षष्ठोऽध्यायः
एवंविधानेकगुणः स राजा
परात्मनि ब्रह्मणि वासुदेवे ।
क्रियाकलापैः समुवाह भक्तिं
यया विरिञ्चादिमधश्चकार ॥ ८४ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये नवमस्कन्धे षष्ठोऽध्यायः ॥
‘ब्रह्मादिभक्तिकोट्यंशादंशो नैवाम्बरीषके ।
नैवान्यस्य च कस्यापि तथापि हरिरीश्वरः ॥
तात्कालिकोपचेयत्वात्तेषां यशस आदिराट् ।
ब्रह्मादयश्च तत्कीर्तिं व्यञ्जयामासुरुत्तमाम् ॥
मोहनाय च दैत्यानां ब्रह्मादेर्निन्दनाय च ।
अन्यार्थं च स्वयं विष्णुर्ब्रह्माद्याश्च निराशिषः ॥
मानुषेषूत्तमत्वाच्च तेषां भक्त्यादिभिर्गुणैः ।
ब्रह्मादेर्विष्ण्वधीनत्वज्ञापनाय च केवलम् ॥
दुर्वासाश्च स्वयं रुद्रस्तथाप्यन्याय्यमुक्तवान् ।
तस्याप्यनुग्रहार्थाय दर्पनाशार्थमेव च’’॥ इति गारुडे ॥ ८४ ॥
अष्टमोऽध्यायः
रक्षःस्वसुर्व्यकृत रूपमशुद्धबुद्धे-
स्तस्याः खरत्रिशिरदूषणमुख्यबन्धून् ।
जघ्ने चतुर्दशसहस्रमवारणीय-
कोदण्डपाणिरटमान उवास कृच्छ्रम् ॥ ९० ॥
रक्षोधमेन वृकवद् विपिनेऽसमक्षं
वैदेहराजदुहितुर्यपयापितायाम् ।
भ्रात्रा वने कृपणवत् प्रियया वियुक्तः
स्त्रीसङ्गिनामिति रतिं प्रथयंश्चचार ॥ ९२ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये नवमस्कन्धे अष्टमोऽध्यायः ॥
‘नित्यपूर्णसुखज्ञप्तिस्वरूपोऽसौ यतो विभुः ।
अतोऽस्य राम इत्याख्या तस्य दुःखं कुतोऽण्वपि ॥
तथाऽपि लोकशिक्षार्थमदुःखो दुःखवर्तिवत् ।
अन्तर्हितां लोकदृष्ट्या सीतामासीत्स्मरन्निव ॥
ज्ञापनार्थं पुनर्नित्यसम्बन्धं स्वात्मनः श्रिया ।
अयोध्याया विनिर्गच्छन् सर्वलोकस्य चेश्वरः ॥
प्रत्यक्षं तु श्रिया सार्धं जगामानादिरव्ययः’’॥ ९०,९२ ॥
नवमोऽध्यायः
मुनौ निक्षिप्य तनयौ सीता भर्त्रा विवासिता ।
ध्यायन्ती रामचरणौ विवरं प्रविवेश ह ॥ १५ ॥
तच्छ्रुत्वा भगवान् रामो रुन्धन्नपि धिया शुचः ।
स्मरंस्तस्या गुणांस्तांस्तान् नाशक्नोद् रोद्धुमीश्वरः ॥ १६ ॥
स्त्रीपुम्प्रसङ्ग एतादृक् सर्वत्र त्रासमावहः ।
अपीश्वराणां किमुत ग्राम्यस्य गृहमेधिनः ॥ १७ ॥
तत ऊर्ध्वं ब्रह्मचर्यं धारयन्नजुहोत् प्रभुः ।
त्रयोदशाब्दसाहस्त्रमग्निहोत्रमखण्डितम् ॥ १८ ॥
स्मरतां हृदि विन्यस्य बुद्धं पद्ममिवांशुकैः ।
स्वपादपल्लवं राम आत्मज्योतिरगात् ततः ॥ १९ ॥
पुरुषो रामचरितं श्रवणैरुपधारयन् ।
आनृशंस्यपरो राजन् कर्मबन्धैर्विमुच्यते ॥ २३ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये नवमस्कन्धे नवमोऽध्यायः ॥
‘नित्यपूर्णसुखज्ञप्तिस्वरूपोऽसौ यतो विभुः ।
अतोऽस्य राम इत्याख्या तस्य दुःखं कुतोऽण्वपि ॥
तथाऽपि लोकशिक्षार्थमदुःखो दुःखवर्तिवत् ।
अन्तर्हितां लोकदृष्ट्या सीतामासीत्स्मरन्निव ॥
ज्ञापनार्थं पुनर्नित्यसम्बन्धं स्वात्मनः श्रिया ।
अयोध्याया विनिर्गच्छन्सर्वलोकस्य चेश्वरः ॥
प्रत्यक्षं तु श्रिया सार्धं जगामानादिरव्ययः’’॥
‘नक्षत्रमासगणितं त्रयोदशसहस्रकम् ।
ब्रह्मलोकसमं चक्रे समस्तं क्षितिमण्डलम् ॥
रामो रामो राम इति सर्वेषामभवत्तदा ।
सर्वो राममयो लोको यदा रामस्त्वपालयत् ॥“इति स्कान्दे ॥ १५-१९,२३ ॥
चतुर्दशोऽध्यायः
वरेण छन्दयामास प्रीतः सत्यवतीसुतः ।
वव्रे हतानां रामोऽपि जीवितं चास्मृतिं वधे ॥ ७ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये नवमस्कन्धे चतुर्दशोऽध्यायः ॥
ततश्चावभृथस्नानविधूताशेषकिल्बिषः ।
सरस्वत्यां ब्रह्मनद्यां रेजे व्यभ्र इवांशुमान् ॥ २३ ॥
‘जामदग्न्यो वरं वव्रेऽनन्तशक्तिरपि स्वयम् ।
पितुर्मान्यत्वसिध्यर्थं लोके लोकेश्वरः प्रभुः ॥
अपापमपि देवेशं पितरः संन्यवर्तयन् ।
अजानन्तोऽस्य माहात्म्यं मोहितास्तस्य मायया ॥
मोहयन्मायया लोकं चक्रे चापचितिं वधे ।
पुण्यपापादिनिर्मातुः कुतः पापादिसङ्गतिः’’॥ इति च ॥ ७,२३ ॥
सप्तदशोऽध्यायः
मूढे भर द्वाजमिमं भरद्वाजं बृहस्पतेः ।
त्राता तु दुःखात् पितरौ भरद्वाजस्ततस्त्वयम् ॥ ३८ ॥
चोद्यमाना सुरैरेवं मत्वा तं देवमात्मजम् ।
व्यसृजन्मरुतोऽबिभ्रन् दत्तोऽयं वितथेऽन्वये ॥ ३९ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये नवमस्कन्धे सप्तदशोऽध्यायः ॥
॥ नवमः स्कन्धः समाप्तः ॥
द्वाजमिमं भर । उचथ्यस्य क्षेत्रजो बृहस्पतेर्जात इति । द्वयोर्जातत्वाद्द्वाजः । बृहस्पतेर्वाजः प्रजासन्ततिर्येन भृता बृहस्पतेर्भरद्वाजः ।
‘भरद्वाजो मरुद्भिश्च भृतो जातो द्वयोर्यतः ‘‘इति पाद्मे ॥ ३८-३९ ॥