश्वरः’’॥ इति वस्तुतत्त्वे ॥ ९ ॥
अहं गतिर्गतिमतां कालः कलयतामहम् ।
गुणानामप्यहं सौम्यं गुणिन्यौत्पत्तिको गुणः ॥ १० ॥
गुणिनामप्यहं सूत्रं महतां च महानहम् । सूक्ष्माणामप्यहं जीवो दुर्जयानामहं मनः ॥ ११ ॥
‘स्वस्वजात्युत्तमत्वं तु भवेद्यद्रूपसन्निधेः ।
विभूतिरूपं तत्प्रोक्तमिन्दिरादिषु संस्थितम् ॥
तथा बहिः स्थितं रूपं विभूतीत्येव शब्दितम् ।
सर्वसाधारणं रूपमन्तर्यामीति चोच्यते ॥
यथा कृष्णात्मना दुष्टहन्ता व्यासात्मना समः ।
असमोऽप्येकरूपोऽपि सामर्थ्यात्पुरुषोत्तमः’’॥ इति च ॥
‘ब््राह्मरुद्रेन्द्रजीवेभ्यः पृथगेव व्यवस्थितम् ।
विभूतिरूपं विष्णोस्तु तद्गश्रेष्ठ्यैककारणम् ॥
तदेव ब््राह्मरुद्रादिनामभिर्वाच्यमञ्जसा ।
तदेव देवेष्विन्द्रोऽस्मि तथा रुद्रेषु शङ्करः ॥
इत्यादिनोक्तं कृष्णेन नेन्द्राद्या जीवसञ्चयाः’’॥ इति गीताकल्पे ॥
गतिः ज्ञानम् ।
‘प्रधानो ज्ञानिनां ब््राह्मा ज्ञानमानी हृदि स्थितः ।
स एव कालमानी तु संहर्तॄणां प्रभुः स्मृतः’’॥ इति विभूतौ ॥
‘आनन्दानुभवस्तूम उत्कृष्टानुभवात्स्मृतः ।
तद्युक्तत्वं तथा सौम्यं गुणानामधिकं हि तत् ॥
भक्त्यादिगुणपूगोऽपि दुःखहेतुत्वभावनात् ।
निष्फलो भवति ह्यद्धा प्रीतस्य सफलो भवेत् ॥
तस्मादानन्दमानं तु गुणेषूत्कृष्टमुच्यते ।
तस्याभिमानी ब््राह्मैको भक्तिज्ञानादिकस्यः च ॥
श्रद्धाभिमानिनी देवी तथैव तु सरस्वती ।
तदन्येषां गुणानां तु तदन्ये विबुधाः स्मृताः ॥
गुणानां तु प्रभुबर्््राह्मा तस्मादेकश्चतुर्मुखः ।
औत्पत्तिकगुणो नाम शुभप्राप्त्यैकयोग्यता ॥
तस्याभिमानी प्राणस्तु स हि सर्वगुणाधिकः’’॥ इति च ।
गुणिनां मध्ये गुणिनि स्थितमौत्पत्तिकगुणरूपं सूत्रमित्यर्थः ।
‘गुणिनां गुणयोग्यत्वं यत्सर्वगुणिषु स्थितम् ।
वायुस्तदभिमान्येकः सर्वगुण्यधिकस्ततः’’॥ इति प्रभञ्जने ।
रूपान्तरत्वादेकस्यापि बहुस्थानेषु प्राधान्योक्तिर्नो विरुध्यते । गुणान्तरोक्तेश्च ‘रामः शस्त्रभृतां वृष्णीनां वासुदेव’‘इत्यादिवत् ॥ १०,११ ॥
हिरण्यगर्भो देवानां मन्त्राणां प्रणवस्त्रिवृत् ।
अक्षराणामकारोऽस्मि पदानि च्छन्दसामहम् ॥ १२ ॥
पदानि वाच्यानि छन्दसाम् ।
‘स्वयूथानामथाधिक्ये स्वजातीनामथापि वा ।
यत्कारणं विभूत्याख्यं विष्णोस्तद्रूपमुच्यते’’॥ इति प्राधान्ये ॥
‘वर्णेशानि पदान्याहुः पादाश्चापि तदीश्वराः ।
पादानामीश्वरार्धर्चा तदीशा ऋच एव च ॥
ऋचामधीशा वर्गाश्च तेषां सूक्तमधीश्वरम् ।
सूक्ताधीशास्तथाध्यायास्तदधीशास्तथाष्टकाः ॥
तदधीशास्तथा शाखा वेदाश्चापि तदीश्वराः ।
वेदानामीश्वरा वाच्या वाच्यानामीश्वरो हरिः ॥
न हरेरीश्वरः कश्चित्कदाचित्क्वापि विद्यते’‘इति च ॥
पद्यन्त इति पदानि वाच्यानि । ‘पदं पदसहस्रेण यश्चरन्नापराध्यते’‘इतिवत् ।
‘पदं तु वाचकं प्रोक्तं क्वचिद्वाच्यमपीष्यते’’॥ इति शब्दनिर्णये ॥
‘सर्ववेदाभिमानिन्यो देव्यो लक्ष्मीस्ततोऽधिका ।
वेदाभिमानिनी साक्षात्सा विष्णोर्दूरतः स्थिता ॥
यज्ञाख्या सैव विष्णोस्तु या तूरःस्थलमाश्रिता ।
हरिणा रतियोगस्था दक्षिणाख्यापि सैव तु ॥
उत्तरोत्तरतः साऽपि विशिष्टा दक्षिणा सुखे ।
एवं वेदाभिमानिभ्यो देवीभ्यः सर्व एव तु ॥
तदर्थरूपाः पतयस्तस्यास्तस्यास्तथोत्तमाः ।
शच्या इन्द्रस्ततश्चोमा तस्या रुद्रस्ततस्तथा ॥
भारती प्राण एवास्यास्ततः श्रीस्तद्वरो हरिः’’॥ इति वैशेष्ये ॥ १२ ॥
इन्द्रोऽहं सर्वदेवानां वसूनामस्मि हव्यवाट् ।
आदित्यानामहं विष्णू रुद्राणां नीललोहितः ॥ १३ ॥
उच्चैःश्रवास्तुरङ्गाणां धातूनामस्मि काञ्चनम् ।
यमः संयमतां चाहं सर्पाणामस्मि वासुकिः ॥ १८ ॥
‘ऋते रुद्रादिकानिन्द्रः सर्वदेवाधिकः स्मृतः ।
ऋते भीमं फाल्गुनश्च पाण्डवेभ्यो वरस्तथा ॥
तथा शुक्रः कवीशस्तु बृहस्पत्यादिकानृते ।
यमः संयमतामीशः शङ्करादीन्विनैव तु’’॥ इति गीताकल्पे ॥ १३,१८ ॥
नागेन्द्राणामनन्तोऽहं मृगेन्द्रः शृङ्गिदंष्ट्रिणाम् ।
आश्रमाणां तुरीयोऽहं वर्णानां प्रथमोऽनघ ॥१९॥
‘गार्हस्थ्यं च यतित्वं च देवेष्वेकत्वमागतम् ।
प्राधान्योक्तिर्यतित्वस्य गार्हस्थ्यस्य क्वचित्क्वचित्’’॥ इत्याश्रमविवेके ॥ १९ ॥
पुरोधसां वसिष्ठोऽहं ब््राह्मिष्ठानां बृहस्पतिः ।
स्कन्दोऽहं सर्वसेनान्यामग््राण्यां भगवानजः ॥ २२ ॥
‘वसिष्ठोऽभ्यधिकस्तेषु मानुषाणां पुरोधसाम्’’॥ इति त्रैकाल्ये ॥
योगानामात्मसंरोधो मन्त्रोऽस्मि विजिगीषताम् ।
आन्वीक्षिकी कौशलानां विकल्पः ख्यातिवादिनाम् ॥ २४ ॥
जीवेशादिभेदवादी विकल्पः । ख्यातिवादिनां ज्ञानवादिनाम् ।
‘जीवेशादिविशेषं यो याथार्थ्येन प्रकल्पयेत् ।
कलिमारभ्य चाविष्णोराधिक्यादुत्तरोत्तरम् ॥
नियमेनैव केनापि न हेयः स विकल्पकः ।
सर्वज्ञानिविशेषेभ्यः स ज्ञानी सर्वथाऽधिकः’’॥ इति विज्ञाने ॥
‘भेददृष्ट्याऽभिमानेन’’। इत्युक्तम् । ‘विद्याऽऽत्मनि भिदा बोधः’‘इति च वक्ष्यति ॥ २४ ॥
स्त्रीणां तु शतरूपाऽहं पुंसां स्वायम्भुवो मनुः ।
नारायणो मुनीनां च कुमारो ब््राह्मचारिणाम् ॥ २५ ॥
‘शतरूपा वरा स्त्रीणां पुंसामभ्यधिको मनुः ।
तयोरप्यधिकौ नित्यमिन्द्राणीन्द्रौ शुभैर्गुणैः’’॥ इति वैशेष्ये ॥२५॥
वासुदेवो भगवतां त्वं तु भागवतेष्वहम् ।
किम्पुरुषाणां च हनुमान् विद्याध््र•णां सुदर्शनः ॥ २९ ॥
‘ऐश्वर्यादिगुणैः षड्भिः सामग्य््र•त्सर्वदेवताः ।
भगवच्छब्दवाच्याश्च साक्षात्तु भगवान्हरिः ॥
निरपेक्षं तु सामग्य््रां तस्य सर्वाधिकं यतः’’॥ इति च ।
अतो भगवतां देवानाम् ।
‘सर्वभागवताधीश उद्धवो भगवत्प््रिायः ।
तस्मादभ्यधिको जिष्णुः प््रिायत्वे भक्तितो हरेः ॥
तस्मादभ्यधिको रामः कृष्णा त्वभ्यधिका ततः ।
तस्या अभ्यधिको भीमो न तु तत्सदृशः क्वचित्’’॥ इति च ।
‘यत्किञ्चाऽत्मनि कल्याणं सम्भावयसि पाण्डव ।
सहस्रगुणमप्येतत्त्वयि सम्भावयाम्यहम् ॥
धर्मो ज्ञानं तथा मोक्षो यशः कीर्तिस्तथैव च ।
त्वय्यायत्तमिदं सर्वं लोकस्यापि न संशयः’’॥ इति भारते ॥ २९ ॥
ओजः सहोबलवतां कर्माहं विद्धि सात्वताम् ।
सात्वतां नवमूर्तीनामादिमूर्तिरहं पुरा ॥ ३२ ॥
‘विष्णोः श्रियो ब््राह्मणश्च वायोः सङ्कर्षणस्य च ।
सुपर्णस्य च सम्प्रोक्ताः प्रत्येकं नवमूर्तयः ॥
पूज्याः सात्वततन्त्रेषु तत्राद्या मूर्तयो हरेः ।
प्रधानास्ता हि सर्वासां मूर्तीनां हरिमूर्तयः ॥
अभेदादेव मूर्तीनामेकमूर्तिश्च सा स्मृता’’॥ इति सहस्रावरणे ।
श्रियादिनवमूर्तीनां मध्ये स्वकीयनवमूर्तिरहमित्यर्थः ।
‘स्वरूपतश्च गुणतो न विशेषः कथञ्चन ।
विष्णोस्तु नवमूर्तीनां पूजा च नवधेष्यते’’॥ इति च ।
अतो न स्वनवमूर्तीनाम् । अन्येभ्योऽन्यनवमूर्तीनामपि प्राधान्यकारणं सन्निधानमात्मनस्तास्वप्यस्तीति पुरेतिविशेषणम् । प्रथमपूज्यास्ता इत्यर्थः।
‘नारायणः परं ब््राह्म वासुदेवादिकास्तथा ।
नरसिंहवराहौ च परञ्ज्योतिर्हरेर्नव ॥
इन्दिरा च रमा लक्ष्मीर्हिरण्या गगना तथा ।
रक्ता रक्ततरा भूतिर्विभूतिश्च श्रियो नव ॥
ब््राह्मा चतुर्मुखो धाता विधाता विधिरेव च ।
कर्ता विरिञ्चो भूतेशः शतानन्दश्च ता नव ॥
धनञ्जयमृते चैव वायोस्तु नवमूर्तयः ।
शेषोऽनन्तो नरश्चैव लक्ष्मणो बल एव च ॥
सङ्कर्षणो नीलवासा जगद्रक्षो जलेशयः ।
सुपर्णो गरुडश्चैव वैनतेयो महाशनः ॥
नववर्णः पञ्चवर्णः पन्नगाशोऽमृताकरः ।
तथैव सर्ववेदात्मा सुपर्णो नवधा स्मृतः’’॥ इति च ॥ ३२ ॥
विश्वावसुः पूर्वचित्तिर्गन्धर्वाप्सरसामहम् ।
भूधराणामहं स्थैर्यं गन्धमात्रमहं भुवः ॥ ३३ ॥
अपां रसश्च परमस्तेजिष्ठानां विभावसुः ।
प्रभा सूर्येन्दुताराणां शब्दोऽहं नभसः परः ॥ ३४ ॥
‘यस्य यस्य स्वभावो यस्तत्तन्नामा हरिः परः ।
नियामकः स्वभावस्य तत्तच्छब्दादिनामवान् ॥
वैशेष्याख्या विभूतिश्च विभूतिश्च स्वभावजा ।
द्विधा विभूतिर्विज्ञेया विष्णोस्तु परमात्मनः’’॥ इति च ॥३३,३४॥
पृथिवी वायुराकाश आपो ज्योतिरहं महान् ।
विकारः पुरुषोऽव्यक्तं रजः सत्वं तमः परः । अहमेतत्प्रसङ्ख्यानं ज्ञानं तत्वविनिश्चयः ॥ ३७ ॥
मयेश्वरेण जीवेन गुणेन गुणिना विना ।
सर्वात्मनापि सर्वेण न भावो विद्यते क्वचित् ॥ ३८ ॥
‘सत्वादिनाम विष्णोस्तु सत्वादिस्थस्य केवलम् ।
जीवस्थस्य च तन्नाम जीवादेरुपचारतः’’॥ इति च ॥ ३७,३८ ॥
सङ्ख्यानं परमाणूनां कालेन क्रियते मया ।
न तथा मे विभूतीनां सृजतोऽण्डानि कोटिशः ॥ ३९ ॥
कालेन सर्वगुणात्मकेन मया । असङ्ख्यत्वात्तथा न क्रियते । नाविज्ञानात् ।
‘अनन्तमिति वेत्तीशस्त्वनन्तं त्वन्तवत्तथा ।
अनन्तस्य हि सङ्ख्याने न तु सर्वज्ञता भवेत् ॥
अनन्तमपि वेत्तीशः प्रत्येकं च विशेषतः ।
सर्वज्ञत्वान्न सङ्ख्यानमसङ्ख्यस्य कुतो हि सा’’॥ इति च ॥ ३९ ॥
एतास्ते कीर्तिताः सर्वाः संक्षेपेण विभूतयः ।
मनोविकारा एवैते तथा वाचाऽभिधीयते ॥ ४१ ॥
वाचं यच्छ मनो यच्छ प्राणं यच्छेन्द्रियाणि च । आत्मानमात्मना यच्छ न भूयः कल्प्यसेऽध्वने ॥ ४२ ॥
यथा वाचाऽभिधीयते अन्यैः । नामादिकं जीवादीनां ते सर्वे शब्दा मनोविकाराः ॥ स्वतो मय्येव सर्वशब्दास्तस्मान्मय्येव वाचं यच्छ । आत्मानं परमात्मानं मय्येव लक्ष्यत्वेन यच्छ ॥ ४१,४२ ॥
यो वै वाङ्मनसी सम्यङ् न संयच्छेद् धिया यतिः ।
तस्य व््रातं तपो ज्ञानं स्रवत्यामघटाम्बुवत् ॥ ४३ ॥
तस्माद् वचोमनःप्राणान् नियच्छेन्मत्परायणः ।
मद्भक्तियुक्तया बुद्ध्या ततः परिसमाप्यते ॥ ४४ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये एकादशस्कन्धे षोडशोऽध्यायः ॥
यो मयि न संयच्छति । तस्य ज्ञानं स्रवति ॥
वाङ्मनः प्राणबुध्द्यादीन्नियच्छेत्केशवे परे ।21
सर्वशब्दाभिधेयत्वं तस्य ज्ञात्वा विशेषतः ॥
मुख्यवृत्त्याऽभिधेयत्वमन्येषां मनसो भ््रामात् ।
तस्मात्तथा चिन्तयतः स्रवेज्ज्ञानं यथातथम् ॥
तस्मान्मनोवचःप्राणान्माधवैकपरायणान् ।
कुर्यात्तद्धि तपो ह्यग््रयं महाधर्मोत्तमश्च सः’’॥ इति धर्मविवेके ॥
‘यच्छेद्वाङ्मनसी प्राज्ञस्तद्यच्छेज्ज्ञान आत्मनि ।
ज्ञानमात्मनि महति नियच्छेच्छान्त आत्मनि’’॥ इति च ॥४३,४४॥
सप्तदशोऽध्यायः
वक्ता कर्ताऽविता नान्यो धर्मस्याच्युत ते भुवि ।
सभायामपि वैरिञ्च्यां यत्र मूर्तिधराः कलाः ॥ ५ ॥
‘विना प्रसादं विष्णोर्न धर्मं ब््राह्माऽभिवक्ष्यति ।
तत्प्रसादेन वक्तुं तु ब््राह्मा शक्ष्यति नापरः’’॥ इति प्राधान्ये ।
कलाः प्राणाद्याः ।
‘स प्राणमसृजत प्राणाच्छ्रद्धां खं वायुर्ज्योतिरापःपृथिवीन्द्रियं मनोऽ-न्नमन्नाद्वीर्यं तपो मन्त्राः कर्म लोका लोकेषु नाम च ता इमाः षोडश-कलाः पुरुषायणा’‘इति श्रुतेः ॥ ५ ॥
वेदाध्यायी स्वधास्वाहाबल्यन्नाद्यैर्यथोदयम् ।
देवर्षिपितृभूतानि मद्रूपाण्यन्वहं यजेत् ॥५०॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये एकादशस्कन्धे सप्तदशोऽध्यायः ॥
‘प्रतिमावद्धरेरूपं तिर्यङ्नरसुरादयः ।
साक्षाद्रूपाणि मत्स्यादीन्यभिन्नान्येव सर्वदा’’॥ इति च ॥ ५० ॥
अष्टादशोऽध्यायः
विप्रस्य वै संन्यसतो देवा दारादिरूपिणः ।
विघ्नं कुर्वन्त्ययं ह्यस्मानाक्रम्य समियात् परम् ॥ १४ ॥
‘असम्पूज्य न्यसिष्णूंस्तु देवा वै पातयन्त्यधः ।
सुसम्पूज्य न्यसिष्णूंस्तु देवा एवानुजानते ।
अथवा तद्यशोवृध्द्यै विघ्नन्तीव पुनःपुनः ।
तात्पर्याद्विघि्नतो देवैर्नोत्थातुं शक्नुयात्क्वचित्’’॥ इति देवहार्दे ॥१४॥
यदेतदात्मनि जगन्मनोवाक्प्राणसम्भृतम् ।
सर्वं मायेति तर्केण स्वस्थस्त्यक्त्वा न तत् स्मरेत् ॥ २७ ॥
‘त्रिगुणा प्रकृतिर्माया तज्जत्वाद्विश्वमीदृशम् ।
अनाद्यनन्तकालेषु मायेत्याहुर्विपश्चितः ॥
अचेतनत्वान्नैवैतत्प्रयोजकतया स्मरेत् ।
चेतनत्वं स्वतन्त्रत्वं स चैको विष्णुरेव तु ॥
आयस्तु फलमुद्दिष्टं प्रोक्तं मायेति निष्फलम् ।
फलाल्पत्वात्तु मायैषा सम्प्रोक्ता त्रिगुणादिका ॥
महाफलप्रदत्वात्तु विष्णुराय इतीरितः’’॥ इति निवृत्ते ॥ २७ ॥
वेदवादरतो न स्यान्न पाषण्डी न हैतुकी ।
शुष्कवादविवादेन कञ्चित्पक्षं न संश्रयेत् ॥ ३० ॥
‘वेदेन सह वादो यो वेदवाद इतीरितः ।
तर्केण वेदस्यान्यार्थकल्पनं तं विदो विदुः ॥
तन्न कुर्यात्कदाचिच्च तत्कुर्वन्वेदहा भवेत्’’॥ इति च ।
‘योगसाङ्ख्यकणादाक्षपादा वै हेतुवादिनः ।
पश्वीशशाक्तबुद्धाद्या पाषण्डा इति कीर्तिता’’॥ इति च ॥ ३० ॥
एक एव परो ह्यात्मा भूतेष्वात्मन्यवस्थितः ।
खं यद्वदुदपात्रेषु भूतान्येकात्मकानि च ॥ ३३ ॥
‘भूतानामेक एवात्ताऽथैको भूतेषु सन्ततः ।
एको भूतानि चादत्ते तस्मादेकात्मकानि तु’’॥ इति भद्रमाने ॥
‘घटादिषु महाकाशो निर्विशेषश्च सन्ततः ।
घटावयवरूपस्तु तथैवान्यो घटानुगः ॥
घटनाशेऽप्यनाशः सन्मध्यमाकाश इष्यते ।
एकदेशाभिमानित्वादित्याकाशास्त्रयः स्मृताः ॥
महाकाशो विघ्नराजो विघ्नास्तत्र तु मध्यमाः ।
क्षुद्रविघ्नास्तदितर एवमात्मा त्रिधा स्मृतः ॥
महाखवत्परस्त्वात्मा जीवा मध्यखवत्स्मृताः ।
घटानुगखवत्प्रोक्ता असुरा नित्यदुःखिनः ॥
महाकाशवशाः सर्वे आकाशा इतरे स्मृताः ।
परमात्मवशे तद्वज्जीवाः सर्वेऽपि संस्थिताः ॥
एवं विष्ण्वात्मकमिदं जगत्पश्येद्यतिः सदा’’॥ इति विनिर्णये ॥३३॥
शौचमाचमनं स्नानं न तु चोदनया चरेत् ।
अन्यांश्च नियमान् ज्ञानी यथाऽहं लीलयेश्वरः ॥ ३७ ॥
नहि तस्य विकल्पाख्या क्रिया मद्वीक्षया हता ।
आदेहान्तात् क्वचित् ख्यातिस्ततः सम्पद्यते मया ॥३८॥
‘स्वभावतो धर्मपरो न विधेश्चकितश्चरेत् ।
अल्पं फलं च चकिते स्वभावे फलमुत्तमम्’’॥ इति च ॥
वि कल्पनं विकल्पः ।
‘निषिद्धं मनसा कल्प्य भीतो विहितमाचरेत् ।
अज्ञो ज्ञस्य तु सङ्कल्पः स्वभावाद्विहितानुगः ॥
शरीरधर्मिणः क्वापि निषिद्धेऽपि मनो व््राजेत् ।
तथापि तस्य नानर्थो मोक्षे नैवान्यथा व््राजेत्’’॥ इति धर्मतत्त्वे ॥ ३७,३८ ॥
तावत् परिचरेद् भक्तः श्रद्धावाननसूयकः ।
यावद् ब््राह्म विजानीयान्मामेव गुरुमादृतः ॥ ४० ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये एकादशस्कन्धे अष्टादशोऽध्यायः ॥
‘शुश्रूषेत्सहितस्तावद्यावज्ज्ञानोदयो गुरुम् ।
ततः परं च शुश्रूषेद्यथा तस्य प््रिायं भवेत्’’॥ इति च ॥ ४० ॥
एकोनविंशोऽध्यायः
श्रीभगवानुवाच– यो विद्याश्रुतसम्पन्न आत्मवानानुमानिकः । मायामात्रमिदं ज्ञात्वा ज्ञानं च मयि सन्न्यसेत् ॥ १ ॥
‘त्रिगुणा प्रकृतिर्माया पश्येत्तन्मात्रकं जगत् ।
निर्मिमीते जगत्सर्वमतो मायेति सा स्मृता’’॥ इति प्रभवे ॥
‘इदं ज्ञानं हरेः पूजा हरेरेवोदितं सदा ।
हर्यधीनं च सर्वत्रेत्येवं न्यासो हरौ स्मृतः’’॥ इति च ॥ १ ॥
त्वय्युद्धवाऽश्रयति यस्त्रिविधो विकारो मायाऽन्तराऽऽपतति नाद्यपवर्गयोर्यत् । जन्मादयोऽस्य वद मां तव तस्य किं स्यु- राद्यन्तयोर्यदसतोऽस्ति तदेव मध्ये ॥ ७ ॥
‘अन्यस्थं निर्मितं जीवे जन्मादि हरिणा यतः ।
तस्मान्मायेति तत्प्राहुर्माया निर्माणमुच्यते ॥
न हि जीवस्य जन्मादि स्वतो नित्यस्य सम्भवेत् ।
सृष्टेः प्राक् प्रलये चैव यतो जन्मादि नास्य हि ॥
तस्मान्मध्येऽपि नास्यास्ति देहादिस्थं तु विष्णुना ।
कर्मभिर्निर्मितं जीवे प्रलये यन्न जीवगम् ॥
यन्न विद्येत हि लये यन्न विद्येत मुक्तिगे ।
जीवस्य न स्वभावोऽसौ प्रायेणेति विनिश्चितः’’॥ इति प्रकाशिकायाम् ।
‘मायेत्युक्तं निर्मितं तु यतो जन्मादि निर्मितम् ।
देहादिगं परेशेन माया जन्मादि तेन तु’’॥ इति प्रकृते ॥
मां प्रति वद । तस्य देहादेर्जन्मादयोऽस्य चिदानन्दरूपस्य तव स्युः किम् । अस्वतन्त्रत्वादवस्तुनो जगतः आद्यन्तयोः यज्जीवस्यास्ति तदेव तस्य स्वाभाविकम् । संसारेऽपि । अन्यदभिमाननिमित्तम् । प्रलये विद्यमानस्य कथं जन्मादि स्यादिति भावः ॥ तदा नाशाद्देहादेस्तु युज्यते । मुक्तिगमेव जीवस्य स्वाभाविकम् । किमु लयेऽप्यविद्यमानं स्वतः स्यादित्यर्थः ।
‘आद्यन्तयोरनुगमादाद्यन्तरहितस्य तु ।
आद्यन्ते भाविनो मध्ये कथमन्यादृशं वपुः’’॥ इति ब््राह्मतर्के ॥
‘अनित्यत्वात्तु देहस्य तस्य जन्मादिकं भवेत् ।
मुक्तिप्रलयसम्बन्धे कथं जीवे तदिष्यते’’॥ इति च ॥
‘अनित्यस्य गुणा मध्ये भवेयुः स्वत एव तु ।
न तु स्वतस्तु नित्यस्य कादाचित्कगुणैर्युतिः’’॥ इति च ॥ ७ ॥
नवैकादश पञ्च त्रीन् भावान् भूतेषु येन वै ।
ईक्षेतान्वेकमप्येषु तज्ज्ञानं मम निश्चितम् ॥ १४ ॥
एतदेव हि विज्ञानं न तथैकेन येन यत् ।
स्थित्युत्पत्त्यप्यया नः स्युर्भावानां त्रिगुणात्मनाम् ॥ १५ ॥
आदावन्ते च मध्ये च यज्ज्ञं सृज्यं यदन्वियात् ।
पुनस्तत्प्रतिसङ्क्रामे यच्छिष्येत तदेव सत् ॥ १६ ॥
एतदेव हि विज्ञानम् । तथापि न तथैव ॥
‘ज्ञात्वा तत्त्वानि तेष्वीशं सर्वतत्त्वेश्वरं प्रभुम् ।
जानञ्ज्ञानी भवेत्स्वस्य योग्यं ध्यानं विशेषतः ।
पूर्वोक्त एव यो जानन्स विज्ञानी भवत्युत’’॥ इति प्रभासे ॥
नः तत्त्वानां मध्ये येन यद्यत्र स्थित्वा च स्युः । तदेव सत् ।
‘सत्वं स्वातन्त्र्यमुद्दिष्टं तच्च कृष्णे न चापरे ।
अस्वातन्त्र्यात्तदन्येषामसत्वं विद्धि भारत’’॥ इति भारते ॥१४-१६॥
श्रुतिः प्रत्यक्षमैतिह्यमनुमानं चतुष्टयम् ।
प्रमाणेष्वनवस्थानाद् विकल्पात् स विरज्यते ॥ १७ ॥
विकल्पात् विरुद्धकल्पनात् ॥ १७ ॥
धर्मो मद्भक्तिकृत् प्रोक्तो ज्ञानं चैकात्म्यदर्शनम् ।
गुणेष्वसङ्गो वैराग्यमैश्वर्यं चाणिमादयः ॥ २७ ॥
‘एकः प्रधानमुद्दिष्टो विष्णोः प्राधान्यदर्शनम् ।
ऐकात्म्यदर्शनं प्रोक्तं सर्वज्ञानोत्तमं च तत्’’॥ इति त्रैकाल्ये ॥ २७ ॥
दरिद्रो यस्त्वसंतुष्टः कृपणो योऽजितेन्द्रियः ।
गुणेष्वसक्तधीरीशो गुणसङ्गो विपर्ययः ॥ ४५ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये एकादशस्कन्धे एकोनविंशोऽध्यायः ॥
‘विषये दोषबुद्धिः सन्निन्द्रियाणां वशे स्थितः ।
कृपणः स तु सम्प्रोक्तो गुणबुद्धिर्विपर्ययः’’॥ इति विवेके ॥
‘पुरुषार्थमतिर्यस्य विषयेष्वेव देहिनः ।
विपरीतः स विज्ञेयः स्वात्मनो विपरीततः’’॥ इति निवृत्ते ॥
वित्तासन्तोषमात्राद्दरिद्रः । सर्वविषयसङ्गी विपरीतः ॥ ४५ ॥
विंशोऽध्यायः
गुणदोषभिदादृष्टिर्नियमात् तेन हि स्वतः ।
नियमेनापवादश्च भिदाया इति हि भ्रमः ॥ ५ ॥
श्रीभगवानुवाच– योगास्त्रयो मया प्रोक्ता नृणां श्रेयोविधित्सया । ज्ञानं कर्म च भक्तिश्च नोपायोऽन्योऽस्ति कुत्रचित् ॥ ६ ॥
निर्विण्णानां ज्ञानयोगो न्यासिनामिह कर्मसु ।
तेष्वनिर्विण्णचित्तानां कर्मयोगस्तु कर्मिणाम् ॥ ७ ॥
यदृच्छया मत्कथादौ जातश्रद्धस्तु यः पुमान् ।
न निर्विण्णो नातिसक्तो भक्तियोगोऽस्य सिद्धिदः ॥ ८ ॥
‘स्वतः सर्वगुणात्मा तु विष्णुरेकः सनातनः ।
अन्यत्सर्वं तत्प््रिायत्वाद्गुणो दोषस्तथाऽप््रिायम् ॥
एवं ज्ञानवतां दृष्टिरज्ञस्तन्नावगच्छति ।
कालदेशविशेषेषु प्रीतिभेदमवेक्ष्य तु ॥
अविज्ञानवतस्तस्य मर्यादा वेदतः कृता ।
गुणदोषभिदा नास्ति भगवत्प््रिायमन्तरा ॥
गुणदोषदृशेर्दोषो ह्यन्यत्र भगवत्प््रिायात् ।
गुणाश्च दोषतामीयुर्दोषाश्च गुणतां क्वचित् ॥
अतो दोषो न दोषः स्यान्न गुणोऽपि गुणो भवेत् ।
भगवत्प्रीतिविज्ञानाद्गुणदोषभिदां यदि ॥
पश्येत्तत्तु गुणायैव विपर्यासं न कारयेत् ।
गुणदोषभिदा क्वापि स्वातन्त्र्येण न हि क्वचित्’’॥ इति ब्राह्मनये ॥
‘स्वतस्तु गुणदोषत्वदृशेर्भेदेन वस्तुनाम् ।
दोषोऽथ गुण एव स्याद्भगवत्प्रीतितो गुणः ॥
दोषस्तु तद्वैपरीत्यादिति दृष्ट्या भवेद्गुणः ।
कालदेशविशेषेण प्रीत्यज्ञानाज्जगत्स्थितेः ॥
मर्यादा गुणदोषाणां कृता वेदेषु सर्वशः ॥ इति परायणे ॥
एतदेवोच्यते ।
‘स्वेस्वेऽधिकारे या निष्ठा स गुणः परिकीर्तितः ।
विपर्ययस्तु दोषः स्यादुभयोरेष निर्णयः’’॥ इति च ॥
‘सनकाद्या ज्ञानयोगा भक्तियोगास्तु देवताः ।
मानुषाः कर्मयोगास्तु त्रिधैते योगिनः स्मृताः ॥
सर्वेषां सर्वयोगैश्च प्राप्या मुक्तिर्न संशयः ।
तथापि तु विशेषेण स स तेषां विधीयते ॥
भगवद्गुणानुसारेण वेदार्थो नीयते हि यैः ।
भक्तियोगास्तु ते प्रोक्तास्तादृशा हि सुराः सदा ॥
अङ्गानुसारि वेदार्थं ज्ञात्वा तदनुसारतः ।
भगवद्गुणा यैर्नीयन्ते ते प्रोक्ता ज्ञानयोगिनः ॥
कर्माणि शास्त्रतो ज्ञात्वा तत्प्राधान्यानुसारतः ।
विज्ञाता यैर्गुणा विष्णोर्ज्ञेयास्ते कर्मयोगिनः ॥
भक्तिर्ज्ञानं च किञ्चित्तु पश्चात्तेष्वपि जायते ।
तथापि ते कर्मयोगाः कर्मपूर्वत्वकारणात् ॥
भगवद्गुणानुरागित्वमधिकं भक्तियोगिनाम् ।
तस्मात्तेऽभ्यधिका ह्येषु देवा एव विशेषतः ॥
ईषद्वैराग्यमल्पं तु पूर्वं देवेषु जायते ।
पश्चाद्विरागोऽभ्यधिको देवानां नात्र संशयः ॥
ज्ञानाधिक्यं तु देवानां भक्त्याधिक्यं तथैव च ।
विरागोऽभ्यधिकस्तेषां सदैव सनकादिनाम् ॥
ज्ञानाधिक्यान्मनुष्येभ्यो भण्यन्ते ज्ञानयोगिनः ।
न तु ज्ञानाधिकास्ते वै देवेभ्यस्तु कथञ्चन ॥
देवानामपि कर्मित्वं विद्यते यद्यपि स्फुटम् ।
तथापि प्रत्यवायित्वान्मनुष्याः कर्मयोगिनः ॥
त्रियोगाभ्यधिको ब्रह्मा सर्वेभ्यः परमो विभुः ।
महायोगेश्वरेशेशस्तस्माद्ब्रह्मा चतुर्मुखः’’॥ इति त्रियोगे ॥ ५-८ ॥
नृदेहमासाद्य सुदुर्लभं यः प्लवं सुकल्पं गुरुकर्णधारम् । मयाऽनुकूलेन नभस्वतेरितं पुमान् भवाब्धिं न तरेत् स मार्गणः ॥ १७ ॥
मार्गणवच्छरीरान्ते पतति ॥ १७ ॥
कर्मणां जात्यशुद्धानामनेन नियमः कृतः ।
गुणदोषविधानेन त्वंहसां त्याजनेच्छया ॥ २७ ॥
स्वतोऽशुद्धानां कर्मणाम् । अनेन गुणदोषविधानेन नियमःकृतः । स्वतोऽशुद्धत्वेऽपि कर्मणां विध्यनुसारेणानुष्ठाने गुणत्वमेवेत्यर्थः ॥ २७ ॥
भिद्यते हृदयग््रान्थिश्छिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि मयि दृष्टेऽखिलात्मनि ॥ ३१ ॥
हृदयग््रान्थिः अन्तःकरणाख्यो बन्धः ॥ ३१ ॥
तस्मान्मद्भक्तियुक्तस्य योगिनो वै मदात्मनः ।
न ज्ञानान्न च वैराग्यात् प्रायः श्रेयो भवेदिह ॥ ३२ ॥
मद्भक्तियुक्तस्य भक्त्यनुसारिज्ञानवैराग्ये विनाऽन्यस्माज्ज्ञानाद्वैराग्याच्च न श्रेयो भवेत् ।
‘रागिणोऽपि विमुच्यन्ते देवा नास्त्यत्र संशयः ।
रागापनोदनार्थं च ज्ञानं साध्यं यतीश्वरैः’’॥ इति च ॥
‘स्मर्तव्या विषये दोषा यतिभिर्न तु दैवतैः ।
हरिरेव सदा पूज्य इत्यर्थं दैवतैरपि’’॥ इति च ॥
वैराग्यार्थमपि विषयदोषादिज्ञानं सनकादीनां भाव्यं देवानां तदपि भगवद्भजनस्यैव सारतापरिज्ञानार्थमेवेत्यर्थः ॥ ३२ ॥
यत् कर्मभिर्यत् तपसा ज्ञानवैराग्यतश्च यत् ।
योगेन दानधर्मेण श्रेयोभिरितरैरपि ॥ ३३ ॥
सर्वं मद्भक्तियोगेन मद्भक्तो लभतेऽञ्जसा ।
स्वर्गापवर्गं मद्धाम कथञ्चिद् यदि वाञ्छति ॥ ३४ ॥
न किञ्चित् साधवो धीरा भक्ता ह्येकान्तिनो मम । वाञ्छन्त्यपि मया दत्तं कैवल्यमपुनर्भवम् ॥ ३५ ॥
नैरपेक्ष्यं परं प्राहुर्निःश्रेयसमकल्मषम् । तस्मान्निराशिषो भक्तिर्निरपेक्षस्य मे भवेत् ॥ ३६ ॥
न मय्येकान्तभक्तानां गुणदोषोद्भवा गुणाः ।
साधूनां समचित्तानां बुद्धेः पारमुपेयुषाम् ॥ ३७ ॥
एवमेतान् मयाऽऽदिष्टाननुतिष्ठन्ति मे पथः । क्षेमं विन्दन्ति मत्स्थानं यद् ब्रह्म परमं विदुः ॥ ३८ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये एकादशस्कन्धे विंशोऽध्यायः ॥
रागिणोऽपि ते भक्तियोगिनो भक्तिफलत्वेन किमपि नापेक्षन्ते ॥
‘यदि दद्याद्भक्तियोगफलं मोक्षमपीश्वरः ।
भक्तियोगफलत्वेन न तद्गृह्णीयुरेव ते ॥
कामिनोऽपि स्वयं कामान्भुञ्जते न फलात्मना ।
तस्माद्विरागेऽप्यधिका देवा एव हि तादृशाः’‘इति च ॥ ३५ ॥
‘उत्तमो भक्तियोगस्तु ज्ञानयोगस्तु मध्यमः ।
अधमः कर्मयोगश्च ब््राह्मैको मुख्यभक्तिभाक् ॥
ज्ञानमप्यधिकं तेषां नियतं भक्तियोगिनाम् ।
उदेति भगवद्भक्त्या तद्वन्न ज्ञानयोगिनः ॥
भक्त्यंशकं यतो ज्ञानं ज्ञानस्नेहात्मिका च सा ।
तथापि ज्ञानयोगित्वं मानुषज्ञानतोऽधिकम् ॥
भक्तियोगे ततो यत्नः कार्यो विद्वद्भिरञ्जसा’’॥ इति च ॥ ३८ ॥
एकविंशोऽध्यायः
शुद्ध्यशुद्धी विधीयेते समानेष्वपि वस्तुषु ।
द्रव्यस्य विचिकित्सार्थं गुणदोषौ शुभाशुभौ ॥ ३ ॥
भूम्यम्ब्वग्न्यनिलाकाशा भूतानां पञ्च धातवः ।
आब्रह्मस्थावरादीनां शरीरा आत्मसंयुताः ॥ ५ ॥
भेदेन नामरूपाणि विषमाणि समेष्वपि ।
धातुशुद्ध्यै विकल्प्यन्त एतेषां स्वार्थसिद्धये ॥ ६ ॥
विवेकेन पुण्याधिक्यं भवतीति विचिकित्सार्थं गुणदोषौ विधीयेते ।
‘पञ्चभूतात्मकत्वेन समता सर्ववस्तुषु ।
हरिसन्निधिवैशेष्याद्विशेषश्च महान् सदा’’॥ इति वैशेष्ये ॥ ३ ॥
धातुः परमेश्वरः ।
‘यद्यद्धरेः सन्निहितं तत्तच्छुद्धतरं मतम् ।
स्वतः शुचितमो विष्णुः सान्निध्यं च स्वभावतः’’॥ इति च ॥
एतेषां जीवानाम् ॥ ३,५,६ ॥
कृष्णसारोऽथ देशानां ब्राह्मणानां शुचिर्भवेत् ।
कृष्णसारोऽप्यसौवीरकीकटासंस्कृतेरिणः ॥ ८ ॥
कर्मण्यो गुणवान् कालो द्रव्यतः स्वत एव वा ।
यतो निवर्तते कर्म सदोषोऽकर्मकः स्मृतः ॥ ९ ॥
‘नदीसमुद्रगिरय आश्रमाश्च वनानि च ।
नगराणि च दिव्यानि शालग्रामादयस्तथा ।
तेषां समीपगाश्चैव देशा योजनमात्रतः ।
कर्मण्यास्तु समाख्यातास्तदन्ये कीकटाः स्मृताः ॥
तदन्येऽपि तु ये देशाः कृष्णसारोषिताः स्वतः ।
कर्मण्या एव ते ज्ञेया यदि नाध्युषिताः खलैः ॥
खलैरध्युषिताश्चापि यदि सद्भिरधिष्ठिताः ।
कर्मण्या इति विज्ञेया विष्णुलिङ्गानि यत्र च’’॥ इति स्कान्दे ॥
‘आन्तरः सन्निधिर्विष्णोर्बाह्यसन्निधिरेव च ।
द्विविधः सन्निधिः प्रोक्तः कृत्रिमो बाह्य उच्यते ॥
स्वाभाविकस्त्वान्तरः स्यात् प्रतिमाजीवगो यथा’’॥ इति च ॥
क्वचिद् गुणोऽपि दोषः स्याद् दोषोऽपि विधिना गुणः ।
गुणदोषार्थनियमस्तद्विदामेव बाधते ॥ १६ ॥
तद्विदामेव । न तिर्यगादीनाम् ।
‘वर्षाच्चतुर्दशादूर्ध्वं ये न विद्युः शुभाशुभम् ।
तेषामज्ञानजो दोषः सुमहान् कर्मजादपि ॥
तिरश्चामिन्द्रियासक्तेर्न दोषोऽज्ञानजो भवेत् ।
गुणोऽपि नैव कश्चित् स्याद्यतो ज्ञानबहिष्कृताः’’॥ इति च ।
अतो मूर्खाणामदोष इति न ॥ १६ ॥
समानकर्माचरणेऽपतितानां न पातकम् ।
औत्पत्तिको गुणैः सङ्गो न शयानः पतत्यधः ॥ १७ ॥
यतो यतो निवर्तेत विमुच्येत ततस्ततः । एष धर्मो नृणां क्षेमः शोकमोहभयापहः ॥ १८ ॥
समानकर्माचरणे आत्मयोग्यकर्माचरणे । पूर्वमपतितो येन पतति । प्रायश्चित्तत्वेन तत्समानकर्माचरणेऽपि न दोषः । तप्तसुरापानवद्देहत्यागिनः । तथा शयानः शूद्रोऽपि न पतति लशुनभक्षणादिभिः ब्राह्मणादिपातकैः । औत्पत्तिको यतस्तस्य तादृशगुणसङ्गः । अतः स्वायोग्य एव कर्मणि पतति ।
‘त्रैवर्णिकाः सञ्चरन्तो वेदकर्मप्रवर्तनात् ।
शयानः शूद्र उद्दिष्टो वेदकर्माप्रवर्तनात् ॥
न तस्याभक्ष्यजो दोषः शुश्रूषायां प्रवर्ततः ।
यथा सुवर्णस्य मलं शुक्रं ताम्रस्य नैव तत् ॥
एवं विप्रादिदोषैस्तु न शूद्रो दोषितामियात् ।
मलं तु तस्यापि मलं यथैवं शूद्रजन्मनः ॥
स्वधर्मप्रतिरूपस्य चरणं दोषदं मतम्’’॥ इति च समाचारे ॥
‘शूद्रस्यापि हरेर्दीक्षां प्रविष्टस्य तु विप्रवत् ।
अभक्ष्यादिकृतो दोषः स हि शूद्रो हि मुख्यतः’’॥ इति विष्णुतन्त्रे ॥
सर्वतोऽप्यभिमानविमोकेन परमात्मसमर्पणमेव दोषहानिदमित्याह यतो यत इत्यादिना ।
‘मयि सर्वाणि कर्माणि सन्न्यस्याध्यात्मचेतसा’’।इत्यादेश्च ॥ १७,१८ ॥
विषयेषु गुणध्यानात् पुंसः सङ्गस्ततो भवेत् ।
सङ्गादेव भवेत् कामः कामादेव कलिर्नृणाम् ॥ १९ ॥
कलेर्दुर्विषहः क्रोधस्तमस्तदनुवर्तते ।
तमसा ग्रस्यते पुंसश्चेतना व्यापिनी ततः ॥ २० ॥
तया च रहितः साधो जन्तुः शून्याय कल्पते ।
ततोऽस्य स्वार्थविभ्रंशोऽ)मूर्च्छितस्य मृतस्य च ॥ २१ ॥
विषयाभिनिवेशेन नाऽत्मानं वेद नापरम् ।
वृक्षजीविकया जीवन् व्यर्थं ग्रस्तवयाः श्वसन् ॥ २२ ॥
‘दोषिणो गुणवत्त्वेन श्रूयन्ते विषयाः सदा ।
असतां सङ्गतेस्तेषु दोषाः श्रोतुं सुदुर्लभाः ॥
अतो नित्यगुणध्यानात् तद्गुणे प्रीतिमान् भवेत् ।
अतस्तत्र भवेत्कामः कामिनं कलिराविशेत् ॥
अधर्माज्ञानरूपेण कलिनाऽऽविष्टदेहिनः ।
सत्सु क्रोधो दुर्विषहस्ततस्तमसि पात्यते ॥
अन्धे तमसि मग्नस्य चेतनेन्द्रियसन्तता ।
सुखानुभवशक्तिर्या सा विनश्यति सर्वदा ॥
तदा शमूनभावेन शून्य इत्युच्यते नरः ।
सर्वात्मना तु शम्भ्रंशस्तस्य दुःखविवर्धनः ॥
अमूर्च्छितस्यैव भवेन्मृत्यनन्तरमेव च ।
दुःखाख्यविषयावेशान्नाऽत्मानं परमेव च ॥
यथावद्वेत्ति पतितस्तमस्यन्धे कदाचन ।
वृक्षवद्वृश्च्यते नित्यं निष्प्रयोजनजीवनः ॥
नित्यदुःखपरीतायुर्दृतिवत् प्रश्वसित्यपि’’॥ इति तन्त्रभागवते ।
स्वार्थस्य सुखस्य भ्रंशो विपरीतमतिशयेन जनयतीति स्वार्थविभ्रंशः ॥ तस्मात् स्वर्गादिविषयेष्वपि नेच्छेत ॥ १९-२२ ॥
फलश्रुतिरियं नॄणां नः श्रेयोरोचनं परम् ।
श्रोतुर्विवक्षया प्रोक्तं यथा भैषज्यरोचनम् ॥ २३ ॥
उत्पत्त्यैव हि कामेषु प्राणेषु स्वजनेषु च ।
आसक्तमनसो मर्त्या आत्मनोऽनर्थहेतुषु ॥ २४ ॥
न तानविदुषः स्वार्थं भ्राम्यतो वृजिनाध्वनि ।
कथं युञ्ज्यात् पुनस्तेषु तांस्तमो विशतो बुधः ॥ २५ ॥
‘फलश्रुतिरेवेयं न कामकुसुमश्रुतिः ।
स्वर्गादिकामनायुक्तस्त्वैहिकेष्वपि सज्जते ॥
तत्रापि देवकामेभ्यो विशेषं चाभिवाञ्छति ।
ततस्तमसि पातः स्यादतो वेदः कथं हि तान् ॥
काम्यत्वेनाभिचक्षीत सर्वं जानन्स्वयं सदा’’॥ इति ॥
नः श्रेयोरोचनं अस्मत्सकाशाच्छ्रेयो मोक्षाख्यं तदेव रोचयति फलश्रुतिः । कुसुमस्यानित्यतादिदोषज्ञानान्मोक्षस्यादोषत्वज्ञानाच्च । ईषदुत्तमस्य श्रोतु-र्विवक्षया । बुधो वेदः कथं युञ्ज्यात् । अन्तरालागतोऽपि स्वर्ग एवंविधः किमु साक्षात् फलरूपो मोक्ष इति रोचकः । अनेकब्रह्मकालप्राप्यत्वा-न्मोक्षस्य तावन्तं कालं तप एव कर्तुं न शक्यत इति मन्दाधिकारिणां स्वर्गादिष्वप्यभिरुचिर्भवति । तान् प्रत्यन्ते मोक्ष एव भवति । अन्तरालेऽ-प्येवंविधस्वर्गादिकं सुखं भवति । तस्माद्विहितं कर्म कर्तव्यमिति रोचयति । उत्तमानां तु यस्मादेतादृशमप्यनित्यत्वादिदोषवत्स्वर्गादिकं तस्मान्मोक्षफल एव वेद इति दर्शयति । न हि सर्वप्रमाणोत्तमो वेदोऽल्पफले पर्यवसितः ।
‘मन्दाधिकारिणां नित्यं तपसैव प्रतीक्षितुम् ।
मोक्षो न शक्यतेऽधैर्यात् ततः स्वर्गादिकं वदेत् ॥
स्वर्गादिष्वल्पफलतां ज्ञापयित्वा विमोक्षदम् ।
ज्ञानं वक्तुं तूत्तमानां नित्यो वेदः प्रवर्तते ॥
इक्षुदण्डं ददानीति यथा भैषज्यरोचनम् ।
एवं मन्देषूत्तमेषु मोक्षमाहात्म्यमुच्यते ॥
नह्यल्पफलभाग्वेदो वासुदेवैकसंश्रयः’’॥ इति विचारे ॥
‘अयोग्यभार्यापुत्रादिकामिताऽनर्थसाधिनी ।
योग्यकामाद्धरेः प्रीतिरतो ब्रह्मादयोऽमलाः ॥
भार्यापुत्रादिसंयुक्ता वासुदेवमुपासते’’॥ इति च ॥ २३-२५ ॥
एवं व्यवसितं केचिदविज्ञाय कुबुद्धयः ।
फलश्रुतिं कुसुमितामवेदज्ञा वदन्ति हि ॥ २६ ॥
एवं वेदव्यवसितम् । फलश्रुतिं कुसुमिताम् । फलं मोक्षः । तद्विषयां श्रुतिं स्वर्गादिकुसुमविषयां वदन्ति ।
‘नित्यानन्दहरेर्भक्तिज्ञानाद्याः स्वर्गशब्दिताः ।
पुत्रभार्याप्तवित्ताद्यं सर्वं मोक्षगतं फलम् ॥
उद्दिश्य स्वर्गकामस्य यजनं श्रुतिचोदितम् ।
तदविज्ञाय पुष्पाख्यमनित्यं स्वर्गमिच्छवः ॥
यजन्ति मन्दमतयो वेदवादपरायणाः’’॥ इति च ।
‘स्त्रीभिर्वा यानैर्व’’॥ इत्यादि च ॥
‘मोक्षाख्यं फलमेवात्र स्वर्गादिवचनं तु यत् ।
पुष्पस्वर्गादिवत्तस्य वचनं मन्दरोचनम्’’॥ इति च ॥
‘असुराणामयं स्वर्गशब्दः पुष्पात्मकं वदेत् ।
देवानां हरिसम्प्राप्तिं वेदो विष्णुपरो यतः’’॥ इति च ॥ २६ ॥
कामिनः कृपणा लुब्धाः पुष्पेषु पलबुद्धयः ।
अग्निमुग्धा धूमतान्ताः स्वलोकं न विदन्ति ते ॥ २७ ॥
न ते मामङ्ग जानन्ति हृदिस्थं य इदं यतः । उक्थशासो ह्यसुतृपो यथा नीहारचक्षुषः ॥ २८ ॥
ते मे मतमविज्ञाय परोक्षविषयात्मकाः । हिंसायां यदि कामः स्याद् यज्ञ एव न चोदना ॥ २९ ॥
स्वलोकं स्वाश्रयम् ॥
कोऽसावाश्रयः? माम् । ते ये उक्थेन प्राणेन शास्याः ।
‘विष्ण्वभक्तान् सदा वायुः शासयेत् तमसि क्षिपन् ।
विष्णुभक्तान् विमोक्षाय प्रापयित्वा सुखं नयेत्’’॥ इति च ॥
‘पथ एकः पीपाय तस्करो यथा एष वेद निधीनाम्’’॥ इति च ।
मे मताविज्ञानात्परोक्षविषयात्मकाः । परोक्षमन्धन्तमः । तद्विषय-स्वरूपाः । तद्गमनार्थस्वरूपाः ।
‘अन्धन्तमः परोक्षं च पञ्चकष्टं तथोच्यते’’। इति सुव्यक्ते ॥
तेषामासुराणां यदा हिंसायां कामः तदा यज्ञ एव न चोदना । यद्यदात्मनो हिंसितुमिष्टं तत्तद्विहितमिति प्रापयन्ति कुतर्कैः ।
‘आसुरोऽविहितां हिंसां विहितत्वेन वर्णयेत् ।
आसुरा याज्ञिकाः सर्वे नारायणपराङ्मुखाः’’॥ इति च ॥२७-२९॥
हिंसाविहारा ह्यालब्धैः पशुभिः स्वसुखेच्छया ।
यजन्ते देवता यज्ञैः पितॄन् भूतपतीन् खलाः ॥ ३० ॥
‘विष्णुं विहाय ये देवान्पितॄन् भूतेशमेव वा ।
साम्येन वा पूजयन्ति ते ज्ञेया आसुरा गणाः’’॥ इति च ॥ ३० ॥
रजःसत्त्वतमोनिष्ठा रजःसत्त्वतमोजुषः ।
उपासते इन्द्रमुख्यान् देवादीन् न यथैव माम् ॥३२॥
तामसेष्वेव रजःसत्त्वतमोनिष्ठाः ।
‘तामसेषु तु ये सत्त्वा निरयप्रचुरास्तु ते ।
ईषत्स्वर्गादिसंयुक्ता एवं निष्ठाश्च ते स्मृताः ॥
केवलं निरये निष्ठा ये ते तामसराजसाः ।
अन्धे तमसि ये निष्ठास्ते वै तामसतामसाः ॥
एवं त्रिभेदयुक्तास्तु याज्ञिका विष्णुवर्जिताः’’॥ इति हरिवंशेषु ॥ ३२ ॥
वेदा ब्रह्मात्मविषयास्त्रिकाण्डविषया अपि ।
परोक्षवादो वेदोऽयं परोक्षं मम च प्रियम् ॥ ३५ ॥
‘ब्रह्मत्वं पूर्णता प्रोक्ता तद्यस्य स्वत एव तु ।
स ब्रह्मात्मा समुद्दिष्टो वासुदेवः सनातनः’’॥ इति च ॥ ३५ ॥
शब्दब्रह्म सुदुर्बोधं प्राणेन्द्रियमनोमयम् ।
अनन्तपारं गम्भीरं दुर्विगाह्यं समुद्रवत् ॥ ३६ ॥
प्राणेन्द्रियमनोभिर्मीयते ।
‘मेयत्वान्मय उद्दिष्टो वेदः प्राणादिभिः सदा’’॥ इति वाराहे ॥
‘अन्तो विनाश उद्दिष्टः पारः परिमितिस्तथा ।
अनन्तपारो वेदोऽयं ताभ्यां स रहितो यतः’’॥ इति व्यासस्मृतौ ॥ ३६ ॥
मयोपबृंहितं भूम्ना ब्रह्मणाऽनन्तशक्तिना ।
भूतेषु घोषरूपेण बिसेषूर्णेव लक्ष्यते ॥ ३७ ॥
भूम्ना ब्रह्मणा अतिमहापूर्णेन ॥ ३७ ॥
यथोर्णनाभिर्हृदयादूर्णामुद्वहते मुखात् ।
आकाशाद् घोषवान् प्राणो मनसाऽऽस्पर्शरूपिणा ॥ ३८ ॥
छन्दोमयोऽमृतमयः सहस्रपदवीं प्रभुः ।
ओङ्कारेष्वञ्जितां स्पर्शस्वरोष्मान्तस्थभूषिताम् ॥ ३९ ॥
विचित्रभाषाविततां छन्दोभिश्चतुरुत्तरैः ।
अनन्तपारां बृहतीं सृजत्याक्षिपते स्वयम् ॥ ४० ॥
गायत्र्युष्णिगनुष्टुप् च बृहती पङ्क्तिरेव च ।
त्रिष्टुप् जगत्यतिच्छन्दो ह्यष्ट्यत्यष्टी जगद् विराट् ॥ ४१ ॥
आस्पर्शरूपिणा । आस्पर्शो विष्णुस्तं रूपयति प्रकाशयतीत्यास्पर्शरूपि प्राणस्य मनः । आसमन्तात् स्पर्शा भोगा अस्यैवेत्यास्पर्शः ।
‘भुङ्क्ते यदखिलान् स्पर्शानास्पर्शो विष्णुरुच्यते ।
तस्य प्रकाशकं नित्यं नमस्ये प्राणमेकलम् ।
प्राणस्यैव मनो नित्यं वासुदेवं प्रकाशयेत्’’॥ इति वायुप्रोक्ते ॥
‘मीयन्तेऽनेन छन्दांसि प्राणश्छन्दोमयस्ततः’‘इति च ।
‘त्रिमात्रमादितः कृत्वा यावच्चानन्तमात्रकः ।
प्रणवास्ते विभेदेन ह्यनन्ताः परिकीर्तिताः ॥
एकमात्रोत्तराः सर्वे वासुदेवाभिधायकाः ।
तेषां व्याख्यानरूपा हि सर्वे वेदाः प्रकीर्तिताः ॥
ओङ्कारेणाञ्जिताः तस्मात् सदोच्चार्या हरेः प्रियैः ॥ इति प्रणवमहात्म्ये ॥
‘गुह्यदर्शनभाषे च भाषा चैव समाधिका ।
तिस्रस्तु मूलभाषाः स्युरेकैका च त्रिधा पुनः ॥
गुह्यदर्शनसञ्ज्ञा च गुह्यगुह्या तथाऽपरा ।
एवमादिक्रमेणैव त्वेकाशीतिविभेदिताः ॥
भाषास्तत्र च गुह्या च प्रसिद्धार्थेष्वनन्विता ।
गुह्यार्थतत्परैवान्धो मणिमित्यादिका च सा ॥
दर्शनान्यवलम्ब्यैव पशुपत्यादिनां तु या ।
बहुश्रुतिविरुद्धं तु वदेत्सा दर्शनात्मिका ॥
अन्ते निषेधसंयुक्ता भस्मस्नानादिका च सा ।
यथा प्रदृश्यमानार्था समाधिः सा प्रकीर्तिता ॥
विष्णुः परम इत्याद्या सा च विद्वद्भिरीरिता’’॥ इति भाषाविवेके ।
‘भस्मस्नानविधानं तु श्रुत्युक्तं दर्शनानुगम् ।
भस्मस्नानं ततोऽग्राह्यं विधानं तु नृसिंहगम्’’॥ इति स्कान्दे ।
गायत्र्या उष्णिक् चतुर्वर्णाधिकेत्यादि चतुरुत्तरैः ।
जगत्यन्तानामेव चतुरुत्तरत्वनियमः–
‘छन्दस्तु नवपादं यज्जगदित्युच्यते बुधैः’’॥ इति छन्दोविधाने ॥ ३८-४१ ॥
किं विधत्ते किमाचष्टे किमनूद्य विकल्पयेत् ।
इत्यस्या हृदयं लोके नान्यो मद् वेद कश्चन ॥ ४२ ॥
मां विधत्तेऽभिधत्ते मां विकल्पापोह्य इत्यहम् ॥ ४३ ॥
विविधरूपत्वेन कल्पनं विकल्पः– ‘चत्वारि वाक्’‘इत्यादि । तत्र वागित्यनुवादः ।
‘विधिभागे हरेः पूजैवाभिधाने च तद्गुणाः ।
विकल्पे तद्बहुत्वं चाप्यपोहे तु तदप्रियम् ॥
उच्यते सर्ववेदेषु तच्च वेद स एव हि’’॥ इति आगमतात्पर्ये ।
‘सुरा हरेर्गुणाः प्रोक्तास्ते मे स्युरिति चिन्तनम् ।
सुरापानमिति प्रोक्तं तन्न कुर्यात् कथञ्चन ॥
ब्राह्मणो विष्णुरुद्दिष्टः स नास्तीत्यभिचिन्तनम् ।
ब्रह्महत्या समुद्दिष्टा तां न कुर्यात् कथञ्चन ।
इत्याद्यपोहवाक्यार्थश्चिन्त्यो विष्णुर्बुधैर्जनैः’’॥ इत्यादि च ।
मदन्यः कश्चन कोऽपि न वेद ॥ ४२-४३ ॥
एतावान् सर्ववेदार्थः शब्द आस्थाय माऽभिदाम् ।
मायामात्रमनूद्यान्ते प्रतिषिध्य प्रशाम्यति ॥ ४४ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये एकादशस्कन्धे एकविंशोऽध्यायः ॥
अभिदश्च स एव अश्च अभिदाः तं अभिदां मामास्थाय, मायामात्रं मदिच्छानिर्मितं शरीरादिकं अनूद्य, उपासनादिकं विधाय, मोक्षरूपेण तच्छरीरादिकं प्रतिषिध्य प्रशाम्यति ।
‘सर्वावताररूपेषु निर्भेदत्वाददोषतः ।
अभिदा विष्णुरुद्दिष्टस्तमेवोक्त्वा तदिच्छया ॥
निर्मितं दैहिकं बन्धं तस्योपासन एव तु ।
प्रतिषिध्य विमोक्षे तु स्वभावोपास्तिरूपतः ॥
प्रतिशाम्यति वेदोऽयं वासुदेवैकसंश्रयः’’॥ इति च ।
अभिदामास्थाय कोऽपि शब्दो मेति वा ॥ ४४ ॥
द्वाविंशोऽध्यायः
श्रीभगवानुवाच– युक्तयः सन्ति सर्वत्र भाषन्ते ब्राह्मणा यथा । मायां मदीयामुद्गृह्य वदतां किं नु दुर्घटम् ॥ ४ ॥
नैतदेवं यथाऽऽत्थ त्वं यदहं वच्मि तत् तथा ।
एवं विवदतां हेतुः शक्तयो मे दुरत्ययाः ॥ ५ ॥
यासां व्यतिकरादासीद् विकल्पो वदतां पदम् ।
प्राप्ते शमदमे व्येति वादस्तमनु शाम्यति॥ ६ ॥
परस्परानुप्रवेशात् तत्त्वानां पुरुषर्षभ ।
पौर्वापर्यप्रसङ्ख्यानं यथा वक्तुर्विवक्षितम् ॥ ७ ॥
मायां मदीयां मत्सामर्थ्यम् ।
‘विष्णोः सामर्थ्यमालम्ब्य तत्त्वसङ्ख्यां मुनीश्वराः ।
चक्रुर्हि तदविज्ञाय विवदन्त्यल्पबुद्धयः ॥
तत्रापि कारणं विष्णोः शक्तिर्यस्या विकारतः ।
अव्यक्तादेर्विकल्पोऽयं मनसः सम्प्रजायते ॥
विरुद्धकल्पनं तच्च वासुदेवैकनिष्ठया ।
निरहङ्कारया नश्येद्विवादैकाश्रयं हि तत्’’॥ इति तन्त्रभागवते ॥
यासां सकाशादव्यक्तादिव्यतिकराद्विकल्पो विरुद्धकल्पः । स हि विवादाश्रयः । तत्त्वसङ्ख्या विवक्षाभेदेन बहुधा भवति ॥ ४-७ ॥
एकस्मिन्नपि दृश्यन्ते प्रविष्टानीतराणि च ।
पूर्वस्मिन् वाऽपरस्मिन् वा तत्वे तत्वानि सर्वशः ॥ ८ ॥
पौर्वापर्यमथोऽमीषां प्रसङ्ख्यानमभीप्सताम् ।
यथा विविक्तं यद्युक्तं गृह्णीमो युक्तिसम्भवात् ॥ ९ ॥
अनाद्यविद्यायुक्तस्य पुरुषस्यात्मवेदनम् ।
स्वतो न सम्भवेद् यस्मात् ततोऽन्यः पुरुषो भवेत् ॥ १० ॥
सर्वथा जीवादन्यः परमेश्वरोऽङ्गीकर्तव्यः । जीवस्य स्वत एव ज्ञानायोगात् ॥ ८-१० ॥
पुरुषेश्वरयोरत्र न वैलक्षण्यमण्वपि ।
तदन्यकल्पनाऽपार्था ज्ञानं च प्रकृतेर्गुणः ॥ ११ ॥
स च पुरुषरूपेण तत्स्थितो ज्ञानमुत्पादयति । ईश्वररूपेण बहिःस्थितः फलं ददाति । न च तयोः स्वरूपयोः किञ्चिद्वैलक्षण्यम् । तयोश्चान्यत्वकल्पना तत्स्वरूपादपगमनप्रयोजनाऽनर्थकारिणीत्यर्थः । ज्ञानस्वरूपस्य जीवस्य कथं ज्ञानोत्पादनमित्यतो वक्ति ज्ञानं च प्रकृतेर्गुण इति । जन्यज्ञानं प्रकृतेर्गुणः ।
‘स्वरूपभूतज्ञानं तु सदा जीवस्य विष्णुना ।
नियतं प्राकृतं ज्ञानं भक्त्या तेनैव दीयते’’॥ इति च ॥ ११ ॥
प्रकृतेर्गुणसाम्ये तु प्रकृतेर्नाऽत्मनो गुणाः ।
सत्त्वं रजस्तम इति स्थित्युत्पत्त्यन्तहेतवः ॥ १२ ॥
जन्यज्ञानस्य प्राकृतत्वं साधयति – प्रकृतेर्गुणसाम्ये त्वित्यादिना ॥
अन्तःस्थः पुरुषो नाम ज्ञानदः सर्वदेहिनाम् ।
बहिःस्थ ईश्वरो नाम ज्ञानादिफलदो हरिः’’॥ इति मात्स्ये ॥
‘पुरुषाख्यो हृद्गतस्तु विष्णुर्जीवविबोधकः ।
फलदात्रा तु बाह्येन य ईशेन भिदां वदेत् ॥
तथैवान्यस्वरूपेषु विष्णोर्यो भेददर्शकः ।
यश्च जीवेश्वराभेदं पश्येत् तेऽनर्थभागिनः’’॥ इति ब्राह्मे ॥ १२ ॥
सत्त्वं ज्ञानं रजः कर्म तमोऽज्ञानमिहोच्यते ।
गुणव्यतिकरः कालः स्वभावः सूत्रमेव च ॥ १३ ॥
कालो भगवान् ॥ १३ ॥
पुरुषः प्रकृतिर्व्यक्तमहङ्कारो नभोऽनिलः ।
ज्योतिरापः क्षितिरिति तत्त्वान्युक्तानि मे नव ॥ १४ ॥
श्रोत्रं त्वग् दर्शनं घ्राणो जिह्वेति ज्ञानशक्तयः । वाक्पाण्युपस्थपाय्वङ्घ्रि कर्माण्यङ्गोभयं मनः ॥ १५ ॥
शब्दः स्पर्शो रसो गन्धो रूपं चेत्यर्थजातयः । गत्युक्त्युत्सर्गशिल्पानि कर्मायतनसिद्धयः ॥ १६ ॥
सर्गादौ प्रकृतिर्ह्यस्य कार्यकारणरूपिणी । सत्त्वादिभिर्गुणैर्धत्ते पुरुषोऽव्यक्तमीक्षते ॥ १७ ॥
व्यक्तादयो विकुर्वाणा धातवः पुरुषेक्षया । लब्धवीर्याः सृजन्त्यण्डं संहताः प्रकृतेर्बलात् ॥ १८ ॥
‘नवैकादश पञ्च त्रीणि’‘इत्युक्तानि पुरुषः प्रकृतिरित्यादीनि ॥
उत्सर्गस्य द्विविधत्वात् पञ्चकद्वयम् ॥
त्रीनिति त्रिगुणानिति वक्तुं गुणप्रवृत्तिमाह– सर्गादावित्यादिना ॥
कार्यकारणभावादन्योन्यानुप्रवेशो युक्त इति वक्तुं सृष्ट्युक्तिः ।
‘सृज्यस्रष्टृस्वरूपत्वादन्योन्यानुप्रवेशिनः ।
तिष्ठन्ति तात्विका देवा विशेषप्राप्तिकारणात्’’। इति नैसर्गे ॥
‘अन्वेकमप्येषु’‘इत्युक्तत्वात् पुरुषो हिरण्यगर्भः ।
‘यदा पुरुषशब्देन विरिञ्चस्यैव वाच्यता ।
परस्य पृथगुक्त्यैव व्यक्तस्तत्र तु शङ्करः ॥
तदाऽहङ्कारशब्देन स्कन्दस्यैव वचो भवेत्’’॥ इति विवेके ॥१४-१८॥
सप्तैव धातव इति यत्रार्थाः पञ्च खादयः ।
ज्ञानमात्मोभयाधारस्ततो देहेन्द्रियासवः ॥ १९ ॥
सत्वादीन् गत्यादींश्च विना परमात्मना सह षड्विंशतिः । महदहङ्कारौ ब्रह्मरुद्रौ अङ्गीकृत्य स्कन्दं विना परमात्मना सह पञ्चविंशतिः ।
‘विषयेन्द्रियप्रकृतिदेवताः परमात्मना ।
पञ्चविंशतितत्त्वानि सङ्ख्यातानि विदो विदुः’’॥ इति च ।
‘ज्ञानशब्दोदितो ब्रह्मा तदाधारो हरिः स्मृतः’’। इति च ॥
ततो ज्ञानं विना परमात्मानमङ्गीकृत्यैव देहेन्द्रियाण्यसुश्च नव तत्त्वानि ।
‘सर्वदेहाभिमानी तु देहिनां तु दिवाकरः ।
इन्द्रियात्मेन्द्र एवैकः प्राणो नाम प्रजापतिः’’॥ इति च ॥ १९ ॥
चत्वार्येवेति तत्रापि तेज आपोऽन्नमात्मनः ।
जातानि तैरिदं जातं जन्मावयविनः खलु ॥ २१ ॥
अवयविनो जन्म तैः खलु ॥ २१ ॥
सङ्ख्याने सप्तदशके भूतमात्रेन्द्रियाणि च ।
पञ्चपञ्चैकमनसा आत्मा सप्तदशः स्मृतः ॥ २२ ॥
‘भूतानि मात्राश्च परस्तत्त्वैकादशकं स्मृतम्’’। इति च । भूतमात्रेत्यारम्भात् तत्सिद्धेरेकादशानां पृथगनुक्तिः ॥ २२ ॥
तद्वत् षोडशसङ्ख्यानि आत्मना मन उच्यते ।
भूतेन्द्रियाणि पञ्चैव मन आत्मा त्रयोदश ॥ २३ ॥
इति नानाप्रसङ्ख्यानं तत्वानामृषिभिः कृतम् ।
सर्वं न्याय्यं युक्तिमत्त्वाद् विदुषां किमशोभनम् ॥ २४ ॥
आत्मना सहैव मन उच्यते ।
‘आत्मनः सन्निधिस्थत्वान्मनसस्तु तदुक्तितः ।
उक्तो भवेत्परात्माऽपि तत्त्वषोडशकं यदा’’॥ इति च ।
आत्मशब्देन च ब्रह्मा परमात्मा चोभावुच्येते ।
‘भूतेन्द्रियाणि च मनो ब्रह्मा विष्णुस्तथैव च ।
एवं त्रयोदशैवाऽहुस्तत्त्वानि मुनयो वराः’’॥ इति च ।
‘आत्मेति परमात्मा च विरिञ्चश्चापि कथ्यते ।
वायुर्मुनश्च देहश्च स्वयमित्यपि कुत्रचित्’’॥ इति प्रत्यये ॥ २३,२४ ॥
उद्धव उवाच– प्रकृतिः पुरुषश्चोभौ यद्यप्यात्मविलक्षणौ । अन्योन्यापाश्रयात् कृष्ण दृश्यते न भिदा तयोः । प्रकृतौ लक्ष्यते ह्यात्मा प्रकृतिश्च तथाऽऽत्मनि ॥ २५ ॥
एतन्मते पुण्डरीकाक्ष महान्तं संशयं हृदि ।
छेत्तुमर्हसि पद्मेश वचोभिस्तत्वनैपुणैः ॥ २६ ॥
त्वत्तो ज्ञानं हि जीवानां प्रमोषस्तनुशक्तितः ।
त्वमेव ह्यात्ममायाया गतिं वेत्थ नचापरः ॥ २७ ॥
यद्यपि परमात्मा प्रकृतिश्च विलक्षणौ तथापि तयोर्वैलक्षण्यं न लक्ष्यते ।
‘अन्तरं च भिदा चेति वैलक्षण्यं प्रकीर्तितम्’’। इति च ।
तद्वैलक्षण्यं कुतो न दृश्यत इति प्रश्नाभिप्रायः ॥ अन्योन्याधारत्वमेव दृश्यते । न तु परमेश्वरस्यानन्याधारत्वेन प्रकृत्याधारत्वं मन्दमतीनामित्यर्थः ॥
‘आधारः प्रकृतेर्विष्णुर्नाऽधारस्तु हरेः क्वचित् ।
तथाऽप्यव्यक्तगो यद्वद्दृश्यते मन्दचेतसाम्’’॥ इति पाद्मे ॥ २५-२७ ॥
श्रीभगवानुवाच– प्रकृतिः पुरुषश्चेति विकल्पः पुरुषर्षभ । एष वैकारिकः सर्गो गुणव्यतिकरात्मकः ॥ २८ ॥
प्रकृतिः पुरुषश्चेत्येव अन्योन्यविलक्षणावेव । एष विकल्पः । वैलक्षण्या-दर्शनं विरुद्धकल्पनमेव । यस्माद् गुणव्यतिकरात्मकः सर्गो विकार-निमित्तः । स च गुणव्यतिकरस्त्रिविधः सत्त्वरजस्तमसामेकैकप्राधान्येन । तत्र तमःप्रधानानामेव विरुद्धकल्पनम् । तस्मात् तम एवात्र कारण-मित्यर्थः ॥ २८ ॥
ममाङ्ग माया गुणमय्यनेकधा विकल्पबुद्धिं च गुणैर्विधत्ते ।
वैकारिकस्त्रिविधोऽध्यात्ममेकमथाधिदैवमधिभूतमन्यत् ॥२९॥
तत्रापि प्रकृतिरेव कारणम् । ईश्वरेच्छा च । विकाराज्जातत्वाद् वैकारिक इत्युच्यते अहङ्कारस्त्रिविधोऽपि ।
‘वैकारिको महांश्चैव तथाऽहङ्कार एव च ।
तथैव सात्विकश्चांशो वैकारिक इति त्रिधा’’॥ इति शब्दनिर्णये ॥ २९ ॥
दृग् रूपमर्कश्च परत्र रन्ध्रे परस्परं सिध्यति न स्वतोऽसौ । आत्मा यदेषामुपराम आद्यः स्वयाऽनुभूत्याऽखिलसिद्ध्यसिद्धिः ॥ ३० ॥
एवं त्वगादि श्रवणादि चक्षु- र्जिह्वादि नासादि च चित्तयुक्तम् ॥ ३१ ॥
योऽसौ गुणक्षोभकृतो विकारः प्रधानमूलो जगतः प्रसूतिः । अहं त्रिवृन्मोहविकल्पहेतु- र्वैकारिकः तामस ऐन्द्रियश्च ॥ ३२ ॥
आत्मा परिज्ञानमयो विवादो ह्यस्तीति नास्तीति भिदाऽर्थनिष्ठः । व्यर्थोऽपि नैवोपरमेत पुंसां मत्तः परावृत्तधियां स्वलोकात् ॥ ३३ ॥
अध्यात्ममिन्द्रियाणि । तैरेव विपरीतं ज्ञानं जायते ।
‘अहङ्कारे विद्यमाने भ्रमो भवति नान्यदा ।
सम्यज्ज्ञानं हरेः शक्त्या तन्मुक्तस्य विशेषतः ॥
देवतानुग्रहो नित्यो मुक्तस्यापि ह्यपेक्ष्यते ।
नित्यं तत्प्रतिबिम्बत्वाज्जीवानामेव कृत्स्नशः ॥
बाह्यज्ञानं च मुक्तस्य न जडाहङ्कृतेः क्वचिद् ।
किन्तु स्वरूपशक्त्यैव देवेभ्यश्चाभिजायते’’॥ इति ब्रह्मतर्के ॥
‘पश्यन्नपि जगत् सर्वं चिद्बलेनैव पश्यति ।
कुतो मुक्तस्य तु जडं चिद्रूपस्य व्यपेक्ष्यते’’॥ इति च ।
एषामुपरमे मुक्तौ । चक्षुरिति पुनर्वचनमवधारणार्थम् ।
योऽसौ भ्रमहेतुर्विकारः स गुणक्षोभकृतः । आत्मा तु परिज्ञानस्वरूपो न गुणक्षोभकृतः ॥
भिदा विपर्ययेण विद्यमानं नास्ति अविद्यमानमस्तीति विवादः ।
‘असदस्ति च सन्नास्तीत्येवं भेदाद्विवादनम् ।
सदैव हरिपादाब्जविमुखानां प्रवर्तते’’॥ इति च ॥ ३०-३३ ॥
विषयाभिनिवेशेन नाऽत्मानं यत् स्मरेन्मनः ।
जन्तोर्वै कस्यचिद्धेतोर्मृत्युरत्यन्तविस्मृतिः ॥ ३८ ॥
विषयाभिनिवेशेन उत्तरदेहाभिनिवेशेन पूर्वदेहास्मरणं यत् तन्मृत्युः ॥
ईदृशायास विज्ञाय त्रैविध्यं भाति वस्तुनि ।
बहिरन्तर्भिदाहेतुर्जनोऽसज्जनकृद् यथा ॥ ४१ ॥
ईदृशं वर्तमानं आयः एष्यन् सः अतीत इति त्रैविध्यं भाति । विज्ञाय वस्तुनि विज्ञाते सति । दीर्घलोपः ‘अत्रा ते’‘इतिवत् ।
‘क्षैप्रे दीर्घलोपः’‘इति सूत्रात् ।
अयमेवाऽत्मानात्मनोर्विशेषहेतुः । यथा प्रायोऽ-सज्जनोऽसज्जनमेव जनयतीति पितृज्ञानात् पुत्रदौरात्म्यं ज्ञायते । एवमनित्य-त्वादनात्मत्वं देहादेरित्यर्थः ॥ ४१ ॥
सोऽयं दीपोऽर्चिषां यद्वत् स्रोतसां तदिदं जलम् ।
सोऽयं पुमानिति नृणां मृषा गीर्भिर्धीर्मृषायुषाम् ॥ ४४ ॥
सोऽयमेवेति मृषा ।
‘स चायमिति तु ज्ञानं न मृषाऽयं स एव तु ।
इति ज्ञानं मृषैव स्यात् भेदाभेदौ यतस्तनोः ॥
अभेद एव जीवस्य नित्यं प्रत्येकशः पृथक् ।
दीपदेहनदीवारिफलादीनां पृथक् स्वतः ॥
भेदाभेदौ परिज्ञेयौ कार्यकारणयोरपि ।
गुणस्य गुणिनश्चैव जातिव्यक्त्योस्तथैव च ॥
तथाऽवयव्यवयवयोः क्रियायास्तद्वतस्तथा ।
एवं जडेषु नियमश्चिद्रूपेष्वभिदैव तु’’॥ इति च ॥
‘ये धर्मा नियमेनैव धर्मिणो न वियोगिनः ।
जडस्था अप्यभिन्नास्ते भिन्नाभिन्ना वियोगिनः’’॥ इति च ॥४४॥
आत्मनः पितृपुत्राभ्यामनुमेयौ भवाप्ययौ ।
भवाप्ययौ हि भूतानामभिज्ञाद्वयलक्षणौ ॥ ४८ ॥
अभिज्ञाद्वयलक्षणौ अभिमानमात्रौ ॥ ४८ ॥
तरोर्बीजविकाराभ्यां यो विद्वान् जन्मसंयमौ ।
तरोर्विलक्षणो दृष्ट एवं द्रष्टा तनोः पृथक् ॥ ४९ ॥
तरोर्बीजविकारदृष्टान्तेन विद्वान् देहाभिमानं त्यक्त्वा संयमं याति । परमात्मनश्च भेदं जानाति प्रकृत्यादेः ।
‘बीजाद्यवस्थासंयुक्ताद्वृक्षाद्द्रष्टा यथा पृथक् ।
एवं विकारिणो विष्णुर्जीवश्च पृथगेव तु’’॥ इति च ॥ ४९ ॥
नृत्यतो गायतः पश्यन् यथैवानुकरोति तान् ।
एवं बुद्धिगुणान् पश्यन्ननीहोऽप्यनुकार्यते ॥ ५२ ॥
‘दुःखशोकादयः सर्वे ज्ञेया बुद्धिगुणा इति ।
सुखज्ञाने तु जीवस्य भक्तिः स्नेहस्तथैव च ॥
विपर्ययेणासुराणां जीवबुद्धिगुणा मताः’’॥ इति च ॥
‘आत्मनोऽपि गुणा बुद्धिकृता बुद्धिगुणा इति ।
उच्यन्ते सुखदुःखाद्याः परमात्मकृता यथा’’॥ इति त्रैकाल्ये ॥५२॥
यथा मनोरथधियो विषयानुभवो मृषा ।
स्वप्नदृष्टश्च दाशार्ह तथा संसार आत्मनः ॥ ५४ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये एकादशस्कन्धे द्वाविंशोऽध्यायः ॥
मृषा वृथा ।
‘अल्पप्रयोजनं यत्तन्मृषेत्येव तदुच्यते’’। इति शब्दनिर्णये ।
आत्मनः स्वत एव दुःखाद्याः सुखादिवदिति मिथ्याबुद्धिरिति वा ॥
त्रयोविंशोऽध्यायः
मनोवशेऽन्ये हि भवन्ति देवा मनश्च नान्यस्य वशं समेति । भीमो हि देवः सहसः सहीया- न्नात्याविशत् तत् स हि देवदेवः ॥ ४८ ॥
तं दुर्जयं शुत्रुमसह्यवेगमरुन्तुदं तन्न विजित्य केचित् ।
कुर्वन्त्यसद्विग्रहमत्र मर्त्यैर्मित्रैरुदासीनरिपुं विमूढाः ॥ ४९ ॥
सात्विकमनोविवक्षया देवशब्दः । तामसमनोविवक्षया शत्रुशब्दः ।
‘एकस्थानाधिपत्ये तु भिन्नानामपि युज्यते ।
अभेदेन परामर्शः सादृश्येनापि वस्तुनोः’’॥ इति प्रयोगे ॥
‘ऋते द्वे ब्रह्मणी कस्य मनो याति वशं क्वचित् ।
श्रियं सरस्वतीं वापि याति वा तत्प्रसादतः’’॥ इति पाद्मे ॥
उदासीनानां रिपुम् । सम्यग्ज्ञानवतां न रिपुत्वं शक्यत इत्यर्थः ॥ ४८,४९ ॥
देहं मनोमात्रमिदं गृहीत्वा ममाहमित्यन्धधियो मनुष्याः ।
एषोऽहमन्योऽयमिति भ्रमेण दुरन्तपारे तमसि भ्रमन्ति ॥५०॥
अभिमानमात्रेणैव जीवस्य देहेन सम्बन्ध इति मनोमात्रम् । मनसा निर्माणमिति । अहमन्य इत्यपि देहमात्रे मन्यन्ते ।
‘देहमात्रं स्वमात्मानं यः परं चाभिपश्यति ।
अन्धे तमसि मग्नस्य नोत्तारस्तस्य कुत्रचित्’’॥ इति च ॥ ५० ॥
जनोऽस्य हेतुः सुखदुःखयोश्चेत् किमात्मनश्चात्र हि भौमयोस्तत् । जिह्वां क्वचित् सन्दशति स्वदद्भि- स्तद्वेदनायां कतमाय कुप्येत् ॥ ५१ ॥
‘जनशब्दः स्वतो जीवे क्वचिद्देहे च वर्तते’’। इति प्रयोगे ॥ ५१ ॥
दुःखस्य हेतुर्यदि देवताऽस्तु किमात्मनस्तत्र विकारयोस्तत् । यदङ्गमङ्गेन विहन्यते क्वचित् क्रुध्येत कस्मै पुरुषः स्वदेहे ॥ ५२ ॥
अयोग्यक्रोधादेर्मन एव कारणम् ।
‘अविकाराश्च ते देवा विकारा इति शब्दिताः ।
अभिमानाद्विकारस्य स्वतः शक्ता अपि ध्रुवम्’’॥ इति च ॥ ५२ ॥
आत्मा यदि स्यात् सुखदुःखहेतुः किमन्यतस्तत्र निजः स्वभावः । न ह्यात्मनोऽन्यद् यदि तन्मृषा स्यात् क्रुध्येत कस्मै न सुखं न दुःखम् ॥ ५३ ॥
नह्यात्मनः स्वभावादन्यद्भवति । यदि दृश्यते तथाऽपि मृषा स्यात् । सुखरूपं दुःखं न भवति । अतो मन एव तथा दर्शयति ।
‘जीवस्य सुखरूपस्य न दुःखं क्वचिदिष्यते ।
अतो मनोऽभिमानेन दुःखी भवति नान्यथा’’॥ इति भारते ॥५३॥
ग्रहा निमित्तं सुखदुःखयोश्चेत् किमात्मनोऽजस्य जनस्य ते वै । ग्रहैर्ग्रहस्यैव भवन्ति पीडाः क्रुध्येत कस्मै पुरुषस्ततोऽन्यः ॥ ५४ ॥
गृह्यमाणत्वाद् ग्रहो देहः ॥ ५४ ॥
कर्मास्तु हेतुः सुखदुःखयोर्वै किमात्मनस्तद् हि जडेऽजडत्वे । देहे स्ववित् पुरुषोऽयं सुपर्णः क्रुध्येत कस्मै न हि कर्म मूलम् ॥ ५५ ॥
अजडत्वे आत्मनः ॥ ५५ ॥
कालोऽस्तु हेतुः सुखदुःखयोश्चेत् किमात्मनस्तत्र तदात्मनोऽसौ । नाग्नेर्हि तापो न हिमस्य तत् स्यात् क्रुध्येत कस्मै न परस्य बोद्धुः ॥ ५६ ॥
तदात्मनः कालाधीनस्य ।
‘स्वातन्त्र्यमात्मशब्दोक्तं स्वरूपमपि कुत्रचित्’’॥ इति विवेके ॥
यथाऽग्नेर्हिमस्य च नैव दुःखं तापादिनिमित्तं जडत्वात् । एवं जडत्वाद्देह-स्यापि कालादिसम्बन्धे विद्यमानेऽपि न दुःखं युक्तम् ।
‘सदा कालादिसम्बन्धाद्दुःखं देहस्य युज्यते ।
तथाऽपि नैव दुःखी स जडत्वान्नियमेन तु ॥
आत्मनः सुखरूपत्वान्न दुःखं युज्यते क्वचित् ।
तस्मान्मनोभ्रमेणैव दुःखी जीवो न चान्यथा ॥
सर्वेषां मनसो नेता मनोरूपस्त्रिलोचनः ।
तद्वशाः सर्वदेवाश्च तेनैव सुखदुःखिनः ॥
नियन्ता तस्य च प्राणस्ततोऽपि बलवत्तरः ।
तन्नियन्ता हरिः साक्षात् परमानन्दलक्षणः’’॥ इति तात्पर्ये ॥ ५६ ॥
न केनचित् क्वापि कथञ्चनास्य द्वन्द्वोपरागः परतः परस्य । यथाऽऽत्मनः संसृतिरूपिणः स्यात् एवं प्रबुद्धो न बिभेति भूतैः ॥ ५७ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये एकादशस्कन्धे त्रयोविंशोऽध्यायः ॥
आत्मनः मनसः ॥ भौमयोर्विकारयोः पीड्यपीडकयोः उभयमनसोः सतोर्दुःखं भवति । ग्रहस्य ग्रहणरूपस्य मनसः सत एव । जडे मनसि सत्येव । तदात्मनो मनसः सतः । संसृतिरूपिणः आत्मनो जीवस्य यथा तथा न हि परस्य । अमनस्त्वात् । अतो मनोऽन्वय-व्यतिरेक इति भावः ॥ ५७ ॥
चतुर्विंशोऽध्यायः
आसीज्ज्ञानमथो ह्यर्थश्चैकमेवाविकल्पितम् ।
यदा विवेकनिपुणा आदौ कृतयुगे जनाः ॥ २ ॥
‘यथैवार्थस्तथा ज्ञानं ज्ञानार्थैक्यमुदाहृतम् ।
तथा कृतयुगे प्रायस्तदन्येषु तु कस्यचित्’’॥ इति ब्रह्मतर्के ॥ २ ॥
तन्मया फलरूपेण केवलेन विकल्पितम् ।
वाङ्मनोगोचरं सत्यं द्विधा समभवद् बृहत् ॥ ३ ॥
फलं रूपयतीति फलरूपः । ज्ञानार्थैक्येन सत्यम् । पश्चात् तद्द्विधा समभवत् । तच्छब्दार्थात्मकमुभयं बृहत्तरम् ॥ ३ ॥
तयोरेकतरो ह्यर्थः प्रकृतिः सोभयात्मिका ।
ज्ञानं त्वन्यतमो भागः पुरुषः सोऽभिधीयते ॥ ४ ॥
तमो रजः सत्त्वमिति प्रकृतेरभवन् गुणाः । मया प्रक्षोभ्यमाणायाः पुरुषानुमतेन वा ॥ ५ ॥
तेभ्यः समभवत् सूत्रं मत्सूत्रेण च संयुतम् ।
ततो विकुर्वतो जातो योऽहङ्कारो विमोहकः ॥ ६ ॥
वैकारिकस्तैजसश्च तामसश्चेत्यहं त्रिवृत् ।
तन्मात्रेन्द्रियमनसां कारणं चिदचिन्मयः ॥ ७ ॥
‘ज्ञानाभिमानी पुरुषः स ब्रह्मा समुदाहृतः ।
अर्थाभिमानी प्रकृतिर्गायत्री सा प्रकीर्तिता ॥
तयोर्नियामको विष्णुः श्रीश्चानुग्राहिका स्मृता ।
वायुस्तु ब्रह्मणः पुत्रः प्रकृतौ समजायत ॥
त्रिगुणात्मा समुद्दिष्टः प्रायः सत्त्वात्मकस्तथा ।
गायत्री चैव सावित्री तथैव च सरस्वती ॥
एवं त्रिरूपा प्रकृतिरेका सत्त्वादिभेदतः ।
तासु वीर्यं समुत्सृष्टं ब्रह्मणैकत्वमागतम् ॥
स सूत्रात्मा समुद्दिष्टो वायुर्लोकप्रणायकः ।
तस्यापि सूत्रं भगवान् धारणाद्विष्णुरव्ययः ॥
सूत्रपुत्रस्त्वहङ्कारः स रुद्रः समुदाहृतः ।
सूत्रात्मना महांश्चापि सहजातश्चतुर्मुखः ॥
तस्यापि पुत्रोऽहङ्कारः स चानन्त उदाहृतः ।
अनन्तादपि रुद्रोऽभूद् ब्रह्मणश्चेति स त्रिधा ॥
वैकारिको ब्रह्मजस्तु तैजसो वायुजः स्मृतः ।
तामसोऽनन्तजश्चैव स एको गुणभेदतः’’॥ इति प्राथम्ये ॥
‘चिदचिद् यद्वशे सर्वं स रुद्रश्चिदचिन्मयः’’॥ इति च ॥ ४-७ ॥
तस्मिन्नहं समभवमण्डे सलिलसंस्थिते ।
मम नाभ्यामभूत् पद्मं विश्वाख्यं तत्र चाऽत्मभूः ॥ १० ॥
‘चिदानन्दशरीरस्तु प्रविष्टोऽण्डे हरिः स्वयम् ।
तन्नाभेर्भूतदेहोऽभूत् पद्मादपि चतुर्मुखः ॥
चतुर्मुखस्तु सर्वाण्डव्याप्तदेहो महातपाः ।
हरिस्तु सर्वव्याप्तोऽपि भूतदेहो न तु क्वचित् ॥
नैवास्य प्राकृतो देहः प्रादुर्भावेष्वपि क्वचित्’’॥ इति निवृत्ते ॥१०॥
योगस्य तपसश्चैव ज्ञानस्य गतयोऽमलाः ।
महर्जनस्तपः सत्यं भक्तियोगस्य मद्गतिः ॥ १४ ॥
महरादीनामपि भक्तियोगोऽपेक्षित एव । आधिक्येनापेक्षितत्वात् ‘भक्ति-योगस्य मद्गतिः’’। इत्युक्तम् ।
‘नैव विष्णावभक्तस्य महर्लोकादिका गतिः ।
भक्त्युद्रेकात् क्रमादूर्ध्वं यावद्विष्णुप्रवेशनम् ॥
एवं ज्ञानं विना साऽपि महर्लोकादिका गतिः ।
ज्ञानोद्रेकात् क्रमादूर्ध्वं यावद्विष्णुप्रवेशनम् ॥
नित्यशो भगवद्रूपस्याऽपरोक्ष्येण दर्शनम् ।
मुहूर्तमात्रं ज्ञानं स्यान्महाज्ञानं ततोऽधिकम् ॥
ज्ञानेन ब्रह्मलोकः स्यान्महाज्ञानाद्धरेर्गतिः ।
सदैवाखण्डितं ध्यानं तप इत्युच्यते बुधैः ॥
अपरोक्षदृशा युक्तं नित्यं षण्मात्रकालया ।
अपरोक्षदृशा नित्यं एकमात्रायुजा युतम् ॥
योगनाम्ना समुद्दिष्टं ध्यानं नित्यमखण्डितम् ।
तच्चतुर्भागया नित्यमपरोक्षदृशा युतम् ॥
पादयोगाख्यमुद्दिष्टं ध्यानं नित्यमखण्डितम् ।
पादयोगान्महर्लोको जनलोकस्तु योगतः ॥
तपसस्तु तपोलोकः प्राप्यते नान्यतः क्वचित्’’॥ इति ध्यानयोगे ॥ १४ ॥
मया कालात्मना धात्रा कर्मयुक्तमिदं जगत् ।
गुणप्रवाह एतस्मिन्नुन्मज्जति निमज्जति ॥ १५ ॥
कालात्मना ज्ञानाद्यात्मना ॥ १५ ॥
यस्तु यस्याऽदिरन्तश्च स वै मध्यं च तस्य तत् ।
विकारो व्यवहारार्थो यथा तैजसपार्थिवाः ॥ १७ ॥
‘प्रकृतेस्तु विकाराणां कोट्यंशोऽभेद इष्यते ।
तथैवैकांशतो भेदः सोऽपि नाभेदवर्जितः ।
भेदाभेदमतः प्राहुरभेदं वा तयोर्बुधाः’’॥ इति विवेके ॥ १७ ॥
यदुपादाय पूर्वस्तु भावो विकुरुते परम् ।
आदिरन्तो यतो यस्मिंस्तत् सत्यमभिधीयते ॥ १८ ॥
‘पारमार्थिकसत्यत्वं स्वातन्त्र्यमभिधीयते ।
तद्विष्णोरेव नान्यस्य तदन्येषां सदाऽस्तिता’’॥ इति च ॥
यद्ब्रह्मोपादाय । पूर्वः प्रकृत्यादिः । आदिरन्तश्च यद्ब्रह्मणि यस्मात् तस्मात् तह्म परमार्थसत्यम् ॥ १८ ॥
प्रकृतिर्ह्यस्योपादानमाधारः पुरुषः परः ।
सतोऽभिव्यञ्जकः कालो ब्रह्म तत् त्रितयं त्वहम् ॥ १९ ॥
परः पुरुषो हिरण्यगर्भः । कालोऽपि रूपान्तरेण स एव ।
‘कालाभिमानी ब्रह्मा तु काल इत्यभिशब्दितः ।
सर्वजीवाभिमानी स परः परुष उच्यते ॥
प्रकृतिर्नाम तत्पत्नी प्रकृतेरभिमानिनी ।
सा प्रसूते जगत्सर्वं सूत्रमारभ्य सर्वशः’’॥ इति च ।
आधारो व्यञ्जकश्चैव प्रसवीता च केशवः ।
‘कालप्रकृतिपुंसां च तन्मूलप्रकृतेरपि ।
आधारो व्यञ्जकश्चैव सर्वस्यापि नियामकः’’॥ इति च ॥ १९ ॥
सर्गः प्रवर्तते तावत् पौर्वापर्येण नित्यशः ।
महान् गुणविसर्गोऽर्थः स्थित्यन्तो यावदीक्षणम् ॥ २० ॥
यावत् स्थितिरस्ति तावदुत्पत्तिरस्त्येव । यावदीक्षणं यावत्प्रलयः स्यादिति भगवतः स्मरणम् ॥ २० ॥
विराण्मयाऽऽसाद्यमानो लोककल्पविकल्पकः ।
पञ्चत्वायाविशेषाय कल्पते भुवनैः सह ॥ २१ ॥
‘विशेषेण गुणोद्रेकाद्विशेषः पृथिवी स्मृता’’। इति प्रवृत्ते ।
पञ्चत्वानन्तरमविशेषाय ॥ २१ ॥
अन्ने प्रलीयते मर्त्य अन्नं धानासु लीयते ।
धाना भूमौ प्रलीयन्ते भूमिर्गन्धे प्रलीयते ॥ २२ ॥
‘देव्यामोषधिमानिन्यां लीयतेऽन्नाभिमानिनी’’। इत्यादि च ॥ २२ ॥
योनिर्वैकारिके सौम्य लीयते महतीश्वरे ।
शब्दो भूतादिमप्येति भूतादिर्महति प्रभुः ॥ २५ ॥
स लीयते महान् स्वेषु गुणेषु गुणवत्तमः । तेऽव्यक्ते सम्प्रलीयन्ते तत् काले लीयतेऽव्यये ॥ २६ ॥
कालो मायामये जीवे जीव आत्मनि मय्यजे । आत्मा केवल आत्मस्थो विकल्पापायलक्षणः ॥ २७ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये एकादशस्कन्धे चतुर्विंशोऽध्यायः ॥
‘विकारजत्वात्तु महान्वैकारिक उदाहृतः ।
ईशनादीश्वरश्चैव ब्रह्मा बृंहणतः स्मृतः’’॥ इति च ॥
‘गायत्री चैव सावित्री तथैव च सरस्वती ।
एवं त्रिरूपा प्रकृतिर्ब्रह्मपत्नी प्रकीर्तिता ॥
महत्तत्त्वात्मको ब्रह्मा तज्जत्वात् तत्र लीयते ।
गुणाधिकः पतिरपि तस्याः सत्त्वादिभेदतः ॥
त्रिविधा मूलरूपायां प्रकृत्यां सा प्रलीयते ।
प्रकृतिर्मूलरूपा सा ब्रह्मपत्नी जगन्मया ॥
पुरुषाभिधे विरिञ्चे तु स स्वस्मिन् कालसञ्ज्ञिते ।
कालाभिधो विरिञ्चस्तु महालक्ष्म्यां विलीयते ॥
जीवमायेति यामाहुः सा च सत्त्वादिभेदतः ।
त्रिविधैकत्वमापाद्य विष्णावेव विलीयते ॥
हरेरत्यन्तसामीप्यं लयो लक्ष्म्याः प्रकीर्तितः ।
पुरुषेणापि सामीप्यं प्रकृतेर्लय उच्यते ॥
ब्रह्मा च प्रकृतिश्चैव मुक्तिगौ विलये यतः ।
अतस्तौ भिन्नदेहौ तु ज्ञानमात्रौ समीपगौ’’॥ इत्यादि च ॥ २५-२७॥
पञ्चविंशोऽध्यायः
काम ईहा मदस्तृष्णा स्तम्भ आशीर्भिदाऽसुखम् ।
मनोत्साहो यशःप्रीतिर्धार्ष्ट्यवीर्यबलोद्यमाः ॥ ३ ॥
‘राजसेऽपि यदा दुःखं तामसे किमुतेति तत् ।
राजसे दुःखवचनं तामसेऽतिविवक्षया’’॥ इति प्रद्योते ॥ ३ ॥
सत्वे प्रलीनाः स्वर्यान्ति नरलोकं रजोलयाः ।
तमोलयास्तु निरयं यान्ति मामेव निर्गुणाः ॥ २२ ॥
‘नैर्गुण्यसाधनं यत् तन्निर्गुणं परिकीर्तितम्’’। इति च ॥ २२ ॥
कैवल्यं सात्त्विकं ज्ञानं कर्मनिष्ठं तु राजसम् ।
प्राकृतं तामसं ज्ञानं मन्निष्ठं निर्गुणं स्मृतम् ॥ २४ ॥
‘यथाशास्त्रोक्तविज्ञानं केवलं ज्ञानमुच्यते ।
स्वदृष्टशास्त्रानुकूल्याददृष्टानां च भक्तितः ॥
गुणानां तु हरौ भावं विनिश्चित्यैतदाश्रयात् ।
यथाशास्त्रानुसन्धानं ज्ञानं तु हरिसंश्रयम्’’॥ इति च ॥ २४ ॥
सात्त्विक्याध्यात्मिकी श्रद्धा कर्मश्रद्धा तु राजसी ।
तामस्यधर्मे या श्रद्धा मत्सेवायां तु निर्गुणा ॥ २७ ॥
‘श्रुतशास्त्रानुसारेण या श्रद्धा परमात्मनि ।
सा सात्विकी तदन्यस्याप्यनुसारेण निर्गुणा ॥
अश्रुत्वाऽपि प्रमाणं यो वासुदेवैकसंश्रयः ।
स निर्गुणो भागवतः समुद्दिष्टो मनीषिभिः’’॥ इति च ॥ २७ ॥
सात्त्विकं सुखमात्मोत्थं विषयोत्थं तु राजसम् ।
तामसं मोहदैन्योत्थं निर्गुणं मदपाश्रयम् ॥ २९ ॥
‘परोक्षज्ञानमात्मोत्थमापरोक्ष्येण दर्शनम् ।
विष्ण्वाश्रयं सुखं नित्यं गमयेत् तत्प्रसादतः ॥
न तु विष्णोः स्वरूपं तु सुखं केनचिदाप्यते ।
तस्यैव विषयत्वात्तु तत्सुखं चेति भण्यते ॥
परोक्षज्ञानगो यस्माद्विषयः स्वमनोगतः ।
अत आत्मोत्थमित्येव सुखमाहुर्विपश्चितः’’॥ इति च ॥ २९ ॥
सर्वे गुणमया भावा पुरुषाव्यक्तनिष्ठिताः ।
दृष्टं श्रुतमनुध्यायेद् बुद्ध्या वा पुरुषर्षभ ॥ ३१ ॥
॥ इति श्रीभागवततात्पर्यनिर्णये एकादशस्कन्धे पञ्चविंशोऽध्यायः ॥
दृष्टं श्रुतम् । बुद्ध्या दृष्टं चानु परं ब्रह्म ध्यायेत् ॥
‘सत्वाद्गुणाज्जातमपि व्यवधानं विनैव तु ।
मुक्तिदं निर्गुणं प्रोक्तं व्यवधानेन सात्त्विकम्’’॥ इति ब्राह्मे ॥३१॥
षड्विंशोऽध्यायः
गुणमय्या जीवयोन्या विमुक्तो ज्ञाननिष्ठया ।
गुणेषु मायामात्रेषु दृश्यमानेष्ववस्तुतः । वर्तमानोऽपि न पुमान् युज्यतेऽवस्तुभिर्गुणैः ॥ २ ॥
‘वस्तु स्वतन्त्रमुद्दिष्टमस्वतन्त्रमवस्तु च’’। इति माहात्म्ये ॥ २ ॥
सन्तो दिशन्ति चक्षूंषि बहिरर्कः समुत्थितः ।
देवता बान्धवाः सन्तः पिता माताऽहमेव च ॥ ३४ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये एकादशस्कन्धे षड्विंशोऽध्यायः ॥
भगवतोऽपि सतां मध्ये प्रधानत्वात् सन्तोऽहमेव चेत्युक्तम् ।
‘विष्णोश्च सत्प्रधानत्वान्न सतां विद्यते परम् ।
इत्याहुर्वेदविदुषः स हि सर्वेश्वरेश्वरः’’॥ इति च ॥ ३४ ॥
सप्तविंशोऽध्यायः
पिण्डे वाय्वग्निसंशुद्धे हृत्पद्मस्थां परां मम ।
अण्वीं जीवकलां ध्यायेन्नादान्ते सिद्धभाविताम् ॥ २२ ॥
तयाऽऽत्मभूतया पिण्डे व्याप्ते सम्पद्य तन्मयः । आवाह्यार्चादिषु स्थाप्य न्यस्ताङ्गं मां प्रपूजयेत् ॥ २३ ॥
जीवः कला यस्याः सा जीवकला भगवन्मूर्तिः ।
‘हृदिस्था या हरेर्मूर्तिर्जीवो यत्प्रतिबिम्बकः ।
यद्वशे वर्तते जीवः सा तु जीवकला स्मृता ॥
शब्दैः सर्वात्मनाऽनुक्तेर्नादान्तस्था च सा मता’’॥ इति विवेके ॥
‘व्याप्तो भूतश्च नित्यं यदात्मभूतो हरिस्ततः ।
जीवस्य तत्प्रधानत्वं तन्मयत्वमुदाहृतम्’’॥ इति तन्त्रभागवते ॥
‘व्याप्तोऽपि भगवान् विष्णुर्देहे सर्वगतत्वतः ।
भक्तस्य फलदो यस्माद् व्याप्तिकृत्तस्य तेन सः’’॥ इति च ॥२२,२३॥
स्वस्य घर्मानुवाकेन महापुरुषविद्यया ।
पौरुषेणापि सूक्तेन धामनीराजनादिभिः ॥ ३० ॥
स्वस्य विष्णुसूक्तेन । धामसूक्तं ‘समुद्रादूर्मिः’‘इति ।
‘नितरां रञ्जयेद् यस्मात् पावमानं तु मण्डलम् ।
विष्णुनीराजनं तस्माद्विद्वद्भिः समुदाहृतम्’’॥ इति च ॥ ३० ॥
उपगायन् गृणन् नृत्यन् कर्माण्यभिनयन् मम ।
मत्कथाः श्रावयन् शृण्वन् मुहूर्तक्षणिको भवेत् ॥ ४३ ॥
मम कर्माणि कीर्तयित्वाऽभितो नयन् सर्वेषां प्रकाशयन् मत्कथाः श्रावयन्नित्यभिनयपदार्थः ॥ ४३ ॥
प्रतिष्ठया सार्वभौमं सद्मना भुवनत्रयम् ।
पूजादिना ब्रह्मलोकं त्रिभिर्मत्साम्यतामियात् ॥ ५१ ॥
मामेव नैरपेक्ष्येण भक्तियोगेन विन्दति ।
स भक्तियोगं लभते एवं यः पूजयेत माम् ॥ ५२ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये एकादशस्कन्धे सप्तविंशोऽध्यायः ॥
नैरपेक्ष्येण भक्तियोगेनैव साम्यमित्यर्थः ।
‘निर्दुःखत्वं हरेः साम्यं न तादृशसुखात्मता ।
सर्वोत्तमः सदानन्दः कथं कस्य कदाऽऽप्यते’’॥ इति प्रवृत्ते ॥
‘आधिपत्यं त्रिलोकस्य योग्यानामिन्द्रता स्मृता ।
अयोग्यानां त्रिलोकेऽपि पूज्यत्वं समुदाहृतम् ॥
तद्भवेत्परया भक्त्या विष्णोरालयकारिणः ।
ततोऽप्युद्रिक्तया भक्त्या विष्णुं पूजयतः सदा ॥
अवाप्यते ब्रह्मलोकस्तदुद्रिक्तश्च मुच्यते’’॥ इति च ॥ ५१,५२ ॥
अष्टाविंशोऽध्यायः
श्रीभगवानुवाच– परस्वभावकर्माणि न प्रशंसेन्न गर्हयेत् । विश्वमेकात्मकं पश्यन् प्रकृत्या पुरुषेण च ॥ १ ॥
परस्वभावकर्माणि यः प्रशंसति निन्दति । स आशु भ्रंशते स्थानादसत्याभिनिवेशतः ॥ २ ॥
‘न प्रशंसेत निन्द्यांस्तु प्रशंस्यान्नैव निन्दयेत् ।
उभयं यः करोत्येतदसत्यात् स पतत्यधः ॥
यः प्रशंस्यान्न प्रशंसेन्निन्द्यो येन न निन्द्यते ।
सोऽपि तद्वदधो याति यतोऽरिवदुदासकः’’॥ इति सत्कारे ॥
प्रकृत्या पुरुषेण च सह एकेन परमात्मना व्याप्तमेकात्मकम् । तथा पश्यत एव यथार्थज्ञानं भवति ॥ १,२ ॥
तैजसे निद्रयाऽऽपन्ने पिण्डस्थो नष्टचेतनः ।
मायां प्राप्नोति मृत्युं वा तद्धि नानार्थदं मनः ॥ ३ ॥
‘तैजसाहङ्कृतेर्जात इन्द्रियग्रामके परात् ।
निद्रया वशमापन्ने जीवः स्यान्नष्टचेतनः ।
अतो विष्णोर्वशे सर्वं तेन व्याप्तमिति स्मरेत्’’॥ इति च ॥
‘निद्रा चैव सुनिद्रा च द्विधा निद्रा प्रकीर्तिता ।
तत्र निद्रा भवेन्नित्या सुनिद्रा मृतिकालगा’’॥ इति पाद्मे ।
‘मनोमात्रस्वरूपत्वात् स्वप्नो मायेति कथ्यते’’। इति च ।
तथा नानार्थदं मन एव । मनसा हि विषयाः प्रतीयन्ते ॥ ३ ॥
कि ं भद्रं किमभद्रं वा द्वैतस्यावस्तुनः कियत् ।
वाचोदितं तदनृतं मनसा ध्यातमेव च ॥ ४ ॥
‘एकं तु शुभमुद्दिष्टमशुभं द्वैतमुच्यते ।
पुंसोऽशुभस्य किं भद्रं किमभद्रं विशेषतः ।
सर्वदाऽशुभरूपत्वाद् विशेषोऽत्यल्प एव हि’’॥ इति भारते ॥
द्वैतस्याशुभस्य पुरुषस्य कियदल्पमेव हि भद्रमभद्रं वा स्वयोग्यादाधिक्येन न भवति यत्नवतोऽपीत्यर्थः । अतस्तद्विषये ध्यातमुक्तं च शुभमनृतमेव ।
‘उच्यते ध्यायते वापि कुनरं प्रति यच्छुभम् ।
असत्यमेव भवति स्वभावोऽसत्त्वमेव यत्’’॥ इति प्रद्योते ॥ ४ ॥
छायाप्रत्युदकाभासा ह्यसन्तोऽप्यर्थकारिणः ।
एवं देहादयो भावा यच्छन्त्यामृत्युतो भयम् ॥ ५ ॥
स्वभावतोऽशुभस्याशुभदेहादिकं नाशुभकारणं तर्हीत्यत आह– छाया-प्रत्युदकाभासा इति ।
‘व्यपेक्ष्य जीवं देहादि निःशक्तत्वादवस्त्वपि ।
पुनः शुभाशुभनृणां यच्छेदेव शुभाशुभम् ॥
छाया नीहारकाभासा निःशक्ता अपि कार्यदाः ।
एवं शुभादिदेहादेर्भवेत् कार्यं शुभादिकम्’’॥ इति सुमते ॥
‘नीहारः प्रत्युदं चैव धूम्रमित्यभिशब्द्यते’’। इति शब्दनिर्णये ॥ ५ ॥
आत्मैव तदिदं विश्वं सृज्यते सृजति प्रभुः ।
त्रायते त्राति विश्वात्मा ह्रियते हरतीश्वरः ॥ ६ ॥
तस्मान्न ह्यात्मनोऽमुष्मादन्यो भावो निरूपितः । अनिरूपितेयं त्रिविधा निर्मूला मतिरात्मनि ॥ ७ ॥
इदं गुणमयं विद्धि त्रिविधं मायया कृतम् ॥ ८ ॥
एतद् विद्वान् मदुदितं ज्ञानविज्ञाननैपुणः । न निन्दति न च स्तौति लोके चरति सूर्यवत् ॥ ९ ॥
प्रत्यक्षेणानुमानेन निगमेनात्मसंविदा । आद्यन्तवदसज्ज्ञात्वा निःसङ्गो विचरेदिह ॥ १० ॥
इदं विश्वं सृजति त्राति हरति च, स्वयं स्वात्मनैव सृज्यते त्रायते ह्रियते च ।
‘दीपाद् दीपान्तरं यद्वत् सृष्टिरीशस्य कीर्त्यते ।
एतावत्कालमाशिष्ये मानुषेष्विति चिन्तनम् ॥
विष्णोस्त्राणं समुद्दिष्टं स्वस्यैव स्वेच्छयैव तु ।
दीपे दीपान्तरस्येव ह्येकीभावश्च संहृतिः’’॥ इति च ॥
‘पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते’’॥ इति च ॥
आत्मनः परमेश्वरस्य तस्मादन्यो भावो नास्ति ।
‘सृष्टिः स्थितिश्च संहारो भावनं समुदाहृतम् ।
तद्यः करोति पुरुषः स भाव इति कीर्त्यते’’॥ इति विवेके ।
अन्येन सृष्टिः स्थितिः संहार इति त्रिविधा मतिर्विद्वद्भिर्नैव निरूपिता निर्मूला प्रमाणवर्जिता ।
‘अन्यस्मात् सृष्टिसंहारौ स्थितिश्च परमात्मनः ।
निरूपिता न विद्वद्भिः प्रमाणाभावतो हरेः’’॥ इति ब्रह्मतर्के ॥
अन्यतः सृष्टिः स्थितिः संहार इति त्रयं गुणप्रधानं सत्त्वादिगुणाधीनम् ।
‘गुणसम्बन्धयोग्यानामुत्पत्त्याद्याः स्युरन्यतः ।
सर्वदा निर्गुणस्यास्य सर्गाद्याः स्युः कुतोऽन्यतः’’॥ इति च ॥
‘असमर्थमसत्प्रोक्तं सत्समर्थं प्रकीर्तितम्’’। इति च ॥ ६-१० ॥
श्रीभगवानुवाच– यावद् देहेन्द्रियप्राणैरात्मनः सन्निकर्षणम् । संसारः फलवांस्तावदपार्थोऽप्यविवेकिनः ॥ १३ ॥
‘फलवान् मोक्षहेतुत्वान्नित्यानन्दादपार्थकः ।
जीवात्मनस्तु संसारः स्वप्नवच्चञ्चलत्वतः’’॥ इति तत्त्वविवेके ॥१३॥
अर्थेऽप्यविद्यमानेऽपि संसृतिर्न निवर्तते ।
ध्यायतो विषयानस्य स्वप्नेऽनर्थागमो यथा ॥ १४ ॥
यथा ह्यप्रतिबुद्धस्य प्रस्वापो बह्वनर्थकृत् ।
स एव प्रतिबुद्धस्य न वै मोहाय कल्पते ॥ १५ ॥
संसृत्यभावस्यैव फलरूपत्वान्निरर्थ एव संसार इत्यवधारयति– अर्थेऽपीति ।
‘उच्यते निष्फलत्वेन यदत्यल्पफलं भवेत्’’। इति च ।
अतोऽल्पफलत्त्वावधारणार्थं च पुनर्वचनम् ॥ १४,१५ ॥
शोकहर्षभयक्रोधलोभमोहस्पृहादयः ।
अहङ्कारस्य दृश्यन्ते जन्म मृत्युश्च नाऽत्मनः ॥ १६ ॥
अहङ्कारस्य सकाशाद् दृश्यन्ते । नाऽत्मनः स्वतः ।
‘अहङ्कारात्तु संसारो भवेज्जीवस्य न स्वतः ।
कुतश्चिदानन्दतनोः स्वरूपेच्छायुतस्य सः’’॥ इति तन्त्रभागवते ॥ १६ ॥
देहेन्द्रियप्राणमनोऽभिमानो जीवोऽन्तरात्मा गुणकर्ममूर्तिः । सूत्रं महानित्युरुधेह गीतः संसार आधावति कालतन्त्रः ॥ १७ ॥
देहेन्द्रियप्राणमनसामभिमानयुक्तः । सूत्रं महानित्याद्यधिकारनामभिर्युक्तः । प्रधानजीवो हिरण्यगर्भोऽप्याधावति संसारे किमुतान्य इत्याशयः ।
‘संसारयुग् यो ब्रह्माऽपि सर्वजीवेश्वरेश्वरः ।
विष्ण्वधीनः सदा ज्ञानी किमुतान्येऽल्पचित्तिनः’’॥ इति सत्तत्त्वे ॥
अमूलमेतद् बहुरूपरूपं मनोवचःप्राणशरीरकर्म । ज्ञानासिनोपासनया शितेन च्छित्त्वा मुनिर्गां विचरत्यतृष्णः ॥ १८ ॥
अमूलं विष्णुमूलम् । बहुरूपेण तेनैव रूप्यते । मनआदीनां विषयः ॥१८॥
ज्ञानं विवेको निगमस्तपश्च प्रत्यक्षमैतिह्यमथानुमानम् ।
आद्यन्तयोरस्य यदेव केवलं कालश्च हेतुश्च तदेव मध्ये ॥१९॥
केवलं स्वतन्त्रम् । आद्यन्तयोर्यत्स्वतन्त्रं तदेव मध्येऽपि स्वतन्त्रम् । परं ब्रह्म । ज्ञानविवेकादिस्वरूपम् । परिपूर्णगुणत्वात् । अन्यतो विविक्तत्वाद् विवेकः । सर्वं निगमयति प्रापयतीति निगमः । सर्वैरालोच्यत्वात् तपः । प्रतिप्रत्यक्षेषु स्थितत्वात् प्रत्यक्षम् । आचार्यसम्प्रदायसिद्धत्वात् ऐतिह्यम् । अनुमेयत्वाद् अनुमानम् ॥ १९ ॥
यथा हिरण्यं स्वकृतं पुरस्तात् पश्चाच्च सर्वस्य हिरण्मयस्य ।
तदेव मध्ये व्यवहार्यमाणं नानापदेशैरहमस्य तद्वत् ॥ २० ॥
हिरण्यखचितत्वेन हिरण्यप्रधानं हिरण्मयम् । शङ्खमञ्चकरथादिषु मध्येऽपि केवलं प्राधान्येन व्यवहार्यमाणं तदेव ।
‘रथोपस्थे परिष्कारात् पूर्वं दारुमयाद् रथात् ।
सुवर्णं व्यवहाराय मुख्यं रथपरिष्कृतम् ॥
मध्ये चान्ते रथोपस्थान् निष्कृष्य पृथगास्थितम् ।
यद्वदेवं हरिः साक्षाज्जगद्देहात् पृथक् स्थितः ॥
पूर्वं जगति संस्थश्च जगदन्ते पृथक् स्थितः ।
स एव मुख्यो जगतः स्वातन्त्र्यात् परमेश्वरः’’॥ इति ब्रह्मतर्के ॥
‘सुरपितृमनुजादिकल्पनादिभिः’‘इत्याद्यन्तर्याम्यपेक्षया ।
‘यथा सुवर्णमकृतं क्रियते कुण्डलादिकम् ।
पुनरेकीभवत्यद्धा तद्वद् विष्णुरजोऽपि सन् ॥
सुराद्यन्तःस्थितो भूत्वा पुनरेकीभवेद् विभुः’’॥ इति च ॥
‘तत्तन्नियामकस्यैव नाम सर्वं सुरादिकम् ।
तत्सम्बन्धादुदीर्येत व्यवहृत्यै सुरादिषु’’॥ इति शब्दनिर्णये ॥
‘एकलं केवलं चेति स्वतन्त्रमभिधीयते ।
स्वतन्त्रस्तु हरिः साक्षात् परिष्कृतहिरण्यवत्’’॥ इति प्रवृत्ते ।
‘प्रत्येकं न तु दार्वादि स्वतन्त्रं विक्रियागतम् ।
महाफलं स्यात् स्वर्णं तु स्वतन्त्रं विक्रियोपगम् ।
तद्वत् स्वतन्त्रो भगवान् प्रवृत्तावन्यदन्यथा’’॥ इति च ॥ २० ॥
विज्ञानमेतत् त्रिपदस्थमङ्ग गुणत्रयं कारणकार्यकर्तृ ।
समन्वयेन व्यतिरेकतश्च येनैव तुर्येण तदेव सत्यम् ॥ २१ ॥
मोक्षदं संसारदं तमःप्रदं चेति त्रिपदस्थं विज्ञानम् । तदिच्छायाः सत्त्व एतत् सर्वमस्ति, अन्यथा नास्तीत्यन्वयव्यतिरेकौ ॥
तदेव केवलं सत्यमिति सर्वत्र सम्बध्यते ।
‘स्वातन्त्र्यमेव सत्यत्वं विष्णोरन्यस्य सत्यता ।
प्रवाहतः सदाऽस्तित्वं पुंप्रकृत्योः सदाऽस्तिता’’॥ इति वस्तुतत्वे ॥ २१ ॥
न यत् पुरस्तादुत यन्न पश्चा- न्मध्ये च तन्न व्यपदेशमात्रम् । भूतं प्रसिद्धं च परेण यद्यत् तदेव सत् स्यादिति मे मनीषा ॥ २२ ॥
मध्ये च तत् केवलं नेति सम्बध्यते ।
‘तत्स्वातन्त्र्येण नैवास्ति यदुत्पत्तिविनाशवत् ।
स्वातन्त्र्येणास्तिता तस्य यत् सत्ताज्ञानदं सदा’’॥ इति वैभवे ।
‘जगतो नास्तिता सैव या पराधीनता सदा ।
अभावस्तु कुतस्तस्य यद्विभातीह सर्वदा’’॥ इति प्राकाश्ये ॥ २२ ॥
अविद्यमानोऽप्यवभासते यो वैकारिको राजससर्ग एषः । ब्रह्म स्वयञ्ज्योतिरतो विभाति ब्रह्मेन्द्रियार्थात्मविकारचित्रम् ॥ २३ ॥
‘अविद्यमानता नाम जगतः परतन्त्रता ।
यथाऽशक्तस्तु पुत्रादिरसन्नित्युच्यते जनैः’’॥ इति विवेके ॥
अतो ब्रह्मण एव विभाति । द्वितीयं ब्रह्म प्रकृतिः । आत्मा जीवः प्रकृतीन्द्रियविषयजीवादिविचित्रं जगद्ब्रह्मत एव विभातीत्यर्थः ॥ २३ ॥
नात्मा वपुः पार्थिवमिन्द्रियाणि देवा ह्यसुर्वायुजलं हुताशः । मनोऽन्नमात्रं धिषणा च सत्त्व- महङ्कृतिः स्वं कृतिरर्थसाम्यम् ॥ २५ ॥
‘वायुरेव स्वयं प्राणस्तत्रस्थे चोदतेजसी ।
उदेन तेजसा चैव प्राणस्य हि कृतं वपुः’’॥ इति प्रकाशिकायाम् ॥
‘प्राणस्य वायुरूपस्य भूतत्रयकृतं वपुः ।
ततो हि पार्थिवं नात्र खं चात्यल्पमुदाहृतम्’’॥ इति सन्धारणे ॥
सत्वं मूलबुद्धिः । अहं शृृणोम्यहं स्पृशाम्यहं पश्यामीति सर्वार्थेषु समत्वादहङ्कारोऽर्थसाम्यम् ।
‘न देहो नेन्द्रियप्राणमनोबुद्ध्यहमादयः ।
विष्णुश्चिदानन्दतनुः स हि जीवाधिपः सदा’’॥ इति सत्तत्त्वे ॥२५॥
समाहितैः कः करणैर्गुणात्मभि- र्गुणो भवेत् तत्सुविविक्तधाम्नः । विक्षिप्यमाणैरुत किं नु दूषणं घनैरुपेतैर्विगतै रवेः किम् ॥ २६ ॥
यथा नभो वाय्वनलाम्बुभूगुणै- र्गतागतैर्वा त्रिगुणैर्न सज्जते । तथाऽक्षरं सत्वरजस्तमोमलै- रसङ्गतं संसृतिहेतुभिः परम् ॥ २७ ॥
तथापि सङ्गः परिवर्जनीयो गुणेषु मायारचितेषु तावत् । मद्भक्तियोगेन दृढेन यावद् रजो निरस्येत तमःकषायम् ॥ २८ ॥
भगवतो गुणदोषाभावेऽपि जीवस्य सङ्गोऽवर्जनीय एव मुक्तिपर्यन्तम् ।
‘समाहितेऽपि)न जीवेन विक्षिप्ते वा न तु क्वचित् ।
विशेषो विद्यते विष्णोस्तथापि तु समाहिते ॥
प्रीतो भवति वै नित्यं सर्वधर्मकृतोऽपि च’’॥ इति पाद्मे ॥ २६-२८ ॥
तिष्ठन्तमासीनमुत व्रजन्तं शयानमुद्यन्तमदन्तमन्नम् । स्वभावमन्यत् किमपीहमान- मात्मानमात्मस्थमतिर्न वेद ॥ ३२ ॥
आत्मस्थमतिः परमात्मस्थमतिः । परमात्मनोऽन्यत् । पारतन्त्र्यादेः॥ ३२ ॥
यदि स्म पश्यत्यसदिन्द्रियार्थं नानानुमानेन विरुद्धमन्यत् । न मन्यते वस्तुतया मनीषी स्वप्नं यथोत्थाय तिरोदधानम् ॥ ३३ ॥
‘नानामानविरुद्धं हि स्वातन्त्र्यं जगतः सदा ।
स्वतन्त्रो भगवान्विष्णुरेक एव न संशयः’’॥ इति च ॥
वस्तुतया स्वतन्त्रत्वेन । विरुद्धं तथा न मन्यते ।
‘अस्त्येव स्वाप्नमखिलं वासनारूपमात्मनि ।
जाग्रदेतदिति ज्ञानं यत्तदेव भ्रमात्मकम् ॥
तद्वज्जगदिदं सर्वं विद्यमानं न संशयः ।
स्वतन्त्रमेतदिति तु यज्ज्ञानं तद्भ्रमात्मकम्’’॥ इति च ॥
‘उत्थितो नैव जाग्रत्त्वं क्वचित् स्वप्नस्य पश्यति ।
स्वातन्त्र्यमेवं जगतो ज्ञानवान् नैव पश्यति’’॥ इति विवेके ॥३३॥
पूर्वं गृहीतं गुणकर्मचित्र- मज्ञानमात्मन्यविविक्तमङ्ग । निवर्तते तत् पुनरीक्षयैव न गृह्यते नापि विसृज्य आत्मा ॥ ३४ ॥
भगवद्गुणविषयं तत्कर्मविषयं चेति गुणकर्मचित्रम् । आत्मनि परमात्म-विषयम् । एतन्न जानामीत्यप्यविविक्तम् ।
‘अन्यैर्ज्ञातेऽपि वाऽज्ञाते न विशेषो हरेः क्वचित् ।
तेषामेव विशेषः स्यादज्ञानापगमेन तु’’॥ इति च ॥ ३४ ॥
एष स्वयंज्योतिरजोऽप्रमेयो महानुभूतिः सकलानुभूतिः । एकोऽद्वितीयो वचसां विरामो येनेरिता वाग्रचनाश्चरन्ति ॥ ३६ ॥
‘ज्ञानानन्दाद्यभिन्नत्वादेकः सर्वोत्तमत्वतः ।
अद्वितीयो महाविष्णुः पूर्णत्वात्पुरुषः स्मृतः’‘इति च ॥ ३६ ॥
एतावानात्मसम्मोहो यद् विकल्पस्तु केवले ।
आत्माऽमृते स्वमात्मानमचलं यन्न पश्यति ॥ ३७ ॥
‘एतावानात्मसम्मोहो यद्विरुद्धस्य कल्पनम् ।
यत्परात्माश्रयान् जीवान् निश्चयेन न पश्यति’’॥ इति तन्त्रभागवते ।
अचलमिति क्रियाविशेषणम् ॥ ३७ ॥
यन्नामाकृतिभिर्ग्राह्यं पञ्चवर्णमबाधितम् ।
व्यर्थो नाप्यर्थवादोऽयं द्वयं विन्दन्ति सूरयः ॥ ३८ ॥
॥ इति श्रीभागवततात्पर्यनिर्णये एकादशस्कन्धे अष्टाविंशोऽध्यायः ॥
अयं व्यर्थवादो न भवति । किन्त्वर्थवादः । जगत् परमेश्वरं च द्वयं विन्दन्ति ज्ञानिनः ।
‘पञ्चभूतात्मकं विश्वं भ्रान्तिसिद्धमपण्डिताः ।
वदन्ति पण्डितास्त्वद्धा जगदाहुरबाधितम् ।
प्रवाहरूपेण सदा विष्णोरिच्छावशे स्थितम्’’॥ इति च ॥ ३८ ॥
एकोनत्रिंशोऽध्यायः
श्री शुक उवाच– इत्युद्धवेनात्यनुरक्तचेतसा पृष्टो जगत्क्रीडनकः स्वशक्तिभिः । गृहीतमूर्तित्रय ईश्वरेश्वरो जगाद सप्रेम मनोहरस्मितः ॥ ७ ॥
‘आत्मान्तरात्मा परमात्मेति मूर्तित्रयं हरेः ।
जाग्रत्स्वप्नसुषुप्तीनां सृष्ट्यादेश्च प्रवर्तकम्’’॥ इति त्रैकाल्ये ॥ ७ ॥
पृथक् सत्रेण वा मह्यं मम यात्रामहोत्सवम् ।
कारयेन्नृत्यगीताद्यैर्महाराजविभूतिभिः ॥ ११ ॥
पृथक्स्वयमेव, सत्रेण बहुभिः सह वा, मम यात्रामहोत्सवं कुर्यात् ॥११॥
मामेव सर्वभूतेषु बहिरन्तरवस्थितम् ।
ईक्षेतात्मनि चात्मानं यथा खममलाशयः ॥ १२ ॥
इति सर्वाणि भूतानि मद्भावेन महाद्युते । सभाजयेन्मन्यमानो ज्ञानं केवलमाश्रयन् ॥ १३ ॥
ब्राह्मणे पुल्कसे स्तेने ब्रह्मण्यर्के स्फुलिङ्गके । अक्रूरे क्रूरके चैव समदृक् पण्डितो मतः ॥ १४ ॥
‘सर्वभूतेष्वस्ति विष्णुरिति भावः सतां मतः ।
अनेन सर्वभूतानामादित्ये तद्गतात्मना’’॥ इति च ॥ १२-१४ ॥
सर्वं ब्रह्मात्मकं तस्य विद्ययाऽऽत्ममनीषया ।
परिपश्यन्ति च परं परमात्मानमच्युतम् ॥ १८ ॥
‘ब्रह्मणाऽऽत्तमिदं सर्वं यत्किञ्चित्सचराचरम् ।
इति पश्येत यो विद्वान् स हि ब्रह्मात्मविन्मतः’’॥ इति ब्राह्मे ॥ १८ ॥
यो योऽपरो मनोधर्मः कल्पते निष्फलाय ते ।
तदायासो निरर्थः स्यान्नयादेरिव सत्तम ॥ २१ ॥
‘नयादिर्दुर्नयः प्रोक्तो यन्नयं सोऽत्ति सर्वदा’‘इति शब्दतत्त्वे ॥ २१ ॥
एषा बुद्धिमतां बुद्धिर्मनीषा च मनीषिणाम् ।
यत् सत्यमनृतेनेह मर्त्येनाऽप्नोति माऽमृतम् ॥ २२ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये एकादशस्कन्धे एकोनत्रिंशोऽध्यायः ॥
‘एकदा ज्ञातरूपेण यन्न तिष्ठति सर्वदा ।
चञ्चलत्वात् सत्यमपि ह्यनृतं जगदुच्यते’‘इति च ॥
‘सर्वदैकप्रकारत्वात् सत्यं ब्रह्म सदोच्यते’‘इति च ॥ २२ ॥
त्रिंशोऽध्यायः
राजोवाच– ततो महाभागवत उद्धवे बदरीं गते । द्वारवत्यां किमकरोद् भगवान् भूतभावनः ॥ १ ॥
ब्रह्मशापोपसंसृष्टे स्वकुले यादवर्षभः ।
प्रेयसीं सर्वनेत्राणां तनुं स कथमत्यजत् ॥ २ ॥
तनुमत्यजत् । अतिशयेनाहरत् । ‘अज हरणे’‘इति धातोः । भूलोकात् स्वर्गलोकं प्रत्यहरदित्यर्थः ॥ १,२ ॥
प्रत्याक्रष्टुं नयनमबला यत्र लग्नं न शेकुः कर्णाविष्टं न सरति यशो यत् सतामात्मलग्नम् । यच्छ्रीवाचं जनयति रतिं कोऽनुमानः कवीनां दृष्ट्वा जिष्णोर्युधि रथगतं यच्च तत्साम्यमीयुः ॥ ३ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये एकादशस्कन्धे त्रिंशोऽध्यायः ॥
कः सुखरूपः । अनुमानः कवीनां मानानुसारी ॥ ३ ॥
एकत्रिंशोऽध्यायः
लोकाभिरामां स्वतनुं धरणाध्यानमङ्गलाम् ।
योगधारणयाऽऽग्नेय्याऽदग्ध्वा धामाविशत् स्वकम् ॥ ६ ॥
आग्नेय्या धारणया स्वतनुमदग्ध्वा स्वकं धामाविशत् ।
‘आग्नेय्याऽन्ये धारणया दग्ध्वा देहं परं पदम् ।
यान्ति देवाः समस्ताश्च तेषामन्यां तनुं हरिः ॥
नृसिंहरूपी सर्वेषां भित्त्वा ताभिरलङ्कृतः ।
नृत्यते प्रलये देवः स्वयं कृष्णादिरूपवान् ॥
अदग्ध्वैव तनुं याति नित्यानन्दस्वरूपतः’’॥ इति तन्त्रभागवते ॥६॥
राजन् परस्य तनुभृज्जननाप्ययेहां मायाविडम्बनमवैहि यथा नटस्य । सृष्ट्वाऽऽत्मनेदमनुविश्य विहृत्य चान्ते संहृत्य चाऽत्ममहिमोपरतः स आस्ते ॥ ११ ॥
तनुभृद्वज्जननवदप्ययवच्च ईहा तनुभृज्जननाप्ययेहा ।
‘प्रजापतिश्चरति गर्भे अन्तः,"
‘अजायमानो बहुधा विजायते’’।इति च ।
‘अजातो जातवद्विष्णुरमृतो मृतवत् तथा ।
मायया दर्शयेन्नित्यमज्ञानां मोहनाय च’’॥ इति ब्राह्मे ॥ ११ ॥
तथाऽप्यशेषस्थितिसम्भवाप्यये- ष्वनन्यहेतुर्यदशेषशक्तिधृक् । नैच्छत् प्रणेतुं वपुरत्र शेषितं मर्त्येन किं स्वस्थ गतिं प्रदर्शयन् ॥ १३ ॥
शेषितं वपुर्बलभद्रादीनाम् ।
‘जगतो मोहनार्थाय भगवान् पुरुषोत्तमः ।
दर्शयेन्मानुषीं चेष्टां तथा मृतकवद्विभुः ॥
प्रकाशयेददेहोऽपि मोहाय च दुरात्मनाम् ।
मायया मृतकं देहं तदा सृष्ट्वा प्रदर्शयेत् ॥
कुतो हि मृतकं तस्य मृत्यभावात्परात्मनः’’॥ इति च ।
‘जीवविष्ण्वोरभेदश्च देहयोगवियोजने ।
विष्णोर्दुःखं वृणित्वादि पराभावस्तथैव च ॥
अस्वातन्त्र्यं च वेदादावुक्तवद् भासते विभोः ।
क्वचित्क्वचिद् विमोहाय दैत्यादीनां दुरात्मनाम् ॥ इति ब्रह्माण्डे ॥ १३ ॥
रामपत्न्यश्च तं देहमुपगुह्याग्निमाविशन् ।
वसुदेवपत्न्यस्तद्गात्रं प्रद्युम्नादीन् हरेः स्नुषाः । कृष्णपत्न्योऽविशन्नग्निं रुग्मिण्याद्यास्तदात्मिकाः ॥ २० ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये एकादशस्कन्धे एकत्रिंशोऽध्यायः ॥
॥ एकादशस्कन्धः समाप्तः ॥
‘अग्नावन्तर्दधे भैष्मी सत्यभामा वने तथा ।
न तु देहवियोगोऽस्ति तयोः शुद्धचिदात्मनोः’’॥ इति च ॥ २० ॥