प्रथमोऽध्यायः
स्वप्ने यथा पश्यति देहमीदृशं
मनोरथेनाभिनिविष्टचेतनः ।
दृष्टश्रुताभ्यां मनसाऽनुचिन्तयन्
प्रपद्यते तत् किमपि ह्यपस्मृतिः ॥ ४१ ॥
स्वप्ने यथा दृष्टश्रुतस्मृत्यनुसारि देहं प्राप्नोति । अपस्मृतिर्मृतः । पूर्वदेह-स्मरणाभावात् । अनभिमानतः ॥ ४१ ॥
यतो यतो धावति दैवचोदितं
मनो विकारात्मकमात्मपञ्चसु ।
गुणेषु मायारचितेषु देह्यसौ
प्रपद्यमानः सह तेन जायते ॥ ४२ ॥
यतो यतः । यत्र यत्र मनो धावत्यात्मपञ्चानां मध्ये तत्र तत्र तेन दैवेन सह जायते गुणानुबद्धः सन् ।
‘दैवगान्धर्वपित्र्येषु मानुषेष्वासुरेषु च ।
यत्र यत्र मनो याति तत्र तत्रोपजायते ॥
स्वगुणस्यानुसारेण सत्वादिविनिबन्धनः’’॥ इति गारुडे ।
‘देवादित्वं योग्यतया तत्सकाशस्त्वनुस्मृतेः ।
श्वेतद्वीपादि तत्रापि योग्यतामप्यपेक्ष्य तु ॥
विष्णोः स्थानं विनाऽन्यत्र वायुशक्रादिनामपि ।
त्रैलोक्यदेशभेदेषु योग्यता न त्वपेक्षिता’’॥ इति नारदीये ॥ ४२ ॥
ज्योतिर्यथैवोदकपार्थिवेष्वदः
समीरवेगानुगतं विभाव्यते ।
एवं स्वमायारचितेष्वसौ पुमान्
गुणेषु रागानुगतो विमुह्यति ॥ ४३ ॥
तस्मान्न कस्यचिद् द्रोहमाचरेत् स तथाविधः ।
आत्मनः क्षेममन्विच्छन् द्रोग्धुर्वै परतो भयम् ॥ ४४ ॥
विभाव्यते विविधं भाव्यते । स्वमायारचितेषु विष्णुमायारचितेषु । रागानुगतः पुमान् जीवो विविधं मुह्यति ।
‘यथैवोदशरावेषु सूर्यादिः प्रतिबिम्बितः ।
वायुना चलितो भाति छिन्नभिन्नादिरूपवान् ॥
एवं विष्ण्विच्छया जातगुणेषु प्रतिबिम्बितः ।
छिन्नो भिन्नो मृतोऽस्मीति बहुधा प्रतिपद्यते ॥
तदेव च दृढीभूत उदके निःशरावके ।
छेदभेदादि नाप्नोति निश्चलं प्रतिबिम्बितम् ॥
एवं गुणैर्विमुक्तस्तु जीवो नाप्नोति दुःखिताम् ।
शराववद्गुणाः प्रोक्ता अज्ञानं तु द्रवत्ववत् ॥
दृढीभूतोदवज्जीवस्तज्ज्ञानं प्रतिबिम्बवत् ।
नित्यान्तःकरणं चैव प्रतिबिम्बश्च तद्गतः ॥
द्वयमेव विमुक्तस्य न किञ्चिज्जडमिष्यते ।
सूर्यकान्तादिवत्तस्य स्वरूपं द्वयमप्युत ॥
तस्मान्न हन्तुं शक्योऽसौ केनचिज्जीव आत्मवान् ।
तस्मात्स्वजीवनार्थाय न परद्रोहमाचरेत् ॥
हन्यते चाज्ञभावेन परेषां द्रोहमाचरन्’’॥ इति तन्त्रभागवते ॥
‘परः स्वो हरिरुद्दाम इति नामचतुष्टयम् ।
विष्णोर्गुह्यं तु यो वेद सर्वपापैः प्रमुच्यते’’॥ इति प्रकाशिकायाम् ॥
‘स्वतन्त्रत्वात्सुखत्वाच्च स्वनामा विष्णुरुच्यते’‘इति पाद्मे ॥ ४३,४४ ॥
अग्नेर्यथा दारुवियोगयोगयो-
रदृष्टतोऽन्यन्न निमित्तमस्ति ।
एवं हि जन्तोरपि दुर्विभाव्यः
शरीरसंयोगवियोगहेतुः ॥ ५१ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये दशमस्कन्धे प्रथमोऽध्यायः ॥
कुण्डादिस्थाग्नेर्दारुयोगादौ स्वतः प्रवृत्त्यभावात् ।
‘यथा कुण्डस्थितस्याग्नेर्दैवाद्दारूपसंनमेत् ।
देहयोगो वियोगश्च तथा दैवान्न चान्यथा’’॥ इति वामने ॥ ५१ ॥
तृतीयोऽध्यायः
भगवानपि विश्वात्मा भक्तानामभयङ्करः ।
आविवेशांशभागेन मन आनकदुन्दुभेः ॥ १७ ॥
ततो जगन्मङ्गलमच्युतांशं
समाहितं शूरसुतेन देवी ।
दधार सर्वात्मकमात्मभूतं
काष्ठा यथाऽऽनन्दकरं नभस्तः ॥ १९ ॥
‘आविश्य पितरं विष्णुः स्वरूपेणैव मातरम् ।
विडम्बनार्थं लोकस्य निर्जनिश्चाप्यथाविशत् ।
आनन्दमात्रदेहेन जातवत्सम्प्रदृश्यते’’। इति च ॥ १७,१९ ॥
ब्रह्मभवावूचतुः– सत्यव्रतं सत्यपरं त्रिसत्यं सत्यस्य योनिं निहितं च सत्ये । सत्यस्य सत्यमुत सत्यनेत्रं सत्यात्मकं त्वां शरणं प्रपन्नाः ॥ २७ ॥
‘सच्छब्द उत्तमं ब्रूयादानन्दं तीति वै वदेत् ।
येति ज्ञानं समुद्दिष्टं पूर्णानन्ददृशिस्ततः ॥
सत्यशब्दोदितं तादृग्रूपं नित्यं यतो हरेः ।
सत्यव्रतस्ततो विष्णुः सद्भूतत्रयमुच्यते ॥
त्यं तदन्यत्समुद्दिष्टं तत्परत्वात्तु तत्परः ।
वेदमुख्यार्थरूपत्वात्त्रिसत्यो भगवान् हरिः ॥
सत्यस्य चोत्तमानन्दज्ञानदातृत्वतः सदा ।
सत्यस्य सत्यो भगवान्सत्यस्थो जगति स्थितः ॥
जगन्नेतृत्वतः सत्यनेता विष्णुः प्रकीर्तितः ।
अत्तृत्वाच्च तदादानात्सत्यात्मा चोच्यते विभुः’‘इति तन्त्रभागवते ॥
एकायनोऽसौ द्विफलस्त्रिमूल-
श्चतूरसः पञ्चशिफः षडात्मा ।
सप्तत्वगष्टविटपो नवाक्षो
दशच्छदी द्विखगो ह्यादिवृक्षः ॥ २८ ॥
त्वमेक एवास्य सतः प्रसूतिः
स्थानं निधानं त्वमनुग्रहश्च ।
त्वन्मायया संवृतचेतसस्त्वां
पश्यन्ति नाना न विपश्चितो ये ॥ २९ ॥
‘जगद्वृक्षाश्रया ह्येषा प्रकृतिस्तु गुणत्रयम् ।
मूलं मात्राः शिफास्तस्य उत्पित्सुत्वादिकास्तथा ॥
षट्प्रकारास्तु विटपा देवगन्धर्वदानवाः ।
राक्षसाश्च पिशाचाश्च तिर्यङ्मानुषतस्थुषः ॥
इन्द्रियाण्यस्य पत्राणि द्वारो द्वारो नव स्मृताः ।
प्रवृत्तं च निवृत्तं च फलद्वयमुदीरितम् ॥
धर्मादयस्त्वत्र रसा मोक्ष एकफलस्य तु ।
प्रवृत्ताश्च निवृत्ताश्च पक्षिणो द्विविधा मताः ॥
कारणस्य सदा सत्वात्प्रवाहेण च सन्नसौ ।
न कदाचिन्न भूतोऽसौ न चैव न भविष्यति ॥
स्वतो वा परतो वापि सन्नतोऽसौ जगत्तरुः ।
अस्य स्वर्गादिकृद्विष्णुः सदानन्दैकरूपकः ॥‘‘इति च ॥ २८-२९ ॥
बिभर्षि रूपाण्यवबोध आत्मन् क्षेमाय लोकस्य चराचरस्य । सत्वोपपन्नानि सुखावहानि सतामभद्राणि मुहुः खलानाम् ॥ ३० ॥
त्वय्यम्बुजाक्षाखिलसत्त्वधामि्न
समाधिनाऽऽवेशितचेतसो ये ।
त्वत्पादपोतेन महत्कृतेन
कुर्वन्ति गोवत्सपदं भवाब्धिम् ॥ ३१ ॥
‘सदा सर्वगुणाढ्यत्वात्सत्ववान् हरिरुच्यते ।
न तु सत्वगुणात्मत्वाद्यत स्त्रिगुणवर्जितः’’॥ इति नारदीये ॥ ३०,३१ ॥
स्वयं समुत्तीर्य सुदुस्तरं द्युमन्
भवार्णवं भीममदभ्रसौहृदाः ।
भवत्पदाम्भोरुहनावमत्र ते
निधाय याताः सदनुग्रहो भवान् ॥ ३२ ॥
‘भगवत्पादपोतोऽसौ नान्यपोतसमो भवेत् ।
सन्निधायैव शिष्येषु तदेव प्राप्नुयुर्यतः’’॥ इति वामने ॥
‘भगवत्पादनौकाया नेयं नौकोपमा भवेत् ।
तया तीर्त्वा तु तामेव प्राप्य तिष्ठन्ति तत्र यत्’’॥ इति ब्राह्मे ॥
अतस्तामेव याताः ॥ ३२ ॥
सत्त्वं विशुद्धं श्रयते भवान् स्थितौ
शरीरिणां श्रेयउपायनं वपुः ।
वेदक्रियायोगतपःसमाधिभि-
स्तवार्हणं येन जनः समीहते ॥ ३५ ॥
‘विशुद्धसत्वब्रह्मादेः शरीरे संस्थितो हरिः ।
तेषामादेशमार्गेण वेदाद्यैरर्चयन्ति तम्’’॥ इति भागवततन्त्रे ॥३५॥
सत्त्वं न चेद् धातरिदं निजं भवेद्
विज्ञानमज्ञानभिदापमार्जनम् ।
गुणप्रकाशैरनुमीयते भवान्
प्रकाशते यस्य च येन वाऽगुणः ॥ ३६ ॥
‘सत्वं ब्रह्मादिदेहाख्यं ज्ञानरूपं तमोनुदम् ।
यदि न स्यात्तदा सत्वप्रकाशानुमितो विभुः ॥
यदि न स्यात्परो विष्णुः कथं विद्वज्जना अमुम् ।
अर्चयन्तीति तत्त्वस्य जिज्ञासुभिरधोक्षजः ॥
कथं ज्ञायेत कस्यापि निर्गुणत्वात्परो विभुः’’॥ इति तन्त्रभागवते ॥
न नामरूपे गुणजन्मकर्मभिः
निरूपितव्ये तव तस्य साक्षिणः ।
मनोवचोभ्यामनुमेयवर्त्मनो
देवक्रियायाः प्रतियन्त्यथापि हि ॥ ३७ ॥
‘लोकसिद्धार्थनाम्नः स राहित्यान्नामवर्जितः ।
अरूपोऽप्राकृतत्वाच्च सत्वाभावात्तथाऽगुणः ॥
अकर्माऽक्लिष्टकारित्वान्नित्यत्वादज एव च ।
अलौकिकार्थसन्नाम्नामनन्तत्वाज्जनार्दनः ॥
अनन्तनामा परमः सुसुखज्ञानरूपवान् ।
तानि चास्य सुदिव्यानि सुगन्धीनि सुभान्ति च ॥
शुभलक्षणपूर्णानि सुवर्णानि महान्ति च ।
यदतोऽनन्तरूपोऽसौ पूर्णानन्दादिभोजनात् ॥
बलैश्वर्यसुवीर्यादिपूर्णासङ्ख्यगुणत्वतः ।
अनन्तगुण एवासौ ते चाभिन्ना गुणा हरेः ॥
परस्परमभिन्नाश्च सर्वधर्माश्च तद्गताः ।
अभिन्नानि च रूपाणि सर्वाणि जगदीशितुः ॥
प्राकृतस्य तु नामादेरीक्षिता पुरुषोत्तमः ।
अनामादिवचोभिस्तु स एषोऽर्थोऽनुमीयते ॥
अनामत्वादि चान्यच्च ज्ञानिनां मनसेङ्ग्यते ।
तेनैव चोह्य एषोऽर्थस्तस्माज्ज्ञेय इति प्रभुः’’॥ इति ब्रह्मतर्के ॥
देवक्रियायाः प्रतियन्ति भगवत्प्रेरणादेव जानन्ति ।
‘नामरूपादि विष्णोस्तु न शक्यं ज्ञातुमञ्जसा ।
तथापि तत्प्रसादेन जानन्ति परमर्षयः’’॥ इति पाद्मे ॥ ३७ ॥
शृण्वन् गृणन् संस्मरयंश्च चिन्तयन्
नामानि रूपाणि च मङ्गलानि ते ।
क्रियासु यस्त्वच्चरणारविन्दयो-
राविष्टचित्तो न भवाय कल्प्यते ॥ ३८ ॥
यस्मान्नामरूपादयः सन्ति तस्माच्छृण्वन् गृणन् । क्रियासु क्रियमाणासु प्रेरकत्वेन पूज्यत्वेन च ।
‘सर्वक्रियासु कर्तृत्वपूज्यत्वेन जनार्दनम् ।
यो वेत्ति नैति संसारं तत्प्रसादान्न संशयः’’॥ इति क्रियायोगे ॥ ३८ ॥
दिष्ट्या हरेऽस्या भवतः पदो भुवो
भारोऽपनीतस्तव जन्मनेशितुः ।
दिष्ट्याऽङ्कितां त्वत्पदकैः सुशोभनै-
र्द्रक्ष्याम गां द्यां च तवानुकम्पिताम् ॥ ३९ ॥
‘खं नाभिश्चरणौ क्षितिः’‘इति भवतः पदो भुवः ।
‘पदाद्याश्रयणाद्विष्णोः पृथिव्यादि पदादिकम् ।
तज्जत्वाद्वाथ सादृश्याद्यथानुर्भूमिगं पदम्’’॥ इति ब्रह्मतर्के ॥ ३९ ॥
न तेऽभवस्येश भवस्य कारणं
विना विनोदं बत तर्कयामहे ।
भवो निरोधः स्थितिरप्यविद्ययाऽऽ-
कृता यतस्त्वय्यभवाश्रयात्मनि ॥ ४० ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये दशमस्कन्धे तृतीयोऽध्यायः ॥
‘अज्ञानादेव मन्यन्ते विष्णोर्जनिमृती नराः ।
स्थितिरूपस्य चान्यस्मात्स्थितिं मोक्षाश्रयस्य हि ॥
स्वेच्छया हि जनिं भङ्गं स्थितिं चासौ करोत्यजः ।
सर्वस्य जगतो यस्मात्तज्जन्मादिः कुतो भवेत्’’॥ इति च ॥ ४० ॥
चतुर्थोऽध्यायः
स एव स्वप्रकृत्येदं सृष्ट्वाऽग्रे त्रिगुणात्मकम् ।
तदनु त्वं ह्यप्रविष्टः प्रविष्टः इव भाव्यसे ॥ १५ ॥
‘बहिश्च विद्यमानत्वादप्रविष्टो जगद्धरिः ।
प्रविष्टवच्च तत्रैव पूर्णरूपत्वतो विभुः ॥
अप्रवेशः प्रवेशश्च प्रविष्टोपमता तथा ।
बहिरन्तर्गतस्य स्यादित्याहुः शब्दवेदिनः’’॥ इति च ॥ १५ ॥
य एतेऽविकृता भावाः सप्त ते विकृतैः सह ।
नानावीर्याः पृथग्भूता विराजं शयनं तव ॥ १६ ॥
सन्निपत्य समुत्पाद्य दृश्यन्तेऽनुगता इव । प्रागेव विद्यमानत्वान्न तेषामिह सम्भवः ॥ १७ ॥
‘महदादिस्त्वविकृत ईषद्विकृतरूपतः’’। इति च ॥
अनुगता इव प्रविष्टा इव । पूर्वोक्तवद्बहिरपि विद्यमानत्वात् । अन्तश्च देवतानामविभक्तशक्तित्वात्पूर्वोत्पन्नत्वात्तत्त्वानामण्डप्रवेशमात्रम् । व्यक्तिविशेषादुत्पत्तिरित्युपचर्यते । अण्डजो ब्रह्मेत्यादि ।
‘महद्रूपादिना ब्रह्मा देवाश्चैव प्रजज्ञिरे ।
अण्डे त्वेषामभिव्यक्तिर्जनिरित्यभिधीयते’’॥ इति च ॥ १६,१७ ॥
एवं भवान् बुद्ध्यनुमेयलक्षणो
ग्राह्यैर्गुणैः सन्नपि तद्गुणाग्रहः ।
अनावृतत्वाद् बहिरन्तरं न ते
सर्वस्य सर्वात्मन आत्मवस्तुनः ॥ १८ ॥
ग्राह्यगुणविषयबुध्द्यनुमेयलक्षणः । ग्राह्यगुणेष्वस्वातन्त्र्यात्तज्ज्ञापकोऽ- न्योऽस्तीति ज्ञायते ।
‘ज्ञाताऽपि सर्वभावानां ज्ञायते ज्ञानलिङ्गतः ।
जिघृक्षोर्ग्रहणाभावादस्वातन्त्र्यप्रतीतितः ॥
सर्वत्राव्यवधानेन द्रष्टृत्वात्सर्ववस्तुनः ।
आन्तरं बाह्यमित्येव विशेषो नास्ति कश्चन ॥‘‘इति तन्त्रभागवते ।
जीवस्य ग्रहणशक्तिरपि तस्येत्यपिशब्दः । एवं शरीरमुत्पाद्य ज्ञायसे । सर्वस्य सम्पूर्णस्य ।
‘सर्वः सम्पूर्णसामर्थ्यात्सर्वात्मा सर्वभक्षणात् ।
अनन्याश्रयतश्चात्मवस्तुत्वमभिधीयते’’॥ इति च ।
आत्मन्येव वासादात्मवस्तु ॥ १८ ॥
यदात्मनो दृश्यगुणेषु सन्निधे-
र्व्यवस्यसेऽस्वव्यतिरेकतोऽबुधैः ।
विनाऽनुवादं न च तन्मनीषितं
सम्यग् वचो व्यक्तमुपाददत्पुमान् ॥ १९ ॥
परमात्मनोऽपि शरीरे सन्निधानादेवाबुधैरस्वव्यतिरेकतो ज्ञायसे । यथानुकूल- वादं वेदवचनं विना प्रवर्तमानं न तन्मनीषितम् । सम्यक् ।
‘अभी३दमेकमेको अस्मि निष्पाभीद्वा किमु त्रयः करन्ति ।
खलेन पर्षान्प्रतिहन्मि भूरि किं मा निन्दन्ति शत्रवोऽनिन्द्राः’’॥
इति जीवेशयोर्भेदे व्यक्तं वचः परः पुमानुपाददे ।
‘प्रविष्टत्वाच्छरीरेषु जीव एवेति दुर्धियः ।
मन्यन्ते परमात्मानं न तन्मतमनुव्रजेत् ॥
वेदवादविरोधित्वादनुयाता तमो विशेत् ।
यतः पर्यङ्कशयन आह विष्णुः सनातनः ॥
इदं जगत्सर्वमथेदृशानि भूरीणि वा मामभियान्ति सङ्ख्ये ।
धान्यानि यद्वत्खलगानि मर्त्याः सञ्चूर्णयिष्याम्यहमेक एव’’॥ इति ब्रह्माण्डे ।
चेति फलतोऽपि तमो यान्तीति ।
‘ऐकात्म्यज्ञानतो यान्ति तमो भेदात्परं पदम् ।
स्वातन्त्र्यपारतन्त्र्यादिज्ञानं भेददृशिर्भवेत्’’॥ इति ब्रह्मवैवर्ते ॥ १९ ॥
त्वत्तोऽस्य जन्मस्थितिसंयमान् विभो
वदन्त्यनीहादगुणादविक्रियात् ।
त्वयीश्वरे ब्रह्मणि नो विरुध्यते
तदाश्रयत्वादुपचर्यसे गुणैः ॥ २० ॥
‘अनीहोऽक्लिष्टकारित्वात्तथाऽविकृत एव सन् ।
सर्वं करोति तद्युक्तमैश्वर्यात्पूर्णशक्तितः’’॥ इति ब्राह्मे ।
अगुणश्चेत्कथं गुणैः सृष्ट्यादिकृदिति तदाश्रयत्वात् ।
‘अगुणोऽगुणदेहत्वात्सगुणो गुणधारणात् ।
ऐश्वर्यादिगुणत्वाद्वा वासुदेव इतीर्यते’‘इत्याग्नेये ॥ २० ॥
सत्त्वं त्रिलोकस्थितये स्वमायया
बिभर्षि शुक्लं खलु वर्णमात्मनः ।
सर्गाय रक्तं रजसोपबृंहितं
कृष्णं च वर्णं तमसा जनात्यये ॥ २१ ॥
‘जगतां वर्धयन्सत्वं यदा रक्षति केशवः ।
हयग्रीवादिरूपेण शुक्लवर्णस्तदा विभुः ॥
वर्धयंस्तु रजो येन जगदुत्पादयेद्धरिः ।
तद्रक्तं जामदग््य्रादिरूपं येन विनाशयेत् ॥
वर्धयंस्तु तमो लोके तत्कृष्णं यादवादिकम् ।
सर्वत्र सर्वं कुरुते विशेषस्तत्र कीर्तितः ॥
ज्ञानदानादिना रक्षा महतां सम्प्रकीर्तिता ।
रागदानेन महतां सृष्टिः सृष्टिरुदीर्यते ॥
असतां तु तनोर्वृद्धिं कुर्वन्पातयते यदा ।
सतां विवर्धनार्थाय कृष्णरूपी तदा हरिः ॥
ज्ञानाद्युत्पत्तिकृच्चापि रूपं रक्तं विभोः स्मृतम् ।
तमोविनाशकमपि कृष्णं विष्णोरुदाहृतम् ॥
आचार्यादिषु रागार्थे शुद्धसत्वात्मकं रजः ।
यतो व्यपेक्षितं नाशे तमसोऽपि ततः परम् ॥
तमो द्वेषात्मकं शुद्धं सत्वात्मकमुदीर्यते ।
एवं सृतिगतानां तु रागाद्या न गुणोद्भवाः ॥
शुद्धज्ञानात्मकाः सर्वे मुक्तानां नात्र संशयः ।
सर्वत्र सर्वकृच्चापि हयग्रीवादिरूपकः ॥
ज्ञानादिरक्षको विष्णुर्जामदग्न््यादिरूपवान् ।
ज्ञानाद्युत्पादको नित्यं कृष्णादिर्दोषनाशकः ॥
एकरूपोऽपि भगवान्बहुरूप इवेयते ।
अचिन्त्यैश्वर्यरूपत्वात्पूर्णानन्दैकरूपकः ॥‘‘इति ब्रह्मतर्के ।
‘स्वेच्छया तु गुणान्विष्णुर्नानारूपान्करोत्यजः ।
गुणानामाश्रयत्वात्तु भवेत्स गुणबृंहितः’’॥ इति तन्त्रभागवते ॥ २१ ॥
त्वमस्य लोकस्य विभो रिरक्षिषु-
र्गृहेऽवतीर्णोऽसि ममाखिलेश्वर ।
राजन्यसंज्ञासुरकोटियूथपै-
र्निर्व्यूह्यमानां निहनिष्यसे चमूम् ॥ २२ ॥
‘सतां सुखविवृद्ध्यर्थमसतां पीडनं हरेः ।
यावच्चासुरदुःखं स्यात्तावद्देवसुखं भवेत् ॥
तत्रापि तारतम्येन ब्रह्मणोऽभ्यधिकं सुखम् ।
यावत्क्षीणं तमस्तावत्प्रकाशस्य तु वर्धनम् ॥
सर्वस्माच्च कलेः पीडा ब्रह्मणोऽभ्यधिकं सुखम् ।
तस्मात्सतां रक्षणाय सर्वकर्म हरेः स्मृतम्’’॥ इति ब्रह्मतर्के ॥२२॥
देवक्युवाच– रूपं यत् तत् प्राहुरव्यक्तमाद्यं ब्रह्म ज्योतिर्निर्गुणं निर्विकारम् । सत्तामात्रं निर्विशेषं निरीहं स त्वं साक्षाद् विष्णुरध्यात्मदीपम् ॥ २५ ॥
‘सर्वाशुभविनिर्मुक्तगुणमात्रो यतो हरिः ।
सत्तामात्रमतः प्राहुर्निर्विशेषोऽखिलोत्तमः ।
अनादरान्निरीहश्च सेहः सर्वकृती यतः’’॥ इति तन्त्रभागवते ॥
यस्य तद्रूपं सत्वम् । ‘सप्तसु प्रथमा’’॥ इति सूत्रात् ॥ २५ ॥
नष्टे लोके द्विपरार्धावसाने
महाभूतेष्वादिभूतं गतेषु ।
व्यक्तेऽव्यक्तं कालवेगेन याते
भवानेकः शिष्यतेऽशेषसंज्ञः ॥ २६ ॥
अशेषसंज्ञः सर्वनामा ॥ २६ ॥
योऽयं कालस्तस्य तेऽव्यक्तबन्धो
चेष्टामाहुश्चेष्टते येन विश्वम् ।
निमेषादिर्वत्सरान्तो महीयां-
स्तं त्वेशानं क्षेमधाम प्रपद्ये ॥ २७ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये दशमस्कन्धे चतुर्थोऽध्यायः ॥
चेष्टते अनेनेति चेष्टा ॥ २७ ॥
पञ्चमोऽध्यायः
मा शोचेथां महाभागावात्मजान् स्वकृतं भुजः ।
जन्तवो न सदैकत्र दैवाधीनाः सहासते ॥ १८ ॥
पूतनाकंसनरकशिशुपालादिषु द्विधा ।
जीवाः सन्तस्त्वसन्तश्च तत्र बन्ध्वादिरूपिणः ॥
विष्णोः सन्त इति ज्ञेया असन्तः शत्रुरूपिणः ।
शुभजीवप्रकाशेन कदाचिच्छुभबुद्धयः ॥
विपर्ययेऽन्यथा च स्युः शुभास्तत्र हरिं ययुः ।
असुराश्च तमो घोरं यदि तत्रैव मध्यमाः । ।
मध्यमां गतिमेवापुरेकदेहगता अपि ॥ इति गारुडे ॥ १८ ॥
भुवि भौमानि भूतानि यथाऽऽयान्त्यपयान्ति च ।
नायमात्मा तथैतेषु विपर्येति यथैव भूः ॥ १९ ॥
यतोऽनेकविधोऽभेदो यत आत्मविपर्ययः । देहयोगवियोगश्च संसृतिर्न निवर्तते ॥ २० ॥
तस्माद् भद्रे स्वतनयान् मया व्यापादितानपि । माऽनुशोच यतः सर्वः स्वकृतं विन्दतेऽवशः ॥ २१ ॥
अयमात्मा परमात्मा ॥
यतः परमात्मनो नैकविधमैक्यं, विपरीतज्ञानेन यतश्च संसृतिर्न निवर्तते । स एव न विपर्येति । पुत्रादिकं तु विपर्येति ॥ तस्मात्तस्मिन्नेव स्थितिं कृत्वा माऽनुशोच ॥
‘अहं ब्रह्मास्मि देवोऽस्मि नास्मि केवलमानुषः ।
जातोऽस्मि वर्धे धनवान्म्रिय इत्यादिका सदा ॥
देहादिषु च देवेषु परे ब्रह्मणि चाभिदा ।
मोहाद्यन्मायया नित्यं दृश्यतेऽधममध्यमे ॥
स ईशो न विपर्येति सर्वेशत्वात्कदाचन ।
पुत्रादिकं विपर्येति पित्रादिश्च यतो भवेत्’’॥ इति ब्राह्मे ॥
‘तल्लक्षणैर्विहीनः सन्ब्रह्मदेवोऽस्मि चेति तु ।
असुराः प्रतिपद्यन्ते जन्मादीन्मानुषा जनाः’’॥ इति च ॥
‘परं ब्रह्मण एकस्य ब्रह्मास्मीति विचिन्तनम् ।
परब्रह्मेति रामादिलक्षणैरवधारयेत् ॥
देवोऽस्मीति च देवानां तच्च ज्ञेयं स्वलक्षणैः ।
मर्त्यानां मानुषोऽस्मीति प्रतिपत्तिर्विधीयते ॥
अन्यथाप्रतिपत्त्या तु तमो यान्ति विनिश्चयात् ।
अन्यथा प्रतिपद्यन्ते आसुरा नियतं जनाः ॥
घोरं तमश्च ते यान्ति तथा ज्ञानात्परं सुराः’’॥ इति च ॥१९-२१॥
एवमेतन्महाराज यथा वदसि देहिनाम् ।
अज्ञानप्रभवा हन्ति स्वपरेति भिदा यतः ॥ २६ ॥
देहिनामज्ञानप्रभवा यातनाः स्वपरेति भिदा हन्ति ।
‘देवोऽहं मानुषो वेति विशेषं तत्र चापि तु ।
तथैव परमात्मानं विशेषं ब्रह्मजीवयोः ॥
सम्यग्भेदेन यः पश्येत्स हन्त्यज्ञानसम्भवाः ।
यातनाः परमात्मानं तत्प्रसादाच्च गच्छति’’॥ इति ब्रह्माण्डे ॥ २६ ॥
शोकहर्षभयद्वेषलोभमोहमदान्विताः ।
मिथो घ्नन्तो न पश्यन्ति भावैर्भावान् पृथग्दृशः ॥ २७ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये दशमस्कन्धे पञ्चमोऽध्यायः ॥
‘भगवद्दर्शनाद्यस्य विरोधाद्दर्शनं पृथक् ।
पृथग्दृष्टिः स विज्ञेयो न तु सद्भेददर्शनः’’॥ इति च भविष्यत्पुराणे ॥
‘स्वरूपभेदो हि परजीवयोर्जीवगो मिथः ।
परस्परेण वस्तूनां विशेषः शास्त्रदर्शितः ॥
सद्भेदोऽयं समुद्दिष्टस्त्वसद्भेदं च मे शृृणु ।
स्वरूपाणां गुणानां च विष्णोर्भेदः परस्परात् ॥
सर्वस्याविष्णुतन्त्रत्वं शत्रुमित्रादिभेदिता ।
यच्चान्यच्छास्त्रविद्विष्टमसद्भेदः स ईरितः ॥
सद्भेददर्शनान्मोक्षस्त्वसद्भेदात्तमो व्रजेत् ।
सद्भेदादर्शनाच्चैव तमो मोक्षस्तथेतरात्’’॥ इति च ॥ २७ ॥
एकादशोऽध्यायः
यक्षावूचतुः - कृष्ण कृष्ण महायोगिन् त्वमाद्यः पुरुषः परः । व्यक्ताव्यक्तमिदं विश्वं रूपं ते ब्राह्मणा विदुः ॥ ३० ॥
‘रूप्यत्वात्तु जगद्रूपं विष्णोः साक्षात्सुखात्मकम् ।
नित्यपूर्णं समुद्दिष्टं स्वरूपं परमात्मनः’’॥ इति वामने ॥ ३० ॥
त्वमेकः सर्वभूतानां देह आत्मेन्द्रियेश्वरः ।
त्वमेव कालो भगवान् विष्णुरव्यय ईश्वरः ॥ ३१ ॥
देहे । ‘विष्णुः सर्वगुणोद्रेकात्काल इत्यभिधीयते’’॥ इति च ॥ ३१ ॥
त्वं महान् प्रकृतिः सूक्ष्मा रजस्सत्त्वतमोमयी ।
त्वमेव पुरुषोऽध्यक्षः सर्वक्षेत्रविकारवित् ॥ ३२ ॥
‘प्रकृत्यादेस्तद्वशत्वात्प्रकृत्यादिरुदीर्यते ।
यथा राजा भृत्यकृतात्स्वयं कर्तेत्युदीर्यते ॥
यथा देहं स्वतन्त्रत्वात्स्वयमित्याहुरञ्जसा’’॥ इति पाद्मे ॥ ३२ ॥
गृह्यमाणस्त्वमग्राह्यो विकारैः प्राकृतैर्गुणैः ।
को न्विहार्हति विज्ञातुं प्राक् सिद्धं गुणसंस्थितेः ॥ ३३ ॥
स्वात्मना गृह्यमाणः ॥ ३३ ॥
तस्मै तुभ्यं भगवते वासुदेवाय वेधसे ।
आत्मद्योतैर्गुणैश्छन्नमहिम्ने ब्रह्मणे नमः ॥ ३४ ॥
यस्यावतारा ज्ञायन्ते शरीरेष्वशरीरिणः । तैस्तैरतुल्यातिशयैस्तिर्यग्योनिष्वसङ्गतैः ॥ ३५ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये दशमस्कन्धे एकादशोऽध्यायः ॥
‘छन्नोऽन्येषां न तु स्वस्य भगवान्पुरुषोत्तमः ।
तस्यावतारा देहस्था ओहस्था इति द्विधा ॥
अन्तर्याम्यादिरूपाणि देहस्थानि विदो विदुः ।
मत्स्यकूर्मादिरूपाणि न देहस्थानि हृत्पतेः ॥
अन्यातुल्यैरतिशयैर्मनसो नियमादिभिः ।
ज्ञायन्ते तानि रूपाणि नित्यपूर्णानि सर्वशः’’॥ इति महाकौर्मे ॥ ३५ ॥
चतुर्दशोऽध्यायः
अनुग्रहोऽयं भवता कृतो हि नो
दण्डोऽसतां ते खलु कल्मषापहः ।
यद् दन्दशूकत्वममुष्य देहिनः
क्रोधोऽपि तेऽनुग्रह एव सम्मतः ॥ ३४ ॥
‘दण्डोऽपि भगवच्चीर्णो ममैषोऽनुग्रहः स्मृतः ।
इति भक्त्या चिन्तयतां शुभकारी भवत्यलम् ।
तत्रापि कुर्वतां द्वेषं तमः प्राप्त्यै तथा भवेत्’’॥ इति च ॥ ३४ ॥
न नाकपृष्ठं न च पारमेष्ठ्यं
न सार्वभौमं न रसाधिपत्यम् ।
न योगसिद्धीरपुनर्भवं वा
वाञ्छन्ति त्वत्पादरजःप्रपन्नाः ॥ ३७ ॥
‘अपुनर्भवमात्रात्तु हरिसामीप्यमुत्तमम् ।
तत्रापि स्पर्शयोग्यत्वं यथा वेदविदो विदुः’’॥ इति पाद्मे ॥ ३७ ॥
नमस्तुभ्यं भगवते पुरुषाय महात्मने ।
भूतावासाय भूताय पराय परमात्मने ॥ ३९ ॥
भूताय सर्वदा विद्यमानाय ॥ ३९ ॥
ज्ञानविज्ञाननिधये ब्रह्मणेऽनन्तशक्तये ।
अगुणायाविकाराय नमस्तेऽप्राकृताय च ॥ ४० ॥
अप्राकृताय ॥ ४० ॥
कालाय कालनाभाय कालावयवसाक्षिणे ।
विश्वाय तदुपद्रष्टे्रे तत्कर्त्रे विश्वहेतवे ॥ ४१ ॥
कालनाभाय कालाश्रयाय ।
‘विश्वस्य तदधीनत्वाद्विश्वं विष्णुरुदीर्यते ।
मूलहेतुत्वतो हेतुः कर्ता प्रातिस्विकं कृतेः’’॥ इत्याग्नेये ॥ ४१ ॥
नमो गुणप्रदीपाय गुणात्मस्थोदयाय च ।
गुणप्रत्युपलक्ष्याय गुणद्रष्टे्र स्वसंविदे ॥ ४६ ॥
गुणप्रदीपाय गुणज्ञापकाय । गुणात्मस्थोदयाय गुणात्मिका प्रकृतिः तस्यां स्थित उदयस्वरूपो हरिः ॥ ४६ ॥
परावरगतिज्ञाय सर्वाध्यक्षाय ते नमः ।
अविश्वाय च विश्वाय तद्द्रष्ट्रे विश्वहेतवे ॥ ४८ ॥
अविश्वाय जीवेभ्योऽन्यस्मै ।
‘शरीरेषु प्रविष्टत्वाद्विश्वो जीव उदीर्यते ।
जीवस्य तदधीनत्वाद्विश्वो विष्णुरिति स्मृतः ।
तस्योत्पत्त्यादिहेतुत्वाद्विश्वहेतुश्च कीर्त्यते’’॥ इति मात्स्ये ॥ ४८ ॥
त्वं ह्यस्य जन्मस्थितिसंयमान् विभो
गुणैरनीहोऽकृतकालशक्तिधृक् ।
तस्मात् स्वभावात् प्रतिबोधयस्व नः
समीक्षयाऽमोघविहार ईहसे ॥ ४९ ॥
‘हरेः स्वरूपशक्तिर्या कालशक्तिरुदीर्यते ।
सदा सर्वगुणात्मत्वाद्दुर्गा वाप्यवरा ततः ॥
सर्वसंहारकारित्वाद्वायुः सर्वस्य जीवनात् ।
कालाभिमानिनावेतौ दुर्गा वायुश्च कीर्तितातौ’’॥ इति प्रकाशंहितायाम् ॥ ४९ ॥
तस्यैव तेऽमूस्तनवस्त्रिलोक्यां
शान्ता अशान्ता उत मूढयोनयः ।
शान्ताः प्रियास्ते ह्यधुनाऽवितुः सतां
स्थातुश्च ते कर्मपरीप्सयेहतः ॥ ५० ॥
‘अन्तःप्रियं बहिश्चेति द्विधा प्रियमुदाहृतम् ।
अन्तःप्रिया हरेः सन्तः सर्वं चापि बहिः प्रियम् ॥
असन्तश्चापि संहार ईषदन्तःप्रिया इव ।
तदपेक्षया तथा सन्तो विशेषान्तःप्रिया स्थिता’’॥ इति षाड्गुण्ये ।
‘सुखान्तं प्राप्नुयुर्यस्माद्देवाः शान्ता उदाहृताः ।
अशान्ता मानुषाः प्रोक्ता विमूढा आसुरा मताः ॥“इति प्रकाशसंहितायाम् ।
कर्मपरीप्सया कर्मप्रवर्तनार्थम् । सर्वशरीरेषु स्थातुः । ईहतः प्राणस्य सकाशात् । प्राणसकाशाद्धि कर्म प्रवर्तनमिच्छति भगवान् ।
‘वायोः सकाशाज्जगतः प्रवृत्तिं कारयत्यजः ।
प्राणप्राणमतः प्राहुर्विष्णुं वायोरपि प्रभुम्’’॥ इति च ॥ ५० ॥
त्वया सृष्टमिदं विश्वं धातुर्गुणविसर्जनम् ।
नानास्वभाववीर्यौजोयोनिबीजाशयाकृति ॥ ५७ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये दशमस्कन्धे चतुर्दशोऽध्यायः ॥
धातुर्गुणविसर्जनम् । हिरण्यगर्भसकाशाद्गुणभूता सृष्टिरस्य जगतः । प्राधान्येन विष्णोरेव ।
‘विष्णुः प्रधानतः स्रष्टा गुणस्रष्टा चतुर्मुखः’’। इति नारदीये ॥५७॥
पञ्चदशोऽध्यायः
अत्र प्रविश्य गरुडो यदि मत्स्यान् स खादति ।
सद्यः प्राणैर्वियुज्येत सत्यमेतद् ब्रवीम्यहम् ॥ ११ ॥
तत् कालियः परं वेद नान्यः कश्चित् स लेलिहा ।
अवात्सीद् गरुडाद् भीतः कृष्णेन च विवासितः ॥ १२ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये दशमस्कन्धे पञ्चदशोऽध्यायः ॥
‘विष्णुना विष्णुभक्तैश्च ब्रह्मशापोऽनुवर्त्यते ।
ब्राह्मणानामपीडायै बलिभिः क्षत्रियादिभिः ॥
विष्णोश्च विष्णुभक्तानां शापाद् व्यैति तपोऽखिलम् ।
तथापि चासुरावेशाच्छपेयुर्हरिमप्यहो ॥
अतस्तु सौभरेः शापं नात्यवर्तत्खगेश्वरः ।
अन्यथा तूत्तमानां हि नाधमैः शाप इष्यते ॥
वरोऽपि दत्तस्त्वधिकैर्नाधमाधिक्यकारणम् ।
विष्णोरपि वरस्तस्मान्नाधिक्यं सम्प्रयच्छति ॥
क्रमशः श्रीविरिञ्चादेः कथञ्चित्केनचित्क्वचित् ॥
न च दद्याद्धरिस्तादृग्दद्याद्वा बाह्यमेव तु’’॥ इति ब्रह्माण्डे ॥ ११ ॥
षोडशोऽध्यायः
उवाह कृष्णो भगवान् श्रीदामानं पराजितः ।
वृषभं भद्रसेनस्तु प्रलम्बो रोहिणीसुतम् ॥ २३ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये दशमस्कन्धे षोडशोऽध्यायः ॥
श्रीदामा कृष्णमुवाह । हरिवंशादिवचनात् ।
‘बहुमानविरोधे तु व्यत्यासः शब्दतोऽर्थतः ।
कार्योऽनिरुक्तदेवानां गुणसिध्द्यै न चान्यथा ॥
विष्णुर्ब्रह्मा तथा वायुरनिरुक्ताः प्रकीर्तिताः ।
तत्पत्न््नयश्चेतरगुणा व्यत्यस्यास्तेष्वसंशयः’’॥ इति ब्रह्मतर्के ॥ २३ ॥
एकोनविंशोऽध्यायः
इति वेणुरवं राजन् सर्वभूतमनोहरम् ।
श्रुत्वा व्रजस्त्रियः सर्वा वर्णयन्त्योऽभिरेमिरे ॥ ७ ॥
गोप्यः किमाचरदयं कुशलं स्म वेणुः दामोदराधरसुधासरसाग््य्रगेयम् । भुङ्क्ते स्वयं यदवशिष्टरसौघमार्गे हृष्टत्वचोऽश्रु मुमुचुस्तरवः सदर्भाः ॥ १० ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये दशमस्कन्धे एकोनविंशोऽध्यायः ॥
‘श्रीदेवी वेणुमाविश्य रेमे कृष्णमुखाम्बुजे ।
पपौ च तद्गतं गीतं सुरा इतरभाण्डगाः’’॥ इति तन्त्रभागवते ॥७॥
द्वाविंशोऽध्यायः
अस्ति चेदीश्वरः कश्चित् फलरूपः स कर्मणः ।
कर्तारं भजते सोऽपि न ह्यकर्तुः प्रभुर्हि सः ॥ १४ ॥
फलरूपः स कर्मण इत्याद्यवान्तरेश्वरविषयम् ॥ १४ ॥
किमिन्द्रेणेह भूतानां स्वस्वकर्मानुवर्तिनाम् ।
अनीशेनान्यथाकर्तुं स्वभावविहितं नृणाम् ॥ १५ ॥
स्वभावतन्त्रो हि जनः स्वभावमनुवर्तते । स्वभावस्थमिदं सर्वं सदेवासुरमानुषम् ॥ १६ ॥
देहानुच्चावचान् जन्तुः प्राप्योत्सृजति कर्मणा ।
शत्रुर्मित्रमुदासीनः कर्मैव गुरुरीश्वरः ॥ १७ ॥
तस्मात् सुपूजयेत् कर्म स्वभावस्थः स्वकर्मकृत् ।
अञ्जसा येन वर्तेत तदेवास्य हि दैवतम् ॥ १८ ॥
सत्त्वं रजस्तम इति स्थित्युत्पत्त्यन्तहेतवः ।
रजसोत्पद्यते विश्वमन्योन्यं विविधं जगत् ॥ २१ ॥
रजसा चोदिता मेघा वर्षन्त्यम्बूनि सर्वतः ।
प्रजास्तैरेव सिध्द्यन्ति महेन्द्रः किं करिष्यति ॥ २२ ॥
तस्माद् गवां ब्राह्मणानामद्रेश्चारभ्यतां मखः ।
य इन्द्रयागसम्भारास्तैरयं साध्यतां मखः ॥ २५ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये दशमस्कन्धे द्वाविंशोऽध्यायः ॥
‘स्वभावे कर्मणि च यः सत्वादिषु गुणेषु च ।
स्थितो विष्णुः सर्वकर्ता पृथक्संस्थश्च सर्वगः ॥
गुणकर्मस्वभावादिशब्दवाच्यश्च केशवः ।
तेन जातं फलं यस्मात्कर्मणः फलमीर्यते ॥
न चासौ कर्मफलवान्नास्य किञ्चिन्न शक्यते ।
तदन्यावान्तरेशानां तद्वशत्वं यतः सदा ॥
कर्मणः फलरूपत्वमतस्तेषामुदीर्यते ।
नान्यकर्मवशत्वं तु तेषां विष्णुं विना क्वचित् ॥
स च ब्राह्मणगिर्यादिनामा विष्णुरजः परः ।
एतस्मात्कारणात्कृष्णः शक्रस्य विमदाय तु ॥
गिर्यादिस्थितमात्मानं पूजयामास बल्लवैः ॥ १५-२५ ॥
त्रयोविंशोऽध्यायः
वाचालं मानिनं मत्तमज्ञं पण्डितमानिनम् ।
कृष्णं मर्त्यमुपाश्रित्य गोपा मे चक्रुरप्रियम् ॥ ५ ॥
॥ इति श्रीभागवततात्पर्यनिर्णये दशमस्कन्धे त्रयोविंशोऽध्यायः ॥
‘अत्यल्पस्त्वसुरावेशो देवानां च भविष्यति ।
प्राणमेकं विनाऽसौ हि आखणाश्मसमः स्मृतः ॥
तस्मिन्नप्यसुरावेशे गते प्रकृतिरेव तु’’॥ इति तन्त्रभागवते ॥ ५ ॥
पञ्चविंशोऽध्यायः
इन्द्र उवाच– विशुद्धसत्त्वं तव धाम शान्तं तपोमयं ध्वस्तरजस्तमस्कम् । मायामयोऽयं गुणसम्प्रवाहो न विद्यते तेऽग्रहणानुबन्धः ॥ ४ ॥
विशुद्धसत्वं विगतशुद्धसत्वम् । यस्मात्त्रिगुणसम्बन्धस्त्वयि न विद्यते । यत्राग्रहणमनुबद्धम् । तपोमयं ज्ञानात्मकम् ॥ ४ ॥
कुतो नु तद्धेतव ईश मन्युलोभादयो येऽबुधलिङ्गभावाः ।
अथापि दण्डं भगवान् बिभर्ति धर्मस्य गुप्त्यै खलनिग्रहाय ॥ ५ ॥
पुनर्गुणसंप्रवाहस्य कारणत्वात्तद्धेतवः ॥ ५ ॥
पिता गुरुस्त्वं जगतामधीशो
दुरत्ययः काल उपात्तदण्डः ।
हिताय चेच्छातनुभिः समीहसे
मानं विधुन्वन् जगदीशमानिनाम् ॥ ६ ॥
येऽस्मद्विधाः स्युर्जगदीशमानिन- स्त्वां वीक्ष्य कालेऽभयमाशु तं मदम् । हित्वाऽऽर्यमार्गं प्रभजन्त्यपस्मया- ईहा खलानामपि तेऽनुशासनम् ॥ ७ ॥
‘असतां च सतां चैव हरिरेवानुशासकः ।
सतां तु श्रेयसे सैव ह्यनुशास्तिर्भविष्यति ॥
असतां विपरीताय लङ्घयित्वाऽनुशासनम्’’॥ इत्याग्नेये ॥ ६-७ ॥
स्वच्छन्दोपात्तदेहाय विशुद्धज्ञानमूर्तये ।
सर्वस्मै सर्वबीजाय सर्वभूतात्मने नमः ॥ ११ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये दशमस्कन्धे पञ्चविंशोऽध्यायः ॥
‘आवेशो वसुदेवादौ देहादानं हरेः स्मृतम् ।
देहादानं तदन्येषां जन्मेति कवयो विदुः ।
तथाप्यसुरमोहाय ग्रन्थेषु बहुधैव तु’’॥ इति पाद्मे ॥ ११ ॥
सप्तविंशोऽध्यायः
दुस्सहप्रेष्ठविरहतीव्रतापधुताशुभाः ।
ध्यानप्राप्ताच्युताश्लेषनिर्वृत्या क्षीणमङ्गलाः ॥ १० ॥
तमेव परमात्मानं जारबुद्ध्याऽपि सङ्गताः ।
जहुर्गुणमयं देहं सद्यः प्रक्षीणबन्धनाः ॥ ११ ॥
राजोवाच– कृष्णं विदुः परं कान्तं न तु ब्रह्मतया मुने । गुणप्रवाहोपरमस्तासां गुणधियां कथम् ॥ १२ ॥
श्रीशुक उवाच– उक्तं पुरस्तादेेतत्ते चैद्यः सिद्धिं यथा गतः । द्विषन्नपि हृषीकेशं किमुताधोक्षजप्रियाः ॥ १३ ॥
नृणां निःश्रेयसार्थाय व्यक्तिर्भगवतो नृप ।
अव्यक्तस्याप्रमेयस्य निर्गुणस्य गुणात्मनः ॥ १४ ॥
कामं क्रोधं भयं स्नेहं मैत्रीं सौहृदमेव च ।
नित्यं हरौ विदधतो यान्ति तन्मयतां हि ते ॥ १५ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये दशमस्कन्धे सप्तविंशोऽध्यायः ॥
‘कृष्णकामास्तदा गोप्यस्त्यक्त्वा देहं दिवं गताः ।
सम्यक्कृष्णं परं ब्रह्म ज्ञात्वा कालात्परं ययुः ।
पूर्वं च ज्ञानसंयुक्तास्तत्रापि प्रायशस्तथा ॥
अतस्तासां परं ब्रह्म गतिरासीन्न कामतः ।
न तु ज्ञानमृते मोक्षो नान्यः पन्थेति हि श्रुतिः ॥
कामयुक्ता तदा भक्तिर्ज्ञानं चातो विमुक्तिगाः ।
अतो मोक्षेऽपि तासां च कामो भक्त्याऽनुवर्तते ॥
अतोदकत्वेन सदा द्वेषिणामधरं तमः ।
मुक्तिशब्दोदितं चैद्यप्रभृतौ द्वेषभागिनः ॥
भक्तिभागी पृथङ्मुक्तिमगाद्विष्णुप्रसादतः ।
कामस्त्वशुभकृच्चापि भक्त्या विष्णोः प्रसादकृत् ॥
द्वेषिजीवयुतं चापि भक्तं विष्णुर्विमोचयेत् ।
अहोऽतिकरुणा विष्णोः शिशुपालस्य मोक्षणात्’’॥ इति स्कान्दे ॥
जगत्प्रपितामहे जारबुद्धिर्न युक्ता तथापि ॥
ब्रह्मतया न सम्यक् ।
‘प्रेष्ठो भवांस्तनुभृतां सुहृदन्तरात्मा’’।
‘रमाया दत्तक्षणम्’‘इत्यादिवचनात् ॥
कामिनः कामित्वं क्रोधिनः क्रोधित्वमेव सर्वदा भवतीति तन्मयता ।
‘विमुक्तावपि कामिन्यो विष्णुकामा व्रजस्त्रियः ।
द्वेषिणश्च हरौ नित्यं द्वेषेण तमसि स्थिताः’’॥ इति च ।
‘भक्त्या हि नित्यकामित्वं न तु मुक्तिं विना भवेत् ।
अतः कामितया वाऽपि मुक्तिर्भक्तिमतां हरौ ॥
स्नेहभक्ताः सदा देवाः कामित्वेनाप्सरस्त्रियः ।
काश्चित्काश्चिन्न कामेन भक्त्या केवलयैव तु ॥
मोक्षमायान्ति नान्येन भक्तिं योग्यां विना क्वचित्’’॥ इति पाद्मे ।
‘भक्त्या वा कामभक्त्या वा मोक्षो नान्येन केनचित् ।
कामभक्त्याऽप्सरस्त्रीणामन्येषां नैव कामतः ॥
उपास्यः श्वशुरत्वेन देवस्त्रीणां जनार्दनः ।
जारत्वेनाप्सरस्त्रीणां कासांचिदिति योग्यता ॥
योग्योपासां विना नैव मोक्षः कस्यापि सेत्स्यति ।
अयोग्योपासनाकर्तुरनर्थश्च भविष्यति ॥
तस्मात्तु योग्यतां ज्ञात्वा हरेः कार्यमुपासनम्’’॥ इति भद्रिकायाम् ।
‘पतित्वेन श्रियोपास्यो ब्रह्मणा मे पितेति च ।
पितामहतयाऽन्येषां त्रिदशानां जनार्दनः ॥
प्रपितामहो मे भगवानिति सर्वजनस्य तु ।
गुरुः श्रीब्रह्मणोर्विष्णुः सुराणां च गुरोर्गुरुः ॥
मूलभूतो गुरुः सर्वजनानां पुरुषोत्तमः ।
गुरुर्ब्रह्माऽस्य जगतो दैवं विष्णुः सनातनः ॥
इत्येवोपासनं कार्यं नान्यथा तु कथञ्चन’’॥ इति वाराहे ॥१०-१५॥
त्रयस्त्रिंशोऽध्यायः
मदविघूर्णितलोचन ईषन् मानदः स्वसुहृदां वनमाली । बदरपाण्डुवदनो मृदुगण्डं मण्डयन् कनककुण्डललक्ष्म्या ॥ २४ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये दशमस्कन्धे त्रयस्त्रिंशोऽध्यायः ॥
‘मानवो बदरः सिंधुः शशिनस्तु त्रिनामकम् ।
यो वेद मुच्यते रोगैर्विष्णुनाम्नेव संसृतेः’’॥ इति स्कान्दे ॥
त्रिंशोऽध्यायः
त्वामीश्वरं स्वाश्रयमात्ममायया विनिर्मिताशेषविशेषकल्पनम् । क्रीडार्थमाद्यन्तमनुष्यविग्रहं नतोऽस्मि धुर्यं यदुवृष्णिसात्त्वताम् ॥ २४ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये दशमस्कन्धे पञ्चत्रिंशोऽध्यायः ॥
‘आदिनो राक्षसाः प्रोक्तास्तदन्तत्वाज्जनार्दनः ।
आद्यन्त इति विज्ञेयः परेशो ब्रह्मणीशनात्’’॥ इति ब्राह्मे ॥ २४ ॥
षट्त्रिंशोऽध्यायः
य ईक्षिताऽहंरहितोऽप्यसत्सतोः स्वतेजसाऽपास्ततमोभिदाभ्रमः । स्वमाययाऽऽत्मन् रचितेषु तत् सन् प्राणादिभिर्जन्तुषु भाति चित्रधा ॥ ११ ॥
तत्सन् तथैव सन् ॥ ११ ॥
यस्याखिलामीवहभिः सुमङ्गलै- र्वाचो विमिश्रा गुणकर्मजन्मभिः । प्राणन्ति शुम्भन्ति पुनन्ति वै जगद् यास्तद्विरक्ताः स्युरशोभना मताः ॥ १२ ॥
शुम्भन्ति शोभयन्ति ।
‘शुम्भनं शोभनं शुम्भं शुभपर्यायवाचकाः’’। इत्यभिधानम् ॥ १२ ॥
प्रधानपुरुषावाद्यौ जगद्धेतू जगत्पती ।
अवतीर्णौ जगत्यर्थे स्वांशेन बलकेशवौ ॥ ३० ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये दशमस्कन्धे षट्त्रिंशोऽध्यायः ॥
‘वैन्यपार्थबलेशादावाविष्टं पुरुषोत्तमम् ।
अपेक्ष्य तद्गुणाः सर्वे तज्जीवानामभाविनः ॥
अप्युच्यन्ते पुराणेषु विशेषात्सन्निधिर्यतः’’। इति माहात्म्ये ॥ ३० ॥
अष्टत्रिंशोऽध्यायः
भूस्तोयमग्निः पवनः खमादि- र्महानजादिर्मन इन्द्रियाणि । सर्वेन्द्रियार्था विबुधाश्च सर्वे ये हेतवस्ते जगतोऽङ्गभूताः ॥ ३ ॥
तवाङ्गेभ्यो भूताः ॥ ३ ॥
नैते स्वरूपं विदुरात्मनस्ते अजादयोऽन्यात्मतया गृहीताः । अजोऽनुबद्धः स गुणैरजाया गुणात् परं वेद न ते स्वरूपम् ॥ ४ ॥
अन्यात्मतया गृहीताः । मत्तोऽन्ये जीवात्मानः एत इति भगवता गृहीताः ।
‘अहं परो हि मद्भिन्ना जीवात्मानोऽल्पबुद्धयः ।
मद्वशाः सर्व एवेति ब्रह्मादीन्मन्यते हरिः’’॥ इति स्कान्दे ॥
‘यथा हरिः स्वमात्मानं वेद तद्वद्रमापि न ।
ब्रह्मा च कुत एवान्ये विदन्त्येव तथापि तु’’॥ इति माहात्म्ये ॥४॥
त्वां योगिनो यजन्त्यद्धा महापुरुषमीश्वरम् ।
साध्यात्मं साधिभूतं च साधिदैवं च साधवः ॥ ५ ॥
‘स्थितो ब्रह्मादिदेवेषु खादिभूतेषु चेश्वरः ।
आत्मशब्दोदितनरेष्वपि यस्माज्जनार्दनः ॥
साध्यात्मः साधिभूतश्च साधिदैवेति चोच्यते’’॥ इति अध्यात्मे ॥५॥
त्रय्या च विद्यया केचित् त्वां वै वैतानिका द्विजाः ।
यजन्ते विततैर्यज्ञैर्नानारूपामराख्यया ॥ ६ ॥
‘सर्वदेवेष्वपि हरिः सर्वदेवनियामकः ।
नामवान् सर्वदेवानां सर्वपूजां तथाऽत्त्यसौ’’॥ इति च ॥ ६ ॥
तुभ्यं नमस्तेऽस्त्वविषक्तदृष्टये सर्वात्मने सर्वधियां च साक्षिणे । गुणप्रवाहोऽयमविद्ययाऽसकृत् प्रवर्तते देवनृतिर्यगात्मसु ॥ १३ ॥
अविद्यया भगवदिच्छया ॥ १३ ॥
अग्निर्मुखं तेऽवनिरङ्घ्रिरीक्षणं सूर्यो नभो नाभिरथो दिशः श्रुतिः । द्यौः कं सुरेन्द्रास्तव बाहवोऽर्णवः कुक्षिर्मरुत् प्राणबलं प्रकल्पितम् ॥ १४ ॥
रोमाणि वृक्षौषधयः शिरोरुहा मेघाः परस्यास्थिनखानि तेऽद्रयः । निमेषणं रात्र्यहनी प्रजापति- र्मेढ्रं तु वृष्टिस्तव वीर्यमिष्यते ॥ १५ ॥
त्वय्यव्ययात्मन् पुरुषे प्रकल्पिता लोकाः सपाला बहुजीवसङ्कुलाः । यथा जले सञ्जिहते जलौकसोऽ- प्युदुम्बरे वा मशका मनोमये ॥ १६ ॥
त्वयैव प्रकल्पिताः ।
‘विष्णोरङ्गसमुद्भूता विष्णोरङ्गानि देवताः ।
उच्यन्ते सर्ववेदेषु स्वरूपात् भेदिनोऽपि तु’’॥ इति च ॥१४-१६॥
यानि यानीह रूपाणि क्रीडनार्थं विभर्षि हि ।
तैरामृष्टशुचो लोका मुदा गायन्ति ते यशः ॥ १७ ॥
‘भृतामेव विभर्तीशो ह्यवतारतनुं सदा ।
विभर्तीत्युच्यतेऽथापि मोहाय व्यक्त्यपेक्षया’’॥
इति तत्त्वनिर्णये ॥ १७ ॥
नमस्ते वासुदेवाय नमः सङ्कर्षणाय च ।
प्रद्युम्नायानिरुद्धाय सात्वतां पतये नमः ॥ २२ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये दशमस्कन्धे अष्टत्रिंशोऽध्यायः ॥
‘प्रद्युम्ने चानिरुद्धे च बलदेवे च केशवः ।
सन्निधानं विशेषेण करोति जगतां पतिः ।
तत्र कृष्णः स्वयं विष्णुः परमानन्दलक्षणः ।
पाराशर्यश्च भगवान्स्वयमेव जनार्दनः’’॥ इति च ॥
‘तत्तद्गतस्यैव हरेस्तत्तन्नामानि चाञ्जसा ।
औपचारिकनामानि तदन्येषामिति स्थितिः’’॥ इति शब्दनिर्णये ॥ २२ ॥
त्रिचत्वारिंशोऽध्यायः
श्रीशुक उवाच– पितरावुपलब्धार्थौ विदित्वा पुरुषोत्तमः । मा भूदिति निजां मायां ततान जनमोहिनीम् ॥ १ ॥
उवाच पितरावेत्य साग्रजः सात्वतर्षभः । प्रश्रयावनतः प्रीणन्नम्ब तातेति सादरम् ॥ २ ॥॥
नास्मत्तो युवयोस्तात नित्योत्कण्ठितयोरपि ।
बाल्यपौगण्डकैशोराः पुत्राभ्यामगमन् क्वचित् ॥ ३ ॥
न लब्धो दैवहतयोर्वासो नौ भवदन्तिके ।
ये बालाः पितृगेहस्था विन्दन्ते लालिता मुदम् ॥ ४ ॥(भा.मू
सर्वार्थसम्भवो देहो जनितः पोषितो यतः ।
न तयोर्याति निर्वेशं पित्रोर्मर्त्यः शतायुषा ॥ ५ ॥
यस्तयोरात्मजः कल्प आत्मना च धनेन च ।
वृत्तिं न दद्यात् तं प्रेत्य स्वमांसं खादयन्ति हि ॥ ६ ॥
मातरं पितरं वृद्धं भार्यां साध्वीं सुतं शिशुम् ।
गुरुं विप्रं प्रपन्नं च कल्पोऽबिभ्रच्छ्वसन् मृतः ॥ ७ ॥
तन्नावकल्पयोः कंसान्नित्यमुद्विग्नचेतसोः ।
मोघमेते व्यतिक्रान्ता दिवसा वामनर्चतोः ॥ ८ ॥
तत् क्षन्तुमर्हथस्तात मातर्नौ परतन्त्रयोः ।
अकुर्वतोर्वां शुश्रूषां क्लिष्टयोर्दुर्हृदोर्भृशम् ॥ ९ ॥
मयि भृत्य उपासीने भवतो विबुधादयः ।
बलिं हरन्त्यवनताः किमुतान्ये नराधिपाः ॥ १४ ॥
॥ इति श्रीभागवततात्पर्यनिर्णये दशमस्कन्धे त्रिचत्वारिंशोऽध्यायः ॥
‘सर्वोत्तमोऽपि भगवान् गुणाभावं जनार्दनः ।
दर्शयेद्वसुदेवादेरात्मनो जीवतामपि ॥
अज्ञाशक्त्यादिभावस्तु कुतस्तस्याखिलेशितुः ।
कुतो दोषा सर्वगुणपूर्णस्यानन्दवारिधेः’’॥ इति वामने ॥१-९,१४॥
द्विपञ्चाशोऽध्यायः
फलमूलकृताहारं वृतं शिष्यशतैर्मुनिम् ।
दृष्ट्वा परमसन्तुष्टौ रामकृष्णौ जगत्पती ॥ २० ॥
प्रणामं चक्रतुर्वीरौ यथान्यायमतन्द्रितौ ।
इदं चोवाच भगवान् कृष्णस्तं मुनिपुङ्गवम् ॥ २१ ॥
नमस्ते भार्गव श्रीमन् जामदग्न्य तपोधन ।
रामकृष्णौ स्मृतावावां क्वचित् ते श्रवणं गतौ ॥ २२ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये दशमस्कन्धे द्विपञ्चाशोऽध्यायः ॥
‘सर्वावताराभिन्नोऽपि समशक्तिरपि स्वयम् ।
पूज्यपूजकनीचोच्चं मोहनाय दुरात्मनाम् ॥
अखण्डैकरसो विष्णुर्दर्शयेत्तत्र तत्र हि ॥‘‘इति षाड्गुण्ये ॥२०-२२॥
त्रिपञ्चाशोऽध्यायः
एतस्मिन्नेव काले तु क्षीरोदे सागरोत्तमे ।
निवासे देवदेवस्य शङ्खचक्रगदाभृतः ॥ ७ ॥
उपासीनो महाबाहुः श्रीमान् वैरोचनो बलिः ।
जहार देवदेवस्य किरीटं रत्नचित्रितम् ॥ ८ ॥
इन्द्रनीलसहस्राढ्यं गोमेदकशताचितम् ।
पद्मरागमहानीलमुक्ताफलविराजितम् ॥ ९ ॥
पुष्यरागप्रवालाढ्यं दिव्यकाञ्चननिर्मितम् ।
हृतं दानववीरेण विदित्वा पुरपालकः । तमन्वधावत् त्वरितं वैनतेयो विहङ्गराट् ॥ १० ॥
‘बहूनि स्थानजातानि कृष्णस्य क्षीरसागरे ।
कानिचिन्मुक्तगम्यानि नामुक्तैस्त्रिदशैरपि ।
गन्तुं शक्यान्यथान्यानि गम्यान्यन्यैरपि क्वचित् ॥
तत्र देवाश्च योगिन्द्रा भक्ताश्चान्ये जनार्दनम् ।
गत्वाऽचर्यन्ति देवेशं बलिस्तत्रागमत्क्वचित् ॥
तस्य तत्रासुरावेशात् पापबुद्धिरजायत ।
तद्व्यक्त्यर्थं जगन्नाथः शिश्ये सुप्तवदव्ययः ॥
तदा स पापया बुद्ध्या किरीटमहरत्प्रभोः ।
तं जित्वा गरुडस्तत्तु हृत्वा गोमन्तमाव्रजत् ॥
तत्र कृष्णस्य शिरसि किरीटममुचत्प्रभोः ॥‘‘इति माहात्मे ॥७-१०॥
हिरण्यगर्भत्वमुपेत्य मूले सृजस्यशेषं भुवनं स एव । नारायणात्मन् परिपासि भूयो जहार चान्ते भगवन् शिवात्मन् ॥ १५ ॥
॥ इति श्रीभागवततात्पर्यनिर्णये दशमस्कन्धे त्रिपञ्चाशोऽध्यायः ॥
‘ब्रह्मस्थो ब्रह्मनामाऽसौ रुद्रस्थो रुद्रनामकः ।
तयोरपि नियन्तैकः स्वयमेव जनार्दनः ॥‘‘इति स्कान्दे ॥
एकसप्ततितमोऽध्यायः
सत्यभामोवाच– यो मे सनाभिवधतप्तहृदा ततेन लिप्ताभिशापमपमार्ष्टुमुपाजहार । जित्वर्क्षराजमथ रत्नमदात् स तेन नीतच्छिदादिशत मां प्रभवेऽपि दत्ताम् ॥ ९ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये दशमस्कन्धे एकसप्ततितमोऽध्यायः ॥
)
नीतच्छित् भगवता प्राप्तभेदः ॥ ९ ॥
द्विसप्ततितमोऽध्यायः
न ह्यम्मयानि तीर्थानि न देवा मृच्छिलामयाः ।
ते पुनन्त्युरुकालेन दर्शनादेव साधवः ॥ ११ ॥
अम्मयाद्यभिमानिन्यो देवताः उरुकालेनैव पुनन्ति, गुरूपदेशं प्रापयित्वा॥ ११ ॥
नाग्निर्न सूर्यो न च चन्द्रतारकं न भूर्जलं खं श्वसनोऽथ वाङ्मनः । उपासिता भेदकृतो हरन्त्यघं विपश्चितो घ्नन्ति मुहूर्तसेवया ॥ १२ ॥
यस्यात्मबुद्धिः कुणपे त्रिधातुके स्वधीः कलत्रादिषु भौम इज्यधीः । यत्तीर्थबुद्धिश्च जले न कर्हिचित् जनेष्वभिज्ञेषु स एव गोखरः ॥ १३॥
भेदकृतः अन्यथाज्ञानिनः । विपश्चितस्तु प्रत्यक्षदर्शनादन्यथाज्ञानमेवाप-गमयन्ति ॥
‘प्राकृतैः दृश्यमानन्तु न द्रवं तीर्थमुच्यते ।
देवाश्च न शिलामात्राः किन्तु तत्रान्तरस्थिताः ॥
गुरूपदेशेन विना न ते दृश्याः कथञ्चन ॥
न ज्ञायते च तद्रूपं अन्यथाज्ञानिनां च ते ॥
कोपाच्छापं प्रयच्छान्ति तस्माद्गरुमुपाव्रजेत् ।
तस्मात्तीर्थानि देवाश्च नित्यं विद्वत्सु संस्थिताः ॥‘‘इति गारुडे ॥
‘भिन्नस्याभेदतो दृष्टिरपि भेददृशिर्मता ।
वस्तुयाथात्म्यतस्तस्य भिन्नत्वादिति सूरिभिः ॥
अन्यथाज्ञानमेवातो भेदज्ञानं विनिन्दितम् ।
न विद्यमानभेदस्य दर्शनं निन्दितं क्वचित् ॥
शिला देव इति ज्ञानं देवोऽस्मीति तु या दृशिः ।
उत्तमस्याधमत्वेन नीचास्योच्चतया दृशिः ॥
असमस्य समत्वेन समस्यासमदर्शनम् ।
द्रवं तीर्थमिति ज्ञानं देहोऽहमिति या मतिः ॥
असद्भार्यादिषु स्वीयदर्शनं चैवमादिकम् ।
भेदज्ञानमिति प्रोक्तं या चान्याप्यन्यथामतिः ॥
तस्मात्तदपहानाय संसेव्याः गुरुवो वराः ।
तत्रस्थाः देवताः सर्वाः प्रीयन्ते गुरुपूजया ।
नैवान्यथैषां प्रीतिः स्याद्गुरूक्तिमपहाय तु ॥
तस्मात्पूजाविशेषेण सतां कार्या नृणां सदा ॥
भक्तिस्तु तारतम्येन विशिष्टेष्वधिका भवेत् ॥ “इति स्कान्दे ॥
‘उत्तमा अपि देवेशाः अवरान् विदुषो नृणाम् ।
पूजायै सम्प्रयच्छन्ति परोक्षत्वप्रिया यतः ॥
तेषु स्थित्वा स्वयं पूजां गृह्णन्त्यनुपमां सदा ।
ज्ञानानि च प्रयच्छन्ति तस्मादेवंविदा सदा ॥
पूजिताः स्युः सुरवराः सब्रह्माणः सकेशवाः ॥ “इति वामने ॥ १२-१३ ॥
ब्रह्म ते हृदयं शुक्लं तपः स्वाध्यायसंयमैः ।
यत्रोपलब्धं सुव्यक्तमव्यक्तं च ततः परम् ॥ १९ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये दशमस्कन्धे द्विसप्ततितमोऽध्यायः ॥
हृदयं प्रियं हृद्ययनात् ॥
पञ्चसप्ततितमोऽध्यायः
रुग्मिण्युवाच– नन्वेतदेवमरविन्दविलोचनाह यद् वै भवान् न भवतः सदृशो विभूम्नः । क्व स्वे महिम््नयभिरतो भगवांस्त्र्यधीशः क्वाहं गुणप्रकृतिरन्यगृहीतपादा ॥ ३८ ॥
भवानेव भवतः सदृशः ॥ ३८ ॥
सत्यं भयादिव गुणेभ्य उरुक्रमान्तः शेते समुद्र उपलम्भनमात्र आत्मा । योऽनित्यकेन्द्रियगणैः कृतविग्रहस्त्वं त्वत्सेवया नृपपदं विधुतं तमोऽन्धम् ॥ ३९ ॥
नृपपदं नृपशब्दवाच्यमात्रम् । न तु मुख्यतो नृपालकम् । अन्धन्तमः प्रति विधुतम् ॥
त्वत्पादपद्ममकरन्दजुषां मुनीनां वर्त्म स्फुटं नृपशुभिर्ननु दुर्विभाव्यम् । यस्मादलौकिकमिवेहितमीश्वरस्य भूमंस्तवेहितमथो अनु मे भवन्ति ॥ ४० ॥
तवेहितमनु मे ईहितानि भवन्ति ॥ ४० ॥
निष्किञ्चनो ननु भवान् न यतोऽस्ति किञ्चिद् यस्मै बलिं बलिभुजोऽपि हरन्त्यजाद्याः । न त्वा विदन्त्यसुतृपोऽन्तिकमाढ्यतान्धाः प्रेष्ठः सतां बलिभुजामपि योऽन्तरास्ते ॥ ४१ ॥
यतः किञ्चिन्मात्रं नास्ति किन्तु सर्वमेवास्ति ॥ ४१ ॥
त्वं वै समस्तपुरुषार्थमयः फलात्मा यद्वाञ्छया सुमतयो विसृजन्ति कृत्स्नम् । तेषां विभो समुदितो भवतः प्रसाद- स्त्रय्यां च यश्च रतयोः सुखदुःखिनोर्न ॥ ४२ ॥
फलात्मा सुखात्मा । अत एव पुरुषैरर्थ्यस्वरूपः ॥
तेषां भवतश्च समुदितः समो गुणो नास्ति । यश्च कोऽपि । त्रय्यां रतयोः, वेदोक्तकर्तृत्वेन सुमतीनां त्रयीरतत्वं प्रतिपाद्यत्वेन भगवतः ॥ सुखदुःखिनोः केवलं परिपूर्णसुखो भवान् । भवज्ज्ञानपर्यन्तं दुःखिनस्ते ।
‘अल्पसम्पूर्णशक्तित्वादल्पपूर्णसुखत्वतः ।
अल्पसंपूर्णदर्शित्वान्न साम्यं जीवकृष्णयोः’’॥ इति ब्रह्माण्डे ॥
त्रय्यां चेति चशब्दः स्मृतिष्वपीति ॥ ४२ ॥
त्वं न्यस्तदण्डमुनिभिर्गदितानुभाव आत्माऽऽत्मदश्च जगतामिति मे वृतोऽसि । मुक्त्वा भवद्भवदुदीरितकालगन्ध- ध्वस्ताशिषोऽब्जभवनाकपतीन् कुतोऽन्यान् ॥ ४३ ॥
अब्जो ब्रह्मा ।
‘सोऽद्भ्य एव पुरुषं समुद्धृत्य अमूर्च्छयत्’‘इति श्रुुतेः ।
‘अद्भ्यः सम्भूतो हिरण्यगर्भ इत्यष्टौ’‘इति च ॥ ४३ ॥
का स्त्री वृणीत तव पादसरोजगन्धमाघ्राय सन्मुखरितं जनतापवर्गम् ।
लक्ष्म्यालयं त्वविगणय्य गुणालयाढ्यं मर्त्याशिषोरुभयमर्थविविक्तदृष्टिः ॥४६॥
सन्मुखरितं सद्भिः प्रधानीकृतम् । मर्त्याशिषोरुभयं जनं प्रत्यर्थोऽयमिति विविक्तदृष्टिः ॥ कामरूपं त्वामविगणय्य ॥ ४६ ॥
तं त्वाऽनुरूपमभजं जगतामधीश- मात्मानमत्र च परत्र च कामरूपम् । स्यान्मे तवाङ्घ्रिशरणं श्रुतिभिर्भ्रमत्या ये वै भजन्ति त उ यान्त्यनृतापवर्गम् ॥ ४७ ॥
भ्रमः तिरन्नं यस्याः सा भ्रमतिः । तस्याः भ्रमत्याः विपरीतज्ञानिभक्षिकाया इत्यर्थः । श्रुतिभिः श्रुतिप्रमाणेन ॥
‘अभ्रमा भ्रमतामत्री या वेदैरधिगम्यते ।
तस्यै नमोऽस्तु ते देव्यै विष्णुवक्षःस्थलाश्रये’’॥ इति नारदीये ॥ ४७ ॥
कस्याः स्युरच्युत नृपा भवतोपदिष्टाः स्त्रीणां गृहेषु खरगोश्वबिडालभृत्याः । यत्कर्णमूलमरिकर्शन नोपयायाद् युष्मत्कथा मृडविरिञ्चसभासु गीता ॥ ४८ ॥
खरगोऽश्वबिडालवत् स्त्रीणां भृत्याः ॥ ४८ ॥
त्वक्श्मश्रुरोमनखकेशपिनद्धमन्त- र्मांसास्थिरक्तकृमिविड्भरितान्त्रवीतम् । जीवच्छवं भजति काममतिर्विमूढा या ते पदाब्जमकरन्दमजिघ्रती स्त्री ॥ ४९ ॥
‘आनन्दश्मश्रुरानन्दकेश आपादनखात्सर्व एवानन्दः स एष विष्णु-रजोऽमृतोऽचलो ब्रह्मा । य एनमेवं वेद । आनन्द एव स भवत्यानन्दस्य सार्ष्टितां सलोकतां सायुज्यमाप्नोति’‘इति माध्यन्दिनायनश्रुतेः ॥ ४९ ॥
अस्त्यम्बुजाक्ष मम ते चरणानुराग आत्मन् रतस्य मयि चानतिरिक्तदृष्टेः । यर्ह्यस्य वृद्धय उपात्तरजोऽतिमात्रो मामीक्षसे तदु ह नः परमानुकम्पा ॥ ५० ॥
अथात
अनतिरिक्तदृष्टेः भक्त्यनुसार्यनुग्रहस्य ॥
‘स एष देवः परोऽजरोऽमरस्तं वा एनमाहुर्भाक्त इति ॥ भक्त्या हि सोऽनुगृह्णाति । भक्त्यैवेदं वृणुते । श्रियं विरिञ्चिं रुद्रं इन्द्रमापिपीलकम् । नाभक्तं वृणुते । नाभक्तमनुगृह्णाति । यावान्वा स भक्तस्तावद्ध्येष वृणुते । तावद्ध्येषोऽनुगृह्णाति । नाधिकं वृणुते, नाधिकमनुगृह्णाति, नावरं वृणुते नावरमनुगृह्णाति ।
‘अथातो भक्तिमीमांसा भवति । युवा स्यात्साधु युवाऽऽध्यायकः । आशिष्ठो दृढिष्ठो बलिष्ठः । तस्येयं पृथिवी सर्वा वित्तेन पूर्णा स्यात् । स एको मानुषो भक्तो भवति । ते ये शतं मानुषा भक्ताः । एतावान् मानुषो गन्धर्वः । ते ये शतं मानुषा गन्धर्वाः । एतावान् देवगन्धर्वः । ते ये शतं देवगन्धर्वाः । एतावांश्चिरलोकः पैतृकः । ते ये शतं चिरलोका पैतृकाः । एतावांश्चिरलोको दैविकः । ता या शतं चिरलोकाः दैविकाः । एतावत्यतात्त्विकादेवता । ता या शतमतात्त्विक्यो देवताः । एतावती तात्त्विकदेवता । ता या शतं तात्विक्यो देवताः । एतावान् वाव पुरुहूतः । ते ये शतं पुरुहूताः । एतावान् वाव रुद्रः । ते ये शतं रुद्राः । एतावान् वाव विरिञ्चस्ते ये शतं विरिञ्चाः । एतावती श्रीर्भक्त्या भवति । तद्यावती वाव भक्तिस्तावदेव ज्ञानं भवति । यावद्वाव तज्ज्ज्ञानं ताव-दानन्दो मौक्तिकोऽथैष एव परमानन्दो योऽसौ हरिर्विश्वो विनोदोऽपनोदः संस्कारकोऽविकारकोऽधिकारक एतस्यैवानन्दस्य अन्यानि भूतानि मात्रा-मुपजीवन्तीति ‘‘पौत्रायणश्रुतिः ॥
’ मिलितौ वा एतौ भवतो यदनुग्रहश्च भक्तिश्च यो वाऽनुग्रही स भक्तो यो भक्तः सोऽनुग्रही । यो वा वाऽनुगृहीतो ब्रह्मणा स भक्तो यो भक्तस्तं वै ब्रह्माऽनुगृह्णाति यावान्वै ब्रह्मणोऽनुग्रहस्तावती भक्तिर्यावती भक्तिस्ता-वान्वै ब्रह्मणोऽनुग्रहः । प्रकृतौ वै ब्रह्मणोऽनुग्रहः परमस्तदवरो वा व महति तदवरोऽथ रुद्रे तदवरः पुरुहूते । अथ देवर्षिपितृषु मनुष्येषु इति “धर्मश्रुतिः ॥
तस्यामेव रजस उद्रेचनादुपात्तरजोऽतिमात्रत्वम् ॥
‘अथ त्रिगुणा ह्येव प्रकृतिरगुणो वा व विष्णुः । स यदा ह्यरजा रजोऽस्या उद्वर्धयत्येषा वाव सृष्टिः । स यदा ह्यसत्वः सत्वमस्या उद्वर्धय-त्येषा वाव स्थितिः । स यदा ह्यतमास्तमोऽस्या उद्वर्धयत्येष वाव लयो नैनमेते गुणा अभ्युपस्पृशन्ति नैष एतान् गुणानभ्युपस्पृशत्यगुणो ह्येष भवति ॥ अत्रैष श्लोको भवति ।”
‘निर्गुणस्य गुणादानं प्रकृतेर्गुणवर्धनम् ।
न कदाचिद्गुणैरेषः स्पृश्यते परमो हि सः’’॥ इति चाक्रायणश्रुतिः ॥
नैवालीकं भवत्येव वचस्ते मधुसूदन ।
अम्बाया इव हि प्रायः कन्यावादरतिः क्वचित् ॥ ५१ ॥
मातुः कन्याप्रदानवादे रतिर्यथा नालीकं भवति प्रायस्तथा ते वचः क्वचिदपि नालीकं भवत्येव ॥ ५१ ॥
मुग्धायाश्चापि पुंश्चल्या मनोऽभ्येति नवं नवम् ।
बुधोऽसतीं न बिभृयात् तां बिभ्रदुभयच्युतः ॥ ५२ ॥
तस्याः सुदुःखभयशोकविनष्टबुद्धे- र्हस्ताच्छ्लथद्वलयतो व्यजनं पपात । देहश्च विक्लवधियः सहसैव बिभ्यद् रम्भेव वातविहता प्रविकीर्य केशान् ॥ २८ ॥
॥ इति श्रीभागवततात्पर्यनिर्णये दशमस्कन्धे पञ्चसप्ततितमोऽध्यायः ॥
यामसतीं बुधो न बिभृयात् । यां च तां बिभ्रत् दृष्टादृष्टच्युतो भवति । तस्या अपि पुंश्चल्याः त्वयि मनो नवंनवमभ्येति ।
‘अमुग्धैव तु मुग्धेव त्वदुःखा दुःखितेव च ।
श्रीर्दर्शयेद्धरिश्चैव नैवैतौ मोहदुःखिनौ ॥
मिथोऽपि तादृग्वचनं आकारं चैव लीलया ।
दर्शयन्तौ नृणां मोहं कुर्यातां शास्त्रदर्शनात् ॥“इति कापिलेये ॥ ५२,२८ ॥
षट्सप्ततितमोऽध्यायः
रामा गृहे विहरतः पुरतः कराभ्यां बद्धेक्षणाः स्वदयितस्य मुदा हसन्त्यः । गात्रान्तराण्यपिदधुर्निजपूरुषस्य क्लेशावहान्यपि तदङ्गजभङ्गभीताः ॥ ६ ॥
गात्रान्तराण्यपिदधुः । पिधातव्येभ्योऽन्यान्यपि । येषां पिधानेन क्लेशो
भवत्यात्मनः । निजभर्तुरप्यपिदधुः । निर्लज्जा इत्यकामो भवत्यसाविति भयात्॥ ६ ॥
निहते रुग्मिणि श्याले नाब्रवीत् साध्वसाधु वा ।
रुग्मिणीबलयो राजन् स्नेहभङ्गभयाद् हरिः ॥ ५० ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये दशमस्कन्धे षट्सप्ततितमोऽध्यायः ॥
‘न स्नेहभङ्गो देव्यास्तु न भयं केशवस्य तु ।
स्नेहभीत इवाथाऽपि नोचे रुग्मिवधे हरिः’’॥ इति ब्रह्माण्डे ॥ ५० ॥
द्व्यशीतितमोऽध्यायः
श्रुत्वाऽजितं जरासन्धं
नृपतेर् ध्यायतो हरिः ।
आहोपायं तम् एवाद्य
उद्धवो यमुवाच ह ॥ १५ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये दशमस्कन्धे द्व्यशीतितमोऽध्यायः ॥
अजितं जरासन्धं भगवत एव श्रुत्वा ।
तथा हि सभापर्वणि पश्चाद् दिग्-विजयोक्तेः ।
‘पूर्वाः कथाः परं ब्रूयुः
पराः पूर्वं तथैैव च ॥
मोहनार्थाय दुष्टानां
सर्वं व्यत्यासयिष्यते ।
विस्तारे तु यद् उक्तं स्यात्
तद्-ग्राह्यम् अविरोधतः ।
संक्षेपोक्तविरोधे तु
गुणोक्तिश् च सतां यथा’’॥
इति शब्दनिर्णये ॥
‘जरासन्धं निहत्यैव
पाण्डवैस् तु दिशो जिताः ।
प्रसादाद् वासुदेवस्य
राजसूयः क्रतुः कृतः’’॥
इति मात्स्ये ॥ १५ ॥
षडशीतितमोऽध्यायः
ततो मुहूर्तात् प्रकृतावुपस्थित- स्तत्रानुतिष्ठत् स्वजनानुसङ्गतः । महानुभावस्तदबुद्ध्यतासुरीं मायां स साल्वप्रकृतां मयोदिताम् ॥ ३८ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये दशमस्कन्धे षडशीतितमोऽध्यायः ॥
‘जानन् साल्वकृतां मायामजानन्निव केशवः ।
अन्ववर्तत किञ्चित्तु ततस्तामहरद्विभुः ॥
एवमेव तु सर्वत्र परमात्मा सनातनः ।
विद्धश्च रुधिरस्रावी कथञ्चिदजयत्परम् ॥
इत्यादि दर्शयेद्विष्णुर्मोहयन्मायया जगत् ।
चिदानन्दघनस्यास्य कुतो वेधादि सद्गतेः’’॥ इति ब्रह्माण्डे ॥
‘यदचरस्तन्वा वावृधानो बलानीन्द्र प्रब्रुवाणो जनेषु ।
मायेत्साते यानि युद्धान्याहुर्नाद्य शत्रंु ननु पुरा विवित्से’’॥
इत्याद्या च श्रुतिः ॥ ३८ ॥
षण्णवतितमोऽध्यायः
श्रीभगवानुवाच– स्वायम्भुवं ब्रह्मसत्रं जनलोकेऽभवत् पुरा । तत्रत्यानां मानसानां मुनीनामूर्ध्वरेतसाम् ॥ ९ ॥
श्वेतद्वीपं गतवति त्वयि द्रष्टुं तमीश्वरम् । ब्रह्मवादः सुसंवृत्तः श्रुतयो यत्र शेरते ॥ १० ॥
तत्राप्ययमभूत् प्रश्नस्त्वं मां यदनुपृच्छसि ।
तुल्यश्रुततपःशीलास्तुल्यस्वीयारिमध्यमाः ॥ ११ ॥
अपि चक्रुः प्रवचनमेकं शुश्रूषवोऽपरे ॥ १२ ॥
‘सनकाद्याः समाः सर्वे तत्र श्रेष्ठः कुमारकः ।
मरुतश्च समाः सर्वे सप्त तेषु प्रधानकाः’’॥
इति ऋक्संहितायाम् ॥ ९-१२ ॥
सनन्दन उवाच— स्वसृष्टमिदमापीय शयानं सह शक्तिभिः । तदन्ते बोधयाञ्चक्रुस्तल्लिङ्गैः श्रुतयः परम् ॥ १३ ॥
यथा शयानं सम्राजं बन्दिनस्तत्पराक्रमैः । प्रत्यूषेऽभ्येत्य सुश्लोकैर्बोधयन्त्यनुजीविनः ॥ १४ ॥
श्रुतय ऊचुः– जय जय जह्यजामजित दोषगृहीतगुणां त्वमसि यदात्मना समवरुद्धसमस्तभगः । अज जगदोकसामखिलशक्त्यबोधक ते क्वचिदजयाऽऽत्मनाऽनुचरतोऽनुचरेन्निगमः ॥ १५ ॥
‘श्रीर्भूमिरितिरूपाभ्यां प्रकृतिर्विष्णुना सह ।
शेते श्रुतिस्वरूपेण स्तौति ब्रह्मलये हरिम् ॥
एकाऽप्यनन्तरूपा सा वाक्यभेदात्सरस्वती ।
अनादिनिधना नित्या स्तौति नारायणं प्रभुम् ॥ ‘‘इति ज्योतिःसंहितायाम् ॥
‘सर्वदा जयतो विष्णोः जयस्तस्य प्रकाशनम् ।
श्रवणं दृष्टिरित्यादि प्रार्थ्यं तज्ज्ञापनं स्मृतम् ॥
श्रुणोति पश्यति ह्येषः जयतीत्यादिकं स्वतः ॥
जय पश्य श्रुणष्वेति तत्तज्ज्ञापनमेव, तु ॥ “इति विमलसंहितायाम् ।
‘श्रीर्भूर्दुर्गेति या भिन्ना प्रकृतिः शक्तिरुच्यते ।
विष्णोः स्वरूपशक्तेः सा शक्यत्वाच्छक्तिरुच्यते ॥
नित्याव्यवहितत्वात् तु विशेषाच्छक्तिनामिका ।
यथैव पङ्कजं ब्रह्म रुद्र इत्यादिकं पदम् ॥
ताभिः शयानं पुरुषं सैव तु श्रुतिरूपिणी ॥
अस्तौत् प्रकाशयात्मानं प्रकृतिं जीवबन्धनम् ।
जहि दोषैर्यया सर्वे गुणा जीवस्य संवृताः ॥‘‘इति तन्त्रभागवते ॥
‘श्रीः परा प्रकृतिः प्रोक्ता ब्रह्माणी त्ववरा ततः ।
उमाशचीमुखास्तस्या अवराः सम्प्रकीर्तिताः ॥
अथान्ये प्रकृती दुष्टे नृषु प्रातिस्विकं स्थिते ।
स्वगुणाच्छादिका त्वेका परमाच्छादिकाऽपरा ।
स्वगुणाच्छादिकां हत्वा परमाच्छादिकां परः ।
व्याघुट्य मोक्षपदवीं ददाति पुरुषोत्तमः ॥
अजे द्वे अपि ते प्रोक्ते अनन्ताच्छादिनी हरेः ।
न विष्णुं छादयत्येषा तज्ज्ञानं छादयेत्परम् ।
जीवस्यैव न तत्रापि ब्रह्मादेरस्ति सा क्वचित् ॥
सर्वावरे ते प्रकृती सततं दुःखितेऽपि च ।
पिशाचवत्समुद्दिष्टे पुरुषस्याधिकारिणः ।
प्रेरकास्तु तयोर्देव्यः इन्दिराद्याः सुखात्मिकाः ॥‘‘इति महातत्त्वविवेके ।
‘राजवज्जयशब्दाद्याः नित्यबुद्धस्य बोधनम् ।
विडम्बमात्रं क्वैवास्य निद्रा विद्यापतेर्हरेः ॥ “इति कापिलेये ॥
दोषैर्दुःखाद्यैर्जीवगुणाः आनन्दाद्याः आवृताः यया सा दोषगृहीतगुणा ॥ त्वमसि यदात्मना समवरुद्धसमस्तभगः । यस्मात्त्वं स्वत एवानपगत-पूर्णैश्वर्यादिगुणोऽसि । अतस्त्वदाभासस्य जीवस्य प्रकृतिगृहीतत्वादेव नैश्वर्याद्याः गुणाः अवभासन्ते ॥ जगदोकसां श्रीब्रह्मादिनामप्यखिल-शक्त्यवबोधक । क्वचित्सृष्टिकाले आत्मना जीवेन प्रकृत्या च प्रवर्ततस्ते अनुचरेद्वेदो विधिनिषेधरूपेण । अन्यदा स्तुतिमात्रो न तु जीवानां प्रयोजकः ॥ तस्मात्सृष्टिं कृत्वा वेदैर्जीवान् बोधयित्वा तत्स्थामजां जहि ॥
‘जय जय हन हन प्रकृतिं द्रावय द्रावय भिन्धि भिन्धि दुःखं तमोऽरतिम् । अजित परम रमेशान वासुदेव वैकुण्ठ नारायण हृषिकेशानया हि जीवगुणा विसंवृताः अधिसंवृताः ॥ एष ह्यानन्दोऽजरोऽमरोऽधि-शक्ति-मांस्त्वदाभासस्त्वया तथाऽधिसम्भाव्यो यतः परः परमेश्वरः परज्ञानः परानन्दः परशक्तिः परश्रीः परयशाः परप्रवृत्तिः नित्यमेव । त्वं स्वतोऽसि त्वं रमायाः त्वं विरिञ्चिस्य रुद्रेन्द्रसूर्यसोममुखानामदभ्रशक्तिदोऽसि प्रवत-कोऽसि निवर्तकोऽसि अनोऽस्यनन्तोऽसि सृजतो हि ते श्रुतयोऽनु-वर्तन्ते नैवासृजतः । कं वा विदधते कं वा निषेधन्ति स्तुतिमात्रा एव ते स्युः प्रभो विभो समास्व व्यास्वोत्तिष्ठ प्रचर विचर सन्धिनु सन्धिनु मा ते क्षणो त्यागान्मते क्षणोत्यृगादिति “शाण्डिल्यश्रुतिः ॥
‘लयस्य त्वष्टमो भाग सृष्टिकाल उदाहृतः ।
तत्रैव वेदसंचारो ह्यन्यदा स्तुतिमात्रकाः’’। इति नारदीये ॥
‘सृष्टिकाल एव गुणवृत्तयः । सर्वदा निर्गुणे परमेश्वर एव वर्तन्ते श्रुतयः’‘इति ‘कथं चरन्ति श्रुतयः’‘इत्यस्य परिहारः ॥
यत्प्राप्त्यर्थं यन्नियमाद्विधिनिषेधा वर्तन्ते । स त्वमित्यादिविधिनिषेधानां स्तुतिपरत्वम् ।
‘विध्यादीनां नियन्ताऽयं पूज्यः प्राप्यश्च तद्वताम् ।
इत्यादिस्तुतिरूपेण विध्यादिश्रुतयोऽपि तु ।
हरिं वदन्ति सर्वेषां तन्नामत्वादथापि च’’॥ इति श्रुतिनिर्णये ॥
पृथक्श्रुतित्वान्न पूर्वापरमसम्बन्धः । उपलक्षणत्वादनन्तत्वात् श्रुतीनां सर्वश्रुत्यर्थाेपबंृहितत्वाच्चैतेषां श्लोकानां न सर्वश्रुतीनां पृथगुक्तिः ॥
‘सर्वश्रुत्यर्थसंपन्नान् श्लोकान् सत्यवतीसुतः ।
एकैकशाखास्तुत्यर्थान् जगौ सर्वोपलक्षणान् ।
बबन्ध तान् भागवते प्रतिश्लोकं पृथक् श्रुतीः’’॥ इति तन्त्रभागवते ॥ १३-१५.१ ॥
बृहदुपलब्धमेतदवशेषतया यत उदगास्तमस्यविकृतेऽविकृतः । अत ऋषयो दधुस्त्वयि मनोवचनाचरितं कथमयथा भवन्ति भुवि दत्तपदानि नृणाम् ॥ १६ ॥
अविकृततमोविषये त्वमुदगाः । मूलप्रकृतेरपि त्वमधिको यतः । अतो बृहत्त्वेन ते स्वरूपमुपलब्धम् । इत इदमधिकमितोऽपीदमधिकमिति सर्वाधिकत्वेन ततोऽधिकाभावेनावशेषितत्वेन ॥
‘द्वितीयार्थे तृतीयार्थे चतुर्र्थ्यर्थे च सप्तमी ।
पञ्चम्यर्थे च प्रोक्ता या विषयेति च तां विदुः’’॥ इति महाव्याकरणे ॥
तमसोऽधिको अभवः इत्यर्थः ॥ अतस्त्वं सर्वोत्तम इत्येवम्पराणि त्वयि मनोवचनाचरितानि दधतां नायथा तानि भवति ॥ यथा भूमौ पदं निक्षिपामीति प्रवर्ततो भूमेर्नान्यत्र भवन्ति । उदकवृक्षादेर्भूम्यन्तर्भावात् ।
‘आधारशक्तियुक्तत्वाद्भूरुदं च प्रकीर्ततम् ।
साऽपि वाय्वन्तरङ्गैव स ह्याधारोऽखिलस्य च’’॥ इति महासंहितायाम् ॥
अत इति हेत्वर्थे तथेत्यर्थे च । तस्माद्बृहत्वेनादधुरिति ।
‘अतः शब्दस्तु हेत्वर्थे तथेत्यर्थे च वर्तते ।
उभयार्थे च भवति यथा शब्दविदो विदुः’’॥ इति शब्दनिर्णये ॥
उपलब्धं वेदेेषु ॥
बृहद्धि दृष्टमवशेषितं यत्स्वरूपमीशस्य तमोधिकस्य ।
‘सर्वाधिकत्वेन तमो हि दुर्गा ततस्तथैनं विबुधाः यथाऽगुः’’॥ इत्यौद्दालकायनश्रुतिः ॥
अनिर्देश्यमप्येकदेशेन निर्दिष्टं भवतीत्युक्तं कथमयथाभवन्तीत्यनेन । यथा सर्वां भूमिमसञ्चरन्नप्येकदेशसञ्चारेण भूसञ्चारी भवति तथेति ।
‘निरपेक्षबृहत्त्वस्य ज्ञानाज्ज्ञातं भवेत्परम् ।
बृहत्वमेव तु गुणैः सर्वैरुद्दिश्यते यतः’’॥ इति मान्यसंहितायाम् ॥ १६ ॥ २ ॥
इति सूरयस्त्र्यधिपतेऽखिललोकमल- क्षपणं तव कथामृताब्धिमवगाह्य तपांसि जहुः । किमुत पुनः स्वधामविधुताशयकालगुणाः परम भजन्ति ये पदमजस्रसुखानुभवम् ॥ १७ ॥
अनन्याश्रयत्वात्स्वधामा परमः । तेन विधुताः दुःखाद्याः आशयगुणाः उत्पत्त्याद्याः कालगुणाश्च येषां ते मुक्तास्तापान् जहुरिति किं पुनः । कथामृताब्धिमवगाह्यापि जहुरिति यदिति हेत्वर्थे इति शब्दः ॥
‘त्यजन्ति तापं य उक्ते भवत्कथा इति स्म मुक्ताः किमु ते स्वरूपगाः ।
परावरेशेश पदं भजन्तः परं परानन्दमनारतं ते’’॥ इति इन्द्रद्युम्नश्रुतिः ॥ १७.३ ॥
दृतय इवोच्छ्वसन्त्यसुहृदो यदि ते महदहमादयोऽण्डमसृजन् यदनुग्रहतः । पुरुषविधान्वयोऽत्र चरमोत्तममध्यमादिषु यस्तव सदसतः परं प्रथयेदविशेषमृतम् ॥ १८ ॥
चरमोत्तममध्यमादिषु पुरुषेषु यस्तव स्वरूपं प्रथयेत् । स पुरुषविधं त्वामन्वेति ॥
‘ब्रह्मैव मुक्तिगेष्वादिः सुरास्तदवरोत्तमाः ।
मध्यमा ऋषिगन्धर्वाश्चरमा मानुषोत्तमाः’’॥ इति प्राभावल्याम् ॥
‘असक्तो देहपुर्येष जीववद्देहगोऽपि यत् ।
अथवा पुंविधातृत्वात् पुंविधः पुरुषोत्तमः’’॥ इति पुरुषोत्तमतन्त्रे ॥
अनिशमुच्छ्वसन्त्यसुखोद्भरितास्तव रिपवो दृतिवत्तमसि प्रविष्टाः ।
‘तव गुणप्रथनाः परिहाय तमः परियाति ।
ते पदमजस्रमनन्तसुखम् ॥‘‘इति पैङ्गिश्रुतिः ॥ १८-४ ॥
उदरमुपासते यर्हि वर्त्मनि सूक्ष्मदृशः परिसरपद्धतिं हृदयमारुणयो दहरम् । तत उदगाच्च नन्दनपथाऽथ शिरः परमं पुनरिह यत् समेत्य न पतन्ति कृतान्तमुखे ॥ १९ ॥
यर्हि यस्मात् ब्रह्मवर्त्मनि । सूक्ष्मदृक्त्वाच्छार्कराक्ष्यनामानः । प्राणं प्रत्युरुगृणीहीति वचनादुदरनामकं ब्रह्मोपासते । यस्माच्चारुणयो हृद्ययना-द्धृदयनामकं तस्मादेव तत्समुपेत्य कृतान्तमुखे न पतन्ति । इतरेऽपि । परिसरः प्राणः पद्धतिः मार्गो यस्य सः परिसरपद्धतिः ।
‘कस्मिन्न्वहमुत्क्रान्ते उत्क्रान्तो भविष्यामि । कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामीति । स प्राणमसृजत’’। इति श्रुतिः ॥
प्राण एवैनमनुप्रविशति प्राणमितरा देवताः न प्राणादपरः परमनु प्रविशति प्राण एवैनमनुभुङ्क्ते प्राणमितरा देवताः न प्राणादपरः परमनुभुङ्क्ते प्राण एवैनमन्वानन्दी भवति । प्राणमितरा देवताः न प्राणादपरः परमन्वानन्दी भवति तस्मादाहुः प्राणः पद्धतिः । इति हिरण्यनाभश्रुतिः ।
अतः परिसरस्य पद्धतिरिति वा । ततो हृदः । नन्दनपथा ब्रह्मनाडीद्वारा शिर उदगात् यत् परमं ब्रह्म तत्समुपेत्य । पुनरिहैव हृदादिषु स्थितं यत् ॥
‘तं प्रपदाभ्यां प्रापद्यत ब्रह्मेमं पुरुषं यत्प्रपदाभ्यां प्रापद्यत ब्रह्मेमं पुरुषं तस्मा-त्प्रपदे तस्मात्प्रपदे इत्याचक्षते । शफाः खुरा इत्यन्येषां पशूनाम् । तदूर्ध्व-मुदसर्पत्ता ऊरू अभवतामुरु गृणीहीत्यब्रवीत्तदुदरमभवदुर्वेव मे कुर्वित्य-ब्रवीत्तदुरोऽभवदुदरं ब्रह्मेति शार्कराक्ष्या उपासते । हृदयं ब्रह्मेत्यारुणयो ब्रह्मा हैव ता ई । ऊर्ध्वं त्वेवोदसर्पत्तच्छिरोऽश्रयत यच्छिरोऽश्रयत तच्छिरोऽभवत्तच्छिरसः शिरस्त्वं ता एता शिर्षञ्च्छ्रियः श्रिताः चक्षुः श्रोत्रं मनो वाक् प्राणः श्रयन्तेऽस्मिन् श्रियो य एवमे-तच्छिरसः शिरस्त्वं वेद’’। इत्याद्या श्रुतिः ॥ १९-५ ॥
स्वकृतविचित्रयोनिषु विशन्निव हेतुतया भरतमतश्चकास्स्यनलवत् स्वकृतानुकृतिः । अपि वितथास्वमूष्ववितथोरुविधं मनसि निकटधियो नयन्त्यभिविपत्य तव ॥ २० ॥
विचित्रयोनिषु विशन् जीवः तद्वदज्ञानां चकास्सि ॥ अनलो यथा स्वकृतं दार्वादि तदपनयने गच्छन् तत्स्थापने तिष्ठन्ननुवर्तते ॥ एवमेव स्वकृत-शरीराद्यनुवर्तसे तद्गतः सन् ॥
भरतमतो वायुज्ञातः । अन्यथाभवन्तीष्वपि योनिषु अनन्यथाभूत्वैव बहुविथं तिष्ठन्तं भवन्तं त्वत्समीपस्थबुद्धयो महान्तस्तवाभिपत्य मनसाऽधिगम्य मनसि त्वां नयन्ति ॥
‘रतत्वाद्भात्मके विष्णावथवाऽपि जगद्भृतेः ।
भरतो वायुरुद्दिष्टो भारती तत्सरस्वती’’॥ इति नामसंहितायाम् ॥
‘योनिवेश्याह्वयो जीवस्त्वज्ञानां तद्वदेव तु ।
प्रकाशते परो देवस्तेन यान्त्यधरं तमः ॥
सर्वहेतुतयैवेशं प्राणो जानाति तत्त्वतः ।
तेन चासौ परो देवस्तत्परं याति केशवम् ॥
इन्धनानयने त्वग्निर्यथैवानीयते सह ।
एवं देहगतो विष्णुः सह गच्छेन्निजेच्छया ॥
अशाश्वतेषु देहेषु शाश्वतं बहुधा स्थितम् ।
निचाय्य मनसा सन्तो जानन्ति निकटेच्छवः’’॥ इति तन्त्रभागवते ॥
‘यो जीववद्योनिषु भात्यनन्तो मूढैस्तमोगैर्भरताधिगम्यः ।
निचाय्य तं शाश्वतमात्मसंस्थं तदिच्छवो त्मन् न्यदधुर्महान्तम्’’॥
इति कमठश्रुतिः ॥ २०-६ ॥
प्रक्रमवत् स्वसत्कृतं पुरुषेषु धीषु तु बहिरन्तरसच्चरणे ।
तव पुरुष वदन्त्यखिलशक्तिधृतः स्वकृतम् ॥ २१ ॥
सर्वपुरुषेषु सर्वधीषु च स्थित्वा श्रीब्रह्मादिषु प्रकर्षेण क्रमेण स्वात्मनैव सत्कृतम् ॥ अण्डाद्यन्तर्बहिश्च । असच्चरणे पापाचारे स्थित्वा पापाचारमपि स्वात्मनः पूजात्वेनैव कारयन्तं त्वां वदन्ति ॥ तस्याधोगत्यर्थम् । तस्मात्सर्वं तव स्वकृतमेव वदन्ति ॥
‘निषुसीद गणपते गणेषु त्वामाहुर्विप्रतमं कवीनाम् ।
न ऋते त्वत् क्रियते किं च नारे महामर्कं मघवन् चित्रमर्च’’॥
इत्याद्या श्रुतिः ॥
‘श्रीब्रह्मरुद्रपूर्वेषु क्रमात्स्थित्वा जनार्दनः ।
स्वात्मानमर्चयत्यद्धा बहिरन्तरसत्सु च ॥
असतामधमाचारो हरिदृष्ट्याऽऽत्मपूजनम् ।
तस्याधोगमनायेति श्रुतिराहाखिलक्रियम्’’॥ इति तन्त्रभागवते ॥
स्वकृतमित्यनन्यापेक्षया ॥ २१-७ ॥
इति विमृशन्ति कवयो निगमावपनं यजन्त उपासते भवमध्यविनिश्वसिताः । दुरवगमात्मतत्वनिगमायतवाङ्मनसश्चरित- महामृताब्धिपरिवर्तपरिश्रमणाः॥ २२ ॥
भवमध्यविनिश्वसिताः इति यतः । अतो विमृशन्ति कवयो निगमावपनं त्वाम् ॥ चरितमहामृताब्धिपरिवर्तपरिश्रमणाः इति यत् । अतो भवमध्य-विनिश्वसिताः । मुक्ताः निगमानामावपनं स्थानं त्वां विमृश्य यज्ञादिभि-र्भजन्त उपासते ॥ निगमविषये आयतवाङ्मनसः । निगमानां ततो व्यक्तेस्तत एव फलप्रदत्वात्तद्विषयत्वाच्च निगमावपनम् । परिवर्तो मथनम् ॥
‘विमथ्य वेदाब्दिमतिश्रमेण ज्ञात्वा परेशं मुनयो विमुक्ताः ।
मृशन्ति यज्ञैश्च यजन्ति नित्यं उपासते वेदफलप्रदं तम्’’॥ इति कुशिकश्रुतिः ॥ २२-८ ॥
न परिलषन्ति केचिदपवर्गमपीश्वर ते चरणसरोजहंसकुलसङ्गविसृष्टगृहाः ।
त्वदनुपथं कुलायमिदमात्मसुहृत् प्रियवच्चरन्ति तथोन्मुखास्त्वयि हि ते प्रिय आत्मनि च ॥ २३ ॥
त्वत्प्राप्त्यनुसारित्वाच्छरीरं प्रियवत् पश्यन्ति । सर्वप्रियतमे सर्वादानादि-कर्तरि च त्वयि । तथा हि तेऽभिमुखाः ॥
‘न किञ्चिदभिवाञ्छन्ति यतयः सुसदाश्रयाः ।
प्रेष्ठस्य परमस्याप्त्यै प्रियवद्देहदृष्टयः’’॥ इति विमदश्रुतिः ॥ २३-९ ॥
न च रमन्त्यहो असदुपासनयाऽऽत्महनो यदनुशया भ्रमन्त्यभवाः कुशरीरभृतः । निभृतमोक्षहृदययोगयुजो हृदयं मुनय उपासते तदरयोऽपि ययुः ॥ २४ ॥
अन्यथोपासनयाऽऽत्महनोऽसुर्यान्नाम लोकान्नित्यनिरतिशयदुःखान्निरस्त-समस्तसुखान् प्राप्नुवन्ति । तदेतन्न च रमन्ति अनुभवन्ति च । नित्यदुःख-मिति चशब्देनोक्तम् । असुर्यशब्देन च श्रुतौ । सुष्ट्वरमणरूपत्वादसुर-प्राप्यत्वाच्च । यत्रानुशयनं कुर्वन्तस्तमस्येव भ्रमन्ति । अभवा जन्म-वर्र्जिताः ॥
आत्महन इत्येषशब्दो भगवद्भक्तद्वेषिणामपि सम इति दर्शयति ॥ निभृत-मोक्षहृदययोगयुज इत्यादिना । ये मुनयो हृद्ययनं भगवन्तं निभृतमोक्ष-हृदयेन वायुना योगेन युक्ताः नियमिताः सन्तः उपासते तेषामरयोऽपि तदेव तमो ययुः । परिपूर्णमोक्षार्थं ज्ञानं यस्य सः निभृतमोक्षहृदयः ।
‘असुर्या नाम ते लोका अन्धेन तमसाऽऽवृताः ।
तांस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः’’॥ इति श्रुतिः ।
‘नित्यदुःखसुसम्पूर्णं निरस्तानन्दमव्ययम् ।
तमो यान्त्यन्यथाज्ञानाद्द्वेषाद्वा हरिसंश्रये’’॥ इति प्राणसंहितायाम् ॥
‘निभृतो मोक्षवित्प्राणस्तद्योगात्तत्प्रसादतः ।
जानन्ति परमं देवं नान्यथा तु कथञ्चन’’॥ इति भागवतसंहितायाम् ॥ २४-१० ॥
स्मरणात् स्वनुराग तद् भवान् उरगेन्द्रभोगदण्डविषक्तधियो वयमपि ते समासमदृशोऽङ्घ्रिसरोजसुधाम् । क इह नु वेद वक्तुमपेतजन्मलयो यत उदगाद् ऋषिरनु देवगणा उभये ॥ २५ ॥
हे स्मरणादेव स्वनुरक्त तत्ते स्वरूपं भवानेव वेद । उरगेन्द्रभोगदण्डे विषक्तबुद्धेस्तेऽङ्घ्रिसरोजसुधां वयमपि समासमदृशः । सर्वमाहात्म्यस्य वेदैरपि वक्तुमशक्यत्वादसमदृशः वेदागम्यमाहात्म्यस्यापि वेदैरेव गम्यत्वा-त्समदृशः ॥ अतः कोऽन्यो वक्तुं वेद । को ह्यस्मांस्त्वां चर्तेऽपेतजन्मलयः यतः उदगादुत्पत्तिमानेव ऋषिर्ब्रह्मा । प्राप्तपदा अप्राप्तपदाश्च देवगणाः ।
‘त्वं वेत्थ नापरस्ते स्वरूपं न
नित्यवाङ्नागभोगप्रियस्य ।
कुतो ब्रह्मा प्राप्तलोकाश्च देवास्तथाऽप्राप्ता
जनिमन्तो यतोऽस्मात् ॥ इति सङ्कृतिश्रुतिः ।
‘महिम्नः सर्वशोऽनुक्तेर्वेदाश्चासमदर्शिनः ।
तस्यापि वेदगम्यत्वात्तथैव समदर्शिनः’’॥ इति तन्त्रभागवते ॥ २५-११ ॥
तर्हि न सन्न चासदुभयं न च कालजवः किमपि न तत्र शास्त्रमपकृष्य शयीत यदा । जनिमसतः सतो मृतिमजात्मनि ये च भिदां विपणमृते स्मरन्त्युपविश ध्वनिमारुवतः ॥ २६ ॥
शास्त्रमपकृष्य प्रलये शास्त्रस्य प्रवृत्त्यभावात् । असतः सूक्ष्मरूपात्सतः स्थूलरूपस्य परमेश्वरपर्यन्तं यथाक्रमं जन्म मृतिं च सर्वस्मात्परमात्मनि भेदं च विपणं फलापेक्षामृते ये स्मरन्ति तेषां ध्वनिमुपविश । आरुवतो वायोः प्रसादात्तथा स्मरन्ति ॥
‘नासदासीन्नो सदासीत्तदानीं नासीद्रजो नो व्योमा परो यत् ।
किमावरीवः कुह कस्य शर्मन्नम्भः किमासीद्गहनं गभीरम्’’॥ इत्यादिश्रुतिः ॥
‘सूक्ष्माणि महदादीनि स्थूलान्यण्डादिकानि च ।
उभयं त्वग्निरापश्च न किञ्चित्प्रलयेऽभवत्’’॥ इति प्रकाशसंहितायाम् ॥
‘सर्ववेदादिरूपेण प्राणस्यारुवतः सदा ।
प्रसादाद्ये विजानन्ति सूक्ष्मात् स्थूलजनिं क्रमात् ।
मृतिं च सर्वजीवादेरीशस्य व्यतिरिक्तताम् ।
जानन्ति ये निराकाङ्क्षाः तेषां वाचि जनार्दनः’’॥ इति तन्त्रभागवते ॥ २६-१२ ॥
त्रिगुणमयः पुमानिति यदबोधकृता त्वयि न तु भवेत् तदवबोधरसे । सदिव मनस्त्रिवृत् त्वयि भवत्यसतां मनुजा- दयो विमृशन्त्यशेषमिदमार्ततयाऽऽत्मविदः ॥ २७ ॥
अबोधकृता त्रिगुणबद्धता । यस्माज्जीवस्यापि तस्मात्तदवबोधरसे त्वयि सा न विद्यते । त्रिगुणात्मकं मनस्तवापि विद्यते इत्यसतां पक्षः । मनुजा-नामादयो देवास्त्रिगुणातीतत्वाद्भवतो भवानेव परमानन्दः । त्वदन्यत्सर्वं जीवजातमार्तमित्येव विमृशन्ति ।
‘सत्वादिजं देहमथो मनश्च सत्वादिबद्धं च वदन्त्यसन्तः ।
परं पुमांसं न सुरास्तु तैर्हि जीवाः सुदृष्टा परमार्तरूपाः’’॥ इति सूकरायणश्रुतिः ॥
‘त्रैगुण्यदेहेन्द्रियकमासुरा जानते हरिम् ।
त्रिगुणातीतमीशेशमतः पूर्णसुखं सुराः ॥
जानन्ति गुणबद्धत्वाज्जीवानार्तांश्च कृत्स्नशः ।
अनार्तस्य प्रसादेन तेषामार्तिविनाशनम्’’॥ इति चैतन्यविवेके ॥ २७-१३ ॥
न हि विकृतं त्यजन्ति कनकस्य तदात्मतया स्वकृतमनुप्रविष्ट इदमात्मतया रसितम् । तव ये परिचरन्त्यखिलतत्वनिकेततया ननु ते पदाऽऽक्रमन्त्यविगणय्य शिरो निर्ऋतेः ॥ २८ ॥
यथा कनकस्य विविधकृतं कुण्डलादिकं कनकं विना परित्यक्तुं न शक्यते तथा स्वकृतं जगदनुप्रविष्टो भगवान् मूलरूपं विना परित्यक्तुं न शक्यः । आत्मतया एकरूपत्वात् । रसितं आत्मना प्रकाशितं जगत्प्रविष्टस्तस्मा-त्सर्वगतो विष्णुरिति ज्ञातव्य इत्यर्थः । इत्थं ये ज्ञात्वा परिचरन्ति तव स्वरूपं ते ऋतात्मकब्रह्मप्राप्तिविरुद्धत्वान्निर्ऋत्याख्यसंसारस्य शिरः स्फुटं पदाऽऽक्रमन्ति ।
‘सर्वगं ये प्रपश्यन्ति ब्रह्मानन्दमजाक्षरम् ।
एकमेवाद्वयं नित्यं निर्ऋतेस्ते शिरो गताः’’॥
इति सौकरायणश्रुतिः ॥
‘यथैव कुण्डलं त्यक्त्वा नादातुं कनकं शकम् ।
तस्यैव तदवस्थत्वात्केवलाभेदतः स्पुटम् ॥
एवं सुरासुरनरेष्वास्थितो भगवान् हरिः ।
नैव भेदेन मन्तव्यो जीवभेदे तु सत्यपि ॥
ये तथाऽभिन्नमीशेशं पश्यन्ति परमर्षयः ।
ऋतप्राप्तिविरुद्धत्वात्संसारनिर्ऋतेः शिरः ॥
अगणय्य पदाक्रम्य वैष्णवं निलयं ययुः’’॥ इति गारुडे ॥ २८-१४ ॥
परिवयसे पशूनिव गिरा विबुधानपि तां- स्त्वयि दृढसौहृदा ननु पुनन्ति न ते विमुखाः । त्वमेकः स्वराडखिलकारकशक्तिधर- स्तव बलिमुद्वहन्ति समदन्ति च येऽनिमिषाः ॥ २९ ॥
वयति गा इव यः सुरादिकांस्तन्मनसो जगदपुनन् शुचयो न परे ।
‘स एकः ईशः परिपूर्णशक्तिर्बलिं हरा इतरे स्युः सुराः सुखिनः’’॥ इत्यारुणिश्रुतिः ॥
‘विष्णुना देवता बद्धाः विष्णवे च बलिप्रदाः ।
विष्णुरासां पतिर्नित्यं न विष्णोर्बन्धकः क्वचित्’’॥ इति वामने ॥ २९-१५ ॥
वर्षभुजोऽखिलक्षितिपतेरिव विश्वसृजो विदधति यत्र ये त्वधिकृता भवतश्चकिताः । स्थिरचरजातयः स्युरज ये त्वनिमित्तयुजो विरह उदीक्षयेत् यदि परस्य विमुक्तसतः ॥ ३० ॥
स्थिरचरजातयो ये तेऽनिमित्तयुजः स्युः । भगवन्नियमादेव संसारयुजः स्युः । विरहे मुक्तौ । यदि परस्य सकाशान्मुक्तिरेवेत्युदीक्षयेत्स परः । विमुक्ताः सन्तो येन परेण तस्य विमुक्तसतः । ‘नान्यः पन्था अयनाय विद्यते’‘इति श्रुतिः । मुक्तिस्तस्मादेवेत्यङ्गीकर्तव्यम् । अतो बन्धोऽपि तत एवेत्यर्थः ।
‘सतां विमुक्तिदाद्विष्णोर्मुक्तिर्यद्यभ्युपेयते ।
बन्धोऽपि तत एव स्याद्यस्मादेकस्तयोः पतिः’’॥ इति स्कान्दे ॥
‘आत्मानं मुक्तिदं विष्णुः यदि पुंस उदीक्षयेत् ।
सुप्रसन्नस्तदा बन्धस्तत एवेति सेत्स्यति’’॥ इति ब्राह्मे ॥
खण्डाधीशाः सार्वभौमस्य यद्वद्ब्रह्मेशाद्याः कुर्वते तेऽनुशास्तिम् ।
त्वं मुक्तिदो बन्धदोऽतो मतो नस्त्वं ज्ञानदोऽज्ञानदश्चासि विष्णो ॥ इत्युदारशाण्डिल्यश्रुतिः ॥ ३०-१६ ॥
न हि परमस्य कश्चिदपरोऽनपरस्य भवेत् व्ययत इवात्र यस्य च शून्यतुल सन्दधतः । अपरिमिता ध्रुवास्तनुभृतो यदि सर्व ततो न हि न शास्यतेति नियमो ब्रुवते च तथा ॥ ३१ ॥
यस्य परमस्य ते कश्चिदपरः स्वतन्त्रो नास्ति । अनपरस्य प्राणोत्तमस्य । अत्र जीवसमुदाये । व्ययतः विशेषेणायतः सर्वज्ञस्य यथा प्राणस्य नापरः स्वतन्त्रः तद्वत्प्राणः श्रीरन्योेेे वा त्वां विना स्वतन्त्रो नास्ति ॥ हे शून्यतुल समानवर्जित । सर्वं संदधतस्ते ॥ यदि त्वत्तः प्राणात्तनुभृतो जीवा ध्रुवास्तर्ह्यपरिमिताः सन्ति । हे सर्व पूर्ण । ‘एकमेवाद्वितीयम्’’। ‘एकं परंज्योतिरन्यन्यमद्वयम्’‘इत्यादिनियमो जीवानां शास्यता नेत्यत्र नहि । किन्तु स्वगतभेदस्य ईश्वरान्तरस्य अतत्तन्त्रस्य निषेधे । ‘अतोऽन्य-दार्तम्’’॥ ‘नेह नानास्ति किञ्चन’’। ‘न तत्समश्चाभ्यधिकश्च दृश्यते’‘इत्यादि तथा ब्रुवते च ॥
‘तव स्वतन्त्रो नापरो तद्वदत्र प्राणान्नान्यस्तुल्यशून्यस्य सन्धिन् ।
प्राणाधीना अमिता जीवसङ्घाः प्राणो वशे ते प्रकृतिश्च भूमन् ॥"-इति महाशालीनश्रुतिः ।
‘स्वतन्त्रो नापरः कश्चिद्विष्णोः प्राणपतेः प्रभोः ।
यथा प्राणात् परो नास्ति स्वतन्त्रो जगति क्वचित् ॥
तथा प्राणो रमा चैव न विष्णोः पृथगीश्वरौ ।
यद्युच्यन्ते प्राणतन्त्राः बहवः पुरुषा इति ॥
सत्यमेव ह्मसङ्ख्याताः न नियम्यनिषेधकाः ।
एकाद्वितीयश्रुतयः किन्त्वीशान्तरवारकाः ॥
तथा स्वगतभेदस्य तदतन्त्रनिषेधकाः ॥ इति ब्रह्माण्डे ॥
‘स्वरूपमस्मरत्कृष्ण एकं स्वस्मिन्नभेदतः ।
अतत्तन्त्रस्य राहित्यादनन्यं सदृशोज्झितेः ॥
अद्वयं नित्यनिर्वृत्या भावनिर्वृतिमीश्वरम्’’॥ इति तन्त्रभागवते ॥
‘अधिकस्य समस्यापि स्वतन्त्रस्य च वर्जनात् ।
एक एवाद्वितीयोऽसौ न शास्यजनवर्जनात् ॥ इति कौर्मे ॥ ३१-१७ ॥
अजन परिमुच्यतेऽत्र भवात् सततात् सममनुजानता ततमनन्तमदुष्टतया । न घटत उद्भवः प्रकृतिपूरुषयोरजयो- रुभययुजोर्भवन्त्यसुभृतो जलबुद्बुदवत् ॥ ३२ ॥
अनन्तमदुष्टतयाऽनुजानताऽऽचार्येण सन्तताद्भवात्परिमुच्यते ॥ अबद्धश्च प्रकृतिपरेशौ विनाऽन्यो न विद्यते । यतस्तयोरेवोद्भवो न घटते । ततस्तयोरजयोरसुभृत उद्भवन्ति ॥ देशतः कालतश्च यत्र परमस्तत्र प्रकृतिर्यत्र प्रकृतिस्तत्र परम इत्युभययुजोः ।
‘मुच्यते तत्वसंबुद्धादाचार्यात्पुरुषो भवात् ।
एतावेव स्वतोऽबद्धौ परमः प्रकृतिस्तथा ॥‘‘इति कलापश्रुतिः ॥
‘सम्यग्ज्ञानवदाचार्यान्मुच्यते पुरुषो भवात् ।
द्वावेव नित्यमुक्तौ तु प्रकृतिः परमस्तथा’’॥ इति वामने ॥
‘देशतः कालतश्चैव समव्याप्तावुभावजौ ।
ताभ्यामुभययोगाभ्यां जायन्ते पुरुषाः परे’’॥ इति कौण्ठरव्यश्रुतिः ॥ ३२-१८ ॥
त्वयि त इमे ततो विबुधनामगुणाः परमे अमृत इवार्णवे मधु निलिल्युरशेषरसाः । नृषु तव मायया स्वगतया कुशलं त्वयि सुधियोऽङ्ग भेदमनुविधातुमनु प्रभवः । कथमनुवर्तिनां भवभयं तव भ्रुकुटी सृजति मुहुर्नृणाम् ॥३३॥
हे तत ओ । त इमे विबुधनामार्थभूता गुणास्त्वयि निलिल्युः । परमेऽ-मृतार्णवे मधुन्यशेषरसा इव । अतः पूर्णगुणत्वाद्भवतो नृणां मध्ये सुधियः । तव मायया त्वदिच्छयैव । त्वयि कुशलं विधातुं प्रभवः । तत्र कुशलं भेद एव । सर्वस्मादन्यो विशिष्टगुणः पर इति दर्शनम् ॥ स्वगतया सुष्ठु अन्यैरनवगतया । तथा त्वत्प्रसादादनुवर्तिनां कथं मुहुर्भवभयं तव भ्रुकुटी सृजति ॥
‘यो नः पिता जनिता यो विधाता धामानि वेद भुवनानि विश्वा ।
यो देवानां नामधा एक एव तं सम्प्रश्नं भुवना यन्त्यन्या’’॥
‘त आऽयजन्त द्रविणं समस्मा ऋषयः पूर्व जरितारो न भूना ।
असूर्ते सूर्ते रजसि निषत्ते ये भूतानि समकृण्वन्निमानि’’। इत्यादिश्रुतिः ॥
‘ब्रह्मेशेन्द्रादिसन्नाम्नां येऽर्थभूता गुणा मताः ।
पूर्तीशीतृत्वद्रष्टृत्वप्रमुखास्ते हरेः सदा ।
अतस्तु सर्वनामाऽसौ सर्वकर्ता च केशवः’’॥ इति पाद्मे ॥
‘आनन्दत्वादनामासावुत्कृष्टत्वादुनामकः ।
एतन्नामद्वयं विष्णोर्ज्ञात्वा पापैः प्रमुच्यते’’॥ इति स्कान्दे ॥
‘अन्याविज्ञातया विष्णोः शक्त्यैव कुशलं जनाः ।
कुर्वन्ति कुशलेषूच्चं भेददर्शनमेव च ॥
पूर्णानन्दादिसम्पत्तिं विष्णोर्ज्ञात्वेतरेषु च ।
तदपेक्ष्य विप्लुण्मात्रत्वज्ञानं तद्भेददर्शनम् ॥
अनाद्यनन्तभेदोऽयं स्वभावः परजीवयोः ।
स्वतो वा परतो वापि न कदाचित्प्रणश्यति ॥
एवं ज्ञानवतां विष्णुर्बहुजन्म न दास्यति ।
अनुवृत्तिर्यद्यनल्पा स हि सर्वेश्वर प्रभुः’’॥ इति प्रमाणसंहितायाम् ॥
‘यः पिता जनिता चैव कल्पको नित्यपोषकः ।
प्रापकः सर्वदेवानां पदानां पुरुषोत्तमः ॥
सर्वदेवाभिधावाच्यो भूतभव्यभवत्प्रभुः ।
विचार्य सर्ववेदैश्च ब्रह्माद्याश्च यजन्ति च ॥
त्रिगुणात्मकस्य स्रष्टारः तथाऽपि न यजन्ति तम् ।
यतः पूर्णेशशक्त्यैव तेषां यजनमिष्यते ॥
अतः सर्वेश्वरो विष्णुरेक एव महागुणः’’॥ इति महासंहितायाम् ॥ ३३-१९ ॥
इह भवच्चरणेषु सुजातभुवो जितहृषीकवायुभिरुदात्तमहत्तुरगैः । य इह यतन्त्यमतिलोलमुपायविदो व्यसनशताब्धितारमपहाय गुरोश्चरणम् ॥ ३४ ॥
वणिज इवोच्छ्वसन्त्यकृतकर्णधरा जलधौ स्वजनसुतात्मदारधनधामधराः । सुखशान्तिमति त्वयि हि सन्ति न तानि नृणां विभव उद्यति श्रयत आत्मनि सर्वरसे ॥ ३५ ॥
भवच्चरणेषु सुष्ठु जातस्थानाः उत्तमयोग्यतायुक्ताः । हृषीकाण्येव महत्तुरगाः । वायुरेवोदात्तः ।
‘रथोपरि स्वीकरणादुदात्तः सारथिर्मतः’’॥ इति व्यासनिरुक्ते ॥
‘जयो विष्णोश्च वायोश्च भक्त्या तत्प्रीतिसाधनम् ।
जगदीशयोः कुतो ह्येनोः सर्वशक्त्योर्बलाज्जयः’’॥ इति पवनविजये ॥
तेषां तानि साधनानि सुखस्यापि शान्तिमति पूर्णसुखे त्वयि न सन्ति ॥ गुर्वभावात् ॥
विभवे जीवन्मुक्ते गुरावुद्यति उपदिशति सति सर्वरसे परमात्मनि श्रयत एव ॥
‘यस्य देवे पराभक्तिर्यथा देवे तथा गुरौ ।
तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः’’। इति श्वेताश्वतरश्रुतिः ॥
‘देवा अपि सुयोगाढ्याः यतन्तः सर्वसाधनैः ।
पुत्रदारादिभिस्सार्धं नोच्छ्वसंतीह संसृतौ ॥
गुरोरनुग्रहमृते साधनं न हरेः प्रियम् ।
गुरूपदेशात्तु परं प्राप्नोत्येव न संशयः ॥
षण्णवत्यङ्गुलो यस्तु तालास्यो दशतालकः ।
दशप्रादेशकः सप्तपादो हस्तचतुष्टयः ॥
कलमत्रयाङ्गुलश्चैव वाग्मी सन्देहवर्जितः ।
वासुदेवैकशरणो गुरुरित्युच्यते बुधैः ॥
गुरुलक्षणसम्पूर्णः साक्षादेव चतुर्मुखः ।
ततः शेषेन्द्रवह्न्याद्याः क्रमेणैव प्रकीर्तिताः’’। इत्यादि गुरुविवेके ॥
‘देवा योग्यतया जाताः विष्णुपादाम्बुजाश्रयाः ।
तथाऽपि साधनैस्तेषां तत्प्राप्तिर्गुर्वनुग्रहात् ॥“इति तत्वोद्योगे ॥ ३४,३५ २०-२१ ॥
इति सदजानतां मिथुनतो रतये चरतां सुखयति को न्विहाद्य विजने स्वनिरस्तभगे । भुुवि पुण्यतीर्थसदना ह्यृषयो निविशन्त्यतस्तु भवतः पदाम्बुजं हृदाऽघभिदम् । दधति सकृन्मनस्त्वयि चिदात्मनि नित्यसुखे न पुनरुपासते पुरुषसार हरावसथम् ॥ ३६ ॥
इति लोके परिदृश्यमानप्रकारेण । चरतां, विजने मोक्षविषये कः सुखयति । सुष्ठ्वनिरस्तभगे । अतस्त्वामेव सन्तं ज्ञात्वा भवतः पदांबुजं हृदा निविशन्ति । हरावसथमहङ्कारं न कुर्वन्ति ॥
‘ब्रह्माज्ञात्वेति लोकप्रवृत्तिं प्रवर्ततां को नु मोक्षं ददाति ।
अतो ब्रह्मोपासतेे साधु धीरा नाहम्भावस्तेषु रुद्राधिवासः’’॥ इति महारवश्रुतिः ॥
‘महाभाग्यं तु कैवल्यमज्ञानां कः प्रदास्यति ।
अतः सन्तो विजानन्ति हरिं ते त्वनहङ्कृताः ॥‘‘इति स्कान्दे ॥ ३६-२२ ॥
इदमप्यथो वदन्ति चे- न्ननु तर्का व्यभिचरन्ति क्वचित् क्वचिन्मृषा च । ततो भयदृग्व्यवहितये विकल्प उषितोऽन्वहमन्धपरम्परया भ्रमति भारती च तवोरुवृत्तिभिरूढजवा ॥ ३७ ॥
न यदिदमग्र आस न भविष्यदतो निधना- दनिमित्तकमन्तरा त्वयि विभाति मृषैकरसे । अत उपगीयते द्रविणजातिविकल्पपथै- र्वितथमनोविलासमिदमित्यवयन्ति बुधाः ॥ ३८ ॥
इदं अपि अपालकं ईश्वरवर्जितम् । न मत्तोऽन्य ईश्वरश्चेतनत्वादित्यादितर्कैः वदन्ति चेत् । अथो इत्यनेन तदपि वचनं भगवत्प्रेरणयैव इत्युक्तम् ।
‘तस्मादथो अथेत्येतद्धेत्वर्थं समुदीरितम्’‘इति शब्दनिर्णये ।
‘असत्य-मप्रतिष्ठं ते जगदाहुरनीश्वरम्’‘इति च ।
वेदोक्तो जीवव्यतिरिक्तेश्वरो न तर्कैरपनेतुं शक्यः । यतस्तर्का व्यभिचारिणः । मृषैव क्वचित्तर्कः । इष्ट-साधनादितर्कस्तु व्यभिचारी । शरीरसम्मित आत्मा इत्यादि दर्शन-परिकल्पितस्तु मृषैव ।
ततो भयबुद्धीनां बुद्धिव्यवहितये भवन्ति । न तु धीराणाम् । विकल्पः वेदविरुद्धकल्पना । अन्धपरम्परयैवान्वहमुषितः । यस्माद्भारत्यपि भ्रमति बहुधा वदति ॥
‘बहूक्तिरन्यथाज्ञप्तिः परिवृत्तिश्च कथ्यते ।
भ्रम इत्येव विद्वद्भिः तथा चङ्क्रमणं क्वचित्’’॥ इति शब्दनिर्णये ॥
उरुवृत्तिभिरूढजवा अनन्तगुणकर्मत्वाद्भगवतः बहुगुणकर्माणि वक्तुं वेगवती वेदवाक् । अतो वेदेऽपि बहुधा वचनात्तदर्थनिर्णयाभावाद्विरुद्ध-कल्पना युक्ताऽसुराणाम् ।
यस्माद्गर्भस्थस्य जीवस्येश्वरत्वं नास्ति । अतो निधनानन्तरं च नरकादि-गमनान्न विद्यते । अनिमित्तकं भगवन्निमित्तमेव तस्यान्तरा भाति मृषा त्वयि जीवे । न तु वस्तुतस्त्वं जीवः । एकरसे प्रधानसारे । न च जीवो वस्तुतः सर्वोत्तमसारः । मृषैव तथा मन्यन्ते ।
अतो भ्रान्त्या द्रविणवानभिजन्मवानित्यादिविरुद्धकल्पनापथैरुपगीयते । यतो भवानेव द्रविणवान्यतश्च तपोदमाद्या अभिजन्मकारणभूता गुणाश्च भवत एव । अतो मिथ्यामनोविलासं जीवेश्वरत्वं बुधा अवयन्ति ॥
‘गुणा एवाभिजात्याख्यास्तद्वानेवाभिजातिमान् ।
अतोऽभिजात्यवान् विष्णुस्तदन्ये तूपचारतः’’॥ इति शब्दनिर्णये ॥
‘ये जीवमीशं प्रवदन्ति तर्कैस्तच्चेश्वरो वचनं सन्दधाति ।
नासीदादौ मरणे नोऽभविष्यन्मृषा ततो हीशितृत्वं स्वपेषु’’॥ इति विपरीतश्रुतिः ॥
‘ये जगत्प्रवदन्त्यज्ञाः जीवादन्येशवर्जितम् ।
तेषामपि तु तां वाचमीश एव ददात्यजः ॥
न च तर्कैर्भवेदीशो जीवो वेदविरोधतः ।
व्यभिचारिणो यतस्तर्का इष्टसाधनगा अपि ॥
क्वचित् क्वचिन्मृषा तर्काः कणादादिप्रदर्शिताः ।
तत्वनिर्णयभीरूणां व्यवधानकरास्ततः ॥
नै व तु स्थिरबद्धीनां कुर्युस्ते बुद्धिचालनम् ।
पारम्पर्येण चाज्ञानामुक्त्या लोकेषु विस्तृतम् ॥
पठ्यते चाप्यहरहर्न तु विद्वन्मुखोद्गतम् ।
अनन्तगुणकर्मत्वादीशस्योक्तौ सुवेगिता ॥
वक्त्यभेदमिवाज्ञानां नाभेदं कुत्रचिच्छ्रुतिः ।
एक आत्माद्वयेत्यादिपदानामर्थनिर्णये ॥
न वर्तते श्रुतिर्यस्माद्गुणान्तरकुतूहलात् ।
अथवा मोहनार्थाय सुरारीणामनर्हतः ॥
कुत्रचिन्निर्णयवचः सुराणामर्थसिद्धये ।
न हीशितृत्वं गर्भस्थे नाप्यसौ निरयोपगे ॥
मृषा तदीश्वराभेदः सर्वोत्कर्षश्च जीवगः ।
धनवत्वं च कर्तृत्वं बलवत्त्वं च विष्णवि ॥
अतो जीवेश्वराभेदं मिथ्येति कवयो विदुः’’॥ इति तन्त्रभागवते ।
‘जीवस्य जगतश्चैव यदीशाभेदतो वचः ।
अतात्विकं जगच्चेति विष्ण्वधीनत्ववाचकम् ॥
अभेदस्तु कुतस्तस्य परमस्यावरेण तु ।
मिथ्यात्वं च कुतस्तस्य जगतो नित्यवर्तनात्’’॥ इति वाराहे ॥ ३७,३८ ॥ २३,२४ ॥
उदगात् पुमाननुगीतगुणांश्च जुषन् भजति सरूपतां तदनु त्वमुत जहासि जिहासि ताम् । अहिरिव त्वचं त्वमुत परमात्तभगां महसि महीयसेऽष्टगुणोऽपरिमेयभगः ॥ ३९ ॥
श्रुतिषु तवानुगीतान् गुणान् जुषन् पुमानुदगादस्मत्संसारात्तव सरूपतां च भजति । तदनु गुणस्मरणमनु गुणांश्च जुषन्निति, चशब्दः कर्माणि चेत्यस्मिन्नर्थे ॥ यच्चायं पुमानात्तभगां त्वयाऽपहृतभगां प्रातिस्विकीं पूर्वोक्तां द्विविधां कष्टां प्रकृतिं जहाति जिहाति हन्ति च तदपि त्वमेव जहासि जिहासि च । उतेति त्यागवधयोः समुच्चयार्थे ॥
‘जिहाति रावणं सङ्ख्ये राघवः परमास्त्रवित्’’॥ इति स्कान्दे ॥
‘स्वातन्त्र्यात्प्रकृतित्यागकर्ता नारायणः परः ।
यद्यप्यैषा जीवसंस्था हन्ता च भगवान्प्रभुः’’॥ इति गारुडे ॥
महसि महीयसे पूजयसि पूज्यसे चात्मनैव ॥
‘स्मरन् ब्रह्मगुणान्नित्यं मुक्तो ब्रह्मस्वरूपताम् ।
दुर्भगां प्रकृतिं त्यक्त्वा हत्वा चान्यां दुरन्वयाम् ॥
याति तच्च परेशानात्स हि पूज्योऽथ पूजकः ।
तस्यैकस्य स्वतन्त्रत्वात्स चानन्तगुणो विभुः’’॥ इति कौशिकश्रुतिः ॥ ३९-२५ ॥
यदि न समुच्चरन्ति यतयोऽपि हृदि कामजडाः दुरधिगमोऽसतां हृदि गतोऽस्मृतकण्ठमणिः । अनुतृप्तयोगिनामभयो भगवन् अनवगतान्तकादनधिरूढपदाद् भवतः ॥ ४० ॥
अज्ञानामनवगतान्तकादनधिरूढब्रह्मपदात् ॥
‘स यथाकामो भवति । तत्क्रतुर्भवति । यत्क्रतुर्भवति तत्कर्म कुरुते । यत्कर्म कुरुते तदभिसम्पद्यते इति नु कामयमानोऽथाकामयमानो योऽकामो निष्काम आप्तकामः आत्मकामो न तस्य प्राणा उत्क्रामन्ति ब्रह्मैव सन् ब्रह्माप्येति’‘इति श्रुतिः ॥
‘निषिद्धकामयुक्तानामसतां तु विशेषतः ।
दुर्ज्ञेयो भगवान्विष्णुः हृदिस्थोऽस्मृतहारवत् ॥
अकामत्वेन भजतां ददात्यभयमन्तकात् ।
पूर्णानन्दादि तेऽश्नन्ति पूर्णानन्दादिकाः स्वतः ॥
ब्रह्मणो ब्रह्मसम्पत्तिमत आह श्रुतिः स्फुटम् ।
न परब्रह्मतावाप्तिर्न ते विष्णविति श्रुतेः ॥
परमब्रह्मता चैषां ब्रह्मलोकात्परा गतिः ।
न परब्रह्मरूपत्वमेतमेवेति च श्रुतेः ॥
अन्येषां म्रियमाणानां प्राणा भागत एव तु ।
देवतास्वेकतां यान्ति भागतोऽनुव्रजन्ति तम् ॥
ज्ञानिनां मुच्यमानानां नैव यान्ति स्वदेवताः ।
तेनैव सह संयान्ति ततोऽनुत्क्रमणश्रुतिः’’॥ इति ब्रह्मतर्के ॥
‘देवाश्च ऋषयश्चैव सुभक्त्या कामिनोऽपि तु ।
मुच्यन्ते नियामादेव पश्यन्ति च हरिं न न’’॥ इति स्कान्दे ॥ ४० ॥ २६ ॥
तदवगमार्थसितासितयो- र्गुणविगुणयोर्न हि देहभृतां सगिरः । अनुययुरत्र हंसकुलगीतपरम्परया । न तुषावरणा इव रजांसि वान्ति वयसा सह यच्छ्रुतय- स्त्वयि सफलं पतन्ति न पतन्ति बन्धनाः ॥ ४१ ॥
परमेश्वरस्यावगमात्तदवगमा श्रीः । तया च गम्यत्वादर्थः परमस्तेन बद्धत्वात्सिता श्रीर्गुणात्मिका च ॥ सगिरः वाक्पूर्वकाणीन्द्रियाणि श्रियो विष्णोश्च नानुकूल्येन ययुः । अनुययुश्च हंसकुलगीतपरम्परया ।
यथा तुषावृतानां तण्डुलानां रजस्पृष्टिर्नास्ति । एवं रजोरूपान्मनुष्यान्न वान्ति श्रुतयः । वयसा सह महता कालेनापि । अतस्त्वयि सफलं पतन्ति न पतन्ति च विधिनिषेधरूपेण बन्धनात्मिकाः ॥
‘जानाति प्रकृतिर्विष्णुं ज्ञेयो विष्णुस्तु निर्गुणः ॥
तावुभौ न विजानन्ति ऋते ब्रह्मपरम्पराम्’’॥ इति महोपनिषदि ॥
‘अन्ये सर्वे श्रिया बद्धाः श्रीर्बद्धा विष्णुनैव तु ।
बन्धश्च विष्णुतन्त्रत्वं मुक्तानां च श्रियस्तथा ॥
अमुक्तानां तु बद्धत्वं जन्ममृत्यादिदुःखिता ।
हेयो बन्धश्च सैव स्यान्न तु स्वोच्चवशे स्थितिः ॥
गुणात्मिका च सा देवी निर्गुणः पुरुषोत्तमः ।
सैव विष्णुं विजानाति ज्ञेयो ज्ञाता च केशवः ॥
न तावन्ये विजानन्ति विना हंसपरम्पराम् ।
तथाऽपि नैव जानन्ति मानुषा असुरास्तथा ॥
निष्फलैवासुरे तस्माच्छ्रुतिर्बन्धाय केवला ।
निष्फला सफला चैव मानुषाणान्तु मध्यतः ॥
सफलैव तु देवानां नियतं मुक्तिदायिनी’’॥
श्रीगरुड उवाच–
के हंसाः कः परो हंसः के च पारावताः गणाः ।
के च तित्तिरयस्तत्र के शुकाः के च वायसाः ॥
श्रीभगवानुवाच–
परो हंसोऽहमेवैको हंसाः ब्रह्माण एव तु ।
पारावता देवतास्तु मुनयस्तित्तिराः स्मृताः ॥
मानुषास्तु शुकाः प्रोक्ताः आसुराश्चैव वायसाः ।
प्राप्यं प्राप्तं यतो नित्यं पूर्णं सर्वोत्तमं मया ॥
अतः परमहंसोऽहं मदनन्तरमेव तु ।
यतः प्राप्तमिवाशेषं सर्वजीवोत्तमं शुभम् ॥
अतो ब्रह्मपदे योग्याः जीवाः हंसाः प्रकीर्तताः ।
तेषां परम्पराप्राप्तं यैर्ज्ञानं नियमेन तु ॥
ते मुच्यन्ते नैव चान्ये गुरुर्ब्रह्मा यतो नृणाम् ।
दैवतं त्वहमेवैको मामवित्त्वा न मुच्यते ॥
परं प्रति यतो नीचाः ब्रह्माणः सर्वदेवताः ।
पारावतास्ततः प्रोक्ताः तैस्तीर्णा संसृतिर्यतः ॥
तित्तिरा मुनयस्तस्मात्कासुखत्वात्तु मानुषाः ।
शुका इति समुदिष्टा वयोमात्रसुखत्वतः ॥
वयसोऽन्ते तु दुःखित्वादसुराः वायसाः स्मृताः ।
एवं पञ्चविधा जीवा षष्ठोऽहं परमेश्वरः ॥
न मत्समोऽधिको वापि कश्चिदस्ति द्विजोत्तमः’’॥ इति गारुडे ॥ ४१ ॥ २७ ॥
इत्यशेषसमाम्नायपुराणोपनिषद्रसः ।
समुद्धृतः पूर्वजैस्तैर्व्योमायनमहात्मभिः ॥ ४३ ॥
व्योमायनमहात्मभिः ब्रह्माश्रयेषूत्तमैः ॥ ४३ ॥
एवं स गुरुणाऽऽदिष्टो गृहीत्वा श्रद्धयाऽऽत्मवान् ।
पूूर्णः सद्यस्ततो राजन् प्राह वीरव्रतो गुरुम् ॥ ४५ ॥
नारद उवाच– नमस्तस्मै भगवते कृष्णायामलमूर्तये । यो धाता सर्वभूूतानामभयो यस्य ते कलाः ॥ ४६ ॥
श्रीशुक उवाच– इत्याद्यमृषिमामन्त्र्य तच्छिष्यांश्चामलात्मकान् । ततोऽगादाश्रमं साक्षात् पितुर्द्वैपायनस्य मे ॥ ४७ ॥
सभाजितो भगवता कृतासनपरिग्रहः ।
तस्मै तद् वर्णयामास नारायणमुखाच्छ्रुतम् ॥ ४८ ॥
‘कथाः कथयतीशस्य व्यासस्यान्ते स नारदः ।
स्तुत्यर्थं तस्य देवस्य ज्ञापनाय न तु क्वचित् ॥
पूर्णज्ञानामृतस्यास्य न तु ज्ञप्तिः पराद्भवेत् ।
ऋषिरूपी यतो विष्णुः स्वयमेव जनैः श्रुतः’’॥ इति ब्राह्मे ॥ ४५-४८ ॥
यो ह्यात्मा जगदादिमध्यनिधनो योऽव्यक्तजीवेश्वरो यः सृष्ट्वेदमनुप्रविष्ट ऋषिणा चक्रे पुनः संहिताम् । यं सम्पद्य जहात्यजामनुशयी सुप्तः कुलायं यथा तं कैवल्यनिरस्तयोनिमभयं ध्यायेदजस्रं हरिम् ॥ ५० ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये दशमस्कन्धे षण्णवतितमोऽध्यायः ॥
॥ दशमः स्कन्धः समाप्तः ॥
ऋषिणा ऋषिरूपेण ॥ ५० ॥