०७

प्रथमोऽध्यायः

निर्गुणोऽपि ह्यजोऽव्यक्तो भगवान् प्रकृतेः परः ।
स्वमायागुणमाविश्य बाध्यबाधकतां गतः ॥ ६ ॥

‘बाध्यादिस्थो हरिर्नित्यं बाध्यतादिगतेत्यपि ।
गीयते न तु बाध्यत्वादिदोषयुतत्वतः’’॥ इति भविष्यत्पर्वणि ॥

ज्योतिरादिरिवाभाति सङ्घातान्न विविच्यते ।
विन्दन्त्यात्मानमात्मस्थं मथित्वा कवयोऽन्ततः ॥ ९ ॥

‘दधिस्थघृतवत्काष्ठे वह्निवच्च जनार्दनः ।
देहेन्द्रियासुजीवेभ्यो विविच्य ज्ञायते न तु’’॥ इति च ॥

कालं चरन्तं सृजतीश आश्रयः प्रधानपुंभ्यां नरदेव सत्यकृत् । स तत्र तत्रोभयसिद्धिमाप्नुयात् लिङ्गात्मनो लिङ्गगुणाश्च सन्ति ॥ ११ ॥

प्रधानपुंभ्यां सह ॥

य एष राजन्नपि काल ईशिता सत्वं सुरानीकमिवैधयत्यजः । तत्प्रत्यनीकानसुरान् सुरप्रियो रजस्तमस्कान् प्रमिणोत्युरुश्रवाः ॥ १२ ॥

काले कालविषयेऽपीशिता । देहादिकारणत्वात् सुरानीकमिव स्थितं सत्वम् ।
‘स्वभावतः प्रियत्वात्तु सदा देवप्रियो हरिः ।
अप्रियश्चासुराणां स स्वभावात्तूभयं नृणाम् ॥

देशकालौ गुणांश्चैव भक्त्यादीनप्यपेक्ष्य तु ।
योग्यतां च तथा कर्म सम इत्यभिधीयते ॥

स्वतः प्रियोऽपि देवानामुत्पाद्यैव गुणानिमान् ।
इतरेषां तथा दोषान्सुखदुःखे ददात्यजः ॥

उभयं तु मनुष्याणामतः सम इतीरितः ।
अनादिनियताश्चैव गुणदोषाः सुरादिषु ॥

यथाक्रमं पुनश्चैव नियमाद्वर्धितास्तथा ।
विष्णुनैव ततो नित्यं विषमश्च जनार्दनः’’॥ इति ब्रह्मतर्के ॥

‘न विष्णोर्विषमत्वं तु योग्यतापेक्षया क्वचित् ।
योग्यतायास्तन्नियत्या विषमत्वं भवेदिति’’॥ इति स्कान्दे ॥

‘विषमत्वं तु दोषाय शुभाशुभविपर्यये ।
अतस्तादृशवैषम्यं ब्रह्मसूत्रे निराकृतम् ॥

शुभाशुभनियन्तृत्वं न दोषो गुण एव सः ।
अतस्तदिष्टं कृष्णस्य ब्रह्मसूत्रकृतो विभोः’’॥ इति तन्त्रनिर्णये ॥

शपतोरसकृद् विष्णुं यद् ब्रह्म परमव्ययम् ।
श्वित्रो न जातो जिह्वायां नान्धं विविशतुस्तमः ॥ २० ॥

‘नियमाद्भुज्यते पुम्भिर्धर्माधर्मफलं मृतौ ।
कैश्चिदत्रापि भुज्येत तस्मान्नाधर्ममाचरेत्’’॥ इति भारते ॥

यन्निबन्धोऽभिमानोऽयं तद्वधात् प्राणिनां वधः ।
तथा न यस्य कैवल्यादभिमानोऽखिलात्मनः । परस्येदमकर्तुर्हि हिंसा केनास्य कल्प्यते ॥ २६ ॥

कैवल्यात् देहाद्यभावादेव । अकर्तुः तस्यान्यः कर्ता न विद्यते । इदं एषा ।
‘व्यत्ययोऽतिशयकुत्सनभेदेषु’‘इति सूत्रात् ॥

तस्माद् वैरानुबन्धेन निर्वैरेण भयेन वा ।
स्नेहात् कामेन वा युञ्ज््यात् कथञ्चिन्नेक्षते पृथक् ॥ २७ ॥

कथञ्चिन्नेक्षते पृथक् । तत्रैव मनसोऽभिनिवेशेन तदन्यं नेक्षते । वैरादीनामेकतमेनापि यो युञ्ज्यात् स नेक्षत इति स्वभावकथनं न विधिः ।
‘कर्मणा मनसा वाचा यो द्विष्याद्विष्णुमव्ययम् ।
मज्जन्ति पितरस्तस्य नरके शाश्वतीः समाः’’।
‘तानहं द्विषतः क्रूरान्संसारेषु नराधमान् ।
क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ॥

आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि ।
मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम्’’॥

‘अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् ।
परं भावमजानन्तो मम भूतमहेश्वरम्’’॥

‘मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः ।
राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः’’॥

‘यदनिन्दत्पिता मे त्वामविद्वांस्तेज ऐश्वरम् ।
तस्मात्पिता मे पूयेत दुरन्ताद्दुस्तरादघात् ॥

हिरण्यकशिपुश्चापि भगवन्निन्दया तमः ।
विविक्षुरत्यगात् सूनोः प्रह्लादस्यानुभावतः’’॥

‘वरतोऽपि न मुच्यन्ते द्वेषिणः शापतोऽपि तु ।
भक्ता नैव निपात्यन्ते धर्माधर्मैस्तथेतरैः ॥

अन्यावेशकृतं यत्तु तद्वराद्यैरपोह्यते ।
तद्विरुद्धस्वभावानामन्यथा न कथञ्चन’‘इत्यादेः ॥

यस्मादेवं कोऽप्युपद्रवो नास्ति भगवतस्तस्मादेव द्वेषादिनापि मनो योक्तुं शक्यते तत्प्रेरणया । तादृशानां एतदेव चिन्तयति च । अन्यथा आत्मनो दुःखकारणं द्वेषादिकं कथं सर्वनियामको हरिरुत्पादयेत् ॥ २७ ॥

यथा वैरानुबन्धेन मर्त्यस्तन्मयतामियात् ।
न तथा भक्तियोगेन इति मे निश्चिता मतिः ॥ २८ ॥

कीटः पेशस्कृता रुद्धः कुड्ये यान्तमनुस्मरन् ।
संरम्भभययोगेन विन्दते तत्सरूपताम् ॥ २९ ॥

एवं कृष्णे भगवति मायामनुज ईश्वरे ।
वैरेण धूतपाप्मानः तमापुरनुचिन्तया ॥ ३० ॥

तत्रैव हेतुः । यथा वैरानुबन्धेनेति । यथा वैराभिनिवेशिनः तथा भक्त्यभि-निवेशिनो न सन्ति । तत्कथमन्यथा भक्तानेव बहून्हरिः कुर्यादिति भावः ॥

कीटः पेशस्कृतेत्यादि चैद्यादीनां भक्तियुतत्वप्रतिपादनम् । स्नेहाद्यायतननाशादिनाऽप्युपद्रवोऽस्य नास्तीति निर्वैरेणेत्याद्युक्तम् ।
‘ततः कनीयसा एव देवा ज्यायसा असुराः’‘इति श्रुतिः ।
तन्मयतां मनसस्तत्राभिनिवेशनम् ।
‘मागधाद्या यथा नित्यं द्वेषादाग्रहिणो हरौ ।
न तथाऽऽग्रहिणो भक्ता ऋते ब्रह्माणमव्ययम्’’॥ इति हरिवंशेषु ॥

योगः स्नेहः । संरम्भभययुक्तस्नेहेन ।
‘प्रीतिः स्नेहस्तथा योगः प्रेमबन्ध इतीर्यते’’। इति शब्दनिर्णये ॥

वैरयुक्तयाऽप्यनुचिन्तया तमापुः ।
‘अनुचिन्तेति तामाहुर्भक्तिपूर्वा तु या स्मृतिः’’। इति च ॥

‘स्नेहादन्नं ददातीति स्वाकर्षणभयेऽपि च ।
विद्यमानेऽप्यल्पकोपे सङ्गतिस्नेहतस्तथा ॥

पेशस्कृद्रूपतां कीटो यथा याति तथैव तु ।
चैद्यादयोऽसुरावेशशाद्धरौ द्वेषयुता अपि ॥

निजस्वभावया भक्तया नीता हरिसरूपताम् ।
तथा हि करुणो विष्णुरन्यावेशाद्यदि द्विषन् ॥

हीयते किं ममानेन नित्यानन्द स्वरूपिणः ।
देहबन्धयुतानां हि द्वेषिणाऽपकृतं भवेत् ॥

मम को ह्यपराध्येत निर्दोषसुखरूपिणः ।
अतो मय्यपराधस्तु स्वस्मिन्नेव न मे भवेत् ॥

अतो यच्चासुरावेशात्कृतमेतेन दुष्कृतम् ।
अनादिभक्तो यस्मान्मे मोचयिष्ये ततस्त्वहम् ॥

इति मत्वा मोचयति चैद्यादीनपि केशवः’’॥ इति ब्रह्माण्डे ॥ २८-३० ॥

कामात् स्नेहाद् भयाद् द्वेषाद् यथा भक्त्येश्वरे मनः ।
आवेश्य तदघं हित्वा बहवस्तद्गतिं गताः ॥ ३१ ॥

कामादिभिरपि यथावद्भक्त्या सहैव मन आवेश्य तदघं यत्तु द्वेषादिकृतमघं यथाभूतया भक्त्या हित्वा ॥ ३१ ॥

गोप्यः कामाद् भयात् कंसो द्वेषाच्चैद्यादयो नृपाः ।
सम्बन्धाद् वृष्णयः स्नेहाद् यूयं भक्त्या वयं विभो ॥ ३२ ॥

‘गोप्यः कामयुता भक्ताः कंसाविष्टः स्वयं भृगुः ।
ज्ञेयो भययुतो भक्तश्चैद्यादिस्था जयादयः ॥

विद्वेषसंयुता भक्ता वृष्णयो बन्धुसंयुताः ।
बहुमानस्नेहसाम्याद्देवा भक्ताः प्रकीर्तिताः ॥

स्नेहोपसर्जनादेव बहुमानान्मुनीश्वराः ।
बहुमानोऽपि देवानामृषिभ्योऽप्यधिको मतः ॥

ब्रह्मवीन्द्रेन्द्र-कामादेरितरेषां यथाक्रमम्’’॥ इति ब्रह्मतर्के ॥

कतमोऽपि न वेनस्य पञ्चानां पुरुषं प्रति ।
तस्मात् केनाप्युपायेन मनः कृष्णे निवेशयेत् ॥ ३३ ॥

कतमोऽपि भक्तियोगो न वेनस्य । तस्मात्केनापि प्रकारेण उपायेनैव मनो निवेशयेत् । नानुपायेन ।
‘उपायो भक्तिरुद्दिष्टो द्वेषाद्या अनुपायकाः’’। इति शब्दनिर्णये ॥

मातृष्वस्रेयो वश्चैद्यो दन्तवक्रश्च पार्थिव ।
पार्षदप्रवरौ विष्णोर्विप्रशापात् पदच्युतौ ॥ ३४ ॥

स्वतो भक्ताश्चैद्यादयोऽपि परावेशाद्द्वेषिण इत्यत्र हेतुर्मातृष्वस्रेय इत्यादि ॥ ३४ ॥

पञ्चषड्ढायनार्भाभाः पूर्वेषामपि पूर्वजाः ।
दिग्वाससः शिशून् मत्वा द्वाःस्थौ तान् प्रत्यषेधताम् ॥३८॥

द्वास्थावित्यनेनाधिकारस्थत्वमुक्तम् ।
‘अधिकारस्थिताश्चैव विमुक्ताश्च द्विधा जनाः ।
विष्णुलोकस्थितास्तेषां वरशापादियोगिनः ॥

अधिकारस्थिता मुक्तिं नियतं प्राप्नुवन्ति च ।
विमुक्त्यनन्तरं तेषां वरशापादयो न तु ॥

देहेन्द्रियासुयुक्ताश्च पूर्वं पश्चान्न तैर्युताः ।
अप्यभीमानिभिस्तेषां देवैः स्वात्मोत्तमैर्युताः’’॥ इति तन्त्रसारे ॥३८॥

तं सर्वभूतात्मभूतं प्रशान्तं समदर्शनम् ।
भगवत्तेजसा स्पृष्टं नाशक्नोद्धन्तुमुद्यमैः ॥ ४४ ॥

सर्वभूतात्मनि भूतम् ॥ ४४ ॥

ततस्तौ राक्षसौ जातौ केशिन्यां विश्रवःसुतौ ।
रावणः कुम्भकर्णश्च सर्वलोकप्रतापिनौ ॥ ४५ ॥

तावद्य क्षत्रियौ जातौ मातृष्वस्रात्मजौ तव ।
अधुना शापनिर्मुक्तौ कृष्णचक्रहतांहसौ ॥ ४६ ॥

‘हिरण्यकशिपुर्भूतममन्यत मृतौ हरिम् ।
अतो भयानको जातस्तत्र राजानमेव च ॥

मत्वा राजैव सञ्जातः कृष्णं चक्रादिलक्षणैः ।
मृतिकाले हरिं चैव मत्वा भक्त्यैव केवलम् ॥

द्वाःस्थत्वं हरिमाविश्य प्रापैव मनुजोऽपि तु’’॥ इति गारुडे ॥

‘विष्णुभक्तेश्च तज्ज्ञानादन्यतो मुक्तिवाचकाः ।
विष्णोर्गुणह्रासवाचः श्रीब्रह्मादेस्तथा क्रमात् ॥

विष्ण्वादिद्वेषतश्चैव सुखवाचस्तथाऽखिलाः ।
मोहनार्थाः समुद्दिष्टा यथार्थद्योतकास्तथा’’॥ इति प्रकाशसंहितायाम् ॥ ४५-४६ ॥

वैरानुबन्धतीव्रेण ध्यानेनाच्युतसाम्यताम् ।
नीतौ पुनर्हरेः पार्श्वं जग्मतुर्विष्णुपार्षदौ ॥ ४८ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये सप्तमस्कन्धे प्रथमोऽध्यायः ॥

वैरानुबन्धः वैरयुक्ता भक्तिः ।
‘अनुबन्धस्तु भक्तिः स्याद्बन्धः स्नेह उदाहृत’’॥ इति च ॥

द्वितीयोऽध्यायः

तावद् यात भुवं यूयं ब्रह्मक्षत्रसमेधिताम् ।
सूदयध्वं तपोयज्ञस्वाध्यायव्रतदानकान् ॥ १० ॥

विष्णुर्द्विजक्रियामूलो यज्ञो धर्ममयः पुमान् । देवर्षिपितृभूतानां धर्मस्य च परायणम् ॥ ११ ॥

‘विप्रयज्ञादिमूलं तु हरिरित्यासुरं मतम् ।
हरिरेव हि सर्वस्य मूलं सम्यङ्मतो नृप’’॥ इति ब्राह्मे ॥

नित्य आत्माऽव्ययः शुद्धः सर्ववित् सर्वगः परः ।
धत्तेऽसावात्मनो लिङ्गं मायया विसृजन् गुणान् ॥ २२ ॥

धत्तेऽसावात्मनो लिङ्गम् । जीवमनआदीनामाधारं ब्रह्म ॥ २२ ॥

यथाऽम्भसा प्रचलता तरवोऽपि चला इव ।
चक्षुषा भ्राम्यमाणेन दृश्यते भ्रमतीव भूः ॥ २३ ॥

एवं गुणैर्भ्राम्यमाणे मनस्यविकलः पुमान् ।
याति तत्साम्यतां भद्रे ह्यलिङ्गो लिङ्गवानिव ॥ २४ ॥

लिङ्गवानिव – जीव इव ।
‘असमं समतामेति भ्रान्तिदृष्ट्यैव केवलम् ।
जीवेन ब्रह्म न समं तत्त्वदृष्ट्या कथञ्चन’’॥ इति षाड्गुण्ये ॥

‘यथोदचलनाद् वृक्षप्रतिबिम्बप्रचालनात् ।
तटस्थवृक्षचलनं कल्पयेदबुधो नरः ॥

तथा मनसिजैर्दोषैराभासे दूषिते नरे ।
आभासिनो ब्रह्मणश्च दोषमज्ञः प्रकल्पयेत् ॥

आत्मनश्चक्षुषो भ्रान्त्या यथा पश्येद्भ्रमं भुवः ।
तथैव स्वात्मनो दोषाद्दोषवद्ब्रह्म पश्यति’’॥ इति ब्रह्मतर्के ॥२३-२४॥

सम्भवश्च विनाशश्च शोकश्च विविधः स्मृतः ।
अविवेकश्च चिन्ता च विवेकस्मृतिरेव च ॥ २६ ॥

विवेकस्मृतिः अविवेकिन एव विवेकित्वभ्रान्तिः ।
‘अन्तर्हिरण्यकादीनां भक्तिरस्त्येव केशवे ।
असुरावेशतस्त्वन्यान् हरिस्तोतृन्द्विषन्ति च’’॥ इति पाद्मे ॥ २६ ॥

यम उवाच– अहो अमीषां वयसाऽधिकानां विपश्यतां लोकविधिं विमोहः । यत्रोद्भवस्तत्र गतं मनुष्यं स्वयं सधर्मा अनुशोचन्त्यपार्थम् ॥ ३७ ॥

यत्रोद्भवस्तत्र गतं अदर्शनं गतम् ।
‘अदर्शनादिहायातः पुनश्चादर्शनं गतः’‘इति भारते ॥ ३७ ॥

भूतानि तैस्तैर्निजयोनिकर्मभि-

र्भवन्ति काले न भवन्ति सर्वशः ।
न तत्र हात्मा प्रकृतावपि स्थित-

स्तस्या गुणैरन्यतमो निबध्यते ॥ ४१ ॥

अन्यतम आत्मा परमात्मा ।
‘सुविरुद्धस्वरूपत्वाज्जीवादन्यतमो हरिः’’॥ इति वामने ॥

भगवन्माहात्म्यकथनेन सर्वस्य तद्वशत्वात्स एव भजनीयो न शोकेन प्रयोजनम् । इति फलितार्थः ॥ ४१ ॥

यथाऽनलो दारुषु भिन्न ईयते

यथाऽनिलो देहगतः पृथक् स्थितः ।
यथा नभः सर्वगतं न सज्जते

तथा गुणैः सर्वगुणाश्रयः परः ॥ ४३ ॥

‘देहदारुगतौ प्राणवह्नी सर्वगतं नभः ।
देहादिभ्यो यथा भिन्ना न लिप्यन्ते च तद्गुणैः ।
तथा जीवगतो विष्णुर्जीवाद्भिन्नो न तद्गुणैः’’॥ इति च ॥

सुयज्ञो नन्वयं शेते मूढा यमनुशोचथ ।
यः श्रोता योऽनुवक्तेह न स दृश्येत कर्हिचित् ॥ ४४ ॥

न श्रोता नानुवक्ताऽयं मुख्योऽप्यत्र महानसुः ।
यस्त्विहेन्द्रियवानात्मा स चान्यः प्राणदेहयोः ॥ ४५ ॥

भूतेन्द्रियमनोलिङ्गान् देहानुच्चावचान् विभुः ।
भजत्युत्सृजति ह्यन्यस्तच्चापि स्वेन तेजसा ॥ ४६ ॥

यावल्लिङ्गान्वितो ह्यात्मा तावत् कर्मनिबन्धनः ।
ततो विपर्ययः क्लेशो मायायोगोऽनुवर्तते ॥ ४७ ॥

वितथाभिनिवेशोऽयं यद्गुणेष्वर्थदृग्वचः ।
यथा मनोरथः स्वप्नः सर्वमैन्द्रियकं मृषा ॥ ४८ ॥

इन्द्रियवान् जीवः । भजत्युत्सृजति ह्यन्यः परमात्मा । स एव श्रोताऽनुवक्ता च ।
‘नान्योऽतोऽस्ति द्रष्टा नान्योऽतोऽस्ति श्रोता स योऽतोऽश्रुतः’’। इत्यादेः ॥

मुख्यप्राणोऽपि स्वतो न श्रोता किमु जीव इति । अयं ननु सुयज्ञ इत्याक्षेपः । यश्च सुयज्ञः सोऽपि स्वतः श्रोतुं वक्तुं न च शक्तः । अतस्तस्यानुशोकेन किमित्यर्थः ।
‘अन्यो जीवोऽचितो देहात्तद्वशो देह उच्यते ।
पश्यामीत्यभिमानोऽस्य चक्षुराद्यभिमानवान् ॥

न तद्वशाश्चक्षुराद्या न दृष्ट्यादौ स ईश्वरः ।
चक्षुराद्या मनो जीवो दृष्ट्यादिश्चापि यद्वशे ॥

स प्राण इति विज्ञेयो ज्ञाता मन्ता च स प्रभुः ।
तस्यापि ज्ञातृमन्तृत्वं न स्वतः शक्यते क्वचित् ॥

यस्तस्य ज्ञातृमन्तृत्वदाता स भगवान्हरिः ।
स्वतो ज्ञाता च मन्ता च द्रष्टा श्रोता च केशवः ॥

ज्ञानादिदो न तस्यान्यः सर्वस्य ज्ञानदो हरिः ।
स देहान्भजते विष्णुः स्वेच्छयैवोत्सृजत्यपि ॥

यावद्देहस्थितो विष्णुस्तावज्जीवो विपर्ययः ।
तावत् क्लेशादयश्चास्य वृथा चेन्द्रियवृत्तयः ॥

यदोत्सृजति देहं स हरिः सर्वात्मना विभुः ।
तदा तदभिमानी तु जीवो मुच्येत संसृतेः ॥

अतिभिन्नस्वरूपौ तौ जीवेशावेकदेहगौ ।
देहाभिमानी त्वेकोऽत्र न मानी मानदः परः’’॥ इति गारुडे ।
‘इन्द्रियाद्यभिमानेन तद्वान् जीव उदीर्यते ।
अतन्मानाद्धरिः प्रोक्तस्त्वदेहोऽनिन्द्रियस्तथा ॥

जीवानभिमते देहे न विष्णुर्जीवति स्थितः ।
अतश्चादेह उद्दिष्टः परमात्मा सनातनः’’॥ इति प्रकाशसंहितायाम् ।
स चान्यः श्रोतुर्वक्तुश्चेति चशब्दः ॥

लिङ्गान् भूतेन्द्रियमनोरूपान् ।
‘लिङ्गं स्वरूपमुद्दिष्टं लिङ्गं ज्ञापकमेव च’’। इति शब्दनिर्णये ॥

आत्मा परमात्मा । कर्मनिबन्धनो जीवः । ततः परमात्मनो विपरीतः ॥ मृषा वृथा । स्वप्नदृष्टवित्तादिवत् ।
‘लेपाभिमानी जीवस्तु स्वरूपानुभवी न च ।
मुक्तेः प्राक्तेन मान्युक्तो न मानी विष्णुरुच्यते ॥

सर्वं ममेति पश्यन्नप्यलेपाभिमतिर्यतः ।
सम्यक्स्वरूपानुभवात्स्वतन्त्रत्वाददोषतः’’॥ इति ब्रह्मतर्के ॥४४-४८॥

हिरण्यकशिपुरुवाच–

बाल एवं प्रवदति सर्वे विस्मितचेतसः ।
ज्ञातयो मेनिरे सर्वमनित्यमयथोत्थितम् ॥ ५८ ॥

‘अहं ममाभिमानादि त्वयथोत्थमनित्यकम् ।
महदादि यथोत्थं च नित्या चापि यथोत्थिता ॥

अस्वतन्त्रैव प्रकृतिः स्वतन्त्रो नित्य एव च ।
यथार्थभूतश्च पर एक एव जनार्दनः’’॥ इति च ॥ ५८ ॥

क आत्मा कः परो वाऽत्र स्वीयः पारक्य एव च ।
स्वपराभिनिवेशेन विनाऽज्ञानेन देहिनः ॥ ६० ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये सप्तमस्कन्धे द्वितीयोऽध्यायः ॥

‘क आत्मा कः परः’‘इति देहाद्यपेक्षया ।
‘न हि देहादिरात्मा स्यान्न च शत्रुरुदीरितः ।
अतो दैहिकवृद्धौ वा क्षये वा किं प्रयोजनम् ॥

यस्तु देहगतो जीवः स हि नाशं न गच्छति ।
ततः शत्रुविवृद्धौ वा स्वनाशे शोचनं कुतः ॥

देहादिव्यतिरिक्तौ तु जीवेशौ प्रतिजानताम् ।
अत आत्मविवृद्धिस्तु वासुदेवे रतिः स्थिरा ।
शत्रुनाशस्तथाऽज्ञाननाशो नान्यः कथञ्चन’’॥ इति ब्रह्मवैवर्ते ॥

तृतीयोऽध्यायः

सृष्ट्वा चराचरमिदं तपोयोगसमाधिना ।
अध्यास्ते सर्वधिष्ण्येभ्यः परमेष्ठी निजासनम् ॥ ९ ॥

तदहं वर्धमानेन तपोयज्ञसमाधिना ।
कालात्मनोश्च नित्यत्वात् साधयिष्ये तथाऽऽत्मनः ॥ १० ॥

‘जानतामपि कर्तव्यं कर्मात्मसदृशं सदा ।
तत्रात्मसदृशाज्ञानाद्रागाद्यैर्वा विमोहिताः । ।
जानन्तोऽपि ह्यसदृशं कर्म कुर्युर्ऋते विभुम् ।
चतुरास्यं स नायोग्यं कर्म कुर्यात्कथञ्चन’’॥ इति नारदीये ॥

‘तपसा विद्यया वापि ज्ञानध्यानादिनाऽथवा ।
व्यस्तैः समस्तैरपि वा कुर्वतां यत्नमुत्तमम् ॥

संहारविक्षेपशतैर्बहुकोटिभिरेव वा ।
न शक्यन्ते समारोढुं स्वात्मायोग्यपदानि तु ॥

तथाप्याचरतां कुर्युर्दैत्यानां सुरनायकाः ।
विघ्नं तु तप आदीनां वैयर्थ्यस्यापनुत्तये’’॥ इति प्रकाशसंहितायाम् ॥

अन्यथेदं विधास्येऽहमयथापूर्वमोजसा ।
किमन्यैः कालनिर्धूतैः कल्पान्तैर्वैष्णवादिभिः ॥ ११ ॥

वैष्णवादिभिः ब्रह्मनिर्मितैः ।
‘ब्रह्मा स्वयम्भूर्द्रुहिणो वैष्णवः शतदृक्तथा’’। इति शब्दनिर्णये ॥ ११ ॥

तवासनं हि जगतां पारमेष्ठ्यं जगत्पते ।
भवाय श्रेयसे भूत्यै क्षेमाय विजयाय च ॥ १३ ॥

‘भवाय श्रेयसे चैव न कश्चित्तदपेक्षते ।
मधुकैटभयोश्चैव हिरण्यादेस्तथैव च ॥

नान्यो ब्रह्मपदं वाञ्छत्यृजून्योग्यान्विना क्वचित् ।
ततः श्रेयांसि वाञ्छन्ति न तु तत्पदमाप्तये’’॥ इति ब्रह्माण्डे ॥

‘भवो वृद्धिः समुद्दिष्टा श्रेयो मोक्ष उदाहृतः ।
वृद्धस्य न पुनर्ह्रासो भूतिरित्येव कथ्यते’’॥ इति शब्दनिर्णये ॥

तपन्तं तपसा लोकान् यथा भाविततं रविम् ।
विलक्ष्य विस्मितः प्राह हसंस्तं हंसवाहनः ॥ १६ ॥

‘सकामं तु तपः क्रूरं लोकानां भयकृद्भवेत् ।
इतरच्छान्तये सर्वलोकानां भवति ध्रुवम्’’॥ इति प्रकाशिकायाम् ॥

‘ब्रह्माणमभजद्ब्रह्मपदार्थं स हिरण्यकः’’। इति स्कान्दे ॥

व्यवसायेन तेऽनेन दुष्करेणामनस्विभिः ।
तपोनिष्ठेन भवता जितोऽहं दितिनन्दन ॥ २० ॥

जितः वशीकृतः ।
‘पराभूतं वशस्थं च जितमित्युच्यते बुधैः’’॥ इति शब्दनिर्णये ॥

हिरण्यकशिपुरुवाच–

कल्पान्ते कालसृष्टेन योऽन्धेन तमसाऽऽवृतम् ।
अभिव्यनग् जगदिदं स्वयंज्योतिः स्वरोचिषा ॥ २६ ॥

आत्मना त्रिवृता चेदं सृजत्यवति लुम्पति ।
रजःसत्वतमोधाम्ने पराय महते नमः ॥ २७ ॥

‘प्रायस्तु स्तुतिशब्देषु मिश्रा वाचो हरिं विना ।
केचिज्जीवगुणास्तत्र तन्नियन्तुर्हरेः परे ॥

एकस्थानैककार्यत्वाद्विष्णोः प्राधान्यतस्तथा ।
जीवस्य तदधीनत्वान्न भिन्नाधिकृतं वचः’‘इति ब्रह्मतर्के ॥

त्रिवृता प्रकृत्या ॥ २६, २७ ॥

त्वमीशिषे जगतस्तस्थुषश्च प्राणेन मुख्येन पतिः प्रजानाम् ।
चित्तस्य चित्तिर्मनइन्द्रियाणां पतिर्महाभूतगुणाशयेशः ॥ २९ ॥

प्राणेन सह ॥ २९ ॥

त्वं सप्ततन्तून् वितनोषि तन्वा

त्रय्या चतुर्होत्रकविद्यया च ।
त्वमेक आत्माऽऽत्मवतामनादि-

रनन्तपारः कविरव्ययात्मा ॥ ३० ॥

सप्ततन्तून् सप्तक्रतून् ॥ ३० ॥

त्वमेव कालोऽनिमिषो जनाना-

मायुर्लवाद्यावयवैः क्षिणोषि ।
कूटस्थ आत्मा परमेष्ठ्यजो महान्

त्वं जीवलोकस्य च जीव आत्मा ॥ ३१ ॥

जीवानां प्राणधारकः ॥

त्वत्तः परं नापरमप्यनेज-

देजच्च किञ्चिद् व्यतिरिक्तमस्ति ।
विद्याकलास्ते तनवश्च सर्वा

हिरण्यगर्भोऽसि बृहत् त्रिपृष्ठः ॥ ३२ ॥

‘परावरेषु यस्मात्त्वं व्याप्तो विष्णुः सनातनः ।
तस्मान्न व्यतिरिक्तं त्वदित्याहुर्वेदवेदिनः’’॥ इति पाद्मे ॥ ३२ ॥

विद्याश्च कलाश्च विद्याकलाः ।
‘महाविद्याः कलाश्चैव त्वत्तनावाश्रिता यतः ।
विद्यातनुरिति प्राहुरतस्त्वां तत्त्ववेदिनः’‘इति च । त्रिपृष्ठः तुरीयः ॥

नान्तर्बहिर्दिवानक्तमन्यस्मादपि चायुधैः ।
न भूमौ नाम्बरे मृत्युर्न नरैर्न मृगैरपि ॥ ३६ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये सप्तमस्कन्धे तृतीयोऽध्यायः ॥

‘ब्रह्मणोऽप्यधिकं विष्णुं जानन्नपि हिरण्यकः ।
ब्रह्माणं तद्गुणैः स्तौति तद्गविष्णुविवक्षया’’॥ इति च ॥

चतुर्थोऽध्यायः

एवं लब्धवरो दैत्यो बिभ्रद्धेममयं वपुः ।
भगवत्यकरोद् द्वेषं भ्रातुर्वधमनुस्मरन् ॥ ४ ॥

‘स्वतो भक्ता हिरण्याद्याः परावेशाद्धरौ द्विषः’‘इति च ॥ ४ ॥

तस्मिन् महेन्द्रभवने महासुरो

महाबलो निर्जितलोक एकराट् ।
रेमेऽभिवन्द्याङ्घ्रियुगः सुरादिभिः

प्रतापितैरूर्जितचण्डशासनः ॥ १२ ॥

तमङ्ग मत्तं मधुनोरुगन्धिना

विवृत्तताम्राक्षमशेषधिष्ण्यपाः ।
उपासतोपायनपाणिभिर्विना

त्रिभिस्तपोयोगबलौजसां पदम् ॥ १३ ॥

‘आदित्या वसवो रुद्रास्त्रिविधा हि सुरा यतः ।
मरुतश्चैव विश्वे च साध्याश्चैव च तद्गताः ।
अतस्त्रय इति प्रोक्ताश्चत्वारो मानुषाः स्मृताः’’॥ इति स्कान्दे ॥

‘उपायनं ददुः सर्वे विना देवान् हिरण्यके’’। इति च ।
‘अयज्ञभागेष्वपि तु सुरशब्दः प्रदृश्यते ।
यज्ञभागभुजस्त्वेव त्रय इत्यभिशब्दिताः’’॥ इति च ॥ १२-१३ ॥

यदा देवेषु वेदेषु गोषु विप्रेषु साधुषु ।
धर्मे मयि च विद्वेषः स वा आशु विनश्यति ॥ २८ ॥

निर्वैराय प्रशान्ताय स्वसुताय महात्मने ।
प्रह्लादाय यदा द्रुह्येद्धनिष्येऽपि वरोर्जितम् ॥ २९ ॥

‘यत्र क्व च यशस्थानमन्येषामिति केशवः ।
सर्वत्रापि तु देवानामित्यन्यान्पूजयेत्क्वचित्’’॥ इति च ॥ २८-२९ ॥

यस्मिन् महागुणा राजन् गृह्यन्ते कविभिर्मुहुः ।
न तेऽधुनाऽभिधीयन्ते यथा भगवतीश्वरे ॥ ३५ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये सप्तमस्कन्धे चतुर्थोऽध्यायः ॥

‘अन्येषां हरिसाम्यं तु किञ्चित्साम्यमुदीरितम् ।
सम्यक्साम्यं तु मत्स्यादेरिति शास्त्रस्य निर्णयः’’॥ इति च ॥ ३५ ॥

पञ्चमोऽध्यायः

प्रह्लाद उवाच–

परः स्वश्चेत्यसद्ग्राहः पुंसां यन्मायया कृतः ।
विमोहितधियां दृष्टः तस्मै भगवते नमः ॥ ११ ॥

स यदाऽनुगतः पुंसां पशुबुद्धिर्विभिद्यते ।
अन्य एष तथाऽन्योऽहमिति देहगताऽसती ॥ १२ ॥

‘स्वातन्त्र्येणान्यसद्भावनिषेधाय श्रुतिस्त्वियम् ।
अन्योऽसावन्योऽहमि"ति पश्यन्नज्ञ इति स्म ह ।
आत्मानमन्तर्यमयेदिति भेदं स्वरूपतः ।
आह तद्ब्रह्मणोऽधीना भिन्ना जीवाः सदैव तु ॥

स्वरूपसत्ता कर्तृत्वं भोगो मोक्षस्तथैव च ।
मुक्तस्यावस्थितिश्चैव सर्वं विष्णोर्वशे सदा’’॥ इति ब्रह्मतर्के ॥ ११-१२ ॥

प्रह्लाद उवाच–

श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनम् ।
अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् ॥ २३ ॥

आत्मस्थत्वेन वेदनमात्मनिवेदनम् ।
‘मुक्तस्यापि ममान्तस्थो नियन्तैव हरिः सदा ।
इति ज्ञानं समुद्दिष्टं सम्यगात्मनिवेदनम्’’॥ इति च ॥ २३ ॥

गुरुपुत्र उवाच–

न मत्प्रणीतं न परप्रणीतं

सुतो वदत्येष तवेन्द्रशत्रो ।
नैसर्गिकीयं मतिरस्य राजन्

नियच्छ मन्युं क्व तदाऽऽत्ममानः ॥ २८ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये सप्तमस्कन्धे पञ्चमोऽध्यायः ॥

क्व तदाऽऽत्ममानो मम ॥

षष्ठोऽध्यायः

प्रत्यगात्मस्वरूपेण कालरूपेण च स्वयम् ।
व्याप्यव्यापकनिर्देश्यो ह्यनिर्देश्योविकल्पितः ॥ २८ ॥

‘अन्तर्यामी प्रत्यगात्मा व्याप्तः कालो हरिः स्मृतः’’।इति च ॥ २८ ॥

केवलानुभवानन्दस्वरूपः परमेश्वरः ।
माययान्तर्हितैश्वर्य ईयते गुणसर्गया ॥ २९ ॥

प्रकृत्या तमसाऽऽवृतत्वाद्धरेरैश्वर्यं न ज्ञायते ॥ २९ ॥

तस्मात् सर्वेषु भूतेषु दयां कुरुत सौहृदम् ।
भावमासुरमुन्मुच्य तया तुष्यत्यधोक्षजः ॥ ३० ॥

‘विष्णोर्गृहत्वाद्भूतेषु दया कार्या विजानता’’॥ इति च ॥ ३० ॥

तुष्टे च तत्र किमलभ्यमनन्त आद्ये

किं तैर्गुणव्यतिकरैरिह येऽनुसिद्धाः ।
धर्मादिभिः किमगुणेन च कांक्षितेन

सारं जुषां चरणयोरुपगायतां नः ॥ ३१ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये सप्तमस्कन्धे षष्ठोऽध्यायः ॥

‘काङ्क्षतो मोक्षगमपि सुखं नाकाङ्क्षतो यथा’’॥ इति च ॥

सप्तमोऽध्यायः

जन्माद्याः षडिमे भावा दृष्टा देहस्य नात्मनः ।
फलानामिव वृक्षस्य कालेनेश्वरमूर्तिना ॥ १८ ॥

‘षडि्वकाराः शरीरस्य न विष्णोस्तद्गतस्य तु ।
तदधीनं शरीरं च ज्ञात्वा तन्ममतां त्यजेत्’’॥ इति च ॥

हेतुत्वाद्विष्ण्वधीनत्वं शरीरस्य ॥ १८ ॥

अष्टौ प्रकृतयः प्रोक्तास्त्रय एव हि तद्गुणाः ।
विकाराः षोडशाचार्यैः पुमानेकः समन्वयात् ॥ २२ ॥

‘अभिमान्यपेक्षया विष्णुः पञ्चविंश इति स्मृतः ।
जडव्यपेक्षया जीवः सम्यग्ज्ञेयो हरिः स्मृतः’’॥ इति च ॥ २२ ॥

बुद्धेर्जागरणं स्वप्नः सुषुप्तिरिति वृत्तयः ।
ता येनैवानुभूयन्ते सोऽध्यक्षः पुरुषः परः ॥ २५ ॥

बुद्धेः जीवस्य ।
‘सत्वबुद्ध्यादिशब्दैस्तु जीवोऽपि क्वचिदीर्यते ।
जाग्रदाद्याः कर्म चैव सुखदुःखे च तस्य हि ।
जाग्रदादेः परो द्रष्टा सुखनिष्ठो हरिः स्मृतः ॥ २५ ॥

एभिस्त्रिवर्णैः पर्यस्तैर्बुद्धिभेदैः क्रियोद्भवैः ।
सरूपमात्मनो धत्ते गन्धैर्वायुरिवान्वयात् ॥ २६ ॥

‘स जीवेन सह स्थानात्तत्स्वरूपः प्रदृश्यते ।
अज्ञदृष्ट्या न ज्ञदृष्ट्या यथा गन्धयुतोऽनिलः ॥ २६ ॥

एतद्द्वारो हि संसारो गुणकर्मनिबन्धनः ।
अज्ञानमूलोऽपार्थोऽपि पुंसः स्वप्न इवाप्यते ॥ २७ ॥

अदृष्टेर्जीवपरयोर्भेदस्याप्नोति संसृतिम् ।
अभेदनिश्चयाद्याति तमो नास्त्यत्र संशयः’’॥ इति च ॥

बुद्धिभेदैः जीवानां तारतम्यज्ञापकैः ।
‘दुःखरूपोऽपि संसारो बुद्धिपूर्वमवाप्यते ।
यथा स्वप्ने शिरश्छेदं स्वयं कृत्वाऽऽत्मनोऽवशः ॥

ततो दुःखमवाप्येत तथा जागरितेऽपि तु ।
जानन्नप्यात्मनो दुःखमवशस्तु प्रवर्तते’‘इति च ॥ २७ ॥

तस्माद् भवद्भिः कर्तव्यः कर्मणां त्रिगुणात्मनाम् ।
बीजनिर्हरणे योगः प्रवाहोपरमो धियः ॥ २९ ॥

धियः प्रवाहस्योपरमः परमेश्वरे रमणम् ॥

निशम्य कर्माणि गुणानतुल्यान् वीर्याणि लीलातनुभिः कृतानि ।
यदाऽऽतिहर्षोत्पुलकाश्रुगद्गदः प्रोत्कण्ठ उद्गायति रौति नृत्यति॥ ३५ ॥

यदा ग्रहग्रस्त इव क्वचिद्धस-

त्याक्रन्दते ध्यायति वन्दते जनम् ।
मुहुः श्वसन् वक्ति हरे जगत्पते

नारायणेत्यात्मगतिर्गतत्रपः ॥ ३६ ॥

तदा पुमान् मुक्तसमस्तबन्धन-

स्तद्भावभावानुकृताशयाकृतिः ।
निर्दग्धबीजानुशयो महीयसा

भक्तिप्रयोगेण समेत्यधोक्षजम् ॥ ३७ ॥

तद्भावभावः तद्यथास्वरूपम् भक्तिः ॥

‘केचिद्भक्ता विनृत्यन्ति गायन्ति च यथेप्सितम् ।
केचित्तूष्णीं जपन्त्येव केचिच्चोभयकारिणः’’॥ इति च ॥ ३५-३७ ॥

अधोक्षजालापमिहाशुभात्मनः

शरीरिणः संसृतिचक्रशातनम् ।
तद् ब्रह्मनिर्वाणसुखं विदुर्बुधा-

स्ततो भजध्वं हृदये हृदीश्वरम् ॥ ३८ ॥

ब्रह्मनिर्वाणसुखं ब्रह्मनिमित्तनिर्वाणसुखम् ॥ ३८ ॥

कोऽतिप्रयासोऽसुरबालका हरे-

रुपासने स्वे हृदि छिद्रवत् सतः ।
अस्यात्मनः सख्युरशेषदेहिनां

सामान्यतः किं विषयोपपादनैः ॥ ३९ ॥

अशेषदेहिनां सामान्यतो हृदिस्थत्वेन ॥ ३९ ॥

तस्मादर्थाश्च कामाश्च धर्माश्च यदपाश्रयाः ।
भजतानीहयाऽऽत्मानमनीहं हरिमीश्वरम् ॥ ४९ ॥

‘अप्रयत्नेन करणमनीहा प्रोच्यते बुधैः’’॥ इति च ॥ ४९ ॥

सर्वेषामपि भूतानां हरिरात्मेश्वरः प्रियः ।
भूतैर्महद्भिः स्वकृतैः कृतानां बीजसंज्ञितः ॥ ५० ॥

‘व्यञ्जनाज्जगतो विष्णुर्बीजं न परिणामतः’’। इति च ॥ ५० ॥

दैतेया यक्षरक्षांसि स्त्रियः शूद्रा व्रजौकसः ।
खगा मृगाः पापजीवाः सन्ति ह्यच्युततां गताः ॥ ५५ ॥

॥ इति श्रीभागवततात्पर्यनिर्णये सप्तमस्कन्धे सप्तमोऽध्यायः ॥

अच्युततां च्युतिवर्जनम् ॥

अष्टमोऽध्यायः

ऋषय ऊचुः–

त्वं नस्तपः परममात्थ यदात्मतेजो

येनेदमादिपुरुषात्मगतं समस्तम् ।
तद् विप्रलुप्तममुनाद्य शरण्यपाल

रक्षागृहीतवपुषा पुनरन्वमंस्थाः ॥ ४४ ॥

तद्विप्रलुप्तमिति सादृश्याभेदवचनम् । आलेचनमेव तपः ।
‘यस्य ज्ञानमयं तपः’’॥ इति श्रुतेः ॥

गन्धर्वा ऊचुः–

वयं विभो ते नटनाट्यगायका

येनात्मसाद् वीर्यबलौजसा कृताः ।
स एष नीतो भवता दशामिमां

किमुत्पथस्थः कुशलाय कल्पते ॥ ५१ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये सप्तमस्कन्धे अष्टमोऽध्यायः ॥

‘नटनं तु कथाबन्धो नाट्यकं भावदर्शनम्’’। इति गान्धर्वे ॥ ५१ ॥

नवमोऽध्यायः

साक्षाच्छ्रीः प्रेषिता देवैर्दृष्ट्वा तन्महदद्भुतम् ।
अदृष्टाश्रुतपूर्वत्वात् सा नोपेयाय शङ्किता ॥ २ ॥

प्रह्लादं प्रेषयामास ब्रह्माऽवस्थितमन्तिके ।
तात प्रशमयोपेहि स्वपित्रे कुपितं प्रभुम् ॥ ३ ॥

‘अदृष्टाश्रुतपूर्वत्वादन्यैः साधारणैर्जनैः ।
नृसिंहं शङ्कितेव श्रीर्लोकमोहाय नो ययौ ॥

प्रह्लादे चैव वात्सल्यदर्शनाय हरेरपि ।
ज्ञात्वा मनस्तथा ब्रह्मा प्रह्लादं प्रेषयत्तदा ॥

एकत्रैकस्य वात्सल्यं विशेषाद्दर्शयेद्धरिः ।
अवरस्यापि मोहाय क्रमेणैवापि वत्सलः’’॥ इति ब्रह्माण्डे ॥ २-३ ॥

विप्राद् द्विषड्गुणयुतादरविन्दनाभ-

पादारविन्दविमुखाच्छ्वपचं वरिष्ठम् ।
मन्ये तदर्पितमनोवचनात्मगेह-

प्राणः पुनाति सकलं न तु भूरिमानः ॥ १० ॥

द्विषड्गुणयुतात् ।
‘ज्ञानं च सत्यं च दमः शमश्च

ह्यमात्सर्यं ह्रीस्तितिक्षाऽनसूया ॥

दानं च यज्ञश्च च

महाव्रता द्वादश ब्राह्मणस्य’’॥ इति भारते ॥ १० ॥

यस्मिन् यतो येन च यर्हि यस्य

यस्मै यथा यमुत यस्त्वपरः परो वा ।
भावं करोति विकरोति पृथक् स्वभावः

सञ्चोदितस्तदखिलं भवतः स्वरूपम् ॥ २० ॥

‘कर्तृकर्मक्रियादीनां सत्ता वृत्तिस्तथैव च ।
विष्ण्वधीनं यतः सर्वं सर्वरूपस्तदुच्यते’’॥ इति ब्रह्मतर्के ॥ २० ॥

माया मनः सृजति कर्ममयं बलीयः

कालेन चोदितगुणानुमतेन पुंसः ।
छन्दोमयं यदजयार्पितषोडशारं

संसारचक्रमज कोऽतितरेत्त्वदन्यः ॥ २१ ॥

दशेन्द्रियप्राणमनोऽरम् । मूलं मन एव संसारचक्रस्य ॥ २१ ॥

क्वाहं रजःप्रभव ईश तमोऽधिकेऽस्मिन्

जातः सुरेतरकुले क्व तवानुकम्पा ।
न ब्रह्मणो न तु भवस्य न वै रमाया

यन्मेऽर्पितः शिरसि पद्मकरप्रसादः ॥ २६ ॥

रमादीनामिदानीं नार्पितः ॥ २६ ॥

नैषा परावरमतिर्भवतो ननु स्यात्

जन्तोर्यथाऽऽत्मसुहृदो जगतस्तथाऽपि ।
संसेवया सुरतरोरिव ते प्रसादः

सेवानुरूप उदयो न परावरत्वम् ॥ २७ ॥

रमादीनामधिकोदयोऽपि सेवाधिकत्वादेव ॥

‘श्रीब्रह्मब्राह्मीवीन्द्रादित्रिकतत्स्त्रीपुरुष्टुताः ।
तदन्ये च क्रमादेव सदा मुक्तौ सृतावपि ।
हरिभक्तौ च तज्ज्ञाने सुखे च नियमेन तु ।
परतः स्वतः कर्मतो वा न कथञ्चित्तदन्यथा’’॥ इति ब्रह्मतर्के ॥ २७ ॥

त्वं वा इदं सदसदीश भवांस्ततोऽन्यो

माया यदात्मपरबुद्धिरियं ह्यपार्था ।
यद् यस्य जन्मनिधनं स्थितिरीक्षणं च

तद् वै तदेव खलु कालवदुष्टितर्वोः ॥ ३१ ॥

यथा वृक्षश्च वृक्षदाहश्च दैवकालाधीनत्वाद्दैवं कालश्चेत्युच्यते एवं त्वदधीनत्वात्सर्वस्य सर्वं त्वमित्युच्यसे, स्वतस्तद्भिन्नोऽपि ॥ अहं चान्यश्च परमेश्वर एवेत्यपार्था भ्रान्तिः । तदधीनत्वादेव स इत्युच्यते । न स्वरूपत्वादित्यर्थः ॥ ३१ ॥

न्यस्येदमात्मनि जगद् विलयाम्बुमध्ये

शेषासनो निजसुखानुभवो निरीहः ।
योगेन मीलितदृगात्मनि वीतनिद्र-

स्तुर्यस्थितो ननु तमोऽनुगुणांश्च युंक्षे ॥ ३२ ॥

तुर्यः स्थितः ॥ ३२ ॥

तस्यैव ते वपुरिदं निजकालशक्त्या

सञ्चोदितं प्रकृतिधर्मिण आत्मगूढम् ।
अम्भस्यनन्तशयनाद्विरमत्समाधेः

नाभेरभूत् स्वकणिकाद्वटवन्महाब्जम् ॥ ३३ ॥

तत्सम्भवः कविरतोऽन्यदपश्यमान-

स्त्वां बीजमात्मनि ततं स बहिर्विचिन्वन् ।
नाविन्ददब्दशतमप्सु निमज्जमानो

जातेऽङ्कुरे कथमिहोपलभेत बीजम् ॥ ३४ ॥

जगदात्मकमब्जमपि भगवद्वशत्वात्तद्वपुः ।
‘स्थावराणां तु सर्वेषां देवता याऽभिमानिनी ।
विशेषाद्वटबीजे च साऽश्वत्थे च व्यवस्थिता ॥

अदृश्या कणिका नाम सा वृक्षान्व्यञ्जयत्यपि ।
अतो बीजमिति प्रोक्ता सा जातेऽप्यङ्कुरे स्थिता ॥

एवं हरिः कारणेषु स्थितः कार्यजनेरनु ।
कार्याण्यनुप्रविष्टः सन् प्रथमं तत्र दृश्यते’’॥ इति च ॥ ३३ ॥

स त्वात्मयोनिरतिविस्मित आश्रितोऽब्जं

कालेन तीव्रतपसा परिशुद्धभावः ।
त्वामात्मनीश भुवि गन्धमिवातिसूक्ष्मं

भूतेन्द्रियाशयमये विततं ददर्श ॥ ३५ ॥

एवं सहस्रवदनाङ्घ्रिशिरःकरोरु-

नासास्यकर्णनयनाभरणायुधाढ्यम् ।
मायामयं सदुपलक्षणसन्निवेशं

दृष्ट्वा महापुरुषमाप मुदं विरिञ्चः ॥ ३६ ॥

‘गन्धाख्या देवता यद्वत्पृथिवीं व्याप्य तिष्ठति ।
एवं व्याप्तं जगद्विष्णुं ब्रह्माऽऽत्मस्थं ददर्श ह’’॥ इति च ।
मायामयं ज्ञानस्वरूपम् । सदुपलक्षणसन्निवेशं आनन्दादिलक्षण-समुदायरूपम् ॥ ३६ ॥

प्रायेण देवमुनयः स्वविमुक्तिकामा

मौनं चरन्ति विजने न परार्थनिष्ठाः ।
नैतान् विहाय कृपणान् विमुमुक्ष एको

नान्यं त्वदस्य शरणं भ्रमतोऽनुपश्ये ॥ ४४ ॥

प्रायेण देवमुनयः ।
‘आश्रितेषु कृपा कार्या विशेषात्तात्विकैः सुरैः ।
मुनिभिश्च तथा कैश्चित्कैश्चित्कार्याऽखिलेष्वपि ॥

तथापि तात्विकसुरकृपाविषयतां गताः ।
एत एव विमुच्यन्ते तदन्ये न कथञ्चन’’॥ इति च ॥ ४४ ॥

रूपे इमे सदसती तव वेददृष्टे

बीजाङ्कुराविव न चान्यदरूपकस्य ।
युक्ताः समक्षमुभयत्र विचिन्वते त्वां

योगेन वह्निमिव दारुषु नान्यतः स्यात् ॥ ४७ ॥

॥ इति श्रीभागवततात्पर्यनिर्णये सप्तमस्कन्धे नवमोऽध्यायः ॥

कार्यकारणरूपे तद्वशत्वापेक्षया साक्षात् स्वरूपापेक्षया स्वरूपादन्यद्रूपं न ॥ ४७ ॥

दशमोऽध्यायः

श्रीभगवानुवाच– त्रिः सप्तभिः पिता पूतः पितृभिः सह तेऽनघ । यत् साधोऽस्य कुले जातो भवान् वै कुलपावनः ॥ १९ ॥

जन्मान्तरपितृभिस्त्रिसप्तभिः ॥ १९ ॥

भवन्ति पुरुषा लोके मद्भक्तास्त्वामनुव्रताः ।
भवान् मे खलु भक्तानां सर्वेषां प्रतिरूपधृक् ॥ २२ ॥

‘ऋते तु तात्विकान्देवान्नारदादींस्तथैव च ।
प्रह्लादादुत्तमः को नु विष्णुभक्तौ जगत्रये’’। इति स्कान्दे ॥ २२ ॥

कुरु ते प्रेतकार्याणि पितुः पूतस्य सर्वशः ।
मदङ्गस्पर्शनेनाङ्ग लोकान् यास्यति सुप्रजाः ॥ २३ ॥

‘मधुकैटभौ भक्त्यभावादूरौ भगवतो मृतौ ।
तम एव क्रमादाप्तौ भक्त्या चैद्यो हरिं ययौ’’॥ २३ ॥

श्रीभगवानुवाच– मैवंविधोऽसुराणां ते प्रदेयः पद्मसम्भव । वरः क्रूरनिसर्गाणामहीनाममृतं यथा ॥ ३१ ॥

‘यथा हिरण्यकस्यादादन्तःस्थितहरीरितः ।
तथा नादात्तदन्यस्य ब्रह्मा दैत्यस्य कस्यचित्’’॥ इति च ॥ ३१ ॥

एनः पूर्वकृतं यत् तद् राजानः कृष्णवैरिणः ।
जहुस्तेऽन्ते तदात्मानः कीटाः पेशस्कृतो यथा ॥ ४० ॥

‘पौण्ड्रके नरके चैव साल्वे कंसे च रुग्मिणि ।
आविष्टास्तु हरेर्भक्तास्तद्भक्त्या हरिमीयिरे ।
असुरास्तु स्वयं ते तु महातमसि पातिताः’’॥ इति च ।
तदात्मानस्तत्राविष्टास्तद्भक्ताः । वैरोपसर्जनेनानुबन्धेनेत्यन्वयः ॥ ४० ॥

एषा ब्रह्मण्यदेवस्य कृष्णस्य च महात्मनः ।
अवतारकथा पुण्या वधो यत्रादिदैत्ययोः ॥ ४३ ॥

प्रह्लादस्यानुचरितं महाभागवतस्य च ।
भक्तिर्ज्ञानं विरक्तिश्च याथात्म्यं चास्य वै हरेः ॥ ४४ ॥

सर्गस्थित्यप्ययेशस्य गुणकर्मानुवर्णनम् ।
परावरेषां स्थानानां कालेन व्यत्ययो महान् ॥ ४५ ॥

धर्मो भागवतानां च भगवान् येन गम्यते ।
आख्यानेऽस्मिन् समाख्यातमाध्यात्मिकमशेषतः ॥ ४६ ॥

भगवान्येन गम्यत इत्यनेन भागवतधर्मेणैव भगवान् गम्यते न द्वेषादि-नेत्युपसंह्रियते ॥ वृत्तानुकथनं च तदर्थत्वेनैव ॥

ज्ञानस्य विशेषा याथात्म्यादयः ।
‘भक्तिर्ज्ञानं विरक्तिश्च नवकः श्रवणादिकः ।
धर्मो भागवतः प्रोक्तस्तद्भक्तेषु तथा नव’’॥ इति तन्त्रसारे ॥ ४३-४६ ॥

स वा अयं ब्रह्म महद् विमृग्यं

कैवल्यनिर्वाणसुखानुभूतिः ।
प्रियः सुहृद् वः खलु मातुलेय

आत्माऽर्हणीयो विधिकृद् गुरुश्च ॥ ५० ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये सप्तमस्कन्धे दशमोऽध्यायः ॥

निर्वाणसुखं अशरीरसुखम् । ‘एतद्बाणमवष्टभ्य’’॥ इति श्रुतेः ॥ ५० ॥

एकादशोऽध्यायः

नारद उवाच– स एष भगवान् राजन् व्यतनोद् विततं यशः । पुरा रुद्रस्य देवस्य मयेनानन्तमायिना ॥ १ ॥

तदधीनं वा सर्वं न वेति संशयं रुद्रस्याहनत् । अल्पकेनैव मयेन रुद्रस्य प्रतीकारं कृत्वा ॥ १ ॥

राजोवाच– कस्मिन् कर्मणि देवस्य यशोऽभूज्जगदीशितुः । यथा चोपचिता कीर्तिः कृष्णेनानेन कथ्यताम् ॥ २ ॥

कस्मिन्कर्मणि मयो विपरीतं चकार ॥ २ ॥

वत्स आसीत् तदा ब्रह्मा स्वयं विष्णुरयं हि गौः ।
प्रविश्य त्रिपुरं काले रसकूपामृतं पपौ ॥ तेऽसुरा ह्यपि पश्यन्तो न न्यषेधन् विमोहिताः ॥ १२ ॥

‘सापेक्षं न तु दोषाय यत्र सिद्धमपेक्षितम्’’॥ इति शब्दनिर्णये ॥ १२ ॥

देवोऽसुरो नरोऽन्यो वा नेश्वरोऽस्तीह कश्चन ।
आत्मनोऽन्यस्य वा दिष्टं दैवेनापोहितुं द्वयोः ॥ १४ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये सप्तमस्कन्धे एकादशोऽध्यायः ॥

विष्णुनाऽऽदिष्टं व्यपोहितुं देवोऽसुरोऽन्यो वा न समर्थः ॥ १४ ॥

द्वादशोऽध्यायः

श्रवणं कीर्तनं चास्य स्मरणं महतां गतेः ।
सेवेज्याऽवनतिः सख्यं दास्यमात्मसमर्पणम् ॥ ११ ॥

‘अनाद्यनन्तकालेषु मुक्तौ संसार एव च ।
मयिस्थश्चोदयत्येको विष्णुर्मां सर्वदैव तु ॥

इति सम्प्रीतिकं ज्ञानं विद्यादात्मसमर्पणम् ।
बहिस्थेश्वरदासत्वं दास्यमित्युच्यते बुधैः’’॥ इति तन्त्रमालायाम् ॥ ११ ॥

या पतिं हरिभावेन भजेच्छ्रीरिव तत्परा ।
हर्यात्मना हरेर्लोके पत्या श्रीरिव मोदते ॥ ३० ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये सप्तमस्कन्धे द्वादशोऽध्यायः ॥

‘हरिरस्मिंस्थित इति स्त्रीणां भर्तरि भावना ॥

शिष्याणां च गुरौ नित्यं शूद्राणां ब्राह्मणादिषु ।
भृत्यानां स्वामिनि तथा हरिभाव उदीरितः’’॥ इति च ॥

त्रयोदशोऽध्यायः

द्वैतं तावन्न विरमेत् ततो ह्यस्य विपर्ययः ॥ १० ॥

‘बहुत्वेनैव वस्तूनां यथार्थज्ञानमुच्यते ।
औतज्ञानमित्येतद् द्वैतज्ञानं तदन्यथा ॥

यथाज्ञानं तथा वस्तु यथावस्तु तथा मतिः ॥

नैव ज्ञानार्थयोर्भेदस्तत एकत्ववेदनम्’’॥ इति च ॥ १० ॥

दत्वा वरमनुज्ञातो गुरोः कामं यदीश्वरः ।
गृहं वनं वा प्रविशेत् प्रव्रजेत् तत्र वा वसेत् ॥ १४ ॥

‘गुरोराज्ञानुरोधेन दूरस्थो वा गृही भवेत्’’॥ इति च ॥

अग्नौ गुरावात्मनि च सर्वभूतेष्वधोक्षजम् ।
भूतैः स्वधामभिः पश्येदप्रविष्टं प्रविष्टवत् ॥ १५ ॥

‘अप्रविष्टः सर्वगतः प्रविष्टस्त्वनुरूपवान् ।
एवं द्विरूपो भगवान् हरिरेको जनार्दनः’‘इति च ॥ १५ ॥

आत्मन्यग्नीन् समारोप्य संन्यस्याहं ममात्मताम् ।
कारणेषु न्यसेत् सम्यक् सङ्घातं तु यथार्हतः ॥ २४ ॥

‘कार्यस्य कारणलयज्ञानमात्रं विलापनम्’’॥ इति च ॥ २४ ॥

अप्सु प्रवेशयेद् जिह्वां घ्रेयैर्घ्राणं क्षितौ न्यसेत् ॥

मनो मनोरथैश्चन्द्रे बुद्धिं बोध्यैः कवौ परे ॥ २८ ॥

परः कविर्बृहस्पतिः ॥ २८ ॥

कर्माण्यध्यात्मना रुद्रे यदहंसम्मताः क्रियाः ।
सत्त्वेन चित्तं क्षेत्रज्ञे गुणैर्वैकारिकं परे ॥ २९ ॥

‘चित्तं हिरण्यगर्भे तु विलाप्य परमात्मनि ।
क्षेत्रज्ञाख्ये लापयेच्च ततो नान्यत्स्मरेद्बुधः’’॥ इति च ॥ २९ ॥

इत्यक्षरतयाऽऽत्मानं चिन्मात्रमवशेषितम् ।
ज्ञात्वाऽद्वयोऽथ विरमेद् दग्धयोनिरिवानिलः ॥ ३१ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये सप्तमस्कन्धे त्रयोदशोऽध्यायः ॥

आत्मानं परमात्मानम् । अद्वयः । ततोऽन्यस्मृतिवर्जितः । दग्धयो-निर्यथानल इति कृत्याभावमात्रम् ।
‘न हरिं स्मरतः कृत्यं दग्धेन्धनहुताशवत्’’। इति च ॥

चतुर्दशोऽध्यायः

पश्येदात्मन्यदो विश्वं परे सदसतोऽद्वये ।
आत्मानं च परं ब्रह्म सर्वत्र सदसन्मये ॥ ४ ॥

आत्मनि परमात्मनि ॥ ४ ॥

नासच्छास्त्रेषु सज्जेत नोपजीवेत जीविकाम् ।
अतिवादान् त्यजेत् तर्कान् पक्षं कञ्चिन्न संश्रयेत् ॥ ७ ॥

न शिष्याननुबध्नीत ग्रन्थान् नैवाभ्यसेद् बहून् ।
न व्याख्यामुपजीवेत नारम्भानारभेत् क्वचित् ॥ ८ ॥

अप्रयोजकं पक्षं न संश्रयेत् ।
‘नाप्रयोजनपक्षी स्यान्न वृथा शिष्यबन्धकृत् ।
न चोदासीनशास्त्राणि न विरुद्धानि चाभ्यसेत् ॥

‘न व्याख्ययोपजीवेत न निषिद्धान्समाचरेत् ।
एवं भूतो यतिर्याति तदेकशरणो हरिम्’’॥ इति समाचारे ॥ ७-८ ॥

विकल्पं जुहुयाच्चित्ते तन्मनस्यर्थविभ्रमे ।
मनो वैकारिके हुत्वा मायायां वै जुहोत्यमुम् ॥ ४४ ॥

चित्ते मनोवृत्त्यभिमानिनि । अर्थविभ्रमे अर्थेषु भ्रममाणे ।
‘चित्ताख्याग्नेरधीनं हि जगदेतद्विचिन्तयेत् ।
मनोनामेन्द्रवशगमग्निं च प्रविचिन्तयेत्’’॥ इत्यादि च ॥ ४४ ॥

स्वात्मवृत्तं मयेत्थं ते सुगुप्तमनुवर्णितम् ।
व्यपेतं लोकशास्त्राभ्यां भवान् हि भगवत्प्रियः ॥ ४६ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये सप्तमस्कन्धे चतुर्दशोऽध्यायः ॥ १३ ॥

‘अशास्त्रीयत्वान्मुखतः शास्त्रापेतमिदं विदुः ।
शास्त्रनिर्णयगम्यत्वाच्छास्त्रीयमभिधीयते’’॥ इति च ॥

पञ्चदशोऽध्यायः

कृमिविड्भस्मनिष्ठान्तं क्वेदं तुच्छं कलेवरम् ।
क्व तदीयरतिर्भार्या क्वायमात्मा नभश्छदिः ॥ १४ ॥

नभश्छदिः नभोव्याप्यस्थितः परमात्मा ॥ १४ ॥

तृतीयायां शुक्लपक्षे नवम्यामथ कार्तिके ।
चतसृष्वप्यष्टकासु हेमन्ते शिशिरे तथा ॥ २२ ॥

‘सप्तम्यादित्रयं चैव तथा चैत्रत्रयोदशी ।
चतस्रस्त्वष्टकाः प्रोक्ताः सर्वपक्षाद्विशेषतः’’॥ इति च व्यासस्मृतौ ॥

‘हेमन्ते शिशिरे चैव नित्यश्राद्धं गुणोत्तरम्’’। इति च ॥ २२ ॥

पुराण्यनेन सृष्टानि नृतिर्यगृषिदेवताः ।
शेते जीवेन रूपेण पुरेषु पुरुषो ह्यसौ ॥ ३८ ॥

जीवेन रूपेण सह ॥ ३८ ॥

तेष्वीशो भगवान् राजन् तारतम्येन वर्तते ।
तस्मात् पात्रं हि पुरुषो यावानात्मा यथेयते ॥ ३९ ॥

ब्रह्मादिस्थावरान्तेषु न विशेषो हरेः क्वचित् ।
व्यक्तिमात्रविशेषेण तारतम्यं वदन्ति च’’॥ इति च ॥ ३९ ॥

पुरुषेष्वपि राजेन्द्र सुपात्रं ब्राह्मणं विदुः ।
तपसा विद्यया तुष्ट्या धत्ते वेदं हरेस्तनुम् ॥ ४२ ॥

तन्वोऽस्य ब्राह्मणा राजन् कृष्णस्य जगदात्मनः ।
पुनन्तः पादरजसा त्रिलोकीं दैवतं महत् ॥ ४३ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये सप्तमस्कन्धे पञ्चदशोऽध्यायः ॥

‘शिलावत्प्रतिमाः सन्तो विप्राद्याश्च हरेः स्मृताः’’॥

इति च ॥ ४२-४३ ॥

षोडशोऽध्यायः

निषेकादिश्मशानान्तैः संस्कारैः संस्कृताः द्विजाः ।
इन्द्रियेषु क्रियायज्ञान् ज्ञानदीपेषु जुह्वति ॥ ५२ ॥

इन्द्रियाणि मनस्येवं वाचि वैकारिकं मनः ।
तां तु वर्णसमाम्नाये तमोङ्कारे स्वरे न्यसेत् ॥ ५३ ॥

ओङ्कारं बिन्दुनादे तु तं तु प्राणे महत्यमुम् ।
‘यज्ञाभिमानिनो देवान्स्मरन्तीन्द्रियमानिनाम् ।
वशगांस्तान्मनोमानिसुरेन्द्रस्य वशे स्थितान् ॥

वेदात्मिकायाः पार्वत्यास्तं तां रुद्रवशे स्थिताम् ।
वर्णत्रयात्मकं रुद्रं शेषे तु प्रणवात्मके ॥

बिन्दुरूपसरस्वत्यां तं तां तस्यां पुनर्न्यसेत् ।
मूलस्थानादरूपायां तां वायौ तं जनार्दने ॥

प्रकृतावथवा प्राणं तामेव पुरुषोत्तमे’’॥ इति ब्रह्मतर्के ॥ ५२-५३ ॥

अग्निः सूर्यो दिवा वायुः शुक्लो राकोत्तरः स्वराट् ॥ ५४ ॥

स्वराट् इन्द्रः ॥ ५४ ॥

विश्वोऽथ तैजसः प्राज्ञस्तुर्य आत्मा समन्वयः ।
देवयानमिदं प्राहुर्भूत्वा भूत्वाऽनुपूर्वशः । आत्मयाज्युपशान्तात्मा ह्यात्मस्थो न निवर्तते ॥ ५५ ॥

‘विश्वाद्या अनिरुद्धाद्यास्ते द्विधा सम्प्रकीर्तिताः ।
विष्णुरूपास्तदन्ये च तान्सर्वान्याति मोक्षगः ॥

तदन्ये च दिवस्पुत्राः सर्वे च द्युसमीपगाः ।
ते दिवं प्रापयन्त्येनं सा वायुं स हरिं पृथक् ॥

विश्वादिरूपं तुर्यश्च वासुदेवश्च नापरः’’॥ इति च ।
अधिको भूत्वा सुखादिभिः ॥ ५५ ॥

य एते पितृदेवानामयने देवनिर्मिते ।
शास्त्रेण चक्षुषा वेद जनस्थोऽपि न मुह्यति ॥ ५६ ॥

‘भक्तिमान्मार्गविन्नैव नीचां गतिमवाप्नुयात्’’॥ इति च ॥ ५६ ॥

आदावन्तेऽजनानाशं बहिरन्तः परावरम् ।
ज्ञानं ज्ञेयं वचो वाच्यं तमो ज्योतिश्च यत् स्वयम् ॥ ५७ ॥

ग्लापकत्वात् तमः ॥ ५७ ॥

अबाधितोऽपि ह्याभासो यथा वस्तुतया स्मृतः ।
दुर्घटत्वादैन्द्रियकं तद्वदर्थविकल्पितम् ॥ ५८ ॥

दुर्घटत्वादर्थत्वेन परमेश्वरेणैव कल्पितम् ॥ ५८ ॥

क्षित्यादीनां इहार्थानां छाया न कतमाऽपि हि ।
न संघातो विकारोऽपि न पृथङ् नान्वितोऽपि वा ॥ ५९ ॥

‘छाया रीतिः प्रकारश्च भावश्चेत्यभिधीयते’’। इति शब्दनिर्णये ।
क्षित्यादीनां पदार्थानां कतमोऽपि प्रकारो न घटते । परमेश्वरकल्पितत्वात्कार्यमित्येव वक्तुं युक्तम् । न हि बह्वपां सङ्घातमात्रं पृथिवी । न च विकारमात्रम् । न हि कालुष्यादिविकारमात्रेण पृथिवी भवति । न चाद्भ्यः पृथक्स्थितिः । न च वस्तुद्वयवत् सहावस्थानमात्रम् ॥ ५९ ॥

धातवोऽवयवित्वाच्च तन्मात्रावयवैर्विना ।
न स्युर्ह्यसत्यवयविन्यासन्नावयवा इव ॥ ६० ॥

एवमवयवावयविनोरपि ॥ ६० ॥

स्यात् सादृश्यभ्रमस्तावद् विकल्पे सति वस्तुनः ।
जाग्रत्स्वप्नौ यथा स्वप्ने तथा विधिनिषेधता ॥ ६१ ॥

न च सादृश्यमात्रम् । वस्तुभेदे हि तद्युज्यते । तस्मात्स्वप्न एव । जाग्रत्स्वप्नौ यथा विशेषतो दृश्येते तथा पृथिव्यबादिविशेषो दुर्घटोऽपीश्वरकल्पनयैवासौ दृश्यते तथा पृथिव्यबादिविशेषो दुर्घटोऽपीश्वरकल्पनयैवासौ दृश्यते ।
‘कार्यकारणवस्तूनां विशेषो न निरूपितः ।
तथा पीशेच्छयैवासौ दृश्यते नियतोऽपि च’’॥ इति च ॥ ६१ ॥

अहं पुराऽभवं कश्चिद् गन्धर्व उपबर्हणः ।
नाम्नाऽतीते महाकल्पे गन्धर्वाणां सुसम्मतः ॥ ६९ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये सप्तमस्कन्धे षोडशोऽध्यायः ॥

॥ सप्तमः स्कन्धः समाप्तः ॥

अतीतमहाकल्पे अतीतब्रह्मकल्पे ॥ ६९ ॥

‘ब्रह्मकालः परश्चेति महाकल्पश्च कीर्तितः’’। इति च ॥