०६

प्रथमोऽध्यायः

यमदूता ऊचुः–

वेदप्रणिहितो धर्मो ह्यधर्मस्तद्विपर्ययः ।
वेदो नारायणः साक्षात्स्वयम्भूरिति शुश्रुम ॥ ४० ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये षष्ठस्कन्धे प्रथमोऽध्यायः ॥

‘वेदानां प्रथमो वक्ता हरिरेव यतो विभुः ।
अतो विष्ण्वात्मका वेदा इत्याहुर्वेदवादिनः’’॥ इति शब्दनिर्णये ॥ ४० ॥

द्वितीयोऽध्यायः

साङ्केत्यं पारिहास्यं वा स्तोभं हेलनमेव वा । वैकुण्ठनामग्रहणमशेषाघहरं विदुः ॥ १४ ॥

म्रियमाणो हरेर्नाम गृणन् पुत्रोपचारितम् ।
अजामिलोऽप्यगान्मुक्तिं किमुत श्रद्धया गृणन् ॥ ५२ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये षष्ठस्कन्धे द्वितीयोऽध्यायः ॥

नारायणोऽयमित्यन्यहेलनविषयत्वेनोक्तमघहरम् ।
‘सर्वथाऽघहरं विष्णोर्नाम तद्भक्तिपूर्वकम् ।
अभक्तयोदाहृतं नैव फलदातृ भविष्यति ॥

नामस्वामितया तस्य स्मरणं जायते यतः ।
भक्तस्यातो नामकीर्तिः सङ्केतादावपीरिता ॥

अजामिलोऽपि स्मरणाद्भक्तया मृत्योरमुच्यत’’॥ इति नारदीये ॥ १४,५२ ॥

तृतीयोऽध्यायः

यम उवाच–

परो मदन्यो जगतस्तस्थुषश्च

ओतं प्रोतं पटवद् यत्र विश्वम् ।
यदंशतोऽस्य स्थितिजन्मनाशा

नस्योतवद् यस्य वशे च लोकः ॥ १२ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये षष्ठस्कन्धे तृतीयोऽध्यायः ॥

ओतं प्रोतं पटवत् ।
‘यथा कन्थापटाः सूत्र ओताः प्रोताश्च संस्थिताः ।
एवं विष्णाविदं विश्वमोतं प्रोतं च संस्थितम्’’॥ इति स्कान्दे ॥ १२ ॥

चतुर्थोऽध्यायः

न यस्य सख्यं पुरुषो वेत्ति सख्युः

सखा वसन् संवसतः पुरेऽस्मिन् ।
गुणो यथा गुणिनोऽव्यक्तदृष्टि-

स्तस्मै महेशाय नमस्करोमि ॥ २४ ॥

गुणो यथा गुणिनः । कश्चित्पुरस्थितो गुणभूतः प्रधानभूतस्य राज्ञः ममासौ सखेति राज्ञा चिन्तितमपि न जानाति ।
‘यथा राज्ञः प्रियत्वं तु भृत्यो वेद न चात्मनः ।
तथा जीवो न यत्सख्यं वेत्ति तस्मै नमोस्तु ते’’॥ इति स्कान्दे ॥ २४ ॥

देहोऽसवोऽक्षा मनवो भूतमात्रा

नात्मानमन्यं च विदुः परं यत् ।
सर्वं पुमान् वेद गुणांश्च तज्ज्ञो

न वेद सर्वज्ञमनन्तमीडे ॥ २५ ॥

‘देहमानी वैश्रवणो मरुतः प्राणमानिनः ।
इन्द्राद्या इन्द्रियात्मानो रुद्रोऽन्तःकरणात्मकः ॥

नैते विदन्ति स्वात्मानं परं वापि विमोहिताः ।
जीवाभिमानी ब्रह्मा तु सर्वं वेद प्रजापतिः ॥

सोऽपि वेद हरिं नैव सम्यक्सैव हि सर्ववित्’’॥ इति च ॥ २५ ॥

यदोपरामो मनसो नामरूप-

रूपस्य दृष्टिस्मृतिसंप्रमोषात् ।
य ईयते केवलया स्वसंस्थया

हंसाय तस्मै शुचिसद्मने नमः ॥ २६ ॥

केवलया स्वसंस्थया । स्वप्नसुषुप्त्यादौ मनस उपरमाज्जीवस्यास्वातन्त्र्य-दर्शनेऽपि स्वप्नप्रबोधादिदर्शनादन्य ईश्वरस्तन्नियामकोऽस्तीति ज्ञायते । जीवेच्छाभावात्केवलत्वम् ।
‘यदोपरामो मनसः स्वप्नसुप्तिलयादिषु ।
तदावस्थाप्रबोधादिकारणत्वेन केशवः ॥

अस्वातन्त्र्यात्तु जीवस्य विद्यतेऽन्यो नियामकः ।
जीवप्रवृत्त्यानुकूल्याज्ज्ञायतेऽसौ तदा विभुः’’॥ इति हरिवंशेषु ॥२६॥

मनीषिणोऽन्तर्हृदि सन्निवेशितं

स्वशक्तिभिर्नवभिश्च त्रिवृद्भिः ।
वह्निं यथा दारुणि पाञ्चदश्यं

मनीषया निष्कृषन्तीह गूढम् ॥ २७ ॥

इच्छादिरूपेण त्रिवृद्भिः ।
‘इच्छादित्वेन त्रिविधा विमलाद्यास्तु शक्तयः ।
विष्णोः स्वरूपभूता यास्ताभ्यस्तन्नामिकाः पराः ॥

जायन्ते तत्प्रसादेव ताश्च पीठे प्रपूजयेत् ।
तद्भिन्नजीवास्तस्यैव प्रसादात्तत्समीपगाः’’॥ इति तन्त्रनिर्णये ।
‘दशेन्द्रियाणि च मनो बुद्धिप्राणप्रधानकाः ।
चतुर्दशैषां परमः पाञ्चदश्यो हरिः स्मृतः ॥

बुद्धेर्भेदेन वैतेषु पाञ्चदश्योऽथ संस्थितेः’’॥ इति च ॥ २७ ॥

स वै ममाशेषविशेषमाया-

निषेधनिर्वाणसुखानुभूतिः ।
स सर्वनामा स च विश्वरूपः

प्रसीदतामनिरुक्तात्मशक्तिः ॥ २८ ॥

‘इयत्ता तु विशेषः स्यादानन्दादौ तदुज्झितेः । सर्वैर्विशेषै रहित उच्यते हरिरव्ययः । अप्राकृतस्वरूपत्वान्निर्मायश्चेति कथ्यते’’॥ इति च ।
‘तद्रूपसदृशं रूपं यतः सर्वस्य सर्वदा । सर्वरूपो यतः शब्दमुख्यार्थः सर्वनामकः’’॥ इति च ॥ २८ ॥

यद्यन्निरुक्तं वचसा निरूपितं

धियाऽक्षिभिर्वा मनसा वोत यस्य ।
मा भूत् स्वरूपं गुणरूपबृंहितं

स वै गुणापायनिसर्गलक्षणः ॥ २९ ॥

अलौकिकत्वान्नो विष्णुर्निरुक्तो नो निरूपितः ।
तथापि वेदेषूक्तत्वादुक्तो रूपित एव च’’॥ इति व्योमसंहितायाम् ॥ २९ ॥

यस्मिन् यतो येन च यस्य यस्मै

यं यो यथा कुरुते कार्यते वा ।
परावरेषां परमं प्राक् स्वसिद्धं

तद् ब्रह्म तद्धेतुरनन्यदेकम् ॥ ३० ॥

सप्तविभक्त्यर्थस्य कालस्य प्रकारस्य च हेतुर्ब्रह्मैव ।
‘विभक्त्यर्थस्य कालस्य प्रकाराणां च कारणम् ।
एक एव परो विष्णुः सर्वसत्ताप्रदत्वतः’’॥ इति भविष्यत्पर्वणि ॥

‘अनन्यः सदृशाभावादेको रूपाद्यभेदतः’’॥ इति च ॥ ३० ॥

अस्तीति नास्तीति च वस्तुनिष्ठयो-

रेकस्थयोर्भिन्नविरुद्धधर्मयोः ।
अपेक्षितं किञ्चन सांख्ययोगयोः

समं परं ह्यनुकूलं बृहत् तत् ॥ ३२ ॥

‘मदन्यो नास्ति सर्वेश इति विध्द्यासुरं मतम् ।
अस्तीति दैवमुभयोर्हरिरेव ह्यपेक्षितः ॥

निषेधविध्योर्विषयः फलदाता च केशवः ।
तादृग्बुद्धेः कारणं च स्थानयोश्चोच्चनीचयोः’’॥ इति च ॥ ३२ ॥

योऽनुग्रहार्थं भजतां पादमूल-

मनामरूपो भगवाननन्तः ।
नामानि रूपाणि च जन्मकर्मभि-

र्भेजे स मह्यं परमः प्रसीदताम् ॥ ३३ ॥

‘तत्कर्मणामदृष्टत्वादनामा चाप्यदर्शनात् ।
अरूपस्त्ववतारेण रूपकर्माणि दर्शयेत् ॥

नित्यरूपो नित्यकर्माऽप्यव्यक्तत्वमपेक्ष्य तु ।
अरूपकर्मेत्युदितो रूपकर्मोज्झितेर्न तु’’॥ इति प्रकाशसंहितायाम् ।
‘अनामा सोऽधिकार्थत्वादव्यक्तत्वादरूपकः ।
कंसारित्वादिसामर्थ्यो व्यक्तरूपोऽवतारगः’’॥ इति च ।
‘लोकदृष्ट्याधिकार्थानि मूलनामानि केशवे ।
अथ दामोदरादीनि लोकदृष्ट्या समानि तु ॥

आनन्दोऽव्यक्तरूपस्तु मूलरूपमुदाहृतम् ।
स एव व्यक्तिमापन्नः प्रादुर्भाव उदीरितः’‘इति च ॥ ३३ ॥

यः प्राकृतैर्ज्ञानपथैर्जनानां

यथाशयं देहगतो विभाति ।
यथाऽनिलः पार्थिवमाश्रितो गुणं

स ईश्वरो मे कुरुतान्मनोरथम् ॥ ३४ ॥

‘स्वदेहस्थं हरिं प्राहुरधमा जीवमेव तु ।
मध्यमाश्चाप्यनिर्णीतं जीवाद्भिन्नं जनार्दनम् ॥

पूर्णानन्दादिगुणकं सर्वजीवविलक्षणम् ।
उत्तमास्तु हरिं प्राहुस्तारतम्येन तेषु च ॥

बुद्धिशुध्द्यनुसारेण यथाप्राणं शरीरगम् ।
श्वासमात्रं जनाः प्राहुरनिर्णीतं च मध्यमाः ॥

देवदेवेश्वरं सूत्रमानन्दं प्राणवेदिनः’‘इति च ॥ ३४ ॥

ब्रह्मा भवो भवन्तश्च मनवो विबुधेश्वराः ।
विभूतयो मम ह्येता भूतानां भूतिहेतवः ॥ ४५ ॥

‘विशेषव्यक्तिपात्रत्वात् ब्रह्माद्यास्तु विभूतयः ।
तदन्तर्यामिणश्चैव मत्स्याद्या विभवाः स्मृताः’’ ॥ इति तन्त्रनिर्णये ॥ ४५ ॥

तपो मे हृदयं ब्रह्म तनुर्विद्या क्रियाऽऽकृतिः ।
अङ्गानि क्रतवो जाता धर्म आत्माऽसवः सुराः ॥ ४६ ॥

‘तपोऽभिमानी रुद्रस्तु विष्णोर्हृदयमाश्रितः ।
विद्यारूपा तथैवोमा विष्णोस्तनुमुपाश्रिता ॥

शृृङ्गाराद्याकृतिगतः क्रियात्मा पाकशासनः ।
ओषु क्रतवः सर्वे मध्यदेहे च धर्मराट् ॥

प्राणे वायुश्चित्तगतो ब्रह्मान्याः खेषु देवताः’’॥ इति च ॥

‘यदाश्रितं यद्भवति तत्तन्नामकमीरितम्’’॥ इति शब्दनिर्णये ॥ ४६ ॥

अहमेवेदमासाग्रे नान्यत् किञ्चान्तरं बहिः ।
संज्ञानमात्रमव्यक्तं प्रसुप्तमिव विश्वतः ॥ ४७ ॥

सञ्ज्ञानमात्रं यदिदं त्वया तपसा दृष्टं मम रूपं तदेवाग्र आसीत् ।
‘नानावर्णो हरिस्त्वेको बहुशीर्षभुजोरुपात् ।
आसील्लये तदन्यत्तु सूक्ष्मरूपं श्रियं विना ॥

असुप्तः सुप्त इव च मीलिताक्षोऽभवद्धरिः ।
अन्यत्रानादराद्विष्णौ श्रीश्च लीनेव कथ्यते ॥

सूक्ष्मत्वेन हरौ स्थानाल्लीनमन्यदपीष्यते’’॥ इति मात्स्ये ॥ ४७ ॥

मय्यनन्तगुणेऽनन्ते गुणतोऽनन्तविग्रहे ।
यदासीत् तत एवाद्यः स्वयम्भूः समभूदजः ॥ ४८ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये षष्ठस्कन्धे चतुर्थोऽध्यायः ॥

गुणतोऽनन्ते ।
‘प्रत्येकशो गुणानां तु निःसीमत्वमुदीर्यते ।
तदानन्त्यं तु गुणतस्ते चानन्ता हि सङ्ख्यया ।
अतोऽनन्तगुणो विष्णुर्गुणतोऽनन्त एव च’’॥ इति तन्त्रभागवते ॥ ४८ ॥

अष्टमोऽध्यायः

सनत्कुमारोऽवतु कामदेवा-

द्धयशीर्षो मां पथि देवहेलनात् ।
देवर्षिवर्यः पुरुषान्तरार्चनात्

कूर्मो हरिर्मां निरयादशेषात् ॥ १७ ॥

सनत्कुमारोऽवतु कामदेवात् ।
‘सनत्कुमारनामा तु ब्रह्मचर्यवपुर्हरिः ।
सनत्कुमारमपरं ब्रह्मपुत्रं विवेश यः ।
स मां योग्येतरात्कामात्पातु विश्वेश्वरः प्रभुः’’॥ इति च ।
देवर्षिवर्यः पुरुषान्तरार्चनात् । विष्णोरपरिवारत्वदृष्ट्या देवान्तरार्चनात् ।
‘महिदासो देवऋषिः पातु मां विष्णुरव्ययः ।
तदनर्पितकर्मभ्यस्तदस्मरणतस्तथा’’॥ इति च ॥ १७ ॥

यथा हि भगवानेव वस्तुतः सदसच्च यत् ।
सत्येनानेन नः सर्वे यान्तु नाशमुपद्रवाः ॥ ३१ ॥

तथैकात्म्यानुभावेन विकल्परहितः स्वयम् ।
भूषणायुधलिङ्गाख्या धत्ते शक्तीः स्वमायया ॥ ३२ ॥

तेनैव सत्यमानेन सर्वज्ञो भगवान् हरिः ।
पातु सर्वैः स्वरूपैर्नः सदा सर्वत्र सर्वगः ॥ ३३ ॥

यथा हि भगवानेव–

‘सदसन्नियामकतया सदसद्रूप उच्यते ।
सत्येनानेन मां देवः पातु विष्णुश्चतुर्भुजः’’॥

‘एक एव परो विष्णुर्भूषाहेतिध्वजेष्वजः ।
तत्तच्छक्तिप्रदत्वेन स्वयमेव व्यवस्थितः ।
सत्येनानेन मां देवः पातु सर्वेश्वरो हरिः’’॥ इति ॥ ३१-३३ ॥

एतद् धारयमाणस्तु यं यं पश्यति चक्षुषा ।
पदा वा संस्पृशेत् सद्यः साध्वसात् स विमुच्यते ॥ ३६ ॥

न कुतश्चिद् भयं तस्य विद्यां धारयतो भवेत् ।
राजदस्युग्रहादिभ्यो व्याध्यादिभ्यश्च कर्हिचित् ॥ ३७ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये षष्ठस्कन्धे अष्टमोऽध्यायः ॥

‘गुरुशिष्ययोरयोग्यत्वाद्गुरुवृत्तेरपूर्तितः ।
अप्रसादाद्गुरोर्विद्या न यथोक्तफलप्रदा’’॥ इति च ॥

‘विद्याः कर्माणि च सदा गुरोः प्राप्ताः फलप्रदाः ।
अन्यथा नैव फलदाः प्रसन्नोक्ताः फलप्रदाः’’॥ इति च तन्त्रसारे ॥ ४३ ॥

नवमोऽध्यायः

देवा ऊचुः–

वाय्वम्बराग्न्यप्क्षितयस्त्रिलोका

ब्रह्मादयो ये वयमुद्विजन्तः ।
हराम यस्मै बलिमन्तकोऽसौ

बिभेति यस्मादरणं ततो नः ॥ २० ॥

‘कालोऽन्तकः प्रधानं च मृत्युरव्यक्तमित्यपि ।
उच्यते प्रकृतिः सूक्ष्मा श्रीर्भूर्दुर्गेति नामभिः ॥

सैव ब्रह्मादिभयदा विष्णोश्च वशवर्तिनी ।
अभयापि बिभेतीव तद्वशत्वादुदीर्यते’’॥ इति तु माहात्म्ये ॥ २० ॥

पुरा स्वयम्भूरपि संयमाम्भ-

स्युदीर्णवातोर्मिरवैः कराले ।
एकोऽरविन्दात् पतितस्ततार

तस्माद् भयाद् येन स नोऽस्तु पारः ॥ २३ ॥

‘यत्र वायूदपद्मादिरूपेण प्रकृतिः स्थिता ।
एकस्तत्राबिभेद्ब्रह्मा विचार्य भयमत्यगात् ॥

अन्तर्गतो हरिस्तस्य ध्यातो भयमपानुदत्’’॥ इति च ॥

‘जनिष्यतां जनानां तु स्वभावानां प्रसिद्धये ।
ज्ञानादिगुणपूर्णस्य ब्रह्मणोऽपि क्षणार्धगाः ॥

भयादिका भवन्तीव कथं तस्मिन्स्थिरालयाः’’॥ इति च ॥

‘भगवत्प्रीतये नित्यं ब्रह्मणो ये भयादयः ।
न वृथा तस्य भावः स्यात्कश्चित्तेऽपि क्षणार्धगाः ॥

अज्ञानं च चतुर्वारं द्विवारं भयमेव च ।
शोकोऽपि तावान्नान्यत्र कदाचिद्ब्रह्मणो भवेत् ॥

तत्रापि भगवत्प्रीत्या उन्नत्यैवास्य तद्भवेत्’’॥ इति ब्रह्मतर्के ॥ २३ ॥

य एक ईशो निजमायया नः

ससर्ज येनानुसृजाम विश्वम् ।
वयं च यस्यापि पुरः समेताः

पश्याम लिङ्गं पृथगीशमानिनः ॥ २४ ॥

लिङ्गमेव पश्यामः ।
‘कदाचिदभिमानस्तु देवानामपि सन्निव ।
प्रायः कालेषु नास्त्येव तारतम्येन सोऽपि तु’’॥ इति च ॥ २४ ॥

आत्मतुल्यैः षोडशभिर्विना श्रीवत्सकौस्तुभौ ।
पर्युपासितमुन्निद्रशरदम्बुरुहेक्षणम् ॥ २८ ॥

‘श्रीवत्सः प्रकृतिर्ज्ञेया ब्रह्माख्यः कौस्तुभः पुमान् ।
तदतीतैः षोडशभिः स्वरूपैरप्युपास्यते’’॥ इति च ।
श्रीवत्सकौस्तुभौ विनाऽऽत्मतुल्यैः प्रकृतिपुरुषातीतत्वात्सप्तदशरूपाण्यपि तुल्यानीत्यर्थः । आत्मभूतैश्च तुल्यैश्च आत्मतुल्यैः ।
‘अपुंप्रकृत्यधीनत्वाद्वासुदेवादिका हरेः ।
तुल्याश्च केशवाद्याश्च न च भिन्नाः कथञ्चन’’॥ इति तन्त्रसारे ॥

श्रीवत्सकौस्तुभाभ्यां तु विनाभावं प्रदर्शयेत् ।
पुंप्रकृत्यात्मकाभ्यां स धत्ते नित्यं जनार्दनः ॥

यदस्याभ्यामतीतत्वं यद्वशो नानयोर्हरिः ।
श्रीवत्सकौस्तुभाभ्यां तु विनाभावः स एव तु’’॥ इति च ॥

‘आत्मैव सप्तदशधा स्वयं भूत्वा जनार्दनः ।
मध्यस्थावृतिरूपेण क्रीडते पुरुषोत्तमः’’॥ इति च ॥ २८ ॥

देवा ऊचुः–

नमस्ते यज्ञवीर्याय वयसे उत ते नमः ।
नमस्ते अस्तु चक्राय नमोऽस्तु पुरुहूतये ॥ ३० ॥

‘वयः सर्वस्य वयनाद्भगवान्पुरुषोत्तमः’’॥ इति च ।
‘मा तन्तुश्छेदि वयतो धियं मे’’॥ इति श्रुतिः ॥ ३० ॥

यत् ते गतीनां तिसृणामीशितुः परमं पदम् ।
नार्वाचीनो विसर्गस्य धातुर्वेदितुमर्हति ॥ ३१ ॥

‘देवलोकात्पितृलोकान्निरयाच्चापि यत्परम् ।
तिसृभ्यः परमं स्थानं वैष्णवं विदुषां गतिः’’॥ इति माहात्म्ये ॥ ३१ ॥

अथ तत्र भगवान् किं देवदत्तवदिह गुणविसर्गापतितः पारतन्त्र्येण

स्वकृतकुशलाकुशलफलमुपाददाति आहोस्विदात्माराम उपशमशीलः समञ्जसदर्शन उदास्त इति ह

वाव न विदामः ।न हि विरोध उभयं भगवत्यपरिगणितगुणगण ईश्वर अनवगाह्य-माहात्म्ये

अर्वाचीनविकल्पवितर्कविचारप्रमाणाभासकुतर्कशास्त्रकलिलान्तःकरणदुरवग्रहवादिनां च

विवादानवसरे उपरतसमस्तमाया-मये केवलस्वात्ममायामन्तर्धाय को नु दुर्घट इव भवति ।
स्वरूपद्वयाभावात् समविषममतीनां मतमनुसरसि यथा रज्जुखण्डः सर्पादिधियाम् । स एव हि पुनः सर्ववस्तुषु वस्तुस्वरूपः सर्वेश्वरः सकलजगत्कारणकारणभूतः सर्वप्रत्यगात्मत्वात्

सर्वगुणाभासोपलक्षित एक एव पर्यवशेषितः ।अथ ह वाव तव

महिमामहामृतरससमुद्रविप्लुषाऽसकृल्लीढया स्व-मनसि निष्यन्दमानानवरतसुखेन

विस्मारितदृष्टश्रुतविषयसुखलेशाभासाः परमभागवता एकान्तिनो भगवति सर्वभूतप्रियसुहृदि

सर्वात्मनि निरन्तरनिर्वृतमनसः कथमु ह वा एते मधुमथन पुनः स्वार्थकुशला ह्यात्मप्रियसुहृदः

साधवस्त्वच्चरणाम्बुजानुसेवां विसृजन्ति न यत्र पुनरयं संसारपरिवर्तः ।
त्रिभुवनात्मभवन त्रिविक्रम त्रिनयन त्रिलोकमनोहरानुभाव तवैव विभूतयोऽभूवन्

दितिजदनुजादयश्चापि तेषामनुपक्रमसमयोऽयमिति स्वात्ममायया सुरनरमृगमिश्रितजलचराकृतिभिः

यथाऽ-पराधं दण्डं दधर्थावतीर्य ॥ ३३ ॥

अथ तत्र भगवान् किं देवदत्तवदित्याक्षेपः । अचिन्त्यशक्तेरनन्तगुणस्य कुतः पारतन्त्र्यादिकमित्यभिप्रायः । उपरतसमस्तमायामये प्राकृतस्वभाववर्जिते । केवलं स्वात्ममायां निजसामर्थ्यम् । स्वरूपद्वयाभावादित्यादि समाधानम् ।
‘स्वतन्त्रः परतन्त्रो वा ज्ञोऽज्ञो दुःखी सुखी नु किम् ।
इत्यादिसंशयः क्व स्याज्ज्ञानिनां पुरुषोत्तमे ॥

तस्यानन्तगुणत्वाच्च पूर्णशक्तित्वतो हरेः ।
स्वातन्त्र्यादिकमेवास्य विदो जानन्ति निश्चयात् ॥

घटकत्वाद्दुर्घटस्य दुर्ज्ञेयत्वाच्च सर्वशः ।
तच्छक्तेरविदो जीवं परतन्त्रं वदन्त्यमुम् ॥

एवं दुर्घटया शक्त्या ज्ञाज्ञानां परमेश्वरः ।
यथा रज्जुः सर्पधिया रज्जुबुध्द्यावगम्यते ॥

तथा यथार्थबुध्द्या च मिथ्याबुद्ध्याऽवगम्यते ।
स्वेच्छयैव महाविष्णुः फलदश्चानुसारतः’’॥ इति तन्त्रभागवते ।
त्रिनयनो नृसिंहरूपी ।
‘विष्णोर्नृसिंहनामानि त्रिनेत्रोग्रादिकानि तु’’॥ इति शब्दनिर्णये ।
‘विविधं भावपात्रत्वात्सर्वे विष्णोर्विभूतये’’॥ इति च ॥ ३३ ॥

हंसाय दभ्रनिलयाय निरीक्षकाय

कृष्णाय मृष्टयशसे निरुपक्रमाय ।
सत्संग्रहाय भवपान्थनिजाश्रयाय

शश्वद् वरिष्ठगतये हरये नमस्ते ॥ ३५ ॥

‘निरुपक्रमो हरिर्नित्यमप्रयत्नो ह्युपक्रमेत्’’॥ इति च ॥ ३५ ॥

न वेद कृपणः श्रेय आत्मनो गुणवस्तुदृक् ।
तस्य तानिच्छतो यच्छे यदि सोऽपि तथाविधः ॥ ३९ ॥

स्वयं निःश्रेयसं विद्वान् न वक्त्यज्ञाय कर्मभिः ।
न राति रोगिणोऽपथ्यं वाञ्छतोऽपि भिषग्यथा ॥ ४०॥

यदि सोऽपि तथाविधः अत्युत्तमो न भवति चेत् । युष्मत्कामो मत्प्रिय एव । अन्यथा न दद्यामिति भावः ।
‘विष्णोः प्रियं कामयन्ति देवा नैवाप्रियं क्वचित् ।
यद्यप्रियं कामयन्ति न रातीशो हितो हि सः’’॥ इति तन्त्रभागवते ॥ ३९,४० ॥

मघवन् यात भद्रं वो दध्यञ्चमृषिसत्तमम् ।
विद्याव्रततपःसारं गात्रं याचत मा चिरम् ॥ ४१ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये षष्ठस्कन्धे नवमोऽध्यायः ॥

‘समर्था अपि याचन्ते देवा मुन्यादिकान्क्वचित् ।
आज्ञयैव हरेस्तेषां यशोऽर्थमपि नान्यथा’’॥ इति च ॥ ४१ ॥

दशमोऽध्यायः

नूनं स्वार्थपरो लोको न वेद परसङ्कटम् ।
यदि वेद न याचेत नेति नाह यदीश्वरः ॥ ६ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये षष्ठस्कन्धे दशमोऽध्यायः ॥

‘आज्ञयैव महाविष्णोः कार्यार्थमपि च क्वचित् ।
नीचानपि च याचन्ते स्वात्मनो गुणवत्तराः ॥

नीचवाक्यं वदेयुश्च सुरा नैतावता क्वचित् ।
तेजःक्षतिर्भवेदेषां जनकस्य यथार्भकात्’’॥ इति तन्त्रमालायाम् ॥६॥

द्वादशोऽध्यायः

पुरुषः प्रकृतिर्व्यक्तमात्मभूतेन्द्रियाशयाः ।
शक्नुवन्त्यस्य सर्गादौ न विना यदनुग्रहम् ।
अविद्वानेवमात्मानं मन्यतेऽनीशमीश्वरम् ॥ ११ ॥

मन्यतेऽनीशमीश्वरम् ।
‘अनीशं जीवरूपेण परमात्मानमीश्वरम् ।
ये मन्यन्ते तान्समीक्ष्य स्नेहान्निरयभाग्भवेत्’’॥ इति च ।
‘हिरण्यगर्भः पुरुष आत्मा वायुरुदाहृतः ।
शेषोऽव्यक्तस्तथैवेन्द्र आशयः समुदाहृतः’’॥ इति च ॥ ११ ॥

वज्रस्तु तत्कन्धरमाशुवेगः

कृन्तन्समन्तात् परिवर्तमानः ।
न्यपातयत् तावदहर्गणेन

यो ज्योतिषामयने वार्त्रहत्ये ॥ ३३ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये षष्ठस्कन्धे द्वादशोऽध्यायः ॥

‘सन्धितः समयेनेन्द्रो वृत्रेणाथो करग्रहः ।
समुद्रतीरे विचरन्फेनेन वधमस्य तु ॥

नर्मणा जहि फेनेन वाचयित्वा सुरेश्वरः ।
पादस्पर्शविवादं च कृत्वा युद्धाय दंशितः ॥

फेने वज्रं समावेश्य विष्णुयुक्तं व्यसर्जयत् ।
अपानुदच्छिरस्तस्य ध्यायतो वत्सरेण सः ॥‘‘इत्याग्नेये ॥ ३३ ॥

त्रयोदशोऽध्यायः

श्रीशुक उवाच–

एवं सञ्चोदितो विप्रैर्मरुत्वानहनद् रिपुम् ।
ब्रह्महत्या हते तस्मिन्नाससाद वृषाकपिम् ॥ १० ॥

तयेन्द्रं स्म ह सन्तप्तं निर्वृतिर्नामुमाविशत् ।
ह्रीमतां वाच्यतां प्राप्तं

सुखयन्त्यपि नो गुणाः ॥ ११ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये षष्ठस्कन्धे त्रयोदशोऽध्यायः ॥

‘प्रारब्धकर्मणैवैषां क्लृप्तदुःखस्य सूचकम् ।
इदानीन्तनकर्म स्याद्व्रणहेतुर्यथा रणः ॥

देवादीनां स्थितप्रज्ञभावान्नैवान्यथा भवेत् ।
प्रारब्धमपि तु क्वापि किञ्चिद्विघटितं भवेत्’’॥ इति च ॥ १०,११ ॥

चतुर्दशोऽध्यायः

मुक्तानामपि सिद्धानां नारायणपरायणः ।
सुदुर्लभः प्रशान्तात्मा कोटिष्वपि महामुने ॥ ५ ॥

‘नवकोट्यस्तु देवानामृषयः शतकोटयः ।
नारायणायनाः सर्वे ये केचित्तत्परायणाः’’॥ इति च ।
‘नारायणायना देवा ऋष्याद्यास्तत्परायणाः ।
ब्रह्माद्याः केचनैव स्युः सिद्धो योग्यसुखं लभन्’’॥ इति तन्त्रभागवते ॥ ५ ॥

अहो विधातस्त्वमतीव बालिशो

यस्त्वात्मसृष्ट्यप्रतिरूपमीहसे ।
परे तु जीवत्यपरस्य या मृतिः

विपर्ययश्चेत् त्वमसि ध्रुवं परः ॥ ५३ ॥

न हि क्रमश्चेदिह मृत्युजन्मनोः

शरीरिणामस्तु तदाऽऽत्मकर्मभिः ।
यः स्नेहपाशो निजसर्गवृद्धये

स्वयं कृतस्ते तमिमं विवृश्चसि ॥ ५४ ॥

त्वं तात नार्हसि स मां कृपणामनाथां

त्यक्तुं विचक्ष्व पितरं तव शोकतप्तम् ।
अञ्जस्तरेम भवताऽप्रजदुस्तरं यद्

ध्वान्तं न याह्यकरुणेन यमेन दूरम् ॥ ५५ ॥

उत्तिष्ठ तात त इमे शिशवो वयस्या-

स्त्वामाह्वयन्ति नृपनन्दन संविहर्तुम् ।
सुप्तश्चिरं ह्यशनया च भवान् परीतो

भुंक्ष्व स्तनं पिब शुचो हर नः स्वकानाम् ॥ ५६ ॥

नाहं तनूज ददृशे हतमङ्गला ते

मुग्धस्मितं मुदितवीक्षणमाननाब्जम् ।
किं वा गतोऽस्यपुनरन्वयमन्यलोकं

नीतोऽघृणेन न शृृणोमि कला गिरस्ते ॥ ५७ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये षष्ठस्कन्धे चतुर्दशोऽध्यायः ॥

‘सन्तापक्रोधरागादिष्वनर्थकवचः क्वचित्’’॥ इति शब्दनिर्णये ॥ ५३-५७ ॥

पञ्चदशोऽध्यायः

चरन्ति ह्यवनौ कामं ब्राह्मणा भगवत्प्रियाः ।
मादृशां ग्राम्यबुद्धीनां बोधायोन्मत्तलिङ्गिनः ॥ १५ ॥

कुमारो नारद ऋभुरङ्गिरा देवलोऽसितः ।
अपान्तरतमो व्यासो मार्कण्डेयोऽथ गौतमः ॥ १६ ॥

वसिष्ठो भगवान् रामः कपिलो बादरायणिः ।
दूर्वासा याज्ञवल्क्यश्च जातूकर्ण्यस्तथाऽऽरुणिः ॥ १७ ॥

रोमशश्च्यवनो दत्त आसुरिः सपतञ्जलिः ।
पराशरोऽथ मैत्रेयो भरद्वाजश्च आरुणः ।
ऋषिर्वेदशिरा बोध्यो मुनिः पञ्चशिखस्तथा ॥ १८ ॥

हिरण्यनाभः कौशल्यः श्रुतदेवः क्रतुध्वजः ।
एते परे च सिद्धेशाश्चरन्ति ज्ञानहेतवः ॥ १९ ॥

’ नारायणायना देवा ऋष्याद्यास्तत्परायणाः ।
ब्रह्माद्याः केचनैव स्युः सिद्धो योग्यसुखं लभन् ॥ “इति तन्त्रभागवते

‘नवकोट्यस्तु देवानामृषयः शतकोटयः ।
नारायणायनाः सर्वे ये केचित्तत्परायणाः’’॥ इति च ॥ १५-१९ ॥

अधुना पुत्रिणां तापो भवतैवानुभूयते ।
एवं दारा गृहा रायो विविधैश्वर्यसम्पदः ॥ २५ ॥

सर्वेऽपि शूरसेनेमे शोकमोहभयार्तिदाः ।
गन्धर्वनगरप्रख्याः स्वप्नमायामनोरथाः ॥ २७ ॥

दृश्यमाना विनाऽर्थेन न दृश्यन्ते मनोभवाः

कर्माभिध्यायतो नाना कर्माणि मनसोऽभवन् ॥ २८ ॥

‘मनसो द्वेषरागाभ्यां पुण्यपापसमुद्भवः ।
पुत्रादि पुण्यपापाभ्यां तस्मात्सर्वं मनोभवम्’’॥ इति नारदीये ॥ २५-२८ ॥

अयं हि देहिनो देहो द्रव्यज्ञानक्रियात्मकः ।
देहिनो विविधक्लेशसन्तापकृदुदाहृतः ॥ २९ ॥

‘द्रव्यात्मकः स्थूलदेहः क्रिया कर्मेन्द्रियाणि च ।
ज्ञानेन्द्रियाणि च मनो ज्ञानात्मकमुदाहृतम्’’॥ इति ब्रह्मवैवर्ते ॥

‘कार्यकारणयोरेकशब्दव्यवहृतिर्भवेत्’’॥ इति शब्दनिर्णये ॥ २९ ॥

तस्मात् स्वस्थेन मनसा विमृश्य गतिमात्मनः ।
द्वैते ध्रुवार्थविश्रम्भं त्यजोपशममाविश ॥ ३० ॥

‘अनन्यापेक्षितस्त्वेको हरिरन्यद्द्वयं स्मृतम् ।
अन्यापेक्षत्वतस्तेन प्राप्तत्वाद्द्वैतमुच्यते’’॥ इति च ॥ ३० ॥

यत्पादमूलमुपसृत्य नरेन्द्र पूर्वे

शर्वादयो भ्रममिमं द्वितयं विसृज्य ।
सद्यस्तदीयमतुलानधिकं महित्वं

प्रापुर्भवानपि परं न चिरादुपैति ॥ ३६ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये षष्ठस्कन्धे पञ्चदशोऽध्यायः ॥

‘रुद्राद्याः शेषदेहस्थं विष्णुं संकर्षणाभिधम् ।
शेषान्तर्यामिणं ज्ञात्वा स्वपदं प्रापुरञ्जसा’’॥ इति तन्त्रभागवते ।
‘द्वैतेन बन्धसंत्यागाद्द्वैतत्यागी भवत्युत’’॥ इति शब्दनिर्णये ।
देहाद्येऽहंममाभिमानो भ्रमः ।
‘तेषां तेषां पदान्येव वैष्णवानि पदानि तु ।
तेषां महित्वं च तथा हरेस्तद्वशगं यतः ॥

अतुल्यानधिकं चैव तस्य तस्यैव मुक्तिगम् ।
स्वस्यैव पूर्वमाहात्म्यमपेक्ष्य न हरेः क्वचित् ॥

माहात्म्यमन्यप्राप्यं स्यान्न ते विष्णविति श्रुतेः’’॥ इति तन्त्रभागवते ॥

‘ब्रह्मेशानादिभिर्देवैर्यत्प्राप्तुं नैव शक्यते ।
तद्यत्स्वभावः कैवल्यं स भवान्केवलो हरिः’’॥ इति स्कान्दे ॥

तत्प्रसादलभ्यत्वात्तदीयमपि तेनातुलमनधिकं चान्यमाहात्म्यम् ॥३६॥

षोडशोऽध्यायः

एष नित्योऽव्ययः सूक्ष्म एकः सर्वाश्रयः स्वदृक् ।
आत्ममायागुणैर्विश्वमात्मानं सृजते प्रभुः ॥ ९ ॥

एष नित्योऽव्ययः ।
‘अनित्यसम्बन्धयुताः पित्राद्या नित्ययुग्घरिः’’॥ इति च ।
आत्मानं चावताररूपेण सृजते ॥ ९ ॥

नादत्त आत्मा हि गुणं न दोषं न क्रियाफलम् ।
उदासीन इवासीनः परावरदृगीश्वरः ॥ ११ ॥

‘भोक्ता सद्गुणभोक्तृत्वान्न भोक्ता तदवृद्धितः ।
अचिन्त्यशक्तितस्तच्च युज्यते परमेशितुः’’॥ इति च ॥ ११ ॥

वचस्युपरते प्राप्यो य एको मनसा सह ।
अनामरूपचिन्मात्रः सोऽव्ययः सदसत्परः ॥२१॥

बाह्यमनस्युपरते चिन्मात्रमनसा सह प्राप्यः ॥ २१ ॥

यस्मिन्निदं यतश्चेदं तिष्ठत्यप्येति जायते ।
मृन्मयेष्विव मृज्जातिस्तस्मै ते ब्रह्मणे नमः ॥ २२ ॥

मृन्मयेष्विव मृज्जातिः ।
‘पृथिवी पर्वताश्चैव मृन्मयाः समुदीरिताः ।
तेषु मृज्जातयः सर्वे जायन्ते स्थावरादयः’’॥ इति च ॥ २२ ॥

ततः कतिपयाहोभिर्विद्ययेद्धमनोगतिः ।
जगाम देवदेवस्य शेषस्य चरणान्तिकम् ॥ २९ ॥

‘अन्यान्तर्यामिणं विष्णुमुपास्यान्यसमीपगः ।
भवेद्योग्यतया तस्य पदं वा प्राप्नुयान्नरः’’॥ इति नारदीये ॥ २९ ॥

तद्दर्शनध्वस्तसमस्तकिल्बिषः स्वच्छामलान्तःकरणोऽभ्ययान्मुहुः ।
प्रवृद्धभक्त्याऽऽप्रणयाश्रुलोचनः

प्रहृष्टरोमा तमनादिपूरुषम् ॥ ३१ ॥

अनेन प्रकारेण मुहुस्तत्सकाशमभ्ययात् ।
‘शेषान्तर्यामिणं विष्णुं चित्रकेतुरुपास्य तु ।
शेषाविष्टहरेश्चापि वरान्प्राप्याप तद्गतिम्’’॥ इति तन्त्रमालायाम् ॥ ३१ ॥

अहं वै सर्वभूतानि भूतात्मा भूतभावनः ।
शब्दब्रह्म परं ब्रह्म ममोभे शाश्वती तनू ॥ ५१ ॥

‘हरिस्तु सर्वभूतानि तदन्तर्याम्यपेक्षया ।
तिङ्पदान्यपि सर्वाणि सुप्पदानि तथैव च ।
तस्मिन्नेव प्रवर्तन्ते मुख्यवृत्त्या विशेषतः’’॥ इति च ॥ ५१ ॥

लोकेऽविततमात्मानं लोकं चात्मनि सन्ततम् ।
उभयं च मया व्याप्तं मयि चैवोभयं कृतम् ॥ ५२ ॥

लोकं चात्मनि सन्ततं वासनारूपेण ॥ ५२ ॥

एवं जागरणादीनि जीवस्थानानि चात्मनः ।
मायामात्राणि विज्ञाय तद्द्रष्टारं परं स्मरेत् ॥ ५४ ॥

मायामात्राणि प्रकृतिनिर्मितानि ॥ ५४ ॥

उभयं स्मरतः पुंसः प्रस्वापप्रतिबोधयोः ।
अन्वेति व्यतिरिच्येत तज्ज्ञानं ब्रह्म तत् परम् ॥ ५६ ॥

प्रतिबोधेऽन्वेति स्वयमपि प्रतिबुद्धः । सुप्तावस्वपन्व्यतिरिच्येत ॥ ५६ ॥

यद्येष विस्मृतः पुंसो मद्भावो भिन्न आत्मनः ।
ततः संसार एतस्य देहाद् देहो मृतेर्मृतिः ॥ ५७ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये षष्ठस्कन्धे षोडशोऽध्यायः ॥

‘सर्वभिन्नं परात्मानं विस्मरन्संसरेदिह ।
अभिन्नं संस्मरन्याति तमो नास्त्यत्र संशयः’’॥ इति च ॥ ५७ ॥

सप्तदशोऽध्यायः

एषामनुध्येयपदाब्जयुग्मं

जगद्गुरुं मङ्गलमङ्गलं स्वयम् ।
यः क्षत्रबन्धुः परिभूय सूरीन्

प्रशास्ति धृष्टस्तदयं हि दण्ड््यः ॥ १३ ॥

एषां पक्षे तदवराणामनुध्येयपदाब्जयुग्मम् ।
‘विष्णुब्रह्मप्राणवीन्द्रांस्तद्दारानप्यृते हरः ।
ध्येयो हरेः पार्षदाद्यैर्ध्यायन्हरिचतुर्मुखौ ॥

प्राणमेषां तथा दारान्न स्वतन्त्रतया क्वचित्’’॥ इति तन्त्रमालायाम् ॥१३॥

न चास्य कश्चिद् दयितः प्रतीपो

न ज्ञातिबन्धुर्न परो न च स्वः ।
समस्य सर्वत्र निरञ्जनस्य

कुतोऽनुरागः कुत एव रोषः ॥ २२ ॥

‘सेवायोग्यातिरेकेण स्वानामपि न दास्यति ।
अपराधातिरेकेण नान्यस्यातः समो हरिः’’॥ इति माहात्म्ये ॥ २२ ॥

देहिनां देहसंयोगाद् द्वन्द्वानीश्वरलीलया ।
सुखं दुःखं मृतिर्जन्म शापानुग्रह एव च ॥ २९ ॥

अविवेककृतः पुंसो ह्यर्थभेद इहात्मनि ।
गुणदोषविकल्पश्च भिदेव स्वप्नकल्पिता ॥ ३० ॥

‘यत्तद्भगवता क्लृप्तं तदेव नियतं भवेत् ।
अतोऽन्येषां वरः शापो गुणदोषप्रकर्तृता ॥

स्वतः प्राप्ता भेदकृतिर्वासनारूपिणो यथा ।
विद्यमानस्य मनसि पुनः स्वप्नेषु दर्शनम् ॥

भगवद्वशता यस्मात्सर्वेषां ज्ञेयमेव तत्’’॥ इति प्रकाशसंहितायाम् ॥ ३० ॥

इति भागवतो देव्याः प्रतिशप्तुमलन्तमः ।
मूर्ध्ना सञ्जगृहे शापमेतावत् साधुलक्षणम् ॥ ३७ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये षष्ठस्कन्धे सप्तदशोऽध्यायः ॥

प्रतिशप्तुमलन्तमः ।
‘देवा एव तदन्येभ्यः शक्ता नास्त्यत्र संशयः ।
अशक्ता अपि शक्तानां शक्ताः शापादिषु स्फुटम् ॥

तथाप्यशक्तैर्विहिताः शापाद्याः शक्तिमत्सु वै ।
अत्यल्पाश्चाल्पकालाश्च न सम्यक्प्रभवन्ति च ॥

यत्नेनापोहितुं शक्या उत्तमैस्तु न संशयः ।
उत्तमेषु कृताः शापाः कर्तॄणां ज्ञानपुण्ययोः ॥

निःशेषेण निहन्तारस्तदनुग्रहमन्तरा ।
सदारयोर्ब्रह्मविष्ण्वोर्वरशापादयोऽखिलाः ॥

तदन्येन कृताः सर्वे निष्फला एव निश्चयात् ।
न चाप्यवान्तराः शापा भवन्त्येषां तु कुत्रचित् ॥

वरा विष्णोः श्रियश्च स्युर्ब्रह्मणश्च यथाक्रमम् ।
उत्तमैरधमानां तु वराः शापा यथोदितम् ॥

सम्पूर्णफलदा एव नात्र कार्या विचारणा’’॥ इति स्कान्दे ॥ ३७ ॥

एकोनविंशोऽध्यायः

तस्या अधीश्वरः साक्षात् त्वमेकः पुरुषः परः ।
त्वं सर्वयज्ञ इज्येयं क्रियेयं फलभुग् भवान् ॥ ११ ॥

गुणव्यक्तिरियं देवी व्यञ्जको गुणभुग् भवान् ।
त्वं हि सर्वशरीरात्मा श्रीः शरीरेन्द्रियाशया ॥ १२ ॥

नामरूपे भगवती प्रत्ययस्त्वमपाश्रयः ।
यथा युवां त्रिलोकस्य वरदौ परमेष्ठिनौ ।
तथेमा उत्तमश्लोक सन्तु सत्या महाशिषः ॥ १३ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये षष्ठस्कन्धे एकोनविंशोऽध्यायः ॥

॥ षष्ठः स्कन्धः समाप्तः ॥

इज्या क्रिया ।
‘अन्तर्यामी तु यज्ञादेर्विष्णुरिज्यादिनां रमा ।
तत्तच्छब्दैस्ततो वाच्यौ न तु सर्वस्वरूपतः ॥

अन्तर्यामी श्रियश्चापि विष्णुरेव न संशयः ।
नान्तर्यामी कश्चिदस्ति विष्णोः क्वापि कुतश्चन’’॥ इति ब्रह्मतर्के ॥ ११-१३ ॥