प्रथमोऽध्यायः
त्वं त्वब्जनाभाङ्घ्रिसरोजकोश-
दुर्गाश्रितो निर्जितषट्सपत्नः ।
भुङ्क्ष्वेह भोगान् पुरुषातिसृष्टान्
विमुक्तसङ्गः प्रकृतिं भजस्व ॥ १९ ॥
‘विहितो यस्य यो धर्मो विष्णुना प्रभविष्णुना ।
तेन मुक्तिर्भवेत्तस्य तं गुरुर्वेद सर्ववित्’’॥ इति प्रवृत्तसंहितायाम् ॥ १९ ॥
या वा इह तद्रथचरणनेमिकृतपरिखास्ताः सप्तसिन्धव आसन्
यत एव कृता सप्तभुवो द्वीपाः ॥ ३१ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये पञ्चमस्कन्धे प्रथमोऽध्यायः ॥
‘पूर्वसृष्टान् रथावृत्त्या स्थूलांश्चक्रे प्रियव्रतः ।
समुद्रांस्तेन तत्कर्तेत्याहुरेनं प्रियव्रतम्’’॥ इति गारुडे ॥ ३१ ॥
द्वितीयोऽध्यायः
का त्वं चिकीर्षसि च किं मुनिवर्य शैले
मायाऽसि काऽपि भगवत्परदेवतायाः ।
विज्ये बिभर्षि धनुषी सुहृदात्मनोऽर्थे
किं वा मृगान् मृगयसे विपिने प्रमत्तान् ॥ ८ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये पञ्चमस्कन्धे द्वितीयोऽध्यायः ॥
‘परिहासप्रलापादिष्वनर्था वाग् भवेत् क्वचित्’’।इति शब्दनिर्णये ॥ ८ ॥
तृतीयोऽध्यायः
किञ्चायं राजर्षिरपत्यकामः प्रजां भवादृशीमाशासान ईश्वरमाशिषां स्वर्गापवर्गयोरपि
भगवन्तमुपधावति प्रजायामर्थप्रत्ययो धनदमि-वाधनः फलीकरणं को वा ईहते ॥ १४ ॥
॥ इति श्रीभागवततात्पर्यनिर्णये पञ्चमस्कन्धे तृतीयोऽध्यायः ॥
श्रीभगवानुवाच–
अहो बताहमृषयो भवद्भिरवितथगीर्भिर्वरमसुलभ-
मभियाचितो यदमुष्य आत्मजो मया सदृशो
भूयादिति ममाहमेवाभिरूपः कैवल्यादथापि ब्रह्मवादो
न मृषा भवितुमर्हति ममैव हि मुखं यद्द्विजदेवकुलम् ॥ १८ ॥
‘नास्ति विष्णोः सम इति जानन्तोऽप्यृषयः सदा ।
तज्ज्ञापनाय लोकानामन्येषां प्रार्थयन् समम्’’॥ इति ब्रह्माण्डे ॥ १४, १८ ॥
चतुर्थोऽध्यायः
यस्य हीन्द्रः स्पर्धमानो भगवान् वर्षे न ववर्ष तदवधार्य भगवान् ऋषभदेवो योगेश्वरः
प्रहस्यात्मयोगमायया स्ववर्षमाञ्जनाभं नामाभ्यवर्षीत् ॥ ३ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये पञ्चमस्कन्धे चतुर्थोऽध्यायः ॥
‘दुष्टानां मोहनार्थाय यज्ञ इन्द्रपदे स्थितः ।
पस्पर्ध ऋषभेणैव स्वरूपेण हरिः स्वयम्’’॥ इति वाराहे ॥ ३ ॥
पञ्चमोऽध्यायः
पराभवस्तावदबोधजातो यावन्न जिज्ञासत आत्मतत्त्वम् ।
तावत्क्रियास्तावदिदं मनो वै कर्मात्मकं येन शरीरबन्धः ॥५॥
क्रियाफलं तावदेव । कर्मात्मकं कर्मवशम् ॥ ५ ॥
एवं मनः कर्मवशं प्रयुङ्क्त अविद्ययात्मन्व्यवधीयमाने ।
प्रीतिर्न यावन्मयि वासुदेवे न मुच्यते देहयोगेन तावत् ॥ ६ ॥
अविद्यया प्रयुङ्क्ते ॥ ६ ॥
पुंसः स्त्रिया मिथुनीभाव एष तयोर्मिथो हृदयग्रन्थिमाहुः ।
यतो गृहक्षेत्रसुताप्तवित्तैर्जनस्य मोहोऽयमहं ममेति ॥ ८ ॥
‘ब्रह्माद्या याज्ञवल्क्याद्या मुच्यन्ते स्त्रीसहायिनः ।
बध्यन्ते केचनैतेषां विशेषं च विदो विदुः’’॥ इति सत्यसंहितायाम् ॥८॥
हरौ गुरौ मयि भक्त्यानुवृत्त्या वितृष्णया द्वन्द्वतितिक्षया च ।
सर्वत्र जन्तोर्व्यसनावगत्या जिज्ञासया तपसेहानिवृत्त्या ॥१०॥
‘आत्मनो विहितं कर्म वर्जयित्वाऽन्यकर्मणः ।
कामस्य च परित्यागो निरीहेत्याहुरुत्तमाः’’॥ इति च ॥ १० ॥
सर्वत्र मद्भावविचक्षणेन
ज्ञानेन विज्ञानविराजितेन ।
योगेन धृत्युद्भवसत्वयुक्तो
लिङ्गं व्यपोहेत्कुशलोऽहमाख्यम् ॥ १३ ॥
‘सर्वस्मादुत्तमो विष्णुरिति ज्ञानमुदाहृतम् ।
प्रतिजीवं येन मुक्तिस्तद्विज्ञानं विदां मतम्’’॥ इति च ।
‘ज्ञानं विष्णोरुत्तमत्वे तदेव प्रतिपूरुषम् ।
विशेषेण तु विज्ञानं तच्च जानाति सर्ववित् ॥
द्वात्रिंशल्लक्षणैर्युक्तस्तीक्ष्णदंष्ट्रश्च सौम्यदृक् ।
घोररुक्चापि पुरुषः स सर्वज्ञ उदाहृतः’’॥ इत्यध्यात्मे ॥
‘षण्णवत्यङ्गुलो यस्तु न्यग्रोधपरिमण्डलः ।
सप्तपादश्चतुर्हस्तः स देवैरपि पूज्यते’’॥ इति वायुप्रोक्ते ॥
‘न्यग्रोधमण्डलो व्यामो बाहू न्यग्रोध उच्यते’’॥ इति च ॥ १३ ॥
तस्माद्भवन्तो हृदयेन जाताः सर्वे महीयांसममुं सुनाभम् ।
अक्लृष्टबुद्ध्या भरतं भजध्वं शुश्रूषणं तद्भरणं प्रजानाम् ॥२०॥
‘नाभिरित्यथ नाम स्याद्धरेः सर्वाश्रयो यतः’’। इति कौर्मे ।
तत्तस्य मम शुश्रूषणम् ॥ २० ॥
देवासुरेभ्यो मघवान् प्रधानो
दक्षादयो ब्रह्मसुताश्च तेषाम् ।
भवः परः सोथ विरिञ्चिवीर्यः
स मत्परोहं द्विजदेवदेवः ॥ २२ ॥
द्विजदेवानां देवः ॥ २२ ॥
सर्वाणि मद्धिष्ण्यतया भवद्भि-
श्चराणि भूतानि सुता ध्रुवाणि ।
सम्भावितव्यानि पदेपदे वो
विविक्तदृष्टिस्तदुतार्हणं मे ॥ २६ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये पञ्चमस्कन्धे पञ्चमोऽध्यायः ॥
विविक्तदृष्टिर्जीवानां धिष्ण्यतया परमेश्वरस्य भेददृष्टिः ।
‘उपपादयेत्परात्मानं जीवेभ्यो यः पदेपदे ।
भेदेनैव न चैतस्मात्प्रियो विष्णोस्तु कश्चन’’॥ इति पाद्मे ॥
‘यो हरेश्चैव जीवानां भेदवक्ता हरेः प्रियः’’। इति च ॥ २६ ॥
षष्ठोऽध्यायः
राजोवाच–
न नूनं भगवन्नात्मरामाणां योगसमीरितज्ञानावभर्जितकर्मबीजा-नामैश्वर्याणि पुनः क्लेशदानि
भवितुमर्हन्ति यदृच्छयोपगतानि॥ १ ॥
ऋषिरुवाच–
सत्यमुक्तं किन्त्विह वा एके मनसो विस्रम्भमनवस्थानस्य घटकिराट इव न सङ्गच्छन्ति ॥ २ ॥
तथा चोक्तम्–
न कुर्यात्कस्यचित्सख्यं मनसि ह्यनवस्थिते ।
यद्विस्रम्भाच्चिराच्चीर्णं चस्कन्द तप ऐश्वरम् ॥ ३ ॥
नित्यं ददाति कामस्य छिद्रं तदनु येऽरयः ।
योगिनः कृतमैत्रस्य पत्युर्जायेव पुंश्चली ॥ ४ ॥
कामो मन्युर्मदो लोभः शोकमोहभयादयः ।
कर्मबन्धश्च यन्मूलः स्वीकुर्यात्को नु तद्बुधः ॥ ५ ॥
‘महैश्वर्यस्वरूपो हि भगवान्नृषभो स्वराट् ।
नैश्वर्याणि स्वकीयानि ख्यापयामास सर्ववित् ॥
उत्तमानां ज्ञापनार्थं धर्मतत्त्वस्य केशवः ।
तेषामैश्वर्यभोगे हि मनः सक्तिं व्रजेद्यदि ॥
आनन्दो मुक्तिगो ह्रासं विकर्मकरणाद्व्रजेत् ।
धर्माधर्मविहीनोऽपि भगवानृषभस्ततः ॥
तेषां धर्मस्थापनार्थं नाविश्चक्रे परां स्थितिम् ।
देवानां नाशुभाद्ध्रासः शुभात्काचित्सुखोन्नतिः ॥
आधिकारिकजीवानामेवमन्येषु तद्द्वयम् ।
अल्पाधिकारिणां तत्र ह्रासोऽपि भवति ध्रुवम् ॥
अशुभाभावजोन्नाहो महाधीकारिणामपि ।
अशुभे कृते न भवति तारतम्याच्च स स्मृतः ॥
प्रजापाश्च तथा देवा महाधीकारिणः स्मृताः ।
ऋष्यशीतिस्तथा सप्त पितरोऽप्सरसां शतम् ॥
गन्धर्वाणां तथा राज्ञां विंशदन्यासु जातिषु ।
अल्पाधिकारिणः प्रोक्ता अनधीकरिणः परे’’॥ इति ब्रह्माण्डे ॥१-५॥
अथैवमखिललोकपालललामो विलक्षणो जडवदवधूतवेषभाषाचरितैरविलक्षितभगवत्प्रभावो योगिनां
साम्परायविधिमनुशिक्ष-यन्स्वकलेवरं
जिहासुरात्मन्यात्मानमसंव्यवहितमनर्थान्तरभावे-नान्वीक्षमाण उपरतानुवृत्तिरुपरराम ॥ ६ ॥
‘विष्णोः कलेवरत्यागो भूत्यागोऽन्यो न विद्यते ।
कलेवरत्यागोऽन्येषां पञ्चत्वं समुदीरितम्’’॥ इति कौर्मे ॥
अनर्थान्तरभावेन अर्थान्तरं नास्मीति मनसा ॥ ६ ॥
तस्य ह वा एवं मुक्तलिङ्गस्य भगवत ऋषभस्य योगमाया-वसानो देह इमां जगतीमभिमानाभासेन चङ्क्रममाणः ॥ ७ ॥
अभिमानाभासेन अभितो ज्ञानप्रकाशेन ॥ ७ ॥
एकदा तु काङ्कटकर्णाटकाद्दक्षिणकर्णाटकान् देशान् यदृच्छयोपगतः कुटचाचलोपवने आस्यकृताश्मकवल उन्माद इव मुक्तमूर्द्धजोऽ-संवीत एव विचचार ॥ ८ ॥
अथ समीरवेगविधुतवेणुनिकर्षोपजातो दावानलस्तद्वनमाले-लिहानः समन्तात् सह तेन ददाह ॥ ९ ॥
यस्य किलानुचरितमुपाकर्ण्य काङ्कटकर्णाटकानां दक्षिणकर्णाटकानां राजार्हतनामोपशिक्ष्य कलावधर्म उत्कृष्यमाणे भवितव्येन विमोहितः स्वधर्मपथमकुतोभयमपहाय कुपथं पाषण्डमसमञ्जसं निजमनीषया मन्दः सम्प्रवर्त्तयिष्यते ॥ १० ॥
येन ह वा कलौ मनुजापसदा देवमायाविमोहिताः स्वविधि-नियोगशौचाचारविहीना देवहेलनादीन्यपव्रतानि निजेच्छया गृह्णाना अस्नानानाचमनाशौचकेशोल्लुञ्चनादीनि कलिनाऽधर्म-बहुलेनोपहतधियो ब्रह्मब्राह्मणयज्ञपुरुषलोकविदूषकाः प्रायेण भविष्यन्ति ॥ ११ ॥
तैरपि ह्यर्वाक्तनया निजलोकयात्रयाऽन्धपरम्परया त एवा-नाश्वस्थास्तमस्यन्धे स्वयमेव प्रपतिष्यन्ति ॥ १२ ॥
‘ज्ञानानन्दात्मको देह ऋषभस्य महात्मनः ।
तादृशेनैव मनसा क्रमंस्तु कुटचाचले ॥
दावाग्निमनुविश्याथ तत्रस्थः प्रादहज्जगत् ।
एवमग्नेरभिव्यक्तस्तत्स्थो विष्णुः सनातनः ॥
ऋषभत्वेन सङ्गोप्य धर्मानद्यापि तत्रगः ।
आस्ते स वासुदेवात्मा वासुदेवोऽहमित्यजः ॥
सदा स्थितः स्थितिं तां तु शुश्रावार्हो दुरात्मवान् ।
पूर्वं तु पौण्ड्रको नाम वासुदेवः सुदुर्मतिः ॥
जातिस्मरो द्विधा शास्त्रं पाषण्डं निर्ममे नृपः ।
एकं तु वासुदेवाख्यं वासुदेवोऽहमित्यपि ॥
कुत्सितं वासुदेवत्वप्रतिपादकमात्मनः ।
लोकार्थं चापरमपि चकारार्हतनामकम् ॥
‘तत्प्रशिष्यः क्रमुर्नाम न जानंस्तन्मतं परम् ।
वासुदेवात्मतां सर्वजीवानामवदत्कुधीः ॥
क्रम्वाख्यं शास्त्रमकरोदभेदप्रतिपादकम् ।
कुशास्त्रं सर्ववेदानां विरुद्धं तामसालयम् ॥
तद्दृष्ट्वाऽद्यापि वर्तन्ते वर्तिष्यन्ति कलौ तथा ।
अशौचा अव्रताचारा वासुदेवोऽहमित्यपि’’॥ इति ब्राह्मे ॥८-१२॥
अहो भुवः सप्तसमुद्रवत्या
द्वीपेषु वर्षेष्वधिपुण्यमेतत् ।
गायन्ति यत्रत्यजना मुरारेः
कर्माणि भद्राण्यवतारवन्ति ॥ १४ ॥
‘विशेषाद्भारते पुण्यं चरेयुः पापमप्यथ ।
तथैव भगवद्भक्तिं पृथिव्यां नान्यवर्षगाः’’॥ इति ब्रह्माण्डे ॥ १४ ॥
को न्वस्य काष्ठामपरोऽनुगच्छे-
न्मनोरथेनाप्यभवाय योगी ।
यद्योगमायां स्पृहयन्त्व्युदस्तां
महत्तमा येन कृतप्रयत्नाः ॥ १६ ॥
योगमायां योगमायाफलं बाह्यम् ।
‘नित्योदस्ता योगशक्तिरनपेक्ष्यं फलं यतः ॥
नित्यस्वरूपभूताऽपि बहिःफलविवर्जनात् ।
अकर्मेत्युच्यते यद्वन्मोक्षः फलविवर्जनात्’’॥ इति पाद्मे ॥ १६ ॥
यस्यामेव कवय आत्मानमविरतविविधवृजिनसंसारपरितापोप-तप्यमानमनुसवनं स्नापयन्तस्तयैव परया निर्वृत्या ह्यापवर्गिक-मात्यन्तिकं परमपुरुषार्थमपि स्वयमासादितं नैवाद्रियन्ते भागव-तत्वेनैव परिसमाप्तसर्वार्थाः ॥ १८ ॥
‘नाद्रियन्ते तु ये मोक्षं पूर्वं तेषां परं सुखम् ।
स्वयोग्यं व्यज्यते मुक्तौ तच्चोक्तं तारतम्ययुक्’’॥ इति व्योमसंहितायाम् ॥ १८ ॥
राजन् पतिर्गुरुरलं भवतां यदूनां
देवप्रियः कुलपतिः क्व च किङ्करो वः ।
अस्त्वेवमङ्ग भगवान् भजतां मुकुन्दो
मुक्तिं ददाति कर्हिचित्स्म न भक्तियोगम् ॥ १९ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये पञ्चमस्कन्धे षष्ठोऽध्यायः ॥
‘ब्रह्मणोऽन्यस्य नो पूर्णां दद्याद्भक्तिं जनार्दनः ।
मुक्तिं ददाति सर्वेषां उच्चानां को ह्यधीशिता’’॥ इति ब्रह्मतर्के ॥ १९ ॥
सप्तमोऽध्यायः
परो रजाः सवितर्जातवेदो
वेदस्य गर्भो मनसेदं जजान ।
स्वरेतसाऽदः पुनराविश्य चष्टे
हंसं गृध्राणामृषभं सङ्गृणीमः ॥ १३ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये पञ्चमस्कन्धे सप्तमोऽध्यायः ॥
‘परोरजाऽरजस्कत्वात्त्रयीड्यत्वात्त्रयीसुतः ।
गुणात्ययात्तुरीयश्च जातवेदाश्च सर्ववित् ॥
हंसो दुःखादिहानेन जीवेशत्वाच्च गृध्रराट् ।
कालः सर्वनियन्तृत्वात्परमात्मा प्रकीर्तितः’’॥
इति तन्त्रनिरुक्ते ॥ १३ ॥
दशमोऽध्यायः
एवं बह्वबद्धमभिभाषमाणं नरदेवाभिमानिनं रजसा तमसाऽनु-विद्धेन मदेन तिरस्कृताशेषभगवत्प्रियनिकेतं पण्डितमानिनं स भगवान् ब्राह्मणो ब्रह्मभूतः सर्वभूतसुहृदात्मा योगेश्वरचर्यायां नातिव्युत्पन्नमतिं स्मयमान इव विगतस्मय इदमाह ॥ ९ ॥
अशेषभगवत्प्रियाणां निकेतः स एव भरतो मानुषापेक्षया ।
‘तत्कालस्थितभक्तेषु मानुषेष्वृषभात्मजः ।
वरोऽपि धिक्कृतो राज्ञा सुहृदा वैष्णवेष्वपि’’॥ इति गारुडे ॥ ९ ॥
ब्राह्मण उवाच–
त्वयोदितं व्यक्तमविप्रलब्धं
भर्तुः स मे स्याद्यदि वीर भारः ।
गन्तुर्यदि स्यादधिगम्यमध्वा
पीवेति चासौ न विदां प्रवादः ॥ १० ॥
‘भरणादिकृद्धरिरिति चिन्तयन्नृपमब्रवीत्’’॥ इति च ॥ १० ॥
स्थौल्यं कार्श्यं व्याधय आधयश्च
क्षुत्तृड्भयं कलिरिच्छा जरा च ।
निद्राऽरतिर्मन्युरहंमदश्च
देहेन जातस्य हि मे न सन्ति ॥ ११ ॥
देहेन जातस्य देहाभिमानिनः ।
‘देहमानी देहजातो विदेहो मानवर्जितः’’। इति च ॥
जीवन्मृतत्वं नियमेन राज-
न्नाद्यन्तवद्यद्विकृतस्य दृष्टम् ।
स्वस्वामिभावो ध्रुव एष यत्र
तर्ह्यच्युतेऽसाविति कृत्ययोगः ॥ १२ ॥
विशेषबुद्धेर्विवरं मनाक् च
पश्यामि यन्न व्यवहारतोऽन्यत् ।
क ईश्वरस्तत्र किमीशितव्य-
मथापि राजन् करवाम किं ते ॥ १३ ॥
‘प्राणयुक्तेररत्या च जडं जीवन्मृतं स्मृतम्’’। इति च ।
‘स्वामित्वं तु हरेरेव मुख्यमन्यत्र भृत्यता ।
देवेषु तन्नियत्या च त्वदादेर्व्यावहारिकम् ॥
मानुषेषु विशेषः को व्यवहारमृते वद ।
व्यत्यासान्न हि देवेषु व्यत्यासः स्वामितां गतः’’॥ इति च ॥ १२-१३ ॥
न विक्रिया विश्वसुहृत्सखस्य
साम्येन वीताभिमतेस्तवापि ।
महद्विमानात्स्वकृताद्धिमादृग्
धक्षत्यदूरादपि शूलपाणिः ॥ २६ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये पञ्चमस्कन्धे दशमोऽध्यायः ॥
।
‘स्वतो महदवज्ञानाद्रुद्रोऽप्यात्मानमादहेत्’’। इति च ॥ २६ ॥
एकादशोऽध्यायः
तथैव राजन्नुरुगार्हमेध-
वितानविद्योरुविजृम्भितेषु ।
न वेदवादेषु हि तत्त्ववादः
प्रायेण शुद्धो नु चकास्ति साधु ॥ २ ॥
‘न वेदेष्वल्पबुद्धीनां ब्रह्मतत्त्वं समीक्ष्यते ।
महाबुद्धिस्तु वेदेषु पश्येद् ब्रह्मैव केवलम्’’॥ इति च ॥ २ ॥
स वासनात्मा विषयोपरक्तो
गुणप्रवाहो विकृतः षोडशात्मा ।
चित्रं पृथङ्नामभी रूपभेद-
मन्तर्बहिष्ठः स्वपुरैस्तनोति ॥ ५ ॥
दुःखं सुखं व्यतिमिश्रं च तीव्रं
कालोपपन्नं फलमाव्यनक्ति ।
आलिङ्ग्य मायारचितान्तरात्मा
स्वदेहिनं संसृतिचक्रकूटम् ॥ ६ ॥
स मायारचित अन्तरात्मा मनः ॥ ५-६ ॥
तावानयं व्यवहारः सदा वै
क्षेत्रज्ञसाक्ष्योर्भवति स्थूलसूक्ष्मः ।
तस्मान्मनोलिङ्गमदो वदन्ति
गुणागुणस्यास्य परावरस्य ॥ ७ ॥
‘क्षेत्रवित्तु हरिः प्राणः साक्षी ताभ्यां पुमान्सरेत्’’॥ इति च ॥ ७ ॥
गुणानुरक्तं व्यसनाय जन्तोः
क्षेमाय नैर्गुण्यमथो मनः स्यात् ।
यथा प्रदीपो घृतवर्तिमास्थितो
स्थितिं स धूमां भजति ह्यन्यदा स्वम् ।
पदं तथा गुणकर्मानुबद्धं
बहिर्मनः श्रयतेऽन्यत्र तत्वम् ॥ ८ ॥
पदं विषयम् ।
एकादशासन्मनसोऽस्य वृत्ती-
राकूतयः पञ्च धियोऽभिमानाः ।
मात्राणि कर्माणि पुरं च तासां
वदन्ति हैकादश वीर भूमिम् ॥ ९ ॥
‘एकादशेन्द्रियद्वारा स्युरेकादशवृत्तयः ।
शब्दाद्यास्तदभीमानास्तदिच्छाश्चैव पञ्चशः ॥
स्पर्शान्तर्भावतः कर्मखानां नैव पृथग्गतिः ।
एकादशैव चेष्टाः स्युरिन्द्रियाणां पृथक् पृथक् ॥
गोलकास्तदधिष्ठानं चैकादश निगद्यते’’॥ ९ ॥
गन्धाकृतिस्पर्शरसश्रवांसि
विसर्गगत्यत्त्यभिजल्पशिल्पाः ।
एकादशं स्वीकरणं ममेति
मायामहं द्वादशमेकमाहुः ॥ ११ ॥
‘एष संसृतिसंभारो द्वादशैवाथवा भवेत् ।
दशकं विषयाणां च ममाहमिति च द्वयम् ॥
द्वयमेव ममाहं वा संसृतिस्त्वहमेव वा’’। इति च ।
अत्तिरुपस्थविषयः ॥ ११ ॥
द्रव्यस्वभावाशयकर्मकालै-
रेकादशामी मनसो विकाराः ।
सहस्रशः शतशः कोटिशश्च
क्षेत्रज्ञतो न मिथो न स्वतः स्युः ॥ १२ ॥
द्रव्यं देहादिः । स्वभावो योग्यता । जीवस्य क्षेत्रज्ञतः स्युः । मिथः स्वतश्च न स्युः ॥ १२ ॥
क्षेत्रज्ञ आत्मा पुरुषः पुराणः
साक्षात्स्वयं ज्योतिरजः परेशः ।
नारायणो भगवान्वासुदेवः
स्वमाययाऽऽत्मन्व्यवधीयमानः ॥ १४ ॥
स्वमाययाऽऽत्मन्व्यवधीयमानः स्वेच्छया स्वस्मिन्नेव तिरोहितत्वेन स्थितः ।
‘स्वात्माधारः स्वेच्छयैव जीवदृष्टेस्तिरोहितः ।
क्षेत्रज्ञेत्युच्यते विष्णुर्जीवस्थः पुरुषोत्तमः’’॥ इति च ॥ १४ ॥
भ्रातृव्यमेनं त्वमदभ्रवीर्य-
मुपेक्षयाऽप्येधितमप्रमत्तः ।
गुरोर्हरेश्चरणोपासनास्त्रो
जहि व्यलीकं स्वयमात्ममोहम् ॥ १८ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये पञ्चमस्कन्धे एकादशोऽध्यायः ॥
अभिमानादेव संसारोऽन्यथा नेति परिहारः ॥ १८ ॥
द्वादशोऽध्यायः
ब्राह्मण उवाच–
अयं जनो नाम चलन्पृथिव्यां
यः पार्थिवः पार्थिव कस्य हेतोः ।
तस्यापि चाङ्घ्र्योरधि गुल्फजङ्घा-
जानूरुमध्योरशिरोधरांसाः ॥ ५ ॥
अंसे च दार्वी शिबिका च यस्यां
सौवीरराजेत्यपदेश आस्ते ।
यस्मिन् भवान् रूढनिजाभिमानो
राजाऽस्मि सिन्धुष्विति दुर्मदान्धः ॥ ६ ॥
यस्मान्मूलकारणभूतो विष्णुरेव । अतो मुख्यं सर्वकारणत्वं तस्यैव । मूलाश्रयविवक्षा यदि न स्यात्कुतः पृथिव्यां चलतीति व्यवहारः ? यतोऽवान्तराश्रया बहवः सन्त्यङ्घ्र्याद्याः ॥ ५-६ ॥
शोच्यानिमांस्तानधिकस्तवाधि-
र्विष्ट्या निगृह्णन्निरनुग्रहोऽसि ।
जनस्य गोप्तेति विकत्थमानो
न शोभसे वृद्धसभासु दुष्टः ॥ ७ ॥
एवं मूलगोप्तृत्वं च विष्णोरेव ॥ ७ ॥
यदि क्षितावेव चराचरस्य
विदाम निष्ठां प्रभवं च नित्यम् ।
तन्नामतोऽन्यद्व्यवहारमात्रं
निरूप्यतां तत्क्रिययानुतिष्ठन् ॥ ८ ॥
एवं निरुक्तं क्षितिशब्दवृत्त-
मसन्निधानं परमाणवो ये ।
अविद्यया मनसा कल्पितास्ते
येषां समूहेन कृतो विशेषः ॥ ९ ॥
आश्रयत्वात्क्षितिरिति निर्वचने क्षितिशब्दोऽपि तस्मिन्नेव ॥ परमाणु-मात्रायाः पृथिव्या अयुक्तत्वात्परमाणवोऽप्यस्याविद्ययैवाधारत्वेन कल्पिताः
॥ ८-९ ॥
एवं कृशं स्थूलमणुर्बृहद्य-
दसच्च सज्जीवमजीवमन्यत् ।
द्रव्यस्वभावाशयकालकर्म-
नाम््नयाऽजयाऽवैहि कृतं द्वितीयम् ॥ १० ॥
ज्ञानं विशुद्धं परमार्थमेक-
मनन्तरं न बहिर्ब्रह्म सत्यम् ।
प्रत्यक् प्रशान्तं भगवच्छब्दवाच्यं
यद्वासुदेवं कवयो वदन्ति ॥ ११ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये पञ्चमस्कन्धे द्वादशोऽध्यायः ॥
एवं सर्वं तथा प्रकृत्यैव कल्पितं विष्णोरन्यत् । एवं प्रकृत्याधारः स्वयमनन्याधारो विष्णुरेव । अतः सर्वशब्दाश्च तस्मिन्नेव ।
‘राजा गोप्ताऽऽश्रयो भूमिः शरणं चेति लौकिकः ।
व्यवहारो न तत्सत्यं तयोर्ब्रह्माश्रयो विभुः ॥
गोप्ता च तस्य प्रकृतिस्तस्या विष्णुः स्वयं प्रभुः ।
तव गोप्त्री तु पृथिवी न त्वं गोप्ता क्षितेः स्मृतः ॥
अतः सर्वाश्रयश्चैव गोप्ता च हरिरीश्वरः ।
सर्वशब्दाभिधेयश्च शब्दवृत्तेर्हि कारणम् ॥
सर्वान्तरः सर्वबहिरेक एव जनार्दनः ।
शिर आधारता यद्वद्ग्रीवायास्तद्वदेव तु ॥
आश्रयत्वं च गोप्तृत्वमन्येषामुपचारतः’‘इति च ॥ १०,११ ॥
त्रयोदशोऽध्यायः
तस्येमान् श्लोकान् गायन्ति ।
आर्षभस्येह राजर्षेर्मनसाऽपि महात्मनः ।
नानुवर्त्मार्हति नृपो मक्षिकेव गरुत्मतः ॥ २६॥
ऋते हैहयवैन्यादीनार्षभस्येह कः समः ।
यस्योपदेशात्सिन्ध्वीशो ददर्श कपिलं प्रभुम् ॥ इति च ॥ २६ ॥
यज्ञाय धर्मपतये विधिनैपुणाय
योगाय साङ्ख्यशिरसे प्रकृतीश्वराय ।
नारायणाय हरये नम इत्युदारं
गायन्मृगत्वमपि यः समुदाजहार ॥ २९ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये पञ्चमस्कन्धे त्रयोदशोऽध्यायः ॥
युज्यते अनेनेति योगो हरिः । साङ्ख्यशिरसे उत्तमज्ञानस्वरूपाय ॥२९॥
पञ्चदशोऽध्यायः
तस्येमां गाथां पाण्डवेय पुराविद उपगायन्ति ।
गयं नृपं कः प्रतियाति कर्मभि-
र्यज्वाभिमानी बहुविद्धर्मगोप्ता ।
सदागतश्रीः सदसस्पतिः सतां
सत्सेवकोऽन्यो भगवत्कलामृते ॥ ७ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये पञ्चमस्कन्धे पञ्चदशोऽध्यायः ॥
‘प्रियव्रतो गयश्चैव कर्मदेवसमो गुणैः’’। इति षाड्गुण्ये ॥ ६ ॥
षोडशोऽध्यायः
तामनु परितो लोकपालानाम् अष्टानां यथादिशं यथारूपं तुरीयभागेन पुरोऽष्टाव् उपक्लृप्ताः ॥ २९ ॥
॥ इति श्रीभागवततात्पर्यनिर्णये पञ्चमस्कन्धे षोडशोऽध्यायः ॥
‘यथा भागवते तूक्तं
भौवनं कोश-लक्षणम् ।
तस्याविरोधतो योज्यं
सर्वग्रन्थान्तर-स्थितम् ॥मण्डोदे पूरणं चैव
व्यत्यासं क्षीरसागरे ।
राहु-सोम-रवीणां च
मण्डलाद् द्वि-गुणोक्तिताम् ॥विनैव सर्वम् उन्नेयं
योजना भेदतोऽत्र तु’॥
इति ब्रह्माण्डे ॥ २९ ॥
सप्तदशोऽध्यायः
श्रीशुक उवाच–
तत्र भगवतः साक्षाद्यज्ञलिङ्गस्य विष्णोर्विक्रमतो
वामपादाङ्गुष्ठ-नखनिर्भिन्नोर्ध्वाण्डकटाहविवरेणान्तःप्रविष्टा या बाह्यजलधारा
तच्चरणपङ्कजावनेजनारुणकिञ्जल्कोपरञ्जिताखिलजगदघमलापहोपस्पर्शनामला
साक्षाद्भगवत्पदीत्यनुपलक्षितवचोभिरभिधीय-मानातिमहता कालेन युगसहस्रोपलक्षणेन दिवो
मूर्धन्यवततार यत्तद्विष्णुपदमाहुः ॥ १ ॥
‘वाराहे वामपादं तु तदन्येषु तु दक्षिणम् ।
पादं कल्पेषु भगवानुज्जहार त्रिविक्रमः’’॥ इति च ॥ १ ॥
भवानीनाथैः स्त्रीगणार्बुदसहस्रैरवरुध्यमानो भगवतश्चतुर्मूर्तेर्महा-पुरुषस्य तुरीयां तामसीं मूर्तिं प्रकृतिमात्मनः सङ्कर्षणसंज्ञां आत्मसमाधिरूपेण सन्निधायैतदभिगृणन् भव उपधावति ॥ १५ ॥
भव उवाच–
ॐ नमो भगवते महापुरुषाय सर्वगुणसङ्ख्यातायानन्ताया-व्यक्ताय नम इति ॥ १६ ॥
॥ इति श्रीभागवततात्पर्यनिर्णये पञ्चमस्कन्धे सप्तदशोऽध्यायः ॥
‘अनन्तान्तःस्थितो विष्णुरनन्तश्च सहामुना ।
पूज्यते गिरिशेनेश इलावृतगतेन तु’’॥ इति च ॥
‘जीवव्यपेक्षया चैव तथाऽन्तर्याम्यपेक्षया ।
मिश्रास्तु स्तुतयो ज्ञेया विष्णोरन्यत्र केवलम्’’॥ इति च ॥ १६ ॥
अष्टादशोऽध्यायः
विश्वोद्भवस्थाननिरोधकर्म ते
ह्यकर्तुरङ्गीकृतमप्यपावृतम् ।
युक्तं न चित्रं त्वयि कार्यकारणे
सर्वात्मनि व्यतिरिक्ते च वस्तुनि ॥ ५ ॥
‘अप्रयासेन कर्तृत्वमकर्तृत्वमिहोच्यते ।
महाशक्तित्वतस्तच्च युज्यते परमस्य तु’’॥ इति तन्त्रसारे ॥ ५ ॥
केतुमाले भगवान्कामदेवस्वरूपेणास्ते लक्ष्म्याः प्रियचिकीर्षया प्रजापतेर्दुहितॄणां च तद्वर्षपतीनां पुरुषायुषाऽहोरात्रपरिसङ्ख्यानानां यासां गर्भा महापुरुषमहास्त्रतेजसोद्वेजितमनसां विध्वस्ता व्यसवः संवत्सरान्ते निपतन्ति ॥ १५ ॥
तद्भगवतो मायामयं रूपं परमसमाधियोगेन रमादेवी संवत्सरस्य रात्रिषु प्रजापतेर्दुहितृभिरुपेताऽहस्सु तद्भर्तृभिरुपेतोपास्ते । इदं चोदाहरति ॥ १७ ॥
‘कामदेवस्थितं विष्णुमुपास्ते श्री रतिस्थिता ।
कामदेवं रतिश्चापि विष्णोस्तु प्राकृतां तनुम्’’॥
इति ब्रह्माण्डे ॥ १५,१७ ॥
यं लोकपालाः किल मत्सरज्वरा
हित्वा यतन्तोऽपि पृथक्समेत्य च ।
पातुं न शेकुर्द्विपदश्चतुष्पदः
सरीसृपस्थास्नु यदत्र दृश्यते ॥ २७ ॥
‘स्पर्धन्त इव देवास्तु हरिणा यत्र कुत्रचित् ।
हरेरेवाज्ञया क्वापि दैत्यावेशादथापि वा’’॥ इति च ॥ २७ ॥
यद्रूपमेतन्निजमाययाऽर्पितं
अर्थस्वरूपं बहुरूपरूपितम् ।
सङ्ख्या न यस्यास्त्ययथोपलम्भना-
त्तस्मै नमस्तेऽव्यपदेशरूपिणे ॥ ३१ ॥
उपलम्भनादयथा । यथा दृष्टं तथा न तिष्ठत्यन्यथाभवतीत्यर्थः ॥ ३१ ॥
जरायुजं स्वेदजमण्डजोद्भिजं
चराचरं देवर्षिपितृभूतभेदम् ।
द्यौः खं क्षितिः शैलसरित्समुद्र-
द्वीपग्रहर्क्षेत्यभिधेय एकः ॥ ३२ ॥
‘सर्वान्तर्यामिकत्वात्तु सर्वनामा हरिः स्वयम् ।
न तु सर्वस्वरूपत्वाद्रूपत्वमुपचारतः’’॥ इति च ॥ ३२ ॥
यस्मिन्नसंख्येयविशेषनाम-
रूपाकृतौ कविभिः कल्पितेयम् ।
सङ्ख्या यया तत्त्वदृशा विनीयते
तस्मै नमः सांख्यनिदर्शनाय हि ॥ ३३ ॥
दशावतार इत्यादिसङ्ख्या विनीयते विशेषेण नीयते तज्ज्ञानं तद्रूपमेव हि
॥ ३३ ॥
यस्य स्वरूपं कवयो विपश्चितो
गुणेषु योनिष्विव जातवेदसम् ।
मथ्नन्ति मथ्ना मनसा दिदृक्षवो
गूढं क्रियार्थैर्नम ईरितात्मने ॥ ३६ ॥
क्रियार्थैर्यज्ञाद्यर्थैरिन्द्रादिनामभिरीरितात्मने ॥ ३६ ॥
द्रव्यक्रियाहेत्वयनेशकर्तृभि-
र्मायागुणैर्वस्तुनिरीक्षितात्मने ।
तथैव तत्रातिशयात्मबुद्धिभि-
र्निरस्तमायाकृतये नमो नमः ॥ ३७ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये पञ्चमस्कन्धे अष्टादशोऽध्यायः ॥
मायागुणैः तदिच्छानुसारिभिः ।
‘द्रव्येशः शङ्करः प्रोक्तः क्रियेशो गरुडः स्मृतः ।
कारणेशस्तथा ब्रह्मा वायुराधारपः स्मृतः’’॥ इति ब्रह्मतर्के ॥ ३७ ॥
एकोनविंशोऽध्यायः
यथैहिकामुष्मिककामलम्पटः
सुतेषु दारेषु धनेषु चिन्तयन् ।
शङ्केत विद्वान् कुकलेवरात्यया-
द्यस्तस्य यत्नः श्रम एव केवलम् ॥ १४ ॥
तन्नः प्रभो त्वं कुकलेवरार्पितां
त्वन्माययाऽहं ममतामधोक्षज ।
भिन्द्याम येनाशु वयं सुदुर्भिदां
विधेहि योगं त्वयि नः सुभावितम् ॥ इति ॥ १५ ॥
‘यस्य सम्यक्च भवति ज्ञानं भक्तिस्तथैव च ।
निश्चितस्तस्य मोक्षः स्यात्सर्वपापकृतोऽपि तु ॥
यो ममत्वादिना दोषः स त्वन्यविषयः स्मृतः’’॥ इति च ॥ १४-१५ ॥
यद्यत्र नः स्वर्गसुखावशेषितं
स्विष्टस्य दत्तस्य कृतस्य शोभनम् ।
तेनाब्जनाभस्मृतिजन्मनः स्या-
द्वर्षे हरिर्यद्भजतां शं तनोति ॥ २८ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये पञ्चमस्कन्धे एकोनविंशोऽध्यायः ॥
‘अनधीकारिणो देवाः स्वर्गस्था भारतोद्भवम् ।
वाञ्छन्त्यात्मविमोक्षार्थमुद्रेकार्थेऽधिकारिणः’’॥ इति कौर्मे ॥ २८ ॥
विंशोऽध्यायः
प्रत्नस्य विष्णो रूपं यत्सत्यर्तस्य ब्रह्मणः । अमृतस्य च मृत्योश्च सूर्यमात्मानमीमहीति ॥ ५ ॥
‘सूर्यसोमाग्निवारीरविधातृषु यथाक्रमम् ।
प्लक्षादिद्वीपसंस्थास्तु स्थितं हरिमुपासते’’॥ इति च ॥ ५ ॥
एवं परस्तात्क्षीरोदात्परित उपवेशितः शाकद्वीपो द्वात्रिंश-ल्लक्षयोजनायामः समानेन च दधिमण्डोदेन परित उपक्लृप्तः यस्मिन् शाको नाम महीरुहः स्वक्षेत्रव्यपदेशको यस्य ह महान्सुरभिगन्धस्तं द्वीपमनुवासयति ॥ २४ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये पञ्चमस्कन्धे विंशोऽध्यायः ॥
‘अनाम्लं तु दधि क्षीरं क्षीरं सान्द्रं तथा दधि’’॥
इति शब्दनिर्णये ॥ २४ ॥
द्वाविंशोऽध्यायः
ग्रहर्क्षतारामयमाधिदैविकं
रूपं हरेर्मंत्रकृतस्त्रिकालम् ।
नमस्यतः स्तुवतो नश्यते वै
स्वयं त्रिकालं कृतमाशु पापम् ॥ ३२ ॥
॥ इति श्रीभागवततात्पर्यनिर्णये पञ्चमस्कन्धे द्वाविंशोऽध्यायः ॥
‘ज्ञानानन्दात्मके विष्णौ शिंशुमारवपुष्यथ ।
ऊर्ध्वलोकेषु संव्याप्त आदित्याद्यास्समाश्रिताः’’॥
इति ब्रह्माण्डे ॥ ३२ ॥
त्रयोविंशोऽध्यायः
तस्यानुभावमिमं भगवान्स्वायंभुवो नारदः सह तुंबुरुणा सभायां ब्रह्मणः संश्लोकयामास ॥ ४० ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये पञ्चमस्कन्धे त्रयोविंशोऽध्यायः ॥
॥ पञ्चमः स्कन्धः समाप्तः ॥
इलावृतस्थस्तुतिवत्पातालमूलस्थस्तुतिर्योजनीयाऽनन्तविषया ॥ ४० ॥