०३

प्रथमोऽध्यायः

श्रीशुक उवाच–

एवमेतत् पुरा पृष्टो मैत्रेयो भगवान् किल ।
क्षत्त्रा वनं प्रविष्टेन त्यक्त्वा स्वगृहमृद्धिमत् ॥ १ ॥

यदा त्वयं मन्त्रकृद् वो भगवानखिलेश्वरः । पौरवेन्द्रपुरं हित्वा प्रविवेशात्मसात्कृतम् ॥ २ ॥

‘युद्धकाले तु विदुरस्तीर्थयात्रां गतोऽपि सन् ।
प्राय आस्ते गजपुरे पाण्डवानां व्यपेक्षया’’॥

इति स्कान्दे ॥ १,२ ॥

श्रीशुक उवाच–

यदा तु राजा स्वसुतानसाधून्

पुष्णन्नधर्मेण विनष्टदृष्टिः ।
भ्रातुर्यविष्ठस्य सुतान् विबन्धून्

प्रवेश्य लाक्षाभवने ददाह ॥ ६ ॥

यदा सभायां कुरुदेवदेव्याः

केशाभिमर्शं सुतकर्म गर्ह्यम् ।
न वारयामास नृपः स्नुषाया

और्हरन्त्याः कुचकुङ्कुमानि ॥ ७ ॥

यदा ददाह । यदा केशाभिमर्शः प्राप्त इति यदाशब्दो हेत्वर्थः । ‘यदा तदेति हेत्वर्थे कालार्थे चापि भण्यते’’। इत्यभिधानम् ॥ ६,७ ॥

इत्थं व्रजन् भारतमेव वर्षं

कालेन यावद् गतवान् प्रभासम् ।
तावच्छशास क्षितिमेकचक्रा-

मेकातपत्रामजितेन पार्थः ॥ २० ॥

तत्राथ शुश्राव सुहृद्विनष्टिं

वनं यथा वेणुजवह्निनाऽऽश्रयम् ।
संस्पर्धया दग्धमथानुशोचन्

सरस्वतीं प्रत्यगियाय तूष्णीम् ॥ २१ ॥

सुहृद्विनष्टिं यदुकुलविनष्टिमेष्याम् ।
‘विदुरस्तु प्रभासस्थः शापं सङ्क्षेपतोऽशृृणोत् ।
यदूनां विस्तरात्पश्चादुद्धवाद्यमुनामनु’’॥ इति स्कान्दे ।
भारतविरोधाच्चान्यथा ॥ २०,२१ ॥

अन्यानि चेह द्विजदेवदेवैः

कृतानि नानायतनानि विष्णोः ।
प्रत्यङ्कमुख्याङ्कितमन्दिराणि

यद्दर्शनात् कृष्णमनुस्मरन्ति ॥ २३ ॥

प्रत्यङ्कमुख्यो विष्णुः ।
‘ब्रह्मा प्रत्यङ्कवान् विष्णुः सम्यग्लक्षणवत्तमः’‘इति तन्त्रमालायाम् ॥२३॥

कच्चित् पुराणौ पुरुषौ स्वनाभ्य-

पद्मानुवृत्त्येह कलावतीर्णौ ।
आसात उर्व्याः कुशलं विधाय

कृतक्षणौ कुशलं शूरगेहे ॥ २६ ॥

‘पद्मो ब्रह्मा समुद्दिष्टः पद्मा श्रीरपि चोच्यते’‘इति ब्राह्मे ।
‘लोकानां सुखकर्तृत्वमपेक्ष्य कुशलं विभोः ।
पृच्छ्यते सततानन्दात्कथं तस्यैव पृच्छ्यते’’। इति पाद्मे ॥ २६ ॥

कच्चित् कुरूणां परमः सुहृन्नो

भामः स आस्ते सुखमङ्ग शौरिः ।
यो वै स्वसॄणां पितृवद् ददाति

वरान् वदान्यो वरतर्पणेन ॥ २७ ॥

वरतर्पणेन भर्तृतर्पणेन ॥ २७ ॥

कच्चित् सुखं सात्वतवृष्णिभोज-

दाशार्हकाणामधिपः सः आस्ते ।
यमभ्यषिञ्चच्छतपत्रनेत्रो

नृपासनाधिं परिहृत्य दूरात् ॥ २९ ॥

‘आधिर्मनोवरूथं च आत्मा स्वमिति चोच्यते’‘इत्यभिधानम् ॥ २९ ॥

किं वा कृताघेष्वघमत्यमर्षी

भीमोऽहिवद् दीर्घतमं व्यमुञ्चत् ।
यस्याङ्घ्रिपातं रणभूर्न सेहे

मार्गं गदायाश्चरतो विचित्रम् ॥ ३७ ॥

अघं व्यमुञ्चत् । पुनरपराधबुद्धिं हित्वाऽऽस्ते ॥ ३७ ॥

अजस्य जन्मोत्पथनाशनाय

कर्माण्यकर्तुर्ग्रहणाय पुंसाम् ।
न त्वन्यथा कोऽर्हति देहयोगं

परो गुणानामुत कर्मतन्त्रम् ॥ ४४ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये तृतीयस्कन्धे प्रथमोऽध्यायः ॥

‘न देहयोगो हि जनिर्विष्णोर्व्यक्तिर्जनिः स्मृता’‘इत्याग्नेये ।
‘हरिः कर्ताऽप्यकर्तेति फलाभावेन भण्यते’‘इति च ॥ ४४ ॥

द्वितीयोऽध्यायः

यद्धर्मसूनोर्बत राजसूये

निरीक्ष्य दृक्स्वस्त्ययनं त्रिलोकः ।
कार्त्स्न्येन चात्रोपगतं विधातु-

रर्वाक् सृतौ कौशलमित्यमन्यत ॥ १३ ॥

त्रिलोकस्याज्ञानं बत ।
‘आनन्दरूपं दृष्ट्वाऽपि लोको भौतिकमेव तु ।
मन्यते विष्णुरूपं च अहो भ्रान्तिर्बहुस्थिता’’॥ इति स्कान्दे ॥१३॥

मन्येऽसुरान् भागवतांस्त्र्यधीशे

संरम्भमार्गाभिनिविष्टचित्तान् ।
ये संयुगेऽचक्षत तार्क्षपुत्र-

स्यांसे सुनाभायुधमापतन्तम् ॥ २४ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये तृतीयस्कन्धे द्वीतीयोऽध्यायः ॥

‘असुरा अपि ये विष्णुं शङ्खचक्रगदाधरम् ।
भक्तिपूर्वमवेक्षन्ते ज्ञेया भागवता इति ॥

विद्विषन्ति तु ये विष्णुमृषिपुत्रा अपि स्फुटम् ।
असुरास्तेऽपि विज्ञेया गच्छन्ति च सदा तमः ॥

जीवद्वयसमायोगाद्धिरण्यकमुखाः परे ।
भक्तिद्वेषयुताश्च स्युर्गतिस्तेषां यथा निजा ॥

कंसपूतनिकाद्याश्च बान्धवादियुता यतः ।
जीवद्वयसमायोगाद्गतिद्वयजिगीषवः ॥

सर्वथा भक्तितो मुक्तिर्द्वेषात्तम उदीरितम् ।
नियमस्त्वनयोर्नित्यं मोहायान्यवचो भवेत्’’॥ इति ब्राह्मे ॥ २४ ॥

तृतीयोऽध्यायः

समाहुता भीष्मककन्यया ये

श्रियः सवर्णेन जिहीर्षयैषाम् ।
गान्धर्ववृत्त्या मिषतां स्वभागं

जह्रे पदं मूधर्ि्न दधत् सुपर्णः ॥ ३ ॥

भीष्मककन्याया अर्थे सवर्णमात्रतया आहूताः । एषां श्रियोजिहीर्ष-याऽऽह्वानबुद्धिर्भगवता कृता ।
‘सुपर्णः सुपरानन्दात्काकुत्स्थो वाचि संस्थितः’’। इति पाद्मे ॥ ३ ॥

तास्वपत्यान्यजनयदात्मतुल्यानि सर्वतः ।
एकैकस्यां दश दश प्रकृतेर्विबुभूषया ॥ ९ ॥

‘उत्तमैः सर्वतः साम्यं किञ्चित्साम्यमुदीर्यते’‘इत्याग्नेये ॥ ९ ॥

भगवानपि विश्वात्मा लोकवेदपथानुगः ।
कामान् सिषेवे द्वार्वत्यामसक्तः साङ्ख्यमास्थितः ॥ १९ ॥

‘केवलं भगवज्ज्ञानं साङ्ख्यमित्यभिधीयते’‘इत्यध्यात्मे ॥ १९ ॥

तस्येत्थं रममाणस्य संवत्सरगणान् बहून् ।
गृहमेधेषु योगेषु विरागः समजायत ॥ २२ ॥

‘सर्वदाऽपि विरक्तः सन् भासयीत विरागिवत् ।
कादाचित्कः कुतस्तस्य लोकशिक्षार्थमिष्यते’’॥ इति पाद्मे ॥ २२ ॥

दैवाधीनेषु कामेषु दैवाधीनः स्वयं पुमान् ।
को विश्रंभेत योगेन योगेश्वरमनुव्रतः ॥ २३ ॥

तेनापि विरागः प्रदर्शितः । अतः कोऽन्यो विस्रम्भं कुर्यात् तेनापि विरागः प्रदर्शितः ॥ २३ ॥

ततः कतिपयैर्मासैर्वृष्णिभोजान्धकादयः ।
ययुः प्रभासं संहृष्टा रथैर्दैवविमोहिताः ॥ २५ ॥

तत्र स्नात्वा पितॄन् देवान् ऋषींश्चैव तदम्भसा ।
तर्पयित्वाऽथ विप््रोभ्यो गावो बहुगुणा ददुः ॥ २६ ॥

हिरण्यं रजतं शय्यां वासांस्यजिनकम्बलान् ।
हयान् रथानिभान् कन्यां धरां वृत्तिकरीमपि ॥ २७ ॥

अन्नं चोरुरसं तेभ्यो दत्वा भगवदर्पणम् ।
गोविप्रार्थासवः शूराः प्रणेमुर्भुवि मूर्धभिः ॥ २८ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये तृतीयस्कन्धे तृतीयोऽध्यायः ॥

‘एष्यच्च निश्चितं यत्तदतीतत्वेन भण्यते ।
चक्रवत्परिवृत्तेर्वा दुष्टानां मोहनाय वा ॥"

इति स्कान्दे ॥ २५-२८ ॥

चतुर्थोऽध्यायः

उद्धव उवाच–

भगवानात्ममायाया गतिं तामवलोक्य सः ।
सरस्वतीमुपस्पृश्य वृक्षमूलमुपाविशत् ॥ ३ ॥

अहं चोक्तो भगवता प्रपन्नार्तिहरेण ह ।
बदरीं त्वं प्रयाहीति स्वकुलं सञ्जिहीर्षुणा ॥ ४ ॥

अथापि तदभिप््रोतं जानन्नहमरिंदम ।
पृष्ठतोऽन्वगमं भर्तुः पादविश्लेषणाक्षमः ॥ ५ ॥

आत्ममायायाः आत्मसामर्थ्यस्य । गतिं पूर्वमेवावलोक्य ।
‘ज्ञात्वा कतिपयैर्वर्षैः पूर्वमेव जनार्दनः ।
मौसलं ज्ञानसन्तत्या उद्धवं बदरीं नयत् ॥

स ज्ञानं तत्र विस्तीर्य पुनर्द्वारवतीं ययौ ।
पूर्वमेवोपदिष्टोऽपि हरिणा ज्ञानमुद्धवः ॥

स्वर्गारोहणकाले तु पुनः पप्रच्छ केशवम् ।
पुनः श्रुत्वा बदर्यां तु वर्षत्रयमुवास ह ॥

ज्ञानं संस्थाप्य पश्चाच्च स्वेच्छया स्वर्गतः प्रभुः’’॥ इति गारुडे ॥५॥

राजोवाच–

निधनमुपगतेषु वृष्णिभोजे-

ष्वधिरथयूथपयूथपेषु मुख्यः ।
स तु कथमवशिष्ट उद्धवो यद्

हरिरपि तत्यज आकृतिं त्र्यधीशः ॥ २८ ॥

शुक उवाच–

ब्रह्मशापापदेशेन कालेनामोघवाञ्छितः ।
संहृत्य स्वकुलं नूनं त्यक्ष्यन् देहमचिन्तयत् ॥ २९ ॥

आकृतिं पृथिवीम् ।
‘शरीरमाकृतिर्देहः कुः पृथ्वी च मही तथा’’॥ इत्यभिधानम् ।
‘पृथिवीलोकसन्त्यागो देहत्यागो हरेः स्मृतः ।
नित्यानन्दस्वरूपत्वादन्यन्नैवोपलभ्यते ॥

दर्शयेज्जनमोहाय सदृशीं मृतकाकृतिम् ।
नटवद्भगवान्विष्णुः परज्ञानाकृतिस्स्वयम्’’॥ इति स्कान्धे ।
‘राजन् परस्य तनुभृज्जननाप्ययेहा मायाविडम्बनमवैहि यथा नटस्य’’।
इति च ॥ २९ ॥

नोद्धवोऽण्वपि मन्न्यूनो यद्गुणैर्निर्जितः प्रभुः ।
अतो मद्वत् पुनर्लोकं ग्राहयन्निह तिष्ठतु ॥ ३१ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये तृतीयस्कन्धे चतुर्थोऽध्यायः ॥

‘उत्तमैरधिकत्वं वा साम्यं वा विजयोऽपि वा ।
उच्यतेऽपि तु नीचानां मोहार्थं वाप्युपेक्षया ।
मूढदृष्ट्यनुसाराद्वा किञ्चित्साम्येन वा क्वचित्’’॥

इति ब्रह्मतर्के ॥ ३१ ॥

पञ्चमोऽध्यायः

परावरेषां भगवन् कृतानि

श्रुतानि मे व्यासमुखादभीक्ष्णम् ।
न तृप्नुमः कर्णसुखावहानां

तेषामृते कृष्णकथामृतौघात् ॥ १० ॥

ऋते अवगमे । ऋ गताविति धातोः । तेषां तात्पर्यावगमे कृष्ण-कथामृतौघ एवासौ यतः ॥ १० ॥

मुनिर्विवक्षुर्भगवद्गुणानां

सखाऽपि ते भारतमाह कृष्णः ।
यस्मिन् नृणां ग्राम्यसुखानुवादै

र्मतिर्गृहीता न हरेः कथायाम् ॥ १२ ॥

यस्मिन् भारते हरेः कथायां ग्राम्यसुखानुवादैर्मतिर्न गृहीता ।
‘भारतान्नाधिकं विष्णोर्महिमावाचकं क्वचित् ।
भारतान्न विरागाय भारतान्न विमुक्तये ॥‘‘इति पाद्मे ॥ १२ ॥

सा श्रद्धधानस्य विवर्धमाना

विरक्तिमन्यत्र करोति पुंसः ।
हरेः सदाऽनुस्मृतिनिर्वृतस्य

समस्तदुःखाप्ययमाशु धत्ते ॥ १३ ॥

॥ इति श्रीभागवततात्पर्यनिर्णये तृतीयस्कन्धे पञ्चमोऽध्यायः ॥

या ग्राम्यसुखानुवादैर्न गृहीता हरेः कथायां विवर्धमाना मतिः ॥ १३ ॥

षष्ठोऽध्यायः

मैत्रेय उवाच–

भगवानेक आसेदमग्र आत्मात्मनां विभुः ।
आत्मेच्छानुगतो ह्यात्मा नानाशक्त्युपलक्षितः ॥ १ ॥

आत्मनां विभुः जीवाधिपतिः ॥ १ ॥

स वा एष तदा द्रष्टा नापश्यद् विश्वमेकराट् ।
मेनेऽसन्तमिवात्मानं सुप्तशक्तिरसुप्तदृक् ॥ २ ॥

‘परमात्मा यतो जीवं मेनेऽसन्तमशक्तितः ।
असन्नसावतो नित्यं सत्यज्ञानो यतो हरिः’’॥ इत्याग्नेये ॥

‘शक्यत्वाच्छक्तयो भार्याः शक्तिः सामर्थ्यमुच्यते’’॥ इति ब्रह्मतर्के ॥

‘सुप्तिस्तु प्रकृतेः प्रोक्ता अतीव भगवद्रतिः ।
अनास्थाऽन्यत्र च प्रोक्ता विष्णोश्चक्षुर्निमीलनम्’’॥

इति व्योमसंहितायाम् ॥ २ ॥

सोऽप्यंशगुणकालात्मा भगवद्दृष्टिगोचरः ।
आत्मानं व्यकरोदात्मा विश्वस्यास्य सिसृक्षया ॥ ६ ॥

अंशो जीवः ।
‘कालजीवगुणादीनामभिमानी चतुर्मुखः ।
सर्वजीवाभिमानित्वादंश इत्येव चोच्यते’’॥ इति ब्राह्मे ॥ ६ ॥

कालमायांशयोगेन भगवद्वीक्षितं नभः ।
तामसानुसृतं स्पर्शं विकुर्वन् निर्ममेऽनिलम् ॥ ११ ॥

अनिलोऽपि विकुर्वाणो नभसोरुबलान्वितः ।
ससर्ज रूपतन्मात्रां ज्योतिर्लोकस्य लोचनम् ॥ १२ ॥

अनिलेनान्वितं ज्योतिर्विकुर्वत् परवीक्षितम् ।
आधत्ताम्भो रसमयं कालमायांशयोगतः ॥ १३ ॥

ज्योतिषाऽम्भोऽनुसंसृष्टं विकुर्वत् परवीक्षितम् ।
महीं गन्धगुणामाधात् कालमायांशयोगतः ॥ १४ ॥

कालमायांशयोगतः । कालात्परिणामात्, प्रकृतेर्हिरण्यगर्भाच्च ॥ ११-१४ ॥

एते देवाः कला विष्णोः कालमायांशलिङ्गिनः ।
नानात्वात् स्वक्रियानीशाः प्रचुः प्रञ्जलयो विभुम् ॥ १६ ॥

कालमायांशलिङ्गिनः तन्निमित्तशरीराः । हिरण्यगर्भस्यैव कालाभि-मानी जीवाभिमानीति द्विविधं रूपम् ।
‘कालजीवाभिमानेन रूपद्वन्द्वी चतुर्Pमुखः’’॥ इति पाद्मे ॥ १६ ॥

ऋते यदस्मिन् भव ईश जीवा-

स्तापत्रयेणाभिहता न शर्म ।
आत्मल्लभन्ते भगवंस्तवाङ्घ्रि-

च्छायांशविद्यामत आश्रयेम ॥ १८ ॥

‘ब्रह्मविद्या हरेश्छाया तदंशो हि सुरेष्वपि ।
सर्वविद्याः श्रियः प्रोक्ताः प्रधानांशश्चतुर्मुखे’’॥ इति ब्राह्मे ॥ १८ ॥

मार्गन्ति यत् ते मुखपद्मनीडै-

श्छन्दःसुपर्णैर्ऋषयो विविक्ते ।
यच्चाघमर्षो द्युसरिद्धरायाः

परं पदं तीर्थपदः प्रपन्नाः ॥ १९ ॥

द्युसरितो धरायाश्च ॥ १९ ॥

तथापरे त्वात्मसमाधियोग-

बलेन जित्वा प्रकृतिं बलिष्ठाम् ।
त्वामेव धीराः पुरुषं विशन्ति

तेषां श्रमः स्यान्न तु सेवया ते ॥ २५ ॥

‘वायोश्च प्रकृतेर्विष्णोर्जयो भक्त्यैव नान्यथा’’।
इति दत्तात्रेययोगे ॥ २५ ॥

तत् ते वयं लोकसिसृक्षयाऽद्य

त्वया विसृष्टास्त्रिभिरात्मभिर्ये ।
सर्वे वियुक्ताः स्वविहारतन्त्रं

न शक्नुमस्तत् प्रतिकर्तवे ते ॥ २६ ॥

त्रिभिरात्मभिः कालमायांशैः ॥ २६ ॥

ततो वयं सत्प्रमुखा यदर्थे

बभूविमात्मन् करवाम किं ते ।
त्वं नः स चक्षुः परिदेहि शक्ता

देव क्रियार्थे यदनुग्रहेण ॥ २९ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये तृतीयस्कन्धे षष्ठोऽध्यायः ॥

सत्प्रमुखा महदादयः ॥ २९ ॥

सप्तमोऽध्यायः

ऋषिरुवाच–

इति तासां स्वशक्तीनामसतीनां समेत्य सः ।
प्रसुप्तलोकतन्त्राणां निशम्य गिरमीश्वरः ॥ १ ॥

‘शक्यत्वाच्छक्तयो विष्णोर्महदाद्या रमा तथा ।
स्वरूपशक्तिः शक्तित्वान्मुख्यशक्तिर्हि सा यतः’’॥ इति ब्रह्मतर्के ॥

समेत्य आसतीनां असमेतानां, प्रसुप्तलोकतन्त्राणाम् अनाविर्भूतलोक-सृष्टिशक्तीनाम् ।
‘तनुते येन कार्यं यत्तन्त्रं साधनमुच्यते ।
कारणानां स्वशक्तिर्वा प्रधानं साधनं यतः’’॥ इति ब्रह्मतर्के ॥ १ ॥

कालसंज्ञां तदा देवीं बिभ्रच्छक्तिमुरुक्रमः ।
त्रयोविंशतितत्त्वानां गणं युगपदाविशत् ॥ २ ॥

‘शब्दाद्या नभ आद्याश्च मनोयुक्तेन्द्रियाणि च ।
अहङ्कारो महांश्चैव त्रयोविंशतिको गणः ॥

देवतेन्द्रिययोरैक्यान्न पृथग्गणनं तयोः ।
प्रकृतिस्तु चतुर्विंशा पञ्चविंशो हरिः स्वयम् ॥

यदा जडांशस्वीकारो जीवस्तत्पञ्चविंशकः ।
षडिं्वशको महाविष्णुः श्रिया वा सप्तविंशकः’’॥ इति तत्त्वनिर्णये ।
त्रयोविंशति तत्त्वानि प्राविशद्रमया सह ।
कालाख्यया स्वयं विष्णुः शक्यत्वाच्छक्तिरूपया ॥ २ ॥

सोऽनुप्रविष्टो भगवान् चेष्टारूपेण तं गणम् ।
भिन्नं संयोजयामास सुप्तं कर्म प्रबोधयन् ॥ ३ ॥

‘सर्वचेष्टकरूपेण स्वसामर्थ्येन केशवः ।
तानि भिन्नानि तत्त्वानि योजयामास चांशतः’‘इति च ॥ ३ ॥

प्रबुद्धकर्मा दैवेन त्रयोविंशतिको गणः ।
प््रोरितोऽजनयत् स्वाभिर्मात्राभिरधिपूरुषम् ॥ ४ ॥

मात्राभिः अंशैः ॥ ४ ॥

स वै विश्वसृजां गर्भो दैवकर्मात्मशक्तिमान् ।
विबभाजाऽत्मनाऽत्मानमेकधा दशधा त्रिधा ॥ ७ ॥

‘ईश्वरो दैवमुद्दिष्टं सर्वस्यापि प्रभुत्वतः’’॥ इति च ।
आत्मशक्तिः प्रकृतिः ॥ ७ ॥

एष ह्यशेषसत्त्वानामात्मांशः परमात्मनः ।
आद्योऽवतारो यत्रासौ भूतग्रामो विभाव्यते ॥ ८ ॥

‘पुरुषेणाऽत्मभूतेन’‘इति योऽण्डमसृजत् स एष इत्युक्तः ।
‘आद्योऽवतारो विष्णोस्तु पुरुषो नाम कीर्तितः ।
असृजत् स महत्तत्त्वं स एवाण्डं समाविशत्’’॥ ८ ॥

साध्यात्मं साधिदैवं च साधिभूतमिति त्रिधा ।
विराट्प्राणो दशविध एकधा हृदयेन च ॥ ९ ॥

‘स ब्रह्मणो हृदिस्थत्वाद्धृदयं चेति कीर्त्यते’’॥ इति च ।
‘प्राणादिपञ्चकं चैव तथा नागादिपञ्चकम् ।
सनागकूर्मकृकलदेवदत्तधनञ्जयाः ।
एवं तु दशधा प्राण अध्यात्मादित्रिधाऽखिलाः’’॥

इति च व्योमसंहितायाम् ॥ ९ ॥

निर्भिन्नान्यथ चर्माणि लोकपालोऽनिलोऽविशत् ।
प्राणोनांशेन संस्पर्शं येनासौ प्रतिपद्यते ॥ १६ ॥

‘प्राणः प्रथमजो यस्तु प्रधानो वायुरीरितः ।
त्वगात्माद्यास्तु तत्पुत्रा द्विधाभूतमुदाहृतम्’’॥

इति तत्त्वनिर्णये ॥ १६ ॥

आत्मानं चास्य निर्भिन्नं वाचस्पतिरुपाविशत् ।
बुद्ध्या स्वांशेन येनासौ निश्चयं प्रतिपद्यते ॥ २४ ॥

अहं चास्य विनिर्भिन्नमभिमानोऽविशत् पदम् ।
कर्त्रा सस्वांशेन येनासौ कर्तव्य प्रतिपद्यते ॥ २५ ॥

सत्त्वं चास्य विनिर्भिन्नं महान् धिष्ण्यमुपाविशत् ।
चित्तेनांशेन येनासौ विज्ञानं प्रतिपद्यते ॥ २६ ॥

‘अहं सत्वमिति द्वेधा ब्रह्मनाड्या अवान्तरम् ।
कर्तृनामा ह्यहङ्कारस्त्वहंनाड्यां व्यवस्थितः ॥

सत्त्वनाड्यां तथा चित्तमभिमानो हरस्तथा ।
अहंनाड्यां सत्वनाड्यां ब्रह्मा चैव व्यवस्थितः ॥

आत्मनाड्यां तथा बुद्धिस्तत्रस्थश्च बृहस्पतिः’’॥ इति ॥ २६ ॥

मुखतोऽवर्तत ब्रह्म पुरुषस्य कुरूद्वह ।
यत्रोन्मुखत्वाद् वर्णानां मुख्योऽभूद् ब्राह्मणो गुरुः ॥ ३० ॥

बाहुभ्योऽवर्तत क्षत्रं क्षत्रियस्तदनुव्रतः ।
यो जातस्त्रायते वर्णान् पुरुषान् कण्टकक्षतात् ॥ ३१ ॥

विशोऽवर्तन्त तस्योर्वोर्लोकवृत्तिकरीर्विभोः ।
वैश्यस्तदुद्भवो वार्तां नृणां यः समवर्तयत् ॥ ३२ ॥

पद्भ्यां भगवतो जज्ञे शुश्रूषाकर्मसिद्धये ।
तस्यां जातः पुरा शूद्रो यद्वृत्त्या तुष्यते हरिः ॥ ३३ ॥

‘ब्रह्माभिमानी तु भृगुरजनि ब्रह्मणो मुखात् ।
क्षत्राभिमानी तु मनुर्ब्रह्मबाह्वोरजायत ॥

ऊर्वोर्विडभिमानी च वास्तुः पादात्कृतिस्तथा ।
एते पूर्वं हरेर्जाता ब्रह्मणस्तदनन्तरम् ॥

एवं रुद्राच्च वायोश्च तदन्तस्थहरेर्यतः’’॥ इति षाड्गुण्ये ॥३०-३३॥

एतत् क्षत्तर्भगवतो दैवकर्मात्मरूपिणः ।
कः श्रद्दध्यादुदाहर्तुं योगमायाबलोदयम् ॥ ३५ ॥

‘अधिकत्वाद्देवशब्दो दैवतेष्वधिको यतः ।
दैवं हरिः कर्म मूलं कृतिरित्येव भण्यते ॥

व्याप्तत्वादात्मशब्दश्च श्रीपतित्वाच्च माधवः’’॥ इति च ॥ ३५ ॥

अतो भगवतो मायां मायिनामपि मोहिनीम् ।
यत् स्वयं चात्मवर्त्मात्मा न वेद किमुतापरे ॥ ३९ ॥

यतोऽप्राप्य निवर्तन्ते वाचश्च मनसा सह ।
अहं चान्य इमे देवास्तस्मै भगवते नमः ॥ ४० ॥

॥ इति श्रीभागवततात्पर्यनिर्णये तृतीयस्कन्धे सप्तमोऽध्यायः ॥

‘आत्मा ब्रह्मा न वेद । अहं रुद्रः ।
‘गुणपूर्तेरात्मशब्दो ब्रह्मा हीनत्वतो हरः ।
अहंशब्दस्तथाप्येतौ न जानीतो हरिं परम्’’॥ इति ब्राह्मे ।
भगवतो मायां भगवतो महिमानम् ।
‘माया तु महिमा प्रक्ता प्रचुर्ये तु मयड्यतः’’॥ इति पाद्मे ।
आत्मवर्त्मा परमात्मगतिः ॥ ३९ ॥

अष्टमोऽध्यायः

क्रीडाया मुद् यतोऽर्हस्य कामं चिक्रीडिषाऽन्यतः ।
स्वतस्तृप्तस्य तु कथं निर्वृतस्य सदात्मनः ॥ ३ ॥

क्रीडाया मुत् । अर्हस्य अपूर्णसुखस्य । अन्यतः अरतेः ॥ ३ ॥

देशतः कालतो योऽसाववस्थातः स्वतोऽन्यतः ।
अविलुप्तावबोधात्मा स युज्येताजया कथम् ॥ ५ ॥

भगवानेष एवैकः सर्वक्षेत्रेष्ववस्थितः ।
अमुष्य दुर्भगत्वं वा क्लेशो वा कर्मभिः कुतः ॥ ६ ॥

दुर्भगक्लेशशरीरस्थत्वात्तस्यापि भाव्यम् । न च तद् युज्यते ॥ ५-६ ॥

मैत्रेय उवाच–

सेयं भगवतो माया न्याय्यं येन विरुध्यते ।
ईश्वरस्य विमुक्तस्य कार्पण्यमुत बन्धनम् ॥ ९ ॥

सेयं भगवतो माया अयं हि भगवन्महिमा । तस्य कार्पण्यं बन्धनादि न युज्यत इति यदुक्तं तन्न्याय्यमेव । दुर्भगादिशरीरस्थस्यापि तद्दोषास्पर्श एव तन्महिमेत्यर्थः ॥ ९ ॥

यथाऽर्थेन विनाऽमुष्य पुंस आत्मविपर्ययः ।
प्रतीयत उपद्रष्टुः स्वशिरश्छेदनादिकः ॥ १० ॥

यथा जले चन्द्रमसः कम्पादिस्तत्कृतो गुणः ।
दृश्यतेऽसन्नपि द्रष्टुरात्मनोऽनात्मनो गुणः ॥ ११ ॥

स वै निवृत्तिधर्मेण वासुदेवानुकम्पया ।
भगवद्भक्तियोगेन तिरोधत्ते शनैरिह ॥ १२ ॥

‘कथं देहपरो देवो न लिप्येत हि बन्धनैः ।
कथं न दुःखी स भवेद्दुःखी चेदीश्वरः कुतः ॥

महिमा परमस्यैष यद्देहस्थो न बाध्यते ।
यददुःखी स ईशानो मायेति महिमोच्यते ॥

प्रधानं मय इत्याहुः प्राधान्यान्मयता भवेत् ।
अतो मायामयं प्राहुर्महामायमनामयम्’’॥ इति भाल्लवेयश्रुतिः ॥

‘अलुप्तबोधरूपत्वान्नासौ प्राकृतदेहवान् ।
न च सृष्ट्यादिकं भ्रान्तिर्भ्रान्तिवादा हि दानवाः ॥

‘अतो भ्रान्त्यादिसम्बन्धो नास्य क्वचन युज्यते ।
भ्रान्त्या जीवस्य संसार ईशज्ञानाद्विलीयते ।
भ्रान्तिर्देहाद्यभिमतिरीशज्ञानाद्विनश्यति’’॥ इति ब्रह्माण्डे ॥ १०-१२ ॥

यदेन्द्रियोपरामार्थो दृष्टात्मनि परे हरौ ।
विलीयन्ते तदा क्लेशाः संसुप्तस्येव कृत्स्नशः ॥ १३ ॥

इन्द्रियोपरामाख्यः पुरुषार्थो मुक्तिः ॥ १३ ॥

विदुर उवाच–

सञ्छिन्नः संशयो मह्यं तव सूक्तासिना विभो ।
उभयत्रापि भगवन् मनो मे सम्प्रधावति ॥ १५ ॥

साधु तद् व्याहृतं विद्वन्नात्ममायायनं हरेः ।
आभात्यपार्थं निर्मूलं विश्वमूलं न यद् बहिः ॥ १६ ॥

यश्च मूढतमो लोके यश्च बुद्धेः परं गतः ।
तावुभौ सुखमेधेते क्लिश्यत्यन्तरितो जनः ॥ १७ ॥

अर्थाभावं विनिश्चित्य प्रतीतस्याप्यनात्मनः ।
तां चापि युष्मच्चरणसेवयाऽहं पराणुदे ॥ १८ ॥

स्वरूपसामर्थ्याश्रयम् । यद् व्याहृतम् । अपार्थं निर्मूलं च देहसम्बन्धि-त्वाद्याभाति । विश्वमूलं ब्रह्म च यन्ममज्ञानाद् बहिः न भवति । तस्मा-दुभयत्र धावति । तस्मादन्तरितोऽस्मि । तथापि तां प्रतीतिं पराणुदे

॥ १५-१८ ॥

दुरापा ह्यल्पतपसः सेवा वैकुण्ठवर्त्मसु ।
यत्रोपगीयते नित्यं देवदेवो जनार्दनः ॥ २० ॥

‘आत्मनस्तु गुणाभावं वदतो नत्वसत्यता ।
अपृष्टस्य दमार्थं च गुणायैव भवत्यपि’’॥ इति व्यासस्मृतेः ।
विद्यमानमप्यनुभवमन्यथा वदति विदुरः ।
‘द्रोणद्रौणिकृपाः पार्था भीष्मो विदुरसञ्जयौ ।
ये चान्ये तत्र देवांशाः सम्यक्तत्त्वापरोक्षिणः’’॥

इति स्कान्दे ॥ २० ॥

सृष्ट्वाऽग्रे महदादीनि सविकाराण्यनुक्रमात् ।
तेभ्यो विराजमुद्धृत्य तमनु प्राविशद् विभुः ॥ २१ ॥

यमाहुराद्यं पुरुषं सहस्राङ्घ्र्यूरुबाहुकम् ।
यत्र विश्व इमे लोकाः सविकाराः समासते ॥ २२ ॥

यस्मिन् दशविधः प्राणः सेन्द्रियार्थेन्द्रियस्त्रिवृत् ।
त्वयेरिता यतो वर्णास्तद्विभूतीर्वदस्व नः ॥ २३ ॥

यत्र पुत्रैश्च पौत्रैश्च नप्तृभिः सह गोत्रजैः ।
प्रजा विचित्राकृतय आसन् याभिरिदं ततम् ॥ २४ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये तृतीयस्कन्धे अष्टमोऽध्यायः ॥

विराजं ब्रह्माणम् ।
‘ब्रह्माणं प्राविशद्विष्णुः सहस्राक्षः सहस्रपात्’’॥ इति ब्राह्मे ॥

‘अनुप्रविश्य ब्रह्माणं प्राणं दशविधं तथा ।
इन्द्रियाणीन्द्रियार्थांश्च वर्णांश्चैवासृजद्धरिः ॥ इति गारुडे ॥२१-२४॥

वर्णाश्रमविभागांश्च रूपशीलस्वभावतः ।
ऋषीणां जन्मकर्माणि वेदस्य च विकर्षणम् ।
यज्ञस्य च वितानानि योगस्य च पथः प्रभो ॥ २९ ॥

विकर्षणं विभागः ॥ २९ ॥

नवमोऽध्यायः

स्वमेव धिष्ण्यं बहुमानयन्तं

यं वासुदेवाभिधमामनन्ति ।
प्रत्यक्धृताक्षाम्बुजकोशमीषद्

उन्मीलयन्तं विबुधोदयाय ॥ ४ ॥

‘आधार आश्रयो धिष्ण्यं निधानं चाभिधीयते’’॥ इत्यभिधानम् ॥ ४ ॥

स पद्मकोशः सहसोदतिष्ठत्

कालेन कर्मप्रतिबोधितेन ।
स्वरोचिषा तत् सलिलं विशालं

विद्योतयन्नर्क इवात्मयोनिः ॥ १४ ॥

आत्मा विष्णुरस्य योनिः ॥ १४ ॥

तल्लोकपद्मं स उ एव विष्णुः

प्रावीविशत् सर्वगुणावभासम् ।
तस्मिन् स्वयं वेदमयो विधाता

स्वयंभुवं यं स्म वदन्ति सोऽभूत् ॥ १५ ॥

‘पद्मसंस्थाद्धरेस्तत्र ब्रह्माऽजनि चतुर्मुखः’’॥ इति च ।
सर्वगुणावभासं पृथिव्यात्मकम् । पृथिव्यां हि सर्वे शब्दादयो गुणा अवभासन्ते ।
‘तस्यासनविधानार्थं पृथिवी पद्ममुच्यते’’॥ इति मोक्षधर्मे ।
‘प्रधानवाचकस्त्वेकश्चानन्यः केवलः स्वयम्’’॥ इति ब्राह्मे ॥ १५ ॥

क एष योऽसावहमब्जपृष्ठ

एतत् कुतो वाऽब्जमनन्यदप्सु ।
अस्ति ह्यधस्तादिह किञ्चनैतद्

अधिष्ठितं यत्र सताऽनुभाव्यम् ॥ १८ ॥

सता ब्रह्मणा ।
‘स ब्रह्माऽचिन्तयत् कुतो नु पद्मं ब्रह्मणः स्यादिति’’।
इति मैत्रायणश्रुतिः ॥ १८ ॥

पुंसां स्वकामाय विविक्तमार्गै-

रभ्यर्चतां कामदुघाङ्घ्रिपद्मम् ।
प्रदर्शयन्तं कृपया नखेन्दु-

मयूखभिन्नाङ्गुलिचारुपत्रम् ॥ २६ ॥

भिन्नमन्येभ्यो विलक्षणम् ॥ २६ ॥

परार्घ्यकेयूरमणिप्रवेक-

पर्यस्तदोर्दण्डसहस्रशाखम् ।
अव्यक्तमूलं भुवनाङ्घ्रिपेन्द्रम्

अहीन्द्रभोगैरधिवीतवल्कम् ॥२९ ॥

‘तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तम’‘इति मोक्षधर्मे ॥ २९ ॥

निवीतमाम्नायमधुव्रताश्रयस्वकीर्तिमय्या वनमालया हरिम् ।
सूर्येन्दुवाय्वग्न्यगमत्त्रिधामभिः परिक्रमत्प्राधनिकैर्दुरासदम् ॥ ३१ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये तृतीयस्कन्धे नवमोऽध्यायः ॥

सूर्येन्दुवाय्वग्न्यादिभिस्त्रिधाम्नो विष्णोरगच्छद्भिः प्राधनिकैः ।
‘मुक्तवाय्वादिभिर्विष्णुं वृतं ब्रह्मा ददर्श ह ।
तदन्याभावतो नान्यदतस्तत्स्रष्टुमैच्छत ॥‘‘इति ब्रह्माण्डे ॥ ३१ ॥

दशमोऽध्यायः

ब्रह्मोवाच–

ज्ञातोऽसि मेऽद्य सुचिरान्ननु देहभाजां

न ज्ञायते भगवतो गतिरित्यवद्यम् ।
नान्यत् त्वदस्ति भगवन्नपि तत्त्वशुद्धं

मायागुणव्यतिकराद् यदुरुर्विभासि ॥ १ ॥

स्वतो नास्ति । तदधीनविद्यमानमप्यशुद्धम् । यच्च स्वनानात्वं तदपि स्थानभेदादसदेव भाति ।
‘एकोऽपि स्थाननानात्वान्नानेव हरिरीयते ।
सर्वान्तर्यामिणस्तस्य न भेदो विद्यते क्वचित्’’॥ इति ब्रह्मवैवर्ते ॥१॥

रूपं यदेतदवबोध रसोदयेन शश्वन्निवृत्ततमसः सदनुग्रहाय । आदौ गृहीतमवतारशतैकबीजं यन्नाभिपद्मभवनादहमाविरासम् ॥ २ ॥

नातः परं परम यद् भवतः स्वरूप

मानन्दमात्रमविकारमविद्धवर्चः ।
पश्यामि विश्वसृजमेकमविश्वमाद्यं

भूतेन्द्रियात्मकमदस्त उपाश्रितोऽस्मि ॥ ३ ॥

यन्नाभिपद्मभवनादहमाविरासम् । यच्चेदं भगवत्स्वरूपमानन्दमात्रं पश्यामि । यच्चाश्रितोऽस्मि अतः परं नास्ति । अतो न ज्ञायत इति अवद्यमत्युत्तमा-पेक्षया । अनादिगृहीतमेव नेदानीं गृह्यते ।
‘यत्तद्दिव्यं हरेरूपं क्षीरसागरमध्यगम् ।
ज्ञानानन्दैकमात्रं च न ततः परमं क्वचित् ॥

अनादिनित्यादव्यक्तात्तस्माज्जज्ञे चतुर्मुखः’’॥ इत्यध्यात्मे ।
भूतेन्द्रियाणामात्मकम् । ‘यच्चाप्नोति’‘इत्यादेः ॥ २,३ ॥

ये तु त्वदीयचरणाम्बुजकोशगन्धं

जिघ्रन्ति कर्णविवरैः श्रुतिवातनीतम् ।
भक्त्या गृहीतचरणः परया च तेषां

नापैषि नाथ हृदयाम्बुरुहात् स्वपुंसाम् ॥ ५ ॥

‘हृदि व्यक्तं तु यद्रूपं हरेर्गन्धः स उच्यते ।
गन्धगन्धवतोर्यस्मान्न भेदः क्वचनेष्यते’’॥ इति ब्रह्मतर्के ॥

‘उत्तमानां तु पादेन सर्वं रूपं तु भण्यते ।
उत्तमानां स्वरूपं तु पादशब्देन भण्यते ॥ ५ ॥

यावत् पृथक्त्वमिदमात्मन इन्द्रियार्थं

मायाबलं भगवतो जन ईश पश्येत् ।
तावच्च संसृतिरसौ प्रतिसङ्क्रमेत

व्यर्थापि दुःखनिवहं वहती क्रियार्था ॥ ९ ॥

मायाबलं भगवदिच्छाबलम् ।
‘ज्ञेयत्वं दुर्घटस्यापि घटनाधिकशक्तिता ।
अभेद ईश्वरेणापि सृष्ट्यादावन्तरङ्गता ॥

उच्येत यस्याः सा माया हरेरिच्छाऽथवा बलम् ।
भगवत्तन्त्रता यस्यास्तद्भार्यात्वं सुरूपता ॥

उच्येत माया सा तु श्रीर्दोषयुक्ता जडा स्मृता ।
परिणामिनी च यस्यास्तु दोषाश्चेतनता यथा ॥

शैवली नाम सा माया जगद्बन्धात्मिका सदा’’॥ इति ब्रह्मतर्के ।
‘ध्याये मंस्ये तथा पश्ये शृृणोमीति विभक्तता ।
जीवस्य तु हरेरिच्छाबलादिन्द्रियभुक्तये’’॥ इति षाड्गुण्ये ।
इन्द्रियाणां भोगार्थम् । व्यर्थापि यज्ञादिक्रियार्था ॥ ९ ॥

अध्याहृतार्थकरणा निशि निःशयाना

नानामनोरथधियः क्षणभङ्गनिद्राः ।
दैवाद्धतार्थरचना ऋषयोऽपि देव

युष्मत्प्रसङ्गविमुखा इह संसरन्ति ॥ १० ॥

अर्थैरध्याहृतानि करणानि येषाम् ।
‘अज्ञानं तु निशा प्रोक्ता दिवा ज्ञानमुदीर्यते’’॥ इति स्कान्दे ॥ १० ॥

त्वद्भावयोगपरिभावितहृत्सरोजा

ये सच्छ्रुतेक्षितपथा ननु नाथ पुंसाम् ।
यद् यद् धिया त उरुगाय विभावयन्ति

तत् तद् वपुः प्रणयसे तदनुग्रहाय ॥ ११ ॥

तत् तद् वपुः तेषां प्रणयसे ।
‘यादृशोभावितस्त्वीशस्तादृशो जीव आभवेत्’’। इति तन्त्रसारे ।
‘तं यथा यथोपासते तदेव भवति ।‘‘इति च ॥ ११ ॥

नातिप्रसीदसि तथोपचितोपचारै

राराधितः सुरगणैर्हृदि बद्धकामैः ।
यः सर्वभूतदययाऽसदलभ्ययैको

नानाजनेष्ववहितः सुहृदन्तरात्मा ॥ १२ ॥

सर्वभूतदयया सुरगणैर्हृद्याराधितस्त्वं बद्धकामैर्जनैरुपचितोपचारैर्नाति-प्रसीदसि ।
‘आराधितो यो ब्रह्माद्यैर्भक्तिज्ञानदयादिभिः ।
किं तस्य कामुकजनैः कृतया परिचर्यया’’। इति सत्यसंहितायाम् ॥ १२ ॥

शश्वत् स्वरूपमहसैव निपीतभेद

मोहाय बोधधिषणाय नमः परस्मै ।
विश्वोदयस्थितिलयेषु निमित्तलीलाऽऽ-

रामाय ते नम इदं चकृमेश्वराय ॥ १४ ॥

‘ईशस्यापूर्णताज्ञानं विष्णोरन्यस्य चेशता ।
भेदस्तस्यावतारेषु जीवस्येशत्वमेव च ।
तथा जीवत्वमीशस्य जडाभेदस्तयोरपि ।
भेदमोह इति प्रोक्तः स सदा न हरौ क्वचित् ।
अन्येषां तत्प्रसादेन शनैर्याति सतामपि’’॥ इति स्कान्दे ॥ १४ ॥

यस्यावतारगुणकर्मविडम्बनानि

नामानि येऽसुविगमे विवशा गृणन्ति ।
ते नैकजन्मशमलं सहसैव हित्वा

संयान्त्यपावृतमृतं तमजं प्रपद्ये ॥ १५ ॥

भक्तिविवशाः ।
‘ये भक्तिविवशा विष्णोर्नाममात्रैकजल्पकाः ।
तेऽपि मुक्तिं व्रजन्त्याशु किमुत द्ध्यायिनः सदा’’॥ इति व्योमसंहितायाम् ॥ १५ ॥

यो वा अहं च गिरिशश्च विभुः स्वयं च

स्थित्युद्भवप्रलयहेतव आत्ममूलाः ।
भूत्वा त्रिपाद् ववृध एक उरुप्ररोह-

स्तस्मै नमो भगवते भुवनद्रुमाय ॥ १६ ॥

‘ब्रह्मादिभावो विष्णोस्तु तन्नियामकता भवेत् ।
मत्स्यादिता स्वभावस्तु नान्यथा क्वचिदिष्यते’’॥

इति वामने ।
‘अनन्तासनवैकुण्ठक्षीराब्धिस्थो हरिस्त्रिपात्’’। इति च ॥ १६ ॥

लोको विकर्मनिरतः कुशले प्रमत्तः

कर्मण्ययं त्वदुदिते भवदर्चने स्वे ।
यस्तावदस्य बलवानिह जीविताशां

सद्यश्छिनत्त्यनिमिषाय नमोऽस्तु तस्मै ॥ १७ ॥

‘नित्यज्ञानदृशा नित्यं लवकालमपीश्वरः ।
पश्येत्तात्कालिकं चैव तस्मादनिमिषो हरिः ।
कालस्यानिमिषत्वं च लवादेर्नित्यवीक्षणात्’’॥ इति तन्त्रसारे ॥१७॥

तिर्यङ्मनुष्यविबुधादिषु जीवयोनि-

ष्वात्मेच्छयाऽऽत्मकृतसेतुपरीप्सया यः ।
रेमेऽनिरस्तरतिरप्युपलब्धकाष्ठ-

स्तस्मै नमो भगवते पुरुषोत्तमाय ॥ १९ ॥

अनिरस्तरतिः नित्यरतिः ॥ १९ ॥

एष प्रपन्नवरदो रमयाऽऽत्मशक्त्या

यद् यत् करिष्यति गृहीतगुणावतारः ।
तस्मिन् स्वविक्रम इदं सृजतोऽपि चेतो

युञ्जीत कर्मशमलं च यथा विजह्याम् ॥ २३ ॥

‘स्वसामर्थ्यात् स्वकर्माणि रमया सह केशवः ।
कुरुते स्वयमेवैष कानिचित्पुरुषोत्तमः’’॥ इति नारदीये ॥ २३ ॥

लोकसंस्थानविज्ञान आत्मनः परिखिद्यतः ।
तमाहागाधया वाचा कश्मलं शमयन्निव ॥ २८ ॥

‘आत्मशब्दस्य मुख्यार्थो विष्णुरेकः सनातनः ।
सन्देहदेहमनसो बुद्धिजीवाः स्वयं तथा ।
ब्रह्माप्यमुख्याः क्रमश उत्कर्षो ह्यात्मता भवेत्’’।
इति प्रकाशसंहितायाम् ॥ २८ ॥

श्री भगवानुवाच–

मा वेदगर्भ गास्तन्द्रीं सर्ग उद्यममावह ।
तन्मया चोदितं ह्यग्रे यन्मां प्रार्थयते भवान् ॥ २९ ॥

प्रार्थनमपि मत्प््रोरणमेव ॥ २९ ॥

भूयश्च तप आतिष्ठ विद्यां चैव मदाश्रयाम् ।
ताभ्यामन्तर्हृदि ब्रह्मन् लोकान् द्रक्ष्यस्यपावृतान् ॥ ३० ॥

‘तप आलोचनं प्रोक्तं विद्या निष्ठा प्रकीर्तिता’’।
इति कपिलसंहितायाम् ॥ ३० ॥

तत आत्मनि योगेन भक्तियुक्तः समाहितः ।
द्रष्टासि मां ततं ब्रह्मन् मयि लोकांस्त्वमात्मनि ॥ ३१ ॥

‘देहे देहे हरिस्तस्मिंल्लोकाः सर्वे प्रतिष्ठिताः ।
अङ्गुष्ठमात्रेऽपि परे परशक्तिर्यतो विभुः’’॥ इति च ।
आत्मनि स्थिते मयि ॥ ३१ ॥

यदा रहितमात्मानं भूतेन्द्रियगुणाशयैः ।
स्वरूपेण मयोपेतं पश्यन् स्वाराज्यमृच्छति ॥ ३३ ॥

स्वरूपेण मयोपेतं, हृदिस्थं जीवरूपं हि परमेश्वरसहितं भवति ।
‘त्यक्त्वा देहाद्यात्मभावं जीवरूपे हृदि स्थिते ।
दृष्ट्वाऽऽत्मभावं तं चापि हरिपादाब्जसंस्थितम् ॥

यदा पश्यत्यापरोक्ष्यात्तदा मुक्तिं व्रजत्यसौ’’॥ इति दत्तात्रेययोगे ॥ ३३ ॥

ज्ञातोऽहं भवता त्वद्य दुर्विज्ञेयोऽपि देहिनाम् ।
यन्मां त्वं मन्यसे युक्तं भूतेन्द्रियगुणात्मभिः ॥ ३६ ॥

‘भूतेन्द्रियमनोबुद्धित्रिगुणादिषु सर्वशः ।
युक्तं नियामकतया पश्यञ्जानाति केशवम्’’। इति च ॥ ३६ ॥

प्रीतोऽहमस्तु भद्रं ते लोकानां विजयेच्छया ।
यदस्तौषीद् गुणमयं निर्गुणं माऽनुवर्णयन् ॥ ३९ ॥

‘सार्वज्ञादिगुणैर्युक्तं सत्वादिगुणवर्जितम् ।
यो जानाति हरिं तस्य प्रीतो भवति केशवः’’॥ इति व्योमसंहितायाम् ।
‘आधिकारिकदेवानां स्वाधिकाराधिकामनम् ।
भवति प्रीतये विष्णोर्भक्त्यादेरपि यत्सदा’’॥ इति च ॥ ३९ ॥

पूर्तेन तपसा यज्ञैर्दानैर्योगैः समाधिना ।
राज्यं निःश्रेयसं पुंसां मत्प्रीतिस्तत्त्वविन्मतम् ॥ ४१ ॥

निःश्रयेसं राज्यम् । मोक्षेऽपि रञ्जनीया मत्प्रीतिरेव ।
‘मुक्तस्यापि हरेः प्रीतिः सर्वतोऽप्यनुरज्यते’’॥ इति वामने ॥ ४१ ॥

अहमात्मात्मनां धातः प््रोष्ठः सन् प््रोयसामपि ।
अतो मयि रतिं कुर्याद् देहादिर्यत्कृते प््रिायः ॥ ४२ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये तृतीयस्कन्धे दशमोऽध्यायः ॥

‘सर्वतोऽपि प््रिायो ह्यात्मा तस्यापि प््रिायतां हरिः ।
आपादयति यत्तस्मात्स्वात्मनोऽपि प््रिायो हरिः’’॥

इति ब्रह्मवैवर्ते ॥ ४२ ॥

एकादशोऽध्यायः

मैत्रेय उवाच–

विरिञ्चोऽपि तथा चक्रे दिव्यं वर्षशतं तपः ।
आत्मन्यात्मानमावेश्य यथाऽऽह भगवानजः ॥ ४ ॥

आत्मनि परमेश्वरे मन आवेश्य ॥ ४ ॥

एतावान् जीवलोकस्य संस्थाभेदः समासतः ।
धर्मस्य ह्यनिमित्तस्य विपाकः परमेष्ठिनः ॥ ९ ॥

अनिमित्तस्य ब्रह्मार्पणबुद्ध्या कृतस्य । ‘अः इति ब्रह्म’‘इति श्रुतेः ॥ ९ ॥

विदुर उवाच–

यदात्थ बहुरूपस्य हरेरद्भुतकर्मणः ।
कालाख्यं लक्षणं ब्रह्मन् यथा वर्णय नः प्रभो ॥ १० ॥

‘लक्षणं लक्ष्यमात्मा च स्वरूपमिति कथ्यते’’। इत्यभिधानम् ॥१०॥

मैत्रेय उवाच–

गुणव्यतिकराकारो निर्विशेषोऽप्रतिष्ठितः ।
पुरुषस्तदुपादानमात्मानं लीलयाऽसृजत् ॥ ११ ॥

गुणव्यतिकरमाकरोति तद्द्रष्टा । अप्रतिष्ठितोऽन्यत्र ।
‘स भगवः कस्मिन्प्रतिष्ठित इति स्वे महिमि्न’’। इति श्रुतिः ।
तदुपादानम् । गुणव्यतिकरोपादानकर्तारम् । सृष्ट्याद्यर्थत्वेन तस्य पुरुषस्य । ब्रह्मविष्णुमहेश्वर इति त्रीणि रूपाण्यात्मना सृष्टानि ॥ ११ ॥

विश्वं वै ब्रह्मतन्मात्रं संस्थितं विष्णुमायया ।
ईश्वरेण परिच्छिन्नं कालेनाव्यक्तमूर्तिना ॥ १२ ॥

ब्रह्म निर्मातृकम् । मायया सामर्थ्येन । तत्र यत्संहर्त्रीश्वराख्यं रूपं तत्कालाख्यम् । कल च्छेदन इति धातोः ।
‘अथ त्रयी वाव प्रकृतिः सत्वं रजस्तम इति तां नारायणः पर्यपश्य-दनन्यप्रतिष्ठः तं वा एतमाहुः पुरुष इति पूर्णो ह्येष भवति स त्रेधा बभूवैषां गुणानामुपादानाय विष्णुर्वाव सत्वस्य रजसो ब्रह्मेशानो नाम तमसः स आविवेश । ब्रह्मा ब्रह्माणं नाम चतुर्मुखं ईश ईशानं नाम पञ्चमुखं यो वा ईश ईशानमाविवेश तं वा एनं काल इत्याचक्षते काल इत्याचक्षते’‘इति सौकरायणश्रुतिः ॥ १२ ॥

यथेदानीं तथा चाऽग्रे पश्चादप्येतदीदृशम् ।
सर्गो नवविधस्तस्य प्राकृतो वैकृतश्च यः ॥ १३ ॥

सृष्टिश्च प्रलयश्चैव संसारो मुक्तिरेव च ।
देवऋषिप्रभृतयो लोका भूरादयस्तथा ॥

अनाद्यनन्तकालीनाः सर्वदैकप्रकारतः ।
जगत्प्रवाहः सत्योऽयं नैव मिथ्या कथञ्चन ॥

ये त्वेतदन्यथा ब्रूयुः सर्वहन्तार एव ते ।
देवैर्ब्रह्मादिभिः शप्ता ऋषिभिर्मानुषादिभिः ॥

सेतिहासैस्तथा वेदैः सर्वे यान्त्यधरं तमः ।
सर्वब्रह्मत्ववेत्तारो जीवब्रह्मत्ववेदिनः ॥

अन्यसाम्यविदो विष्णोर्विष्णुद्वेष्टार एव च ।
सर्वे यान्ति तमो घोरं न चैषामुत्थितिः क्वचित्’’॥

इति स्कान्दे ॥ १३ ॥

कालद्रव्यगुणैरस्य त्रिविधः प्रतिसङ्क्रमः ।
आद्यस्तु महतः सर्गो गुणवैषम्यमात्मनः ।
द्वितीयस्त्वहमस्तत्र द्रव्यज्ञानक्रियादयः ॥ १४ ॥

‘तामसस्य पदार्थस्य सत्वं हि लयकारणम् ।
सात्विकस्य तमश्चैव तयोरपि रजः क्वचित् ॥

गुणतोऽयं लयः प्रोक्तो द्रव्यतस्तु विरोधिना ।
कालतः कालसङ्ख्याजो लयः सर्वस्य वस्तुनः’’॥ इति ब्रह्मतर्के ।
‘तमसो रजस्तु द्विगुणं रजसः सत्वमेव च ।
परिमाणत एवं स्युस्त्रयः प्रकृतिजा गुणाः ॥

तत्र सत्वं केवलं स्याद्रजस्यपि शताधिकम् ।
सत्वं रजःशतांशं तु तमस्तत्र प्रकीर्तितम् ॥

तमस्यपि तथा सत्वं तमसस्तु दशोत्तरम् ।
तद्दशांशेन तु रजो मूलजं यद्रजस्तु तत् ॥

विलये दशांशतः सत्व एकांशेन तमस्यपि ।
मिश्रितं भवति ह्येतां साम्यावस्थां विदुर्बुधाः ॥

यदा तु तद्रजः सर्वं तमसा सह सङ्गतम् ।
तदा त्वाहुर्महत्तत्त्वं तच्चतुर्भागसम्भवम् ॥

तत्र त्रिभागो रजस एकोंऽशस्तमसस्तथा ।
तदाहुर्ब्रह्मणो रूपं गुणवैषम्यनामकम् ॥

तदेव केवलं सत्वमितरापेक्षया भवेत् ।
श्रीर्मूलसत्वं विज्ञेया भूर्मूलं रज उच्यते ॥

मूलं तमस्तथा दुर्गा महालक्ष्मीस्त्रिमूलिका ।
गुणेभ्यो गुणमूलाच्च योऽतीतः स जनार्दनः ॥

यद्रजो मूलरजसि मूले तमसि यद्रजः ।
तमश्च मूले तमसि महत्तत्त्वं तदात्मकम् ॥

दशांशास्तत्र सत्वं स्युरेकांशो रज एव तु ।
तद्दशांशं तमो ज्ञेयम् अहङ्कारस्तदात्मकः ॥

स रुद्रस्तामसो ज्ञेयो विरिञ्चापेक्षयैव तु ।
इतरापेक्षया सत्वं सत्वाद्यास्तद्वदस्य च ।
तत्तमोंऽशात्सात्विकांशो मन आद्याः प्रकीर्तिताः ।
रजसोंशस्त्विन्द्रियाणि तमसोंऽशश्च खादयः’’॥

इत्यादि तत्त्वविवेके ॥ १४ ॥

भूतसर्गस्तृतीयस्तु तन्मात्रद्रव्यशक्तिमान् ।
चतुर्थ ऐन्द्रियः सर्गो यस्तु ज्ञानक्रियात्मकः ।
वैकारिको देवसर्गः पञ्चमो यन्मयं मनः ॥ १५ ॥

भूतानि द्रव्यशक्तीनि भूतेषु द्रवणं यतः ।
तथा तन्मात्रशक्तीनि शब्दाद्यात्मकता यतः ॥

क्रियाशक्तीनि वागाद्यानीन्द्रियाणीतराणि तु ।
ज्ञानशक्तीनि मनसा देवाश्च ज्ञानशक्तयः ॥

एतेषां मूलभूतत्वादहङ्कारस्त्रिशक्तिमान् ।
मानुषापेक्षया देवाः सात्विकाः परिकीर्तिताः ॥

तत्रापि सात्विकाः प्रोक्तास्तात्विका यास्तु देवताः ।
तत्रापि सात्विको रुद्रस्तत्रापि तु चतुर्मुखः ॥

अविकारौ ब्रह्मरुद्रौ देहभेदादिसम्भवे ।
विकारवन्त इन्द्राद्यास्तस्माद्वैकारिका मताः ॥

त एवेन्द्रियरूपेण यतस्त्वतिविकारिणः ।
ज्ञानमात्रगुणोद्रिक्तास्तस्मात्तैजसनामकाः ॥

अविकारित्वयोग्यत्वं निवृत्तं हीन्द्रियेषु तु ।
वैकारिकत्वनामापि ततस्तेषां न विद्यते ॥

यथा विप्रकुले मूर्खो मूर्ख इत्यभिधीयते ।
विद्यायोग्यत्वतः शूद्रो न मूर्खो मूर्ख एव सन् ॥

तामसानि हि भूतानि किञ्चिद्व्यवहितत्वतः ।
ज्ञानस्य सुष्ठुज्ञत्वेऽपि पूर्णज्ञानो हरिः स्वयम्’’॥ इति च ॥ १५ ॥

षष्ठस्तु तमसः सर्गो यस्त्वबुद्धिकृतः प्रभोः ।
षडिमे प्राकृताः सर्गा वैकृतानपि मे शृृणु ॥ १७ ॥

अबुद्धिपूर्वमिव तु ब्रह्मणो हरिबुद्धितः ।
अविद्या पञ्चपर्वैषा प्रादुर्भूता महात्मनः ॥

तामसानां तु भूतानां सहस्रं सत्वभागिनाम् ।
शतांशरजसामेकतमसां सर्ववेदिनाम् ॥

केवलस्तमसो योंऽशः साऽविद्या पञ्चपर्विका ।
जाताऽतिकृष्णा तद्देहात् दैत्यरक्षःपिशाचकाः ॥

यद्रजो भौतिकं तेन मानुषाणां सदा जनिः ।
तमोगूढेन रजसा त्वितरस्थास्नुचारिणाम् ॥

भौतिकेन तु सत्वेन गूढं ब्रह्मण आण्डजम् ।
रूपं तत्रापि तु तमः शतांशेन प्रकीर्तितम् ॥

तज्जो रुद्रस्ततस्त्वेवमिन्द्रादीनां पुनर्जनिः ।
गूहितं भूतरजसा तत्सत्वं मानुषा यदा ॥

देवा एवं गुणास्त्वेते सर्वं व्याप्य व्यवस्थिताः ।
गुणातीतं च यद्रूपं ब्रह्मादीनां सुखात्मकम् ॥

चिद्रूपं तच्च सत्वस्यैवोत्कर्षो यत्र विद्यते ।
तच्चोत्कृष्टं तमो यत्र हीनं तत्र स्वभावतः ॥

उपगूहने तु नैवास्ति विशेषो नित्यचिन्मये ।
प्रकृतेर्गुणरूपाया मूलिकायाश्च न क्वचित् ।
विशेषः परमे तत्त्वे वासुदेवे कुतः पुनः’’॥ इति च ॥

अव्यक्ताद्याः पृथिव्यन्ताः सर्वाः प्रकृतयः स्मृताः ।
तदुपादानकः सर्गः प्राकृतः परिपठ्यते ॥

अण्डं तु विकृतं ज्ञेयं तज्जो वैकृत उच्यते ।
पञ्चपर्वा त्वविद्या तु भूतेभ्यो हरिणा पुरा ॥

उद्धृत्य ब्रह्मणि क्षिप्ता सा पुनस्तेन निःसृता ।
तत्स्रष्टृत्वज्ञापनाय तस्मात्सा प्राकृता मता’’॥ इति च ॥ १७ ॥

रजोभाजो भगवतो लीलेयं हरिमेधसः ।
सप्तमो मुख्यसर्गस्तु षड्विधस्तस्थुषां च यः ॥ १८ ॥

एते गुणा हरेः सम्यक्स्वातन्त्र्यविषयाः सदा ।
स्वतन्त्राः प्रकृतेश्चापि ब्रह्मणोऽन्येषु तु क्रमात् ।
देवेष्वेव तदन्येषु परतन्त्रा हि ते मताः’’॥ इति च ॥ १८ ॥

वनस्पत्योषधिलता त्वक्सारा वीरुधो द्रुमाः ।
उत्स्रोतसस्तमःप्राया अन्तःस्पर्शा विशोषिणः ॥ १९ ॥

स्थास्नुभिर्नियमान्मुख्या स्थितेर्गतिरवाप्यते ।
प्रायः परोपकर्तृत्वात्ते मुख्यस्त्रोतसः स्मृताः ॥

नाधो नोर्ध्वं तिरश्चां तु पुनस्तत्रैव यज्जनिः ॥

यज्ञोपयोगं च सतामुपकारं विनाऽपि च ॥

तिर्यक्स्रोतस इत्येव प्रोच्यन्ते ज्ञानिभिस्ततः ।
प्रायोऽधोगमनं यस्मात्प्रयत्नेन विना भवेत् ॥

अर्वाक् स्रोतस इत्येव मानुषाः परिकीर्तिताः ।
नियमादूर्ध्वगन्तारो देवा मोक्षैकभागिनः ।
ऊर्ध्वस्रोतस इत्येव तस्मात्ते परिकीर्तिताः’’॥ इति ब्राह्मे ।
तिरश्चां स्थावराणां च बुद्धिपूर्वप्रवर्तिनाम् ।
असुराणां रक्षसां च पिशाचानां तथैव च ।
अर्वाक्स्रोतस्त्वमुद्दिष्टं नियमादसुरादिनाम्’’॥ इति च ।
मुख्यस्रोतस इत्यस्यार्थ उत्स्रोतस इति ।
‘ऊर्ध्व इत्येव यैस्तूच्चतम एवाभिधीयते ।
ऊर्ध्वस्रोतस एतस्माद्देवा एव न तत्परे ।
उच्छब्द उच्चमात्रेऽपि तस्मात्स्थास्नुषु भण्यते’’॥ इति च ।
‘तिरश्चीनाः स्थावराश्च अन्तःस्पर्शा इतीरिताः ।
यत्प्रत्यक्षानुमानाभ्यां हृद्गज्ञानं न शास्त्रतः’’॥ इति पाद्मे ।
यदप्रयत्नाद्धृदयङ्गमं तदेव जानन्ति नो शास्त्रयुक्तिभ्यामित्यर्थः ॥ १९ ॥

तिरश्चामष्टमः सर्गः सोऽष्टाविंशद्विधो मतः ।
अविदो भूरितमसो घ्राणज्ञा हृद्यवेदिनः ॥ २० ॥

गौरजो महिषः कृष्णः सूकरो गवयो रुरुः ।
द्विशफाः पशवश्चेमे अविरुष्ट्रश्च सत्तम ॥ २१ ॥

खरोऽश्वोऽश्वतरो गौरः शरभश्चमरी तथा ।
एते चैकशफाः क्षत्तः शृृणु पञ्चनखान् पशून् ॥ २२ ॥

श्वा सृगालो वृको व्याघ्रो मार्जारः शशशल्यकौ ।
सिंहः कपिर्गजः कूर्मो गोधा च मकरादयः ॥ २३ ॥

कङ्कगृध्रबश्येना भासवल्लूरबर्हिणः ।
हंससारसचक्राह्वकाकोलूकादयः खगाः ॥ २४ ॥

अष्टाविंशद्विशेषेण यज्ञेषूपकृतं यतः ।
तिरश्चां तावदेतस्मात् गण्यते शास्त्रवेदिभिः ॥

गौरजो महिषः कृष्णः सूकरो गवयो रुरुः ।
अव्युष्ट्रौ च खराश्वौ च तथैवाश्वतरोऽपरः ॥

गौरश्च शरभश्चैव चमरी श्वसृगालकौ ।
वृको व्याघ्रश्च मार्जारो हरिश्च शशशल्यकौ ॥

कपिर्गजश्च गोधाद्या जलजाः पक्षिणस्तथा’’॥ इति ब्रह्माण्डे ।
कूर्मो जलजत्वेनाष्टाविंशत्स्वन्तर्भूतोऽपि पञ्चनखत्वप्रदर्शनार्थं पृथगुक्तः ।
‘तत्तदाकारसंयुक्तान्सृज्यान्स्रष्टारमेव च ।
यः सदा संस्मरेद्योगी न स भूतोऽभिजायते’’॥

इति स्कान्दवचनात्प्रसिद्धानामपि द्विशफादीनां स्मरणविधानार्थमुक्तिः ।
‘उच्यते सुप्रसिद्धं च स्मरणार्थं च कुत्रचित् ।
अप्रसिद्धज्ञापनार्थं द्विधा शास्त्रवचः स्मृतम्’’॥ इति षाड्गुण्ये ।
‘वल्लूरो नृत्तपक्षी च स ललूकश्च कथ्यते’’। इत्यभिधाने ।
‘अष्टाविंशत्प्रधानास्तु तिरश्चां यास्तु जातयः ।
यो यस्य सदृशस्त्वन्यः स तत्रान्तर्गतो भवेत् ॥

जलजान्तर्गताः सर्पाः कीटाद्या याश्च जातयः ।
तेषां जलप्रधानत्वाच्छरीरस्य तु सर्वशः’’॥

इति सत्यसंहितायाम् ॥ २०-२४ ॥

अर्वाक्स्रोतस्तु नवमः क्षत्तरेकविधो नृणाम् ।
रजोऽधिकाः कर्मपरा दुःखे च सुखमानिनः ॥ २५ ॥

‘रजोनिष्ठास्तमोनिष्ठा द्वेधाऽर्वाक्स्रोतसः स्मृताः ।
असुराद्यास्तमोनिष्ठा मानुषास्तु रजोऽधिकाः’’॥ इति व्योमसंहितायाम् ।
दुःखे च सुखमानिनोऽसुराः ।
‘सर्वार्थान्विपरीतांश्च बुद्धिः सा पार्थ तामसि’’। इति वचनात् ॥

‘सुखे सुखैकभावास्तु देवा नैवं तु दानवाः’’। इति षाड्गुण्ये ॥२५॥

वैकृतास्त्रय एवैते देवसर्गश्च सत्तम ।
वैकारिकस्तु यः प्रोक्तः कौमारस्तूभयात्मकः ॥ २६ ॥

‘कुमारन्तीति कौमारो देवानामण्डजोद्भवः ।
वैकारिकाणां जननात्प्राकृतो वैकृतश्च सः ।
वैकारिकेष्वेवान्येषामीषद्भोगित्वहेतुतः ।
उभयात्मकत्वं तेनैव प्रोच्यन्तेऽष्टगणा अपि’’॥ इति ।
देवसर्गश्चेति चकारार्थ उभयात्मक इति वैकारिकस्तु देवसर्गः प्राकृतत्वे-नोक्तः ॥ २६ ॥

देवसर्गश्चाष्टविधो विबुधाः पितरोऽसुराः ।
गन्धर्वाप्सरसः सिद्धा यक्षरक्षांसि चारणाः ॥ २७ ॥

भूतप््रोतपिशाचाश्च विद्याध्राः किन्नरादयः ।
दशैते विदुराख्याताः सर्गास्ते विश्वसृक्कृताः ॥ २८ ॥

‘प्रोक्ता अष्टविधा देवा विबुधाः सर्व एव तु ।
पितॄणां शतमेवात्र असुरास्त्रिंशदेव च ॥

गन्धर्वाप्सरसां चैव द्विशतं परिकीर्तितम् ।
सप्ततिर्यक्षरक्षस्सु त्रिंशच्चारणजातिषु ॥

शतं सिद्धास्तथाऽन्यासु सप्ततिः सर्वजातिषु ।
ऊर्ध्वस्रोतस एते वै अन्येऽर्वाक्स्रोतसः स्मृताः ॥

वैकारिकेषु देवेषु एते वै मुग्धभोगिनः ।
अभोगिनस्तदन्ये तु देवा एते ततः स्मृताः ॥

सर्वज्ञास्ते सहाराध्या भक्तास्तेष्वन्तरेव च ।
नृत्तगानादिकर्तारो वाहनादिकृतस्तथा ॥

सिद्धसिद्धेतिवक्तारश्चाराश्चैषां क्वचित्क्वचित् ।
सेवाकरा इति ह्येतैर्भेदैरष्टविधा मताः ॥

अन्ये च ये तु सर्वज्ञा विबुधास्ते प्रकीर्तिताः ।
तथाऽन्ये कर्मभिस्तैस्तैरष्टभेदान्तरं गताः’’॥ इति तत्त्वविवेके ।
‘यदि देवादयो दोषाज्जायेरन्मानुषादिषु ।
तथाऽपि देवा विज्ञेया असुराद्यास्तथा ध्रुवम्’’। इति च ॥२७,२८॥

अतः परं प्रवक्ष्यामि वंशान् मन्वतराणि च ।
एवं रजःप्लुतः स्रष्टा कल्पादिष्वात्मभूर्हरिः ।
सृजत्यमोघसङ्कल्प आत्मैवाऽत्मानमात्मना ॥ २९ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये तृतीयस्कन्धे एकादशोऽध्यायः ॥

‘गुणाप्लुतो हरिर्नित्यं गुणानां मध्यगो यतः ।
अनहंवेदनात्तस्य गुणासंस्पर्श एव च’’॥ इति च ।
‘सृष्ट्वा देवादिदेहान्स आत्मानं बहुधाऽकरोत् ।
तन्नियन्तृतयाऽऽत्मानं प्रकृतिं देहभेदतः’’॥ इति नारदीये ।
‘कर्ता च करणं चैव कर्म चैव स्वयं हरिः ।
आत्मनो बहुधाभावे प्रकृतेस्तु स्वतन्त्रता’’॥ इत्याग्नेये ॥ २९ ॥

द्वादशोऽध्यायः

मैत्रेय उवाच–

चरमस्तु विशेषाणामनेकांशायुतः सदा ।
परमाणुः स विज्ञेयो नृणामैक्यभ्रमो यतः ॥ १ ॥

कालपरिमाणं दर्शयितुं द्रव्यपरिमाणं दृष्टान्तत्वेन दर्शयति ।
‘मनुष्या देवलोकेऽपि विशेषेणैव दर्शने ।
अंशांशित्वविशेषं तु यस्य द्रष्टुं न शक्नुयुः ॥

चरमो विशेष इति तं मुनयो ब्रूयुरञ्जसा ।
परमाणुः स विज्ञेयः कणादाद्या निरंशिनम् ॥

अनन्तांशयुतत्वेऽपि यं ब्रूयुर्भ्रान्तिदर्शनात् ।
ततोऽपि परमाणुत्वं तदंशानां तु यद्यपि ।
अनन्तत्वाद्विवेकार्थमस्योक्ता परमाणुता’’॥ इति तत्त्वविवेके ।
अनेकांशैरासमन्ताद्युतः ॥ १ ॥

सत एव पदार्थस्य स्वरूपावस्थितस्य यत् ।
कैवल्यं परममहानविशेषो निरन्तरः ॥ २ ॥

कालतो देशतो गुणतश्च परममहत्त्वं सतः परब्रह्मण एव । सच्छब्दोऽन्यत्रा- प्युपचारतो भवतीत्यतः पदार्थस्येति । सत्पदस्य यो मुख्याभिधेयस्तस्य ।
‘मुख्याभिधेयस्त्वर्थः स्याद्वाच्यमन्यच्च भण्यते ।
अमुख्येष्वर्थशब्दस्तु नीचोपरि हितो भवेत्’’॥ इति ब्रह्मतर्के ।
यद्वेव समः प्लुषिणेत्यादिनाऽन्यत्र स्थितस्य तत्परिमाणत्वमप्यस्तीत्यतः स्वरूपावस्थितस्येति । जगदावरकस्य स्वरूपस्य ततः किञ्चिन्महत्व-मित्यतः कैवल्यमिति । तत्रापि बहुविधानि रूपाणि तस्य सन्तीत्यविशेष इति । सर्वगते प्रादेशमात्रमपि विद्यत इत्यतो निरन्तर इति । परब्रह्मणो यः केवलभावः । अण्डाद्यन्तःप्रविष्टं तदावरकं तस्यैव परमपुरुषादिरूपान्तरं तदेकदेशं च विना यत्सर्वगतं रूपं तदेव परममहान् ।
‘कालकोटिविहीनत्वं कालानन्त्यं विदुर्बुधाः ।
देशकोटिविहीनत्वं देशानन्त्यं तथैव च ॥

गुणानामप्रमेयत्वं वस्त्वानन्त्यं विदो विदुः ।
आनन्त्यं त्रिविधं नित्यं हरेर्नान्यस्य कस्यचित् ॥

तस्य सर्वस्वरूपेष्वप्यानन्त्यं तु त्रिलक्षणम् ।
तथापि देशतस्तस्य परिच्छेदोऽपि विद्यते ॥

परिच्छेदस्तथा व्याप्तिरेकरूपेऽपि युज्यते ।
तस्याचिन्त्याद्भुतैश्वर्याद्व्यवहारार्थमेव च ॥

गुणतः कालतश्चैव परिच्छेदो न कुत्रचित् ।
व्याप्तत्वं देशतोऽप्यस्ति सर्वरूपेषु यद्यपि ॥

न च भेदः क्वचित्तेषामणुमात्रोऽपि विद्यते ।
तथापि विद्यतेऽणुत्वं यस्मादैश्वर्ययोगतः ॥

तस्माद्बुध्द्यवतारार्थमव्याप्तत्वं च भण्यते ।
यत्तस्य व्यापकं रूपं परं नारायणाभिधम् ॥

शून्यं ब्रह्मेति तत्प्राहुर्द्वितीयं स्रष्टृ यत्ततः ।
परमः पुरुषो नाम मितं तद्देशतो विभोः ॥

तृतीयं वासुदेवाख्यं जगदावरकं मितम् ।
देशतो जगदाविष्टं तुरीयं विष्णुनामकम्’’॥ इति ब्रह्मतर्के ॥

सर्वगतस्यापि ब्रह्मरूपस्य कालादिरूपया प्रकृत्या समव्याप्तावपि दार्ष्टान्ति-कान्तर्भावात्तदन्यस्मिन्ननवस्थानाच्च स्वरूपावस्थितस्येत्युक्तम् ।
‘देव्यां कालादिरूपिण्यां स्थितं ब्रह्मापि सर्वगम् ।
उच्यतेऽनन्यगं यस्मादात्मवत्सा हरेर्विभोः ।
महदादिगतं यत्तु तदन्यगतमुच्यते’’॥ इति ब्राह्मे ॥ २ ॥

एवं कालोऽप्यनुमितः सौक्ष्म्ये स्थौल्ये च सत्तम ।
संस्थानभुक्त्या भगवानव्यक्तोऽव्यक्तभुग् विभुः ॥ ३ ॥

स कालः परमाणुर्वै यो भुङ्क्ते परमाणुताम् ।
सतोऽविशेषभुग् यस्तु स कालः परमो महान् ॥ ४ ॥

अनुमितः शास्त्रलोकानुसारेण ज्ञातः ।
‘अनुमेति द्वयं प्राहुर्यथाज्ञानं च लिङ्गजम्’’। इत्यभिधानम् ॥

‘यावन्तं देवलोकस्थो मानुषस्त्ववधारयेत् ।
महाप्राज्ञो देवजूकः स कालः परमाणुकः ॥

सर्गाद्यैरनवच्छिन्नस्तदनन्तर इत्यपि ॥

तथैव परमाण्वादिविशेषात्मापि नो भवेत् ।
पूर्वापरादिभेदो न स कालः परमो महान् ॥‘‘इति ब्रह्मतर्के ॥

स्वरूपावस्थितस्य कैवल्यमविशेषो निरन्तर इत्येतानि विशेषणानि क्रमेण परममहतः कालस्याप्यत्रोक्तानि ।
‘देशतः कालतश्चैव वस्तुतश्च त्रिधा हरेः ।
यथानन्त्यं न चान्यस्य प्रकृतेर्देशकालतः ॥

तथाशब्दस्य कालस्य देशानन्त्यं न कालतः ।
कालशब्दात्मिका सैव तथापि तु हरेः सदा ॥

नास्याः सामर्थ्यलेशोऽपि ज्ञानानन्दगुणेष्वपि ।
ज्ञेयस्तदवरो वायुः शेषवीन्द्रहरास्ततः ॥

अवरास्तत इन्द्राद्या गुणैः सर्वैर्न संशयः ॥‘‘इति ब्रह्मवैवर्ते ॥

‘अण्वादिकालसंस्थानभोक्तृत्वात्परमेश्वरः ।
अण्वादिनामवाच्योऽसौ कालश्चेत्यभिधीयते’’॥ इति च ॥

सतो ब्रह्मणः अविशेषं स्वरूपं यः कालः कालान्तर्यामी तदेव ब्रह्म भुंक्ते । तदपि ब्रह्म परममहान् । तस्यापि त्रिधा परिच्छेदाभावात् ।
‘सर्वं सर्वत्र भोक्ताऽपि विशेषादेकभोक्त्तृवत् ।
स्थितो हरिरचिन्त्यात्मा निजैश्वर्यादजो विभुः’’॥ इति ब्रह्मतर्के ॥ ३-४ ॥

अणुर्द्वौ परमाणू स्यात् त्रसरेणुस्त्रयः स्मृतः ।
जालार्करश्म्यवगतः खमेवानुपतन्नगात् ॥ ५ ॥

अगात् दृष्टिविषयं प्राप्य ज्ञात इत्यर्थः ॥ ५ ॥

लघूनि वै समाम्नाता दश पञ्च च नाडिका ।
ते द्वे मुहूर्तं प्रहरः षड् यामः सप्त वा नृणाम् ॥ ८ ॥

राशिभेदात् । ऊनातिरेकात्सप्त वेति ॥ ८ ॥

द्वादशार्धपलोन्मानं चतुर्भिश्चतुरङ्गुलैः ।
स्वर्णमाषैः कृतच्छिद्रं यावत् प्रस्थजलं पिबेत् ॥ ९ ॥

काकणिकाचतुष्कं तु विंशांशेत्यभिधीयते ।
कृष्णलेत्यपि तं ब्रूयुस्तैश्चतुर्भिस्तु माषकम् ॥

चतुरङ्गुलदीर्घे तु कृते माषचतुष्टये ।
यावत्स्यात्परिणाहेन तावद्वारं विधीयते ॥

प्रस्थस्य नाडीपात्रस्य षट्पलस्य शुभे जले ।
भाराधिक्येनोदकेन क्षिप्रं पूर्तिर्भविष्यति ॥

अतिशैत्ये कलङ्के च नाद्येनैव तु पूरणम् ।
तस्माद्वसन्तकाले तु प्रयागस्थोदकेन तु ।
नाडीशुद्धिपरीक्षा स्यादन्यथा न समं भवेत्’’॥ इति पाद्मे ॥

‘निर्मलेन समोष्णेन नित्यसूर्यांशुवारिणा ।
प्रवाहगेन कार्या स्यात्कालशुद्धिः सदैव तु’’॥ इति ब्रह्माण्डे ॥ ९ ॥

यामाश्चत्वारश्चत्वारो मर्त्यानामहनी उभे ।
पक्षः पञ्चदशाहानि शुक्लः कृष्णश्च मानद ॥ १० ॥

यत्रोभयोः स शब्दः स्यात्तत्र द्विवचनेऽप्युभे’’। इत्यभिधानम् ॥१०॥

ग्रहर्क्षताराचक्रस्थः परमाण्वादिना जगत् ।
संवत्सरावसानेन पर्येत्यनिमिषो विभुः ॥ १३ ॥

संवत्सरः परिवत्सर इडावत्सर एव च ।
अनुवत्सरो वत्सरश्च विदुरेवं प्रभाष्यते ॥ १४ ॥

‘इडावत्सरनामाऽसौ नक्षत्रद्वादशे स्थितः ।
तिथीनां द्वादशावर्ते यो हरिः सोऽनुवत्सरः ॥

वत्सरो यः स्थितस्त्वह्नां षष्ट्युत्तरशतत्रये ।
गुर्वावर्ते द्वादशांशे यः स्थः स परिवत्सरः ॥

सौरद्वादशके मासे यः स्थः संवत्सरो हरिः ।
एवं स कालनामाऽपि कालस्थः परमेश्वरः’’॥ इति ब्रह्मतर्के ॥

‘सर्वदा दर्शनात्तस्यानिमिषत्वं विदुर्बुधाः ।
सततं गमनाद्वापि कालस्थस्य महात्मनः’’॥ इति च ॥ १३-१४ ॥

यः सृज्यशक्तिमुरुधोच्छ्वसयन् स्वशक्त्या

पुंसोऽभ्रमाय दिवि धावति भूतभेदः ।
कालाख्यया गुणमयीं क्रतुभिर्वितन्वं-

स्तस्मै बलिं हरत वत्सरपञ्चकाय ॥ १५ ॥

अभ्रमाय भूतभेदकः । क्रतुभिः स्वप्रज्ञाभिः ।
‘भूतानां ज्यैष्ठ्यकानिष्ठ्यज्ञप्त्यै यज्ञादिवृत्तये ।
बोधयन्सृज्यशक्तिं च कालस्थो वर्तते हरिः’’॥ इति तन्त्रप्रकाशिकायाम् ॥ १५ ॥

निशावसान आरब्धो लोककल्पोऽनुवर्तते ।
यावद् दिनं भगवतो मनून् भुञ्जंश्चतुर्दश ॥ २३ ॥

दिनस्थो भगवान्भोक्ता ॥ २३ ॥

स्वं स्वं कालं मनुर्भुङ्क्ते साधिका ह्येकसप्ततिः ।
मन्वन्तरेषु मनवस्तद्वंश्या ऋषयः सुराः ।
भवन्ति चैते युगपत् सुरेशाश्चानु ये च तान् ॥ २४ ॥

‘युगैकसप्ततेरूर्ध्वं सार्धाष्टादशलक्षकम् ।
वत्सराणां मनोर्भुक्तिः सहस्रं चतुरुत्तरम् ॥

शतानां प्रलयश्चैव पञ्चोत्तरमथापि च ।
आद्येषु षट्सु प्रथमे द्विसहस्रं प्रकीर्तितम् ।
वत्सराणां मनोरन्तरेवमिन्द्रादीनां भवेत्’’॥ इति महावाराहे ॥२४॥

तमोमात्रामुपादाय प्रतिसंरुद्धविक्रमः ।
कालेनानुगतः शेष आस्ते तूष्णीं दिनात्यये ॥ २७ ॥

‘ब्रह्मणा कालनाम्ना तु सह शेते हरिर्निशि’’। इति ब्राह्मे ॥ २७ ॥

एवंविधैरहोरात्रैः कालगत्योपलक्षितैः ।
अपेक्षितमिवास्यापि परमायुर्वयःशतम् ॥ ३२ ॥

अस्य ब्रह्मणः । ब्रह्मणो दिनमित्युक्तत्वात् ॥ ३२ ॥

कालोऽयं द्विपरार्धाख्यो निमेष उपचर्यते ।
अव्याकृतस्यानन्तस्य ह्यनादेर्जगदात्मनः ॥ ३७ ॥

‘नायुर्मानं भगवतः कस्मिन्रूपेऽपि विद्यते ।
अनादित्वादमध्यत्वादनन्तत्वाच्च सोऽव्ययः’’॥ इति हरिवंशेषु ॥३७॥

कालोऽयं परमाण्वादिर्द्विपरार्धान्त ईरितः ।
नैवेष्टे स प्रभुर्भूम्न ईश्वरो धाममानिनाम् ॥ ३८ ॥

‘यमः कालो मानुषाणां तस्य कालः सुदर्शनः ।
तस्यापि रुद्रस्तत्कालो ब्रह्मा दुर्गाऽपि तस्य तु ॥

सा ब्रह्मप्रलये देवी वर्तते चक्ररूपिणी ।
संहरन्ती सदा लोकान्सैव ब्रह्मादिषु स्थिता ॥

तस्या नियामको विष्णुः परः कालः स उच्यते ।
कालाभिमानिनी सैव प्रभुर्न जगदीशितुः ॥

तस्याः प्रभुः स एवेशो विष्णुः सर्वेश्वरेश्वरः ॥‘‘इति च ॥ ३८ ॥

विकारैः षोडशैर्युक्तो विशेषादिभिरावृतः ।
अण्डकोशो बहिरयं पञ्चाशत्कोटिविस्तृतः ॥ ३९ ॥

दशोत्तराधिकैर्यत्र प्रविष्टः परमाणुवत् ।
लक्ष्यतेऽन्तर्गताश्चान्ये कोटिशो ह्यण्डराशयः ॥ ४० ॥

‘दशेन्द्रियाणि च मनो भूतान्यण्डगतानि तु ।
विकारा इति विज्ञेया भूताहंमहतः परे’’॥ इति च ॥

‘पृथिवीं विशेष इत्याहुः शब्दादीनां बहुत्वतः ।
सा सूक्ष्मत्वाद्वृणोत्यण्डं द्विगुणा तु दशोत्तराः ।
अबादयः प्रकृत्यन्ता अष्टप्रकृतयः स्मृताः’’॥ इति च ।
अन्तर्गताः शरीराणि ।
‘शरीराणां बहुत्वेन अतीतानागतैस्तथा ।
अस्यैव देवकायेषु प्रतिप्रति च दर्शनात् ।
विष्णुसामर्थ्यतोऽण्डानां बहुत्वं नान्यथा भवेत् ॥‘‘इति ब्रह्मतर्के ।
‘एकमण्डं बहुत्वेन प्रत्येकं रोमकूपगम् ।
ब्रह्माऽपश्यत्तथाऽऽत्मानं हरेस्तेषु पृथक्पृथक्’’॥ इति ब्रह्माण्डे ॥

‘बृहदण्डमभूदेकम्’‘इति च भारते ॥ ३९,४० ॥

यमाहुरक्षरं ब्रह्म सर्वकारणकारणम् ।
विष्णोर्धाम परं साक्षात् पुरुषस्य महात्मनः ॥ ४१ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये तृतीयस्कन्धे द्वादशोऽध्यायः ॥

धाम गृहम् अण्डराशयः ॥ ४१ ॥

त्रयोदशोऽध्यायः

ससर्जाग्रेऽथ तामिस्रमन्धतामिस्रमादिकृत् ।
महामोहं च मोहं च तमश्चाज्ञानवृत्तयः ॥ २ ॥

‘तमस्तु शार्वरं प्रोक्तं मोहश्चैव विपर्ययः ।
तदाग्रहो महामोहस्तामिस्रः क्रोध उच्यते ॥

मरणं त्वन्धतामिस्रमविद्या पञ्चपर्विका’’॥ इति भारते ॥

‘तमोऽज्ञानं विपर्यासो मोहोऽन्ये तु तदाग्रहाः’‘इति हरिवंशेषु ॥ २ ॥

दृष्ट्वा पापीयसीं सृष्टिं नाऽत्मानं बह्वमन्यत ।
भगवद्ध्यानपूतेन मनसाऽन्यांस्ततोऽसृजत् ॥ ३ ॥

सनकं च सनन्दं च सनातनमथाऽत्मभूः ।
सनत्कुमारं च मुनिं निष्क्रियानूर्ध्वरेतसः ॥ ४ ॥

कालतो बलतश्चैव ज्ञानानन्दादिकैरपि ।
सर्वैर्गुणैर्विष्णुरेव श्रेष्ठस्तदवमा रमा ॥

अनन्तांशेन कालात्तु समा तस्याश्चतुर्मुखः ।
अवरो बहुलांशेन तत्समो वायुरुच्यते ॥

नियमाद्वायुरेवैको ब्रह्मत्वं याति नापरः ।
तस्मात्समानता मुक्तौ वायुत्वे किञ्चिदूनता ॥

दशवर्षं तु तत्पश्चाज्जननं तत्स्त्रियोरपि ।
आनन्दादिस्तद्दशांशः कालः संवत्सरात्परः ॥

यावत्पश्चाज्जनिस्तावत्पूर्वं देहक्षयो भवेत् ।
ब्रह्मवाय्वोस्तु ये देव्यौ तद्दशांशः सुखादिकः ॥

शेषस्य गरुडस्यापि कालो दिव्यसहस्रकः ।
शेषरुद्रौ ब्रह्मवायू यथा तद्वत्परस्परम् ॥

तद्देव्यस्तद्दशांशाः स्युस्ततस्त्विन्द्रादयो मताः ।
एवं मुक्तौ च पूर्वं च नान्यथा क्वचिदिष्यते ॥

अन्यथोक्तिर्यत्र च स्यात्तन्मोहार्थं भविष्यति ।
पूर्वापरविपर्यासो बहुरूपत्वहेतुतः ॥‘‘इति विष्णुकृततत्त्वविवेके ॥

‘अथात आनन्दस्य मीमांसा’’। ‘देवासुरेभ्यो मघवान्प्रधानः’‘इत्यादि च ।
‘इन्द्राद्याः सनकाद्याश्च दक्षाद्या येऽपि चापरे ।
ऋषयो मनवो देवास्तद्वशा ये च केचन ॥

उमाया अवराः सर्वे गुणैः सर्वैर्न संशयः ।
तत्समो न भविष्यो वा न भूतोऽद्यतनोऽपि वा ॥

ऋते हरिं ब्रह्मवायू शेषवीन्द्रान्सभार्यकान् ।
शङ्करं चेति वेत्तव्यमन्यन्मोहार्थमुच्यते’’॥

इति विष्णुकृततत्त्वनिर्णये ॥ ३,४ ॥

स इत्थं गृणतः पुत्रान् पुरो दृष्ट्वा प्रजापतीन् ।
प्रजापतिपतिस्तन्वीं तत्याज व्रीडितस्तदा ।
तां दिशो जगृहुर्घोरां नीहारं यद् विदुस्तमः ॥ ३३ ॥

‘यां तत्याज विभुर्ब्रह्मा मानुषी वाक् तु सा स्मृता ।
सरस्वती निजा भार्या देवीं वाचं तु तां विदुः’’॥ इति च ॥ ३३ ॥

कदाचिद् ध्यायतः स्रष्टुर्वेदा आसंश्चतुर्मुखात् ॥ ३४ ॥

मैत्रेय उवाच– ऋग्यजुःसामाथर्वाख्यान् वेदान् पूर्वादिभिर्मुखैः । शस्त्रमिज्यां स्तुतिस्तोमं प्रायश्चित्तं व्यधात् क्रमात् ॥ ३७ ॥

इतिहासपुराणं च पञ्चमं वेदमीश्वरः । सर्वेभ्य एव वक्त्रेभ्यः ससृजे सर्वदर्शनः ॥ ३९ ॥

तपः शौचं दया सत्यं धर्मस्येति पदानि च । आश्रमांश्च यथासंख्यमसृजत् सह वृत्तिभिः ॥ ४१ ॥

‘अभिमानितः शब्दतश्च ब्रह्मा वेदान्ससर्ज ह ।
यज्ञादींश्चक्लृपे वाचा तथा सर्वाभिमानिनः ।
‘इतिहासपुराणे तु श्रुत्वा हरिमुखात्स्वयम् ।
भारतादीन्विना पश्चाद्धरिणाऽन्यैश्च निर्मितान्’’। इति ॥ ३४-४१ ॥

सावित्रं प्राजापत्यं च ब्राह्मं चाथ बृहत् तथा ।
वार्ताऽसञ्चयशालीनं शिलोंञ्छ इति वै गृहे ॥ ४२ ॥

‘प्राजापत्यं ब्रह्मचर्यमेकभार्यर्तुगामिता’’॥ इति व्यासस्मृतौ ॥

‘वार्ता यायावरं ज्ञेयमेकाहित्वमसञ्चयः’’॥ इति च ॥ ४२ ॥

वैखानसा वालखिल्योदुम्बराः फेनपा वने ।
न्यासे कुटीचकः पूर्वं बहूदो हंसनिष्क्रियौ ॥ ४३ ॥

‘वैखानसा मूलभक्षाः फलभक्षा उदुम्बराः ।
वालखिल्याः सर्वभक्षाः फेनपा वत्सफेनपाः’’॥ इति च ॥ ४३ ॥

आन्वीक्षिकी त्रयी वार्ता दण्डनीतिस्तथैव च ।
एवं व्याहृतयश्चासन् प्रणवेनास्पदं गताः ॥ ४४ ॥

‘आन्वीक्षिकी तन्त्रविद्या सा च वेदानुसारिणी ।
विष्णुप्रक्ता शिवाद्युक्ता ज्ञेया वेदबहिष्कृता ॥

दण्डनीती राजधर्मस्त्रयी वेदाः प्रकीर्तिताः ।
वार्ता वाणिज्यकादिः स्यादेताभिर्यत्तु जीवनम् ॥

तदान्वीक्षिक्यादिनाम ब्रह्मणा निर्मितं पुरा’’॥ इति च ।
प्रणवः पूर्ववक्त्रात् ।
‘प्रणवः पूर्ववक्त्रेण भूराद्याश्च मुखत्रयात् ।
प्रदक्षिणमवर्तन्त वेदाश्चैवाश्रमास्तथा’’॥ इति ब्राह्मे ॥ ४४ ॥

स्पर्शास्तस्याभवन् जीवात् स्वरो देह उदाहृतः ।
ऊष्माण इन्द्रियाण्याहुरन्तस्था बलमात्मनः ॥ ४६ ॥

‘स्पर्शास्तस्या भवञ्जीवात्स्वरा देहात्प्रजज्ञिरे ।
ऊष्माणं इन्द्रियेभ्यश्च अन्तस्था बलतो विभोः ॥‘‘इति च ॥

‘यस्माद्यज्जायते चाङ्गात्तत्तदङ्गाभिधं भवेत्’’। इति च ॥ ४६ ॥

स्वराः सप्त विहारेण भवन्ति स्म प्रजापतेः ।
शब्दब्रह्मात्मनस्तात व्यक्ताव्यक्तात्मनः प्रभोः ॥ ४७ ॥

‘शब्दब्रह्मात्मको ब्रह्मा सर्वशब्दाभिधो यतः ।
ऋते नारायणादीनि नाम्नां स विषयो यतः ॥

व्यक्तं ब्रह्माण्डमुद्दिष्टमव्यक्तं महदादि च ।
तद्व्यापकत्वाद्ब्रह्मा तु व्यक्ताव्यक्तात्मकः स्मृतः’’॥ इति च ॥ ४७ ॥

ऋषीणां भूरिवीर्याणामपि सर्गमविस्तृतम् ।
ज्ञात्वा तद् हृदये भूयश्चिन्तयामास कौरव ॥ ४९ ॥

अहो अद्भुतमेतन्मे व्यापृतस्यापि नित्यदा ।
न ह्येधन्ते प्रजा नूनं दैवमत्र विघातकम् ॥ ५० ॥

एवं युक्तिमतस्तस्य दैवं चावेक्षतस्तदा ।
कस्य रूपमभूद् द्वेधा यत् कायमभिचक्षते ॥ ५१ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये तृतीयस्कन्धे त्रयोदशोऽध्यायः ॥

‘ऋषीणां भूरिवीर्याणाम्’‘इति सिंहावलोकनम् ।
यत्र पश्चात्तनः श्रेष्ठस्तत्र सिंहावलोकनम्’’॥ इति ब्रह्मतर्के ॥

केन व्याप्तत्वात्कायः ॥ ४९-५१ ॥

चतुर्दशोऽध्यायः

तद् विधेहि नमस्तुभ्यं कर्मस्विज्यात्मशक्तिषु ।
यत् कृत्वेह यशो विष्वगमुत्र च भवेद् गतिः ॥ ८ ॥

इज्या पूजा ।
स्वदंष्ट्रयोद्धृत्य महीं विलग्नां स उत्थितः संरुरुहे रसायाः ।
तत्रापि दैत्यं गदयाऽऽपतन्तं सुनाभसन्दीपिततीव्रमन्युः ॥३३॥

जघान रुन्धानमसह्यविक्रमः सलीलयेभं मृगराडिवाम्भसि ।
तद्रक्तपङ्काङ्किततुण्डगण्डो यथा गजेन्द्रो जगतीं विभिन्दन् ॥ ३४ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये तृतीयस्कन्धे चतुर्दशोऽध्यायः ॥

‘ब्रह्मजस्तु हिरण्याक्षः प्रथमं दंष्ट्रया हतः ।
स एव पार्षदाविष्टो द्वितीयं कर्णताडनात् ॥

पूर्वं लयोदके मग्नां द्वितीयं तेन मज्जिताम् ।
भुवमुद्धरतैवासौ हरिणा क्रोडमूर्तिना’’॥ इति ब्रह्माण्डे ॥

‘व्यत्यासेनापि चोच्यन्ते अविवेकेन कुत्रचित् ।
दुष्टानां मोहनार्थाय तत्र तत्र कथाः क्वचित्’’॥ इति स्कान्दे ॥

अविवेकेनेत्यस्य विविच्य नोच्यत इत्यर्थः । न तु कर्तुरविवेकः ।
‘सर्वज्ञस्य कुतोऽज्ञानं व्यासस्योदारकर्मणः’‘इत्युक्तत्वात् ।
‘दुष्टानां मोहनार्थाय’‘इति च ॥ ८,३३,३४ ॥

पञ्चदशोऽध्यायः

ब्रह्मादयो यत्कृतसेतुपाला

यत्कारणं विश्वमिदं च मायया ।
आज्ञाकरी तस्य पिशाचचर्या

अहो विभूम्नश्चरितं विडम्बनम् ॥ २८ ॥

‘पिशाचचर्यामचरद्रुद्रो विष्ण्वाज्ञयैव तु ।
गर्भिणीवधनोदार्थमहो विष्णुर्विडम्बकृत्’’॥ इति वाराहे ॥ २८ ॥

मैत्रेय उवाच–

श्रुत्वा भागवतं पौत्रममोदत दितिर्भृशम् ।
पुत्रयोश्च वधं कृष्णाद् विदित्वाऽऽसीन्महामनाः ॥ ५० ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये तृतीयस्कन्धे पञ्चदशोऽध्यायः ॥

‘विष्णुहस्तवधाल्लोको भक्तस्यान्यस्य न क्वचित् ।
तथाप्यसुरमोहाय न विविक्तं क्वचित्क्वचित्’’॥ इति स्कान्दे ॥

‘हिरण्यकशिपुश्चापि भगवन्निन्दया तमः’‘इति च ।
‘स्वतः सद्गतियोग्यस्य पुत्रादेर्हेतुता भवेत् ।
योग्यताऽनादिभक्तिः स्यादयोग्यस्य कुतो गतिः’ ॥

इति ब्रह्मतर्के ॥ ५० ॥

षोडशोऽध्यायः

वसन्ति यत्र पुरुषाः सर्वे वैकुण्ठमूर्तयः ।
ये नित्यमनिमित्तेन धर्मेणाराधयन् हरिम् ॥ १४ ॥

अनिमित्तेन विष्ण्वर्पणेन ॥ १४ ॥

वैमानिकाः सललनाश्चरितानि यत्र

गायन्ति लोकशमलक्षपणानि भर्तुः ।
अन्तर्जले तु विलसन्मधुमाधवीनां

गन्धेन खण्डितधियोऽप्यनिलं क्षिपन्तः ॥ १७ ॥

‘मुक्ताश्चैवाधिकारस्था द्वेधा वैकुण्ठलोकगाः ।
अमुक्तानां भ्रमः क्वापि न मुक्तानां क्वचिद्भवेत्’’॥ इति भविष्यत्पुराणे ।
‘कृष्णात्मनां न रज आदधुः’’॥ इति च ॥ १७ ॥

पारावतान्यभृतसारसचक्रवाक-

दात्यूहहंसशुकतित्तिरबर्हिणाद्यैः ।
कोलाहले विरचिते चिरमात्रयोच्चै-

र्भृङ्गाधिपे हरिकथामनुगायमाने ॥ १८ ॥

‘तिरश्चीनाः स्थावराश्च सर्वे ज्ञानाद्विकुण्ठगाः ।
अमुक्ता मुक्तिमायान्ति नियमात्कर्मणः क्षये’’॥ इति च ॥ १८ ॥

मन्दारकुन्दकुरबोत्पलचम्पकोर्ण-

पुन्नागनागबकुलाम्बुजपारिजाताः ।
गन्धेऽर्चिते तुलसिकाभरणेन तस्या

यस्मिंस्तपः सुमनसो बहु मानयन्ति ॥ १९ ॥

भक्तैरर्चिते सति भगवता तुलसिकाभरणे कृते तस्या गन्धार्थं तपो बहु मानयन्ति ॥ १९ ॥

यन्न व्रजन्त्यघभिदोरचनानुवादाः

शृण्वन्ति येऽन्यविषयाः कुकथा मतिघ्नीः ।
यास्तु श्रुता हतभगैर्नृभिरात्तवीर्या-

स्तास्तान् क्षिपन्त्यशरणेषु तमःसु हन्त ॥ २३ ॥

अरचनानुवादाः ॥ २३ ॥

येऽभ्यर्थितामपि च नो नृगतिं प्रपन्ना

ज्ञानं च तत्त्वविषयं सहधर्म यत्र ।
नाराधनं भगवतो वितरन्त्यमुष्य

संमोहिता विततया ननु मायया ते ॥ २४ ॥

ये नृगतिं ज्ञानादियोग्यां न प्रपन्नाः ते मोहाद्भगवदाराधनं न कुर्वन्ति । धर्मज्ञानवर्जिता मानुषा एव न भवन्तीत्यर्थः ॥ २४ ॥

मत्तद्विरेफवनमालिकया निवीतौ

विन्यस्तयाऽसितचतुष्टयबाहुमध्ये ।
वक्त्रभ्रुवा कुटिलया स्फुटनिर्गतेन

रक्तेक्षणेन च मनाग् रभसं दधानौ ॥ २८ ॥

वक्त्रस्थया भ्रुवा सह निर्गतेन ॥ २८ ॥

तान् वीक्ष्य वातरशनांश्चतुरः कुमारान्

वृद्धान् दशार्धवयसो विदितात्मतत्त्वान् ।
वेत्रेण चास्खलयतामतदर्हणांस्तौ

तेजो विहस्य भगवत्प्रतिकूलशीलौ ॥ ३० ॥

‘जयस्य विजयस्यापि कदाचिद्ब्रह्मशापतः ।
कृष्णावतारपर्यन्तं प्रातिकूल्यं च जायते’’॥ इति नारदीये ॥ ३० ॥

को वा इहैत्य भगवत्परिचर्ययोच्चै-

स्तद्धर्मिणामपि सतां विषमस्वभावः ।
तस्मिन् प्रशान्तपुरुषे गतविग्रहे वां

को वाऽत्मवत् कुहकयोः परिशङ्कनीयः ॥ ३२ ॥

युवयोर्यथा विरुद्धस्वभावत्वं तद्वद्भगवद्विषय इह शङ्कनीयः कः ? तस्मान्निषेधो व्यर्थ इत्यर्थः ॥ ३२ ॥

न ह्यन्तरं भगवतीह समस्तकुक्षा-

वात्मानमात्मनि नभो नभसीव धीराः ।
पश्यन्ति यत्र युवयोः सुरलिङ्गिनोः किं

व्युत्पादितं ह्युदरभेदि भयं यतोऽस्य ॥ ३३ ॥

समस्तकुक्षौ स्थिते भगवति न हि भेदः । अस्मिंल्लोके । अन्तस्थभगवद्रूपं बहिष्ठैक्येन पश्यन्ति नभो नभसीव । तत्र प्रत्युदरभेदनिमित्तं भयं युवाभ्यां व्युत्पादितं किम् सर्वान्तर्यामित्वेनाभयस्य भयमस्तीति भावः कृतः । अन्यथा किमिति निवारणम् ।
‘सर्वोदरगतं ब्रह्म ये भेदेन विचक्षते ।
सर्वत्रापि भयं तेषां मृतानां तम एव च’’॥ इति तत्त्वविवेके ॥३३॥

तद् वा अमुष्य परमस्य विकुण्ठभर्तुः

कर्तुं न युक्तमिति धीमहि मन्दधीभ्याम् ।
लोकानितो व्रजतमन्तरभावदृष्ट्या

पापीयसस्त्रय इमे रिपवोऽस्य यत्र ॥ ३४ ॥

त्रयो रिपवो देहत्रये ॥ ३४ ॥

भूयानघाद्धि भगवद्भिरकारि दण्डो

यो नौ हरेत सुरहेलनमप्यशेषम् ।
मा वोऽनुतापकलया भगवत्स्मृतिघ्नो

मोहो भवेदिह तु नौ व्रजतोरधोऽधः ॥ ३६ ॥

सुरहेलनस्यापि दण्डो भवति । अत्र स्थितयोः पुनः पूर्ववन्मोहो न स्यादंशिनोः ॥ ३६ ॥

तं त्वागतं प्रतिहृतौपयिकं स्वपुंभि-

स्तेऽचक्षताक्षविषयं स्वसमाधिगम्यम् ।
हंसश्रियोर्व्यजनयोः शिववायुलोल

शुभ्रातपत्रशशिकेसरशीकराम्बुम् ॥ ३८ ॥

केसरा रश्मयः ॥ ३८ ॥

कृत्स्नप्रसादसुमुखं स्पृहणीयधाम

स्नेहावलोककलया हृदि संस्पृशन्तम् ।
श्यामे पृथावुरसि शोभितया श्रिया स्व

ग्रीवामणिं सुभगयन्तमिवात्मधिष्ण्यम् ॥ ३९ ॥

‘कौस्तुभो ब्रह्मणो रूपं प्राणश्चूडामणिस्तथा’’। इति च ॥ ३९ ॥

अत्रोपसृष्टमिति चोत्स्मितमिंदिरायाः

स्वानां धिया विरचितं बहुसौष्ठवाढ्यम् ।
मह्यं भवस्य भवतां भजनीयमङ्गं

नेमुर्निरीक्ष्य नवितृप्तदृशो मुदा कैः ॥ ४२ ॥

‘अविद्यमानकरणं विद्यमानस्मृतिस्तथा ।
उभयं रचनं प्रोक्तं पूर्वसिद्धेषु तु स्मृतिः’’॥ इति शब्दनिर्णये ॥४२॥

तस्यारविन्दनयनस्य पदारविन्द-

किञ्जल्कमिश्रतुलसीमकरन्दवायुः ।
अन्तर्गतः स्वविवरेण चकार तेषां

सङ्क्षोभमक्षरजुषामपि चित्ततन्वोः ॥ ४३ ॥

अक्षरजुषामपि तद्रूपसेवाभ्यासिनामपि ॥ ४३ ॥

नात्यन्तिकं विगणयन्त्यपि ते प्रसादं

किं चान्यदर्पितभयं भ्रुव उन्नयैस्ते ।
येऽङ्ग त्वदङ्घ्रिशरणा भवतः कथायाः

कीर्तन्यतीर्थयशसः कुशला रसज्ञाः ॥ ४८ ॥

‘भक्तिज्ञानपरीपाकात्किञ्चित्पूर्वं च मुच्यते ।
दर्शनेन हरेस्तत्र नानन्दः पूर्णतां व्रजेत्’’॥ इति ब्रह्मतर्के ॥

अतोऽनपेक्षाणामानन्दोद्रेको मोक्षेच्छुभ्यः । तेषां परिपाकतः पूर्वं ब्रह्मदृष्ट्या मुक्तिप्राप्तेः ।
‘मुमुक्षोः केवलो भक्तो मुक्तावपि सुखी भवेत्’’। इति च ॥ ४८ ॥

कामं व्रजेम वृजिनैर्निरयेषु नष्टा

श्चेतोऽलिवद् यदि नु ते पदयो रमेत ।
वाचश्च नस्तुलसिवद् यदि तेऽङ्घ्रिशोभाः

पूर्येत ते गुणगणैर्यदि कर्णरन्ध्रः ॥ ४९ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये तृतीयस्कन्धे षोडशोऽध्यायः ॥

‘यावत्परमभक्तैस्तु भुज्यते दुःखमुल्बणम् ।
तावन्मुक्तौ सुखोद्रेकस्तत्र चेद्भक्तिवर्धनम्’’॥ इति च ॥ ४९ ॥

सप्तदशोऽध्यायः

तद् वः प्रसादयाम्यद्य ब्रह्म दैवं परं हि मे ।
तद्ध्येवात्मकृतं मन्ये यत् स्वपुंभिरसत्कृताः ॥ ४ ॥

यस्यामृतामलयशः श्रवणावगाहः

सद्यः पुनाति जगदाश्वपचं विकुण्ठः ।
सोऽहं भवद्भ्य उपलब्धसुतीर्थकीर्ति-

श्छिन्द्यां स्वबाहुमपि वः प्रतिकूलवृत्तिम् ॥ ६ ॥

यत्सेवया चरणपद्मपवित्ररेणोः

सद्यः क्षताखिलमलं प्रतिलब्धशीलम् ।
न श्रीर्विरक्तमपि मां विजहाति यस्याः

प््रोक्षालवार्थमितरे नियमोऽर्हते मत् ॥ ७ ॥

‘सर्वोत्तमोऽपि भगवान्विप्रादेः पूजनाय तु ।
गुणलब्धिं ततो ब्रूते नित्यपूर्णगुणोऽपि सन् ॥

ब्रूयुश्चान्ये क्वचित्तत्तु तदुक्तेरनुसारतः ।
उपादत्ते वरांश्चापि लोकानां मोहनाय च’’॥ इति कौर्मे ॥

विप्राणां चरणपद्मपवित्ररेणोः सेवया प्रतिलब्धशीलं श्रीर्न जहातीति यत् । अतश्छिन्द्याम् ।
‘अनुक्ताश्च गुणा विष्णोरुक्ता दोषा न तस्य तु ।
अज्ञानाद्दोषविज्ञानं गुणज्ञानं यथार्थतः’’॥ इति पैङ्गिश्रुतिः ॥

‘विप्राणां चापि भक्तानामन्येषां च जनार्दनः ।
ब्रह्मणः शङ्कराद्वापि देवताभ्यस्तथैव च ॥

आत्मनश्च श्रियश्चैव सकाशात्प््रिायतामपि ।
पूज्यतामत्ययुक्तं च वदेत्क्वापि विमोहयन्’’॥ इति स्कान्दे ॥ ४-७ ॥

ब्रह्मोवाच–

अथ तस्योशतीं देवीमृषिकुल्यां सरस्वतीम् ।
आस्वाद्य मन्युदष्टानां तेषामात्माऽप्यतृप्यत ॥ १३ ॥

देवीं द्योतमानाम् । ऋषिकुल्याम् ऋषिकुलस्तुतिपराम् ॥ १३ ॥

ते योगमाययाऽऽरब्धपारमेष्ठ्यमहोदयम् ।
प्रचुः प्रञ्जलयो विप्र प्राहृष्टाः कम्पितत्वचः ॥ १५ ॥

‘तद्भ्रूविजृम्भः परमेष्ठिधिष्ण्यम्’’॥ इत्युक्तम् ॥ १५ ॥

त्वत्तः सनातनो धर्मो रक्ष्यते तनुभिस्तव ।
धर्मस्य परमो गुह्यो निर्विकारो भवान् मतः ॥ १८ ॥

धर्मस्यापि दुर्ज्ञेयः ॥ १८ ॥

यं वै विभूतिरुपयात्यनुवेलमन्यै-

रर्थार्थिभिः स्वशिरसा धृतपादरेणुः ।
धन्यार्पिताङ्घ्रितुलसीनवदामधाम्नो

लोकं मधुव्रतपतेरिव कामयाना ॥ २० ॥

मधुव्रतपतेः सारग्राहिणां पतेः । अङ्घ्रिस्थतुलसीलोकं स्थानमुरसि स्थिताऽपि स्पर्धयेव कामयाना । ‘लब्ध्वाऽपि वक्षसि पदम्’’। इति च ॥ २० ॥

यस्तां विविक्तचरितैरनुवर्तमानां

नात्याद्रियत् परमभागवतप्रसङ्गः ।
स त्वं द्विजानुपथपुण्यरजःपुनीतिः

श्रीवत्सलक्ष्म किमगा भगभाजनत्वम् ॥ २१ ॥

परमभागवतत्वेन तस्यामत्यादरः । न तु कामात् ।
‘हरिभक्तिर्हरेः प्रीतिर्ज्ञानानन्दादयो गुणाः ।
अधिकारे च मुक्तौ च ब्रह्मवाय्वोश्च तत्स्त्रियोः ॥

शेषवीन्द्रहराणां च तत्स्त्रीणां वासवादिनाम् ।
यथाक्रमं तु विज्ञेया भूमौ कारणतोऽन्यथा ॥

देहस्य लक्षणं चैव भूमावप्यन्यथा भवेत् ।
ब्रह्मादिषु क्रमेणैव नित्यं स्याद्देहलक्षणम् ॥

श्रियोऽधिका गुणाः सर्वे सर्वेभ्यो नियमेन तु ।
उक्ताश्चैवाप्यनुक्ताश्च ततो विष्णोर्न संशयः’’॥

इति तत्त्वनिर्णये ॥ २१ ॥

धर्मस्य ते भगवतस्त्रियुग त्रिभिः स्वैः

पद्भिश्चराचरमिदं द्विजदेवतार्थम् ।
नूनं भृतं तदभिघातिरजस्तमश्च

सत्त्वेन नो वरदया तनुवा निरस्य ॥ २२ ॥

‘धारणाद् भगवान् धर्मो यमनाद् यम उच्यते’’। इति शब्दनिर्णये ।
‘अनन्तासनवैकुण्ठक्षीरसागरगैस्त्रिभिः ।
रक्षां करोति भगवान्कपिलः सत्ववर्धनात् ।
असत्वोऽपि रजश्चैव तमश्चापि निरस्य तु’’॥ इति मूर्तिभेदे ॥

‘कपिलो वरदश्चैव विकलश्चेति कथ्यते’‘इति च ।
अतः सत्वस्य कारणत्वमात्रं कपिलो वरदा तनुः ॥ २२ ॥

न त्वं द्विजोत्तमकुलं यदिहात्मगोपं

गोप्ता वृष स्वर्हणेन सुसूनृतेन ।
तर्ह्येव नङ्क्षयति शिवस्तव देव पन्थाः

लोकोऽग्रहीष्यदृषभस्य हि यत् प्रमाणम् ॥ २३ ॥

आत्मैव गोपो गोपको यस्य तदात्मगोपम् ॥ २३ ॥

तत्तेऽनभीष्टमिव सत्त्वनिधेर्विधित्सोः

क्षेमं जनाय निजशक्तिभिरुद्धृतारेः ।
नैतावता त्र्यधिपतेर्बत विश्वभर्तु-

स्तेजःक्षतिस्त्ववनतस्य स ते विनोदः ॥ २४ ॥

‘असुरा अप््रिायाश्चापि नित्यानन्दान्न लोकवत् ।
निषेध्यबुद्धिविषयमप््रिायं हि हरेर्मतम्’’॥ इति च ।
तस्मादनभीष्टमिव ॥ २४ ॥

भगवानुवाच–

एतौ सुरेतरगतिं प्रतिपद्य सद्यः

संरम्भसम्भृतसमाध्यनुबद्धयोगौ ।
भूयः सकाशमुपयास्यत आशु यो वः

शापो मयैव विहितस्तदवैत विप्र ॥ २६ ॥

‘अन्तर्भक्ता बहिःक्रुद्धा हिरण्याद्या हरिं प्रति ।
सर्वक्रुद्धाः शम्बराद्या अन्तः क्रोधवशास्तथा’’॥ इति च ॥ २६ ॥

ब्रह्मोवाच–

भगवन्तं परिक्रम्य प्रणिपत्यानुमान्य च ।
प्रतिजग्मुः प्रमुदिताः शंसन्तो वैष्णवीं श्रियम् ॥ २८ ॥

‘स्वरूपश्रीस्तथा भार्या द्वेधा श्रीस्तु हरेर्मता’’। इति च ॥ २८ ॥

मयि संरम्भयोगेन निस्तीर्य ब्रह्महेलनम् ।
प्रत्येष्यतं निकाशं मे कालेनाल्पीयसा पुनः ॥ ३१ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये तृतीयस्कन्धे सप्तदशोऽध्यायः ॥

‘अन्तर्भक्ता बहिर्वैरा हिरण्याद्या हरेर्मताः ।
तत्र भक्त्याऽभवन्पूता द्वेष आवेशकान्गतः ॥

ब्रह्मजा असुरा ये तु विष्णोः पार्षदतां गताः ।
बल्याद्याश्च हरेर्द्वेषमन्तः कृत्वा तमोगताः’’॥ इति च ॥

तस्मात् संरम्भोऽल्पफलः कथ्यत एव । भक्तियोग एव ब्रह्महेलन-निस्तारकः ॥ ३१ ॥

अष्टादशोऽध्यायः

ववौ वायुः सुदुस्पर्शः फट्काराराववान् मुहुः ।
उन्मूलयन् नगपतीन् वात्यानीको रजोध्वजः ॥ ५ ॥

‘फट्कारश्चैव फूत्कारस्तथा किलकिलादयः ।
अनुकारशब्दा विज्ञेया ये चान्ये तादृशा मताः ॥“इत्यभिधानम् ॥ ५ ॥

अन्तर्ग्रामेषु मुखतो वमन्त्यो वह्निमुल्बणम् ।
सृगाला अपि टङ्कारैः प्रणेदुरशिवाः शिवाः ॥ ९ ॥

टङ्कारोऽप्यनुकारशब्दः ।
‘नाशस्तत्र सृगालानां शिवानां चान्यथास्वरे’‘इत्याग्नेये ॥ ९ ॥

खरोष्ट्राः कर्कशैः क्षत्तः खुरैर्घ्नन्तो धरातलम् ।
खात्काररभसा मत्ताः पर्यधावन् वरूथशः ॥ ११ ॥

खात्कारोऽप्यनुकारशब्दः ॥ ११ ॥

तं वीक्ष्य दुःसहजवं रणत्काञ्चननूपुरम् ।
वैजयन्त्या स्रजा जुष्टमसंन्यस्तमहागदम् ॥ २१ ॥

मनोवीर्यमदोत्सिक्तमधृष्यमकुतोभयम् ।
भीता निलिल्यिरे देवास्तार्क्ष्यत्रस्ता इवाहयः ॥ २२ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये तृतीयस्कन्धे अष्टादशोऽध्यायः ॥

‘न देवानां प्रजापानां विजेता वरतो विना ।
बलेन विद्यया वापि न समस्तत्पतीन्विना ॥

वरोऽपि तादृशो यावच्छरीरं नान्यदेहगः’’॥ इति तत्त्वनिर्णये ॥ २१-२२ ॥

एकोनविंशोऽध्यायः

तयोः स्पृधोः स्निग्धगदाहताङ्गयोः

क्षतस्रवाघ्राणविवृद्धयुद्धयोः ।
विचित्रमार्गांश्चरतोर्जिगीषया

व्यभादिलायामिव शुष्मिणोर्मृधः ॥ १९ ॥

दैत्यस्य यज्ञावयवस्य मायया

गृहीतवाराहतनोर्महात्मनः ।
कौरव्य मह्यां द्विषतोर्विमर्दनं

दिदृक्षुरागाद् ऋषिभिर्वृतः स्वराट् ॥ २० ॥

आसन्नशौण्डीरमपेतसाध्वसं

कृतप्रतीकारमहार्यविक्रमम् ।
विलक्ष्य दैत्यं भगवान् सहस्रणी

र्जगाद नारायणमादिसूकरम् ॥ २१ ॥

अनेककल्पजननेतृत्वात् सहस्रणीः ॥

‘अक्षतः क्षतवद्विष्णुरसमः समवत्तथा ।
अजितो जितवच्चैव ज्ञोऽज्ञवच्च प्रकाशयेत् ॥

सर्वरूपेष्वनन्तोऽपि ब्रह्माद्याश्चैव तन्मतेः ।
अनुसारितया ब्रूयुः कुर्युश्च स न दुःखभाक्’’॥ इति ब्रह्माण्डे ॥ १९-२१ ॥

एषा घोरतमा सन्ध्या लोकशम्बट्करी प्रभो ।
उपसर्पति सर्वात्मन् सुराणां जयमावह ॥ २६ ॥

‘आदरं तु मुखं विद्याच्छम्बट्कारं तु भक्षणम्’‘इत्यभिधानम् ॥२६॥

अधुनैवाभिजिन्नाम योगो मौहूर्तिकोऽभ्यगात् ।
शिवाय नस्त्वं सुहृदामाशु निस्तर दुस्तरम् ॥ २७ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये तृतीयस्कन्धे एकोनविंशोऽध्यायः ॥

‘मध्याह्नस्त्वभिजित्प्रोक्त आषाढोत्तर एव च ।
श्रवणस्यापि पूर्वार्धो विषुवं चाभिजित्स्मृतम्’’॥ इति च ॥ २७ ॥

विंशोऽध्यायः

गदायामपविद्धायां हाहाकारे च निर्गते ।
मानयामास तद्धर्मं सुनाभं चास्मरद् विभुः ॥ ५ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये तृतीयस्कन्धे विंशोऽध्यायः ॥

‘धर्मः सत्य इति प्रोक्तो धर्मश्चापि हरेः प््रिायः’’॥ इति ब्राह्मे ॥

‘यथेच्छयैव सर्वं तु मनसा देहतोऽपि वा ।
कर्तुं शक्तोऽपि शस्त्राद्या लीलैवानन्तशक्तितः’’॥ इति वाराहे ॥ ५ ॥

एकविंशोऽध्यायः

मैत्रेय उवाच–

दैवेन दुर्वितर्क्येण परेणानिमिषेण च ।
जातक्षोभाद् भगवतो महानासीद् गुणत्रयात् ॥ १२ ॥

‘सृष्टौ लये तारतम्यं देवानां ज्ञायते स्फुटम् ।
तारतम्यपरिज्ञाने महातात्पर्यमिष्यते ॥

अतस्तद्बहुशस्तूक्तमन्यच्चैतत्प्रकाशकम्’’॥ इति वामने ।
‘महतो ब्रह्मवायू च तद्भार्ये चाभिमानिनः ।
अहमः शेषवीन्द्रौ च रुद्रेन्द्रौ कामतत्स्त्रियः ॥

मनसस्त्वनिरुद्धश्च चन्द्रश्चान्ये यथोदितम् ।
एवं क्रमो व्यत्ययस्तु सूक्ष्मस्थूलविभेदतः ॥

सृष्टौ गुणे च ज्ञानादौ मुक्तिस्थे वाप्ययं क्रमः ।
नियमेनान्यथोक्तिस्तु मोहायासुरजन्मनाम्’’॥ इति वाराहे ॥ १२ ॥

रजः प्रधानान्महतस्त्रिलिङ्गो दैवचोदितात् ।
जातः ससर्ज भूतादिर्वियदादीनि पञ्च च ॥ १३ ॥

सोऽशयिष्टाधिसलिल आण्डकोशो निरात्मकः ।
साग्रं वै वर्षसाहस्रमन्ववात्सीत् तमीश्वरः ॥ १५ ॥

निरात्मकः न व्यक्तस्तत्रात्मा ॥ १५ ॥

सोऽनुविष्टो भगवता यः शेते सलिलाशये ।
लोकसंस्थां यथापूर्वं निर्ममे संस्थया स्वया ॥ १७ ॥

संस्थया स्वया भगवति स्थितसामर्थ्येन ॥ १७ ॥

देवस्तानाह संविग्नो मा मा जक्षत रक्षत ।
अहो मे यक्षरक्षांसि प्रजा यूयं भविष्यथ ॥ २१ ॥

देवताः प्रभया या या दिव्याः प्रमुखतोऽसृजत् ।
तेऽहार्षुर्देवयन्तोऽपि विसृष्टां तां प्रभामहः ॥ २२ ॥

देवोऽदेवान् जघनतः सृजति स्मातिलोलुपान् ।
त एनं लोलुपतया मैथुनायाभिपेदिरे ॥ २३ ॥

ततो हसन् स भगवानसुरैर्निरपत्रपैः ।
अन्वीयमानस्तरसा क्रुद्धो भीतः परापतत् ॥ २४ ॥

‘जानन्नपि समर्थोऽपि क्वचिद्ब्रह्मा हरेः प््रिायम् ।
ज्ञात्वा करोति कर्माणि ह्यज्ञवच्चाप्यशक्तवत्’’॥ इति च ॥ २१-२४ ॥

सोऽवधार्यास्य कार्पण्यं विविक्ताध्यात्मदर्शनः ।
विमुञ्चात्मतनुं घोरामित्युक्तो विमुमोच ह ॥ २८ ॥

‘व्यसृजन्मलवद्देहं बाह्यं न तु निजं पुरा ।
ब्रह्मा तच्चाहरादित्वं प्राप देवादिदैवतम्’’॥ इति कौर्मे ॥ २८ ॥

ऊर्जस्वन्तं मन्यमान आत्मानं भगवानजः ।
साध्यान् गणान् पितृगणान् परोक्षेणासृजत् प्रभुः ॥ ४२ ॥

‘ऊर्जं सारान्नमुद्दिष्टं तद्देवपितृभक्षणम्’’। इति ब्राह्मे ॥ ४२ ॥

स आत्मानं मन्यमानः कृतकृत्यमिवात्मभूः ।
तदा मनून् ससर्जान्ते मनसा लोकभावनान् ॥ ४९ ॥

तेभ्यः स व्यसृजद् देहं परः पुरुष आत्मनः ।
तां दृष्ट्वा ये पुरा सृष्टाः प्रशशंसुः प्रजापतिम् ॥ ५० ॥

ये पुरा सृष्टा देवाः ।
‘दृष्ट्वा तु पौरुषीं सृष्टिं देवाः सुकृतमूचिरे’’ इति च ॥ ४९-५० ॥

तपसा विद्यया युक्तो योगेन सुसमाधिना ।
आदावृषीन् हृषीकेशः ससर्जाभिमताः प्रजाः ॥ ५२ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये तृतीयस्कन्धे एकविंशोऽध्यायः ॥

‘यत्रापि तु हरेर्नाम तदन्यत्र प्रयुज्यते ।
तदान्तरहरेस्तत्र गृहीतिर्नान्यथा भवेत् ॥

स्वातन्त्र्यादवरत्वं च परस्यापि प्रयुज्यते ।
स्थितस्यापि यथा राज्ञः स्वानां जयपराजयौ’’॥ इति पाद्मे ॥

अतो हृषीकेशो ब्रह्मान्तर्यामी ॥ ५२ ॥

द्वाविंशोऽध्यायः

तावत् प्रसन्नो भगवान् पुष्कराक्षः कृते युगे ।
दर्शयामास तं क्षत्तः शाब्दं ब्रह्म दधद् वपुः ॥ ८ ॥

शब्दविषयं ब्रह्म ॥ ८ ॥

न तेऽजराक्षभ्रमिरायुरेषां

त्रयोदशारं त्रिशतं षष्ठिपर्व ।
षण्णेम्यनन्तच्छिदि यत् त्रिनाभि

करालस्रोतो जगदाच्छिद्य धावत् ॥ १८ ॥

अनन्तच्छिदि अनन्तावयवम् ।
‘तृतीयोऽतिशये’‘इति हि महाव्याकरणे ।
‘मथनान्मिथिलो जातः’‘इत्यादिवच्च ॥ १८ ॥

नूनं चङ्क्रमणं देव सतां संरक्षणाय ते ।
वधाय चासतां यस्त्वं हरेः शक्तिर्हि पालनी ॥ ५० ॥

योऽर्केन्द्वग्नीन्द्रवायूनां यमधर्मप्रचेतसाम् ।
रूपाणि स्थान आधत्से तस्मै शुक्लात्मने नमः ॥ ५१ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये तृतीयस्कन्धे द्वाविंशोऽध्यायः ॥

‘स्वायम्भुवो मनुश्चैव पृथुश्चैवार्जुनावपि ।
ब्रह्मशेषविपा रुद्र इन्द्र ऋष्यादयस्तथा ।
विष्ण्वावेशयुताः सर्वे न तु विष्णुस्वरूपकाः’’॥ इति तत्त्वनिर्णये ॥ ५०,५१ ॥

त्रयोविंशोऽध्यायः

कामः स भूयान्नरदेव तेऽस्याः

पुत्र्याः समाम्नायविधौ प्रतीतः ।
क एव ते तनयां नाद्रियेत स्वयैव

कान्त्या क्षिपतीमिव श्रियम् ॥ १६ ॥

स्वया कान्त्याऽन्याः क्षिपन्ती श्रीर्यथा तद्वत् स्थिताम् ॥ १६ ॥

बर्हिष्मती नाम पुरी सर्वसम्पत्समन्विता ।
न्यपतन् यत्र रोमाणि यज्ञस्याङ्गं विधुन्वतः ॥ २९ ॥

कुशकाशास्त एवासंल्लसद्धरितवर्चसः ।
ऋषयो यैः पराभाव्य यज्ञघ्नान् यज्ञमीजिरे ॥ ३० ॥

‘ज्ञानानन्दस्वरूपेभ्यो रोमभ्योऽस्य कुशादयः ।
विधुन्वतः प्रयागे तु वराहवपुषोऽभवन् ।
रोमाणि तानि देवस्य रूपाण्यासन्सहस्रशः’’॥ इति स्कान्दे ।
त एवासन् तेभ्य एवासन् । ‘सप्तसु प्रथमा’‘इति सूत्रात् ॥ २९-३० ॥

अयातयामास्तस्यासन् यामाः स्वान्तरयापनाः ।
शृण्वतो ध्यायतो विष्णोः कुर्वतो ब्रुवतः कथाः ॥ ३५ ॥

‘गतसारं यातयामं यामः सार इहोच्यते’‘इति नारदीये ॥ ३५ ॥

शारीरा मानसा दिव्याः पर्यासे ये च मानुषाः ।
भौतिकाश्च कथं क्लेशा बाधन्ते हरिसंश्रयम् ॥ ३७ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये तृतीयस्कन्धे त्रयोविंशोऽध्यायः ॥

पर्यासे मानुषत्वेनावस्थानेऽपि ॥ ३७ ॥

चतुर्विंशोऽध्यायः

द्वास्सु विद्रुमदेहल्या भातं वज्रकपाटिमत् ।
शिखरेष्विन्द्रनीलेषु हेमकुम्भैरधिष्ठितम् ॥ १८ ॥

देहली द्वारबन्धः ॥ १८ ॥

हंसपारावतव्रातैस्तत्र तत्र निकूजितम् ।
कृत्रिमान् मन्यमानैः स्वानधिरुह्याधिरुह्य च ॥ २० ॥

कृत्रिमान् शोभार्थं कृतान् ॥ २० ॥

अथाऽदर्शे स्वमात्मानं स्रग्विणं विरजाम्बरम् ।
विरजं कृतस्वस्त्ययनं कन्याभिर्बहुमानितम् ॥ ३० ॥

आदर्शे ददर्श ॥ ३० ॥

तस्मिंन्नलुप्तमहिमा प््रिाययाऽनुषक्तो

विद्याधरीभिरुपचीर्णवपुर्विमाने ।
बभ्राज उत्कचक उद्गुणपानवीच्य-

स्ताराभिरावृत इवोडुपतिर्नभस्स्थः ॥ ३८ ॥

उद्गुणपानवीच्यः उत्तमामृतवीचीयुक्तः ॥ ३८ ॥

तस्मिन् विमान उत्कृष्टां शय्यां रतिकरीं श्रिता ।
न चाबुद्ध्यत तं कालं पत्याऽऽवीच्येन सङ्गता ॥ ४५ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये तृतीयस्कन्धे चतुर्विंशोऽध्यायः ॥

‘प्राप्तषोडशवर्षः सन्नावीच्य इति कथ्यते’’॥ इत्यभिधानम् ॥ ४५ ॥

पञ्चविंशोऽध्यायः

मैत्रेय उवाच–

निर्वेदवादिनीमेवं मनोर्दुहितरं मुनिः ।
दयालुः शालिनीमाह शुक्लाभिव्याहृतं स्मरन् ॥ १ ॥

‘मालिनी शालिनी काल्या चार्या भार्येति चोच्यते’’। इति च ॥१॥

तस्यां बहुतिथे काले भगवान् मधुसूदनः ।
कार्दमं वीर्यमापन्नो जज्ञेऽग्निरिव दारुणि ॥ ६ ॥

‘नावतारेष्वपि हरेर्देहः शुक्लादिसम्भवः ।
तथापि शुक्लसंस्थः सन्मातृदेहं प्रविश्य च ॥

विलाप्य शुक्लं तत्रैव केवलज्ञानरूपकः ।
उदेति भगवान्विष्णुः काले लोकं विमोहयन्’’॥ इति महावाराहे ॥

अग्निरिव दारुणीति व्यक्तिस्थानमात्रत्वे दृष्टान्तः ॥ ६ ॥

भगवन्तं परं ब्रह्म सत्त्वेनांशेन शत्रुहन् ।
तत्त्वसंख्यानविज्ञप्त्यै जातं विद्वानजः स्वराट् ॥ १० ॥

‘महागुणाभिपूर्णत्वं सत्वमित्युच्यते बुधैः’’।
इति वामने ॥ १० ॥

अयं सिद्धगणाधीशः साङ्ख्याचार्यैः सुसम्मतः ।
लोके कपिल इत्याख्यां गन्ता ते कीर्तिवर्धनः ॥ १९ ॥

‘सम्यग्ज्ञानं तु साङ्ख्यं स्यात् तदर्थो योग उच्यते’’।
इति कापिलेये ॥ १९ ॥

स चावतीर्णं त्रियुगमाज्ञाय विबुधर्षभम् ।
विविक्त उपसङ्गम्य प्रणम्य समभाषत ॥ २६ ॥

‘युगत्रयावतारेण त्रियुगश्चेति कथ्यते’’। इति पाद्मे ॥ २६ ॥

तान्येव तेऽभिरूपाणि रूपाणि भगवंस्तव ।
यानि यानीह रोचन्ते स्वजनानामरूपिणः ॥ ३१ ॥

यानि यानि ब्रह्मादिरूपाणि रोचन्ते स्वजनानां तान्येव ते व्यक्त्यर्थमभिरूपाणि ।
‘व्यक्तो भवेद्धरिस्तत्र यत्स्थानं रुचितं सताम्’’। इति कौर्मे ॥ ३१ ॥

परं प्रधानं पुरुषं महान्तं कालं कविं त्रिवृतं लोकपालम् ।
आत्मानुभूत्यानुगतप्रपञ्चं स्वच्छन्दशक्तिं कपिलं प्रपद्ये ॥३३॥

‘वेदैर्वृतत्वाद्भगवांस्त्रिवृदित्युच्यते बुधैः’’। इति च ॥ ३३ ॥

श्री भगवानुवाच–

मया प्रोक्तं हि लोकस्य प्रमाणं सत्यलौकिके ।
अथाजनि मया तुभ्यं यदवोचमृतं मुने ॥ ३५ ॥

सत्यलौकिके यथार्थज्ञानविषये ।
‘आभासो ज्ञानमालोको लोको भासश्च कथ्यत’’। इत्यभिधानम् ॥३५॥

विश्वमेतद्धि शास्त्रेण विज्ञायात्मानमीश्वरम् ।
मुनिः शान्तमनोवाक्यस्तदा नाऽख्यात्युपप्लवः ॥ ४० ॥

विश्वमेतदेतादृशं असारं यतः । अत ईश्वरं विज्ञाय । नाऽख्यात्युपप्लवः दुःखाज्ञानाद्युपद्रवो न ॥ ४० ॥

निरहङ्कृतिर्निर्ममश्च निर्द्वन्द्वः समदृक् स्वदृक् ।
प्रत्यग्रः शान्तधीर्धीरः प्रशान्तोर्मिरिवोदधिः ॥ ४५ ॥

‘अनन्याधीनशक्तित्वाद्धरिः स्व इति चोच्यते’’। इति मात्स्ये ।
प्रत्यग्रः प्रत्यग्रतिः ॥ ४५ ॥

आत्मानं सर्वभूतेषु भगवन्तमवस्थितम् ।
अपश्यत् सर्वभूतानि भगवत्यपि चात्मनि ॥ ४६ ॥

वासुदेवे भगवति सर्वज्ञे प्रत्यगात्मनि ।
परेण भक्तिभावेन लब्धात्मा मुक्तबन्धनः ॥ ४७ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये तृतीयस्कन्धे पञ्चविंशोऽध्यायः ॥

‘भूतगर्भश्च भूतस्थः पूर्ण एवं द्विरूपवान् ।
अत आत्मेति तं प्राहुः सदैवाप्तगुणो यतः’’॥ इति च ॥ ४६-४७ ॥

षड्विंशोऽध्यायः

तं त्वा गताऽहं शरणं शरण्यं

स्वभृत्यसंसारतरोः कुठारम् ।
जिज्ञासया प्रकृतेः पूरुषस्य

नमामि सद्धर्मविदां वरिष्ठम् ॥ ११ ॥

‘नारायणो ब्रह्मवायू वीन्द्रशेषौ हरस्तथा ।
कामः शक्रो गुरुर्दक्षो मन्वाद्या भास्करादयः ।
सर्वजीवाश्च क्रमशः पुरुषाख्याभिशब्दिताः ॥”

‘एतत्पत्न्यो बन्धशक्तिः स्त्रियः सर्वास्तथा जडम् ।
क्रमात्प्रकृतिशब्दोक्तास्तज्ज्ञानाद्विप्रमुच्यते’’॥ इति दत्तात्रेययोगे ॥११॥

भगवानुवाच–

योग आध्यात्मिकः पुंसां मतो निःश्रेयसाय मे ।
अत्यन्तोपरतिर्यत्र दुःखस्य च सुखस्य च ॥ १३ ॥

‘परमात्मादिकं देहे यदध्यात्मं तदीरितम्’’। इति च ।
‘सुखं शरीरभोग्यं तु दुःखं सर्वं तथैव च ।
मुक्तौ विलयमायाति नित्यानन्दस्तु भुज्यते’’॥ इति च ॥ १३ ॥

अहंममाभिमानोत्थैः कामलोभादिभिर्मलैः ।
वीतं यदाऽऽत्मनः शुद्धमदुःखमसुखं समम् ॥ १६ ॥

तदा पुरुष आत्मानं केवलं प्रकृतेः परम् ।
निरन्तरं स्वयञ्ज्योतिरणिमानमखण्डितम् ॥ १७ ॥

ज्ञानवैराग्ययुक्तेन भक्तियोगेन चात्मना ।
परिपश्यत्युदासीनां प्रकृतिं च हतौजसम् ॥ १८ ॥

‘बाह्ये सुखे त्वनासक्तेरसुखं दुःखवर्जनात् ।
अदुःखं हरिभक्त्यैव नित्यानन्दं यदा मनः ।
तदा तं परमात्मानं पश्यत्यात्मप्रसादतः’’॥ इति कापिलेये ।
‘अभेदात्स्वावतारेषु निरन्तर उदाहृतः ।
गुणदेहेन्द्रियाभेदात्केवलोऽसदृशत्वतः ।
अखण्डः पूर्णशक्तित्वादहमेकः सदा मतः’‘इति च ।
‘बन्धशक्तिः प्रकृत्याख्या विष्णुशक्त्या वियुज्यते’’। इति च ॥१६-१८॥

मय्यनन्येन भावेन भक्तिं कुर्वन्ति ये दृढाम् ।
मत्कृते त्यक्तकर्माणस्त्यक्तस्वजनबान्धवाः ॥ २२ ॥

‘यादृशी मयि भक्तिः स्यात्तादृश्यन्यत्र नैव चेत् ।
अनन्यभक्तिरुद्रेकात्सा ययैव तरेत्सृतिम्’’॥ इति च ॥ २२ ॥

मदाश्रयाः कथा मृष्टाः शृण्वन्ति कथयन्ति च ।
तपन्ति विविधांस्तापानैकात्म्यगतचेतसः ॥ २३ ॥

‘एकः पूर्णो हरिर्नान्यस्तदन्ये तद्वशा मताः ।
इति ज्ञानं स्थिरं यत्तदैकात्म्यज्ञानमुच्यते’’॥ इति ब्रह्माण्डे ॥ २३ ॥

मैत्रेय उवाच–

विदित्वाऽर्थं कपिलो मातुरित्थं

जातस्नेहो यत्र तन्वाऽभिजातः ।
तत्त्वाऽम्नायं यत् प्रवदन्ति साङ्ख्यं

प्रावोचद् वै भक्तिवितानयोगम् ॥ ३१ ॥

‘शुक्लेन जनिरन्येषां हरेः स्वतनुवैव तु ।
नित्योदितज्ञानतनोः कुतः स्याच्छुक्लतो जनिः’’॥ इति गारुडे ॥३१॥

भगवानुवाच–

देवानां गुणलिङ्गानामानुश्रविककर्मणाम् ।
सत्त्व एवैकमनसो वृत्तिः स्वाभाविकी तु या ॥ ३२ ॥

‘आनुश्रविककर्माऽसौ श्रुत्युक्तं यो न लङ्घयेत्’’। इति भविष्यत्पर्वणि ।
‘सदा सर्वगुणाढ्यत्वात्सत्वो विष्णुरुदीर्यते’’। इति कापिलेये ॥३२॥

अनिमित्ता भगवति भक्तिः सिद्धेर्गरीयसी ।
जरयत्याशु या कोशं निगीर्णमनलो यथा ॥ ३३ ॥

‘अपूर्णभक्तेर्मुक्तौ तु न सुखं पूर्तिमेष्यति ।
अतस्तादृशमुक्तेश्च भक्तिः पूर्णा गरीयसी’’॥ इति च ॥ ३३ ॥

नैकात्म्यतां मे स्पृहयन्ति केचिन्-

मत्पादसेवाभिरता मदीहाः ।
येऽन्योन्यतो भागवताः प्रसज्य

सम्भाजयन्ते मम पौरुषाणि ॥ ३४ ॥

‘नेच्छन्ति सायुज्यमपि फलत्वेन हरिर्यदि ।
ददाति भक्तिसन्तुष्ट आज्ञात्वेनैव गृह्णते ।
तादृशानां सुखाधिक्यं पुनर्मुक्तौ भविष्यति’’॥ इति च ॥ ३४ ॥

न कर्हिचिन्मत्पराः शान्तरूपा

नङ्क्षयन्ति मे नोऽनिमिषो लेढि हेतिः ।
येषामहं प््रिाय आत्मा सुतश्च

सखा गुरुः सुहृदो दैवमिष्टम् ॥ ३८ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये तृतीयस्कन्धे षड्विंशोऽध्यायः ॥

आदानादिकर्तृत्वादात्मा ॥ ३८ ॥

सप्तविंशोऽध्यायः

न जातो न म्रियेताऽत्मा स हि देहाद्युपाधिभिः ।
निमित्तैरात्ततद्धर्मा यथा स्वप्ने तदीक्षिता ॥ ४ ॥

स परमो न जायते न म्रियत इति हि प्रसिद्धम् । देहाद्युपाधि-भिरात्तधर्मो जीवोऽपि स्वप्नवद्भ्रान्त्या जायते म्रियते च । भ्रान्तित्वाद्देहात्मत्वस्य । किमु सर्वज्ञत्वस्वतन्त्रत्वादिवैलक्षण्ययुक्त ईश्वरः ।
‘परस्य जन्ममृत्याद्याः स्युः स्वतन्त्रस्य किं पुनः ।
जीवस्यापि यतो भ्रान्त्या जन्ममृत्यादिसङ्गतिः’’॥ इति महाकौर्मे ॥ ४ ॥

स एव प्रकृतिं सूक्ष्मां देवीं गुणमयीं विभुः ।
यदृच्छयैवोपगतामभ्यपद्यत लीलया ॥ ५ ॥

उपगतां समीपस्थाम् ॥ ५ ॥

गुणैर्विचित्राः सृजतीं सरूपाः प्रकृतिं प्रजाः ।
विलोक्य मुमुहे सद्यः स इह ज्ञानगूहया ॥ ६ ॥

मुमुहे मोहयामास । ‘तदेतन्मे विजानीहि’’। ‘कृत्वा विवाहम्’‘इत्यादिवत् ।
‘यत्र कारयिताऽतीव स्वतन्त्रस्तत्र कर्तृता ।
प्रच्यते तु यथा ब्रह्म त्वज्ञं संसारभागिति’’॥ इति च ।
‘लये वाप्यथवा सृष्टौ त्वन्तरालेऽपि न क्वचित् ।
प्रकृत्या रहितं ब्रह्म कदाचिदपि तिष्ठति’’॥ इति कापिलेये ॥ ६ ॥

एवं पराभिध्यानेन कर्तृत्वं प्रकृतेः पुमान् ।
कर्मसु क्रियमाणेषु गुणैरात्मनि मन्यते ॥ ७ ॥

एवं पराभिध्यानेन परमात्मेच्छया । प्रकृतेः कर्तृत्वं जीव आत्मनि मन्यते ॥ ७ ॥

तदस्य संसृतिर्बन्धः पारतन्त्र्यं च तत्कृतम् ।
भवत्यकर्तुरीशस्य साक्षिणो निर्वृतात्मनः ॥ ८ ॥

‘विष्णोः सुराणां गुरूणां नित्या जीवस्य तन्त्रता ।
यत्तु तस्यान्यतन्त्रत्वं तज्ज्ञानाद्विनिवर्तते’’॥ इति च ।
अकर्तुरीशस्य सकाशात् ।
‘अक्लिष्टत्वादकर्तासावकार्यत्वादथापि वा’’। इति च ।
‘एष कर्ता न क्रियते कारणं च जगत्प्रभुः’’। इति भारते ॥ ८ ॥

कार्यकारणकर्तृत्वे कारणं प्रकृतिं विदुः ।
भोक्तृत्वे सुखदुःखानां पुरुषः प्रकृतेः परः ॥ ९ ॥

‘ब्रह्मादिभिः सर्गकरी श्रीर्विष्णुबलसंश्रयात् ।
सुखदुःखप्रदो विष्णुः स्वयमेव सनातनः ॥

कर्तृत्वं सुखदुःखानामन्येषां च तदाज्ञया ।
भोक्तृत्वं सुखदुःखानां करोत्येको हरिः स्वयम् ।
भोक्तृत्वमात्रहेतुत्वं जीवे नान्यत्र कुत्रचित्’’॥ इति भविष्यत्पर्वणि ॥

‘प्रकृतिं पुरुषं चैव विध्द्यनादी’‘इति च ॥ ९ ॥

भगवानुवाच–

यत् तत् त्रिगुणमव्यक्तं नित्यं सदसदात्मकम् ।
प्रधानं प्रकृतिं प्राहुरविशेषं विशेषवत् ॥ ११ ॥

‘व्यक्ताव्यक्तात्मकं यत्तद्विद्यात्सदसदात्मकम् ।
असर्गा केवलाव्यक्ता सिसृक्षुरुभयात्मिका ॥

व्यक्तैव कार्यरूपा तु प्रकृतिस्त्रिविधा मता ।
कार्यतः सा प्रधानत्वात्प्रधानमिति कीर्त्यते ।
अविशेषा ह्यकार्यत्वात्सा च श्रीर्विष्णुसंश्रया’’॥ इति हरिवंशेषु ॥

‘विशेषः कार्यमुद्दिष्टं विशेषाद्दृश्यते यतः’‘इति पाद्मे ॥ ११ ॥

मनो बुद्धिरहङ्कारश्चित्तमित्यन्तरात्मनः ।
चतुर्धा लक्ष्यते भेदो वृत्त्या लक्षणरूपया ॥ १५ ॥

‘बुद्धिरध्यवसानाय संशयं कुरुते मनः ।
अभिमानो ह्यहङ्कारश्चित्तं स्मरणकारणम्’’॥ इति स्कान्दे ॥ १५ ॥

एतावानेव संख्यातो ब्रह्मणः सगुणस्य हि ।
सन्निवेशो मया प्रोक्तो यः कालः पञ्चविंशकः ॥ १६ ॥

‘हरिस्तु निर्गुणं ब्रह्म श्रीर्ब्रह्म सगुणं स्मृता ।
तदङ्गजानि तत्त्वनि तमात्तद्रूपमुच्यते’’॥ इति हरिवंशेषु ॥ १६ ॥

प्रभावं पौरुषं प्राहुः कालमेके यतो भयम् ।
अहङ्कारविमूढस्य कर्तुः प्रकृतिमीयुषः ॥ १७ ॥

‘पुरुषो हृदिस्थः परमः कालः सर्वगतो हरिः ।
अथवा रुद्रदेहस्थो हरिः काल इतीरितः’’॥ इति ब्राह्मे ॥

पौरुषं प्रभावम् । पुरुषस्य प्रकर्षेण भावं व्याप्तं रूपम् । एके सम्यग्ज्ञानिनः । अप्राकृताः ॥ १७ ॥

दैवात् क्षुभितधर्मिण्यां स्वस्यां योनौ परः पुमान् ।
आधत्त वीर्यं साऽसूत महत्तत्त्वं हिरण्मयम् ॥ २० ॥

‘प्रकृतेः क्षोभकं रूपं दैवं नारायणात्मकम् ।
प्रकृतौ महतः स्रष्टा परमः पुरुषो मतः ॥

तदेव वासुदेवाख्यं महत्तत्त्वनियामकम् ।
सङ्कर्षणाख्यस्तु हरिः सूक्ष्माहङ्कारयामकः ॥

स्थूलाहङ्कारनियमी विष्णुः प्रद्युमन्नामकः ।
अनिरुद्धो मनस्तत्त्वनियन्ता भगवान् हरिः ॥

महत्तत्त्वादिजीवास्तु ब्रह्मशेषाङ्गजास्तथा ।
सूक्ष्मस्थूलविभेदेन कामजश्चानिरुद्धकः’’॥ इति कापिलेये ॥ २० ॥

विश्वमात्मगतं व्यञ्जन् कूटस्थो जगदङ्कुरः ।
स्वतेजसाऽपिबत् तीव्रमात्मप्रस्वापनं तमः ॥ २१ ॥

‘ओ रमयते यस्मात्केशवो जगदङ्कुरः ।
महान्तं योऽसृजज्जीवमोहकं च तमोऽग्रसत्’’॥ इति च ॥ २१ ॥

यत् तत् सत्वगुणं स्वच्छं शान्तं भगवतः पदम् ।
यदाहुर्वासुदेवाख्यं चित्तं तन्महदात्मकम् ॥ २२ ॥

यद्वासुदेवाख्यं भगवद्रूपं ततो महदात्मकं चित्तं जायते ।
‘सत्वशब्देन चोच्यन्ते पूर्णानन्दादयो गुणाः’’॥ इति च ।
‘महत्तत्त्वगतो योऽसौ वासुदेवाभिधो हरिः ।
स चित्तजनकः प्रोक्तः प्राणिनां च पृथक्पृथक्’’॥ इति च ॥ २२ ॥

स्वच्छत्वमविकारित्वं शान्तत्त्वमिति चेतसः ।
वृत्तिभिर्लक्षणं प्रोक्तं यथाऽपां प्रकृतिः परा ॥ २३ ॥

चित्तस्य स्वच्छत्वादयः पृथग्गुणा उच्यन्ते स्वच्छत्वमित्यादि ।
‘स्तिमितोदकचित्तादेरविकारोऽल्पवत्क्रिया’’। इति तत्त्वविवेके ।
‘वृत्तिः स्वभावो वृत्तं च स्थितिरित्यभिधीयते’’। इति शब्दनिर्णये ।
‘‘वृत्तिभिर्लक्षणं प्रोक्तम्’ इति स्वाभाविकं लक्षणमित्यर्थः ॥ २३ ॥

महत्तत्त्वाद् विकुर्वाणाद् भगवद्वीर्यसम्भवात् ।
क्रियाशक्तिरहङ्कारस्त्रिविधः समपद्यत ॥ २४ ॥

‘ज्ञानप्रधानस्तु महानहङ्कारः क्रियाधिकः ।
इतरापेक्षया सोऽपि ज्ञानाधिक इतीरितः’’॥ इति च ॥ २४ ॥

वैकारिकोऽधिदैवं तु बुद्धिः प्राणश्च तैजसः ।
तामसस्त्वर्थमात्रं च गुणव्यतिकरस्त्रिवृत् ॥ २६ ॥

‘देवताधिकृतं यत्तदधिदैवमिति स्मृतम्’’। इति च ।
वैकारिकोऽधिदैवमित्यादि पञ्चम्यर्थे ।
‘सप्तसु प्रथमा’‘तत्र स्वातन्त्र्यं यद्विवक्षितम् । इति शब्दनिर्णये ॥२६॥

सहस्रशिरसं साक्षाद् यमनन्तं प्रचक्षते ।
संकर्षणाख्यं पुरुषं भूतेन्द्रियमनोमयम् ॥ २७ ॥

कर्तृत्वं करणत्वं च कार्यत्वं चेति लक्षणम् ।
शान्तघोरविमूढत्वमिति वा स्यादहंकृतेः ॥ २८ ॥

‘मनोरूपेण कर्तृत्वं देहरूपेण कार्यता ।
इन्द्रियात्मतया चैव करणत्वमहङ्कृतेः ॥

यतो मनस्यहंभावस्तस्मात्कर्तृ मनः स्मृतम् ।
स्वभावकर्तुर्जीवस्य त्वासन्नोपाधि तद्यतः ॥

कर्मज्ञाने करणता यतः करणमिन्द्रियम् ।
कार्यं देहः समुद्दिष्ट उत्पाद्यत्वात्पुनःपुनः’’॥ इति तत्त्वविवेके ॥

‘शान्तरूपो देवपिता घोरः करणसृङ्मतः ।
तावज्ज्ञानस्याप्रकाशान्मूढो भूतपिता स्मृतः ।
त्रिरूपोऽयमहङ्कारः शेष इत्येव तं विदुः’’॥ इति तत्त्वनिर्णये ॥ २७-२८ ॥

तैजसात् तु विकुर्वाणाद् बुद्धितत्त्वमभूत् सति ।
द्रव्यस्फुरणविज्ञानमिन्द्रियाणामनुग्रहात् ॥ ३१ ॥

संशयोऽथ विपर्यासो निश्चयः स्मृतिरेव च ।
स्वाप इत्युच्यते बुद्धेर्लक्षणं वृत्तितः पृथक् ॥ ३२ ॥

द्रव्यस्फुरणे यद्विशेषज्ञानम् ॥

‘सामान्यं मनसा जातं विशेषाद्बुद्धिजं भवेत्’’॥

‘अचलः संशयो बुद्धेश्चलो मानस उच्यते ।
चञ्चला तु स्मृतिर्बुद्धेश्चित्तजैव स्थिरा स्मृतिः’’॥ इति च ॥

‘येन यज्ज्ञायते वस्तु तत्तल्लक्षणमुच्यते । तत्स्वरूपं पृथक्चेति द्विविधं कवयो विदुः’’॥ इति कापिलेये ॥ ३१,३२ ॥

तैजसानीन्द्रियाण्येव क्रियाज्ञानविभागशः ।
प्राणस्य हि क्रियाशक्तिर्बुद्धेर्विज्ञानशक्तिता ॥ ३३ ॥

‘प्रधानवायुः सूत्रात्मा महता सह जायते ।
तैजसश्च खजः स्पर्श इत्याद्यास्तत्सुताः स्मृताः ।
तदाविष्टा अन्यजीवास्तदाधाराश्च तद्बलाः’’। इति च ॥ ३३ ॥

तामसाच्च विकुर्वाणाद् भगवद्वीर्यचोदितात् ।
शब्दमात्रमभूत् तस्मान्नभः श्रोत्रं तु शब्दगम् ॥ ३४ ॥

अर्थाश्रयत्वं शब्दस्य द्रष्टुर्लिङ्गत्वमेव च ।
तन्मात्रत्वं च नभसो लक्षणं कवयो विदुः ॥ ३५ ॥

अर्थाश्रयत्वम् अर्थविषयत्वम् ।
‘शब्देनैव यतो ज्ञेयो हरिर्लिङ्गं तु तस्य तत् ।
स्पर्शाद्यभावात्तन्मात्रा नभसश्चेति कीर्त्यते ॥

स्पर्शादयश्च तन्मात्रा इतरे पूर्वसंस्थितेः ।
तिष्ठन्त्येको गुणो भूते प्रत्येकं पञ्चसु स्थितः ॥

शब्दो वर्णात्मको नित्यो ध्वनिराकाशसम्भवः ।
आकाश एव सूक्ष्मस्तु ध्वनिरित्येव शब्द्यते ॥

स एव व्यज्यमानस्तु भवेत्कर्णैकगोचरः’’॥ इति च ॥ ३४,३५ ॥

नभसः शब्दतन्मात्रात् कालगत्या विकुर्वतः ।
स्पर्शोऽभवत् ततो वायुस्त्वक् स्पर्शस्य च सङ्ग्रहः ॥ ३७ ॥

नभसः शब्दतन्मात्राच्छब्दतन्मात्रगुणात् ।
‘स्पर्शादयोऽपि वाय्वादेः सूक्ष्मावस्था प्रकीर्तिता’‘इति च ।
‘सूक्ष्मेन्द्रियाणि सन्त्येव स्युः स्थूलान्यप्यहङ्कृतेः ।
भूतेभ्यश्चोपचीयन्ते पुनर्ब्रह्मशरीरतः’’॥ इति च ॥ ३७ ॥

चालनं व्यूहनं प्राप्तिर्नेतृत्वं द्रव्यशब्दयोः ।
सर्वेन्द्रियाणामात्मत्वं वायोः कर्माभिलक्षणम् ॥ ३९ ॥

‘प्राप्नोति वायुः सर्वं तु स्वत एव हरेस्तथा ।
अतः प्राप्तिरिति प्राहुर्वायुं भूतपतिं प्रभुम् ।
प्रधानवायुरन्येषु नित्याविष्टो यतस्ततः ।
तद्गुणास्तेषु चोच्यन्ते नीचता नास्य तत्कृता’’॥ इति ब्रह्मवैवर्ते ।
‘स्वरूपमपि कर्मेति विषयत्वादुदीर्यते’‘इति शब्दनिर्णये ॥ ३९ ॥

द्रव्याकृतित्वं गुणता व्यक्तिसंस्थात्वमेव च ।
तेजस्त्वं तेजसः साध्वि रूपमात्रस्य वृत्तयः ॥ ४१ ॥

व्यक्तिसंस्थात्वं व्यक्तत्वेन स्थितिः । गुणता प्रकाशत्वम् ।
‘आलोको गुण इत्येव प्रकाशश्चेति कथ्यते’’। इत्यभिधानम् ।
‘तेजस्त्वमथ चोग्रत्वं क्रौर्यमित्यपि चोच्यते’’। इत्यभिधानम् ॥ ४१ ॥

क्लेदनं पिण्डनं तृप्तिः प्राणनाप्ययनोन्दनम् ।
तापापनोदो भूयस्त्वमम्भसो वृत्तयस्त्विमाः ॥ ४५ ॥

‘उन्दनं बिन्दुभावः स्यात्स्यन्दनं स्रवणं स्मृतम्’’। इत्यभिधानम् ।
पृथिव्यग्न्यपेक्षया भूयस्त्वं देहे ॥ ४५ ॥

भावनं ब्रह्मणः स्थानं धारणं सद्विशेषणम् ।
सर्वसत्वगुणोद्भेदः पृथिवीवृत्तिलक्षणम् ॥ ४८ ॥

भावनमुत्पादकत्वम् ।
‘ब्रह्मस्थानं तु पृथिवी शरीरे ब्रह्मदर्शनात्’’। इति कापिलेये ।
सद्विशेषणं विशेषेण व्यक्तत्वम् ।
‘असदव्यक्तनाम स्याद्व्यक्तं सदिति चोच्यते’’। इति ब्राह्मे ।
सर्वसत्वगुणोद्भेदः शरीरे हि सर्वप्राणिनां गुणा व्यज्यन्ते संसारावस्थायाम् ।
‘शरीरं पार्थिवं ज्ञेयमिन्द्रियाण्यौदकानि तु ।
तैजसः कोष्ठगो वह्निश्छिद्रमाकाशसम्भवम् ।
प्राणा वायुमयाः सर्वे प्रत्येकं प्रञ्चधा पुनः’’॥ इति कापिलेये ॥४८॥

ततस्तेनानुविद्धेभ्यस्तत्त्वेभ्योऽण्डमचेतनम् ।
उत्थितं पुरुषो यस्मादुदतिष्ठदसौ विराट् ॥ ५४ ॥

‘अचेतनाद्यतस्त्वण्डाद् ब्रह्मा समजनि स्फुटम् ।
अतो ब्रह्माण्डमित्याहुर्विराड् ब्रह्मा प्रकाशनात्’’॥ इति च ॥ ५४ ॥

हस्तौ च निरभिद्येतां बलं ताभ्यां ततः स्वराट् ।
पादौ च निरभिद्येतां गतिस्ताभ्यां ततो हरिः ॥ ६१ ॥

‘यज्ञनामा तु देवोऽन्यो विज्ञेयः पाददेवता ।
तदाविष्टो हरिर्नित्यं तमाहुः पाददैवतम् ।
तस्येन्द्रियाभिमानित्वं कुतः पूर्णामलात्मनः’’॥ इति च ॥ ६१ ॥

अथास्य हृदयं भिन्नं हृदयान्मन उत्थितम् ।
मनसश्चन्द्रमा जातो बुद्धिर्बुद्धेर्गिरांपतिः ।
अहङ्कारस्ततो रुद्रश्चित्तं चैत्त्यस्ततोऽभवत् ॥ ६४ ॥

‘चैत्योऽपि भगवान्विष्णुरन्तर्यामी चतुर्मुखात् ।
स्वेच्छया व्यक्तिमगमत्ततोऽसौ ब्रह्मजः स्मृतः’’॥ इति च ॥ ६४ ॥

विष्णुर्गत्यैव चरणौ नोदतिष्ठत् ततो विराट् ।
नाडीर्नद्यो लोहितेन नोदतिष्ठत् ततो विराट् ॥ ७० ॥

‘यज्ञान्तस्थः स्वयं पादौ विशन्नोत्थापयद्धरिः ।
शक्तोऽपि ब्रह्मवाय्वोस्तु बलज्ञप्त्यै जनार्दनः ।
तत्स्थ उत्थापयामास ब्रह्मदेहं विशन्प्रभुः’’॥ इति च ॥ ७० ॥

बुद्ध्या ब्रह्माऽपि हृदयं नोदतिष्ठत् ततो विराट् ।
रुद्रोऽभिमत्या हृदयं नोदतिष्ठत् ततो विराट् ॥ ७२ ॥

ब्रह्मा बृहस्पतिः ।
‘यस्मिन्ब्रह्मा राजनि पूर्व एति’’। इति श्रुतिः ।
‘बृहस्पतिः पुरोधाश्च ब्रह्मा च ब्रह्मणस्पतिः’’। इत्यभिधानम् ॥ ७२ ॥

चित्तेन हृदयं चैत्यः क्षेत्रज्ञः प्राविशद् यदा ।
विराट् तदैव पुरुषः सलिलादुदतिष्ठत ॥ ७३ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये तृतीयस्कन्धे सप्तविंशोऽध्यायः ॥

‘अंशेन सुप्तो ब्रह्माऽपि अंशेन निरगात्तथा ।
स्वदेहाद्वायुसहितो विष्णुना च जगत्प्रभुः ॥

तमुत्थापयितुं देवास्तानृते त्रीन्महाबलान् ।
नाशक्नुवुन् एकसंस्थास्ततस्ते त्वविशंस्त्रयः ॥

उदतिष्ठद्ब्रह्मदेहस्तदा तेषां प्राभावतः ।
विशेषेण हरेरेव प्राभावेन श्रियः पतेः ॥

चित्ताभिमानी ब्रह्मैव क्षेत्रज्ञस्तद्गतो हरिः ।
प्रणो वायुरिति प्रक्तस्तयोरीशो हरिः स्वयम्’’॥ इति च ॥ ७३ ॥

अष्टाविंशोऽध्यायः

प्रबुद्ध्य स्वप्नसुप्तिभ्यां संस्मरन्नात्मवैशसम् ।
वैतथ्यं व्यभिचारं च नासौ ध्यायेद् यतो भयम् ॥ ५ ॥

‘अज्ञानं सुप्तिशब्दोक्तं स्वप्नश्चैव विपर्ययः’’॥ इति भारते ॥ ५ ॥

निवृत्तबुद्ध्यवस्थानो दूरीभूतान्यदर्शनः ।
उपलभ्यात्मनात्मानं चक्षुषेवार्कमेकदृक् ॥ ११ ॥

बुद्धेरवस्थानं निद्रादि ॥ ११ ॥

मुक्तलिङ्गः सदाभासमसति प्रतिपद्यते ।
सतो बन्धुं समं चक्षुः सर्वानुस्यूतमद्वयम् ॥ १२ ॥

असति प्रलये ॥ १२ ॥

एवं त्रिवृदहङ्कारो भूतेन्द्रियमनोगुणैः ।
स्वाभासैर्लक्षितोऽनेन सदाभासेन सत्यदृक् ॥ १४ ॥

‘शेषस्य प्रतिबिम्बास्तु देवाः शेषस्तु ब्रह्मणः ।
स परब्रह्मणश्चैव ते स्वबिम्बप्रदर्शकाः ।
ततः स्वबिम्बद्वारेण परमात्मप्रदर्शनम्’’॥ इति ब्रह्मतर्के ॥ १४ ॥

भूतसूक्ष्मेन्द्रियमनोबुद्ध्यादिष्विह निद्रया ।
लीनेषु सत्सु यस्तत्र विनिद्रो निरहङ्क्रियः ॥ १५ ॥

यो विनिद्रः स सत्यदृक् ॥ १५ ॥

मन्यमानस्तदात्मानमनष्टो नष्टवन्मृषा ।
नष्टेऽहङ्करणे द्रष्टा नष्टवित्त इवातुरः ॥ १६ ॥

यः अनष्टो नष्टवन्नाज्ञासिषमिति मन्यमानः स आतुरो द्रष्टा जीवः ॥१६॥

एवं प्रत्यवमृश्यासावात्मानं प्रतिपद्यते ।
साहङ्कारस्य द्रव्यस्य योऽवस्थानमनुग्रहः ॥ १७ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये तृतीयस्कन्धे अष्टाविंशोऽध्यायः ॥

साहङ्कारं द्रव्यं जीवः तस्यावस्थानमनुग्राहकश्च परमात्मा ।
‘नित्यदृक्परमात्माऽसौ मृतवद्यो न किञ्चन ।
जानाति जीवः स ज्ञेयः परमात्मा तदाश्रयः"॥ इति हरिवंशेषु ॥१७॥

एकोनत्रिंशोऽध्यायः

भगवानुवाच–

योगस्य लक्षणं वक्ष्ये सबीजस्य नृपात्मजे ।
मनो येनैव विधिना प्रपन्नं याति सत्पथम् ॥ १ ॥

‘सबीजो वैष्णवो योगो निर्बीजस्त्वन्यदैवतः ।
बीजं विष्णुर्हि जगतः शाखाद्याश्चान्यदेवताः’’॥ इति कौर्मे ॥ १ ॥

स्वधिष्ण्यानामेकदेशे मनसा प्राणधारणम् ।
वैकुण्ठलीलाभिध्यानं समाधानं तथाऽऽत्मनः ॥ ६ ॥

‘समाधिरप्रयत्नेन मनसः संस्थितिर्भवेत्’’। इति च ॥ ६ ॥

तस्मिन् लब्धपदं चित्तं सर्वावयवसंस्थितम् ।
विलोक्यैकत्र संयुज्यादङ्गे भगवतो मुनिः ॥ २० ॥

सर्वस्मरणाशक्तावेकाङ्गे ।
‘यावन्न च्यवते मन’‘इत्युक्तत्वात् ।
‘सर्वं स्मर्तुमशक्तः सन्नेकाङ्गं चिन्तयेद्बुधः’’। इति च ॥ २० ॥

कौमोदकीं भगवतो दयितां स्मरेत

दिग्धामरातिभटशोणितकर्दमेन ।
मालां मधुव्रतवरूथगिरोपघुष्टां

चैत्त्यस्य तत्त्वममलं मणिमस्य कण्ठे ॥ २७ ॥

‘ब्रह्मा चित्ताभिमानेन चैत्यस्तन्नियमाद्धरिः ।
स च ब्रह्मा हरेः कण्ठे कौस्तुभत्वेन भासते’’॥ इति भागवततन्त्रे ॥ २७ ॥

यच्छ्रीनिकेतमलिभिः परिसेव्यमानं

भूत्या स्वया कुटिलकुन्तलवृन्दजुष्टम् ।
मीनद्वयश्रियमधिक्षिपदब्जनेत्रं

ध्यायेन्मनोमयमतन्द्रित उल्लसद्भ्रु ॥ २९ ॥

‘साक्षाच्छ्रीस्तु हरे रूपमिन्दिरा तु तदाश्रयात्’’॥ इति च ॥ २९ ॥

ध्यानायनं रहसि तद् बहुलाधरोष्ठ-

भासाऽरुणायिततनुद्विजकुन्दपङ्क्ति ।
ध्यायेत् स्वहृत्कुहरकेऽवसितस्य विष्णो-

र्भक्त्याऽऽर्द्रयाऽर्पितमना न पृथग् दिदृक्षेत् ॥ ३२ ॥

‘न पृथग्दिदृक्षेत्’’। तमेव दिदृक्षेदित्यर्थः ॥ ३२ ॥

एवं हरौ भगवति प्रतिलब्धभावो

भक्त्या द्रवद्धृदय उत्पुलकप्रमोदः ।
औत्कण्ठ्यबाष्पकलया मुहुरर्द्यमान-

स्तच्चापि चित्तबडिशं शनकैर्वियुङ्क्ते ॥ ३३ ॥

चित्तबडिशवियोगो ध्यानानन्तरसमाधिः ॥ ३३ ॥

मुक्ताश्रयं यर्हि निर्विषयं स्वचित्तं

निर्वाणमृच्छति मनः सहसा यथार्चिः ।
आत्मानमत्र पुरुषोऽव्यवधानमेक-

मन्वीक्षते प्रतिनिवृत्तगुणप्रवाहः ॥ ३४ ॥

मुक्ताश्रयं विष्णुविषयम् । स्वचित्तं जीवचैतन्ये ततम् । निर्वाणमृच्छति शरीराभिमानं जहाति । स्वचिदभिमानेन ॥ ३४ ॥

सोऽप्येतया चरमया मनसो निवृत्त्या

तस्मिन् महिम््नयवसितः सुखदुःखबाह्ये ।
हेतुत्वमप्यसति कर्तरि दुःखयोर्न

स्वात्मन् विधत्त उपलब्धपरात्मकाष्ठः ॥ ३५ ॥

‘असत्कर्ता तु जीवः स्यात्सत्कर्ता परमेश्वरः’’। इति शब्दनिर्णये ।
‘दुर्दुःखमिति विज्ञेयं खं सुखं च तयोर्यतः ।
प्रदाता परमो विष्णुस्तस्माद्दुःखादनामवान्’’॥ इति हरिवंशेषु ॥३५॥

सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि ।
ईक्षेतानन्यभावेन भूतेषु च तदात्मताम् ॥ ४१ ॥

अनन्यभावेन तद्रूपाणामभेदेन । तदात्मतां तस्याऽदानादिकर्तृत्वं च भूतविषये ॥ ४१ ॥

तस्मादिमां स्वां प्रकृतिं देवीं सदसदात्मिकाम् ।
दुर्विभाव्यां पराभाव्य स्वरूपेणावतिष्ठते ॥ ४३ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये तृतीयस्कन्धे एकोनत्रिंशोऽध्यायः ॥

प्रकृतिं पराभाव्य तदुत्तमत्वेनैव सदावतिष्ठते परः ।
‘सर्वभूतस्थमीशेशं जेतारं प्रकृतेरपि ।
अविशेषं सदैवैकं चिन्तयन्विप्रमुच्यते’’॥ इति च ॥ ४३ ॥

त्रिंशोऽध्यायः

देवहूतिरुवाच–

लक्षणं महदादीनां प्रकृतेः पुरुषस्य च ।
स्वरूपं लक्ष्यतेऽमीषां येन तत् पारमार्थिकम् ॥ १ ॥

यथा साङ्ख्येषु कथितं यन्मूलं तत् प्रचक्षते ।
भक्तियोगस्य मे मार्गं ब्रूहि विस्तरशः प्रभो ॥ २ ॥

यथा साङ्ख्येषूक्तं तथा कथितम् । यत्साङ्ख्यमूलं तल्लक्षणं प्रचक्षते ॥१,२॥

विषयानभिसन्धाय यश ऐश्वर्यमेव च ।
अर्चादावर्चयेद् यो मां पृथग्भावः स राजसः ॥ ९ ॥

तद्रूपाणां पृथग्भावः ॥ ९ ॥

कर्मनिर्हारमुद्दिश्य परस्मिन् वा तदर्पणम् ।
यजेद् यष्टव्यमिति वाऽपृथग्भावः स सात्त्विकः ॥ १० ॥

अपृथग्भावः स सात्विकः ॥ १० ॥

अर्चादावर्चयेत् तावदीश्वरं मां स्वकर्मकृत् ।
यावन्न वेद स्वहृदि सर्वभूतेष्ववस्थितम् ॥ २५ ॥

‘अज्ञोऽर्चयेदेवार्चायामन्यथा दोषवान्भवेत् ।
ज्ञस्त्वर्चयन्सुगुणवानन्यथा दोषवान्न तु’’॥ इति कापिलेये ॥२५॥

आत्मनश्च परस्यापि यः करोत्यन्तरोदरम् ।
तस्य भिन्नदृशो मृत्युर्विधत्ते भयमुल्बणम् ॥ २६ ॥

अन्तरोदरं भिन्नं ब्रह्म । आत्मस्थमन्यस्थं च ब्रह्म यो भेदेन पश्यति । ‘उदरं ब्रह्म’’। इति श्रुतेः ॥ २६ ॥

जीवाः श्रेष्ठा ह्यजीवानां ततः प्राणभृतः शुभे ।
ततः सचित्ताः प्रवरास्ततश्चेन्द्रियवृत्तयः ॥ २८ ॥

अत्रापि स्पर्शवेदिभ्यः प्रवरा रसवेदिनः ।
तेभ्यो गन्धविदः श्रेष्ठास्ततः शब्दविदो वराः ॥ २९ ॥

रूपभेदविदस्तत्र ततश्चोभयतोदतः ।
तेषां बहुपदः श्रेष्ठाश्चतुष्पादस्ततो द्विपात् ॥ ३० ॥

ततो वर्णाश्च चत्वारस्तेषां ब्राह्मण उत्तमः ।
ब्राह्मणेष्वपि वेदज्ञो ह्यर्थज्ञोऽभ्यधिकस्ततः ॥ ३१ ॥

अर्थज्ञात् संशयच्छेत्ता ततः श्रेयान् स्वधर्मकृत् ।
मुक्तसङ्गस्ततो भूयान् न दोग्धा धर्ममात्मनः ॥ ३२ ॥

तस्मान्मय्यर्पिताशेषक्रियार्थात्मरतिर्नरः ।
मय्यर्पितात्मनः पुंसो मयि सन्न्यस्तकर्मणः ।
न पश्यामि परं भूतमकर्तुः समदर्शनात् ॥ ३३ ॥

प्राणभृतः चलनयुक्ताः ।
‘पशुवृक्षादिभेदेन जीवा एव स्वतः स्थिताः ।
संसृतौ व्यत्ययस्तेषां मुक्तौ तत्तत्स्वरूपता ॥

तत्र स्थावरमुक्तेभ्यो वरा जङ्गममुक्तकाः ।
तेभ्यो मानुषमुक्ताश्च विप्रमुक्तास्ततोऽधिकाः ॥

तत्रोपदेशमात्रेण मुक्तेभ्यो वेदवेदिनः ।
अर्थज्ञा ऋषयस्तेभ्योऽतो देवाः संशयच्छिदः ॥

पूर्णधर्मा ततस्त्विन्द्रो निःसङ्गो गरुडस्ततः ।
भक्तिपूर्णो हरेर्ब्रह्मा तस्मान्नान्योऽधिकस्ततः ॥

मुक्तौ वा संसृतौ वापि सम्यगेषु हि ते गुणाः ॥ इति कापिलेये ॥ २८-३३ ॥

मनसैतानि भूतानि प्रणमेद् बहुमानयन् ।
ईश्वरो जीवकलया प्रविष्टो भगवानिति ॥ ३४ ॥

जीवकलया सह भूतानि बहुमानयंस्तदालयत्वेनेश्वरं प्रणमेत् ॥ ३४ ॥

भक्तियोगश्च योगश्च मया मानव्युदीरितः ।
ययोरेकतरेणैव पुरुषः पुरुषं व्रजेत् ॥ ३५ ॥

एकतरभावेऽन्यतरस्य नियतत्वादेकतरेणैव ॥ ३५ ॥

यत् तद् भगवतो रूपं ब्रह्मणः परमात्मनः ।
परं प्रधानात् पुरुषाद् दैवं कर्मविचेष्टितम् ॥ ३६ ॥

सर्वकर्माणि यस्य विचेष्टानिमित्तानि तत्कर्मविचेष्टितम् ॥ ३६ ॥

रूपभेदास्पदं दिव्यं काल इत्यभिधीयते ।
भूतानां महदादीनां यतो भिन्नदृशां भयम् ॥ ३७ ॥

भिन्नदृशां ईश्वरापेक्षयाऽल्पदृशाम् ।
‘भिन्नमल्पं विजानीयादभिन्नं पूर्णमिष्यते’’। इति शब्दनिर्णये ॥३७॥

न चास्य कश्चिद् दयितो न द्वेष्यो न च बान्धवः ।
आविशत्यप्रमत्तोऽसौ प्रमत्तं जनमन्तकृत् ॥ ३९ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये तृतीयस्कन्धे त्रिंशोऽध्यायः ॥

‘यथायोग्यातिरेकेण न द्वेष्यश्च प््रिायो हरेः’’ इति कापिलेये ॥३९॥

एकत्रिंशोऽध्यायः

एवं स्वभरणाकल्पं तत्कलत्रादयस्तदा ।
नाद्रियन्ते यथापूर्वं कीनाश इव गोजरम् ॥ १३ ॥

कीनाशः कर्षको मतः ॥ १३ ॥

वायुनोत्क्रमतोत्तारकफसंरुद्धनासिकः ।
कासश्वासकृतायासः कण्ठो घुरुघुरायते ॥ १६ ॥

उत्तारमुद्गतिं विन्द्यात् ॥ १६ ॥

योजनानां सहस्राणि नवतिर्नव चाध्वनः ।
त्रिभिर्मुहूर्तैर्द्वाभ्यां वा नीतः प्राप्नोति यातनाम् ॥ २४ ॥

‘त्रिभिर्मुहूर्तैर्द्वाभ्यां वा दिनैर्दशभिरेव वा ।
पक्षान्मासेन वा याति यमलोकमितो गतः’’॥ इति नारदीये ॥२४॥

अत्रैव नरकः स्वर्ग इति मातः प्रचक्षते ।
या यातना वै नारक्यस्ता इहाप्युपलक्षिताः ॥ २९ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये तृतीयस्कन्धे एकत्रिंशोऽध्यायः ॥

अत्रैवेत्येवशब्दः सामीप्यार्थे ।
‘सामीप्ये च प्रधाने च एवशब्दोऽवधारणे’’। इति शब्दनिर्णये ।
अत्राप्यस्तीत्यर्थः ॥ २९ ॥

द्वात्रिंशोऽध्यायः

भगवानुवाच–

कलिलं त्वेकरात्रेण पञ्चरात्रेण बुद्बुदम् ।
दशाहेन तु कर्कन्धुः पेश्यण्डं वा ततः परम् ॥ २ ॥

‘नानाविधा गर्भवृद्धिः कर्मभेदाद्भविष्यति ।
अतो नानाविधं ग्रन्थे गर्भसंस्थानमुच्यते’’॥ इति षाड्गुण्ये ॥ २ ॥

नाथमानो ऋषिर्भीतः सप्तवध्रिः कृताञ्जलिः ।
स्तुवीत तं विक्लवया वाचा येनोदरेऽर्पितः ॥ १२ ॥

‘वध्रयस्त्विन्द्रियाण्याहुर्हृषीकाणीति चोच्यते’‘इति शब्दनिर्णये ॥१२॥

ज्ञानं यदेतददधात् कतमः स देव-

स्त्रैकालिकं स्थिरचरेष्वनुवर्तितांशः ।
तं जीवकर्मपदवीमनुवर्तमाना-

स्तापत्रयोपशमनाय वयं भजेम ॥ १७ ॥

कतमः सुखतमः ॥ १७ ॥

पश्यत्ययं धिषणया ननु सप्तवध्रिः

शारीरभेदमशरीरवदस्य देहे ।
यद्दत्तया स तमहं पुरुषं पुराणं

पश्ये बहिर्हृदि च चैत्त्यमिव प्रतीतम् ॥ २० ॥

अशरीरवत् परमात्मवत् । परमात्मन एव देहोऽपि तद्वशत्वात् ।
‘तत्त्वज्ञानं तु देवानां गर्भस्थानां भविष्यति ।
उत्तमानामृषीणां वाऽप्यन्येषां बहुजन्मगम्’’॥ इति स्कान्दे ॥ २० ॥

तेष्वशान्तेषु मूढेषु खण्डितात्मावसायिषु ।
सङ्गं न कुर्याच्छोच्येषु योषित्क्रीडामृगेषु च ॥ ३६ ॥

खण्डितात्मावसायिषु जीवमात्रज्ञानिषु ॥ ३६ ॥

तत्सृष्टिसृष्टसृष्टेषु कोन्वखण्डितधीः पुमान् ।
ऋषिं नारायणमृते योषिन्मय्येह मायया ॥ ३९ ॥

‘मयः प्रधान उद्दिष्टो माया तद्वश उच्यते’’। इति षाड्गुण्ये ॥ ३९ ॥

बलं मे पश्य मायायाः

स्त्रीमय्या जयिनो दिशाम् ।
या करोति निजायत्तान्

भ्रूविजृम्भेण केवलम् ॥ ४० ॥

सङ्गं न कुर्यात् प्रमदासु जातु

योगस्य पारं परमारुरुक्षुः ।
मत्सेवया प्रतिलब्धात्मलाभो

वदन्ति यां निरयद्वारमस्य ॥ ४१ ॥

योपयाति शनैर्माया योषिद् देवविनिर्मिता ।
तामीक्षेतात्मनो मृत्युं तृणैः कूपमिवावृतम् ॥ ४२ ॥

‘सत्पुंसु च तथा स्त्रीषु न सङ्गो दोषमावहेत् ।
यथायोग्यं गुणायैव दोषकृद्दुष्टजन्तुषु’’॥ इति वाराहे ॥ ४०-४२ ॥

देहेन जीवभूतेन लोकाल्लोकमनुव्रजन् ।
भुञ्जान एव कर्माणि करोत्यविरतं पुमान् ॥ ४५ ॥

जीवभूतेन जीवकर्मभूतेन ॥ ४५ ॥

यथाक्ष्णोर्द्रव्यावयवदर्शनायोग्यता यदा ।
तदैव चक्षुषो द्रष्टुर्द्रष्टृत्वं योग्यताऽनयोः ॥ ४८ ॥

चक्षुःसकाशाद् द्रष्टुर्द्रष्टृत्वम् अक्ष्णोर्योग्यता ॥ ४८ ॥

आत्मनः केवलं ज्ञानमर्थो देहाद्यसङ्गिनः ।
सुखदुःखादयो भावा न देहस्य न चात्मनः ॥ ५० ॥

॥ इति श्रीभागवततात्पर्यनिर्णये तृतीयस्कन्धे द्वात्रिंशोऽध्यायः ॥

केवलं ज्ञानं पुरुषार्थः । देहादिष्वसङ्गिनो जीवस्य तन्निमित्तसुखदुःखादयो न सन्ति । किमुत देहस्य अचेतनत्वात् ॥ ५० ॥

त्रयस्त्रिंशोऽध्यायः

तच्छ्रद्धयाक्राऽऽन्तमतिः पितृदेवव्रतः पुमान् ।
गत्वा चान्द्रमसं लोकं सोमपाः पुनरेष्यति ॥ ३ ॥

‘ईषद्भक्तो भगवति सुकर्मा स्वर्गमेष्यति ।
अभक्तो निरयं याति सुकर्माऽपि न संशयः’’॥ इति वामने ॥ ३ ॥

आद्यः स्थिरचराणां यो वेदगर्भः सहर्षिभिः ।
योगेश्वरैः कुमाराद्यैः सिद्धैर्योगप्रवर्तकैः ॥ ११ ॥

भेददृष्ट्याऽभिमानेन निःसङ्गेनापि कर्मणा ।
कर्तृत्वात् सगुणं ब्रह्म पुरुषं पुरुषर्षभम् ॥ १२ ॥

स सङ्गत्य पुनः काले कालेनेश्वरमूर्तिना ।
जातेऽगुणव्यतिकरे यथापूर्वं प्रजायते ॥ १३ ॥

अभिमानेन पूर्णज्ञानेन । सङ्गत्य लये परमेश्वरं प्रविश्य ।
‘यथापूर्वं प्रजायते’‘उच्चनीचादिभावेन जायते ।
‘अगुणव्यतिकरे’‘बहिः श्वेतद्वीपे निर्गच्छति ।
‘गुणव्यतिकराभावेऽप्युच्चनीचादिपूर्ववत् ।
विष्णोश्चैव विमुक्तानां न कदाचन गच्छति’’॥ इति गारुडे ॥ ११-१३ ॥

ऐश्वर्यं पारमेष्ठ्यं यत् तेऽपि धर्मविनिर्मितम् ।
निषेव्य पुनरायान्ति गुणव्यतिकरेऽसति ॥ १४ ॥

गुणव्यतिकरे असति । प्रलये प्राप्ते पुनः परमेश्वरमायान्ति ।
‘ब्रह्मा देवैः परिवृतः प्रलये परमेश्वरम् ।
प्रविश्य सर्गे तु पुनः श्वेतद्वीपे प्रमोदते ॥

ज्ञानधर्मफलांस्तत्र भोगान्भुक्त्वा लये पुनः ।
नारायणं समाविश्य ज्ञानव्यक्तं निजं सुखम् ॥

भुञ्जते त्वेवमेवैषां काले संसर्गनिर्गमौ ।
नित्यौ नित्यसुखं चैव सृष्टौ भोगास्तथोत्तमाः ॥

यथापूर्वं हरेः सर्वगुणैर्नीचोच्चता तथा ।
ब्रह्मणश्च तथान्येषामन्येषां च यथापदम्’’॥ इति स्कान्दे ॥ १४ ॥

ये त्विहासक्तमनसः कर्मसु श्रद्धयान्विताः ।
कुर्वन्त्यप्रतिषिद्धानि नित्यान्यपि च कृत्स्नशः ॥ १६ ॥

रजसा कुण्ठमनसः कामात्मानोऽजितेन्द्रियाः ।
पितॄन् यजन्त्यनुदिनं गृहेष्वभिरताशयाः ॥ १७ ॥

त्रैवर्गिकास्ते पुरुषा विमुखा हरिमेधसः ।
कथायां कथनीयोरुविक्रमस्य मधुद्विषः ॥ १८ ॥

नूनं दैवेन विहता ये त्वच्युतकथासुधाम् ।
हित्वा शृृण्वन्त्यसद्गाथाः पुरीषमिव विड्भुजः ॥ १९ ॥

दक्षिणेन पथाऽर्यम्णः पितृलोकं व्रजन्ति ते ।
प्रजायां तु प्रजायन्ते श्मशानान्तक्रियाकृतः ॥ २० ॥

ततस्ते क्षीणसुकृताः पुनर्लोकमिमं सति ।
पतन्ति विवशा देवैः सद्यो विभ्रंशितोदयाः ॥ २१ ॥

‘अत्यल्पभक्ता विष्णौ च सदा श्राद्धादिकारिणः ।
पितृलोकं समाविश्य स्वसन्ताने पुनःपुनः ॥

क्षिप्रमेव प्रजायन्ते ये तु भक्तिविवर्जिताः ।
अन्यसामान्यवेत्तारस्तदन्योत्तमवेदिनः ॥

तद्भक्तनिन्दकाश्चैव यान्त्येव निरयं ध्रुवम् ।
अपि धर्मैकनियमा नात्र कार्या विचारणा’’॥ इति च ॥

‘मुक्तियोग्यास्तु देवाद्या मानुषा यज्ञभागिनः ।
मनुष्यभेदाः श्राद्धादिकृतो विद्वेषिणोऽसुराः’‘इति च ॥ १६-२१ ॥

ज्ञानमेकं पराचीनैरिन्द्रियैर्ब्रह्म निर्गुणम् ।
अवभात्यर्थरूपेण भ्रान्त्या शब्दादिधर्मिणाम् ॥ २८ ॥

‘मत्स्यकूर्मादिरूपं च विष्णोर्ज्ञानैकमात्रकम् ।
तन्मन्यन्ते भौतिकं तु ये गच्छन्त्यधरं तमः’’॥ इति ब्राह्मे ॥ २८ ॥

यथा महानहङ्कारस्त्रिवृत् पञ्चविधः स्वराट् ।
एकादशविधस्तस्य वपुरण्डं जगद् यतः ॥ २९ ॥

‘एकादशेन्द्रियात्मा च पञ्चभूतात्मकस्तथा ।
सर्वाभिमानी भगवान्स्वराडिन्द्रः पुरन्दरः ॥

इदमण्डं जगत्सर्वं शक्रदेहं विदुर्बुधाः ।
तत्पतिस्त्रिगुणो रुद्रस्तस्य ब्रह्मा ततो हरिः’’॥ इति वामने ॥

यथैतान्पश्यन्ति तद्वदेव ज्ञानात्मकं मत्स्यादिरूपं पश्यन्त्यज्ञाः॥ २९ ॥

ज्ञानं योगश्च मन्निष्ठो नैर्गुण्यो भक्तिलक्षणः ।
द्वयोरप्येक एवार्थो भगवच्छब्दलक्षणः ॥ ३२ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये तृतीयस्कन्धे त्रयस्त्रिंशोऽध्यायः ॥

‘ज्ञानभक्ती विना नैव मुक्तिः कस्यापि विद्यते ।
तयोरेकतरेणापि विष्णुगेनोभयं विना ॥

एवमप्येतयोरेकभावेऽन्यनियतेर्ध्रुवम् ।
एकेनापि भवेन्मुक्तिस्तदर्थं त्वन्यसाधनम्’’॥ इति हरिवंशेषु ॥३२॥

चतुस्त्रिंशोऽध्यायः

देवहूतिरुवाच–

अथाप्ययान्ते सलिले शयानं भूतेन्द्रियार्थात्ममयं वपुस्ते ।
गुणप्रवाहं सदशेषबीजं दध्यौ स्वयं यज्जठराब्जजातः ॥ २ ॥

भूतेन्द्रियार्थात्ममयं तेभ्यः प्रधानम् ।
‘त्वं प्रधानमयो देव प्रधानादधिको यतः’’॥ इति वाराहे ॥ २ ॥

त्वं देहतन्त्रः प्रशमाय पाप्मनां निदेशभाजां च विभो विभूतये ।
यथावतारास्तव सूकरादयस्तथायमप्यात्मपथोपलब्धये ॥ ५ ॥

देहतन्त्रः देहप्रकाशः ।
‘ततिः प्रकाशो विस्तारस्तन्त्रं चेत्यभिधीयते’’।इति तन्त्रमालायाम् ॥ ५ ॥

ब्रह्मण्यवस्थितमतिर्भगवत्यात्मसंश्रये ।
निवृत्तजीवोपाधित्वात् वीतक्लेशाप्तनिर्वृतिः ॥ २६ ॥

नित्यरूढसमाधित्वात् परावृत्तगुणभ्रमा ।
न सस्मार तदात्मानं स्वप्नदृष्टमिवोत्थितः ॥ २७ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये तृतीयस्कन्धे चतुस्त्रिंशोऽध्यायः ॥

॥ तृतीयः स्कन्धः समाप्तः ॥

‘जीवोपाधिप्रभृतयः आमुक्तेः सर्वदेहिनाम् ।
नियमात्सन्त्यभावस्तु निष्फलत्वादुदीर्यते’’॥ इति वाराहे ॥ २७ ॥