प्रथमोऽध्यायः
मैत्रेय उवाच–
मनोस्तु शतरूपायां तिस्रः कन्याश्च जज्ञिरे ।
आकूतिर्देवहूतिश्च प्रसूतिरिति विश्रुताः ॥ १ ॥
‘पुनःपुनः कथां प्राहुरभ्यासादुत्तमं फलम् ।
विज्ञापयितुकामास्तु विद्वांसस्तत्रतत्र तु’’॥ इत्याग्नेये ॥ १ ॥
शरणं तं प्रपद्येऽहं य एव जगदीश्वरः ।
प्रजामात्मसमां मह्यं प्रयच्छत्विति चिन्तयन् ॥ २० ॥
तप्यमानं त्रिभुवनं प्राणायामैधिताग्निना ।
निर्गतेन मुनेर्मूघ्नः समीक्ष्य प्रभवस्त्रयः ॥ २१ ॥
अप्सरोमुनिगन्धर्वसिद्धविद्याधरोरगैः ।
वितायमानयशसो मुदाऽऽश्रमपदं ययुः ॥ २२ ॥
‘ब्रह्मस्थश्चैव रुद्रस्थः स्वयं चापि हरिः प्रभुः ।
प्रजां त्रिपुरुषसमां यच्छत्वित्यत्रिरैच्छत ॥
तस्मात्स ब्रह्मरुद्राभ्यां सह विष्णुर्जगत्पतिः ।
आगत्य तु त्रिमूर्त्यंशान् पुत्रान्प्रादाज्जनार्दनः ।
भावित्वाच्चैव कार्यस्य लोकानां मोहनाय च’’॥ इति ब्रह्मवैवर्ते ॥ २०-२२ ॥
देवा ऊचुः–
यथा कृतस्ते संकल्पो भाव्यं तेनैव नान्यथा ।
तत्संकल्पस्य ते ब्रह्मन् यद् वै ध्यायसि ते वयम् ॥ ३० ॥
तत्स्थविष्ण्वपेक्षया ते वयमिति ॥ ३० ॥
सोमोऽभूद् ब्रह्मणोंऽशेन दत्तो विष्णोस्तु योगवित् ।
दुर्वासाः शङ्करस्यांशो निबोधाङ्गिरसः प्रजाः ॥ ३३ ॥
‘ब्रह्मणो नावतारोऽस्ति सन्निधानं तु केवलम् ।
ऋते विष्णोरात्मनश्च तदंशोक्तिः प्रवेशतः’’॥ इति च ।
‘सृष्टिभेदाद्विरूपं तु कथा पञ्चोत्तरं शतम् ।
वैरूप्यमन्यद्विज्ञेयं तात्पर्यान्मोहनाय च’’॥ इति स्कान्दे ।
‘ऋते तु पाण्डवकथां कार्ष्णं रामायणं तथा ।
विष्णोर्ब्रह्मादिनां चैव क्रमाद्य्वत्यस्तशक्तिताम् ।
एतदापादकं चान्यदृते कल्पादिभेदतः ।
कथाभेदस्तु विज्ञेयो मोहायैतेषु भिन्नता’’॥ इति वाराहे ॥ ३३ ॥
मेधा स्मृतिं तितिक्षा तु क्षेमं ह्रीः प्रश्रयं सुतम् ।
मूर्तिः सर्वगुणोत्पत्ती नरनारायणावृषी ॥ ५२ ॥
नृत्यन्ति स्म स्त्रियो देव्य आसीत् परममङ्गलम् ।
देवा ब्रह्मादयः सर्वे उपतस्थुरभिष्टवैः ॥ ५५ ॥
देवा ऊचुः–
यो मायया विरचितं निजयात्मनीदं
खे रूपभेदमिव तत्प्रतिचक्षणाय ।
एतेन धर्मसदने ऋषिमूर्तिनाऽद्य
प्रादुश्चकार पुरुषाय नमः परस्मै ॥ ५६ ॥
ताविमौ वै भगवतो हरेरंशाविहाऽगतौ ।
भारव्ययाय च भुवः कृष्णौ यदुकुरूद्वहौ ॥ ५९ ॥
‘नरे विष्णुः समाविष्टः स्वयं नारायणो हरिः ।
अर्जुने च नरावेशः कृष्णो नारायणः स्वयम्’’॥ इति तत्त्वविवेके ॥
खे रूपभेदो ऽभ्रादिः ।
‘यथाकाशस्थितो नित्यम्’‘इत्यादि च ।
‘यथाकाशे विमानादिरूपभेदः प्रतीयते ।
तथा हरौ जगदिदं तत्सामर्थ्यात्प्रतीयते’’॥ इति ब्राह्मे ॥ ५२-५९ ॥
पितर्यप्रतिरूपे स्वे भवायानागसे रुषा ।
अप्रौढेवात्मनात्मानमजहाद् योगसंयुता ॥ ६६ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये चतुर्थस्कन्धे प्रथमोऽध्यायः ॥
अप्रौढेव अस्वीकृतेव ॥ ६६ ॥
द्वितीयोध्यायः
नन्दिरुवाच–
य एतन्मर्त्यमुद्दिश्य भगवत्यप्रतिद्रुहि ।
द्रुह्यत्यज्ञः पृथग्दृष्टिस्तत्त्वतो विमुखो भवेत् ॥ २२ ॥
गृहेषु कूटधर्मेषु सक्तो ग्राम्यसुखेच्छया ।
कर्मतन्त्रं वितनुताद् वेदवादविपन्नधीः ॥ २३ ॥
बुद्ध्या पराभिध्यायिन्या विस्मृतात्मगतिः पशुः ।
स्त्रीकामः सोऽस्तु नितरां दक्षो बस्तमुखोऽचिरात् ॥ २४ ॥
विद्याबुद्धिरविद्यायां कर्ममय्यामसावजः ।
संसरन्त्विह ये चामुमनुशर्वावमानिनम् ॥ २५ ॥
‘ये ज्ञानविषयाः शापा मुक्तिगाश्चाधिकारिणाम् ।
कादाचित्कास्ते भवन्ति नैव ते सार्वकालिकाः ॥
तेषां ज्ञानस्य मुक्तेश्च तारतम्यस्य चैव हि ।
भगवन्नियतत्वात्तु शापादिर्नात्र कारणम्’’॥ इति वाराहे ॥२२-२५॥
गिरेः सुतायाः पुष्पिण्या मधुगन्धेन भूरिणा ।
मथ्ना चोन्मथितात्मानः संमुह्यन्तु हरद्विषः ॥ २६ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये चतुर्थस्कन्धे द्वितीयोऽध्यायः ॥
‘गिरिः प्राणः समुद्दिष्टस्तत्सुता वेदवाक्स्मृता ।
पुष्पं स्वर्गादयः प्रोक्ताः फलं मोक्ष उदाहृतम्’’॥ इति वामने ॥
‘अनङ्गो मन्मथो मन्था कामोऽङ्गज उदाहृतः’’। इति शब्दनिर्णये ॥
तृतीयोऽध्यायः
सत्त्वं विशुद्धं वसुदेवशब्दितं
यदीयते तत्र पुमानपावृतः ।
सत्त्वं च यस्मिन् भगवान् वासुदेवो
ह्यधोक्षजो मे मनसा विधीयते ॥ २३ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये चतुर्थस्कन्धे तृतीयोऽध्यायः ॥
विशेषेण धीयते चिन्त्यते ।
‘रुद्रेण धीयते विष्णुर्विष्णोर्ध्येयो न कश्चन’’। इति ब्रह्मवैवर्ते ॥२३॥
चतुर्थोऽध्यायः
यत्पादपद्मं महतां मनोऽलिभि-
र्निषेवितं ब्रह्मरसासवार्थिभिः ।
लोकस्य यद् वर्षति चाशिषोऽर्थिनः
तस्मै भवान् द्रुह्यति विश्वबन्धवे ॥ १५ ॥
ब्रह्मरसासवार्थिभिः शिष्याणां मनोऽलिभिः ।
‘सनकादयो रुद्रशिष्यास्तेषामन्ये तु योगिनः ।
ब्रह्मशिष्यस्तथा रुद्रो ब्रह्मा नारायणस्य च’’॥ इति ब्राह्मे ॥ १५ ॥
किं वा शिवाख्यमशिवं न विदुस्त्वदन्ये
ब्रह्मादयस्तमवकीर्य जटाः श्मशाने ।
तन्माल्यभस्मनृकपाल्यवसत्पिशाचै-
र्ये मूर्धभिर्दधति तच्चरणावसृष्टम् ॥ १६ ॥
ब्रह्मादयो ब्रह्मपुत्राः ।
‘सुपर्णशेषप्राणेशब्रह्मविष्णून् गिरं श्रियम् ।
ऋते नमति नो रुद्रं क एव पुरुषार्थभाक्’’॥ इति गारुडे ॥ १६ ॥
कर्म प्रवृत्तं च निवृत्तमप्युत
वेदे विविच्योभयलिङ्गमाश्रितम् ।
विरोधि तद् यौगपदेककर्तरि
द्वयं यथाऽऽब्रह्मणि कर्म नर्च्छति ॥ २० ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये चतुर्थस्कन्धे चतुर्थोऽध्यायः ॥
आब्रह्मणि ब्रह्मग्ज्ञानिनि ।
‘आब्रह्मा स्थितधीर्जीवन्मुक्तश्चेत्यभिधीयते ।
यस्तस्य न निवृत्तं च प्रवृत्तं कर्म चेष्यते ॥
यत्तु देवाः प्रकुर्वन्ति स महानियमः स्मृतः ।
स्वर्गाद्यर्थं प्रवृत्तं स्यान्निवृत्तं मुक्तये तु यत् ॥
स महानियमो नाम कर्म यत्त्वाधिकारिकम् ।
महतो नियमाद्विष्णोः प्रीत्या मुक्तौ सुखोन्नतिः ।
केचिन्निवृत्तमित्याहुर्महानियममप्युत’’॥ इति भविष्यत्पुराणे ॥
‘यदि देवाश्च ऋष्याद्या निन्द्यन्ते यत्र कुत्रचित् ।
न तावता गुणैर्हीनाः स्थितप्रज्ञा हि ते मताः ।
यथायोग्यं तु तात्पर्यं निन्दाया अन्यदेव तु’’॥ इति गारुडे ॥ २० ॥
पञ्चमोऽध्यायः
ततः स्वभर्तुश्चरणाम्बुजासवं
जगद्गुरोश्चिन्तयती न चापरम् ।
ददर्श देहे हतकल्मषा सती
सद्यः प्रजज्वाल समाधिजाग्निना ॥ ४ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये चतुर्थस्कन्धे पञ्चमोऽध्यायः ॥
न चापरं तस्मादवरं न चिन्तयती । परन्तु विष्ण्वादिकं चिन्तयती चशब्दात् ।
‘रुद्रं च ब्रह्मवायू च विष्णुं चैव श्रियं गिरम् ।
उमा चिन्तयती देहं तत्याजान्यं न चास्मरत्’’॥ इति तत्त्वनिर्णये ॥ ४ ॥
षष्ठोऽध्यायः
आक्रम्योरसि दक्षस्य शितधारेण हेतिना ।
छिन्दन्नपि तदुद्धर्तुं नाशक्नोत् त्र्यम्बकस्तदा ॥ २२ ॥
शस्त्रैरस्त्रान्वितैरेनमनिर्भिण्णत्वचं हरः ।
विस्मयं परमापन्नो दध्यौ पशुपतिश्चिरम् ॥ २३ ॥
दृष्ट्वा सञ्ज्ञपने योगं पशूनां स पतिर्मखे ।
यजमानपशोः कस्य कायात् तेनाहरच्छिरः ॥ २४ ॥
जुहावैतच्छिरस्तस्मिन् दक्षिणाग्नावमर्षितः ।
तद् देवयजनं दग्ध्वा प्रातिष्ठद् गुह्यकालयम् ॥ २६ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये चतुर्थस्कन्धे षष्ठोऽध्यायः ॥
‘वीरभद्राख्यरूपेण स्वेन पूर्वं ययौ हरः ।
मूलरूपेण पश्चात्तु गत्वा दक्षमथावधीत् ॥
तत्रोपेन्द्रेण हरिणा जितो धर्मात्मजेन च ।
अन्यान् जिगाय प्रययौ कैलासं स्वं निकेतनम्’’॥ इति ब्राह्मे ॥२६॥
सप्तमोऽध्यायः
उपलभ्य पुरैवैतद् भगवानब्जसम्भवः ।
नारायणश्च विश्वात्मा न कस्याध्वरमीयतुः ॥ ३ ॥
त्रिमूर्तिगेन रूपेण नारायणो नाययौ ॥
नाहं न यज्ञो न च यूयमन्ये
ये देहभाजो मुनयश्च तत्त्वम् ।
विदुः प्रमाणं बलवीर्ययोर्वा
तस्यात्मतन्त्रस्य क उद्विधित्सेत् ॥ ७ ॥
यज्ञ इन्द्रः ।
‘यज्ञो यज्ञपतिस्त्विन्द्रः पुरुहूतः पुरुष्टुतः’’। इत्यभिधानम् ।
तस्यात्मतन्त्रस्य । तस्य विष्णोर्मनोवशस्य ।
‘नाहं नेन्द्रो न चैवान्ये यत्तत्त्वं न विदुः परम् ।
तस्य विष्णोर्वशे रुद्रो मम वायोरथापि वा ।
नान्यस्य कस्यचित्पुंसस्तस्येत्थं वः कुतः कृतम्’’॥ इति ब्रह्मवैवर्ते ॥
तस्मिन् महायोगमये मुमुक्षुशरणे सुराः ।
ददृशुः शिवमासीनं त्यक्तामर्षमिवान्तकम् ॥ ३३ ॥
‘मुमुक्षवो ब्रह्मणश्च शिवादिन्द्रादिभिस्तथा ।
श्रुत्वा ज्ञानं परं गुह्यं मुच्यन्ते ब्रह्मणा सह’’॥ इति कौर्मे ॥ ३३ ॥
स तूपलभ्यागतमात्मयोनिं
सुरासुरेशैरभिवन्दिताङ्घ्रि ।
उत्थाय चक्रे शिरसाऽभिवन्दनं
महत्तमोऽर्कस्य यथैव विष्णोः ॥ ४० ॥
महत्तमः तेजस्वितमः अर्कस्य सकाशादपि ।
‘तेजोऽर्थ उत्तमार्थे च पूज्यार्थे च प्रयुज्यते ।
महच्छब्दो महःशब्दो मान्यशब्दस्तथैव च’’॥ इति शब्दनिर्णये ॥४०॥
ब्रह्मोवाच–
जाने त्वामीश विश्वस्य जगतो योनिबीजयोः ।
शक्तेः शिवस्य च परं यत् तद् ब्रह्म निरन्तरम् ॥ ४२ ॥
अन्तर्याम्यपेक्षया शक्तेः शिवस्य च परमिति ।
‘क्रियन्ते स्तुतयोऽन्यत्र तदन्तर्याम्यपेक्षया ।
न जीवेषु गुणाः पूर्णा यथायोग्या हि तद्गताः’’॥ इति ब्राह्मे ॥४२॥
त्वमेव भगवन्नेतच्छिवशक्त्योः स्वरूपयोः ।
विश्वं सृजसि पास्यत्सि क्रीडयोर्णपदो यथा ॥ ४३ ॥
‘तद्वशत्वात्स्वरूपं तु विष्णोः सर्वमुदीर्यते ।
स्वरूपं स च सर्वत्र बिम्बत्वादेव तूच्यते ॥
साक्षात्स्वरूपं मत्स्याद्या विष्णोर्नान्यत्कथञ्चन ।
तस्मादन्यगता दोषा न तस्मिन् पुरुषोत्तमे’’॥ इति तत्त्वनिर्णये ॥ ४३ ॥
त्वमेव धर्मार्थदुघाऽभिपत्तये
दक्षेण सूत्रेण विसर्जिताध्वरः ।
त्वयैव लोकेऽवसिताश्च सेतवो
यान् ब्राह्मणाः श्रद्धधते धृतव्रताः ॥ ४४ ॥
अभिपत्तये प्रतीकाराय । सूत्रेण दोषसूचकेन ॥ ४४ ॥
न वै सतां त्वच्चरणार्पितात्मनां
भूतेषु सर्वेष्वभिपश्यतां तव ।
भूतानि चात्मन्यपृथग् दिदृक्षतां
प्रायेण रोषोऽभिभवेद् यथा पशोः ॥ ४६ ॥
तव त्वाम् । ‘चतुर्षु षष्ठी’‘इति सूत्रात् ॥
‘विष्ण्वधीना जगत्सत्ता प्रतीतिश्चेष्टितं गतिः ।
इति यन्नियतं ज्ञानमपृथग्दर्शनं स्मृतम् ॥
मिथ्याज्ञानं पृथग्ज्ञानमिति वेदविदो विदुः ।
यथैवार्थस्तथाज्ञानमपृथग्दृष्टिरुच्यते’’॥ इति गारुडे ॥ ४६ ॥
येऽस्मिन् यदा पुष्करनाभमायया
दुर्लङ्ध्यया स्पृष्टधियः पृथग्दृशः ।
कुर्वन्ति तत्र ह्यनुकम्पया कृपां
न साधवो दैवबलात्कृताः कथम् ॥ ४८ ॥
यदा यस्मात् ।
‘हृदयस्य द्रवीभावस्त्वनुकम्पेति कथ्यते ।
उपकारं कर्तुमिच्छा कृपेत्याहुर्मनीषिणः’’॥ इति शब्दनिर्णये ॥४८॥
भवान् हि पुंसः परमस्य मायया
दुरन्तयाऽस्पृष्टमतिः समस्तदृक् ।
तया हतात्मस्वनुकर्मचेत-
स्स्वनुग्रहं कर्तुमिहार्हति प्रभो ॥ ४९ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये चतुर्थस्कन्धे सप्तमोऽध्यायः ॥
मायया विष्ण्वधीनया बन्धकशक्त्या ।
‘विष्णुमाया हरेरिच्छा बन्धशक्तिश्च तद्वशा ।
सर्वत्रगा हरेरिच्छा बन्धशक्तिर्ज्ञवर्जिता’’॥ इति शब्दनिर्णये ॥४९॥
अष्टमोऽध्यायः
अप्यर्वाग्वृत्तयो यस्य महित्वे स्वभुवादयः ।
यथामति गृणन्ति स्म कृतानुग्रहविग्रहम् ॥ २४ ॥
‘उत्पत्तिर्हरिरूपाणां व्यक्तिरेव न संशयः ।
उत्पत्तिरेव जीवानां देहोत्पत्तिरितीर्यते’’। इति तत्त्वनिर्णये ॥ २४ ॥
दक्ष उवाच–
शुद्धं स्वधाम्न्युपरताखिलबुद्ध्यवस्थं
चिन्मात्रमेकमभयं प्रतिषिध्य मायाम् ।
तिष्ठंस्तयैव पुरुषत्वमुपेत्य तस्या-
मास्ते भवानपरिशुद्धमिवामनन्ति ॥ २६ ॥
‘जडमाया न तस्यास्ति शरीरत्वेन कुत्रचित् ।
सृष्ट्वा तया शरीराणि तत्स्थितेः पुरुषः स्मृतः ।
मायायामशरीरायामपि विष्णुः स्वयं स्थितः ॥
तस्मात्प्राकृत इत्येव जीववत्तं वदन्ति हि ।
अस्पृष्टत्वेऽपि तद्धर्मैस्तद्गत्वादेव कारणात्’’॥ इति तत्त्वविवेके ॥ २६ ॥
ऋत्विज ऊचुः–
तत्त्वं न ते वयमनञ्जन रुद्रशापात्
कर्मण्यवग्रहधियो भगवन् विदामः ।
धर्मोपलक्षणमिदं त्रिवृदध्वराख्यं
ज्ञातं यदर्थमधिदैवमदस्त्वमास्थाः ॥ २७ ॥
अधिदैवं उत्तमदैवम् । यद्यज्ञभागार्थं यज्ञभुग्देवताशरीरे आस्थाः ।
‘भुङ्क्ते यज्ञभुजो देवानाविश्य पुरुषोत्तमः’’। इति च ॥ २७ ॥
रुद्र उवाच–
तव वरद वराड्घ्रावाशिषा चानभिध्ये
ह्यपि मुनिभिरसक्तैरादरेणार्हणीये ।
यदि रचितधियं मां विद्धि लोकापविद्धं
जगति न गणयेयं त्वत्परानुग्रहेण ॥ २९ ॥
आशिषोऽपि तत एव भवन्तीत्यतश्चशब्दः ॥ २९ ॥
नैतत् स्वरूपं भवतोऽसौ पदार्थ-
भेदग्रहः पुरुषो यावदीक्षेत् ।
ज्ञानस्य चार्थस्य गुणस्य चाश्रया-
न्मायामयाद् व्यतिरिक्तो यतस्त्वम् ॥ ३१ ॥
‘अव्यक्तादिपदार्थानां विशेषज्ञानिनाऽपि तु ।
न देहो वैष्णवो ज्ञेय आनन्दः प्राकृतो न हि’’॥ इति तन्त्रसारे ।
पदार्थभेदग्रहः पदार्थविशेषज्ञः ।
‘भेदोऽन्तरं विशेषश्च सूक्ष्मेक्षा चाभिधीयते’‘इति तत्त्वनिर्णये ॥ ३१ ॥
ऋषय ऊचुः –
अनन्वितं ते भगवन् विचेष्टितं
यदात्मना चरसि हि कर्म नाज्यसे ।
विभूतयो यत उपसेदुरीश्वरा-
न्न मन्यते स्वयमनुवर्तिनीं भवान् ॥ ३४ ॥
ईश्वरान् ॥ ३४ ॥
लोकपाला ऊचुः–
दृष्टः किं नो दृग्भिरसद्ग्रहैस्त्वं
प्रत्यग्दृष्ट्या दृश्यते येन विश्वम् ।
माया ह्येषा भवदीया हि भूमन्
यस्त्वं षष्ठः पञ्चभिर्भासि भूतैः ॥ ३७ ॥
माया ह्येषा भवदीया भगवत्सामर्थ्यमेव ।
‘भगवन्महिमैवासौ यद्दृश्यो भगवान् स्वयम्’’। इति च ॥ ३७ ॥
योगेश्वरा ऊचुः–
प्रेयान्न तेऽन्योऽस्त्यमृतप्रिय प्रभो
विश्वात्मनीक्षेन्न पृथग् य आत्मनः ।
अथापि भृत्येश तयोपधावता-
मनन्यवृत्त्याऽनुगृहाण वत्सल ॥ ३८ ॥
न पृथग् य आत्मनः । अन्यथा यो न पश्यति ।
‘पृथग्ज्ञानं तदित्याहुर्यत्किञ्चिद्वीक्ष्यतेऽन्यथा ।
ज्ञानज्ञेयाविरोधेन त्वपृथग्वस्तुनो दृशिः ॥
केचिद्भेदं विनिन्दन्ति ह्यासुरज्ञानवृत्तयः ।
निराकुर्वन्त्यथो मन्दा भेदस्य परमार्थताम् ॥
ये तु तत्त्वविदो मुख्या भेदं ब्रह्मान्यवस्तुनोः ।
परमार्थमिति ज्ञात्वा नित्यं विष्णुमुपासते’’॥ इति गारुडे ।
हे भृत्येश । तयाऽनन्यवृत्त्या उपधावतामस्माकमनुग्रहोऽस्त्येव । तथापि पुनरनुगृहाण ।
‘यथार्थज्ञानिनो नान्यः प्रियो विष्णोस्तु कश्चन ।
तथाप्यधिकसन्तुष्ट्यै प्रसीदेत्यर्थनं पुनः’’॥ इति च ॥ ३८ ॥
जगदुद्भवस्थितिलयेषु लीलया
प्रविभज्यमानगुणयाऽऽत्ममायया ।
रचितात्मभेदमतये स्वसंस्थया
ह्यतिवर्तितभ्रमगुणात्मने नमः ॥ ३९ ॥
‘प्रकृत्या जडया मिथ्याज्ञानं जनयतीश्वरः ।
तस्य भ्रमश्च सत्वाद्या न सन्ति परमेशितुः’’॥ इति च ॥ ३९ ॥
अग्निरुवाच–
यत्तेजसाऽहं सुसमिद्धतेजा
हव्यं वहाम्यध्वर आज्यसिक्तम् ।
तं यज्ञियं पञ्चविधं च पञ्चभिः
स्विष्टं यजुर्भिः प्रणतोऽस्मि यज्ञम् ॥ ४१ ॥
‘यज्ञो यज्ञपुमांश्चैव यज्ञेशो यज्ञभावनः ।
यज्ञभुक्चेति पञ्चात्मा यज्ञेष्विज्यो हरिः स्वयम् ॥
ओश्रावयास्तुश्रौषड्यजाथो येयजामहे ।
वषट्कारान्तकैर्नित्यं यजुर्भिः पञ्चभिर्विभुः’’॥ इति तन्त्रसारे ॥४१॥
ब्राह्मणा ऊचुः–
त्वं क्रतुस्त्वं हविस्त्वं हुताशः स्वयं
त्वं हि मन्त्राः समिद् दर्भपात्राणि च ।
त्वं सदस्यर्त्विजो दम्पती देवता
अग्निहोत्रं स्वधा सोम आज्यं पशुः ॥ ४५ ॥
‘सर्वशब्दाभिधेयत्वं सर्वान्तर्यामिकत्वतः ।
न तु सर्वस्वरूपत्वात्सर्वभिन्नो यतो हरिः’’॥ इति मात्स्ये ॥ ४५ ॥
श्रीभगवानुवाच–
अहं ब्रह्मा च शर्वश्च जगतः कारणं परम् ।
आत्मेश्वर उपद्रष्टा स्वयंदृगविशेषणः ॥ ५० ॥
‘अन्तर्यामिस्वरूपेण ब्रह्मरुद्राद्यभिन्नता ।
न तु जीवस्वरूपेण जीवा भिन्ना यतो हरेः ॥
विशेषाभेदवचनं सन्निधानविशेषतः ।
सन्निधानं तु तत्प्रोक्तं सामर्थ्यव्यञ्जनं हरेः’’॥ इति भविष्यत्पर्वणि ॥
तस्मिन् ब्रह्मण्यद्वितीये केवले परमात्मनि ।
देहात्मबुद्धिर्भूतानि भेदेनाज्ञोऽनुपश्यति ॥ ५२ ॥
‘हरेर्वशत्वदृष्टिस्तु भूतानामपृथग्दृशिः ।
प्रियत्वदृष्टिरथवा ब्रह्मादीनां विशेषतः’’॥ इति गारुडे ॥ ५२ ॥
त्रयाणामेकभावानां यो न पश्यति वै भिदाम् ।
सर्वभूतात्मना ब्रह्मन् स शान्तिमधिगच्छति ॥ ५४ ॥
सर्वभूतात्मना सर्वभूतान्तर्यामित्वेन ॥ ५४ ॥
मैत्रेय उवाच–
एवं भगवताऽऽदिष्टः प्रजापतिपतिर्हरिम् ।
अर्चित्वा क्रतुना स्वेन देवानुभयतोऽयजत् ॥ ५५ ॥
उभयतः सोमतो हविषश्च ॥ ५५ ॥
अनन्यभावैकगतिः शक्तिः सुप्तेव पूरुषम्
एतद् भगवतः शम्भोः कर्म दक्षाध्वरद्रुहः ।
श्रुतं भागवताच्छिष्यादुद्धवान्मे बृहस्पतेः ॥ ५९ ॥
‘शक्तित्वाद्विष्णुशक्तिस्तु शक्तिशब्देन चोच्यते ।
शक्यत्वात्प्रकृतिश्चापि स्वापः सृष्टिं विना हरौ ।
रतिस्तस्यास्तु कथितो नह्यन्यः स्वाप उच्यते’’॥ इति तन्त्रसारे ॥
पीत्वाऽन्तरजरं वह्निश्चच्छर्द शरकानने ।
कुमारोऽभूत् ततस्तस्मै स्तनं षट् कृत्तिका ददुः ॥ ६३ ॥
षड्भिर्मुखैः स्तनं पीत्वा स बालः षण्मुखोऽभवत् ।
ततश्चक्रुः सैन्यपालं सर्वासुरभयंकरम् ॥ ६४ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये चतुर्थस्कन्धे अष्टमोऽध्यायः ॥
‘स्वाहाद्वारेण नदीतीरे शरकानने चच्छर्द’’। इति भारतोक्तेः ॥६४॥
नवमोऽध्यायः
अथातः कीर्तये वंशं पुण्यकीर्तेः कुरूद्वह ।
स्वायंभुवस्यापि मनोर्हरेरंशांशजन्मनः ॥ ७ ॥
‘आविष्टा हरिणा जीवा ब्रह्मा दक्षो मनुः पृथुः ।
शक्राद्या ऋषयश्चैव मत्स्यव्यासादयो हरिः ॥‘‘इति ब्रह्मवैवर्ते ॥७॥
प्रियव्रतोत्तानपादौ शतरूपापतेः सुतौ ।
वासुदेवस्य कलया रक्षायां जगतः स्थितौ ॥ ८ ॥
‘प्रियव्रतोत्तानपादप्रमुखेषु हरिः स्वयम् ।
आविष्टः सर्वभूतेषु ऋषभाद्याः स्वयं हरिः’’॥ इति हरिवंशेषु ॥८॥
विकल्पे विद्यमानेऽपि न ह्यसंतोषहेतवः ।
पुंसो मोहमृते भिन्ना यल्लोका निजकर्मभिः ॥ ३१ ॥
विविधकल्पने विद्यमानेऽपि परिणततया ॥ ३१ ॥
स्मयमानमभिध्यायेत् सानुरागावलोकनम् ।
नियमेनैकभूतेन मनसा वरदर्षभम् ॥ ५४ ॥
परिणततया एकस्मिन्नेव भूतेन ॥ ५४ ॥
परिचर्या भगवतो यावतीः पूर्वसेविताः ।
ता मन्त्रहृदयेनैव प्रयुञ्ज्यान्मन्त्रमूर्तये ॥ ६१ ॥
मन्त्रहृदयेन मन्त्रेण च नमः शब्देन च ॥ ६१ ॥
सुदुष्करं कर्म कृत्वा लोकपालैरपि प्रभुः ।
एष्यत्यचिरतो राजन् यशो विपुलयंस्तव ॥ ७२ ॥
तस्यैव योग्यत्वाल्लोकपालानां दुष्करम् ।
‘नाशक्यं देवतानां तु यदन्यैः शकितं क्वचित् ।
शक्ता अपि न कुर्वन्ति यदन्यविहितं बुधाः’’॥ इति ब्राह्मे ॥ ७२ ॥
तत्राभिषिक्तः प्रयतस्तामुपोष्य विभावरीम् ।
समाहितः पर्यचरद् दृष्ट्याऽऽदेशेन पूरुषम् ॥ ७४ ॥
दृष्ट्या निरूपणया । आदेशेन उपदेशेन ॥ ७४ ॥
देवाश्चक्रुस्तपोविघ्नं त्रासयन्तः स्वमायया ।
सर्पेभसिंहकूष्माण्डैस्तान् नापश्यत् परं गतः ॥ ८० ॥
‘यत्र देवैः कृते विघ्ने खण्डितो न पुमान्भवेत् ।
तत्र तद्यशसे विघ्नं कुर्युर्न तु विघातने ॥
यत्र खण्डितता तत्र खण्डनायैव केवलम् ।
सत्यकामा यतो देवास्ते चित्ताद्यभिमानिनः ॥
अतो विमोहनायैव प्राप्नुयुस्ते पराजयम् ।
तेषामशक्तितोक्तिश्च विमोहाय सुरद्विषाम्’’॥ इति ब्रह्माण्डे ॥८०॥
सर्वतो मन आकृष्य हृदि भूतेन्द्रियाश्रयम् ।
ध्यायन् भगवतो रूपं नाद्राक्षीत् किञ्चनापरम् ॥ ८१ ॥
भूतेन्द्रियाश्रयं भगवद्रूपम् ॥ ८१ ॥
तस्मिन्नभिध्यायति विश्वमात्मनो
द्वारं निरुध्यासुमनन्यया धिया ।
लोका निरुच्छ्वासनिपीडिता भृशं
सलोकपालाः शरणं ययुर्हरिम् ॥ ८४ ॥
विश्वं भगवन्तम् । आत्मनो द्वारं सर्वजीवोत्पत्त्यादिद्वारम् । लोकानामेव निरुच्छ्वासः लोकपालास्तदर्थमेव शरणं ययुः ।
‘ध्यातुर्ध्रुवस्य कीर्त्यर्थं हरिणा सह देवताः ।
लोकोच्छ्वासं निरुध्याथ श्वासार्थं च हरिं ययुः ॥
अन्यप्रवृत्तयस्तेभ्यो न तेषामन्यतः क्वचित् ।
स्वोत्तमेभ्यस्तु देवेभ्यस्तेषां स्युः स्वप्रवृत्तयः’’॥ इति तत्त्वनिर्णये ॥
देवा ऊचुः–
नैवं विदामो भगवन् प्राणरोधं
चराचरस्याखिलसत्वधाम्नः ।
विधेहि तन्नो वृजिनाद् विमोक्षं
प्राप्ता वयं त्वां शरणं शरण्यम् ॥ ८५ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये चतुर्थस्कन्धे नवमोऽध्यायः ॥
अखिलसत्वसमूहस्य ।
‘तेजः शक्तिः समूहश्च गृहं धामेति कथ्यते’’।इति तत्त्वनिर्णये ॥ ८५ ॥
दशमोऽध्यायः
या निर्वृतिस्तनुभृतां तव पादपद्म-
ध्यानाद् भवज्जनकथाश्रवणेन वा स्यात् ।
सा ब्रह्मणि स्वमहिमन्यपि नाथ मा भूत्
किम्वन्तकासिलुलितात् पततां विमानात् ॥ १० ॥
परब्रह्मणि स्थितस्य ध्यानादिकं विना न भवति । सुप्तौ दृष्टत्वात् ॥१०॥
ते न स्मरन्त्यतितरां प्रियमीशमाद्यं
स्वान् संपदः सुतसुहृद्गृहवित्तदारान् ।
ये त्वब्जनाभभवदीयपदारविन्द-
सौगन्ध्यलुब्धहृदयेषु कृतप्रसङ्गाः ॥ १२ ॥
ये स्वाः सम्पदः स्मरन्ति ते त्वां न स्मरन्ति ।
ये भगवद्भक्तसङ्गाः ते स्वाः सम्पदो न स्मरन्ति ॥ १२ ॥
तिर्यङ्नगद्विजसरीसृपदेवदैत्य-
मर्त्यादिभिर्विरचितं सदसद्विशेषम् ।
रूपं स्थविष्ठमज ते महदाद्यशेषं
नातः परं परम वेद्मि न यत्र वाचः ॥ १३ ॥
‘पश्यमानोऽपि तु हरिं न तु वेत्ति कथञ्चन ।
वेत्ति किञ्चित्प्रसादेन हरेरथ गुरोस्तथा’’॥ इति ब्रह्मतर्के ॥ १३ ॥
त्वं नित्यमुक्तपरिशुद्धविशुद्ध आत्मा
कूटस्थ आदिपुरुषो भगवांस्त्र्यधीशः ।
यद्बुध्द्यवस्थितमखण्डितया स्वबुद्ध्या
दृष्ट्वाऽऽस्थिता वधिमतो व्यतिरिक्त आस्से ॥ १५ ॥
वधिं अवधिम् । अल्लोपेन । संसारस्यावधिभूतं त्वामास्थिताः ॥ तैः सहैवास्ते ॥ १५ ॥
यस्मिन् विरुद्धगतयोऽप्यनिशं पतन्ति
विद्यादयो विविधशक्तय आनुपूर्व्या ।
तद् ब्रह्म विश्वभवमेकमविश्वमाद्य-
मानन्दमात्रमविकारमहं प्रपद्ये ॥ १६ ॥
‘आनुपूर्वी श्रुतिश्चैव त्रयी चाम्नाय उच्यते’’। इत्यभिधानम् ॥ १६ ॥
सत्याशिषो हि भगवंस्तव पादमूल-
माशिष्टयोऽनुभजतः पुरुषार्थमूर्तेः ।
अप्येवमार्य भगवान् परिपाति दीनान्
वास्रेव वत्सकमनुग्रहकातरोऽस्मान् ॥ १७ ॥
तव पादमूलं भजत आचार्यस्याशिष्टयः शिक्षाः सत्याशीःप्रदा एव । तथापि अस्मान् शिष्यान् विशिष्टफलप्राप्तये पुनः परिपाति भवान् । अहो बत ममानात्म्यं मन्दभाग्यस्य पश्यत । भवच्छिदः पादमूलं गत्वा याचे तदन्तवत् ॥ ३१ ॥
‘आधिपत्यमनित्यं तु ध्रुवलोकस्य यद्ध्रुवे ।
न तु तत्स्थानगन्तॄणां यतीनां गतिरुत्तमा ॥
तस्यापि मुक्तिर्नियता नियतं चापि तत्पदम् ।
तथापि कामनानिन्दा ध्रुवेण सुकृता बत’’॥ इति भविष्यत्पर्वणि ॥ ३१ ॥
दैवीं मायामुपाश्रित्य प्रसुप्त इव भिन्नदृक् ।
तप्ये द्वितीयेऽप्यसति भ्रातृभ्रातृव्यहृद्रुजा ॥ ३३ ॥
‘द्वितीयस्य स्वतन्त्रस्य त्वभावाद्द्वयवर्जितः ।
ईश्वरश्चेशितव्यस्य भावात्स परमेश्वरः’’॥ इति हरिवंशेषु ॥ ३३ ॥
भवच्छिदमयाचेऽहं भवं भाग्यविवर्जितः ।
तादात्म्यं यच्छतो मौढ्यान्मानो मे भिक्षितं बत
ईश्वरात् क्षीणपुण्येन पुलकानिव चाधनः ॥ ३५ ॥
‘हरौ नियतचित्तत्वाद्गृहवत्तत्प्रवेशनात् ।
मोक्षं तादात्म्यमित्याहुर्न तद्रूपत्वतः क्वचित्’’॥ इति भविष्यत्पर्वणि ॥
तच्चित्ततैव तादात्म्यम् ।
‘नैकात्मतां मे स्पृहयन्ति’‘इत्युक्तत्वात् ।
‘हरीच्छितेच्छुतैकात्म्यं न तेनैकस्वरूपता’‘इति च ।
‘कामेन मे काम आगात्’‘इति च श्रुतिः ॥ ३५ ॥
लाल्यमानं जनैरेवं ध्रुवं सभ्रातरं नृपः ।
आरोप्य करिणीं हृष्टः स्तूयमानोऽविशत् पुरम् ॥ ५३ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये चतुर्थस्कन्धे दशमोऽध्यायः ॥
‘कलभश्चैव कन्यानां करिणी बालमङ्गले’’। इति राजनीतौ ॥ ५३ ॥
एकादशोऽध्यायः
निमित्तमात्रं तत्रात्मा निर्गुणः पुरुषर्षभः ।
व्यक्ताव्यक्तमिदं विश्वं यत्र भ्रमति लोहवत् ॥ ४७ ॥
केचित् कर्म वदन्त्येनं स्वभावमपरे नृप । एके कालं परे दैवं पुंसः काममुतापरे ॥ ५२ ॥
‘हरिरक्लिष्टकारित्वादयस्कान्तवदुच्यते ।
कामकर्मस्वभावेषु काले चावस्थितो हरिः ।
सर्वकारणभूतः संस्तत्तन्नाम्नाऽभिधीयते’’॥ इति सत्यसंहितायाम् ॥ ४७,५२ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये चतुर्थस्कन्धे एकादशोऽध्यायः ॥
द्वादशोऽध्यायः
अहं त्वमित्यपार्था धीरज्ञानात् पुरुषस्य हि ।
स्वाप्नीव भात्यनुध्यानाद् यया बन्धविपर्ययः ॥ ४ ॥
परमेश्वरं विनाऽहं त्वं कर्तेति भ्रान्तिः ।
‘नाहं कर्ता न कर्ता त्वं कर्ता यस्तु सदा प्रभुः’’। इति मोक्षधर्मे ।
विपर्ययो दुःखादिः सुखादिरूपस्य ॥ ४ ॥
भजस्व भजनीयाङ्घ्रिमभवाय भवच्छिदम् ।
युक्तं विरहितं शक्त्या गुणमय्याऽऽत्ममायया ॥ ६ ॥
आत्मसामर्थ्याख्यया शक्त्या युक्तम् । गुणमय्या विरहितम् ॥ ६ ॥
वृणीहि कामं नृप यन्मनोगतं
मत्तस्त्वमौत्तानपदेऽविशङ्कितः ।
वरार्हणोऽस्यम्बुजनाभपादयो-
र्निरन्तरं त्वां वयमङ्ग शुश्रुम ॥ ७ ॥
निरन्तरं भगवत्पादमानसम् ॥ ७ ॥
अथायजत यज्ञेशं क्रतुभिर्भूरिदक्षिणैः ।
द्रव्यक्रियादेवतानां कर्माकर्मफलप्रदम् ॥ १० ॥
द्रव्यक्रियादेवतानां विषयम् । अकर्मफलप्रदं मोक्षफलप्रदम् ॥ १० ॥
सर्वात्मन्यच्युते सर्वे तीव्रौघां भक्तिमुद्वहन् ।
ददर्शात्मनि भूतेषु तमेवावस्थितं विभुम् ॥ ११ ॥
‘विश्वः पूर्णस्तथा सर्वः समस्तश्चाभिधीयते’’। इत्यभिधानम् ॥११॥
मन्यमान इदं विश्वं मायारचितमात्मनि ।
अविद्यारचितस्वप्नगन्धर्वनगरोपमम् ॥ १५ ॥
‘अन्यथात्वात्क्षिप्रनाशाज्जगत्स्वप्नादिवत्स्मृतम् ।
वर्तमानं नियत्यैव सदैव परमात्मनि’’॥ इति वाराहे ॥
‘महामायेत्यविद्येति नियतिर्मोहिनीति च ।
प्रकृतिर्वासनेत्येवं तवेच्छानन्त कथ्यते’’॥ इति स्कान्दे ॥ १५ ॥
तस्या विशुद्धकरणः शिववार्विगाह्य
बद्धासनो जितमरुन्मनसाऽऽहृताक्षः ।
स्थूले दधार भगवत्प्रतिरूप एतद्
ध्यायंस्तदव्यवहितो व्यसृजन् समाधौ ॥ १७ ॥
स्थूले पातालादिके । शिलावत्प्रतिमारूपे ।
‘शिलावत्प्रतिमैषा हि विष्णोर्लोकचतुर्दशि’’। इति च ॥ १७ ॥
सुदुर्जयं विष्णुपदं जितं त्वया
यत् सूरयोऽप्राप्य विचक्षते परम् ।
आतिष्ठ तच्चन्द्रदिवाकरादयो
ग्रहर्क्षताराः परियन्ति दक्षिणम् ॥ २५ ॥
अनास्थितं ते पितृभिरन्यैरप्यङ्ग कर्हिचित् ।
आतिष्ठ जगतां वन्द्यं तद् विष्णोः परमं पदम् ॥ २६ ॥
‘शिंशुमारो ध्रुवश्चैव संस्थितौ यत्पुरे सदा ।
तत्पश्यन्ति न यान्त्यन्ये लोकं यान्ति सुरान् विना’’॥ इति च ॥ २५,२६ ॥
श्रावयेच्छ्रद्दधानानां तीर्थपादपदाश्रयः ।
नेच्छंस्तत्राऽत्मनाऽऽत्मानं संतुष्ट इति सिध्यति ॥ ४९ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये चतुर्थस्कन्धे द्वादशोऽध्यायः ॥
मनसा परमात्मानं प्रति सन्तुष्टः ॥ ४९ ॥
त्रयोदशोऽध्यायः
अव्यवच्छिन्नयोगाग्निदग्धकर्ममलाशयः ।
स्वरूपमवरुन्धानो नान्यदस्मात् तदैक्षत ॥ ९ ॥
स्वरूपं जीवस्य बिम्बरूपं परमात्मानम् ।
‘भिन्नस्वरूपमभिदं स्वरूपं तु द्विधा हरेः ।
भिन्नस्वरूपं ब्रह्माद्या मत्स्याद्यभिदमुच्यते’’॥ इति गारुडे ॥ ९ ॥
मत्वा तं जडमुन्मत्तं कुलवृद्धाः समन्त्रिणः ।
वत्सरं भूपतिं चक्रुर्यवीयांसं भ्रमेः सुतम् ॥ ११ ॥
‘कल्पः कल्पाभिमानी सन् शिंशुमारानुगः स्थितः ।
वत्सरो राज्यमकरोत्पित्रा दत्तं महाबलः’’॥ इति ब्राह्मे ।
‘चक्रे नारायणः साक्षात्किंस्तुघ्नः कल्पमात्मजम्’’। इति पाद्मे ॥११॥
सदस्या ऊचुः–
नरदेवेह भवतो नावद्यं हि मनाक् स्थितम् ।
अस्त्येकं प्राक्तनमघं यदि हेदृक् त्वमप्रजः ॥ ३१ ॥
तथा साधय भद्रं ते आत्मानं सप्रजं नृप ।
इष्टस्ते पुत्रकामस्य पुत्रं दास्यति यज्ञभुक् ॥ ३२ ॥
यथा स्वभागधेयानि ग्रहीष्यन्ति दिवौकसः ।
यद् यज्ञपुरुषः साक्षादपत्याय हरिर्वृतः ॥ ३३ ॥
‘अनपत्योऽपि सद्धर्मा लोकजिन्नात्र संशयः ।
देवैस्तु पृथुजन्मार्थे हविरङ्गस्य नो हृतम् ॥
अनपत्यत्वकर्माऽसौ बालहत्या कृता पुरा ।
अतो दुष्टोऽभवत्पुत्र इष्टो विष्णुरतः पृथुः’’॥ इति वामने ॥३१-३३॥
स बाल एव पुरुषो मातामहमनुव्रतः ।
अधर्मांशोद्भवं मृत्युं तेनाभवदधार्मिकः ॥ ३९ ॥
स शरासनमुद्यम्य मृगयुर्वनगोचरः ।
हन्त्यसाधुर्मृगान् दीनान् वेनोऽसावित्यरौज्जनः ॥ ४० ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये चतुर्थस्कन्धे त्रयोदशोऽध्यायः ॥
‘मृत्युर्देवो यमभ्राता वेनमातामहोऽसुरः ।
पीडां वेनेति च प्राहुर्वेनोऽसौ पीडनादभूत्’’॥ इति च ॥ ३९,४० ॥
चतुर्दशोऽध्यायः
तं सर्वलोकामरयज्ञसंग्रहं
त्रयीमयं द्रव्यमयं तपोमयम् ।
यज्ञैर्विचित्रैर्यजतो भवाय ते
राजन् स्वदेशाननुरोद्धुमर्हसि ॥
सर्वलोकादीन् सङ्गृह्णातीति तत्सङ्ग्रहः ।
‘सर्वस्य ग्रहणाद्विष्णुः सर्वसङ्ग्रह उच्यते ।
वेदस्य तद्वक्तृकत्वात्प्राधान्यं तु त्रयीमयः ।
सर्वं तद्विषयत्वेन मुख्यं सर्वमयस्ततः’‘इति स्कान्दे ॥ २२ ॥
यज्ञेन युष्मद्विषये द्विजातिभि-
र्वितायमानेन सुराः कला हरेः ।
स्विष्टाः सुतुष्टाः प्रदिशन्ति वाञ्छितं
तद्धेलनं नार्हसि वीर चेष्टितुम् ॥ २३ ॥
‘विष्णोः सन्निहितत्वात्तु सर्वे देवा हरेः कलाः’’। इति च ॥ २३ ॥
वेन उवाच–
अवजानन्ति ये मूढा नृपरूपिणमीश्वरम् ।
नानुविन्दन्ति ते भद्रमिह लोके परत्र च ॥ २४ ॥
तस्मान्मां कर्मभिर्विप्रा यजध्वं गतमत्सराः ।
बलिं च मह्यं हरत मत्तोऽन्यः कोऽग्रभुक् पुमान् ॥ २९ ॥
‘अहं ब्रह्मेति वेनस्तु ध्यायन्नापाधरं तमः ।
तद्राद्धान्तो महीं व्याप्तो भेर्या ख्यापयतोऽनिशम् ॥
आसुरा राक्षसाश्चैव पिशाचास्तत्पथि स्थिताः ।
भूमौ तत्पृथुना सर्वं निरस्तं महितात्मना ॥
पुनः कलियुगे प्राप्ते अष्टाविंशतिमे मनोः ।
वैवस्वतस्य समये जाताः क्रोधवशा भुवि ।
ख्यापयन्ति दुरात्मनो मणिमांस्तत्पुरःसरः’’॥ इति भविष्यत्पुराणे ॥ २४,२९ ॥
विनिश्चित्यैवमृषयो विपन्नस्य महीपतेः ।
ममन्थुरूरुं तरसा तत्रासीद् बाहुको नरः ॥ ४४ ॥
तं तु तेऽवनतं दृष्ट्वा किं करोमीति वादिनम् ।
निषीदेत्यब्रुवंस्तात स निषादस्ततोऽभवत् ॥ ४६ ॥
तस्य वंश्यास्तु नैषादा गिरिकाननगोचराः ।
योऽपाहरज्जायमानो वेनकल्मषमुल्बणम् ॥ ४७ ॥
‘त्र्यंशो वेनः समुद्दिष्टः सत्वांशः पृथुतामगात् ।
रजोंऽशश्च दिवं यातो निषादस्तामसोऽभवत् ।
स्वयं वेनश्चतुर्थस्तु महातमसि पातितः’’॥ इति कौर्मे ।
‘पापरूपी पृथग्जातो निषादो वेनदेहतः ।
यस्मात्तस्मात्पृथोः पुत्राद्रजो वेनो दिवं ययौ’’॥ इति गारुडे ॥ ४४-४७ ॥
ऋषय ऊचुः –
एष विष्णोर्भगवतः कला भुवनपावनी ।
इयं च लक्ष्मीः सम्भूतिः पुरुषस्यानपायिनी ॥ ५० ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये चतुर्थस्कन्धे चतुर्दशोऽध्यायः ॥
‘पृथुहैहयादयो जीवास्तेष्वाविष्टो हरिः स्वयम् ।
विशेषावेशतस्तेषु साक्षाद्धर्यंशतावचः ॥
किंस्तुघ्नव्यासऋषभकपिला मत्स्यपूर्वकाः ।
आकूतिजैतरेयौ च धर्मजत्रयमेव च ॥
धन्वन्तरिर्हयग्रीवो दत्तात्रेयश्च तापसः ।
स्वयं नारायणस्त्वेते नाणुमात्रविभेदिनः ।
बलतः स्वरूपतश्चैव गुणैरपि कथञ्चन’’॥ इति तत्त्वनिर्णये ।
‘तत्र सन्निहिता श्रीश्च यत्र सन्निहितो हरिः ।
नास्य सन्निधिमात्रेण रमा पत्नीत्वमाव्रजेत् ॥
साक्षादेव तु साक्षाच्च हरेः सन्निधितः क्वचित् ।
गोप्यादिरूपा भवति विपरीतं न तु क्वचित्’’॥ इति च ॥ ५० ॥
पञ्चदशोऽध्यायः
एष साक्षाद्धरेरंशो जातो लोकरिरक्षया ।
इयं च तत्परा हि श्रीरनुजज्ञेऽनपायिनी ॥ ३ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये चतुर्थस्कन्धे पञ्चदशोऽध्यायः ॥
तत्र सन्निहितः साक्षाद् भगवान् ।
‘ब्रह्मण्यनन्ते गरुडे रुद्रे कामे शचीपतौ ।
अनिरुद्धे मनौ चैव पृथौ च कृतवीर्यजे ॥
नारदे चैवमाद्येषु विशेषात्सन्निधिर्हरेः ।
सुदर्शनादिष्वस्त्रेषु तथा सन्निहितो हरिः ॥
नरलक्ष्मणौ बलश्चैव शेषस्यांशाः प्रकीर्तिताः ।
तथा भरतशत्रुघ्नौ चक्रशङ्खावुदाहृतौ ।
प्रद्युम्नश्च कुमारश्च स्कन्दः कामांशजाः स्मृताः ॥‘‘इति स्कान्दे ।
‘वैन्ये पृथौ सन्निहितो राजरूपी जनार्दनः’’। इति ब्राह्मे ॥ ३ ॥
षोडशोऽध्यायः
अयं तु साक्षाद्भगवांस्त्र्यधीशः
कूटस्थ आत्मा कलयाऽवतीर्णः ।
यस्मिन्नविद्यारचितं निरर्थकं
पश्यन्ति नानात्वमिव प्रतीतम् ॥ २० ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये चतुर्थस्कन्धे षोडशोऽध्यायः ॥
यल्लोके निरर्थकं तद्भगवद्रूपेषु प्रतीतनानात्वदृष्टान्तेन पश्यन्ति सन्तः ।
‘मत्स्यरूपादिनानात्वदृष्टिवद्यन्निरर्थकम्’’। इति पाद्मे ।
‘एवं धर्मान्पृथक् पश्यन्’‘इति च ॥ २० ॥
सप्तदशोऽध्यायः
ब्राह्मणप्रमुखान् वर्णान् भृत्यामात्यपुरोधसः ।
पौरान् जानपदान् श्रेणीः प्रकृतीः समपूजयत् ॥ २ ॥
‘राज्ञा समानवयसः श्रेणयस्त्वङ्गरक्षकाः’’। इत्यभिधानम् ॥ २ ॥
यच्चान्यदपि कृष्णस्य ब्रह्मन् भगवतः प्रभोः ।
श्रवः सुश्रवसः पुण्यं पूर्वदेहकथाश्रयम् ॥ ६ ॥
पूर्वतनानां कथासम्बन्धेन हरेर्यशः ॥ ६ ॥
धरण्युवाच –
नमः परस्मै पुरुषाय मायया
विन्यस्तनानातनवे गुणात्मने ।
नमः स्वरूपानुभवेन निर्धुत-
द्रव्यक्रियाकारकविभ्रमोर्मये ॥ ३० ॥
‘ब्रह्मादिजीवदेहास्तु मायादेहाः प्रकीर्तिताः’’। इति वाराहे ॥ ३० ॥
नूनं तवेशस्य समीहितं जनैः
स्वमायया दुर्जययाऽकृतात्मभिः ।
न लक्ष्यते यस्त्वकरोदकारयद्
योऽनेक एकः परतः स ईश्वरः ॥ ३३ ॥
स परतः ईश्वर, इत्याक्षेपः ॥ ३३ ॥
सर्गादि योऽस्यानुरुणद्धि शक्तिभि-
र्द्रव्यक्रियाकारकचेतनात्मभिः ।
तस्मै समुन्नद्धविरुद्धशक्तये
नमः परस्मै पुरुषाय वेधसे ॥ ३४ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये चतुर्थस्कन्धे सप्तदशोऽध्यायः ॥
‘विरुद्धशक्तयो यस्य नित्या युगपदेव च ।
तस्मै नमो भगवते विष्णवे सर्वजिष्णवे’‘इति च ॥ ३४ ॥
अष्टादशोऽध्यायः
कृत्वा वत्सं सुरगणा इन्द्रं सोममदूदुहन् ।
हिरण्मयेन पात्रेण वीर्यमोजो बलं पयः ॥ १५ ॥
‘गुणाः स्वरूपभूताश्च बाह्याश्चेति द्विधा मताः ।
स्वरूपभूता व्यज्यन्ते हरेर्बाह्यान् दुहुः पयः’’। इति ब्राह्मे ॥ १५ ॥
दैतेया दानवा वत्सं प्रह्लादमसुरर्षभम् ।
विधाय दुदुहुः क्षीरमयःपात्रे सुरासवम् ॥ १६ ॥
‘प्रतिमन्वन्तरं प्रायः प्रह्लादाद्या बभूविरे’’। इति च ॥ १६ ॥
ग्रामान् पुरः पत्तनानि दुर्गाणि विविधानि च ।
घोषान् व्रजांश्च शिबिरान् नगरान् खेटखर्वटान् ॥ ३१ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये चतुर्थस्कन्धे अष्टादशोऽध्यायः ॥
‘गोष्ठं घोष इति प्रोक्तो व्रजस्तत्पालसंस्थितिः’’। इत्यभिधानम् ॥३१॥
एकोनविंशोऽध्यायः
एवं वैन्यसुतः प्रोक्तस्त्वरमाणं विहायसा ।
अन्वधावदतिक्रुद्धो रावणं गृध्रराडिव ॥ १६ ॥
सोऽश्वं रूपं च तद्धित्वा तस्थावन्तर्हितः स्वराट् ।
धीरः स्वपशुमादाय पितुर्यज्ञमुपेयिवान् ॥ १७ ॥
‘देवाः शक्तास्तु मोहाय दर्शयेयुरशक्तवत् ।
ऋषीणां चैव राज्ञां च नहि ते देवतासमाः ।
आज्ञया वा हरेः क्वापि कार्यतो वा क्वचित्क्वचित्’’॥ इति गारुडे ॥
‘प्रणिपातादिकं देवैर्ऋष्यादिषु जनार्दने ।
क्रियतेऽतो न तेषां हि तेजोभङ्गः कथञ्चन ॥
अत्युत्तमानामवरे तेजोभङ्गो न विद्यते ।
यथा नराणां तिर्यक्षु प्रायः साम्ये हि स स्मृतः’’॥
इति स्कान्दे ॥ १५-१६ ॥
धर्म इत्युपधर्मेषु नग्नरक्तपटादिषु ।
प्रायेण सज्जते भ्रान्त्या पेशलेषु च वाग्मिषु ॥ २५ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये चतुर्थस्कन्धे एकोनविंशोऽध्यायः ॥
‘धर्मोपमस्त्वधर्मो य उपधर्मः स उच्यते’’। इति हरिवंशेषु ॥ २५ ॥
विंशोऽध्यायः
एकः शुद्धः स्वयंज्योतिर्निर्गुणोऽसौ गुणाश्रयः ।
सर्वगोऽनावृतः साक्षी निरात्माऽनात्मनः परः ॥ ७ ॥
देहाद्यपार्थास्तद्धर्मा न स्युस्तद्द्रष्टुरात्मनः ।
कैवल्यं तस्य वै धर्मः सुषुप्तं तन्निदर्शनम् ॥ ८ ॥
‘अन्येषामावृतो विष्णुः स्वस्यानावृत एव च ।
आत्मा सर्वस्य जगतस्तस्यात्माऽन्यो न विद्यते ॥
सुषुप्तवच्च निर्दुःखो जाग्रद्वच्च प्रवृत्तिमान् ।
अनन्यसदृशत्वाच्च केवलोऽसौ हरिः स्मृतः’’॥ इति तन्त्रसारे ।
‘आत्मनैवावगम्यत्वाद्धरिरेष सुषुप्तवत् ।
केवलत्वेन विज्ञेयो मुक्तिस्तद्वददुःखता’’॥ इत्यध्यात्मे ॥ ७,८ ॥
उदासीनमिवाध्यक्षं द्रव्यज्ञानक्रियात्मनाम् ।
कूटस्थमिममात्मानं यो वेदाप्नोति शोभनम् ॥ १२ ॥
‘हरिरक्लिष्टकारित्वादुदासीन इतीर्यते’’॥ इति च ॥ १२ ॥
भिन्नस्य लिङ्गस्य गुणप्रवाहं
द्रव्यक्रियाकारकचेतनात्मनः ।
दृष्ट्वा सुसंपत्सु विपत्सु सूरयो
न विक्रियन्ते मयि बद्धसौहृदाः ॥ १३ ॥
‘जीवाद्भिन्नस्य मनसो गुणाः सत्वादयो मताः ।
तज्ज्ञात्वा न विकुर्वीत स्वस्वरूपं मनस्तथा’’। इति षाड्गुण्ये ॥१३॥
स्पृशन्तं पादयोः शीर्ष्णा व्रीडन्तं स्वेन कर्मणा ।
शतक्रतुं परिष्वज्य विद्वेषं विससर्ज ह ॥ १९ ॥
‘आयासदुःखव्रीडादीन्प्रायशः सुखिनोऽपि तु ।
नियमादृषिभूतेषु मोहायादर्शयन्सुराः’’॥ इति ब्रह्मतर्के ।
‘अपक्वभक्तियुक्ता ये न तेषां विष्णुदर्शनम् ।
प्रायो भवति दुःखस्य त्वभावः प्रायशो भवेत्’’॥ इति प्रकाशसंहितायाम् ॥
भगवानपि विश्वात्मा पृथुनोपहृतार्हणः ।
समुज्जिहानया भक्तया गृहीतचरणाम्बुजः ॥ २० ॥
‘जगत्समस्तं विश्वं च निखिलं पूर्णमुच्यते’’। इत्यभिधानम् ॥ २० ॥
जन्तोर्जगत्यां जगदीश वैशसं
स्यादेव यत् कर्मणि नः समीहितम् ।
करोषि फल्ग्वप्युरु दीनवत्सल
स्व एव धिष्ण्येऽभिरतस्य किं तया ॥ २९ ॥
‘धिष्ण्यं तेजश्च सामर्थ्यं महिमा धाम चोच्यते’’। इत्यभिधानम् ॥
अल्पपुण्यत्वान्न मद्भक्तियोग्य इति न मन्तव्यम् । यतः फल्ग्वप्युरु करोषि वात्सल्यात् । विना वात्सल्यं श्रियाऽपि किं तव? ॥ २९ ॥
भजन्त्यथ त्वामत एव साधवो
व्युदस्तमायागुणविभ्रमोदयम् ।
भवत्पदानुस्मरणादृते सतां
निमित्तमन्यद् भगवन् न विद्महे ॥ ३० ॥
अथ अन्यच्च । अतः वात्सल्यादेव ॥ ३० ॥
यज्ञेश्वरधिया राज्ञा वाग्वित्ताञ्जलिभक्तितः ।
सभाजिता ययुः सर्वे वैकुण्ठानुगतास्ततः ॥ ३७ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये चतुर्थस्कन्धे विंशोऽध्यायः ॥
‘भूतेषु हरिरित्येव हर्यर्पणधिया तथा ।
सर्वभूतेषु च हरेः पूजा कार्याऽऽत्मवेदिभिः’’॥ इति पाद्मे ॥ ३७ ॥
एकविंशोऽध्यायः
को न्वस्य कीर्तिं नशृृणोत्यभिज्ञो
यद्विक्रमोच्छिष्टमशेषभूपाः ।
लोकाः सपाला उपजीवन्ति काम-
मद्यापि तन्मे वद कर्म शुद्धम् ॥ १० ॥
‘देवेभ्य ऋषयो भूपाश्चोच्यन्ते शक्तिमत्तया ।
क्वचित्क्वचिन्मोहनार्थं कादाचित्काच्च हेतुतः’‘इति नारदीये ॥ १० ॥
अस्ति यज्ञपतिर्नाम केषांचिदिह सत्तमाः ।
इहामुत्र च लक्ष्यन्ते ज्योत्स्नावत्यः क्वचिद् भुवः ॥ २६ ॥
‘प्रकाशवद्भुवो देवा मानुषाश्चापि केचन’’॥ इति वाराहे ॥ २६ ॥
राज्यस्वर्गापवर्गाणां प्रायेणैकात्महेतुता ।
दौहित्रादीनृते मृत्योः शोच्यान् धर्मविमोहितान् ॥ २९ ॥
‘एकात्मा हरिरुद्दिष्टः प्रधानत्वात्समस्तत’‘इति च ॥
प्राय इत्यवधारणाक्षेपः ।
‘प्रायःपदं स्यात्प्राचुर्ये चाक्षेपात्मावधारणे ।
अर्थतोऽवधृतिः क्षेपो मुखाक्षेपोऽवधारणम्’’॥ इति च ॥ २९ ॥
असाविहानेकगुणाध्वरैः सता पृथग्विधैर्द्रव्यगुणक्रियोक्तिभिः ।
सम्पद्यतेऽर्थाशयलिङ्गनामभिर्विशुद्धविज्ञानघनस्वरूपतः ॥३३॥
सम्पद्यते प्राप्यते ॥ ३३ ॥
प्रधानकालाशयकर्मसङ्ग्रहः
शरीरशेषं प्रतिपद्य चेतनः ।
क्रियाफलत्वेन विभुर्विभाव्यते
यथाऽनलो दारुषु तद्गुणात्मकः ॥ ३४ ॥
प्रधानादीन् गृहीत्वा जीवं प्राप्य पुण्यकर्मभिर्ज्ञायते ।
यथा गुणवदिन्धनेऽग्निर्मथनादिना ॥ ३४ ॥
ब्रह्मण्यदेवः पुरुषः पुरातनो
नित्यं हरिर्यच्चरणाभिवन्दनात् ।
अवाप लक्ष्मीमनपायिनीं यशो
जगत्पवित्रं च महत्तमाग्रणीः ॥ ३७ ॥
हरिरिन्द्रो यच्चरणाभिवन्दनादनपायिनीं लक्ष्मीमवाप । सोऽपि विष्णुर्ब्राह्मणप्रियः ।
‘यत्प्रसादेन देवेन्द्रो वेदोदितयशा अभूत् ।
सोऽपि विष्णुरमेयात्मा सदा ब्राह्मणवत्सलः’’॥ इति हरिवंशेषु ॥ ३७ ॥
पुमाल्लभेताप्यतिवेलमात्मनः
प्रसादतोऽत्यन्तशमं स्वतः स्वयम् ।
यन्नित्यसम्बन्धनिषेवया ततः
परं किमत्रास्ति सुखं हविर्भुजाम् ॥ ३९ ॥
तस्मान्मोक्षसुखात्परं हविर्भुजां देवानामप्यत्र संसारेऽस्ति किम् ? ॥३९॥
अश्नात्यनन्तः खलु तत्त्वकोविदैः
श्रद्धाहुतं यन्मुख इज्यनामभिः ।
न वै तथा चेतनया बहिष्कृते
हुताशने पारमहंस्यवर्यगुः ॥ ४० ॥
पारमहंस्यवर्या गावो यस्य ॥ ४० ॥
पुत्रेण जयते लोक इति सत्यवती श्रुतिः ।
ब्रह्मदण्डहतः पापो यद् वेनोऽत्यतरत् तमः ॥ ४५ ॥
‘वेनस्थो राजसो जीवः पृथुना स्वर्गतिं गतः ।
स्वयं तु तम एवाप सात्विकः पृथुतामगात्’’॥ इति ब्रह्माण्डे ॥४५॥
अहो वयं ह्यद्य पवित्रकीर्ते त्वयैव नाथेन मुकुन्दनाथाः ।
यदुत्तमश्लोकतमस्य विष्णोर्ब्रह्मण्यदेवस्य कथां व्यनक्षि ॥४८॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये चतुर्थस्कन्धे एकविंशोऽध्यायः ॥
अहो वयमित्यादि तत्स्थपरमेश्वरापेक्षया ।
‘यो ब्रह्मक्षत्रमाविश्य’‘इति वचनात् ॥ ४८ ॥
द्वाविंशोऽध्यायः
नैव लक्षयते लोको लोकान् पर्यटतोऽपि यान् ।
यथा सर्वदृशं सर्व आत्मानं येऽस्य हेतवः ॥ ९ ॥
‘सर्वज्ञाश्च विरिञ्चाद्या न जानीयुर्हरिं परम् ।
हेतवो जगतोऽप्यस्य यथाऽसौ वेद केशवः’’॥ इति तन्त्रसारे ॥९॥
व्यक्तं ह्यात्मवतामात्मा भगवानात्मभावनः ।
स्वानामनुग्रहायेमां सिद्धरूपी चरत्यजः ॥ १६ ॥
‘हरेस्तु प्रतिमा प्राज्ञास्तत्रस्थः केशवः स्वयम् ।
ददाति ज्ञानमीशेशः परमात्मा स्वयं विभुः’’॥ इति च ॥ १६ ॥
अस्त्येव राजन् भवतो मधुद्विषः
पादारविन्देऽस्य गुणानुवादिनि ।
रतिः सदा या विधुनोति नैष्ठिकी
कामं कषायं मलमन्तरात्मनः ॥ २० ॥
कषणेन गच्छतीति कषायः पापं, तदुभयमेव मलम् ॥ २० ॥
शास्त्रेष्वियानेव सुनिश्चितो नृणां
क्षेमस्य सम्यग्विमृशेषु हेतुः ।
असङ्ग आत्मव्यतिरिक्तवस्तुनि
दृढा रतिर्ब्रह्मणि निर्गुणे च या ॥ २१ ॥
हरेर्मुहुस्तत्परकर्णपूरया
गुणाभिधानेन विजृम्भमाणया ।
भक्त्या ह्यसङ्गः सदसत्परात्मनि
स्यान्निर्गुणे ब्रह्मणि चाञ्जसा रतिः ॥ २५ ॥
‘रतिः परात्मनि हरावन्यत्रारतिरेव च ।
पुमर्थसाधनं ज्ञेयं नातोऽन्यन्मुख्यमिष्यते’’॥ इति ॥ २१,२५ ॥
यदा रतिर्ब्रह्मणि नैष्ठिकी पुमा-
नाचार्यवान् ज्ञानविरागरंहसा ।
दहत्यबीजं हृदयं जीवकोशं
पञ्चात्मकं योनिमिवोत्थितोऽग्निः ॥ २६ ॥
अबीजं हृदयं बीजहृदयं विना ।
‘जीवोपाधिर्द्विधा प्रोक्तः स्वरूपं बाह्यमेव च ।
बाह्योपाधिर्लयं याति मुक्तावन्यस्य तु स्थितिः ॥
सर्वोपाधिविनाशे हि प्रतिबिम्बः कथं भवेत् ।
कथं चात्मविनाशाय प्रयत्नः सेत्स्यति क्वचित् ॥
अपुमर्थता च मुक्तेः स्यादभावात्पुंस एव तु ।
ज्ञानज्ञेयाद्यभावाच्च सर्वथा नोपपद्यते ॥
तस्मादेतन्मतं येषां तमोनिष्ठा हि ते मताः ॥‘‘इति स्कान्दे ॥२६॥
दग्धाशयो मुक्तसमस्ततद्गुणो
नैवात्मनो बहिरन्तर्विचष्टे ।
परात्मनोर्यद् व्यवधानं पुरस्तात्
स्वप्ने यथाऽपुरुषस्तद्विनाशे ॥ २७ ॥
दग्धाशयः बीजाशयनाशे तद्गुणानां ज्ञानादीनामभावान्न किञ्चिद्विचक्षीत । परात्मनोर्यदा व्यवधानं संसारावस्थायां तदा स्वप्न इवेत्येतावद्बीजहृदयनाशे त्वपुरुष एव । आत्मनाश एवेत्यर्थः । अतः संसारावस्थैवोत्तमा स्यात् ।
‘भिदा यदि न दृश्येत जीवात्मपरमात्मनोः ।
मुक्तौ तदा विमोक्षाय को यत्नं कर्तुमर्हति’’॥ इति ब्रह्माण्डे ॥
‘मग्नस्य हि परेऽज्ञाने किं न दुःखकरं भवेत् ।
प्रवृत्तिधर्ममेवाहं मन्ये भरतसत्तम’’॥ इति मोक्षधर्मेषु ॥ २७ ॥
इन्द्रियैर्विषयाकृष्टैराक्षिप्तं ध्यायतो मनः ।
चेतनां हरते बुद्धेः स्तुम्बस्तोयमिव ह्रदात् ॥ ३० ॥
एवंविधाज्ञानकारणमाह । इन्द्रियैर्विषयाकृष्टैरित्यादि ।
‘बहुस्मरणशक्तिस्तु चेतनेत्युच्यते बुधैः’’॥ इति शब्दनिर्णये ॥ ३० ॥
भ्रश्यत्यनुस्मृतिश्चित्तं ज्ञानभ्रंशः स्मृतिक्षये ।
तद्रोधं कवयः प्राहुरात्मापह्नवमात्मनः ॥ ३१ ॥
नातः परतरो लोके पुंसः स्वार्थव्यतिक्रमः ।
यद्यस्त्यन्यस्य प्रेयस्त्वमात्मनः स्वव्यतिक्रमात् ॥ ३२ ॥
अर्थेन्द्रियार्थाभिध्यानं सर्वार्थापह्नवो नृणाम् ।
स्रंशितो ज्ञानविज्ञानाद् येनाविशति मुग्धताम् ॥ ३३ ॥
न कुर्यात् कर्हिचित् सङ्गं तमस्तीव्रं तितीर्षुणा ।
धर्मार्थकाममोक्षाणां यदत्यन्तविघातकम् ॥ ३४ ॥
‘स्वपक्षपातस्त्वभ्यासाद्भोगार्थं व्यापृतस्य तु ।
भवेत्ततोऽनेकशास्त्रयथार्थस्मरणेशिता ॥
नश्यत्यतः स्मृतेर्नाशाद्भगवत्पक्षपातिता ।
विनश्येत्तेन चैवास्य भवेज्ज्ञानविपर्ययः ॥
न च ज्ञानविपर्यासादन्यन्नाशकरं क्वचित् ।
सर्वस्यैतस्य मूलं हि दुष्टसंसर्ग एव तु ॥
दुष्टसङ्गो विरक्तस्याप्यन्यथाज्ञानकारणम् ।
दुष्टसङ्गाद्धि विष्णोश्च स्वात्मत्वं मन्यते बुधः ।
अभावं स्वात्मनोऽन्यस्य मुक्तिं चापि निरात्मताम्’’॥
इत्यादि स्कान्दे ॥ ३१-३४ ॥
मनोमात्रमिदं विश्वं यथा स्वप्ने मनः क्रिया ।
क्रिया च वासनामात्रं साऽनीहायां प्रलीयते ॥ ३७ ॥
आत्मा त्वनीहया साक्षात् स्वयंज्योतिः प्रसिद्ध्यति ।
एवं व्युदस्यात्ममायां भिदामुपरमेन्मुनिः ॥ ३८ ॥
‘मनोमात्रं हरेर्यस्मान्मनसा मीयते जगत् ।
व्याप्ते मनसि विष्णोश्च स्थितत्वाद्वासनामयम् ॥
वस आच्छादनेत्यस्माद्धातोर्वा वासनामयम् ।
अतो विष्णोरनीहायां लीयते सकलं जगत् ॥
अनीहावस्थ एवासौ मुमुक्षुभिरवाप्यते ।
एवं विद्वान्बन्धशक्तिं व्युदस्य हरिमाप्नुते ॥
प्रकृतिर्भिदा च माया च भ्रमश्चेत्यभिधीयते ।
बन्धशक्तिर्यया लोको बम्भ्रमीत्यनिशं भुवि’’॥ इति तन्त्रसारे ॥ ३७,३८ ॥
न यत्र निद्रा मूर्च्छा वा नार्थदृक् न मनोरथः ।
नानुवृत्तिर्न प्रलयस्तद् ब्रह्म विजितात्मनः ॥ ३९ ॥
‘अनुवृत्तिरिति प्राज्ञैर्जीवन्मुक्तिरुदीर्यते’’। इति शब्दनिर्णये ॥ ३९ ॥
तत्त्वं नरेन्द्र जगतामथ तस्थुषां च देहेन्द्रियासुधिषणात्मभिरावृतानाम् ।
यः क्षेत्रवित् त्वमनयोर्हृदि विष्वगाधिः
प्रत्यक् चकास्ति भगवांस्तमवैहि सोऽस्ति ॥ ४० ॥
‘सर्वसत्ताप्रदत्वात्तु सर्वतत्त्वं हरिः स्मृतः ।
सर्वत्र विततत्वाद्वा सोऽहं त्वमिति चोच्यते ।
सर्वान्तर्यामकत्वात्तु न जीवात्मत्वतो हरिः’’॥ इति तत्त्वनिर्णये ॥
त्वमनयोः स्थावरजङ्गमयोर्मध्ये एको जीवः विष्वगाधिः नानादुःखःसन्, हृदि स्थितमवैहि । अहं च स जीवोऽस्मि । ज्ञानान्महान् भवामि । यः क्षेत्रवित् ॥ सर्वस्य प्रत्यक्चकास्ति स भगवानिति ।
‘व्यवधानेनान्वयोऽपि योग्यतापेक्षया भवेत्’’। इति शब्दनिर्णये ॥
‘अभिमानस्त्वहङ्कार आत्मा चेत्यभिधीयते’’। इति च ॥ ४० ॥
यस्मिन्निदं सदसदात्मतया विभाति
मायाविवेकविधुतिः स्रजिवाहिबुद्धिः ।
तं नित्यमुक्तपरिशुद्धविबुद्धतत्त्वं
प्रत्यूढकर्मकलिलप्रकृतिं प्रपद्ये ॥ ४१ ॥
‘यत्स्वरूपतया भातमज्ञानां गगनादिकम् ।
विवेकज्ञानिनां रज्जौ सर्पमावद्विधूयते ।
तं नित्यमुक्तभावेन निरस्तप्रकृतिं भजेत्’’॥ इति ज्ञानविवेके ॥
‘न भ्रान्तिर्जगतो दृष्टिर्न भ्रान्तिर्हरिदर्शनम् ।
अन्योन्यात्मतया दृष्टिर्भ्रान्तिरित्यवधार्यताम्’’॥ इति च ।
‘मायेति ज्ञाननाम स्यान्मायेति प्रकृतिस्तथा ।
ज्ञानं स्वरूपं विष्णोस्तु प्रकृतिर्न हरेस्तनुः ।
एवं विवेकिनो विश्वं ब्रह्मरूपेण नेष्यते’’॥ इति वाराहे ॥
ज्ञानप्रकृत्याख्यमायाद्वयस्य विवेकज्ञानात्सदसतोर्विष्ण्वात्मतया प्रतीतिः स्रज्यहिबुद्धिरिव विधूयत इत्यर्थः ।
‘पञ्चभूतात्मकं देहं विष्णोः पश्यन्त्ययोगिनः ।
तथा न योगिराद्धान्तो ज्ञानं देहो यतो हरेः’’॥ इति षाड्गुण्ये ॥ ४१ ॥
यत्पादपङ्कजपरागविलासभक्त्या
कर्माशयग्रथितमुद्ग्रथयन्ति सन्तः ।
तत्त्वं न तद् द्विमतयोऽपि विरुद्धमार्ग-
स्रोतोगुणास्तमरणं भज वासुदेवम् ॥ ४२ ॥
द्विमतयः जगति भगवति च प्रतीतियुक्ता अपि भक्तिविशेषात्तत्त्वं नोद्ग्रथयन्ति । संसारगुणास्तेषां विरुद्धा एव प्रतीयन्ते यतः ॥ ४२ ॥
वैन्यस्तु धुर्यो महतां संस्थित्याऽध्यात्मशिक्षया ।
आप्तकाममिवात्मानं मेन आत्मन्यवस्थितः ॥ ५२ ॥
‘नैजः सर्वगुणोत्कर्षः सर्वेभ्यो महदुच्यते’‘इति शब्दनिर्णये ॥ ५२ ॥
कन्दर्प इव सौन्दर्ये मनस्वी मृगराडिव ।
वात्सल्ये मनुवन्नॄणां प्रभुत्वे भगवानजः ।
बृहस्पतिर्ब्रह्मवादे आत्मतत्त्वे स्वयं हरिः ॥ ६४ ॥
‘अनाद्यन्तं परं ब्रह्म न देवा ऋषयो विदुः ।
एकस्तद्वेद भगवान्प्रभुर्नारायणः स्वराट्’’॥ इति मोक्षधर्मेषु ॥ ६४ ॥
भक्त्या गोगुरुविप्रेषु विष्वक्सेनानुवर्तिषु ।
ह्रिया प्रश्रयशीलाभ्यामात्मतुल्यपरोद्यमे ॥ ६५ ॥
कीर्त्योर्ध्वगीतयः पुंभिस्त्रैलोक्ये तत्र तत्र ह ।
प्रविष्टः कर्णरन्ध्रेषु स्त्रीणां रामः सतामिव ॥ ६६ ॥
॥ इति श्रीभागवततात्पर्यनिर्णये चतुर्थस्कन्धे द्वाविंशोऽध्यायः ॥
‘गुरुविप्रेषु भक्तया च परेषां हितकृत्तया ।
प्रश्रयेण च कीर्त्या च पृथू राममनुव्रतः’’॥ इति ब्रह्माण्डे ।
‘न गुरुर्न च धर्मोऽस्ति रामदेवस्य कुत्रचित् ।
तथापि धर्मरक्षार्थं गुरुभक्तिमदर्शयत्’’॥ इति वाराहे ॥ ६७ ॥
त्रयोविंशोऽध्यायः
तस्यानया भगवतः परिशुद्धकर्म-
सत्वात्मनस्तदनु संस्मरणानुपूर्व्या ।
ज्ञानं विरक्तिमदभून्निशितेन येन
चिच्छेद संशयपदं निजजीवकोशम् ॥ ११ ॥
‘आविर्भावतिरोभावौ ज्ञानस्य ज्ञानिनोऽपि तु ।
अपेक्ष्याज्ञस्तथा ज्ञानमुत्पन्नमिति चोच्यते’’॥ इति तन्त्रसारे ॥ ११ ॥
छिन्नान्यधीरधिगतात्मगतिर्निरीह-
स्तत् तत्यजेऽच्छिनदिदं वयुनेन येन ।
तावन्न योगगतिभिर्यतिरप्रयत्नो
यावद् गदाग्रजकथासु रतिं न कुर्यात् ॥ १२ ॥
‘अपरोक्षतया वृत्तिज्ञानभेदनिरीक्षणम् ।
स्वरूपज्ञानसंस्थित्या ज्ञानत्याग उदीर्यते ॥
स्वरूपज्ञानतः सम्यग्रतिर्विष्णुकथासु च’’॥ इति ब्रह्मतर्के ॥ १२ ॥
एवं स वीरप्रवरः संयोज्यात्मानमात्मनि ।
ब्रह्मभूतो दृढं काले तत्याज स्वकलेवरम् ॥ १३ ॥
ब्रह्मणि भूतः ॥ १३ ॥
उत्सर्पयन्नसुं मूधर्ि्न क्रमेणावेश्य निस्स्पृहः ।
वायुं वायौ क्षितौ कायं तेजस्तेजस्ययूयुजत् ॥ १५ ॥
खान्याकाशे द्रवं तोये यथास्थानं विभागशः ।
क्षितिमम्भसि तत् तेजस्यदो वायौ नभस्यमुम् ॥ १६ ॥
इन्द्रियाणि समस्तानि तन्मात्राणि यथोद्भवम् ।
भूतादिस्तान् समुत्क्षिप्य महत्यात्मनि सन्दधे ॥ १७ ॥
तं सर्वगुणविन्यासं जीवे मायामये न्यधात् ।
तं चानुशयमात्मस्थमसावनुशयी पुमान् ।
ज्ञानवैराग्यवीर्येण स्वरूपस्थो व्यधात् प्रभुः ॥ १८ ॥
‘अस्येदं कारणमिति ज्ञानमेव विलापनम् ।
समाधिकाले विज्ञेयं देहादेर्दर्शनात्पुनः’’॥ इति च ॥ १६ ॥
‘मायेति प्रकृतिश्चेति मायाजीवश्च कथ्यते ।
शेतेऽनुकेशवं यस्मात्तस्मादनुशयोऽपि च ।
एतैस्तु नामभिर्वाच्या श्रीर्विष्णोरनपायिनी ॥
तयैवानुशयी जीवस्तया बद्धो यतः सदा ।
पुरुषः शयनात्पूर्षु तथाऽहानादहं स्मृतः ॥
अप्राकृततनुत्वात्तु स्वरूपं हरिरुच्यते ।
नित्यचिद्दर्शनान्नित्यं ब्रह्म पूर्णत्वतः सदा’’॥ इति भागवततन्त्रे ॥ १५-१८ ॥
देव्य ऊचुः –
अहो इयं वधूर्धन्या या चैवं भूभुजां पतिम् ।
सर्वात्मना पतिं भेजे यज्ञेशं श्रीवधूरिव ॥ २५ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये चतुर्थस्कन्धे त्रयोविंशोऽध्यायः ॥
‘अनपेक्षो गुणैः पूर्णो धन्य इत्युच्यते बुधैः’’॥
इति शब्दनिर्णये ॥ २५ ॥
चतुर्विंशोऽध्यायः
सामुद्रीं देवदेवोक्तामुपयेमे शतद्रुतिम् ।
यां वीक्ष्य चारुसर्वाङ्गीं किशोरीं सुष्ट्वलंकृताम् ।
परिक्रमन्तीमुद्वाहे चकमेऽग्निः शुकीमिव ॥ ११ ॥
विबुधासुरगन्धर्वमुनिसिद्धमहोरगाः ।
विजिताः स्युर्यया दिक्षु क्वणयन्त्यैव नूपुरैः ॥ १२ ॥
‘राजपुत्रीं शुकीमग्निरावर्तन्तीं प्रदक्षिणम् ।
आदायान्तरधाद्दानसमये मन्मथातुरः’’॥ इति ब्राह्मे ॥ ११-१२ ॥
स्वधर्मनिष्ठः शतजन्मभिः पुमान्
विरिञ्चतामेति ततः परं हि माम् ।
अव्याकृतं भागवतोऽथ वैष्णवं
पदं यथाऽर्हं विविधैः कलात्यये ॥ २९ ॥
मां श्रियम् ।
‘ऋजवो नाम ये देवा योग्या ब्रह्मपदस्य तु ।
त एव शतजन्मानि विशेषोपासका हरेः ॥
प्राप्य ब्रह्मपदं पश्चाच्छ्रियं प्राप्यानुमोदिताः ।
तया ततो हरिं यान्ति वसन्ति हरिसन्निधौ ॥
अनादिकालभक्ताश्च ज्ञानिनस्ते न संशयः ।
विशिष्टा ज्ञानभक्त्यादौ सर्वजीवनिकायतः ॥
सर्वदापि विशेषेण शतजन्मप्रयत्नतः ।
स्वपदप्राप्तिरुद्दिष्टा ततो मुक्तिरवाप्यते ॥
तथैव चत्वारिंशद्भिः पदं शैवं च जन्मभिः ।
विंशद्भिरैन्द्रं दशभिरन्येषामप्युदीरितम्’’॥ इति षाड्गुण्ये ॥ २९ ॥
अथ भागवता यूयं प्रियाः स्थ भगवान् यथा ।
न मे भागवतानां च प्रेयानन्योऽस्ति कर्हिचित् ॥ ३० ॥
अथ एवमनादिभक्तोऽहं यतः अतः प्रिया यूयम् ॥ ३० ॥
रुद्र उवाच –
जितं व आत्मविद्धुर्याः स्वस्तये स्वस्तिरस्तु वः ।
भवतां राधसे राध्यं सर्वस्मा आत्मने नमः ॥ ३३ ॥
‘सर्वान्तर्यामिकत्वात्तु सर्वनामा जनार्दनः ।
न तु सर्वस्वरूपत्वात्सर्वेशोऽसौ हरिर्यतः’’॥ इति ब्रह्मतर्के ॥ ३३ ॥
भवान् भक्तिमतां लभ्यो दुर्लभः सर्वदेहिनाम् ।
स्वाराज्यस्याप्यभिमता एकान्तेनात्मविद्गतिः ॥ ५४ ॥
स्वाराज्यस्य इन्द्रादेः ॥ ५४ ॥
क्षणार्धेनाऽपि तुलये न स्वर्गं नापुनर्भवम् ।
भगवत्सङ्गिसङ्गस्य मर्त्यानां किमुताशिषः ॥ ५७ ॥
‘सङ्गो भागवतैर्भूयानपुनर्भवमात्रतः ।
यतो विशिष्टमानन्दं मुक्तौ जनयति स्फुटम्’’॥ इति च ॥ ५७ ॥
अथानघाङ्घ्र्योस्तव कीर्तितीर्थयो-
रन्तर्बहिः स्नानविधूतपाप्मनाम् ।
भूतेष्वनुक्रोशसुसत्त्वशीलिनां
स्यात् सङ्गमोऽनुग्रह एष नस्तव ॥ ५८ ॥
अङ्घ्र्योर्जातयोः कीर्तितीर्थयोः ॥ ५८ ॥
यत्रेदं व्यज्यते विश्वं विश्वस्मिन्नवभाति यत् ।
न त्वं ब्रह्म परं ज्योतिराकाशमिव विस्तृतम् ॥ ६० ॥
विश्वस्मिन् स्थितमपि न भात्यज्ञानाम् ॥ ६० ॥
यो माययेदं पुरुरूपयाऽसृजद्
बिभर्ति भूयः क्षपयत्यविक्रियः ।
यद्भेदबुद्धिः सदिवाऽऽत्मसंस्थया
तमात्मतन्त्रं भगवन् प्रतीमहि ॥ ६१ ॥
यस्य जीवादिभ्यो भेदबुद्धिः । स दिवा सम्यग्ज्ञानं सम्यग्ज्ञानिविषया सत्यैवेत्यर्थः ।
‘रात्रिरज्ञानमुद्दिष्टं सम्यग्ज्ञानं दिवा स्मृतम्’’। इति शब्दनिर्णये ॥
‘जीवेभ्यो जडतश्चैव भेदज्ञानं हरेः सदा ।
वास्तवं ज्ञानमुद्दिष्टं तेन मुक्तिरवाप्यते’’॥ इति षाड्गुण्ये ॥ ६१ ॥
क्रियाकलापैरिदमेव योगिनः
श्रद्धान्विताः साधु यजन्ति सिद्धये ।
भूतेन्द्रियान्तःकरणोपलक्षणं
वेदे च तन्त्रे च त एव कोविदाः ॥ ६२ ॥
भूतेन्द्रियान्तःकरणैरुपलक्ष्यते ॥ ६२ ॥
त्वमेक आद्यः पुरुषः सुप्तशक्ति-
स्तया रजः सत्त्वतमो विभिद्यते ।
महानहं खं मरुदग्निवार्धराः
सुरर्षयो भूतगणा इदं यतः ॥ ६३ ॥
सुप्तशक्तिः स्वात्मन्येवाप्तशक्तिः ।
‘प्रकृतेः स्वाप उद्दिष्टो हर्यन्यस्य त्वदर्शनम् ।
विशेषेण हरौ चापि रतिर्ज्ञानात्मिका यतः’’॥ इति सत्यसंहितायाम् ॥ ६३ ॥
सृष्टं स्वशक्त्येदमनुप्रविश्य
चतुर्विधं पुरमात्मांशकेन ।
अथो विदुस्त्वां पुरुषं सन्तमत्र
भुङ्क्ते हृषीकैर्मधु सारघं यतः ॥ ६४ ॥
‘अवधारणे घशब्दःस्यात्सारमात्रं तु सारघम्’’।इति शब्दनिर्णये ॥ ६४ ॥
कस्त्वत्पदाब्जं विजहाति पण्डितो
यत् ते पुमानप्ययमब्जकेतनः ।
विशङ्कयाऽस्मद्गुरुरर्चति स्म यद्
विनोपपत्तिं मनवश्चतुर्दश ॥ ६७ ॥
अस्मादेतद्भवतीत्युपपत्त्यपेक्षां विनापि स्वभावत एव ॥ ६७ ॥
यत्स्पृष्टोऽहरहर्मुक्तक्लेशः शेतेऽमृताम्बुधौ ।
तावद् वेदाथ तत् तेऽङ्घ्रिं जनो नु स्मरते च तत् ॥ ६८ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये चतुर्थस्कन्धे चतुर्विंशोऽध्यायः ॥
अहरहः क्लेशमोक्षः सुप्तौ । तावद्वेदेत्याक्षेपो दौर्लभ्यज्ञापनार्थम् ॥ ६८ ॥
पञ्चविंशोऽध्यायः
प्राचीनबर्हिषं क्षत्तः कर्मस्वासक्तमानसम् ।
नारदोऽध्यात्मतत्वज्ञः कृपालुः प्रत्यबोधयत् ॥ ३ ॥
नारद उवाच–
श्रेयस्त्वं कतमद् राजन् कर्मणाऽऽत्मन ईहसे ।
दुःखहानिः सुखावाप्तिः श्रेयस्तन्नेह चेष्यते ॥ ४ ॥
प्राचीनबर्हिरुवाच–
न जानामि महाभाग परं कर्मापविद्धधीः ।
ब्रूहि मे विमलं ज्ञानं येन मुच्येय कर्मभिः ॥ ५ ॥
भो भो प्रजापते राजन् पशून् पश्य त्वयाऽध्वरे ।
संज्ञापितान् जीवसङ्घान् निर्घृणेन सहस्रशः ॥ ७ ॥
एते त्वां सम्प्रतीक्षन्ते स्मरन्तो वैशसं तव ।
सम्परेतमयः कूटैश्छिन्दन्त्युत्थितमन्यवः ॥ ८ ॥
‘यथावत्कर्म कर्तुस्तु ज्ञानसाहाय्यकारकम् ।
अन्यथाकुर्वतः कर्म निरयाय भविष्यति ॥
तथापि कर्म निन्दन्ति न यतः कर्तुमञ्जसा ।
शक्यं ज्ञानफलस्यापि बहुत्वान्मोहनाय च’’॥ इति ब्रह्माण्डे ॥३-८॥
आसीत् पुरञ्जनो नाम राजा राजन् बृहच्छ्रवाः ।
तस्याविज्ञातनामाऽऽसीत् सखाऽविज्ञातचेष्टितः ॥ १० ॥
स एकदा हिमवतो दक्षिणेष्वथ सानुषु ।
ददर्श नवभिर्द्वारैः पुरीं लक्षितलक्षणाम् ॥ १३ ॥
‘देवजीवाभिमानी तु ब्रह्मैव तु चतुर्मुखः ।
मानुषाणां तु जीवानामभिमानी पुरञ्जनः ॥
स तु राजा हरेः पुत्रस्त्वासुराणां कलिः स्वयम् ।
जीवसंसृतिवत्तस्मात्पुरञ्जनकथापि तु ॥
तस्माज्जीवसृतिज्ञप्त्यै पुरञ्जनकथां मुनिः ।
नारदोऽश्रावयद्विद्वान्नृपं प्राचीनबर्हिषम् ॥
प्रायस्तु तत्कथा जीवे स्थिता प्रत्येकशोऽपि तु ।
प्रत्येकं यत्तु युज्येत तदुन्नेयं यथा तथा ॥
उक्तं भागवतेऽप्येतत्पुराणे यावदिष्यते ।
प्रत्येकशस्तु जीवानां तदन्यत्तस्य केवलम्’’॥ इति तन्त्रभागवते ॥ १०,१३ ॥
यदृच्छयाऽऽगतां तत्र ददर्श प्रमदोत्तमाम् ।
भृत्यैर्दशभिरायान्तीमेकैकशतनायकैः ॥ २० ॥
तेषां परिवृढो राजन् सर्वेषां बलिमुद्वहन् ।
सस्त्रीकाणां सखा तस्या बहुरूपोऽग्रणीः स्त्रियः ॥ २१ ॥
नारद उवाच–
इति तौ दम्पती तत्र समुह्य समयं मिथः ।
तां प्रविश्य पुरीं राजन् मुमुदाते शतं समाः ॥ ४४ ॥
‘ये पुरञ्जनभृत्याद्या भार्याद्याः सर्व एव च ।
तेऽपि मानुषबुध्द्यादेर्विज्ञेया अभिमानिनः ॥
गायत्र्याद्यास्तु देवानां तेऽपि चैतेषु संस्थिताः ।
अलक्ष्मीद्वापराद्यास्तु आसुरास्तेऽपि मानुषाः’’॥ इति च ॥ २०,२१,४४ ॥
पितृभूर्नृप पुर्या द्वा दक्षिणेन पुरञ्जनः ।
राष्ट्रं दक्षिणपाञ्चालं याति श्रुतधरान्वितः ॥ ५१ ॥
देवभूर्नाम पुर्या द्वा उत्तरेण पुरञ्जनः ।
राष्ट्रमुत्तरपाञ्चालं याति श्रुतधरान्वितः ॥ ५२ ॥
॥ इति श्रीभागवततात्पर्यनिर्णये चतुर्थस्कन्धे पञ्चविंशोऽध्यायः ॥
‘दक्षिणश्रोत्रमार्गेण देवलोकं व्रजत्यसौ ।
वामश्रोत्रेण पितृणामिति वेदविदो विदुः’’॥ इति प्रवृत्तितन्त्रे ॥ ५१,५२ ॥
षड्विंशोऽध्यायः
तीर्थेषु श्रुतिदृष्टेषु राजा मेध्यपशून्वने ।
यावदर्थमलं लुब्धो हन्यादिति नियम्यते ॥ ६ ॥
य एवं कर्म नियतं विद्वान् कुर्वीत वा न वा ।
कर्मणा तेन राजेन्द्र ज्ञानेन स न लिप्यते ॥ ७ ॥
॥ इति श्रीभागवततात्पर्यनिर्णये चतुर्थस्कन्धे षड्विंशोऽध्यायः ॥
अलुब्धो लोकोपकारार्थं घ्नन्नात्मार्थादधिकमपि हन्यात् ।
‘उपकारः सतां येन तत्कृत्वा नैव दुष्यति ।
अतीव निन्दितमपि बहुहिंसायुगेव वा ।
अथवा ज्ञानिनः कर्म न दुष्टमपि लिप्यते’’॥ इत्यध्यात्मे ॥ ६-७ ॥
सप्तविंशोऽध्यायः
द्वाविमावनुशोचन्ति बालावसदवग्रहौ ।
यल्लोकशास्त्रोपनतं न राति न तदिच्छति ॥ २५ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये चतुर्थस्कन्धे सप्तविंशोऽध्यायः ॥
‘अलौकिकं च शास्त्रीयं कर्तव्यं लौकिकं कुतः ।
लोकार्थं शास्त्रहा याति निरयं त्वितरः सुरान्’’॥ इति पाद्मे ॥२५॥
अष्टाविंशोऽध्यायः
स व्यापकतयाऽऽत्मानं व्यतिरिक्ततयाऽऽत्मनि ।
विद्वान् स्वप्न इवामृश्य साक्षिणं विरराम ह ॥ ४० ॥
‘स्वप्नेन शारीरमभिप्रहत्यासुप्तः सुप्तानभिचाकशीति’’। इति श्रुतिप्रसिद्धः । स्वप्न इवेति दृष्टान्तत्वेनोच्यते । स्वप्ने हि जीवस्यास्वातन्त्र्यं प्रसिद्धम् । अतस्तत्र परमेश्वराधीनत्वं प्रसिद्धमेव । अतो जीवव्यतिरिक्त ईश्वरः सिद्धः।
‘स्वप्नो यतो न स्वतन्त्रस्तत्र तद्दर्शकः परः ।
जीवादन्यस्तु विज्ञेयः स विष्णुरवधार्यताम्’’॥ इति वाराहे ॥४०॥
पञ्चेन्द्रियार्था आरामा द्वारो घ्राणादयः प्रभो ।
तेजोबन्नानि कोष्ठानि गोलकेन्द्रियसंग्रहः ॥ ५७ ॥
इन्द्रियाणि यत्र सङ्गृह्यन्ते स गोलकेन्द्रियसङ्ग्रहः ॥ ५७ ॥
अहं भवान्न चान्यस्त्वं त्वमेवाहं विचक्ष्व भो ।
न नौ पश्यन्ति कवयश्छिद्रं जातु मनागपि ॥ ६२ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये चतुर्थस्कन्धे अष्टाविंशोऽध्यायः ॥
‘जीवसत्ताप्रदत्वाच्च सदृशत्वाच्च केशवः ।
कथ्यते तदभेदेन न तु जीवः स्वरूपतः’’॥ इति च ॥ ६२ ॥
एकोनत्रिंशोऽध्यायः
पञ्चेन्द्रियार्थप्रक्षेपः सप्तधातुवरूथकः ।
आकूतिर्विक्रमो बाह्यो मृगतृष्णां प्रधावति ॥ २० ॥
‘सुखवद्दूरतो दृश्यं तत्काले दुःखमेव यत् ।
मृगतृष्णेत्यतः प्राहुर्भोगं वैषयिकं बुधाः’’॥ इति शब्दनिर्णये ॥२०॥
दुःखेष्वेकतरेणापि दैवभूतात्महेतुषु ।
जीवस्य न व्यवच्छेदः स्याच्चेत् तत् तत्प्रतिक्रिया ॥ ३३ ॥
तत्प्रतिक्रियाऽपि दुःखमेव ॥ ३३ ॥
अर्थे ह्यविद्यमानेऽपि संसृतिर्न निवर्तते ।
मनसा लिङ्गरूपेण स्वप्ने विचरतो यथा ॥ ३६ ॥
‘संसृतेः स्वप्नसाम्यं तु यथार्थज्ञानवर्जनम्’’॥ इति च ।
‘जाग्रत्यविद्यमानं तु देहात्मत्वादि केवलम् ।
अविद्यमानं स्वप्ने तु जाग्रत्त्वज्ञानमेव च’’॥ इति षाड्गुण्ये ॥३६॥
प्रजापतिपतिः साक्षाद्भगवान् गिरिशो मनुः ।
दक्षादयः प्रजाध्यक्षा नैष्ठिकाः सनकादयः ॥ ४३ ॥
‘प्रजापतिपतिर्ब्रह्मा विरिञ्चश्चेति कथ्यते’’। इति शब्दनिर्णये ॥ ४३ ॥
शब्दब्रह्मणि दुष्पारे चरन्त उरुविस्तरे ।
मन्त्रलिङ्गैर्व्यवच्छिन्नं भजन्तो न विदुः परम् ॥ ४६ ॥
‘मन्त्रलिङ्गैर्व्यवच्छिन्नं वेदशब्दोक्तमात्रकम् ।
वेदो वदन्नपि हरिं न सम्यग्वक्ति कुत्रचित् ।
नाऽरोहयत्यनुभवमप्रसिद्धस्वरूपतः ॥
अथाप्यनुभवारोहः प्रसन्ने केशवे भवेत् ।
किञ्चिदेव सुसम्यक् च स्वयं त्वनुभवत्यमुम्’’॥ इति वाराहे ॥४६॥
यदा यस्यानुगृह्णाति भगवानात्मभावितः ।
स जहाति मतिं लोके वेदे च परिनिष्ठिताम् ॥ ४९ ॥
‘यदा त्वनुभवी भूयाच्छब्दमात्रानुरोधनम् ।
त्यक्त्वाऽथ तं विदुः प्राज्ञास्त्यक्तवेद इति स्म ह ॥
यदैव त्यक्तवेदः स्यादथास्मान्मुच्यते भयात् ।
प्रायस्तु वैदिका एव रुद्राद्या अपि वै पुरा ॥
वैदिकस्त्यक्तवेदश्च ब्रह्मैवैकः प्रजापतिः ।
ततस्तु केशवं भक्तया सम्पूज्य बहुजन्मसु ।
त्यक्तवेदत्वमापन्नाः प्रसादात्परमेष्ठिनः’’॥ इति महासंहितायाम् ।
‘केवलं वेदशब्देन जानन्वैदिक उच्यते ।
वेदं विनाप्यनुभवाज्जानंस्तु त्यक्तवैदिकः’’॥ इत्यध्यात्मे ॥
‘तत्त्वं वेदानुसारेण चिन्तयन्वैदिको भवेत् ।
वेद ऊहामनुसरेद्यस्य स त्यक्तवैदिकः’’॥ इति षाड्गुण्ये ॥ ४९ ॥
स त्वं विचक्ष्व मृगचेष्ठितमात्मनोऽन्त-
श्चित्तं नियच्छ हृदि कर्णधुनीं च चित्तिम् ।
जह्यङ्गनाभ्रममसत्तमयूथगाथं
प्रीणीहि हंसशरणं विरम क्रमेण ॥ ५७ ॥
‘चित्तिर्बुद्धिरिति ज्ञेया चित्तं तु स्मृतिकारणम्’’॥ इति शब्दनिर्णये ॥
एकं पञ्चविधं लिङ्गं त्रिवृत् षोडशविस्तरम् ।
एष चेतनया युक्तो जीव इत्यभिधीयते ॥ ७६ ॥
‘प्राणेन्द्रियान्तःकरणभेदेन त्रिविधं मतम् ।
पञ्च पञ्चैव ते सर्वे प्राणबुद्धीन्द्रियाणि च ॥
कर्मेन्द्रियाणि च तथा तस्मात्पञ्चविधं स्मृतम् ।
लिङ्गं षोडशकं प्राहुर्मनसा सह तत्पुनः’’॥ इति ब्राह्मे ॥ ७६ ॥
भक्तिः कृष्णे दया जीवेष्वकुण्ठज्ञानमात्मनि ।
यदि स्यादात्मनो भूयादपवर्गस्तु संसृतेः ॥ ८२ ॥
‘देहादिव्यतिरेकेण चिद्रूपोऽहमिति स्फुटम् ।
सदैवानुभवो भक्तिर्विष्णौ तद्दर्शनादनु ।
यस्यासौ मुच्यते क्षिप्रं संसारान्नात्र संशयः’’॥ इति हरिवंशेषु ॥८२॥
अदृष्टं दृष्टवन्नङ्क्ष्येद्भूतं स्वप्नवदन्यथा ।
भूतं भवद् भविष्यच्च सुप्तं सर्वरहो रहः ॥ ८३ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये चतुर्थस्कन्धे एकोनत्रिंशोऽध्यायः ॥
‘संसारस्थमिदं सर्वमनित्यत्वाद्वृथा यतः ।
अतः प्राहुः स्वप्नसमं प्राज्ञा जगदिदं मृषा’’॥ इति विष्णुसंहितायाम् ।
‘सुषुप्तिस्वप्नयोश्चैव स्वर्गव्योम्नोस्तथैव च ।
अन्योन्यनामता ज्ञेया मनोबुद्ध्योस्तथैव च’’॥ इति शब्दनिर्णये ॥
अतो भूतं भवत् भविष्यच्च स्वप्न इत्यर्थः ।
‘रहो ब्रह्म तथा यज्ञः स्वः सत्यमिति गीयते’’। इति च ॥ ८३ ॥
त्रिंशोऽध्यायः
मैत्रेय उवाच–
प्रचेतसोऽन्तरुदधौ पितुरादेशकारिणः ।
जपयज्ञेन तपसा पुरञ्जनमतोषयन् ॥ ३ ॥
‘पुरेषु त्वञ्जनाज्जीवः पुरञ्जन इतीरितः ।
पुराणां जननाद्विष्णुर्व्यञ्जकत्वं तयोरपि’’॥ इति तन्त्रभागवते ॥३॥
दिव्यवर्षसहस्राणां सहस्रमहतौजसः ।
भौमान् भोक्ष्यथ भोगान् वै दिव्यांश्चानुग्रहान्मम ॥ १७ ॥
दिव्यवर्षसहस्राणामिति सहस्रशब्दो बहुत्ववाची ।
‘मानुषाणां वत्सराणां लक्षद्वादशकं पुरा ।
प्रचेतोभिरियं पृथ्वी पालिताऽव्याहतेन्द्रियैः’’॥ इति ब्रह्माण्डे ॥१७॥
न व्यवह्रियते यज्ञो ब्रह्मैतद् ब्रह्मवादिभिः ।
न मुह्यन्ति न शोचन्ति न हृष्यन्ति यतो गताः ॥ २० ॥
यज्ञो ब्रह्म विष्ण्वाख्यं ब्रह्म यथानुभवं न व्यवह्रियते ।
‘सूक्ष्मेण मनसा विद्मो वाचा वक्तुं न शक्नुमः’’। इति भारते ॥२०॥
शुद्धाय शान्ताय नमः स्वनिष्ठमनस्यपार्थे विलसद्द्वयाय ।
नमो जगत्स्थानलयोदयेषु गृहीतमायागुणविग्रहाय ॥ २३ ॥
सु अनिष्ठमनसि ।
‘अनवस्थितबुद्धीनां द्वितीयं दृश्यते हरेः ।
सम्यक्स्वस्थितबुद्धीनामिदं सर्वं हरेर्वशे’‘इति च ।
‘नित्यं गृहीताः सत्वाद्या विग्रहाश्च त्रयः सदा ।
ज्ञानानन्दात्मकास्ते तु विग्रहा निर्गुणास्तथा ।
द्वौ तत्र ब्रह्मरुद्रस्थावेको वैकुण्ठधामगः’’॥ इति प्रवृत्तसंहितायाम् ॥
नमो विशुद्धसत्त्वाय हरये हरिमेधसे ।
वासुदेवाय कृष्णाय प्रभवे सर्वसात्वताम् ॥ २४ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये चतुर्थस्कन्धे त्रिंशोऽध्यायः ॥
‘हरणाज्ज्ञानरूपत्वाद्धरिमेधा विभुः स्मृतः’’॥ इति च ॥
‘हरिः सर्वगुणात्मत्वात्सत्व इत्यभिधीयते’’। इति षाड्गुण्ये ॥ २४ ॥
एकत्रिंशोऽध्यायः
दीक्षिता ब्रह्मसत्रेण सर्वभूतात्ममेधसा ।
प्रतीच्यां दिशि वेलायां सिद्धोऽभूद् यत्र जाजलिः ॥ २ ॥
‘पारिव्राज्यं ब्रह्मसत्रं न्यास इत्यभिधीयते’’। इत्यभिधानम् ॥
सर्वभूतात्मनि हरौ मेधा यत्र तद्ब्रह्मसत्रं सर्वभूतात्ममेधः ।
‘हरिमेधास्तु संन्यासो हरौ मेधाऽत्र यद्भवेत्’’। इति षाड्गुण्ये ॥ २ ॥
श्रेयसामपि सर्वेषामात्मा ह्यवधिरर्थितः ।
सर्वेषामपि भूतानां हरिरात्माऽऽत्मदः प्रियः ॥ १३ ॥
तावत्पर्यन्तमेव फलमित्यवधिः ॥ १३ ॥
एतत् परं तज्जगदात्मनः पदं
सकृद् विभातं सवितुर्यथा प्रभा ।
यदाऽसवो जाग्रति सुप्तवृत्तयो
द्रव्यक्रियाकारकविभ्रमात्ययः ॥ १६ ॥
‘आत्मभावः शरीरे तु द्रव्यभ्रम उदाहृतः ।
क्रियाभ्रमस्त्वहं कर्ता मदीयानीन्द्रियाणि तु ॥
कारकभ्रम इत्युक्तस्त एते विभ्रमा यदा ।
श्वासादिवृत्तिलोपेन प्राणा उद्योगिनस्तदा ॥
विलीयन्ते प्राणभक्त्या नित्यं स्वापवतां स्फुटम् ।
उद्योग एव जाग्रत्स्याद्योगिनां मुक्तिसिद्धये’’॥ इत्यध्यात्मे ॥ १६ ॥
तेनैकमात्मानमशेषदेहिनां कालं प्रधानं पुरुषं परेशम् ।
स्वतेजसा ध्वस्तगुणप्रवाहमात्मैकभावेन भजध्वमद्धा ॥ १८ ॥
‘पूर्णो विष्णुः स एवैक इति भावो य ईरितः ।
आत्मैकभाव इति तं विदुर्ब्रह्मात्मदर्शिनः’’॥ इति सत्यसंहितायाम् ॥
निरस्तसङ्कल्पविकल्पमद्वयं
द्वयापवादोपरमोपलम्भनम् ।
अनादिमध्यान्तमजस्रनिर्वृतिं
संज्ञप्तिमात्रं भजतामुया दृशा ॥ १९ ॥
‘सङ्कल्पश्च विकल्पश्च ऋते विष्णुप्रसादतः ।
नैव सम्भवतो विष्णोः समाभावात्तु सोऽद्वयः’’॥ इति तन्त्रभागवते ॥
न भजति कुमनीषिणां स इज्यां
हरिरधनात्मधनप्रियो रसज्ञः ।
श्रुतधनकुलकर्मणां मदैर्ये
विदधति पापमकिञ्चनेषु सत्सु ॥ २२ ॥
अधनाश्च त एवात्मधनाश्चाधनात्मधनाः ॥ २२ ॥
श्रियमनुचरतीं तदर्थिनश्च
द्विपदपतीन् विबुधांश्च यः स्वपूर्णः ।
न भजति निजभृत्यवर्गतन्त्रः
कथममुमुद्विसृजेत् पुमान् कृतज्ञः ॥ २३ ॥
‘श्रियं देवांश्च भृत्यत्वान्मनुते बहु केशवः ।
नात्मार्थाय यतस्ते तु भक्तया सर्वोत्तमोत्तमाः’’॥ इति च ॥ २३ ॥
तत् परं सर्वधिष्ण्येभ्यो मायाधिष्ठितमारुहत् ।
मुनयोऽद्याप्युदीक्षन्ते परं नापुरवाङ् नृपाः ॥ २६ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये चतुर्थस्कन्धे एकत्रिंशोऽध्यायः ॥
॥ चतुर्थः स्कन्धः समाप्तः ॥
‘सर्वोत्तमत्वाद्विष्णुर्हि माय इत्येव शब्द्यते’’। इति व्योमसंहितायाम् ।
‘देवानत्युत्तममुनीन्विना के शैंशुमारकम् ।
हरेर्गृहं प्रविष्टास्तु ध्रुवो देवाश्च तद्गताः’’॥ इति मात्स्ये ॥ २६ ॥