तृतीयोऽध्यायः
यस्मिन्निदं यतश्चेदं येनेदं य इदं स्वयम् ।
योऽस्मात् परस्माच्च परस्तं प्रपद्ये स्वयम्भुवम् ॥ ३ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये अष्टमस्कन्धे तृतीयोऽध्यायः ॥
यत इति स्रष्ट्रत्वम् । येनेति प्रवर्तकत्वम् । य इति सत्ताप्रदत्वम् । न सन्ति यदुपेक्षयेत्युक्तत्वात् ।
‘उत्पन्नस्यापि यत्सत्ता हरेस्तत्स इतीर्यते ।
हरेर्विश्वं भिन्नमपि परमोऽसौ यतो विभुः’’॥ इति ब्रह्मतर्के ॥ ३ ॥
पञ्चमोऽध्यायः
न यस्य वध्यो न च रक्षणीयो
नोपेक्षणीयादरणीयपक्षः ।
अथापि सर्गस्थितिसंयमार्थं
धत्ते रजःसत्वतमांसि काले ॥ २२ ॥
‘अनुग्राह्यतया पक्षा देवा नात्मार्थतो हरेः’’। इति च ॥ २२ ॥
विपश्चितं प्राणमनोधियात्मना-
मर्थेन्द्रियाभासमनिद्रमव्रणम् ।
छायातपौ यत्र न गृध्रपक्षौ
तमक्षरं खं त्रियुगं व्रजामहे ॥ २७ ॥
‘छाया त्वविद्या सम्प्रोक्ता जन्यविद्याऽऽतपः स्मृतः ।
‘जीवगृध्रस्य तौ पक्षावध ऊर्ध्वपथोः पृथक् ।
तौ विष्णोस्तु न विद्येते नित्यविद्यास्वरूपिणः’’॥ इति च ॥२७॥
अजस्य चक्रं त्वजयेर्यमाणं मनोमयं पञ्चदशारमाशु ।
त्रिनाभि विद्युद्बलमष्टनेमि यदक्षमाहुस्तमृतं प्रपद्ये ॥ २८ ॥
गुणत्रयनाभि । विद्युद्ब्रह्मा ।
‘विद्युद्ब्रह्मेत्युपासीत’’। इति श्रुतेः ।
‘जगच्चक्रस्याक्षभूतो बलरूपश्च केशवः’’॥ इति च ॥
न यस्य कश्चातिपिपर्ति मायां
यया जनो मुह्यति वेदनार्थम् ।
तं निर्जितात्मात्मगुणं परेशं
नमामि भूतेषु समं चरन्तम् ॥ ३० ॥
आत्मा च आत्मगुणाश्च निर्जिता येन ॥ ३० ॥
अम्भस्तु यद्रेत उदारवीर्यं
सिध्यन्ति जीवन्त्युत वर्धमानाः ।
लोकास्त्रयोऽथाखिललोकपालाः
प्रसीदतां ब्रह्म माविभूतिः ॥ ३३ ॥
सोमं मनो यस्य समामनन्ति
दिवौकसां वै बलमन्ध आयुः ।
ईशो नगानां प्रजनः प्रजानां
प्रसीदतां नः स महाविभूतिः ॥ ३४ ॥
‘सूर्यसोमयमेन्द्रादीनृतेऽन्ये लोकपा अपि ॥
अद्भिर्जीवन्ति सोमाच्च महेन्द्रादीनृतेऽखिलाः ।
अपां सोमस्य चेन्द्राद्याः सर्वे वै जीवनप्रदाः’‘इति च ॥ ३३,३४ ॥
अग्निर्मुखं यस्य तु जातवेदा
जातः क्रियाकाण्डनिमित्तजन्मा ।
अन्तः समुद्रे पचतः स्वधातून्
प्रसीदतां नः स महाविभूतिः ॥ ३५ ॥
समुद्रे उदरे ॥
यच्चक्षुरासीत् तरणिर्देवयानं
त्रयीमयो ब्रह्मण एष धिष्ण्यम् ।
द्वारं च मुक्तेरमृतस्य मृत्योः
प्रसीदतां नः स महाविभूतिः ॥ ३६ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये अष्टमस्कन्धे पञ्चमोऽध्यायः ॥
अमृतस्येति मुक्तेरित्यस्य विशेषणम् ॥ ३६ ॥
षष्ठोऽध्यायः
अवरोप्य गिरिं स्कन्धात् सुपर्णः पततां वरः ।
ययौ जलान्त उत्सृज्य हरिणा स विसर्जितः ॥ ३९ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये अष्टमस्कन्धे षष्ठोऽध्यायः ॥
‘अनन्तोढो मन्दरस्तु यदा वैवस्वतान्तरम् ।
अमृतार्थं सुपर्णोढो रैवतस्यान्तरे मनोः’’॥ इति ब्राह्मे ॥ ३९ ॥
सप्तमोऽध्यायः
तदुग्रवेगं दिशि दिश्युपर्यधो
विसर्पदुत्सर्पदसह्यवीर्यम् ।
भीताः प्रजा दुद्रुवुरङ्ग सेश्वरा
अरक्ष्यमाणाः शरणं सदाशिवम् ॥ १९ ॥
विलोक्य तं देववरं त्रिलोक्या
भवाय देव्याऽभियुतं मुनीनाम् ।
आसीनमद्रावपवर्गहेतो-
स्तपो जुषाणं स्तुतिभिः प्रणेमुः ॥ २० ॥
प्रजा ऊचुः– देवदेव महादेव भूतात्मन् भूतभावन । त्राहि नः शरणापन्नान् त्रैलोक्यदहनाद् विषात् ॥ २१ ॥
त्वमेकः सर्वजगत ईश्वरो बन्धमोक्षयोः ।
तं त्वामर्चन्ति कुशलाः प्रपन्नार्तिहरं गुरुम् ॥ २२ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये अष्टमस्कन्धे सप्तमोऽध्यायः ॥
‘रुद्रस्य यशसेऽर्थाय स्वयं विष्णुर्विषं विभुः ।
न सञ्जह्रे समर्थोऽपि वायुं चोचे प्रशान्तये’‘इति च ॥
‘तत्र तत्र स्तुतिपदैर्हरिरेव तु तद्गतः ।
स्तूयतेऽतो युक्तमेव गुणाधिक्यवचोऽपि तु’‘इति च ॥ १९-२२ ॥
अष्टमोऽध्यायः
श्रीशुक उवाच– नूनं तपो यस्य न मन्युनिर्जयो ज्ञानं क्वचित् तच्च न सङ्गवर्जितम् । कश्चिन्महांस्तस्य न कामनिर्जयः स ईश्वरः किं परतो व्यपाश्रयः ॥ १९ ॥
धर्मः क्वचित् तस्य न भूतसौहृदं
त्यागः क्वचित् तच्च न मुक्तिकारणम् ।
वीर्यं न पुंसोऽस्त्यजवेगनिष्कृतं
न हि द्वितीयो गुणसङ्गवर्जितः ॥ २० ॥
क्वचिच्चिरायुर्न हि शीलमङ्गलं
क्वचित् तदप्यस्ति न वेद्यमायुषः ।
यत्रोभयं कुत्र च सोऽप्यमङ्गलः
सुमङ्गलः कश्चन काङ्क्षते हि माम् ॥ २१ ॥
एवं विमृश्याव्यभिचारिसद्गुणं
पदं निजैकाश्रयिसद्गुणाश्रयम् ।
वव्रे वरं सर्वगुणैरपेक्षितं
रमा मुकुन्दं निरपेक्षमीप्सितम् ॥ २२ ॥
‘अनाद्यनन्तकोलेऽपि विष्णुमेवाश्रिता रमा ।
अन्येषां ज्ञापनार्थाय दोषानुक्त्वेतरान् जहौ’’॥ इति च ॥ १९-२२ ॥
अमृतस्य पूर्णकलशं बिभ्रद्वलयभूषितः ।
स वै भगवतस्साक्षात् विष्णोरंशांशसम्भवः ॥ ३३ ॥
धन्वन्तरिरीति ख्यात आयुर्वेददृगिज्यभाक् ।
तमालोक्यासुरास्सर्वे कलशं चामृताहृतम् ॥ ३४ ॥
लिप्सन्तः सर्ववस्तूनि कलशं तरसाऽहरन् ।
नीयमानेऽसुरैस्तस्मिन् कलशेऽमृतभाजने ॥
विषण्णमनसो देवा हरिं शरणमाययुः ॥ ३५ ॥
॥ इति श्रीभागवततात्पर्यनिर्णये अष्टमस्कन्धे अष्टमोऽध्यायः ॥
‘तेषां सत्याच्चालनार्थं हरिर्धन्वन्तरिर्विभुः ।
समर्थोऽप्यसुराणां तु स्वहस्तादमुचत्सुधाम्’’। इति च ॥ ३३-३५ ॥
नवमोऽध्यायः
दृष्ट्वा मृधे गरुडवाहमिभारिवाह
आविध्य शूलमहिनोदथ कालनेमिः ।
तल्लीलया गरुडमूधर्ि्न पतद् गृहीत्वा
तेनाहनन्नृप सवाहमरिं त्र्यधीशः ॥ ५६ ॥
माली सुमाल्यतिबलौ युधि पेततुर्य-
च्चक्रेणकृत्तशिरसावथ माल्यवांस्तम् ।
आहत्य तिग्मगदयाऽहनदण्डजेन्द्रं
तावच्छिरोऽच्छिनदरेर्नदतोऽरिणाऽऽद्यः ॥ ५७॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये अष्टमस्कन्धे नवमोऽध्यायः ॥
‘कालनेम्यादयः सर्वे हरिणा निहता अपि ।
शुक्रेणोज्जीविताः सन्तः पुनस्तेनैव पातिताः’’॥ इति च ॥५६,५७॥
एकोनविंशोऽध्यायः
यद्यप्यसावधर्मेण मां बध्नीयादनागसम् ।
तथाप्येनं न हिंसिष्ये भीतं ब्रह्मतनुं रिपुम् ॥ १२ ॥
एष वा उत्तमश्लोको न जिहासति यद् यशः ।
हत्वा मैनां हरेद् युद्धे शयीत निहतो मया ॥ १३ ॥॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये अष्टमस्कन्धे एकोनविंशोऽध्यायः ॥
‘बलिरप्यसुरावेशात्स्तुवन्नपि जनार्दनम् ।
आक्षिपत्यन्तरा क्वापि प्रह्लादो नित्यभक्तिमान्’’॥ इति ब्रह्माण्डे ॥ १२-१३ ॥
द्वाविंशोऽध्यायः
मीन उवाच– न म एतदलं राजन् सुखं वस्तुमुदञ्चनम् । पृथु देहि पदं मह्यं यत् त्वाऽहं शरणं गता ॥ २० ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये अष्टमस्कन्धे द्वाविंशोऽध्यायः ॥
॥ अष्टमः स्कन्धः समाप्तः ॥
‘अनन्तशक्तिर्भगवान् मत्स्यरूपी जनार्दनः ।
क्रीडार्थं याचयामास स्वयं सत्यव्रतं नृपम् ॥‘‘इति मात्स्ये ।