०२

प्रथमोऽध्यायः

श्रीशुक उवाच—

वरीयानेष ते प्रश्नः कृतो लोकहितं नृप ।
आत्मवित्सम्मतः पुंसां श्रोतव्यादिषु यः परः ॥ १ ॥

यः पर इति ॥ १ ॥

श्रोतव्यानीह राजेन्द्र नृणां सन्ति सहस्रशः ।
अपश्यतामात्मतत्वं गृहेषु गृहमेधिनाम् ॥ २ ॥

अपश्यताम् निद्रया ॥ २ ॥

निद्रया ह्रियते नक्तं व्यवायेन नवं वयः ।
दिवा चार्थेहया राजन् कुटुम्बभरणेन वा ॥ ३ ॥

देहापत्यकलत्रादिष्वात्मदैन्येष्वसत्स्वपि ।
तेषु प्रसक्तो निधनं पश्यन्नपि न पश्यति ॥ ४ ॥

असत्सु अभद्रेषु । ‘सद्भावे साधुभावे च’‘इति वचनात् ॥ ४ ॥

प्रायेण मुनयो राजन्निवृत्ता विधिनिषेधतः ।
नैर्गुण्यस्था रमन्ते स्म गुणानुकथने हरेः ॥ ७ ॥

ध्यानापेक्षया प्रायेण । नैर्गुण्यस्था मुक्ताः ।
‘एतत्सामगायन्नास्ते’‘इति श्रुतेः ॥ ७ ॥

इदं भागवतं नाम पुराणं ब्रह्मसम्मितम् ।
अधीतवान् द्वापरादौ पितुर्द्वैपायनादहम् ॥ ८ ॥

द्वापरे आदौ च । कृष्णावतारापेक्षया ।
‘व्यासः षट्शतवर्षीयो धृतराष्ट्रमजीजनत्’’। इति स्कान्दे ॥ ८ ॥

परिनिष्ठितोऽपि नैर्गुण्य उत्तमश्लोकलीलया ।
गृहीतचेता राजर्षे आख्यानं यदधीतवान् ॥ ९ ॥

परिनिष्ठितोऽपि मुक्तिरस्य भविष्यतीति निश्चितोऽपि ।
‘उदरं संशयः प्रोक्तः परिनिष्ठा विनिश्चयः’’। इत्यभिधाने ॥

‘ऋष्युत्तमा देवताश्च विमुक्तौ परिनिश्चिताः ।
तथाप्यधिकसौख्यार्थं यतन्ते शुभकर्मसु ।
विमुक्तास्तु स्वभावेन नित्यं ध्यानादितत्पराः’’। इति गारुडे ॥ ९ ॥

नियच्छेद्विषयेभ्योऽक्षान्मनसा बुद्धिसारथिः ।
मनः कर्मभिराक्षिप्तं शुभार्थे धारयेद्धिया ॥ १८ ॥

शुभार्थे भगवति ॥ १८ ॥

तत्रैकावयवं ध्यायेदव्युच्छिन्नेन चेतसा ।
मनो निर्विषयं युंक्त्वा ततः किञ्चिन्न संस्मरेत् ।
पदं तत्परमं विष्णोर्मनो यत्र प्रसीदति ॥ १९ ॥

विषयेभ्यो निर्गत्य तत्रैव मनो युंक्त्वाऽन्यन्न स्मरेत् ॥ १९ ॥

यस्यां सन्धार्यमाणायां योगिनो भक्तिलक्षणः ।
आशु सम्पद्यते योग आश्रयं भद्रमीक्षतः ॥ २१ ॥

भद्रं हरिम् ॥ २१ ॥

राजोवाच—

यथा सन्धार्यते ब्रह्मन् धारणा यत्र सम्मता ।
यादृशी वा हरेदाशु पुरुषस्य मनोमलम् ॥ २२ ॥

यच्छब्दः प्रश्ने । ‘यतश्चोदेति सूर्यः’’। इत्यादिवत् ।
‘यच्छब्दस्तु परामर्शे प्रश्नार्थे चापि भण्यते’’। इत्यभिधाने ॥ २२ ॥

श्रीशुक उवाच—

जितासनो जितश्वासो जितसङ्गो जितेन्द्रियः ।
स्थूले भगवतो रूपे मनः सन्धारयेद्धिया ॥ २३ ॥

यथेत्यस्य जितासन इत्यादि । यत्र स्थूले । यादृशीत्यस्य विशेष इत्यादि ॥ २३ ॥

विशेषस्तस्य देहोऽयं स्थविष्ठश्च स्थवीयसाम् ।
यत्रेदं दृश्यते विश्वं भूतं भव्यं भवच्च यत् ॥ २४ ॥

विशेष आण्डकोशः ।
‘शिलावत्तस्य देहोऽयमाण्डकोशस्तु सावृतिः ।
तत्तन्त्रत्वान्न तत्संस्थदुःखभोगोऽस्य न क्वचित्’’।
इति ब्रह्मवैवर्ते ॥ २४ ॥

आण्डकोशे शरीरेऽस्मिन्सप्तावरणसंयुते ।
वैराजः पुरुषो योऽसौ भगवान्धारणाश्रयः ॥ २५ ॥

‘आण्डकोशो विराट्प्रोक्तो विशेषेण प्रकाशनात् ।
वैराजस्तद्गतो विष्णुरथवा सर्वतो वरः’’। इति भागवततन्त्रे ॥२५॥

पातालमेतस्य हि पादमूलं पठन्ति पार्ष्णिप्रपदे रसातलम् ।
महातलं विश्वसृजस्सुगुल्फौ तलातलं वै पुरुषस्य जङ्घे ॥२६॥

प्रतिमापेक्षयाऽङ्गानि स्वरूपापेक्षया तज्जानि तदाश्रितानि च ॥ २६ ॥

छन्दांस्यनन्तस्य गिरो गृणन्ति दंष्ट्राऽर्यमेन्दूडुगणा द्विजानि ।
हासो जनोन्मादकरी च माया दुरन्तसर्गो यदपाङ्गमोक्षः ॥३१॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये द्वितीयस्कन्धे प्रथमोऽध्यायः ॥

बहुरूपत्वाद्दंष्ट्रार्यमेन्दू इत्यादि ।
‘प्रतिमापेक्षयाङ्गानि भूरादीनि स्वरूपतः ।
तदाश्रितानि तज्जानि बह्वङ्गत्वं बहुत्वतः’’। इति ब्रह्मतर्के ॥ ३१ ॥

द्वितीयोऽध्यायः

शब्दस्य हि ब्रह्मण एष पन्था यन्नामभिर्ध्यायति धीरपार्थैः ।
परिभ्रमंस्तत्र न विन्दतेऽर्थान् मायामये वासनया शयानः ॥२॥

एष हरिः । यदपार्थैर्ध्यायति । तत्रार्थान्न विन्दते ॥ २ ॥

अतः कविर्नामसु यावदर्थः स्यादप्रमत्तो व्यवसायबुद्धिः ।
सिद्धेऽन्यथार्थे न यतेत तत्तत् परिश्रमं तत्र समीक्षमाणः ॥३॥

‘सर्वनामा यतो विष्णुस्तदन्यार्थान्न तु स्मरेत् ।
स्मरंस्तु यावदर्थः स्यादन्यथा स्वात्महा स्मृतः’’। इति ब्रह्माण्डे ॥३॥

एवं स्वचित्ते स्वत एव सिद्ध आत्माप््रिायोऽर्थो भगवाननन्तः ।
तं निर्वृतो नियतार्थो भजेत संसारहेतूपरमश्च यत्र ॥ ६ ॥

‘एतमितः प््रोत्याभिसम्भविताऽस्मि’‘इति नियतार्थः ॥ ६ ॥

स सर्वविद्हृद्यनुभूश्च सर्व आत्मा यथा सुप्तजनेक्षितैकः ।
तं सत्यमानन्दनिधिं भजेत सर्वात्मनाऽतोऽन्यत आत्मघातः ॥ ७ ॥

‘यथैकस्तु बहून्सुप्तानसुप्तः पश्यति प्रभुः ।
एवमीशो बहून् जीवानज्ञान्पश्यति नित्यदृक्’’। इति व्योमसंहितायाम् ।
‘स्वप्नेन शारीरमभिप्रहत्यासुप्तः सुप्तानभिचाकशीति’’। इति च ।
‘यथेष्टभवनाद्विष्णुरनुभूः परिकीर्तितः ।
उदधिः कर्मणामीशः सर्वः पूर्णगुणो यतः ॥

सत्यः केवलसारत्वान्नियमो नियतेरजः’’। इति बृहत्संहितायाम् ॥७ ॥

अदीनलीलाहसितेक्षणोल्लसद्भ्रूभङ्गसंसूचितभूर्यनुग्रहम् ।
ईक्षेत चिन्तामयमेनमीश्वरं यावन्मनो धारणयाऽवतिष्ठते ॥ १३ ॥

चिन्तामयं चिन्ताप्रधानम् ।
‘यस्मात्सञ्चिन्तितो विष्णुश्चिन्तितं प्रददात्यजः ।
तस्माच्चिन्तामयं देवं वदन्ति ज्ञानचक्षुषः’’। इति च ॥ १३ ॥

यावन्न जायेत परावरेऽस्मिन् विश्वेश्वरे द्रष्टरि भक्तियोगः ।
तावत्स्थवीयः पुरुषस्य रूपं क्रियावसाने प्रयतः स्मरेत ॥ १५ ॥

स्थवीयः पातालमेतस्येत्यादि ॥ १५ ॥

स्थिरं सुखञ्चासनमास्थितो यतिः

यदा जिहासुरिममङ्ग लोकम् ।
काले च देशे च मनो न सज्जेत्

प्राणान्नियच्छेन्मनसा जितासुः ॥ १६ ॥

‘भक्त्या प्राणं वशं नीत्वा जितप्राणो भवत्युत’’। इति षाड्गुण्ये ॥ १६ ॥

मनश्च बुध्याऽमलया नियम्य

क्षेत्रज्ञ एतां निनयेत्तमात्मनि ।
आत्मानमात्मन्यवरुध्य धीरो

लब्धोपशान्तिर्विरमेत कृत्यात् ॥ १७ ॥

‘जीवस्थो भगवान्विष्णुः क्षेत्रज्ञ इति गीयते ।
देहस्थोऽपि स एवात्मा व्याप्तोऽप्यात्मेति भण्यते’’। इति तत्त्वनिर्णये ।
‘हरौ हरेर्भवेन्नीतिस्तदेकत्वस्य चिन्तनम् ।
अन्यत्र तन्नियम्यादिचिन्तनं नीतिरुच्यते’’। इति प्रकाशसंहितायाम् ॥ १७ ॥

न यत्र कालोऽनिमिषां परः प्रभुः

कुतो नु देवा जगतां य ईशिरे ।
न यत्र सत्वं न रजस्तमश्च

न वै विकारो न महान् प्रधानम् ॥ १८ ॥

कालो वायुः ।
‘हरिश्च प्रकृतिश्चैव ब्रह्मवायू तथैव च ।
सुपर्णशेषरुद्राश्च शक्रः सूर्ययमावपि ॥

अग्निर्यमानुजश्चैव कालशब्देरिताः क्रमात् ।
पूर्वोक्तास्त्वपरोक्तानां प्रभवः सर्वशो मताः’’।इत्युद्दामसंहितायाम् ॥ १८ ॥

नाभ्यां स्थितं हृद्यवरोप्य तस्माद्

उदानगत्योरसि तं नयेन्मुनिः ।
ततोऽनुसन्धाय धिया मनस्वी

स्वतालुमूलं शनकैर्नयेत ॥ २१ ॥

तस्माद्भ्रुवोरन्तरमुन्नयेत

निरुद्धसप्ताश्वपथोऽनपेक्षः ।
स्थित्वा मुहूर्तार्धमकुण्ठदृष्टि-

र्निर्भिद्य मूर्धन्विसृजेत्परं गतः ॥ २२ ॥

उदानगत्या ब्रह्मनाड्या । ‘अथैकयोर्ध्व उदानः’‘इति श्रुतेः ।
‘प्राणापानाविडायां च पिङ्गलायां च वर्ततः ।
व्यानः सन्धिषु सर्वत्र उदानो ब्रह्मनाडिगः ॥

सर्वत्रैव समानस्तु समं चरति सर्वगः’’। इति भारते ॥

परं चिन्तयन् ॥ २१,२२ ॥॥

यदि प्रयास्यत्यथ पारमेष्ठ्यं वैहायसानामुत यद्विहारम् ।
अष्टाधिपत्यं गुणसन्निवाये सहैव गच्छेन्मनसेन्द्रियैश्च ॥ २३ ॥

योगेश्वराणां गतिमामनन्ति बहिस्त्रिलोक्याः पवनान्तरात्मा ।
न कर्मभिस्तां गतिमाप्नुवन्ति विद्यातपोयोगसमाधिभाजाम् ॥ २४ ॥

‘चिन्मात्राणीन्द्रियाण्याहुर्मुक्तानामन्यदैव तु ।
तान्येव जडयुक्तानि ह्यभिन्नानि स्वरूपतः’’। इति ब्राह्मे ॥

पवनस्यापि अन्तरात्मा यः तम् । पवनश्चान्तरात्मा चेति वा ।
‘ईयुस्त्रीन् कर्मणा लोकान् ज्ञानेनैव तदुत्तरान् ।
तत्र मुख्या हरिं यान्ति तदन्ये वायुमेव तु ॥

अपक्वा ये न ते यान्ति वायुं वा हरिमेव वा ।
स्थानमात्राश्रितास्ते तु पुनर्जनिविवर्जिताः’’। इति ब्रह्मतर्के ॥ २३,२४ ॥

वैश्वानरं याति विहायसा गतः

सुषुम्नया ब्रह्मपथेन शोचिषा ।
विधूतकल्कोऽथ हरेरुदस्तात्

प्रयाति चक्रं नृप शैंशुमारम् ॥ २५ ॥

हरेः शैंशुमारं चक्रम् । वैश्वानरोदस्तात् ।
‘वैश्वानरे द्युनद्यां वा सूर्ये वा देह एव वा ।
विधूय सर्वपापानि यान्ति किंस्तुघ्नकेशवम्’’। इति ब्रह्माण्डे ॥ २५ ॥

योऽन्तः पचति भूतानां यस्तपत्यण्डमध्यगः ।
सोऽग्निर्वैश्वानरो मार्गो देवानां पितृणां मुनेः ॥ २६ ॥

‘पितृयानं देवयानं ब्रह्मयानमिति त्रिधा ।
गच्छन्वैश्वानरं याति तस्मान्मार्गः स ईरितः’’॥ २६ ॥

देवयानं पिङ्गलाभिरहान्येति शतायुषा ।
रात्रीरिडाभिः पितृणां विषुवत्तां सुषुम्नया ॥ २७ ॥

‘दक्षिणाः पिङ्गलाः सर्वा इडा वामाः प्रकीर्तिताः ।
नाड्योऽथ मध्यमा प्रोक्ता सुषुम्ना वेदपारगैः’’। इति भागवततन्त्रे ।
‘देवयानस्यमार्गस्था अहःशब्दाभिसञ्ज्ञिताः ।
पितृयानस्यमार्गस्था रात्रिशब्दाह्वया मताः’’। इति बृहत्तन्त्रे ॥

‘शतायुर्मरणं चैव कालिकं परमावृतिः’’। इत्यभिधाने ॥

पिङ्गलाभिः शतायुषा अहःसञ्ज्ञं देवयानम् इति । इडाभी रात्रिसञ्ज्ञं पितृयानम् ।
‘विषुवत्ता ब्रह्मयानं विशेषेण सुखं यतः ।
पिङ्गला देवयानं स्यात्पिङ्गाख्यसुखदं यतः ॥

इडाऽन्नदानात्पितृणामेवं मार्गाः प्रकीर्तिताः’’। इति ब्रह्मतर्के ॥ २७ ॥

तद्विश्वनाभिं त्वभिपद्य विष्णोरणीयसा विरजेनात्मनैकम् ।
नमस्कृतं ब्रह्मविदामुपैति कल्पायुषो यद्विबुधा रमन्ते ॥२८ ॥

‘अशेषजगदाधारः शिंशुमारो हरिः परः ।
सर्वे ब्रह्मविदो नत्वा तं यान्ति परमं पदम्’’। इति ब्रह्माण्डे ॥

तद्विष्णोर्विश्वाधारं रूपं प्रतिपद्य यत्र कल्पायुषः तं महर्लोकं उपैति ।
‘मन्वन्तरायुषः स्वर्ग्या महर्लोके तु काल्पिकाः ।
आब्रह्मणो जनाद्यास्तु महर्लोकेऽपि ये वराः’’। इति ब्राह्मे ॥ २८ ॥

न यत्र शोको न जरा न मृत्युर्नाधिर्न चोद्वेग ऋते कुतश्चित् ।
यश्चित्ततोदः क्रिययाऽनिदंविदां दुरन्तदुःखप्रभवानुदर्शनात् ॥ ३० ॥

ऋते सत्यलोके । अनिदंविदाम् अब्रह्मविदाम् । दुरन्तदुःखं च प्रभवश्च ।
‘सर्वदुःखविहीना ये मुक्ताः प्रायस्तु तादृशाः ।
अमुक्तास्तु जनाद्येषु विशेषेण तु सत्यगाः’’। इति वाराहे ॥

‘विष्णोर्लोकं तदैवैके यान्ति कालान्तरे परे ।
आज्ञयैव हरेः केचिदपूर्तेः केचिदञ्जसा ।
विहृत्यैवान्यलोकेषु मुच्यन्ते ब्रह्मणा सह’’। इति वामने ॥ ३० ॥

ततो विशेषं प्रतिपद्य निर्भय-

स्तेनात्मनाऽपोऽनलमूधर्ि्न च त्वरन् ।
ज्योतिर्मयो वायुमुपेत्य काले

वाय्वात्मना खं बृहदात्मलिङ्गम् ॥ ३१ ॥

ब्रह्मणा सह । विशेषं पृथिवीम् । तेनात्मना पृथिव्यात्मना । ज्योतिर्मय अग्निप्रधानः ।
‘आकाशवत् सर्वगतश्च नित्यः’‘इति परमात्मसदृशं किञ्चित् ।
‘ज्ञानिनः प्रलये सर्वे ब्रह्मणा सह पार्थिवम् ।
परमात्मानमाविश्य वारिस्थं तत्समन्विताः ॥

अग्निस्थं तद्युताश्चैव तेन नीताश्च वायुगम् ।
नभोगतं तेन नीता मनःस्थं तद्युतास्तथा ॥

ततो बुद्धिस्थमीशेशं ततोऽहङ्कारगं हरिम् ।
ततो विज्ञाननामानं महत्तत्त्वगतं हरिम् ॥

तत आनन्दनामानमव्यक्तस्थं जनार्दनम् ।
प्राप्य नावृत्तिमायान्ति शान्तिभूता निरामयाः ॥

येषां पदान्तरापेक्षा वाय्वादीनां महात्मनाम् ।
आवृत्य ते पुनर्यान्ति ज्ञानिनोऽपि निरामयाः ।
अनावृत्तिमसंमूढाः परानन्दैकभागिनः’’। इति ब्रह्मतर्के ॥

‘भूम्यब्गमन्ननामानं प्राणमग्न्यादिसंस्थितम् ।
मानसं मन आदिस्थं विज्ञानं महति स्थितम् ॥

आनन्दमव्यक्तगतं क्रमशो यान्ति देवताः ।
ब्रह्माद्याः केचिदेवात्र तदन्ये क्रमशोऽपरान्’’।
इति बृहत्तन्त्रे ॥ ३१ ॥

घ्राणेन गन्धं रसनेन वै रसं

रूपन्तु दृष्ट्या स्पर्शं त्वचैव ।
श्रोत्रेण चोपेत्य नभोगुणं तत्

प्रायेण नावृत्तिमुपैति योगी ॥ ३२ ॥

‘पञ्चेन्द्रियैर्ये विषया एष्टव्याः सर्वतो वराः ।
मानसांश्चाखिलान् प्राप्य मुक्तौ मोदन्ति देवताः ।
तथोद्रिक्तनिजानन्दा नित्यानन्दा असंवृताः’’। इति षाड्गुण्ये ॥ ३२ ॥

स भूतसूक्ष्मेन्द्रियसन्निकर्षात्

सनातनोऽसौ भगवाननादिः ।
मनोमयं देवमयं विकार्यं

संसाद्य मत्या सह तेन याति ॥ ३३ ॥

भूतसूक्ष्मेन्द्रियैश्च सह अनादिर्भगवानाकाशगो मनोमयं याति । नादवत्त्वात् सनातनः ।
‘नादेन तेन महता सनातन इति स्मृतः’’। इति मोक्षधर्मे ॥

विविधकार्ययुक्तं विकार्यम् । देवमयं देवप्रधानम् ।
‘मनःस्थितो हरिर्नित्यं सर्वदेवेषु संस्थितः ।
देवप्रधानकाल्लोकान्करोत्यनुगतः सदा’’। इति वाराहे ॥

भूतसूक्ष्माणि पञ्चभूतानि जीवाश्च ।
‘पञ्चभूतैश्च शब्दाद्यैरिन्द्रियैर्जीवराशिभिः ।
युक्त आकाशगो विष्णुर्मनःस्थमुपगच्छति’’। इति वामने ।
योऽसावनादिर्मनोमयस्तमिति वा । विपर्ययश्चेत्तस्यैव गन्तृत्वमिति ज्ञापयितुम् । मतिस्थेन तेन मनःस्थेन च सह विज्ञानतत्वं याति ॥३३॥

विज्ञानतत्वं गुणसन्निरोधं तेनाऽत्मनाऽऽत्मानमुपैति शान्तिम् ।
आनन्दमानन्दमयोऽवसाने सर्वात्मके ब्रह्मणि वासुदेवे ॥ ३४ ॥

एतां गतिं भागवतो गतो यः स वै पुनर्नेह विषज्जतेऽङ्ग ।
एते सृती ते नृप वेदगीते त्वयाऽभिपृष्टेऽथ सनातने च ।
ये द्वे पुरा ब्रह्मण आह पृष्टः आराधितो भगवान् वासुदेवः ॥३५॥

गुणसन्निरोधं निर्गुणं वासुदेवम् । वासुदेवे एतां गतिं गतो न विषज्जते ।
‘वासुदेवाश्रिता देवा ब्रह्माद्या मुक्तबन्धनाः ।
भेददृष्ट्याभिमानेन चावृत्तिं नैव यान्ति ते ॥

भुञ्जते तु पृथग्भोगान्नानन्दं तत्स्वरूपकम् ।
स्वरूपं च पृथक्तेषामाविष्टग्रहवद्भवेत्’‘इति ब्रह्माण्डे ॥ ३४,३५ ॥

न ह्यतोऽन्यः शिवः पन्थाः विश्रुतः संसृताविह ।
वासुदेवे भगवति भक्तियोगो यतो भवेत् ॥ ३६ ॥

यद् भगवानाह । अतो भागवताख्याद्ग्रन्थात् शिवः पन्था न ॥ ३६ ॥

भगवान् ब्रह्म कार्त्स्न्येन त्रिरन्वीक्ष्य मनीषया ।
तद्धि ह्यपश्यत्कूटस्थे रतिरात्मन् यतो भवेत् ॥ ३७ ॥

तद्भागवतं पुराणम् अपश्यत् ।
‘नित्यज्ञानेन सिद्धं च पुनः पुनरवेक्षते ।
लीलयैव हरिर्देवो दुष्टानां मोहनाय च’’।
इति ब्रह्मतर्के ॥ ३७ ॥

भगवान्सर्वभूतेषु लक्षितश्चात्मना हरिः ।
दृश्यैर्बुध्यादिभिर्द्रष्टा लक्षणैरनुमापकैः ॥ ३८ ॥

लक्षितश्चास्मिन् पुराणे बुद्ध्यादीनां पारवश्यदर्शनादन्यो नियन्ताऽस्तीति ।
‘समाधावसमाधौ च निःस्वतन्त्रस्य देहिनः ।
अन्यो नियन्ता भगवान्वासुदेवः परः प्रभुः’‘इति ब्रह्मतर्के ॥ ३८ ॥

तस्मात्सर्वात्मना राजन्हरिः सर्वत्र सर्वदा ।
श्रोतव्यः कीर्तितव्यश्च स्मर्तव्यो भगवान्नृणाम् ॥ ३९ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये द्वितीयस्कन्धे द्वितीयोऽध्यायः ॥

यस्मात् भगवतैष एवोक्तः तस्मात् स एव श्रोतव्यादिः ॥ ३९ ॥

तृतीयोऽध्यायः

अकामः सर्वकामो वा मोक्षकाम उदारधीः ।
तीव्रेण भक्तियोगेन यजेत पुरुषं परम् ॥ १० ॥

‘अकामो धर्मकामो वा मोक्षकामोऽपि यो भवेत् ।
अथवा सर्वकामो यः स विष्णुं पुरुषं यजेत्’’। इति स्कान्दे ॥१०॥

आयुर्हरति वै पुंसामुद्यन्नस्तं च यन्नसौ ।
तस्यर्ते यः क्षणो नीतः उत्तमश्लोकवार्तया ॥ १७ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये द्वितीयस्कन्धे तृतीयोऽध्यायः ॥

तस्यायुष उत्तमश्लोकवार्तया ऋते यः क्षणः स नीत एव वृथा ॥ १७ ॥

चतुर्थोऽध्यायः

आत्मजायासुतागारपशुद्रविणबन्धुषु ।
राज्ये चाविकले नित्यनिरूढां ममतां जहौ ॥ २ ॥

अन्येषां नित्यं निरूढा । तदा विशेषतो जहौ ॥ २ ॥

संस्थां विज्ञाय सन्यस्य कर्म त्रैवर्गिकञ्च यत् ।
वासुदेवे भगवति स्वात्मभावं दृढं गतः ॥ ४ ॥

‘आप्तेः सर्वगुणानां य आत्मनामतया हरिम् ।
उपास्ते नित्यशो विद्वानाप्तकामस्तदा भवेत्’’। इति वामने ॥ ४ ॥

श्रीशुक उवाच–

नमः परस्मै पुरुषाय भूयसे

सदुद्भवस्थाननिरोधलीलया ।
गृहीतशक्तित्रितयाय देहिनाम्

अन्तर्ध्रुवायाऽनुपलभ्यवर्त्मने ॥ १२ ॥

गृहीतशक्तित्रितयायेति,

‘इच्छा ज्ञानं क्रिया चेति नित्याः शक्तय ईशितुः ।
स्वरूपभूता अपि तु भेदवद्व्यावहारिकाः’’॥

इति प्रकाशसंहितावचनान्नित्यगृहीतशक्तित्वमेव ॥ १२ ॥

भूयो नमः सद्वृजिनच्छिदेऽसतां

असम्भवायाऽखिलसत्वमूर्तये ।
पुंसां पुनः पारमहंस्य आश्रमे

व्यवस्थितानामनुमृग्यदाशुषे ॥ १३ ॥

अखिलसत्वमूर्तये पूर्णसाधुभावस्वरूपाय ।
‘निःशेषगुणपूर्णत्वात्सत्व इत्येव तं विदुः’’। इति महासंहितायाम् ॥ १३ ॥

स एष आत्माऽऽत्मवतामधीश्वर-

स्त्रयीमयो धर्ममयस्तपोमयः ।
गतव्यलीकैरजशङ्करादिभि-

र्वितर्क्यलिङ्गो भगवान्प्रसीदताम् ॥ १९ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये द्वितीयस्कन्धे चतुर्थोऽध्यायः ॥ ४ ॥

‘वेदानुसारिवशगः स्वेच्छया तु हरिर्यतः ।
अतः स्वतन्त्रमप्याहुः प्राज्ञा वेदमयेति ह’’। इत्यध्यात्मे ॥ १९ ॥

पञ्चमोऽध्यायः

नारद उवाच—

देवदेव नमस्तेऽस्तु भूतभावन पूर्वज ।
तद्विजानीहि यज्ज्ञानमात्मतत्वनिदर्शनम् ॥ १ ॥

विजानीहि विज्ञापय । ‘व्यत्ययो भेदस्वातन्त्र्यकरणेषु’’। इति वचनात् ॥ १ ॥

यद्रूपं यदधिष्ठानं यतः सृष्टमिदं विभो ।
यत्संस्थं यत्परं यच्च तत्तत्वं वद तत्वतः ॥ २ ॥

‘तद्वशत्वादिदं रूपं हरेर्नैव स्वरूपतः’’। इति मानससंहितायाम् ।
‘अधिष्ठानमिति प्रोक्तं मूलाधारं विचक्षणैः ।
यत्स्थितं दृश्यते वस्तु संस्थानं तदुदीरितम् ।
उभयं हरिरेवास्य जगतो मुनिपुङ्गव’’। इति वामने ॥

‘हरिः परोऽस्य जगतो ह्यव्यक्तादेश्च कृत्स्नशः ।
अतस्तत्परमेवेदं वदन्ति मुनयोऽमलाः’’॥ इति सात्वतसंहितायाम् ।
‘यदधीना यस्य सत्ता तत्तदित्येव भण्यते ।
विद्यमाने विभेदेऽपि मिथो नित्यं स्वरूपतः’‘इति भविष्यत्पर्वणि ॥२॥

यद्विज्ञानो यदाधारो यत्परस्त्वं यदात्मकः ।
एकः सृजसि भूतानि भूतैरेवात्ममायया ॥ ४ ॥

तदधिकं ज्ञातुं पूर्वपक्षं दर्शयति–

‘एकः सृजसि’‘इत्यादिना ॥ ४ ॥

नाहं वेद परं त्वस्मात् नावरं न समं विभो ।
नामरूपगुणैर्भाव्यं सदसत् किञ्चिदन्यतः ॥ ६ ॥

‘त्वदधीना यतः सत्ता अवरस्यापि केशव ।
अतः स्वरूपतः सम्यक्सति भेदेऽपि तद्भवान्’‘इति मात्स्ये ॥ ६ ॥

नानृतं बत तच्चापि यथा मां प्रब्रवीषि भोः ।
अविज्ञाय परं मत्त एतावत्त्वं यतो हि मे ॥ १० ॥

नानृतमित्याक्षेपः ॥ १० ॥

नमस्तस्मै भगवते वासुदेवाय धीमहि ।
यन्मायया दुर्जयया मां वदन्ति जगद्गुरुम् ॥ १२ ॥

विलज्जमानया यस्य स्थातुमीक्षापथेऽमुया ।
विमोहिता विकत्थन्ते ममाहमिति दुर्धियः ॥ १३ ॥

‘मुख्या माया हरेः शक्तिरमुख्या प्रकृतिर्मता ।
अथामुख्यतमा चैव माया दीना प्रकीर्तिता’’॥ १२-१३ ॥

द्रव्यं कर्म च कालश्च स्वभावो जीव एव च ।
वासुदेवात्परो ब्रह्मन्न चान्योऽर्थोऽस्ति तात्वतः ॥ १४ ॥

परः अधिकः ।
‘तद्वदेव स्थितं यत्तु तात्वतं तत्प्रचक्षते’’। इति कौर्मे ॥ १४ ॥

नारायणपरा वेदा देवा नारायणाङ्गजाः ।
नारायणपरा लोका नारायणपरा मखाः ॥ १५ ॥

वेदप्रतिपाद्येषु स पर इत्यादि ।
‘गम्येज्यज्ञेयवाच्येषु योज्येषु च परो हरिः ।
तपसा पूज्यमानानां सर्वलोकेभ्य एव च’’॥ इति वाराहे ॥ १५ ॥

सत्वं रजस्तम इति निर्गुणस्य गुणास्त्रयः ।
स्थितिसर्गनिरोधेषु गृहीता मायया विभोः ॥ १८ ॥

युगपत्क्रमशोऽपि वेत्यस्य परिहारः ‘सत्वं रजस्तम’‘इति ।
‘नित्यं गृहीताः सत्वाद्याः स्थित्यादिषु विशेषतः ।
युगपत् क्रमशश्चैव गृह्णाति भगवान्स्वयम्’’॥ इति ब्रह्मवैवर्ते ॥ १८ ॥

कार्यकारणकर्तृत्वे द्रव्यज्ञानक्रियाश्रयाः ।
बध्नन्ति नित्यदा मुक्तं मायिनं पुरुषं गुणाः ॥ १९ ॥

‘ज्ञानेन्द्रियैश्च मनसा सत्वं बध्नाति पूरुषम् ।
रजः कर्मेन्द्रियैर्नित्यं शरीरेण तमस्तथा ।
आन्तरं यत्तु कर्तृत्वं तत्सत्वेनाभिमन्यते ॥

रजसा त्वभिमन्येत करणैः कर्मकारणैः ।
शारीरं वेदनाद्यं तु तमसा ह्यभिमन्यते ॥

अकर्ता करणैर्हीनः शरीरेण विवर्जितः ।
नित्यज्ञानस्वरूपोऽसौ गुणैरेवाभिमन्यते ॥

एवं जीवः परेणैव प््रोरितः संसृतिं व्रजेत् ।
न परः संसृतिं क्वापि स्वातन्त्र्यादधिकत्वतः ॥

एवं जीवपरौ भिन्नौ किमन्यच्छ्रोतुमिच्छसि’’॥ इति पाद्मे ॥

मायिनं ज्ञानिनं स्वतः ॥ १९ ॥

स एष भगवाल्लिङ्गैस्त्रिभिरेतैरधोक्षजः ।
स्वलक्षितगतिर्ब्रह्मन्सर्वेषां मम चेश्वरः ॥ २० ॥

लिङ्गैः ज्ञापकैः । त्रिगुणैः । एतैर्लिङ्गैः । स्वप्रसादाज्जीवेन लक्षितगतिः ।
‘स्वप्रसादादिमं जीवः पश्येत्तेन स्वलक्षितः’‘इति षाड्गुण्ये ॥ २० ॥

कालं कर्म स्वभावञ्च मायेशो मायया स्वया ।
आत्मन् यदृच्छया प्राप्तं विबुभूषुरुपाददे ॥ २१ ॥

स्वया मायया स्वशक्त्या ।
‘यत्रान्यहेत्वभावः स्यादीश्वरेच्छादिना विना ।
तदिच्छा हि यदृच्छा स्यादतस्तत्र यदृच्छया’’। इति ब्रह्मतर्के ।
‘कालकर्मस्वभावादि नित्ययेशेच्छया सदा ।
प्राप्तमेव विशेषेण सृष्ट्यादावुन्नयत्यजः’’॥ इति च ।
विबुभूषुः बहुधा बुभूषुः ।
‘ईशो बह्वीः पुरः सृष्ट्वा तत्रैव बहुरूपताम् ।
तत्तन्नियामकतया प्राप्तुं कालाद्युपाददे’’॥ इति च ॥ २१ ॥

कालाद्गुणव्यतिकरात्परिणामस्वभावतः ।
कर्मणो जन्म महतः पुरुषाधिष्ठितादभूत् ॥ २२ ॥

प्रकृतेः परिणामस्वभावतः ।
‘गुणकालस्वभावेभ्य ईशेनाधिष्ठितत्वतः ।
जगदादि महत्तत्त्वमभूत्तस्येच्छया हरेः ॥‘‘इति षाड्गुण्ये ॥ २२ ॥

महतस्तु विकुर्वाणाद्रजस्सत्वोपबृंहितात् ।
तमः प्रधानस्त्वभवद्द्रव्यज्ञानक्रियात्मकः ॥ २३ ॥

‘भूतानि द्रव्यनामानि ज्ञानं ज्ञानेन्द्रियाण्यपि ।
क्रिया कर्मेन्द्रियाण्याहुस्तन्मूलत्वादहं त्रिधा’’। इति गारुडे ॥ २३ ॥

सोऽहङ्कार इति प्रोक्तो विकुर्वन्समभूत्त्रिधा ।
वैकारिकस्तैजसश्च तामसश्चेति यद्भिदा ।
द्रव्यशक्तिः क्रियाशक्तिर्ज्ञानशक्तिरिति प्रभोः ॥ २४ ॥

‘विशिष्टकार्यशक्तित्वाद्देवा वैकारिकाः स्मृताः ।
अतिजाज्वल्यमानत्वात्तैजसानीन्द्रियाण्यपि ॥

तामसानि तु भूतानि यतस्तावन्न तूभयम्’’॥ इति पाद्मे ।
ज्ञानेन्द्रियाणां देवानां ज्ञानशक्तिरुदीरिता ।
क्रिया कर्मेन्द्रियाणां च भूतानां द्रव्यशक्तिता’’॥ इति स्कान्दे ।
‘द्रव्यं तु द्रवणप्राप्यं द्वयोर्विवदमानयोः ।
पूर्वं वेगाभिसम्बन्धादाकाशस्तु प्रदेशतः’’॥ इति प्रकाशसंहितायाम् ॥ २४ ॥

तामसादपि भूतादेर्विकुर्वाणादभून्नभः ।
तस्य मात्रागुणः शब्दो लिङ्गं यद्द्रष्टृदृश्ययोः ॥ २५ ॥

‘पञ्चेन्द्रियाभिमेयत्वान्मात्रागुण इतीरितः’’॥ इति मात्स्ये ।
‘शब्देनैव परो द्रष्टा ज्ञायते जगदेव च ।"

इति विष्णुसंहितायाम् ॥ २५ ॥

नभसोऽथ विकुर्वाणादभूत्स्पर्शगुणोऽनिलः ।
परान्वयाच्छब्दवांश्च प्राण ओजः सहो बलम् ॥ २६ ॥

‘सर्वचेष्टयितृत्वात्तु प्राणोऽभिभवशक्तितः ।
ओजस्त्वनभिभाव्यत्वात्सहश्च स्वेच्छया कृतेः ॥

बलं विधारकत्वाच्च विधृतिर्वायुरुच्यते’’। इति भारते ॥ २६ ॥

वैकारिकान्मनो जज्ञे देवा वैकारिका दश ।
दिग्वातार्कप्रचेतोश्विवह्नीन्द्रोपेन्द्रमित्रकाः ॥ ३० ॥

‘अनाद्यनन्तोऽपि हरिर्वैकारिकगणेष्वजः ।
अवतीर्णः पदाङ्गुष्ठमध्यास्ते विश्वभुग्विभुः ॥

पाददेवस्तु यज्ञोऽन्यस्तं प्रविश्य हरिः स्वयम् ।
सर्वं विधारयन्देहे वर्ततेऽनन्तशक्तिधृक्’’॥ इति वह्निपुराणे ॥ ३० ॥

तदा संहत्य चान्योन्यं भगवच्छक्तिचोदिताः ।
सदसत्वमुपादाय नो भयं ससृजुर्ह्यदः ॥ ३३ ॥

सदसत्वं व्यक्ताव्यक्तत्वम् । नः भयम् । अदो ब्रह्माण्डम् । ब्रह्माण्डं हि वदन्तीति जीवानां भयकारणम् । तत्र हि संसृतिः ।
‘आकाशवायू त्वव्यक्तावितरेऽण्डे प्रकाशिताः ।
तथात्वाद्बाह्यभूतानामण्डस्थानां च सा गतिः’’॥ इति मात्स्ये ॥३३॥

वर्षपूगसहस्रान्ते तदण्डमुदकेशयम् ।
कालकर्मस्वभावस्थोऽ)जीवोऽ)जीवमजीजनत् ॥ ३४ ॥

कालकर्मस्वभावस्थ अजीवः परमेश्वरः । अजीवं स्वात्मानम् अजीजनत् । तदण्डं यथा स्वात्मानं प्रासूते तथा चकार ।
‘यः प्रणधारणं प्रणप्रासादात्कुरुतेऽनिशम् ।
स जीव इति सन्दिष्टस्तदन्योऽजीव उच्यते ।
यत्प्रासादात्स तु प्रणः कुरुते स्वस्य धारणम्’’॥ इति वायुप्रक्ते ॥

‘कालकर्मस्वभावस्थो वासुदेवः परः पुमान् ।
अकरोदण्डमुद्वृद्धमात्मप्रसवकारणम् ॥‘‘इति ब्रह्माण्डे ।
जीव इति वा ।
‘प्र•णं धारयते यस्मात्स जीवः परमेश्वरः ।
अजीवोऽपि महातेजास्त्वथवा जीवयन् जगत्’’॥

इति स्कान्दे ॥ ३४ ॥

स एष पुरुषस्तस्मादण्डं निर्भिद्य निर्गतः ।
सहस्रोर्वङ्घ्रिबाह्वक्षिः सहस्राननशीर्षवान् ॥ ३५ ॥

‘अण्डे जातौ पुमांसौ द्वौ हरिर्ब्रह्मा तथैव च ।
अनादिस्तु हरिस्तत्र ब्रह्मा सादिरुदाहृतः’’। इति च ॥ ३५ ॥

यस्येहावयवैर्लोकान् कल्पयन्ति मनीषिणः ।
ऊर्वादिभिरधः सप्त सप्तोर्ध्वं जघनादिभिः ॥ ३६ ॥

‘हरेरवयवैर्लोकाः सृष्टा इति विकल्पनम् ।
साक्षात्सत्यमतोऽन्यस्मात् व्यावहारिकमुच्यते’’॥ इति मात्स्ये ॥३६॥

पुरुषस्य मुखं ब्रह्म क्षत्रमेतस्य बाहवः ।
ऊर्वोर्वैश्यो भगवतः पद्भ्यां शूद्रो व्यजायत ॥ ३७ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये द्वितीयस्कन्धे पञ्चमोऽध्यायः ॥ ५ ॥

‘ब्राह्मणो मुखमित्येव मुखाज्जातत्वहेतुतः ।
यथावदत् श्रुतौ तद्वज्जीवो ब्रह्मेति वाग्भवेत्’’॥ इति ब्राह्मे ॥ ३७ ॥

षष्ठोऽध्यायः

रूपाणां तेजसां चक्षुर्दिवः सूर्यस्य चाक्षिणी ।
कर्णौ दिशाञ्च तीर्थानां श्रोत्रमाकाशशब्दयोः ॥ ३ ॥

तीर्थानां शास्त्राणाम् ॥ ३ ॥

रोमाण्युद्भिजजातीनां यैर्वा यज्ञस्तु सम्भृतः ।
केशश्मश्रुनखान्यस्य शिलालोहाभ्रविद्युताम् ॥ ५ ॥

‘याज्ञिका रोममूलस्था रोमान्तस्थास्तु तत्परे ।
उद्भिजो वासुदेवस्य लिङ्गगास्तु जरायुजाः’’। इति पाद्मे ।
‘हरेः श्मश्वाश्रया विद्युच्छिलालोहा नखाश्रयाः’’। इत्याग्नेये ॥ ५ ॥

बाहवो लोकपालानां प्रायशः क्षेमकर्मणाम् ।
विक्रमो भूर्भुवःस्वश्च क्षेमस्य शरणस्य च

सर्वकामवरस्यापि हरेश्चरण आस्पदम् ॥ ६ ॥

ब्राह्मणवैश्यादीन् वर्जयितुं प्रायश इति ।
‘मोक्षः शान्तिश्च शरणं निर्वाणं चाभिधीयते’‘इति ब्राह्मे ।
‘भेजे खगेन्द्रध्वजपादमूलम्’’। इति च ।
‘स्वोत्पत्त्यङ्गेषु देवानामन्येषां पादमूलतः ।
मुक्तिस्तु विहिता विष्णोर्निर्दिष्टेषु यथावचः’’। इत्यध्यात्मे ॥ ६ ॥

धर्मस्य मम तुभ्यञ्च कुमाराणां भवस्य च ।
विज्ञानस्य च तत्वस्य परस्यात्मा परायणम् ॥ ११ ॥

‘कुमारब्रह्मरुद्राद्या हरेर्मध्यात्समुद्गताः’’। इति वामने ।
‘आत्मेति मध्यदेहश्च सर्वदेहोऽपि वा भवेत् ।
मनोबुद्धिरहङ्कारश्चित्तं जीवश्च कथ्यते ॥

अथवा स्वयमेवेति वायुर्ब्रह्माऽपि वा भवेत् ।
मुख्यतो ब्रह्म परममात्मशब्देन भण्यते’’॥ इति नाममहोदधौ ।
‘देहेन्द्रियादिभेदेन निर्भेदोऽपि हरिः स्वयम् ।
भण्यते केवलैश्वर्यादनाद्यानन्दचिद्घनः’’॥ इति गारुडे ।
सर्वं पुरुष एवेदं भूतं भव्यं भवच्च यत् ।
तेनेदमावृतं विश्वं वितस्तिमधितिष्ठता ॥ १५ ॥

‘सर्वं पुरुष एवेति भण्यतेऽभेदवज्जगत् ।
तदधीनं तु सत्तादि यतो ह्यस्य सदा भवेत्’’। इति ब्रह्मतर्के ।
‘वितस्तिमात्रं हृदयमास्थाय व्याप्नुते जगत्’’। इति गारुडे ॥ १५ ॥

स्वधिष्ण्यं प्रतपन् प्राणो बहिश्च प्रतपत्यसौ ।
एवं विराजं प्रतपंस्तपत्यन्तर्बहिः पुमान् ॥ १६ ॥

‘पश्यन् स्वधिष्ण्यं देहं स बहिष्ठान्विषयानपि ।
एवमण्डान्तरं पश्यन्बहिः सर्वं च पश्यति’’। इति वामने ॥ १६ ॥

सोऽमृतस्याभयस्येशो मर्त्यमन्नं यदत्यगात् ।
महिमैष ततो ब्रह्मन् पुरुषस्य दुरत्ययः ॥ १७ ॥

‘अव्यक्तमात्मनोऽन्नं च महदादि विनाशि च ।
यदतीतः परो विष्णुः स एवातो विमोक्षदः’’॥ इति नारदीये ॥१७॥

पादोऽस्य सर्वा भूतानि पुंसः स्थितिविदो विदुः ।
अमृतं क्षेममभयं त्रिमूर्ध्नोऽधायि मूर्धसु ॥ १८ ॥

‘स्वरूपांशो विभिन्नांश इति द्वेधांश इष्यते ।
अनन्तासनवैकुण्ठपद्मनाभाः स्वयं हरिः ॥

जीवा इमे विभिन्नांशा धर्माधर्मादिसंयुताः’’॥ इति वामने ।
सर्वस्य यथावत्स्थितिविदः ।
‘त्रिमूर्धा सन् हरिर्धत्ते द्युत्रयं मूर्धभिस्त्रिभिः ।
अनन्तासनवैकुण्ठनारायणपुराणि तु ।
बहुलक्षोच्छ्रितेष्वेषु स वसत्यमृतो हरिः’’॥ इति मात्स्ये ॥ १८ ॥

पादास्त्रयो बहिस्त्वासन्नप्रजानां य आश्रयाः ।
अन्तस्त्रिलोक्यास्त्वपरो गृहमेधैर्बृहद्धुतः ॥ १९ ॥

‘अनन्तासनवैकुण्ठनारायणपुराणि तु ।
त्रीणि धामानि वै विष्णोस्त्रिलोकाद्बहिरेव च ॥

अदायादास्तु पुत्राणामुद्रिक्तज्ञानचक्षुषः ।
नारायणपरा देवा एवं तान्याप्नुवन्ति’‘च ॥

‘स एवान्यस्वरूपेण शक्रलोकसमीपगः ।
इज्यो यज्ञपुमान्नाम ज्ञानिनां गृहिणां पदम् ॥

यतीनां ध्रुवलोकस्थो वनिनां मेरुमध्यगः ।
आदित्यमण्डलस्थस्तु ज्ञानिनां ब्रह्मचारिणाम्’’॥

इति ब्रह्माण्डे ॥ १९ ॥

सृती विचक्रमे विष्वक्साशनानशने उभे ।
यदविद्या च विद्या च पुरुषस्तूभयाश्रयः ॥ २० ॥

‘त्रिपात्स एव भगवान् सर्वप्राणिषु संस्थितः ।
निरन्नेषु च विद्वत्सु त्रिदशेष्वितरेषु च’’॥ इत्यध्यात्मे ॥ २० ॥

तस्मादण्डाद्विराड् जज्ञे भूतेन्द्रियगुणाश्रयः ।
तद्द्रव्यमत्यगाद्विश्वं गोभिः सूर्य इवाश्रयम् ॥ २१ ॥

यदास्य नाभ्यात् नलिनात् अहमासं महात्मनः ।
नाविन्दं यज्ञसम्भारान् पुरुषावयवान् ऋते ॥ २२ ॥

‘तस्माद्धरेरण्डमभूदण्डादपि चतुर्मुखः ।
स विराण्नामकस्तस्मादधिको हरिरेव तु ॥

अण्डाज्जातस्य तस्यान्यद्रूपं पद्मादभूद्धरेः ।
यदोभयात्मको जज्ञे ब्रह्मा लोकपितामहः ॥

तदैव सोऽतिरिक्तोऽभूच्छर्वपूर्वापराज्जनात् ।
त्रिलोकस्थानगं विष्णुमयजच्च समाहितः ।
तद्रूपभूतांस्त्रींल्लोकान् पशून् कृत्वा महामनाः’’॥ इति गारुडे ॥ २१-२२ ॥

नामधेयानि मन्त्राश्च दक्षिणाश्च व्रतानि च ।
देवतानुक्रमः कल्पः सङ्कल्पः सूत्रमेव च ॥ २५ ॥

सूत्रं मीमांसासूत्रम् ॥ २५ ॥

नारायणे भगवति तदिदं विश्वमाहितम् ।
गृहीतमायोरुगुणे सर्गादावगुणे स्वतः ॥ ३० ॥

यस्मात् तमेवायजन् तस्मादिदं तस्मिन्नाहितम् ।
‘नित्यं गृहीताः सत्वाद्या जीववज्जडवन्न तु ।
मिथ्यामानात्स्वरूपत्वात्स्वातन्त्र्याद्बहिरेव तु’’॥ इति ब्रह्मतर्के ॥३०॥

इति तेऽभिहितं तात यथेदमनुपृच्छसि ।
नान्यद्भगवतः किञ्चिद्भाव्यं सदसदात्मकम् ॥ ३२ ॥

‘सदिति व्यक्तमुद्दिष्टमसदव्यक्तमुच्यते ।
गम्यागम्यस्वरूपत्वात्तत्सत्तादिर्हरेर्यतः ॥

अतस्तस्मादन्यदेव ह्यनन्यदिति भण्यते’’॥ इति च ॥ ३२ ॥

नतोऽस्म्यहं तच्चरणं समीयुषां

भवच्छिदं स्वस्त्ययनं सुमङ्गलम् ।
यः स्वात्ममायाविभवं स्वयं गतो

नाहं नभस्वांस्तमथापरे कुतः ॥ ३५ ॥

‘सर्वजीवनिकायेषु ब्रह्मवायू हरेर्विदौ ।
न चान्यस्तादृशो वेत्ता यावद्वेत्ति हरिः स्वयम् ॥

तावत्तावपि नो विष्णुं जानीतो लोकवन्दितौ’’॥

इति ब्रह्माण्डे ॥ ३५ ॥

स एष आद्यः पुरुषः कल्पे कल्पे सृजत्यजः ।
आत्माऽऽत्मन्यात्मनाऽऽत्मानं स संयच्छति पाति च ॥ ३८ ॥

‘स्वयमेव स्वरूपाणि मत्स्यकूर्मादिकान्यजः ।
स्वात्मन्येवेच्छया सृष्ट्वा तैर्देवादीन्प्रपात्यसौ ॥

संयच्छत्यसुरान्विष्णुः कल्पे कल्पे जगत्प्रभुः ।
तिरोहितं स्वरूपं च प्रकाशयति शास्त्रतः’’॥

इति भागवततन्त्रे ॥ ३८ ॥

विशुद्धं केवलं ज्ञानं प्रत्यक् सम्यगवस्थितम् ।
सत्यं पूर्णमनाद्यन्तं निर्गुणं नित्यमद्वयम् ॥ ३९ ॥

ऋतं विदन्ति मुनयः प्रशान्तात्मेन्द्रियाशयाः ।
यदा तदैवासत्तर्कैस्तिरोधीयेत विप्लुतम् ॥ ४० ॥

‘ऋतं तदात्मना ज्ञप्तेः सत्यं साधुत्वतः परम् ।
सम्यक्संस्थमदूष्यत्वाच्छुद्धं दोषोज्झितत्वतः ।
केवलं तादृशाभावात्प्रत्यगन्तरवस्थितेः ।
एतदेतादृशं तत्त्वं यो वेद स विमुच्यते’’॥ इति ब्रह्मतर्के ॥३९,४०॥

आद्योऽवतारः पुरुषः परस्य

कालः स्वभावः सदसन्मनश्च ।
द्रव्यं विकारो गुण इन्द्रियाणि

विराड् स्वराट्स्थास्नु चरिष्णु भूम्नः ॥ ४१ ॥

अहं भवो यज्ञ इमे प्रजेशाः

दक्षादयो ये भवदादयश्च ।
स्वर्लोकपालाः खगलोकपालाः

नृलोकपालास्तललोकपालाः ॥ ४२ ॥

गन्धर्वविद्याधरचारणेशाः

ये यक्षरक्षोरगनागनाथाः ।
ये वा ऋषीणामृषभाः पितॄणां

दैत्येन्द्रसिद्धेश्वरदानवेन्द्राः ॥ ४३ ॥

अन्ये च ये प््रोतपिशाचभूतकूष्माण्डयादोमृगपश्वधीशाः ।
यत्किञ्च लोके भगवन्महस्वदोजः सहस्वद्बलवत्क्षमावत् ।
ह्रीश्रीविभूत्यात्मवदद्भुतार्णं तत्तत्परं रूपवदस्वरूपम् ॥४४॥

प्राधान्यतो यानृषय आमनन्ति

लीलावतारान् पुरुषस्य भूम्नः ।
आपीयतां कर्मकषायशोषान-

नुक्रमिष्ये त इमान् सुपेशलान् ॥ ४५ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये द्वितीयस्कन्धे षष्ठोऽध्यायः ॥ ६ ॥

‘यः शेते प्रलये विष्णुः शून्यनामा महाकृतिः ।
स तु नारायणो नाम नराणामयनत्वतः ।
रूपं द्वितीयं भवति दीपाद्दीपान्तरं यथा ॥

सिसृक्षोस्तस्य पुरुष इत्याहुस्तद्विदो जनाः ।
स रमाया द्वितीये तु रूपे प्रकृतिसंज्ञिते ॥

वीर्यमाधत्त पुरुषो महांस्तस्मादजायत ।
योऽसौ हिरण्यगर्भाख्यः पुरुषः सोऽपि भण्यते ॥

श्रद्धेत्युक्ता तु तत्पत्नी साऽपि प्रकृतिरुच्यते ।
प्रलये त्वशरीरौ तौ विभागेन व्यवस्थितौ ॥

शरीरं प्राप्य पुरुषात्संयोगं तौ प्रचक्रतुः ।
ततः पुनर्महत्तत्त्वं प्रजातं जगदङ्कुरम् ॥

स्वस्यैव पुत्रतां यातमहङ्कारस्ततोऽजनि’’॥ इति व्योमसंहितायाम् ।
पुरुषः तस्यैव आद्योऽवतारः । कालादयो रूपवत् । अस्वरूपमपि प््रिायत्वात् ।
‘पुरुषाद्या हरेरूपं ब्रह्माद्यास्तत्प््रिायाः स्मृताः ।
स्वरूपभूता नैवैते तत्सन्निधियुता अपि’’॥ इति पाद्मे ।
‘कालो वस्तुस्वभावश्च प्रकृतिः प्राण एव च ।
मनश्च पञ्चभूतानि विकारस्त्रिगुणा अपि ।
न स्वरूपं हरेरेतत्तथाप्येषु हरिः स्थितः’’॥ इति पाद्मे ।
सत् प्राणः । ‘सदिति प्राणः’‘इति श्रुतेः ।
‘द्रव्यं तु पञ्चभूतानि विकारोऽण्डमुदाहृतम् ।
विराजं गरुडं प्राहुः स्वराडिन्द्र उदाहृतः’’॥ इति षाड्गुण्ये ।
‘सर्वं तु रूपवद्विष्णोर्विशेषेण विभूतिमत् ।
अतिप््रिायत्वान्नैवैतत्स्वरूपमपि भण्यते’’॥ इति स्कान्दे ।
‘स्वतो महत्वं तु महोविशेषप्राप्तिशक्तिता ।
विभूतिर्लक्षणोन्नाहो लक्ष्मीशब्देन भण्यते’’॥ इति ब्रह्मतर्के ।
‘प्रधानत्वेन सर्वस्मान्मत्स्यकूर्मादयो हरेः ।
अवताराः श्रुतौ ख्याताः स एवैते ततः स्मृताः ।
न स्वरूपं तु ब्रह्माद्याः स्मृता मायाविभूतयः ।
स्वेच्छयैषां विशिष्टत्वं कुरुते तत्तथा स्मृताः ।‘‘इति व्योमसंहितायाम् ॥

‘यज्ञशब्दोदितौ द्वौ तु देवौ लोकपुरस्कृतौ ।
एको नारायणस्तत्र रुद्रच्छिन्नस्तथापरः ।
स तु यज्ञाभिमानी स्यात्तत्पतिः केशवः स्मृतः’’॥ इति पाद्मे ॥ ४१-४५ ॥

सप्तमोऽध्यायः

जातो रुचेरजनयत्सुयशाः सुयज्ञः

आकूतिसूनुरमरानथ दक्षिणायाम् ।
लोकत्रयस्य महतीमहरद्य आर्तिं

स्वायम्भुवेन मनुना हरिरित्यनूक्तः ॥ २ ॥

‘क्रियाभिमानाद्यज्ञोऽसाविन्द्रसूनुः प्रकीर्तितः ।
यज्ञेशत्वात्स्वयं विष्णुर्यज्ञो रुचिसुतः स्मृतः’’॥ इति पाद्मे ।
हरिरिति ज्ञात्वेशावास्यमित्यादिनाऽनूक्तः ।
‘त्रयी श्रुतिर्नित्यवाक्च वेदोऽनुवचनं तथा’’॥ इति ह्यभिधानम् ॥२॥

अत्रेरपत्यमभिकाङ्क्षत आह तुष्टो

दत्तो मयाहमिति यद्भगवान्स दत्तः ।
यत्पादपङ्कजपरागपवित्रदेहा

योगर्धिमापुरमयीं यदुहैहयाद्याः ॥ ४ ॥

अमयीं विष्णुप्रधानाम् ॥ ४ ॥

तप्तं तपो विविधलोकसिसृक्षया मे

आदौ सनात्सुतपसस्तपतः स नोऽभूत् ।
प्राक्कल्पसम्प्लवविनष्टमिहात्मतत्वं

सम्यग्जगाद मुनयो यदचक्षतात्मन् ॥ ५ ॥

मे तपतः सतः । सः नः अर्थे । सनात् पूर्वम् ।
‘ब्रह्मणस्तपतः पूर्वं विष्णुर्जात उरुक्रमः ।
सर्वलोकहितार्थाय येन रूपं प्रकाशितम् ।
यश्च पाति सदा लोकानजितो जयतां वरः ।
तस्माद्रुद्रः समुत्पन्नः सर्वसंहारकृद्विभुः ।
एते त्रिपुरुषाः प्रोक्ताः सृष्टिस्थित्यन्तकारिणः ।
निमित्तमात्रं तौ देवौ विष्णुः सर्वस्य कारणम्’’॥ इति स्कान्दे ॥ ५ ॥

धर्मस्य दक्षदुहितर्यजनि स्वमूर्त्या

नारायणो नर इति स्वतपःप्रभावः ।
दृष्टात्मनो भगवतो नियमावलोपं

देव्यस्त्वनङ्गपृतना घटितुं न शेकुः ॥ ६ ॥

‘नरो नारायणश्चैव हरिः कृष्णस्तथैव च ।
चत्वारो धर्मतनया हरिरेव त्रयो मतः ॥

अनन्तो नरनामाऽत्र तस्मिंस्तु नरनामवान् ।
विशेषेण स्वयं विष्णुर्निवसत्यम्बुजेक्षणः । ।
तस्माच्चतुर्धा धर्मस्य जातो विष्णुरितीरितः’’॥ इति षाड्गुण्ये ॥६॥

विद्धः सपत्न्युदितपत्रिभिरन्ति राज्ञो

बालोऽपि सन्नपगतस्तपसे वनाय ।
तस्मा अदाद्ध्रुवगतिं गृणते प्रसन्नो

दिव्याः स्तुवन्ति मुनयो यदुपर्यधस्तात् ॥ ८ ॥

‘अवतारो महाविष्णोर्वासुदेव इतीरितः ।
यो ध्रुवाय निजं प्रादात्स्थानमन्यानधिष्ठितम्’’॥

इति प्रकाशसंहितायाम् ॥ ८ ॥

यद्वेनमुत्पथगतं द्विजवाक्यवज्र-

निष्पिष्टपौरुषभगं निरये पतन्तम् ।
ज्ञात्वार्थितो जगति पुत्रपदञ्च लेभे

दुग्धा वसूनि वसुधा सकलानि येन ॥ ९ ॥

‘पृथुर्नाम महाराजस्तत्र विष्णुः स्वयं प्रभुः ।
पृथुनामा चतुर्बाहुः प्रविष्टस्तेन चार्थितः’’॥

इति महासंहितायाम् ॥ ९ ॥

नाभेरसावृषभ आस सुदेविसूनुः

यो वै चचार समदृग् हृदि योगचर्याम् ।
यत्पारमहंस्यमृषयः पदमामनन्ति

स्वस्थः प्रशान्तकरणः परिमुक्तसङ्गः ॥ १० ॥

यद्रूपं परमहंसप्राप्यं पदमामनन्ति ॥ १० ॥

सत्रे ममास भगवान्हयशीर्ष एषः

साक्षात् स यज्ञपुरुषस्तपनीयवर्णः ।
छन्दोमयो मखमयोऽखिलदेवतात्मा

वाचो बभूवुरुशतीः श्वसतोऽस्य नस्तः ॥ ११ ॥

‘छन्दांसि च मखाश्चैव देवा लोकाश्च सर्वशः ।
सर्वे विष्णौ स्थिता यस्मादतः सर्वमयो ह्यसौ’’॥

इति महासंहितायाम् ॥ ११ ॥

मत्स्यो युगान्तसमये मनुनोपलब्धः

क्षोणीमयो निखिलजीवनिकायकेतः ।
विस्रंसितानुरुभये सलिले मुखान्मे

आदाय तत्र विजहार ह वेदमार्गान् ॥ १२ ॥

क्षोणीमयनौकाश्रयत्वात् क्षोणीमयः ॥ १२ ॥

स्मृत्वा हरिस्तमरणार्थिनमप्रमेयः

चक्रायुधः पतगराजभुजाधिरूढः ।
चक्रेण नक्रवदनं विनिपाट्य तस्मात्

हस्ते प्रगृह्य भगवान्कृपयोज्जहार ॥ १६ ॥

‘हरिस्तापसनामाऽसौ जातस्तपसि वै मनुः ।
गजेन्द्रं मोचयामास ससर्ज च जगद्विभुः ॥‘‘इति मात्स्ये ॥ १६ ॥

नार्थो बलेरयमुरुक्रमपादशौचम्

अम्भः शिवं धृतवतो विबुधाधिपत्यम् ।
यो वै प्रतिश्रुतमृतेऽपि च शीर्षमाणं

आत्मन्यमङ्ग मनसा हरयेऽभिमेने ॥ १८ ॥

‘ऐन्द्रं पदं नान्तरीयं फलं तु हरितोषणम् ।
जगद्दातुर्बलेर्यस्मादानन्दोद्रिक्तता भवेत्’’॥ इति ब्रह्मतर्के ।
शीर्षाख्यं मानम् ॥ १८ ॥

तुभ्यञ्च नारदभृशं भगवान्वि-

वृद्धभावेन साधु परितुष्ट उवाच योगम् ।
ज्ञानञ्च भागवतमात्मसुतत्वदीपं

यद्वासुदेवशरणा विदुरञ्जसैव ॥ १९ ॥

‘ऐतरेयो हरिः प्राह नारदाय स्वकां तनुम् ।
यत्प्रापुर्वैष्णवा नान्ये यदृते न सुखं परम्’’॥ इति ब्राह्मे ॥ १९ ॥

चक्रञ्च दिक्ष्वविहतं दशसु स्वतेजो

मन्वन्तरेषु मनुवंशधरो बिभर्ति ।
दुष्टेषु राजसु दमं विदधत्स्वकीर्तिं

सत्ये निविष्ट उशतीं प्रथयंश्चरित्रैः ॥ २० ॥

‘मन्वन्तरेषु भगवान् चक्रवर्तिषु संस्थितः ।
चतुर्भुजो जुगोपैतद्दुष्टराजन्यनाशकः ॥

राजराजेश्वरेत्याहुर्मुनयश्चक्रवर्तिनाम् ।
वीर्यदं परमात्मानं शङ्खचक्रगदाधरम्’’॥ इति सत्यसंहितायाम् ॥२०॥

कृत्स्नप्रसादसुमुखः कलया कलेशः

इक्ष्वाकुवंश अवतीर्य गुरोर्निदेशे ।
तिष्ठन्वनं सदयितानुज आविवेश

यस्मिन्विरुध्य दशकन्धर आर्तिमार्च्छत् ॥ २३ ॥

यस्मा अदादुदधिरूढभयाङ्गवेपो

मार्गं सपद्यरिपुरं हरवद्दिधक्षोः ।
दूरेसुहृन्मथितरोषसुशोषदृष्ट्या

तातप्यमानमकरोरगनक्रचक्रः ॥ २४ ॥

वक्षःस्थलस्पर्शरुग्णमहेन्द्रवाह-

दन्तैर्विलम्बितककुब्जयरूढहासः ।
सद्योऽसुभिः सह विनेष्यति दारहर्तुः

विस्फूर्जितैर्धनुष उच्चरितैः ससैन्यः ॥ २५ ॥

प्राणादिकलेशः । दूरस्था सुहृद्यस्य भगवतः स दूरेसुहृत् । सुशोषो अग्निः ।
‘अग्निः सुशोषः कक्षघ्नस्तिमिरारिर्हिरण्यदः’’। इति ह्यभिधाने ।
विनेष्यति विनाशम् एष्यति । दारहर्तुः भगवतः ॥

‘धनुर्विस्फूर्जितैर्नष्टो रावणः पूर्वमेव तु ।
पुनः शरै राममुक्तैः सानुबन्धो विनेश्यति’’॥ इति स्कान्दे ॥२३-२५ ॥

भूमेः सुरेतरवरूथविमर्दितायाः

क्लेशव्ययाय कलया सितकृष्णकेशः ।
जातः करिष्यति जनानुपलक्ष्यमार्गः

कर्माणि चात्ममहिमोपनिबन्धनानि ॥ २६ ॥

‘राम एको ह्यनन्तांशस्तत्र रामाभिधो हरिः ।
शुक्लकेशात्मकस्तिष्ठन् रमयामास वै जगत्’’॥ इति ब्राह्मे ।
‘विष्णोर्नान्येन कर्माणि परेषां तन्निबन्धनम्’’॥ इति मात्स्ये ॥२६॥

तोकेन जीवहरणं यदुलूपिकायाः

त्रैमासिकस्य च पदा शकटोऽपवृत्तः ।
यद्रिङ्गताऽन्तरगतेन दिविस्पृशोर्वा

उन्मूलनन्त्वितरथाऽर्जुनयोर्न भाव्यम् ॥ २७ ॥

‘सहस्रधनुषस्तूर्ध्वं द्युशब्देनापि भण्यते’’। इति तन्त्रमालायाम् ।
इतरथा विष्णुर्न चेत् । स्वमहिमनिबन्धनत्वेन न भाव्यम् ॥ २७ ॥

तत्कर्म दिव्यमिव यन्निशि निःशयानं

दावाग्निनाऽऽशु विपिने परिदह्यमाने ।
उन्नेष्यति व्रजमितोऽवसितान्तकालं

नेत्रे पिधाय्य सबलोऽनधिगम्यवीर्यः ॥ २९ ॥

अन्येषां स्तुत्यमेव यत्तस्य तच्च दिव्यमिव ॥ २९ ॥

नन्दं च मोक्ष्यति भयाद् वरुणस्य पाशात्

गोपान् बिलेषु पिहितान् मयसूनुना च ।
जल्प्यावृतं निशि शयानमतिश्रमेण

लोके विकुण्ठ उपधास्यति गोकुलं सः ॥ ३१ ॥

‘अन्यथाज्ञानहेतुर्या वाक् सा जल्पिः प्रकीर्तिता’’॥

इति तन्त्रमालायाम् ॥

‘यत्तु सर्वात्मनाऽज्ञानं निशा सा परिकीर्तिता’’॥ इति कौर्मे ॥३१॥

क्रीडन् वने निशि निशाकररश्मिगौर्यां

रासोन्मुखः कलपदायतमूर्च्छितेन ।
उद्दीपितस्मररुजां व्रजसद्वधूनां

हर्तुर्हरिष्यति शिरो धनदानुगस्य ॥ ३३ ॥

कलपदं च आयतं च ।
‘सप्तस्वरसमाहारो मूर्च्छनेति प्रकीर्तिता’’॥ इति गान्धर्वे ॥ ३३ ॥

ये च प्रलम्बखरदर्दुरकेश्यरिष्ट-

मल्लेभकंसयवनाः कुजपौण्ड्रकाद्याः ।
अन्येऽपि शाल्वकपिबल्वलदन्तवक्र-

सप्तोक्षशंबरविडूरथरुग्मिमुख्याः ॥ ३४ ॥

ये वा मृधे समितिशालिन आत्तचापाः

काम्भोजमत्स्यकुरुसृञ्जयकैकयार्णाः ।
यास्यन्त्यदर्शनमिता बलपार्थभीम-

व्याजाह्वयेन हरिणा निलयं तदीयम् ॥ ३५ ॥

‘विद्वेषिणोऽप्युदासीना भक्ता अपि न संशयः ।
हरेर्हि सदनं यान्ति व्यक्तं भक्तैस्तु गम्यते ॥

आरभ्य तम आमुक्तेः कृष्णस्य सदनं यतः ।
अव्यक्तहरिलोकत्वादन्येषामन्यलोकता’’॥ इति बृहत्संहितायाम् ॥

‘रामभीमार्जुनादीनि विष्णोर्नामानि सर्वशः ।
रमणाभयवर्णाद्याः शब्दवृत्तेर्हि हेतवः ॥

हरिर्हि तत्र तत्रस्थो रमणादीन्करोत्यजः ।
अतस्तस्यैव नामानि व्याजादन्यगतानि तु ।
व्यवहारप्रवृत्त्यर्थं दुष्टानां मोहनाय च’’॥ इति स्कान्दे ॥ ३४-३५ ॥

कालेन मीलितदृशामवमृश्य नॄणां

स्तोकायुषां स्वनिगमो बत दूरपारः ।
आविर्हितस्त्वनुयुगं स हि सत्यवत्यां

वेदद्रुमं विटपशो विभजिष्यति स्म ॥ ३६ ॥

‘तृतीये सप्तमे चैव षोडशे पञ्चविंशके ।
अष्टाविंशे युगे कृष्णः सत्यवत्यामजायत ।
व्यासाचार्यस्तु पूर्वेषु चरमे स्वयमेव तु ।
विव्यास वेदांश्चक्रे च भारतं वेदसंमितम्’’॥ इति च ॥ ३६ ॥

सर्गे तु योऽहमृषयो नव ये प्रजेशाः

स्थानेऽथ धर्ममखमन्वमरावनीशाः ।
अन्ते त्वधर्महरमन्युवशासुराद्याः

मायाविभूतय इमाः पुरुशक्तिभाजः ॥ ३९ ॥

‘हरीच्छया विभूतिर्या ब्रह्मादीनां सदा भवेत् ।
इच्छया वा बहुविधस्तेषु विष्णुः स्वयं स्थितः ।
अतो मायाविभूतित्वं तेषां मत्स्यादिकाः स्वयम्"

इत्यध्यात्मे ॥ ३९ ॥

नान्तं विदाम्यहममी मुनयः प्रजेशाः

मायाबलस्य पुरुषस्य कुतोऽपरे ये ।
गायन् गुणान्दशशतानन आदिदेवः

शेषोऽधुनाऽपि समवस्यति नास्य पारम् ॥ ४१ ॥

विदुः नान्तम् । अनन्तत्वात् ॥ ४१ ॥

येषां स एव भगवान्दययेदनन्तः

सर्वात्मनाश्रितपदो यदि निर्व्यलीकम् ।
ते वै विदन्त्यतितरन्ति च देवमायां

नैषां ममाहमिति धीः श्वसृगालभक्ष्ये ॥ ४२ ॥

देवमायां विदन्ति संसारमतितरन्ति च ॥ ४२ ॥

ते वै विदन्त्यतितरन्ति च देवमायां

स्त्रीशूद्रहूणशबरा अपि पापजीवाः ।
यद्यद्भुतक्रमपरायणशीलशिक्षाः

तिर्यग्जना अपि किमु श्रुतधारणा ये ॥ ४६ ॥

तत्परायणास्तच्छीलास्तच्छिक्षाश्च ॥ ४६ ॥

शश्वत्प्रशान्तमभयं प्रतिबोधमात्रं

शुद्धं समं सदसतः परमात्मतत्वम् ।
शब्दो न यत्र पुरुकारकवान् क्रियार्थो

माया परैत्यभिमुखे च विलज्जमाना ॥ ४७ ॥

‘अव्यक्ताद्यनहंमानादात्मतत्त्वं हरिः स्मृतः ।
अशब्दश्चाप्रसिद्धत्वाच्छान्तः पूर्णसुखत्वतः’’॥ इति ब्रह्मतर्के ॥४७॥

स श्रेयसामपि विभुर्भगवान्यतोऽस्य

भावस्वभावविहितस्य सतः प्रसिद्धः ।
देहे स्वधातुविगमे तु विशीर्यमाणे

व्योमेव तत्र पुरुषो न विशीर्यतेऽजः ॥ ४९ ॥

भावस्वभावो भक्तिस्वभावः । तेन निर्मितस्य सत्पुरुषस्य प्रसिद्धः ।
‘भावो भक्तिः प्रणामश्च प्रावण्यमपि चादरः’’। इत्यभिधानात् ॥४९॥

सोऽयं तेऽभिहितस्तात भगवान्विश्वभावनः ।
समासेन हरेर्नान्यदन्यस्मात्सदसच्च यत् ॥ ५० ॥

‘सत्तादिर्यत्स्वतो विष्णोस्तस्मादन्यः स सर्वतः ।
यत्सत्तादिरतोऽन्यस्य नान्यत्वं भेदिनोऽपि तु’’॥ इति ब्रह्माण्डे ॥५०॥

नृजन्मनि न तुष्येत किं फलं यमनश्वरे ।
कृष्णे यद्यपवर्गेशे भक्तिः स्यान्नानपायिनी ॥ ५३ ॥

किं स्याद्वर्णाश्रमाचारैः किं दानैः किं तपःश्रुतैः ।
सर्वाघघ्नोत्तमश्लोके न चेद्भक्तिरधोक्षजे ॥ ५४ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये द्वितीयस्कन्धे सप्तमोऽध्यायः ॥ ७ ॥

‘आक्षिप्यते किमित्येतद्यतोऽल्पफलता भवेत् ।
वस्तुनो यस्य चाल्पत्वं पुंसो वा नेति चोच्यते’’॥

इति प्रकाशसंहितायाम् ॥ ५३,५४ ॥

अष्टमोऽध्यायः

पुरुषावयवैर्लोकाः सपालाः पूर्वकल्पिताः ।
लोकैरमुष्यावयवाः सपालैरिति शुश्रुमः ॥ ११ ॥

निजावयवेभ्यः सृष्टाः । बाह्यावयवा लोकैः कल्प्यन्ते ॥ ११ ॥

यस्मिन्कर्मसमावापो यथा येनोपगृह्यते ।
गुणानां गुणिनां चैव परिमाणं सुविस्तरम् ॥ १४ ॥

जीवे कर्मसमावापः । परमेश्वरेण गृह्यते । गुणिनां महदादिजीवानां सामर्थ्ये परिमाणम् ‘देवासुरेभ्यो मघवान्’‘इत्यादि ॥ १४ ॥

नृणां साधारणो धर्मः सविशेषश्च यादृशः ।
श्रेणीनां राजर्षीणाञ्च धर्मः कृच्छ्रेषु जीवताम् ॥ १८ ॥

श्रेणीनाम् अङ्गरक्षकाणां युद्धेषूच्यते ॥ १८ ॥

तत्वानां परिसङ्ख्यानं लक्षणं हेतुलक्षणम् ।
पुरुषाराधनविधिः योगस्याऽध्यात्मिकस्य च ॥ १९ ॥

हेतुलक्षणं ब्रह्मलक्षणम् ॥ १९ ॥

योगेश्वरैश्वर्यगतिं लिङ्गभङ्गं च योगिनाम् ।
वेदोपवेदधर्माणामितिहासपुराणयोः ॥ २० ॥

योगतो लिङ्गभङ्गः पूर्वोक्तः । ‘पानेन ते देव’‘इत्यादि पश्चात् ॥ २० ॥

यथाऽऽत्मतन्त्रो भगवान् विक्रीडत्यात्ममायया ।
विसृज्य च यथा मायामुदास्ते साक्षिवद्विभुः ॥ २३ ॥

‘द्वेधा वावात्ममाया तद्रूपा तद्वशा च’‘इति । तद्वशया संसारयति । स्वरूपया विमोचयत्युदास्ते तद्वशां विमुक्तस्थ इतरयैनं रमयत्येष आत्मैष आनन्दः’’। इति सौकारायणश्रुतिः ॥ २३ ॥

अत्र प्रमाणं हि भवान् परमेष्ठी यथाऽऽत्मभूः ।
अपरे ह्यनुतिष्ठन्ति पूर्वेषां पूर्वजैः कृतम् ॥ २५ ॥

यस्मात् अनुतिष्ठन्ति तस्मात् परमेष्ठी प्रमाणम् ॥ २५ ॥

सूत उवाच—

स उपामन्त्रितो राज्ञा कथायामिति सत्पतेः ।
ब्रह्मरातो भृशं प्रीतो विष्णुरातेन संसदि ॥ २७ ॥

‘बालोऽपि स गुरुत्वेन मुनिभ्यो ब्रह्मणा यतः ।
दत्तोऽतो ब्रह्मरातेति नाम वैयासकेरभूत्’’॥ इति ब्राह्मे ॥ २७ ॥

आह भागवतं नाम पुराणं ब्रह्मसम्मितम् ।
ब्रह्मणे भगवत्प्रोक्तं ब्रह्मकल्प उपागते ॥ २८ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये द्वितीयसन्धे अष्टमोऽध्यायः ॥ ८ ॥

‘यत्र ब्रह्मान्तरोत्पत्तिः ब्रह्मकल्पः स ईरितः’’॥ इति च ॥ २८ ॥

नवमोऽध्यायः

श्रीशुक उवाच—

आत्ममायामृते राजन् परस्यानुभवात्मनः ।
न घटेतार्थसम्बन्धः स्वप्ने द्रष्टुरिवाञ्जसा ॥ १ ॥

बहुरूप इवाऽभाति मायया बहुरूपया ।
रममाणो गुणेष्वस्या ममाहमिति मन्यते ॥ २ ॥

यर्हि चायं महित्वे स्वे परस्मिन्कालमाययोः ।
रमते गतसंमोहस्त्यक्त्वोदास्ते तदोभयम् ॥ ३ ॥

परस्य अर्थव्यतिरिक्तस्य । ‘यदधातुमतः’‘इत्यस्य ह्युत्तरम् ।
‘अशरीरस्य जीवस्य शरीरोत्पत्तिकारणम् ।
ईश्वरेच्छा प्राथमिका तां विना न हि किञ्चन ॥

द्वितीया प्रकृतिः प्रोक्ता तद्रूपा हि गुणास्त्रयः ।
तेषां सम्पातजो भावो ममाहमिति या मतिः ॥

देहात्परस्य देहित्वमहंभावमृते कुतः ।
यथा रजस्तमोभावैर्विना स्वप्नो न जायते ॥

निद्रा कामाद्यभावेन तद्वद्देहः क्व तान्विना ।
तस्मात्प्रकृत्यैव पुमान्मानुषादिविकारया ॥

मानुषादिरिवाभाति नित्यचैतन्यरूपवान् ।
यदा स्वरूपं जानाति कालप्रकृतिवर्जितम् । ।
वासुदेवप्रसादेन तदा मुक्तो भवत्यसौ’’॥ इति भविष्यत्पुराणे ॥१-३॥

आत्मतत्वविशुध्यर्थं यदाह भगवानृतम् ।
ब्रह्मणेऽदर्शयद्रूपमव्यलीकव्रतादृतः ॥ ४ ॥

यतो भगवदुक्तं प्रमाणमतस्तदुक्तं पुराणं त्वत्प्रश्नानामुत्तरत्वेन वक्ष्ये ॥ ४ ॥

दिव्यं सहस्राब्दममोघदर्शनो

जितानिलात्मा विजितोभयेन्द्रियः ।
अतप्यत स्माखिललोकतापनं

तपस्तपीयांस्तपतां समाहितः ॥ ८ ॥

तपो ब्रह्म ।
‘तपसोऽध्यजायत’’। इति श्रुतेः ।
अखिललोकप्रकाशनं यत् तदाऽऽलोचयामास । तपतां तपीयानित्यनेनात्युत्तमोत्तमत्वमुक्तं भवति ।
‘महन्महीयसामादिं ब्रूयादत्युत्तमोत्तमम् ।
यत्राधिकं वदेत्किञ्चिज्ज्ञेयोऽर्थस्तत्र चाधिकः’’। इति व्यासनिरुक्ते ॥

‘तपोरूपं परं ब्रह्म ब्रह्माऽचिन्तयदञ्जसा’’। इति षाड्गुण्ये ॥ ८ ॥

तस्मै स्वलोकं भगवान्सभाजितः

सन्दर्शयामास परं न यत् पदम् ।
व्यपेतसंक्लेशविमोहसाध्वसं

सन्दृष्टवद्भिर्विबुधैरभिष्टुतम् ॥ ९ ॥

यत् यतः । ‘यत्तदित्यादयः शब्दाः पञ्चम्यन्ताः प्रकीर्तिताः’’।इति च ॥ ९ ॥

न वर्तते यत्र रजस्तमस्तयोः

सत्वं च मिश्रं न च कालविक्रमः ।
न यत्र माया किमुतापरे हरे-

रनुव्रता यत्र सुरासुरार्चिताः ॥ १० ॥

मायातीतत्वात् ॥ १० ॥

श्रीर्यत्र रूपिण्युरुगायपादयोः

करोति मानं बहुधा विभूतिभिः ।
प््रोङ्खश्रिता याः कुसुमाकरानुगै-

र्विगीयमाना प््रिायकर्म गायती ॥ १३ ॥

प््रोङ्खश्रिताः याः विभूतयः ॥ १३ ॥

ददर्श तत्राखिलसात्वतां पतिं

श्रियःपतिं यज्ञपतिं जगत्पतिम् ।
सुनन्दनन्दप्रबलार्हणादिभिः

स्वपार्षदमुख्यैः परिसेवितं विभुम् ॥ १४ ॥

‘सत्वं तु शोभनत्वं स्यात्तद्युक्ताः सात्वता मताः’’। इत्यध्यात्मे ॥

‘मुक्तैः स्वपार्षदैः पूर्वैर्ब्रह्माद्यैश्चैव संयुतम् ।
ब्रह्मा ददर्श तपसा भगवन्तं हरिं प्रभुम्’’॥ इति गारुडे ॥ १४ ॥

अध्यर्हणीयासनमास्थितं विभुं

वृतं चतुष्षोडशपञ्चशक्तिभिः ।
युक्तं भगैः स्वैरितरत्र चाध्रुवैः

स्व एव धामन्रममाणमीश्वरम् ॥ १६ ॥

‘इच्छाद्या मोचिकाद्याश्च अणिमाद्याश्च शक्तयः ।
प्रदिष्टा वासुदेवाद्या दामोदरपरास्तथा ॥

अङ्गानि विमलाद्यास्तु प्रह्व्याद्यात्मादिका मताः ।
एवं षोडशभिश्चैव पञ्चभिश्च हरिः स्वयम् ॥

चतुर्भिश्च वृतो नित्यं तत्स्वरूपाश्च शक्तयः’’॥ इति भागवततन्त्रे ॥ १६ ॥

मनीषितानुभावोऽयं मम लोकावलोकनम् ।
यदुपश्रुत्य रहसि चकर्थ परमं तपः ॥ २१ ॥

मनीषितं तपः ॥ २१ ॥

प्रत्यादिष्टं मया तत्र त्वयि कर्मविमोहिते ।
तपो मे हृदयं साक्षादात्माऽऽहं तपसोऽनघ ॥ २२ ॥

सृजामि तपसैवेदं ग्रसामि तपसा पुनः ।
बिभर्मि तपसा विश्वं वीर्यं मे दुस्तरं तपः ॥ २३ ॥

कर्मविमोहिते इदं कार्यमित्यजानति । हृदयं प््रिायम् ।
‘प््रिायं हृदयमुद्रिक्तं कान्तमित्यभिधीयते’’। इत्यभिधानात् ।
‘तपः प््रिायं सदा विष्णोस्तपसैवाप्यते हरिः ।
स्वयं च तपसैवेदं बिभर्ति ज्ञानमेव हि ।
तपःशब्दाभिधं प्रोक्तं ज्ञानरूपो हरिर्यतः ।
ज्ञानवीर्यो ज्ञानबलो ज्ञानानन्द उदाहृतः’’॥

इति बृहत्संहितायाम् ॥ २२,२३ ॥

भगवानुवाच–

ज्ञानं परमगुह्यं मे यद्विज्ञानसमन्वितम् ।
सरहस्यं तदङ्गं च गृहाण गदितं मया ॥ ३० ॥

‘येन येन यथा ज्ञात्वा नियतं मुक्तिराप्यते ।
तद्विज्ञानमिति प्रोक्तं ज्ञानं साधारणं स्मृतम्’’॥ इति वामने ॥३०॥

अहमेवासमग्रे च नान्यद्यत्सदसत् परम् ।
पश्चादहं त्वमेतच्च योऽवशिष्येत सोऽस्म्यहम् ॥ ३२ ॥

परं स्वतन्त्रं न ।
विष्णोरधीनं प्राक् सृष्टेस्तथैव च लयादनु ।
अस्य सत्वप्रवृत्त्यादि विशेषेणाधिगम्यते ॥

स्वातन्त्र्यं स्थितिकाले तु कथञ्चिद्बुद्धिमोहतः ।
प्रतीयमानमपि तु तस्मान्नैवेति गम्यताम् ॥

जनिष्येऽहं लयिष्येऽहमिति न ह्यभिसन्धितः ।
अतो जीवनमप्येतद्भवेदीशाभिसंहितम् ॥

अतः स्वरूपभेदेऽपि ह्यात्मैवेदमिति श्रुतिः ।
वदत्यस्येशतन्त्रत्वाद्यदशक्तस्त्वसन्निति । ।
विद्यन्ते हि तदा जीवाः कालकर्मादिकं तथा ।
क्वान्यथा हि पुनः सृष्टिः पूर्वकर्मानुसारिणी’’॥ इति ब्रह्मतर्के ।
त्वमेतच्च परं न भवेत् । स्वतन्त्रं न ॥ ३२ ॥

ऋतेऽर्थं यत्प्रतीयेत न प्रतीयेत चात्मनि ।
तद्विद्यादात्मनो मायां यथाऽऽभासो यथा तमः ॥ ३३ ॥

यथा महान्ति भूतानि भूतेषूच्चावचेषु च ।
प्रविष्टान्यप्रविष्टानि तथा तेषु न तेष्वहम् ॥ ३४ ॥

अर्थवदिव प्रतीयते । न च परमात्मन्यर्थवत् प्रतीयते । अर्थं प्रयोजनमृते । न हि जीवप्रकृतिभ्यामीश्वरस्यार्थः ।
‘मुख्यतो विष्णुशक्तिर्हि मायाशब्देन भण्यते ।
उपचारतस्तु प्रकृतिर्जीवश्चैव हि भण्यते’’॥ इति च ।
यथाऽऽभासो जीवः ॥

‘सर्वं परे स्थितमपि नैव तत्रेति भण्यते ।
यतो हरेर्न जीवेन जीवनं न हरौ ततः ॥

जीवः प्रकृतिरप्यत्र यतो नैव हि बन्धकृत् ।
कर्म चाफलदातृत्वात्कालश्चापरिणामनात् ॥

यथा छत्रधराद्यास्तु रथस्था अपि सर्वशः ।
रथिनो नैव भण्यन्ते एवं हरिगता अपि॥"

‘यथा महान्ति भूतानि शरीरेषु बहिस्तथा ।
एवं हरिश्च भूतेषु बहिश्च व्याप्तिहेतुतः ।
तस्मात्तत्स्थो न तत्स्थश्च प्रोच्यते हरिरीश्वरः’‘इति च ॥ ३३,३४ ॥

एतावदेव जिज्ञास्यं तत्वजिज्ञासुनाऽऽत्मनः ।
अन्वयव्यतिरेकाभ्यां यत्स्यात्सर्वत्र सर्वदा ॥ ३५ ॥

अन्यभावाभावकाले देशे च तद्विद्यमानाविद्यमानशक्तिमांश्चेत्यन्वय-व्यतिरकौ ॥ ३५ ॥

अन्तर्हितेन्द्रियार्थाय हरयेऽवहिताञ्जलिः ।
सर्वभूतमयो विश्वं ससर्जेदं स पूर्ववत् ॥ ३८ ॥

‘सर्वस्यापि प्रधानत्वात् स सर्वमय ईर्यते’’॥ इति च ॥ ३८ ॥

मायां विविदिषुर्विष्णोः मायेशस्य महामुनिः ।
महाभागवतो राजन् पितरं पर्यतोषयत् ॥ ४१ ॥

मायां माहात्म्यं विविदिषुः । अन्येषां माहात्म्यपतेः ।
‘मुख्यतो विष्णुमाहात्म्यं मायाशब्दोदितं भवेत् ।
प्रधानत्वाच्च मातृत्वान्मेयत्वं चैव तस्य हि’’॥ इति च ॥ ४१ ॥

नारदः प्राह मुनये सरस्वत्यास्तटे नृप ।
ध्यायते ब्रह्म परमं व्यासायामिततेजसे ॥ ४४ ॥

‘हरिर्व्यासादिरूपेण सर्वज्ञोऽपि स्वयं प्रभुः ।
शृृणोति नारदादिभ्यो मोहायैषां प्रसिद्धये’’॥ इति पाद्मे ॥ ४४ ॥

यदुताहं त्वया पृष्टो वैराजात्पुरुषादिदम् ।
यथाऽऽसीत्तदुपाख्यास्ये प्रश्नानन्यांश्च कृत्स्नशः ॥ ४५ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये द्वितीयस्कन्धे नवमोऽध्यायः ॥ ९ ॥

‘विराड्ब्रह्मा समुद्दिष्टस्तद्गतः परमो यतः ।
अतो वैराजमित्येनमाहुरीशत्वतो विराट्’’॥

इति बृहत्संहितायाम् ॥ ४५ ॥

दशमोऽध्यायः

भूतमात्रेन्द्रियधियां जन्म सर्ग उदाहृतः ।
ब्रह्मणो गुणवैषम्याद्विसर्गः पौरुषः स्मृतः ॥ ३ ॥

महदाद्यण्डपर्यन्तः सर्गोऽण्डे ब्रह्मणस्तु यः ।
अनुसर्ग इति प्रोक्तः पौरुषश्चेति कथ्यते ॥

पञ्चभूतसमूहेन जातः पुरुष उच्यते ।
बहुत्वात्तत्र भूतानां तावत्त्वात्तत्त्वमेकजम्’’॥ इति व्योमसंहितायाम् ॥ ३ ॥

निरोधोऽस्यानुशयनमात्मनः सह शक्तिभिः ।
मुक्तिर्हित्वान्यथारूपं स्वरूपेण व्यवस्थितिः ॥ ६ ॥

‘अनुप्राविश्य परमं जीवस्य शयनं तु यत् ।
सहैव शक्तिभिः स्वीयैरिच्छाद्यैरप्राकाशितैः ।
सन्निरोध इति प्रक्तो विमुक्तिर्यत्र मोक्षणम्’’॥ इति नारदीये ॥६॥

आभासश्च निरोधश्च यतस्तत्त्रयमीयते ।
स आश्रयः परं ब्रह्म परमात्मेति शब्द्यते ॥ ७ ॥

‘सृष्टिस्थित्यप्ययाभासा यद्बलाद्यत्र च स्थिताः ।
तद् ब्रह्म जगदाधारं वासुदेवेति तद्विदुः’’॥ इति भागवततन्त्रे ॥७॥

आध्यात्मिको यः पुरुषः सोऽसावेवाधिदैविकः ।
यस्तत्रोभयविच्छेदः स स्मृतो ह्याधिभौतिकः ॥ ८ ॥

आधिभौतिकेन रूपेण हि चक्षुःप्रकाशयोः सम्यक् परिज्ञानम् ॥ ८ ॥

एतदेकतमाभावे यदा नोपलभामहे ।
त्रितयं तत्र यो वेद स आत्मा स्वाश्रयाश्रयः ॥ ९ ॥

सुप्तावपि यः सर्वं वेत्ति जीवानां स परः ।
‘स्वप्नेन शारीरमभिप्रहत्यासुप्तः सुप्तानभिचाकशीति’’॥ इति श्रुतेः ।
सुष्ट्वाश्रयाणामप्याश्रयः ॥ ९ ॥

पुरुषोऽण्डं विनिर्भिद्य यदाऽसौ स विनिर्गतः ।
आत्मनोऽयनमन्विच्छन्नपोऽस्राक्षीच्छुचिः शुचीः ॥ १० ॥

तास्ववात्सीत् स्वसृष्टासु सहस्रपरिवत्सरान् ।
तेन नारायणो नाम यदापः पुरुषोद्भवाः ॥ ११ ॥

विनिर्गतः प्रकाशितः ।
‘अण्डं प्रविष्टो यो विष्णुः सोऽण्डं भित्त्वा प्रकाशितः ।
सोऽपोऽसृजत्ततो नारा नरोऽनाशात्परो यतः’’॥

इति नारायणाध्यात्मे ॥ १०,११ ॥

एको नानात्वमन्विच्छन्योगतल्पात्समुत्थितः ।
वीर्यं हिरण्मयं देवो मायया व्यसृजत्त्रिधा ॥ १३ ॥

‘तत्तन्नियामकत्वेन बहुत्वं प्राप्तुमीश्वरः ।
अण्डं स्ववीर्यं तत्स्थः सन् कामादन्तस्त्रिधा व्यधात्’’॥ इति च ।
‘अन्तःस्थितहरेः कामादण्डे ब्रह्मतनोर्जनिः ।
तत्र देवाश्च सञ्जाताः पुनस्तत्त्वात्मकाः प्रभोेः’’॥ इति च ॥ १३ ॥

उत्सिसृक्षोर्धातुमलं निरभिद्यत वै गुदम् ।
ततः पायुस्ततो मित्र उत्सर्ग उभयाश्रयः ॥ २७ ॥

‘मलादिकं कदाचित्तु ब्रह्मा लोकाभिपत्तये ।
आत्मनो निर्ममे कामात्सर्वेषामभवत्ततः ।
वशित्वात्तस्य दिव्यत्वादिच्छया भवति प्रभोः’’॥ इति च ॥ २७ ॥

एतद्भगवतो रूपं स्थूलं ते व्याहृतं मया ।
मह्यादिभिश्चावरणैरष्टभिर्बहिरावृतम् ॥ ३३ ॥

‘स्थूलं भगवतो रूपं ब्रह्मदेह उदाहृतः ।
तत्तन्त्रत्वाच्च सूक्ष्मं च शङ्खचक्रगदाधरम्’’॥ इति चाध्यात्मे ॥ ३३ ॥

अतःपरं सूक्ष्मतममव्यक्तं निर्विशेषणम् ।
अनादिमध्यनिधनं नित्यं वाङ्मनसोः परम् ॥ ३४ ॥

निर्विशेषणं निरतिशयम् । ‘अस्य काव्यस्य कवयो न समर्था विशेषणे’‘इतिवत् ॥ ३४ ॥

अमुनी भगवद्रूपे मया ते ह्यनुवर्णिते ।
उभे अपि न गृह्णन्ति मायासृष्टेऽविपश्चितः ॥ ३५ ॥

मायासृष्टे जगति ये अविपश्चितः ॥ ३५ ॥

स वाच्यवाचकतया भगवान्ब्रह्मरूपधृक् ।
नामरूपक्रिया धत्ते सकर्माऽकर्मकः परः ॥ ३६ ॥

‘नामैव वाचकत्वेन नामरूपक्रिया अपि ।
वाच्यत्वेन हरिर्देवो नियामयति चैकराट्’’॥ इति च ।
‘कर्तृत्वात्तु सकर्माऽसौ निष्फलत्वादकर्मकः’’। इति च ॥ ३६ ॥

प्रजापतीन् मनून् देवानृषीन् पितृगणान् पृथक् ।
सिद्धचारणगन्धर्वान् विद्याध्रासुरगुह्यकान् ॥ ३७ ॥

प्रजापत्यादीन् धत्ते ॥ ३७ ॥

सत्वं रजस्तम इति तिस्रः सुरनृनारकाः ।
तत्राप्येकैकशो राजन् भिद्यन्ते गतयस्त्रिधा ॥ ४१ ॥

तामसास्तामसा दैत्याः प्रधाना देवशत्रवः ।
तामसा राजसास्तेषामनुगास्तेषु सात्विकाः ।
अनाख्यातासुराः प्रोक्ता मानुषा दुष्टचारिणः ।
राजसास्तामसाश्चैव मध्या राजसराजसाः ॥

राजसाः सात्विकास्तत्र मानुषेषूत्तमा गणाः ।
देवाः पृथगनाख्याताः स्मृताः सात्विकतामसाः ॥

अतात्विकास्तथाऽऽख्याताः स्मृताः सात्विकराजसाः ।
सात्विकाः सात्विकास्तत्र तात्विकाः परिकीर्तिताः ।
तेषां च सात्विकाः शेषगरुत्मद्रुद्रतत्स्त्रियः ॥

ततोऽपि देवी ब्रह्माणी ब्रह्मा चैव ततः स्वयम् ॥ ४१ ॥

यदैवैकतमो अन्याभ्यां स्वभाव उपहन्यते ।
तदैवेदं जगद्धाता भगवान् धर्मरूपधृक् ।
पुष्णाति स्थापयन् विश्वं तिर्यङ्नरसुरात्मभिः ॥ ४२ ॥

‘सात्विकेषु त्रिषु यदा त्वेकस्य प्रतिबाधनम् ।
रजस्तमोभ्यां विष्णुर्हि तदा प्रादुर्भवत्यजः ॥

राजसांस्तामसान् हत्वा सात्विकान् वर्धयिष्यति’’॥

इति स्कान्दे ॥ ४२ ॥

ततः कालाग्निरुद्रात्मा यत्सृष्टमिदमात्मनः ।
सन्नियच्छति तत्काले घनानीकमिवानिलः ॥ ४३ ॥

मत्स्यादिरूपी पोषयति नृसिंहो रुद्रसंस्थितः ।
विलापयेद्विरिञ्चस्थः सृजते विष्णुरव्ययः ॥ इति वामने ॥ ४३ ॥

इत्थम्भावेन कथितो भगवान् भगवत्तमः ।
नेत्थम्भावेन हि परं द्रष्टुमर्हन्ति सूरयः ॥ ४४ ॥

भगवत्तमः ना पुरुषः ॥ ४४ ॥

न चास्य जन्मकर्माणि परस्य न विधीयते ।
कर्तृत्वं प्रतिषेधार्थं माययाऽऽरोपितं हि तत् ॥ ४५ ॥

जन्मकर्माणि विधीयत इति क्रियाविशेषणम् ।
‘प्रतिषेधाय बन्धस्य जीवानां परमेशितुः ।
स्वेच्छयैव तु कर्तृत्वं नित्यारूढं चिदात्मकम्’’॥ इति भविष्यत्पुराणे ॥

रूप उपरिभाव इति धातुः । ‘सुभद्रां रथमारोप्य’‘इत्यादिवच्च ।
‘स्वाभाविकी ज्ञानबलक्रिया च’’॥ इति च ॥ ४५ ॥

अयं तु ब्रह्मणः कल्पः सविकल्प उदाहृतः ।
विधिः साधारणो यत्र सर्गाः प्राकृतवैकृताः ॥ ४६ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये द्वितीयस्कन्धे दशमोऽध्यायः ॥ १० ॥

॥ द्वितीयः स्कन्धः समाप्तः ॥

अन्यकल्पानां साधारणः । यत्रैव प्राकृतवैकृताः सर्वसर्गाः । अन्यब्रह्मकल्पानां च साधारणः ॥ ४६ ॥