श्रीकृष्णः शरणं मम श्रीराधाकृष्णाभ्यां नमः तत्र श्री अनेकतं श्रीमद भागवतं महर्षिवेदव्यासप्रणीतं समुपायनीक्रियते श्री भागवतानद्यापिठेन श्रीमद्भागवतमहापुराणम् श्रीधरस्वामिविरचित- भावार्थदीपिका, श्रीवंशीधरकृत भावार्थदीपिकाप्रकाशः, श्रीगङ्गासहाय प्रणीत - अन्वितार्थप्रकाशिका श्रीमद्वीरराघवाचार्यभावित - भागवतचन्द्रिका, श्रीमद्विजयध्वजतीर्थरचित-पदरत्नावली, श्रीमज्जीवगोस्वामिनिष्पादित - क्रमसंदर्भः, श्रीमद्विश्वनाथचक्रवर्तिसाधित-सारार्थदर्शिनी, श्रीमच्छुकदेवनिर्वर्तित-सिद्धान्तप्रदीपः, गोस्वामिश्रीगिरिधरलालविहित- बालप्रबोधिनी, श्रीभगवत्प्रसादाचार्यप्रणीत भक्तमनोरञ्जनी, इत्येताभिर्व्याख्याभिः भाषानुवादेन व (2) समलङ्कृतम् ई० सन् १९६६ ] कर षण्डः स्कन्धः (सम्पादकः श्रीदलसुखरामात्मजः कृष्णशङ्करः शास्त्री प्रकाशकाः कृष्णशङ्करः शास्त्री कृष्णराजभाई ठाकरसी जयराजभाई द्वारकादासः ( श्रीविद्याहितनिधिसदस्याः ) [ वि० सं० २०२३ श्रीमद्भागवतमहापुराणषष्ठस्कन्ध स्थविषयानुक्रमः अध्याये विषयाः १. अजामिलोपाख्यानं विष्णुदूतयमदूतसंवादश्च । २. त्रिष्णुदूतमुखेन भागवतधर्मंनाममाहात्म्यनिरूपणं याम्यपाशान्मुक्तस्याजामिलस्य भगवदाराधनया परमधामगमनं व ३. यमयमदूतसंवाद: वैष्णवोत्कर्षवर्णनं च । 44. ४. दक्षजन्म, तत्कृततपसोऽवसाने भगवतो दर्शनं हंसगुह्यस्तोत्रं दक्षभगवत्संवादच । ५. नारदोपदेशेन हर्यश्वशबलाश्वाख्यानां दक्षपुत्राणां विरक्तिर्नारदाय दक्षकर्तृकं शापदानं च । ६. दक्षस्य षष्टिकन्यानां वंशविस्तारः । ७. इन्द्रेण कृतं गुरोरवमाननं ततो देवानामैश्वर्यध्वंसः, विश्वरूपस्य पौरोहित्ये वरणं च । ८. विश्वरूपद्वारा इन्द्राय नारायणवर्मोपदेशः । ९. ० रूपवधः वृत्रस्योत्पत्तिदेवकृतभगवतस्स्तवनं भगवद्वरप्रदानं च । १०. देवानां दधीचेः सकाशात्तदस्थियाचनं वज्रनिर्माणं देवदानवयुद्धं च । ११. वृत्रस्य भक्तिज्ञानवे राग्ययुक्तवीरोचितोद्गाराः । १२. इन्द्रवृत्रयुद्धं वृत्रस्य वधश्च । … १३. ब्रह महत्याभयादिन्द्रस्य पलायनम् अश्वमेधयज्ञेन ब्रह महत्यानिवारणं च । A … … पृष्ठाङ्काः १ ५३ … ९४ १२४ १७३ २०५ … २२६ २४९ … २७९ ३३८ ३५६ ३७७ … ३९८ , १४. वृत्रासुरस्य पूर्वजन्मवृत्तान्ते चित्रकेतूपाख्यानम् अङ्गिरः प्रसादेन लब्धे स्वसुते विनष्टे चित्रकेतोरत्यन्तशोक कृतद्य तेर्विलापश्च । १५. चित्रकेतवेऽङ्गिरोनारदयोरुपदेशः । ४१४ … ४४९ १६. राजपुत्रदेहवियुक्तस्य जीवात्मन उक्तिः, चित्रकेतवे नारदकर्तृकं सङ्कर्षणमन्त्रप्रदानं तजपेन विद्याधरत्वप्राप्तिभंगवतोऽनन्तस्य दर्शनं च । १७. कैलाशे पार्वतीसहितस्य शिवस्योपहासकरणात् पार्वतीशापेन चित्रकेतोवृ त्रजन्मप्रातिश्च । ४७० … ५२३ १८. दितिवंशवर्णनं मरुतामुत्पत्तिश्च । ५५२ ५९२ P १९. पुंसवनव्रतविधिः परिशिष्टम् - १ सप्रकाशतत्त्वार्थदीपनिबन्धः (षष्ठस्कन्धीय: ) परिशिष्टम् -२ हरिलीलामृतम् ( षष्ठस्कन्धीयम् ) रे स्वछ णिका परिशिष्टम् — ३ षष्ठस्कन्धी लोकानुक्रमणिका तत्र श्री श्रीमद् एवतं. समुपयानि श्रीभग श्रीकृष्णः शरणं मम ॐ तत्सत् श्रीगणेशाय नमः श्रीमद्भागवतमहापुराणम अनेकव्याख्यासमलङ्कृतम् :: षष्ठः स्कन्धः अथ प्रथमोऽध्यायः ॐ नमो भगवते वासुदेवाय राजोवाच निवृत्तिमार्गः कथित आदौ भगवता यथा । क्रमयोगोपलब्धेन ब्रह्मणा यदसंसृतिः ॥ १ प्रवृत्तिलक्षणश्चैव त्रैगुण्यविषयो मुने । योऽसावलीनप्रकृतेर्गुण सर्गः । पुनः पुनः ॥ २ ॥ अधर्मलक्षणा नाना नरकाश्चानुवर्णिताः । मन्वन्तरश्च व्याख्यात आद्यः स्वायम्भुवो यतः ।। ३ ।। प्रियव्रतोचान पदोवंशस्तचरितानि चः । द्वीपवर्ष समुद्राद्रिनयुयानवनस्पतीन् * || 8 || अन्वयः - आदौ भगवता निवृत्तिमार्गः यथा कथितः यत् क्रमयोगोपलब्धेन ब्रह्मणा असंसृतिः ॥ १ ॥ मुने च एव त्रैगुण्यविषयः यः असौ अलीनप्रकृतेः पुनः पुनः गुणसर्गः प्रवृत्तिलक्षणः ॥ २ ॥ ॐ अधर्मलक्षणः च नाना नरकाः अनुवर्णिताः च यत् आद्यः स्वायंभुवः मन्वन्तरः व्याख्यातः ॥ ३ ॥ * * प्रियत्रतोत्तानपदोः वंशः तचरितानि च द्वीपवर्ष समुद्राद्रिनद्युद्यानवनस्पतीन् ॥ ४ ॥ श्रीधरस्वामिविरचिता भावार्थदीपिका श्री गणेशाय नमः ॥ पुण्यारण्ये नृसिंहैकनामसिंहो विराजते । यन्नादतः पलायंते महाकल्मषकुंजराः ॥ १ ॥ विसर्गसंभवाञ्जीवान्स्वमर्यादासु संस्थितान् । विष्णुः पात्यखिलै रूपैरित्येवं पंचमे स्थितम् ||२|| अध्यायै कोनविंशत्या षष्ठे पोषणमुच्यते । अतिलंघितमर्यादभक्तलक्षणलक्षणम् ॥ ३ ॥ अजामिलो मनुष्येषु महापापो यथाऽवितः । विश्वरूपादिघाती च यथा देवेषु वासवः ॥ ४ ॥ अजामिलस्य भक्तत्वं विष्णुदूतैर्निरूपितम् । संकेतभगवन्नामपुत्रस्नेहानुषं राजम् ॥ ५ ॥ इंद्रोऽपि भगवद्भक्तः सख्येनोपेन्द्रसेवकः तदधीन सुरैश्वर्यशत्रुनिर्जयजीवितः ॥ ६ ॥ श्रीमद्भागवतम ..[ स्कं. ६ अ. १ श्लो. १-४ तत्रादौ त्रिभिरण्यायैरजामिलकथोच्यते । विश्वरूपकथा षभिरिंद्रदोषोक्तये ततः ॥ ७ ॥ इन्द्रस्यैव तु दोषोक्त्यै वृत्राख्यानं ततोऽष्टभिः । द्वाभ्यां च मरुदाख्यानमेवं प्रकरणक्रमः ॥ ८ ॥ तत्रादौ प्रथमे विष्णोदूतैः पातकिमोचने । तत्पापख्यापनायोक्तं याम्यैर्धर्मादिलक्षणम् ॥ ६ ॥ + अथ षष्ठस्कन्धो व्याख्यायते पूर्वोक्तानुवादपूर्वकं निरंतरोक्तनरकपरिहारोपायं पृच्छति निवृत्तिमार्ग इति षड्भिः । आदौ द्वितीयस्कंधे ‘वैश्वानरं याति’ इत्यादिना भगवता त्वया यथा यथावत् । यद्येन मार्गेण । क्रमेण योगोऽर्चिरादिप्राप्तिस्तेनो- पलब्ध यो ब्रह्मा तेन सहासंसृतिर्मोक्षो भवति । " ब्रह्मणा सह ते सर्वे संप्राप्ते प्रतिसंचरे । परस्यांते कृतात्मानः प्रविशति पदम् ||" इति वचनात् ॥ १ ॥ * * त्रैगुण्यं स्वर्गादिसुखं तदेव विषयः प्राप्यं यस्य न लीना प्रकृतिर्यस्य तस्य पुंसः पुनः पुनर्गुणसर्गो भोगार्थं देहारंभरूपो यो मार्गः स च कथितस्तृतीये । “दक्षिणेन पथाऽर्यम्ण: पितृलोक श्रीपादीन्भागतो इत्या- दिना ॥ २ ॥ * । ३॥
- अनुवर्णिता निरन्तराध्यायव्याख्याताश्चतुर्थस्यादौ । यतो यस्मिन् ॥ ३ ॥ * * द्वीपादीन्भागतो लक्षणतो मानतश्च घरामंडलस्य संस्थान ज्योतिषां विवराणां चेदं संस्थानं विभुर्यथासृजत्तथा व्याख्यातमित्यर्थः ॥ ४ ॥ वंशीधरकृतो भावार्थदीपिकाप्रकाशः ॐ स्वस्ति श्रीगणेशाय नमः ॥ योऽरक्षद्वासवं वृत्राद्यामिकेभ्यस्त्वजामिलम् । स कृष्णो मां सदा पातु वृषभानुसुताप्रियः ॥ १ ॥ अधुना व्याकृतिं कुर्वे षष्ठस्कन्धे गुरोः कृपाम् । संप्राप्य निखिलांष्टोकाकृतो नत्वा यथामति || २ || पुण्यानां तीर्थयात्रादानजपादीनां वृक्षस्थानीयानामरण्ये वनवत्समूहे नृसिंहस्यैकं मुख्यं नामैव सिंहस्तत्सदृशः । यन्ना- तो यदुच्चारणात् महाकल्मषा ब्रह्महत्यादय एवं कुंजराः कुंजरस्थानीया: ( १-२ ) अतिलंघिता मर्यादा स्वधर्मस्थितिर्येन स चासौ भक्तश्चेत्यतिलंघितमर्यादभक्तस्तस्य लक्षणेन रक्षणेन लक्षितं ज्ञापितं रलयोरैक्यात् । चक्रवर्त्तिनाऽपि “भक्तानां धर्ममर्या- दालंघिनामपि पालनम् । यद्भवेत्तद् विद्वद्भिः पोषणं परिकीर्त्तितम् ||” इत्थमेवोक्तम् ( ३ ) आदिना वृत्रादिग्रहः । अवितो रक्षितः ( ४ ) संकेते कल्पनया स्थापितं भगवन्नाम यस्मिन्स संकेतभगवन्नामा स चासौ पुत्रश्च तत्र यत् स्नेहाधिक्यं तस्माज्जायत इति तथा ( ५ ) सख्येन भ्रातृभावेन । उपेन्द्रो वामनरतस्य सबकः । सुराणामैश्वर्यश्व शत्रूणां निर्जयश्च सुरैश्वर्यशत्रुनिर्जयाँ तस्योपेन्द्रस्याधीनौ च तौ सुरेश्वयशत्रुनिर्जयौ चेति तथा ताभ्यां जीवितः पालितस्तथा ( ६ ) तत्रैकोनविंशतिमध्ये । ततोऽ- जामिलकथानन्तरम् । इन्द्रदोषो विश्वरूपहननादिः ( ७ ) ततो विश्वरूपकथानन्तरम् ( ८ ) तत्र त्रिष्वपि तस्य पातकिनः पाप- कथनाय याम्यैर्यमदूतैः । आदिनाऽधर्मग्रहः ( ६ ) निवृत्तिमार्ग इति । तत्र पूर्वोक्तौ मार्गों द्वौ वैदिकावैदिकभेदात् । आद्यस्तु प्रवृत्तिनिवृत्तिभेदेन द्विधा । द्वितीयस्त्वेकधैवाधर्मलक्षणः । तत्र मार्गत्वं नाम क्रमयोगहेतुत्वमित्युक्तं - क्रमयोगोपलब्धेनेति । ज्ञान- भक्ती तु सद्यः प्रापकत्वान्मार्गत्वेन न विवक्ष्येते । तदेतदभिप्रेत्याह – प्रथमसार्द्धद्वयेन । तृतीयेऽपि ये स्वधर्मान्न दुर्घतीत्यादि- नोक्तः ॥ १ ॥ * * मुने इति सर्वज्ञत्वमाह “सर्वशास्त्राaiतारो मुनयः परिकीर्त्तिताः” इत्युक्तेः ॥ २ ॥ अधर्मं लक्षयन्ति ज्ञापयन्तीत्यधर्मलक्षणाः मन्वंतरादिकं तु प्रासंगिकतयैव वर्णितमित्याह - मन्वंतरश्चेति सार्द्धद्वयेन ।। ३ ।। ** चरितानि प्रियत्रतोत्तानपदोश्चरितानि द्वीपादीन्यथा ऽसृजत्तथा व्याख्यातमित्यन्वयः । भागतो लक्षणतो मानतश्च धरामण्डल- संस्थानं रचनां ज्योतिषां सूर्यादीनाम् । चिवराणामित्युपलक्षणं नरकाणाम् । इदं संस्थानं यथाऽसृजत्तथा व्याख्यात- मित्यर्थः ।। ४-५ ।। अन्वितार्थप्रकाशिका श्रीपरमेश्वराय नमः ॥ ४, आनन्दधामनि चिदेकरसेऽद्वितीये, तस्मिन्पदे तु मम चित्तमगोचरेऽपि । यत्सद्व्रजस्थितिजुषां सुहृदां कुमारादीनामधीनमित्र गोचरतामुपैति ॥ १ ॥ यावन्निरञ्जनमजं पुरुषं जरन्तं सञ्चिन्तयामि निखिले जगति स्फुरन्तम् । ताला स्फुरति हन्त हृदन्तरे मे गोपस्य कोऽपि शिशुरञ्जनपुञ्जमन्जुः ।। प्रेम्णा मुकुन्द पदकञ्जयुगं प्रणम्य मातुः पितुश्च चरणौ प्रणिपत्य भक्त्या । गङ्गासहायजरठो हरितोषहेतोः स्कन्धेऽन्वयं सुगममातनुते ऽत्र षष्ठे ॥ ३ ॥ तत्राद्येऽजामिलस्या दूतानां यमकृष्णयोः । सम्पादे धर्मलक्ष्मादि तत्र श्लोकास्तु नागषट् । अनुष्टुभः सार्धंगोषट्सप्तोषाचवचांसि च ॥ ४ ॥
-
स्व. ६.अ. १लो. १-४ ] अनैकव्याख्यासमलङ्कृतम् * निवृत्तीति । भगवता त्वयाऽऽदौ द्वितीयस्कन्धे वैश्वानरं यातीत्यादिना यथा यथावनिवृत्तिमार्गः कथितः । यद्येन मार्गेण क्रमेण योगोऽचिरादिप्राप्तिस्तेनोपलब्धेन प्राप्तेन ब्रह्मणा सह असंसृतिर्मोक्षो भवति “ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रति सवरे । परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम् ॥” इति श्रुतेः । इति क्रममुक्त्यभिप्रायेण योजना । यद्वा आदौ द्वितीय- स्कन्धे केचित्स्वदेहान्तरहृदयेत्यादिना त्वया यथावन्निवृत्तिमार्गः कथितः । येन मार्गेण धारणाध्यानसमाधिक्रमयोगरीत्या प्राप्तेन ब्रह्मणा भगवता हेतुभूतेन असंसृतिर्मोक्षो भवतीति सद्योमुक्तिपते योजना ॥ १ ॥ ४ प्रवृत्तीति । हे मुने न लीना न निवृत्ता प्रकृतिर्माया यस्य प्राणिनः तस्य पुनः पुनः भोगार्थं गुणानां सर्गः कार्य देहाराम्भो यस्मिन्सः त्रैगुण्यं स्वर्गादिसुखं तदेव विषयः प्राप्यं फलं यस्य सः योऽसावेवंभूतः प्रवृत्तिलक्षणो मार्गः सोऽपि त्वया “दक्षिणेन पथार्यम्ण: पितृलोकं व्रजन्ति ते ।” इत्यादिना कथितः ।। २ ।। अधर्मेति । अधर्म लक्षयन्ति स्वकारणतया ज्ञापयन्तीति अधर्मलक्षणा नानाप्रकारका नरकाश्च पञ्चमस्कन्धान्ते त्वयाऽनुवर्णिताः । यतो यस्मिन् स्वायम्भुवो ब्रह्मपुत्रो मनुः स आद्यः प्रथमो मन्वन्तरमनुदेवऋष्यादि- पट्कलक्षणञ्च चतुर्थस्यादौ व्याख्यातः कथितः ॥ ३ ॥ * * प्रियेत्यर्द्धम् । प्रियत्रतोत्तानपादयोर्वंशो व्याख्यातः । तद्वंश- चरितानि च व्याख्यातानि ॥ ४ ॥ वीरराघवव्याख्या श्रीमते रामानुजाय नमः । एवं नानाविधनरकेषु तत्प्राप्तिहेतुषुच्चावचेषु पापेषु चोपवर्णितेषु तन्निस्तारोपायं पिपृच्छिषुस्तावदुक्तमनुवदति निवृत्ति- मार्ग इत्यादिभिः पञ्चभिः । भगवता त्वया आदौ द्वितीये निवृत्तिमार्गः यथावत्कथित: निवृत्तिनिवृत्तिधर्मः मोक्षधर्म इति यावत् । तस्य कामादिनिवृत्तिपूर्वकत्वात्तेन प्राप्यो मार्गः मुक्तिस्वरूपतदुपायादिकं सर्व “गृहात्प्रत्रजितो धीरः पुण्यतीर्थजलाप्लुतः ।” इत्या- दिना कथितमित्यर्थः । कोऽसौ निवृत्तिमार्ग इत्यत्राह क्रमयोगेति । क्रमः स्वस्ववर्णाश्रमोचितपञ्चमहायज्ञादिरूप कर्मयोगानुष्ठानक्रमः आत्मयाथात्म्यज्ञानयोगः भगवद्भक्तियोगश्च तन्त्रेण योगशब्देन विवक्षितौ क्रमयोगाभ्यामुपलब्धेन ज्ञानकर्मयोगाभ्यामनुगृहीतेन भक्तियोगेनोपलब्धेन प्राप्तेन ब्रह्मणा हेतुनासंसृतिर्मुक्तिरिति यदेष निवृत्तिमार्ग इत्यर्थ: । ब्रह्मण इति षष्ठयन्तपाठे ब्रह्मणः क्रमः क्रमयोगोपलब्धेन ज्ञानकर्मयोगाभ्यामुपलब्धेन भक्तियोगेनेति शेषः । केचिदत्र क्रमयोगोऽर्चिरादिप्राप्तिस्तेन उपलब्धो ब्रह्मणा चतुर्मुखस्तेन सहासंसृतिर्मोक्षो भवति । ““ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे । परस्यान्ते कृतात्मानः प्रविशन्ति परम्पदम् ।।” इति वचनादित्याचक्षते । तत्र मोक्षेऽथ सम्पत्स्य इति शरीरपातावधिमात्रविलम्ब श्रवणविरोधापत्तेः ‘ब्रह्मणा सह ते सर्वे’ इति वच- नस्य “ते ब्रह्मलोके तु परान्तकाले परामृतात्परिमुच्यन्ति सर्वे” इति श्रुतेश्च विशेषवशाश्चतुर्मुखलोकप्राप्तजीवविषयात्पुण्यवशाच्चतु- मुखलोकं प्राप्य तत्र निवृत्तोपासनाः ब्रह्मणा सह मुच्यन्त इति तदर्थः ॥ १ ॥ तथा हे मुने ! शुक ! त्रैगुण्यविषयः
-
- प्रवृत्तिलक्षणश्च मार्गः कथितः कापिले त्रैगुण्यविपयत्रैगुण्ययुक्तपुरुषाधिकारः प्रवृत्त्या सुखदुःखादिसाधनधर्मेणालक्ष्यते प्राप्यत इति प्रवृत्तिलक्षणः, लक्ष्यतेऽनेनेति लक्षणं प्रवृत्तिलक्षणं यस्येति वा । कोऽसौ प्रवृत्तिलक्षणो मार्गस्तत्राह । अलीनप्रकृतेरविनष्टप्रकृति- सम्बन्धस्य जीवस्य योऽसौ पुनः पुनर्गुणसर्गः सृज्यतेऽनेनेति सर्गः गुणः गुणत्रयं सर्गो यस्य स गुणसर्गः पुनः पुनः सुखदुःखभोगार्थगुणकार्यरूप देहसम्बन्ध इत्यर्थः । देहो हि कर्मफलभूत सुखदुःखादिभोगाय पुण्यापुण्यात्मक प्रवृत्त्याख्यकर्मणा प्राप्यते । कर्म हि देह-सम्बन्धोपादानद्वारा सुखदुःखादिसाधनं न साक्षादतो गुणसर्गः प्रवृत्तिलक्षणो मार्गो भवती- त्यर्थः ॥ २ ॥ * * - अधर्मः कारणतया लक्षणं येषां ते नानाविधा नरकाश्चानुवर्णिताः तथा स्वायम्भुवसम्बन्धी आयो मन्वन्तरश्च व्याख्यातः ॥ ३ ॥ * * कोऽसौ स्वायम्भुवः यत्सम्बन्धी मन्वन्तरो व्याख्यातः तत्राह । यतः स्वायम्भुवमनोः प्रियव्रतोत्तानपादौ वंशः सन्ततिरपत्यभूताविति यावत् तथा तचरितानि प्रियव्रतोत्तानपादयोश्वरितानि च व्याख्यातानीत्यर्थः ॥ ४ ॥ विजयध्वजतीर्थकृता पदरत्नावली श्रीमदानन्दतीर्थपादेभ्यो नमः | श्रीलक्ष्मीनारायणाभ्यां नमः । भवभयजटां घोरां यस्याभिधानमघच्छिदो दलयति नृणां सद्यः सङ्कीर्तितं स्खलनादिषु ।। अहिरिपुरहेहेत्याद्यंहो जहाँ हि यदर्चेया शरणमनिशं शान्तं कान्तं नमामि मुरद्विषम् ॥ १ ॥ अवारूढः पञ्चमस्कन्धशैलादहं षष्ठस्कन्धसिन्धावगाधे । अनुज्ञां वः प्रार्थये स्नातुकामो भवन्तः सन्तो गुणार्थैकलुब्धाः ॥ २ ॥ 7 अस्मिन् स्कन्धेऽतीत स्कन्धार्थोऽध्ये प्रवणां फलाधिकयप्रकटनायं संक्षिप्य निरूप्यते । तत्र प्रारिप्सितेऽध्याये सर्वा- धिकारिकं सुखसाध्यं श्रीहरिप्रसादजनकज्ञानसाधनमपि भक्त्या हरेनमसङ्कीर्तनं पापपरिहारद्वारावश्यकं मुक्तिसाधनमिति ४ 8 श्रीमद्भागवतम् [स्क. ६ अ. १ लो. १-४ निरूप्यते । तदर्थ ज्ञानदरिद्रजनदयालुर्विद्वानपि परीक्षिद्येन विना पापविनाशो न स्यात्तदभावे ज्ञानानुदयः तस्मिन्सति मोक्षमात्र- मपि न स्यादतस्त्वया तदवश्यं वक्तव्यमितीममेवार्थ वादयितुं द्वितीयस्कन्धोक्तार्थमनुवदति । निवृत्तिमार्ग इति । आदौ द्वितीयस्कन्धारम्भे ‘वरीयानेष ते प्रश्नः’ इत्यादिना निवृत्तिमार्गः स्वस्वरूपानन्दाविर्भावलक्षणमोक्षसाधनविशेषः । ननु साधन- विशेषप्रपञ्चनमन्तरेण सृष्टयादिकथनं कुत्रोपयोगितया सङ्गच्छत इति तत्राही यथेति । यथावत्सृष्ट्यादिलक्षणेन दोषत्रयरहितेन लक्षितं श्रीनारायणस्वरूपं मुख्यपुरुषार्थोपयोगीत्यभिप्रायेण तत्प्रपञ्चितमिति भावः । तस्य फलमाह क्रमयोगेति । यद्यस्मान्निवृत्ति- मार्गादनुष्ठितज्ज्ञानब्रह्मणा सर्वगुणपूर्णेन श्रीनारायणेनासंसृतिः संसाराभावलक्षणं फलं भवति । जीवस्येति शेष: “कर्तृकरणयो- स्तृतीया” इति । अत उभयथापि मुख्यत्वं श्रीहरेरेवेति प्रकटनाय ब्रह्मणेति तृतीया “अथ कस्मादुच्यते ब्रह्मेति बृहन्तो ह्यस्मिन्गुणाः” इति श्रुतेः गुणपरिपूर्णतया ज्ञात एव पुरुषार्थप्रदः न निर्गुणत्वेन इत्यतो ब्रह्मेति पद प्रायोजि कथं ज्ञातेनेति तत्राह । क्रमेति । क्रमेणानुष्ठितेन योगेन वैराग्यभक्तिनिरन्तरध्यानज्ञानलक्षणोपायेनोपलब्धेन दृष्टेन प्रथमं स्मरण पश्चादेकैकावयवध्यानं तदनन्तरं समप्राङ्गध्यानमिति वा क्रमयोगः ॥ १ ॥ * " ब्रह्मवर्चसकामस्तु यजेत ब्रह्मणस्पतिम्” इति प्रवृत्तिलक्षणश्च शब्दात्कथितः । स किफल इति तत्राह त्रैगुण्येति । त्रिगुणात्मकपुरन्दरादिदेवतास्थानप्राप्तिफलमित्यर्थः । तत्फलं किं नित्यं नेत्याह य इति । योऽसौ प्रवृत्तिमार्गः कामकर्मविदूषितान्तःकरणदोषभर्जनासमर्थत्वादलीन प्रकृतेरविनष्टप्रकृतिशक्तेः पुरुषस्य पुनः पुनर्गुण- भूतस्य देहस्य सर्गो यस्मात्स तथा सत्त्वादिगुणैः सर्गो यस्मादिति वा भूयो जननमरणे प्राप्य चक्रवत्परिभ्रमणफलं ददातीत्यर्थः । अलीनप्रकृतेर्यो गुणसर्गः सत्त्वादिगुणनिमित्तोत्पत्तिः असावपि तृतीयस्कन्धादौ कथित इति वा योगविभागः ॥ २ ॥ * अधर्मेण लक्ष्यन्ते दृश्यन्ते अनुभूयन्ते पृथक्संज्ञावत्त्वेन क्रियन्त इति बाधर्मलक्षणाः अधर्मं लक्षयन्तीति वा । नास्ति रतिः कथञ्चन येषु ते नरका उपवर्णिताः पचमान्त इति शेषः । मन्वन्तरो मन्वन्तरविषयो विचारश्चतुर्थारम्भे व्याख्यातः कोऽसाविति तत्राह आय इति । आद्यः प्राथमिकः केन सृष्ट इत्यत उक्तम् । स्वायम्भुव इति । स्वयम्भुवा कल्पितः यतः यस्मिन्मन्वन्तरे स्वायम्भुवो जातो मनुराधः सर्वमनूनामाद्यभूत इति वा ॥ ३ ॥ * * ननु स्वायम्भुव इति सामान्योक्तौ मनुविशेषः कुतो निश्चीयते न च तच्छब्दादिति वाच्यमश्रवणात् । न च तेनैव स्वयम्भू जातानां सर्वेषामपि तत्सम्बन्धितया तच्छब्दवाच्यत्वोपपत्तेः, न च रूढ्या तदङ्गीकारः किं न स्यादिति वाच्यं विशेषमन्तरेण केवलया निश्चेतुमशक्यत्वात् । “स्वायम्भुव ! कया वृत्त्या वर्तितं ते परं वयः ॥ इति । अत्र नारदपरत्वेन रूढरपहाराचे तीयमाशङ्का यतः शब्दमुत्तरत्र सम्बद्धध परिहियते यत इति । यतो यस्मा- स्वायम्भुवान्मनोर्जातयोः प्रियत्रतोत्तान पदोवंशः तयोश्चरितानि चतुर्थे पञ्चमे च व्याख्यातानीत्यनेन स्वायम्भुवो मनुरेवोच्यत इति निश्चीयत इति द्वीपादयश्च पञ्चमे व्याख्याता इति शेषः ॥ ४ ॥ 1 जीवगोस्वामिकृतः क्रमसन्दर्भः श्रीकृष्णचैतन्यचन्द्राय नमः । श्रीकृष्ण कृष्णचैतन्य ससनातनरूपक ! | गोपाल रघुनाथाप्त ब्रजजीवक पाहि माम् ॥ १ ॥ षष्ठस्य क्रमसन्दर्भे सन्दर्भाणां समाहृतिः । क्रियते यन्निदेशेन समेऽनन्यगतेर्गतिः ।। २ ।। अथ षष्ठस्कन्धस्य क्रमसन्दर्भः । } ARTIS स्वामिपादैर्न यद्वयक्तं यद्वयक्तं चास्फुटं कचित् । तत्र तत्रैव विज्ञेयः सन्दर्भः क्रमसंज्ञकः ॥ ३ वैष्णवा परितोषः स्याद्यत्र यत्र यतस्ततः । लेख्यं वैष्णवसिद्धान्तदाक्षिण्येनैव किञ्चन ॥ ४ ॥ inप्रयार्थं युक्तमेव तत् पूर्वोक्तमनुवदति निवृत्तीति पचभिः । तत्र परलोकमार्गों तावद्वौ । वेदानुसारेणैकस्त- दतिक्रमेणान्यः, प्रथमोऽत्र द्विविध: - निवृत्तिप्रवृत्तिलक्षणः उत्तरस्त्वेकविधोऽधर्मलक्षणः । तत्र मार्गत्वं नाम क्रमयोग हेतुत्वमित्युक्त क्रमयोगोपलब्धेनेति ज्ञानभक्ती तु सद्यः प्रापकत्वान्मार्गत्वेन न विवक्षिते । तदेतदभिप्रेत्याह प्रथमसार्द्धद्वयेन । तत्र निवृत्तीति युग्मकम् ॥ १-२ ॥ * * अधर्मेत्यर्द्धकम् । अधर्मलक्षणास्तज्ज्ञापकाः मन्वन्तरादिकं तु प्रासङ्गिकतयैव वर्णितमित्याह । ।। मन्वन्तरश्चेति सार्द्धद्वयेन । यतो यस्मिन् मार्गद्वये ॥ ३ ॥ ** पति सार्द्धकम् । विवराणां चेत्युपलक्षणं नरकाणाम् ।। ४-५ ।। प ॥ विश्वनाथचक्रवतिकृता सारार्थदर्शिनी श्रीकृष्णचैतन्यचन्द्राय नमः sm प्रणस्य श्रीगुरुं भूयः श्रीकृष्णं करुणार्णवम् । लोकनाथ जगच्चतुः श्रीगुरुं तमुपाश्रये ॥ १ ॥ नाम गोपरामाजनप्राणप्रेयखेति प्रभूष्णवे । तदीयप्रियदास्याय मां मदीयमहं ववै ॥ २ ॥ एकं. ६ अ. १ श्लो. १-४] अनैकव्र्याख्यासमलङ्कृतम् ता ॥ ५ ॥ S स्वमर्यादास्थितानां यद्भूपातालदिवौकसाम् । पालनं स्थानशदोक्तं पञ्चमे तदुदीरितम् ॥ ३ ॥ ष्ट भक्तानां धर्ममर्यादोल्लङ्घिनामपि पालनम् । यद्भवेत्तत्तु विद्वद्भिः पोषणं परिकीर्त्तितम् ॥ ४॥ पापिनोऽजामिलस्यापि नामाभासेन भक्तता । गुरुद्रोहोऽपि शक्रस्य प्रोक्ताधिकृतभक्तता ॥ ५ ॥ तयोश्च पोषणावित्रकेत्वादीनाञ्च किं पुनः । अध्याय कोनविंशत्या भक्तवात्सल्यमुच्यते ॥ ६ ॥ निक तत्र तु त्रिभिरध्यायैः कथाजामिलसंश्रया । विश्वरूपाश्रया षडभिर्वृत्राख्यानमथाष्टभिः ॥ ७ ॥ मरुदाख्यानमध्यायद्वयेन परिकीर्त्तितम् । यत्रानुवृत्तिरिन्द्रेण दिल्यां पुंसवनत्र || 5 | तह प्रथमेऽध्याये विष्णुदूतैरजामिले । मोच्यमाने तदीया धान्युच्यन्ते यमकिङ्करैः ॥ ६ ॥ ॐ नराणां नरकपातयातनाश्रवणेन दयार्द्रहृदयस्तन्निस्तारोपायस्य प्रष्टव्यस्य प्रत्युत्तरवाचनयोग्यतायामुत्साहमुपपादयितुं पूर्वोक्तानुषादेनोपदिष्टार्थावधारणयोग्यतां स्वस्याभिव्यञ्जयति निवृत्तीति । यथा यथावत् । आदी द्वितीयस्कन्धे “वैश्वानरं याति” इत्यादिना तथा तृतीये च “ये स्वधर्मान्न दुह्यन्ति” इत्यादिना यत् येन मार्गेण क्रमयोगेन प्राप्तो यो ब्रह्मा तेन सह असंसृति- fit भवति । “ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे । परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम् ॥” इति श्रुतेः । प्रवृत्ति- लक्षणच कथितस्तृतीय एव “ये त्विह्रासक्तमनसः” इत्यादिना । त्रैगुण्यं स्वर्गादिसुखं तदेव विषयः प्राप्यं यस्य न लीना प्रकृतिर्यस्य तस्य संसारिणः गुणैरेव सर्गः पुनः पुनर्जन्म यतः सः ॥ १-२ ॥ - * यतो यस्मिन् ॥ ३ ॥ * ४ दीपादीन यथा असृजत् तथा व्याख्यातमित्यन्वयः । भागतो लक्षणतो मानतच घरामण्डलस्य ज्योतिषां सूर्यादीनामिदं संस्थानं यथा असृजत् तथा व्याख्यातमित्यर्थः । ४-५ ।। फिका शुकदेवकृतः सिद्धांतप्रदीपः को नि प श्रीभगवनिम्बार्काय नमः TREF T लोग RE THE FE The Ters श्रीहंसादीन गुरून्नत्वा षष्ठे सिद्धान्तद्योतकः । एकोनविंशदध्याययुतो दीपो विरच्यते ॥ १ ॥ पोषणं विष्णुनामादिसत्संसर्गवतामपि । अजामिलाद्युपाख्यानैः क्रमादिह निरूप्यते ॥ २ ॥ 11 पापफलान्नरकान् श्रुत्वा कृतपापानां हिताय तनिस्तारं प्रष्टुं गुरुमुखाच्छ्रुतमनुवदति निवृत्तिमार्ग इत्यादिना । निवृत्तिमार्ग : ऐहिकामुष्मिकलोकप्रापक कर्मानुष्ठानादिभ्यो या निवृत्तिस्तत्पूर्वकः मोक्षधर्मः । “तस्माद्भारत ! सर्वात्मा भगवान हरिरीश्वरः । श्रोतव्यः कीर्तितव्यश्च स्मर्तव्यश्चच्छता ऽभयम् ।।” इत्यादिना । आदौ तत्र तत्र मुमुक्षूपादेयत्वेन यथा यथावत्कथितः यत् येन क्रमयोगोपलब्धेन पूर्वपुण्यार्जितशुभजन्म तीर्थवाससत्सङ्गादिकमयोगाल्लब्धेन प्राप्तेन अनुष्ठितेन असंसृतिर्मुक्तिः स चान्येन वक्तुमशक्य इति सूचयितुमाह । ब्रह्मणा ब्राह्मणदेहधारिणा भगवता त्वयेत्यर्थः ॥ १ ॥ * * प्रवृत्तिलक्षणच ऐहिकामुष्मिक लोकप्रापककर्मानुअनादौ प्रवृत्तिरेव लक्षणं स्वरूपं यस्य सः पुरुषार्थत्रयसाधनरूपो धर्मः बुभुक्षपादेयतया । “श्रोतव्यादीनि राजेन्द्र ! नृणां सन्ति सहस्रशः । अपश्यतामात्मतत्त्वं गृहेषु गृहमेधिनाम् ||” इत्यादिना पुनः पुनस्त्वया कथितः त्रैगुण्यमैहिकामुष्मिक सुखं तदेव विषयः फलं यस्य सः न लीना प्रकृतिः सांसारिकः स्वभावो यस्य तस्य बुभुक्षोः गुणै रागादिभिः सर्गो जन्म तदुपलक्षितो जन्ममरणप्रवाहो यतः इमौ श्लोको कैश्विदर्चिरादिमार्गद्वयपरत्वेन व्याख्यातौ तदयुक्तम्, निवृत्तिप्रवृत्ति- धर्मयोः आदौ स्कन्धचतुष्टयेऽपि वर्णितयोरनुवादसम्भवमार्गद्वयमात्रानुवादानौचित्यान्मार्गद्वयस्यः तत्रैवान्तर्भावाच ॥ २ ॥ * * अधर्मस्य लक्षणं फलं येषु ते आद्यः मन्वन्तरः मन्वादिषट्करूपः व्याख्यातः । यतो यस्मिन् मनुश्च स्वायम्भुवो व्याख्यातः प्रिय- व्रतोत्तान पदोव शस्तश्चरितानि च व्याख्यातानि द्वीपादीन भागतो लक्षणतो, मानश्व धरामण्डलस्य संस्थानं ज्योतिषां विवराणां च संस्थानम् इदं ब्रह्माण्डं यथा विभुर्विष्णुः असृजत् तथा च त्वमुक्तवानिति सार्द्धलोकान्वयः ।। ३-५ ॥ ए गोस्वामिगिरिधरलालविहिता बालप्रबोधिनी ant श्रीकृष्णाय नमः यस्य श्रीमन्मुकुन्दस्य नामसङ्कीर्त्तनादिकम् । सर्वदोषहरं पुंसां स एव शरणं मम ॥ षडविंशतिभिरध्यायैः पञ्चमे स्थानमीरितम् । अध्यायैकोनविंशत्या पुष्टिः षष्ठे निरूप्यते ॥ कृष्णानुग्रहरूपा हि पुष्टिः कालादिबाधिका । नामध्यानादिभेदेन तस्याः प्रकरणत्रयम् ॥ १ ॥ २ ॥ एवं पञ्चमस्कन्धे भगवद्विजयाख्यं स्थानं प्रविशतिभिरध्यायः निरूप्येदानीसे कोन विशतिभिरध्यायैः षष्ठे स्कन्धे क्रमप्रामा पुष्टिलीला निरूप्यते । तत्र ‘पोषणं तदनुमहः इति द्वितीय अनुम यूपनामा कालकर्मस्वभावबाधको श्रीमद्भागवतम् [ स्कं. ६. अ. १लो. १-४ भगवद्धर्मः पुष्टिरिति सिद्धयति । तत्र कालस्य द्वादशमासात्मकत्वात्कर्मण: ‘अधिष्ठानं तथा कर्त्ता करणं च पृथग्विधम् । विविधाश्च पृथक् चेष्टा दैवं चैवात्र पञ्चमम्’ इति वाक्योक्तपञ्चहेतुकत्वात् स्वभावस्य च दैवासुरभेटेन द्विविधत्वात् यद्बाधकत्वात्पुष्टेरपि एकोनविंशतिप्रकारकत्वमिति द्योतयितुं एकोनविंशत्यध्यायैस्तन्निरूपणम् “त्रयं वा इदं नाम रूपं कर्म च” इति श्रुतेरेतत्त्रितयात्मको भगवानेवेति द्योतयितुं नामध्यानार्चनभेदेन प्रकरणत्रयम् । न च तर्हि नामसङ्कीर्त्तनादेरेव कालादिबाधकत्वं सिद्धयति न पुष्टेरिति शङ्क’, नामादीनां भगवद्र पविशेषेण तत्कृपां बिना तत्सङ्कीर्त्तनादेरसम्भवात् तत्प्रसादैकलभ्यत्वात् मध्ये करणव्यापारमात्रत्व - भगवदूपविशेषेण । मेव बाधकत्वं त्वनुग्रहस्यैव । तत्र श्रवणकीर्त्तन स्मरणभेदेन नाम्नस्त्रिविधत्वात् नामप्रकरणे ऽध्यायत्रयम् । ध्याने तु रूपस्यैव मुख्य- स्वाद्रस्य च चतुर्दशगुणत्वाच्चतुर्दशभिरध्यायैर्थ्यांनप्रकरणनिरूपणम् । चतुर्दशगुणत्वं तु निबन्धे निरूपितं तथाहि - ‘रूपं चतुर्दश- गुणं प्रत्येकं हृदि erfect । फलत्येवेति तावद्भिरध्यायैर्विनिरूपणम् ॥ रूपेण मोक्षदः प्रोक्तो रसेनानन्ददायकः । गन्धेन भक्तिद: प्रोक्तः स्पर्शेनाखिलपापनुत् || मनोहरस्तु नादेन योगेनात्मप्रवेशः । कालमोक्षप्रदोद्दिष्टः स्वामी सर्व सुखप्रदः ।। हीनभावादुःख- दः केवलः सकलार्थदः । मितो योगप्रदः प्रोक्तो भिन्नो मृत्युप्रदः स्मृतः । यथास्थितो ज्ञानदश्च स्नेहादृश्यो भवेद् धुधम् इति । अर्चनस्य बाह्याभ्यन्तरभेदेन द्विविधत्वाद्ध्यायद्वयेन अर्चनप्रकरणनिरूपणम् । तत्र तासां मे मानुषी प्रिया’ इत्युक्त्यनुसारेण मनुष्याणां प्रियत्वज्ञापनाय अजामिलस्य मनुष्यस्योद्धारप्रकरणस्य प्रथमनिरूपणमिति ज्ञेयम् । ‘तंत्र तु प्रथमेऽध्याये तमोभीतेन यत्कृतम् । नरकोद्धारवृत्तान्तश्रवणं तन्निरूप्यते ॥’ राज्ञा हि सर्गादिलीलात्रयं विराध्यानाङ्गत्वेन श्रुतम् तत्र स्थानश्रवणे भगवत: प्राणिकर्मानुरोधेन नरकादितत्तन्मर्यादास्थापकत्वमवगत्य स्वेनापि ब्राह्मणावज्ञायाः कृतत्वात् तत्प्रायश्चित्तस्याकृतत्वाच ‘न ब्रह्मदण्डदग्धस्य न भूतभयदस्य च । नारकाचानुगृह्णन्ति यां यां योनिमसौ गतः इति वाक्यानुसारेण नरकयातनाया अवश्यम्भावितत्वमाशङ्कय ततो भीतः संस्तदुद्धारं प्रष्टुं भवदुक्तमहं सावधानतया गृह्णाम्यतो मत्प्रभस्योत्तरं भवद्भिः कृपया देयमिति द्योतयन् पूर्वोक्तमनुवदति - निवृत्तिमार्ग मोदी द्वितीयस्कन्धे वैश्वानरं यातीत्यादिना तथा तृतीये इति .. ‘ये स्वधर्मान्न दुह्यन्ति’ इत्यादिना भगवता सर्वज्ञेन त्वया यथा यथावत मद्बोधानुकूलत्वेन निवृत्तिमार्गः कथित इत्यन्वयः । यत् येन मार्गेण क्रमयोगोपलब्धेन क्रमेण योगोऽर्चिरादिप्राप्तिः तेनोपलब्धेन ब्रह्मणा सह असंसृतिर्मोक्षो भवति ‘ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरें । परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम्’ इति श्रुतेः, इति तु क्रममुक्त्यभिप्रायेण योजना | यद्वा आदौ । । द्वितीयस्कन्धादौ । केचित् स्वदेहान्तर्हदयावकाशे प्रादेशमात्र पुरुष वसन्तम् । चतुर्भुज कञ्जरथाङ्गशङ्खगदाधरं धारणया स्मरन्ति’ इत्यादिना त्वया यथावन्निवृत्तिमार्गः कथितः । येन मार्गेण क्रमयोगोपलब्धेन धारणाध्यानसमाधिक्रमप्राप्तेन ब्रह्मणा भगवता हेतुभूतेन असंसृतिर्मोक्षो भवति । यथोक्तं तत्रैव ‘मनः स्वबुद्धयाऽमलया नियम्य’ इत्यादिना । तृतीये च पश्यन्ति ते में रुचिराणि सन्तः प्रसन्नवक्त्रारुलोचनानि । रूपाणि दिव्यानि वरप्रदानि साकं वाचं स्पृहणीयां वदन्ति ।। तैर्दर्शनीयावयवैरुदारविलास- हासेक्षितवामसूतैः । हृतात्मनो हृतप्राणांश्च भक्तिरनिच्छतो मे गतिमण्वी प्रयुङ्क्ते’ इति संयोमुक्त्यभिप्रायेण योजना ||१|| स्वप्रश्नोत्तरदानार्थं तस्य सर्वज्ञत्वं द्योतयन्नादरेण सम्बोधयति है मुने इति । न लीना भगवदनुग्रहं विना न निवृत्ता प्रकृतिर्माया यस्य प्राणिनस्तस्य पुनः पुनः गुणसर्गः भोगार्थं गुणकार्यदेहारम्भो यस्मिन् सः त्रैगुण्यं स्वर्गादिसुखं तदेव विषयः प्राप्यं फलं यस्य सः योऽसावेवम्भूतः प्रवृत्तिलक्षणो मार्गः सोऽपि त्वया कथित इत्यन्वयः । चकारः कथित इत्यनुषङ्गार्थः । एवकारोऽप्यर्थ समुच्चयार्थः । तत्कथन तु यथाऽर्यम्ण: पितृलोक व्रजन्तीत्यादितृतीयादौ बोध्यम् ॥ २ ॥ * अधर्मैर्लक्ष्यन्ते दृश्यन्ते ऽनुभूयन्ते, इतरथा अधर्म लक्षयन्ति स्वकारणतया ज्ञापयन्तीति वा अधर्मलक्षणा नानाप्रकारका नरकाश्च पञ्चमस्कन्धान्ते त्वयाऽनुवर्णिताः । यतो यस्मिन स्वायम्भुवो ब्रह्मपुत्रो मतुः स आद्यः प्रथमो मन्वन्तरः मनुः देवऋष्यादिषट्कलक्षणश्च व्याख्यातः कथितः ।। ३ ।। प्रियंवतादेवं शो व्याख्यातस्तद्वंशचरितानि च व्याख्यातानि । विभुः सर्वभवनसमर्थः । परमेश्वरो द्वीपादीन् यथाऽसृजन्तथा व्याख्यातमित्यन्वयः । वनस्पतयः शतवल्शादयः, उपलक्षणमेतज्जम्ब्वादीनाम् ॥ ४ ॥ क भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी श्रीस्वामिनारायणाय नमो नमः । निजचरणसरोजसंश्रितानामगणित दोषसमूहमप्युपेक्ष्य । ravision. T समवति यमदूतजातभीतः स्मृतिपथगोऽस्तु ममैष धर्मसूनुः ॥ १ ॥ जयत्युत्तम भूपालसौधाहार्यगुहागतः। हरिः प्रयान्ति यन्नामश्रुत्या मत्ताघकुञ्जराः ॥ २ ॥ जीवान् बिसर्गसंभूतान स्वस्वसेतुष्ववस्थितान् । रूपैः पात्यखिलेर्विष्णुः पञ्चमे त्विति संस्थितम् ॥ ३ ॥ षष्ठे त्वकोनविंशत्याध्यायैरुक्त हि पोषणम् । मर्यादाविभक्तैकरक्षालक्षणमेव तत् ॥ ४ ॥ महापापी मनुष्येषु यथा श्रातस्त्वजामिलः । देवेषु वासवो यद्वत्वातः स्वगुरुघात्यपि ॥ ५ ॥ स्कं. ६ अ. १ श्लो. ५-१२ अनेकव्याख्या सम कृतम् दूतैर्विष्णोहिं भक्तत्वमाजामैलं निरूपितम् । पुत्रप्रीत्यनुषङ्गो साङ्केत्यहरिनामतः ॥ ६ ॥ सख्यभावादुपेन्द्रेण हरेर्भक्तस्तु वासवः । शत्रून्निर्जित्य देवेन्द्रभावभाकू तादधीन्यतः ॥ ७ ॥ अध्यायैस्त्रिभिस्तत्रादौ कथोक्ताजामिलस्य च । इन्द्रदोषोक्तये षडभिर्विश्वरूपकथा ततः ॥ ८ ॥ अष्टभिर्वार्त्रमाख्यानं ततो दोषोक्तये हरेः । अख्यिानं मरुतां द्वाभ्यामिति प्रकरणक्रमः ॥ ६ ॥ 13 तत्रात्र प्रथमे दूतैर्विष्णोः पापिविमोचनम् । याम्यैस्तत्पापविख्यात्यै धर्मादेर्लक्ष्म चेरितम् ॥ १० ॥ ॥ ००%, इत्थं नानाविधनरकेषु तदाप्तिहेतुभूतेपूच्चावचेषु पापेषु चोपवर्णितेषु तनिस्तारोपायं पिपृच्छिषुस्तावदुक्तमनुवदति निवृत्तिमार्ग इत्यादिभिः पञ्चभिः । भगवता त्वया, आदौ द्वितीयस्कन्धे, योगश्च योगश्च योगश्च योगाः क्रमेणानुक्रमेण ये योगाः कर्मयोगज्ञानयोगभक्तियोगाः तैः उपलब्धं प्राप्तं तेन, कर्मयोगसंसिद्धथा ज्ञानयोगस्तदुभयसंसिद्धया भक्तियोग एवं योगत्रयसंसि - द्विसंप्राप्तेनेत्यर्थः । ब्रह्मणा परमात्मना हेतुना, यत् या असंसृति, मुक्ति, निवृत्तिमार्गः यथा यथावत् कथितः । गृहात्प्रब्रजितो धीरः पुण्यतीर्थजलाप्लुतः’ इत्यादिनाभिहित इत्यर्थः । केचित्तु आदो द्वितीयस्कन्धे वैश्वानरं यातीत्यादिना भगवता त्वया यथा यथावत् निवृत्तिमार्गः कथितः, यद्येन मार्गेण, योगोऽचिरादिप्राप्तिस्तेनोपलब्धो ब्रह्मा तेन सहासंमृतिर्मोक्षो भवति इत्या- हुरेतदर्थस्य ‘तस्य तावदेव चिरं यावन्न मोक्ष्येऽथ संपत्स्यते इति श्रुत्यभिहितशरीरपातावधित्वेन विरोधः ॥ १ ॥ * * प्रवृत्तीति । तथेति शेषः । हे मुने शुक, त्रैगुण्यं विषयो यस्य सः । प्रवृत्तिलक्षणं यस्य सः । मार्गश्च कथित एव । ‘दक्षिणेन पथा- ऽर्यम्णः पितृलोकं व्रजन्ति ते’ इत्यादिना तृतीये व्याख्यात इत्यर्थः । कोऽसौ तत्राह । न लीना प्रकृतिर्यस्य तस्य, अविनष्टप्रकृति- संबन्धस्य जीवस्येत्यर्थः । यः असौ, पुनः पुनः गुणसर्गः, सुखदुःखभोगार्थ गुणकार्यरूपो देहसंबन्ध इत्यर्थः । देहो हि कर्मफलभूत- सुखदुःखादिभोगाय पुण्यापुण्यात्मक प्रवृत्याख्यकर्मणा प्राप्यते । कर्म तु देहसंबन्धोत्पादनद्वारा सुखदुःखादिसाधनं, न साक्षादतो गुणसर्गः प्रवृत्तिलक्षणो मार्गों भवतीत्यर्थः ॥ २ ॥ ॐ ॐ अधर्मेति । अधर्मः लक्षणं कारणतया लक्ष्म येषां ते, नाना नानाविधाः
-
- नरकाच, अनुवर्णिताः निरन्तराध्याये कथिताः । नथी, स्वायंभुवः स्वायंभुवसम्बन्धीत्यर्थः । आदः, मन्वन्तरश्च व्याख्यातः चतुर्थ- स्यादौ वर्णितः ॥ ३ ॥ ४ प्रियत्रतेति । यत इति पूर्व लोकगतमत्रोपादेयम् । यतो यस्य स्वायंभुवमनोः, प्रियत्रतोत्तानपादी, अपत्यभूतौ स्तः तदात्मकः वंशः, व्याख्यातश्चतुर्थपञ्चमयोः कथितः । तथा तच्चरितानि प्रियत्रतोत्तानपादयोश्चरित्राणि च व्याख्यातानि । द्वीपाच वर्षाणि च समुद्राद्रयश्च नद्यश्च उद्यानानि च वनस्पतयश्च वान् ॥ ४ ॥ 117 भाषानुवाद अजामिलोपाख्यानका प्रारम्भ राजा परीक्षित ने कहा-भगवन् ! आप पहले (द्वितीय स्कन्ध में) निवृत्तिमार्गका वर्णन कर चुके हैं तथा यह बतला चुके हैं कि उसके द्वारा अर्चिरादि मार्गसे जीव क्रमशः ब्रह्मलोकमें पहुँचता है और फिर ब्रह्माके साथ मुक्त हो जाता है ॥ १ ॥ * * मुनिवर ! इसके सिवा आपने उस प्रवृत्तिमार्गका भी ( तृतीय स्कन्धमें ) भली भाँति वर्णन किया है, जिससे त्रिगुणमय स्वर्ग आदि लोकोंकी प्राप्ति होती है और प्रकृतिका सम्बन्ध न छूटनेके कारण जीवोंको बार-बार जन्ममृत्युके चक्कर में आना पड़ता है ॥ २ ॥ * आपने यह भी बतलाया कि अधर्म करनेसे अनेक नरकौकी प्राप्ति होती हैं और (पाँचवे स्कन्धमें ) ‘उनका विस्तारसे वर्णन भी किया । ( चौथे स्कन्धमें ) आपने उस प्रथम मन्वन्तरका वर्णन किया, जिसके अधिपति स्वायम्भुव मनु थे ॥ ३ ॥ * साथ ही (चौर्य और पांचवे स्कन्धमें ) प्रियव्रत और उत्तानपादके वंशों तथा चरित्रोंका एवं द्वीप, वर्ष, समुद्र, पर्वत, नदी, उद्यान और विभिन्न द्वीपोंके वृक्षोंका भी निरूपण किया ॥ ४ ॥ ! ।। ।। धरामण्डलसंस्थानं भागलक्षणमानतः ज्योतिषां विवराणां च अधुनेह महाभाग यथैव नरकान्नरः रः । नानोग्रयातमान्नेयात्तन्मे १. न चेदिहैवापचिति यथाहसः श्रीशुक उवाच यथेदमसृजद्विभुः ॥ ५ ॥ व्याख्यातुमर्हसि ॥ ६ ॥ कृतस्य कुर्यान्मनउक्तिपाणिभिः । ध्रुवं स वै प्रेत्य नरकानुपैति ये कीर्तिता मे भवतस्तिग्मयातनाः ॥ ७ ॥ .प्रा.. पा.- बादरायरिणरुवाच श्रीमद्भागवतम् [ स्कं. ६ अ. १ श्लो. ५-१२ || तस्मात्पुरैवाश्चिह पापनिष्कृतौ यतेत मृत्योरविद्यताऽऽत्मना । दोषस्य दृष्टी गुरुलाघवं यथा भिषक् चिकित्सेत रुजा निदानवित् ॥ ६ ॥
राजोवाच ॥ दृष्टश्रुताभ्यां यत्पापं जानाप्यात्मनोऽहितम् । करोति भूयो विवश: प्रायश्वित्तमथो कथम् ॥ ६ ॥ क्वचिन्निवर्ततेऽभद्रात्कचिंच रति तत्पुनः । प्रायश्चित्तमतोऽपार्थ मन्ये कुञ्जरशौचवत् ॥ श्रीशुक उवाच १० ॥ ११ ॥ १२ ॥ कर्मणा कर्मनिर्हारो न ह्यात्यन्तिक इष्यते । अविदधिकारित्वात्प्रायश्चित्तं विमर्शनम् ॥ नाश्नतः पथ्यमेवान्नं व्याधयोऽभिभवन्ति हि । एवं नियमकद्राजन् शनैः क्षेमाय कल्पते ॥ । ॥ अन्वयः—धरामण्डलसंस्थानम् च ज्योतिषाम् विवराणाम् यथा विभुः भागलक्षणमानतः असृजत् ॥ ५ ॥ महाभाग अधुना नरः इह यथानानोप्रयातनान् नरकीर न इयात् तत् एव मे व्याख्यातुम् अर्हसि ॥ ६ ॥ * इह एव मनउक्तिपाणिभिः कृतस्य अंहसः अपचितिम् यथा न कुर्यात् येन स वै नरकान् उपैति तिग्मयातनाः मे भवतः कीर्तिताः तस्मात् ॥ ७ ॥ * * तस्मात् इह मृत्योः पुरा एवम् अविषद्यता आत्मना पापनिष्कृतौ यथा रुजाम् निदानवित् भिषक चिकित्सितेन दोषस्य गुरुलाघवम् वा आशु यतेत ॥८॥ * दृष्टश्रुताभ्याम् पापम् आत्मनः अहितम् जानन् अपि विवशः यत् भूयः करोति प्रायश्चित्तम् कथम् ॥ ६॥ * * कचित् अभद्रात् निवर्तते कचित् तत् पुनः चरति अतः प्रायश्चितम् कुंजरशौचवत् अपार्थम् मन्ये ॥ १० ॥ * * अविद्वदधिकारित्वात् कर्मणा कर्मनिर्हारः आत्यंतिक: न हि इष्यते प्रायश्चित्तम् विमर्शनम् ॥। ११ ॥ * * राजन पथ्यम् एव अन्नम् अनतः व्याधयः न हि अभिभवन्ति एवम् नियमकृत् शनैः क्षेमाय कल्पते ॥ १२ ॥ । TERRITT ॥ * ॥ श्रीधरस्वामिविरचिता भावार्थदीपिका ॥ । आप h नाना उमा यातना येषु तान्नरकान्यथा येनोपायेन तैयान गच्छेत्तन्मेऽधुना व्याख्यातुमर्हसि ॥ ६ ॥ * * तत्र तावन्मन्वाद्युक्तं प्रायश्चित्तं विना नरका दुर्निवारा इत्याह-न चेदिति द्वाभ्याम् । मनउक्तिपाणिभिर्मनोवाक्कायैः कृतस्यां हसस्तैरे- हैवापचितिं प्रायश्चित्तं न कुर्यात्तर्हि स पुरुषः प्रेत्य मृत्वा नरकान्धुवमुपैति । मे मया ये भवतः कीर्तिताः । तिग्मा दारुणा यातना येषु तान् ॥ ७ ॥ * * यस्मादेवं तस्मात्पापस्य निष्कृतौ प्रायश्चित्ते यतेत । कदा मृत्योः पुरैष । तत्राप्यविपद्य- ताऽक्षीयमाणेनात्मना देहेन । यद्वा अविपद्विपत्तिरहितो यावत् । यतात्मनाः संयतेन मनसा । तत्राप्याशु । अन्यथा ‘अतीब चिरकाले तु द्विगुणं व्रतमर्हति” इति द्वैगुण्यापत्तेः । तत्र च पापस्य महत्त्वमल्पत्वं चावेक्ष्य तदनुरूपे प्रायश्चित्ते यतेत रुजां रोगाणां निदानविद्यथा वैद्यस्तदनुरूपं चिकित्सेत तद्वत् || 5 || * * अत्र चोदयति द्वाभ्याम् । दृष्टं राजदंडादि श्रुतं नरकपातादि ताभ्यामात्मनः पापमहितं जानन्नपि भूयः प्रायश्चित्तानंतरं करोति । अथो अतः कारणाद् द्वादशाब्दादि कथं प्रायश्चित्तं तेन समूलस्य दोषस्यानिवृत्तेः निवृत्तौ वा पुनश्च पापप्ररोहायोगादिति भावः ॥ ६ ॥ ** किं च कचित्कदाचिदभद्रात्पापान्निवर्तते कचित्तदेव पुनराचरति यथा कुंजरः स्नातोऽपि रजोभिरात्मानं मलिनीकरोति तथा प्रापस्य पुनर्दुर्निवारत्वेन नरकपातस्यावश्यंभावित्वा- त्प्रायश्चितं व्यर्थमिति मन्ये ॥ १० ॥ * * परिहरति । कर्मणा कृच्छ्रादिप्रायश्चित्तेन कर्मणः पापस्य निर्हारो नाश आत्यंतिक: समूलो न हीष्यते अविद्वानधिकारी यस्मिंस्तस्य भावस्तत्त्वं तस्मात् । अतोऽविद्याया नाशाभावान्नष्टेऽपि तस्मिन्पापे तत्संस्कारेण पापांतरस्य पुनः पुनः प्ररोहो भवत्येव । किं तर्हि मुख्यं प्रायवित्तं तदाह । प्रायश्चित्तं तु विमर्शनं ज्ञानम् ॥ ११ ॥ ॐ तत्तु नित्यमप्रमत्तः शनैर्लभते नान्य इति सदृष्टांतमाह । नेति । पथ्यमेवान्नमभतः पुरुषान् यथा व्याधयो न बाधते तथा नियमा- दिकर्ता माय तत्त्वज्ञानाय समर्थो भवति ॥ १२ ॥ ।। । । । वंशीधरकृतो भावार्थदीपिकाप्रकाशः एक को नाना उप्रा यातनाः पीडा येषु तान् । लोकानामिष्टानिष्टसाधने के यथा ज्ञाते तथानिष्टपरिहारसाधनमपि ज्ञातव्यमिति भावः । महाभागेति । महाभागस्य तव संगिनोऽपि महाभागा यथा स्युस्तथा कर्तुमईसीत्यभिप्रायः ।। ६ विशिष्
-
- स्वशिष्यस्य १. प्रा. पा. क वा चरति । २. प्रा. पा. बादरायणिरुवाच । ३, प्रा. पा. कर्मतिगो न चात्यन्तिक । ४. प्रा. पा. कारत्वा ।स्कं. ६ अ. १लो. ५-१२] अनेकव्याख्यासमलङ्कृतम् परीक्षितः स्वमते व्युतपत्ति परीक्षमाणः कर्मिणां मते नरकप्रतीकारमाह— तत्रेति । तैरेव मनोर्वाक्यादिभिरेव । मानसस्याहसो मानसं प्रायश्चित्तमीश्वरध्यानादि । वाचिकस्य वाचिक नामोच्चारणादि । कायिकस्योपवासादि पाणिपदेनेह देहो लक्ष्यत इति ॥ ७ ॥ प्रायश्चित्तं तु जीवतैव कर्तुं शक्यते न तु मृतेनातः कथमुक्तमम्रियमाणेनेति चेत्तत्राह - यद्वेति । विपत्ति- रहित इति । यावज्जरारोगादिभिर्ब्रताद्यसामर्थ्यं न स्यादित्यर्थः । तत्रापि संयतमनस्त्वेपि शीघ्रमेव । अन्यथा प्रायश्चित्तस्याशैये । तत्र च शैयकरणे च । अत्र व्यवस्थापको विद्वान् धर्मशास्त्रतात्पर्यविज्ञो मृग्य इति भावः ॥ ८ ॥ अत्र प्रायश्चित्त- विषये । चोदयत्याक्षिपति । चौर्य्यादिकारिणो राजदंडदर्शनेन “मृतो नरकमभ्येति ह्यगम्यागमनान्नरः” इत्यादिस्मृतिश्रवणेन च । इति भाव इति । “प्रायः पापं समाख्यातं चित्तं तस्य विसर्जनम्” इति प्रायश्चितलक्षणस्य तत्रासंभवात्पुनः प्रवृत्तौ तु पाप- निवृत्तभाव एवेत्याशयः ॥ ९-१० ॥ परीक्षयोत्तीर्ण परीक्षितं पुनरपि परीक्षिष्यमाणः सिद्धांतं ज्ञापयति । आदिना चांद्रायणादिग्रहः अविद्वान् अविद्याबद्धो जीवोऽधिकारी । अतोऽविद्यायाः पापमूलस्य विद्यमानत्वात् । तत्संस्कारेणाविद्यया पापसंस्कारेण ज्ञानस्यैवाविद्यानिवर्तकत्वादिति भावः ॥ ११ ॥ ननु तर्हि पापवत्त्वें ऽतः करणशुद्ध यभावस्तस्मिंश्च
-
- ad कुतो ज्ञानप्रसंग इति चेत् । सत्यम् । ज्ञानसाधनेनापि पापोपशम इत्यभिप्रेत्याह । तत्त्विति । ज्ञानं तु अन्यः प्रमत्तः । क्षेमाय पापनाशद्वारा शनैश्शनैरेव समर्थो भवति ।। १२ ।। अन्वितार्थप्रकाशिकां द्वीपेति सार्द्धम् । विभुः परमेश्वरो द्वीपवर्षादीन् यथासृजत्तथा व्याख्यातम् । भागतो लक्षणतो मानतश्च घरामण्डल - संस्थानं तथा ज्योतिषां सूर्यादीनां विवराणां पातालादीनां च इदं संस्थानं विभुर्यथासृजत्तथा त्वया व्याख्यातम् ॥ ५ ॥ * अधुनेति । हे महाभाग नाना अनेकविधा उग्राः तीव्राः यातना वेदना येषु तान्नरकानिह जीवसमूहे नरः पापिजनोपि यथा येनोपायेन नैवेयात् नैव गच्छेत्तदुपायरूपमधुना मे मह्यं व्याख्यातुमर्हसि । अनिष्टे ज्ञाते तत्परिहारोऽपि ज्ञातव्य इत्या- शयः ॥ ६ ॥ * ४ राज्ञः परीक्षायै कर्मिणां मतेनोत्तरमाह-न चेदिति । इह जन्मनि मनउक्तिपाणिभिर्मनोवाक्कायैर्व्यस्तैः समस्तैर्वा कृतस्यांहसः पापस्येव जन्मनि यथा यथावत् मन्वाद्युक्तधर्मशास्त्रानुसारेण चेत् यदि अपचितिं प्रायश्चित्तं न कुर्यात्तदा स पापी प्रेत्य मृत्वा मे मया ये भवतः कीर्त्तिताः तिग्माः दारुणाः यातना येषु तान्नरकान्नुपैति प्राप्नोति ॥ ७ ॥ * * तस्मादिति । तस्मादुक्तहेतोः मृत्योः पुरैव अविपद्यता जरारोगादिना अक्षीयमाणेन । शता आर्षः । आत्मना देहेन यावद्युक्तः स्यात् व्रताचरणेष्वसमर्थो न स्यादित्यर्थः । तावदेव इह लोक एव पापस्य निष्कृतौ प्रायश्चित्ते आशु शीघ्रं पापकरणानन्तरमेव यतेत । अन्यथा अतीते चिरकाले तु द्विगुणं व्रतमर्हतीति द्वैगुण्यापत्तेः । यथा भिषग् वैद्यः अत एव रुजां रोगाणां निदानं कारणं वेत्तीति तथा । स यथा दोषस्य रोगस्य महत्त्वमल्पत्वं च ज्ञात्वा मृत्योः पुरैवाशु चिकित्सेत तथेत्यर्थः ॥ ८ ॥ दृष्टेति । दृष्टं राजदण्डलोकनिन्दादि श्रुतं नरकपातादि ताभ्यां पापम् आत्मनः अहितं जानन्नपि यत् यस्माद्विवशस्तद्वासनाधीनः सन् प्रायश्चित्तानन्तरमपि जन: पापं करोति । अथो तस्मात्कारणात् द्वादशाब्दिकं प्रायश्चित्तं पापनाशकं कथं तेन समूलदोषनिवृत्तौ पुनः पापप्रवृत्त्यसम्भवात् ततो ज्ञायते न तेन समूलपापनिवृत्तिरिति भावः ॥ ६ ॥ क्वचिदिति । यस्मात् कचि- कदाचित् यौवनादौ प्रायश्चित्तानुष्ठानसमये प्रायश्चित्तस्य कृतत्वादभद्रात्पापान्निवर्तते कश्चित्कालान्तरे वार्द्धकादौ पुनस्तदेव तत्सदृशमेव पापमाचरति । अतः तस्मात्कुञ्जरशौचवत्प्रायश्चित्तमपार्थं व्यर्थ मन्ये । यथा कुञ्जरः स्नातोऽपि रजोभिरात्मानं मलिनीकरोति तथा प्रायश्चित्ते कृतेऽपि पुनः पापाचरणात् नरकपातस्यावश्यंभावात्प्रायश्चित्तं व्यर्थम् । अत इत्यत्र अथों इति पाठे सन्धिरार्षः ॥ १० ॥ कर्मणेति । अविद्वान् अविद्यया देहाद्यध्यासवान एव अधिकारी यस्मिन् प्राय- श्चित्ते तस्य भावस्तत्त्वं तस्माद्धेतोः कर्मणा कृच्छ्रादिप्रायश्चित्तेन कर्मणः पापस्य निर्हारो नाश आत्यन्तिकः समूलो न हीष्यते । अविद्या एव पापप्रवृत्तेर्मूलं सैव च प्रायश्चित्तस्य मूलम्, अतस्तादृशस्य पापस्य तादृशेनैव प्रायश्चित्तेन समूलो नाशो न भवति, अत: विमर्शनम् आत्मसाक्षात्कारलक्षणं ज्ञानमेव सम्यक् प्रायश्चित्तं तस्यैवाविद्यानिवर्तकत्वात् ॥ ११ ॥ नेति । हे राजन् पथ्यमेवान्नमश्नतः पुरुषान् यथा व्याधयो नाभिभवन्ति न बाधन्ते किन्तु शनैर्निवर्तन्ते एवं नियमकृन्नियमेन तपआदिकर्ता शनैः शनैः कामादिदोषनिवृत्त्या क्षेमाय पापनाशाय आत्मतत्त्वसाक्षात्काराय च कल्पते समर्थो भवति ।। १२ ।।
- वीरराघवव्याख्या
- तथा द्वीपादीन् भूमण्डलसंस्थानज्योतिषां सूर्यादीनां विवराणामतलादीनां संस्थानं च भागादिभिर्व्याख्यातवानसीति शेष:, भागोऽवान्तरविभागः लक्षणमसाधारणकारणं मानं परिमाणं कि बहुना यथेदं भगवानसृजद्यादृग्विधमिदं जगद्भगवान- सृजत् तथैव व्याख्यातमित्यर्थः एवमुक्तानुवादः क्रमानादरेण कृतस्तत्रायं क्रमश्चार्थो विवक्षितः, प्रवृत्तिलक्षणो धर्मः " मन्वन्तरव
- १०
- श्रीमद्भागवतम्
- [ स्कं. ६ अ. १ श्लो. ५-१२ व्याख्यात: “आद्यः खायम्भुवो यतः” इति च तृतीयस्कंधार्थानुवादकम् अधर्मलक्षण इति पूर्वार्ध प्रियव्रतोत्तानपादौ इत्यादि- चतुर्थपञ्चमस्कन्धार्थानुवादकमिति ॥ ५ ॥ * * एवमुक्तमनूद्याथ पूर्व स्कन्धान्ते ऽनुवर्णितनरकनिस्तरणोपायं पृच्छति । अधुनेहेति । हे महाभाग ! भागो विवेकात्मको बुद्धिविशेषः विवेको हि हेयमुपादेयं च भज्यतेऽनेनेति भागः करणे घञ-महां- arit भागश्च महाभागः सोऽस्यास्तीति महाभाग:- अर्शआद्यच् नानाविधा उग्रास्तीत्रा यातना येषु तान्नरः अधुनैवाशु यथैव नेयात् येन साधनेन न प्राप्नुयात्तत्साधनं मे मह्यं व्याख्यातुमर्हसि ॥ ६ ॥ एवमापृष्टो भगवान् बादरायणिस्तावद- कृतनिष्कृतिभिरवश्यं स्वदुरितानुसारेण नरकाः प्राप्यन्त एवेति वदन्नवश्यं दुरितप्रतीकारे यतितव्यमित्याह न चेदिति द्वाभ्याम् । मनउक्तिपाणिभिर्मनोवाक्कायैः कृतस्यांहसः पापस्यापचितिं प्रायश्चित्तादिभिः क्षयं यदा इहैव लोके यदि न कुर्यात्तदा स वै अकृतनिष्कृतिर्देही प्रेत्य मृत्वा ध्रुवं तु तान्नरकानुपैति प्राप्नोति । नरकान्विशिनष्टि भवतस्ते तुभ्यं मे मया ये नरकास्तीम्मा तीव्रा यातना येषु तादृशाः कीर्तिताः कथिता इत्यर्थः ॥ ७ ॥ एषु स्यादकृत निष्कृतेर्न रकप्राप्तेर्दुर्निवारत्वात्पुरैव मृत्योर्मरणात्पूर्वमेवाविपद्यता विपत्तिमगच्छता पटुतरेणेत्यर्थः । आत्मना देहेनेहैव लोके पापस्य निष्कृतौ नाशे यतेत । किं कृत्वा दोषस्य पापस्य गुरुलाघवं भावप्रधानो निर्देशः- गौरवलाघवे दृष्ट्वा यथायोग्यं प्रायश्चित्ते यतेतेत्यर्थः । तत्र दृष्टान्तः यथा रुजां रोगिणां निदानज्ञो भिषग्रोगानुसारेण चिकित्सितं प्रतीकारं कुर्यात् इति ॥ ८ ॥ * * एवं प्रतिपदोक्तं प्रायश्चित्तमेव उपाय इत्युक्तं विषयपरवशस्य नरस्य पुनः पुनः पापाचरणशीलत्वात्तेषामानन्त्यात्प्रायश्चित्तानुष्ठानासम्भवात्तत्सम्भवे पुनर्दुरितसम्भाव- नया कृतप्रायत्वाच्च नेदं प्रश्नस्योत्तरमिति वदन्नुपायान्तरं पृच्छति राजा दृष्टश्रुताभ्यामिति द्वाभ्याम् । यद्यस्माद् दृष्टश्रुताभ्यां प्रत्यक्षेण शिष्टगदिना शास्त्रवचनेन चात्मनः स्वस्याहितमनिष्टसाधनमिति जानन्नपि पुनर्विवश: विषयपरवशः पापङ्करोत्यथो अतः प्रायश्चित्तं कथं व्यवस्थितं सद्दुरितशोधकं कथं भवेदित्यर्थः । अभद्रात्पापात्कचिन्निवर्त्तते विषयपरवशः कचिदभद्रं पुनश्चरति करोति । अथो अतः कृतमपि प्रायश्चित्तमपार्थं व्यर्थ भवति, अत्र दृष्टान्तः कुञ्जरशौचवदिति । यथा कुञ्जरो गजः स्नातोऽपि पुनः स्वशिरसि धूलि प्रक्षिपति तस्य शौचं स्नानं व्यर्थं तद्वत्कृतमपि प्रायश्चित्तं पुनः पापाचरणाद् व्यर्थ मन्य इत्यर्थः । अत उपायान्तरं मे कथयितव्यमिति भावः ॥ ६-१० ॥ * * एवमुक्ते निरवशेषतया दुरितनिवर्तकं विवक्षुस्तावत्प्रायश्चित्तमपि कतिपय- दुरितनिवर्त्तकत्वेनाधिकारिभेदेन व्यवस्थितमन्यथा प्रायश्चित्तविधायकमन्वादिस्मृतिवैय्यर्थ्यं स्यादित्याह भगवान् बादरायणिः । कर्मणेत्यादिना । कर्मणा प्रतिपदोक्तप्रायश्चित्ताख्येन कर्मणा कर्मणः पापकर्मणो निर्धारः आत्यन्तिकः पुनः पापसम्बन्धरहितो नेष्यते, यथोपदेशमेव दुरितनिवर्त्तकं प्रायश्चित्तं न तु ज्ञानवदुत्तरार्धस्यापि साकल्येन विनाशकमिति भावः, तहिं प्रायश्चित्तविधि- वैय्यर्थ्यमत आह । अविद्वदधिकारित्वादविदुषोऽपरमात्मोपासकस्याहङ्कारममकाररागद्वेषादिमतः प्रायश्चित्ते अधिकारित्वाद्विदुष उत्तरपूर्वाघयोरश्लेषविनाशकरस्य वेदनस्यैव सत्त्वान्न तत्पापनिवृत्तये प्रायश्चित्तापेक्षेति । यद्यपि तद्विधिवैयर्थ्यं तदाप्यविदुष- स्तात्कालिक रोगोपशामकौषधादिवत्कतिपयदुरितनिरसनाय प्रायश्चित्तमपेक्षितमिति न तद्विधिवैय्यर्थ्यमिति भावः । अत एवोच्यते प्रायश्चित्तं विमर्शनमिति । विमृश्यत इति विमर्शनं “कृत्यल्युटो बहुलम्” इति बहुवचनात्कर्मणि घन्, पापविशेष- निवर्त्तकत्वेन प्रायश्चित्तं विमृश्यते न कात्स्म्र्त्स्न्येनेत्यर्थः । यद्वा विमृश्यते विविच्यते पृथककृत्य निवर्त्यतेऽनेन पापमिति करणे घन् ॥ ११ ॥ * * एवं प्रतिपदोक्तप्रायश्चित्तान्यधिकारिभेदेन कतिपयदुरितनिरसनक्षमाणि वेदनं तु निःशेषदुरितनिवर्त्त- नद्वारा नरकपरिहारकमित्युक्तं तर्हि तादृशं वेदनकैरुपायैर्निष्पद्यत इत्यपेक्षायां तन्निष्पत्तिप्रतिबन्धकनिरसनोपायैर्नियमैस्त- निष्पद्यत एवेति सदृष्टान्तमाह नाश्नत इति । पथ्यमेवान्नमश्नतः पुरुषस्य व्याधयो नाभिभवन्ति न बाधन्ते हि हे राजन् एवं नियमकृद्वक्ष्यमाणतया नियमवान् शनैः क्षेमाय दुःखासम्भिन्ननिरतिशयसुखाय कल्पते क्षमते मुक्तो भवतीत्यर्थः । शनैरि- त्यनेनेयं प्रणाल्यत्राभिप्रेता ॥ १२ ॥
विजयध्वजतीर्थंकृता पदरत्नावली भागतो विभागतो लक्षणतो मानतश्च ज्योतिषां स्वरूपमिति शेषः । विवराणामधोभुवनानां संस्थानमिति शेषः । विभुरिदं जगद्यथा येन प्रकारेणासृजत्सोऽपि द्वितीयतृतीयादौ कथित इति शेषः ॥ ५ ॥ * प्रवक्तुर्व्याख्याने हर्षोद्रेककारणाय स्वस्योक्तार्थग्रहणसामर्थ्यं प्रदर्श्य विवक्षितार्थं पृच्छति अधुनेति । अधुनेममर्थं भवन्तं पृच्छामीति शेषः । इह जीवलोके दुष्कर्मापि नरो यथा येन साधनेन नानोप्रयातनान्नरकान्नेयान्न गच्छेदधुना दुष्कर्मपरिहारपटीयः साधनं व्याख्यातुमईसीत्यन्वयः । “यातना तीव्रवेदना” इत्यभिधानात् नानाविधा यातनास्तीत्रवेदना येषु नरकेषु तथा तानिति नरकविशेषणमेतत् ॥ ६ ॥ “न चेदिहावेदीन्महती विनष्टिः” इति श्रुत्यर्थं पश्यन्प्रवक्ति न चेदिति । यः पुरुषः मनउक्तिपाणिभिर्मनोवाक्कायैः कृतस्यां- हसः अपचितिं प्रायश्चित्तोपलक्षणं नाशमिहैव न कुर्याचेत्तर्हि स पापी प्रेत्य नरकानुपैतीत्यन्वयः । किदृशानत्राह ये कीर्तिता इति । वा इत्यनेन पारम्पर्येणेतीममर्थमाह । कथङ्कारमपचितिः स्यादित्यत उक्तम् यथेति । अंहसो गुरुलाघवं यथा स्कं. ६ अ. १ श्लो. ५-१२] अनेकव्याख्यासंमलङ्कृतम् ११ तथा प्रायश्चित्तकरणमित्यर्थः । न चेदमौपचारिकं ध्रुवं निश्चितमिति यस्मिन् जन्मन्याचरितं तस्मिन्प्रायश्चित्तल्लघ्वपि क्षिप्रं गुरुदोषनिवृत्तिलक्षणफलदमित्येवेत्यनेन दर्शयति ॥ ७ ॥ * * यस्मादेवमनर्थ प्राप्तिस्तस्माद्देहवियोगात्पूर्वमेव कालक्षेपमन्तरेण पापनिष्कृतौ पापपरिहारे यतेत । यतनमपि मध्यमे वयस्येवेत्यभिप्रायेणोक्तमविपदिति । बाल्ये वार्धके वा दौर्बल्यलक्षणविपत्ति- सम्भवात्तारुण्ये तदयोगात्समर्थ इत्यर्थः । अनेन द्रव्यादिसम्पत्तावेव प्रयत्नीयमिति ध्वनितं यथेत्युक्तं विवृणोति यदात्मन इति । आत्मनो दोषस्य यद् गुरुत्वं लघुत्वं च तद् दृष्ट्वा तदनुसारेणेत्यर्थः । अत्रैव दृष्टान्तमाह-यथेति । रुजां रोगाणां “निदानं त्वादि- कारणम्” इत्यभिधानान्मूलनिमित्तज्ञानी भिषग्वैद्यो यथा चिकित्सेत । चिकित्सिते आत्मनो दोषस्य गुरुलाघवज्ञानाभावे तद्गुरु- मुखादपि ज्ञात्वा कर्तव्यमिति सूचितमनेन दृष्टान्तेन । यद्वा यत् यावदात्मनो देहस्य मृत्योः सकाशाद्यन्मरणलक्षणविपन्न भवति तस्मात्तावत्पुरैव पापस्य गुरुलाघवज्ञानपूर्वकं निष्कृतौ यतेत, इममर्थ सदृष्टान्तमाह दोषस्येति ॥ ८ ॥ * * राजा निष्कृतेर्वैयर्थ्यं शङ्कते दृष्टेति । चौर्यादिकारिणो राजदण्डादिदर्शनेन “मृतो नरकमभ्येति ह्यगम्यागमनान्नर” इति श्रुतेः स चात्मनः पापमहितं दुःखसाधनं जानन्नपि विवश: स्वकर्माधीनः भूयः पञ्चादपि पापं करोतीति यद्यस्मादथो तस्मात्प्रायश्चित्तं कथं भवतीत्यन्वयः ॥ ९ ॥ असम्भवं विवृणोति । क्वचिदभद्रात्प्रायश्चित्तेन निवर्त्तते कचित्तत्सदृशमभद्रमा चरतीति यदथों तस्मात्प्रायश्चित्तमपार्थ मन्ये निष्प्रयोजनत्वे कुञ्जरशौचेन स्नानं लक्षयति ॥ १० ॥ * * प्रायश्चित्तलक्षणं कर्मा- पार्थमिति वदन् किं केवलं व्यर्थमुत विद्वद्भिर्विमृश्य विहितमा होस्विज्ज्ञानपूर्वकमपि क्रियमाणं तदिति तत्राद्यः सम्मत इत्याह कर्मणेति । प्रायश्चित्तलक्षणेन कर्मणा कर्मनिर्हारः पापकर्मविनाशः आत्यन्तिकः छिन्नमूलत्वेन नष्यते उभयोरप्यज्ञानमूलत्वेनाधि- कृतत्वात् । द्वितीयं न व्यर्थमित्याह प्रायश्चित्तेति । विद्वद्भिरविदुषोऽधिकृत्य प्रायश्चित्तं कर्म विमर्शनं कृत्वा विहितं कर्म व्यर्थ नेष्यते इति पूर्वेणान्वयः ॥ ११ ॥ तृतीये इदम्पापमिति जानता तदकुर्वाणेन स्वाविहितं क्रियमाणमुत मया कृतं पापमिति ज्ञात्वा तस्येदं प्रायश्चित्तमिति जानतेति पक्षद्वयेऽपि क्रियमाणं कर्म व्यर्थ किन्तु सार्थकमिति भावेनाह । नाश्नत इति । एवमिति वचनाद्यथेत्यध्याहर्तव्यं पथ्यमेवान्नमश्नतः पुंसो व्याधयो नाभिभवन्ति यथा देहमिति शेषः “अत्यम्बुपानाच्च स एव दोषः तस्मान्नरो वह्निविवर्धनात मुहुर्मुहुर्वारि पिबेदभूरि” इत्यादिविधानं हिशब्देनाक्षिप्तं स्पष्टयति एवमिति । नियम- कृत्पापकर्मा कुर्वन् स्वविहितं कुर्वन् शनैर्बहुजन्मात्यये पुण्यप्रचयेन ज्ञानोत्पत्तौ क्षेमाय कल्पते मोक्षाय समर्थो भवति ।। १२ ।। * जीवगोस्वामिकृतः क्रमसन्दर्भः प्रष्टव्यमाह अधुनेति । लोकानां यथेष्टानिष्टसाधने ते द्वे ज्ञाते तथानिष्टपरिहारसाधनमपि ज्ञातव्यमिति भावः ।। ६ ।। तत्र स्वमतं प्रायश्चित्तं प्रश्नोत्पादयितुमन्यमनुवदति न चेदिति ।। ७-८ ॥ * * तथैव पृच्छति दृष्टेति ॥ ६-१० ॥ * * स्वमतं वक्तुमाह कर्मणेति ।। ११-१४ ।। 7 विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी नाना उमा यातना येषु तान् नरकान् यथा न इयात् न गच्छेत् तत् लोकानामिष्टानिष्टसाधने द्वे तथा ज्ञाते तथा- निष्टपरिहारसाधनमपि ज्ञातव्यमिति भावः ॥ ६॥ * * तत्र स्वशिष्यस्य परीक्षितः स्वमते व्युत्पत्ति परीक्षमाणः कर्मिणां मते नरके प्रतिकारमाह न चेदिति द्वाभ्याम् । इहैव जन्मन मनोवाक्कायैर्व्यस्तैः समस्तैर्वा कृतस्यांहसः अपचितिं प्रायश्चित्तम् इहैव जन्मनि न कुर्यात्तदा तिग्मा दारुणाः ।। ७ ।। दारुणाः ।। ७ ।। * * यस्मादेवं तस्मान्मृत्योः पुरैव तत्राप्याशु अन्यथा “अतीव चिरकाले तु द्विगुणं व्रतमहति” इति द्वे गुण्यापत्तेः । अविपद्यतात्मनेति । यावज्जरारोगादिभिर्ब्रताद्यसामर्थ्यं न स्यादित्यर्थः । अत्र व्यवस्थापको विद्वान् धर्मशास्त्रतात्पर्यविज्ञो मृग्य इत्याह । दोषस्येति गुरुलाघवं गौरवं लाघवञ्च ॥ ८ ॥ * * मतमिदमाक्षिपन्न सम्मन्य- मान आह दृष्टेति द्वाभ्याम् । दृष्टं राजदण्डादि श्रुतं नरकपातादि ताभ्यामात्मनोऽहितं पापं प्रायश्चित्तानन्तरमपि करोति लोके तथा दृष्टत्वादित्यर्थः । अथो अतः प्रायश्चित्तं कथं पापनाशकमित्यर्थः । तस्य पापनाशकत्वे पुनः पापप्ररोहायोगादिति भावः ।। ९ ।। * * कचिद्यौवनादौ अभद्रात् पापान्निवर्त्तते पुनस्तदेव पापं कचिद्वार्द्धके चरति, अथो अत एव अपार्थ व्यथ कुञ्जरशौचवदिति कुञ्जरो हि स्नात्वापि पुनरात्मानं रजोभिर्मलिनीकरोति ।। १० ।। परीक्षयोत्तीर्ण परीक्षितं पुनरपि परीक्षिष्यमाणः सिद्धान्तं ज्ञापयति । कर्मणा कृच्छ्रादिप्रायश्चित्तेन कर्मणः पापस्य नाशो नात्यन्तिकः किन्त्वापातत उपशमन इत्यर्थः । अविद्वान् अविद्याबद्धो जीव एवाधिकारी यस्य तस्य भावरूत्त्वं तस्माद्धेतोरित्यविद्यायाः पापमूलस्य विद्यमानत्वात् पुनः पुनरपि पापप्ररोहादिति भावः । किं तर्हि मुख्यं प्रायश्चित्तमित्यतः पुनरपि परीक्षमाणो ज्ञानिनां मतेनाह । विमर्शनं ज्ञानं तस्यैवाविद्यानिवर्त्तकत्वादिति भावः ॥ ११ ॥ ननु तर्हि पापवत्त्व अन्तःकरणशुद्धच भावस्तस्मिंश्च सति कुतो ज्ञानप्रसङ्ग इति चेत् सत्यं ज्ञानसाधनेनापि पापोपशम इति सदृष्टान्तमाह । पथ्यमेवान्नमश्नतः पुरुषान् यथा व्याधयो न बाधन्ते तथा नियमादिकर्ता क्षेमाय पापनाशनाय शनैः शनैरेव समर्थो भवति ।। १२ ।। pa * १२ श्रीमद्भागवतम शुकदेवकृतः सिद्धांतप्रदीपः [ स्कं ६ अ. १ श्लो. ५-१२ नाना बहुप्रकारा उग्राः दुःसहा यातनाः पीडा येषु तान् नेयान्न गच्छेत् यथा येन प्रयत्नेन तन्मे मह्यं व्याख्यातुं वर्ण- यितुं त्वमर्हसि ॥ ६ ॥ * * “मनुर्यदब्रवीत्तद्वेषजम्” इत्यादिश्रुतिसत्कृतमन्वादि महर्षिप्रणीतस्मृत्यादरार्थमकृत निष्कृतिरवश्यं नरकं प्राप्नोत्यतो मन्वादिस्मृत्युक्तरीत्या प्रायश्चित्तं पापिना कर्तव्यमित्याह न चेति द्वाभ्याम् । मनआदिभिः कृतस्य अंहसः पापस्य यथा यथावत् मन्वाद्युक्तविधिना अपचितिं प्रायश्चित्तं न कुर्याच्चेत् तर्हि तिग्माः तीक्ष्णाः यातना येषु तथाविधा ये मया कीर्तिता नरकाः तान् ध्रुवमुपैति ॥ ७ ॥ तस्मादुक्तकारणान्मृत्योः पुरैव तत्रापि अविपद्विपद्रहितः पापनिष्कृतौ यतेत ॥ ८ ॥ * * महर्षिभिरुक्ता पापनिष्कृतिः पुण्यपुरुषेण पापभीरुणा देवात्कृतस्य पापस्य निराकरणार्था भवतु अत्यन्ततो मायामहितस्य कामक्रोधादिपारवश्येन पापेभ्यो निवर्तितुमशक्तस्यानुच्छिन्नहृद्मन्थेर्दीनस्य प्रायश्चित्तशतेनापि शोधितुमशक्यस्य का गतिरिति दयार्द्रचित्तो महाराजो हृदि निधाय आक्षिपति दृष्टश्रुताभ्यामिति द्वयेन । दृष्टश्रुताभ्यां पापफलाभ्यां राजदण्डनरक- पातादिभ्यां पापमहितं जानन्नपि भूयः कृतेऽपि प्रायश्चित्ते पुनः करोति यतो विवश: कामादिपरवशः अतः प्रायश्चित्तं कथं निष्पापत्वहेतुः स्यादिति शेषः ॥ ९ ॥ अभद्रात्पापाद्गङ्गादिजले कृतस्नानेन कुञ्जरेण स्नानरूपशौचं स्वदेहे प्रक्षिप्तैः रजोभिरपार्थं क्रियते तद्वत्प्रायश्चित्तमपार्थं मन्ये ॥ १० ॥ * परिहरति कर्मणेत्यादिना । कर्मणा प्रायश्चित्तेन कर्मनिर्धारः देहात्मत्वाभिमानादिरूपं पापमूलज्ञानं बिभ्राणः प्रायश्चित्तेन पापं नाशयन्नपि अविद्वान् पापमूलमज्ञानं नैव नाशयति, किन्तु पुनः पापं देहे आत्मत्वाभिमानेन गृहादौ ममत्वाभिमानेन परमात्मनि पुरुष विशेषत्व भ्रान्त्या- पमानेन एवमाद्यज्ञानेन करोतीत्यर्थः । अतो मुख्यं प्रायश्चित्तं विमर्शनमात्मानात्मपरमात्मज्ञानं न हि तत्त्ववित् परमानन्दप्राप्त्युपायं पुण्यादिकं हित्वा देहार्थं पापं करोत्यात्मानं नरके पातयितुं किन्तु क्वचिदैवाज्जातेऽपि पापे यथोक्तमुक्त्यु- पायेन मुक्तो भवतीति भावः ॥ ११ ॥ * * इममर्थं दृष्टान्तेन स्फुटीकरोति नाश्वत इति । नियमकृत् नियतमोक्षसाधन- कर्त्ता क्षेमाय मोक्षाय ॥ १२ ॥ गोस्वामिगिरिधरलालविहिता बालप्रबोधिनी भागतो लक्षणतो मानतश्च घरामण्डलसंस्थानं तथा ज्योतिषां सूर्यादीनां विवरणं च इदं संस्थानं विभुर्यथाऽसृजत्तथा त्वया व्याख्यातमित्यन्वयः ॥ ५ ॥ * एवमुक्तमनूद्य नरकोद्धारोपायं पृच्छति - अधुनेति । नाना अनेकविधा उमाः तीव्रा यातना वेदना येषु तान्नरकानिह जीवसमूहे नरः पापिजनोऽपि यथा येनोपायेन नैवेयात् नैव गच्छेत् तदुपायमधुना मे मह्यं व्याख्यातुमर्हसीत्यन्वयः । अहेत्वे हेतुं सूचयन् सम्बोधयति – हे महाभागेति । यो हि यस्मात् सङ्काटान्निःसृतः स एव निस्तारोपायं जानाति । अतो भवतः सर्वज्ञस्य नरकभयाभावाद मदर्थे तदुद्धारोपायं कृपया वदेति भावः ॥ ६ ॥ * * एवं पृष्टः श्रीशुकः सर्वज्ञत्वात् परीक्षिदधिकारं जानन्नपि कर्मिजनसङ्ग्रहार्थं प्रथमं कर्ममार्गेण नरकप्रतीकारमाह-न चेदिति द्वाभ्याम् । इह जन्मनि मनउक्तिपाणिभिः मनोवाक्कायैव्यस्तैः समस्तैर्वा कृतस्यांहसः पापस्य इहैव जन्मनि यथा यथावत् मन्वा - द्युक्तधर्मशास्त्रानुसारेण चेत् यदि अपचितिं प्रायश्चित्तं न कुर्यात्तदा स पापी प्रेत्य मृत्वा मे मया ये भवतः कीर्त्तिताः तिग्मा दारुणा यातना येषु तान्नानुपैति प्राप्नोतीति, ध्रुवं वै निश्चितमेवेत्यन्वयः ॥ ७ ॥ * * यस्मात् प्रायश्चित्तं विना नरकप्राप्तिरा- वश्यकी तस्मात् पापस्य निष्कृतौ प्रायश्चित्ते इहारिमन् जन्मन्येव यतेत । कदेत्यपेक्षायामाह - मृत्योः पुरैव तत्रापि अविपद्यता जरारोगादिना अक्षीयमाणेन आत्मना देहेन यावद्युक्तस्तदैव, अन्यथा जरादिना क्षीणदेहस्य तत्र सामर्थ्याभावात् । यद्वा अविपत् यावद्विपत्तिरहितस्तावत् यतात्मना संयतेन मनसा । तत्रापि आशु तज्ज्ञानादनन्तरमेव । अन्यथा ‘अतीते चिरकाले तु द्विगुणं व्रतमर्हती ‘ति द्वैगुण्यापत्तेः । तत्रापि दोषस्य पापस्य गुरुलाघवं महत्त्वमल्पत्वं च दृष्ट्वा विचार्य तदनुरूपे प्रायश्चित्ते यतेत । अन्य- थाऽल्पेन प्रायश्चित्तेन महतः पापस्य निवृत्त्यभावेन नरकनिवृत्तिने स्यात् । तत्र दृष्टान्तमाह-यथेति । भिषक् सद्वैद्यः अत एव रुजां रोगाणां निदानं कारणं वेत्तीति तथा स यथा दोषस्य रोगस्य महत्त्वमल्पत्वं च ज्ञात्वा मृत्योः पुरैवाशु तदनुरूपं चिकित्सति तथेत्यर्थः ॥ ८ ॥ * एवं साधारण्येनोक्तेऽपि तस्योत्तमाधिकारित्वात् तद्वैयथ्यं शङ्कते दृष्टेति द्वाभ्याम् । दृष्टं राजदण्ड- लोकनिन्दादि श्रुतं नरकपातादि ताभ्यां पापमात्मनोऽहितं शत्रुं जानन्नपि यत् यस्माद्विवशस्तद्वासनाधीनः सन् भूयः प्रायश्चित्ता- नन्तरं करोति । अथ तस्मात् कारणाद् द्वादशाब्दादिकं कथं प्रायश्चित्तं ? तेन समूलदोषनिवृत्तौ पुनः पापप्रवृत्त्यसम्भवात् ततो ज्ञायते न तेन समूलपापनिवृत्तिरिति भावः ॥ ९ ॥ * * पूर्वोक्तमेव स्पष्टयति-कचिदिति । यस्मात् कचित् कदाचित् प्रायश्चित्तानुष्ठानसमये प्रायश्चित्तस्य कृतत्वादभद्रात् पापान्निवत्तेते, क्वचित् कालान्तरे पुनस्तदेव तत्सदृशमेव पापमाचरति, अथ तस्मात् प्रायश्चित्तमपार्थं व्यर्थमहं मन्ये । तत्र दृष्टान्तमाह- कुञ्जरशौचवदिति, यथा कुञ्जरः स्नातोऽपि रजोभिरात्मानं मलिनी- स्कं ६ अ. १ श्लो. ५-१२] 1 अनेकव्याख्यासमलङ्कृतम् १३ करोति तथा प्रायश्चित्तेन शुद्धस्यापि पुनः पापाचरणेन नरकपातस्य अवश्यम्भावित्वात् प्रायश्चित्तं व्यर्थमित्यर्थः ॥ १० ॥ एवं राज्ञा चोदितस्तदुक्तमङ्गीकरोति - कर्मणेति । कर्मणा कृच्छ्रादिप्रायश्चित्तेन कर्मणः पापस्य निर्हारो नाश आत्यन्तिकः समूलो न हीष्यते, अतस्तत्संस्कारेण पुनस्तदाचरणे प्रवृत्तिरिति सत्यमुक्तमिति शेषः । कुतो न समूलनाश इत्यपेक्षायां तत्र हेतुमाह-अवि- द्वदधिकारित्वादिति, अविद्वानेव अधिकारी यस्मिन् प्रायश्चित्ते तस्य भावस्तत्त्वं तस्मात् । पापप्रवृत्तिमूलस्य देहाद्यध्यासलक्षणा- विद्यायास्तेन विरोधाभावादिति भावः । किं तर्हि समूलनिवर्त्तकं मुख्यं प्रायश्चित्तमित्यपेक्षायां राजाधिकारानुरूपं आत्मसाक्षा- त्कारलक्षणं प्रायश्चित्तान्तरमाह – प्रायश्चित्तं विमर्शनमिति ॥ ११ ॥ * * ननु कामक्रोधादिकलुषितस्य ज्ञानमेव कथं स्यादित्याशङ्कय दृष्टान्तेन ज्ञानं सम्भावयति – नेति । पथ्यमेवान्नमश्नतः पुरुषान् यथा व्याधयो नाभिभवन्ति न बाधन्ते किन्तु शनैर्निवर्त्तन्ते । हि प्रसिद्धमेवैतत् । एवं नियमकृन्नियमेन तपआदिकर्त्ता शनैः शनैः कामादिदोषनिवृत्त्या क्षेमाय आत्मतत्त्वसाक्षा- त्काराय कल्पते समर्थो भवति । हे राजन्निति सम्बोधनेन महत्कार्ये बहुसाधनसम्पत्त्या शनैर्महता कालेन सिद्धयतीति तु राजकार्यनिपुणत्वेन तव विदितमेवेति सूचयति ॥ १२ ॥ 1 भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी " धरेति । धरामण्डलसंस्थानं भूमण्डलसंस्थितिः, ज्योतिषां सूर्यादीनां विवराणामतलादीनां च इदं, संस्थानमिति शेषः । विभुः यथा असृजत, तथा भागलक्षणमानतः भागतो लक्षणतो मानतश्च, व्याख्यातवानसीति शेषः । इति सार्द्धश्लोकस्यै- कान्वयः ॥ ५ ॥ * * एवमुक्तमनूद्याथ पूर्व स्कन्धान्ते ऽनुवणितान्नरकानाश्रुत्य स्वस्य नृपत्वात् ज्ञाताज्ञातसंभूतपाप- कम्पितान्तरो नृपस्तन्निस्तरणोपायं पृच्छति अधुनेति । भज्यते यापादेयं विविच्यतेऽनेनेति भाग: विवेकात्मको बुद्धिविशेषः । करणे घञ् । महांश्चासौ भागश्च महाभागः साऽस्यास्ताति महाभागः, अर्शआदित्वादच् । तत्संबुद्धौ हे महाभाग, नरः इह अधुना आशु यथैव, नाना नानाविधा उमाः यातनाः पीडाः येषु तान् नरकान् नेयाद्येन साधनेन न प्राप्नुयात्, तत्साधनं मे मह्यं व्याख्यातुम् अर्हसि ॥ ६ ॥ * * एवमापृष्टो भगवान् बादरायणिस्तावदकृत निष्कृतिभिरवश्यं स्वदुरितानुसारेण नरकाः प्राप्यन्त एवेति वदन्नवश्यं दुरितप्रतीकारे यतितव्यमित्याह न चेदिति द्वाभ्याम् । मनउक्तिपाणिभिः मनोवाक्कायैः, कृतस्य अंहसः पापस्य अपचितिं प्रायश्चित्तं, क्षयमिति यावत् । तैर्मनआदिभिरेव, इहास्मिन लोके एव, चेद्यदि यथा यथावत्, न कुर्यात्, तदा स वै अकृतनिष्कृतिर्देव, प्रेत्य मृत्वा ध्रुवं नूनं भवतः तुभ्यं मे मया, ये तिग्मयातनाः तीव्रदुःखयुक्ता नरकाः कीर्त्तिताः कथिताः । तान् नरकान् उपैति प्राप्नोति ।। ७ ।। * तस्मादकृतनिष्कृतेः पुंसो नरकप्राप्तेदुर्निवार- स्वाद्धेतोः मृत्योः पुरा मरणात्पूर्वमेव, अविपद्यता विपत्तिमगच्छता पटुतरेणेत्यर्थः । आत्मना देहेन, इह लोके एव, पापनिष्कृतौ पापविनाशकप्रायश्चित्ताचरणे, दोषस्य स्वकृतपापस्य, गुरुलाघवं भावप्रधानो निर्देशः गुरुत्वं लघुत्वं चेत्यर्थः । दृष्ट्वा रुजां रोगाणां निदानवित् भिषक वैद्यः, यथा रोगानुसारेण चिकित्सेत प्रतीकारं कुर्यात् तथा, आशु शीघ्रमेव, यतेत पापनिवर्तन- यत्नं कुर्यादित्यर्थः । अतीव चिरकालेन प्रायश्चित्ताचरणे तु द्विगुणत्वापत्तेः । तथा च स्मृतिः ‘अतीव चिरकाले तु द्विगुणं व्रतमति’ इति ॥ ८ ॥ * * स्मृतिकारोक्तरीत्या प्रायश्चित्ताचरणमेव पापनिर्हरणोपाय इत्युक्तम् । परं तु कृतप्रायश्चित्तस्य विषयपरवशस्य नरस्य पुनः पुनः पापाचरणशीलत्वात्तेषां कृतप्रायश्चित्तानामपि तदकृतप्रायत्वान्नेदं सम्यक प्रश्नोत्तरमिति विदन्नु- पायान्तरं पृच्छति राजा दृष्टश्रुताभ्यामिति द्वाभ्याम् । दृष्टं राजदण्डादि च श्रुतं नरकपातादि च ताभ्यां आत्मनः स्वस्य, पापम् अहितं हितकरं न भवतीति जानन्नपि भूयः पुनः, विवशः सन् पापं करोति । यत् अथो अतः प्रायश्चित्तं कथं भवेत् । द्वादशाब्दादेः प्रथमतः प्रायश्चित्तत्वमेव कथं तेन समूलस्य दोषस्यानिवृत्तेः । निवृत्तौ वा पुनः पापप्ररोहायोगादिति भावः ।। ९ ।। * * कचिदिति । अभद्रात्पापात् कचित्कदाचित् निवत्तेते प्रायश्चित्ताचरणेन निवृत्तो भवति । कचित् विषयपरवशः सन् पुनः तद्भद्रं पूर्वकृतपापसमानं पापमित्यर्थः । चरति करोति । अथो अतः कृतमपीति शेषः । प्रायश्चित्तं अपार्थं व्यथमेव भवति इति मन्ये । अत्र दृष्टान्तः कुञ्जरशौचवत्, यथा राजः स्नातोऽपि पुनः स्वशिरसि धूलिं प्रक्षिपति तेन तच्छौचं व्यर्थ, तथा पापस्य पुनदुर्निवारत्वेन नरकपातस्यावश्यंभावित्वात्प्रायश्चित्तं व्यर्थमत उपायान्तरमेव कथयितव्यमिति भावः ।। १० ।। * एवं राज्ञोक्ते निरवशेषतया दुरितनिवर्त्तकं विवक्षु तावत्प्रायश्चित्तमपि कतिपयदुरितनिवत्तेकत्वेना- धिकारिभेदेन च व्यवस्थितमन्यथा प्रायश्चित्तविधायकमन्वादिस्मृतिर्वैयथ्ये स्यादित्याह भगवान् बादरायणिः कर्मणेत्यादिना । कर्मणा प्रतिपदोक्तकृच्छ्रादिप्रायश्चित्तेनेत्यर्थः । कर्मणः पापस्य, निर्हारोऽपनोदः नाश इति यावत् । आत्यन्तिकः समूलः पुनः पापसम्बन्धरहित इत्यर्थः । न इष्यते हि । यथोद्देश्यमेव दुरितनिवर्त्तकं प्रायश्चित्तं न तु ज्ञानवदुत्तराघस्यापि साकल्येन विनाशकमिति भावः । तर्हि प्रायश्चित्तविधिवैयर्थ्यमत आह । अविद्वानधिकारी यस्य तस्य भावस्तत्त्वं तस्मादविद्वदधिकारित्वाद् अविद्याया नाशाभावान्नष्ठेऽपि तस्मिन् पापे तत्संस्कारेण पापान्तरस्य पुनः पुनः प्ररोहो भवत्येव । तथापि अविदुषस्तात्कालिक- ५ १४ श्रीमद्भागवतम् [ स्कं. ६ अ. १ श्लो. १३-२० रोगोपशामकौषधादिवत्कतिपयदुरितनिरसनाय प्रायश्चित्तमपेक्षितमिति, न तद्विधिवैयर्थ्यमिति भावः । किं तर्हि मुख्यं प्रायश्चित्तं तदाह । प्रायश्चित्तं तु, विमृश्यते पृथककृत्य निवर्त्यतेऽनेन पापमिति विमर्शनं ज्ञानं, करणे घन् ॥ ११ ॥ । एवं प्रतिपदोक्तप्रायश्चित्तान्यधिकारिभेदेन कतिपयदुरितनिरसनक्षमाणि वेद, न तु निःशेषदुरितनिवर्त्तनद्वारा नरकपरिहारक- मित्युक्तं, तर्हि तादृशं वेदनं कैरुपायैर्निष्पद्यते इत्यपेक्षायां तन्निष्पत्तिप्रतिबन्धकनिरसनोपायैर्नियमैस्तन्निष्पद्यत एवेति सदृष्टान्त- माह नाश्नत इति । पथ्यम् एव अन्नम् अश्नतः पुरुषान् यथा व्याधयः, न अभिभवन्ति हि न बाधन्ते किल, तथा हे राजन्, एवं नियमकृद्वक्ष्यमाणतया नियमकारी पुमान् शनैः क्षेमाय दुःखासंभिन्न निरतिशय सुखाय, कल्पते क्षमते मुक्तो भवतीत्यर्थः ॥ १२ ॥
भाषानुवादः भूमण्डलकी स्थिति, उसके द्वीप वर्षादि - विभाग, उनके लक्षण तथा परिणाम, नक्षत्रोंकी स्थिति, अतल-वितल आदि भू-विवर ( सात पाताल ) और भगवान् ने इन सबकी जिस प्रकार सृष्टि की— उसका वर्णन भी सुनाया ॥ ५ ॥ * महाभाग ! अब मैं वह उपाय जानना चाहता हूँ, जिसके अनुष्ठानसे मनुष्यों को अनेकानेक भयंकर यातनाओंसे पूर्ण नरकों में न जाना पड़े। आप कृपा करके उसका उपदेश कीजिये ।। ६ ।। * * श्रीशुकदेवजीने कहा मनुष्य मन, वाणी और शरीर से पाप करता है । यदि वह उन पापोंका इसी जन्ममें प्रायश्चित्त न कर ले, तो मरनेके बाद उसे अवश्य ही उन भयङ्कर यातनापूर्ण नरकों में जाना पड़ता है, जिनका वर्णन मैंने तुम्हें ( पोचवें स्कन्धके अन्तमें ) सुनाया है ॥ ७ ॥ * इस- लिए बड़ी सावधानी और सजगता के साथ रोग एवं मृत्युके पहले ही शीघ्र से शीघ्र पापों की गुरुता और लघुतापर विचार करके उनका प्रायश्चित्त कर डालना चाहिये, जैसे मर्मज्ञ चिकित्सक रोगोंका कारण और उनकी गुरुता- लघुता जानकर झटपट उनकी चिकित्सा कर डालता है ॥ ८ ॥ * राजा परीक्षितने पूछा - भगवन् ! मनुष्य राजदण्ड, समाजदण्ड आदि लौकिक और शास्त्रोक्त नरकगमन आदि पारलौकिक कष्टोंसे, यह जानकर भी कि पाप उसका शत्रु है, पापवासनाओंसे विवश होकर बार-बार वैसे ही कर्मोंमें प्रवृत्त हो जाता है । ऐसी अवस्था में उसके पापोंका प्रायश्चित्त कैसे सम्भव है ? ॥ ९॥ ॐ मनुष्य कभी तो प्रायश्चित्त आदिके द्वारा पापोंसे छुटकारा पा लेता है, कभी फिर उन्हें ही करने लगता है। ऐसी स्थितिमें मैं समझता हूँ कि जैसे स्नान करनेके बाद धूल डाल लेने के कारण हाथीका स्नान व्यर्थ हो जाता है, वैसे ही मनुष्यका प्रायश्चित्त करना भी व्यर्थ ही है ॥ १० ॥ * श्रीशुकदेवजीने कहा- वस्तुतः कर्मके द्वारा ही कर्मका निर्बीज नाश नहीं होता; क्योंकि कर्मका अधिकारी अज्ञानी है । अज्ञान रहते पापवासनाएँ सर्वथा नहीं मिट सकती। इसलिये सच्चा प्रायश्चित्त तो तत्त्वज्ञान ही है ॥ ११ ॥ जो पुरुष केवल सुपथ्यका ही सेवन करता है, उसे रोग अपने वशमें नहीं कर सकते । वैसे ही परीक्षित् ! जो पुरुष नियमों का पालन करता है, वह धीरे-धीरे पापवासनाओंसे मुक्त हो कल्याणप्रद तत्त्वज्ञान प्राप्त करने में समर्थ होता है ॥ १२ ॥ F 1
।। तपसा ब्रह्मचर्येण शमेन च दमेन च। त्यागेन सत्यशौचाभ्यां यमेन नियमेन च ॥ १३ ॥ ‘देहवाग्बुद्धिजं धीरा धर्मज्ञाः श्रद्धयान्विताः । क्षिपन्त्ययं महदपि वेणुगुल्ममिवानलः ॥ १४ ॥ ‘केचित्केवलया भक्त्या वासुदेवपरायणाः । अघं धुन्वन्ति कार्त्स्न्येन नीहारमिव भास्करः ।। १५ न तथा ह्यघवान् राजन् पूयेत तपआदिभिः । यथा कृष्णार्पितप्राणस्तत्पूरुपनिषेवया ॥ १६ ॥ सनीचीनो ह्ययं लोके पन्थाः क्षेमोऽकुतोभयः । सुशीलाः साधवो यत्र नारायणपरायणाः ॥ १७ ॥ * प्रायश्चित्तानि चीर्णानि नारायणपराङ्मुखम् । न निष्पुनन्ति राजेन्द्र सुराकुम्भमिवापगाः । १८ ॥ सकृन्मनः कृष्णपदारविन्दयोनिवेशितं तद्गुणरागि यैरिह । न ते यमं पाशभृतश्च तद्भटान् स्वप्नेऽपि पश्यन्ति हि चीर्णनिष्कृताः ॥ १९ ॥ अत्र चोदाहरन्तीममितिहासं पुरातनम् । दूतानां विष्णुयमयोः संवादस्तं निबोध मे । २० ॥ अन्वयः- :- धीराः धर्मज्ञाः श्रद्धया अन्विताः तपसा ब्रह्मचर्येण च शमेन दमेन त्यागेन सत्यशौचाभ्याम् च यमेन च नियमेन देहवाग्बुद्धिजम् महत् अपि अघम् अनलः वेणुगुल्मम् इव क्षिपन्ति ।। १३-१४ ॥ केचित् वासु १. प्रा० पा० तत्परस्य तु सेवया ।
स्कं. ६ अ. १ श्लो. १३-२० ] अनेकव्याख्यासमलङ्कृतम् १५ देवपरायणाः केवलया भक्तचा भास्करः नीहारम् इव कात्स्र्त्स्न्येन अधम् धुन्वंति ॥ १५ ॥ * राजन ही यथा कृष्णार्पित- प्राण: तत्पूरुषनिषेवया पूयेत तथा अघवान् तपआदिभिः न पूयेत ।। १६ ।। * * हि लोके अयम् पन्थाः अकुतोभयः क्षेमः सध्रीचीनः यत्र सुशीलाः साधवः नारायणपरायणाः ॥ १७ ॥ * * राजेन्द्र चीर्णानि प्रायश्चित्तानि नारायणपराङ्मुखम् आपगाः सुराकुंभम् इव न निष्पुनंति ॥ १८ ॥ * * हि इह तद्गुणरागि मनः कृष्णपदारविन्दयोः सकृत् निवेशितम् ते चीर्णनिष्कृताः यमम् च पाशभृतः तद्भटान् स्वप्ने अपि न पश्यंति ॥ १६ ॥ अत्र च इमम् पुरातनम् इतिहासम् उदाहरन्ति विष्णुयमयोः दूतानाम् संवादः तम् मे निबोध ॥ २० ॥ ރ श्रीधरस्वामिविरचिता भावार्थदीपिका * एतदेव विशदयति द्वाभ्याम् । तपसैकाप्रयेग “मनसश्चेन्द्रियाणां च ऐकाग्र्यं परमं तपः” इति स्मृतेः । ब्रह्मचर्येणाष्टांगेन तदुक्तम् । स्मरणं कीर्तनं केलिः प्रेक्षणं गुह्यभाषणम् । संकल्पोऽध्यवसायश्च क्रियानिर्वृतिरेव च । एतन्मैथुनमष्टांगं प्रवदति मनीषिणः ।। विपरीतं ब्रह्मचर्यमेतदेवाष्टलक्षणम् ।” इति । शमो मनसो नियमनम् । दमो बाछेंद्रियाणाम् । त्यागो दानम् । यमो ऽहिंसादिः । नियमो जपादिः ।। १३-१४ ॥ * * अस्यातिदुष्करत्वान्मुख्यमेवान्यत्प्रायश्चित्तमाह । केचिदिति । केचिदित्यनेन एवंभूता भक्तिप्रधाना विरला इति दर्शयति । केवलया तपआदिनिरपेक्षया । वासुदेवपरायणा इति नाधिकारि- विशेषणमेतत्किं त्वन्येषां श्रद्धया तत्राप्रवृत्तेरर्थात्तेष्वेव पर्यवसानादनुवादमात्रम् ॥ १५ ॥ * * एतच्च ज्ञानमार्गादपि श्रेष्ठमित्याह । न तथा पूयेत शुद्ध्येत । यथा तत्पुरुषनिषेवया कृष्णेऽर्पिताः प्राणा येन ॥ १६ ॥ * * तत्र हेतुः । सघी- चीनः समीचीनोऽयं पंथा भक्तिमार्गो यतः क्षेमः क्षेमत्वे हेतुः । न कुतश्चिद्विघ्नादेर्भयं यस्मिन् । तदेवाह सुशीलाः कृपालवः साधवो निष्कामाः यत्र यस्मिन्मार्गे धर्मनिष्ठाः । अतो न ज्ञानमार्ग इवासहायतानिमित्तं भयं नापि कर्ममार्गवन्मत्सरादियुक्तेभ्यो भयमिति भावः ।। १७ । भक्तेरन्यनिरपेक्षत्वमुक्तं कृच्छ्रादीनि तु भक्ति विना न शोधयन्तीत्याह । प्रायश्चित्तानीति । महतामप्यशोधकत्वे दृष्टान्तमाह – सुराकुंभमापगा नद्य इवेति ॥ १८ ॥ * भक्तिः स्वल्पाऽपि पुनात्येवेत्याह सकृदिति ।
-
- तस्य गुणेषु रागमात्रमस्ति न तु ज्ञानं यस्य तन्मनः । तावतैव चीर्णे निष्कृतं प्रायश्चित्तं यैः ॥ १६ ॥ * * इममर्थमिति- हासेनोपपादयति अत्र चेति । मे मत्तः ॥ २० ॥ वंशीध रकृतो भावार्थदीपिकाप्रकाशः तपसा भोगत्यागेन वा । तदुक्तं तत्त्वानुसंधान इति । रागपूर्वकं स्त्र्यादिविषयकं ज्ञानं दर्शनम् १ | रागपूर्वकं क्रियाविशेषजन्यं ज्ञानं स्पर्शनम् २ | रागपूर्वकं परिहासादिव्यवहारः केलिः ३ । स्त्र्यादेरनुरागपूर्वकं सौंदर्यादिवर्णनं कीर्त्तनम् ४ | रागपूर्वकं रहसि संभाषणं गुह्यभाषणम् । स्त्र्यादिविषयको हढेच्छाविशेष इदं मेऽस्त्विति संकल्प: ६ । अनया रम इति निश्चयोऽध्यवसायः ७ । रागपूर्वकं स्त्र्यादिविषयकानुभवविशेषः क्रियानिर्वृत्तिः ८ । इति विवेकः । आदिना सत्यादिग्रहः । द्विती- यादिना स्नानादिग्रहः ।। १३ ॥ * * वेणुगुल्मं वंशसमूहम् । अस्य ब्रह्मचर्यादेः ॥ १४ ॥ * * वेणुगुल्मानलदृष्टा- न्तेन पुनरपि पापप्ररोहसूचनादप्रसन्नमनसं राजानं भक्तानां मतेनाह । स्वामिचरणानाम् वासुदेवपरायणा एवात्राधिकारिण इति न किं त्वन्येषां वासुदेवभक्तिहीनानां तत्र केवलायां भक्तौ अर्थात्तेष्वेव पर्यवसात्तेषामेव तत्र प्रवृत्तिदर्शनादेतत्कथनमिति भावः । अत्र संदर्भ: स्वमतमाह — केचिदित्यादिना तृतीयाध्यायं यावत् । अत्र भक्तिर्द्विधा संतता कादाचित्की चेति । तत्राद्या द्विधा आसक्तिमात्रयुक्ता रागमयी च । द्वितीया त्रिधा रागाभासमयी तच्छून्यस्वरूपभूताऽऽभासभूता च । तत्राभासभूताया अपि सर्वोत्तमं प्रायश्चित्तं दर्शयितुं रागमय्याः कैमुत्यबोधकमासक्तिमय्या माहात्म्यमाह - केचिदिति । कान्र्त्स्न्येन वासनया सहेत्यर्थः । भास्करदृष्टांतेन स्वाभाविक्या भास्थानीयया भक्त्या नीहारस्थानीयस्यागंतुकस्य स्प्रष्टुमशक्तस्याघसंघस्य चानुषंगिकतया सद्यो निःशेषधूननमिति ज्ञापितुम् ॥ १५ ॥ * अत्रापि पापप्रशमने तुच्छे एव वस्तुनि भक्तिमहादेव्या विनियोगोऽनुचित इति भक्तिशास्त्रतात्पर्यविज्ञानां मतेन स्वाभिमतेनान्यमताक्षेपपूर्वकमाह - नेति । कृष्णार्पितप्राण इति । पापकर्माणं मां समुचित- शिक्षादंडार्थ नरके पातयतु न पातयतु वा स एव मे गतिस्तस्यैवाहमित्यात्मन एव समर्पणेन नरकप्रतीकारमपाकुर्वन् शुद्धभक्ति- मान् इत्यर्थः । कृष्णार्पितप्राणत्वं कथं स्यादित्यत आह- तत्पुरुषेति । तपआदीत्यत्रादिना ब्रह्मचर्यादिग्रहः ।। १६ ।। * * न च ज्ञानयोगत्रताद्यसमर्थानामेव भक्तियोग इति वाच्यमित्याह - समीचीनः । हि निश्चितम् । अयमेव सर्वतः श्रेष्ठः न ज्ञानमार्ग इवासहायतानिमित्तं नापि कर्ममार्गवन्मत्सरतादिहेतुकं भयमिति भावः । स्वामिव्याख्याने तंत्रेत्यस्य कृष्णार्पितप्राणस्य महत्त्व इत्यर्थः ॥ १७ ॥ * किं चान्वयव्यतिरेकाभ्यां भक्तिरेव पापप्रशमनी न ज्ञानभक्तियोगादिरित्यभिप्रेत्याह-भक्तेरन्यनिर- ।। ।। " १६
श्रीमद्भागवतम् । स्कं. ६ अ. १ श्लो. १३-२० पेक्षत्वमिति । नारायणपराङ्मुखं भक्तभक्त्युत्कर्षयोः श्रुतयोरपि तत्र श्रद्धाहीनं न पुनंति भक्तिस्तु ज्ञानकर्मादिहीनमपि पुनाति केवलया भक्तयेति पूर्वोक्तेः ॥ १८ ॥ * यैरिति । अपिशब्दः प्रत्येकं संबध्यते, सकृदपि किं पुनरभ्यासेन । मनः संशयात्मकमप्यंतःकरणं किं पुनर्निश्चयात्मिका बुद्धिः पदारविन्दयोः किं पुनः सर्वमूत्तौ । निवेशितं बलादपि किं पुनः स्वतो निविष्टम् । तद्गुणेष्वपि रागि किं पुनस्तत्स्वरूपे । यैरिहेति सामान्यवाचिभ्यां सर्वनामभ्यां मनोनिवेशने जातिदेशाद्यनपेक्षत्वं गम्यते । अत्र संदर्भ:- अथ रागाभा समय्यास्ततोऽप्युत्तमत्वेनाह - सकृदिति । रागोऽत्र रत्याभासः सकृच्छब्दप्रयोगात् । साक्षाद्रतौ सत्याभासः सकृदेव सन्निवेशः स्यात् " दधति सकृन्मनस्त्वयि य आत्मनि नित्यसुखे न पुनरुपासते पुरुषसारहरावसथात्” इति श्रुतिस्तुतेरत एव स्वामिचरणैस्तस्य गुणेषु रागमात्रमस्ति न तु ज्ञानमित्युक्तम् । रागमात्रं यत्किञ्चिद्रागः ज्ञानश्च याथार्थ्येनानुभव इति । अत्रैषां पूर्वेभ्य उत्तमत्वं भक्तभक्त्याभाससद्भावेन यमादीनां तद्द्दृष्टिपथेष्वपि गंतुमशक्यत्वान्महाप्रभावरूपं दर्शितमित्याह । विश्वनाथस्तु - नात्र भक्तिभूमाप्यपेक्षणीय इत्याह- सकृदिति । किं पुनरसकृत् । मनोपि किं पुनः श्रोत्रादि । तच मनो गुणरागि विषयासक्तं किं पुनर्गुणरागरहितम् । स्वप्नेपि किं पुनः साक्षात् । तावन्मात्राध्यानेनैव चीर्णा निष्कृतिः प्रायश्चित्तं यैस्ते । अत्र सकृदित्यादिपदैः कस्यचिच्छुद्धभक्तस्य दैवात्पापानां पौनःपुन्येऽप्युत्खात दंष्ट्रोरगवद किञ्चित्करत्वात्कुंजरशौचवदाक्षेपविषयी- भावोऽनुचित एव । “अपि चेत्सुदुराचारो भजते मामनन्यभाकू" इत्याद्युक्तेः ॥ २० ॥ नन्वेवं वैदिकानां स्त्रीशूद्रादीनां पापप्रायश्चित्तं कथं स्यादित्याशंक्य भक्त्या तेषां नामसंकीर्त्तनेन निष्कृतिः स्यादितीममर्थमितिहासेन दर्शयति-अत्रेति । भक्त्या भगवन्नामसंकीर्त्तनादपि दुष्कर्मनाशः स्यात्किमु वक्तव्यमेकमनस्कत्वेन श्रीहरिचरणादिनेत्यतो वेममर्थमाख्यायिकया दर्शयति । अत्र वैदिकानामवैदिकानामपि भक्त्याऽभक्त्या वा नामसंकीर्त्तनादघक्षये । एवकारेणायोगं व्यवच्छिनत्ति न त्वन्ययोगं तथात्वे पूर्वोक्ता रूप आदयो व्यर्थाः स्युरित्यर्थः । ननु “ इतिहासः पुरावृत्तम्" इत्यमरोक्तेः पुनः कथं पुरातनमिति चेत्तत्र शृणु - विशिष्ट- वाचकानां पदानां सति विशेषणसमवधाने विशेष्यमात्रपरतैवांगी कार्या “स कीचकैर्मारुतपूर्णरत्रैः परिणतगजप्रेक्षणीयम्" इत्यादिवदवधेयं “ कीचका वेणवस्ते स्युर्ये स्वनंत्यनिलोद्धताः" इति, “तिर्य्यग्दंतप्रहारस्तु गजः परिणतो मतः” इति । इमं वर्ण्यमानम् ।। २० ।। अन्वितार्थप्रकाशिका । तपसेति द्वयम् । तपसा कृच्छ्रादिना ब्रह्मचर्येण स्त्र्यादित्यागेन शमेन मनसो नियमेन दमेन बाह्येन्द्रियाणां निग्रहेण त्यागेन अन्नादिदानेन सत्येन यथार्थभाषणेन शौचेन स्नानादिना यमेन अहिंसादिसंकल्पेन नियमेन जपार्चनादिना च धर्मज्ञाः ज्ञातधर्मरहस्याः शास्त्रगुर्वादिश्रद्धानिष्ठाः धीराः सर्वतो विरक्ताः लब्धज्ञानाश्च सन्तो देहवाग्बुद्धिजं महदप्यघं पापं क्षिपन्ति नाशयन्ति । यथा अनलोऽग्निर्वेणूनां गुल्मं नाशयति दहतीत्यर्थः ।। १३-१४ ॥ केचिदिति । केचिद्वासुदेवपरायणाः केवलया तपआदिकमनपेक्षमाणया भक्त्या कार्त्स्न्येन समूलमविद्यासहितमघं पापं धुन्वन्ति विनाशयन्ति । केचिदित्यनेनैवंभूता भक्तिप्रधाना विरला इति सूचयति । यथा भास्करो नीहारं नाशयति तथेत्यर्थः ॥ १५ ॥ नेति । हे राजन् तत्पुरुषाः ॥ श्रीकृष्णभक्ताः तेषां निषेवा निरन्तरं सङ्गतिः तथा कृष्णेऽर्पिताः तत्तद्विषयेभ्यः परावर्त्य तद्भजनोन्मुखीकृताः प्राणा इन्द्रियाणि येन सः पापकर्माणं मां शिक्षार्थं नरके पातयतु न वा स एब मे गतिरित्यात्मसमर्पणेन नरकप्रतीकारमप्यकुर्वन् शुद्धभक्तिमान् इत्यर्थः । पूर्वमघवान् महापातक्यपि यथा पूयेत शुद्ध्येत् तथा तपआदिभिर्न पूयेत ॥ १६ ॥ सधीचीन इति । हि निश्चितम् । लोके क्षेमः दुःखनिवर्त्तकः अकुतोभयः नास्ति कुतोऽपि विघ्नादेर्भयं यस्मिन् तथाविधः अयं शास्त्रप्रसिद्धः पन्थाः भक्तिमार्गः एव सध्रीचीनः समीचीनः । यत्र भक्तिमार्गे सुशीलाः साधवो नारायणपरायणाः जनाः साधका भवन्ति । सुशीलाः साधव इति अत्र ज्ञानमार्ग इव असहायतानिमित्तं भयं न नापि कर्ममार्गवन्मत्सरतादिहेतुकं भयमिति भावः ॥ १७ ॥ अन्वयव्यतिरेकाभ्यां भगवद्भक्तिरेव पापप्रशमनीत्याह प्रायश्चित्तानीति । हे राजेन्द्र चीर्णान्यनुष्ठितानि बहून्यपि सर्वप्रकाराणि कर्ममयानि प्रायश्चि- तानि नारायणपराङ्मुखमेकमपि जनं न निष्पुनन्ति निश्शेषेण न पुनन्ति । यथा बहवोऽपि आपगा नद्यः एकमपि सुराकुम्मं न निष्पुनन्ति तथेति । भक्तिस्त्वन्यनिरपेक्षा पापशोकेति भावः । सुरेति महतामप्यशोधकत्वे दृष्टान्तः ॥ १८ ॥ * * नात्र भक्तेर्बाहुल्यमप्यपेक्षितमित्याह-सकृदिति । तस्य कृष्णस्य गुणेषु रागि अनुरक्तं मनो यैः प्राणिभिरिह संसारे कृष्णपदारविन्दयोः सकृदपि निवेशितं ते हि यस्मात चीर्णनिष्कृताः कृष्णे मनोनिवेशमात्रेण कृतप्रायश्चित्ता भवन्ति, अतः ते यमं पाशभृतस्तद्भटांच स्वप्नेऽपि न पश्यन्ति । कदाचिद्भक्तस्य दैवात् पापानां पौनःपुन्येऽप्युत्खातदंष्ट्रोरगदंशानामिव तेषामकिश्चित्करत्त्वान्न भक्तिः कुञ्जरशौचाक्षेपयोग्या इति । " अपि चेत्सुदुराचारः" इत्यादिगीतोक्तेः ॥ १९ ॥ * अत्रेति । अत्र भक्तेः समूलपाप- । 1ra नाशकत्वे पुरातनमिमं वक्ष्यमाणमितिहासं च पुराविद् उदाहरन्ति दृष्टान्तेन वर्णयन्ति यत्र विष्णुयमयोद्भूतानां संवादोऽभूत् । तं मे मत्तस्त्वं निबोध जानीहि ।। २० ।। 6 स्कं. ६ अ. १ श्लो. १३-२० ] अनेकव्याख्यासमलङ्कृतम् वीरराघवव्याख्या: १७ arrayआदिभिर्नियमैर्वेदनोत्पत्तिप्रतिबन्ध कदुरितनिवृत्तिः ततो वेदनस्य निष्पत्तिस्ततो ब्रह्मप्राप्तिप्रतिबन्धकपूर्वोत्त- राघविनाशाश्लेषौ ततो ब्रह्मप्राप्तिस्ततः क्षेम इति नियमान दर्शयन् तेषां नोत्पत्तिप्रतिबन्धक दुरितनिवर्त्तकत्वमाह - तपसेति द्वाभ्याम् । तपसानशनादिना " तपसानाशकेन” इति श्रुतेः । अनाशकेनेत्यशननिषेधः, न तु सुतरामशननिषेधः । तथा सति देह- धारणासम्भवेनोपासनानिष्पादनात् । तथा चोक्तं भगवता " युक्ताहारविहारस्य" इति । ब्रह्मचर्येण ऋत्वितरकालिकस्त्रीसङ्गादि- राहित्येन शमेनान्तरिन्द्रियनिग्रहेण दमेन बाह्येन्द्रियनिग्रहेण त्यागेन सत्पात्रदानेन सत्यशौचाभ्यां सत्यभूतहितकारित्वमनृतावदनं च शौचं सदाचारः यमः कामानभिष्वङ्गः नियमः वर्णाश्रमधर्मः पञ्चमहायज्ञादिस्तेन ॥ १३ ॥ एभिः धीराः शीतोष्णसुखदुःखादिद्वन्द्वसहनशीलाः धर्मज्ञाः निरतिशयसुखसाधनोपासनात्मकधर्मप्रतिपादकशास्त्रजन्यज्ञानवन्तः श्रद्धया स्वचिकीर्षितविषयकत्वरया युक्ताः सन्तः देहवाग्बुद्धिजं करणत्रयजं महदप्यघं वेदनोत्पत्तिप्रतिबन्धकमनलोऽग्निर्वेणुगुल्ममिव क्षपयन्त्यपनुदन्ति । एवं तपआदिभिर्वेदनोत्पत्तिप्रतिबन्धकेऽघे निरस्ते तत उत्पन्नया वेदनया ब्रह्मप्राप्तिप्रतिबन्धकमघं निरस्यन्ती- त्याह — केचिदिति । “मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये” इत्युक्तरीत्योक्तविधाधिकारिणां दुर्लभत्वाभिप्रायेण केचिदित्यु- क्तम् ॥ १४ ॥ * * ये केचिद्वासुदेव: परमयनं प्राप्यं प्राप्तिसाधनमाधारश्च येषां तादृशाः सन्तः तपआदिभिर्निष्पन्नया केवलया भक्त्योपासनात्मकभेदनया कात्स्न्र्त्स्न्येनाघं वासुदेवप्राप्तिप्रतिबन्धकं भास्कार: सूर्यो नीहारं तुहिनमिव धुन्वन्ति निरस्यन्ति । केवलयेत्यनेन भक्तेरुत्पत्तावेव तपआद्यपेक्षा तपआदिभिरुत्पन्ना भक्तिरेकैव पापं क्षपयतीत्यभिप्रेतम् ॥ १५ ॥ * कात्स्न्येन धुन्वन्तीत्येतदेव प्रतिपादयति-न तथेति । हे राजन! अघवान्पापी तपआदिभिः कृच्छ्रचाद्रायणादिभिः प्रायश्चित्तैः तथा नः पूयेत न शुद्धयेत् यथा कृष्णे भगवत्यर्पितः समर्पितः प्राण; जीवात्मा येन तादृश: “ओमित्यात्मानं युञ्जीत” इति श्रुत्युक्तरीत्या भगवतश्चरणारविन्दयोः संन्यस्तात्मस्वरूप इत्यर्थः, तत्पूरुषाणां भागवतानां निषेवया यथा पूयेत तथा कृष्णार्पित प्राणः कार्त्स्न्येनाघं धुन्वन् पूयेत । अघवांस्तप आदिभिस्तु न अघवांस्तपआदिभिस्तु न काल्स्र्त्स्न्येन पूयेतेत्यर्थः ।। १६ ।। उक्तं निःशेषदुरितक्षपणसमर्थ भगवद्भक्तियोगं विशिनष्टि - सधीचीन इति । लोके श्रेयः साधनत्वेन विचार्यमाणे उपायसमुदायेऽयं भगवद्भक्तिरूपः पन्था उपायः सध्रीचीनः समीचीनः । कुतः हि यतोऽकुतोभयः कुतश्चिदपि भयरहितः क्षेम: आनन्दो मोक्षात्मको भवति, अत एव शोभनाचाराः साधवो नारायणपरायणाः सन्तो यत्र भगवद्भक्तवात्मके पथि वर्त्तन्त इति शेषः । अत्र वासुदेवपरायणा नारायणपरायणा इत्यनयोर्मध्यपठितेन कृष्णार्पितप्राणा इत्यनेनात्मसमर्पणपूर्वकं भगवत्ये- वोपायोपेयभावानुसन्धानमेव वासुदेवपरायणत्वमिति सूच्यते । एवं च न्यासयोगोऽपि निरतिशयतेमङ्कर इति सूचितं स च स्वतो वा भक्तचङ्गतया वेत्यन्यत् ॥ १७ ॥ * एवं नानाविधानन्तदुःखावह नरकप्राप्तिनिमित्तदुरितनिस्तरणोपायो भगवद्भक्ति- योग एवेत्यभिप्राय: । अथ प्रायश्चित्तान्यपि भगवत्पराङ्मुखं न निष्पुनन्तीत्याह - प्रायश्चित्तानीति । चीर्णान्यनुष्ठितानि प्रायश्चित्तानि नारायणपराङ्मुखं कदाचिन्नारायणमस्मरन्तं न निष्पुनन्ति न पवित्रयन्ति यथा सुरया पूर्णभाण्डमापगा गङ्गाजलानि तद्वनारा- यणस्मरणगर्भाण्येव प्रायश्चित्तानि चीर्णानि पुनन्ति न केवलानीति भावः ॥ १३ ॥ * एवम अधुनैव महाभाग ! यथैव नरकान्नरः” इति प्रश्नस्य परिहार उक्तो भवतीत्याह - सकृदिति । यैर्नरैरिह लोके तस्य भगवतो गुणेषु रागि आसक्तं मनः कृष्ण- पदारविन्दयोः सकृन्निवेशितं ते नराः यमं पाशधारिणो यमभटांच स्वप्नेऽपि न पश्यन्ति कुतः हि यस्मात् ते चीर्णनिष्कृताः निष्कृतिर्निष्कृतं भावे क्तः चीर्णं कृतं निष्कृतं सकृत्कृष्णपदारविन्दयोः मनोनिवेशनरूपं यैस्तादृशाः सकृन्निवेशितमित्यनेनाय- मर्थोऽभिप्रेतः निष्पन्नभगवद्भक्तियोगानां निरयप्राप्तिनिमित्तसमस्त वृजिनविधूननेन नित्यनिरतिशयानन्दरूप भगवत्प्राप्तिरिति किमु वक्तव्यं यतस्तद्गुणश्रवणनामस्मरणाद्यन्यतमेनापि मनस्तच्चरणनिवेशनरूपो भक्तियोगारम्भ एव सुतरां यमवश्यतापरिहारक इति । तथा चोक्तं भगवता “नेयाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते । स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् । न हि कल्याण- कृत्कश्चिद् दुर्गतिं तात ! गच्छति” इत्यादि च ॥ १९ ॥ * * अथ भक्तियोगारम्भस्यापि कैमुत्यन्यायेन दुरितनिवर्त्तकतां शनैर्मुक्त्युपायतां च वक्तुमन्यापदेशेनापि स्मृतस्य भगवन्नाम्नो भक्तियोगारम्भविरोधिदुरितनिवर्तकत्वे दृष्टान्ततयेतिहासं प्रस्तोष्यन् प्रतिजानीते - अत्रेति । आस्तां तावन्निष्पन्नभक्तियोगस्यारब्धभक्तियोगस्य वा न यमवश्यतेत्यन्यापदेशेन नामोच्चारणस्य यमवश्यतापरिहारकत्वं भक्तियोगारम्भकारणत्वञ्चेत्यत्रैव पुरातनमितिहासमुदाहरन्ति दृष्टान्तत्वेन कथयन्ति । इतिहासं विशिनष्टि- दूतानामिति । विष्णुयमयोर्ये दूतास्तेषां संवादरूपमितिहासं मे कथयतो मत्तो निबोध शृणु ॥ २० ॥ विजयध्वजतीर्थकृता पदरत्नावली । ज्ञातेन तपआदिप्रायश्चित्तकर्मणा महदत्रं क्षपयन्तीत्यन्वयः ।। १३-१४ ॥ * * दुर्बलकायादिमतां तपआद्या- चरणाशक्तानां केन पापक्षयः स्यादिति तत्राह - केचिदिति ॥ १५ ॥ * * इदमशक्ताधिकारिकश्चेन्निकृष्टं किं न किन्तु my १८ श्रीमद्भागवतम् * [ स्कं. ६ अ. १ श्लो. १३२० ततोऽप्युत्तममिति भावेनाह-न तथेति । कृष्णे अर्पिताः प्राणाः श्रोत्रादयो यस्य स तथा कृष्णार्पितप्राणत्वं केन स्यादत्राह- तत्पूरुषेति । तस्य कृष्णस्य पूरुषाः तेषां निषेवया “भक्त्या त्वनन्ययाशक्यः” इत्यादिप्रसिद्धिहिशब्देन दर्शयति ॥ १६ ॥ * * ।। ।। अत्र त्रिषु दुष्कृतपरिहारमार्गेषु भक्तिमार्गस्यैव प्राधान्यमित्याह - सधीचीन इति । लोके प्रायश्चित्तलक्षणसाधनसमूहे आनन्द- रूपत्वात्तेम इत्युच्यते । तत्राधिकारिण आह- सुशील इति ।। १७ ॥ * * तपआदीनामपि भक्त्योपचितबलानां पाप- । निर्हरणहेतुत्वं न केवलानामित्यतोऽपि भक्तरेव प्राधान्यमित्याह - प्रायश्चित्तानीति ॥ १८ ॥ ननु केवलभक्त्या पाप- निर्हरणप्रकारः कथमत्राह-सकृदिति । पापनिर्हरणं तपआदाविव चिरसाध्यं न भवति किन्तु क्षिप्रसाध्यमित्यतो वा भक्तेः प्राधान्यमित्याह-सकृदिति । कृतपापानुतापपूर्वकं श्रीकृष्णाङ्घ्रिपद्मे सकृन्मनोनिवेशनेन चीर्णनिष्कृताः कृतप्राय- श्चित्ताः ॥ १९ ॥ * * नन्वेवं वैदिकानामस्तु, अवैदिकानां स्त्रीशूद्रादीनां पापप्रायश्चित्तं कथं स्यादित्याशङ्कच भक्त्या तेषां नामसङ्कीर्तनेन दुष्कृतनिष्कृतिः स्यादितीममर्थमितिहासेन दर्शयति-अत्रेति । भक्त्या भगवन्नामसङ्कीर्तनादपि दुष्कर्मनाशः स्यात्किमु वक्तव्यं निरन्तरमेकमनस्कत्वेन श्रीहरिचरणस्मरणादिनेत्यतो वेममर्थमाख्यायिकया दर्शयति - अन्नेति । अत्र वैदिका- नामवैदिकानामपि भक्त्या नामसङ्कीर्तनादपक्षये एवकारेणायोगं व्यवच्छिनत्ति न त्वयोगं तथात्वे पूर्वोक्ता व्यर्थाः स्युरित्यर्थः ॥ २० ॥ ✨ जीवगोस्वामिकृतः क्रमसन्दर्भः स्वमतमाह केचिदित्यादिना तृतीयाध्यायं यावत् । अत्र भक्तिर्द्विधा - सन्तता कादाचित्की च । तत्राद्या द्विविधा आसक्तिमात्रयुक्ता रागमयी च । अन्त्या तु त्रिधा रागाभासमयी तच्छून्यस्वरूपभूता आभासभूता च । तत्राभासभूताया अपि सर्वोत्तमप्रायश्चित्तत्वं दर्शयितुं रागमय्याः कैमुत्यबोधकमासक्तिमय्या माहात्म्यमाह - केचिदिति । कात्स्न्र्त्स्न्येन वासनया सहेत्यर्थः । भास्कर दृष्टान्तेन स्वाभाविक्या भाः स्थानीयया भक्त्या नीहारस्थानीयस्यागन्तुकस्य स्प्रष्टुमशक्तस्य चाघसङ्घस्यानुषङ्गिकतयैव सद्यो निःशेषधूननमिति ज्ञापितम् ।। १५-१७ ॥ प्रायश्चित्तानीति निश्चितं
-
- प्रायश्चित्तानीति निश्चितं न पुनन्ति ॥ १८ ॥ पुनन्ति ।। १८ ।। * * अथ रागा- भासमय्यस्ततोऽप्युत्तमत्वमाह - सकृदिति । रागोऽत्र रत्याभासः सकृच्छब्दप्रयोगात् साक्षाद्रतौ सत्यामसकृदेव तन्निवेशः स्यात् " दूधति सकृन्मनस्त्वयि य आत्मनि नित्यसुखे न पुनरुपासते पुरुषसारहरावसथान्” इति श्रुतिस्तुतेः । अत एव टीकायां तस्य गुणेषु रागमात्रमस्ति न तु ज्ञानमित्युक्तं रागमात्रं यत्किञ्चिद्रागः ज्ञानञ्च याथार्थ्येनानुभव इति । अत्रैषां पूर्वेभ्य उत्तमत्वं भक्तभक्त्याभाससद्भावेन यमादीनां तद्दृष्टिपथेऽपि गन्तुमशक्यत्वान्महाप्रभावरूपं दर्शितम् ॥ १९ ॥ * * अथ तत्र तत्र कैमुत्यं दर्शयितुमितिहासमुपक्षिपति अत्र चेति ॥ २०-२३ ॥ विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी एतदेव विशदयति द्वाभ्याम् । तपसा भोगराहित्येन ब्रह्मचर्येण स्त्रीप्रेक्षणादित्यागेन शमेन यथाशक्तिमनोनियमेन दमेन बाह्येन्द्रियनिग्रहेण त्यागेन दानेन यमेनाहिंसादिना नियमेन जपादिना । १३-१४ ॥ अत्रापि वेणुगुल्मानलदृष्टान्तेन पुनरपि पापप्ररोहसूचनादप्रसन्नमनस्कं राजानं भक्तानां मतेनाह- केचिदिति । एते पुनविरलप्रचारा इति भावः । केवलया कर्मज्ञानादिरहितया सतोऽपि गुणीभूतान् कर्मज्ञानादीननपेक्षमाणया च, अत्र कार्त्स्न्येन इति प्रयोगान्नीहार भास्करदृष्टान्तेन च पापनिर्मूलनं भक्त्यैव नान्यथेति सूचितम् ।। १५ ।। * * अत्रापि पापप्रशमने तुच्छ एव वस्तुनि भक्तिमहादेव्या विनियो- गोऽनुचित इति भक्तिशास्त्रतात्पर्यविज्ञानां मतेन स्वाभिमतेनान्यमताक्षेपपूर्वकमाह - नेति । कृष्णार्पितप्राण इति । पापकर्माणं मां समुचितशिक्षादण्डार्थं नरके पातयतु न पातयतु वा स एव मे गतिस्तस्यैवाहमित्यात्मन एव समर्पणेन नरकप्रतीकारमप्यकुर्वन् शुद्धभक्तिमानित्यर्थः । कृष्णार्पितप्राणत्वं कथं स्यादित्यत आह- तत्पुरुषेति ।। १६ ।। * * न च ज्ञानामोगब्रताद्यसमर्थामेव भक्तियोग इति वाच्यमित्याह - सध्रीचीनः । हि निश्चितम् अयमेव सर्वतः श्रेष्ठः न कुतोऽपि विघ्नादेर्भयं यत्र सः । सुशीलाः साधव इति ज्ञानमार्ग इव असहायतानिमित्तं भयं न नापि कर्ममार्गवन्मत्सरतादिहेतुकं भयमिति भावः ।। १७ ।। किचान्वय- व्यतिरेकाभ्यां भक्तिरेव पापप्रशमनी दृष्टा न ज्ञानकर्मादीयाह-प्रायश्चित्तानीति । बहुवचनेन कर्मज्ञानमयानि सर्वाणीत्यर्थः । नारायणपराङ्मुखं भक्तिभक्तोत्कर्षयोः श्रुतयोरपि तत्र श्रद्धाहीनं न पुनन्ति, भक्तिस्तु ज्ञानकर्मादिहीनमपि पुनाति केवलया भक्त्येति पूर्वोक्तेः ॥ १८ ॥ * * नात्र भक्तिभूमाप्युपेक्षणीय इत्याह-सकृदपि । किं पुनरसकृत् मनोऽपि किं पुनः श्रोत्रादि तच्च मनो गुणरागि विषयासक्तं किं पुनर्गुणरागरहितं स्वप्नेऽपि किं पुनः साक्षात्तावन्मात्राध्यानेनैवाचीर्ण निष्कृतं प्रायश्चित्तं यैस्ते । अत्र सकृदित्यादिपदैः कस्यचिच्छुद्धभक्तस्य दैवात् पापानां पौनःपुन्येऽप्युत्खातदंष्ट्रोरगदंशानामिव तेषामकिञ्चित्करत्वात कुञ्जर- :स्कं. ६ अ. १ श्लो. १३-२० ] अनेकव्याख्या समलंकृतम् १९ शौचवदाक्षेपविषथीभावो ऽनुचित एव " अपि चेत् सुदुराचारो भजते माम्" इत्यादिवचनेभ्यः ॥ १९ ॥ * * अत्राथ एवेतिहासमुपक्षिपति अत्रेति । यः संवादस्ते निबोध मे मत्तः ।। २०-२१ ॥ शुकदेवकृतः सिद्धांतप्रदीपः विस्तरेण प्रोक्तानि मन्वादिभिः प्रायश्चित्तानि संक्षेपतो दर्शयति-तपसेति द्वाभ्याम् । तपसा कृच्छ्रादिना ब्रह्मचर्येण आश्रमविशेषधर्माचरणेन शमेन देवताध्यानेन दमेनेन्द्रियनिग्रहेण त्यागेन दानेन सत्येन पापप्रख्यापनवाक्येन शौचेन गङ्गास्नाना- दिना यमेन अहिंसादिना नियमेन जपादिना ॥ १३-१४ ॥ * * उक्तप्रायश्चित्तस्य दुष्करत्वात् वेणुगुल्ममिवानल इत्यनेन भूयः पापप्ररोहयोतनाद्वासुदेवप्रसादरूपबलहीनत्वाच्चादृढत्वं मन्वानो भगवान् बादरायणिः सुदृढं सर्वपुरुषार्थदं सर्वसा- धनाङ्गीभूतं सर्वशास्त्रसारं सर्वदुरितघ्नं श्रीकृष्णभजनमाह- केचिदित्यादिना । केचिदित्यनेन अभाग्यैः लौकिकैरज्ञातप्रभावा इति ज्ञापितं वासुदेव: परमुत्कृष्टमयनमाश्रयो येषां ते केवळया पुरुषार्थसाधने स्वतन्त्रया ॥ १५ ॥ * अघवांस्तस्य श्रीकृष्णस्य पुरुषाणां निषेवया हेतुभूतया कृष्णार्पितप्राणः कृष्णेऽर्पितः प्राण इन्द्रियगणः प्राणोपलक्षित आत्मा च येन सः श्रीकृष्णभजनपरः सन् यथा पूयेत शुद्ध्येत् तथा तपआदिभिर्न पूयेत श्रीकृष्णपराङ्मुखत्वात् ॥ १६ ॥ * * अयं पन्थाः श्रीकृष्णभजनमार्गः सध्रीचीनः समीचीनः ।। १७ - १८ ।। * * चीर्ण सम्पादितं निष्कृतं प्रायश्चित्तं यैस्ते ॥ १९ ॥ * विष्णुयमयो- दूतानां यः संवादस्तदात्मकमितिहासमुदाहरन्ति तन्मे मत्तः शृणु ।। २० ।। ८ moufla गोस्वामिगिरिधरलालविहिता बालप्रबोधिनी
1 कैः साधनैरन्तःकरणदोषनिवृत्तिपूर्वक ज्ञानप्राप्तिरित्यपेक्षायां साधनान्याह - तपसेति सार्द्धेन । तपसा आध्यात्मिकाधि- दैविकाधिभौतिकत्रिविधदुःख सहनपूर्वक विहितैकादश्युपवासादिना ‘कृच्छ्र’ यदृच्छयाप्नोति तद्धि तस्य परं तपः’ इति वचनात् । ब्रह्मचर्येण स्त्र्यादिविषयस्मरणादिवर्जनेनाष्टाङ्गेन । तदुक्तम्- ‘स्मरणं कीर्त्तनं केलिः प्रेक्षणं गुह्यभाषणम् । सङ्कल्पोऽध्यवसायश्च क्रियानिर्वृतिरेव च । एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः । विपरीतं ब्रह्मचर्यमेतदेवाष्टलक्षणम्’ इति । शमेन मनसो नियमनेन । दमेन बाह्येन्द्रियाणां निग्रहेण । त्यागेन अन्नादिदानेन । सत्येन यथार्थभाषणेन, शौचेन स्नानादिना । यमेन अहिंसादिसङ्कल्पेन | नियमेन जपार्चनादिनियमेन ॥ १३ ॥ * * एवमनेकजन्मोपलक्षितकालसाधनाभ्यासेन यथा यथा कामादिदोषनिवृत्तिः तथा तथा धर्मज्ञाः ज्ञातधर्मरहस्याः शास्त्रगुर्वादिश्रद्धयाऽन्विता धीराः सर्वतो विरक्ता लब्धज्ञानाश्च सन्तो देहवाग्बुद्धिजं Retri पापं क्षिपन्ति नाशयन्तीत्यन्वयः । पापनिरासे दृष्टान्तमाह - वेणुगुल्ममिवानल इति ॥ १४ ॥ * * अत्रापि तपआद्यनेक साधन बहु कालाभ्यासेन जातं ज्ञानं वैराग्यादिगुणसम्पन्नानां पापं नाशयति, तत्राप्यग्निदृष्टान्तेन सावशेषमेव नाशयति वेणुगुल्मदाहेऽपि तन्मूलस्य भूमौ दर्शनात् वह्निनिवृत्तौ पुनरपि तत्प्ररोहदर्शनाच्च तथाऽत्रापि ज्ञानतिरोधाने पुनरपि विषयासक्त्या पापसम्भवात्, तन्त्रेदमेव मुख्यं प्रायश्चित्तमस्ति वा इतोऽपि सुलभं समूलपापनिवर्त्तकं मुख्यं प्रायश्चित्तान्तरमिति संशयानं राजानमालक्ष्य अस्ति तवाधिकारयोग्यं मुख्यं प्रायश्चित्तान्तरमित्यभिप्रायवानाह – केचिदिति । केचिद्वासुदेवपरायणाः केवलया तपआदिनिरपेक्षया भक्त्या कात्र्त्स्न्येन समूलमविद्यासहितमघं पापं धुन्वन्ति विनाशयनित्यन्वयः । केचिदित्यनेन एव- म्भूता भक्तिप्रधाना विरला इति सूचयति । निरवशेषनाशके दृष्टान्तमाह-नीहारमिव भास्कर इति । न च रात्र्यन्तरे पुनर्नीहार- दर्शनादत्रापि सावशेष एव नाश इति शङ्कचं राज्यन्तरे नीहारान्तरात्, तथाऽत्रापि पुरुषान्तरे देहाद्यध्यासदर्शनेपि न क्षतिरिति भावः ॥ १५ ॥ * * अतो ज्ञानमार्गे प्रयासाधिक्येऽपि फलस्य सन्दिग्धत्वादल्पत्वाच्च भक्तिमार्गे स्वल्पप्रयासेनैव फलाधिक्यात् ततोऽयमेव मार्गः श्रेयानित्याशयेनाह - नेति । तत्पूरुषाः श्रीकृष्णभक्तास्तेषां निरन्तरसेवा बहुकालसङ्गति पूर्व कतदभिप्रेतश्रवणादि- भक्तिमार्गे आदरेण प्रवृत्तिस्तया कृष्णेऽर्पिताः तत्तद्विषयेभ्यः परावर्त्य तद्भजनोन्मुखीकृताः प्राणा इन्द्रियाणि येन सः पूर्वमघवान् महापातक्यपि यथा पूयेत शुद्ध्येत् तथा तपआदिभिर्न पूयेतेत्यन्वयः । हिशब्देनास्यार्थस्य शास्त्रे प्रसिद्धिरस्तीति सूचयति । हे राजन्नित्यनेन सम्बोधनेन त्वादृशस्य भगवत्कृपापात्रस्यैवात्र विश्वासो भवति नान्यस्य तद्विमुखस्येति सूचितम् ॥ १६॥ अतो न च तपोयोगाद्यसमर्थानामेव भक्तिमार्गेऽधिकारो न तत्समर्थानामिति भ्रमितव्यम् हि यस्मात् लोके ज्ञानभक्तिकर्मयोगादि- रूपपापनिवर्त्तकसाधन समूहेऽयं शास्त्रप्रसिद्धः पन्थाः भक्तिमार्गः सध्रीचीनः समीचीन इत्यन्वयः । तत्र हेतुः क्षेम इति, अवश्यं नरकादिसर्वदुःखतो रक्षक इत्यर्थः । तत्र हेतुमाह- अकुतोभय इति । न कुतश्चिद्विघ्नादेर्भयं यस्मिन् सः । तत्रापि हेतुमाह-यत्रेति । यत्र भक्तिमार्गे सहायीभूताः साधवः परकार्यसाधकाः सन्ति । न च तर्हि तेषामपेक्षितसम्पादनासमर्थानां कार्य न स्यादिति शङ्कयम्, ते हि सर्वतो बिरक्ता निरपेक्षाः केवलं कृपयैव सर्वोपकारिण इत्यभिप्रेत्याह - सुशीला इति । कृपालव इत्यर्थः । तेषां पूर्णत्वेन सर्वतो विरक्तौ हेतुमाह - नारायण एवं परमयनमाश्रयो येषां न विषयभोगाविष्टमनसस्ते । अतो न ज्ञानयोगमार्ग- तन 1 ি २० श्रीमद्भागवतम् * [ स्कं. ६ अ. १ श्लो. १३-२० वदसहायतानिमित्तं भयं नापि कर्ममार्गवन्मत्सरादिनिमित्तं भयमिति भावः ॥ १७ ॥ * ‘केवलया भक्त्या’ इति भक्तेरन्यनिरपेक्षसाधनत्वमुक्तम्, कृच्छ्रादीनां तु भक्तिसहकृतानामेव शोधकत्वं नान्यथेत्याह - प्रायश्चित्तानीति । बहुवचनाद- नेकविधानि बहुशोऽभ्यस्तान्यपीत्यर्थः । महतामप्यशोधकत्वे दृष्टान्तमाह - सुराकुम्भमापगा नद्य इवेति । ‘मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते’ इति वचनेन भगवद्विमुखानामविद्यानिवृत्त्यभावादिति भावः । महतामनुग्रहं विना तद्विमुखानां प्रयासो व्यर्थ एव भवतीति तु महाराजत्वात्तव अनुभवसिद्धमिति सूचयन् सम्बोधयति - हे राजेन्द्र इति ॥ १८ ॥ भक्तिस्तु
-
- साधनान्तरनिरपेक्षा स्वल्पापि पुनात्येवेत्याह– सकृदिति । तस्य श्रीकृष्णस्य गुणेषु लीलासु रागमात्रमस्ति न तु तत्त्वज्ञानं यस्य तथाभूतं मनो यैः प्राणिभिरिह संसारे कृष्णपदारविन्दयोः सकृदपि किं पुनः सर्वदा निरन्तरं निवेशितं बलात्स्थापितं किं पुन- येषां स्वतः स्थितं ते स्वप्नेऽपि किं पुनः साक्षाज्जाप्रदवस्थायां यमं पाशभृतस्तद्भटान् यमदूतांश्च न पश्यन्तीत्यन्वयः । तत्र हेतु:- हीति । हि यस्मात् तन्मनोनिवेशमात्रेणैव चीर्णं कृतं निष्कृतं सर्वपापप्रायश्चित्तं यैस्ते तथा ॥ १६ ॥ उक्तमेवार्थ- मितिहासेन द्रढयति — अत्रेति । अत्र भक्तेः समूलपापनाशकत्वे विष्णुयमयोर्दूतानां संवादलक्षणं पुरातनमिमं वक्ष्यमाणमितिहासं च पुराविद उदाहरन्ति दृष्टान्तेन वर्णयन्ति तं मे मत्तस्त्वं निबोध जानीहि । चकारोऽप्यर्थे । न केवलमत्र मद्वाक्यमेव प्रमाणं किन्तु पुरातन इतिहासोऽपीत्यर्थः ॥ २० ॥ 1 भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी T प्रथमतस्तपआदिभिर्नियमैः संसाधितैर्ज्ञानोत्पत्तिप्रतिबन्ध कदुरितनिवृत्तिस्ततो ज्ञानस्य निष्पत्तिस्तदोजसा ब्रह्मप्राप्ति- प्रतिबन्धकपूर्वोत्तराघविनाशाश्लेषौ ततो ब्रह्मभावसंसिद्धिपूर्वं परब्रह्मप्राप्त्यात्मकमात्यन्तिकं क्षेममिति नियमान्दर्शयंस्तेषां ज्ञानो- त्पत्तिप्रतिबन्धकदुरितनिवर्त्तकत्वमाह - तपसेति द्वाभ्याम् । तपसाऽनशनादिना, ‘तपसानाशकेन’ इति श्रुतेः । ‘तपो नानशना- त्परम्’ इति स्मृतेश्च । अनाशकेनेत्यशननिषेधो न तु सुतरामशन निषेधस्तथा सति देहधारणासंभवेनोपासनाऽनिष्पादनात् । तथा चोक्तं भगवता ‘युक्ताहारविहारस्य’ इति । ब्रह्मचर्येणाष्टाङ्गेन, तदुक्तं ‘स्मरणं कीर्त्तनं केलिः प्रेक्षणं गुह्यभाषणम् । संकल्पो- Sव्यवसायश्च क्रियानिर्वृतिरेव च । एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः । विपरीतं ब्रह्मचर्यमेतदेवाष्टलक्षणम्’ इति । एतदात्य- न्तिकं ब्रह्मचर्य त्यागवतां योगिनामेव । याज्ञवल्क्यादिगृहियोगिनां तु ऋत्वितरकालिकस्त्रीसङ्गादिराहित्यरूपमिति भावः । शमे- नान्तरिन्द्रियनिग्रहेण दमेन बाह्येन्द्रियनिग्रहेण च त्यागेन सत्पात्रे दानेन, सत्यं च शौचं च ताभ्यां च तत्र सत्यं स्वपरद्रोह- रहितयथार्थ भाषणं, शौचं बाह्यमाभ्यन्तरं चेति द्विविधम् । यमेना हिंसादिना, नियमेन जपादिना च यमः कामानभिषङ्गः, पञ्चमहायज्ञादिरूपो वर्णाश्रमधर्मो नियम इत्यन्ये ॥ १३ ॥ देहेति । एभितप आदिभिः, धीराः शीतोष्णसुखदुःखादि- द्वन्द्वसहनशीलाः धर्मज्ञाः निरतिशयसुखसाधनोपासनात्मकधर्मप्रतिपादकशास्त्रजन्यज्ञानवन्तः । श्रद्धया अन्विताः स्वचिकी- तिविषयकत्वरया युक्ताः सन्तः, देहश्च वाकू च बुद्धिश्च ताभिर्जातं देहवाग्बुद्धिजं, करणत्रयसंभूतमित्यर्थः, महत् अपि, अघ पापं, अनलोऽग्निः वेणुगुल्ममिव क्षिपन्ति अपनुदन्ति । द्वयोरेकसंबन्धः ॥ १४ ॥ * * अस्यातिदुष्करत्वान्मुख्यमेवा- न्यत्प्रायश्चित्तमाह- केचिदिति । केचित् ये केचिदित्यर्थः । ‘मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये’ इत्युक्तविधाधिकारिणां दुर्लभत्वाभिप्रायेण केचिदित्युक्तम् । वासुदेव: परमयनं प्राप्यं प्राप्तिसाधनमाधारश्च येषां ते तादृशाः सन्तः, तपआदिभिनिष्प- नयेति शेषः । केवलया एकया, भक्त्या उपासनात्मकवेदनया, कार्त्स्न्येन साकल्येन, अघं वासुदेवप्राप्तिप्रतिबन्धकं पापं, भास्करः सूर्यः, नीहारं तुहिनम् इव, धुन्वन्ति निरस्यन्ति । केवलयेत्यनेन भक्तेरुत्पत्त्यवस्थायामेव तपआद्यपेक्षा तपआदिभिः शुद्धान्तःकरणतया तत्रोत्पन्ना भक्तिरेवैका सकलाघानि निरस्यति ॥ १५ ॥ * * कार्त्स्न्येनाघं धुन्वन्तीत्येतदेव प्रति- पादयति-न तथेति । हे राजन् अघवान् पापी, तत्पूरुषाणां भागवतानां या निषेवा कायवाङ्मनोभिः परिचर्या तथा कृष्णे भगवति अर्पितः समर्पितः प्राणः स्वजीवात्मा येन सः । ‘ओमित्यात्मानं युञ्जीत’ इति श्रुत्युक्तरीत्या भगवच्चरणारविन्दयोः संन्यस्तात्मस्वरूप इत्यर्थः । तथाभूतः सन् यथा पूयेत शुद्ध्येत् हि तथा तपआदिभिः कृच्छ्रचान्द्रायणादिभिः प्रायश्चित्तैः, न पूयेत न शुद्ध्येत । यथा भागवत निषेवया संजातभगवद्रतितया तदर्पितात्माऽघवानपि तदघं कार्त्स्न्येन धुन्वन् पूयेत तथा तप- आदिभिः कार्त्स्न्येन न पूयेतातस्तेभ्य इदमेव श्रेष्ठमित्यर्थः ॥ १६ ॥ उक्तं निःशेषदुरितक्षपणसमर्थ भगवद्भक्तियोगं विशिनष्टि - सध्रीचीन इति । लोके श्रेयःसाधनत्वेन विचार्यमाणे उपायसमुदाये इति शेषः । अयं भगवद्भक्तिरूपः पन्थाः मार्गः उपाय इत्यर्थः । सध्रीचीनः, समीचीनः मतः । भागवतैरिति शेषः । हि यस्मात्, अकुतोभयः कुतश्चिद्भयरहितः, अतः तेमः भगवत्संबन्धिमहानन्दप्रदो भवति । अत एव सुशीलाः शोभनाचारवन्तः नारायणपरायणाः साधवों भागवत परमहंसाख्यास्त्यागि- जनाः, यत्र भगवद्भक्त्यात्मके पथि वर्त्तन्ते इति शेषः । अत्र न ज्ञानमार्गे इब असहायतानिमित्तं भयं नापि कर्ममार्गे इव मत्सरादियुक्तेभ्यो भयमिति भावः । अतो भक्तेरन्यनिरपेक्षत्वमिति गूढोऽभिप्रायः ।। १७ ।। * * एवं नैकविधानन्त- | 1
स्के. ६ अ. १ श्लो. २१-२८ ] अनेकव्याख्यांसमलङ्कृतंम् ३१ दुःखावहनरकप्राप्तिनिमित्तदुरितनिस्तरणोपायभूतस्तु केवलो भक्तियोग एव, अतः मोक्षसंबन्धेन धर्मादिः पुरुषार्थत्ववाचकत्ववत् परमशोधकभगवद्भक्तिसंबन्धेन कृच्छ्रादेः शोधकत्वं न स्वत इत्याह- प्रायश्चित्तानीति । नारायणपराङ्मुखं यथा तथा, चीर्णानि सम्यगनुष्ठितानि प्रायश्चित्तानि, हे राजेन्द्र, सुराकुम्भं मदिरापूर्ण स्वर्णादिकलशम् आपगा गङ्गादयो नद्यः इव, न निष्पुनन्ति भगवत्पराङ्मुखमिति शेषः । नारायणस्मरणगर्भाण्येव प्रायश्चित्तानि चीर्णानि सन्ति पुनन्ति न केवलानीति भावः ॥ १८ ॥ एवं ‘अधुनैव महाभाग यथैव नरकान्नरः" इत्येतत्प्रमपरिहार उक्तो भवतीत्याह - सकृदिति । यैर्नरैः, इह लोके तद्- गुणरामि भगवद्गुणानुरक्तं यथार्थतया भगवत्स्वरूपज्ञानाभावेऽपि परमार्थतः साक्षाद्भगवद्गुणेषु रागमात्रवदेवेत्यर्थः । मनः सकृत्, कृष्णपदारविन्दयोः, निवेशितं समर्पितं भवति । ते, चीर्णमनुष्ठितं निष्कृतं कृष्णपदारविन्दयोर्मनोनिवेशन- रूपं प्रायश्चित्तं यैस्ते एतादृशाः सन्तः, स्वप्नेऽपि यमं पाशभृतः पाणिविवृतयमपाशान् तद्भटान् यमदूतांश्च न पश्यन्ति हि । यदा भगवद्गुणरागमात्रमहिमैवंविधस्तदानुरागपूर्व नवविधतद्भक्तिमतां तु वाचैव वक्तुं न शक्येति भावः ॥ १६ ॥ अथ भक्तियोगारम्भस्यापि दुरितनिवर्त्तकतां शनैर्मुत्क्त्युिपायतां च वक्तुं कैमुत्यन्यायेनान्यापदेशेनापि स्मृतस्य भगवतो नाम्नः दुरितनिवर्त्तकले दृष्टान्ततयेतिहासं प्रस्तोष्यन् प्रतिजानीते - अत्रेति । अत्रोक्तार्थे, यत्र विष्णुयमयोः, दूतानां संवादः अस्ति तथाविधम् इमं पुरातनम् इतिहासम् उदाहरन्ति दृष्टान्तत्वेन कथयन्ति । चोऽवधारणे । तं तत्संवादवत्पुरावृत्तं मे मत्तः, निबोध शृणु ॥ २० ॥ वाले भक्तजन, W भाषानुवादः जैसे बांसों के झुरमुटमें लगी आग बांसोंको जला डालती है— वैसे ही धर्मज्ञ और श्रद्धावान् धीरपुरुष तपस्या, ब्रह्मचर्य, इन्द्रियदमन, मनकी स्थिरता, दान, सत्य, बाहर-भीतरकी पवित्रता तथा यम एवं नियम- इन नौ साधनोसे मन, वाणी और शरीरद्वारा किये गये बड़े-से-बड़े पापों को भी नष्ट कर देते हैं ।। १३-१४ ।। * * भगवान्की शरण में रहने जो बिरले ही होते हैं, केवल भक्तिके द्वारा अपने सारे पापोंको उसी प्रकार भस्म कर देते हैं, जैसे सूर्य कुहरेको ।। १५ ।। * * परीक्षित्! पापी पुरुषकी जैसी शुद्धि भगवानको आत्मसमर्पण करनेसे और उनके भक्तोंका सेवन करने से होती है, वैसी तपस्या आदिके द्वारा नहीं होती ॥ १६ ॥ * जगत् में यह भक्तिका पन्थ ही सर्वश्रेष्ठ, भयरहित और कल्याणस्वरूप हैं, क्योंकि इस मार्गपर भगवत्परायण, सुशील साधुजन चलते हैं ।। १७ ।। परी- क्षित्! जैसे शराब से भरे घड़ेको नदियाँ पवित्र नहीं कर सकती, वैसे ही बड़े-बड़े प्रायश्चित्त बार-बार किये जाने पर भी भगवद्विमुख मनुष्यको पवित्र करनेमें असमर्थ हैं ॥ १८ ॥ * * जिन्होंने अपने भगवद्गुणानुरागी मनमधुकरको भगवान् श्रीकृष्ण के चरणारविन्दमकरन्दका एकबार पान करा दिया, उन्होंने सारे प्रायश्चित्त कर लिये । वे स्वप्न में भी यम- राज और उनके पाशधारी दूतों को नहीं देखते। फिर नरककी तो बात ही क्या है ॥ ॥ १६ ॥ * * परीक्षित्! इस विषय में महात्मा लोग एक प्राचीन इतिहास कहा करते हैं । उसमें भगवान् विष्णु और यमराजके दूतोंका संवाद है । तुम मुझसे उसे सुनो ॥ २० ॥ २४ ॥ कान्यकुब्जे द्विजः कश्विदासी पतिरजामिल: । नाम्ना नष्टसदाचारो दास्याः संसर्गदूषितः ॥ २१ ॥ ‘बन्द्यक्ष कैतव धर्येहितां वृत्तिमास्थितः । बिभ्रत्कुटुम्ब मशुचिर्यातयामास देहिनः ॥ २२ ॥ । ॥ एवं निवसतस्तस्य लालयानस्य तत्सुतान् । कालोऽत्यगान्महान् राजन्नष्टाशीत्यायुषः समाः ॥ २३ ॥ तस्य प्रवयसः पुत्रा दश तेषां तु योऽवमः । बालो नारायणो नाम्ना पित्रोश्च दयितो भृशम् ॥ स बद्धहृदयस्तस्मिन्नर्भके कलभाषिणि । निरीक्षमाणस्तल्लीलां मुमुदे जरठो भृशम् ।। भुञ्जानः प्रपिबन् खादन् बालकस्नेहयन्त्रितः । भोजयन् पाययन्मूढो न वेदागतमन्तकम् ।। २६ ।। स एवं वर्तमानोऽज्ञो मृत्युकाल उपस्थिते । मतिं चकार तनये बाले नारायणाह्वये ॥ २७ ॥ - पाशहस्तांस्त्रीन्दृष्ट्वा पुरुषान् भृशदारुणान् । वक्रतुण्डानुर्ध्वरोम्ण आत्मानं नेतुमागतान् ॥ २८ ॥ 1 १. प्रा० पा०क्षः कैतवे० । २. प्रा० पा० - माश्रितः । २५ ।। २२ श्रीमद्भागवतम् 28 [ स्कं. ६ अ. १ श्लो. २१-२८ अन्वयः - कान्यकुब्जे कश्चित् द्विजः नाम्ना अजामिल: दासीपतिः नष्टसदाचारः दास्याः संसर्गदूषितः आसीत् ॥ २१ ॥ * * बन्यक्षकैतवैः चौयैः गहिताम् वृत्तिम् आस्थितः कुटुंबम् बिभ्रत, देहिनः यातयामास ।। २२ ।। * राजन एवम् निवसतः तत्सुतान् लालयानस्य तस्य आयुषः अष्टाशीत्या समाः महान् कालः अत्यगात् ॥ ॥ * प्रवयसः तस्य दश पुत्राः तेषाम् तु यः अवमः बालः नाम्ना नारायणः च पित्रोः भृशम् दयितः ॥२॥
- तस्मिन् कलभाषिणि अर्भके बद्धहृदयः सः जरठः तल्लीलाम् निरीक्षमाणः भृशम् मुमुदे ॥ २५ ॥ बालकस्नेहयंत्रितः मूढः भुञ्जानः प्रपिबन खादन् भोजयन् पाययन् आगतम् अन्तकम् न वेद ।। २६ ॥ * एवम् वर्तमान: अज्ञः स मृत्युकाले उपस्थिते बाले नारायणाह्वये तनये मतिम् चकार ॥ २७ ॥ सः पाशहस्तान् भृशदारुणान् वक्रतुंडान ऊर्ध्वरोम्णः • आत्मानम् नेतुम् आगतान् त्रीन् पुरुषान् दृष्ट्वा ॥ २८ ॥
श्रीधरस्वामिविरचिता भावार्थदीपिका * * कान्यकुब्जे पुरे । दास्याः पतिः । नाम्नाऽजामिल इति ।। २१ ।। * बंदीग्रहेणाक्षैश्च द्यूतेन कैतवैर्वचनादि- भिश्च वृत्तिं जीविकां बिभ्रत्पुष्णन् यातयामास पीडयामास ।। २२ ।। आयुषः संबन्धी महान्कालोऽत्यगात् । स कियानित्यपेक्षायामाह - अष्टाशीत्या संख्यया युक्ताः समाः संवत्सराः ॥ २३ ॥ * * प्रवयसो वृद्धस्य ॥ २४ ॥ * * बद्धं हृदयं येन । जरठो वृद्धः ॥ २५ ॥ एतच्च तदुपलालनादिश्रीनारायणनामोच्चारणमाहात्म्येन तद्भक्तिरेवाभूदिति सिद्धांतोपयोगित्वेनापि द्रष्टव्यम् ।। २६-२७ ।। * * वक्राणि विकटानि तुंडानि मुखानि येषां तान् । ऊर्ध्वानि रोमाणि । येषां तानू ।। २८ ।। I वंशीधरकृतो भावार्थदीपिकाप्रकाशः । अजया प्रकृत्या ज्ञानस्य मीलो मीलनं तिरोभावो यस्य स तथा । यद्वा-अजाद्धरे: पूर्वपुण्यसंपन्नज्ञानस्यामील उन्मीलनं यस्य स तथेत्युभयथाजामिलत्वं युक्तं ह्रस्वत्वं छांदसम् । यद्वाऽजातुल्यया दास्या गोतुल्यां विप्रतां त्यक्त्वा मिलति संगच्छते इत्य- जामिल: ‘मिल-संगमे’ इत्यत इगुपधत्वात्कः । यद्वा “ अनुमीमांसते पूर्व मनसा भगवानजः” इह यमराज्येऽप्यजशब्दप्रयोगादजं मयराजं न मिलतीत्यजामिलः नामोच्चारणमाहात्म्यतो विष्णुदूतैर्यमदूतेभ्यस्तस्य रक्षितत्वात् । अजं श्रीहरिम् आ समंतान्मिलति नामोचारणभत्तत्येति वाजामिल: “हेमं विमानमारुह्य ययौ यत्र श्रियः पतिः” इत्यप्रे वक्ष्यमाणत्वात् ॥ २१ ॥ * * बंदी - ग्रहेण धनाशया धनिकान्दीकृत्य तेभ्यो धनग्रहणेन । यद्वा-चटकादिपक्षिणो गृहीत्वा मार्गे स्थित्वा गच्छदागच्छजनेभ्यः किञ्चिद् द्रव्यं स्वीकृत्य तेषां मोचनं बंदीग्रहस्तेन । चौय्यैः परस्वापहरणैः । गर्हितां निद्याम् । “वृत्तिर्विवरणाजीव कौशिक्यादि- प्रवर्त्तने" इति मेदिनी ।। २२ ।। * अष्टाभिरधिकाशीत्या । राजन्निति तव राज्ये एतादृशा न संति सर्वेषां स्वधर्म- निष्ठत्वादिति भावः ॥ २३ ॥
-
- प्रगतं वयो यस्य तस्य । अवमः कनिष्ठः “कनिष्ठाधमनिः श्रीकाव महीनेषु चावमः" इति निरुक्तिः । पित्रोरित्युक्तेर्मातुरपि कृतार्थत्वं पितृवद्दर्शितम् ॥ २४ ॥ * * कलं मधुरास्फुटं भाषितुं शीलमस्येति तथा तस्मिन् । अर्भके बाले || २५ ॥ ऋ अंतकं मृत्युम् । तद्भक्तिर्नारायणभक्तिः । तत्रापि हे नारायण दुग्धं पिब नारायणा- गच्छ त्वां स्नापयिष्यामीत्युपचारनाम्नोपलालनाद्यपि पूजनवदेवेति ।। २६ ।। सोऽजामिल: ।। २७ ।। * * ‘तुंडं स्याल्ल- पनं मुखम्’ इति कोशात् ॥ २८ ॥ 1
अन्वितार्थप्रकाशिका * कान्यकुब्जे इति । कान्यकुब्जे पुरे नाम्ना अजामिलो नाम दासीपतिः नष्टः सदाचारः सन्ध्यावन्दनादियस्य दास्याः संसर्गेण दूषितः कश्चिद्विजः आसीत् ॥ २१ ॥ * * बन्दीति । बन्दी शृङ्खलितजनता तया तद्ग्रहणेन अक्षैद्यूतैः कैतत्रैः वञ्चनादिभिः चौयैः परखापहारैश्च गर्हितां निन्दितां वृत्तिं जीविकामास्थितः । अत एव अशुचिः सन् कुटुम्बं बिभ्रत् पुष्णन् देहिनः प्राणिनः यातयामास पीडयामास ।। २२ ॥ एवमिति । हे राजन् ! एवं दुराचारेण निवसतो वर्त्तमा- नस्य तस्याः दास्याः सुतान् लालयानस्य । मुगभाव आर्षः । प्रमत्तस्य अष्टाशीत्या सङ्घयया उपलक्षिताः समाः संवत्सराः एताव- दुर्ष प्रमाण: आयुषः संबन्धी महान कालोऽत्यगात् ॥ २३ ॥ तस्येति । तस्य प्रवयसो वृद्धस्यापि दश पुत्रा जाताः । तेषां मध्ये तु योऽवमः कनिष्ठः अत एव बालो नाम्ना नारायणः स मातापित्रोर्भृशमत्यन्तं दयितः प्रियश्चासीत् ॥ २४ ॥ * * स इति । कलभाषिणि मधुरवादिनि अर्भके बाले बद्धं हृदयं येन स जरठः वृद्धः स अजामिल: तस्य लीलां बालचेष्टां निरीक्ष- स्कं. ६ अ. १ श्लो. २१-२८ ] अनेकव्याख्यासमलङ्कृतम् । * २३ माणो भृशं मुमुदे ॥ २५ ॥ * * भुञ्जान इति । मूढः स भुञ्जानः प्रपिवन चर्वन् यतो बालके स्नेहेन यन्त्रितः निबद्ध- हृदयः अतः स्वयं भोजनानि कुर्वस्तमपि भोजनादि कारयन्नागतमन्तकं मृत्युं न वेद एतच्च तदुपलालनादिषु श्रीनारायण- नामोच्चारणमाहात्म्येन तद्भक्तिरेवाभूदिति सिद्धा तोपयोगीत्वेनापि द्रष्टव्यम् ॥ २६ ॥ स इति । एवं वर्त्तमानः अज्ञः बालकस्नेहेन यन्त्रितः वशीकृतः सः मृत्युकाले उपस्थिते प्राप्ते सति बाले नारायणाह्वये तनये मतिं चकार तस्य स्मरणं चकार ॥ २७ ॥ स इति । युग्मम् । पाशहस्तान् भृशदारुणान् वक्राणि तुण्डानि मुखानि येषां तान् ऊर्ध्वानि रोमाणि येषां तान् आगतान् त्रीन् पुरुषान् दृष्ट्वा व्याकुलेन्द्रियः विह्वलचित्तः सन् दूरे क्रीडनकेषु आसक्तं नारायणाह्वयं पुत्रं प्लावितेन प्लुतत्वं नीतेन उच्चैः स्वरेण हे नारायण ! इति सम्बोधनेन आजुहाव । अत्र कायिकवाचिकमानसभेदेन पापानां त्रित्वात्त्रयो याम्या भगवन्नाम्नश्चतुरक्षत्वाश्चत्वारः पार्षदा आगताः ।। २८-२९ ।। वीरराघवव्याख्या प्रतिज्ञातमितिहासमाह - कान्यकुब्ज इत्यादिना । कान्यकुब्जाख्ये जनपदे कश्चिन्नाम्नाजामिल इति प्रसिद्धो द्विजः दास्याः शूद्रयाः पतिरासीदिति शेषः । स च नष्टः सदाचारः स्ववर्णाश्रमधर्मो यस्य तादृशतत्र हेतुर्दास्याः संसर्गेण दूषितः पतितः ।। २१ ।। * गर्हितामार्यैर्गर्हितां वृत्तिमाश्रितो बन्धक्षैर्भाषाबन्धनपूर्वकैद्यूतैः कैतवैः शास्यैव कुटुम्बं बिभ्रन्नि- त्यमशुचिः यदा बन्द्यक्षादिभिः कुटुम्बकस्यानिर्वाहस्तदा देहिनः प्राणिनो यातयामास पक्षिमृगान् हिंसितवानित्यर्थः ॥ २२ ॥ एवं निवसतो जीवतस्तस्य दास्याः सुतान् स्वोत्पादितान् लालयानस्य लालनं कुर्वतः हे महाराजन् ! समासान्तविधेरनित्यत्वात् “राजाह” इति दजभावः, कालः अभ्यगादतिक्रान्तः । कियान् कालोऽतिक्रान्तस्तत्राह - अष्टाशीति । परिमिता आयुषः सम्बन्धिन्य समाः संवत्सराः ॥ २३ ॥ तस्य प्रवयसः वार्द्धक्ययुक्तस्य दश पुत्राः स्थितास्तेषां मध्येऽवमः कनीयान् बाल एव स्थितः सचनाम्ना नारायण इति प्रसिद्धः प्रवयसः पुत्रोत्पत्तिकथनमपि पापातिशयज्ञापनार्थं “दास्यां चैव प्ररूढस्य निष्कृतिन विधीयते " इति स्मरणात् । स नारायणाख्यः पित्रोर्मातापित्रोर्भृशं नितरां दयितः प्रियः ॥ २४ ॥ * स द्विजस्तस्मिन्नभेके नारायण- नाम्नि कलभाषिण्यव्यक्तमधुरभाषिणि बद्धहृदयः आसक्तचित्तः तस्यार्भकस्य लीलां चेष्टां निरीक्षमाणः जरठ: जीर्णः भृशं मुमुदे हृष्टवान् ।। २५ ।। * स्वयम्भुञ्जानो बालक्रमपि तत्स्नेहपरवशो भोजयन् स्वयम्पिबंस्तमपि पाययन्मूढोऽज्ञः सन्नागतं प्राप्तं मृत्युं न वेद ॥ २६ ॥ * * एवं वर्तमानः स द्विजः मृत्युकाले उपस्थिते सत्यज्ञो नारायणाख्ये पुत्र एव मतिं चकार मतिमासक्तामकरोदित्यर्थः ॥ २७ ॥ सोऽजामिलस्त्रीन्पुरुषान् दृष्ट्वाकुलेन्द्रियः व्याकुलचित्तः दूरे क्रीडासक्तं नारायणाह्वयं पुत्रं प्लावितेन प्लुतत्वं नीतेन प्लुतीकृतेनेति यावत् स्वरेणोचैराजुहाव नारायणेत्याहूतवान् । कथम्भूतान् पुरुषान् पाशो हस्ते येषां भृशदारुणानत्युग्ररूपान् वक्राणि कुटिलानि तुण्डानि मुखानि येषाम् ऊर्ध्वमुखानि रोमाणि येषां तानात्मानं यमालयं प्रति नेतुमागतान् ।। २८-२६ ॥ * विजयध्वजतीर्थकृता पदरत्नावली अजया प्रकृत्या ज्ञानस्य मीलो मीलनं तिरोभावो यस्य स तथा पश्चादजाद्धरे: पूर्वपुण्य सम्पन्नज्ञानस्यामील उन्मीलनं यत्य स तथेत्युभयथा वाजामिलत्वं युक्तं ह्रस्वत्वं छान्दसं सन् समीचीन आचारः सदाचारः ॥ २१ ॥ * * बन्दिग्रहणं- रक्षैर्देवनैः “कितवः स्यादनृतवादी कैतवं तस्य भाषणम्” इत्यभिधानात् असत्यव्यवहारैश्वोयैः परस्वापहरणलक्षणव्यापारैः वृत्ति adi जीवनोपायो देहिनं यातयामास नरकगमनाभिमुखमकरोत् शरीरयात्रायुक्तमकृतेति वा ।। २२ ।। अष्टाशीत्या- युषो याः समाः ये संवत्सराः तत्परिमाणलक्षणः कालः ॥ २३ ॥ * * अवमः कनिष्ठः ॥ २४-२५ ।। * * अन्तकं मृत्युम् ॥ २६ ॥ * * मृत्युकाले देहवियोगलक्षणकाले मृत्योः सर्वदोषपापहरस्य हरेरनुग्रहात् काले दत्तज्ञानलक्षणे उपस्थिते हृदि प्रकाशिते तनये पूर्णज्ञाने बाले पञ्चवर्ष कल्पे प्रादेशमात्रे नारायणाह्वये मूर्तिविशेषे मतिं स्मरणसमर्थं चित्तं चकार भक्त्या - स्मरदित्यर्थः । अजामिलोऽपि स्मरणात्तत्या मृत्योरमुच्यतेत्येतद्वाक्यमशेषाघहरं विदुरित्यत्र प्रमाणत्वेन वक्ष्यमाणमत्राप्यनुसन्धेय- मिति ज्ञातव्यम् ।। २७-२८ ॥ जीवगोस्वामिकृतः क्रमसन्दर्भ : पित्रोश्च दयित इति मातुरपि कृतार्थत्वमुक्तम् ॥ २४-३६ ॥ २४ श्रीमद्भागवतम् विश्वनाथचक्रवतिकृता सारार्थदर्शिनी ‘, དྷནཾ ནྟཱི, སུ [ स्कं. ६ अ. १ श्लो. २१-२८ बन्दी शृङ्खलितजनता तथा तदाकर्षणेनेत्यर्थः । अक्षैश्च द्यूतेन कैतवैर्वचनादिभिश्च वृत्तिं जीविकां यातयामास पीड- यामास ॥ २२ ॥ * * आयुषः सम्बन्धी महान् कालोऽत्यगात् स कियानित्यपेक्षायामाह - अष्टाशीत्या सङ्घयया युक्ताः संवत्सराः ॥ २३ ॥ * * प्रवयसो वृद्धस्य ॥ २४ ॥ * * जरठो वृद्धः ॥ २५ ॥ * * खादन् चर्व- यन् ॥ २६ ॥ * * * एतच्च तदुपलालनादि श्रीनारायणनामोच्चारणमाहात्म्येन तद्भक्तिरेवाभूदिति सिद्धान्तोपयोगित्वेन द्रष्टव्यमिति श्रीस्वामिचरणाः ॥ २७ ॥ * * त्रीनिति । अजामिलेन कृतानामनन्तानामपि पापानां कायिकवाचिक- मानसत्वेन त्रैविध्यात्रय एव याम्या आगताः, नारायणनाम्नश्चतुरक्षरत्वाच्चत्वारो विष्णुपार्षदा आगता इति ज्ञेयम् ॥ २८ ॥ शुकदेवकृतः सिद्धांतप्रदीपः कान्यकुब्जे पुरे ॥ २१ ॥ * * बन्दी प्राणनिग्रह किया तथा अक्षैश्च द्यूतेन कैतवैर्वचनादिभिश्च गर्हितां वृत्ति जीविकामास्थितः आश्रितः कुटुम्बंबिभ्रदेहिनः यातयामास यतोऽशुचिः अतो दास्याः सम्बन्धदूषितः ॥ २८ ॥ तस्य दास्याः सुतान् लालयतः आयुषः सम्बन्धी महान कालः अत्यगात तमेवाह- अष्टाशीत्या सङ्ख्यया युक्ताः समाः संव- त्सराः ॥ २३ ॥ * * तस्याजामिलस्य प्रवयसो वृद्धस्य अवमः कनिष्ठः ॥ २४ ॥ कलभाषिणि मधुरभाषिणि बद्धं हृदयं येन सः जरठो वृद्धः ।। २५-२८ ॥ गोस्वामिगिरिधरलाल विहिता बालप्रबोधिनी एवं प्रतिज्ञाय तं दर्शयति- कान्यकुब्जे पुरे नाम्ना अजामिल: अजया अविद्यया मिल: मिलनं ज्ञानचक्षुषस्तिरोभावो यस्य स तथाविधः, अत एव दासीपतिः अत एव तस्याः संसर्गेण दूषितः मोहितचित्तः, अत एव नष्टः सन् शास्त्रीयः सन्ध्यावन्द- नादिलक्षणः आचारो यस्य सः एवम्भूतः कश्चिद्विज आसीदिति शेषः ॥ २१ ॥ * * एवं तस्य स्वरूपतो दुष्टत्वमुक्तत्वा वृत्तितोऽपि दुष्टत्वमाह - बन्दीति । बन्दीग्रहणैः अक्षै द्यतैः कैतवैः ‘कितवः स्यादनृतवादी कैतवं तस्य भाषणम्’ इत्यभिधानात् मिथ्याभाषणादिना वञ्चनादिभिः, चौर्यैः परखापहारैश्च गर्हितां निन्दितां वृत्ति जीविकामास्थितः । अत एव अशुचिः सन् कुटुम्बं बिभ्रत् पुष्णन् देहिनः प्राणिनः यातयामास पीडयामासेत्यन्वयः ।। २२ ।। * एवं दुराचारेण निवसतो वर्त्तमानस्य तस्या दास्याः सुतान् लालयानस्य प्रमत्तस्य तस्य आयुषः सम्बन्धी महान् कालोऽत्यगात् । स कियानित्यपेक्षायामाह - अष्टाशीत्या सङ्घच्या युक्ताः समाः संवत्सराः । हे राजन्निति सम्बोधनेन यथा राज्ञां वेगस्य स्तम्भनमशक्यं तथा कालवेगस्यापीति सूचयति ॥ २३ ॥ * * तस्य प्रवयसो बृद्धस्यापि दश पुत्रा जाताः, तेषां मध्ये तु योऽवमः कनिष्ठः अत एव बालो नाम्ना नारायणः स मातापित्रोर्भृशमत्यन्तं दयितः प्रियश्चासीदित्यन्वयः ॥ २४ ॥ स जरठो वृद्धोऽपि तस्मिन् बद्धं हृदयं येन तस्य लीलां बलचेष्टां निरीक्षमाणो भृशं मुमुद इत्यन्वयः । तत्र हृदयनिबन्धे हेतुद्वयमाह - कलभाषिणि मधुररावेऽर्भके बाले इति ।। २५ ।। * * खादन् चर्वयन् । यतो बालके स्नेहेन यन्त्रितः निबद्धहृदयः, अतः स्वयं भोजनादि कुर्वन् तमपि भोजनादि कारयन् आगतमन्तकं मृत्युं न वेदेत्यन्वयः । तत्र हेतुमाह-मूढ इति । यतो मायामोहित इत्यर्थः । तथाप्येतदुपला- लनादि श्रीनारायणनामोपचारमाहात्म्येन तद्भजनमेवाभूदिति द्रष्टव्यम् ॥ २६ ॥ * उपस्थिते प्राप्ते सति मतिं चकार तत्स्मरणं चकारेत्यन्वयः ॥ २७ ॥ * * वक्राणि तुण्डानि मुखानि येषां तान्, ऊर्ध्वानि रोमाणि येषां तान् दृष्ट्वा पुत्रमा- जुहावेत्युत्तरेणान्वयः ॥ २८ ॥ भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी तं प्रतिज्ञातमितिहासमाह — कान्यकुब्ज इत्यादिना । कान्यकुब्जे कान्यकुब्जाख्ये जनपदे, कश्चित् दासीपतिः दास्याः स्वामी, अत एव दास्याः पत्नीत्वेनाभिमताया: शुद्रयाः, संसर्गतः पतिततां प्राप्तः । नष्टः सदाचारो यस्य सः, विनष्टस्ववर्णाश्रमधर्म इत्यर्थः । नाम्ना अजामिल: द्विजः आसीत् । अस्य दूषितायां जातायां अजया प्रकृत्या ज्ञानस्य मीलस्तिरोभावो यस्येति पश्चा- दोषविनाशपूर्व भगवद्भक्तभावे जाते अजाद्धरेः अमिल: पूर्वपुण्यसंपन्न ज्ञानोन्मीलनं यस्येत्युभयथाप्यजामिलत्वमन्वर्थम् । ह्रस्वत्वं छान्दसम् ।। २१ ।। * * बन्दीति । गर्हितामायैर्निन्दितां वृत्तिं जीविकाम् आस्थितः आश्रितः बन्धक्षैर्भाषाबन्धनपूर्व- कैद्यूतैः कैतवैः शाख्यैः, चौर्यै चोरकर्मभिः, कुटुम्बं बिभ्रत् पुष्णन् केचित्तु बन्या ग्रहेण अक्षैद्यूतेन कैतवैर्वचनादिभिरित्या- स्कं. ६ अ. १ श्लो. २९-३६ ] अनेकव्याख्यासमलङ्कृतम् * * २५ हुस्तत्र बन्दी नाम अवरुध्य बध्वा वा धनाद्यपहरणम् । अशुचिः सदाऽपवित्रः सन, देहिनः प्राणिनः, यातयामास बन्धा- दिनापि कुटुम्ब पोषणा पर्याप्तत्वे, पशुपक्षिमृगान हिंसितवानित्यर्थः ॥ २२ ॥ एवमिति । एवमुक्तप्रकारेण, निवसतो जीवतः, तत्सुतान् तस्यां स्वेनोत्पादितान पुत्रान्, लालयानस्य लालनं कुर्वतः, तस्याजामिलस्य हे राजन् अष्टाशीत्या संख्यया, युक्ताः आयुषः समाः संवत्सराः । अष्टाशीतिसंख्यात्मकायुर्वयरूप इत्यर्थः । महान कालः अभ्ययादतिक्रान्तः ।। २३ ।। तस्येति । प्रवयसो वृद्धभाववतः, तस्याजामिलस्य, दश पुत्राः दशसंख्या कास्तनयाः आसन् । तेषां दशानां तनयानां मध्ये, दशसंख्याकास्तनयाः यस्तु अवमः कनीयान, बालः नाम्ना नारायणः, सः पित्रोः, चोऽत्यर्थः । मातृपित्रोरपीत्यर्थः । भृशमतिशयेन, दयितः प्रियः, आसीदिति शेषः । प्रवयसो दास्यां बहुपुत्रोत्पत्तिकथनमस्य पापातिशयज्ञापनार्थम् । दास्यां चैव प्रसूतस्य निष्कृतिर्न विधीयते’ इति स्मरणात् ॥ २४ ॥ * * स इति । सोऽजामिलद्विजः, कलभाषिणि काकलीकलवाचमुक्तवति अव्यक्तमधुरभाषिणीति यावत् । तस्मिन्नारायणनाम्नि, अर्भके बालके, बद्धहृदयः आसक्तचित्तः, तस्य अर्भकस्य लीला चेष्टा तां निरीक्षमाणः जरठो जोर्णवयाः सन्नपि, भृशं मुमुदे हृष्टवान् ॥ २५ ॥ * भुञ्जान इति । भुञ्जानः स्वयं भोजनं कुर्वन्सन्, भोजनयन्स्नेहपरव- शतया बालकमपि कवलप्रदानपूर्वकमाशयन्, प्रपिबन् स्वयं जलपानं कुर्वन्सन् पाययन् बालमपि जलपानं कारयन्, एवं बालकस्नेहयन्त्रितः । मूढोऽजामिल:, खादन्नायुः क्षपयन्सन, आगतमन्तिकमाया तम्, अन्तकं मृत्युं मरणकालमिति यावत् । न वेद ।। २६ ।। * * स एवमिति । एवं वर्त्तमानः अज्ञः, सोऽजामिलद्विजः मृत्युकाले स्वमरणसमये उपस्थिते प्राप्ते सत्ति, नारायणाख्ये, बाले तनये पुत्रे, मर्ति चकार आसक्तामकरोदित्यर्थः ॥ २७ ॥ स इति । तदा सोऽजामिल:, पाशो ।। , हस्ते येषां तान, भृशदारुणानत्युग्ररूपान, वक्राणि कुटिलानि तुण्डानि मुखानि येषां तान्, ऊष्वणि रोमाणि येषां तान, आत्मानं स्वं नेतुं यमालयं प्रापयितुम् आगतान् त्रीन पुरुषान् दृष्टा ॥ २८ ॥ ॥ ॥ ३६ ॥ दूषित होनेके कारण उसका सदाचार नष्ट हो लेता, कभी लोगोंको जूएके छलसे हरा देता, अत्यन्त निन्दनीय वृत्तिका आश्रय लेकर वह भाषानुवाद कान्यकुब्ज नगर ( कनौज ) में एक दासीप्रति ब्राह्मण रहता था । उसका नाम था अजामिल । दासीके संसर्ग से चूका था ॥ २१ ॥ *
-
- वह पतित कभी बटोहियों को बाँधकर उन्हें लूट किसीका धन धोखा-धड़ीसे ले लेता तो किसीका चुरा लेता । इस प्रकार अपने कुटुम्बका पेट भरता था और दूसरे प्राणियोंको बहुत ही सताता था ॥ २२ ॥ छ * परीक्षित् ! इसी प्रकार वहाँ रहकर दासीके बच्चोंका लालन-पालन करता रहा। इस प्रकार उसकी आयुका बहुत बड़ा भाग—अट्ठासी वर्ष – बीत गया ।। २३ ।। गया ॥ २३ ॥ * * - बूढे अजामिलके दस पुत्र थे । उनमें सबसे छोटे का नाम था ‘नारायण’। माँ-बाप उससे बहुत प्यार करते थे || २४ ॥ * * वृद्ध अजामिलने अत्यन्त मोहके कारण ।। ।। अपना सम्पूर्ण हृदय अपने बच्चे नारायणको सौंप दिया । वह अपने बच्चे की तोतली बोली सुन-सुनकर तथा बालसुलभ खेल देख-देखकर फूला नहीं समाता था ।। २५ ।। * * अजामिल बालकके स्नेहबन्धनमें बँध गया था। जब वह खाता तब उसे भी खिलाता, जब पानी पीता तो उसे भी पिलाता। इस प्रकार वह अतिशय मूढ़ हो गया था, उसे इस बात का पता ही न चला कि मृत्यु मेरे सिरपर आ पहुँची है ।। २६ ॥ * वह मूर्ख इसी प्रकार अपना जीवन बिता रहा था कि मृत्युका समय आ पहुँचा – अब वह अपने पुत्र बालक नारायण के सम्बन्धमें ही सोचने-विचारने लगा ॥ २७ ॥ * *
- ॥ ॥ इतने में ही अजामिलने देखा कि उसे ले जानेके लिए अत्यन्त भयावने तीन यमदूत आये हैं। उनके हाथोंमें फाँसी है, मुँह टेढ़े-मेढ़े हैं और शरीरके रोएँ खड़े हुए हैं । २८ ॥ ।। ३१ दूरे क्रीडनकासक्तं पुत्रं नारायणाह्वयम् । नारायणाह्वयम् । प्लावितेर्न प्लावितेन खरेणोच्चैराजुहावाकुलेन्द्रियः ॥ २९ ॥ निशम्य म्रियमाणस्य ब्रुवतो हरिकीर्तनम् । भर्तुर्नाम महाराज पार्षदाः सहसाऽपतन् ॥ ३० ॥ * त्रिकर्षतोऽन्तर्हृदयाद्दासीपतिमजामिलम् । यमप्रेष्यान् विष्णुदता वारयामासुरोजसा || ऊचुनिषेधितास्तांस्ते वैवस्वतपुरःसराः। के यूयं प्रतिषेद्धारो धर्मराजस्य शासनम् ।। ३२ ।। कस्य वा कुत आयाताः कस्मादस्य निषेधथ । किं देवा उपदेवा वा यूयं किं सिद्धसत्तमाः ।। ३३ ।। सर्वे पद्मपलाशाक्षाः पीतकौशेयवाससः । किरीटिनः कुण्डलिनो लसत्पुष्करमालिनः ॥ ३४ ॥ : - १. प्रा० पा० - मुखतो हरिकीर्तनम् । ४ २६. श्रीमद्भागवतम् [ स्कं. ६.अ. १. २९-३६ सर्वे च नूत्नवयसः सर्वे चारुचतुभ्रु जाः । धनुर्निषङ्गासिगदाशङ्खचक्राम्बुजश्रियः ।। ३५ ।। दिशो वितिमिरालोकाः कुर्वन्तः स्वेन रोचिषा । किमर्थं धर्मपालस्य किङ्करान्नो निषेधथ ।। ३६ ।
अन्वयः - आकुलेन्द्रियः दूरे क्रीडनकासक्तम् नारायणाह्वयम् पुत्रम् साधितेन स्वरेण उच्चैः आजुहाव ।। २९ ॥ महाराज त्रियमाणस्य हरिकीर्तनम् ब्रुवतः पार्षदाः भर्तुः नाम निशम्य सहसा अपतन् ॥ ३० ॥ विष्णुदूताः दासी- पतिम् अजामिलम् अन्तर्हृदयात् विकर्षतः यमप्रेष्यान् ओजसा वारयामासुः ॥ ३१ ॥ निषेधिताः ते वैवस्वतपुर:- सराः तान् ऊचुः धर्मराजस्य शासनम् प्रतिषेद्धारः यूयम् के ॥ ३२ ॥ यूयम् कस्य कुतः आयाताः कस्मात् अस्य ‘ॐ निषेधथ देवा उपदेवाः किम् वा सिद्धसत्तमाः किम् ॥ ३३ ॥ सर्वे पद्मपलाशाक्षाः पीतकौशेयवाससः किरीटिनः कुंडलिनः लसत्पुष्करमालिनः ॥ ३४ ॥ * * सर्वे च नूत्नवयसः सर्वे चारुचतुर्भुजाः धनुर्निषङ्गासिगदाशंखचक्राम्बुज- श्रियः ।। ३५ ।। स्वेन रोचिषा दिशः वितिमिरालोकाः कुर्वन्तः धर्मपालस्य किंकरान नः किमर्थम् निषेधथ ॥ ३६ ॥ नगर, कहा श्रीधरस्वामिविरचिंता भावार्थदीपिका साबितेन प्लुतत्वं नीतेन ॥ २९ ॥
- हरिकीर्तनं निशम्यापतन् । यतस्तद्भर्तुर्नाम ॥ ३०-३१ ॥ ३४ ॥ ॥ ॥ ।। नू नवं पुरःसरा भृत्याः॥ ३२ ॥ * * अस्य नयनं निषेधथ ॥ ३३ ॥ * * वयं युष्मान्न जोतीम इति न कोप: कार्यो यतोऽलौकिकाद्भुतरूपा यूयमित्याहुः सर्व इति सार्धाभ्याम् लसेंत्यः पुष्करमालाः संति येषाम् ॥ वयो येषां ते । निषंग इषुधिः । धनुनिषंगादिभिः श्रीः शोभा येषां ते ।। ३५ ।। * प्रकाशो यासु तथाभूता दिशः कुर्वतः । भवतामेतदनुचितमित्याहुः । किमर्थमिति ॥ ३६ ॥ वंशीधरकृतो भावार्थदीपिकाप्रकाश विगतं तिमिरमालोकश्वान्यस्य क्रीडनकेष्वासक्तम् | तीर्थस्तु दूरे ब्रह्मांडाद्बहिः स्थितं जगत्सर्जनादिलीलाविलासोपेतं पुन्नान्नो नरकात् त्रातारं नारा- यणनामानं पूर्वाचरित पुण्यप्रचयेनोत्पन्नया भक्त्याकुलेन्द्रिय इत्याह ।। २६ ।। * * पार्षदा विष्णुपार्षदाः । भर्तुर्हरेः ब्रुवतः सतः ॥ ३० ॥ * * अजामिलं तत्संबंधि पुर्य्यष्टकं विकर्षत आकर्षतो यमदूतान् । अजामिलस्येदमजामिलमिह वृद्धचभाव आर्षः । पुर्य्यष्टक चोक्तं स्वाराज्यसिद्धौ “ज्ञानेंद्रियाणि खलु पंच तथापराणि कर्मेन्द्रियाणि मनआदिचतुष्टयश्च । प्राणादिपञ्च- कमथो वियदादिकञ्च कामाश्च कर्म च तमः पुनरष्टधा पूः ॥” इति । कामोऽभिलाषः । कर्म च त्रिविधं तमोमूलाज्ञानम् । जीवस्य 1 । । व्यपाककोटिप्रविष्टतया कर्षणं न संभवतीति ध्येयम् । ननु “अंगुष्ठमात्रं पुरुषं विचकर्ष बलाद्यम” इति गारुडोक्तेः “अंगुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति” इति श्रुतेः, “अङ्गुठमात्रः पुरुषो ज्योतिरिवाधूमकः” इत्यादिश्रुतेश्च जीवस्यांगुष्ठमात्रप्रमाणत्वादा- कर्षणं संभवत्येवेति चेत्तत्रैवमवधेयं जीवस्यांगुष्ठमात्रत्वे मध्यमपरिमाणत्वादनित्यत्वं प्रसज्येत, किवाव्यापित्वे देहव्यापिचैतन्या- भावात्तत्समनियतस्थानेतरस्थाने पिपीलिकादिस्पर्शज्ञानं न स्यात्तर्हि कथमुक्तं श्रुत्या तथेति चेत्तत्राभिव्यक्तिस्थानहृदयस्यांगुष्ठ- परिमाणत्वात्तस्यापि तत्परिमाणत्वमुपचर्यते काष्ठानलवदित्यलं प्रसक्तानुप्रसक्त्या ॥ ३१ ॥ ॥ ३१ ॥ * * तान् वैष्णवान् ॥ ३२ ॥ अस्य नयनमिति शेषः सिद्धेषु योगसिद्धेषु सत्तमः ॥ ३३-३४ ॥ न षोडशाब्दमितम् ॥ ३५ ॥ * * । ।। * ।। ।। यद्यधर्मपालस्य वयं किंकरा भवेम तर्ह्यस्मन्निषेधो युक्तः स्यादिति भावः ॥ ३६ ॥ নং{ অর । अन्वितार्थप्रकाशिका निशम्येति । हे महाराज ! तदा तस्य त्रियमाणस्य ब्रुवतः पुत्रस्नेहानारायणेति तमाकारयतः सतस्तद्भर्तुः स्वस्वामिनः सदृशं नाम निशम्य श्रुत्वा तस्य तद्धरिकीर्तनं मत्वा सहसा इदित्येव भगवत्पार्षदा आपतन् आययुः ॥ ३० ॥ ** विकर्ष इति । अन्तर्हृदयाद्दासीपतिमजामिलं विकर्षतः निः निःसारयतो यमस्य प्रेष्यान् दूतान् मा एनं विकर्षथ यदि जीवितुमिच्छ्येति वदन्तो विष्णुदूता ओजसा बलात्कारेण वारयामासुः ॥ ३१ ॥ * ऊचुरिति । तदा ये वैवस्वतस्य यमस्य पुरःसरा भृत्या एवं प्रतिषेधिताः सन्तो धर्मराजस्य धर्माधर्मनिर्णेतुर्यमराजस्य शासनमाज्ञाम् । तुन्नन्तयोगे द्वितीया । प्रतिषेद्धारो यूयं क इति तान भगवत्पादान् प्रत्यूचुः पप्रच्छुरित्यर्थः ॥ ३२ ॥ १. प्रा० पा० तुल्यवयसः । El कस्येति । कस्य भृत्याः कुतो वा स्क. ६ अ. १ श्लो. २७-३६ ] अनेकव्याख्यासमलङ्कृतम् । । देशादागताः कस्माद्धेतोरस्य नयनं निषेधथ यूयं किं दिवा उपदेवाः यक्षगन्धर्वादयो वा किंवा सिद्धेषु सत्तमाः श्रेष्ठा केचित् ॥ २३ ॥ * सर्व इति त्रयम् । तत्र सर्व इत्यादि सार्द्धं स्पष्टम् । निषङ्ग इषुधिः धनुरादिभिः श्रीः शोभा येषां ते स्वेन रोचिषा प्रकाशेन विगतं तिमिरं विगतः आलोकः आलोकः अन्यप्रकाशश्च यासु तथाभूता दिशः कुर्वन्तः सर्वे सूर्य के तथा धर्माणां पालकस्य यमस्य किङ्करान्नोऽस्मान् अस्य नयनं किमर्थ निषेधथ भवतां नोचितमिदमिति ।। ३४-३६ ।। ess rss fi वीरराघवव्याख्या, PREHE उपदेवा म्रियमाणस्य मर्तुमुद्यतस्य मुखेन यद्धरिः कीर्त्यते येन तद्धरिकीत्तनम् इति नामविशेषण तन्निशम्य श्रुत्वा हे महाराज भर्तुर्भगवतः पार्षदाः सहसा त्वरया अभ्यपतन्नाजग्मुहि ॥ ३० ॥ * * ॥ ॥ * तेऽभिपतिता विष्णुदूता ओजसा बलात्कारेण दासीपतिमजा मिलमन्तहृदयाद्विकर्षतः यमप्रेष्यान् वारयामासुः ॥ ३१ ॥ * ए ॥ ३१ ॥ * * एवं निषेधितास्ते वैवस्वतस्य यमस्य पुरःसराः भृत्याः ऊचुः । उक्तिमेवाह —क इति । धर्मराजस्य यमस्य शासनमाज्ञां प्रतिषेद्धारो यूर्य के ? ।। ३२ ॥ कस्य वा सम्बन्धिनः १ कस्माल्लोकाद ? कस्माल्लोकादागता अस्य कस्माद् गुणलेशाद्धेतोः धर्मराजस्य शासनं निषेधथ । यूर्य कि देवा देवा उत गन्धर्वा अथवा सिद्धश्रेष्ठाः ? ॥ ३३ ॥ * * एवं पृष्ट्रा पुनस्तान् वर्णयन्तो यमशासनप्रतिषेधप्रयोजनं पृच्छन्ति सर्व इति त्रिभिः । सर्वे यूयं पद्मपलाशे इवाक्षिणी येषां पीतं कौशेयं कृमिकोशोत्थं वासो वस्त्रं येषां किरीटानि येषां सन्ति तथा कुण्डले येषां स्त इति तथा लसन्त्यः पुष्करमालाः ‘कमलमालाः येषां सन्तीति ॥ ३४ ॥ * ’ ‘तथा सर्वे यूयं नूनं नवं वयः येषां ते चारवः सुन्दराश्चत्वारों भुजा येषां धनुरादीनां श्रीः शोभा येषां धनुरादिधरा इत्यर्थः, तत्र निषङ्गः इषुधिरसि: खङ्गः अम्बुजं कमलम् ॥ ६५ ॥ * * स्वेन रोचिषा दिशो वितिमिरालोका विगत तिमिरं तमः यस्मात्स आलोकः प्रकाशो यासां तादृशीः दिशः कुर्वन्त । धर्मराजस्य किङ्करान्नोऽस्मान किमर्थ निषेघय कस्मै प्रयोजनाय निषेधयेत्यर्थः ॥ ३६ ॥ = SPme विजयध्वजतीर्थकृता पदरत्नावली
-
दूरे अण्डाद् बहिः स्थितं जगत्सर्जनादिलीलाविलासोपेतं पुंनाम्नो नरकात्त्रातारं नारायणनामानमुचैः सावितेन चतुरादिमात्रात्मना स्वरेण पूर्वाचरित पुण्यप्रचयेनोत्पन्नया भक्त्याकुलेन्द्रियः ॥ २९ ॥ हरेः कीर्तनं किं गुणरूपं नेत्याह-भर्तुरिति । भर्तुः स्वामिनो नारायणेति नामरूपं दोषहरणशीलं कीर्तनं यस्य नान्नस्तद्धरिकीर्तनं भर्तुर्नाम निशम्येति वा हरिरित्यक्षरद्वयं नारायणेत्यक्षरचतुष्टयमनेनोक्तमिति ज्ञापनायान्वितत्वेनोक्तमिति वा । अमेन सुत्रस्नेहमन्तरेण प्राचीनादृष्टबलादुद्भूतया भक्त्या भगवन्नामसङ्कीर्तनं कृतमिति ज्ञायते ॥ ३० ॥ ओजसाऽवष्टम्भेन बलेन वा “ओजो- sagम्भबलयोः” इति यादवः ॥ ३१-३२ ॥ निषेधथ अस्य नयनमिति शेषः ।। ३३ ।। * * नूत्नवयसः षोडशवर्ष वयसः धनुरादिभिः श्रीर्येषां ते तथा ।। ३४-३५ ॥ वितिमिरालोका इत्यत्र वीत्युपसर्ग: प्रत्येकमभिसम्ब- द्धयते, विगतानि तिमिराणि विगताः । आलोकाः अन्यप्रकाशाश्च यासु दिक्षु तास्ता निरस्तान्धकारान्यप्रकाशा इत्यर्थः ।। ३६-३५ ।। 54 1138 विश्वनाथचक्रवतिकृता सारार्थदर्शिनी ४ सावितेन प्लुतत्त्वं नीतेन ।। २९ ।। हरिकीर्त्तनं निशम्यापतम् कथम्भूतस्य भर्तुर्नाम जुवतः ॥ ३० ॥ * * पुरःसरा भृत्या び अजामिलमिमं वैष्णव मा विकर्षथ रे मा विकर्षथ यदि जीवितुमियेति वारयामासुः ॥ ३१ ॥ * अस्य नयनं निषेघथ ॥ ३२-३४ ।। आकृत्या च यूर्य परमशिष्टा एव लक्ष्यध्वे इत्याहुः । सर्वे इति ॥ ३५ ॥ ६ विगत तिमिरमालोकश्चान्यदीयों यासु ताः कर्मणा तु कथमशिष्टा इत्याहु:– किमर्थमिति ॥ ३६ ॥ किशुकदेवकृत; कला ! शुकदेवकृत सिद्धान्तप्रदीपः निशम्य ज्ञात्वा सहसा आपतन् ॥ ३० ॥ बलात्कारेण वारयामासु ।। कोमल
- लसन्त्यः प्लावितेन देन्याकान्तेन ॥ २९ ॥ पार्षदाः मर्तुनीम मुक्तः सहियनामोचारणं कृतचतस्तदेव हरिकीर्तन - ओजसा ॥ ३१ ॥ वैवस्वतस्य यमस्य पुरःसराः भृत्याः धर्म एव राजा धर्मराजः अस्याओमिलस्या नयनं कस्मान्निषेधथ ।। ३२-३३ ।। पुष्करमालाः सन्ति येषां ते ॥ ३४ ॥ * नूत्न वयो येषां ते निषङ्गः । इषुधिः। धनुर्निषङ्गादिभिः श्रीः शोभा येषां
- विगतः तिमिर आलोक इतरप्रकाश याभ्यस्ताः ॥ ३६-३ ते ।। ३५ 7 श्रीमद्भागवतम् गोस्वामिगिरिधरलाल विहिता बालप्रबोधिनी [स्कं. ७ अ. १ श्लो. २९-३६ लावितेन प्लुतत्वं नीतेनोचैः स्वरेण । तथात्वे हेतु:–दूरे इति । आह्नाने हेतुः – तान् दृष्ट्वाऽऽकुलेन्द्रिय इति सम्बन्धः ॥ २९ ॥ * तदा तस्यं म्रियमाणस्य ब्रुवतः पुत्रस्नेहान्नारायणेति तमाकारयतः सतस्तत् भर्तुः स्वस्वामिनः सदृशं नाम निशम्य श्रुत्वा तस्य तद्धरिकीर्तनं मत्वा सहसा झटित्येव भगवत्पार्षदाः आपतन् आययुरित्यन्वयः । हे महाराजेति सम्बोधनेन यदा दुष्टैः सन्निरुद्ध उपद्रुतश्च कश्चित्साधुर्भवतो नाम गृह्णाति तदा तद्रक्षार्थे यथा भवद्भूत्या आयान्ति तथेति सूचयति ॥ ३० ॥ * आगत्य यत्कृतवन्तस्तदाह - विकर्षत इति । अन्तर्हृदयादजामिलं विकर्षत: निस्सारयतो यमस्य प्रेष्यान् दूतान् मा एनं विकर्षथ यदि जीवितुमिच्छति वदन्तो विष्णुदूता ओजसा बलात्कारेण यमदूतैरेवं विकर्षणे हेतुं सूचयन् विशिनष्टि - दासीपतिमिति ॥ ३१ ॥ * तदा ते वैवस्वतस्य वारयामासुरित्यन्वयः ।
-
- तदा ते वैवस्वतस्य यमस्य पुरस्सराः भृत्या एवं प्रतिषेधिताः सन्तो धर्मराजस्य धर्माधर्मनिर्णेतुर्यमराजस्य शासनमाज्ञां प्रतिषेद्धारो, यूयं क इति तान् भगवत्पार्षदान् प्रत्यूचुः पप्रच्छुरित्यन्वयः || ३२ ॥ * * कस्य भृत्याः कुतो वा देशादागताः ? कस्माद्धेतोरस्य नयनं निषेधथ ? यूयं किं देवा उपदेवा यक्षगन्धर्वादयो वा किंवा सिद्धेषु सत्तमाः श्रेष्ठाः केचित् ॥ ३३ ॥ * * अत्यलौकिकरूपत्वात् युष्मान् वयं न जानीमः । अतो ज्ञानार्थं पृच्छामो युष्माभिः कोपो न कार्य इत्यभिप्रायेण तान् वर्णयन्ति — सर्वे इति सार्द्धद्वाभ्याम् । पद्मपलाश- वदक्षिणी येषां ते तथा । पीते कौशेये वाससी येषां ते तथा, पीतपट्टवस्त्रधारिण इत्यर्थः । किरीटधारिणश्च । लसन्त्यः शोभमानाः पुष्करमालाः सन्ति येषां ते ॥ ३४ ॥ * * नूत्नं नवं वयो येषां ते । चारवश्चत्वारो भुजा येषां ते। निषङ्गः इषुधिः । धनुरादिभिः श्रीः शोभा येषां ते ॥ ३५ ॥ ४ * स्वेन रोचिषा प्रकाशेन विगतं तिमिरं विगत: आलोकः अन्यः प्रकाशा यासु तथाभूता दिशः कुर्वन्तः सर्वे यूयं के इत्यनुषङ्गः । एवं परमशिष्टानामपि युष्माकमधमिपक्षपातं दृष्ट्वा वयं विस्मिताः । अत- स्तत्र कारणमुच्यतामित्याहुः– किमर्थमिति । किमर्थं नोऽस्मान् निषेधथेत्यन्वयः । न च वयमपि निषेधयोग्याः साधारणाः धर्म- निर्णेतुर्यमस्य आज्ञानुसारित्वादित्याहु: - धर्मपालस्य किङ्करानिति ।। ३६ ।। । । भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी
दूरे इति । आकुलेन्द्रियो व्याकुलचित्तः सन्, दूरे क्रीडन का सक्तं नारायणाह्वयं पुत्रं लावितेन प्लुतत्वं नीतेन प्लुतीकृते- नेति यावत् । स्वरेण उच्चैः आजुहाव नारायणेत्याहूतवान् । द्वयोरेकसंबन्धः ॥ २६ ॥ *
-
- निशम्येति । म्रियमाणस्य मर्तुमुद्यतस्य, हरिः कीर्त्यते येन तद्धरिकीर्त्तनं ब्रुवतः सतः, निशम्य प्राणान्तकाले तदुच्चारितं तच्छ्रुत्वा हे महाराज, भर्तुर्भगवतः पार्षदाः सहसा आपतंस्तत्राजग्मुः । यद्वा हो महाराज, म्रियमाणस्य हरिकीर्त्तनं पुत्रनाम्नापि तत्समये हरिकीर्तनं ब्रुवतः सतः, भर्तुः स्वस्वामिनः नाम निशम्य श्रुत्वा, पार्षदाः सहसा आपतन्नित्यन्वयः । अत्र कचिन्मुखेन हरिकीर्तनं कचिन्मुखतो हरिकीर्त नमिति बहुधा पाठाः ।। ५० ।। * * विकत इति । दासीपतिम् अजामिलम् अन्तर्हृदयात, विकर्षतः यमप्रेष्यान् यमदूतान् विष्णुदूता विष्णोर्भृत्याः, ओजसा स्वप्रतापेन, वारयामासुः ॥ ३१ ॥ * ऊचुरिति । ते वैवस्वतपुरःसराः यमानुगाः, निषेधिताः, विष्णुदूतैः कृततदाकर्षणनिषेधाः सन्तः, तानू ऊचुः । धर्मराजस्य शासनं प्रतिषेद्धारः यूयं के भवथ ? ।। ३२ ।। * * कस्येति । कस्य वा यूयं कस्य संबन्धिनः पुरुषाः, कुत आयाताः कस्माल्लोकादागताः ? अस्य कस्माद् गुणलेशात् निषेधथ: ? । अस्य कं गुणलेशं निरीक्ष्य निषेधं कुरुथेत्यर्थः । यूयं किं देवा; उपदेवा गन्धर्वाः, वा सिद्धसत्तमाः, किं वा सिद्धेषु श्रेष्ठाः केचन भवथेत्यर्थः ॥ ३३ ॥ * * एवं पृष्ट्वा पुनरूान्वर्णयन्तो यमशासनप्रतिषेधनप्रयोजनं पृच्छन्ति । सर्वे यूयं पद्मपलाशाक्षाः कमल- दलसमाननयनशोभाः, पीतं कौशेयं वासो येषां ते, सर्वेऽपि पीताम्बरपरिधाना इत्यर्थः । किरीटानि येषां सन्तीति किरीटिनः । कुण्डले येषां स्त इति कुण्डलिन:, तथा लसन्त्यः शोभमानाः पुष्करमाला, कमलमालाः येषां सन्तीति लसत्पुष्करमालिनः ॥ ३४ ॥ सर्व इति । तथा सर्वे यूयं नूनं नवं वयो येषां ते, सरन्ति शोभातिशयं गच्छन्तीति सर्वे शोभातिशयषन्तश्च चारवः सुन्दराश्चत्वारो भुजा येषां ते, धनुः शरासनं च निषङ्गस्तूणिश्व असिः खड्गश्च गदा च शङ्खश्च चक्रं च अम्बुजं च तेषां श्रीः शोभा येषां ते धनुरादिधारिण इत्यर्थः ।। ३५ ।। दिश इति । स्वेनात्मीयेन रोचिषा, तेजसा दिशः विगतं तिमिरं तमो यस्मात्स आलोकः प्रकाशो यासां ताः । यद्वा विगत तिमिरमालोकोऽन्यस्य प्रकाशश्च यासु तथाभूताः । वीत्युपसर्गः प्रत्येकं संबध्यते तेनैवमर्थः । कुर्वन्तः, एवंभूतानां भवतामेतदनुचितमित्याहुः । धर्मराजस्य, धर्मपालस्येत्यपि पाठः । किंकराननुचरान् नोऽस्मान्, किमर्थं निषेधथ । कस्मै प्रयोजनाय निषेधं कुरुथेत्यर्थः ॥ ३६ ॥ CH €
-
भाषानुवादः उस समय बालक नारायण वहाँ से कुछ दूरीपर खेल रहा था । यमदूतों को देखकर अजामिल अत्यन्त व्याकुल हो गया । और उसने बहुत ऊँचे स्वर से पुकारा- ‘नारायण ! || २६ ॥ भगवान के पार्षदों ने देखा कि यहस्कं. ६ अ. १ श्लो. ३७-४४ ] अनेकव्याख्यासमलङ्कृतम् २९ मरते समय हमारे स्वामी भगवान नारायण का नाम ले रहा है, उनके नामका कीर्तन कर रहा है, अतः वे बड़े वेग से झट-पट वहाँ आ पहुँचे ।। ३० ॥ * * उस समय यमराज के दूत दासीपति अजामिल के शरीरमें से उसके सूक्ष्म शरीर को खींच रहे थे । विष्णुदूतोंने उन्हें बलपूर्वक रोक दिया ॥ ३१ ॥ * * उनके रोकने पर यमराज के दूतोंने ।। ।। उनसे कहा - ‘अरे, धर्मराजकी आज्ञा का निषेध करनेवाले तुमलोग हो कौन ? ॥ ३२ ॥ * तुम किसके दूत हो, कहाँ से आये हो और इसे ले जानेसे हमें क्यों रोक रहे हो ? क्या तुमलोग कोई देवता, उपदेवता अथवा सिद्ध श्रेष्ठ हो ? ॥ ३३ ॥ * * हम देखते हैं कि तुम सब लोगों के नेत्र कमलदलके समान कोमलतासे भरे हैं, तुम पीले-पीले रेशमी वस्त्र पहने हो, सिरपर मुकुट, कानोंमें कुण्डल और गलोंमें कमलके हार लहरा रहे हैं ॥ ३४ ॥ * * सबकी नयी अवस्था है, सुन्दर-सुन्दर चार-चार भुजाएँ हैं, सभी के करकमलोंमें धनुष, तरकस, तलवार, गदा, शङ्ख, चक्र, कमल आदि सुशोभित हैं ।। ३५ ॥ तुमलोगों की अङ्गकान्ति से दिशाओंका अन्धकार और प्राकृत प्रकाश भी दूर हो रहा है। हम धर्मराजके सेवक हैं । हमें तुमलोग क्यों रोक रहे हो ? ॥ ३६ ॥ श्रीशुक उवाच इत्युक्ते यमदूतैस्तैर्वासुदेवोक्तकारिणः । तान् प्रत्यूचुः प्रहस्येदं मेघनिर्ह्रादया गिरा ॥ ३७ ॥ विष्णुदूता ऊचुः यूयं वै धर्मराजस्य यदि निर्देशकारिणः । ब्रूत धर्मस्य नस्तत्त्वं यच्च धर्मस्य लक्षणम् ॥ ३८ ॥ कथंविद् धियते दण्डः किं वास्य स्थानमीप्सितम् । दण्ड्याः किंकारिणः सर्वे आहोस्वित्कतिचिन्नृणाम् ॥ ३९ ॥ यमदूता ऊचुः वेदप्रणिहितो धर्मो धर्मस्तद्विपर्ययः । वेदो नारायणः साक्षात्स्वयम्भूरिति शुश्रुम ॥ ४० ॥ येन स्वधाम्न्यमी भावा रजःसत्त्वतमोमयाः । गुणनामक्रियारूपविभाव्यन्ते यथातथम् ॥ ४१ सूर्योऽग्निः खं मरुद्भावः सोमः सन्ध्याहनी दिशः । के कुः कालो धर्म इति ह्येते दैह्यस्य साक्षिणः ।। ४२ ।। एतैरधर्मा विज्ञातः स्थानं दण्डस्य युज्यते । सर्वे कर्मानुरोधेन दण्डमर्हन्ति कारिण: ।। ४३ ।। सम्भवन्ति हि भद्राणि विपरीतानि चानघाः । कारिणां गुणसङ्गोऽस्ति देहवान् नहाकर्मकृत् ॥ ४४ ॥ अन्वयः —तैः यमदूतैः इति उक्ते वासुदेवोक्तकारिणः प्रहस्य तान् प्रति मेघनिर्ह्रादया गिरा इदम् ऊचुः ।। ३७ ।। * यदि वै यूयम् धर्मराजस्थ निर्देशकारिणः यत् धर्मस्य तत्त्वम् च धर्मस्य लक्षणम् नः ब्रूत ॥ ३८ ॥ * * अस्य कथंस्वित् दण्डः ध्रियते वा स्थानम् किम् ईप्सितम् नृणाम् सर्वे कारिणः दंड्याः कि आहोखित् कतिचित् ॥ ३६ ॥ * * वेदप्रणिहितः धर्मः हि तद्विपर्ययः अधर्मः वेदः स्वयंभूः साक्षात् नारायणः इति शुश्रुम ।। ४० ।। * * येन स्वधानि रजःसत्त्वतमोमयाः अमी भावाः गुणनामक्रियारूपैः यथातथम् विभाव्यंते ॥ ४१ ॥ । * * हि सूर्यः अग्निः खम् मरुत् गावः सोमः संध्या अहनी दिश: कम् कुः कालः धर्मः इति एते दैह्यस्य साक्षिणः ।। ४२ ।। * एतैः अधर्मः विज्ञातः एव दण्डस्य स्थानम् युज्यते सर्वे कारिणः कर्मानुरोधेन दंडम् अर्हति ॥ ४३ ॥ * * अनघाः कारिणाम् हि भद्राणि च विपरीतानि संभवन्ति हि गुणसंग: देहवान् अकर्मकृत् न अस्ति ।। ४४ ॥ * श्रीधरस्वामिविरचिता भावार्थदीपिका
- कथं- अहो दंडादंडचादिज्ञानशून्या एते चोरा एवास्मद्भिया धर्मराजस्य किंकरा इत्यनृतं वदतीति विस्मयेन प्रहस्य ता प्रत्यूचुः । मेघस्येव निर्ह्रादो ध्वनिर्यस्यास्तया ॥ ३७ ॥ ॐ तत्त्वं स्वरूपम् । लक्षणं प्रमाणम् ॥ ३८ ॥ स्वित्केन प्रकारेण । स्थानं विषयः । कारिणः कर्मिणः । नृणामिति । नरा एव न पश्वादयः । तेष्वपि कतिचिदेवे- त्यर्थः ॥ ३९ ॥ वेदेन प्रणिहितो विहितो धर्मः । वेदप्रमाणक इत्यर्थः । अनेन यो वेदप्रमाणकः सः धर्मो यो धर्मः स १. प्रा० पा० कालः स्वयं ध में इति । २. प्रा० पा०मभिज्ञातः । ३० । श्रीमद्भागवतम् स्कं. ६ अ. १ श्लो. ३७-४४ वेदप्रमाणक इति स्वरूपं प्रमाणं चोक्तम् । यथाऽऽह जैमिनी: “चोदनालक्षणोऽर्थो धर्मः” इति । व्याख्यातं च भट्टै: “द्रयमेकेन सूत्रेण श्रुत्यर्थाभ्यां निरूप्यते” इति । अपृष्टस्याप्यधर्मस्य स्वरूपं लक्षणं च दंडस्थानकथनायाहुः । तद्विपर्ययो यो वेदनिषिद्धः सोsधर्मः निषेधश्च तस्मिन्प्रमाणमित्यर्थः । वेदस्य प्रामाण्ये हेतुः । वेदो नारायणादुद्भूतोऽतः स एव साक्षादित्युपचारः स्वयं- भूरिति च निःश्वासमात्रेण स्वयमेव भवतीति । तथा च श्रुतिः “अस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदः” इति ॥ ४० ॥ कोऽसौ नारायणस्तत्राहु: - येन स्वधानि स्वस्वरूपेऽमी भावाः प्राणिनो गुणाः शांतत्वादयो नामानि ब्राह्मण इत्यादीनि कियाश्चाध्ययनाद्या रूपाणि वर्णाश्रमादयस्तैर्विभाव्यते विविच्यते यथातथं यथावत्स नारायणः ॥ ४१ ॥ * * तथाऽप्यधर्मो- डिनेन कृत इति कुतो ज्ञायते तत्राहु: - सूर्य इति । अहनी अश्व रात्रिंश्व कमुदकं कुः पृथ्वी दैह्यस्य जीवस्य । यथाssहुः “आदित्यचंद्रावनिलो नलश्च द्यौर्भूमिरापो हृदयं यमश्च । अहश्च रात्रिश्व उभे च संध्ये धर्मश्च जानाति नरस्य वृत्तम् ॥” इति ॥ ४२ ॥ स्थानमाहुः । एतैर्निमित्तभूतैर्विज्ञातः । दंड्यानाहुः । सर्व इति ॥ ४३ ॥ विपरीता- न्यभद्राण्यपि कर्मिणां संभवंति यतस्तेषां गुणसंगोस्ति । यदि कश्चिदकर्ता स्यात्तर्हि तस्याभद्राणि न स्युर्न त्वेतदतीत्याहुः न हि देहवानकर्मकृदस्तीति । अतः सर्वे कर्मिणः । कर्मिणां च पापस्यावश्यंभावित्वात्ते सर्वे क्रमानुरोधेन दंडमहंतीत्यर्थः ॥ ४४ ॥ । वंशीधरकृतो भावार्थदीपिकाप्रकाशः । । । तान् याम्यान् ।। ३७-३८ ।। * * अस्य दंडस्य । इत्यत । शास्त्रस्य मनुष्याविषयत्वमेव केवलं न संभवति वालिप्रभृतिवानरेषु स्नानसंध्योपासनादिशास्त्राचरणस्य संपातिनाम्न्ना गृध्रराजेन वानरेभ्यः स्वभ्रातुर्जटायुषो मृतिमाकर्ण्य तिलां- जल्यादिदानरूपशास्त्रं स्वीकृतमतस्तिर्यग्योनिषु पक्षिष्वपि शास्त्राचरणस्य च दृष्टत्वादिति भावः ॥ ३९ ॥ * * प्रकर्षेण । । । निहितः स्थापितः । इत्यर्थः इति । वेदप्रमाणं यत्र स धर्म इति भाव: । ‘अनेन वेदप्रणिहितो धर्मः’ इति व इति वचनेन । यथा धर्मस्य लक्षणं तथा जैमिनिः पूर्वमीमांसाचार्य्यं आह चोदनेति । “चोदना चोपदेशश्च विधिश्चैकार्थवाचिनः” इति भाट्टाः । अर्थ्यते प्राप्यते पदादिभ्य इत्यर्थः । अर्थो धर्म इत्युक्ते धनादीनां तथात्वं स्यात्तद्वारणाय चोदनेति । चोदनया विधिना लक्ष्यते ज्ञायते इति तथा । भट्टैर्मीमांसकैः । द्वयं धर्मस्वरूपं धर्मप्रमाणं च एकेन चोदनालक्षण इत्यनेन । श्रुतयः " अहरहः संध्यामुपासीत” इत्याद्याः । अत्रोपासीतेति चोदनया संध्योपासनरूपो धर्मो लक्षितः । अर्धश्च चोदना तव्यलिलोदूरूपैव लक्षणं प्रमाणं यत्र स तथेत्येवंरूपा व्याख्या ताभ्यां " यावज्जीवमग्निहोत्रं जुहुयात्” अत्र जुहुयादिति चोदनैव यावज्जीवाग्निहोत्रकरणे प्रमाणं नान्यदित्यर्थः । ननु “ नाष्पृष्टः कस्यचिद् ब्रूयात्" इत्युक्तेरधर्मस्तु तैर्नाष्पृष्टः स कथमुक्त इति चेदाह - अपृष्टस्यापीति । वेदेन निषिद्धः । " ब्राह्मणं न हन्यात्" इत्येवंरूपया श्रुत्या यो वर्जितो ब्रह्महत्यादिरूपः सोऽधर्म इति । तस्मिन्नधर्मे । इत्यर्थ इति । निषेधशास्त्रप्रमाणको वेदनिषिद्धोऽधर्म इति भावः । वेदनिःश्वसितत्वे प्रमाणमाह तथा चेति । महतो भूम्नः भूतस्य पुरुषस्यैतन्नि:- श्वसितमित्यन्वयः । एतत्किमित्याकाङ्क्षायामाह - ऋग्वेद इति । तथा श्रुतेः– “अस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवेदोऽथर्वांगिरस : इतिहासः पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्याख्यानानि” इति बृहदारण्यके । पतितेति । तथा चेतिहासपुराणादीनामपि परमेश्वरनिश्श्वसितत्वात्प्रणिहितधर्मस्यापि धर्मत्वमव्याहतमेव श्रोजैमिनिनापि वेदाविरोधेन पुराणेतिहासादीनां प्रामाण्यं साधितम् “विरोधे त्वनपेक्षं स्यादसति द्यनुमानम्” इति जैमिनिसूत्रेणास्यार्थः श्रुत्या सह विरोधे त्वनुमानं स्मृतिवाक्यमनपेक्ष्यमुपेक्ष्यं त्याज्यमिति यावत् । हि यतोऽसति श्रुतिविरोधे स्मृतिवाक्यं प्रमाणं नान्यथेति तदर्थः । [। । • यद्वा ननु कथं श्रुतिविरोधेन स्मृतिवाक्यस्याप्रामाण्यं यावता तन्मूलभूतापि काचिच्छुतिरनुमास्यत इत्याशंक्याह - असतीति । प्रत्यक्ष श्रुत्या सह विरोधेऽसत्येव स्मृतिमूलश्रुतैरनुमानं भवति नान्यथेत्यर्थः । शिष्टं पूर्ववत् शिष्टाकोपेऽविरुद्धमिति । चेन्न “शास्त्रपरिमाणत्वात्” इति सूत्रांतरमप्यत्रैव चोद्योत्तरत्वेन व्याख्यातं भट्टपादैः । तथाहि यत्तर्हि वेदविहितं न बाधते शिष्टान । म कोपयति विहाराराममंडल करणवैराग्यध्यानाभ्यासाहिंसा सत्यवचनदमदनदयादि तद् बुद्धाद्यभिभाषितमपि प्रमाणेनाविरु- द्धमिति चेन्न, शास्त्राणां परिमाणत्वात् । परिमितान्येव हि चतुर्दशाष्टादश वा विद्यास्थानानि धर्मप्रमाणत्वेन शिष्टैः परिगृहीतानि वेदोपवेदांगोपांगाष्टादशधर्मसंहितापुराणशाखशिक्षादंडनीतीतिसंज्ञकानि । न च तेषां मध्ये बौद्धा तवामपाशुपतादिग्रंथा गृहीताः स्मृता वेति नास्ति तेषां धर्मे प्रामाण्यमिति वहतिक्षिप्तगोक्षीरवत् वेदाविरोधी शिष्टकोपाजनकोऽप्यंशस्तेषामप्राह्य एव यदा शास्त्रांतरेणापि सोऽर्थः स्पष्टोऽवधार्यते तदा तेनैव सिद्धत्वादितरत्स्यादनर्थकमिति पूर्वमीमांसायाम् ॥ ४० ॥ * * • यथा च तथा चानयोः समाहारो यथातथम् । असांकर्येणेत्यर्थः । यद्वा – यो यथा भवति स तथैव भवतीति यथातथमिति पुषोदरादित्वात्साधुः ॥ ४१ ॥ * * यद्यप्येवमस्ति तथापीत्यर्थः । अहम् रात्रिश्वाहनी “नपुंसकमनपुंसकेन” इति नपुंसकशेषः । द्योशब्देन द्यौः । बहुवचनान्तत्संचारिणो देवा प्रमाणमाह-यथाहु रिति । पौराणिकाः । । कालः सामान्यकालाभिमानी | धर्मः कश्विद्यमाद्भिन्नो धर्माभिमानी देवताविशेषो यमस्य पृथग्ग्रहणात् । यद्वा- ‘धर्मो धर्मविदुत्तमः’ इति सहस्रनामसु पठितत्वाद्विष्णुरिति । वृत्तं चलनम् । साक्षिणः साक्षाद् द्रष्टारस्तद्भद्राभद्रव्यंजका इत्यर्थः ।। ४२ ।। • Airte T स्कं. ६ अ. १ श्लो. ३७-४४ ] अनेकव्याख्यासमलङ्कृतम् ३१ एतैः सूर्यादिभिः । कर्मानुरोधेन स्वस्वपापकर्मानमतिक्रमेण कारिणः पापकारिण एव न तु पुण्यकारिणोऽपि तेषां दंड्यत्वाश्र- वणात् ॥ ४३ ॥ * * अतो देहिनः कर्मकर्तृस्वात् । इत्यर्थ इति । पुण्यकर्मिणामपि यथाकथंचिनृगादिवत्पापसंबंधो ।। भवत्येवात उक्तं सर्वे इति भावः । अनघा इति । भवंत एव भगवत्पादत्वात्पापसंबंधशून्या नान्ये इति भावः ॥ ४४ ॥ अन्वितार्थप्रकाशिका । इतीति । इत्येवमुक्तप्रकारेण यमदूतैरुक्ताः पृष्टास्ते वासुदेवोक्तकारिणो भगवदाज्ञानुसारिणस्तत्पार्षदाः अहो ! एतेऽ- स्मद्भियाः स्वस्य धर्मराजकिंकरतां वदन्ति वस्तुतश्वोरा एवेत्याशयेन प्रहस्य मेघनिर्ह्रादया मेघगर्जितवद्गम्भीरया गिरा इदं वक्ष्यमाणं तान् यमदूतान् प्रत्यूचुः ॥ ३७ ॥ यूयमिति । यदि यूयं धर्मराजस्य निर्देशकारिणस्तर्हि यद्धर्मस्य तत्त्वं स्वरूपं यच धर्मस्य लक्षणं प्रमाणं तन्नोऽस्मान्प्रति ब्रूत ।। ३८ ।। * * कथमिति । युष्माभिः कथंस्वित् केन प्रकारेण दण्डो त्रियते अस्य 1 । दण्डस्य ईप्सितं योग्यं स्थानं विषयः कारणं वा किमस्ति । नृणां मध्ये कारिणः कर्मिणः । आवश्यके णिनिः । सर्वे एवं किं दंड्या भवन्ति आहोस्वित्कतिचिदेव ॥ ३९ ॥ * * वेदेति । वेदेन प्रतिहितः कर्त्तव्यत्वेनाभिप्रेतो यः स धर्मः इति धर्मस्य स्वरूपं प्रमाणं चोक्तम् । दण्डकथनायापृष्टस्याप्यधर्मस्य लक्षणमाहुः - अधर्म इति । तद्विपर्ययः वेदेन निषिद्धत्वेनाभिप्रेतो यः सः अधर्मः । वेदस्य प्रामाण्ये हेतुमाहुः - वेद इति । " अस्य महतो भूतस्य निःश्वसितमेतद्यद्यग्वेदः” इत्यादिश्रुतेः । देवच साक्षात्स्व- यम्भूः भगवतो निःश्वासमात्रेण स्वयमनायासेन भवतीति साक्षान्नारायण एवेति शुश्रुम ॥ ४० ॥ * * कोऽसौ नारायण इति चेत्तत्राहुः — येनेति । येन स्वधाग्नि स्वस्वरूपे अमी दृश्यमाना रजआदिगुणकार्यभूता भावाः प्राणिनः गुणनामादिभिर्यथा- यथं यथायोग्यं वर्णाश्रमाद्यधिकारिविभागपूर्वकं विभाव्यन्ते विरच्यन्ते स नारायणः तत्र गुणाः शान्तत्वघोरत्वमूढत्वादयः नामानि ब्राह्मणक्षत्रियवैश्यादीनि क्रिया अध्ययनाध्यापनयज्ञानुष्ठानाद्याः रूपाणि द्विहस्तद्विपाञ्चतुष्पादादीनि ॥ ४१ ॥ * * सूर्य इति । अग्न्याद्यभिमानिनो देवा ग्राह्याः खमाकाशः मरुत्पर्वनः गावः वाचाः तदधिष्ठात्री सरस्वती । पाठान्तरे देवः अन्त- र्यामी सोमः चन्द्रः अहनी अहश्च रात्रिश्च कम् उदकं कुः पृथ्वी धर्मः धर्माभिमानी देवः इत्येते देह्यस्य जीवस्य धर्माधर्मसाक्षिणः निर्बिकारित्वेन ॥ दृष्ट द्रष्टृत्वे सति यथावद्वक्तार इत्यर्थः ॥ ४२ ॥ * * दण्डस्य कारणमाहुः–एतैरिति । एतैः सूर्यादिसाक्षिभि- विज्ञात; अधर्मो दण्डस्य स्थानं युज्यते कारणं सम्पद्यते । दण्ड्याः किङ्कारिणः सर्व इत्याक्षेपस्योत्तरमाहुः - सर्व इति । सर्वस्यैकदा । पापासंभवादेकदा दण्डानर्हत्वेऽपि क्रमेण पापसंभवात्सर्वे पापकारिणः क्रमेण दण्डमर्हन्ति ॥ ४३ ॥ *
-
- सर्वेषां दण्ड्यत्वे हेतु: - संभवन्तीति । हे अनघाः ! कारिणां भद्राणि पुण्यानि विपरीतानि पापानि च संभवन्ति । कुतः हि यस्मात् तेषां गुणसंयोगोऽस्ति सत्त्वादिगुणसंबन्धोऽस्ति, अत एव कश्चिदपि देहवान क्षणमपि अकर्मकृत् कायिकवाचनिकमानसिक- व्यापारनिर्मुक्तो न तिष्ठति तथा च तत्तद्गुणोद्रेकानुसारेण सदा धर्माधर्मोत्पत्तिर्भवत्येव ॥ ४४ ॥ । वीरराघवव्याख्या एवमुक्ता विष्णुपार्षदा आहुरित्याह मुनिः इत्युक्ता इवीत्थं यमदूतैरुक्तास्ते वासुदेवाज्ञाकारिणः पार्षदाः प्रहस्य तानू यमदूतान् प्रतीदं वक्ष्यमाणं गर्जितमेघवद्गम्भीरया गिरा वाण्योचुः ॥ ३७ ॥ * उक्तिमेवाह – यूयमिति । धर्मराज- स्येति हेतुगर्भ धर्म एव यमरूपेणावस्थित इत्यर्थः । तस्य यदि यूयं निर्देशकारिणः शासनकारिणः तर्हि यूयमपि धर्माधर्म स्वरूपज्ञा भवेयुरतो धर्मस्य तत्त्वं याथात्म्यं यदधर्मलक्षणं स्वरूपं तच्च नोऽस्मभ्यं ब्रूथ । यद्वा धर्मोस्याधर्मस्य च तत्त्वं लक्षणं प्रमाणं चेत्यन्वयः ॥ ३८ ॥ *
- तत्र दण्डनस्य प्रकारविषयादिकं पृच्छन्ति कथंस्विदिति । दण्डः केन प्रकारेण क्रियते नित्यं दण्डस्य स्थानं विषयः किं स्थानमेव विकल्पयन्ति । दण्ड्या इति कारिणः । सर्वे नरा दण्ड्या आहोस्वित्कारिणां नृणां मध्ये कतिचिदेव ।। ३९ ।। * * एवमुक्ता यमदूता आहुः- वेदेत्यादिना । वेदेन प्रणिहितः कर्त्तव्यत्वेन बोधितो धर्मः अधर्मस्तु तद्विपर्ययः अकर्त्तव्यत्वेन बोधितः । अनेन वेद एवायं धर्मोऽयमधर्म इत्यत्र प्रमाणमिति लक्षणमुक्त वेदप्रणिहिततद्विपर्ययावेव धर्माधर्मयोः स्वरूपमिति चोक्तम् । ननु वेदस्यापि पौरुषेयत्वात्पुरुषस्य च भ्रमविप्रलम्भादिदोषसम्भवात्कथं वेदस्य धर्मप्रमाप- कत्वमित्यत आह-वेदो नारायण इति । साक्षान्नारायणादेव वेदः प्रसूतः न पौरुषेयत्वाशङ्केति भावः । कारणवाचिनो नारायण- शब्दस्य कार्यकारणयोरभेदात्कार्यभूते वेदो वृत्तिः नारायणाद्वेदस्याविर्भावो लक्ष्यते “तस्य ह वा एतस्य महतो भूतस्य निःश्वसित- मेतद्यदृग्वेदः”, “ऋचः सामानि जज्ञिरे छन्दांसि जज्ञिरे तस्माद्यजुस्तस्मादजायत” इति च कार्यत्वप्रयुक्तानित्यत्वशङ्कां वारयति - स्वयम्भूरिति । स्वयमित्यात्मनेत्यर्थः । स्वयमात्मनैवाधिकृत रूपेणैवा विप्लुत पूर्वानुपूर्व्या प्रादुर्भवतीति स्वयम्भूरिति शुश्रुम यमादिभ्य इति शेषः ।। ४० ।। * * कोऽसौ नारायणः यतः प्रादुर्भूतो वेदस्तत्राह — येनेति । येन स्वधाग्नि स्वस्वरूपेऽत्तः प्रविश्य धारकेऽमी भावाः वेददेवमनुष्यादयः पदार्था रजआदिगुणत्रयप्रचुराः गुणनाम क्रियारूपैः यथायथं यथाकर्म भाव्यन्ते विभाव्यन्ते ३२ श्रीमद्भागवतम् [ स्कं. ६ अ. १ लो. ३७-४४ सृज्यन्ते स नारायण इत्यर्थः । तत्र गुणाः शान्तिक्षमा सौन्दर्यादयः नामानि वेदो देवो मनुष्यो ब्राह्मण इत्यादि क्रिया अर्थप्रत्या- याध्ययनादयः रूपाणि शब्दात्मकत्वार्थात्मकत्वादीनि ॥ ४१ ॥ * * भवतु धर्मे वेदः प्रमाणं वेदप्रणिहितो धर्मः वेदश्व नारायणादुद्भूतो नारायणस्त्वीदृशस्तथापि प्रतिक्षणसंसारिभिरनुष्ठितौ धर्माधर्मावनन्तौ कथं ज्ञायेते तत्राह - सूर्य इति । खमा- काशः अहश्च रात्रिश्वाहनी । द्विवचननिर्देशसामर्थ्याद्रात्रिर्विवक्षिता । कमुदकं कुः पृथ्वी स्वयं साक्षाद्धर्मश्व खादयः तदधिदेवताः सूर्याग्निसमा चैते चतुर्दश दैह्यस्य देहस्य कर्म दैह्यं ब्राह्मणादित्वात्कर्मणि व्यन्- बुद्धीन्द्रियमनः प्राणात्मकेन देहेन क्रियमाणस्य कर्मणः साक्षिणः साक्षाद्रष्टारः सूर्य्यादिमुखेन देह्योधर्मो ज्ञायत इत्यर्थः ॥ ४२ ॥ एतैरेवाधर्मोऽपि ज्ञायत इत्याहुः । एतैरधर्मो विज्ञात इति एतैर्ज्ञापितोऽधार्मिको दण्डस्य विषय इत्याहुः । स्थानं दण्डस्य युज्यत इति दण्ड्याः किं । सर्वे कारिणः अतस्ते सर्वे कर्मानुरोधेन दण्डं प्रत्यर्हन्ति धर्ममनुतिष्ठतामपि विषयपरवशत्वाद- धर्मोsवर्जनीयः, अधर्म फलानुभवदशायां च ते दण्डमर्हन्तीत्यभिप्रायेण सर्वे कर्मानुरोधेन दण्डमर्हन्तीत्युक्तम् ॥ ४३ ॥ एतदेव प्रतिपादयन्ति - सम्भवन्ति हीति । हे अनेघाः ! भद्राणि पुण्यानि विपरीतान्यपुण्यानि च सम्भवन्ति भद्राणि कुर्वताम- भद्राण्यवर्जनीयतया आपतन्तीत्यर्थः । कुतः यतस्तेषां कारिणां गुणेषु शब्दादिविषयेषु सङ्गः व्यासक्तिरस्ति विषयपरवशत्वात्तेषाम- भद्राण्यपि सम्भवन्तीत्यर्थः । धर्माधर्मपरिहारेण तूष्णीं वर्त्तमाना न दण्डमर्हेयुस्तत्राहुः देहवान कर्मकृत् न हि देहवानकर्मकृद- स्तीत्यर्थः । स्वरूपतः कर्मपरिहारेणावस्थातुं न कोऽपि देही प्रभुरिति सर्वेऽपि देहिनः कारित्वात्पर्यायेण दण्ड- मर्हन्तीति भावः ।। ४४ ॥ कारिणः सर्व इत्यस्योत्तरमाह ए ।
विजयध्वजतीर्थकृता पदरत्नावली क तत्त्वमनारोपितं रूपं लक्षणं व्यावर्तकधर्मम् ॥ ३८ ॥ कथंस्वित्वेन प्रकारेण स्थानं देशः विषयो वा नृणां मध्ये कारिणः कर्मकारिणः सर्वेऽपि दण्ड्याः किमाहोस्वित् कतिचिदेव दण्ड्याः । तत्रापि किङ्कारिणो वा किमकारिणो वा इति ब्रूत ॥ ३६ ॥ यच्चाधर्मस्य लक्षणमित्यत्राहुरित्याह – वेदेति । वेद एव धर्माधर्मो मिथो व्यावर्त्य वक्तीत्यनेन प्रमाणं चोक्तं धर्मस्य तत्त्वं ब्रूतेत्यत्रोत्तरमाहुरित्याह-वेद इति । वेदो नारायणवक्तृकः तपःशक्त्या दृष्ट्वेदवक्तमुनिव्यावृत्त्यर्थं साक्षादिति तदु- क्तम् । “वेदानां प्रथमो वक्ता हरिरेव यतो विभुः । अतो विष्ण्वात्मका वेदा इत्याहुर्वेदवादिनः ।” इति देवदत्तवन्नारायणोऽपि किमन्यस्मादवाप्तदेह इति नेत्याह – स्वयम्भूरिति । अनेन नारायणवक्तृत्वे पौरुषेयत्वेनानारोपितरूपत्वाभावेन तदुक्तधर्माधर्म- निश्चयायोग इत्याशङ्का परिहृता । तेषां स्वयम्भूत्वेनाभिव्यक्तिरेव हरेर्न तु पुराणादिवदन्यथा रचितत्वम्, “यावदब्रह्म विष्ठितं तावती वाकू” इति श्रुतेः ॥ ४० ॥ नन्वेतावता नारायण इतरस्मात्कथं व्यावृत्ततया ज्ञायत इति तल्लक्षणमाह- येनेति । स्वधाम्नि स्वाधारतया गुणाः शुक्लादयः नामान्यश्व महिषदेवदत्तादीनि क्रिया: पचतिपठतीत्यादयः रूपाणि द्विपाञ्चतु- ष्पादित्यादीनि क्रिया पञ्चविधं कर्मेति वा गुणाः शमदमादयः रूपाणि शुक्लादीनि । यथातथमसाङ्कर्येण विभाव्यन्ते उत्पाद्यन्ते ॥ ४१ ॥ * * किं वास्य स्थानमीप्सितमित्यत्राहुरित्याह- सूर्योऽग्निरिति । गाव आपः “ गौर्भूमिरापः " इतिवचनात् सन्ध्या चाहश्च सन्ध्याहनी कालाभिमानी देवः स्वयं पापपुण्ययोः कर्ता देवशब्दवाच्यः श्रीहरिर्वा कालः हृदयः मन इति द्वे स्वयमित्यनेन व्याख्याते धर्मस्येत्युपलक्षणम् । अधर्मस्यापि साक्षादीक्षन्त इति ।। ४२ ।। ** धर्माधर्मलक्षणपुण्यपापदर्शिभिरेतैः सूर्यादिभिः न धर्मो यस्य सोऽधर्मः अधर्म इति विज्ञातो यः पुरुषः स एव दण्डस्य स्थानं दण्डस्य इति युज्यते यमस्तु दण्ड एवाधिकृतः कथंस्वित् ध्रियते दण्ड इत्यस्योत्तरमाहुरित्याह - सर्व इति । कारिणः पापकारिणः सर्वे क्रमानुरोधेन पापकर्मतारतम्यानुकूल्येन दण्डयाः किं कारिणः सर्व इत्यत्राहुरित्यतो वा आह- सर्व इति । पापकारिणः सर्वे दण्डमर्हन्तीत्यनेन पापकारिण एव यमेन दण्ड्याः न पुण्यकारिण इति च ग्राह्यम् ॥ ४३ ॥ * ननूभयेषामपि दृष्टश्रुताभ्यामैहिके सुखदुःखफले जानताम् उभयविधकर्मसम्भवः कथमत्राह — सम्भवन्तीति । विपरीतानि पापविरुद्रपुण्यानि राज्याद्यवाप्तिनिमित्तसुखफलप्रदानि “आचतुर्दशमाद्वर्षात्कर्माणि नियमेन तु । दशावराणाम्” इत्येतद् द्विशब्दगृहीतं सम्भवेऽपि किं कारणमत्राह- कारिणमिति त्रिगुणसम्बन्ध एव कारमिति भावः । नन्वेतल्लिङ्गशरीरिण्यनैकान्त्यं तस्य । कर्माकरणा- दित्याशङ्कय स्थूल देहविवक्षयोक्तमिति भावेनाह - देहवानिति । यो गुणसङ्गेऽपि पुण्यवान्न कर्म करोति ज्ञानादिति चेत्तत्राह देवानिति वा । देही चेदकर्मकृन्नास्त्येव गुणानां तादृशशक्तिमत्त्वात् “कार्यते ह्यवश” इत्युक्तेः ॥ ४४ ॥ जीवगोस्वामिकृतः क्रमसंदर्भ:
- वेदे प्रणिहितो विहित इत्यर्थः । साक्षादिति स्वयमेवेत्यर्थः । अत एव स्वयम्भूः ॥। ४१ ।। येन परमेण
- हेतुना ॥ ४१ ॥ * * साक्षिणः युज्यते भवतीत्यर्थः ॥ ४३-४४ ॥
- आदित्यचन्द्रावित्यादिमन्त्रमयपरीरक्षादौ
- *
- तद्भद्राभद्रव्यञ्जकाः ॥ ४२ ॥ * *
- स्कं. ६ अ. १ श्लो. ३७-४४
- अनेकव्याख्यासमलङ्कृतम्
- विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी
- कें
- ३३
- प्रहस्येत्यरे धर्ममेव न जानीथ किमित्यस्मद्भयेन धर्मराजस्य किङ्करा इति ब्र थ किन्तु यूयं प्रेतविशेषा एवास्मद्धस्त- पतिताः कथमद्य जीविष्यथेति भावः ॥ ३७ ॥ * * ननु वयं धर्मराजस्य दूता भवाम एव
- तावदस्मान्न परिचिन्व- न्तीत्यत आहुर्यूयमिति । निर्देशो निर्देशः नोऽस्मान् प्रति तत्त्वं स्वरूपं लक्षणं प्रमाणम् ॥ ३८ ॥ * * कथमिति । दण्डस्य प्रकारप्रश्नः तिष्ठत्यस्मादिति स्थानमिति दण्डस्य कारणप्रश्नः कारिणः कर्मिण इति विषयप्रश्न किं पश्वादयोऽपि किं वा नृणां मध्ये कतिचिदिति तत्र व्यवस्थाप्रश्नः ॥ ३९ ॥ वेदेन प्रणिहितो विहितः वेदविहितत्वं धर्मत्वमिति धर्मस्वरूपं तत्र वेदविधिरेव प्रमाणमिति प्रमाणचोक्तं दण्डकारणप्रश्नेनाधर्मस्यापि पृष्टत्वादधर्मस्य स्वरूपं प्रमाणबाहुः । तद्विपर्ययो यो वेदनिषिद्धः सोऽधर्मः वेदनिषेध एव तस्मिन् प्रमाणमित्यर्थः । स्वयम्भूरिति नारायणस्य निःश्वासमात्रेण स्वयमेव भवतीति तथा च श्रुतिः “अस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदः” इति ॥ ४० ॥ * कोऽसौ नारायणस्तत्राहुः - येन स्वधानि वैकुण्ठे स्थित्वैव अमी भावाः प्राणिनः सङ्कल्पमात्रेणैव गुणाः शान्तत्वादयः नामानि ब्राह्मण इत्यादीनि क्रिया अध्ययनाद्याः रूपाणि वर्णाश्रमादीनि तैर्विभाव्यन्ते विविधतया सृज्यन्ते यथायथं यथावत् ॥ ४१ ॥ * कोऽपि न जानात्विति पापं पुम्भिर्विविक्ते क्रियते अत्र सूर्यादयो देह्यस्य जीवस्य साक्षिणो येनैव विभाव्यन्त इति पूर्वेणैवान्वयः । अहश्च रात्रिश्च कमुदकं कुः पृथिवी यथाहुः - आदित्यचन्द्रावनिलोऽनलच द्यौर्भूमिरापो हृदयं यमश्च । अहश्च रात्रिश्च उभे च सन्ध्ये धर्मोऽपि जानाति नरस्य वृत्तम् ॥ इति ॥ ४२ ॥ * स्थानमाहुः एतैरिति । दण्ड्यानाहुः सर्वे एव प्राणिनः ॥ ४३ ॥ * सर्वेषां दण्डत्वे हेतुः — सम्भवन्तीति । विपरीतान्यभद्राणि पापानि यतः कारिणां कर्मिणां गुणसङ्गोऽस्त्येव गुणाश्च सत्त्वाद्याः पुण्यपापहेतव एव यावज्जीवमयं धार्मिकोऽधार्मिको वेति तु भूम्नैव व्यपदेशः । ननु कारिणामेव गुणसङ्ग इत्युच्यते । यदि कश्चिदकारी स्यात् स त्वदण्ड्य एवेति तत्राहुः - देहवानिति । देहधारी नरः अथ च कर्मरहित इति प्रत्यक्षविरुद्धमित्यर्थः ॥ ४४ ॥
- शुकदेव कृतः सिद्धांत प्रदीप:
- ॥
- …..
- किमर्थं धर्मराजस्य किङ्करान्नो निषेधथेत्यत्राहुः - यदि धर्मराजस्य निर्देशकारिणस्तर्हि धर्मस्य तत्त्वं स्वरूपं लक्षणं प्रमाणं च नोऽस्मान् प्रति ब्रूत ॥ ३८ ॥ * * कथंस्वित् केन प्रकारेण दण्डः प्रियते इति दण्डप्रकारप्रश्नः अस्य दण्डस्य तिष्ठत्यस्मादिति स्थानं हेतुरिति दण्डहेतुप्रश्न: ईप्सितं स्वरुपप्रमाणाभ्यां ज्ञातुमिष्टं वक्ष्यमाणस्य दण्डहेतोधर्मस्यानेन स्वरूप- प्रमाणप्रश्नः कारिणः कर्मिणः सर्वे दण्ड्याः किमाहोस्विन्नृणां मध्ये कतिचिदिति दण्डविषयप्रश्नः ॥ ३९ ॥ * * उत्तरमाहुः — वेदेत्यादिना । वेदैः प्रणिहितो विहितो हि धर्मः अनेन वेदविहितत्वं धर्मत्वमिति धर्मस्वरूपं विधिवाक्यं तत्प्रमाणमिति चोक्तम् अधर्मस्तद्विपर्ययः इत्यनेन वेदैनिषिद्धत्वमिति स्थानस्य स्वरूपं निषेधवाक्याच तत्प्रमाणञ्चोक्तं वेदस्यान्य- [प्रमाणनिरपेक्षत्वान्नित्यत्वान्नारायणात्मकत्वाच्च प्रामाण्यं प्राहुः वेदस्वरूपमन्यप्रमाणनैरपेक्ष्येण भगवन्निः स्वरूपेण भवति नित्यनिष्पन्नपदवाक्यरूपः प्रादुर्भवतीति स्वयम्भूः तथा च श्रुतिः “तस्य ह वा एतस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेद” “ऋच सामानि जज्ञिरे छन्दांसि जज्ञिरे तस्माद्यजुरजायत” इति । स्मृतिश्च “अनादिनिधना नित्या वागुत्सृष्टा स्वयम्भुवा” इति निःश्वासभूतस्य स्वरूपतो भिन्नस्यापि वेदस्य निश्वासवतः सकाशात् अपृथक स्थितिप्रवृत्तिमत्त्वेनाभिन्नत्वमाहुः - साक्षान्ना- रायण इति शुश्रुम इति ॥ ४० ॥ * कोऽसौ साक्षान्नारायण इत्याकाङ्गायामाहुः येन स्वधानि सर्वाधारे स्वस्वरूपे अमी भावाः ब्रह्मादिस्तम्बपर्यन्ताः रजआदिप्रचुरास्तत्तदनुरूपैर्गुणादिभिर्यथातथं विविधतया भाव्यन्ते सृज्यन्ते स साक्षान्ना- रायणः । ४१ ।। * अधर्मो देहिभिः क्रियमाणः केन ज्ञायते इत्यत्राहु:- सूर्य इति । अहनी अहश्च रात्रिश्च कमुदकं कुः पृथ्वी धर्मराजः दैह्यस्य धर्मस्य साक्षिणः साक्षाद्द्रष्टारः ॥ ४२ ॥ * एतैः सूर्यादिभिरधर्मोऽभिज्ञातः सन् दण्डस्य स्थानं युज्यते अधर्म एव दण्डपातने हेतुरित्यर्थः । दण्डविषयमाहुः सर्वे इति ॥ ४३ ॥
- सर्वेषां दण्डविषयत्वे हेतुमाहुः - सम्भवन्तीति । कारिणां कर्तॄणां भद्राणि पुण्यानि अभद्राणि पापानि च सम्भवन्ति यतो गुणसङ्गो गुणकार्यरूप- देहेन्द्रियसम्बन्धोऽस्ति देहवांश्च अकर्मकृत् कर्मकर्तृत्वरहितो न अतः सर्वेषां गुणकार्यरूपदेहवतां पापकारित्वे सिद्धे तद्धेतुक- दण्डविषयत्वमित्यर्थः ॥ ४४ ॥
- 1
- गोस्वामिगिरिधरलालविहिता बालप्रबोधिनी
- इत्येवमुक्तप्रकारेण यमदूतैरुक्ताः पृष्टास्ते वासुदेवोक्तकारिणो भगवदाज्ञानुसारिणः तत्पार्षदाः प्रहस्य मेघनिर्ह्रादया मेघगर्जितवगम्भीरया गिरा इदं वक्ष्यमाणं तान् यमदूतान् प्रत्यूचुरित्यन्वयः । प्रहासश्च स्वाग्रे तेषां तुम्हत्वाभिमानेन । वासुदेवो- क्तकारिण इत्यनेन भगवदाज्ञयैव ते सदा सर्वत्र तद्भक्तरक्षां कुर्बन्ति, न स्वेच्छ्या, येन कुत्रापि प्रतिहताः स्युरिति दर्शितम् ॥ ३७ ॥
- ५
- ३४
- *
- ।
- श्रीमद्भागवतम्
- [ स्कं. ६ अ. १ श्लो. ३७-४४
- तत्प्रश्नमेव दर्शयति — यूयमिति द्वाभ्याम् । वै निश्चयेन यूयं यदि धर्मराजस्य निर्देशकारिण आज्ञानुसारिण- स्तद्ब्रूतेत्यन्वयः ॥ ३८ ॥ कथं केन प्रकारेण युष्माभिर्दण्डो धियते ? अस्य दण्डस्य तिष्ठत्यस्मिन्निति स्थानं कारणं किं वा ? यदि कर्मकारिणः सर्व एव दण्डार्हाः स्युस्तर्हि पश्वादीनां धर्मिणां च दण्ड आपतेत्तदा महाननर्थ: स्यात् । यदि तु नृणां मध्ये कतिचिदधर्मिण एव दण्डार्हास्तर्हि भगवन्नामग्रहणेन निष्पापस्य दण्डे प्रवृत्ता अनर्थकारिणो यूयमेव दण्ड्या इत्यभिप्रायेण विकल्प्य दण्डविषयं पृच्छन्ति - दण्ड्या इति । युष्मत्कर्म सर्व विपरीतमेवेति तर्कयाम इति द्योतयन्ति - आहोस्विदिति ॥ ३९ ॥ एवं पृष्टैर्यमदूतैर्दत्तमुत्तरं दर्शयति-वेदेत्यादिना । वेदेन प्रणिहितो धर्म इत्यर्थः । अनेन वेदविहितत्वं धर्मत्वमिति धर्मस्वरूपम् । तत्र विध्यात्मकवेद एव प्रमाणमिति प्रमाणं चोक्तम् । यथाह जैमिनिः - ‘चोदनालक्षणोऽर्थो धर्मः’ इति । व्याख्यातं च भट्टपादै: ‘द्वयमेकेन सूत्रेण श्रुत्यर्थाभ्यां निरूप्यते’ इति । दण्डकारणप्रश्नेन अर्थादधर्मोपि पृष्ट एव अतस्तस्यापि स्वरूपं प्रमाणं चाहुः - अधर्म इति । यस्ततो धर्माद्विपर्ययो वेदनिषिद्धः सोऽधर्म इति स्वरूपमुक्तम् । निषेधात्मकवेद एव तत्र प्रमाणमिति प्रमाणं चोक्तम् । ननु वेदस्यापि कथं प्रमाणमित्याशङ्कय नामात्मकभगवत्स्वरूपत्वादित्याहुः – वेदो नारायणः साक्षादिति । ननु शब्दात्मकस्य वेदस्य कथं भगवत्स्वरूपत्वं तद्वक्तृकत्वे च तन्मूलभूत स्वतः प्रामाण्यशास्त्रान्तरसापेक्षितत्वं स्यात् स्मृत्यादिवत् । अन्यथा पौरुषेयतया करणापाटवादिदोषवत् कर्तृकत्वेन अस्मदादिवाक्यवदप्रामाण्यं स्यादित्याशङ्कयाहु:- स्वयम्भूरिति । निश्वासमात्रे स्वयमेव भवतीति तथा, न त्वस्मदादिवद्भगवता विचार्य नवीन एव रचितो येनेयं शङ्कावकाशं लभेत अनादित्त्वादित्यर्थः । कथमेतद्युष्मद्वचनमात्रेण प्रमाणीभवितुमर्हतीत्याशङ्कयाहु:– इति वयं यमादिमुखाच्छुशुम श्रुतवन्तः । न केवलमस्मद्गुरुवचनमेवात्र प्रमाणं किन्तु " अस्य महतो भूतस्य निश्वसितमेतद्यदृग्वेदः” इत्यादिश्रुतिरपि प्रसिद्धैवेति सूचयन्त आहुः - हीति ॥ ४० ॥ * * कोऽसावीदृङ्महिमावान्नारायण इत्यपेक्षायामाहुः - येनेति । येन स्वधामनि अक्षरब्रह्मणि अमी दृश्यमाना रजआदिगुणकार्यभूता भावा देहाः गुणनामादिभिः यथायथं यथायोग्यं वर्णाश्रमाद्यधिकारिविभागपूर्वकं विभाव्यन्ते विरच्यन्ते स नारायण इति शेषेणान्वयः । तत्र गुणाः शान्तत्वघोरत्वमूढत्वादयः । नामानि ब्राह्मणक्षत्रियवैश्या- दीनि । क्रियाः अध्ययनाध्यापनयज्ञानुष्ठानाद्याः । रूपाणि द्विहस्तद्विपाञ्चतुष्पादादीनि ॥ ४१ ॥ * * सूर्य इति । अग्न्या- द्यभिमानिनो देवा ग्राह्याः खमाकाशः, मरुत् पवनः देवः अन्तर्यामी, सोमः चन्द्रः, अहनी अहश्च रात्रिश्च, कम् उदकं कुः पृथ्वी, धर्मः धर्माभिमानी देवः इत्येते देह्यस्य जीवस्य धर्माधर्मसाक्षिणः, निर्विकारित्वेन द्रष्टृत्वे सति यथावद्वक्तार इत्यर्थः । एतेषामन्यतरस्य यथायथं सदा सर्वत्र स्थितिः सम्भवत्येव, नात्र काचिदनुपपत्तिरिति द्योतयन्त आहु:-हीति ॥ ४२ ॥ * * एवं धर्माधर्मज्ञानसम्भवात् तत्राधर्म एव दण्डकारणमित्याहुः - एतैरिति । एतैः सूर्यादिसाक्षिभिर्विज्ञातः अधर्मो दण्डस्य स्थानं युज्यते कारणं सम्पद्यते । ‘दण्ड्या किङ्कारिणः सर्वे इत्याक्षेपस्योत्तरमाहुः – सर्वे इति । सर्वस्यैकदा पापासम्भवादेकदा दण्डानर्हत्वेऽपि क्रमेण पापसम्भवात् सर्वे पापकारिणः क्रमेण दण्डमर्हन्तीत्यर्थः ॥ ४३ ॥ * * पापसम्भावनामेव दर्शयन्ति — सम्भवन्तीति । कारिणां भद्राणि पुण्यानि विपरीतानि पापानि च सम्भवन्ति । कुतः हि यस्मात्तेषां गुणसङ्गोऽस्ति सत्त्वादिगुणसम्बन्धोऽस्ति, अत एव कश्चिदपि देहवान् क्षणमपि अकर्मकृत् कायिकवाचनिकमान सिकव्यापारविनिर्मुक्तो न तिष्ठति । तथा च तत्तद्गुणोद्रेकानुसारेण सदा धर्माधर्मोत्पत्तिर्भवत्येव तर्हि किमस्माकमपि कश्विदोषोऽस्तीत्याशङ्कय युष्माकं तल्लेशो नास्तीत्याशयेन सम्बोधयन्ति - अनघा इति ॥ ४४ ॥
- भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी
एवमुक्ता विष्णुपार्षदा आहुरित्याह शुकः - इतीति । इतीत्थं यमदूतैः उक्ताः ते वासुदेवोक्तकारिणः विष्णुपार्षदाः प्रहस्य हासं कृत्वा तान् यमदूतान् प्रति मेघध्वनिसदृशया गिरा वाचा, मेघगर्जितवद्गम्भीरवाण्येत्यर्थः । इदं । वक्ष्यमाणम् ऊचुः ॥ ३७ ॥ उक्तिमेवाह —— यूयमिति । यदि यूयं धर्मराजस्य निर्देशकारिणः शासनकारिणः, वै तर्हि, यूयं धर्मस्वरूपज्ञा भवेत । अतः नोऽस्मभ्यं नोऽस्माकं पुरतो वा धर्मस्य तत्त्वं स्वरूपं यत् धर्मस्य लक्षणं प्रमाणं तच्च ब्रूत । तत्र तत्त्वमनारोपितं रूपं लक्षणं व्यावर्त्तकधर्ममिति भावः ॥ ३८ ॥ * * तत्र दण्डस्य प्रकारविषयादिकं पृच्छन्ति कथं- स्विदिति । दण्डः कथंस्वित् ध्रियते । दण्डः केन प्रकारेण क्रियते इत्यर्थः । अस्य दण्डस्य, ईप्सितं स्थानं किं वा । नित्यं दण्डस्य विषयः क इत्यर्थः । स्थानं स्वयमेव कल्पयन्ति – दण्ड्या इति । कारिणः कर्मिणः, सर्वे नराः दण्ड्याः किम् । आहोखित् नृणां कारिणां नराणां मध्ये, कतिचिदेव । अयं भावः – कारिणः क्रियावन्तः दण्ड्या इति चेद्यत् क्रियावत्त्वं तत्तु पशुष्वपि वर्त्तते ततस्तेऽपि किं दण्ड्याः, न हि नरा इति चेत्ते कारिणोऽपि सर्वे कतिचिदेव वेति ब्रूतेति ॥ ३९ ॥ * * एवं विष्णुदूतैरुक्ता ॥ यमदूता ऊचुः——वेदेति । वेदप्रणिहितो वेदेन कर्त्तव्यत्वेन बोधितः धर्मः । तद्विपर्ययः वेदेन अकर्त्तव्यत्वेन बोधित इत्यर्थः । अधर्मः हि । अनेन यो वेदप्रमाणकः स धर्मः यो धर्मः स वेदप्रमाणकः इति स्वरूपं प्रमाणं चोक्तम् । नन्वपृष्टस्याप्यधर्मस्य स्वरूपं लक्षणं च किमित्युक्तमिति चेद्दण्डस्थापनायोक्तम् । एवं च यो वेदनिषिद्धः सोऽधर्मः स निषेधस्तस्मिन्प्रमाणमित्यपि ज्ञेयम् । स्क. ६ अ. १ श्लो. ४५-५४ ] अनेकव्याख्यासमलङङ्कृतम् རྟ ३५ ननु वेदस्यापि पौरुषेयत्वात्पुरुषस्य च भ्रमविप्रलम्भादिदोष संभवात् कथं वेदस्य धर्मप्रमापकत्वमित्यत आह-वेदो नारायण इति । वेदः साक्षात् नारायणः स्वयंभूश्च इति शुश्रुमः । यमादिभ्य इति शेषः । यतो वेदो नारायणादुद्भूतोऽतः स एवेत्यु- पचारः, कार्यकारणयोरभेदात् । नारायणाद्वेदस्याविर्भावात्तयोः कार्यकारणत्वम् । ‘तस्य ह वा एतस्य महतो भूतस्य निःश्वसितम्’ इति श्रुतेर्वेदस्य नारायणादाविर्भावः । कार्यत्वप्रयुक्तानित्यत्वशङ्कावारणाय स्वयंभूरिति विशेषणम् ॥ ४० ॥ * * यतो वेदः प्रादुर्भूतः कोऽसौ नारायणस्तत्राहुः - येनेति । येन नारायणेन स्वधाम्नि स्वस्वरूपे, रजः सत्त्वतमोमयाः रजआदिगुणत्रय- प्रचुराः, अमी भावाः देवमनुष्यादयः पदार्थाः, गुणाः शान्तत्वक्षमासौन्दर्यादयश्च नामानि देवमनुष्यब्राह्मणत्वादीनि च क्रिया अध्ययनादयश्च रूपाणि वर्णाश्रमादीनि च तैः । यथातथं यथाकर्म, विभाव्यन्ते विविच्यन्ते । स नारायण इति ॥ ४१ ॥ * * भवतु सर्वमेवं तथाप्यधर्मोऽनेन कृत इति कुतो ज्ञायते तत्राहु: - सूर्य इति । सूर्यः स्वयं रविः, अग्निर्हुतभुक, खमाकाशः, मरुद्वायुः गावो धेनवः, सोमश्चन्द्रः, संध्या संध्याकालाधिदेव:, अहनी अहश्च रात्रिश्च ‘नपुंसकमनपुंसकेन’ इत्येकशेषः । दिशः सर्वा अप्याशाः, कमुदकं कुः पृथ्वी, कालः स्वयं धर्मः, एते चतुर्दश, दैह्यस्य बुद्धीन्द्रिीयमनः प्राणात्मकदेहेन क्रियमाणस्य कर्मणः, देहशब्दाद्ब्राह्मणादित्वात्कर्मणि व्यनि दैाशब्दः । केचित्तु दैह्यस्य जीवस्येत्याहु: । साक्षादीक्षन्ते इति साक्षिणः साक्षाद्द्रष्टारः । सूर्यादिमुखेन देह्यो धर्मो ज्ञायते इत्यर्थः ॥ ४२ ॥ इत्याहु:- एतैरिति । एतैः, विज्ञातो विज्ञापितः, यद्वा । एतैर्निमित्तभूतैः, विज्ञातोऽभिज्ञातः, अधर्मः सः, दण्डस्य स्थानं विषयः युज्यते भवतीत्यर्थः । अनेन किं वास्य स्थानमित्यस्योत्तरम् । दण्ड्याः किं कारिण इत्यस्योत्तरं कुर्वन्तो दण्ड्यानाहुः - कारिणः पापकर्मिणः, सर्वे कर्मानुरोधेन पापकर्मतारतम्यानुकूल्येन दण्डमर्हन्ति । अनेन सर्वेषां कमित्वेऽपि पापकारिण एव यमेन दण्डाः, न पुण्यकारिणः इत्यपि सूचितम् ॥ ४३ ॥ पुनरेतदेव प्रतिपादयन्ति - संभवन्तीति । हे अनघाः देहिनां भद्राणि पुण्यानि, विपरीतान्यपुण्यानि च संभवन्ति हि । भद्राणि कुर्वतामप्यभद्राणि नृगनृपतेरिवान्तराऽवर्जनीयतया आपतन्तीत्यर्थः । कुतः ? यतः तेषां कारिणाम्, गुणसङ्गः शब्दादिविषयेषु व्यासक्तिः, अस्ति । विषयपरवशतया तेषामभद्राण्यपि सम्भवन्तीत्यर्थः । यदि कश्चिदकर्त्ता स्यात्तर्हि तस्याभद्राणि न स्युनं त्वेतदस्तीत्याहुः देहवान् अकर्मकृत् न, हि स्वरूपतः कर्मपरिहारेणावस्थातुं न कोऽपि देही प्रभुरस्तीति सर्वेऽपि देहिनः कारित्वात्पर्यायेण दण्डमर्हन्तीति भावः ॥ ४४ ॥ ।। * भाषानुवादः ।
प ज्ञायत श्रीशुकदेवजी कहते हैं—- परीक्षित् ! जब यमदूतोंने इस प्रकार कहा, तब भगवान नारायणके आज्ञाकारी पार्षदोंने हँसकर मेघके समान गम्भीर वाणीसे उनके प्रति यों कहा ॥ ३७ ॥ * * भगवान्के पार्षदोंने कहा- यमदूतों ! यदि तुमलोग सचमुच धर्मराजके आज्ञाकारी हो तो हमें धर्मका लक्षण और धर्मका तत्त्व सुनाओं ॥ ३८ ॥ * * दण्ड किस प्रकार दिया जाता है ? दण्डका पात्र कौन है ? मनुष्योंमें सभी पापाचारी दण्डनीय हैं अथवा उनमेंसे कुछ ही ? ॥ ३६ ॥ * * यमदूतोंने कहा- वेदोंने जिन कर्मोंका विधान किया है, वे धर्म हैं और जिनका निषेध किया है, वे अधर्म है। वेद स्वयं भगवान के स्वरूप हैं। वे उनके स्वाभाविक श्वास-प्रश्वास एवं स्वयंप्रकाश ज्ञान है-ऐसा हमने सुना है ॥ ४० ॥ * * जगत्के रजोमय, सत्त्वमय और तमोमय - सभी पदार्थ, सभी प्राणी अपने परम आश्रय भगवान में ही स्थित रहते हैं वेद ही उनके गुण, नाम, कर्म और रूप आदिके अनुसार उनका यथोचित विभाजन करते हैं ।। ४१ ।। * जीव शरीर अथवा मनोवृत्तियोंसे जितने कर्म करता है, उसके साक्षी रहते हैं—सूर्य, अग्नि, आकाश, वायु, इन्द्रियाँ, चन्द्रमा, सन्ध्या, रात, दिन, दिशाएँ, जल, पृथ्वी, काल और धर्म ॥ ४२ ॥ * इनके द्वारा अधर्मका पता चल जाता है और no cush urant निर्णय होता है। पाप कर्म करनेवाले सभी मनुष्य अपने-अपने कर्मोंके अनुसार दण्डनीय होते · हैं ॥ ४३ ॥ निष्पाप पुरुषों ! जो प्राणी कर्म करते हैं, उनका गुणोंसे सम्बन्ध रहता ही है । इसलिये सभी से कुछ पाप और कुछ पुण्य होते ही हैं और देहवान होकर कोई भी पुरुष कर्म किये बिना रह ही नहीं सकता ॥ ४४ ॥ येन यावान् यथाधमों धर्मो वेह समीहितः । स एव तत्फलं भुङ्क्ते तथा तावद्मुत्र वै ॥ ४५ ॥ यथेह देवप्रवरास्त्रैविध्यमुपलभ्यते । भूतेषु गुणवैचित्र्यात्तथान्यत्रानुमीयते ।। ४६ ।। वर्तमानोऽन्ययोः कालो गुणाभिज्ञापको यथा । एवं जन्मान्ययोरेतद्धर्माधर्मनिदर्शनम् ॥ ४७ ॥ मनसैव पुरे देवः पूर्वरूपं विपश्यति । अनुमीमांसतेऽपूर्वं मनसा भगवानजः ॥ ४८ ॥ १. प्रा० पा० समर्जितः । २ । प्रा० पा०त्र्याद्यथा । ३. प्रा० पा० मानोऽप्ययं कालो ।
३६ श्रीमद्भागवतम् [ स्कं. ६ अ. १ श्लो. ४५-५४ यथाज्ञस्तमसा युक्त उपास्ते व्यक्तमेव हि । न वेद पूर्वमपरं नष्टजन्मस्मृतिस्तथा ॥ ४९ ॥ पञ्चभिः कुरुते स्वार्थान् पञ्च वेदाथ पञ्चभिः । एकस्तु षोडशेन त्रीन् स्वयं सप्तदशोऽश्नुते ।। ५० ।। तदेतत् षोडशकलं लिङ्गं शक्तित्रयं महत् । धत्तंऽनु संसृतिं पुंसि हर्षशोकभयातिदाम् ॥ ५१ ॥ देह्यज्ञोऽजितषड्वगों नेच्छन् कर्माणि कार्यते । कोशकार इवात्मानं कर्मणाऽऽच्छाद्य मुह्यति ॥ ५१ ॥ न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् । कार्यते ह्यवशः कर्म गुणैः स्वाभाविकैर्बलात् ।। ५३ ।। लब्ध्वा निमित्तमव्यक्तं व्यक्ताव्यक्तं भवत्युत । यथायोनि यथाबीजं स्वभावेन बलीयसा ।। ५४ ॥ ६ * अन्वयः - इह येन यावान् यथा अधर्मः वा धर्मः समीहितः स एव तावत् तथा तत्फलम् अमुत्र वै भुङ्क्ते ॥ ४५ ॥ देवप्रवराः इह भूतेषु गुणवैचित्र्यात् उपलभ्यते तथा अन्यत्र अपि अनुमीयते ॥ ४६ ॥ * * यथा वर्तमानः कालः अन्ययोः गुणाभिज्ञापकः एवम् एतत् जन्म धर्माधर्मनिदर्शनम् ॥ ४७ ॥ भगवान् अजः देवः पुरे मनसा एव पूर्वरूपम् विपश्यति अनु मनसा अपूर्वम् मीमांसते ॥ ४८ ॥ यथा व्यक्तम् एव उपास्ते तथा पूर्व॥ * * हि तमसा युक्तः नष्टजन्मस्मृति: अज्ञः * पंचभिः स्वार्थान् कुरुते अथ पंचभिः पंच वेद षोडशेन स्वयम् तु सप्तदशः एकः त्रीन् अश्नुते ।। ५० ।। * * तत् एतत् षोडशकलम् महत् शक्तित्रयम् लिंगम् पुंसि हर्षशोके भयान्तिदाम् अनुसंसृतिम् धत्ते ।। ५१ ।। अजितषड्वर्ग: अज्ञः देही न इच्छन कर्माणि कार्यते कोशकार: इव कर्मणा आत्मानम् आच्छाद्य मुह्यति ॥ ५२ ॥ कश्चित् क्षणम् अपि जातु अकर्मकृत् नहि तिष्ठति हि अवशः स्वाभाविकैः गुणः बलात् कर्म कार्यते ॥ ५३ ॥ अव्यक्तम् निमित्तम् लब्ध्वा बलीयसा स्वभावेन यथायोनि यथाबीजं ।। व्यक्ताव्यक्तम् भवतिः उत ॥ ५४ ॥ * * * * ।। * श्रीधरस्वामिविरचिता भावार्थदीपिका कथंस्विद्भियते दंड इत्यस्योत्तरं येनेति । धर्मो वेति दृष्टांतः । अधर्मानुसारेण दंडो दृष्टांतः । अधर्मानुसारेण दंडो धर्मानुसारेण सुखमि- त्यर्थः ।। ४५ ।। * *
-
- न केवलं सूर्यादय एव धर्माधर्मज्ञापकाः किं त्वर्थापत्तिरपीत्याहु: - यथेति । हे देवप्रवराः इह जन्मनि शांतघोरमूढत्वेन वा सुखदुःखमिश्रत्वेन वा धार्मिकत्वादिना वा त्रैविध्यं भूतेषु यथोपलभ्यते तथाऽन्यत्र जन्मान्तरेऽनु- मीयते त्रैविध्यान्यथानुपपत्त्या कल्प्यते ।। ४६ ।। वर्तमानजन्मना पूर्वापरजन्मधर्माधर्मज्ञानं भवतीति सदृष्टांत- माहुः | वर्तमानो वसंतादिकालो ऽन्ययोर्भूतभविष्ययोर्वसंतयोर्ये गुणाः पुष्पफलादयस्तेषामभिज्ञापको यथैवमेतज्जन्म अन्य- योर्भूतभाविजन्मनोर्धर्माधर्मौ निदर्शयत ॥ ४७ ॥ * * अयं धर्माधर्मज्ञानप्रकारोऽन्येषां धर्मराजस्तु मनसैव सर्वे पश्यतीत्याहुः — पुरे संयमिन्यां स्थित एव देवो यमो देहे स्थितोऽन्तर्यामी वा जीवस्य पूर्वरूपं धर्माधर्मादियुक्तं विशेषेण पश्यति । अन्वनंतरमपूर्व रूपं मीमांसते । यद्यस्यानुरूपं तद्विचारयति यतोऽसौ भगवानजः ॥ ४८ ॥ * जीवस्त्वीश्वरेणोपस्थापितं वर्तमानं देहं पश्यति न तु पूर्वमपरं चेत्याहुः - यथेति । अज्ञोऽविद्योपाधिर्जीवस्तु व्यक्तमेव प्राचीनकर्माभिव्यक्तं वर्तमानमेव देहाद्युपास्तेऽहमिति मन्यते पूर्वमपरं वा वेद । अत्र हेतु: - नष्टा जन्मनां स्मृतिर्यस्य । अत्र दृष्टांतः - तमसा निद्रया युक्तो यथा स्वप्नेऽपि व्यक्तमेव देहाद्युपास्ते न तु जाग्रद्देहादि पूर्वस्वप्नादिगतं वा तद्वदित्यर्थः ॥ ४९ ॥ * * एवंभूतस्य जीवस्य संसारं प्रपंचयंति पंचभिः श्लोकैः–पंचभिः कर्मेंद्रियैः स्वार्थानुपादानादीन्कुरुते । तथा पंच शब्दादीन्वेद । पंचभिर्ज्ञानेन्द्रियैः षोडशेन मनसा सह सप्तदश: षोडशोपाध्यं गतोऽपि स्वयं त्वेक एव सर्वेन्द्रियविषयप्रतिसंधानात् । त्रीन् ज्ञानकर्मेन्द्रियमनोविष- यान्प्राप्नोति ।। ५० ।। * * तदेतल्लिंगशरीरं शक्तित्रयं गुणत्रयकार्य महदनादि पुंसि जीवे अभ्वनु संसृति धत्ते ॥ ५१ ॥ * * नेच्छन्ननिच्छन्नप्यनेनैव लिंगेन कर्माणि कार्यते । कोशकारः कीटविशेषः । मुह्यति निर्गमोपायं न जानाति ।। ५२ ।। * कार्यत इत्यत्रानुभवं प्रमाणयंति-न हीति । गुणैर्गुणकार्यरागादिभिः स्वाभाविकैः पूर्वकर्मसंस्का- रोद्भूतैः ॥ ५३ ॥ * * कर्मवशेन च तदनुरूपो देहो भवतीत्याहु:– लब्ध्वेति । अव्यक्तमदृष्टं निमित्तं लब्ध्वा व्यक्ताव्यक्तं तदनुरूपं स्थूलं सूक्ष्मं च शरीरं भवति । यथायोनि मातृसदृशम् । यथाबीजं पितृसदृशम् । स्वभावो वासना । शुक्रशोणितयोः । । । सर्वत्रैकत्वेऽपि कर्मवासनया मातापितृसदृशो देहो भवतीत्यर्थः ॥ ५४ ॥ 1 वंशीधरकृतो भावार्थदीपिकाप्रकाशः 1 1 इत्यर्थ इति । वाशब्दोऽत्रोपमावाचको न तु पक्षांतरवाचक इति भावः । येन नरेण यावान्यत्प्रमाणकोऽधर्मः समीहितः तावत्प्रमाणकम् ॥ ४५ ॥ अर्थापत्तिरनुपपत्तिज्ञानं तथा हि देवदत्ते पीनश्वं दिवाभोजनाभावं च एकं. ६ अ. १ श्लो. ४५-५४] अनेकव्याख्यासमलङ्कृतम् जानतो रात्रिभोजनज्ञानं ज्ञायते तन्न प्रत्यक्षात् सन्निकर्षाद्यभावेनानुपलंभ्रात नानुमानात् तस्याप्यसंभवात् अयं रात्रिभोजी पीनत्वादित्यस्य दिवासात्रभुञ्जानेऽपि व्यभिचारात दिवाऽर्भुजानत्वे सति पीनत्वादित्यत्र दृष्टांताभावेन व्याप्त्यग्रहादतुमित्य- योगात् तस्माद्दिवाऽभुञ्जानस्य पीनत्वान्यथानुपपत्त्या रात्रिभोजनज्ञानं ज्ञायते सेयमर्थापत्तिरिति प्राभाकराः । देवप्रवरा इति । देवा अपि सर्वज्ञत्वेनेदं वृत्तं जानंति किं पुनर्देवप्रवरा भवंत इति भावः ॥ ४६ ॥ * * वर्त्तमान इति । एतदभिप्राय - कश्लोक: शिशुपालवध काव्ये श्रीकृष्णेनापि श्रीनारदं प्रति “हरत्यघं संप्रति हेतुरेष्यतः शुभस्य पूर्वाचरितैः शुभैः कृतम् । शरीरभाजां भवदीयदर्शनं व्यनक्ति कालत्रितयेऽपि योग्यताम् ||” इति पठितः ॥ ४७ ॥ * * यमः सर्वं पश्यति चेत्तर्हि सूर्यादिसाक्षिग्रहणं व्यर्थमिति चेदाह - देहे स्थित इति । नवद्वारे पुरे इत्यत्र देहेऽपि पुरशब्दप्रयोगात् । यमपक्षे भगवान्सर्वज्ञः अजति पापिनः क्षिपति तिरस्करोतीत्यजः । यद्वा-अं वासुदेवं जपतीत्यजः कर्मण्युपपदे जपतेर्ड: । ‘प्रीतः स्वदूतान्प्रत्याह’ ‘स्मरन्पादांबुजं हरेः’ इत्यमे वक्ष्यमाणत्वात् । अजः परमेष्ठी तु मनसाऽनुमीमांसते विचार्य पश्यतीत्यर्थः । इह च “अजो होको जुषमाणोऽनुशेते” इति श्रुत्युक्त सर्वजीवसाधारणाजशब्दप्रयोगादन्ये देवा अपि यथायोग्यं जानतीति तीर्थः । यद्वा-सुरतिर्यगा दिपुरे देवः क्रीडन् भगवान्भाग्यगुणोपेतो जीवः पूर्वानुभव संस्कार संस्कृतेन मनसैव पूर्वरूपं धर्माधर्मसमवेतात्मरूपं विपश्यति जानाति । अपूर्वमनागतं मनसानुमीमांसते विचार्या मिनोति एतादृशकर्मकरणादेतादृशो भविष्यामीत्यनुमानं करोतीत्यर्थः ॥ ४८ ॥ * * अत्र पूर्वापराज्ञाने । अत्रोक्तार्थे | इत्यर्थ इति । तमोग्र तत्वेन ज्ञानाभावादिति भावः । पक्षांतरे पूर्वापरे रूपे जानाति चेत्तर्हि कथमन्यत्र मृतोऽन्यत्र जातोहमिति न जानातीत्याशंक्य श्रीहर्यनुग्रहं विना तादृशज्ञानं न सुलभं सर्वेषामित्यभिप्रेत्याहु: - यथेति । अज्ञोऽविवेकी । अव्यक्तमेव प्रकृतिनिर्मितदेह मे वास्ते देहात्मनोरभेदं कल्पयति व्यक्तमेव पुरस्थितमेव जानाति न तु पूर्वापरे इति वा । तत्र हेतुः - तमसेति । विपरीतप्रत्ययापादकतमोगुणयुक्तत्वात् । अत एव पूर्वम- परचं न वेद यथा तथा नष्टजन्मस्मृतिः पुरुषः अन्यत्र जातोस्मीत्यादि न जानातीत्यर्थः ॥ ४६ ॥ * * एवंभूतस्याज्ञस्य स्वार्थान्स्वविषयान् । आदिना गत्यादिग्रहः । सर्वेन्द्रियविषयाणां प्रतिसंधानात् । अहं पश्यामि शृणोमि जिग्रामि स्पृशामि रसयामि गच्छामीत्यादिना सर्वेन्द्रियविषयानेक एव गृह्णातीत्यर्थः ॥ ५० ॥ तहि कस्मात्संसारोऽस्येति तत्राह- तदेतदिति । षोडशकलाः श्रोत्रादींद्रियाणि दशपंचभूतानि मनश्चेत्येवंलक्षणा यत्र, शक्तीनां प्रकाशक्रियावरणलक्षणानां त्रयं यस्मितत्तथा सत्त्वादिगुणशक्तियुक्तमित्यर्थः । अत एव पुरुषार्थाभिभवसमर्थं त्रिशक्तियुक्तत्वाद्धर्षादिप्रदं लिंगशरीरं पुंस्यानुकूल्येन संसृतिं धत्त इत्यन्वयः । अधिकरणत्वमात्रप्रदर्शनाय पुंसीति सप्तमी । तस्मादभिमाननिमित्तमिदं सर्वमित्यर्थः ।। ५१ ।। * * आत्मनः संसारप्रकारं दर्शयति - देहीति । अवशीकृतषडिद्रियवर्गोऽनिच्छन्नपि गुणाधीनषडिद्रियैरिति शेषः । ‘गुणाः सृजंति कर्माणि’ इत्येकादशे वक्ष्यमाणत्वात् । कार्य्यते विष्टिगृहीतवद्द्बलात्कार्यमाणश्चेत्स्वसंपद्विपदो वेत्ति किन्नेत्याह - कोशकार इति । यथा कोशकारः कृमिः स्वकर्मणा निर्मितकोशेनात्मानमाच्छाद्य कोश एव वसन्मुह्यति कोशनाशानाशौ न जानाति तथा देह्यपीति भावः ।। ५२ ।। * मोहोऽस्यास्तीति कुतो ज्ञायते इत्याशंक्य पुनः पुनः कर्मकरणादित्यभिसंविमंतः स्वोक्तार्थे प्रमाणं दर्शयंति - न हीति ।। ५३ ॥ ४ * जन्ममरणेऽपि देहस्यैवात्मनस्तु तदभिमानादुपचर्येत इत्याहुब्ध्येति । संसारनिमि- तमव्यक्तं प्रकृतिकार्य शरीरं लब्ध्वा व्यक्ताव्यक्तमुत जन्ममरणमपि भवति जीवस्योपचारेणेति शेषः । “देहत्य सर्वथानाशाद- नाशाच्चेतनस्य च” इत्याद्युक्तेः । निमित्तं कारणमव्यक्तं प्रकृति लब्ध्वा प्राप्य व्यक्ताव्यक्तं जननमरणात्मकं शरीरं भवति । जीवस्येति शेष इति वा । यथायोनि पश्वादियोनिमनतिलंध्य यथाबीजं कर्मराशिमनतिक्रम्य सत्त्वादिनिमित्तस्वभावेनेति तीर्थः । स्वामिभिस्तु —तदनुरूपम् अदृष्टेन सदृशम् । इत्यर्थ इति । अदृष्टेन निमित्तेन ये योनिबीने प्राप्येते तत्स्वभावानुसारेण भवतीति भाव इत्थं व्याख्यातम् ॥ ५४ ॥ अन्वितार्थप्रकाशिका कथंस्वित प्रियते दण्ड इत्यस्योत्तरमाहुः येनेति । येन यावान् यत्प्रमाणकः तथा येन प्रकारेण धर्मोऽधर्मो वा समीहितः कृतः स एव नान्यत्तावत्प्रमाणकः तथा तत्तदवान्तरभेदभिन्नेन प्रकारेण तावत्प्रमाणकं तत्फलं सुखदुःखादिकममुत्र स्वर्गनरकादो भुङ्क्ते । अत्र धर्मो वेति दृष्टान्तार्थः । धर्मानुसारेण सुखमिव अधर्मानुसारेण दुःखमिति ।। ४५ ।। * * सूर्यादिवदर्थापत्तिरपि धर्माधर्मज्ञापिकेति सूचयन्तः सत्त्वादिगुणसङ्गः स्फुटमुपलभ्यतामित्याशयेनाहुः यथेति । हे देवप्रवराः ! यथेह जन्मनि भूतेषु प्राणिषु त्रैविध्यं शान्तघोरमूढत्वेन सुखित्वदुःखित्वतदुभयमिश्रितत्वेन वा धार्मिकत्वादिना वोपलभ्यते तेन च तदन्यथाऽनुपपत्त्या तत्कारणं जन्मान्तरीयपुण्यपापादि कल्प्यते तथाऽत्र गुणवैचित्र्येण धर्माधर्मादिषु प्रवृत्तिदर्शना- तेनान्यत्र जन्मान्तरेऽपि सुखदुःखादिकमनुमीयते ॥ ४६ ॥ * * वर्त्तमानजन्मनैव पूर्वापरजन्मधर्माधर्मज्ञानं भवतीति सदृष्टान्तमाहुः - वर्तमान इति । यथा वर्त्तमानो वसन्तादिकालः स्वगुणै: पुष्पफलादिभिरन्ययोर्भूतभाविनोर्वसन्तयोर्गुणानां पुष्प फलादीनामभिज्ञापको ऽनुमापकः एवमेतज्जन्माप्यन्ययोर्भूतभाविजन्मनोर्धर्माधर्मौ निदर्शयतीति तथा ॥ ४७ ॥ .. ३८ श्रीमद्भागवतम्
। [ रुकं. ६ अ. १ श्लो. ४५-५४ यमस्तु सर्वेषां धर्माधर्मादि स्वयमेव जानाति अतस्तदाज्ञयाऽस्माकमागमनं योग्यमेवेत्याशयेनाहुः – मनसेति । भगवान् सर्वज्ञः अजश्व देव: ईश्वरः यमो वा पुरे प्राण्यन्तर्हृदये संयमिन्यां वा स्थितो मनसैव तेषां पूर्वरूपं देवमनुष्यादिधर्माधर्मादियुक्तं पश्यति जानाति अनु अनन्तरमप्ययमीदृग्धर्माधर्मादिमानी दृग्रूपो भविष्यति अपूर्वं भाविरूपं च मनसैव मीमांसते विचारयति ॥ ४८ ॥ * * जीवस्त्वल्पज्ञो वर्त्तमानमात्रं पश्यतीत्याहुः - यथेति । नष्टा जन्मपरम्परा स्मृतिर्यस्य स तमसा युक्तो व्याप्तः अज्ञः पश्वादिव्यक्तं वर्त्तमानमेव देहमुपास्तेऽहं ममेतिभावेन यथेष्टाहारादिना सेवते पूर्वमपरं भूतं भाविनं च न वेद तथा मनुष्यादिरपीति शेषेणान्वयः । यद्वा-यथा तमसा निद्रया युक्तो जनः स्वप्नेऽपि व्यक्तमेव देहाद्युपास्ते न तु जामदेहादिपूर्व स्वप्नादिगतं वा तद्वत् नष्टा जन्मनां स्मृतिर्यस्य सः अज्ञः अविद्योपाधिर्जीवः व्यक्तं प्राचीनकर्मणाऽभिव्यक्तं वर्तमानमेव देहाद्युपास्ते अहमिति मन्यते पूर्वमपरं न वेद ।। ४९ ।। * एवम्भूतस्य संसारं प्रपञ्चयति — पञ्चभिरिति । षोडशेन मनसा सह सप्तदश: एकस्तु एक एव जीवः पञ्चभिर्वागादिभिः कर्मेन्द्रियैः स्वार्थान् स्वाभिलषितान्वचनशिल्पगतिविस- र्गानन्दाख्यान् कुरुते । अथ तथा पञ्चभिः श्रोत्रादिभिर्ज्ञानेन्द्रियैः पञ्च शब्दस्पर्शरूपरसगन्धान् वेद जानाति । एवं स्वयमेक एव त्रीन् ज्ञानकर्मेन्द्रियमनोविषयानश्नुते भुङ्क्ते ॥ ५० ॥ तदिति । तदेतत् महत् दुर्निवारं शक्तित्रयं सत्त्वादिगुणत्रय- कार्यं षोडशकलं दशेन्द्रियाणि एकं मनः पञ्चतन्मात्राणि चेत्येवं षोडश कला अंशा यस्मिंस्तत् लिङ्गं सूक्ष्मशरीरं धर्माधर्मानुष्ठान- द्वारा पुंसि जीवे अन्वनु भूयो भूयः सत्त्वोद्रेके हर्षः रजउद्रेके शोकः तमउद्रेके भयमित्येवं हर्षादिप्रदां संसृतिं देवमनुष्यादियोनिं धत्ते विधत्ते ॥ ५१ ॥ * * देहीति । अज्ञः न जितः पञ्च ज्ञानेन्द्रियाणि एकं मनश्व एवं षड्वर्गो येन स देही नेच्छन् कर्मानुष्ठानेारहितोऽप्यनेन सङ्घातेन बलात्कर्माणि कार्यते । अत एव तेन कारितेन कर्मणाऽऽत्मानमाच्छाद्य प्रतिरुद्वय मुह्यति । यथा कोशकारः कीटविशेषः खमुखनिः सारितैः तन्तुभिः कोशं निर्माय स्वपिति स्वनिर्गमाय द्वारमपि नावशेषयति । तदा तस्मिन् कोशे संनिरुद्धच मुह्यति म्रियते च तथा जीवोऽपि कर्मभ्यो निर्गमोपायं न जानाति तत्फलं च भुङ्क्ते ॥ ५२ ॥ ** नहीति । हि यस्मात् कश्चिदपि प्राणी क्षणमपि जातु कदाचित् अपि अकर्मकृत् कायिकवाचनिकमानसान्यतमव्यापाररहितो न तिष्ठति । अतो हि निश्चितमेतत् स्वाभाविकैः स्वतः सिद्धैः पूर्वकर्मसंस्कारवशाद्रागादिरूपेण परिणतैः गुणैः सत्त्वादिभिरेवाय- मवशोऽपि बलात्कर्म कार्यते ॥ ५३ ॥ * लब्ध्वेति । अव्यक्तमदृष्टं पुण्यपापात्मकं निमित्तं लब्ध्वा उत एव कचित् यथायोनि मातृसदृशं कचित् यथाबीजं पितृसदृशं कचिदुभयसदृशं च स्त्रीरूपं पुरुषरूपं वा तत्रापि व्यक्ताव्यक्तं स्थूलं सूक्ष्मं वा बलीयसा प्रबलेन स्वभावेन सत्त्वादिगुणकार्येण शान्तत्वघोरत्वादिना विशिष्टं शरीरं भवति ॥ ५४ ॥ वीरराघव व्याख्या कथंस्विद्धियते दण्ड इत्यस्योत्तरमाहुः - येन गुणत्रय संसृष्टेन जीवेन कर्त्रा यथा स्वस्वगुणोन्मेषानुसारेण धर्मोऽधर्मो वा यावान् देहसमीहितः देहेन बुद्धीन्द्रियमनः प्राणसङ्घातरूपेण देहेन करणेन समीहितः स कर्त्ता तावदेव तत्फलं स्वर्गनरका- दिरूपं धर्माधर्मफलममुत्र भुङ्क्ते न धार्मिको नरकं न वा अधार्मिकः स्वर्गं नाप्यल्पपापान्महद्दुःखं नाप्यल्पधर्मान्महत्सुखं “मुक्ते इत्यर्थः । धर्मो यथेति दृष्टान्तो वा तत्रायमर्थः - यथा धर्मो यावान् देहसमीहितः तावदेव तत्फलं सुखममुत्र स्वर्गे भुङ्क्ते एवमधर्मोऽपि यावांस्तावदेव तत्फलं दण्डरूपं भुङ्क्ते इति ।। ४५ ।। * * न केवलं परत्रैव कर्मानुसारेण तत्फलभोग अपि विहापि लोके प्राचीनकर्मानुसारेणैव फलभोग उपलब्धस्तद्वत्परलोकेऽप्यनुमीयत इत्याहुः - यथेति । हे देवप्रवराः ! इह लोके भूतेषु गुणवैचित्र्यात्सत्त्वादिगुणोन्मेषनिमित्तप्राचीनसात्त्विकादि कर्मवैचित्र्यात्त्रैविध्यं सुखित्वदुःखित्वमूढत्वरूपं त्रैविध्यम् उपलभ्यते गुणवैचित्र्यनिमित्तमिदं त्रैविध्यमिति सर्वजनीनं ज्ञायते तथान्यत्र परलोकेऽपि गुणवैचित्र्यात्त्रैविध्यमनुभूयत इत्यर्थः ॥ ४६ ॥ * * एवं भूतभविष्यद्वर्त्तमानकालत्रयगोचरेषु कारिषु कर्मानुसारेणैव फलभोगः कर्म च धर्माधर्ममिश्र - रूपं तच सत्त्वादिगुणोन्मेषनिमित्तमिति चोक्तम् । इदानीं धर्मादिरूपं कर्म सत्त्वादिगुणोन्मेषनिमित्तमिति कथं ज्ञायत इत्यपेक्षायां कार्येण कारणमनुमीयत इति सदृष्टान्तमाहुः - वर्त्तमान इति । यथा वर्तमानः कालः सुखदुःखाद्यनुभव सहचरितः कालः अनयोर्द्धर्माधर्मयोर्गुणाः निमित्तभूताः सत्त्वादयस्तेषां सुखदुःखमोहरूपैः कार्यैरभिज्ञापकः, यथा वर्तमानकालिका धर्मादिनिमित्ताः ‘सुखदुःखमोहा: स्वनिमित्तभूतानां धर्मादीनां सत्त्वादिगुणोन्मेषमूलत्वं ज्ञापयन्तीत्यर्थः । एवमेतद्वर्त्तमानकालिकं दुःखादित्रयं जन्मान्ययोरन्यजन्मनो: बहुलवचनाद्विशेषणस्य परनिपातः पूर्वापरजन्मनोः धर्माधर्मयोनिदर्शनं तयोः सत्त्वादिगुणोन्मेष- मूलत्वाभिज्ञापकमित्यर्थः । सत्त्वादयो हि धर्मादिरूपकर्मोपादानद्वारा तत्फलत्वेन सुखदुःखादीन् जनयन्ति । न साक्षादतः सुखादीनां सत्त्वादिकार्यत्वात्कार्यभूतैस्तैः स्वनिमित्तभूतधर्मादीनां सत्त्वादिमूलत्वमनुमीयते कार्येण कारणानुमानादिति भावः ॥ ४७ ॥ * * येन यावान् यथाधर्म इति कर्मेव स्वानुरूप सुखदुःखादिकारण- मित्युक्तं तस्य क्षणिकत्वात्कथं कालान्तरे सुखादिनिमित्तत्वमित्यत आहुः मनसैवेति । पुरे देहे देवःस्कं. ६ अ. १ श्लो. ४५-५४ ] अनेकव्याख्या समलङ्कृतम् ३९ स्वतेजसा दीप्यमानः न तु जीववत्कर्मणा सङ्कुचितज्ञान इत्यर्थः । जीवान्तरात्मतयावस्थितः परमात्मा मनसैव नित्यासङ्कुचिता- परिच्छिन्नधर्मभूत ज्ञानेनैव पूर्वरूपं प्राक्तनजन्मसम्बन्धि पुण्यपापादिरूपं विपश्यति पुण्यपापादिरूपदर्शनेन चिकीर्षितानुग्रह- निग्रहवान भवतीति भावः । तथाऽजो भगवान् मनसापूर्वमनु प्राचीनं कर्मानुसृत्यैव मीमांसते तत्फलदानादिप्रकारं चिन्तयति कर्मणः क्षणिकत्वेऽपि तन्निमित्तानुग्रहनिग्रहवान् परमात्मा तदनुसारेण सुखदुःखादिफलदो भवतीति भावः ॥ ४८ ॥ * * यदि कर्मनिमितनिग्रहानुग्रहस्तदनुरोधिफलदः परमात्मा तर्ह्ययं जीवः परमात्मानुग्रहापादकं शुभमेव कर्माचरन् सुखमेव किं नाश्नुत इत्यत्राहु: - यथेति । तमसा युक्तः अन्धकारेणाभिभूत अत एवाज्ञः यथा व्यक्तं शरीरमेवोपास्ते चिन्तयति न तु पूर्व पुरः स्थितमपरं पृष्ठतः स्थितं च वेद निद्रया युक्तं स्वप्नाऽभिव्यक्तं देहाद्युपास्ते न तु जामद्देहादि वेदेति वार्थः । तथा जीवोऽपि तमसाज्ञानेन युक्तः देहात्माभिमानस्वतन्त्रात्माभिमानयुक्त इत्यर्थः । अत एवाज्ञः कर्मणा संकुचितज्ञानः व्यक्तं वर्त्तमानं देह- मुपास्तेऽनुसन्धत्ते न तु पूर्व प्राक्तनमपरं भविष्यश्च शरीरं वेद । तत्र हेतुः नष्टा जन्मस्मृतिः पूर्वापरजन्म स्मृतिर्यस्य सः पूर्वा- परजन्मविषयकस्मृत्यभावात्केवलवर्त्तमानदेहात्माभिमानशीलत्वाच्च तत्परवशोऽज्ञो जीवः प्रकृतेः देहसुखोचितमेव कर्म करोति न तु परमात्मप्रसादापादकं शुभं कर्मेति भावः ।। ४९ ।। * एवं जीवानामविद्याकर्मवासनाभिस्तिरोहितस्वरूपाणां सत्त्वादिगुणत्रय संसृष्टानां स्वस्वगुणोन्मेषनिमित्तधर्माधर्ममिश्ररूपेण कर्मणा सुखदुःखमिश्ररूपफलानुभवाय देवतिर्यङ्मनुष्यरूपेण संसरतां धर्मादिनिमित्तेश्वरानुग्रहहेतुकः सुखाद्यनुभव उक्तः । अथैषां संसरणप्रकारं तद्धेतुं च प्रपञ्चयंस्तन्निस्तरणोपायमाहु:– पञ्चभिरित्यादिभिः सप्तभिः । पञ्चभिः कर्मेन्द्रियैः पाण्यादिभिः स्वार्थानुपादानगत्यादीन् पश्च कुरुते । अथ ननु पञ्चभिर्ज्ञानेन्द्रियैः श्रोत्रादिभिः पञ्च शब्दादीन्वेद केन करोति वेद च षोडशेन भूतपञ्चकदशेन्द्रियायापेक्षया षोडशं मनः तेन मनःसंयुक्तैः पञ्चभिः कुरुते पञ्चभिर्वेद चेत्यर्थः । कथंभूतः स्वयं जीव एक एव शरीरवदनेकद्रव्यसङ्घातरूपत्वाभावादेक इत्युक्तमिति जीवनानात्वमत्र निषिध्यत इति न भ्रमितव्यं सप्तदशः उक्तषोडशतत्त्वापेक्षया सप्तदश: त्रीन् सुखदुःखमोहान भुङ्क्तेऽनुभवतीत्यर्थः ॥ ५० ॥ तदेतत् षोडशकलं षोडशकला अवयवा यस्य तत् षोडशकलं षोडशतत्त्वात्मकं शक्तित्रयं शक्तीनां त्र्यं यस्मिन्निति व्यधिकरणपदो बहुव्रीहिः प्रकाशक्रियावरणशक्तिमत्सत्त्वादिगुणत्रयात्मकविद्याकर्म वासनारूपशक्तित्रयाश्रयं वा महत्कार्यदशायां स्थूलाकारं लिङ्ग सूक्ष्मशरीरं पुंसि जीवे हर्षशोकभयार्त्तिदा मनुसंसृतिं गर्भजन्माद्यवस्थां परिवृत्तिरूपां धत्ते आपादयति षोडशकलात्मकलिङ्ग सम्बन्ध- निमित्तो जीवस्य संसार इति भावः ।। ५१ ।। * * एवं लिङ्गे संसृतिं पुंस्यादधति सत्ययं देही अज्ञः देहात्माभिमानवानत एवाजितषङ्घर्गः अजितषडिन्द्रियकार्यः नेच्छन्निच्छन्नषि बलादित्यर्थः । कर्माणि धर्माधर्ममिश्ररूपाणि कार्यते शक्तित्रयात्मकेन लिङ्गेनेति शेषः । एवं कृतेन कर्मणा कोशकार इवात्मानं स्वस्वरूपमाच्छाद्य तिरोधाप्य मुह्यति देह एवाहमिति मोहं प्राप्नोति कोशकारः कीटविशेषः स यथा तन्तून करण्डरूपेण सृष्ट्रा स्वनिर्गमोपायं न जानाति तद्विदिति दृष्टान्तार्थः ॥ ५२ ॥ * नेच्छन् कर्माणि कार्यत इत्येतदेव प्रतिपादयति न हि कश्चिदिति । कश्विदेही जातु कदाचिदपि अकर्मकृत् कर्माकुर्वन्न तिष्ठति अन्ततस्तृणच्छेदादिकं वा कुर्वन्नेव तिष्ठतीति भावः । स्वाभाविकैरनादिसिद्धैर्गुणैः सत्त्वादिभिर्बलात्कर्माणि विषयादीनि कार्यते एवेत्यर्थः ।। ५३ ।। * एवमव्यक्तं संसरता जीवेनाव्यक्तमनभिज्ञातं निमित्तं संसृतिनिमित्तमवर्जनीयतया कृतं कर्म लब्ध्वा कर्मवासनाश्रयं सदित्यर्थः । लिङ्गमिति कर्तृपदमध्याहार्यं व्यक्ताव्यक्तं स्थूलसूक्ष्मरूपं भवति उत्पत्तिदशायां देहरूपेण स्थूलाकारं मरणदशायां सूक्ष्माकारं च भवतीत्यर्थः । यद्वाव्यक्तं मूलप्रकृतिरूपं प्रधानं कर्तृ तन्निमित्तं जन्ममरणनिमित्तं कर्म लब्ध्वा ऽवलम्ब्य व्यक्ताव्यक्तं भवति कदाचित षोडशकलात्मकत्वेनाव्यक्तं कदाचिद्देवादिदेहाकारेण व्यक्तं भवति । एकस्य प्रधानस्य स्थूलावस्था उत्पत्तिः तस्यैव पुनः सूक्ष्मावस्था मरणमिति हि जन्ममरणयाथात्म्यविद् आचक्षते । तथा चोक्तं भगवता - " अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत । अव्यक्तनिधनान्येव” इति । यद्वा – कर्मानुसारेणैव पिपीलिकादि- रूपाः सूक्ष्मा गजादिरूपाः स्थूलाश्च देहा भवन्तीत्यर्थः । तद्वचक्तमपि यथायोनि यथाबीजमेवेत्याहु: - यथायोनीति । यथायोनि पश्वादियोन्यनतिक्रमेण यथाबीजं कर्मानुसारेण । यद्वा-यथायोनि मातृसदृशं यथाबीजं पितृसदृशं च बलीयसा स्वभावेन सात्त्विकादिकर्म वासनारूपस्वभावेन भवतीत्यर्थः ॥ ५४ ॥ विजयध्वजतीर्थकृता पदरत्नावली * किमत इत्यतः फलितमाह येनेति । अमुत्र परलोके ॥ ४५ ॥ * * ननु " यावज्जीवं सुखं जीवेद्दणं कृत्वा
- ॥ घृतं पिबेत् । भस्मीभूतस्य देहस्य पुनरागमनं कुतः ॥” इति वचनात्स एवामुत्र स्वकृतं भुङ्क्ते इति न घटत इत्यत्राह - यथेति । स्वकृत फलदातारो दृश्यन्ते प्रमाणत इति शेषः । वाक्यप्रामाण्यानङ्गीकारेऽपि प्रत्यक्ष गृहीतव्याप्तिकानुमानात्सिद्धमित्याह- त्रैविध्यमिति । सत्त्वादिगुणानां वैचित्र्याद् भूतेषु उत्तमाधममध्यमत्वभेदेन त्रैविध्यमुपलभ्यते यथा प्रत्यक्षेणेति शेषः । अन्यत्र जन्मान्तरे परलोके वा ||४६ ॥ * अनुमानस्य प्रामाण्यं प्राहयितुम् एतदर्थं सदृष्टान्तमुपपादयन्तीत्याह- वर्तमान इति । वर्तमानः प्रतीयमानः वसन्तादिकालः अन्ययोः अतीतैष्यद्वसन्तयोः गुणानां फलपुष्पादिकार्याणामभिज्ञापको यथा एवमेतद्वर्तमान जन्म T ४० श्रीमद्भागवतम् 1 1 [ स्कं. ६ अ. १ श्लो. ४५-५४ धर्माधर्मज्ञापकमनयोरतीतानागतजन्मनोः यौ धर्माधर्मौ तौ नितरां दर्शयति ज्ञापयतीति धर्माधर्मनिदर्शनम् ॥ ४७ ॥ * इतोऽप्यनुमानं प्रमाणमिति ज्ञापयितुं जीवसमवेतधर्माधर्मसद्भावे हरेः प्रत्यक्षं प्रमाणयन्तीत्याह-मनसेति । पुरे जीवशरीरे स्थितो देवः श्रीनारायणः जीवस्य पूर्वरूपमपूर्वमनागतरूपं च तत्समवेतधर्माधर्मौ च स्वमनसैव विपश्यति । अपरोक्षीकृत्य वर्तते दर्शनस्य कापि बाधो नास्तीति लट्प्रयोगः अन्येषामदर्शनमेव किं नेत्याहुरित्याह– अनुमीमांसत इति । अजः परमेष्ठी भगवान् मनसानुमीमांसते तदनुग्रहेणालोच्य विचार्य पश्यतीत्यर्थः । सर्वजीवसाधारणाजशब्दप्रयोगादन्ये देवा अपि यथायोग्यं जानन्तीति ग्राह्यम् । किञ्च जीवात्मनोऽपि धर्माधर्मसमवेतपूर्वापररूपे वर्तमानसिद्धे इत्याहुरित्यतो वाह - मनसेति । सुरनरतिर्यगादिपुरे देवः क्रीडन् भगवान्भाग्यगुणोपेतः जीवः पूर्वानुभवसंस्कार संस्कृतेन मनसैव पूर्वरूपं धर्माधर्मसमवायात्मकं रूपं विपश्यति विजानाति अपूर्वमनागतं मनसानुमीमांसते विचार्यानुमिनोति “अजो ह्येको जुषमाणोऽनुशेते” इति श्रुतेः ॥ ४८ ॥ * पूर्वापररूपे जानाति चेत्तर्हि कथमन्यत्र मृतोऽन्यत्र जातोऽहमिति न जानातीत्याशङ्कय श्रीनारायणानुग्रहमन्तरेण तादृशज्ञानं न सुलभं सर्वेषामित्यभिप्रेत्याह-यथेति । अज्ञोऽविवेकी अव्यक्तं प्रकृतिनिमित्त देहमेवोपास्ते देहात्मनोरभेदं कल्पयति । व्यक्तमेव पुरः स्थितमेव जानाति न तु पूर्वापरे इति वा । तत्र कारणमाहुरित्याह — तमसेति । विपरीतप्रत्ययापादकतमोगुणयुक्तत्वादत एव पूर्वमपरं च न वेद यावज्जीवं सुखं जीवेदिति चार्वाकमतमज्ञप्रलपितमिति ज्ञायत इति भाव: ।। ४९ ।। * * देहीं चेत्कम करोत्येवेत्युक्त’ तत्र कर्मकरणप्रकारं दर्शयति — पञ्चभिरिति । पञ्चभिर्वागादिकर्मेन्द्रियैः स्वार्थान् स्वविषयानभिवदनशिल्पगति- विसर्गानन्दाख्यान् पञ्चभिः श्रोत्रादिज्ञानेन्द्रियैः पञ्च शब्दादीन सप्तदश स्वयमेक आत्मा षोडशेन षोडशभेदयुक्तेन लिङ्गशरीरेण श्रीन् सत्त्वादिगुणैस्त्रिधा विभक्तं सुखं दुःखं मिश्रं च भुङ्क्ते “सत्त्वं सुखे संजयति” इत्यादेः देहात्मनोर्भेदप्रकाशनाय सप्तदश इत्युक्तम् ॥ ५० ॥ * * तर्हि कस्मात्संसारोऽस्येति तत्राह - तदेतदिति । षोडश कलाः श्रोत्रादीन्द्रियाणि मनश्च पञ्च भूतानि यस्मिंस्तत्तथा शक्तीनां प्रकाशक्रियावरणलक्षणानां त्रयं यस्मिंस्तत्तथा सत्त्वादिगुणशक्तियुक्तमित्यर्थः । अत एव महापुरुषार्था- भिभवसमर्थं त्रिशक्तित्वाद्धर्षादिप्रदं लिङ्गं लिङ्गशरीरं पुंस्यनु स्वकर्मानुकूल्येन संसृति धत्त इत्यन्वयः । अधिकरणत्वमात्र- प्रदर्शनाय पुंसीति सप्तमी तस्मादभिमाननिमित्तमिदं सर्वमित्यर्थः ॥ ५१ ॥ ॐ आत्मनः संसारप्रकारं निरूपयति- -देहीति । अवशीकृतषडिन्द्रियवर्गोऽनिच्छन्नपि कर्माणि कार्यते गुणाधीन षडिन्द्रियैरिति शेषः । विष्टिगृहीतव बलात्कार्यमाण- श्चेत्स्वसंपद्विपदो वेत्ति किं नेत्याह–कोशकार इति । यथा कोशकारः कृमिः स्वकर्मणा निर्मितकोशेनात्मानमाच्छाद्य कोश एव वसन्मुह्यति कोशनाशानाशौ न जानाति तथा देह्यपि कर्मणात्मानमाच्छाद्य मुह्यतीत्यर्थः ॥ ५२ ॥ * मोहोऽस्यास्तीति कुतो ज्ञायत इत्याशङ्कच पुनः पुनः कर्मकरणादित्यभिसन्धिमन्तः स्वोक्तार्थे प्रमाणं दर्शयन्तीत्याह-न हीति ।। ५३ ।। * * जननमरणे अपि देहस्यैव आत्मनस्तदभिमानादुपचर्यते इत्याहुरित्याह । लब्ध्येति । संसारनिमित्तमव्यक्तं प्रकृतिकार्य शरीरं लब्ध्वा व्यक्ताव्यक्तमुत जन्मरणमपि भवति जीवस्योपचार इति शेषः “देहस्य सर्वथा नाशादनाशाच्च तनस्य च” इत्यादेः निमित्तं कारणमव्यक्तं प्रकृतिं लब्ध्वा प्राप्य व्यक्ताव्यक्तं जन्मरणात्मकं शरीरं भवति जीवस्येति शेष इति वा कथं यथायोनि पश्वादियोनिमनतिलध्य यथाबीजं कर्मराशिमनतिक्रम्य सत्त्वादिनिमित्तस्वभावेन ॥ ५४ ॥ जीवगोस्वामिकृतः क्रमसन्दर्भः अनुमीयते मत्यैरपीति शेषः ॥ ४६ ॥ * * वर्त्तमानः पूर्वसन्ध्यादिर्वसन्तादिर्वा स यथा पूर्वभागे स्वपूर्व- कालस्य रात्र्यादेः शिशिरादेर्वा गुणांशान् व्यञ्जयति । उत्तरभागे च स्वपरकालस्य दिवसादेर्निदाघादेव तथा वर्त्तमानजन्मापि स्वपूर्वजन्मादेरित्यर्थः || ४७|| भगवानज इति यमपक्षे तद्विभूतित्वाद्भक्त्या तदभेदनिर्देशः ।। ४८- ५३ ।। अदृष्टेन निमित्तेन ये योनिबीजे प्राप्येते तत्स्वभावानुसारेण देहो भवतीत्यर्थः ॥ ५४ ॥ विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी लब्ध्वेति कथं दण्ड इत्यस्योत्तरमाहुः - तावान् यत्प्रमाणकः यथा येन प्रकारेण अधर्मो धर्मो वा कृतः । तत्फलं दुःखं सुखं वा तावत्तत्तत्प्रमाणकं शास्त्रदृष्टयैवेति शेषः ।। ४५ ।। * * सत्त्वादिगुणसङ्गः प्रत्यक्षमेवोपलभ्यतामित्याहुः । इह लोके त्रैविध्यं पुण्यपापमिश्रकर्मत्वेन नृणां त्रैविध्यं यथा तथैवान्यत्र परलोकेऽन्यजन्मनि वा सुखित्वमिश्रत्वदुःखित्वेन त्रैविध्यम् अनुमीयते शास्त्रदृष्टथैवेति भावः ॥ ४६ ॥ * * वर्त्तमानजन्मनैव पूर्वापरजन्मधर्माधर्मज्ञानं भवतीति सदृष्टान्तमाहुः - वर्तमानो वसन्तादिकालः अन्ययोर्भूतभविष्यतोर्वसन्तयोर्ये गुणा: पुष्पफलादयस्तेषामभिज्ञापको यथा एवमेतज्जन्मैव अन्ययोर्भूतभाविनो- जन्मनोर्धर्माधर्मौ निदर्शयतीति तथा ॥ ४७ ॥ ४ अयन धर्माधर्मज्ञानप्रकारस्त्वन्येषां प्रायिकः धर्मराजस्तु मनसैव निश्चितमेव सर्वं पश्यतीत्याहुः । पुरे संयमिन्यां स्थित एव देवो यमः पूर्वरूपं पूर्वजन्मस्वरूपं धर्माधर्मादियुक्त’ पश्यति । अनु ; स्कं. ६ अ. १ श्लो. ४५-५४ ] अनेकव्याख्यासमलङ्कृतम् : अन्तरमपूर्व वर्तमानं भाविरूपं मीमांसते । यद्यस्यानुरूपं तद्विचारयति भगवान् सर्वज्ञः अजो ब्रह्मतुल्यः ॥ ४८ ॥ * जीवस्य तु पूर्वापरज्ञानाभावात् पापादौ प्रवृत्तिनं चित्रमित्याहुः । यथा तमसा युक्तः पश्वादिर्व्यक्तं वर्त्तमानदेहमेव उपास्ते यथेष्टा- erry: सुखयति तथैव नरोऽपि नष्टा जन्मनैव स्मृतिर्यस्येति पूर्वापरज्ञानाभावे हेतुः ॥ ४९ ॥ * * ततश्च पञ्चभिः कर्मेन्द्रियैर्यथेष्टं स्वार्थान् कुरुते पञ्चभिर्ज्ञानेन्द्रियैः पञ्च शब्दादिविषयभोगाननुभवति षोडशेन मनसा इन्द्रियेण तु त्रीन ज्ञानकर्मेन्द्रियमनोविषयान् अश्नुते प्राप्नोति स्वयं सप्तदशो जीवः ॥ ५० ॥ * सप्तदशस्य तस्य तदेतल्लिङ्गीशरीरं कर्तृ शक्तित्रयं गुणत्रयकार्य पुंसि जीवे अनुसंसृतिं धत्ते महत दुर्निवारम् ॥ ५१ ॥ अनेन लिङ्गेनैव कदाचित् कर्म कर्तुम- निच्छन्नपि बलात् कर्माणि कार्यते ततश्च कोशकारः कीट इव मुह्यति निर्गमोपायं न जानाति ।। ५२ ।। स्वाभाविकैः पूर्वसंस्कारोद्भूतैः ॥ ५३ ॥ * एवञ्च निमित्तमदृष्टं लब्ध्वा तत्कर्मानुसारेण व्यक्ताव्यक्तं स्थूलं सूक्ष्मच ।। ।। शरीरं भवति यथायोनि कचिन्मातृसदृशं यथाबीज कचित् पितृसदृशं कचिदुभयसदृशं स्वभावेन हिंस्रत्वसौम्यत्वेन युक्तम् ॥ ५४ ॥
- शुकदेवकृत: सिद्धान्त प्रदीपः
- कथंस्विद्धियते दण्ड इत्यस्योत्तरमाहु: - येनेति । यावान् स्वरूपतो यथा येन प्रकारेण शान्तघोरादिस्वभावेन इह लोके येन धर्मः कृतः स एव तावदेव यथा तेनैव प्रकारेण तत्फलं भुङ्क्ते येनाधर्मो वा यावान् यथा समीहितः स एव तावदेव तथैव तत्फलं भुङ्क्ते एवेत्यन्वयः ।। ४५ ।। * * यावानितिशब्देन तावदितिशब्देन च धर्माधर्मरूपस्य फलस्य च सुखदुःखरूपस्य स्वरूपतस्त्रैविध्यं सूचितं तत्स्फुटतयाहु: - यथेति । भूतेषु प्राणिषु गुणानां सत्त्वादीनां वैचित्र्यात्त्रैविध्यम् उत्तममध्यमाधमसाधन- कर्तृत्वमुपलभ्यते तथान्यत्र फलभोगकालेऽपि त्रैविध्यं त्रिविधफलभोक्तत्वमनुमीयते ॥ ४६ ॥ * धार्मिकम- धार्मिक वा वर्त्तमानं जन्म पूर्वापरयोरपि जन्मनोर्धर्ममधर्म च प्रायः ज्ञापयतीत्याहु: - वर्तमान इति । वर्तमान : वसन्तादिः कालः अनयोर्भूतभविष्यवसन्तादिकालयोः गुणाभिज्ञापकः पुष्पादिसमृद्धिसूचकों यथा एवमेतद्वर्तमानजन्म अन्ययोः पूर्वी- परयोः धर्माधर्मौ निदर्शयति ज्ञापयतीति धर्माधर्मनिदर्शनम् ॥ ४७ ॥ * * परमेश्वरस्तु सर्वेषां सर्वदा सर्व धर्मादिकं जानातीत्याहु: - पुरे तत्तत्प्राणिदेहे वर्त्तमानोऽजः तत्तत्पुरसम्बन्धिजन्मादिसंसर्गरहितः परमेश्वरः मनसैव स्वसङ्कल्पेनैव पूर्व- रूपं धर्मादिकं विपश्यति तथा अपूर्व धर्मादिकमनुमीमांसते स हि धर्मराजादिद्वारा धर्मादिफलं ददाति न तु तत्र विनङ्करो - तीति भावः ॥ ४८ ॥ * * जीवस्तु अनादिमायापरियुक्तरूपत्वात् स्वकृतं धर्मादिकं पूर्वमपरं च न जानाति प्राप्तमप्राप्तं धर्माधर्मफलं सेवते स्वकृतैः कर्मभिः स्वर्गनरकादौ भ्रमतीत्याहु: - यथाज्ञ इति षडूभिः । अज्ञ अनादितो मायया सङ्कुचितज्ञानः व्यक्तं वर्तमानमेव कर्मफलमुपास्ते निषेवते पूर्व भूतजन्मसम्बन्धि अपरं भविष्यजन्मसम्बन्धि न वेद यतो नष्टा जन्मनां स्मृति- र्यस्य सः यथा तमसा निद्रया युक्तो व्यक्तं स्वप्ने दृष्टमेव सेवते न तु पूर्व पूर्वरात्रिगतमपररात्रिगतं वेद तद्वत् ॥ ४९ ॥ * * पञ्चशब्देन पञ्चभूतमतो देहोऽत्र गृह्यते तमाश्रित्येति शेषः । पञ्चभिः कर्मेन्द्रियैः पाण्यादिभिः करणैः स्वार्थानादानादीन् कुरुते पञ्चभिः ज्ञानेन्द्रियैः श्रोत्रादिभिः करणैः स्वार्थान् शब्दादीन् वेद षोडशेन मनसा करणेन त्रीन् सुखं दुःखं मध्यमं च हर्षं शोकं भयं वाश्नुते भुङ्क्ते अचेतनानां देहादीनां भोक्तृत्वासम्भवात्स्वयमित्युक्तं सप्तदशः तेभ्यो भूतेन्द्रियमनोभ्यो विलक्षणः एकस्तेषां स्वामी जीवः ।। ५० ।।
- तदेतत् पूर्वोक्तं षोडशकला अवयवा यत्र तल्लीङ्गशरीरं शक्तित्रयं शक्तीनां सत्त्वादीनां गुणानां त्रयं त्रिगुणमयमित्यर्थः । तन्महद् दृढं पुंसि जीवे अन्वनु संसृतिं धत्ते योजयति जीवसंसृतौ निमित्तं भवतीत्यर्थः ॥ ५१ ॥ 11 अज्ञः अत एव अजितषङ्घर्गः नेच्छन्ननिच्छनपि कर्माणि कार्यते लिङ्गदेहेनेति शेषः । कर्मणा स्वकृतेन कोशकारः कीटविशेष इवात्मानमाच्छाद्य मुह्यति मुक्त्युपायहरिभजनं हित्वा संसृतिप्रापकाणि कर्माणि करोति ॥ ५२ ॥ ॐ एतदेवाहु:-न हीति ॥ ५३ ॥ * ॐ अव्यक्तं भगवच्छक्तिभूतां प्रकृतिं लब्ध्वानादितोऽवलम्ब्य स्वभावेन वासनामयेन यथायोनि यथाबीजं मातृपितृसदृशं व्यक्तं मनुष्यादिरूपमव्यक्तं च सूक्ष्मकीटादिरूपं शरीरं भवति तत्तच्छरीरतादात्म्यं प्राप्नोति न त्वात्मानं विजानाति एवमनादितो जीवः संसारे भ्रमतीत्यर्थः ॥ ५४ ॥
- गोस्वामिगिरिधरलाल विहिता बालप्रबोधिनी
- …W
- ‘कथं स्विद्भियते दण्डः’ इत्यस्योत्तरमाहुः - येनेति । येन यावान् यत्प्रमाणकः यथा येन प्रकारेण धर्मोऽधर्मो वा समी- हितः कृतः स एव नान्यस्तावत्प्रमाणकं तथा तत इवान्तरभेदभिन्नेन प्रकारेण तत्फलं सुखदुःखादिकममुत्र स्वर्गनरकादौ भुङ्क्ते । शास्त्रे प्रसिद्धमेवैतन्नात्र सन्देह इत्यभिप्रायेणाहुः - वा इति ।। ४५ ।। * * न केवलं धर्माधर्मयोः सुखदुःखयोर्वा शास्त्रमेव प्रमाणं किन्त्वर्थापत्त्यनुमानादिकमपीत्याहु: - यथेति । हे देवप्रवराः यथेह जन्मनि भूतेषु प्राणिषु त्रैविध्यं सुखित्वं दुःखित्वं तदु-
- ६
- ४२
- श्रीमद्भागवतम्
- [ स्कं ६ अ. १ श्लो. ४५-५४ भयमिश्रितत्वं चोपलभ्यते तेन च तदन्यथानुपपत्त्या तत्कारणं जन्मान्तरीयपुण्यपापादि कल्प्यते । तथाऽत्र गुणवैचित्र्यात् सत्त्वा- दिगुणवैचित्र्येण धर्माधर्मादिषु प्रवृत्तिदर्शनात् तेनान्यत्र जन्मान्तरेऽपि सुखदुःखादिकमनुमीयते । यद्यप्येतत् सर्वं भवतां विदित- मेव तथापि भवदाज्ञानुसारेण कथयाम इति सूचनार्थ सम्बोधनम् ॥ ४६ ॥ उक्तानुमानस्य प्रमाणीकर्तुं तत्र दृष्टान्त- माहुः - वर्त्तमान इति । यथा वर्त्तमानो वसन्तादिकालः स्वगुणैः पुष्पफलादिभिः अन्ययोर्भूतभाविनोर्वसन्तयोः गुणानां पुष्प- फलादीनामभिज्ञापकोऽनुमापक: एवमेतज्जन्मापि अन्ययोर्भूतभाविजन्मनोर्धर्माधर्मौ निदर्शयतीति तथा ॥ ४७ ॥ * * अयं च धर्माधर्मज्ञानप्रकारोऽन्येषां भगवांस्तु सर्वं साक्षादेव पश्यतीत्याहु: - मनसेति देवः सृष्टयादिक्रीडापरो भगवान् पुरे प्राण्यन्त दये स्थितो मनसैव तेषां पूर्वरूपं देवमनुष्यादिधर्माधर्मादियुक्तं पश्यति । जानाति । अनु अनन्तरमपि अयमीदृग्धर्मा धर्माभिमानी तपो भविष्यत्यपूर्व भाविरूपं च मनसैव मीमांसते विचारयति । यतोऽसौ भगवान् सर्वज्ञः अजः जन्मादि- विकारशून्यः ॥ ४८ ॥
- तर्हि मनुष्याद्युत्तमयोनिगतो जीवोऽपि तथा जानातु भगवदंशत्वेन चैतन्यत्वाविशेषादित्या- शङ्कयाहुः—यथेति । यथा तमसा युक्तो व्याप्तः पशुपक्ष्यादिर्व्यक्तं वर्त्तमानमेव देहमुपास्ते अहन्ममेति भावेन यथेष्टाहारादिना सेवते पूर्वमपरं भूतं भाविनं च न वेद तथा मनुष्यादिरपीति शेषेणान्वयः । कुतः ? हि यस्मात् नष्टा जन्मपरम्परा स्मृतिर्यस्य सः । तन्नाशे हेतुः - अज्ञ इति । अज्ञानमोहित इत्यर्थः । नष्टस्मृतिरित्यनेन भरतादियोगिजन व्यावृत्तिः कृता ।। ४९ ।। * * अतो ज्ञानमोहेन देहादावात्माध्यासात् संसरतीत्याहुः - पञ्चभिरिति पञ्चभिः । पञ्चभिर्वागादिभिः कर्मेन्द्रियैः स्वार्थान् स्वाभि- लषितान् अभिवदनशिल्पगतिविसर्गानन्दाख्यान् कुरुते । अथ तथा पञ्चभिः श्रोत्रादिभिर्ज्ञानेन्द्रियैः पञ्च शब्दस्पर्शरूपरसगन्धान् वेद जानाति । ननु तत्तदिन्द्रियाण्येव कुर्वन्ति जानन्ति च कुतस्तैस्तदतिरिक्तो जीवः करोति जानाति चेत्युच्यते इतीन्द्रियात्म- वादमाशङ्कयाहुः - एकस्त्विति । षोडशेन मनसा सह सप्तदशः षोडशोपाध्यन्तर्गतोऽपि स्वयमेक एव त्रीन् ज्ञानकर्मेन्द्रियमनो- विषयाननुते भुक्ते इत्यन्वयः । तथा च यथा श्रुतं तथा वदामि यथा कृतं तथा भोक्ष्ये यथा जानामि तथा करोमीति सामाना- धिकरण्यप्रतीतेः सुखदुःखान्यतर साक्षात्कारलक्षणस्य जडेष्विन्द्रियेष्वसम्भवतया चेतने जीवे पर्यवसानाच्च नेन्द्रियाणामात्मत्वम् अन्यथा कृतनाशाकृताभ्यागमदोषापत्तेरिति भावः ॥ ५० ॥ * * तदेतत् षोडशकलं दशेन्द्रियाणि एकं मनः पञ्च तन्मात्राणि चेत्येवं षोडशकलाः अंशा यम्मिस्तत् । लिङ्गं सूक्ष्मशरीरमेव धर्माधर्मानुष्ठानद्वारा पुंसि जीवेऽन्वनुसंसृति देव- मनुष्यादियोनिं धत्ते विधत्ते इत्यन्वयः । एवं चेत्तहि तन्निराकरणेन संसारनिवृत्तिः सुकरैवेति चेत् सत्यं, तथापि भगवदनुग्रह- मन्तरेण तदेव दुर्निवारं प्रत्युत जीवाभिभवे समर्थ चेत्याहु:- महदिति । तत्र हेतुमाहुः - शक्तित्रयमिति । भगवच्छत्तत्यात्मक सत्त्वादि- गुणत्रयकार्यमित्यर्थः । अतस्तदनुप्रहादेव तन्निवृत्तिर्नान्यथेति भावः । अत एव सत्त्वोद्रे के हर्षः रजउद्र के शोकः तमउद्र के भयमित्येवं हर्षादिप्रदां संसृतिं विधत्ते ॥ ५१ ॥ * अतः समर्थत्वादेव देही नेच्छन् चिदानन्दात्मकत्वात् स्वतो विषयाभिलाषा- भावेन कर्मानुष्ठानेच्छारहितोऽप्यनेन सङ्घातेन बलात् कर्माणि कार्यते । तद्वशवर्त्तित्वे हेतुमाहुः - अजितेति । न जितः पञ्च ज्ञानेन्द्रियाणि एकं मनश्च एवं षड्वर्गो येन सः । तत्र हेतुमाहुः - अज्ञ इति । तत्रात्माध्यासवानित्यर्थः । अत एव तेन कारितेन कर्मणाऽऽत्मा- निमाच्छाद्य प्रतिरुध्य मुह्यति तत्र दृष्टान्तमाहुः - कोशकारः इति । कोशकारः कीटविशेषः स यथा धर्मसन्तप्रतापनिवृत्त्यर्थं स्वमुख- निस्सारितैस्तन्तुभिः कोशं रचयति स्वनिर्गमाय द्वारमपि नावशेषयति तदा तस्मिन् कोशे सन्निरुद्धो मुह्यति म्रियते च, तथा जीवोऽपि कर्मभ्यो निर्गमोपायं न जानाति तत्फलं च भुङ्क्ते इत्यर्थः ॥ ५२ ॥ * * कार्यते इत्युक्तं तत्रानुभवं प्रमाण- यन्ति-नहीति । हि यस्मात् कश्चिदपि प्राणी क्षणमपि जातु कदाचिदपि अकर्मकृत् कायिकवाचिकमानसान्यतमव्यापाररहितो न तिष्ठति । अतो हि निश्चितमेतत् स्वाभाविकैः स्वतस्सिद्धैः पूर्व कर्म संस्कारवशाद्रागादिरूपेण परिणतैर्गुणैः सत्त्वादिभिरेव अयमवशोऽपि बलात् कर्म कार्यते इत्यन्वयः ॥ ५३ ॥
- कर्मवशेन चैतस्य तदनुरूपो देहो भवतीत्याहुः - लब्ध्वेति । अव्यक्तमदृष्टं पुण्यपापात्मकं निमित्तं लब्ध्वा उत एव यथायोनि मातृसदृशं यथाबीजं पितृसदृशं स्त्रीरूपं पुरुषरूपं वा तत्रापि व्यक्ताव्यक्तं स्थूलं सूक्ष्मं वा बलीयसा प्रबलेन स्वभावेन सत्त्वादिगुणकार्येण शान्तत्वघोरत्वादिना विशिष्टं शरीरं भवतीत्यन्वयः ॥ ५४ ॥
भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी 1 ‘कथंस्वित् ध्रियते दण्डः’ इत्यस्योत्तरमाहुः - येनेति । येन गुणत्रय संसृष्टेन जीवेन कर्त्रा यथा स्वस्वगुणोन्मेषानु- सारेण, धर्मः अधर्मः वा, यावान् यत्परिमाणः देहसमीहितः बुद्धीन्द्रियमनः प्राणसंघातरूपेण देहेन कारणेन कृत इत्यर्थः । स कर्त्ता, तथा तत्फलं तावत् एव, अमुत्र परलोके, भुङ्क्ते वै । न धार्मिकः नरकं गच्छति, न वा अधार्मिकः स्वर्गं गच्छति, नाप्यल्पपापान्महद्दुःखं प्राप्नोति, नाप्यल्पधर्मान्महत्सुखं मुङ्क्ते इत्यर्थः । यद्वा धर्मो यथेति दृष्टान्तः । तत्रायमर्थः - येन यावान् धर्मः, देहसमीहितः, तावदेव तत्फलं सुखं, अमुत्र यथा भुङ्क्ते, तथा येन, यावान् अधर्म, देहसमीहितः, सः तावदेव स्कं ६ अ. १ श्लो. ४५-५४ ] अनेकव्याख्यासमलङ्कृतम् तत्फलं दण्डम् अमुत्र यमालये, भुङ्क्ते वै ॥ ४५ ॥ * * न केवलं परत्रैव कर्मानुसारेण तत्फलभोगोऽस्त्यपि तु इहापि लोके प्राचीनकर्मानुसारेणैव फलभोग उपलभ्यते पारलौकिकस्याचाक्षुषत्वेऽप्यैहलौकिकदृष्टान्तेन परलोकेऽप्यनुमीयते इत्याहु: - यथेति । हे देवप्रवराः, इह लोके, यथा भूतेषु गुणवैचित्र्यात् सत्त्वादिगुणोद्रेकहेतुकपुरातन सात्त्विकादिकर्मवैचित्र्यानुसारादेव, त्रैविध्यं सुखित्वदुःखित्वमूढत्वरूपं त्रिविधत्वम् उपलभ्यते । तथा अन्यत्र परलोके, अनुमीयते । गुणवैचित्र्यनिमित्तकमिदं यत्र विध्यं तत्सार्वजनीनं यथेह लोके, विज्ञायते तथा परलोकेऽपि गुणवैचित्र्याच्च विध्यमनुमीयत इत्यर्थः ।। ४६ ।। * * एवंभूतभविष्यद्व समानाख्यकालत्रयविषयेषु कारिषु कर्मानुसारेणैव फलभोगः कर्मापि धर्माधर्ममिश्ररूपं तच्च सत्त्वादिगुणोन्मेषनिमित्तमिति तूकमिदानीं धर्मादिरूपं कर्म सत्त्वादिगुणोन्मेषनिमित्तमिति कथं ज्ञायते इत्यपेक्षायां वर्त्तमानजन्मना पूर्वापरजन्मसंबन्धि धर्माधर्मज्ञानं संभवतीति सदृष्टान्तमाहुः - वर्त्तमान इति । यथा वर्त्तमानः कालः वसन्तादिः, अन्ययोः भूतभविष्यतोः वसन्ता- दिकालयोः गुणाभिज्ञापकः पुष्पफलादीनां गुणानामभिज्ञापकः एवम् एतत् जन्म, अन्ययोर्भूतभाविजन्मनोः, धर्माधर्मौ निदर्श- यतीति धर्माधर्मनिदर्शनं भवति ।। ४७ ।। * * ’ येन यावान् यथा धर्मः’ इति कर्मैव स्वानुरूपसुखदुःखादिकारणमित्युक्तं परं तु कर्मणः क्षणिकत्वात्कथं कालान्तरे सुखादिकारणत्वमित्यत आहुः - मनसैवेति । पुरे देहे शरीरे इति यावत् । ‘यस्यात्मा शरीरम्’ इति श्रुत्या जीवात्मनः परमात्मशरीरत्वात् जीवे इत्यर्थः । देवः स्वतेजसा दीप्यमानः न तु देहस्थजीववत्कर्मणा संकुचि तज्ञानः जीवान्तरात्मतयावस्थितः परमात्मेत्यर्थः । मनसा एव, नित्यासंकुचिता परिच्छिन्नधर्मरूपज्ञानेनैवेत्यर्थः । पूर्वरूपं प्राक्तन- जन्मसंबन्धि पुण्यपापादिरूपं विपश्यति । पुण्यपापादिदर्शनेन चिकीर्षितानुग्रहनिग्रहवान् भवतीति भावः । अतः, अजः भगवान- न्तर्यामी स परमात्मा, मनसा, पूर्वम् अनु तत्प्राचीनं कर्मानुसृत्यैवेत्यर्थः । मीमांसते तत्फलदानादिप्रकारं चिन्तयति । कर्मणः क्षणिकत्वेऽपि, तन्निमित्तानुग्रहनिग्रहवान् परमात्मा तत्कर्मानुसारेण सुखदुःखादिफलप्रदो भवतीति भावः । अपूर्वमिति छेदे अनु अनन्तरम्, अपूर्वरूपं मीमांसते । यद्यस्यानुरूपं तद्विचारयतीत्यर्थः ॥ ४८ ॥ यदि कर्मनिमित्तनिग्रहानुग्रहस्त- दनुसारिफलदश्च परमात्मा तर्ह्ययं जीवः परमात्मानुग्रहापादकं शुभमेव कर्म समाचरन्सुखमेव किमिति नाश्नुते इत्यत्राह - यथेति । तमसा युक्तः, अन्धकारेणाभिभूत इत्यर्थः । अत एव अज्ञः यथा व्यक्तमेव शरीरमेव, उपास्ते चिन्तयति हि, पूर्वं पुरः स्थितम्, अपरं पृष्ठतः स्थितं न वेद । यद्वा तमसा तमःपर्यायनिद्रया, युक्त इति शेषः । अत एव अज्ञः, यथा व्यक्तं स्वप्नेऽभिव्यक्तं देहादिकमेव, उपास्ते चिन्तयति । पूर्वं जाग्रदेहादि, अपरं भाव्यस्वप्नादिदेहं वा न वेद । तथा जीवोऽपि, तमसा देहात्माभिमान- स्वतन्त्रात्माभिमानरूपाज्ञानेन युक्तः अत एव अज्ञः, कर्मणा संकुचितज्ञानः सन् व्यक्तं वर्त्तमानदेहम्, उस्तेऽनुसंधत्ते । न तु पूर्व प्रातनम्, अपरं भविष्यच्च शरीरं वेद । कुतः नष्टा जन्मस्मृतिः पूर्वापरजन्मानुस्मरणं यस्य सः, पूर्वापरजन्मविषयकस्मृत्य- भावात्केवलवत्तैमानदेहात्माभिमानशीलत्वाच्च तत्परवशोऽज्ञो जीवः, प्रकृतदेहसुखोचितमेव कर्म करोति, न तु परमात्मप्रसादा- पादकं शुभं कर्मेति भावः ॥ ४९ ॥ * * एवमनाद्यविद्यात्मक कर्मवासनाभिस्तिरोहितस्वस्वरूपाणां सत्त्वादिगुणत्रय- संसृष्टानां स्वस्वगुणोन्मेषनिमित्तकधर्माधर्ममिश्ररूपेण कर्मणा सुखदुःखमिश्ररूपफलानुभवाय देवतिर्यङ्मनुष्यरूपेण संसरतां जीवानां धर्मादिनिमित्तेश्वरानुप्रहहेतुकः सुखाद्यनुभव उक्तः । अथैषां संसरणप्रकारं तद्धेतुं च प्रपञ्चयन्तस्तन्निस्तरणोपायमाहुः- पञ्चभिरित्यादिपञ्चभिः । षोडशेन भूतपञ्चकदशेन्द्रियापेक्षया षोडशं मनस्तेन सहितैः पञ्चभिः पाण्यादिपञ्च कर्मेन्द्रियैः पञ्च पञ्चप्रकाशन, स्वार्थानुपादानगत्यादीन् कुरुते । अथ पञ्चभिः श्रोत्रादिपञ्चज्ञानेन्द्रियैः पञ्च पञ्चप्रकारान् शब्दादिविषयान्, । पोडदैतदिति । षोडश कला अवयवा यस्य तत्, षोडशतत्त्वात्मक- वेद अनुभवति । स्वयं सप्तदश: भूतादिषोडशापेक्षया स्वयं षोडशान्तः स्थितोऽपि स्वयं सप्तदशः एकस्तु एक एव, त्रीन् सुखदुःख- मोहान, अश्नुते भुक्तेऽनु भवतीत्यर्थः ॥ ५० ॥ भुक्तेऽनुभवतीत्यर्थः ॥ ॥ 8 * । 1 " ,
मित्यर्थः । शक्तीनां त्रयं यस्मिंस्तत्, प्रकाशशक्त्या क्रियाशक्त्या आवरणशक्त्या च सहितमित्यर्थः । अविद्याकर्मवासनारूपशक्ति- त्रयाश्रयं वा, महत्कार्यदशायां बह्नाकारं, तत् एतत् लिङ्गं सूक्ष्मशरीरं, पुंसि जीवे, हषैश्च शोकश्च भयं च आर्त्तिस्तज्जा व्यथा च ताः ददातीति तथाभूताम्, अनुसंसृतिं गर्भजन्माद्यवस्थापरिवृत्तिरूपां धत्ते आपादयति । षोडशकलात्मकलिङ्गशरीरसंबन्धनिमित्तों जीवस्य संसार इति भावः ॥ १५ ॥ देहीति । एवं लिङ्गे, पुंसि संसृतिमादधति सति देही देहात्माभिमानवान्, अज्ञोऽयं जीवः, अजितषङ्घर्गः, अजितषडिन्द्रियकार्य:, अत एव वस्तुत आनन्दात्मकत्वानेच्छन्नपि बलादित्यर्थः । कर्माणि धर्माधर्मरूपाणि कार्यते । शक्तित्रयात्मकेन लिङ्गेनेति शेषः । कर्मणा एवं कृतेन कर्मणेत्यर्थः । कोशकार इव, आत्मानं स्वस्वरूपम्, आच्छाद्य तिरोधाय मुह्यति, देह एवाहमिति मोहं प्राप्नोति । कोशकारः कीटविशेषः, स यथा तन्तून्करण्डरूपेण सृष्ट्वा स्वनिर्गमोपायं न जानाति तद्वदिति दृष्टान्तार्थः ।। ५२ ।। ‘नेच्छन् कर्माणि कार्यते’ इत्येतदेव प्रतिपादयति- न हि कश्चिदिति । कश्चित् यः कोऽपि देही, जातु कदाचिदपि, अकर्मकृत् कमकुर्वाणः, क्षण क्षणमात्रमपि न तिष्ठति हि । अन्तःकरणेऽनेकविधसंकल्पान तृणच्छेदादिकं वा कुर्वन्नेव तिष्ठतीति भावः । हि यतः, स अवशः परतन्त्रः, अतः स्वाभाविकैरना- दिसिद्धै: गुणैः सत्त्वादिभिः बलात् कर्म कर्माणि विषयोपभोगादीनि जात्यभिप्रायमेकवचनम् । कार्यते ॥ ५३ ॥ * * ॥ *
। |
---|
४४ |
श्रीमद्भागवतम् |
[ स्कं. ६ अ. १ श्लो. ५५-६४ कर्मवशतया तदनुरूपो देहो भवतीत्याह- लब्ध्वेति । अव्यक्तमदृष्टुं निमित्तं लब्ध्वा, व्यक्ताव्यक्तमदृष्टानुरूपं स्थूलं सूक्ष्मं च शरीरं उत्तापि भवति । सूक्ष्मस्य यावन्मोक्षं सत्त्वात्स्थलब्ध |
सूक्ष्मस्य यावन्मोक्षं सत्त्वात्स्थूललब्धो सूक्ष्मस्यापि लब्धवत्प्रतीयमानत्वेन स्थूललब्धिवत्तल्लब्धिरण्य- भिहिता । वस्तुतः सूक्ष्मस्य स्थूलवल्लब्ध्यभावः स्थूलवन्मुहु लब्ध्युक्तौ ‘स जीवो यत्पुनर्भव’ इत्यनेन विरोधः स्यात् । तच्च, यथायोनि मातृसदृशं यथाबीजं पितृसदृशं, बलीयसा बलवत्तरेण, स्वभावेन वासनया भवति । शुक्रशोणितयोरेकत्वेऽपि कर्मवासनया मातृसदृशो देहो भवतीत्यर्थः ॥ ५४ ॥ |
भाषानुवादः |
39 |
इस लोकमें जो मनुष्य जिस प्रकारका और जितना अधर्म या धर्म करता है, वह परलोकमें उसका उतना और वैसा ही फल भोगता है ॥ ४५ ॥ देवशिरोमणियों ! सत्त्व, रज और तम - इन तीन गुणोंके भेदके कारण इस लोकमें भी तीन प्रकारके प्राणी दीख पड़ते हैं—पुण्यात्मा, पापात्मा और पुण्यपाप दोनोंसे युक्त, अथवा सुखी, दुःखी और सुख दुःख दोनोंसे युक्त; वैसे ही परलोकमें भी उनकी त्रिविधताका अनुमान किया जाता है ।। ४६ ।। * वर्तमान समय ही भूत और भविष्यका अनुमान करा देता है । वैसे ही वर्तमान जन्मके पापपुण्य भी भूत और भविष्य जन्मोंके पाप-पुण्यका अनुमान करा देते हैं ।। ४७ ।। * * हमारे स्वामी अजन्मा भगवान् सर्वज्ञ यमराज सबके अन्तःकरणोंमें ही विराजमान । इसलिये वे अपने मन से ही सबके पूर्वरूपों को देख लेते हैं। साथ ही उनके भावी स्वरूपका भी विचार कर लेते हैं ।। ४८ ।। |
-
- जैसे सोया हुआ अज्ञानी पुरुष स्वप्नके समय प्रतीत हो रहे कल्पित शरीरको ही अपना वास्तविक शरीर समझता है, सोये हुए अथवा जागनेवाले शरीरको भूल जाता हैं, वैसे ही जीव भी अपने पूर्वजन्मोंकी याद भूल जाता है और वर्तमान शरीर के सिवा पहले और पिछले शरीरोंके सम्बन्धमें कुछ भी नहीं जानता ।। ४९ ।। ॐ सिद्धपुरुषों ! जीव इस शरीर में पाँच कर्मेन्द्रियोंसे लेना-देना, चलना-फिरना आदि काम करता है, पाँच ज्ञानेन्द्रियोंसे रूप, रस आदि पाँच विषयोंका अनुभव करता है और सोलहवें मनके साथ सत्रहवाँ वह स्वयं मिलकर अकेले ही मन, ज्ञानेन्द्रिय और कर्मेन्द्रिय — इन तीनोंके विषयोंको भोगता है ।। ५० ।। * * जीवका यह सोलह कला और सत्त्वादि तीन गुणोंवाला लिङ्गशरीर अनादि है । यही जीवको बार-बार हर्ष, शोक, भय और पीड़ा देनेवाले जन्म-मृत्यु के चक्कर में डालता है ।। ५१ ।।
-
- जो जीव अज्ञानवश काम, क्रोध, लोभ, मोह, मद, मत्सर- इन छः शत्रुओं पर विजय प्राप्त नहीं कर लेता, उसे इच्छा न रहते हुए भी विभिन्न वासनाओंके अनुसार अनेकों कर्म करने पड़ते हैं । वैसी स्थिति में वह रेशमके क्रीड़ेके समान अपनेको कर्मके जाल में जकड़ लेता है, और इस प्रकार अपने हाथों मोहका शिकार बन जाता है ।। ५२ ॥ * कोई शरीरधारी जीव बिना कर्म किये कभी एक क्षण भी नहीं रह सकता । प्रत्येक प्राणीके स्वाभाविक गुण बलपूर्वक विवश करके उससे कर्म कराते हैं ।। ५३ ।। * * जीव अपने पूर्वजन्मोंके पाप-पुण्यमय संस्कारोंके अनुसार स्थूल और सूक्ष्म शरीर प्राप्त करता है । उसकी स्वाभाविक एवं प्रबल वासनाएँ कभी उसे माताके जैसा ( स्त्री रूप ) बना देती हैं, तो कभी पिताके जैसा ( पुरुष - रूप ) ।। ५४ ।। 3 ५९ ॥ एष प्रकृतिसङ्गेन पुरुषस्य विपर्ययः । आसीत् स एव न चिरादीशसङ्गाद्विलीयते ।। ५५ ।। अयं हि श्रुतसम्पन्नः शीलवृत्तगुणालयः । धृतव्रतो मृदुर्दान्तः सत्यवान्मन्त्रविच्छुचिः ।। ५६ ।। गुर्वग्न्यतिथिवृद्धानां शुश्रूषुनिरहङ्कृतः । सर्वभूतसुहृत्साधुमितवागनस्वयकः ॥ ५७ ॥ एकदासौ वनं यातः पितृसन्देशकृद् द्विजः । आदाय तत आवृत्तः फलपुष्पसमित्कुशान् ॥ ५८ ॥ ददर्श कामिनं कश्चिच्छूद्रं सह भुजिष्यया । पीत्वा च मधु मैरेयं मदाघूर्णितनेत्रया ॥ मत्तया विश्लथन्नीव्या व्यपेतं निरपत्रपम् । क्रीडन्तमनु गायन्तं हसन्तमनयान्तिके ।। ६० ।। दृष्ट्वा तां कामलिप्तेन बाहुना परिरम्भिताम् । जगाम हृच्छयवशं सहसैव विमोहितः ।। ६१ ।। स्तम्भयन्नात्मनाऽऽत्मानं यावत्सच्वं यथाश्रुतम् । न शशाक समाधातुं मनो मदनवेपितम ॥ ६२ ॥ तन्निमित्तस्मरव्याजग्रहग्रस्तो विचेतनः । तामेव मनसा ध्यायन् स्वधर्माद्विरराम ह ॥ ६३ ॥ तामेव तोषयामास पित्र्येणार्थेन यावता । ग्राम्यैर्मनोरमैः कामैः प्रसीदेत यथा तथा ॥ ६४ ॥ । १. प्रा० पा० - च । २. प्रा० पा० - पुरनहङ्कृतः । ३. प्रा० पा० - साधु तबागन० । ४. प्रा० पा० - कुच्छुचिः । ५. प्रा० पा० - परिवर्तिताम् । ६. प्रा० पा० यथाश्रयम् । ७. प्रा० पा० यथा यथा । स्किं. ६ अ. १ श्लो. ५५-६४ ]- अनेकव्याख्यासमलङ्कृतम् ॥
४५ गुर्वग्न्यतिथि- अन्वयः - एषः पुरुषस्य विपर्यय: प्रकृतिसंगेन आसीत् सः एव ईशसंगात नचिरात् विलीयते ॥ ५५ ॥ हि अयं श्रुतसम्पन्नः शीलवृत्तगुणालयः धृतव्रतः मृदुः दान्तः सत्यवान् मन्त्रवित् शुचिः ॥ ५६ ॥ वृद्धानां शुश्रुषुः निरहंकृतः सर्वभूतसुहृत् मितवाकू अनसूयकः साधुः ॥ ५७ ॥ * एकदा असौ पितृसंदेशकृत् द्विजः वनं यातः ततः फलपुष्पसमित्कुशान् आदाय आवृत्तः ॥ ५८ ॥ मैरेयं मधु पीत्वा मदाघूर्णितनेत्रया च मत्तया विथनीव्या अनया भुजिष्यया सह हसन्तं क्रीडन्तम अनुगायन्तं कंचित् कामिनं व्यपेतं निरपत्रपं शूद्रम् अंतिके ददर्श ।। ५६-६० ।। * * कामलिप्तेन बाहुना परिरंभितां तां दृष्ट्वा सहसा एव विमोहितः हृच्छयवशं जगाम ॥ ६१ ॥ आत्मना आत्मानं यावत्सत्त्वं यथाश्रुतं स्तम्भयन् मदनवेपितं मनः समाधातुं न शशाक ।। ६२ ।। ह तन्निमित्तस्मर- व्याजग्रहग्रस्तः विचेतनः ताम् एव मनसा ध्यायन् स्वधर्मात् विरराम ।। ६३ ।। * * ताम् एव यावता पित्र्येण अर्थेन प्राम्यैः मनोरमैः कामैः यथा प्रसीदेत तथा तोषयामास || ६४ ॥ श्रीधरस्वामिविरचिता भावार्थदीपिका संसारचक्रमुपसंहरंतो मुक्तिप्रकारमाहुः - एष इति । ईशसंगात्परमेश्वरभजनात् ॥ ५५ ॥ * * तदेवं सामा- न्यतो धर्मादिनिर्णय मुक्त्वा प्रस्तुतस्याजामिलस्याधर्मे प्रपंचयंतो दंडयत्वमाहुः - अयं हीति यावदध्यायसमाप्ति । तत्र द्वाभ्यां तत्पूर्ववृत्तांतानुवादोऽन्यायातिरेक प्रदर्शनार्थः शीलं सुस्वभावो वृत्तं सदाचारो गुणाः क्षमादयस्तेषामालयोऽ- यम् ।। ५६ ।। * * निरहंकृतो निरहंकारः ।। ५७ ।। * * तत आवृत्तो वनात्परावृत्तः ॥ ५८ ॥ * * भुजिष्यया भोगस्त्रिया दास्या । मैरेयं मधु पैष्टीं सुरां पीत्वा मदेनाघूर्णिते भ्रांत नेत्रे यस्याः ।। ५९ ।। * * विशेषेण श्लथन्ती aat यस्यास्तया सह । व्यपेतं स्वाचारादु भ्रष्टम् ॥ ६० ॥ * कामेन कामोद्दीपकेन तद्गरागेण हरिद्रादिना लिप्तेन ॥ ६१ ॥ * * सत्त्वं धैर्ये श्रुतं ज्ञानं तद्बलेन स्तंभयन्नपि मदनेन कंपितं मनः समाधातुं नियमितुं शक्तो नाभूत् ॥ ६२ ॥ तद्दर्शनमेव निमित्तं यस्य सव्याजग्रहस्य तेन प्रस्तः । विचेतनो गतस्मृतिः ॥ ६३ ॥ * * यावता समग्रेण ॥ ६४ ॥ । वंशीधरकृतो भावार्थदीपिकाप्रकाशः । य एष जीवस्य विपर्ययः संसारः प्रकृतिसंगेन प्रकृत्यध्यासेनासीत्स एवेशभजनाद्विलीयते समूलं विच्छि- द्यते ।। ५५ ।। * * तत्र अध्याय समाप्तेरर्वाचीनभागेऽपि । अतिरेक आधिक्यम् ।। ५६ ।। निष्ठः ।। ५७-५६ ।। * * नीविर्वस्त्रग्रंथिः ॥ ६० ॥ * * सहसा झटित्येव ।। ६१ ।। साधुः स्वधर्म- ज्ञानं शास्त्रीयं “यस्यां योनौ पतेद्रेतः सा योनिस्तस्य जायते” इत्येवंलक्षणमतः कुयोनौ वीर्य न पातयेदिति विचारन्नपि मदनस्थातीव बलवत्त- रत्वात् । तदुक्तम्-“केचित्प्रचंड मृगराजवधेऽपि दक्षा मत्तेभकुंभदलने भुवि केऽपि शूराः । किन्तु ब्रवीमि बलिनां पुरतः प्रसह्य कंदर्प दर्पदलने विरला मनुष्याः ।। " इति भर्तृहरिणा । अत्र व्यास जैमिन्याख्यायिकाप्यनुसंधेया । तथाहि - कदाचिद्वयासेनोक्तं जैमिनये कामोऽतिबलीयानतो दुर्जय इति तदाकर्ण्य जैमिनिराह को वराक: कामोऽहं निजितकामोऽस्मीति इति श्रुत्वा कदाचिद्वद्यासदेव- स्तत्परीक्षार्थं स्वस्य स्त्रीरूपं कृत्वा तामसीरात्रौ किञ्चिन्मेघे वर्षेति जैमिन्याश्रमं गत्वोचे भो मुने सार्थच्युतातीव व्याकुला asara भीता त्वदाश्रमं प्राप्तास्मि रात्रिमुषित्वा प्रातः सूर्योदये स्वसार्थमन्विष्य तेन मेलिष्यामीत्या कार्ण्य स प्राह इतोऽन्यत्र गच्छ स्त्रियं नात्र वासयामीति सा चाहाहो एकाकिनी तमिस्रायां वने कुत्राहं गमिष्यामि शरणागतायाः परित्यागो हि शास्त्रनिषिद्धः सर्वज्ञस्त्वं जानास्येव ततो जैमिनिनोक्तं कुंचिकां गृहाण पार्श्वकोष्टांतर्गत्वांतयंत्रितकपाटा शेष्वासूर्योदयाद्यद्यहमपि कपाटोद्घा- नार्थे वदिष्यामि तदा नोद्घाटनीयं चाहमित्थमेव करिष्ये इति तया तथैव कृतम् । पुनश्च मनोभवप्रेरित जैमिनिना विमृष्टमहों निर्जने राचावेकाकिनी सुरूपा युवतिर्देवादेकाकिनः पार्श्वमुपागता किमर्थमनयाहं न रमे । किञ्चात्राक्रोशेऽपि क्रियमाणे कश्विन्नायास्यतीति संचित्य पणेशालातो बहिरागत्य तामाह सुभगे द्वारमुद्घाटयेति सा जाग्रत्येव किञ्चिन्नोचे तदा बहुशः प्रार्थितयापि यदा कपाटोद्घाटनं न कृतं तया तदा जैमिनिः कोष्ठोपरि गत्वा कोष्ठभेदं विधाय यदा कोष्ठांतः प्रविष्टस्तदा श्रीव्यासदेवं तत्र स्थितं दृष्ट्वातीव सापत्रपो भूत्वा ननाम उवाच च श्रीगुरो सत्यं कामो दुर्जयो ममापराधं क्षमस्वेति । ततो व्यासदेवो निजाश्रमं जगामेति बृहत्कथादौ स्पष्टम् ।। ६२ ।। * * स्वधर्माद्विप्रजातिविहितात् । विरराम तं तत्याजेति भावः ॥ ६३ ॥ कामैर्विषयैः । प्राम्यैः स्त्रीवशीकरणसाधनैः " ग्राम्यं स्त्रीकरणे क्लीबेऽश्लीलप्राकृतयोनिषु” इति मेदिनी । यथा सा प्रसीदेत् तथा पितृसंपादितधनेन तोषयामास तदधीनोऽकार्यमपि चकारेति भावः ॥ ६४ ॥ 1 ૪૬ श्रीमद्भागवतम् अन्वितार्थप्रकाशिका स्कं. ६ अ. १ श्लो. ५५-६४ एष इति । पुरुषस्य जीवस्य प्रकृतिसङ्गेन मायया स्वरूपावरणेन एष विपर्ययः देहेन्द्रियाद्यात्माध्यासेन स्वानन्दाद्यभि- भवपूर्वक दुःखित्वादिलक्षण आसीत् । स ईशसङ्गात् भगवद्भजनात् भगवद्भक्तादिसङ्गात् वा भगवत्कृपया मायानिवृत्त्या नचिरात् शीघ्रमेव विलीयते नान्यथा ।। ५५ ।। अयमिति । अयमजामिल: पूर्व श्रुतसम्पन्नः अधीतवेदः शीलं शुद्धभावः वृत्तं सदाचारः गुणाः क्षमादयः तेषाम् आलय: धृतव्रतः कृतजपपूजादिनियमः मृदुः कोमलचित्तः दान्तः जितेन्द्रियः सत्यवाकू मन्त्रवित शुचिः शुद्धदेहश्वासीत् ।। ५६ ।। गुर्विति । तथा गुर्बादीनां शुश्रूषुः सेवकः अग्निसेवा होम: अतिथिसेवा
-
- । भोजनादि सम्माननं गुरूणां वृद्धानां च सेवा तदाज्ञानुसारित्वं परिचर्यादिकं च निरहंकृतः एवं सर्वसाधनपरत्वेऽपि तत्राहं करोमीत्यहङ्काररहितः सर्वभूतसुहृत् कृपयैव सर्वप्राणिहितकारी साधुः परलोकसाधनतत्परः मितवागल्पभाषी वृथालापरहितः अनसूयकः परेषु दोषारोपोऽसूया तद्रहितः आसीत् ॥ ५७ ॥ * * एकदेति । एकदाऽसौ द्विजः पितृसन्देशकृत् तदाज्ञा- कारी तदाज्ञया फलाद्यानयनार्थं वनं यातः । ततो वनात्फलान्यादाय गृहीत्वा आवृत्तः परावृत्तः ॥ ५८ ॥ ददर्शेति युग्मम् । स च मार्गे मैरेयं मधु पैष्ठीं सुरां पीत्वा तन्मदेनाघूर्णिते भ्रान्ते नेत्रे यस्याः तथा अत एव मत्तया यथावदनुसन्धानरहितया अत एव विशेषेण ती नीवी यस्यास्तया भुजिष्यया साधारणभोगस्त्रिया दास्या सह क्रीडन्तं व्यपेतं स्वाचाराद् भ्रष्टं निरपत्रपं निर्लज्जम् अस्या अन्तिके समीपेऽनया सहानुगायन्तं हसन्तं च कंचित्कामिनं शूद्रं ददर्श ।। ५९-६० ॥ दृष्ट्वेति । कालिप्तेन कामोद्दीपकागुरुचन्दनादिना लिप्तेन शूद्रस्य बाहुना परिरम्भितामाश्लिष्टां तां दृष्ट्रा सहसैव प्रारब्धवशादयं विमोहित: सन् हृच्छयस्य कामस्य वशं जगाम ।। ६१ ।। * * स्तम्भयन्निति । यावत्सत्त्वं यावर्द्धर्यं यथाश्रुतं यावच्छास्त्रज्ञानं तावत्त- दुबलेनात्मानं मनः आत्मना स्वबुद्धया स्तम्भयन्नपि मदनेन कामेन वेपितं कल्पितं मनः समाधत्तुं न शशाक न शक्तोऽ- भूत् ।। ६२ ।। तदिति । तत्तस्या दर्शनमेव निमित्तं यस्य तस्य स्मरव्याजस्य वस्तुतस्तु प्रारब्धरूपस्य ग्रहस्य तेन प्रस्तोत एव विचेतनः कर्त्तव्याकर्त्तव्यानुसन्धानशून्यः केवलं तां स्त्रियमेव मनसा ध्यायन् स्वधर्माद्विरराम । तया रममाणः स्वधर्माद् भ्रष्ट बभूव । एतेन बुद्धिपूर्व कबहुपापाभ्यासाद्रक्षानर्होऽपि नामाभासमात्रेणापि निष्पापो वैकुण्ठं जगामेति धर्मज्ञान- भक्तीनामुत्तरोत्तरं प्राबल्यं दर्शितम् ।। ६३ ।। * * तदिति । यावता समग्रेण पित्र्येण पित्रार्जितेनार्थेन तामेव दासीं तोषयामास । यथा ग्राम्यैर्मनोरमैः कामैर्विषयैः सा प्रसीदेत । तार्षः । तथा अचेष्टतेति शेषः ॥ ६४ ॥ वीरराघवव्याख्या प्रपचितं संसरणप्रकारं तद्धेतुं चोपसंहरति- एष इति । पुरुषस्य जीवस्य प्रकृतिसङ्गेन यो विपर्ययः संसारः स एष एवंविधः । अथ संसरणनिस्तरणोपायमाहुः - असदिति । असदसमीचीनः स एवं विपर्यय एव । यद्वा-असदपुरुषार्थरूपः प्रकृतिकार्यरूपो वा परमार्थतो जीवेऽविद्यमानो वा विपर्ययस्य प्रकृतिसङ्गप्रयुक्तत्वस्यानुपदमेवोक्तत्वादीशसङ्गादीश्वरभक्तचा न चिरादाशु विलीयते बिलीनो भवति निवर्त्तत इत्यर्थः ।। ५५ ।। * एवं प्रश्नान् परिहृत्य प्रकृतस्याजामिलस्य दण्ड्य- त्वज्ञापनाय तद्वृत्तिं प्रपञ्चयन्ति - अयं त्वित्यादिना यावदध्यायम् । अयमजामिल: तावच्छ्रुतसंपन्नः वेदशास्त्राध्ययन सम्पन्नः शीलं सुखभावः वृत्तं सदाचारः गुणाः शान्त्यादयः एषामाश्रयः वृतं व्रतं स्त्रीसङ्गराहित्यात्मक ब्रह्मचर्य्यरूपं येन मृदुः कोमलहृदयः दान्तो जितबाह्येन्द्रियः सत्यवागृतवादी मन्त्रवित्सावित्र्यादिमन्त्रोपासकः शुचिः सदा पवित्रः ॥ ५६ ॥ गुर्वादीनां शुश्रूषुः सेवकः अनहङ्कृतः । उक्तगुणकृताहङ्काररहितः सर्वभूतानां सुहृत्प्रियकारी साधुः परकार्यसाधकः मितवा ग्यथोचितवक्ता अने- सूयकः गुणेषु दोषानाविष्कारकः ।। ५७ ॥ * * एवम्भूतोऽसौ द्विजः कदाचित्पितुर्निर्देशं पित्रा आदिष्टं प्रयोजनं करोतीति तथा वनं प्रति गतः ततो वनात्फलादीनादायावृत्तः ॥ ५८ ॥ पुनर्गच्छन तत्र बने भुजिष्यया दास्या सह वर्त्तमानं कञ्चित्कामिनं शूद्रं दृष्टवान् । कथम्भूतया दास्या मैरेयं मधु पैष्ठीं सुरां पीत्वा मदेन मैरेयमधुमदेनाघूर्णिते भ्रमन्ती नेत्रे यस्या- स्तया ।। ५९ ।। * * मत्तयात एव विश्लथनीव्या विश्वयंती स्रंसमाना नीवी धृतवस्त्रप्रन्थिर्यस्यास्तया कथम्भूतं शूद्रं व्यपेतं सत्पथादपेतं वाहीकमित्यर्थः । अत एव निरपत्रपं निर्लज्जमेवम्भूतमनयोक्तविधया भुजिष्यया सहान्तिके समीप एव क्रीडादिकं कुर्वन्तं शूद्रम् ॥ ६० ॥ कामेन गर्वितेन शूद्रेण कर्त्रा बाहुना भुजेन परिरम्भितामालिङ्गितां तां दासीं च दृष्ट्रा हृच्छयस्य मनसिजस्य वशं जगाम प्राप कथम्भूतः सहसा बलादैवेन स्वकीयदुरदृष्टेन विमोहितः ॥ ६१ ॥ * * यावत्सत्त्वं यावदुद्बलं यथाश्रुतं गुरुमुखाच्छुतं मनोनिग्रहप्रकारमनतिक्रम्यात्मना विवेकेनात्मानं मनः स्तम्भयनियमयन्नपि मदन- चेपितं मनः समाधातुं नियन्तुं न शशाक नाशक्नोत् ।। ६२ ।। सा दासी निमित्तं यस्य सः स्मर एवं व्याजग्रहः कपटपिशाच तेन प्रस्तः गृहीतः, अतएव विचेतनः विगतपूर्वस्मृतिः, तां दासीमेव मनसा चिन्तयन् स्वधर्मात्संध्योपासनादेर्विरराम स्कं. ६ अ. १ श्लो. ५५-६४ ] अनेकव्याख्यासमलङ्कृतम् ४७ धर्म तत्याज हेति खेदे अहो एवम्भूतस्येदृशी दशा प्राप्तेति ॥ ६३ ॥ * * * यावता कृत्स्नेन पित्र्येण पितृसम्बन्धिना अर्थेन वित्तेन तां दासीमेव तोषयामास तथा ग्राम्यैर्ग्रामेषु साधुभिरभिलषितैः कामैर्वखाभरणादिभिर्यथा प्रीयेत सा तथा तां तोष- यामास ।। ६४ ।। विजयध्वजतीर्थकृता पदरत्नावली एवं संसारप्रसङ्गमुक्त्वा निवृत्त्युपायमाहुरित्याह-एष इति । य एष पुरुषस्य विपर्ययः संसारः प्रकृतिसङ्गेनासीत् स एष ईश्वरसङ्गादीश्वरसेवालक्षणान्न चिरात्क्षिप्रं विलीयते समूलं विच्छिद्यते ॥ ५५ ॥ * * विद्वत्तादिगुणसम्पन्नत्वेन बुद्धिपूर्वकमेव पापकारित्वेन प्रायश्चित्तानधिकारित्वेन नाममात्रोच्चारणस्य प्रायश्चित्तत्वे सर्वेषामपि मुक्तिप्रसङ्गेन दण्डचजना - भावेन युष्मत्स्वाम्याज्ञाकारिणो यमस्याज्ञालङ्घनदोषप्रसक्त्याधिकारहानिलक्षणानर्थः स्यादित्यतो यमसकाशं गत्वायं तत्र दण्डेन शुद्धो भवत्वित्याहुरित्याह- अयं चेति । मन्त्रविद्वेदज्ञः ।। ५६-५७ ।। * * आवृत्तो निवृत्तः ॥ ५८ ॥ * * भुजिष्यया दास्या मैरेयाख्यं मधुविशेषम् ॥ ५६ ॥ * * विश्लथन्ती नीवी वस्त्रग्रन्थिर्यस्याः सा तथा ॥ ६० ॥ * * स्वेद कम्पादिलक्षणजनकेन कामेन लिप्तेन वशीकृतेन हृच्छयः कामः तस्य वशम् ॥ १ ॥ यावत्सत्त्वं यथाशक्ति यथाश्रुतं “शूद्रयां योनौ पतेद्रेतः” इत्यादिशास्त्रश्रवणमनुसृत्य मदनवेपितं कामबीजावपनस्य क्षेत्रीभूतं वा ॥ ६२ ॥ * * स्मर इति व्याजग्रहेण ग्रस्तः विचेतनः शास्त्रविरुद्वज्ञानः ॥ ६३ ॥ * * ग्राम्यैः कामभोगसाधनैः काम्यन्त इति कामाः विषयास्तैः ॥ ६४ ॥ जीवगोस्वामिकृतः क्रमसन्दर्भ : एष इति । भयं द्वितीयाभिनिवेशतः स्यादितिवत् ।। ५५ ।। * * अत्र प्रकरणे तादृशस्वधर्मनिष्ठयापि पातान्न रक्षितोऽभूत् किन्तु भक्त्याभासेनैव स रक्षित इति यमदूतवाक्यद्वारा श्रीशुकदेवस्याभिप्रायः ।। ५६-६८ ।। इति श्रीमद्भागवत महापुराणे चतुर्थस्कन्धे श्रीमज्जीवगोस्वामिकृते क्रमसन्दर्भे प्रथमोऽध्यायः ॥ १ ॥ विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी एष इति । प्रकृतिपुरुषयोः सङ्गाभ्यामेव बन्धमोक्षौ भवत इत्यर्थः ।। ५५ ।। * * तदेवं धर्माधर्मादिस्वरूपमुक्त्वा प्रस्तुतस्याजामिलस्य दण्ड्यत्वज्ञापनायाधर्मं प्रपञ्चयन्ति - अयं हीत्यादिना । तत्राप्यतिशयानौचित्यं ज्ञापयितुं द्वाभ्यां धार्मिकत्व - माहुः - शीलं सुखभावः वृत्तं सदाचारः गुणाः क्षमादयः ।। ५६-५८ ॥ * * भुजिष्यया दास्या सम्भुज्यमानया मैरेयं पैष्टं मधु मद्यं व्यपेतं लोकभयरहितमनया सह ।। ५९-६० ।। * कामलिप्तेन कामोद्दीककहारिद्ररसलिप्तेन ।। ६१ ।। आत्मानं मनः सत्त्वं धैर्य श्रुतं ज्ञानम् ॥ ६२ ॥ * * विरराम हेति । तादृशस्वधर्मनिष्ठया ज्ञानेन च स तथा पतना- दक्षितुं शक्यो नाभूत्, किन्तु नान्न आभासेनापि तादृशाध: पातादपि रक्षित्वा वैकुण्ठं प्रस्थापयामास इति प्रकरणार्थेन धर्मज्ञानभक्तीनां प्रातिस्विकं बलं दशितम् ॥ ६३ ॥ * * यावता अर्थेन स्थितं तावतैव इति शेषः । सा यथा प्रसीदेत तथा अचेष्टतेति शेषः ॥ ६४ शुकदेवकृतः सिद्धांत प्रदीपः
- मुक्त्युपायमाहुः - एष उक्तप्रकारः पुरुषस्य जीवस्य विपर्ययः जन्ममरणलक्षणः संसारः ईशे भगवति यः सङ्गः आसक्ति- भक्तिः तस्माद्विलीयते निवर्त्तते ।। ५५ ।। * प्रस्तुतमाहुः – अयमित्यादिना । श्रुतसम्पन्नः गुरुमुखाच्छ्रुतेन शास्त्रेण संयुक्तः शीलं सुस्वभावः वृत्तं सदाचारः गुणाः क्षमादयस्तदालयः ।। ५६ ।। * एवं बहुगुणाढ्योऽपि निरहङ्कृतः गताहङ्कारः ॥ ५७ ॥ ततो वनादावृत्तः परावृत्तः ॥ ५८ ॥ मैरेयं पैष्टं मधु मद्यं पीत्वा भुजिष्यया दास्या सह क्रीडन्तमनुगायन्तं हसन्तं बिच्छूद्रमन्तिके निकटे ददर्शेति द्वयोरन्वयः । मदेनाघूर्णिते नेत्रे यस्यास्तया ।। ५९ ।। * विशेषतः लथन्ती नीवी यस्यास्तया अनया नयरहितया धर्ममर्यादारहितया कथम्भूतं व्यपेतं धर्ममर्यादा तो भ्रष्टम् ॥ ६० ॥
- *
- कामलिप्तेन मदना- विष्टेन शूद्रेण कर्त्रा बाहुना करणेन परिरम्भितां दृष्ट्वा सहसैव विमोहितो हृच्छयवशं जगाम मदनाविष्टोऽभूत् ।। ६१ ।। *** आत्मना चित्तेन आत्मानं मनः यावत्सत्त्वं धैर्य्यं यथाश्रुतं यथोपदेशं स्तम्भयन्नपि मदनेन वेपितं कम्पितं मनः समाधातुं
- ४८०
- श्रीमद्भागवतम्
- [ स्कं. ६ अ. १ श्लो. ५५-६४ न शशाक ।। ६२ ।। * * तद्दर्शननिमित्तेन स्मरत्र्याजेन मदनमिषेणाप्रहेण प्रतचेतनो नटस्मृतिः स्वधर्माद्विरराम विमुखोऽभूत् ॥ ६३ ॥ * * पित्र्येण पितृसम्बन्धिना अर्थेन वित्तेन ग्राम्यैः कामुकजनप्रियैः कामैर्वखालङ्कारादिभिर्यथा सा प्रसीदेत तथा तामेव तोषयामास ।। ६४ ।।
- गोस्वामिगिरिधरलालविहिता बालप्रबोधिनी
- एवं जीवानां निरूपितं संसारप्रकारं उपसंहरन्तस्ततो विमुक्तिप्रकारमप्याहुः - एष इति । पुरुषस्य सच्चिदानन्दात्मक- भगवदंशस्यापि जीवस्य प्रकृतिसङ्गेन भगवच्छक्तिमायया स्वरूपावरणेन एष विपर्ययः देहेन्द्रियाद्यात्माध्यासेन स्वानन्दाद्यभिभव- पूर्वकदुःखित्वादिलक्षणम् आसीत्, स ईशसङ्गात् शरणागमनेनात्यासक्त्या भगवद्भजनादेव तत्कृपातोऽनर्थ कारणमायानिवृत्त्या न चिरात् शीघ्रमेव विलीयते, नान्यथेत्यन्वयः ॥ ५५ ॥ एवं व्यवस्थायां सत्यामपि अस्य प्रस्तुतस्याजामिलस्य कोsपराधो येनासौ दण्डार्थ नीयते इत्यपेक्षायां पूर्व त्वयं निरपराध एवेत्याहु: - अयं हीति । हीति निश्चये । श्रुतसम्पन्नः अधीत- वेदः । शीलं शुद्धभावः, वृत्तं सदाचारः, गुणाः क्षमादय:, तेषामालयः खनिः । धृतव्रतः कृतजपपूजादिनियमः । मृदुः कोमल- चित्तः । दान्तः जितेन्द्रियः । सत्यवाकू । मन्त्रवित् । शुचिः शुद्धदेहः ॥ ५६ ॥ * * गुर्वादीनां शुश्रूषुः सेवकः, अग्निसेवा होम:, अतिथिसेवा भोजनादिना सन्माननं, गुरूणां वृद्धानां च सेवा तदाज्ञानुसारित्वं परिचर्यादिकं च । निरहङ्कृतः एवं सर्व साधनपरत्वेऽपि तत्राहं करोमीत्यहङ्काररहितः । सर्वभूतसुहृत् कृपयैव सर्वप्राणिहितकारी । साधुः परलोकसाधनतत्परः । मितवाकू अल्पभाषी वृथालापरहितः । अनसूयकः परेषु दोषारोपोऽसूया तद्रहितः ॥ ५७ ॥ * * एवम्भूतस्यापि प्रारब्ध- वशात् महानपराधो जात इत्याहु: - एकदेत्यादिना यावदध्यायसमाप्ति । पितृसंदेशकृत् तदाज्ञाकारी तदाज्ञया फलाद्यानयनार्थ वनं यातः । ततो वनात् फलादीनादाय गृहीत्वा आवृत्तः परावृत्तः ॥ ५८ ॥ * मार्गे कचित् कामिनं भुजिष्यया साधारणया भोगस्त्रिया दास्या सह क्रीडन्तं शूद्रं ददर्शेति द्वयोरन्वयः । तस्या मोहकत्वं सूचयन्त तद्विशेषणान्याहु:– पीत्वेति । मैरेयं मधुपैष्टीं सुरां पीत्वा तन्मदेनाघूर्णिते भ्रान्ते नेत्रे यस्यास्तया ॥ ५६ ॥ ** अत एव मत्तया यथावदनुसंधानरहितया । अत एव विशेषेण थन्ती नीवी यस्या तया । शूद्रस्य मोहं दर्शयन्तस्तं वर्णयन्ति-व्यपेतं स्वाचाराद्भष्टम् निरपत्रपं निर्लज्जम्, अस्या अन्तिके समीपेऽनया सह अनुगायन्तं हसन्तं च ।। ६० ।। * * एवं शूद्रस्य मोहं प्रदर्श्याजामिलस्यापि तद्दर्शनान्मोहो जात इत्याहु: - दृष्टेति । कामलिप्तेन कामोद्दीपकागरुचन्दनादिना लिप्तेन शूद्रस्य बाहुना परिरम्भितामाश्लिष्टां तां दृष्ट्वा सहसैव प्रारब्ध- बशादयं विमोहितः सन् हृच्छयस्य कामस्य वशं जगामेत्यन्वयः ॥ ६१ ॥ * यावत्सत्त्वं यावद्धैर्य यथाश्रुतं यावच्छास्त्र- ज्ञानं तावत्तदुबलेन आत्मानं मनः आत्मना स्वबुद्धया स्तम्भयन्नपि मदनेन कामेन वेपितं कम्पितं मनः समाधातुं न शशाक न शक्तोऽभूदित्यन्वयः || ६२ ॥ * * तत् तस्या दर्शनमेव निमित्तं यस्य स्मरव्याजस्य वस्तुतस्तु प्रारब्धरूपस्य ग्रहस्य तेन प्रतोऽतएव विचेतनः कर्त्तव्याकर्त्तव्यानुसन्धानशून्यः केवलं तां स्त्रियमेव मनसा ध्यायन् स्वधर्माद्विरराम स्वपितृधनदानभोग- सम्पादनादिवचन सङ्केतेन तां प्रलोभ्य स्वगृहमानीय तदनुकूलतया तया सः रममाणः पूर्वोक्ताध्ययनादिलक्षणात् स्वधर्माद् भ्रष्टो जात इत्यर्थः । एवं साधनसम्पन्नस्यापि भगवदनुग्रहं विना नरकपातकारणपापाचरणे प्रवृत्तिर्जातेत्याश्चर्य सूचयन्ति - हेति ॥ ६३ ॥ * * तदानुकूल्यमेव दर्शयन्ति - तामेवेति । एवकारेण गुर्वतिथिवृद्धानां तोषणं वारयन्ति । यावतार्थेन धनेन स्थितं तावता समग्रेण तामेव तोषयामासेत्यन्वयः । यथा ग्राम्यैर्मनोरमैः कामैर्विषयैः सा प्रसीदेत तथा अचेष्टतेति शेषेणान्वयः ॥ ६४ ॥
- 1
- भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी
- प्रपश्वितं जीवस्य संसारप्रकारं तद्धेतुं चोपसंहरन्तो मुक्तिप्रकारमाहुः । एष इति । पुरुषस्य जीवस्य प्रकृतिसङ्गेन, योऽयं विपर्ययः आसीत्, स एषः संसार इत्यर्थः । योऽस्यायं विपर्यय इति शेषः । सः एव ईशसङ्गात् परमेश्वरभजनात् न चिरात् शीघ्रमेव, विलीयते विलीनो भवति निवर्त्तत इति यावत् स मोक्ष इति शेषः ॥ ५५ ॥
-
- तदेवं प्रश्नपरिहारान्तर्गतं सामान्यतो धर्मादिनिर्णयमुक्त्वा प्रस्तुतस्याजामिलस्याधर्मं प्रपञ्चयन्तो दण्ड्यत्वमाहुर्यावदध्यायसमाप्ति - अयं हीति । तत्रास्य प्रथमं धार्मिकत्वं प्रपञ्चयन्ति द्वाभ्याम् । अयं हि अयमजामिल तावत् श्रुतसंपन्नः वेदशास्त्राध्ययन संपन्नः, शीलं सुस्वभावश्च वृत्तं सदाचारच गुणाः शान्त्यादयश्च तेषामालय आश्रयः धृतं व्रतं परस्त्रीसङ्गराहित्यात्मक ब्रह्मचर्यरूपं येन सः । मृदुः कोमलहृदयः, दान्तो जीतबाह्येन्द्रियः; सत्यवाक, ऋतवादी, मन्त्रवित्सावित्र्यादिमन्त्राणां यथार्थ ज्ञानवान्, शुचिः सर्वकालं शुचिताभाकू ।। ५६ ।। * गुर्विति । गुरुश्च अग्निश्च अतिथिश्च वृद्धाश्च तेषां शुश्रूषुः सेवकः, निरहंकृतोऽ- नहंकृतः, स्वनिष्ठोक्तगुणकृताहंकारवर्जित इत्यर्थः । सर्वेषां भूतानां सुहृत्प्रियकारी, साधुः परकार्यसाधकः, मितवाम्यथोचितवक्ता, अनसूयकः परगुणेषु दोषानाविष्कारवान् ॥ ५७ ॥ एकदेति । असौ द्विजः एवंभूतोऽसावजामिलनामा ब्राह्मणः,
| ।स्कं. ६ अ. १ लो. ५५-६८ ] अनेकव्याख्यासम लेकृत म् ॥ एकदा कदाचित, पितृसंदेशकृत् पित्रादिष्टप्रयोजन संपादकः सन् वनं यातः । ततः वनात् फलानि च पुष्पाणि च समिधश्च कुशाश्च तान, आदाय, आवृत्तः वनात्परावृत्तः ॥ ५८ ॥ * * ददर्शेति ॥ तत्र बने मैरेयं मधु, पैष्टीं सुरामित्यर्थः । पीत्वा, मदेन आघूर्णिते भ्रान्ते नेत्रे यस्यास्तया, भुजिष्यया दास्या, सह वर्त्तमानमिति शेषः । कंचित् कामिनं, शूद्र ददर्श दृष्टवान् चोऽवधारणे ।। ५९ ।। 8 8 मत्तयेति । मत्तया सुरापानतो मत्ततां प्राप्तया, अत एव विशेषेण श्लथन्ती नीवी यस्यास्तया सह, व्यपेतं स्वाचारात् भ्रष्टमित्यर्थः । निरपत्रपं निर्लज्जं, अनया दास्या सह अन्तिके समीपे एव क्रीडन्तम् अनु तामनु, गायन्तं, हसन्तं च शूद्रं ददर्शेति संबन्धः ॥ ६० ॥ दृष्वेति ॥ कामलिप्तेन कामोद्दीपकाङ्गरागलिप्तेन बाहुना, परिरम्भितामालिङ्गितां तां भुजिष्यां दृष्ट्वा, सहसैव विमोहितः सन्, हृच्छयवशं मनसिजवशत्वं जगाम । पाठान्तरे सोऽजा- मिल:, ह स्फुटं यथा तथा, दैवेन विमोहितः सन्, हृच्छयवशं जगाम ॥। ६१ ।। विमोहितः सन्, हृच्छयवशं जगाम ।। ६१ ।। * * स्तम्भयन्निति । सः यावत्सत्त्वं यथाबलं, यथाश्रुतं गुरुमुखश्रुतमनोनिग्रहप्रकारमनतिक्रम्येत्यर्थः । आत्मना विवेकेन, आत्मानं मनः, स्तम्भयन्नियमयन् अपि, मदनवेपितं मनः समाधातुं नियन्तुं न शशाक ॥ ६२ ॥ तदिति । सा दासी निमित्तं यस्य स चासौ स्मरः कामः स एव व्याजग्रहः कपटपिशाच ेन ग्रस्तः गृहीतः, अत एव, विचेतनः विगतपूर्वस्मृतिः, तां दासीम् एव, मनसा ध्यायंश्चिन्तयन्सन्, स्वधर्मात्संध्योपासनादेः, विरराम | स्वधर्मं तत्याजेत्यर्थः । हेति खेदे ॥ ६३ ॥ * * तामिति ॥ यावता समग्रेण, पित्र्येण पितृसंबन्धिना, अर्थेन वित्तेन, तां दासीम् एव, ग्राम्यैप्रमेषु साधुभिः, मनोरमैः मनस आनन्दकारिभिः, कामैस्तदभिलषितवस्त्रा- भरणादिभिः, यथा स प्रसीदेत, तथा तोषयामास ॥ ६४ ॥ ।। भाषानुवादः वह प्रकृतिका संसर्ग होनेसे ही पुरुष अपनेको अपने वास्तविक स्वरूपके विपरीत लिङ्गशरीर मान बैठा है। यह विपर्यय भगवान के भजनसे शीघ्र ही दूर हो जाता है ॥ ५५ ॥ * * देवताओं ! आप जानते हैं कि यह अजामिल बड़ा शास्त्रज्ञ ।। ।। था । शील, सदाचार और सद्गुणोंका तो यह खजाना ही था । ब्रह्मचारी, विनयी, जितेन्द्रिय, सत्यनिष्ठ, मन्त्रवेत्ता और पवित्र भी था ॥ ५६ ॥ * * इसने गुरु, अग्नि, अतिथि और वृद्ध पुरुषोंकी सेवा की थी । अहङ्कार तो इसमें था ही नहीं । यह समस्त प्राणियों का हित चाहता, उपकार करता, आवश्यकता के अनुसार ही बोलता और किसीके गुणों में दोष नहीं ढूँढ़ता था ॥ ५७ ॥ * * एक दिन यह ब्राह्मण अपने पिताके आदेशानुसार वनमें गया और वहाँसे फल-फूल, समिधा तथा कुश लेकर घर के लिये लौटा ॥ ५८ ॥ * * लौटते समय इसने देखा कि एक भ्रष्ट शूद्र, जो बहुत कामी और निर्लज्ज है, शराब पीकर किसी वेश्याके साथ विहार कर रहा है। वेश्या भी शराब पीकर मतवाली हो रही है। नशेके कारण उसकी आँखें नाच रही हैं, वह अर्द्धनग्न अवस्था में हो रही है। शूद्र उस वेश्याके साथ कभी गाता, कभी हँसता और कभी तरह- तरह की चेष्टाएँ करके उसे प्रसन्न करता है ।। ५९-६० ।। * * निष्पाप पुरुषों ! शुद्रकी भुजाओंमें अङ्गरागादि कामो- दीपक वस्तुएँ लगी हुई थीं और वह उनसे उस कुलटाका आलिङ्गन कर रहा था । अजामिल उन्हें इस अवस्थामें देखकर सहसा मोहित और कामके वश हो गया ।। ६१ ।। * * यद्यपि अजामिलने अपने धैर्य और ज्ञानके अनुसार अपने काम-वेग से विचलित मनको रोकनेकी बहुत-बहुत चेष्टाएँ कीं, परन्तु पूरी शक्ति लगा देनेपर भी वह अपने मनको रोकने में असमर्थ रहा ।। ६२ ।। * * उस वेश्याको निमित्त बनाकर काम-पिशाचने अजामिलके मनको ग्रस लिया । इसकी सदाचार और शास्त्रसम्बन्धी चेतना नष्ट हो गयी । अब यह मन-ही-मन उसी वेश्याका चिन्तन करने लगा और अपने धर्मसे विमुख हो गया ॥ ६३ ॥ अजामिल सुन्दर-सुन्दर वस्त्र आभूषण आदि वस्तुएँ, जिनसे वह प्रसन्न होती, ले आता । यहाँतक कि इसने अपने पिताकी सारी सम्पत्ति देकर भी उसी कुलटाको रिझाया । यह ब्राह्मण उसी प्रकारकी चेष्टा करता, जिससे वह वेश्या प्रसन्न हो || ६४ ॥ विप्रां’ स्वभार्यामप्रौढां कुले महति लम्भिताम् । विससर्जाचिरात्पापः स्वैरिण्यापाङ्ग विद्धधीः ।। ६५ ।। यतस्ततश्चोपनिन्ये न्यायतोऽन्यायतो धनम् । बभारास्या: कुटुम्बिन्याः कुटुम्बं मन्दधीरयम् ॥ ६६ ॥ यदसौ शास्त्रमुल्लय स्वैरचार्यार्यगहितः । अवर्तत चिरं कालमघायुरशुचिर्मलात् ।। ६७ ।। तत एनं दण्डपाणेः सकाशं कृतकिल्विषम् । नेष्यामो ऽकृतनि र्वेशं यत्र दण्डेन शुद्ध्यति ।। ६८ ।। इति श्रीमद्भागवत महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धेऽजामिलोपाख्याने प्रथमोऽध्यायः ॥ १ ॥ T प्रा० पा० निर्वेद ि ॥ ६१. प्रा० पा०प्रियां स्वभार्या । २. प्रो० पा० उगबदधीः । ३. प्रा० पा० - निर्वेदं । ५० श्रीमद्भागवतम् [ स्क्र. ६ अ. १ श्लो. ५५-६० अन्वयः - खैरिण्या अपाङ्गविदधीः । पापः महति कुले लंभिताम् अप्रौढां विप्रां स्वभार्याम् अचिरात् बिस- सर्ज ॥ ६५ ॥ * बभार ॥ ६६ ॥ ।। अयं मन्दधीः यतः ततः न्यायतः अन्यायतः धनम् उपनिन्ये च अस्या: कुटुंबिन्याः कुटुंब । | यत् असौ शास्त्रम् उल्लंघ्य स्वैरचारी आर्यगर्हितः अघायुः मलात् अशुचिः चिरं कालम् अवर्तत ॥ ६७ ॥ * * ततः एनम् अकृतनिर्वेशं कृतकिल्बिषं दण्डपाणेः सकाशं नेष्यामः यत्र दण्डेन शुद्धयति ॥ ६८ ॥ ME FET इति प्रथमोऽध्यायः ॥ Filess श्रीधरस्वामिविरचिता भावार्थदीपिकाinin
- संभितां परिणीताम् ।। ६५-६६ ॥ * * अघरूपमायुर्यस्य मलमेव तदीयमन्नादिकमतीति मलात् । अकृतनिर्वेशमकृतप्रायश्चित्तम् । अस्यैव च हितार्थे नेष्याम इत्याहुः । यत्रेति ।। ६८ । इति श्रीभा० म० षष्ठस्कन्धे टीकायां प्रथमोऽध्यायः ॥ १ ॥ वंशीधरकृतो भावार्थदीपिकाप्रकाशः ए ॥६७॥ ** अप्रौढां वैरिणीवत्कामकेलिध्वनिपुणाम् “प्रौढः स्याद्यूनि निपुणे विपुले च त्रिषु स्फुटे” इति निरुक्तिः ||६५|| अस्याः शूद्रायाः ।। ६६ ।। * * अघायुरिंद्रियतर्पणरतत्वात् । “अघायुरिंद्रियारामो मोघं पार्थ स जीवति” इति श्रीगीतोक्ते: । अत एव मलात् स्नानादिकर्मत्यागादिति ‘अस्नाताशी मल भुंक्ते’ इति स्मृतेः । स्नानमपि मृगोमयादिधारणपूर्वकं मन्त्रकृतमेव न तु श्वादिवन्निमज्जनमात्रमप्यन्यथा मत्स्यादीनां सर्वदा निमज्जनशीलत्वादतीवधर्मवत्त्वं स्यादिति भावः ॥ ६७ ॥ * * यद्यतोऽसावधायुस्ततो हेतोः । यत्र दण्डपाणिपार्श्वे “विष्णौ राज्ञि धर्मराजे दण्डपाणिर्यतौ तथा" इति निरुक्तिः ॥ ६८ ॥ ।। TR PAIRERS F इति श्रीमद्भागवतभावार्थदीपिकाप्रकाशे षष्ठस्कन्धे प्रथमोऽध्यायः ॥ १ ॥ ॥ अन्वितार्थप्रकाशिका एक pe EPE TOEBYR ।। नाही कि विप्रामिति । स्वैरिण्या इति भिन्नं पदम् । स्वैरिण्या तथा अपाङ्गैर्विद्धा वीर्यस्य सः पापः अप्रौढां नवयौवनां महति कुले लम्भितां तस्याः पित्रा विचार्यैव दत्ताम् इत्यर्थः । विप्रां स्वभार्याम् अचिरात् दासीसंबन्धसमकाल एव विससर्ज त्यक्त- वान् ।। ६५ ।। * यत इति । मन्दधीः अयं यतस्ततः न्यायतः प्रतिग्रहादेः अन्यायतः चौर्यादिनापि धनमानिन्ये तेनास्याः कुटुम्बिन्याः कुटुम्बं बभार पुपोष ।। ६६ । यदिति । यद् यस्मादसौ शास्त्र मुल्लङ्घय स्वैरचारी निरङ्कुशत्वेन वर्त्तमानः अत एव आर्यैः वृद्धैर्गर्हितः अघायुः अघं पापं तदर्थमेवायुर्जीवनं यस्य सः अत एव सलात रागादिदोषादशुचिश्व सन् चिरं कालमवर्त्तत । यद्वा । मलमेव तदीयोच्छिष्टादिकमत्तीति मलात् ॥ ६७ ॥ * * तत इति । ततस्तस्मात् कृत- किल्बिषं न कृतो निर्वेशः प्रायश्चित्तं येन तमेनं दण्डपाणेर्यमस्य सकाशं समीपं नेष्यामः । यत्र दण्डेन शुद्धयति शुद्धो भवति इत्यर्थः । तेनास्यैव हितार्थे नयनमतो वारणं न युक्तम् ॥ ६८ ॥ जी का इति श्रीकृष्णसेवार्थमन्वितार्थप्रकाशिकाम् । गङ्गासहायः षष्ठस्य प्रथमे निरमादिमाम् ॥ इति श्रीभागवते पस्कन्धेऽन्वितार्थप्रकाशिकायां प्रथमोऽध्यायः ॥ २ ॥ किन सिंह PR
S एक eve ! PRETERS अप्रौढामरजः प्रादुर्भावां प्रियां सुन्दरीं महति कुले सत्कुले लम्भितां लब्धां भार्यामचिरादाशु विससर्ज । पापः पापा- चारः स्वैरिण्या कर्यापाङ्गेन करणेन विद्धा विनाशिता धीर्विवेको यस्य सः ॥ ६५ ॥ न्यायतोऽन्यायतो वा यतस्ततो धनमुपनिन्ये आनीतवान् मन्दधीरयमजामिल: कुटुम्बिन्याः पुत्रवत्याः कुटुम्बं पुत्रादिरूपं बभार पुपोष ॥ ६६ ॥ ** एवं तस्य वृत्तिमभिधायावश्यमस्य दण्डं प्रत्यहं तास्तीत्याहुः । यद्यस्मादसावजा मिलः शाखपथमतिक्रम्य ॥ स्वेच्छाचारी आय्यैः शिघ्रैर्गर्हितः अघायुः पापाभिवृद्धायुष्कः दासीसङ्गरूपान्मलान्नित्यमशुचिः सन् चिरङ्कालमवर्त्तत ।। ६७ ॥ ४ * ततः कृतं किल्बिषं पापं येन अकृतः निर्वेश: निष्कृतिर्येन तमेनं दण्डपाणेर्यमस्य सकाशं प्रति नेष्यामः प्रापयिष्यामः सकाशं विशि- नष्टि । यत्र दण्डपाणेः सकाशे दण्डेन नरकानुभवरूपेण शुद्धयति ॥ ६८ ॥ इति श्रीमद्भागवत महापुराणे षष्टस्कन्धे श्रीमद्वीरराघवाचार्यकृतभागवत चंद्रचंद्रिकाख्यायां टीकायां प्रथमोऽध्यायः ॥ १ ॥ स्क ६ अ. १ श्लो. ५५-६८ 1 अनैकव्याख्या समलङ्कृतम् = || विजयध्वजतीर्थकृता पदरत्नावली क ५१ दामनयनम् ।। ६५-६६ ।। * * स्वैरचारी निरङ्कुशत्वेन वर्तमानः अघायुः पापजीवनः मलाद्रा- गादिदोषात् ।। ६७ ।। * * अकृतनिर्देशं यावता निर्देशेन पापशुद्धिः स्यात्तावत्पापप्रायश्चित्तं न कृतवांस्तं यत्र नीतो यमभटकृतदण्डेन शुद्धो भवति ।। ६८ ।। (3 | 23 || BJAR 1216 EZAZEKERI STENUIN PIP इति श्रीमद्भागवत महापुराणे षष्टस्कंधे विजयध्वजविरचितायां पदरत्नावल्यां प्रथमोऽध्यायः ॥ १ ॥ विश्वनाथचक्रवतिकृता सारार्थदर्शिनी लम्भितां तस्याः पित्रा विचार्यैव दत्तामित्यर्थः । स्वैरिण्यापाङ्गेति सन्धिरार्षः ।। ६५-६६ ।। अघरूपम- वार्थ वा आयुर्यस्य सः । मल वेश्योच्छिष्टमेवात्तीति सः अकृतप्रायश्चित्तं यत्र शुद्धयतीत्यस्योपकार एव प्रवर्त्तमानानस्मान् कथं वारयथेति भावः ॥ ६७-६८ ॥ State इति सारार्थदर्शिन्यां हर्षिण्यां भक्त चेतसाम् । षष्टस्य प्रथमोध्यायः सङ्गतः सङ्गतः सताम् ॥ १ ॥ शुकदेवकृतः सिद्धांत प्रदीपः अप्रौढा किशोरी लम्भितां परिणीतां स्वैरिण्यापाङ्गेत्यत्र सन्धिरार्षः । अपाङ्गेन विद्धा धीर्यस्य सः ॥ ६५ ॥ * बभार पुपोष ।। ६६ ।। * * स्वैरचारी स्वैच्छाचारी अधरूपमायुर्यस्य स: मलं दास्या उच्छिष्टमन्नादिकमतीति मलाद्यत: अवर्तत ॥ ६७ ॥ * * ततो हेतोः अकृतनिर्वेशमकृतप्रायश्चित्तं दण्डपाणेः सकाशं नेष्यामः यत्र दण्डेन शुद्धयति पवित्रो भविष्यतीत्यर्थः ॥ ६८ ॥ इति श्रीमद्भागवते सिद्धांतप्रदीपे षष्टस्कंधे प्रथमाध्यायार्थप्रकाशः ॥ १ ॥ गोस्वामिगिरिधरलालविहिता बालप्रबोधिनी न केवलं स्वधर्ममेव त्यक्तवान् किन्त्वधर्ममपि महान्तं कृतवानित्याहु:- विप्रामिति त्रिभिः । महति कुले लम्भितां परिणीताम् । अचिरात् दासीसम्बन्धसमकाले एव विससर्ज त्यक्तवान् । एवं त्यागे तस्या अभिरुचिरेव हेतुरित्यभिप्रायेणाहु:- स्वैरिण्यास्तस्या अपाङ्गैः कटाक्षैर्विद्धा धीर्यस्य सः सन्धिराः ॥ ६५ ॥ यतस्ततश्च शास्त्रमर्यादानादरेणापि न्यायतः कृष्यादिव्यापारतः अन्यायतः चौर्यादिनापि धनमानिन्ये, तेनास्याः कुटुम्बिन्याः कुटुम्बं बभार पुपोष । ननु कथमेव- मन्यायेन तत्कुटुम्बपोषणं कृतवान्नरकपाताश्च नाबिभ्यत्तत्राह - मन्दधीरिति, तदासक्त्याः मोदितचित्त इत्यर्थः ॥ ६६ ॥ * * एवमस्यापराधं निरूप्यास्य विशुद्धयर्थं यातनास्थाने नयनमुचितमेवेत्याहु: - यदिति द्वाभ्याम् । यत् यस्मादसौ शास्त्र मुल्लङ्घन्य स्वैरचारी निरङ्कुशत्वेन वर्त्तमानः अत एव आर्यैः वृद्धैर्गर्हितः अघायुः अघं पापं तदर्थमेव आयुर्जीवनं यस्य सः अत एव मलात् रागादिदोषादशुचिश्च सन् चिरं कालमवर्त्तत ॥ ६७ ॥ * * ततस्तस्मादेवं कृतकिल्बिषं कृतपापं दण्डपाणेर्यमराजस्य सकाशं समीपं नेष्यामः । यत्र दण्डेन शुद्धयति शुद्धो भविष्यतीत्यर्थः । तेनास्यैव हितार्थे नयनमिति तद्वारणमनुचितमेव, यतो ऽकृत निर्देशं न कृतो निर्देशः प्रायश्चित्तं येन तम्, यदि तत्कृतं स्यात्तदा तेनैव विशुद्धयेदिति भावः ॥ ६८ ॥ इति श्रीवल्लभाचार्यवंश्यगोपालसूनुना । श्रीमन्मुकुन्दरायाणां पादसेवाधिकारिणा ॥ १ ॥ श्रीमद्विरिधराख्येन भजनानन्दसिद्धये । श्रीमद्भागवतस्येयं टीका बालप्रबोधिनी ॥ २ ॥ रचिता तत्र षष्ठेऽस्मिन् स्कन्धे नामनिरूपणे । प्रथमो विवृतोऽध्यायो वृत्तान्त: श्रवणार्थकः ॥ ३॥ भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी । विप्रामिति ॥ अप्रौढामरजः प्रादुर्भावां, महति कुले लम्भितां, महतः कुलत उपलब्धामित्यर्थः । विप्रां स्वजातीयोत्तम- विप्रकन्यामित्यर्थः । स्वभार्यां विप्रामिसंनिधौ परिणीतां निजाङ्गनां, स्वैरिण्या कर्त्या अपाङ्गेन करणेन विद्धा धीर्यस्य तथाभूतः सन्, पापः सः अचिरात् विससर्ज ।। ६५ ।। * * यत इति । न्यायतः अन्यायतः यतः ततश्च धनम्, उपनिन्ये समाहृत- वान् । एवं मन्दधी: अयमजामिल: कुटुम्बिन्याः पुत्रवत्याः अस्या दास्याः कुटुम्बं पुत्रादिरूपं बभार पुपोष ।। ६६ ।। * एवं तस्य वृत्तिमभिधायावश्यं दण्डं प्रत्यर्हतास्तीत्याहुः ॥ यदिति । यद्यस्माद् असावजामिलः, शास्त्रं शास्त्रपथम् उल्लङ्घयातिक्रम्य, स्वैरचारी स्वेच्छाचारी, आर्यगर्हितः शिष्टः कृतगर्हः, अघायुः पापरूपायुष्कः, मलात् मलसमतन्नाशी, यद्वा मलाद्दासीसङ्गरूप- , श्रीमद्भागवतम् [ स्कं. ६ अ १ श्लो. ५५-६८ मलतः मंलाद्रागादिदोषरूपमलाद्वा अशुचिरपवित्रः सन् चिरं कालम् अवर्त्तत ।। ६५ ।। * * तत इति ॥ ततः कृतं किल्बिषं येन तं न कृतो निर्वेशस्तत्प्रायश्चितं येन तम् एनमजामिलं, दण्डपाणेर्यमस्य सकाशं नेष्यामः । यत्र दण्डपाणेः सकाशं दण्डेन शुद्धयति ॥ ६८ ॥ इति श्रीधर्मधुरंधरश्रीधर्मात्मजप्रत्यक्षपुरुषोत्तम सहजानन्द स्वामिसुतश्रीरघुवीराचार्यसूनु भगवत्प्रसाचार्यविरचितायामन्वयार्थाव- बोधिन्यां भक्तमनोरञ्जन्याख्यायां श्रीमद्भागवतटीकायां षष्ठस्कन्धे प्रथमोऽध्यायः ॥ १ ॥ भाषानुवादः उस स्वच्छन्दचारिणी कुलटाकी तिरछी चितवनने इसके मनको ऐसा लुभा लिया कि इसने अपनी कुलीन नवयुवती और विवाहिता पत्नीतकका परित्याग कर दिया। इसके पापकी भी भला कोई सीमा है || ६५ ॥ न्यायसे, अन्यायसे जैसे भी जहाँ कहीं भी धन मिलता, वहीं से उठा लाता। उस वश्याके बड़े कुटुम्बका पालन करनेमें ही * * यह कुबुद्धि यह व्यस्त रहता ।। ६६ ।। * * इस पापीने शास्त्राज्ञाका उल्लङ्घन करके स्वच्छन्द आचरण किया है । यह सत्पुरुषोंके द्वारा निन्दित है । इसने बहुत दिनोंतक वेश्याके मल-समान अपवित्र अन्नसे अपना जीवन व्यतीत किया है, इसका । जीवन ही पापमय है ।। ६७ ॥ * * इसने अबतक अपने पापों का कोई प्रायश्चित्त भी नहीं किया है। इसलिये अब हम इस पापीको दण्डपाणि भगवान् यमराज के पास ले जायेंगे। यहाँ यह अपने पापोंका दण्ड भोगकर शुद्ध हो जायगा ।। ६८ ।। 5 जायेंग |यह इति षष्ठस्कन्धे प्रथमोऽध्यायः ॥ १ ॥ सारा sata S RSS F M अथ द्वितीयोऽध्यायः ‘श्रीशुक उवाच । एवं ते भगवद्दता यमदूताभिभाषितम् । उपधार्याथ तान् राजन् प्रत्याहुर्नयकोविदाः ॥ १ ॥ विष्णुदूता ऊचुः अहो कष्टं धर्मदृशामधर्मः स्पृशते सभाम् । यत्रादण्ड्येष्वपापेषु दण्डो यैधियते वृथा ॥ प्रजानां पितरो ये च शास्तारः साधवः समाः । यदि स्यात्तेषु वैषम्यं कं यान्ति शरणं प्रजाः ॥ यद्यदाचरति श्रेयानित रस्तत्तदीहते । स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥ यस्याङ्के शिर आधाय लोकः स्वपिति निर्वृतः । स्वयं धर्ममधर्म वा न हि वेद यथा पशुः ॥ स कथं न्यर्पितात्मानं कृतमैत्रमचेतनम् । विश्रम्भणीयो भूतानां सघृणो द्रोग्धुमर्हति ॥ अयं हि कृतनिर्वेशो जन्मकोट्यंहसामपि । यद् व्याजहार विवशो नाम स्वस्त्ययनं हरेः एतेनैव ह्यघोनोऽस्य कृतं स्यादघनिष्कृतम् । यदा नारायणायेति जगाद चतुरक्षरम् ॥ ॥ २ ॥ ३ ॥ ४ ॥ ५ ॥ ६ ॥ ७ ॥ ८ ॥ १ ॥ ** अन्वयः– राजन् ते नयकोविदाः भगवद्दूताः एवं यमदूताभिभाषितम् उपधार्य अथ तान् प्रत्याहुः ॥ अहो कष्टम् अधर्मः धर्मदृशां सभां स्पृशते यत्र यैः अदण्ड्येषु अपापेषु वृथा दण्डः ध्रियते ॥ २ ॥ * * ये प्रजानां पितरः च शास्तारः समाः साधवः यदि तेषु वैषम्यं स्यात् तर्हि प्रजाः कं शरणं यांति ॥ ३ ॥ * * श्रेयान् यत् यत् आचरति इतरः तत् तत् ईहते सः यत् प्रमाणं कुरुते लोकः तत् अनुवर्तते ॥ ४ ॥ * * लोकः यस्य अङ्के शिरः आधाय निर्वृत्तः स्वपिति तं धर्म वा अधर्मं यथा पशुः स्वयं न हि वेद ॥ ५ ॥ भूतानां विश्रम्भणीयः सघृणः सः न्यर्पितात्मानं कृतमैत्रम् अचेतनं द्रोग्धुं कथम् अर्हति ॥ ६ ॥ * * अयं हि जन्मकोट्यौं हसाम् अपि कृतनिर्देशः यत् विवशः स्वस्त्ययनं हरेः नाम व्याजहार ॥ ७ ॥ * * हि यदा नारायण आय इति चतुरक्षरं जगाद एतेन एव अस्य अघोनः अघनिष्कृतं कृतं स्यात् ॥ ८ ॥ श्रीधरस्वामिविरचिता भावार्थदीपिका 17 $3 1 द्वितीये वैष्णवैर्याम्यान्नाममाहात्म्यमद्भुतम् । श्रावयित्वा द्विजो विष्णोर्लोकं नीत इतीर्यते ॥ १ ॥ नयकोविदा न्यायनिपुणाः ॥ १ ॥ * * धर्मदृशां सभामधर्मः स्पृशति । तदाहुः । यत्र सभायाम् । यैर्धर्मदृ- ग्भिस्तेषां तां सभाम् ॥ २ ॥ पितरः पितृवत्पालकाः । शास्तारोऽनुशिक्षकाः । वैषम्यमदंड्यदंडनम् ॥ ३ ॥ * *
- । * एतत्प्रवर्तितमधर्ममन्योऽपि करिष्यतीति महत्कष्टमभूदित्याहुः । यद्यदिति । श्रेयान् श्रेष्ठः ॥ ४ ॥ * * विश्वस्तघाता- दपीत्याहु: यस्येति द्वाभ्याम् । निर्वृतो निश्चितः ॥ ५ ॥ * * विश्वासेन नितरामर्पित आत्मा येन तं विश्रभणीयो विश्वसनीयः सघृणश्चेत् ॥ ६ ॥ * * नन्वस्य पापिनो दंडे किमर्थमाक्रोशः क्रियते तत्राहुः । अयं हीति । यद्यस्माद्वि- वशोऽपि हरेर्नाम व्याजहारोच्चारितवान् न केवलं प्रायश्चित्तमात्रं हरेर्नामापि तु स्वस्त्ययनं मोक्षसाधनमपि । “सकृदुश्चरितं येन हरिरित्यक्षरद्वयम् । बद्धः परिकरस्तेन मोक्षाय गमनं प्रति" इति स्मृतेः ।। ७ ।। ननु कर्मसाद्गुण्यकरं हरेर्नामेति युक्तम् “यस्य स्मृत्या च नामोत्तत्या तपोयज्ञक्रियादिषु । न्यूनं संपूर्णतां याति सद्यो वंदे तमच्युतम् ।" इत्यादिवचनात् । स्वातं-
१. प्रा० पा० - बादरायणिरुवाच । २. प्रा० पा० प्रीत्याऽऽहुर्नय० । ३. प्रा० पा०- रस्तन्निहते । ४. प्रा० पा०- पितात्मानं । श्रीमद्भागवतम् [ स्कं. ६ अ. २ श्लो. १-८ त्र्येण त्वनिवर्तकं हरेर्नाम कथं स्यात्तत्राहुः । एतेनैवेति । अघोनः अघवतो मघवच्छब्दवद्रूपम् । यत् आ इति च्छेदः । आ ईषदाभासमात्रं चतुरक्षरं यन्नाम जगाद । एतेनैव केवलेन चतुरक्षरमित्यनेनाधिक्यं च दर्शितम् । कथं जगाद । नारायण आय आगच्छेत्येवं विक्रोशरूपेण पुत्राह्नानेन । अयं भावः । कर्मांगत्येऽपि हरिनाम्नः खादिरत्वादिवत्संयोगपृथक्त्वेन सर्वप्रायश्चि- तार्थत्वं युक्तमेव । तथा हि । “अवशेनापि यन्नाम्नि कीर्तितं सर्वपातकैः । पुमान्विमुच्यते सद्यः सिंहत्र तैर्मृगैरिव ।" इत्यादि - - । पुराणे । " तावत्सहस्रशो नाम्नः स्वातंत्र्यमवगम्यते ।" न चैतेऽर्थवादा इति शंकनीयं विधिशेषत्वाभावात् । न च विध्यश्रवणा- दन्यशेषता कल्पनीया । “यदाग्नेयोऽष्टाकपालो भवति" इत्यादिवदप्राप्तार्थत्वे तु विध्यनुपपत्तिः । यथा रागतः प्राप्ते भोजनादौ प्राप्तार्थत्वेन विधिकल्पनोपपत्तेः । मंत्रेषु च । “मर्ता अमर्त्यस्य ते भूरि नाम मनामहे । विप्रासो जातवेदसः । आस्य जानतो नाम चिद्विवक्तन" इत्यादिषु नान्नस्तपोदानादिसर्वधर्माधिक्यमवगम्यते । उपपादितं च मंत्रार्थवादानामपि स्वार्थे प्रामाण्यं देवताधिकरणे । तस्माच्छ्रीनारायणनामाभासमात्रेणैव सर्वाघनिष्कृतं कृतं स्यादिति ॥ ८ ॥ । वंशीधरकृतो भावार्थदीपिकाप्रकाशः ९
NE याम्यानिति द्वितीया सूत्रे ज्ञानसामान्यार्थानामेव ग्रहणमित्युक्तत्वादत्र श्रावयित्वेति णिजतसंबंधेऽपि नोचिता तथापि ‘अव्ययकृतो भावे’ इत्युक्तत्वाच्छृणोतेरकर्मकतामभिप्रेत्य सा कृता अकर्मकादेव भावार्थप्रत्ययोत्पत्तेर्विहितत्वादिति । यद्वा - याम्यान्प्रति नाममाहात्म्यमित्यन्वयः ( १ ) राजन्निति । त्वं तु राजत्वाद्दंड्या दंड्यव्यवहारनिपुणोऽसीति भावः । । नयकोविदाः प्रायश्चित्तशास्त्रकोविदाः ॥ १-२ -२ ॥ ४ * सदाचाराः ॥ ३ ॥ * * प्रजाऽनिष्टं शोचंत साधवः । आहुरेतत्प्रवर्त्तितमित्यादि । श्रेयान् सर्वशास्त्रतत्त्वज्ञः ॥ ४ ॥ यस्य श्रेष्ठत्वेनाभिमतस्य पशुर्यथा सौनकेन पाल्य- मानस्तस्मिन्विश्वतो धर्माधर्म न वेत्ति तेन सहाघातस्थानमपि गच्छति ॥ ५ ॥ * * कृतमैत्रं कृतविश्वासम् । अचेतनम् अज्ञम् । सघृणः ‘घृणा दयाऽनुकंपा स्यात्’ इत्यमरोक्तेर्दयालुश्चेत्तर्हि कथं द्रोग्धुं जिवांसितुमर्हति न कथमपीत्यर्थः ॥ ६ ॥ * अत्राशंकते - नन्विति । आक्रोशो वाग्वादः । परिकरो दृढत्वेन कटिबंधः ॥ ७ ॥ * पुनराक्षिपति नन्विति । सद्गुणस्य भावः साद्गुण्यं कर्मणः साद्गुण्यं कर्मसाद्गुण्यं तत्करोतीति तथा । यस्य हरेः । आदिना जपादिग्रहः । आकार- णेनाह्वानेन । अत्राशयमाह - अयं भाव इति । खादिरत्वादिति । अत्र जैमिनिसूत्रम् “एकस्य तूभयार्थत्वे संयोगपृथक्त्वम्” इति । अस्यार्थः– एकस्योभयार्थत्वे तु संयोगस्य विनियोजकप्रमाणस्य पृथक्त्वामुभयत्वं नियामकमिति शेषः । यथैकस्य खादिरत्वस्य क्रत्वर्थत्वं पुरुषार्थत्वं च “खादिरों यूपो भवति” “खादिरं वीर्यकामस्य यूपं कुर्वीत" इति वाक्याभ्यां बोधि- तत्वात् । तथैकस्य हरिनाम्नोऽपि मुक्तः फलांतरस्य च तत्तद्बोधकवाक्याभ्यामुभयार्थतेत्यर्थः । तथा च हरिनाम्नोऽनेकफल- संबंधे ऽपि प्रायश्चित्तार्थत्वं युक्तमेवेति सुष्ठुक्तं स्वामिचरणैः । अवशेन प्रमादेन । अत्राक्षेपांतरमाह-न चैत इति । अन्यशेषता निषेधशेषता । यथाऽप्राप्तार्थत्वेनात्यताप्राप्तत्वेन ‘विधिरत्यंतमप्राप्तौ” इत्युक्तेरपूर्वविधिः कल्प्यते “अग्नयेऽष्टाकपालं निर्वपेत्” इति तथात्रापि सर्वपापापनुत्तये हरिनाम जपेदिति विधिकल्पना भवत्येवातो निषेधशेषता न कल्प्येति । अथार्थवादलक्षणमाह- प्राशस्त्यनिन्दान्यतरलक्षणया विधिनिषेधभूतं वाक्यमर्थवादः स च त्रिविधो गुणवादानुवादभूतार्थवादभेदात् । प्रमाणांतर- विरुद्धार्थबोधको गुणवादः यथा “आदित्यो यूपः” इति । प्रमाणांतरप्राप्तार्थबोधको ऽनुवादः यथा “अग्निर्हिमस्य भेषजम्” इति । । । प्रमाणांत रबाधतत्प्राप्तिरहितार्थबोधको भूतार्थः यथा “इंद्रो वृत्राय वज्रमुदयच्छत्” इति । तत्र त्रिविधानामप्यर्थवादानां विधिस्तुतिपरत्वसमानेऽपि भूतार्थवादानां स्वार्थेऽपि प्रामाण्यम् । अबाधिताज्ञातज्ञापकत्वं हि प्रमाणं तच्च बाधितविषयत्वात् ज्ञातज्ञापकत्वाच्च न गुणावादानुवादयोर्भूतार्थवादस्य तु स्वार्थतात्पर्यरहितस्याप्यौत्सर्गिकं प्रामाण्यं न विहन्यते देवताधिकरण- न्यायात् । देवताधिकरणन्यायश्च - संवादविसंवादाभावे यंत्र मंत्रादिना देवताविग्रहादिकं सिध्यति स भवति यथा “उपर्यपि बादरायणः संभवात्” इति । अस्यार्थः–देवानामनधिकारात्क्रममुक्तिसाधनेषूपासनेषु देवादिभोगद्वारा मोक्षकाममनुष्य- प्रवृत्तिर्नास्तीति पूर्वपक्षे फलं सिद्धांते तादृशप्रवृत्तिरस्तीति फलं बृहदारण्यके श्रूयते “तद्यो यो देवानां प्रत्यबुध्यत स एवं तदभू- तर्षीणां तथा मनुष्याणाम्” इति । देवादीनां मध्ये यो यो ब्रह्मप्रत्यक्त्वो न साक्षादकरोत्स एव ब्रह्मात्मनाऽतिष्ठदित्यर्थः । अत्र कि देवादीनां ब्रह्मविद्याविकारोऽस्ति न वेति विषये शास्त्रस्य मनुष्याधिकारत्वान्नास्तीति प्राप्तेऽभिधीयते तदुपरीति । तेष मनुष्याणामुपरिष्टाद्ये देवादयस्तेषामपि ब्रह्मविद्यायामधिकारोऽस्तीति बादरायण आचार्यो मन्यते स्म कुतः संभवादर्थित्वसाम- र्थ्याद्यधिकारकारणस्य संभवादित्यर्थः । देवादीनां भोगशालित्वेऽपि भोग्य वस्तुष्वनित्यत्वदोषदर्शनाद्वैराग्यादिकं निरतिशया- नंद मोक्षार्थित्वं च संभवतीति भावः । इह देवताविग्रहादिकं तद्योय इति मंत्रेण साधितमस्तीति । विग्रहादिकं तु “विग्रहो हविषां भोग ऐश्वर्यं च प्रसन्नता । फलप्रदानमित्येतत्पञ्चकं विग्रहादिकम्” इति । मंत्रेषु चेति । अथ मंत्रार्थ:- मर्त्ता मर्त्या मरणधर्माणो विप्रासो विप्रा वयममर्त्यस्य जातवेदसः सर्वकर्मफलदातुस्ते नाम भूरि तपोदानादिसर्वधर्मेभ्योऽधिकं मनामहे, स्कं. ६ अ २ श्लो. १-८] अनेकत्र्याख्या समलङ्कृतम् मन्यामहे । अस्य विष्णोः आ सम्यक्प्रकारेण नाम यूयं विविक्तन कीर्त्तयत किं कुर्वतः चित्कचिज्ज्ञानं तो नाममाहात्म्यमिति । आदिना “स्तार पूर्व यथाविधि कृतस्य गर्भ जनुषा पिपर्त्तन” इत्यादेर्ग्रहः । पूर्व पुरातनं सर्वाधिष्ठातारं सर्वकर्तारं च कृतस्योपनिषद्स्तज्जन्यज्ञानस्य वा गर्भ जठरे वर्त्तमानं वेदांतसिद्धांत प्रत्यगभिन्नपरमात्मानं स्तोतारः स्तुध्वमिति विभक्ति- विपरिणामः । न च वैदिकैरेव स्तोत्रैः स्तोतव्यमिति कश्चिदस्ति नियमः किं तु यथाविधि यथाज्ञानं यथा जानीत तथा स्तुध्वं श्रौतैरागमिकैः पौराणैः प्राकृतैर्वा स्तोत्रैः स्तुध्वमिति भावः । ततश्च जनुषा पिपर्त्तन पितेति वक्तव्ये पिपर्त्तनेति छांदसं जम्म पूर्यतामितिवच कर्मकर्तरि प्रयोगे कर्त्तव्ये जनुषेति करणत्वनिर्देशोऽपि छांदसः । जन्मनः पूर्तिम्प्राप्नुत जन्मानि समापयतेति भावः । अथवा तं देवं जनुषा स्वच्छंद्ररचितेन बहुविधजन्मनापि पर्तन पूरयत मत्स्याद्यवतारैरन्वितं वर्णयेत्यर्थः । किञ्च विधिशक्तिर्न मंत्रस्य नियोगेनानुमीयते “स्वतो विधाते ह्येष नियोगात्स्मारयिष्यति” इत्युक्तेरनुष्ठानार्थानामपि मंत्राणां विधायकत्वमनुरूपमेवेति मीमांसकाः । संदर्भस्तु - ननु तर्हि तन्नामकरणे प्रथमं तन्नाम्नैव जन्मकोट्यंहसां नाशोऽभूत्तदनंतरं मुहुः कृतपापस्य तत्समाप्तिरनेनाभूदिति वक्तु ं युज्यते इत्याशंक्य पूर्ववाक्याभिप्रायं स्वयमेवाह - एतेनैवेति । यदि पूर्व नोच्चारित- वास्तथाप्येतेनैवाद्य निष्कृतं कृतं स्यादित्यन्यांगत्वं परिहृतम् ॥ ८ ॥ । अन्वितार्थप्रकाशिका द्वितीयेऽजामिलो विष्णोर्नाममाहात्म्यतः शुचिः । तस्य लोकं गतस्तत्र श्लोकानन्दपयोधय: ( ४९ ) ! अनुष्टुभस्तु भूबा (५१ ) उवाचेति चतुष्टयम् ( ४ ) ॥ २ ॥ एवमिति ॥ हे राजन् ! नये प्रायश्चित्तादिनिर्णये कोविदाः पण्डिताः ते भगवद्द्द्ता एवं यमदूतानामभिभाषितमुपधार्य तात्पर्यपूर्वकं श्रुत्वा अथानन्तरमेव तान्प्रत्युत्तर- माहुः ॥ १ ॥ * * अहो धर्मराजस्य धर्मराजतैव विपरीता जातेत्याहुः । अहो इति । अहो महाकष्टं प्राप्तं कृतः यतो धर्म धर्माधर्मविवेकिनामपि सभामधर्मः स्पृशते । तङार्ष: । यत्र सभायां यैर्धर्मदृग्भिरेव यमादिभिरपापेषु अत एवादण्डचेषु curity वृथा दण्डो धियते ॥ २ ॥ * * प्रजानामिति । ये च प्रजानां पितरः पितृवद्वात्सल्येन पालकाः शास्तार: गुरुवत्सन्मार्गशिक्षकाः साधवो हिताचरणेनेष्टसाधकाः समाः सर्वत्र स्वसुखदुःख साम्यदर्शिनः एवं शास्त्रतो लोके प्रसिद्धाः यमादयस्तेषु यदि वैषम्यं पूर्वोक्तवैपरीत्यं प्रजापीडकत्वं धर्मशिक्षौदासीन्यमहितकारित्वं परदुःखानभिज्ञत्वं च स्यात्तदा प्रजाः क शरणमाश्रयं यान्ति प्राप्नुयुः ॥ ३ ॥ * * यदिति । श्रेयान् धर्मज्ञतया श्रेष्ठत्वेनाभिमतः यद्यदाचरति इतर : अज्ञोऽपि तदाचारं दृष्ट्वा तत्तदेवेह करोति । स श्रेष्ठो यत् शास्त्रं प्रमाणं कुरुते अन्योऽपि लोक: प्राणी तत् शास्त्रमनुवर्त्तते अनुसरति प्रमाणीकरोति ॥ ४ ॥ * * विश्वासघातित्वमपीत्याहु: - यस्येति । यस्य श्रेष्ठत्वेनाभिमतस्याङ्के उत्सङ्गे शिर आधाय लोकः प्राणी निर्वृतः निश्चिन्तः स्वपिति स धर्मपालनं करोतु अधर्म वा करोतु तत् स्वयं न वेद । यथा पशुः स्वस्वामिनि कृतविश्वास: स्वपिति स पालनं करिष्यति हननं वा तन्न जानाति तथेत्यर्थः ॥ ५ ॥ * * स इति । सः प्रमाणभूतः अत एव भूतानां विश्रम्भणीयः विश्वसनीयः सघृणः परक्लेशदर्शने द्रवीभूतचित्तश्चेत् चेत तदा कृतमैत्रं कृतविश्वासं विश्वासेन नितरामर्पित आत्मा येन तम् अचेतनमज्ञं कथं द्रोग्धुमर्हति अतो यमः सदयश्चेत्पीडयितुं नार्हति ॥ ६ ॥ नन्व- * कृतप्रायश्चित्तस्यास्य शोधनार्थमेव दण्डो दीयते न तंत्र निर्घृणतेति चेत् तत्राहुः - अयं हीति । अयं ह्यजामिल: न केवलमेत- जन्मपापानाम् अपि तु जन्मकोटीनां यान्यंहांसि पापानि तेषामपि कृतो निर्देशः प्रायश्चित्तं येन तादृशोऽस्ति । यत् यस्मात् विवशोऽप्ययं स्वस्त्ययनं मोक्षस्यापि साधनं न तु प्रायश्चित्तमात्रं हरेर्नाम व्याजहार उच्चारितवान् ॥ ७ ॥ ** एतेनेति । यदासौ पूर्वं भोजनादिकाले हे नारायण ! आय आगच्छेति अपभ्रंशभाषयाऽपि चतुरक्षरं नाम जगाद उच्चारितवान् । आयेत्याङपूर्वादय गतावित्यस्माल्लोट् त भावः आर्षः । तदैवैतेन पुत्रोपचरितनाम्नैवास्याघोनोऽघवतः । संप्रसारणमार्षम् । अनेक- जन्मसचितस्यावस्य निष्कृतं प्रायश्चित्तं कृतं स्यात् । यद्वा । यत् आ इति च्छेदः । आ ईषदाभासमात्रं चतुरक्षरं यन्नाम जगाद एते- नैव केवलेन अघनिष्कृतं कृतं स्यादिति । ननु “यस्य स्मृत्या च नामोक्त्या तपोदानक्रियादिषु || न्यूनं संपूर्णतां याति सद्यो वन्दे तमच्युतम् ॥” इत्याद्युक्तेः कर्मसाद्गुण्याय हरेर्नामेति युक्तं स्वातन्त्र्येणाघनिवर्तकं तु तत्कथमिति चेत् खादिरो यूपो भवति खादिरं वीर्यकामस्य यूपं कुर्यादित्यादिवत्संयोगपृथक्त्वन्यायेन प्रायश्चित्तार्थत्वमपि युक्तम् । एकस्योभयत्र विनियोगः संयोग- पृथक्त्वं तेन स्वातन्त्र्येण कर्माङ्गत्वेन च हरिनाममाहात्म्यं पापं नाशयतीति । “अवशेनापि यन्नाम्नि कीर्तिते सर्वपातकैः ॥ पुमान् विमुच्यते सद्यः सिंहस्तैर्मृगैरिव ॥” इत्यादिभिः पुराणे तावत्सहस्रशो नाम्नः स्वातन्त्र्यमवगम्यते न चैतेऽर्थवादा इति शङ्कनीयं विधिशेषत्वाभावात् । न च विध्यश्रवणादन्यशेषता कल्पनीया यदाग्नेयोऽष्टाकपालो भवतीत्यादिवत् स्वातन्त्रप्राप्तार्थ- ፦ ५६ श्रीमद्भागवतम् [ स्कं. ६ अ २ श्लो. १-८ त्वेन विधिकल्पनोपपत्तेः । मन्त्रेषु च “मर्त्या अमर्त्यस्य ते भूरिनाम मनाम हे विप्रासो जातवेदसः आस्य जानन्तो नाम चिद्विवक्त” इत्यादिषु नाम्नस्तपोदानादिसर्वधर्माधिक्यमवगम्यते । उपपादितं च मन्त्रार्थवादानामपि स्वार्थे प्रामाण्यम् । देवताधिकरणे तस्माच्छ्री नारायणनामाभासमात्रेणैव सर्वाघनिष्कृतं कृतं स्यात् ॥ ८ ॥ * वीरराघवव्याख्या ॥ एवं यमदूत्तैरुक्ता विष्णुदूता आहुरित्याह मुनिः । एवमिति । हे राजन् ! एवं यमदूतैर्विशेषेण भाषितमुपधार्य श्रवणेन मनसि धृत्वा न्यायनिपुणा भगवद्दूतास्तान यमदूतान् प्रत्याहुः ॥ १ ॥ * * उक्तमेवाह । अहो इत्यादिना । “स वेद परमं गुह्यं धर्मस्य भगवान् यमः” इत्यन्तेन अहो कष्टं प्राप्तं किं तद्धर्मदृशां सभामधर्मः स्पृशते कोऽधर्मस्तत्राहुः । यत्र यमस्य सभायामपापेष्वत एवादण्डयेषु दण्डः यैर्भवादृशैर्धियते कार्य्यतेऽयमेवाधर्म इति भावः ॥ २ ॥ * * धर्माधर्मविभागेन शास्तॄणां वैषम्यमनुचितमित्याहुः । प्रजानामिति । ये शास्तारो भवादृशाः ते समाः वैषम्यरहिताः साधवः दोषापाकरणरूप- परकार्यसाधका अत एव प्रजानां पितरः हितकारिणः यदि ईदृशेषु भगवत्स्वेव वैषम्यं स्यात्तर्हि प्रजाः कं शरणं प्राप्नु- वन्ति ॥ ३ ॥ * युष्मादृशः श्रेष्ठः कृत्स्न विद्यद्यत्कर्माचरति तत्तदेव कर्मेतरोऽकृत्स्नविदपीहते चेष्टते सः श्रेयान् यदेव शास्त्रं प्रमाणं कुरुते प्रमाणमिति मन्यते तदेवेतरो लोकेऽनुवर्त्तते अतः श्रेयसां स्वानुष्ठानेन धर्मप्रवर्तकानां वेदानुवर्त्तिनामिदम- दण्ड चदण्डनमनुचितमित्यर्थः ॥ ४ ॥ किञ्च सापराधलोकस्य दण्डयिता यमः न त्वपापिनामिति विश्वासविषय एव प्राकृतवद्वैषम्येणानपराधिनोऽपि दण्डयिता स्यात्तहि विश्वस्तघातकतादोषः प्रसज्यते तल्लोकपरिपाटीमुखेनाहुः । यस्येति । यस्य विश्वसनीयस्याङ्के उत्सङ्गे शिरः आधाय विन्यस्य यो लोको जनः निर्वृतः सुखितः स्वपिति तमेव लोकं स एव भूतानां विस्रम्भणीयः कृपावांश्च कथं द्रोग्धुमर्हतीत्यन्वयः । निर्वृतो लोकः कथम्भूतः यथा पशुः तद्वत् स्वयं धर्ममधर्म वा न वेद किन्तु केवलं ममायं हितकारीत्येवं वेदेति भावः ॥ ५ ॥ * * लोकं कथम्भूतं न्यर्पितात्मानं नितरामर्पितः समर्पितः आत्मा देहो येन कृतं मैत्रं विश्वासो येन अचेतनं न विद्यते चेतना विवेको यत्य अकेतनमिति पाठे न विद्यते केतनं शरणमन्यद्यस्य तम् ॥ ६॥ * * नन्वस्य पापिनो दण्डे किमर्थमाक्रोशः क्रियते तत्राहुः अयं हीति । जन्मनां कोटिभिरर्जिताना मंहसां पापानां कृतः निर्देशः प्रायश्चित्तं येन तथाभूतोऽयं कोऽसौ निर्वेशः तत्राहुः विवश: परवशोऽपि हरे स्वस्त्ययनं शुभावहं नाम व्याजहार जगादेति यदसावेव निर्वेश इत्यर्थः ॥ ७ ॥ * * नतु " नान्यः पन्था अयनाय विद्यते " इति न्यासोपासनव्यति- रिक्तोपायान्तरनिषेधात्कथं पारवश्यकृतस्य सङ्केतितनामोच्चारणस्याखिलांहसो निरसनद्वारेण मुक्तिसाधनत्वमित्यत्राहुः । एतेनै- वेत्यादिना यतस्तद्विषया मतिरित्यन्तेन । यदा प्रयाणसमये नारायणायेत्येतच्चतुरक्षरं नाम जगादेति यदेतेनैवास्याघोन अघानां निष्कृतं कृतं स्यात् ॥ ८ ॥ विजयध्वजतीर्थकृता पदरत्नावली श्रीहरिनामसंकीर्तनमाहात्म्यमस्मिन्नध्याये वक्ति तदर्थं श्रीविष्णुदूता यमदूतान्प्रत्युपोद्धातं रचयन्तीत्याह । बादराय- णिरिति ( १ ) नयकोविदाः प्रायश्चित्तशास्त्रोक्तन्यायसूक्ष्मपण्डिताः ।। १-२-३ ।। यद्वाक्यं प्रमाणत्वेन करोति तद्वाक्यमनुसृत्य * * सः प्रमाणभूतः वर्तते लोको जनः ॥ ४ ॥ * स्वयं परबोधमन्तरेण पशुः पूर्वापरादिदिगनभिज्ञः ॥ ५ ॥ पुरुष: आत्मन्यर्पित आत्मा सर्वस्वलक्षणो येन स तथा तम् अचेतनमज्ञानिनं विस्रम्भणीयो विश्वसनीय: “घृण द्रवीभावे” इति धातोः परक्ल शदर्शने यस्य चित्तं द्रवीभवति स सघृणः ॥ ६ ॥ * * अकृत निर्वेशमित्यत्राहुरित्याह । अयमिति । यम- दूतान्दृष्ट्वा पुत्रे साङ्केतितमपि नारायणनाम स्मृत्वास्य नाम्नो हरिरेव मुख्यार्थं इति प्राचीनपुण्यनिचयाझ्झटिति ज्ञानोदयादुत्प- भक्तया विवश इतीममर्थं हिशब्दो वक्ति ॥ ७ ॥ * विश्वासजननार्थं पुनरुक्तार्थं द्रढयति । एतेनेति ॥ ८ ॥ जीवगोस्वामिकृतः क्रमसन्दर्भः अथ यत्तु के यूयमित्यादिना यमदूतैः स्वप्रभोर्धर्मराजत्वाल्लोकपालत्वं दर्शितं तदभ्युपगमवादेन तदाक्षिपन्ति । अहो कष्टमित्यादिपञ्चभिः ॥ १६ ॥ विवशोऽपि अस्तु तावदेनमेव पुत्रमुद्दिश्य पूर्वपूर्व स्फुटोच्चरिततन्नाम्नो मतिमेति भावः ॥ ७ ॥ * * ननु तर्हि
- ननु तर्हि तन्नामकरणे प्रथमतन्नाम्नैव जन्मकोट्यंहसां नाशोऽभूत्तदनन्तरं मुहुः कृतपापस्यास्य तत्समाप्तिरनेनैवाभूदिति वक्तु युज्यते इत्याशङ्कच पूर्ववाक्याभिप्रायं स्वयमेवाह । एतेनैवेति । यदि पूर्व तन्नोच्चा- रितवान् तथाप्येतेनैव निष्कृतं स्यादिति हि तत्रार्थ इत्यर्थः । इत्यन्याङ्गत्वं सुतरां परिहृतम् ॥ ८-९ ॥ स्कं. ६ अ. २ श्लो. १-८] अनेकव्याख्या समलङ्कृतम् विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी द्वितीये नाममाहात्म्याद्यमदूताः पराहताः । अजामिलस्य निर्वेदो वैकुण्ठारोह उच्यते ॥ . ५७ नयकोविदा नीतिशास्त्रज्ञा यथा वदन्ति तथा ।। १ ।। * * अरे ज्ञाताः स्थ ज्ञाताः स्थ धर्मराजस्यैव किङ्कराः यूयमलं प्रलापैः किन्तु धर्मराजस्यैव धर्मराजता विपरीतलक्षणयैवेति जानीम इत्याहु: । अहो इत्यस्मत्कर्णपथमद्यावधि वार्तेयं नापदिति भावः । कष्टमित्येतावता अन्यायेन लोकानां का गतिर्भविष्यतीति भावः । ननु के किमेवमाक्षिष्यन्ते तत्र किं ब्रूमः शृणु रे शृणुतेत्याहुः । धर्मदृशां धर्मदर्शिनामपि सभामधर्म एव स्पृशति धर्मेऽप्यधर्ममेव पश्यन्तीति भावः । यत्र सभायामपापे- ध्वपि जनेषु अपापत्वाददण्ड्येषु दण्डो धियते इत्येषैवाधर्मदर्शितेति भावः ॥ २ ॥ शृणुत रे प्रजानां पितृत्व शास्तृत्वं साधुत्वं साम्यञ्च युष्मत्स्वामिनां यत् श्रूयते तत् खलु किं सम्प्रत्यनृतमेवाभूदित्याहुः । प्रजानामिति । वात्सल्यात् पितरः धर्मशिक्षणात् शास्तारः सर्वत्र स्वसुखदुःख साम्यदर्शनात् समाः । तेषु वैषम्यमिति पितरोऽपि प्रजापीडकाः शास्तारोऽपि स्वकिङ्करानपि धर्म न शिक्षयन्ति साधवोऽप्यहितकारिणः समा अपि परदुःखानभिज्ञाः कं यान्तीति प्रजानां कष्टदर्शनमेत- दस्माभिस्तु दुःसहमेवेति भावः ॥ ३ ॥ * * तदेवमचिरेण धर्ममार्ग एवोच्छन्नो भविष्यतीत्याहुः । यद्यदिति ।। ४ ।। ६ किञ्च विश्वस्तघातादधिकं कमधर्म ब्रूमः इत्याहुः । यस्येति द्वाभ्याम् ॥ ५ ॥ * * विश्वासेन नितरामर्पित आत्मा येन । ॥ तं कथं विश्वसिता इत्यत आहुः । भूतानां विश्वसनीयः सदयश्च ॥ ६ ॥ ननु परः सहस्रमहापापकृतमकृतप्राय- वित्तमजामिलं शोधयितुमेव नरकं निनीषुभिरस्माभिरस्मत्स्वामिभिर्वा किमपराद्धं यदेवमाक्षिपथेति तत्राहु: । अयं हि निश्चि- तमेव कृतप्रायश्चित्त एव न केवलमेकजन्मकृतपापानामपि तु जन्मकोटीति यद्यस्माद्विवशोऽपि हरेर्नाम व्याजहार " नानो हि यावती शक्तिः पापनिर्हरणे हरेः । तावत् कर्तुं न शक्नोति पातकं पातकी नरः" इति । “अवशेनापि यन्नाम्नि कीर्त्तिते सर्वपातकैः । पुमान् विमुच्यते सद्यः सिहत्रस्तैर्मृगैरिव ।” इति स्मृतेः । न केवलं प्रायश्चित्तमात्रं हरेर्नाम अपि तु स्वस्त्ययनं मोक्षसाधनमपि “सकृदुच्चरितं येन हरिरित्यक्षरद्वयम् । बद्धः परिकरस्तेन मोक्षाय गमनं प्रति ।” इति स्मृतेः ॥ ७ ॥ * * ननु हरेर्नामेति बुद्धद्या प्रायश्चित्तत्वेन नाम न गृहीतं किन्त्वस्मदर्शनोत्थभयेन स्वपुत्राह्वानमेव कृतमिति चेत् न जानीथ रे तत्त्वं बहिर्मुखा न जानीथेत्याहुः । एतेनैव हि निश्चितमेव अघोनः अघवतः मघवच्छन्दवद्रूपं पुत्राह्वानेनैव अघनिष्कृतमपि कृतं स्यादघनिष्कृतानुसन्धानाभावेऽपीत्यर्थः । यदेति । इदानीन्तनेन पुत्राह्वानेन अघनिष्कृतं स्यादिति कियदेतत् किन्तु यदा पूर्व नामकरणादिसमयेऽपि हे नारायण ! आयस्व मातुरङ्कान्ममाङ्कमागच्छेत्यपभ्रंशभाषयापि जगाद तदैवाघनिष्कृतं कृतमभूदित्यर्थः । चतुरक्षरमिति नारायणनाम्न एकद्वचक्षरेणापि सर्वपातकनाशो भवेदिति भावः ॥ ८ ॥ शुकदेवकृतः सिद्धांत प्रदीपः
माहात्म्यं निर्णीय भगवत्पार्षदा यमदूतेभ्योऽजामिलममूमुचन् स च कृतभगवदाराधनो भगवत्पदं गत saad द्वितीयेनाध्यायेन । नयकोविदाः सिद्धान्ताभिज्ञाः ॥ १ ॥ * * अहो आश्चर्यमिदं कष्टं दुःखं च तदेवाहुः । इति वर्ण्यते धर्मदृशां धर्मदर्शिनामपि सभामधर्मः स्पृशते कां केषां यत्र सभायां यैर्धर्महग्भिरदण्ड्येषु वृथा दण्डो ध्रियते तां तेषाम् ॥२॥ * आश्चर्य कष्टं च पुनर्दर्शयन्ति । प्रजानामिति । पितरः शास्तारः अनुशिक्षकाः साधवः शुभाचाराः समाः सर्व सुहृदश्च यदि तेषु वैषम्यम् अपितृवत् अशास्तृवत् असाधुवत् विषमवत् विपरीतकारित्वं स्यात्तदा कं शरणं रक्षितारं प्रजा यान्ति श्रेष्ठस्य श्रेष्ठाचारो लोकानां क्षेमकरः अन्यथाचार तु नाशहेतुरित्याहु: । यद्यदिति । श्रेष्ठेन धर्मराजेनादण्ड्यदण्डने कृते अन्येऽप्येवं करिष्यन्तीति महत्कष्टमिति भावः || ३-४ ॥ * * अपापस्य दण्डनं धर्मराजोऽपि न कुर्यादित्याहुः । यस्याङ्के इति द्वाभ्याम् । यथा पशुः धर्ममधर्मं न जानाति तद्वत् स्वयं धर्ममधर्मं वा न वेद किन्तु अधर्मनाशार्थं गुर्वाद्युपदेशवर्जितो भवति एवम्विधो लोकः यस्य लोकपालस्याङ्के शिर आधाय आत्मानं रक्षणीयतया तस्मिन् समयेत्यर्थः । निर्वृतः सुखितः स्वपिति अस्मद्धर्माधर्मानुसारेण: लोकपालः फलं यथार्थ दास्यतीति विश्वस्तो भवति ॥ ५ ॥ * * स भूतानां विश्रम्भणीयो लोकपालः सघृणः सदयः न्यर्पितात्मानं नितरामर्पित आत्मा रक्षणीयतया येन तं कृतमैत्रं कृतविश्वासमचेतनं पशुवत्स्वातन्त्र्येण धर्माधर्मविवेकहीनं कथं द्रोग्धुमर्हति न कथमपीत्यर्थः ॥ ६ ॥ * * अजामिलस्तु सर्वथा निष्पाप इत्याहु: । अयमिति षभिः । न जन्मकोटिपापनिराकरणमात्रेण चरितार्थं किन्तु स्वस्त्ययनं परमपुरुषार्थदम् । सकृदुच्चारितं येन हरिरित्यक्षरद्वयम् । बद्धः परिकरस्तेन मोक्षाय गमनं प्रति इति स्मृतेश्च ॥ ७ ॥ अघोनः अघवतः अस्य यत् आ ईषदाभासमात्रमपि नारायण ! आय आगच्छेति पुत्राह्नानेन चतुरक्षरं जगाद एतेनैव अघनिष्कृतं स्यात् ॥ ८ ॥ ८ 1 श्रीमद्भागवतम् गोस्वामिगिरिधरलालविहिता बालप्रबोधिनी [ स्कं. ६ अ. २ श्लो. १-८ विष्णुदूतैः कृतं विष्णुनामकीर्त्तनशंसनम् । फलप्राप्तिश्व विप्रस्य द्वितीये विनिरूप्यते ॥ १ ॥ “… । यमदूतानामभिभाषितम् उपधार्य तात्पर्यपूर्वकं श्रुत्वा अथानन्तरमेव तान प्रत्युत्तरमाहुः, यतो नयकोविदाः शास्त्रीय- प्रायश्चित्तादिनिर्णये पण्डिताः । पण्डितानामधिकारिणां उत्तरदानमावश्यकमिति तु राजत्वाद्भवान् जानातीति सूचयंस्तं सम्बोधयति - हे राजन्निति ॥ १ ॥ * * तद्वाक्यान्येव दर्शयति- अहो कष्टमित्यष्टादशभिः । अहो महाकष्टं प्राप्तम् । कुतः ? यतो धर्मदृशां धर्माधर्मविवेकिनामपि सभामधर्मः स्पृशते । यत्र सभायां यैर्धर्मदृग्भिरेव यमादिभिरपापेषु अत एवादण्डयेषु दण्डानर्हेषु वृथा दण्डो धियते । अतो धर्मज्ञा वयमिति वृथैवाभिमानमात्रमेव तेषां वस्तुतस्तु ते मूर्खा एवेति भावः ।। २ ।। * कष्टमेव दर्शयन्ति-प्रजामिति चतुर्भिः । ये च प्रजानां पितरः पितृवद्वात्सल्येन पालकाः, शास्तारः गुरुवत्सन्मार्गशिक्षकाः, साधवो हिताचरणेनेष्टसाधकाः, समाः सर्वत्र स्वसुखदुःखसाम्यदर्शिनः, एवं शास्त्रतो लोके प्रसिद्धा यमादयस्तेषु यदि वैषम्यं पूर्वोक्तवैपरीत्यं स्यात्तदा प्रजाः कं शरणमाश्रयं यान्ति प्राप्नुयुरित्यर्थः । दृश्यते चैतेषां वैपरीत्यम् - कृपया पालकत्वेनाभिमतानामपि वृथा पीडाकरत्वम्, धर्मोपदेष्टृत्वेनाभिमतानामपि अदण्डस्य दण्डार्थानयनरूपे अधर्मे स्वभृत्यानां प्रवर्तकत्वम् इष्टसाध- कत्वेनाभिमतानामपि वृथा नरकपातनादौ प्रवृत्तिः, समदृष्टीनामपि दुःखदाने प्रवृत्तिरिति एतद्दर्शनं त्वस्माकं दुस्सहमिति भावः ॥ ३ ॥ * * एतेषां श्रेष्ठत्वप्रसिद्धेरेतैः कृतोऽधर्मः सर्वलोके व्याप्तो भविष्यतीत्यपि महत्कष्टमित्याशयेनाहु:- यद्यदिति । श्रेयान् धर्मज्ञतया श्रेष्ठत्वेनाभिमतः यद्यदाचरति इतरः अशोऽपि तदाचारं दृष्ट्वा तत्तदेवेहते करोति स श्रेष्ठो यत् शास्त्रं प्रमाणं कुरुते अन्योऽपि लोकः प्राणी तत् शास्त्रमनुवर्त्तते अनुसरति, प्रमाणीकरोतीत्यर्थः ॥ ४ ॥ * एतत्प्र- वर्त्तितविश्वस्तघातप्रवृत्त्यापि लोके महत्कष्टमित्याहु: - यस्येति द्वाभ्याम् । यस्य श्रेष्ठत्वेनाभिमतस्य अङ्के उत्सङ्गे शिर आधाय लोक: प्राणी निर्वृतः निश्चिन्तः स्वपिति स धर्मं पालनं करोतु तत्स्वयं न वेद, यथा पशुः स्वस्वामिनि कृतविश्वासः स्वपिति स पालनं करिष्यति हननं वा तन्न जानाति तथेत्यर्थः ॥ ५ ॥ स प्रमाणभूतः अत एव भूतानां विश्रम्भणीयः विश्वसनीयः सघृणः परक्ले शदर्शने द्रवीभूतचित्तश्चेत् तदा कृतमैत्रं कृतविश्वासं विश्वासेन नितरामर्पित आत्मा येन तम् अचेतनमज्ञं कथं द्रोग्धुमर्हतीत्यन्वयः । तथाचैते यमादयोऽपि श्रेष्ठत्वादिनाऽभिमताः सर्वे विश्वसनीयाश्चेत् एवमदण्ड्यदण्डने प्रवृत्तास्तदा तदनुसारेण सर्वोऽपि लोकस्तथा प्रवृत्तो भविष्यति तेन महाननर्थप्रवृत्तिः स्यादिति भावः ॥ ६ ॥ नन्वत्य पापस्य प्रदर्शितत्त्वात् प्रायश्चित्तस्याकृतत्वाच्छुद्धयर्थं दण्ड उचित एवेति चेत्तत्राहुः अयं हीति । हीत्यवधारणे । कृतनिर्देशः कृतप्रायश्चित्त एवायं तत्रापि नैकजन्मनि कृतानां पापानामेव, किन्तु जन्मकोटथंहसामपि । कुतः ? यत् यस्माद्विवशो हरेर्नाम व्याजहार उच्चारितवान् । न केवलं प्रायश्चित्तमात्रं हरेनाम, किन्तु स्वस्त्ययनं मोक्षसाधनमपि ‘सकृदुच्चारितं येन हरिरित्यक्षरद्वयम् ॥ बद्धः परिकरस्तेन मोक्षाय गमनं प्रति’ इति स्मृतेः ।। ७ ।। * न केवलमिदानीं मरणसमये उच्चारितेनैव नाम्ना प्रायश्चित्तं जातं किन्तु पूर्वमपि यदा पुत्रनामकरणभोजनादिसमये नारायणायेति चतुरक्षरं जगाद उच्चारितवान् तदैवैतेन पुत्रोपचरितनाम्नैव अस्याघोनोऽघवतोऽनेकजन्मसचितस्याघस्य निष्कृतं प्रायश्चित्तं कृतं स्यात् । हीति निश्चितमेवैतन्नात्र सन्देहः । एतेनेदानीमेव नामग्रहणाच्छुद्धो भवतु अस्मत्प्राप्तेः पूर्वं तु पापीयानेवातोऽस्य दण्डार्थनयने प्रवृत्तिरुचितैव कथमहो कष्टमित्याद्याक्रोशः क्रियते इति शङ्का निरस्ता ॥ ८ ॥ भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी
श्रावयित्वाऽद्भुतं नाममाहात्म्यं तु यमानुगान् । द्वितीये वैष्णवैर्विप्रो नीतो विष्णोनिकेतनम् ॥ १ ॥ * एवं यमदूतैरुक्ता विष्णुदूता आहुरित्याह मुनिः । एवमिति । हे राजन्, एवमुक्तप्रकारेण, यमदूतैः अभिभाषितम् उपधार्य श्रवणेन मनसि धृत्वा, वच इति शेषः । अथ नयकोविदाः न्यायनिपुणाः, ते भगवद्दूताः, तान् प्रत्याहु: । यमदूतान्प्रति कथयामासुरित्यर्थः ॥ १ ॥ उक्तमेवाह अहो इत्यादि ‘स वेद परमं गुह्यं धर्मस्य भगवान्यम’ इत्यन्तेन ॥ अहो इति ॥ अहो, कष्टं प्राप्तं, किं तदित्यत्राह । धर्मदृशां सभाम् अधर्मः स्पृशते । कोऽसावधर्म तत्राहुः । यत्र यस्यां समसभायाम् अपापेषु, अत एव अदण्डचेषु, गैर्भवादृशैः, वृथा दण्डः, धियते । अयमेवाधर्म इति भावः ॥ २ ॥ प्रजानामिति । ये शास्तारो भवादशा: शिक्षकाः, समा वैषम्यरहिताः साधवः दोषापाकरणरूपपरकार्यसाधकाः, अत एव प्रजानां पितरः हितकारिणः, भवन्तीति शेषः । यदि तेषु च भवादृशेष्वेव, वैषम्यं स्यात्, तर्हि, प्रजाः कं शरणं यान्ति प्राप्नुवन्ति ॥ ३ ॥ एतत्प्र- वर्त्तितमधर्ममन्योऽपि करिष्यतीति महत्कष्टमित्याहुः ॥ यद्यदिति ॥ श्रेयान् श्रेष्ठो भवादृशः, कृत्स्नवित यत् यत्, कर्मेति शेषः । आचरति । तत्तदेव कर्म, इतरोऽकृत्स्नविदपि, ईहते चेष्टते । स श्रेयान् यच्छाखं प्रमाणं कुरुते, इदमेव प्रमाणमिति मन्यते “स्कं. ६ अ. २. ९-१६] । अनेकव्याख्यासमलङङ्कृतम्
इत्यर्थः । तदेव शास्त्रं इतरः लोकः अनुवर्त्तते । अतः स्वानुष्ठानेन धर्मप्रवर्त्तकानां वेदानुवर्त्तिनां श्रेयसां वो हीदमदण्डचदण्डन- मनुचितमित्यर्थः ॥ ४ ॥ * * * किं चापराधवल्लोकदण्डधरो यमो, न त्वनपराधदण्डधर इति लोकविश्वसनीयः सन्नेव प्राकृतवद्वैषम्यवत्त्वेनानपराधिनोऽपि दण्डयिता स्यात्तर्हि विश्वासघातकतादोष: प्रसज्येतेति लोकपरिपाटीमुखेनाहुः ॥ यस्येति द्वाभ्याम् ॥ लोकः, यस्य विश्वसनीयस्य, अङ्के उत्सङ्गे शिरः स्वमस्तकम्, आधाय निधाय, निर्वृतः सन् स्वपिति सुप्रवत्सुखितः भवति । तथाविधः, स्वयं स पुमांश्चेदित्यर्थः । पशुः यथा तथा, धर्मम् अधर्म वा, न हि वेद, न विजानीयादित्यर्थः ॥ ५ ॥ * * स इति ॥ सः पशुसमः सोऽयं पुमानित्यर्थः । न्यर्पितात्मानं कृतात्मसमर्पणं, कृतमैत्रं विहितमित्रवद्विश्वासम् अचेतनं विवेक- वर्जितं, षष्ठयर्थे द्वितीया । तेन न्यर्पितात्मनः कृतमैत्रस्य अचेतनस्य च पुरुषस्येत्यर्थः । कथं विश्रम्भणीयः विश्वासकरणा: स्यात् । अन्वेतद्यदि यममुद्दिश्य वृध्ये तर्हि तु, तदस्मिन्न युज्यते तस्य तु, दयालुत्वाद्धर्माधर्मज्ञत्वादिति चेत्तत्र वमः । सघृणो दयालुः स यमः, भूतानां द्वितीयार्थे षष्ठीयम् । ततः कृपणान्कृतप्रायश्चित्तांश्च प्राणिन इत्यर्थः । कथं द्रोग्धुम् अर्हति नाईत्येवे- त्यर्थः ॥ ६ ॥ नन्वस्य पापिनो दण्डे किमर्थमेतावानाक्रोशः क्रियते तत्राहुः ॥ अयमिति ॥ अथमजामिल: जन्म- कोट्य हसाम् अपि, जन्मनां कोटिभिरर्जितानां पापानामपीत्यर्थः । कृतः निर्वेशः प्रायश्चित्तं येन तथाभूतः, अस्तीति शेषः । हि यद्यतो हेतोः, विवश: परवशः सन्नपि, स्वस्त्ययनं स्वशुभावह, हरेः नाम व्याजहार सम्यक जगाद अयमेवास्य निर्वेश इति भावः ॥ ७ ॥ * * ननु ‘नान्यः पन्था विद्यतेऽयनाय’ इति श्रुतेरुपासनव्यतिरिक्तोपायान्तरनिषेधात्कथं परवशतांयां कृतस्य संकेतितभगवन्नामोच्चारणस्य निखिलोहोनिरसनद्वारेण मुक्तिसाधनत्वमित्यत्राहुः एतेनैवेत्यादिना यतस्तद्विषया मतिरित्य- तेन ॥ एतेनेति ॥ यदा प्राणप्रयाणसमये इति शेषः । नारायण आय आगच्छ इति, चतुरक्षरं वेदवर्णात्मकं भगवन्नामेति शेषः । जगाद । तदा एतेन एव, अघोनः पापिनः अस्य, अघनिष्कृतं पापप्रायश्चित्तं कृतं स्यात् हि । जातमेवेत्यर्थः । तथा च स्मृतिः । ‘सकृदुच्चरितं येन हरिरित्यक्षरद्वयम् । बद्धः परिकरस्तेन मोक्षाय गमन प्रति’ इति ॥ ८ ॥ भाषानुवादः विष्णुदूतोंद्वारा भागवतधर्म - निरूपण और अजामिलका परमधामगमन * V श्रीशुकदेवजी कहते हैं—परीक्षित् ! भगवान् के नीतिनिपुण एवं धर्मका मर्म जाननेवाले पार्षदोंने यमदूतोंका यह अभिभाषण सुनकर उनसे इस प्रकार कहा ॥ १ ॥ * * भगवान्के पार्षदोंने कहा - यमदूतो ! यह बड़े आश्चर्य और खेदकी बात है कि धर्मज्ञों की सभा में अधर्म प्रवेश कर रहा है। क्योंकि वहाँ निरपराध और अदण्डनीय व्यक्तियोंको व्यर्थ ही दण्ड दिया जाता है ।। २ ।। * * जो प्रजाके रक्षक हैं, शासक हैं, समदर्शी और परोपकारी हैं-यदि वे ही प्रजाके प्रति विषमताका व्यवहार करने लगें तो फिर प्रजा किसकी शरण लेगी ? ॥ ३ ॥ * सत्पुरुष जैसा आचरण करते हैं, साधारण लोग भी वैसा ही करते हैं । वे अपने आचरणके द्वारा जिस कर्मको धर्मानुकूल प्रमाणित कर देते हैं, लोग उसका अनुकरण करने लगते हैं ॥ ४ ॥ * साधारण लोग पशुओंके समान धर्म और अधर्मका स्वरूप न जानकर किसी सत्पुरुषपर विश्वास कर लेते हैं, उसीकी गोद में सिर रखकर निर्भय और निश्चिन्त सो जाते हैं ॥ ५ ॥ * वही दयालु सत्पुरुष, जो प्राणियोंका अत्यन्त विश्वासपात्र है और जिसे मित्रभावसे अपना हितैषी समझकर उन्होंने आत्मसमर्पण कर दिया है, उन अज्ञानी जीवोंके साथ कैसे विश्वासघात कर सकता है ? ।। ६ ।। * * यमदूतों ! इसने कोटि-कोटि जन्मोंकी पाप- राशिका पूरा-पूरा प्रायश्चित्त कर लिया है; क्योंकि इसने विवश होकर ही सही, भगवान् के परम कल्याणमय (मोक्षप्रद ) नामका उच्चारण तो किया है ॥ ७ ॥ * जिस समय इसने ‘नारायण’ इन चार अक्षरोंका उच्चारण किया, उसी समय केवल उतनेसे ही इस पापीके समस्त पापका प्रायश्चित्त हो गया ॥ ८ ॥ स्तेनः सुरापो मित्रधुग् ब्रह्महा गुरुतल्पगः । स्त्रीराजपित गोहन्ता ये च पातकिनोऽपरे ॥ ९ ॥ सर्वेषामप्यघवतामिदमेव सुनिष्कृतम् । नामव्याहरणं विष्णोर्यतस्तिद्विषया मतिः ॥ १० ॥ न निष्कृ तैरुदितैर्ब्रह्मवादिभिस्तथा विशुद्धयत्यथवान् व्रतादिभिः । यथा हरेनामपदैरुदाहृतैस्तदुत्तमश्लोकगुणोपलम्भकम् ॥ ११ ॥ नैकान्तिकं तद्धि कृतेऽपि निष्कृते मनः पुनर्धावति चेदसत्पथे १. प्रा० पाष्कृतैस्तैरुदितैः । २. प्रा० पा० सत्यपि । श्रीमद्भागवतम् [ स्कं. ६ अ. २ श्लो. ९-१६ तत्कर्मनिहरमभीप्सतां हरेर्गुणानुवादः खलु सच्चभावनः ॥ १२ ॥ १४ ॥ अथैनं मापनयत कृताशेषाधनिष्कृतम् । यदसौ भगवन्नाम म्रियमाणः समग्रहीत् ॥ १३ ॥ साङ्केत्यं पारिहास्यं वा स्तोमं हेलनमेव बा । वैकुण्ठनामग्रहणमशेषाघहरं विदुः ॥ पतितः स्खलितो भग्नः सन्दष्टस्तस आहतः । हरिरित्यवशेनाह पुमान्नार्हति यातनाम् ।। गुरूणां च लघूनां च गुरूणि च लघूनि च । प्रायश्चित्तानि पापानां ज्ञात्वोक्तानि महर्षिभिः ॥ १५ ।। १६ ॥ अन्वयः - स्तेनः सुरापः मित्रध्रुग् ब्रह्महा गुरुतल्पगः स्त्रीराजपितृगोहन्ता च ये अपरे पातकिनः सर्वेषाम् अघवताम् अपि विष्णोः नाम व्याहरणम् इदम् एव सुनिष्कृतं यतः तद्विषयामतिः भवति ।। ९-१० ।। * यथा अधवान् उदाहृतैः हरेः नामपदैः विशुध्यति तथा ब्रह्मवादिभिः निष्कृतैः न तत् उत्तम लोकगुणोपलम्भकम् ॥ १० ॥ * * हि निष्कृते कृते अपि मनः पुनः असत्पथे धावति चेत् तत् ऐकांतिकं न तत् कर्मनिर्हारं अभीप्सतां खलु सत्त्वभावनः हरे गुणानुवादः ॥ ११ ॥ * * अथ कृतशेषाघनिष्कृतम् एनम् मा अपनयत यत् असौ म्रियमाणः भगवन्नाम अग्रहीत् ॥ १२ ॥ * * सांकेत्यं वा पारि- हास्यं स्तोभं वा हेलनं वैकुण्ठनामग्रहणम् एव अशेषाधहरं विदुः ॥ १४ ॥ * * पतितः स्खलितः भग्नः संदष्टः आहतः पुमान् अवशेन हरि: इति आह सः यातनां न अर्हति ॥ १५ ॥ * * च महर्षिभिः गुरुणां च लघूनां पापानां गुरूणि च लघूनि च प्रायश्चित्तानि ज्ञात्वा उक्तानि ॥ १६॥ 1 श्रीधरस्वामिविरचिता भावार्थदीपिका * ननु कामकृतानां बहूनां महापातकानां सहस्रश आवर्तितानां द्वादशाब्दादिकोटिभिरप्यनिवर्त्यानां कथमिदमेकमेव प्रायश्चित्तं स्यात्तत्राहुः स्तेन इति द्वाभ्याम् ॥ ९ ॥ * * सुनिष्कृतं श्रेष्ठं प्रायश्चित्तमिदमेव । तत्र हेतुः । यतो नामव्या- हरणात् । तद्विषया नामोबारकपुरुषविषया मदीयोऽयं मया सर्वतो रक्षणीय इति विष्णोर्मतिर्भवति ॥ १० ॥ * * श्रेष्ठत्वमेवोपपादयंति नेति द्वाभ्याम् । ब्रह्मवादिभिर्मन्वादिभिरुक्तैर्ब्रतादिभिर्निष्कृतैः प्रायश्चित्तैस्तथा न शुद्धयति । उदाहृतैरु- चारितैर्यथा । नामपदैरित्यनेन नमामीत्यादिक्रियायोगोऽपि नापेक्षित इति दर्शितम् । किं च । तन्नामपदोच्चारणमुत्तमश्लोकस्य तद्गुणानां चोपलंभकं ज्ञापकं भवति । न तु कृच्छ्र चांद्रायणादिवत्पापनिवृत्तिमात्रोपक्षीणमित्यर्थः ॥ ११ ॥ * * नैकांतिकं नात्यन्त शोधकं तन्निष्कृतं यस्मिन्कृते ऽप्यसत्पथे पापमार्गे मनो धावति चेत्, कर्मणां पापानां निर्हारमात्यंतिकं नाशमिच्छतां हरेर्गुणानुवाद एवं प्रायश्चित्तम् । यतोऽसौ खलु सत्त्वभावनश्चित्तशोधकः ॥ १२ ॥ अथ तस्मादेनं माऽपमार्गेण नयत । कृतमशेषाणामघानां निष्कृतं येन । यद्यस्मात्समग्रहीत्संपूर्ण मुञ्चारितवान् । नामैकदेशेनाप्यलमिति भावः । म्रियमाण इत्यनेन पुनः पापांतरासंभव उक्तो न तु तत्कालत्वमेव विवक्षितम् । तदानीं कृच्छ्रादिविधिवन्नामोच्चारणविधेरप्यसंभवात् । न च विधि विना काकतालीयनामोच्चारणं पापापहमिति प्रमाणमस्ति ॥ १३ ॥ * * नन्वयं पुत्रनामाग्रहीन तु भगवन्नाम तत्राहुः । ।। ।। सांकेत्यं पुत्रादौ संकेतितं पारिहास्यं परिहासेन कृतं स्तोभं गोतालापपूरणार्थं कृतं हेलनं किं विष्णुनेति सावज्ञमपि च वैकुंठ- नामोच्चारणम् । ।। १४ ।। * ननु नायं संकल्पपूर्वकं वैकुंठनामाग्रहीत्किं तु पुत्रस्नेहपरवशः संस्तत्राहुः । पतित इति अवशेनापि यो हरिरित्याह स यातनां नार्हति । पुमानित्यनेन नात्र वर्णाश्रमादिनियम इत्युक्तम् । अवशत्वमेवाह । पतितः प्रासादादिभ्यः । स्खलितो मार्गे । भग्नो भन्नगात्रः । संदष्टः सर्पादिभिः । तप्तो ज्वरादिना । आहतो दंडादिना ।। १५ ।। * * ननु महतः पापस्य महदेव प्रायश्चित्तं युक्तं न त्वल्पं नामग्रहणमात्रं पापतारतम्येन कृच्छ्रादि- तारतम्यवत्तत्राहुर्द्वाभ्याम् । गुरूणां पापानां गुरुणि प्रायश्चित्तानि लघूनां च लघुनि तारतम्यं ज्ञात्वा मन्वादिभिरुक्तानि अतस्तत्र तथैव व्यवस्था । हरिनाम्नस्तु नेयं व्यवस्थोक्ता “विष्णोः स्मरणमात्रेण मुच्यते सर्वपातकैः” इति वचनात् । न च सुराबिंदुपाने महापातकत्वस्मरणवन्नान्नस्तत्प्रायश्चित्तत्वस्मरणस्यायमतिभारः ॥ १६ ॥ वंशीधरकृतो भावार्थदीपिकाप्रकाशः * अत्राक्षिपति नन्विति । स्तेनः स्वर्णस्तेयकरः । अपरे पैशुन्यदेवविप्रनिगम निंदादिपापकर्तारः ॥ ९ ॥ * * तत्र अस्यैव मुख्यप्रायश्चित्तत्वे ॥ १० ॥ * * ब्रह्मात्र कर्मकांडमात्रं ‘मुह्यंत्याम्नायवादिनः’ इतिवत् । नामरूपैः पदैरेकस्य नाम्न एव वावांतरपदैर्यथा गोवर्द्धनधारीत्यत्रावांतरपदं गोवर्द्धनेति ज्ञापकम् । यथा दीनदयालुरित्युक्ते गजनिर्मोचनादिरूप- गुणानामनुभवो भवति । हे कंसारे इत्युक्ते च कंसविषय सर्व लीलानुभवो भवतीत्यर्थः । इत्यर्थ इति । चांद्रायणादिना पापक्षयस्तु / स्कं. ६ अ. २ श्लो. ९-१६ 1 अनैकव्याख्यासमलङ्कृतम् * ६१ भवत्येव न तु भगवल्लीलास्मरणादिकं तेन जायत इति भावः ॥ ११ ॥ न केवलं नामैव तादृकू किन्तु गुणा अपीत्याह - नैकांतिकमिति । तत् तस्मात् ।। १२ ।। इति भाव इति । नामपदैरित्यक्तेरयमाशयः । तत्कालत्वात् अंतकाल एव नामोच्चारणं कर्त्तव्यमिति न विवक्षितम् । कुतः तदानीमन्ततकाले यथा कृच्छ्रादि कर्त्तुं न शक्यते तथा नामोचार- णमपीति मनसोऽस्थैर्यात् । विधिं विना काकतालीयनामोच्चारणमकस्मान्नामोचारणं पापापहमिति प्रमाणं न चास्ति किं त्वस्त्येवाचैव दृष्टत्वात् । काकतालीयं तु यदा काक आगतस्तदैव तालफलं पतितमित्याकस्मिको योग एव ।। १३ ।। * * पुनराक्षिपति - नन्विति । परिहासेन कृतम् । अहो भवांस्तु साक्षान्नारायणो यतो नारे वसतीति कंचिन्नरसमूहस्थं प्रत्युपहासः । तीर्थस्तु — कोपजननाय नर्मवचनं स्तोभः यथा मधुमक्षिका सूदना समर्थस्त्वं किं मधुं सूदितवानसौ हरिश्चेन्मधोर्वधान्मधुसूदन- स्तदुपपन्नमेव ॥ १४ ॥ * * पुनराक्षिपति – नन्विति । अवशेन वैवश्येनापि यतस्तैरित्यमुक्तमतो हेतोः । तत्र मन्वादिग्रंथे । तथा पापानुरोधेन प्रायश्चित्तव्यवस्था यथा सुराबिंदुपानेनापि पुमान्महापातकी भवतीति स्मर्यते तथाह एकनाममात्रस्मरणमपि महापातकप्रायश्चित्तं भवतीति स्मर्यतां न नाम्नस्तद्धनने कश्चिद्वारोऽस्तीति भावः ।। १५-१६ ॥ अन्वितार्थप्रकाशिका स्तेन इति युग्मम् ॥ यः स्तेनो ब्राह्मणस्वर्णहर्ता इत्यादिकः ये च अपरे पातकिनः तेषां सर्वेषामपि अघवताम् इदं विष्णो- नमव्याहरणं नामोच्चारणमेव सुनिष्कृतं श्रेष्ठं प्रायश्चित्तम् । यतो नामव्याहरणात् तद्विषया सेव्यतया भगवद्विषया पुरुषस्य मतिर्भवति । यद्वा । तद्विषया नामोच्चार कपुरुषविषया मदीयोऽयं मया सर्वतो रक्षणीय इति भगवतो मतिर्भवति ॥ ९-१० ॥ * नेति । यथा उदाहृतैः मनोनिवेश राहित्येनाप्युच्चारितमात्रैः हरेर्नामपदैः ननामीत्यादिक्रियानिरपेक्षैरेव अघवान् पापी विशुद्धयति तथा ब्रह्मवादिभिर्मन्वादिभिरुदितैर्विहितैर्ब्रतादिभिर्निष्कृतैः प्रायश्चित्तैर्न विशुद्धयति । यतः तन्नामपदोच्चारणम् उत्तमश्लोकस्य महायशस्विनो भगवतो ये गुणा ऐश्वर्यादयस्तेषामुपलम्भकं प्रकाशकं भवति न त्वन्यत्रतवत्पापनिवृत्तिमात्रो- पक्षीणम् ॥ ११ ॥ नैकान्तिकमिति । तत्प्रायश्चित्तान्तरं नैकान्तिकमत्यन्तशोधकं न भवति कुतः हि यस्मात्तस्मिन्निष्कृते प्रायश्चित्ते कृतेऽपि पुनः असत्पथे पापमार्गे मनो धावति । अत्यन्तशुद्धौ तन्न स्यादिति भावः । चेत् यद्येवं तत्तदा कर्मणां पापानां निर्हारमात्यन्तिकं नाशमिच्छतां हरेर्गुणानुवाद एव खलु निश्चयेन प्रायश्चित्तं यतोऽसौ सत्त्वभावनः पापमूलाविद्यानाश- कत्वादत्यन्तान्तःकरणशोधकः ।। १२ ।। अथेति । यत् यस्मादसौ म्रियमाणो भगवन्नाम समग्रहीत् संपूर्णमुच्चा- रितवान् नामैकदेशेनाप्यलमिति भावः । म्रियमाण इत्यनेन पुनः पापान्तरासम्भव उक्तो न तु तत्कालत्वमेव विवक्षितं मरणकाले कृच्छ्राद्विधिवन्नामोचारणविधेरप्यसम्भवात् । न च विधिं विना काकतालीयनामोच्चारणं पापापहमिति प्रमाणमस्ति । अथ तस्मात् कृतमशेषाणामघानां निष्कृतं प्रायश्चित्तं येन तमेनमपमार्गेण मा नयत ॥ १३ ॥ * * ननु नायं भगवन्नामा- ग्रहीत् किंतु पुत्रनामैवातः कथं तेन पापनिवृत्तिरित्याशङ्कयाहुः – साङ्केत्यमिति । साङ्केत्यं पुत्रादौ सङ्केतः । स्वार्थे ष्यम् । सर्वत्र तृतीयार्थे प्रथमा । सङ्केतादिभिरपीत्यर्थः । पारिहास्यं प्रीतिगर्भमेव न तु निन्दागर्भम् । भो विख्यातकीर्ते कृष्ण ! दृष्टा तव मर्यादा रासोत्सव इति परिहासेन कृतं स्तोभं गीतालापपूरणार्थं कुतं हेलनं यो ह्यनेककोटिब्रह्माण्डानि धत्ते तेन कृष्णेन गोवर्धनोद्धारे कः श्रमः कृतः स्यात् मम भाग्यमेवेहग्घरिणा किं कर्तव्यमिति मर्यादागर्भेण हेलया कृतं न तु निन्दागर्भितं तथा सति “निन्दां भगवतः शृण्वन्” इत्याद्युक्तनिन्दाश्रवणादिदोषप्रसङ्गात् । यद्वा । हेलया गिरिरुद्धृत इतिवत् प्रयत्नराहित्येन अबुद्धिपूर्वकं यदृच्छया कृतमिति वैकुण्ठस्य भगवतो नाम्नां ग्रहणमुच्चारणमशेषाणि वासनापर्यन्तानि समूलानि अघानि पापानि हरतीति तथा विदुः शास्त्ररहस्यज्ञा जानन्ति ॥ १४ ॥ * * साङ्केत्यादिभ्योऽन्यत्र वैवश्येऽपि पापनाशमाह - पतित इति । पतितः प्रासादादिभ्यः स्खलितो मार्गे भग्नो भग्नगात्रः संदष्टः सर्पादिभिः तप्तो ज्वरादिना आहतो दण्डादिना अत एवावशेन वेदनादिवशेनापि यः पुमान् हरिरित्याह स यातनां नार्हति पुमानित्यनेन नात्र वर्णाश्रमादिनियम: किंतु प्राणिमात्र- मधिकारीति सूचितम् ।। १५ ।। * * ननु महतः पापस्य महदेव प्रायश्चित्तं युक्तं न त्वल्पं नामग्रहणमात्रं पापतारतम्येन कृच्छ्रादितारतम्यवत् तत्राहुः — गुरुणामिति । गुरूणां पापानि गुरुणि प्रायश्चित्तानि लघूनां च पापानां लघूनि प्रायश्चित्तानि महर्षिभिः ज्ञात्वा विचार्योक्तानि अतस्तत्र तथैव व्यवस्था | हरिनाम्नस्तु नेयं व्यवस्था । “विष्णोः स्मरणमात्रेण मुच्यते सर्वपातकैः ।” इत्युक्तेः ॥ १६ ॥
वीरराघवव्याख्या
… अथ हे यमदूताः ! कृतमशेषाघनिष्कृतं येन तमेनं मापनयत माप्रापयत यमालयमिति शेषः ।
- कुतः यद्यस्मादसावजामिल: म्रियमाणो भगवतो नाम सम्यगग्रहीदुखचार ॥ १३ ॥ नन्वसौ पुत्रे सङ्केतितं नाराय- णेति पदमुश्चारितवानतः तत्पुत्रविषयकमत्युत्पादनद्वारा एनं संसारयेदेव ननु भगवद्विषयकमत्युत्पादनद्वारा मोचयेदित्यपेक्षायां यदृच्छया भस्मादिबुद्धया वास्पष्टस्याग्नेर्यदृच्छ्या पीतस्योपधस्य दाहकत्वारोग्यजनकत्ववद्वस्तूनां विलक्षणस्वभावत्वात्सङ्केतित- स्वासङ्केतितस्य वान्यादृशो भगवन्नाम्नः सर्वाधनिवर्त्तकत्वं भगवद्विषयक मत्युत्पादकत्वं च स्वाभाविको धर्म इत्याहुः । साङ्केत्य- मित्यादिना मन्त्रीऽप्युदाहृत इत्यन्तेन ग्रन्थेन । साङ्केत्यं पुत्रादौ सङ्केतकृतं पारिहास्यमुच्चारणासमर्थजन परिहासकृतं स्तोभं ( १ ) निरालापकृतम् । यद्वा । भूताविष्टस्य मन्त्रशत्यादिभिरालापनं स्तोभस्तत्कृतमित्यर्थः । हेलनं स्वविरोधिजननिन्दाद्यन्त- भूतम् । यद्वा । किं विष्णुनेति सावज्ञ हेलनरूपं वा अन्यदपि प्रकारान्तरमापन्नं वैकुण्ठस्य भगवतो नामग्रहणं निःशेषपापहरं विदुः नामसामर्थ्ययाथात्म्यविद इति शेषः ॥ १४ ॥ तथा पतितः प्रासादादेः मार्गे भगवदाज्ञारूपवर्णाश्रमधर्माद्वा स्खलितः भग्नः भग्नपादाद्यवयवः संदष्टः सर्पादिभिः तप्तो ज्वरादिना आइतो दण्डादिना एतदन्यतमामवस्थां प्राप्तः पुमान् यद्यव- शेनापि हरिरित्याह । तर्हि यातनाः प्रति नार्हति ॥ १५ ॥ ननु महतः पापस्य महदेव प्रायश्चित्तं नत्वल्पं नामग्रहणं पापतारतम्येन प्रायश्चित्ततारतम्यस्य मन्वादिभिरुक्तत्वादन्यथा प्रायश्चित्तशास्त्रवैयर्थ्यं स्यादित्यन्तरा कस्यचिन्मन्दाशङ्कां निराकु- र्वन्ति । गुरुणामिति । गुरूणां पापानां गुरुणि प्रायश्चित्तानि लबूनां लघूनि महर्षिभिर्यथावज्ज्ञात्वा यद्ययुक्तानि ॥ १६ ॥ । । ! विजयध्वजतीर्थकृता पदरत्नावली न केवलं दासीसङ्गप्राप्तपापहरं हरिनामकीर्तनं स्तैन्यादिप्राप्तसर्वपापक्षयकरमित्याह । स्तेन इति ॥ ९ ॥ * * यतस्तद्विषयेत्यनेन भक्तिपूर्वकत्वमाह ॥ १० ॥ * * ब्रह्मादिभिर्वेदवादिभिः तन्नाम्न उदाहरणमुत्तमश्लोकस्य हरेः गुणाना- ( १ ) निरालापकृतमिति निरालापैः यथावद्वणं चारणासमर्थः कृतमुच्चारितमित्यर्थः । यथा नारायणेति वक्तव्ये नाना ननेत्युक्तिः एतथ श्रीरहस्यत्रयसारप्रभावव्यवस्थाधिकारव्याख्यासु स्पष्टम् ।
-
अनेकव्याख्या समलङ्कृतम् ६३ स्कं. ६ अ. २. ९-१६] नन्दादीनुपलम्भयति तत्प्रतिबिम्बभूतान् प्रापयतीति तदुत्तमश्लोकगुणोपलम्भकम् ॥ ११ ॥ हरेर्नामसंकीर्तनेनैव पापनिर्मूलनं न तपआदिभिरित्येतदुपपादयति । नेति । निष्कृते पापप्रायश्चित्ते कृतेऽपि अघवतः मनः पुनरसत्पथे शास्त्रनिषि- मार्गे धावति चेत्तत्प्रायश्चित्तमेकान्तिकं नियतम् अव्यभिचारि न भवतीति यस्मात्तस्मात्कर्मनिहरमाकाङ्क्षमाणानां हरेर्गुणा- नामनुवादः ऐकान्तिक एवेत्यन्वयः । नन्वनेनापि मनोदोषानाशे पूर्वस्मादविशेषः स्यादिति तत्राह । स्वत्त्वेति । सत्त्वभावनोऽन्तः- करणशुद्धिहेतुः खलु ॥ १२ ॥ अथ तस्मात् ॥ १३ ॥ * * नत्वनेन न हरेर्नामाग्राहि किं तु पुत्रनामैवेति तत्राह । सांकेत्यमिति । पुत्रादिसङ्केतादिविषयत्वेन नाराय गेत्यादिभगवन्नाम संकीर्तनमशेषाघहरम् । तदुक्तमाचार्यैः नारायणोऽ- यमित्यन्यहेलनविषयत्वेनोक्तमघहरमिति भक्तिपूर्वकमेवोदाहृतं हरिनामाशेषावहरमिति तात्पर्यमत्र बोद्धव्यमेतदप्युक्तं ‘सर्वथा हरं विष्णोर्नाम तद्भक्तिपूर्वकम् अभक्योदाहृतं नैव फलदार भविष्यति । नाम स्वामितया तस्य स्मरणं जायते यतः । भक्तस्यातो नामकीर्तिः संकेतादावपीरिता । अजामिलोऽपि स्मरणाद्भक्तचा मृत्योरमुच्यत’ इति स्मरणप्राचुर्यदर्शनाय साङ्केत्या- दिस्थलबाहुल्यकथनं संकेते रूढिमात्रेण व्यवहारनिर्वाहात्स्मरणासंभवेन परिहासे तस्मात्स्मरणं संभवति चित्तविकासोद्रेक- व्यवहारात् ततोऽपि स्तोभे स्मरणं कोपजननाय नर्मवचनं स्तोभः मधुमक्षिकासूदना समर्थस्त्वं किं मधुं सूदितवान् असौ हरिश्चेन्मधोर्वधान्मधुसूदन इत्युपपन्नमिति ततोऽपि हेलने नामस्वामिहरणं हरेरन्यं नारायणादिनान्ना पित्रादिभिर्दतेनोपचरितं कञ्चनपुरुषं दृष्ट्वा निन्दयेत्साक्षात्पयोधिशयो नारायणः किलेति हरिद्वेषेण हरिनामकीर्तनम बहरं न स्यात् " अभक्त थोदाहृतं नैव फलदातृ भविष्यति, इत्यादेश्व नाम स्वामिस्मरणाभावे देवदत्ते नामपीडितार्थं भवति मधो: सूदनान्मधुसूदन इत्यर्थस्याभावात् et तद्भावादतोऽजामिलेन भक्तचा नाम स्वामिनं स्मृत्वा नामकीर्तनं कृतमिति ज्ञातव्यं तदुक्तं च “नामस्वामितया तस्य स्मरणं जायते यतः” इत्यादि यानि यानि श्रीहरेर्नामानि तानि सर्वाणि पापहरणसामध्येपेितानि भवन्तीति ज्ञापनाय वैकुण्ठ- नामेति अत्रैव हरिरित्यवशेनाह यः पुमानिति वक्ष्यति स्मरणं च ज्ञानपूर्वकमपेक्षितमित्यतो विदुरिति ॥ १४ ॥ * संदष्टः सर्पादिना आहतो लकुटेन यातनां दुःखम् ।। १५ ।। * * ननु नामसंकीर्तनेन पापपरिहारे गुरुलघुपापपरि- हारार्थं गुरुलघुप्रायश्चित्तविधानं व्यर्थमित्याशङ्कच प्रायश्चित्तेन तत्तत्पापपरिहारेऽपि संसारहेतुभूतं पापसंस्कारख्यञ्जकं प्राकृतं लिङ्ग मनो भगवदनुग्रहेण लीयते नान्येनेत्याह । गुरुणामिति ॥ १६ ॥ * जीवगोस्वामिकृतः क्रमसन्दर्भ : यत इति । तस्य विष्णोरनुभवोऽपि यतो भवतीत्यर्थो वा ॥ १० ॥ * * ब्रह्मवादिभिरिति । ब्रह्मात्र कर्मकाण्ड- मात्र मुन्त्याम्नायवादिनः इतिवन्नामरूपैः पदैः एकस्य नान एवावान्तरपदैः उत्तमश्लोकस्य गुणानामुपलम्भकमनुभव- हेतुश्च ॥ ११ ॥ न केवलं नामैव ताइक किन्तु गुणा अपीत्याहुः । नैकान्तिकमिति । गुणानामनुवा- । । दोऽपि ।। १२ ।। अथैनमिति । म्रियमाणोऽपीत्यर्थः । साङ्केत्यमित्यादिवक्ष्यमाणबलान्न तत्कालमात्रावश्यकत्वं विवक्षितमिति ।। १३ ।। * * पारिहास्यमिति । परिहासोऽत्र प्रीतिगर्भमन्य परिभववचनं न तु निन्दा गर्भ तत्त्पहास एवोच्यते तस्मान्नमपोबलकं यत् किञ्चिद्भगवन्नामोक्तमित्यर्थः । हेलनमत्र हेलया गिरिरुद्धृत इति वद्यत्नराहित्यमयमेवोच्यते न त्ववमानात्मकमिति ज्ञेयं तथा सति वेणेऽपि दोषावहत्वं न स्यात् नाम्नो दशापराध्यां चाश्रद्दधानादिकं प्रत्युपदेशेऽपि दोषः श्रयते अपराधजननेऽपि प्राचीन पापक्षयः स्यादेवेति तु केचित् ॥ १४ ॥ न केवलं साङ्केत्यादिकन्तु प्रस्तुतदुःख- हानीच्छयापि तादृशत्वमित्याहुः । अवशेनापीति । पूर्व्ववत् यातना इति बहुवचनं कचित् ॥ १५ ॥ * * गुरुणामिति । पद्यत्रयेणैव विवक्षितप्रतिपादनं यानि प्रायश्चित्तान्युक्तानि तैस्तान्यवानि पूयन्ते एवं किन्तु दुर्वासना तु ईशानुगत्यैव पूयते तस्माद्यत्तूत्तमः श्लोकनाम तत्पुनरज्ञानात् ज्ञानाद्वा सङ्कीर्त्तितं सत् पुम्मात्रस्याघमनल एध इव निःशेषमेव दहेदित्यर्थः ।। १६-१८ ॥ विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी ननु भवतु नाम पातकानां नाशः किन्तु कामकृतानां बहूनां महापातकानां सहस्रश आवर्त्तितानां द्वादशाब्दकोटि- भिरप्यनिवर्त्त्यानां कथमेकेनैव नामाभासेन प्रायश्चित्तं स्यादित्यत आहुः । स्तेनः स्वर्णस्तेयी इदमेव सुनिष्कृतं पापनिर्मूली- करणाच्छ्रेष्ठं प्रायश्चित्तम् । न तु द्वादशाब्दादिकम् । पापनाशकत्वेऽपि पापनिर्मूलनासामर्थ्यात् नाप्येतन्मात्र फलकं यतो नाम- व्याहरणात् तद्विषया नामोबारकपुरुषविषया मदीयोऽयं मया सर्वथा रक्षणीय इति विष्णोर्मतिर्भवतीति स्वामिचरणाः । स्वनाम श्रुत्वैव तदुच्चार कमजामिलं स्मृत्वैव तमानेतुमस्मानादिष्टवानिति किमुत सेव्यत्वेन विष्णुविषया मति तस्य पुरुषस्य यदि स्यादिति भावः । अतः यमदूतान् साक्षाद्दर्शयितुमेवाजामिलक्ष्य तदानींतनं नामत्र्याहरणं सर्वपापप्रायश्चित्तत्वेन विष्णुदूता ६४ श्रीमद्भागवतम् 1 [ स्कं. ६ अ. २ श्लो. ९-१६ ऊचुः । वस्तुतस्तु पुत्रनामकरणसमयमारभ्यैव पुत्राह्नानादिषु बहुशो व्याहृतानां नान्नां मध्ये यत् प्रथमं तदेव सर्वपापप्रशम- कमभूदन्यानि तु भक्तिसाधकानीति व्याख्येयम् । यद्वद्याजहारेति परोक्षनिर्देशात् प्रथमं नामोद्दिश्यैवोक्तम् । विवश इति पुत्रस्नेहविवश इति व्याख्येयम् । न च पुनः पुनर्नामव्याहरणानन्तरमपि पुनः पुनरुत्पन्नानां वेश्याभिगमसुरापानादीनां सर्वेषां पापानां प्रशमनार्थमन्तिमसमयोत्थमेव नामत्र्याहरणमपेक्षितं यदनन्तरं पुनः पापानुत्पत्तिरिति वाच्यम् “बैकुण्ठनामग्रहणम- शेषाघहरं विदुः” इत्यत्राशेषपादोपादानात् । “वर्त्तमानञ्च यत् पापं यद्भूतं यद्भविष्यति । तत् सर्वं निहत्याशु गोविन्दा - लकीर्त्तनात् । इति । यन्नाम सकृच्छ्रवणात् पुल्कशोऽपि विमुच्यते संसारात् इति चित्रं विदूर विगतः सकृदाददीत यन्नामध्ये - यमधुना स जहाति बन्धम्” इत्यादिषु संसारबन्धादिप्रयोगाच्च तत्र तत्र समयविशेषनियमानभिधानाच्च प्रथमनामग्रहणेनैव सर्वपापानां तद्वासनायास्तन्मूलभूताविद्याया अपि नाशावगतेः पुनः पापप्ररोहासम्भवात् । ननु तर्हि प्रथमनामग्रहणानन्तर- मेवाजा मिलेन निविंद्य ततः कथं नापसृतं पापप्ररोहाभावेऽपि तस्यामेव दास्यामासज्य तत्तदेव पापं तावत्कालपर्यन्तं प्रत्युत कृतम् उच्यते संस्कारवशाज्जीवन्मुक्तानां कर्मेव तस्यापि तावत्कालपर्यन्तं तत्तदेव पापं पुनः पुनरुत्पद्यमानमप्युत्खातदंष्ट्रोरग- वंशवन्न फलजनकम् । किम्वा मतान्तरोत्थानाभावार्थं भगवतैव पापबीजाभावेऽपि पुनः पापे प्रवर्तनं भवेदित्येव व्याख्येयमन्यथा स्तुत्यर्थवादे कल्पनान्तरे वा व्याख्यायमाने “तथार्थवादो हरिनाम्नि कल्पनम्” इति पाद्मोक्तनामापराधप्रसक्तौ । “नाम्नोऽपि सर्वसुहृदो पराधात्पतत्यध” इति । “अर्थवाद हरेर्नानि सम्भावयति यो नरः । स पापिष्ठो मनुष्याणां निरये पतति स्फुटम् " । इति । ‘मन्नामकीर्त्तनफलं विविधं निशम्य न श्रद्दधाति मनुते यदुतार्थवादम् । यो मानुषस्तमिह दुःखचये क्षिपामि संसार- घोरविविधार्त्तिनिपीडिताङ्गम्, इति श्रुतिस्मृतिपुराणेषु नाममाहात्म्यवादिषु । येऽर्थवाद इति ब्रूयुर्न तेषां निरयक्षय’ इति पाद्मकात्यायनसंहितादिपरः सहस्रवचनादधः पात एव स्यात् । अत एव श्रीविष्णुरातेन । “कचिभिवर्त्ततेऽभद्रात् कचिचरति तत्पुनः । प्रायश्चित्तमथोऽपार्थ मन्ये कुञ्जरशौचवत् । इति पुनः पापप्रवृत्तिदर्शने प्रायश्विमाक्षिपतापि भक्तिप्रसङ्गे भक्तानामपि कस्य कस्यचित् पुनः पुनः पापप्रवृत्तिदर्शनेऽपि नैवाक्षेपः कृतः । अपि च यथा नामाभासबलेनाजामिलो दुराचारोऽपि वैकुण्ठं प्रापितस्तथैव स्मार्त्तादयः सदाचाराः शास्त्रज्ञा अपि बहुशो नामग्राहिणोऽप्यर्थवादकल्पनादिनामापराधबलेन घोरसंसारमेव प्राप्यन्त इत्यतो नाममाहात्म्यदृष्टया सर्वमुक्तिप्रसङ्गोऽपि । नाशक्यः । तदेवं भगवन्नाम सकृत्प्रवृत्तमपि सद्य एव समूलं पापं संहरदपि फलन्नपि वृक्षः काले एव फलतीतिन्यायेन प्रायः किञ्चिद्विलम्बत एव स्वीयफललिङ्ग लोके दर्शयित्वा बहिर्मुखशास्त्रम तोच्छेदाभावार्थं कचिन्न दर्शयित्वा च स्वव्याहर्त्तृ जनान् स्वापराधरहितान् भगवद्धाम नयतीति सिद्धान्तो वेदितः । नन्वर्थवादादिनामापराधवतां नामापराधहेतुकोऽधःपातो भवतु नाम तत्र न विवदामहे । नामग्रहणहेतुकः सर्वपापक्षयो भवति न वा आये कर्मिज्ञानियोगि- भक्तानां तद्भिन्नानामपि नृणां मध्ये पारदारिकपरहिंसादिगम्येषु नरकेषु केनापि न गन्तव्यं द्वितीये कर्मिप्रभृतिभिरिव भक्तैरपि पापभोगार्थं नरकेषु गन्तव्यमेव । अत्रोच्यते यथा महाजन : स्वाश्रितानामाश्रयणतारतम्येन पालनतारतम्यं कुर्वन्नपि तानेव नैव पालयति यदि ते तदपराधिनः स्युरिति तस्याप्रसाद एवं स्वाश्रितापालने कारणं न तु पालनासामर्थ्य कल्पनीयम् । तेषामेवा- पराधक्षयतारतम्येन तेषु तस्य प्रसादतारतम्यश्च ! सर्वापराधक्षये प्रसाद एव । एवमेव नामोपलक्षितां भक्तिदेवीं ये गुणीभावेना- श्रयन्ते कर्मादिफलसिद्धयर्थं तेषु गुणीभूताया भक्तेर्वर्त्तमानत्वेऽपि प्राधान्येन व्यपदेशा भवन्तीति न्यायेन ते कमिज्ञान्यादि- शब्देनाभिधीयन्ते । न तु वैष्णवशब्देन ते च स्वरूपत एवैकनामपराधवन्तः । यदुक्तम् । “धर्म्मत्रतत्यागहुतादिसर्व्वशुभक्रिया- साम्यमपि प्रमाद” इति नाम्नो धर्मादिभिः साम्यमप्यपराधः किमुत धर्माद्यङ्गत्वेन गुणीभूतत्वमित्यर्थः । तदपि तादृशस्खा- श्रयेण गुणलेशग्रहणेनैवैषां कर्मयोगादयो मा विफला भवन्त्विति स्वीयदाक्षिण्येन स्वापकर्षं स्वीकृत्यापि भक्तिदेवी तेषां कर्माद्य- ङ्गभूतैव कर्मादिफलं निष्प्रत्यूहमुत्पादयति यथा तथैव तेषां पापमपि प्रायश्चित्ताङ्गभूतैव नाशयति नान्यथेत्यतस्तैरेवाकृत- प्रायश्चित्तैस्तत्तत्पापफलभोगार्थं तेषु तेषु नरकेषु गन्तव्यमेव न तु वैष्णवैः । यदि च ते पुनरन्यानर्थवादसाधुनिन्दादीन् नामाप- । राधान कुर्वाणा एव धर्मादिकमनुतिष्ठन्ति तदा धर्माद्यङ्गभूतापि न तत्तत्फलमुत्पादयति । " के तेऽपराधा विप्रेन्द्र ! नाम्नो भगवतः कृताः । विनिघ्नन्ति नृणां कृत्यम्” इत्यादिवचनेभ्यः । किञ्च । तेषामपि तत्तदपराधेभ्यो निवृत्य तदुपशमकनामकीर्त्त- नादिपराणां नामापराधक्षयतारतम्येन कर्म्म फलप्राप्तितारतम्यं साधुसङ्गवशात् सर्व्वनामापराधक्षये तु भक्तिदेवी सम्यक्प्रसादेन । नामफलप्राप्तिरेव निर्विवादा | नन्वजामिलस्यापि “अयं “अयं हि श्रुतसम्पन्न” इत्यादियमदूत- वाक्यैः प्राक्तनं कम्मित्वमवगम्यते । सत्यं मदिरापानाद्राह्मण्यमप्यस्य नष्टमेव किमुत कर्मित्वं यदुच्यते । “एवं स विप्लावितसर्व्वधर्मा दास्याः पतिः पतितो गर्ह्यकर्म्मणा” इति । कर्मापगभक्षण एव भक्तेर्गुणीभावो ऽप्यपगतः पुनश्च स्वपुत्राह्नानादौ नारायणनामोच्चारणनिबन्धना केवलानन्यैव भक्तिरस्याभूदिति । नतु कर्म्मज्ञानाद्यङ्गत्वे भक्तिं कुर्वीतेति यदि विधिवाक्यमेवास्ति तर्हि कुतस्तेषां नामापराधः । उच्यते भक्तचैव सर्व्वेऽपि धर्माः सम्यगेब स्कं. ६ अ. २ श्लो. ९-१६] अनेकव्याख्या समलङ्कृतम् ६५ सिद्धयन्ति भक्तिलेशेनापि महापातकान्यपि नश्यन्तीत्यादिपरशतशास्त्रवाक्येष्वप्यविश्वसतां कर्मज्ञानयोरेव श्रद्धालूनां भक्तिबहिर्मुखानामशुद्धकुटिलचित्तानामप्यनेनैव प्रकारेण भक्तिर्भवत्विति दयामयमेव वेदशास्त्रं धर्म्मज्ञानाद्यङ्गत्वेन भक्ति विधत्त इत्यतो न शास्त्रवाक्यमुपालम्भनीयमिति ततश्च वैधपशुहिंसाकृतो विधिबलात् स्वर्गप्राप्तावपि यथा तद्विसादोषानपरामस्तथैव भक्तिगुणीभावकरणरूपापराधवतो विधिबलात् कर्मफलप्राप्तावपि तदपराधानपगम एवं ज्ञेय इति । अथ ये नामापराधिनो वैष्णव्या दीक्षया वैष्णवमेव गुरुकृत्य भक्तिदेवीं कैवल्येन प्राधान्येन वाश्रयमाणाः नामकीर्त्तनादिभिर्भगवन्तं भजन्ते । तेषामपि वैष्णवशब्देनाभिधीयमानानां भक्तितारतम्येनैवापराधक्षयतारतम्यं भक्ते मुख्यफलोदयतारतम्यश्च भक्तिदेव्याः प्रसादतारतम्येनैव । यदुक्तं भगवतैव । “यथा यथात्मा परिमृज्यते ऽसौ मत्पुण्यगाथाश्रवणाभिधानैः । तथा तथा पश्यति वस्तु सूक्ष्मं चतुर्यथैवाञ्जनसम्प्र- युक्तम् इति । भक्तिः परेशानुभवो विरक्तिः” इत्यादि च “शृण्वतां स्वकथाः कृष्णः पुण्यश्रवणकीर्त्तनः । हृद्यन्तःस्थो भद्राणि विधुनोति सुहृत् सताम्” इत्यादिवचनव्यज्यमान चतुर्द्दशभूमिकारोहच क्रमेणैव तेषां ज्ञेयः । एतदर्थमेव तत्र तत्र श्रद्धावृत्त्यादि- विधानम् । अत्रापि प्रकरणे “गुणानुवादः खलु सत्त्वभावन” इति अतस्तेषां क्षीणसर्वापराधत्वे सत्येव भगवन्तं प्राप्तानां न पुनर्भवः निरपराधानान्तु भगवत्प्राप्तौ नास्ति विलम्बस्तेषां हि भगवन्नामग्रहणं वैकुण्ठारोहणचेति । द्वे एव भूमिके यथा अजा- मिलादीनां यदुक्तम् । “न वासुदेवभक्तानामशुभं विद्यते कचित् । जन्ममृत्युजराव्याधिभयं वाप्युपजायते इति स्वधर्मनिष्ठः शतजन्मभिः पुमान् विरिश्चितामेति ततः परं हि माम् । अव्याकृतं भागवतोऽथ वैष्णवं पदं यथाहं विबुधाः कलात्यय” इति निरपराधानामपि केषाञ्चित् प्रेमविशेषसिषाधयिषूणां भगवत्प्राप्तौ किञ्चिद्विलम्बोऽपि । यथैवादिभरतस्य जन्मत्रयमभूत् । किञ्च । सापराधानां मध्ये यदि केचिद्भजनाभ्यासाभावादक्षीणप्राचीनपापा: क्रियमाणपापनामापराधाश्च स्युस्तदपि तैर्देहत्या- गानन्तरं नरकेषु न गन्तव्यं “स्वपुरुषमभिवीक्ष्य पाशहस्तं वदति यमः किल तस्य कर्णमूलें । परिहर मधुसूदनप्रपन्नान् प्रभुरह- मन्यनृणां न वैष्णवानाम् इति नैषां वयो न च वयं प्रभवाम दण्ड” इत्यादियमवचनेभ्यः । " प्राहास्मान् यमुनाभ्राता सादरं हि पुनः पुनः । भवद्भिर्वैष्णवस्त्याज्यो विष्णुद्भजते नर” इति पाद्ममाघमाहात्म्यीयदेवदूतवचनाथ । किञ्च । नाङ्गोपक्रमे ध्वंसो मद्धर्मस्योद्रवाण्यपि इति भगवद्वाक्यात् किञ्चित्तचङ्कुरस्याप्यनश्वरस्वभावात् पापादिभिर्दुरतिक्रमत्वादमोघत्वाश्चावश्यमेव जनिष्यमाणपत्रपुष्पाद्यर्थमेव तेषां जन्म भवेन्न तु नश्यद्वस्थपापपुण्यनिबन्धनम् यदुक्तम् । “न कर्म्मबन्धनं जन्म वैष्णवानाश्च विद्यत” इति । अतो जन्मान्तरे तेषां प्राचीनभक्तिदेव्याः प्रसादेन भगवत्प्राप्तिः । यदुक्तम् " न वै जनो जातु कथनात्रजेन्मुकुन्द- सेव्यन्यवदङ्ग ! संसृतिम् । स्मरन्मुकुन्दाऽयुपगूहनं पुनर्विहातुमिच्छेत्र रसग्रहो जन” इति । अत्रान्यवदिति कम्मिजनादिवत् संसृतिं पुण्यपापफलभोगमयीं प्राप्नोति किन्तु भगवद्दत्ता सुखदुःखमयीं संसृतिं प्राप्नोतीत्यर्थः । यदुक्तं श्रुत्या । “त्वदवगमी न वैत्ति भवदुत्थशुभाशुभयोर्गुणविगुणान्वयानिति” तेषां यावन्नामापराधक्षयाभावस्तावदनष्टानि पापानि अभुक्तफलान्येव तिष्ठन्ति भक्तिवृद्धा तदभ्यासेन नामापराधक्षये सति सद्य एव समूलपापक्षयात् भगवन्तं प्राप्नोतीत्यतो भक्तिवृद्धद्यर्थमेकद्वित्रिजन्मानि वैष्णवा अपि प्राप्नुवन्ति । तेषां दृश्यमानानि वैषयिकमुखानि भक्तिधम्र्मोत्थानि यदुक्तम् । “धर्मस्य ह्यपवर्गस्य नार्थोऽर्थोयोप- कल्पते । नार्थस्य धर्मैकान्तेस्य कामो लाभीय हि स्मृतः । कामस्य नेन्द्रियप्रीतिर्लाभो जीवेत यावता" इति दुःखानि तु कानिचित् स्वभक्तभक्तिवर्द्धनचतुरेण भगवता लङ्घनकटुकौषधपायनादिभिः क्षुधावृद्धिप्रतिपादकेन भिषजेव दत्तानि " यस्याह- मनुगृह्णामि हरिष्ये तद्धनं शनैः" इति तदुक्तेः । कानिचित्तु प्रबलनामापराधफलानि यतो दशसु नामापराधेषु मध्ये अर्थ- वादार्थान्तरकल्पनशुभकर्मसाम्यानीति त्रयः साक्षाद्वैष्णवतीया एव व्याघातकाः । तेभ्योऽन्येषु तु मध्ये द्वावतिप्रबलौ महद- पराधना मबलहेतुकपापप्रवृत्ती यतः ख्याति यातं कथमु सहते तद्विगमिति “नाम्नो बलाद्यस्य हि पापबुद्धिर्न विद्यते तस्य मैर्हि शुद्धिः” इति विशेषविभीषिकोत्तरतस्तौ समुचितदुःखभोगसहितसन्ततनामकीर्त्तनेनैवोपसाम्यतो नान्यथा । अन्ये नामा- पराधास्तु सन्तत नामकीर्त्तनादिभिरेव शाम्यन्तीति ये च नामापराधिनः कर्म्मज्ञानादिरहिताः श्रवणकीर्त्तनादिभक्तिमन्तः किन्त्वनाश्रिठगुरुचरणत्वाददीक्षितास्तेऽपि वैष्णवशब्देनैवाभिधीयन्ते । तथा हि वैष्णव इति “सास्य देवता” इति सूत्रेणाणा “भक्तिः” इति सूत्रणाणा च सिद्धयत्यतो ये दीक्षया देवतीकृतविष्णवो ये च भजनेन भजनीयीकृतविष्णवस्ते उभये अपि व्यप- देशान्तरराहित्याद्वैष्णवा एवेति तेषामपि न स्यान्नरकपातादि पूर्व्ववदिति केचिदाहुः । नैतत् सुसङ्गतम् । “यतो नृदेहमाद्यम्" इत्यादी गुरुकर्णधारमित्युक्तेर्गुरुं विना न भगवन्तं सुखेन प्राप्नुवन्ति अतस्तेषां भजनप्रभावेणैव जन्मान्तरे भक्तचा भगवत्प्राप्ति- नान्यथेत्याचक्षते । अथ चानाश्रितगुरोरप्यजामिलस्य सुखेनैव भगवत्प्राप्तिर्दृश्यत एव तस्मादियमत्र व्यवस्था । ये गोगईभादय इव विषयेष्वेवेन्द्रियाणि सदा चारयन्ति को भगवान् का भक्तिः को गुरुरिति स्वप्नेऽपि न जानन्ति तेषामेव नामाभासादिरीत्या गृहीतहरिनाम्नामजामिलादीनामिव निरपराधानां गुरुं विनापि भवत्येवोद्धारः । हरिर्भजनीय एव भजनं तत्प्रापकमेव तदुपदेष्टा गुरुरेव गुरूपदिष्टा भक्ता एव पूर्वे हरिं प्रापुरिति विवेकविशेषवत्त्वेऽपि नो दीक्षां न च सत्क्रियां ने च पुरश्चर्या मनागीक्षते मन्त्रोऽयं रसनास्पृगेव फलति श्रीकृष्णनामात्मक इति प्रमाणदृष्टया अजामिलादिदृष्टान्तेन च किं मे गुरुकरणश्रमेण नामकीर्त- ९ । श्रीमद्भागवतम् ६६ [ स्कं. ६ अ. २ श्लो. ९-१६ नादिभिरेव मे भगवत्प्राप्तिर्भाविनीति मन्यमानस्तु गुर्ववज्ञालक्षणमहापराधादेव भगवन्तं न प्राप्नोति किन्तु तस्मिन्नेव जन्मनि जन्मान्तरे वा तदपराधक्षये सति श्रीगुरुचरणाश्रित एवं प्राप्नोतीति । देवतान्तरभक्तानां पापापराधयोः कर्मिणामिव व्यवस्थे- त्येके । भक्तिदेव्या आश्रयणसामान्याभावात्ततोऽपि ते न्यूनकक्षायां निविष्टा इत्यपरे । यदुक्तम् । “येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयान्विताः । तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् । अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च । न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते’ इति । ये तु केवलमपराधिन एव तेषां नैवौद्धारः । यदुक्तं “तानहं द्विषतः क्रूरान संसारेषु नराधमान् । क्षिपाम्यजनमशुभानासुरीष्वेव योनिषु । आसुरी योनिमापन्ना मूढा जन्मनि जन्मनि । मामप्राप्यैव कौन्तेय ! ततो यान्त्यधमां गतिम्” इति । ये तु तेषामपि मध्ये कंसादयस्तेषाम् । + कामाद्वेषाद्भयात् स्नेहाद्यथा भक्त्त्येश्वरे मनः । आवेश्य तदघं हित्वा बहवस्तद्गतिं गताः ॥ इत्यादिवचनबलाद्भगवदावेशेनैव नामापराधक्षयान्मुक्तिरिति केचित् । नामान्येव हरन्त्यघमित्युपलक्षणं ध्यानादीना- मप्यतो ध्यानपौनःपुन्यमेवावेश इत्यन्ये । कृष्णावतारत्वे तदनैकान्तिकं यतः केचिदावेशरहिता अपि नरकबाणादिकौरवादि- सैन्यगतास्तद्धस्तमरणप्रभावात् केचिद्दर्शनमात्रस्यापि प्रभावात्तं प्रापुरिति पूर्वत्रैवोक्तमित्यपरे ।। ९-१० ॥ सर्वमहा- पातकप्रायश्चित्तत्वेऽपि नाम्नः परमवैशिष्टयमाहुः । नेति द्वाभ्याम् । ब्रह्मवादिभिर्मन्वादिभिर्नामपदैः साङ्केत्यादिना नाम्नश्चिह्न- मात्रैः । यद्वा । नारायणादिनाम्ना एकेनापि पदेन सुबन्तशब्दमात्रेणापि बहुत्वं गौरवेण अर्थापेक्षापि नापेक्षितव्येति भावः । उदाहृतैरुवारितैरिति मनोनिवेशोऽपि नापेक्षितव्य इति भावः । अघवान् कर्मिप्रभृतिभिन्न एव पापीत्युक्तयुक्तया व्याख्येयम् । न च नाम समूलपापनिवृत्तिमात्र एवोपक्षीणमित्याहुस्तन्नाम उत्तमश्लोकस्य गुणानैश्वर्यमाधुर्यादीनप्युपलम्भयति प्रेम्णा अनुभाव- यतीति तत् । यद्वा । ननु तपोत्रतादिमहाकृच्छ्रर्यद्यन्महापातकं निवर्त्यते तन्नाम्नः सुखोच्चारणमात्रेणैव कथं निवर्त्यतामित्यत आहुः । तदिति । उत्तम श्लोकस्य महायशखिनो हरेस्तदेव गुणस्य प्रभावस्य ज्ञापकं परमेश्वरस्येयमध्येका परमेश्वर+ तेत्यर्थः ॥ ११ ॥ द्वादशाब्दादिप्रायश्चित्तानां ततो निकृष्टत्वमाहुः । नैकान्तिकं नात्यन्तशोधकं तत्प्रायश्चित्तं यस्मिन् कृतेऽपि असत्पथे पापमार्गे मनो धावति चेत् तस्मात् कर्मणां निर्धारमात्यन्तिकं नाशमभीप्सतां हरेर्गुणानुवादः नाम्नाभिव गुणानामप्यनुवादोऽनुकथनं कस्यचिन्मुखाच्छ्रुतानां तेषां पश्चात्कथनं “पश्चात्सादृश्ययोरनु" इत्यमरः । सत्त्वभावनः वासनाया अपि नाशकत्वात् सत्वशोधकः । ननु मनः पुनर्धावतीति प्रायश्चित्तानन्तरं पुनः पापकरणं कथं निन्द्यते तस्यापि संस्काराधीन - त्वादुत्खातदंष्ट्रोरगदंशसदृशत्वमस्माभिर्व्याख्येयमिति चेद् भ्रान्ताः स्थः तथा व्याख्यानमस्माकं नाम्नः सवासनपापनाशकत्व- प्रतिपादकवचनानुरोधादेव न तु स्वकपोलकल्पितम् । भवतान्तु प्रायश्चित्तशास्त्रे तादृशवचनाभावात् कर्ममार्गे हार्थवादजन्य- प्रत्यवायस्याप्यश्रवणात्कथं तथा व्याख्यातुं शक्तिरिति प्रागेवोक्तम् ॥ १२ ॥ * * अथ यस्मादेवं तस्मादेनं मा अपनयत । कृताशेषेति पुत्रनामकरणसमये प्रथमेनैव नाम्नेत्यर्थः । एतेनाजामिलस्य प्राचीननामापराधराहित्यमवगम्यते । यद्यतो निष्पाप- त्वादेव म्रियमाणः सन्नाम सम्यगग्रहीत् पापसत्त्वे म्रियमाणस्य जिह्वायां कथं नाम प्रादुर्भवेदिति भावः । यदुक्तं गीतासु “येषां त्वन्तगतं पापम् इत्युपक्रम्य अन्तकाले तु मामेव स्मरन्मुक्त्वा कलेवरम् । यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः” इति । तेन मृत्युकाल एव नामाभावप्रादुर्भावाभ्यां नामापराधसत्त्वासत्त्वे अनुमेये इति व्याचक्षते ॥ १३ ॥ कीदृशं नाम सर्वपापहरं स्यादित्यपेक्षायां कैमुत्येनाहुः । साङ्केत्यं पुत्रादौ सङ्केतः स्वार्थे ष्यम् सर्वत्र तृतीयार्थे प्रथमा सङ्केतादिभिरपीत्यर्थः । । पारिहास्यमिति प्रीतिगर्भमेव न तु निन्दागर्भम् । यथा भो विख्यातकीर्त्ते ! कृष्णनाम दृष्टा तव कीर्त्तिर्यतो मां नोद्धतु मश- कस्त्वमिति स्तोमं कथागीताला पादिपूरणार्थं कृतं हेलनमत्र हेलया गिरिरुद्धृत इति वद्यत्नराहित्यमेवोच्यते यथा आहारविहार- निद्रादावप्यवहेलया एव यावन्ति कृष्णनामान्ययं गृह्णाति न तावन्त्यन्ये प्रयत्नेनापि ग्रहीतुं शक्नुवन्तीति न तु निन्दावज्ञा- दिकम् । तथा सति “निन्दां भगवतः शृण्वन्" इत्यादेर्भगवतो निन्दके किम्वा विष्णुनेति तद्वमन्तरि वेणादावपि दोषावहत्वं न स्यादशेषाघहरं वासनापर्यन्त सर्वपापनाशकम् ॥ १४ ॥ साङ्केत्यादिभ्योऽन्यस्य पञ्चमस्य वैवश्यप्रभेदानाह । पतितः प्रासादादिभ्यः स्खलितो मार्गेण भग्नो भग्नगात्रः संदष्टः सर्पादिभिः तप्तो ज्वरादिना आहतो दण्डादिना पुमान् कर्मि- प्रभृतिभ्योऽन्य इति व्याख्यातयुक्तया ज्ञेयम् ॥ १५ ॥ * * ननु पापतारतम्येन कृच्छ्रादितारतम्यं शास्त्रे दृश्यते कथमेक एव नामाभासः सर्व महापातकानि विनाशयेदित्यत आहुः । गुरुणामिति । तेषां परिमितशक्तित्वात्तथा तथैव व्यवस्था नाम्न्नस्त्वविचिन्त्यमहाशक्तेरेकस्यैव महापातकपुञ्जसंहर्तृत्वमेकांशेनैव यथा साम्बमोचने प्रवृत्तस्य बलभद्रस्यैकस्यैव दुर्योधनादि- सर्वकौरवसंहारक्षमत्वमनाय । सेनैवेति भावः ।। १६ ।। ॥ मी शुकदेवकृतः सिद्धांत प्रदीपः अपरे हीनप्रतिज्ञत्यक्तब्रत कृतघ्नप्रभृतयः ॥ ९ ॥ सुनिष्कृतं सुष्ठु प्रायश्चित्तं नामव्याहरणात्तद्विषया मतिः नामोच्चारकरक्षणविषया मतिर्हरेर्भवतीत्यर्थः । यद्वा । हरिनामोचारकस्य तद्विषया हरिस्वरूपगुणादिविषया मतिर्भव- स्कं. ६ अ. २ श्लो. ९-१६ 1 * अनेकव्याख्या समलङ्कृतम् तीत्यर्थः ॥ १० ॥ ॐ ब्रह्मादिभिर्हरेर्नामरूपैः पदैरुदाहृतैरथवान् यथा विशुद्धयति तथा कृच्छ्रादित्रतादिभिर्निष्कृतैः प्रायश्चित्तः सदुदितैः स न शुद्धयति तद्धरिनामोच्चारणम् उत्तमकीर्तेर्हरे: गुणानामुपलम्भनं ज्ञापकं भवति हरिनामोच्चारणेन निखिलपापनिनाशपूर्वकं हरिनामोच्चारकः सर्वपुरुषार्थं लभते यदि हरिनामोचारकस्यापि सर्वपुरुषार्थदं हरिप्रावण्यं न भवत्यपि तु पापकर्मप्रावण्यं भवति तदा तस्य हरिनाम्नि अर्थवादादिकल्पनया नामापराधित्वं ज्ञेयम् । अर्थवादं हरेर्नानि सम्भावयति यो नरः । स पापिष्ठो मनुष्याणां निरये पतति स्फुटम् ॥ मन्नामकीर्तनफलं विविधं निशम्य न श्रद्दधाति मनुते यदुतार्थवादम् । यो मानुषस्तमिह दुःखचये क्षिपामि संसारघोरविविधार्तिनिपीडिताङ्गम् । इत्यादिपुराणान्तरेभ्यः नामापराधनिवृत्तिरपि नामोच्चारणावृत्त्या भवति । नामापराधयुक्तानां नामान्येव हरन्त्यघम् । अविश्रान्तप्रयुक्तानि तान्येवार्थकराणि च ॥ इति वचनात् ॥ ११ ॥ : यस्मिन्निष्कृतेऽपि मनः असत्पथे पापमार्गे धावति तन्निष्कृतमात्यन्तिकमत्यन्ततः शोधकं न भवति तत्तस्मात् कर्मनिहरमभीप्सतां हरेर्गुणानुवाद एव सत्त्वभावनः अन्तःकरणशोधकः मुख्यं निष्कृतमित्यर्थः ॥ १२ ॥ * * तदेवं धर्मराजनये निष्पापदण्डनासम्भवादस्य च सर्वथा निष्पापत्वाच्च “तत एनं दण्डपाणेः सकाशं कृतकिल्बिषं नेष्याम” इत्येवं मृषावादिनो यूयमेवैनं नेतुं पापित्वभ्रमात्प्रवृत्ताः अतो मापनयत ॥ १३ ॥ * * ननु पुत्रोद्देशेनोचारितं तन्नाम कथं निष्पापत्वकारणमत्राहुः । साङ्केत्यमिति । साङ्केत्यमन्यसङ्केतेन कृतं पारिहास्यं परिहासार्थं कृतं स्तोभं गीतालापपूर्त्यर्थं कृतं हेलनं सावज्ञङ्किविष्णुनेत्येवं “वैकुण्ठनामग्रहणमशेषाघहरं विदुः । अवशेनापि यन्नान्नाकीर्तिते सर्वपातकैः । पुमान् विमुच्यते सद्यः सिंहन्त्रस्तैर्मृगैरिव ॥” इत्यादिस्मृतयः तन्मूलभूताः श्रुतयश्च " मर्ता अमर्त्यस्य ते भूरि नाम मनामहे । विप्रासो जातवेदसः आस्य जानन्तो नाम चिद्विषक्तन” इत्याद्याः ॥ १४ ॥ नन्वनेन अवहिततथा सङ्कल्पपूर्वकं नामग्र न कृतमतो यातनार्होऽयमित्यत्राहुः । पतित इति । पुमानित्युपलक्षणं स्त्र्यादीनाम् । पतितः उच्चस्थानात् स्खलितः किन्नस्थानादियोगतः भग्नः खङ्गादिना खण्डिताङ्गः संदृष्टो वृश्चिकादिना तप्तः ज्वरादिना आहतो दुरुक्तचादिना एवमवशेन अनवहितत्वेन हरिरिति य आह स यातनाः नार्हति ॥ १५ ॥ * * अत्र यातनाप्रापकाप्रापकाधर्मजहृदयशुद्धिर्हरिनामोच्चारणादिरूपेशाङ्घ्रि- सेवयैव भवतीति हेतुमाहुः । गुरुणामिति द्वाभ्यां गुरूणां महतां लघूनामल्पानां पापानां महर्षिभिः ज्ञात्वा तत्तदनुरूपतया निश्चित्य गुरूणि लघूनि च प्रायश्चित्तानि यान्युक्तानि ॥ १६ ॥ " ।। गोस्वामिगिरिधरलाल विहिता बालप्रबोधिनी * s ननु भवतु तुच्छानां पापानां नामग्रहणमात्रेण निवृत्तिः, बहुजन्मनि कामतः कृतानां महापातकानां सहस्रश आवर्त्तितानां द्वादशाब्दादिकोटिभिरपि अनिवत्र्यानां कथमिदमेव प्रायश्चित्तं स्यादित्याशङ्कच ‘नान्नो हि यावती शक्ति: पापनिर्हरणे हरेः । तावत्कन्तु न शक्नोति पातकं पातकी जनः" इति वाक्यमनुसृत्याहुः स्तेन इति ॥ ९ ॥ * * इदं विष्णोर्नामव्याहरणम्, ‘यगोविन्देति चुक्रोश कृष्णा मां दूरवासिनम् । ऋणमेतत्प्रवृद्धं मे हृदयान्नापसर्पति’ इति भगवद्व- चनादुच्चारणमेव सुनिष्कृतं पापनिर्मूलीकरणात् श्रेष्ठं प्रायश्चित्तम् । तत्र हेतुमाहुः —यत इति । यतो नामव्याहरणात् तद्विषया सेव्यतया भगवद्विषया पुरुषस्य मतिर्भवति, यद्वा तद्विषया नामोच्चारकपुरुषविषया मदीयोऽयं मया सर्वतो रक्षणीय इति भगवतो मतिर्भवति । तथाच न हि भगवति रक्षके सति पुरुषस्य कालकर्मनरकादिभयं सम्भवतीति भावः ॥ १० ॥ * भगवन्नामग्रहणस्य प्रायश्चित्तश्रेष्ठत्वं प्रायश्चित्तान्तरस्य तु ततो निकृष्टत्वमेवोपपादयन्ति — नेति द्वाभ्याम् । यथा उदाहृतैरुवारितैः हरेनपदैः अघवान पापी विशुद्धयति तथा ब्रह्मवादिभिर्मन्वादिभिः उदितैर्विहितैर्ब्रतादिभिः द्वादशाब्दादिभिर्निष्कृतैः प्रायश्चित्तैर्न विशुद्ध चतीत्यन्वयः । नामपदैरित्यनेन सुबन्तपदमात्रमेव पापनिवारणायालमिति, नमामीत्यादिक्रियायोगोऽपि नावश्यक इति सूचितम् । बहुत्वं तु नामबहुत्वाभिप्रायेण न तु सर्वनामोच्चारणाभिप्रायेण नानामनन्तत्वेन यावन्नामोच्चारणा- सम्भवात् । तथाच एतेष्वेकेनैवोच्चारितेन नाम्ना सर्वपापनिवृत्तिरिति ज्ञेयम् । कुत एवं तत्राहुः तदिति । तन्नामपदोचारणं उत्तमश्लोकस्य महायशस्विनों भगवतो ये गुणा ऐश्वर्यादयस्तेषामुपलम्भकं प्रकाशकं यद्वा भगवतो गुणा ये ज्ञानवैराग्यादयः तानुच्चारणकत्तरि उपलम्भयति प्रापयतीति तथा ॥ ११ ॥ प्रायश्चित्तान्तरं तु न तथेत्याहु: - नैकान्तिकमिति । तत् प्रायश्चित्तान्तरं नैकान्तिकमत्यन्तशोधकं न भवति । कुतः ? हि यस्मात् तस्मिन् निष्कृते प्रायश्चित्ते कृतेऽपि असत्पथे पापमार्गे मनो धावति अत्यन्तशुद्धौ तन स्यादिति भावः । चेत् यद्येवं तत्तदा कर्मणां पापानां निर्धारमात्यन्तिकं नाशमिच्छतां हरेर्गुणानुवाद एव खलु निश्वयेन प्रायश्चित्तम् । यतोऽसौ सत्त्वभावनः पापमूलाविद्यानाशकत्वात् अत्यन्तान्तःकरणशोधकः । गुणानुवाद इति गुणकृतजन्मकृतकर्मकृतनामन्त्रैविध्योपलक्षणम् ।। १२ ।। * एवं निर्णयेन फलितमाहु:— अथेति । यत * । श्रीमद्भागवतम् [ स्कं. ६ अ. २. ९-१६ यस्मादसौ म्रियमाणो भगवन्नाम समग्रहीत् सम्पूर्णमुचारितवान् अथ तस्मात् कृतमशेषाणामघानां निष्कृतं प्रायश्चित्तं येन तमेनम् अपमार्गेण मा नयतेत्यन्वयः । समग्रहीदिति नामैकदेशग्रहणेनाप्यलं अयं तु सम्पूर्णमुच्चारितवानित्यर्थः । म्रियमाण इत्यनेन तदनन्तरं पुनः पापान्तरासम्भवो दर्शितः । न तु मरणसमये एव कीर्त्तनात् पापनिवृत्तिर्नान्यदेति नियमः ॥ १३ ॥ ननु नायं भगवन्नामाग्रहीत् किन्तु पुत्रनामैव अतः कथं तेन पापनिवृत्तिरित्याशङ्कयाहु:– साङ्केत्यमिति । साङ्केत्यं पुत्रादौ सङ्केतेन कृतं, पारिहास्य भो विख्यातकीर्त्ते कृष्ण दृष्टा तव मर्यादा रासोत्सवे इति परिहासेन कृतं, स्तोमं कथागीतालापपूरणार्थ कृतं, हेलनं यो ह्यनेककोटिब्रह्माण्डानि धत्ते तेन कृष्णेन गोवर्द्धनोद्धारे कः श्रमः कृतः स्यात् मम भाग्यमेव ईदृग्धरिणा किं कर्त्तव्यमिति मर्यादागर्भेण हेलया कृतं, न तु निन्दागर्भितं, तथा सति निन्दा भगवतः शृण्वन्नित्याद्युक्तनिन्दाश्रवणादिदोष- प्रसङ्गात् । वैकुण्ठस्य भगवतो नाम्नां ग्रहणमुच्चारणम् अशेषाणि समूलानि अघानि पापानि हरतीति तथा विदुः शास्त्ररहस्यज्ञा जानन्ति ॥ १४ ॥ * * ननु नायं सावधानतया सङ्कल्पपूर्वकं भगवन्नामाग्रहीत् किन्तु पुत्रस्नेहपरवश एव अतः कथं तस्य शोधकत्वमित्यस्य यातनायुक्तैवेत्याशङ्कय ‘अवशेनापि यन्नाम्नि कीर्तिते सर्वपातकैः । पुमान् विमुच्यते सद्यः सिंहत्रस्तै- मृगैरिव’ इति स्मृत्यनुरोधेनाहु:– पतित इति । पतितः प्रासादादिभ्यः । स्खलितो मार्गे । भग्नो भन्नगात्रः । सन्दष्टः सर्पादिभिः । तप्तो ज्वरादिना । आहतो दण्डादिना । अत एवावशेन वेदनादिवशेनापि यः पुमान् हरिरित्याह स यातनां नार्हति । पुमानि- त्यनेन नात्र वर्णाश्रमादिनियमः, किन्तु प्राणिमात्रमधिकारीति सूचितम् ॥ १५ ॥ * * ननु पापतारतम्यानुसारेण कृच्छ्रादिप्रायश्चित्ततारतम्यं शास्त्रे प्रसिद्धं तर्हि कथमेकं नामाभासमात्रं सर्वाणि महान्त्यपि पापानि विनाशयेदित्यत आहु:- गुरुणामिति । गुरूणां पापानां गुरुणि प्रायश्चित्तानि लघूनां च पापानां लघूनि प्रायश्चित्तानि महर्षिभिः याज्ञवल्क्यादिभिः ज्ञात्वा विचार्योक्तानि ॥ १६ ॥ I DONT PHERE भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी ताभ्याम् ॥ T न केवल प्रतिपदोक्तप्रायश्चित्तादिवदन्तिमं नामस्मरणं कतिपयपापानां निष्कृतं, किं तु महापातकोपपातकसंकीर्णादि- रूपेण बहुविधानां सर्वेषामपि पापानां निष्कृतरूपमेवेत्याहुः ।। स्तेन इति द्वाभ्याम् ॥ स्तनः स्वर्णचोरः, सुरापः सुरापान कर्त्ता, सुरापानकर्त्ता, मित्त्रध्रुक मित्रद्रोहकारकः, ब्रह्महा विप्रघातकः, गुरुतल्पगः गुर्वङ्गनासङ्गकर्त्ता, स्त्री च राजा च पिता च गौश्च तासां हन्ता घातकः, अत्र स्तेनः सुरापः ब्रह्महा गुरुतल्पग एते महापातकिनः । मित्त्रस्त्र्यादिहन्तार उपपातकिनः । ये च अपरे पातकिनो नानाविधपापकारिणः ।। ९ ॥ सर्वेषामिति । सर्वेषामुक्तविधानी सकलानामपि, अघवतां पापिनां सुनिष्कृतं श्रेष्ठं प्रायश्चित्तं इदमेव । किं तत् यत् अन्तकाले विष्णोः नामव्याहरणं भगवन्नामोचारणमेव । यतो नामोच्चारणात्, 1 तद्विषया नामोच्चार कपुरुषविषया मदीयोऽयं मया सर्वतो रक्षणीय इत्येवंभूता मतिर्विष्णोर्बुद्धिः भवति ॥ १० ॥ * सर्वेषामप्य- घवतामित्यनेन कतिपयदुरितनिवर्त्तकात्प्रतिपदोक्तप्रायश्चित्तात्सकलदुरित निवर्त्तकत्वेन भगवन्नामोचारणस्यैव श्रेष्ठयं सूचितं तदेव प्रतिपादयन्ति । न निष्कृतैरिति । ब्रह्मवादिभिर्मन्वादिभिः, उदितैरुक्तैः, व्रतादिभिः प्रजापत्यकृच्छ्रचान्द्रायणादिव्रत- प्रभृतिभिः, निष्कृतैः प्रायश्चित्तैः, अघवान् पापिपुरुषः, तथा न विशुद्धयति । तथा उदाहृतैरुचारितैः, हरेः नामपदैः, भगवतो नामात्मकपदैरित्यर्थः । विशुद्धयति । तत्र नामपदैरित्यनेन नमामीत्यादिक्रियायोगोऽपि नापेक्षित इति दर्शितम् । किं च, तद्धरेर्नामपदोच्चारणम्, उत्तमश्लोकश्च गुणास्तदीया एव गुणाश्च तेषामुपलभ्मकं ज्ञापकम् उत्तम श्लोकतद्गुणविषयकसत्युत्पादक । ॥ ॥ मित्यर्थः । भवति । न तु कृच्छ्रचान्द्रायणादिवत् पापनिवृत्तिमात्रोपक्षीणमित्यर्थः ॥ ११ ॥ * * हरेर्नामपदसंकीर्त्तनेनैव पापनिर्मूलनं न तपआदिभिरित्येतदुपपादयन्ति ।। नैकान्तिकमिति ॥ तत्तस्मात् कृच्छ्रादितपआदिभिः समूलपापनाशा- दित्यर्थः । ब्रह्मवादिभिः संप्रोक्तं निष्कृतमिति शेषः । यद्वा तद्ब्रह्मवायुक्तं निष्कृतं, एकान्तिकमात्यन्तिकतया शोधकं, न । हि यतः, निष्कृते कृतेऽपि कृतपापप्रायश्चित्तविहिते सत्यपि, असत्पथे पापमार्गे, पुनः मनः धावति चेदेवकारार्थः । निपातानाम- नेकार्थत्वात् । ततो न तदेकान्तिकमिति भावः । तत्ततो हेतोः, कर्मनिर्धारं पापकर्मणामात्यन्तिकनाशं, अभीप्सतामिच्छतां भूतानां, हरेः गुणानुवादः यः, स एव सत्त्वभावनः चित्तशोधकः खलु ॥ १२ ॥ * * अथेति ॥ हे यमदूताः, अथातो हेतोः, अन्तकालविहितनारायणनामोच्चारणेनेति शेषः । कृतमशेषाणामघानां निःशेषाणां पापानां निष्कृतं प्रायश्चित्तं येन तं, एनं मा अपनयत यमालयं मा प्रापयतेत्यर्थः । कुतः यद्यस्मात् असावजामिल: म्रियमाणः प्राणांस्त्यक्ष्यन्न, भगवन्नाम नारायणाभिधां समग्रहीत् उच्चचार । म्रियमाणः इत्यनेन पुनः पापान्तरासंभवोऽयुक्तः ॥ १३ ॥ * * नन्वजामिलोऽयं पुत्रनाम स्वग्रहीत् न तु भगवन्नाम तत्राहुः ।। सांकेत्यमिति पुत्रादौ संकेतितं, पारिहास्यं परिहासेन कृतं, स्तोभं नर्मवचनकृतं वा, हेलनं किं विष्णुनेत्येवं वावज्ञमप्यभिहितं वा बैकुण्ठनामग्रहणं भगवन्नामोच्चारणम् एव अशेषाघहरं सकलपापनिवर्त्तक, विदुः । नामसामर्थ्ययाथात्म्यविद इति शेषः ॥ १४ ॥ * ननु नायं बुद्धिपूर्व नामाग्रहीत् किं तु पुत्रस्नेह परवशः v"स्व. ६ अ. २ श्री. ९-१६] ६ Sias अनैकव्याख्यासमलङ्कृतम् इत्यत्राहुः ॥ पतित इति । पतितः प्रासादादेः स्खलितो मार्गे, भम्रो भन्नगात्रः संदधः सर्पादिभि तप्तो ज्वरादिना, आहतो दण्डादिना, पुमानेतदन्यतम्रावस्थां वा प्राप्तो जनः, यदि, अबशेनापि, हरिः इति आह, हे हरे इत्युश्चारयेदित्यर्थः । तर्हि, यातनाः नारकीर्व्यथाः, न अर्हति । ता उपभोक्तुं योग्यो न जायते इत्यर्थः । साक्षाद्भगवन्नान्नोऽसाधारणमहिमत्वाद्यदृच्छया भस्मादिबुद्धया वा स्पृष्टस्याग्नेर्यदृच्छापीतस्य पथ्यस्योपधस्य यदृच्छापीतामृतस्य च दाहकत्वारोग्यकरत्वामरतासंपादकत्ववद्वस्तु- शक्तिरेव प्रबलेति भावः ॥ १५ ॥ ननु महतः पापस्य महदेव प्रायश्चित्तं युक्तं न त्वल्पं नामग्रहणमात्रं पापतार- तम्येन प्रायश्चित्ततारतम्यस्य मन्वादिभिरुक्तत्वादन्यथा प्रायश्चित्तशास्त्रवैयर्थ्य स्यात् इत्थंभूतां कस्यचिन्मन्दस्याशङ्कां निराकुर्वन्त आहुः ॥ गुरूणामिति ॥ गुरूणां महतां, पापानामधानां, गुरुणि महान्ति प्रायश्चित्तानि, लघूनामल्पप्रमाणानां पापानां लघून्यल्प प्रमाणानि, प्रायश्चित्तानि । महर्षिभिः ज्ञात्वा तत्तारतम्यं यथावद्बुद्ध्वा उक्तानि चकारचतुष्टयमनुक्तगुरुलघुपाप- प्रायश्चित्तानामपि तदर्ह कल्पनां गमयति । अतस्तत्र तु तथैव व्यवस्था युक्ता । हरिनाम्नस्तु नेयं व्यवस्थोक्तास्ति ‘विष्णोः स्मरण- मात्रेण मुच्यते सर्वपातकैः’ इति वचनात् ॥ १६ ॥ भाषानुवाद, TREN ।। चोर, शराबी मित्रद्रोही, ब्रह्मघाती, गुरुपत्नीगामी, ऐसे लोगोंका संसर्गी, राज, और गायको मारने- वाला, चाहे जैसा और चाहे जितना बड़ा पापी हो, सभीके लिये यही- इतना ही सबसे बड़ा प्रायश्चित्त कि भगवान्के नामोंका उच्चारण’ किया जाय; क्योंकि भगवन्नामों के उच्चारणसे मनुष्यकी बुद्धि भगवान्के गुण, लीला और स्वरूपमें रम जाती है और स्वयं भगवान्की उसके प्रति आत्मीय बुद्धि हो जाती है ।। ९-१० ॥ * * बड़े-बड़े ब्रह्मवादी ऋषियोंने पापोंके बहुत-से प्रायश्चित्त—कृच्छ, चान्द्रायण आदि व्रत बतलाये हैं; परन्तु उन प्रायश्चित्तोंसे पापीकी वैसी जड़से शुद्धि नहीं होती, जैसी भगवान् के नामोंका, उनसे गुम्फित पढ़ोंका उच्चारण करनेसे होती है। क्योंकि वे नाम पवित्रकीर्ति भगवान् के गुणोंका ज्ञान करानेवाले हैं ॥ ११ ॥ यदि प्रायश्चित्त करनेके बाद भी मन फिरसे कुमार्गमें— पापकी ओर दौड़े, तो वह चरम सीमाका पूरा-पूरा प्रायश्चित्त नहीं है इसलिये जो लोग ऐसा प्रायश्चित्त करना चाहें कि जिससे पापकर्मों और वासनाओं की जड़ ही उखड़ जाय, उन्हें भगवान् के गुणों का ही गान करना चाहिये। क्योंकि उससे चित्त सर्वथा शुद्ध हो जाता है ॥ १२ ॥ इसलिये यमदूतो ! तुमलोग अजाभिलको मत ले जाओ । इसने सारे पापोंका प्रायश्चित्त कर लिया है, क्योंकि इसने मरते समय भगवान के नामका उच्चारण किया है ॥ १३ ॥ * * बड़े-बड़े महात्मा पुरुष यह बात जानते हैं कि सङ्केत में ( किसी दूसरे अभिप्राय से ), परिहासमें, तान अलापनेमें अथवा किसीकी अवहेलना करनेमें भी यदि कोई भगवान के नामोंका उच्चारण करता है तो उसके सारे पाप नष्ट हो जाते हैं ॥ १४ ॥ * जो मनुष्य गिरते समय,
- पैर फिसलते समय, अङ्ग भङ्ग होते समय और साँपके डँसते, आगमें जलते तथा चोट लगते समय भी विवशता से ‘हरि-हरि कहकर भगवान्के नामका उच्चारण कर लेता है, वह यमयातनाका पात्र नहीं रह जाता ।। १५ ।। * महर्षियोंने जान-बूझकर बड़े पापोंके लिये बड़े और छोटे पापोंके लिये छोटे प्रायश्चित्त बतलाते हैं ।। १६ ॥ । ॥ १. इस प्रसङ्गमें ‘नामव्याहरण का अर्थ नामोचारणमात्र ही है । भगवान् श्रीकृष्ण कहते हैं- गोविन्देति चुक्रोश कृष्णा मां दूरवासिनम् । ऋणमेतत् प्रवृद्धं मे हृदयान्नापसर्पति ॥
यद् । कारा। वह " ‘मेरे दूर होनेके कारण द्रौपदीने जोर-जोरसे ‘गोविन्द, गोविन्द’ इस प्रकार करुण क्रन्दन करके गया है और मेरे हृदयसे उसका भार क्षणभरके लिये भी नहीं हटता ।’ मुझे पुकारा । वह ऋण मेरे ऊपर बढ़ २. ‘नामपदे : ’ कहनेका यह अभिप्राय है कि भगवान्का केवल नाम ‘राम-राम’ ‘कृष्ण-कृष्ण’ ‘हरि-हरि’ ‘नारायण-नारायण’ अन्तः- करणको शुद्धिके लिये - पापोंकों निवृत्तिके लिये पर्याप्त है । ‘नमः नमामि’ इत्यादि क्रिया जोड़नेकी भी कोई आवश्यकता नहीं है । नामके साथ बहवचनका प्रयोग — भगवानके नाम बहुत-से हैं, किसी का भी सङ्कीर्तन कर ले, इस अभिप्रायसे है । एक व्यक्ति सब नामोंका उच्चारण करे, इस अभिप्रायसे नहीं। क्योंकि भगवान् के नाम अनन्त हैं; सब नामोंका उच्चारण सम्भव ही नहीं है । तात्पर्य यह है कि भगवान्के एक नामका उच्चारण करनेमात्र से सब पापोंकी निवृत्ति हो जाती है। पूर्ण विश्वास न होने तथा नामोच्चारणके पश्चात् भी पाप करने के कारण ही उसका अनुभव नहीं होता । ३. पापकी निवृत्तिके लिये भगवन्नामका एक अंश ही पर्याप्त है, जैसे ‘राम’ का ‘रा’ । इसने तो सम्पूर्ण नामका उच्चारण कर लिया । मरते समयका अर्थ ठीक मरनेका क्षण ही नहीं है, क्योंकि मरनेके क्षण जैसे कृच्छ चान्द्रायण आदि करनेके लिये विधि नहीं हो सकती, वैसे नामोचारण की भी नहीं है, इसलिये ‘म्रियमाण’ शब्दका यह अभिप्राय है कि अब आगे इससे कोई पाप होनेकी सम्भावना नहीं श्रीमद्भागवतम् [ स्कं. ६ अ. २ श्लो. १७-२६ १७ ॥ तैस्तान्यधानि पूयन्ते तपोदानजपादिभिः । नाधर्मजं तद्धृदयं तदपीशाङ्घ्रिसेवया ॥ धर्मों योऽयमुपन्यस्तः परमस्तु सनातनः । क्रियतेऽहरहः शुद्धिरात्मनो वाससो यथा ॥ नैकान्तशुद्धिः स्यात् कर्तुः क्रिययाऽकर्तृता यतः । अकर्तुरात्मनस्तस्माद्भजेतानीहया हरिम् ॥ अज्ञानादथवा ज्ञानादुत्तम श्लोकनाम यत् । सङ्कीर्तितमघं पुंसो दहेदेधो यथानलः ॥ १८ ॥ यथागदं वीर्यतममुपयुक्तं यदृच्छया । अजानतोऽप्यात्मगुणं कुर्यान्मन्त्रोऽप्युदाहृतः ।। १९ ।। ‘( पति वः पृच्छत भटा ! धर्मेऽस्मिन् यदि संशयः । स वेद परमं गुह्यं धर्मस्य भगवान् यमः ।। श्रीशुक उवाच । २१ ॥ २२ ॥ २३ ॥ त एवं सुविनिर्णीय धर्मं भागवतं नृप । तं याम्यपाशान्निर्मुच्य विप्रं मृत्योरमृमुचन् ॥ २० ॥ इति प्रत्युदिता याम्या दूता यात्वा यमान्तिके । यमराज्ञे यथा सर्वमाचचक्षुररिन्दम ॥ द्विजः पाशाद्विनिर्मुक्तो गतभीः प्रकृति गतः । ववन्दे शिरसा विष्णोः किङ्करान् दर्शनो त्सवः ॥ तं विवक्षुमभिप्रेत्य महापुरुषकिङ्कराः सहसा पश्यतस्तस्य तत्रान्तदधिरेऽनघ ॥ अजामिलोऽप्यथाकर्ण्य दूतानां यमकृष्णयोः । धर्मं भागवतं शुद्धं त्रैविद्यं च गुणाश्रयम् ॥ २४ ॥ भक्तिमान् भगवत्याशु माहात्म्यश्रवणाद्धरेः । अनुतापो महानासीत्स्मरतोऽशुभमात्मनः ।। २५ ।। अहो में परमं कष्टमभूदविजितात्मनः । येन विप्लावित ब्रह्म वृषल्यां जायताऽऽत्मना ॥ २६ ॥ 1 अन्वयः - तैः तपोदानजपादिभिः तानि अधानि पूयन्ते अधर्मजं तद्दृदयं न ईशांघ्रिसेवया तत् अपि ।। १७ ।। अज्ञानात् अथवा ज्ञानात् यत् उत्तमश्लोकनाम संकीर्तितं पुंसः अघं यथा अनलः एधः दहेत् ॥ १८ ॥ वीर्यतमं यदृच्छया उपयुक्तम् अगदम् अजानतः अपि आत्मगुणं कुर्यात् उदाहृतः मन्त्रः अपि ॥ १९ ॥ भागवत धर्म सुविनिर्णीय तं विप्रं याम्यपाशात् निर्मुच्य मृत्योः अमूमुचन ॥ २० ॥ ** याम्याः दूताः यमांतिके यात्वा यमराज्ञे यथा सर्वम् आचचक्षुः ।। २१ ।।
-
- पाशात् विनिर्मुक्तः गतभीः प्रकृतिं गतः दर्शनोत्सवः द्विजः विष्णोः किंकरान् शिरसा वव॑दे ।। २२ ।। * अनघ महापुरुषर्किकराः तं विवतुं अभिप्रेत्य तस्य पश्यतः सहसा तत्र अंतर्दधिरे ॥ २३ ॥ अथ अजामिल: अपि यमकृष्णयोः दूतानां गुणाश्रयं च त्रैविद्यं शुद्धं भागवतं धर्मम् आकर्ण्य ।। २४ ।। हरेः माहात्म्यश्रवणात् आशु भगवति भक्तिमान् आत्मनः अशुभं स्मरतः महान् अनुतापः आसीत् ॥ २५ ॥ अहो अविजितात्मनः मे परमं कष्टं अभूत् येन वृषल्यां जायता आत्मना ब्रह्म विप्लावितम् ।। २६ ।। । श्रीधरस्वामिविरचिता भावार्थदीपिका
-
- यथा नृप ! ते एवं अरिन्दम इति प्र प्रत्युदिताः किं च तैस्तपोदानादिभिस्तान्यघान्येव पूयंते नश्यंति । अधर्माज्जातं मलिनं तु तस्य पापकर्तुर्हृदयम् । यद्वा । तेषाम- घानां हृदयं सूक्ष्मं रूपं संस्काराख्यं न शुद्धयति । तदपीशांघ्रिसेवया कीर्तनादिना शुद्धरतीत्यर्थः । अयं भावः । महांत्यपि पापानि सकृदुच्चारितेनैव नाम्ना नश्यंति सकृत्प्रवर्तितेन दीपेनेव गाढध्वांतानि । तदावृत्त्या तु पापांतरस्यानुत्पत्तिः दीपधारण इव तमोऽतरस्य । ततश्च वासनाक्षयाद्धृदयशुद्धिः । एतदर्थमेव तत्रतत्राऽऽवृत्तिविधानं “ पापक्षयश्च भवति स्मरतां तमहर्निशम्” इत्यादिषु । तदेवात्राप्युक्तम् । “गुणानुवादः खलु सत्त्वभावनः” इति “तदपीशांघ्रिसेवया" इति च । अतोऽस्य हरिनाम्नैव सर्वपापक्षयो वासनाक्षयस्तु महापुरुषदर्शनादिभिरिति ॥ १७ ॥ * * तथापि पापप्रायश्चित्तमिदमिति ज्ञात्वा नोच्चारित- मिति चेत्तत्राहुः । अज्ञानादिति । बालकेनाज्ञानादपि प्रक्षिप्तोऽभिर्यथा काष्ठराशि दहति तद्वत् ॥ १८ ॥ * * नन्विदमपि पर्षदनुपदिष्टं श्रद्धाहीनं च कथं प्रायश्चित्तं स्यात्तत्राहुः । यथेति । अगदमौषधम् । वीर्यवत्तममिति वक्तव्ये वीर्यतममित्युक्तम् । यदृच्छया श्रद्धादिहीनमुपयुक्तं भक्षितं पर्षन्मुखादजानतोऽपि स्वगुणमारोग्यं कुर्यात् । मंत्रोऽपि नामात्मक तथा स्वकार्यं कुर्यादेव । १. इमौ श्लोकों सटीक श्रीविजयध्वजतीर्थपाठे । २. अयं सटीक : श्रीवीरराघवश्रीविजलध्वजतीर्थयोः पाठे । ३. प्रा० पा० नोत्सुकः । ४. प्रा० पा० अथाजामिल आकण्यं । : स्कं. ६ अ. २ श्लो. १७-२६] अनेकव्याख्या समलङ्कृतम्- न हि वस्तुशक्तिः श्रद्धादिकमपेक्षत इत्यर्थः । तदुक्तं विष्णुधर्मेषु । “हरिहरति पापानि दुष्टचित्तैरपि स्मृतः ॥ अनिच्छयाऽपि संस्पृष्टो दहत्येव हि पावकः ॥” इति ॥ १९ ॥ तं विप्रममूमुचन्मोचयामासुः ॥ २० ॥ प्रत्युदिता
-
- निराकृताः संतो यात्वा गत्वा यमराज्ञे यमराजाय यथावत्कथयामासुः ।। २१ ।। * * दर्शनेनोत्सवो यस्य ॥ २२ ॥ * विवतुं वक्तुमिच्छंतं ज्ञात्वा ॥ २३ ॥ * * त्रैविद्यं वेदत्रयप्रतिपाद्यं गुणाश्रयं यमदूतानां धर्मं कृष्णदूतानां च भागवतं भगवत्प्रणीतं शुद्धं निर्गुणं धर्ममाकण्र्येति योज्यम् । भक्तिमासीदित्युत्तरस्यानुषंगः ॥ २४-२५ ॥ * * अनुतापं प्रपंचयति अहो इति चतुर्भिः । येनात्मना मया वृषल्यां पुत्रतया जायमानेन ब्रह्म ब्राह्मणजातिविसापितं नाशितम् ।। २६ ।। वंशीधरकृतो भावार्थदीपिकाप्रकाशः BRIEFIN I TIERTERE
w अन्यदपि नाम्न आधिक्यमाह-किश्चेति । तच्छब्दस्य पूर्वपरामशिवाजच्छदेन पापकर्तुमहणं नोपयुज्यते तस्य पूर्व प्रक्रांतत्वाभावादत आह-यद्वेति । अत्राशयमाह - अयं भाव इति । यतो हरिनाम महत्प्रभाववदतो हेतोः ।। १७ ।। यद्यपि नामोच्चारणं सर्वपापप्रायश्चित्तमस्ति तथापीति ॥ १८ ॥ पुनराक्षिपति तन्विति । पर्षत्स्वरूपं तु बृहत्पाराशर्याम् “वेदशास्त्र- विदो विप्रा यं ब्रूयुः पञ्च सप्त वा । त्रयो वापि स धर्मः स्यादेको बाध्यात्मवित्तमः । संयमं नियमं वापि उपवासादिकञ्च यत् । तद्द्गरा परिपूर्णा स्यान्निष्कृतिर्व्यावहारिकी ॥ न लक्षेणापि मूर्खाणां न चैवाधर्मवेदिनाम् । लुब्धानां नात्यविदुषां नापि वै पक्षपातिनाम् | श्रुताध्ययनसंपन्नः सत्यवादी जितेन्द्रियः । सदा धर्मरतः शांत एकः पर्षत्त्वमर्हति ॥” इति ‘समज्या परिषद्गोष्ठी’ इत्यमरः । परेरंत्यलोपे पर्षदपि साधितं “धर्मज्ञा यत्र तिष्ठन्ति विद्वांसो ब्राह्मणस्त्रियः । पञ्च वा सप्त वा चैकः सभा सा पर्ष- दुच्यते” इति धरणिदेवः । छंदोभंगभयान्मतुब्लोपः । यद्वा-मत्वर्थीयाजंतात्तमबोध्यः । इत्यर्थ इति । न ह्ययमनिर्मां दहत्विति श्रद्धावंतमेवाभिर्दहति किं तु तद्धीनमपीति भावः । तत् श्रद्धाराहित्येपि स्वकार्यकरणम् । दुष्टचित्तैः श्रद्धाहीनैः ।। १९ ।। * ते वैष्णवाः । भागवतं भगवद्भक्तिप्रधानम् । नृपेति । नृपत्वमपि भागवतधर्मायत्तं तदभावे यथा राजा तथा प्रजा’ इति न्यायेन सर्वे नरा नरकाधिकारिण एव स्युरिति भावः ॥ २० ॥ यमराज्ञ इति समासांतविधेरनित्यत्वात् । अरिंदमेति । कामादिशत्रुदमनशीलस्त्वं मा भैरिति भावः ॥ २१ ॥ * प्रकृतिं सात्त्विकावस्थाम् । ‘सत्त्वप्रकृतयो विप्रा’ इत्युक्तेः अत एव ववंद इति ॥ २२ ॥ * * तेन सहासंभाषणमुत्कंठां वर्द्धयित्वा सम्यग्भक्तत्वापादनार्थं तदर्थमेव त्याग इति संदर्भः । अत्र विश्वनाथ:- नन्वेवं चेन्द्रियमाणोऽयं नामाग्रिहीत्तर्हि कथं सद्य एव पार्षदैवैकुंठं न निन्ये । श्रूयते हि “यस्यावतार - गुणकर्मविडंबनानि नामानि येऽसुविगमे विवशा गृणंति । तेऽनेकजन्मशमलं सहसैव हित्वा संयांत्यपावृतमृतं तमजं प्रपद्ये ॥ " इति । अत्रोच्यते - नामग्रहणं द्विधा केवलत्वेन स्नेहसंयुक्तत्वेन च तत्र पूर्वेणापि प्रापयत्येव सद्यल्लोकं तन्नाम परेण चेत्तत्सा- मीष्यमपि प्रापयति । “मयि भक्तिर्हि भूतानाममृतत्वाय कल्पते” किं च-“दिष्टया यदासीन्मत्स्नेहो भवतीनां मदायने” इति तद्वाक्यात् । किं तु । “नाहं तु संख्यो भजतोऽपि जंतून्भजाम्यमीषामनुवृत्तिवृत्तये” इति तद्वाक्यादेवेषद्विलंबेन प्रापयति स्नेह- त्वममीषामनुवृत्तिर्मदनुसेवैव वृत्तिर्जीवनहेतुरिति तदर्थमयमभिप्रायो दर्शितः । तदेवं सत्यजामिलोप्यारोपिततन्नाम्नः पुत्रस्य संबंधेन तन्नान्यपि स्निह्यति स्म तस्मिन्स्वनाम्नि भगवतोऽपि सांद्रो ऽभिमानो दृश्यते यतस्तद्विषया मतिरित्यर्थः । यतः पार्षदा- नामपि तत्र महानेवादरो दृष्टः तस्मात्स्नेहसंवलनया गृहीतस्वनानि तस्मिन्नुत्कण्ठापूर्वकसाक्षान्निजकीर्त्तनादिद्वारा साक्षान्निजस्नेह प्रकृष्टं दत्त्वा नेतुमिच्छति प्रभुरिति ज्ञात्वा सहसा नात्मभिः सह नीतवंत इति सर्व समंजसम् । अहो अहमपि राजसस्वभावत्वा- दधवानस्मीति शोचंतं नृपमाह-अनघेति । स त्वजामिलः पापकारित्वादघसंबंध्यपि तस्मिन्नपि भगवत एतादृश्यनुकंपा जाता किं पुनराजन्मतोऽघसंबंधशून्ये त्वयीति भावः ॥ २३ ॥ * * छंदोभंगभयात्प्रधानस्यापि कृष्णशब्दस्य परनिपात इत्याह-यमकृष्णयोरिति ॥ २४ ॥ * अशुभं वृषलीसंगादिलक्षणम् । अनुपातः पश्चात्तापः ।। २५ ।। * * उत्कंठा- पूर्वकं साक्षात्तद्भजनमेवाह - अनुतापरूपत्वेन अहो इत्यादिना ।। २६ ।। - । 1 ! ! জ अन्वितार्थप्रकाशिका किञ्च - तैरिति । अतस्तैस्तपोदानजपादिभिः प्रायश्चित्तैस्तान्येवाघानि पूयन्ते नश्यन्ति । पूङ् विनाशे । अधर्मजम् अधर्मानुष्ठानाज्जातं तद्धृदयं तेषाम् अघानां हृदयं सूक्ष्मरूपं संस्काराख्यं तु न नश्यति । ईशाङ्घ्रिसेवया श्रवणादिभगवद्भक्त्या तु तदपि नश्यति । अयं भावः । महान्त्यपि पापानि सकृदुच्चारितेनैव नान्ना दीपेन गाढध्वान्तानीव निवर्तन्ते तदावृत्त्या तु पापान्तरस्यानुत्पत्तिः दीपधारण इव तमोन्तरस्य ततश्च वासनाक्षयाद्वृदयशुद्धिः पापक्षयश्च भवति । एतदर्थमेव तत्र तत्रावृत्ति- विधानम् । “स्मरतां तमहर्निशम्” इत्यादौ अत्रापि “गुणानुवादः खलु सावभावनः” इत्यादि । अतोऽजामिलस्य हरिनामनैव सर्वपापक्षयः । वासनाक्षयस्तु महापुरुषदर्शनादिभिरिति ।। १७ ।। अज्ञानादिति । सर्वपापप्रायश्चित्तमिदमिति * ७२ ॥ ॥ श्रीमद्भागवतम् [ स्कं. ६ अ. २. १७-२६ ज्ञानादथवा अज्ञानादपि यदुत्तमश्लोकस्य भगवतो विष्णोर्नाम संकीर्तितं तत्पुंसः कीर्तयतः प्राणिनोऽधं पापं दहेदेवेति । यथा बालेनाज्ञानादपि काष्ठराशौ प्रक्षिप्तोऽग्निस्तं दहेदेवेति ॥ १८ ॥ नन्विदं पर्षदनुपदिष्टं श्रद्धाहीनं चेति कथं प्रायश्चित्तं स्यात्तत्राहु: - यथेति । यथा वीर्यतमं वीर्यवत्तमम् । अर्श आद्यजन्तात्तमप् । अगदमौषधं यदृच्छया कस्मादेव तत्प्रभावज्ञाना- भावाच्छ्रद्धाहीनेनाप्युपयुक्तं भक्षितं तत्तस्याजानतोऽप्यात्मगुणमारोग्यं बलपुष्ट्यादिकं च कुर्यादेव तथा नामात्मको मन्त्रोऽप्यु- दाहृत: उच्चारितः आत्मगुणं पापनिवृत्तिं कुर्यादेव न हि वस्तुशक्तिः श्रद्धामपेक्षते न च नाममाहात्म्यवादाः अर्थवादत्वान्न स्वार्थे प्रमाणानीति वाच्यम् । “अर्थवाद हरेनाम्नि सम्भावयति यो नरः । स पापिष्ठो मनुष्याणां नरके पतति स्फुटम् ।” इत्यादिभिरर्थवादत्वकल्पने दोषात् ॥ १६ ॥ * * ते इति । हे नृपते ! भगवत्पार्षदाः भागवतं धर्म सुष्ठु युक्तिपूर्वकं निर्णीय बलात्कारेण तं विप्रं याम्यपाशान्निर्मुच्य मृत्योर्देहवियोगलक्षणाप्यमूमुचन् मोचयामासुः ॥ २० ॥ * * इतीति । हे अरिन्दम ! प्रत्युदिता निराकृता यमसंबन्धिनो दूता यमस्यान्तिकं समीपं यात्वा गत्वा तस्मै यमराजाय तत्सर्वमाचचक्षुः कथयामासुः । तभाव आर्ष: । यमराज्ञे यथा सर्वमिति पाठे टजभाव आर्षः । यथा यथावत् ॥ २१ ॥ ॐ द्विज इति । द्विजोऽजामिलो यमपाशाद्विनिर्मुक्तोऽत एव गतभीर्निर्भयोडत एव प्रकृतिं स्वस्थचित्ततां गतः तेषां विष्णुदूतानां दर्शनेन उत्सवो sreal यस्य यः तान्विष्णोः किंकरान् शिरसा ववन्दे ॥ २२ ॥ * तं विवतुमिति । हे अनघ ! महापुरुषस्य भगवतः
- किङ्कराः तदानीं तस्यायुः शेषतया भगवत्पदनयनस्यायुक्तत्वात्तं विवतुं किंचिद्वक्तुमिच्छन्तमभिप्रेत्य ज्ञात्वा तस्य पश्यत एव सतस्तत्रैव ते सहसा अकस्मादेवांतर्दधिरे । न च शिष्टायुषस्तस्य मध्य एवं कथं यमदूता ग्रहणे प्रवृत्ता इति शङ्कनीयम् । पापिनामकालेऽपि मरणसम्भावनया भ्रान्त्या तंत्र प्रवृत्तिः स एव समयों मरणकालत्वेनोपचरितः वस्तुतः पापक्षयादायुर्भ- जाभाव इति ।। २३ ।। * * अजामिल इति युग्मम् । अजामिलोऽपि यमकृष्णयोर्दूतानां संवाद कृष्णदूतेभ्यो भागवतं शुद्धं धर्म तथा यमदूतेभ्यस्त्रैविद्यं वेदत्रयप्रतिपाद्यं गुणाश्रयमविद्वत्कर्तृकं संसारफलकं धर्मं प्रायश्चित्ताद्यात्मकं चाकर्ण्य श्रुत्वा अथ हरेमाहात्म्यश्रवणाद्धेतोः आशु भगवति भक्तिमानासीत् आत्मनः अशुभं स्मरतस्तस्य महाननुताप आसीत् ।।२४-२५।। ** अहो इति । येन मया वृषल्यां शूद्रयां जायता पुत्ररूपेण जायमानेन । आर्षः शता । आत्मना स्वेन ब्रह्म विप्लावितं ब्राह्मणत्वं नाशितं तस्य अविजितात्मनः अवशीकृतचित्तस्य मे मम परमं कष्टमभूत् महती हानिजता ॥ २६ ॥ 1 1 वीरराघवव्याख्या ॥ . ॥
। तथापि तैस्तैः तपआदिभिः प्रायश्चित्तैरघानि प्रतिनियत निवर्त्यानि पूयन्ते निवर्त्यन्ते न त्वधर्मजमधर्म जनयतीत्य- धर्मजं हृदयं मनश्चित्तशुद्धिर्न जायत इत्यर्थः । तर्ह्यधर्मस्य निमित्तं हृदयं केन शुद्धयतीत्यत्राहुः । तदपीति । तदुद्धृदयमपीश्वरा- अम्रिसेवया नामस्मरणादिरूपया भगवत्सेवया शुद्धयतीत्यर्थः ॥ १७ ॥ * * तत्तस्माज्ज्ञानादिदं भगवन्नामाशेषाघ- निवर्त्तकमिति ज्ञानादथवा अज्ञानात्सङ्केत परिहासादिनिमित्ताद्वा सङ्कीर्तितमुत्तमश्लोकस्य भगवतो नाम पुंसः पापिनोऽयं दहत्येव निवर्त्तयत्येव यथानलोऽग्निः ज्ञानादज्ञानाद्वा स्पृष्टो दहति तद्वदित्यर्थः ॥ १८ ॥ * * यथा च वीर्यतममगदुमौषधं यदृच्छया ज्ञानादज्ञानाद्वा उपयुक्त भस्मितं सदारोग्यं जनयतीति शेषः । तथा भगवन्नामात्मको मन्त्रोऽपि आत्मनः स्वस्य गुणं नाम्नः सामर्थ्यमजानतापि पुरुषेणोदाहृतः उच्चारितः सन्नघं दहत्येवेति पूर्वेणान्वयः। वस्तूनां विलक्षणस्वभावत्वादिति भावः ।। १९ ।। * * यद्यस्मदुक्तार्थे युष्माकं सन्देहस्तर्हि स्वपतिं यमं पृच्छतेत्याहुः । पतिमिति हे भटाः ! है दूताः ! यद्यस्मिन्नस्मटुक्ते धर्मे यदि संशयस्तर्हि वो युष्माकं पति यर्म पृच्छत से तु धर्म सूक्ष्मं जानातीत्याहुः । स इति । स भगवान् । उत्पत्ति प्रलयं चैव भूतानामागतिं गतिम् । वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति ॥ । इत्युक्तविधः यमः धर्मस्य भगवद्धर्मस्य गुह्यं रहस्यमत एवं परमं श्रेष्ठं वेद जानातीत्यर्थः ॥ ० ॥ एवमुक्ता यमदूताः विप्रं मुमुचुरित्याह मुनिः ते इति । हे नृप ! ते यमभदा एवमुक्तविधं भागवतं भगवन्नामोच्चारणरूपं धर्मं विनिर्णीय निःशेष- दुरितक्षपणसमर्थं विनिश्चित्य तं विप्रं याम्यपाशान्निर्मुच्य विमुक्तं कृत्वा मृत्योरमुमुचन् मोचितवन्तः मृत्योरमूमुचन्नित्यस्या- तस्य मृत्य प्रसक्तः तत्समये च तमानेतुं याम्याः पुरुषा आजग्मुः तस्मिवाधिक पापे यमभिप्रायः आय: से आयुः क्षयकरात्पापाधिक्यात्तस्य मृत्युः प्रसक्तः अन्तिमनामोच्चारणेनाकस्मादापतितेन समूल विनष्टे सति मृत्योरपि निवृत्तिरित्यत एवं “स एवं वर्तमानोऽज्ञो मृत्युकाल उपस्थिते । मतिं चकार तनये” इति पूर्वग्रन्थस्य “द्विजः पाशाद्विनिर्मुको गतभीः प्रकृतिं गतः” इत्युत्तरप्रन्थेन सह न विरोधः अन्यथा प्रसक्तमृत्योर्निवारणासम्भवात्पुनर्जीवनकथनं भक्तियोगोपसंहारकथनं च विरुध्येतेति ॥ २० ॥ ततो यमदूता द्विजो विष्णुदूताश्च किमकार्षुस्तत्राह । इतीत्थं प्रत्युदिताः प्रत्याख्याताः याम्या दूताः यमसमीपं यात्वा गत्वा यमराज्ञे यमराजाय समासविधेरनित्यत्वान्न टचू आर्षत्वाद्वा । हे अरिन्दम । यथासर्वमुक्तं सर्वमनतिक्रम्याचचक्षुः कथितवन्तः ’ * स्कं. ६ अ. २ श्लो. १७-२६] । अनेकव्याख्या समलङ्कृतम् इति ॥ २१ ॥ द्विजो यमपाशाद्विनिर्मुक्तः गतभीर्निर्भयः प्रकृतिं पूर्वावस्थां गतः प्राप्तः पुनर्जीवितवानित्यर्थः । विष्णोः किङ्करान् दर्शनेनोत्सवो हर्षो यस्य तादृक् शिरसा ववन्दे नमस्कृतवान् हे अनघ ! ।। २२ ।। तं द्विजं विवनुं किश्चिद्वक्तुमिच्छुमभिप्रेत्या लक्ष्य महापुरुषस्य भगवतः किङ्कराः सहसा आशु तस्य द्विजस्य पश्यतः सतः अन्तर्दधिरेऽन्तर्हितवन्तः अस्य भगवत्प्राप्त्यपेक्षाजननायान्तर्द्धानम् । सर्वज्ञोऽपि हि सर्वेशः सदा कारुणिकोऽपि सन् । संसारतन्त्रवाहित्वाद्रक्षापेक्षा- मपेक्षते । इति ह्युक्तम् ॥ २३ ॥ अथ तदन्तर्द्धानानन्तरमजामिल: यमकृष्णयोर्दूतानां शुद्धं भागवतं धर्ममाकर्ण्य भगवन्माहात्म्यश्रवणाद्भगवद्भक्तिमानासीदित्युत्तरेणान्वयः । तत्र यमदूतानां त्रैविध्यं गुणाश्रयं धर्ममाकर्ण्य कृष्णदूतानां शुद्धं भागवतं धर्ममाकर्ण्यत्यन्वयः । त्रिविधो वेदः ऋग्यजुः सामात्मकत्वात्तद्विहितं त्रैविध्यं पूर्वभागविहितं कर्म गुणाश्रयं गुणत्रयवश्य- जनाधिकारं शुद्धं सत्त्वगुणप्रधानजनाधिकारं भागवतं भगवतः सम्बन्धिनं भगवत्प्रार्खेति पाठे आसीदिति क्रियापदाध्याहारः आकर्णेत्यस्याकर्णितं मनस्यवधार्येत्यर्थः । अन्यथा तिरोधानात्पूर्वमेवाकर्णितत्वादथेत्यनेन सह विरोधापत्तेः अथेत्यस्य नन्विति वार्थः ॥ २४ ॥ * * आत्मनः स्वस्याशुभं पापं स्मरतस्तस्य महाननुतापः परिताप आसीत् ।। २५ ।। * * तस्यानुतापप्रकारमेवाह । अहो इति । अविजित आत्मा मनो येन तस्य मे मम महत्कष्टमहो अभूर्ति तद्वृषल्यां शूद्रायां जायमानेन येनात्मना मया ब्रह्म ब्रह्मत्वं विसावितं विनाशितम् इति यत् " तज्जाया जाया भवति यदस्यां जायते पुनः” इति श्रुत्यर्थमभिप्रेत्य जायतात्मनेत्युक्तम् ॥ २६ ॥ १ विजयध्वजतीर्थकृता पदरत्नावली * हृदयं लिङ्गं मनः ॥ १७ ॥ * अजामिलस्यापि सकुन्नामकीर्तनेन वृषलीसङ्गावाप्तपापहारेण देहवियोग- लक्षणमृत्योर्मुक्तिः न तु संसारात्तदर्थं तन्नामोच्चारणादिसेवाहरहः कर्तव्येति विधीयते । धर्म इति । धर्मो नामसङ्कीर्तनलक्षण: आत्मनः शुद्धिः अचिन्मनोनाशेन चिन्मनसः कैवल्यलक्षणा शुद्धिर्भवति वाससो निर्णेजनेनेति शेषः ॥ ० ॥ नन्वीश्वरसेवया यथा मनः शुद्धिस्तथा निरन्तरप्रायश्चित्तक्रिययापि सा किं न स्यादिति तत्राह । नैकान्तशुद्धिरिति । अकर्तुः स्वकर्तृतारहित- स्यात्मनः जीवस्य प्रायश्चित्तकर्मकर्तुः प्रायश्चित्तक्रियया एकान्तशुद्धिर्मनः शुद्धिपूर्विका शुद्धिर्न स्यात् अकर्तृता स्वतन्त्रकर्तृत्वं नास्तीति यतः तस्मादनीहया निषिद्धकर्माकरणेन निरन्तरहरिनाम कीर्तनलक्षणक्रियया हरिं भजेतेत्यन्वयः ॥ ० ॥ नामसङ्कीर्तनस्य कर्तव्यतामर्थवादरूपेणोपसंहरति । अज्ञानादिति । अज्ञानादित्यनेन सर्वात्मना ज्ञानाभावोऽपि न विवक्ष्यते किन्तु अविरुद्ध- त्वान्नाराः गुणाः तेषामाश्रयो नारायणः इत्याद्यर्थविषयवेदनाभावः अन्यथा हरेः सर्वशब्दवाच्यत्वेन घटपटादीनां तन्नाम- त्वेऽपि तान्विहाय नारायणादिनामकीर्तनानुपपत्तेः अत उपचारमात्रमिति ज्ञातव्यम् ॥ १८ ॥ सर्वशब्दानां भगवन्नामत्वेऽपि तदावृत्त्यापि फलानुदयात् फलानुदयात् नारायणादिनाम्ना तदुदयोपलम्भादुभयेषां विशेषः कस्मादित्याशङ्कय मन्त्रोऽगदवदित्याहुरित्याह । यथेति । अजानत इत्यत्रापि उपदेशादिना सामान्यज्ञानमस्त्येव सूपयुक्तमित्यस्योपदेशापेक्षित- त्वाद्यथेतर स्तम्बमूलशब्दमात्रेभ्यः मन्त्रौषधयोः वैशिष्टच फलत्वं चेश्वरक्लृप्तदेवता सन्निधानात्तथात्रापीति भावः ।। १६ ।। * * भवद्भिरस्मदुक्तार्थो विस्रम्भणीयः युष्मत्पृष्टस्वाम्युक्तार्थस्यैकत्वोपपत्तेरित्याशयेनाहुरित्याह । पतिं व इति ॥ ० ॥ वियोगलक्षणात् ॥ २० ॥ * * विष्णुदूतैः सदुत्तरीकृताः याम्याः पुनः किमकुर्वन्निति तत्राह । इतीति ॥ २१ ॥ अजामिलेन मुक्तमृत्युना पुन: किमकारीति तत्राह । द्विज इति । प्रकृतिं गतः सात्त्विकावस्थां प्राप्तः ॥ २२ ॥ मर्त्यदेहस्थेन तेन द्विजेन संल्लापायोगाद्विष्णुदूतैः किं कृतमत्राह । तं विवतुमिति ।। २३ ।। * * प्रकृतिं गत इत्युक्तं विवृणोति । अथेति । त्रैविद्यं त्रिवेदविहितं धर्ममेतदेव स्पष्टयति । गुणाश्रयमिति ॥ २४ ॥ * स्वर्गादिविषयं श्रुत्वा पथिकवदुदासीनोऽभूत्किमत्राह । भक्तिमानिति । अभूदिति शेषः कृतदोषप्रायश्चित्ताभावे हरौ भक्तिः सुदृढा न स्यादित्यत- स्तत्प्रायश्चित्तक्रियाप्रकारमाह । अनुताप इति ।। २५ ।। * * ब्रह्म ब्राह्मण्यं विप्लावितं विनाशितं जायता रेतोरूपेण जायमानेन ।। २६ ।। जीवगोस्वामिकृतः क्रमसन्दर्भः 2.31 मृत्योर्देह-
यथागदमिति । मन्त्रशब्देनात्र नामोक्तिः मन्त्रस्य तथा प्रभावे श्रद्धाद्यपेक्षत्वादस्य तु तदनपेक्षत्वादत्रैव मन्त्रशब्दस्य मुख्या प्रवृत्तिरित्यभिप्रायेण ज्ञेया । पूर्व्वपद्यस्य दृष्टान्तान्तर एवं वा सर्व्वं पद्यम् ॥ १९ ॥ सुविनिर्णीयेति । यद्यपि यमदूतास्तदानीं तन्न सम्यग् बुद्धवन्तस्तथाप्यात्ममध्ये सुष्ठु विनिर्णीयानुवाद कृत्वेत्यर्थः । अत्र साङ्केत्यमित्यादौ सकृन्नामाभा सेनापि यन्निःशेषाघधूननोत्तथा वासनापर्यन्तक्षय उच्यते । गुणानुवाद इत्यादौ तु भक्त यावृत्त्यैवेति यत्तत्तु यथाक्रमं नामापराध- १० ७४ श्रीमद्भागवतम् [ स्कं. ६ अ. २. १७-२६ शूम्यतयुक्त भजनापेक्षया ज्ञेयम् “नामापराधयुक्तानां नामान्येव हरन्त्यवम् । अविश्रान्तप्रयुक्तानि तान्येवार्थकराणि यत् ॥" इति पाद्मात् तदैवं नाम्नः सर्वत्र स्वातन्त्र्येऽपि कर्मादेः पूर्त्त्यर्थं तदङ्गत्वेन कृतमप्यपराध एव हुतादिसर्वशुभक्रियासाभ्यमपि पाद्मदापराध्यां गणितं तस्मात् तदपीशाङ्घ्रिसेवयेत्येतदपि तादृशापराधशान्त्यर्थमेव ज्ञेयम् । नन्वेवं चेन्द्रियमाणोऽयं नामा- ग्रहीत्तर्हि कथं सद्य एव पार्षदैवैकुण्ठं न निन्ये श्रूयते हि “यस्यावतारगुणकर्नबिडम्बनानि नामानि येऽसुतिगमे विवशा गृणन्ति । ते ऽनेकजन्मशमलं सहसैव हित्वा संयान्त्यपोवृतमृतं तमजं प्रपद्ये ।” इति । अत्रोच्यते श्रीभगवन्नामग्रहणं खलु द्विधा भवति केवलत्वेन स्नेहसंयुक्तत्वेन च । तत्र पूर्वेणापि प्रापयत्येव सद्यस्तलोकं तन्नाम । परेण च तत्सामीप्यमपि प्रापयति । “मयि भक्तिर्हि भूतानाममृतत्वाय कल्पते । दिष्टया यदासीन्मतस्नेहो भवतीनां महापन” इतितद्वाक्यात् । किन्तु “नाहं तु संख्यो भजतोऽपि जन्तून् भजाम्यमीषामनुवृत्तिवृत्तय” इति तद्वाक्यदिशा विलम्बेन प्रापयति । स्नेहस्त्वमीषामनुवृत्ति- मैदनुसेवैव वृत्तिर्जीवनहेतुस्तदर्थमित्यभिप्रायों दर्शितः । तदेवं सत्यजामिलोऽप्ययमारोपिततन्नाम्न पुत्रस्य संबन्धेन तन्नाम्नापि स्निह्यति स्म तस्मिंश्च स्वनाम्नि श्रीभगवतो ऽप्यभिमानसान्द्रो दृश्यते । यतस्तद्विषया मतिरित्यत्र । यतः पार्षदानामपि महानेव तत्रादरो दृष्टः तस्मात् स्नेहसंवलनया गृहीतस्वनाम्नि तस्मिन्नुत्कण्ठापूर्वक साक्षानिजकीर्त्तनादिद्वारा साक्षान्निजस्नेहं प्रकृष्टं दत्वा नैतुमिच्छति प्रभुरिति ज्ञात्वा सहसानात्मभिः सह तं नीतवन्त इति सर्व समञ्जसम् ।। २०-२२ ॥ तं विवक्षु- मिति । तेन सहसम्भाषणमुत्कण्ठां वर्द्धयित्वा सम्यग्भक्तत्वापादनार्थं तदर्थमेव हि त्यागो बुध्यते ।। २३-२५ ।। ** उत्कण्ठापूर्वक साक्षात्तद्भजनमेव दर्शयति । अहो इत्यादिना धास्ये मनो भगवति शुद्धं तत्कीर्त्तनादिभिरित्यन्तेन ॥ २६ ॥ विश्वनाथचक्रवतिकृता सारार्थदर्शिनी ।
- किन तैस्तथाविधैरपि पूयन्ते पून विनाशे अधर्माजात अघानां हृदयं मूलं सूक्ष्मं रूपं तु न पूयते न नश्यति तदपि ईशाङ प्रिसेवया हरिचरणयोर्भक्तथा नवानां भक्तीनां मध्ये एकया प्राकरणिक्या कीर्तनरूपयापि वासनापर्यन्त- पापक्षयात्तदपि शुद्धयति ॥ १७ ॥ * * तथापि प्रायश्चित्तमिदमिति ज्ञात्वा नोचारितमिति चेत्तत्राहुः । अज्ञानादिति । बालकनाज्ञानादपि प्रक्षिप्तोऽभिर्यथा काष्ठराशि दहति तद्वत् ॥ १८ ॥ न केवलमघदहनमेव करोति नाम किन्तु भगवत्प्रेमसान्निध्यादिकञ्चेत्यतो दृष्टान्तान्तरमाहुः । यथा अगदमौषधं वीर्यवत्तममिति वक्तव्ये वीर्यतममित्युक्तम् । मतुप्लोपाछी- येशsaisर्थ आद्यजन्तो वा यदृच्छया अकस्मादज्ञानेनापि इत्यर्थः । उपयुक्तं भक्षितं सदात्मगुणनैरुज्यं बलपुष्टचादिकच करोति मन्त्रोऽपि जाग्रद्रपस्तथैव नामेत्यर्थः । यद्वा । नामात्मकोऽयं मन्त्रस्तथा स्वकार्य कुर्यादेव न हि वस्तुशक्तिर्ज्ञानादिकम- पैक्षत इत्यर्थः । १९-२० ।। प्रत्युदिताः प्रत्याख्याता यमराज्ञे यमराजाय ।। २१-२२ ।। * * अन्तर्द्दधिरे इति । तस्यायुःशेषसत्त्वेऽपि पापैरेव यथाशास्त्रमायुः क्षयं ज्ञात्वा यमदूतैराकर्षणोपक्रमः कृत इति स एव समयो मरणकालत्वे- मोपचरितः वस्तुतः पापक्षयादायुर्भङ्गाभावादिति ज्ञेयम् ॥ २३ ॥ यमदूतानां कृष्णदूतानाञ्च धर्ममाकर्ण्य कृष्णदूतानां धर्मं शुद्धं गुणातीतं भागवतं भगवत्प्रणीतं यमदूतानान्तु नैवेद्यं वेदत्रयप्रतिपाद्यं गुणाश्रयमशुद्धम् ।। ३४-२५ ।। ४४ आत्मना मया वृषल्यां जायता पुत्रतया जायमानेन ब्रह्म ब्राह्मणत्वं विप्लावितं नाशितम् ।। २६॥
- शुकदेवकृतः सिद्धांतप्रदीपः
- तैस्तपआदिभिः तान्येवावानि पूयन्ते अधर्मजमधर्माज्जातं मलिनं तेषामघानां हृदयं सूक्ष्मरूप तु न पूयते न शुद्धयति तदपीशाङ्घ्रिसेवया हरिकीर्त्तनादिना शुद्धयतीत्यर्थः ॥ १७ ॥ * * ज्ञानिना अज्ञानिना वा कृतं हरिनाम- कीर्त्तनादिरूपं हरिसेवनं स्वभावत एव सफलम्भवतीति सदृष्टान्तमाहुः । अज्ञानादिति द्वाभ्याम् । अजानता वा केनचित्प्रक्षि- तोऽनलः एधो दहेदेव तद्वत् ॥ १८ ॥ * यथा वीर्यतमम् अमृतरसायनादि अगदमौषधं यदृच्छयोपयुक्तं सेवितम- जानतोऽप्यात्मगुणं कुर्यात्तथा मन्त्रोऽपि हरये नम इत्यादि: आत्मगुणं सर्वपापनिर्नाशपूर्वकं परानन्दप्राप्तिलक्षणं मोक्षं कुर्यादेवेत्यर्थः ॥ १९ ॥ * * भागवतं धर्मं भगवन्नामोचरणादिरूपं धर्म सुष्ठु विनिर्णीय तं याम्यपाशान्निर्मुच्य मृत्योः अमूमुचन् मुक्तो भविष्यतीति सङ्कल्पमात्रेण जन्ममरणादिप्रवाहलक्षणात् संसारान्मोचयामासुरित्यर्थः ॥ २० ॥ * * प्रत्युदिताः प्रत्याख्याताः यमयति नरान् इति यमस्तस्य सम्बोधने हे यम ! हे नृप ! राज्ञे धर्माय आर्षत्वादृजभावे तु यमराज्ञे इत्येकं परं यमान्तिकै यात्वा यथावत् कथयामासुः ॥ २१ ॥ * * प्रकृतिं गतः स्वस्थः दर्शनेन तेषां दर्शनेनोत्सवो यस्य सः ॥ २२ ॥ विवक्षु वतुमिच्छन्तमभिप्रेत्य तस्य पश्यतः अन्तर्दधिरे ॥ २३ ॥ * ॐ यमदूतानां त्रैविध्यं विहितनिषिद्धमिश्रभेदात्त्रिविधं स्वार्थे ष्यन् स्वर्गादिफलकं गुणाश्रयं सत्त्वादिगुणा आश्रयो निमित्तं यस्य तं गुणाश्रयं
- ।।
- j*
- स्व. ६ अ. २ श्लो. १७-२६ ]
- अनैकव्याख्यासमलङ्कृतम्
- गुणमयदेहाभिमानिजीवकर्तृकमित्यर्थः । कृष्णदूतानां शुद्धं शुद्धाधिकारिविषयं भागवतं भगवत्प्राप्तिफलकं च धर्ममाकपर्य भगवति भक्तिमानासीत् आत्मनः अशुभं स्मरतस्तस्यानुतापश्चासीत् ।। २४-२५ ॥ * अनुतापं तचेष्टयैव प्रपञ्चयति । अहो इति चतुर्भिः । वृषल्याम् आत्मना पुत्ररूपेण जायता मया ब्रह्म ब्रह्मत्वं विप्लावितं लोपितम् ।। २६ ।।
- गोस्वामिगिरिधरलालविहिता बालप्रबोधिनी
- अत तै तपोदानजपादिभिः प्रायश्चित्तै तान्येवाधानि पूयन्ते नश्यति, अधर्मजं तद्वृदयं तेषामघानां हृदयं सूक्ष्मरूपं संस्काराख्यं तु न नश्यति, ईशाङ्घिसेवया श्रवणादिभगवद्भक्त्या तु तदपि नश्यन्ति । तथाच पापें तत्प्रायश्चित्ते च शास्त्रमेव प्रमाणम् । शास्त्रं तु सुराबिन्दुपानेन महापातकित्वस्मरणवत् । " तन्नामकीर्त्तनं भूयस्तापत्रयविनाशनम् । सर्वेषामेव पापानां प्रायश्चित्तमिदं स्मृतम् । नातः परतरं पुण्यं त्रिषु लोकेषु विद्यते” इति नाम्नः सर्वप्रायश्चित्तस्मरणान्न असम्भावितं किश्चित् ॥ १७ ॥ * * ननु तथापि पापप्रायश्चित्तमिदमिति ज्ञात्वा तु नोचास्तिं महादुष्टचित्तश्चायमित्याशङ्कय “हरिहरति पापानि दुष्टचित्तैरपि स्मृतः । अनिच्छयाऽपि संस्पृष्टो दहत्येव हि पावकः" इत्यादिशास्त्रं मनसि कृत्वाऽऽहु:– अज्ञानादिति । सर्वपापप्रायश्चित्तमिदमिति ज्ञानात् अथवा अज्ञानादपि यदुत्तमश्लोकस्य भगवतो विष्णोर्नाम तत्पुंसः कीर्त्तयतः प्राणिनोऽधं पापं दहेदेवेति । समप्रदाहे दृष्टान्तमाहुः - एध इति, यथा बालेनाज्ञानादपि काष्ठराशौ प्रक्षिप्तोऽभिस्तं प्रतिबन्धकाभावे समप्रमेव दहति तद्वदित्यर्थः ॥ १८ ॥ * * न केवलपापनिवृत्तिमात्रमेव करोति किन्तु फलान्तरमपीति दृष्टान्तान्तरमाहुः—यथेति । वीर्यवत्तममिति वक्तव्ये वीर्यतममित्यार्षम् । अगढ़मौषधं यदृच्छयाऽकस्मादेव तत्प्रभावज्ञाना- भावान् श्रद्धाहीनेनाप्युपयुक्तं भक्षितं सत् तस्याजान तोपि आत्मगुणमारोग्यं बलपुष्टयादिकं च कुर्यादेव यथा तथा नामात्मको मन्त्रोऽप्युदाहृत उच्चारितः स्वकार्य सर्वपापनिवृत्तिपूर्वकभगवत्प्राप्तिलक्षणं कुर्यादेव । न हि वस्तुशक्तिर्ज्ञानश्रद्धादिकमपेक्षते इति भावः । अत्र विशेषोऽपि बोध्यः न च पापनिवर्त्तकत्वमात्रमेव नामोच्चारणस्येति शङ्कनीयम्, “सकृदुच्चारितं येन हरिरित्यक्षरद्वयम् । बद्धः परिकरस्तेन मोक्षायागमनं प्रति" इति मोक्षे हेतुत्वस्याप्युक्तत्वात् । न च तर्हि धर्मार्थादिफलं न स्यादिति शङ्कनीयम् “न गङ्गा न गया सेतुर्न काशी न च पुष्करम् । जिह्वामे वर्त्तते यस्य हरिरित्यक्षरद्वयम् । ऋग्वेदोऽथ यजुर्वेदः सामवेदो ह्यथर्वणः । अधीतारून येनोक्तं हरिरित्यक्षरद्वयम् । अश्वमेधादिभिर्यज्ञैर्नरमेधैः सदक्षिणैः । यजितं तेन येनोक्तं हरिरित्यक्षरद्वयम् । प्राणप्रयाण- पाथेयं संसारख्याधिभेषजम् । दुःखक्कु शपरित्राणं हरिरित्यक्षरद्वयम्" इत्यादौ त्रिवर्गफलहेतुत्वस्योक्तत्वान् । न च हरिनारायणादि- नामविशेषस्यैवायं प्रभावो न सर्वेषां नान्नामिति शङ्कनीयम्, ‘नामान्यनन्तस्य हतत्रपः पठन्’ ‘वैकुण्ठनाममहणम्’ ‘नाम- व्याहरणं विष्णोः’ ‘हरेर्नामपदैः’ इत्यादी सामान्यतो नाममात्रस्यैव तथा फलकत्वोक्तेः । “अच्युतं केशवं विष्णुं हरिं सत्यं जनार्दनम् । हंसं नारायणं चैव नामाष्टकं शुभम्" इत्यादौ सर्वेषामेव नाम्नां यथोक्तप्रतिपादनात् । न च नामसङ्कीर्त्तनादी वर्णाश्वमादेर्नियम: “ब्राह्मणाः क्षत्रिया वैश्याः स्त्रियः शूद्रान्यजातयः । यत्र तत्रानुकुर्वन्ति विष्णोर्नामानुकीर्त्तनम् । सर्वपापविनि- मुक्तास्तेऽपि यान्ति सनातनम्" इति भविष्योक्तः । न चात्र देशकालादिनियमो ऽस्ति “न देशकालनियमः शौचाशौचविनिर्णयः t परं सङ्कीर्त्तनादेव रामरामेति मुच्यते” वैश्वानरसंहितावचनात् । “न देशनियमो राजन् न कालनियमस्तथा । विद्यते नात्र सन्देहो विष्णोर्नामानुकीर्त्तने । ‘कालोऽस्ति यज्ञे दाने वा स्नाने कालोऽस्ति सज्जपे । विष्णुसङ्कीर्त्तने कालो नास्त्यत्र पृथिवीपते । गच्छंस्तिष्ठन् स्वपन वापि पिबन भुञ्जञ्जपस्तथा । कृष्णकृष्णेति सङ्कीर्त्य मुच्यते पापककात्” इतिनारद- वचनात् । ‘अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा । यः स्मरेत्पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः’ इति वचनाच । तथापि नामान्तरेभ्यः श्रीकृष्णनान्न उत्कर्षो ब्रह्मवैवर्ते उक्तः - “नाम्नां सहस्रं दिव्यानां स्मरणे यत्फलं लभेत् । तत्फलं लभते नूनं रामोचारणमात्रतः । नाम्नां सहस्रं दिव्यानां त्रिरावृत्त्या तु यत्फलम् । एकावृत्त्या तु कृष्णस्य तत्फलं लभते नरः ।
- नरः । कृष्णेति मङ्गलं
- कृष्णेति मङ्गलं नाम यस्य वाचि प्रवर्त्तते । भस्मीभवन्ति सद्यस्तु महापातक- कोदयः । सर्वेषामपि यज्ञानां लक्षाणि च व्रतानि च । तीर्थखानानि सर्वाणि तपांस्यनशनानि च । वेदपाठसहस्राणि
- ! प्रादक्षिण्यं भुवः शतम् । कृष्णनामजपस्यास्य कलां नार्हन्ति षोडशीम्” इति । न केवलं नामकीर्त्तन एवैतत्फलं किन्तु श्रवणस्मरणयोरपि ‘यन्नाममङ्गलध्नं श्रुतमथ गदितं’ इति दशमे । ‘रमते सह रामाभिः प्राप्य विद्याधरं पदम् । अस्य भावनया नामः कीर्त्तनादपि भार्गव’ इति विष्णुधर्मोत्तरे । आश्चर्ये वा भये शोके क्षते वा मम नाम यः । व्याजेन वा स्मरेद्यस्तु स याति परमां गतिम्’ इतिशिवगीतायाम् । ‘प्रयाणे चाप्रयाणे च यन्नाम स्मरतां नृणाम् । सद्यो नश्यति पापौघो नमस्तस्मै चिदात्मने इति पाझे । ‘स्मरन्ति ये स्मारयन्ति हरेर्नास कलौ युगे । ते सभाग्या मनुष्येषु कृतार्था नृप निश्चितम् इति लघुभागवते । ‘श्रुत्वा नामानि तवस्थास्तेनोक्तानि हरेद्विज । नारका नरकान्मुक्ताः सद्य एव महामुने’ इतीतिहासोत्तमे च फलस्य दर्शितत्वात् । तत्रापि कलौ तु यथोक्तदेशकालपात्रश्रद्धादिसर्वाङ्गसहित मवेरसम्भवेन भगवन्नामसंकीर्त्तनादेव तत्तत्फलप्राप्तिर्नान्यथा ।
- ७६
श्रीमद्भागवतम् । [ स्कं ६ अ. २ श्लो. १७-२६ ‘ईशोऽहं सर्वजगतां नाम्नां विष्णोर्हि जापकः । सत्यं सत्यं वदाम्येव हरेर्नान्या गतिर्नृणाम्’ इत्युमां प्रति शिववाक्यम् । ‘कृते यद्धचायतो विष्णुं त्रेतायां यजतो मखैः । द्वापरे परिचर्यायां कलौ तद्धरिकीर्त्तनात् । कलेर्दोषनिधे राजन्नस्ति ह्येको महान् गुणः । कीर्त्तनादेव कृष्णस्य मुक्तबन्धः परं व्रजेत्’ इतिवक्ष्यमाणत्वात् । न च ‘यस्य स्मृत्या च नामोक्त्या तपोयज्ञ- क्रियादिषु । न्यूनं संपूर्णतां याति सद्यो वंदे तमच्युतम्’ इति क्रियासाद्गुण्यकरत्वोक्तेः । कथं स्वातन्त्र्येण तत्तत्क्रिया- फलहेतुत्वं मोक्षहेतुत्वं च सम्भवति । एकरूपस्यैव नामसङ्कीर्त्तनादेरने कहेतुत्वासम्भवादिति शङ्कनीयम् । ‘खादिरो यूपो भवति’ ‘खादिरं वीर्यकामस्य यूपं कुर्यात्’ इत्यादिवत्संयोगपृथक्त्वन्यायेन तत्तत्कामनावशात् तत्तत्फलकत्व सम्भवात् । न चाग्निदृष्टान्तेन वर्त्तमानस्यैव पापस्य नाशकत्वं नाम्न: सम्भवति नागामिपापस्येति शङ्कनीयम् । ‘वर्त्तमानं च यत्पापं यद्भुतं यद्भविष्यति । तत्सर्वं निर्दहत्याशु गोविंदा नलकीर्त्तनम्’ इति लघुभागवतवचनात् । ‘जिह्वा न वक्ति भगवद्गुणनामधेयं चेतश्च न स्मरति तचरणारविन्दम् । कृष्णाय नो नमति यच्छिर एकदाऽपि तानानयध्वम- सतोऽकृत विष्णुकृत्यान्’ इति यमेनाप्येकदापीति वक्ष्यमाणत्त्वात् ‘सकृदुच्चरितं येन’ इत्युक्तत्वाच्च । न च तर्हि पापक्षयश्च भवति स्मरतां तमहर्निशमित्यावृत्तिविधानं प्रायश्चित्तान्तरविधानं च किमर्थमिति शङ्कनीयम्, यद्यप्येकदैव नामसङ्कीर्त्तनादिना सर्व- पापनिवृत्तिस्तथापि पापान्तरोत्पत्तिभयात्तद्विधानम् । तदुक्तं याज्ञवल्क्येन ’ न तावत्पापमस्तीह यन्नाम्ना न हृतं हरेः । अति- रेकभयादाहुः प्रायश्चित्तान्तरं बुधाः’ इति । वस्तुतस्तु भक्तिदायर्थमेवावृत्तिविधानमिति, तत्र तत्र प्रसिद्धत्वात् अत्रापि पापक्षयश्चेति चशब्दप्रयोगाच्च । न च प्रायश्चित्तादन्तरं पापे प्रवृत्तिवन्नामोच्चारणानन्तरमपि पापप्रवृत्तिर्दृश्यते तत्कथं सङ्गच्छते नामसङ्कीर्त्तनेन समूलदोषनिवृत्त्यङ्गीकारादिति शङ्कनीयम् । नामसङ्कीर्त्तनादितः समूलदोषनिवृत्तावपि भोजनादिप्रवृत्तिवत प्रबल - संस्कारवशात् पापप्रवृत्तिसम्भवात् । न च तर्हि पापफलमपि स्यादेवेति शङ्कथं उदाहृतानेकवचनविरोधात् । न चैवं नामसङ्कीर्त्त- नाद्यल्पसाधनेन उदाहृतमहाफलस्य असम्भवादर्थवादमात्रमेवैतदिति शङ्कनीयम्, ‘पुराणेष्वर्थवादत्वं ये वदन्ति नराधमाः । तैरर्जितानि पुण्यानि तद्वदेव भवन्ति हि’ इति नारदीये । ‘यन्नामकीर्त्तनफलं विविधं निशम्य न श्रद्दधाति मनुते यदुतार्थवादम् । यो मानुषस्तमिह दुःखचये क्षिपामि संसारघोरविविधार्त्तिनिपिडिताङ्गम्’ इति ब्रह्मसंहितायाम् । ‘अर्थवाद हरेर्नानि सम्भाव- यति यो नरः । स पापीष्ठो मनुष्याणां नरके पतति स्फुटम् इतिकात्यायनसंहितायां चार्थवादकल्पने दोषस्योक्तत्वात् । न च यहि नामसङ्कीर्त्तनादिकर्ता रोप्यर्थवाद कल्पनाद्यपराधवशान्नरकादौ पतन्ति तर्हि यस्मादपराधादुद्धारे नामसङ्कीर्तनादे: शक्तिर्ना - स्तीति सिद्धं तर्हि सर्वपापनिवारकत्वमिति कथमिति शङ्कनीयम् । लोकपालने समर्थस्यापि स्वापराधिदण्डे प्रवृत्तिदर्शनान्नान्नोऽपि स्वापराधिनं दण्डयत त उद्धारे सामर्थ्य नास्तीति वक्तुमशक्यत्वात् । तथा च भगवद्विमुखानामपराधेनैव संसारे भ्रमन्तीति न नाममाहात्म्ये काचिदनुपपत्तिः, अतएव प्रायश्चित्तानन्तरं पापप्रवृत्तिदर्शनेन ‘प्रायश्चित्तमथोऽपार्थं मन्ये कुञ्जरशौचवत्’ इति प्रायश्चित्तमाक्षिपताऽपि राज्ञा भक्तानां मध्ये नामसङ्कीर्त्तनादि कुर्वतोऽपि कस्यचित्पुनः पापप्रवृत्तिदर्शनेऽपि न तथाऽऽक्षेपः कृतः । न चाजामिलस्यापि एतदपराधः शङ्कनीयः अनुक्तत्वात्फलदर्शनाच्च । एवमन्यासामपि सेवापूजादिभक्तीनां निर्णयो ज्ञेयः ॥ १९ ॥ * * ते भगवत्पार्षदा एवं भागवतं धर्मं भगवन्नामसङ्कीर्त्तनादिमाहात्म्यं सुष्ठु युक्तिपूर्वकं निर्णीय बला- त्कारेण तं विप्रं याम्यपाशान्निर्मुच्य मृत्योर्देहवियोगलक्षणादपि अमूमुचन् मोचयामासुः । न चात्र तव सन्देह उचितो ब्रह्मास्त्रतो भगवत्कृत रक्षाया गर्भे एव दृष्टत्वादिति सूचयन् सम्बोधयति-हे नृपेति ॥ २० ॥ एवं निराकृता यमदूताः किं कृतवन्तस्तत्राह - इतीति । इत्येवं प्रत्युदिता निराकृता यमदूता यमस्यान्तिकं समीपं यात्वा गत्वा तस्मै यमराजाय यथावत् सर्वमाचचक्षुः कथयामासुरित्यन्वयः । प्रबलैर्निराकृता भृत्याः स्वस्वामिने वृत्तं निवेदयन्त्येवेति तु तव विदितमेवेति सूचयन् सम्बोधयति - हे अरिन्दम इति ।। २१ ।। * * एवं यमपाशाद्विमुक्तेन अजामिलेन किं कृतमित्यपेक्षायामाह - द्विज इति । द्विजोऽजामिलो यमपाशाद्विनिर्मुक्तोऽत एव गतभीर्निर्भयोऽत एवं प्रकृतिं स्वस्थचित्ततां गतः सन् तान् विष्णोः किङ्करान् शिरसा ववन्द इत्यन्वयः । वन्दने हेतु: - दर्शनोत्सव इति, कृपयाऽऽत्मनो विमोकदर्शनेन तेषां स्वरूपदर्शनेन चोत्सवो यस्य सः ॥ २२ ॥ तदा भगवत्पार्षदाः किं चक्रुरित्यपेक्षायामाह - विवक्षुमिति । तदानीं तस्यायुः शेषतया भगवत्पद- नयनस्यायुक्तत्वात् तं विवतुं किञ्चिद्वक्तुमिच्छन्तमभिप्रेत्य ज्ञात्वा तस्य पश्यत एव सतस्तत्रैव सहसा अकस्मादेवान्तर्दधिरे इत्य- न्वयः । न चानेकशः पुत्राह्वानव्याजेन श्रीनारायणनामोच्चारणाद्विशुद्धस्य अवशिष्टायुषस्तस्य मध्य एव कथं यमदूताग्रहणे प्रवृत्त इति शङ्कनीयम्, ‘पापिष्ठा ये दुराचारा देवब्राह्मणनिन्दकाः । अपथ्यभोजनास्तेषामकाले मरणं ध्रुवम्’ इत्यादिशास्त्रानुरोधेन तदाचारं दृष्ट्वा पापसम्भावनया नाममाहात्म्यानभिज्ञानां भ्रान्त्या तत्र प्रवृत्तिरत एव अहो कष्टमित्यादिभगवद्दतकृतोपालम्भश्च सङ्गच्छते । अन्ते नामोच्चारणेनैव तस्य शुद्धिस्ततः पूर्वं त्वशुद्धिरित्यङ्गीकारे तु सकृदुचरितं येनेत्यादेरुपालम्भस्य चासङ्गतत्वं स्यादिति बोध्यम् । एवं भगवत्पार्षददर्शनेऽपि यदि संसारे स्थितिर्जाता तहि मम का गतिर्भविष्यतीति राज्ञोऽभिप्रायमाशङ्कय त्वं तु निर्दोषपरमभक्तोऽतस्तव नास्ति भगवत्प्राप्तौ बिलम्ब इति सूचयन् सम्बोधयति - हे अनघ इति ॥ २३ ॥ * * तद्- 2-1 * * 2 स्कं. ६ अ. २ श्लो. १७-२६] अनेकव्याख्यासमलङ्कृतम् نگاری नन्तरं स किं कृतवानित्याकाङ्गायामाह - अजामिलोऽपीत्यादिना । अजामिलोऽपि यमकृष्णयोर्दूतानां संवादे कृष्णदूतेभ्यो भागवतं भगवत्प्राप्तिसाधनं शुद्धं हिंसादिदोषरहितं निर्गुणं धर्म नामसङ्कीर्त्तनादिलक्षणं तथा यमदूतेभ्यस्त्रैविद्यं वेदत्रयप्रतिपाद्यं गुणाश्रयं अविद्वत्कत्त कं संसारफलकं धर्म प्रायश्चित्ताद्यात्मकं चाकर्ण्य श्रुत्वा अथानन्तरम् ॥ २४ ॥ * * हरेः सर्वदुःख- हत्तु महात्म्यस्य सर्वथा स्वजनोद्धारकत्वलक्षणस्य श्रवणाद्धेतोराशु तस्मिन्नेव भगवति भक्तिमानासीदिति द्वयोरन्वयः । ननु विषयाविष्टचित्तस्य कथं तत्र भक्ति: सम्भवतीत्याशङ्कयाह-अनुताप इति, आत्मनोऽशुभं दुराचारं स्मरतस्तस्य महाननुताप आसीदित्यन्वयः । तथाच न तदा पुनर्विषयासक्तिरिति भावः ।। २५ ।। * * अनुतापमेव प्रपञ्चयति- अहो इति चतुर्भिः । येन मया वृषल्यां शूद्रयां जायता पुत्ररूपेण जायमानेनात्मना स्वेन ब्रह्म विसावित ब्राह्मणत्वं नाशितं तस्य मे परमं कष्टमभूत् महती हानिर्जाता । ननु विद्यावतस्तव कथमेषं दुराचारे प्रवृत्तिजतेित्याशङ्कयाह — अविजितात्मन इति, अवशी- कृतमनस्कत्वादित्यर्थः । श्रवणादिसाधनतत्परस्य तव मनसः कथमनवस्था तत्राह - अहो इति आश्चर्य भगवन्मायासाम- र्थ्यमित्यर्थः ॥ २६ ॥ । | भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी 1 । " 7 किं च तैः तपोदानजपादिभिः प्रायश्चित्तैः तानि अघानि प्रतिनियतनिवृत्त्यान्यघानि, पूयन्ते निवर्त्यन्ते । अधर्मं जनयतीत्यधर्मजं तस्य पापकन्तु हृदयं मनः न, प्रायश्चित्तैस्तच्छुद्धिर्न जायते इत्यर्थः । तर्ह्यधर्मस्य निमित्तं मनः केन शुद्धयति तत्राहुः । तदुद्धृदयमपि, ईशाङ्घिसेवया नामस्मरणादिरूपया भगवत्सेवया शुद्ध चतीत्यर्थः ॥ १७ ॥ नन्वस्त्वेवं तथापि प्रायश्चित्तमिदमिति ज्ञात्वा नोच्चारितमिति चेत्तत्राहुः | अज्ञानादिति । ज्ञानाद्भगवन्नामाशेषाधनिवर्त्तकमित्यवबोधात्, अथवा अज्ञानात्संकेत परिहासादिनिमित्ताद्वा, संकीर्त्तितं यत्, उत्तमश्लोकनाम, तत् पुंसः पापिनो जनस्य, अघं दहन्निव- र्त्तयत्येव । कथमिव बालकेनेति शेषः । अज्ञानादथवा ज्ञानात्, एधः सुप्रक्षिप्तः इति शेषः । अनलोऽभिः एधः जात्यभिप्रा- यमेकवचनम् । यथा एधांसीवेत्यर्थः । तद्वत् ॥ १८ ॥ पुनरपि दृष्टान्तेनोक्तार्थमेव समर्थयति । यथेति । यथा वीर्यतमं वीर्यवत्तमं, अगदमौषधं, यदृच्छया ज्ञानादज्ञानाद्वेत्यर्थः । उपयुक्तं भक्षितं सत्, अजानतस्तत्सामर्थ्यमबुद्धवतोऽपि, आत्मगुणं तस्यारोगताविधानरूपं स्वगुणं कुर्यात् एव । एवं मन्त्रः भगवन्नामात्मको मन्त्रोऽपि, उदाहृत उच्चारितः सन्, आत्मगुणं स्वोश्चारका निवर्त्तनगुणं कुर्यादेव । न हि वस्तुशक्तिस्तद्गुणागुणज्ञानमपेक्षते इत्यर्थः । तदुक्तं विष्णुधर्मेषु । ‘हरिहरति पापानि दुष्टचित्तैरपि स्मृतः । अनिच्छापि संस्पृष्टो दहत्येव हि पावकः’ इत्यादिना ॥ १६ ॥ * पतिमिति । हे भटा यमदूताः, यदि अस्मिन्नस्मदुक्ते एतस्मिन् धर्मे, वो युष्माकं, संशयः संदेहः, स्यात् तर्हि, पतिं भगवदीयस्वामिनं यमराजं पृच्छत । भगवान् भगवदेकान्तभक्तत्व रूपैश्वर्यसंपन्नः सः, यमः धर्मस्य भागवतधर्मस्य, गुह्यं रहस्यं तदपि परमं श्रेष्ठं, वेद जानाति ॥ २० ॥ * * त इति । हे नृप, ते विष्णुदूताः, एवमुक्तविधं भागवतं भगवन्नामोच्चारणरूपं धर्म, सुविनिर्णीय निःशेषदुरितक्षपणसमर्थं निर्णीय तं विप्रं याम्यपाशात् निर्मुच्य मोचयित्वा मृत्योरपि, अमूमुचन् मोचितवन्तः । मृत्योरमूमुच- न्नित्यस्यायमभिप्रायः । आयुःक्षयकरात्पापाधिक्यात्तस्य मृत्युः प्रसक्तः तत्समये तं यमपुरं नेतुं याम्याः पुरुषा आजग्मुः । तान् दृष्ट्वा तत्क्षिप्तकण्ठपाशं चानुभूय त्रस्तः सन् पुत्रे संकेतितं नारायणनामाकस्मादुच्चारितवान् । तदानींतननारायणनामबलेन समूलं यथा तथाऽखिलपापनाशे जाते पाशात् मृत्योश्च सकाशान्निवृत्तिः पूर्णायुर्भोगप्रसक्तिश्च जाता । अत एव ‘मृत्युकाले उपस्थिते मतिं चकार’ इति पूर्वग्रन्थस्य ‘द्विजः पाशाद्विनिर्मुक्त:’ इत्युत्तरप्रन्यस्य च न विरोधः । अन्यथा प्रसक्तमृत्योनि- वारणासंभवप्राप्त्या तस्य पुनर्जीवनकथनं पुनर्भक्तियोगंविधानकथनं च विरुद्धयेतेति ॥ २१ ॥ * * ततो यमदूताः सद्विजो विष्णुदूताश्च किमकार्षुस्तत्राह । इतीति । हे अरिंदम, इत्युक्तप्रकारेण, प्रत्युदिता विष्णुदूतैः प्रत्याख्याताः, याम्याः यमसंबन्धिनः दूताः, यमान्तिकं यमराजसमीपं यात्वा गत्वा, यमराशे यमराजाय, समासविधेरनित्यत्वादार्षत्वाद्वा न टच् । सर्वं यथा यथावदेव, आचचक्षुः कथितवन्तः || २२ ॥ * * द्विज इति । द्विजोऽजामिल:, पाशात यमपाशात् विनिर्मुक्तः गतभीर्निर्भीकः सन् प्रकृतिं पूर्वावस्थां गतः प्राप्तः । पुनर्जीवनं प्राप्तवानित्यर्थः । दर्शनेनोत्सवो यस्येत्थंभूतः सन् विष्णोः किंकरान् शिरसा ववन्दे || २३ || *
-
- तमिति । हे अनघ । महापुरुषकिंकराः श्रीविष्णुपार्षदाः, तं द्विजं, विवतुं किंचिद्वक्तुमिच्छुम् अभिप्रेत्यालक्ष्य, सहसा तत्क्षणमेव, तस्य द्विजस्य, पश्यतः सतः, तत्क्षणमेव, तस्य द्विजस्य, पश्यतः सतः, तत्रैव अन्तर्दधिरेऽन्तर्हित- वन्तः ॥ २४ ॥ * * अजामिल इति । अथ भगवतान्तर्द्धानानन्तरम्, अजामिल: अपि, यमकृष्णयोः दूतानां मध्ये यमदूतानां गुणाश्रयं गुणत्रयवश्यजनाधिकृतं त्रैविद्यं त्रिवेदविहितं वेदत्रयप्रतिपाद्यमित्यर्थः । कृष्णदूतानां शुद्धं भागवतं भगवत्संबन्धिनं च, धर्मम् आकर्ण्य अवधार्येत्यर्थः । पूर्वं तदाकर्णनविधानादत्रावधारणरूपोऽस्यार्थो युक्तः ।। २५ ।। * * भक्तिमानिति । हरेः माहात्म्यश्रवणात् आशु भगवति भक्तिमान् आसीत् इति द्वयोरेकसंबन्धः । आत्मनः स्वस्य, अशुभं यमदूतैरभिहितं पापं स्मरतः तस्य, महान् अनुतापश्च आसीत् ।। २६ ।। श्रीमद्भागवतम् भाषानुवाद [ स्कं. ६ अ. २ सो. १७-२६ ६.अ. इसमें सन्देह नहीं कि उन तपस्या, दान, जप आदि प्रायश्चित्तोंके द्वारा वे पाप नष्ट हो जाते हैं । परन्तु उन पापोंसे मलिन हुआ उसका हृदय शुद्ध नहीं होता । भगवान के चरणोंकी सेवासे वह भी शुद्ध हो जाता है ॥ १७ ॥ यमदूतों ! जैसे जान या अनजानमें इधनसे अनिका स्पर्श हो जाय तो वह भस्म हो ही जाता है, वैसे ही जान-बूझकर या अनजानमें भगवान्के नामोंका सङ्कीर्तन करनेसे मनुष्यके सारे पाप भन्म हो जाते हैं ॥ १८ ॥ * * * जैसे कोई परम शक्तिशाली अमृतको उसका गुण न जानकर अनजानमें पी ले तो भी वह अवश्य ही पीनेवालेको अमर बना देता है, वैसे अनजानमें उच्चारण करनेपर भी भगवान् का नाम’ अपना फल देकर ही रहता है (वस्तुशक्ति श्रद्धाकी अपेक्षा नहीं १. वस्तुकी स्वाभाविक शक्ति इस बात की प्रतीक्षा नहीं करती कि यह मुझपर श्रद्धा रखता है कि नहीं, जैसे अग्नि या अमृत हरिहरति पापानि दुष्टचित्तैरपि स्मृतः । अनिच्छयापि संस्पृष्टो दहत्येव हि पावकः || न एक फोट ‘दुष्टचित्त मनुष्य के द्वारा स्मरण किये जानेपर भी भगवान श्रीहरि पापोंको हर लेते हैं । अनजानमें या अनिच्छासे स्पर्श करनेपर भी अग्नि जलाती ही है ।’ भगवानके नामका उच्चारण केवल पापको ही निवृत्त करता है, इसका और कोई फल नहीं है, यह धारणा भ्रमपूर्ण है; क्योंकि शास्त्रमें कहा है- WE IRANE सकृदुम्बरितं येन हरिरित्यक्षरद्वयम् । बद्धः परिकरस्तेन मोक्षाय गमनं प्रति । ‘जिसने ‘हरि’ —ये दो अक्षर एक बार भी उच्चारण कर लिये, उसने मोक्ष प्राप्त करने के लिये परिकर बाँध लिया, फेंट कस ली।’ इस वचनसे यह सिद्ध होता है कि भगवन्नाम मोक्षका भी साधन है। मोक्षके साथ-ही-साथ यह धर्म, अर्थ और कामका भी साधन है; क्योंकि ऐसे अनेक प्रमाण मिलते हैं, जिनमें त्रिवर्ग-सिद्धिका भी नाम ही कारण बताया गया है- न गङ्गा न गया सेतुन काशी न च पुष्करम् । जिह्वाग्रे वर्तते यस्य हरिरित्यक्षरद्वयम् ॥ ऋग्वेदोऽपि यजुर्वेदः अश्वमेधादिभिर्यज्ञनरमेध सामवेदो ह्यथर्वणः । अधीतास्तेन येनोक्तं हरिरित्यक्षरद्वयम् ।। सदक्षिणेः । यजितं तेन येनोक्तं हरिरित्यक्षरद्वयम् ॥ संसारव्याधिभेषजम् । दुःखक्लेशपरिवाणं हरिरित्यक्षरद्वयम् ।। । ‘जिसकी जिह्वा के तोकपर ‘हरि’ ये दो अक्षर बसते हैं, उसे गङ्गा, गया, सेतुबन्ध, काशी और पुष्करकी कोई आवश्यकता नहीं, अर्थात उनकी यात्रा, खात आदिका फल भगवन्नामसे ही मिल जाता है। जिसने ‘हरि’ इन दो अक्षरोंका उच्चारण कर लिया, उसने वेद, यजुर्वेद, सामवेद और अथर्वण वेदका अध्ययन कर लिया । जिसने ‘हरि’ ये दो अक्षर उच्चारण किये, उसते दक्षिणाके सहित अश्वमेध आदि यज्ञोंके द्वारा यजन कर लिया । ‘हरि’ ये दो अक्षर मृत्यु पश्चात् परलोक के मार्ग प्रयाण करनेवाले प्राणोंके लिये पाथेय ( मार्गके लिये भोजनकी सामग्री) हैं, संसाररूप रोगोंके लिये सिद्ध औषध हैं और जीवनके दुःख और क्लेशोंके लिये परित्राण हैं ।" । इन वचनोंसे यह सिद्ध होता है कि भगवन्नाम अर्थ, धर्म, काम इन तीन वर्गीका भी साधक है। यह बात ‘हरि’ ‘नारायण’ आदि कुछ विशेष नामोंके सम्बन्धमें ही नहीं है, प्रत्युक्त सभी नामोंके सम्बन्धमें हैं; क्योंकि स्थान-स्थानपर यह बात सामान्यरूपसे कही गयी है कि अनन्तके नाम, विष्णु के नाम, हरिके नाम इत्यादि । भगवान् के सभी नामोंमें एक ही शक्ति है ।
नाम-सङ्कीर्तन आदि वर्ण आश्रमका भी नियम नहीं है— ब्राहमणाः क्षत्रिया वैश्याः स्त्रियः शूद्रान्त्यजादयः । यत्र तत्रानुकुर्वन्ति विष्णोर्नामानुकीर्तनम् । सर्वपापविनिर्मुक्तास्तेऽपि यान्ति सनातनम् ॥ ‘ब्राहमण, क्षत्रिय, वैश्य, स्त्री, शूद्र, अन्त्यज आदि जहाँ-जहाँ विष्णु भगवान् के नामका अनुकीर्तन करते रहते हैं, वे भी समस्त पापोंसे मूक्त होकर सनातन परमात्माको प्राप्त होते हैं । -सङ्कीर्तन में देश-काल आदिके नियम भी नहीं यथा—एक. ६ अ. २ श्लो. १७-२६] अनेकव्याख्यासमलङ्कृतम् करती ) ॥ १६ ॥ श्रीशुकदेवजी कहते हैं- राजन ! इस प्रकार भगवान् के पार्षदोंने भागवत धर्मका पूरा-पूरा निर्णय सुना दिया और अजामिलको यमदूतीके पाशसे छुड़ाकर मृत्युके मुखसे बचा लिया || २० || प्रिय परीक्षित् ! पार्षदोंकी यह बात सुनकर यमदूत यमराजके पास गये और उन्हें यह सारा वृत्तान्त ज्यों-का-त्यों सुना दिया ॥ २१ ॥ * * अजामिल यमदूतके कसे छूटकर निर्भय और स्वस्थ हो गया। उसने भगवानके पार्षदोंके दर्शनजनित आनन्दमें मन होकर उन्हें सिर झुकाकर प्रणाम किया ।। २२ ।। * * निष्पाप परीक्षित्! भगवान के पार्षदोंने देखा कि अजामिल कुछ में देशकालमिययः शौचासौवविनिर्णयः। परं संकीर्तनादेवं राम रामेति मुच्यते ॥ X । X देशनियमो राजन्न कालनियमस्तथा । विद्यते विद्यते नात्र संदेहो विष्णोर्नामानुकीर्तने ॥ कालोऽस्ति यज्ञे दौने वा स्नाने कालोडित संजपे । विष्णुसंकीर्तने कालो नास्त्यत्र पृथिवीपते । गच्छंस्तिष्ठन्स्वपन्वापि पिबन्भुञ्जञ्जपस्तथा । कृष्ण कृष्णति संकीर्त्य मुच्यते पापकञ्चुकात् ॥ X X X X अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा । यः स्मरेत्पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ॥ ‘देश-कालका नियम नहीं है, शौच-अशीच आदिका निर्णय करनेकी भी आवश्यकता नहीं है। केवल ‘राम-राम’ यह संकीर्तन करनेमात्रसे जीव मुक्त हो जाता है । X X भगवानके नामका संकीर्तन करनेमें न देशका नियम है और न तो कालका । इसमें कोई सन्देह नहीं । राजन् ! यज्ञ, दान, तीर्थस्नान अथवा विधिपूर्वक जपके लिये शुद्ध कालकी अपेक्षा है. अपेक्षा है, परन्तु भगवन्नामके इस संकीर्तनमें काल- शुद्धिकी कोई आवश्यकता नहीं है । चलते-फिरते, खड़े रहते सीते, खाते-पीते और जैप करते हुए भी कृष्ण, कृष्ण’ ऐसा संकीर्तन करके मनुष्य पापके केंचुलसे छूट जाता है। Xxx अपवित्र हो या पवित्र - सभी अवस्थाओंमें ( चाहे किसी भी अवस्थामें ) जो कमलनयन भगवान्का स्मरण करता है, वह बाहर-भीतर पवित्र हो जाता है ।’ कृष्णेति मङ्गलं नाम यस्य वाचि प्रवर्तते । भस्मीभवन्ति सद्यस्तु महापातककोटयः || सर्वेषामपि यज्ञानां लक्षाणि च व्रतानि च । तीर्थखानानि सर्वाणि तपांस्यनशनानि च ॥ वेदपाठसहस्राणि प्रादक्षिण्यं भुवः शतम् । कृष्णनाम जपस्यास्य कलां नार्हन्ति षोडशीम् ॥ ‘जिसकी जिह्वापर ‘कृष्ण-कृष्ण कृष्ण’ यह मंगलमय नाम नृत्य करता रहता है, उसकी कोटि-कोटि महापातकरीशि तत्काल भस्म जाती है । सारे यज्ञ, लाखों व्रत, सर्वतीर्थ-स्नान, तप, अनेकों उपवास, हजारों वेद-पाठ, पृथ्वीको सैकड़ों प्रदक्षिणा कृष्णनाम-जपके सोलहवें हिस्से के बराबर भी नहीं हो सकती ।’ भगवन्नाम कीर्तन में ही यह फल ही सो बात नहीं । उनके श्रवण और स्मरणमें भी वही फल है । दशम स्कन्धके अन्त में कहेंगे ‘जिनके नामका स्मरण और उच्चारण अमँगलब्न हैं ।’ शिवगीता और पद्मपुराण में कहा है— आश्चर्ये वा भये शोके क्षते वा मम नाम यः । व्याजेन वा स्मरेद्यस्तु स याति परमां गतिम् ॥ प्रयाणे चाप्रयोग व यन्नाम स्मरत नृणाम् । संची नश्यति । | ‘भगवान् कहते हैं कि आश्चर्य, भय, शोक, क्षत ( चोट लगने ) आदिके स्मरण करता है, वह परंमगतिको प्राप्त होता है । मृत्यु या जीवन—चाहे जब कभी नष्ट हो जाती है । उन चिदात्मा प्रभुको नमस्कार है ।’ इतिहासोत्तममें कहा गया है- पापोधो नमस्तस्मै चिदात्मने । अवसरपर जो मेरा नाम बोल उठता है, या किसी व्याजसे भगवानका नाम स्मरण करनेवाले मनुष्योंकी पापराशि तत्काल श्रुत्वा नामानि तत्रस्थास्तेनोक्तानि हरेद्विज । नास्का नरकान्मुक्ताः सद्य एवं महामुने ॥ ‘महामुनि ब्राहमणदेव ! भक्तराजके मुखसे नरकमें रहनेवाले प्राणियोंने श्रीहरिके नामका श्रवण किया और वे तत्काल नरकसे मुक्त हो गये।" यज्ञ-यागादिरूप धर्म अपने अनुष्ठानके लिये जिस पवित्र देश, काल, पात्र, शक्ति, सामग्री, श्रद्धा, मन्त्र, दक्षिणा आदिकी अपेक्षा रखता है, इस कलियुगमें उसका सम्पन्न होना अत्यन्त कठिन है । भगवन्नाम सङ्कीर्तन के द्वारा उसका फल अनायास ही प्राप्त किया जा सकता है । भगवान् शङ्कर पार्वतीके प्रति कहते हैं- श्रीमद्भागवतम् [ स्कं. ६ अ २ श्लो. २७-३० इस अवसरपर अजामिलने कहना चाहता है, तब वे सहसा उसके सामने ही वहीं अन्तर्धान हो गये ॥ २३ ॥ * * पार्षदोंसे विशुद्ध भागवतधर्म और यमदूतोंके मुख से वेदोक्त सगुण ( प्रवृत्तिविषयक ) धर्मका श्रवण किया था ॥ २४ ॥ सर्वपापापहारी भगवानकी महिमा सुननेसे अजामिलके हृदयमें शीघ्र ही भक्तिका उदय हो गया। अब उसे अपने पापोंको याद करके बड़ा पश्चात्ताप होने लगा ।। २५ ।। * * ( अजामिल मन-ही-मन सोचने लगा-) ‘अरे, मैं कैसा इन्द्रियों- का दास हूँ ! मैंने एक दासीके गर्भसे पुत्र उत्पन्न करके अपना ब्राह्मणत्व नष्ट करदिया । यह बड़े दुःखकी बात है ।। २६ ।। ॥ २८ ॥ धिमा विगर्हितं सद्भिर्दुष्कृतं कुलकज्जलम् । हित्वा बालां सतीं योऽहं सुरापामसती मगाम् ॥ २७ ॥ वृद्धावनाथौ पितरौ नान्यबन्धू तपखिनौ । अहो मयाधुना त्यक्तावकृतज्ञेन नीचवत् ॥ सोऽहं व्यक्तं पतिष्यामि नरके भृशदारुणे । धर्मनाः कामिनो यत्र विन्दन्ति यमयातनाः ॥ किमिदं स्वप्न आहोखित् साक्षाद् दृष्टमिहाद्भुतम् । क्व याता अद्य ते ये मां व्यकर्षन् पाशपाणयः ॥ ३० ॥ ईशोऽहं सर्वजगतां नाम्नां विष्णोहि जापकः । सत्यं सत्यं वदाम्येव हरेर्नान्या गतिनृणाम् ॥ २९ ॥ ‘सम्पूर्ण जगत्का स्वामी होनेपर भी मैं विष्णुभगवान्के नामका ही जप करता हूँ। मैं तुमसे सत्य सत्य कहता हूँ, भगवान्को छोड़कर जीवोंके लिये अब कर्मकाण्ड आदि कोई भी गति नहीं है ।’ श्रीमद्भागवतमें ही यह बात आगे आनेवाली है कि सत्ययुगमें ध्यानसे, त्रेता में यज्ञसे 1 और द्वापर में अर्चा-पूजासे जो फल मिलता है, कलियुग में वह केवल भगवन्नामसे मिलता है। और भी है कि कलियुग दोषोंका निधि है, परन्तु इसमें एक महान् गुण यह है कि श्रीकृष्णसंकीर्तनमात्रसे ही जीव बन्धनमुक्त होकर परमात्माको प्राप्त कर लेता है । इस प्रकार एक बारके नामोचारण की भी अनन्त महिमा शास्त्रों में कही गयी है । यहाँ मूल प्रसङ्गमें ही - ‘एकदापि’ कहा गया है । ‘सकुदुच्चारितं’ का उल्लेख किया जा चुका है । बार-बार जो नामोच्चारणका विधान है, वह आगे और पाप न उत्पन्न हो जायें इसके लिये है । ऐसे भी वचन मिलते हैं कि भगवान के नामका उच्चारण करनेसे भूत, वर्तमान और भविष्यके सारे ही पाप भस्म हो जाते हैं, यथा- वर्तमानं च यत् पापं यद् भूतं यद् भविष्यति । तत्सर्वं निर्दहत्याशु गोविन्दानलकीर्तनम् ॥ फिर भी भगवत्प्रेमी जीवको पापोंके नाशपर अधिक दृाष्ट नहीं रखनी चाहिये; उसे तो भक्तिभावकी दृढ़ताके लिये, भगवान्के चरणोंमें अधिकाधिक प्रेम बढ़ता जाय, इस दृष्टिसे अहर्निश नित्य निरन्तर भगवान्के मधुर-मधुर नाम जपते जाना चाहिये । जितनी ही अधिक निष्कामता होगी, उतनी ही उतनी नामकी पूर्णता प्रकट होती जायगी, अनुभवमें आती जायगी । अनेक तार्किकोंके मनमें यह कल्पता उठती है कि नामकी महिमा वास्तविक नहीं है, जाती है कि शराबकी एक बूंद भी पतित बनानेके लिये पर्याप्त है, परन्तु यह विश्वास नहीं होता है । शास्त्रों में भगवन्नाम महिमाको अर्थवाद समझना पाप बताया है । अर्थवादमात्र है । उनके मनमें यह धारणा तो हो कि भगवान्का एक नाम भी परम कल्याणकारी पुराणेष्वर्थवादत्वं ये वदन्ति नराधमाः । तैरजितानि पुण्यानि तद्वदेव भवन्ति हि ॥ X X X X X मन्त्रामकीर्तनफलं विविधं निशम्य न श्रद्दधाति मनुते यदुतार्थवादम् । यो मानुषस्तमिह दुःखचये क्षिपामि संसारघोर विविधातिनिपीडिताङ्गम् ॥ X x X X X अर्थवादं हरेर्नाम्नि सम्भावयति यो नरः । स पापिष्ठो मनुष्याणां नरके पतति स्फुटम् ॥ ‘जो नराधम पुराणोंमें अर्थवादकी कल्पना करते हैं, उनके द्वारा उपार्जित पुण्य वैसे ही हो जाते हैं ।’ X ‘जो मनुष्य मेरे नाम - कीर्तनके विविध फल सुनकर उसपर श्रद्धा नहीं करता और उसे घोर तापोंसे पीड़ित होना पड़ता है और उसे मैं अनेक दुःखोंमें डाल देता हूँ । XX XX जो करता है, वह मनुष्योंमें अत्यन्त पापी है और उसे नरकमें गिरना पड़ता है ।’ १. प्रा० पा० - अहोऽधुना मया त्यक्ता० । २. प्रा० पा० - यत्तद्विन्दन्ति । X अर्थवाद मानता है, उसको संसारके विविध मनुष्य भगवान के नाममें अर्थवाद की सम्भावना एकं. ६ . २ श्लो. २७-३८ ] अनेकव्याख्या समलङ्कृतम् प्रसीदति ॥ ३१ ॥ ३२ ॥ ३२ ॥ ३३ ॥ ३४ ॥ अथ ते क गताः सिद्धात्वारश्चारुदर्शनाः । व्यमोचयन्नीयमानं बद्ध्वा पाशैरधो भुवः ॥ अथापि मे दुर्भगस्य विबुधोत्तमदर्शने । भवितव्यं मङ्गलेन येनात्मा मे प्रसीदति ॥ अन्यथा म्रियमाणस्य नाशुचेर्व्वषलीपतेः । वैकुण्ठनाम ग्रहणं जिह्वा वक्तुमिहार्हति ॥ व चाहं कितवः पापो ब्रह्मघ्नो निरपत्रपः । क्व च नारायणेत्येतद्भगवन्नाम मङ्गलम् ॥ सोऽहं तथा यतिष्यामि यतचित्तेन्द्रियानिलः । यथा न भूय आत्मानमन्धे तमसि मज्जये ।। विमुच्य तमिमं बन्धमविद्याकामकर्मजम् । सर्वभूतसुहृच्छान्तो मैत्रः करुण आत्मवान् ॥ मोचये ग्रस्तमात्मानं योषिन्मन्याऽऽत्ममायया । विक्रीडितो ययैवा हैं क्रीडामृग इवाधमः ॥ ममाहमिति ‘देहादौ हित्वामिथ्यार्थधीर्मतिम् । धास्ये मनो भगवति शुद्धं तत्कीर्तनादिभिः ॥ ३८ ॥ त्यक्तौ ॥ २८ ॥ 88 विन्दन्ति ।। २९ ।। ४ याताः ॥ ३० ॥ * * * I ३५ ।। ३६ ॥ ३७ ॥ ८१ ** अन्वयः - यः अहं सतीं बालां हित्वा सुरापाम् असतीम् अगाम् दुष्कृतं कुलकञ्जलम् सद्भिः विगर्हितं मां चिकू ।। २७ ।। ४ ४ अहो अकृतज्ञेन मया वृद्धौ अनाथौ नान्यबंधू तपखिनौ पितरौ नीचवत् अधुना सः अहं भृशदारुणे नरके व्यक्तं पतिष्यामि यत्र धर्मघ्नाः कामिनः यमयातनाः इदं किं स्वप्नः आहोस्वित् इह अद्भुतं साक्षात् दृष्टं ये पाशपाणयः मां व्यकर्षन ते अद्यः क अथ ये पाशैः बद्ध्वा भुवः अधः नीयमानं व्यमोचयन् ते चारुदर्शनाः चत्वारः सिद्धाः क गताः ॥ ३१ ॥ * * अथ अपि दुर्भगस्य मे विबुधोत्तमदर्शने मंगलेन भवितव्यं येन मे आत्मा प्रसीदति ।। ३२ ।। ॥ अन्यथा इह म्रियमाणस्य अशुचेः वृषलीपतेः जिह्वा वैकुंठनाम ग्रहणं वक्तुं न अर्हति ॥ ३३ ॥ अहं च कितव: पापः ब्रह्मघ्नः निरपत्रपः क च नारायण इति एतत् मंगलं भगवन्नाम क ॥ ३४ ॥ * * सः अहं यतचित्तेन्द्रियानलः यथा भूयः आत्मानम् अंधे नरके न मज्जये तथा यतिष्यामि ।। ३५ ।। * * तं इमम् अविद्याकामकर्मजं बन्धं विमुच्य सर्वभूतसुहृत् शान्तः मैत्रः करुणः आत्मवान् ॥ ३६ ॥ योषिन्मय्या आत्ममायया प्रस्तम् आत्मानं मोचये यया एव अधमः अहं क्रीडामृगः इव विक्रीडितः ॥ ३७ ॥ * * अमिध्यार्थधीः देहादौ अहं मम इति मतिं हित्वा तत्कीर्त- नादिभिः शुद्ध्धं मनः भगवति धास्ये ॥ ३८ ॥ श्रीधरस्वामिविरचिता भावार्थदीपिका * … दुष्कृतं दोषकर्तारम् । कुलस्य कजलं कलंकम् ।। २७ ।। * नास्त्यन्यो बंधुः पुत्रादिर्ययोस्तौ । तपस्विनौ संतप्तौ । अधुना तत्क्षणमेव ॥ २८-२६ ॥ इदानीं तस्य विमर्शपूर्वकं मोक्षक्रममाह किमिदमित्यष्टभिः । साक्षात्प्र- त्यक्षमिह जाग्रतैव दृष्टम् ॥ ३० ॥ ये मां व्यमोचयंस्ते च क्व गताः ॥ ३१ ॥ यद्यप्यहमस्मिञ्जन्मनि दुर्भगः पापी- यानथापि जन्मांतरे नूनं पुण्यवानित्याह । विबुधोत्तमदर्शन इति निमित्तसप्तमी । तेषां दर्शनार्थं पूर्वेण मंगलेन महता पुण्येन भवितव्यम् । येन दर्शनेन ॥ ३२ ॥ अन्यथा पूर्वपुण्यं विना । कथंभूतं वैकुंठनाम । गृह्यते वशीक्रियते चित्तमनेनेति ग्रहणम् ॥ ३३ ॥ ॥ * * ब्रह्मघ्नो विप्रत्वनाशकः ॥ ३४-३७ ।। * अमिथ्याभूतेऽर्थे धीर्यस्य तथाभूतः सन् देहादौ ममाहमिति मतिं हित्वा मनो धास्ये || ३८ ॥ * वंशीधरकृतो भावार्थदीपिकाप्रकाशः
। अगां सुरतार्थं प्राप्तवानस्मि ।। २७-२८ ।। सोऽहमिति । स्वदोषदृष्टचैव नाममाहात्म्यदृष्टया तु वक्ष्यति - । अन्यथा म्रियमाणस्येति ॥ २९-३० ॥ भुवोऽधो नरकम् । अथाधुनार्थे । सिद्धाः कृतार्थतां प्राप्ता देव- विशेषाः ।। ३१ ।। * अथापीत्यनेन प्राचीनास्य भक्तिरस्ति किं तु केनाप्यपराधेनावृताभूदिति गम्यते । आत्मा मनः ॥ ३२ ॥ * त्रियमाणस्य तत्राप्यशुचेस्तत्रापि वृषलीपतेरिति सर्वथायोग्यतां सूचितवान् । नामोच्चारणं हि वशीकरण साधनं “हरिरवशाभिहितोऽप्यघौधनाशः । प्रणयरशनया वृतांत्रिपद्मो न सरति छिद्रवदक्षरः सतां हि” इत्येकादशे जायंतेयोपाख्याने वक्ष्यमाणत्वात् ॥ ३३ ॥ ब्रह्मेति भावप्रधानो निर्देशोऽत उक्तं विप्रत्वनाशकः । कितवो वंचकः १. प्रा० पा० यथैवाहं । २. प्रा० पा० देहं नो हित्वा । ११ ८२ श्रीमद्भागवतम् 1 [ स्कं. ६ अ २ श्लो. २७-३८ ‘कितवस्तु पुमान्मत्ते पंचके कनकाङ्क्षये’ इति मेदिनी ॥ ३४ ॥ * * यः कितवत्वादिविशिष्टस्स इत्यर्थः । अंधे तमसि संसारे नरके वा ॥ ३५ ॥ * * बंधं देहाद्यभिमानलक्षणम् ॥ ३६ ॥ * * यया स्त्रिया ॥ ३७ ॥ * अमिथ्याभूतेऽर्थे ब्रह्मणि । " ब्रह्मैव सत्तदन्यत्सर्वं मिथ्या" इत्युक्तेः । आदिना पुत्रादिग्रहः । पुनरादिना स्मरणादिग्रहः || ३८ ॥ अन्वितार्थप्रकाशिका धिगिति । अतः सद्भिर्विगर्हितं दुष्कृतं पापकर्त्तारं कुलस्य कज्जलं कलङ्कभूतं मां धिक् । योऽहं सतीं बालां हित्वा असतीं सुरापामगां गतवानस्मि ।। २७ ।। * * वृद्धाविति । अहो अकृतज्ञेन पालनाद्युपकारं विस्मृतवता मया अधुना तत्क्षणमेव दासीसंबन्धसमय एव वृद्धौ तत्राप्यनाथौ रक्षकहीनौ नान्ति अन्यो बन्धुः पुत्रादिर्ययोस्तौ अत एव तपस्विनौ सन्तप्तौ मातापितरौ नीचवत् शूद्रान्त्यजादिवत् त्यक्तौ अनादृतौ ॥ २८ ॥ सोऽहमिति । स पापिष्ठोऽहं भृशदारुणे नरके । * व्यक्तं स्फुटं पतिष्यामि । यत्र नरके धर्मघ्नाः कामिनः यमयातनाः विन्दन्ति ॥ २६ ॥ किमिति । इदमद्भुत- माश्वर्यं मया किं स्वप्ने दृष्टमाहोस्वित् अथवा इह जाग्रदवस्थायां साक्षात्प्रत्यक्षमेव दृष्टं ये पाशपाणयो विकृतवेषाः मां व्यकर्षन् तैऽद्य क्क याताः ।। ३० ।। * * अथेति । ये च पाशैर्बद्ध्वा भुवोऽघो नरकं प्रति नीयमानं मां व्यमोचयन् चारु दर्शनं येषां ते चत्वारः सिद्धा अथ अपि क गताः ॥ ३१ ॥ * * अथेति । यद्यप्यहमस्मिन् जन्मनि दुर्भगः पापीयान अथापि मे जन्मान्तरीयेण मङ्गलेन कल्याणकर्मणा भवितव्यम् । येन मङ्गलेन हेतुना विबुधोत्तमानां दर्शने जाते सति मे आत्मा मनः प्रसीदति । यद्वा । विबुधोत्तमानां दर्शने विषये केनापि मङ्गलेन पुण्येन भवितव्यम् इति योजना | कार्यद्वारा कारणमनुमेयं तद्विना भक्तिबीजवपनासंभवात् । अत एव स्वपुत्रस्य नारायण इति नाम चकार ॥ ३२ ॥ * अन्यथेति । अन्यथा पूर्वपुण्यं विना म्रियमाणस्येह विवशावस्थायाम् अशुचेः वृषलीपतेः मम जिह्वा वैकुण्ठस्य भगवतो नामग्रहणं वक्तुं कन्तु नार्हति । यद्वा । गृह्यते वशीक्रियते भगवाननेन इति ग्रहणमिति पृथक्पदं नामविशेषणम् ॥ ३३ ॥ * क्केति । कितवः वकः पापः पापीयान ब्रह्मघ्नः विप्रत्वनाशक: निरपत्रपः निर्लज्जः अहं क्क नारायणेत्येतन्मङ्गलकरं भगवन्नाम के || ३४ ॥ * सोऽहमिति । सोऽहं यताः वशीकृताः चित्तेन्द्रियानिला येन तथाभूतः सन् भूयः अन्धे तमसि महामोहव्याप्ते संसार आत्मानं यथा न मज्जये तथा यतिष्यामि । तङभाव आर्षः ।। ३५ ।। विमुच्येति युग्मम् । अविद्यादेहादावात्मबुद्धिः ततः कामः विषयभोगाभिलाषः ततः कर्म लौकिकालौकिकव्यापारः ततो जातो यो गृहपुत्रकलत्राद्यात्मको विविधो बन्धस्तमिमं विमुच्य त्यक्त्वा शान्तः विषयभोगाभिलाषादिशून्यः सर्वभूतेषु सुहृत्सुखादिसमदर्शी तेषु करुणो दयावान् मैत्र: हितकारी आत्मवान समाहितचित्तः सन् येोषिन्मय्या आत्मनो हरेर्मायया मोहिन्या शक्त्या प्रस्तमात्मानं मोचये क्रीडामृगो वानर इवाघमोऽज्ञोऽहं यया स्त्रियैव विक्रीडितः ।। ३६-३७ ।। ममेति । पूर्व मिथ्या भ्रान्तिरूपैव धनपुत्रादिष्वर्थधीः परमार्थबुद्धिर्यस्य
- । सोऽहं देहादौ ममाहमिति मतिं हित्वा । त्यक्त्वा । यद्वा । देहादौ मिथ्याभूता अमी अर्था इति धीर्यस्य तथाभूतः सन् ममाह- मिति मतिं हित्वा तस्य भगवतो नामकीर्त्तनादिभिः शुद्धं मनस्तस्मिन्भगवति धास्ये धारयिष्यामि ॥ ३८ ॥ वीरराघवव्याख्या । सद्भिरायैर्विशेषेण गर्हितं मां धिक् “उभसर्वतसोः कार्या धिगुपर्यादिषु" इति सम्बन्धसामान्ये षष्ठयपवादिका द्वितीया धिगिति निन्दाद्योतकमव्ययं मां मम धिक् निन्दा निन्द्योऽहमित्यर्थः । कथम्भूतं मां दुष्कृतं दुष्टं कृतवान् दुष्कृतं कुलकज्जलं कुलकलङ्क किन सतीं विशुद्धां बालां योषां स्त्रियं हित्वा सुरापां सुरां पिवतीति तामत एवासतीमगामगच्छम् || २७ ॥ * * वृद्धौ प्रवयसावनाथौ रक्षकरहितौ न विद्यतेऽन्यो बन्धुः पुत्रादिर्ययोस्तौ तपस्विनौ तपन्तौ पितरौ मातापितरावकृतज्ञेन कृतघ्नेन मयाधुना तत्क्षणमेव नीचेनेबाहो त्यक्तौ ॥ २८ ॥ * स एवम्विधोऽहं नूनं नितरां दारुणे नरके पतिष्यामि यत्र नरके धर्माद्याः यमादयः सन्ति कामिनो मादृशाश्व यमयातना विन्दन्ति लभन्ते ।। २९ ।। एवं तस्य परितापमनुवर्ण्यदानी विमर्शपूर्वकं मुक्तिसाधनधर्मानुष्ठानक्रममाह । किमित्यादिना ब्रह्मण्यनुभवात्मनीत्यन्तेन । किमिदं यमकृष्णदूतागमनतत्सम्भा- षणादिदर्शनं स्वप्नः आहोखिदुत साक्षाज्जाग्रता मया महाद्भुतं दृष्टमद्याधुना दूताः के याताः ये पाशपाणयः सन्तो मामाकृष्ट- वन्तः ॥ ३० ॥ * * अथ ते चत्वारः प्रियदर्शनाः सुन्दराः सिद्धाः क गताः ये पाशैः बध्वाधो भुवः नरकान्प्रति नीयमानं मां मोचितवन्तः ॥ ३१ ॥ यद्यप्यहं मन्दभाग्यतथापि मे दुर्भगस्यापि विबुधोत्तमानां दर्शने निमित्तसप्तमी दर्शनेन निमित्तेनेत्यर्थः । मङ्गलेन भवितव्यं किं तद्येन मङ्गलेन शुभकर्मणा ममात्मा मनः परमात्मा वा प्रसीदति ।। ३२ ।। * * अन्यथा यदि मङ्गलेन न भवितव्यं पुण्येन विनेत्यर्थः । वृषलीपतेरत एवाशुचेम्रियमाणस्य कर्तुमुद्यतस्य मम जिह्वा वैकुण्ठस्य नाम- स्कं. ६ अ. २ लो. २७-३८] अनेकव्याख्या समलङ्कृतम् ग्रहणं गृह्यते वशीक्रियते चित्तमनेनेति ग्रहणं नामरूपग्रहणं वक्तुं नार्हति ॥ ३३ ॥ * * कितवो मूर्खो ब्रह्मघ्नः विप्रत्वनाशकः ब्रह्मोज्झ इति पाठे त्यक्तवेद: निर्लज्जोऽहं क मङ्गलावहं नारायणेत्येतद्भगवन्नाम के इदृशस्य ममान्तकाले तन्नामोच्चारणं पुण्येन विना कथं सम्भवेदित्यर्थः ॥ ३४ ॥ विजयध्वजतीर्थकृता पदरत्नावली कुलकज्जलं ब्राह्मणकुलमषीभूतम् ।। २७-३० ॥ भुवोऽधः नरकम् ॥ ३१ ॥ * * यत्किश्चित्पुण्य- मस्ति चेद्विष्णुदूत संदर्शन साधनं तत्स्यादिति प्रार्थयते । अथापीति । येन पुण्येनात्मा मनः ॥ ३२ ॥ * * अन्यथा पूर्व चीर्ण पुण्याभावे ॥ ३३ ॥ * ब्रह्मोज्झः त्यक्तब्राह्मण्यः ।। ३४-३६॥ सोऽहं व्यक्तं स्येति ॥ २९-३१ ।। ४ जीवगोस्वामिकृतः क्रमसंदर्भ: पतिष्यामीति । स्वदोषमात्रदृष्टचैव नाममाहात्म्यदृष्टया तु वक्ष्यते । अन्यथा म्रियमाण- अथापीत्यनेन प्राचीनास्य भक्तिरस्ति किन्तु केनाप्यपराधेनावृत्ताभूदिति गम्यते ।। ३२-३८ ॥ विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी दुष्कृतं पापरूपं दोषकर्त्तारं वा ॥ २७ ॥ * * अधुना अत्र जन्मनि ॥ २८-३० ॥ भुवोऽधः नरकं प्रति नीयमानम् ॥ ३१ ॥ विबुधोत्तमानां दर्शने विषये कारणत्वेन केनापि मङ्गलेन तच कस्यचिद्भक्तस्य hravananghi तेन विना तत्र भक्तिबीजवपनासम्भवात् । यत एव स्वपुत्रस्य नारायण इति नाम चकार ॥ ३२ ॥ * * वक्तुम् । यद्वा । वैकुण्ठनाम कीदृशं गृह्यते प्राप्यते अनेनेतिवद्वैकुण्ठप्रापकमित्यर्थः ।। ३३-३६॥ शुकदेवकृतः सिद्धांतप्रदीप: दुष्कृतं दुष्कर्माणं कुलकज्जलं वंशदूषकम् ।। २७ ।। * * नान्यो बन्धुः पुत्रादिर्ययोस्तौ तपस्विनौ मनिमित्त- तापयुक्तौ अधुना अस्मिन् विवेकार्हजन्मनि नीचवदविवेकिवदविधिनेत्यर्थः । त्यक्तौ ॥ २८ ॥ * * व्यक्तं निश्वि- तम् ।। २९ ।। * * अद्भुतं यमकृष्णपार्षददर्शनादिकं संस्मृत्याह । किमिदमिति । इदमद्भुतं मया दृष्टं किं स्वप्नः आहो- स्वित्साक्षाज्जाप्रतैव ये मां व्यकर्षनाकृष्टवन्तस्ते व याताः ।। ३० ।। * * ये भुवोऽधो नरकं नीयमानं मां व्यमोचयन् विमोचितवन्तस्ते च क्व गताः ।। ३१ ।। * * अस्मिन् जन्मनि दुर्भगस्य पापीयसोऽपि मे विबुधोत्तमदर्शने जाते केन- चिन्मङ्गलेन जन्मान्तरीयेण पुण्येन भवितव्यं येन दर्शनेन मे आत्मा प्रसीदति ॥ ३२ ॥ अन्यथा जन्मान्तरीय- पुण्याभावे वैकुण्ठनाम गृह्यते येन तद्वैकुण्ठनामग्रहणं वाक्यम् अशुचेर्मे जिह्वा कथं वक्तुमर्हति ।। ३३ ।। * * ब्रह्मनः विप्रत्वघातकः ॥ ३४ ॥ गोस्वामिगिरिधरलालविहिता बालप्रबोधिनी । अतो मां धिक् धिक्कारे हेत्वन्तरमाह - सद्भिर्विगर्हितं निन्दितमिति । निन्दायां हेतुमाह-दुष्कृतं पापकर्त्तारमिति । अत एव स्वकुलस्य कज्जलं कलङ्कभूतम् । पापमेव दर्शयति-हित्वेति सार्द्धेन ॥ २७ ॥ * * न केवलं निन्दाहेतुर्दुराचारः किन्तु नरकपातहेतुरपीत्यभिप्रेत्याह-वृद्धाविति, अहो आश्चर्य मयाऽधीतवेदेनाऽप्यधुना तत् क्षणमेव दासी सम्बन्धसमय एव वृद्धौ मातापितरौ त्यक्तावित्यन्वयः । तयोस्त्यागानर्हत्वं विशदयति-वृद्धौ तत्राप्यनाथौ रक्षकहीनौ, नास्ति अन्यो बन्धुः पुत्रादिर्ययोस्तौ, अत एव तपस्विनौ सन्तप्तौ । तर्हि कथं त्यक्तौ तत्राह — अकृतज्ञेनेति, तत्कृतपालनपोषणाद्युपकारं विस्मृत्येत्यर्थः । तत्र दृष्टान्तमाह – नीचवदिति शूद्रान्त्यजादिवदित्यर्थः ॥ २८ ॥ * “यस्तयोरात्मजः कल्प आत्मना च धनेन च । वृत्ति न दद्यात्तं प्रेत्य स्वमांसं खादयन्ति हि’ इत्यादिशास्त्रानुसारेण तत्त्यागफलं निश्चिनोति — सोऽहमिति । व्यक्तं निश्चितम् ॥ २६ ॥ * एवं सन्तप्तः सन् विमर्शपूर्वकं मोक्षसाधनं निश्चिनोति - किमिति नवभिः । इदमद्भुतमाचर्य ।। ६ * मया किं स्वप्ने दृष्टं आहोखित् अथवा इह जाग्रदवस्थायां साक्षात्प्रयक्षमेव दृष्टम्, ये पाशपाणयो विकृतवेषा मां व्यकर्षन् तेऽद्य व याता इत्यन्वयः ॥ ३० ॥ * * ये च पाशैर्बध्वा भुवोऽधो नरकं प्रति नीयमानं मां व्यमोचयन, चारु दर्शन येषां ते चत्वारः सिद्धा अथ अपि क्व गता इत्यन्वयः ॥ ३१ ॥ * * यद्यप्यहमस्मिन् जन्मनि दुर्भगः पापीयान् अथापि श्रीमद्भागवतम् । [ स्कं. ६ अ २ श्लो. २७-३८ मे जन्मान्तरीयेण मङ्गलेन भवितव्यम् । येन मङ्गलेन हेतुना विबुधोत्तमानां दर्शने जाते सति में आत्मा मनः प्रसीदतीत्य वयः ॥ ३२ ॥ * ४ अन्यथा पूर्वपुण्यं विना म्रियमाणस्येह विवशावस्थायां मम जिह्वा वैकुण्ठस्य भगवतो नाम वक्तुं नाहतीत्य- न्वयः । अनर्हत्वे हेतुत्वेन नाम्नो दुर्लभत्वं सूचयन् तन्माहात्म्यमाह - ग्रहणमिति । गृह्यते वशीक्रियते भगवानेनेति ग्रहणम् । तदुक्तं- ‘यद्गोविन्देति चुक्रोश कृष्णा मां दूरिवासिनम् । ऋणमेतत्प्रवृद्धं मे हृदयान्नापसर्पति’ इति । तर्ह्यस्मिन् जन्मनि कृतेन पुण्येनैवै- तत्स्यादित्याशङ्कय नैवमित्याशयेनाह - अशुचेरिति । तत्र हेतुमाह - वृषलीपतेरिति ॥ ३३ ॥ उक्तमेव स्पष्टयति केति । कितवः वञ्चकः । पापः पापीयान् । ब्रह्मघ्नः विप्रत्वनाशकः । निरपत्रपः निर्लज्ज इति लज्जारूपप्रतिबन्धकाभावात् पापाचारे सङ्कोचाभावं सूचयति ।। ३४ ॥ * कर्त्तव्यं निश्चिनोति सोऽहमिति । यताः वशीकृताः चित्तेन्द्रियानिला येन तथाभूतः सन् । अनिलः प्राणः अन्धे तमसि महामोहव्याप्ते संसारे आत्मानं यथा न मज्जये तथा यतिष्यामीत्य- न्वयः ॥ ३५ ॥ * * प्रयत्नप्रकारमेवाह - विमुच्येति त्रिभिः । अविद्यादेहादावात्मबुद्धि:, ततः कामः विषयभोगा- भिलाषः, ततः कर्म लौकिकालौकिकव्यापारः, ततो जातो यो गृहपुत्रकलत्राद्यात्मको विविधो बन्धस्तमिमं विमुच्य त्यक्त्वा शान्तः विषयभोगाभिलाषादिशून्यः सर्वभूतेषु सुहृत् सुखादिसमदर्शी तेषु करुणो दयावान न केवलमेतावत् किन्तु मैत्रः यथाशक्ति हितकारी, आत्मवान् आत्मा परमात्मा हरिः स आश्रयतया सेव्यतया च विद्यते यस्य स तथाभूतः सन् ।। ३६ ।। योषिन्मय्या आत्मनो हरेर्मायया मोहिन्या शक्त्या प्रस्तमात्मानं मोचये इति द्वयोरन्वयः । भगवच्छरणं विना ततो विमोकस्य अशक्यत्वादिति सूचयंस्तस्याः प्राबल्यं दर्शयति - विक्रीडित इति । क्रीडामृगो वानर इवाधमोऽज्ञोऽहं यया स्त्रियैव विक्रीडित इत्यन्वयः ।। ३७ ।। * * मिथ्या भ्रान्तिरूपैव धनपुत्रादिष्वर्थधीः परमार्थबुद्धिर्यस्य सोऽहं देहादौ ममाहमिति मतिं हित्वा त्यक्त्वा तस्य भगवतो नामकीर्तनादिभिः शुद्धं मनस्तस्मिन् भगवति धास्ये धारयिष्यामीत्यन्वयः ॥ ३८ ॥ भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी
तस्यानुतापप्रकारमेवाह । अहो इति । न विजित आत्मा मनो येन तस्य मे मम, परमं महत् कष्टं अभूत् । अहो इदमत्ययुक्तमित्यर्थः । किं तत्तत्राह । वृषल्यां शूद्रयां जायता पुत्रतया जायमानेन, येन आत्मना मया, ब्रह्म ब्राह्मणजातिजत्वं, विभावितं विनाशितम् । तज्जाया जाया भवति यदस्यां जायते पुनः’ इति श्रुत्यर्थमभिप्रेत्य जायतात्मनेत्युक्तम् ॥ २७ ॥ धिमामिति । दुष्कृतं केवलपापात्मकम् अत एव सद्धिरायैः, विगर्हितं निन्दितं ततश्च कुलकज्जलं कुलकलङ्क, मां धिकू निन्द्योऽहमित्यर्थः । यतः योऽहं सतीं विशुद्धां, बालां षोडशोनवयोवर्षां योषां हित्वा, सुरापाम्, अत एव असतीम्, अगाम- गच्छम् ॥ २८ ॥ * * वृद्धाविति । अहो कष्टं वृद्धौ अतिजरद्गात्रौ, अनाथौ रक्षकरहितौ, न विद्यतेऽन्यो बन्धुः पुत्रादिर्ययोस्तौ, तपस्विनौ तपः संपन्नौ पितरौ मातापितरौ, अकृतज्ञेन कृतघ्नेन मया, अधुना तत्क्षणं शूद्रीसंगमसमकाल- । ॥ मेवेत्यर्थः । नीचवन्नीचो यथा त्यजति तथा त्यक्तौ ॥ २९ ॥ * * सोऽहमिति । स उक्तविधः अहं, व्यक्तं नूनमेव, भृशदारुणेऽत्यन्तदुःखभोगस्थानभूते तत्र नरके, पतिष्यामि । यत्र नरके, धर्मघ्नाः कामिनः यमयातनाः विन्दन्ति प्राप्नु- वन्ति ॥ ३० ॥ * * एवं तस्य परितापमनुवयेदानीं विमर्शपूर्व मुक्तिसाधनधर्मानुष्ठानक्रममाह । किमिदमिति ॥ मम यदिति शेषः । इदं यमकृष्णदूतागमनतत्संभाषणादिदर्शनं तत् किं स्वप्नः । आहोस्विदथवा, इह अद्भुतमेतदाश्वर्यं साक्षात् जामता मया दृष्टम् | अद्याधुना, पाशपाणयः सन्तः ये मां व्यकर्षन, ते क याताः ॥ ३१ ॥ अथेति । पाशैः बद्ध्वा भुवः अधः नरकान् प्रतीत्यर्थः । नीयमानं मां ये व्यमोचयन् ते चारुदर्शनाः चत्वारः सिद्धाः, अथ मन्मोचनविधाना- नन्तरं क्व गताः ।। ३२ ।। * * अथापीति । यद्यप्यहमस्मिन् जन्मनि दुर्भगः पापीयानस्मि, अथापि दुर्भगस्य अपि मे मम, विबुधोत्तमदर्शने विबुधोत्तमदर्शनेन निमित्तेनेत्यर्थः । अस्याः सप्तम्या निमित्तार्थत्वादेवमर्थः । मङ्गलेन, भवितव्यम् । पूर्वजन्मनि यथा कथंचित्पुण्यवानभवभित्यर्थः । येन मङ्गलेन, शुभकर्मणेति यावत् । मे मम, आत्मा मनः, परमात्मा वा, प्रसीदति ॥ ३३ ॥ * * अन्यथेति । अन्यथा यदि मङ्गलेन न भवितव्यं, पूर्वपुण्येन विनेत्यर्थः। वृषलीपतेः अत एव, अशुचेः, म्रियमाणस्य मर्त्तुमुद्यतस्य मम, जिह्वा इहावसरे गृह्यते वशीक्रियते चित्तमनेनेति ग्रहणं, वैकुण्ठनाम वक्तुं न अर्हति ॥ ३४ ॥ * * क चाहमिति । कितवो मूर्खः, पापः केवलं पापरूपः, ब्रह्मघ्नो विप्रत्वनाशकः, निरपत्रपो निर्लज्ञः, अहं क्व च, क्व नु । मङ्गलं मङ्गलाबह, नारायण इत्येतत् भगवन्नाम व च, व तु । ईदृशस्य ममान्तकाले तन्नामोच्चारणं पुण्येन कच, । विना कथं संभवेदित्यर्थः ।। ३५ ॥ * * सोऽहमिति । सः अहं, सिद्धदर्शन वैकुण्ठनामग्रहणादिसूचितधर्मयुक्तो ऽहमित्यर्थः । यताः नियमिताश्चित्तेन्द्रियानिला येन तथाभूतः सन् तथा यतिष्यामि सम्यग्यत्नं करिष्यामि । यथा भूयः पुनः, आत्मानम् अन्धे तमसि नरके, न मज्जये मग्नं न कुर्याम् ॥ ३६ ॥ कि कृत्वेत्यत्राह । अविद्या देहात्माभिमानमूलमज्ञानं च
-
- कामः शब्दादिविषयाभिलाषश्च कर्म एभिर्जातं च तेभ्यो जायते इत्यविद्याकामकर्मजश्च तं तं इमं बन्धं, गर्भजन्माद्यवस्थापरि- । स्कं. ६ अ २ श्लो. ३९-४४] अनैकव्याख्या समलङ्कृतम् सृतिरूपं संसारमित्यर्थः । विमुच्यापोह, सर्वभूतसुहृत् सर्वेषु भूतेषु सुहृद्भावयुक्तः । शान्तः निगृहीतान्तरिन्द्रियः, मैत्रः सर्वेषु मित्रभावयुक्तः । करुणः सर्वत्र कृपावान, आत्मधान् प्रशस्तमनस्कः भूत्वेति शेषः ॥ २७ ॥ * मोचये इति । यया योषिन्मय्या स्त्रीव्याजया, मायया, अधमः अहं क्रीडामृगः इव, विक्रीडितः एव । तया योषिद्रपया माययेत्यर्थः । इह प्रस्तम् आत्मानं मोचये मोचयिष्यामि । इत्युभयोरेकससंबन्धः ॥ ३८ ॥ भाषानुवादः :. धिक्कार है ! मुझे बार-बार धिकार है ! मैं संतोंके द्वारा निन्दित हूँ, पापात्मा हूँ ! मैंने अपने कुलमें कलङ्कका टीका लगा दिया ! हाय-हाय, मैंने अपनी सती एवं अबोध पत्नीका परित्याग कर दिया और शराब पीनेवाली कुलटाका संसर्ग किया || २७ ॥ * मैं कितना नीच हूँ ! मेरे मा-बाप बूढ़े और तपस्वी थे । वे सर्वथा असहाय थे, उनकी सेवा-शुश्रुषा करनेवाला और कोई नहीं था। मैंने उनका भी परित्याग कर दिया। ओह ! मैं कितना कृतघ्न हूँ ॥ २८ ॥ * * मैं अब अवश्य ही अत्यन्त भयावने नरकमें गिरूँगा, जिसमें गिरकर धर्मघाती पापात्मा कामी पुरुष अनेकों प्रकारकी यमयातना भोगते हैं ॥ २६ ॥ मैंने अभी जो अ अद्भुत दृश्य देखा, क्या वह स्वप्न है ? अथवा जाग्रत अवस्थाका ही प्रत्यक्ष अनुभव है ? अभी-अभी जो हाथोंमें फंदा लेकर मुझे खींच रहे थे, वे कहाँ चले गये ? ॥ ३० ॥ * * अभी-अभी वे मुझे अपने फंदोंमें फँसाकर पृथ्वीके नीचे ले जा रहे थे, परन्तु चार अत्यन्त सुन्दर सिद्धोंने आकर मुझे छुड़ा दिया ! वे अब कहाँ चले गये ॥ ३१ ॥ * * यद्यपि मैं इस जन्मका महापापी हूँ, फिर भी मैंने पूर्वजन्मोंमें अवश्य ही शुभकर्म किये होंगे; तभी तो मुझे इन श्रेष्ठ देवताओंके दर्शन हुए । उनकी स्मृतिसे मेरा हृदय अब भी आनन्दसे भर रहा है ॥ ३२ ॥ मैं कुलटागामी और अत्यन्त अपवित्र हूँ । यदि पूर्वजन्म में मैंने पुण्य न किये होते, तो मरनेके समय मेरी जीभ भगवान्के मनमोहक नामका उच्चारण कैसे कर पाती ? ॥ ३३ ॥ * * कहाँ तो मैं महाकपटी, पापी, निर्लज्ज और ब्रह्मतेजको नष्ट करनेवाला तथा कहाँ भगवान्का वह परम मङ्गलमय ‘नारायण’ नाम ! ( सचमुच मैं तो कृतार्थ हो गया ) ॥ ३४ ॥ * अब मैं अपने मन, इन्द्रिय और प्राणोंको वशमें करके ऐसा प्रयत्न करूँगा कि फिर अपनेको घोर अन्धकारमय नरकमें न डालूँ ॥ ३५ ॥ * * अज्ञानवश मैंने अपनेको शरीर समझकर उसके लिये बड़ी-बड़ी कामनाएँ कीं और उनकी पूर्ति के लिये अनेकों कर्म किये। उन्हींका फल है यह बन्धन ! अब मैं इसे काटकर समस्त प्राणियोंका हित करूँगा, वासनाओं को शान्त कर दूँगा, सबसे मित्रताका व्यवहार करूँगा, दुखियोंपर दया करूँगा और पूरे संयमके साथ रहूँगा ।। ३६ ।। * * भगवान की मायाने स्त्रीका रूप धारण करके मुझ अधमको फाँस लिया और क्रीडामृगकी भाँति मुझे बहुत नाच नचाया। अब मैं अपने-आपको उस मायासे मुक्त करूँगा ॥ ३७ ॥ * * मैंने सत्य वस्तु परमात्माको पहचान लिया है; अतः अब मैं शरीर आदिमें ‘मैं’ तथा ‘मेरे’ का भाव छोड़कर भगवन्नाम के कीर्तन आदिसे अपने मनको शुद्ध करूँगा और उसे भगवान में लगाऊँगा’ ॥ ३८ ॥ श्रीशुक उवाच इति जातसुनिर्वेदः क्षणसङ्गेन साधुषु । । गङ्गाद्वारमुपेयाय मुक्तसर्वानुबन्धनः ॥ ३९ ॥ ४० ॥ स तस्मिन् देवसदन आसीनो योगमाश्रितः । प्रत्याहृतेन्द्रियग्रामो युयोज मन आत्मनि ॥ ततो गुणेभ्य आत्मानं वियुज्यात्मसमाधिना । युयुजे भगवद्धानि ब्रह्मण्यनुभवात्मनि ॥ यह्यु पारतधीस्तस्मिन्नद्राक्षीत्पुरुषान् पुरः । उपलभ्योपलब्धान् प्राग् ववन्दे शिरसा द्विजः हित्वा कलेवरं तीर्थे गङ्गायां दर्शनादनु । सद्यः स्वरूपं जगृहे भगवत्पार्श्ववतिनाम् ॥ साकं विहायसा विप्रो महापुरुषकिङ्करैः । हैमं विमानमारुह्य ययौ यत्र श्रियः पतिः ॥ ॥ ४१ ॥ ४२ ॥ ४३ ॥ ४४ ॥ अन्वयः - इति साधुषु क्षणसंगेन जातसुनिर्वेद: मुक्तसर्वानुबन्धनः गंगाद्वारम् उपेयाय ।। ३९ ।। * * सः तस्मिन् देवसदने आसीनः योगम् आश्रितः प्रत्याहृतेन्द्रियमामः मनः आत्मनि युयोज ॥ ४० ॥ * * ततः आत्मसमाधिना १. प्राचीने पाठे ‘श्रीशुक उवाच’ पाठो न श्रीमद्भागवतम् [ रुकं. ६ अ. २ श्लो. ३९-४४ तस्मिन् उपारतधीः द्विजः यहि पुरुषान् दर्शनात् अनु गंगायां तीर्थे कलेवरं हित्वा सद्यः आत्मानं गुणेभ्यः वियुज्य भगवद्धानि अनुभवात्मनि ब्रह्मणि युयुजे ॥ ४१ ॥ पुरः अद्राक्षीत् प्राक् उपलब्धान् उपलभ्य शिरसा ववदे ।। ४२ ।। भगवत्पार्श्ववर्त्तिनां स्वरूपं जगृहे ॥ ४३ ॥ * * विप्रः महापुरुषकिंकरैः साकं हैमं विमानम् आरुह्य विहायसा यत्र श्रियः पतिः ययौ ॥ ४४ ॥ श्रीधरस्वामिविरचिता भावार्थदीपिका मुक्तं सर्वमनुबंधनं पुत्रादिस्नेहो येन सः || ३९ ॥ प्रत्याहृत इंद्रियग्रामो येन ॥ ४० ॥ * * ततो गुणेभ्यो देहेंद्रियादिभ्य आत्मानं वियुज्य विशोध्य । आत्मसमाधिना चित्तैकाग्र्येण । भगवतो धानि स्वरूपे ॥ ४१ ॥ * तस्मिन्भगवद्धानि उपारता निश्चला धीर्यस्य सः । तस्मिन्कालेऽद्राक्षीदिति वा । पुरः पुरतः । ततश्च प्रागुपलब्धानेव तानुपलभ्य प्रत्यभिज्ञाय ववंदे || ४२-४४ ॥ वंशीधरकृतो भावार्थदीपिकाप्रकाशः नाम्नः फलमुक्त्वा साधुसंगफलमाह - इतीति । जातः सुष्ठु भगवद्भक्त्युत्पादनपूर्वत्वेन निर्वेदो यस्य सः । गंगाद्वारं कनखलसमीपवर्त्तितीर्थविशेषम् ॥ ३९ ॥ धास्ये मन इत्यादिना यद्विचारितं तत्र कृतैस्तत्कीर्तनादिभिः । शुद्धेन मनसा पुनर्विचारितमीदृशस्यापि मनसो भगवत्पर्यन्ता मतिर्न स्यात् । ‘ब्रह्मणो हि प्रतिष्ठाहम्’ इति न्यायेन परात्परा हि स विशेषादवस्थितिः । तस्मान्निर्विशेषस्वप्रकाशलक्षणब्रह्मानुभवार्थमेव यतिष्ये तदेवं विचार्य तेन यत्कृतं तदाह - स तस्मिन्निति । प्रत्याहृतो वशीकृतः । आत्मनि हरौ । युयोज योक्तुमुद्यतो बभूव ॥ ४० ॥ * * तत इंद्रियप्रामवशीकरणोत्तरम् । युयुजे योजयामास । अनुभवात्मनि ज्ञानात्मनि ॥ ४१ ॥ * * तच्छब्देन भगवद्धामोपादाने तहीति शेषीकरणे च गौरवं मत्वाह - तस्मिन्काले इति वेति । यद्दु पारत इत्यनेन ब्रह्मानुभवानंतरमपि वैकुंठाविर्भाव इति । समर्थ्यते ॥ ४२ ॥ * * स्वरूपं निर्दोषत्वादिलक्षणमिति तीर्थः । गंगायां तीर्थे इत्यजहल्लिंगत्वात्स्त्रीत्वम् ॥ ४३ ॥ * * यत्र वैकुंठे ॥ ४४ ॥ अन्वितार्थप्रकाशिका । इतीति । इत्येवं साधुषु भगवत्पार्श्वदेषु यः क्षणमात्रसङ्गस्तेन जातसुनिर्वेद उत्पन्नवैराग्योऽत एव मुक्तं सर्वमनुबन्धनं पुत्रादिस्नेहो येन सः गङ्गाद्वारं हरिद्वारमुपेयाय जगाम ॥ ३९ ॥ * * स इति । तस्मिन् देवसदने आसीनः योगमा- स्थितः प्रत्याहृतो विषयेभ्य इन्द्रियमामो येन सः अजामिल: आत्मनि भगवति मनः युयोज युयुजे ॥ ४० ॥ * तत इति । ततश्च भगवतः करपादमुखोदरादितत्तदवयवान् ध्यायन् गुणेभ्यः देहेन्द्रियादिभ्य आत्मानं मनो वियुज्य विशोव्य आत्मसमाधिना चित्तैकाग्रयेण ब्रह्मणि व्यापकेऽनुभवात्मनि ज्ञानस्वरूपे सच्चिदानन्दात्मके भगवद्धाम्नि भगवत्स्वरूपे युयुजे ॥ ४१ ॥ यहति । यर्हि यदा तस्मिन् भगवद्धाम्नि उपारता निश्चला धीर्यस्य स तथा स्थितः तस्मिन्नेव काले पुरः स्वपुरतः प्रागुपलब्धान् दृष्ट्रानेव पुरुषानद्राक्षीत् उपलभ्य च स द्विजः उत्थाय तान् शिरसा ववन्दे ॥ ४२ ॥ * हित्वेति । तेषां दर्शनादनु अनन्तरं सद्य एव हरिद्वारसंज्ञके तीर्थे गङ्गायां स्वकलेवरं हित्वा भगवत्पार्श्ववर्त्तिनां पार्षदानां शुद्धसत्त्वात्मकं चतुर्भुजादिविशिष्टं भगवत्सेवोपयोगि स्वरूपं जगृहे ॥ ४३ ॥ * * साकमिति । ततः स विप्रो महापुरुष- किङ्करैर्भगवत्पार्षदैः साकं हैमं सौवर्ण विमानमारुह्य यत्र श्रियः पतिर्भगवान् विष्णुर्विराजते तंत्र विहायसा आकाश- मार्गेण ययौ ॥ ४४ ॥ वीरराघवव्याख्या सोऽहं सिद्धदर्शन वैकुण्ठनामग्रहणादिसूचितधर्मयुक्तोऽहं यत्ताः नियमिताः चित्तादयो येन यथाभूतः सन् तथा यतिष्यामि यत्नं करिष्यामि कथं यथा भूयः पुनरात्मानमन्धे तमसि नरके न मज्जये मग्नं न कुर्याम् ॥ ३५ ॥ * कै किं कृत्वा अविद्या देहात्माभिमानमूलमज्ञानं कामः शब्दादिविषयाभिलाषः कर्म एभिर्जातं तमिमं बन्धं गर्भजन्माद्यवस्था- परिवृत्तिरूपं संसारं विमुच्यापोह्य कथम्भूतः सर्वेषु भूतेषु सुहृत् शान्तः निगृहीतान्तरिन्द्रियः करुणः सर्वभूतेषु कृपावाना- त्मवान् प्रशस्तमनस्कः ॥ ३६ ॥ योषिद्वयाजया भगवन्मायया प्रस्तमात्मानं मोचये तां विशिनष्टि । ययैवाहमधमो * । ज्ञानशून्य: क्रीडामृगः इव क्रीडितः ।। ३७ ।। * देहे आदिशब्दात्तदनुबन्धिन्यहं ममेति या मिध्यार्थधीर्मतिर्मिध्याश्रय- स्कं. ६ अ २ श्लो. ३९-४४ ] अनेकव्याख्यासमलङ्कृतम् याथार्थ्याधीदेहाद्यर्थविषया धीस्तद्रूपा मतिस्ताम् | अनहमर्थदेहाद्यर्थविषयकाहंधियो विपरीतरूपत्वान्मिथ्यार्थधीरित्युक्तं मोहार्थधीरिति पाठान्तरं तत्रापि मोहात्मिकामहन्त्वेन देहादिरूपार्थधीरूपामित्येवार्थः । हित्वा त्यक्त्वा भगवति तत्कीर्त- नादिभिः शुद्धं मनो धास्ये आधास्ये ॥ ३८ ॥ * * इतीत्थं जात उत्पन्नः सुष्ठु नितरां निर्वेदो यस्य तादृशः साधुषु क्षणमात्रसङ्गेन मुक्तं सर्वानुबन्धनं पुत्रादिस्नेहो येन सः गङ्गाद्वारं हरिक्षेत्रम् उपेयायोपगतवान् ॥ ३६ ॥ * * सोऽजामिलः तस्मिन् देवसदने देवो भगवान् सीदति सन्निहितो भवत्यस्मिन् गङ्गाद्वारे उपविष्टः योगं भगवद्भक्तियोगमाश्रितः आरभतेत्यर्थः । प्रत्याहृतः विषयेभ्यः इन्द्रियग्रामः अन्तर्बाह्येन्द्रियसङ्घो येन तादृशः प्रथममात्मानं प्रत्यगात्मानं गुणेभ्यः गुणपरिणामेभ्यः विविच्य पृथक्त्वेनानुसन्धाय तस्मिन्नात्मनि प्रत्यगात्मनि मनो युयुजे ॥ ४० ॥ * * तत आत्मनः जीवान्तर्यामिणः परमात्मनः समाधिना ध्यानेन तस्मिन् ब्रह्मणि स्वरूपेण गुणैश्च निरतिशयबृहत्यनुभवात्मनि ज्ञानस्वरूपे भगवद्धाम्नि भगवच्छब्दवाच्ये तेजसि युयुजे स्थिरीकृतचित्तः सन् यर्हि यदोपरता शब्दादिभ्यो निवृत्ता धीर्यस्य तादृशस्तस्मिन् काले पुरोऽग्रे पुरुषान् पूर्वदृष्टान् भगवत्पादानद्राक्षीत्ततः प्रागुपलब्धान् प्राप्तान् पुरुषानुपलभ्याभिज्ञाय द्विजः शिरसा वन्दे ।। ४१-४२ ॥ विजयध्वजतीर्थकृता पदरत्नावली आत्ममायया हरेरधीनया लोकमोहनशक्तथा यथा यथावत् ।। ३७-३८ ॥ * * गङ्गाद्वारं नाम तीर्थ- विशेषम् ॥ ३६ ॥ * * प्रत्यावृतो वशीकृत इन्द्रियग्रामो येन स तथा तस्योपास्तिप्रकारं वक्ति । युयोजेति । आत्मनि हरौ ।। ४० ।। * * गुणेभ्यः शरीरेन्द्रियादिभ्यः आत्मानं स्वस्वरूपं भगवद्धाग्नि भगवत्स्वरूपे ब्रह्मणि व्याप्ते अनुभ- वात्मनि ज्ञानात्मनि ॥ ४२ ॥ * * यर्हि यस्मिन् काले उपारतधीः बाह्यविषयान्निवृत्य हरावेव निरतबुद्धिरभूत्तस्मिन् काले पुर: स्वस्याभूमौ प्रागुपलब्धान् दृष्टान् ॥ ४२ ॥ जीवगोस्वामिकृतः क्रमसन्दर्भः एवं साधुसङ्गमपर्यन्तं नाम्नः फलमुक्त्वा साधुसङ्गस्य च फलविशेषमाह । इतीति । जातः सुष्ठु भगवद्भक्त्युत्पादन- पूर्वत्वेन निर्वेदो यस्य सः ॥ ३६ ॥ * * तत्र सति धास्ये मन इत्यादिना यद्विचारितं तत्र कृतैस्तत्कीर्त्तनादिभिः शुद्धेन तल्लब्धस्फुरणविशेषेण च मनसा पुनरिदं विचारितम् । ईदृशव्यापि मनसो भगवत्पर्यन्ता गतिर्न स्यात् । “ब्रह्मणो हि प्रतिष्ठाहम्” इति न्यायेन परात् परा हि सविशेषावस्थितिः तस्मान्निर्विशेषतत्प्रकाशलक्षणब्रह्मानुभवार्थमेव प्रयतिष्ये । तदमिवार्त्ता तु महाकृपालुना श्रीभगवतैव निर्वाहयिष्यते तदेतद्विचार्य तेन यत्कृतं तदर्शयति । स तस्मिन्निति द्वाभ्याम् ॥ ४० ॥ या पारतेत्यनेन ब्रह्मानुभवानन्तरमपि श्रीवैकुण्ठवैभवाविर्भाव इति समर्थ्यते ।। ४१-४२ ।। विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी
यथैव क्रीडामृग इवाथमो लोको भवति तथैवाहमुत्तमो विप्रोऽप्यनया विक्रीडितः ॥ ३७ ॥ * * देहादौ मिथ्याभूता एवामी अर्था इति धीर्यस्य तथाभूतश्च सन् ममाहमिति मतिं हित्वा ॥ ३८ ॥ * मुक्तसर्वानुबन्धनः त्यक्तस्त्रीपुत्राद्यासक्तिः ॥ ३६ ॥ * * योगं भक्तियोगमात्मनि हरौ ॥ ४० ॥ ॥ वियुक्तीकृत्य आत्मसमाधिना चित्तैकाग्रयेण भगवद्धानि भगवत्स्वरूपे । ४१ ।। निश्चलबुद्धिः पुरोऽय एव पूर्वपरिचितान् ।। ४२-४५ ॥ ।। शुकदेवकृत: सिद्धान्तप्रदीप: 1 8 * गुणेभ्यो विषयेभ्यः वियुज्य तस्मिन् भगवद्धानि उपारतधीः अथ ममोद्धारार्थमुपायं करिष्यामीत्याह । सोऽहमित्यादिना । अन्धे तमसि संसारे यथा न मज्जये || ३५ ॥ * तमिमम् अविद्याकामकर्मजम् अज्ञानहेतुकसकाम कर्मजं बन्धं देहादावहंममाभिमानं विमुच्य ॥ ३६ ॥ * आत्मन: परमेश्वरस्य मायया योषिन्मय्या आत्मानं मोचये ।। ३७ ।। * * मिध्या अर्थः अहं मनुष्योऽस्मि स्थूलोऽस्मि गृहादिकं ममैवेत्येवंभूतः विषयो यस्याः सा धीर्यस्य सः देहादौ देहे अहमिति गृहादौ ममेति च मतिं मिथ्यार्थी धियं हित्वा भगवदंशभूतः ज्ञानरूपः देहादिविलक्षणः भगवदीयमायामय देह गेहादिभ्यो विरक्तः सन् भगवति तन्नामकीर्तनादिभिर्मनो धास्ये इत्यन्वयः ॥ ३८ ॥ * तस्य कृत्यमाह । इतीत्यादिना । इत्येवं साधुषु क्षणसङ्गेन जातः सुष्ठु निर्वेदो देहगेहादी
- । वैराग्यं यस्य सः अतो मुक्तं सर्वमनुबन्धनं पुत्रादिस्नेहो येन गङ्गाद्वारमुपेयाय ॥ ३६ ॥ तस्मिन् गङ्गाद्वारे देवसदने श्रीमद्भागवतम् [ रुकं. ६ अ. २ श्लो. ३९-४४ गुणेभ्यः विषयेभ्यः ततः क्षेत्रज्ञाच्च आत्मानं मनो वियुज्य भगवद्धानि भगवत्स्वरूपे ब्रह्मणि बृहति अनुभवात्मनि परज्ञानस्वरूपे युयुजे ॥ ४१ ॥ ** यहि यदा तस्मिन् भगवत्स्वरूपे उपारता धीर्यस्य सः तदा पुरः अग्रे पुरुषान् अद्राक्षीत् तदनन्तरं प्रागुपलब्धानुपलभ्य प्रत्यभिज्ञाय शिरसा ववन्दे ॥ ४२ ॥ भगवदालये प्रत्याहृतः इन्द्रियमामो येन सः आत्मनि क्षेत्रज्ञे मनो युयोज ॥ ४० ॥ गोस्वामिगिरिधरलालविहिता बालप्रबोधिनी इत्येवं साधुषु भगवत्पार्श्वदेषु यः क्षणमात्रसङ्गस्तेन जातसुनिर्वेद उत्पन्नवैराग्योऽत एव मुक्तं सर्वमनुबन्धनं पुत्रादि- स्नेहो येन सः गङ्गाद्वारं हरिद्वारमुपेयाय जगामेत्यन्वयः ॥ ३९ ॥ * * तत्र गत्वाऽष्टाङ्गयोगं कृतवानित्याह-स । । इति । आसीन इति यथोक्तासनकल्पनं सूचितम् । योगमाश्रित इति स्नानादिनियमा अहिंसादयो यमाः पूरकादयः प्राणाया- मावोक्ताः । प्रत्याहृतो विषयेभ्य इन्द्रियग्रामो येन स इति प्रत्याहार उक्तः । आत्मनि भगवति मनो युयोजेति धार- णोक्ता ॥ ४० ॥ * * ध्यानं समाधिं चाह - तत इति । ततश्च भगवतः करपादमुखोदरादितत्तदवयवान ध्यायन् गुणेभ्यः सत्त्वादिभ्य आत्मानं मनो वियुज्य वियुक्तीकृत्य आत्मसमाधिना चित्तैकाप्रयेण ब्रह्मणि व्यापकेऽनुभवात्मनि ज्ञानस्वरूपे सच्चिदा- नन्दात्मके भगवद्धानि भगवत्स्वरूपे युयुजे इत्यन्वयः ॥ ४१ ॥ यहि यदा भगवति उपरता निश्चला धीर्यस्य स तथा स्थितः तस्मिन्नेव काले पुर: स्वपुरतः प्रागुपलब्धान् दृष्ट्रानेव पुरुषानद्राक्षीत् । उपलभ्य च स द्विज उत्थाय तान् शिरसा ववन्दे इत्यन्वयः ॥ ४२ ॥ * * तेषां दर्शनादनु अनन्तरं सद्य एव हरिद्वारसज्ञके तीर्थे गङ्गायां स्वकलेवरं हित्वा भगवत्पार्श्व- वर्त्तिनां शुद्धसत्वात्मकं चतुर्भुजादिविशिष्टं भगवत्सेवोपयोगि स्वरूपं जगृहे इत्यन्वयः ॥ ४३ ॥ * * एवमलौकिकं स्वरूपं गृहीत्वा स विप्रो महापुरुषकिङ्करैर्भगवत्पार्षदैः साकं हैमं सौवर्ण विमानमारुह्य यत्र श्रियः पतिर्भगवान् विष्णुर्विराजते तत्र विहायसा आकाशमार्गेण ययावित्यन्वयः ॥ ४४ ॥ भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी . ममाहमिति । मिथ्याभूतेऽर्थे धीर्यस्य सः, अहं देहादौ मम अहं, इति मतिं हित्वा देहेऽहन्तां तदनुबन्धिषु ममतारूपां धियं परित्यज्येत्यर्थः तत्कीर्त्तनादिभिः भगवद्गुणचरित्रगानविधानादिभिः शुद्धं मनः भगवति धास्ये ॥ ३९ ॥ इतीति । इतीत्थं जात उत्पन्नः सुतरां निर्वेदो वैराग्यं यस्य सः । साधुषु क्षणसङ्गेन क्षणमात्र- जातसाधुसमागमेन, मुक्तं परित्यक्तं सर्वानुबन्धनं पुत्रादिस्नेहो येन स तथाभूतः सन् गङ्गाद्वारं गङ्गाद्वाराख्यहरिक्षेत्रं, उपेया- योपगतवान् ॥ ४० ॥ * * स इति । सोऽजामिलः, तस्मिन् गङ्गाद्वारे, देवसदने यत्र भगवान् शीघ्रं संनिहितो भवति तथाभूते तत्रत्यदेवमन्दिरे, आसीन उपविष्टः, योगम् आश्रितः आस्थितः । प्रत्याहृतः विषयेभ्यः प्रत्याकृष्ट इन्द्रियग्रामोऽन्तर्बाह्ये- न्द्रियसंघो येन स तथाभूतः सन्, आत्मनि स्वस्वरूपे, मनः युयुजे ॥ ४१ ॥ * * तत इति । ततः, गुणेभ्य इन्द्रिया- दिभ्यः, आत्मानं, विविच्य पृथक्त्वेनानुसंधाय आत्मसमाधिना निजात्मनो ब्रह्मरूपविभावनया, निजात्मानं ब्रह्मरूपं देहत्रय- विलक्षणं विभाव्येत्यर्थः । अनुभवात्मनि स्वानुभवगोचरे ब्रह्मणि, गुणैश्वर्यविभूत्यादिमत्तया सर्वेभ्योऽक्षरादिभ्योऽप्यतिमहति, * यहीति । यर्हि, द्विजोऽजामिल:, तस्मिन् भगवत्स्वरूपे, उपारता भगवद्धानि परमात्मस्वरूपे, युयुजे ॥ ४२ ॥ * । द्विजनसंवीक्षता, निश्चलतां प्राप्ता धीर्यस्य तथाभूतः, जात इति शेषः । तदा, प्राक पूर्व उपलब्धान्स्वेन पूर्व मरणकाले संवीक्षितान्, पुरुषान् भगवत्पादान पुर: स्वपुर: प्रदेशे, अद्राक्षीत् । ततः उपलभ्य स्वान्तिके आगतांस्तान्संप्राप्य, शिरसा ववन्दे ॥ ४३ ॥ * * हित्वेति । ततः सः, दर्शनादनु वन्दनादूर्ध्वं सम्यक् तद्दर्शनविधानानन्तरं, तीर्थे तीर्थरूपायां, गङ्गायां कलेवरं मायिकदेहं त्यक्त्वा, सद्यस्तत्क्षणमेव भगवत्पार्श्ववर्त्तिनां भगवत्पार्षदानां स्वरूपं भगवत्पार्षदसमानाकारमित्यर्थः । जगृहे संपेदे ॥ ४४ ॥ भाषानुवादः श्रीशुकदेवजी कहते हैं–परीक्षित् ! उन भगवान् के पार्षद महात्माओंका केवल थोड़ी ही देरके लिये सत्सङ्ग हुआ था । इतनेसे ही अजामिलके चित्तमें संसार के प्रति तीव्र वैराग्य हो गया। वे सबके सम्बन्ध और मोहको छोड़कर हरिद्वार चले गये ॥ ३६ ॥ * * उस देवस्थानमें जाकर वे भगवानके मन्दिर में आसन से बैठ गये और उन्होंने योगमार्गका आश्रय लेकर अपनी सारी इन्द्रियोंको विषयोंसे हटाकर मनमें लीन कर लिया और मनको बुद्धिमें मिला दिया ।। ४० ॥ ऋ इसके बाद आत्मचिन्तनके द्वारा उन्होंने बुद्धिको विषयोंसे पृथक कर लिया तथा भगवान्के धाम अनुभवस्वरूप परब्रह्ममें जोड़स्कं. ६ अ. २ श्लो. ४५-४९] अनेकव्याख्यासमलङ्कृतम् दिया ॥ ४१ ॥ इस प्रकार जब अजामिलकी बुद्धि त्रिगुणमयी प्रकृतिसे ऊपर उठकर भगवान्के स्वरूपमें स्थित हो गयी, तब उन्होंने देखा कि उनके सामने वे ही चारों पार्षद, जिन्हें उन्होंने पहले देखा था, खड़े हैं। अजामिलने सिर झुकाकर उन्हें नमस्कार किया ।। ४२ ।। * * उनका दर्शन पानेके बाद उन्होंने उस तीर्थस्थानमें गङ्गाके तटपर अपना शरीर त्याग दिया और तत्काल भगवान के पार्षदोंका स्वरूप प्राप्त कर लिया ।। ४३ ।। * * अजामिल भगवान् के पार्षदों के साथ स्वर्णमय विमानपर आरूढ़ होकर आकाशमार्गसे भगवान् लक्ष्मीपतिके निवासस्थान वैकुण्ठको चले गये ॥ ४४ ॥ एवं स विप्लावितसर्वधर्मा ‘दास्याः पतिः पतितो गर्ह्यकर्मणा । निपात्यमानो निरये हतव्रतः सद्यो विमुक्तो नातः परं कर्मनिबन्धकृन्तनं मुमुक्षतां न यत्पुनः कर्मसु सजते मनो रजस्तमोभ्यां भगवन्नाम गृह्णन् ॥ ४५ ॥ तीर्थपदानुकीर्तनात् । कलिलं ततोऽन्यथा ॥ ४६ ॥ । य एवं परमं गुह्यमितिहासमघापहम् । शृणुयाच्छ्रद्धया युक्तो यश्च भक्त्यानुकीर्तयेत् ॥ न वै स नरकं याति नेक्षितो यमकिङ्करैः । यद्यप्यमङ्गलो मत्यों विष्णुलोके महीयते ॥ म्रियमाणो हरेर्नाम गृणन् पुत्रोपचारितम् । अजामिलोऽप्यगाद्धाम किं पुनः श्रद्धया गृणन् ॥ ४७ ॥ ४८ ॥ ४९ ॥ इति श्रीमद्भागवत महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धेऽजामिलोपाख्याने द्वितीयोऽध्यायः ॥ २ ॥
अन्वयः एवं विलावितसर्वधर्मा दास्याः पतिः गर्ह्यकर्मणा पतितः हतव्रतः निरये निपात्यमान: स: भगवन्नाम गृह्णन् सद्यः विमुक्तः ।। ४५ ।। * * मुमुक्षतां अतः तीर्थपदानुकीर्तनात् परं कर्म निबंधकृन्तनं न यत् मनः पुनः कर्मसु न सज्जते ततः अन्यथा रजस्तमोभ्यां कलिलम् ॥ ४६ ॥ * * एवं यः श्रद्धया युक्तः परमं गुह्यम् अघापहम् इतिहासं शृणुयात् च यः भक्त्या अनुकीर्तयेत् सः मर्त्यः यदि अपि अमंगलः वै यमकिंकरैः ईक्षितः न नरकं न याति विष्णुलोके महीयते ।। ४७-४८ ॥ * * म्रियमाणः पुत्रोपचारितं हरेः नाम गृणन् अजामिल: अपि धाम अगात् किं पुनः श्रद्धया गुणन् ॥ ४६ ॥ इति द्वितीयोऽध्यायः ॥ २ ॥ श्रीधरस्वामिविरचिता भावार्थदीपिका 7 I उपसंहरति एवमिति द्वाभ्याम् । विप्लाविताः सर्वे धर्मा येन । हतं व्रतं स्वदारनियमादि यस्य ॥ ४५ ॥ * * कर्मनिबंधस्य पापमूलस्य कृंतनं छेदकमतः परं नास्ति । कस्मात्परम् । तीर्थ पदस्यानुकीर्तनात् तत्र हेतुः । यद्यतोऽनुकीर्तनात् । ततोऽनुकीर्तनात् । अन्यथा प्रायश्चित्तांतरे रजस्तमोभ्यां कलिलं मलिनमेव तिष्ठति यत्तन्मनः कर्मसु पुनर्न सज्जते ।।४६-४७॥ ** न चेक्षितो भवति ॥ ४८ ॥ म्रियमाणोऽवशत्वेन श्रद्धाविहीनोऽपि ॥ ४९ ॥ * इति श्रीभा० म० षष्ठस्कन्धे टीकायां द्वितीयोऽध्यायः ॥ २ ॥ वंशीधरकृतो भावार्थदीपिकाप्रकाशः नामकीर्त्तने श्रद्धातिशयं जनयन्नुपसंहरति - एवमिति । दास्याः पतिरित्याक्रोशे षष्ठी । अजामिलनाम मुक्त्वा दास्याः पतिरित्याह्वयति लोक इत्यर्थः । गर्ह्यकर्मणा दासीगमनादिलक्षणेन । पतीतो विप्रत्वजातेरधो गतः ॥ ४५ ॥ * * तंत्र तीर्थपदानुकीर्त्तनस्य कर्मबंधमोचकश्रेष्ठत्वे । परं श्रेष्ठम् । “परः श्रेष्ठारिदूरान्योत्तरे ङीबं तु केवले” इति मेदिनी । इह तु क्लीबत्वं · १. प्रा० पा०– दासीपतिः पतितो । २. प्रा० पा० इमं । ३. प्रा० पा० निष्कृतो । ४. प्रा० पा -गृह्णन्पुत्रप्रचारितम् । ५. स्कन्धे द्वितीयोऽध्यायः । १२ विशेष्यनिघ्नत्वात् ॥ ४६ ॥ ।। व्याख्याशतके च वर्णिता इति ॥ स्थापितम् । गृणन् उच्चरन् ॥ ४९ ॥ * श्रीमद्भागवतम् [ स्कं. ६ अ. २. ४५-४९ नामापराधयुक्तापेक्षयाह-इति । नामापराधास्तु द्वितीयस्कंधे प्रथमाध्याये प्रथमपच- ४७ ॥ ॥ * * अमंगलो नामापराध्यपि ॥ ४८ ॥ पुत्रे संकेतेनोपचारितं ए 38 इति श्रीमद्भागवत भावार्थदीपिकाप्रकाशे षष्ठस्कन्धे द्वितीयोऽध्यायः ॥ २ ॥ अन्वितार्थप्रकाशिका SATS SPETHE T एवमिति । स अजामिल: एवं वर्णितप्रकारेण पिलावितास्यक्ताः सर्वे धर्मा येन स हतं व्रतं स्वदारनियमादिर्यस्य सः गह्येण निन्दितकर्मणा चौर्यादिना पतितो ब्राह्मण्याद् भ्रष्टः सर्वत्र हेतुः दास्याः पतिरिति अत एव यमदूतैर्निरये निपा- * नेति । अतः कारणात् तीर्थानि पाढ़े त्यमानोऽपि भगवन्नाम गृह्णन् सद्यस्तत्क्षणमेव यमपाशाद्विमुक्तः ॥ ४५ ॥ ततः यस्य तस्य हरेरनुकीर्त्तनात् नामसंकीर्त्तनादेः सकाशात् परं श्रेष्ठ मुमुक्षतां कर्मनिबन्धकृन्तनं पापमूलोच्छेदकं नास्ति । यत् यस्मात् भगवन्नामसंकीर्त्तनादितः पुनर्मनः कर्मसु दुष्टाचारेषु प्रायेण न सज्जते ततो नामसंकीर्त्तनादेरन्यथा प्रायश्चित्तान्तरैस्तु य इति । एवं वर्णितम- मनः पुनः रजस्तमोभ्यां कलिलं मलिनं भवत्येव दुराचारप्रवृत्तिदर्शनादिति भावः ॥ ४६ ॥ । घापहं परमं गुह्यं शास्त्ररहस्यम् इतिहासं श्रद्धया विश्वासेन भक्त्या च युक्तो यो मर्त्यः शृणुयात् यचानुकीर्तयेत् स यद्यप्य- मङ्गलः पापीयांस्तथापि नरकं नैव याति । यमकिङ्करैश्चक्षितो न भवति किंतु विष्णुलोके महीयते विराजते ।। ४७-४७ ॥ * * म्रियमाण इति । यदि म्रियमाणो विवशावस्थायां श्रद्धाभक्तिरहितोऽजामिलोऽतिपातक्यपि पुत्रोपचारितमपि हरेर्नाम गृहन् भगवद्धामागात्तदा सावधानतायां श्रद्धाभक्तियुक्तो निरपराधी साक्षात्तन्नाम गृणंस्तद्धाम यातीति किं पुनर्वक्तव्यम् ।। ४९ ।। आपकी इति श्रीभागवत महापुराणे षष्ठस्कन्धेऽन्वितार्थप्रकाशिकायां द्वितीयोऽध्यायः ॥ २ ॥ वीरराघवव्याख्या 泌 दर्शनादनु दर्शनादनन्तरं गङ्गायास्तीर्थे कलेवरं त्यक्त्वा गङ्गायामिति पाठे तीर्थे गङ्गाद्वारे क्षेत्रे गङ्गायां त्यक्त्वेत्यर्थः । सद्यः भगवत्पार्श्ववत्तिनां पार्षदानां स्वरूपं तत्समानं रूपं जगृहे गृहीतवान् ॥ ४३ ॥ * स विप्रोऽजामिल: महापुरुष- किङ्करैः साकं हम विमानमारुह्य विहायसा आकाशमार्गेणाचिरादिनेत्यर्थः । ययौ गतः क्केत्यत आह । यत्र श्रियः लक्ष्म्याः पतिरास्ते वैकुण्ठे इत्यर्थः । भगवत्पार्श्ववर्त्तिस्वरूपग्रहणमूर्ध्वक्रमेण वैकुण्ठगमनानन्तरं वेदितव्यं तत्र गतस्य तत्सायुज्यत्वादिति भावः ॥ ४४ ॥ * * उक्तमितिहासमुपसंहरन् भगवन्नामकीर्त्तनात्तद्विषयमत्यापादकमुपायान्तरमुत्कृष्टं नास्तीत्याह । एवमिति द्वाभ्याम् । एवमित्थं स द्विजः विलावितः विनाशितः सर्वः स्ववर्णाश्रमोचितः धर्मो येन दास्याः पतिरत एव पतितः स्वधर्माच्युतः निन्दितं कर्म यस्य हतं व्रतं अयं श्रुतसम्पन्नः शीलवृत्तगुणालय इत्यादिनोक्तं यस्य अत एव नरके निपात्यमानः यमभटैरिति शेषः । तथाभूतोऽपि भगवन्नाम गृह्णन्नु चरन् सद्यः विमुक्तोऽभूदित्यर्थः ॥ ४५ ॥ * * मुमुक्षतां संसार- बन्धनान्मोक्तुमिच्छतां तनमूलकर्मरूपबन्धस्य निकृन्तनं कृत्यते छिद्यतेऽनेनेति कृन्तनमतस्तीर्थपदस्य भगवतोऽनुकीर्त्तनात्परमन्य- न्नास्ति यद्यस्मादनुकीर्तनाद्रजस्तमोभ्यां कलिलं कश्मलं मनः कर्मसु संसृतिहेतुषु पुनर्न सलते इति न किन्तु संसृतिहेतुषु कर्मसु सज्जत एवेत्यर्थः ॥ ४६ ॥ * * अथेतिहासश्रवणादिफलमाह । य इति । परमतीव गुह्यं गोप्यमघापहं पापहर- मिममितिहासं यः पुमान् श्रद्धया युक्तः शृणुयाद्यश्च भक्त्यानुकीर्त्तयेत्कथयेत् ।। ४७ ।। * स पुमान्नरकं न याति नैव प्राप्नोत्येव यमकिङ्करैरीक्षितोऽपि न भवति यद्यप्यमङ्गलः पापवानपि मर्त्यः श्रवणादिकं कुर्वन्विष्णुलोके श्रीवैकुण्ठे महीयते पूज्यते भगवद्विषयकमत्युत्पत्तिद्वारा भगवल्लोकं प्राप्य तत्रत्यैर्बहु मन्यत इत्यर्थः ॥ ४८॥ एवं श्रवणकीर्त्तनादिभक्तियोगा- रम्भस्य कैमुत्यन्यायेन यमवश्यतापरिहारकत्वं वक्तुं कथितमितिहासमजामिलदृष्टान्तन्यायेन तद्वदन्नुपसंहरति । त्रियमाण इति । अजामिलो म्रियमाणः पुत्रोपचारेण अमुख्यया वृत्त्या प्रयुक्तमुपचरितमेव हरेनाम गृह्णन् धाम हरे: स्थानमगात् प्राप्तः किमुत श्रद्धया हरेर्गुणान् गुणप्रतिपादकान्नारायणादिशब्दान् कीर्तयन्नित्यर्थः ॥ ४९ ॥। ।। मक इति श्रीमद्भागवते महापुराणे षष्ठस्कन्धे श्रीमद्वीरराघवाचार्यकृत भागवत चंद्र चंद्रिकाख्यायां टीकायां द्वितीयोऽध्यायः ॥ २ ॥ विजयध्वजतीर्थकृता पदरत्नावली भगवत्पार्श्ववत्तिनां मुक्तानां स्वरूपं निर्दोषत्वादिलक्षणम् ।। ४३-४४ ॥ नामसङ्कीर्तने श्रद्धातिशयं जनयन्नुपसंहरति । एवमिति । दास्याः पतिरित्याक्रोशे षष्ठी अजामिलनाम मुक्त्वा दास्याः पतिरिवाहयति लोक स्कं. ६ . २ श्लो. ४५-४९] अनेकव्याख्या समलङ्कृतम् । इत्यर्थः ॥ ४५ ॥ * * अन्यथा तीर्थपदानुकीर्तनं विना ।। ४६-४७ ॥ * अमङ्गलो यद्यपि तथापि ॥ ४८ ॥ * * दासीसङ्गदापापमुक्तिकरी अन्ते नारायणस्मृतिरिति जानन्नजामिलोऽपि मुक्तकर्मत योपलब्धया नित्याभ्यासेन मरणसमयेऽपि नामस्मरणार्थ पुत्रोपचारितं कृत्वा श्रद्धया पुत्राज्ञानव्याजेन कीर्तयन्मुक्तिमगात् न तु पुत्रस्नेहेन भगवति श्रद्धया “भक्तियोगो भवति तन्नामग्रहणादिभिः” इत्युत्तरत्र वक्ष्यमाणत्वात् पुत्रादिसाङ्केतिक नाम उक्त्वा मुक्तकर्मत्वेन श्रीहरिनाम कीर्तयन् किमुत श्रद्धयेत्युच्यते अस्य फलाधिक्यं च दर्शयितुं पृथगेवोक्तिरिति ज्ञातव्यम् ॥ ४६ ॥ कोहोलिक ॥ इति श्रीसद्भागवते महापुराणे षष्ठस्कवे विजयध्वजविरचितायां पदरत्नावल्यां द्वितीयोऽध्यायः ॥ २ ॥ जीवगोस्वामिकृतः क्रमसन्दर्भः जीवगोस्वामिकृतः क्रमसन्दर्भ सद्यो विमुक्त जीवन्मुक्तो बभूव ॥ ४३-४४ ॥ नामापराध्यपि ।। ४५-४८ ॥ नामापराधयुक्तापेक्षयाह । य एवमिति द्वाभ्याम् । अमङ्गलो
- | यतो म्रियमाण इति ॥ ४६ ॥ इति श्रीमद्भागवत महापुराणे षष्ठस्कन्धे श्रीमज्जीवगोस्वामिकृतक्रम सन्दर्भस्य द्वितीयोऽध्यायः ॥ ३ ॥ विश्वनाथचक्रवतिकृता सारार्थदर्शिनी | यद्यतोऽनुकीर्त्तनात् कर्मसु मन एवं न सज्जते अन्यथा प्रायश्चित्तान्तरैस्तु कलिलं मलिनमेव ।। ४६-४८ ।। * * प्रकरणमुपसंहृत्यापि पुनः सर्वथा प्रतीत्यर्थमेकेनैव वाक्येन नाममाहात्स्यसिद्धान्तमाहः । म्रियमाण इति । म्रियमाणत्वादेव अश्रद्धयापि गृह्णन् किं पुनः श्रद्धयेति म्रियमाणोऽपि किं पुनर्जीवन्निति पुत्रोपचारितमपि किं पुनः साक्षादेव अजामिलो महापातक्यपि किं पुनर्निष्पाप इत्यवधारणचतुष्टयम् ॥ ४६ ॥ इति सारार्थदर्शिन्यां हर्षिण्यां भक्तचेतसाम् । षष्ठस्कन्धे द्वितीयोऽयं सङ्गतः सङ्गतः सताम् ॥ २ ॥ । शुकदेवकृतः सिद्धांतप्रदीपः ‘गद्य- तस्य मुक्तिमाह । हित्वेति द्वाभ्याम् ।। ४३-४४ ॥ * नामोचारणादिरूपया भगवद्भक्त्या पतितोऽपि मुक्तो भवतीति प्रकरणार्थमुपसंहरति । एवमिति द्वाभ्याम् । विलाविताः सर्वे धर्मा यस्य सः हतानि व्रतानि यस्य सः अत एव गये कर्मणा पतितः निरये पात्यमानो भगवन्नाम गृह्णन सद्यो विमुक्तः ॥ ४५ ॥ मुमुक्षतां मुक्तिमिच्छताम् अतः पूर्वत्र वर्णितप्रभावात् तीर्थपदस्य श्रीकृष्णस्यानुकीर्त्तनात् परमन्यत् कर्मरूपनिबन्धस्य कृन्तन छेदकं नास्ति यत् यतः तीर्थपदानुकीर्त्तनात् मनः पुनः कर्मसु न सज्जते ततः तीर्थपदानुकीर्तनात् अन्यथा प्रायश्चित्तान्तरैः रजस्तमोभ्यां कलिलमेव तिष्ठति पुनः कर्मसु सज्जते इत्यर्थः ॥ ४६ ॥ अस्येतिहासस्य श्रवणादिफलमाह । य इति द्वाभ्याम् ॥ ४७ ॥ * * यमकिङ्करैरीक्षित एवं न भवति नरकं न यातीति किमु वक्तव्यम् । किन्तु अमङ्गलो यद्यपि पूर्व तथापि इतिहासश्रवणादिना सुमङ्गलो भूत्वा विष्णुलोके महीयते आद्रियते ॥ ४८ ॥ एतदेवाह । म्रियमाणः अस्वस्थमनस्कत्वेन श्रद्धाविहीनस्तत्रापि पुत्रोप- चारितं हरेर्नाम गृह्णन् अजामिलोऽपि तद्धामागात् इतिहासश्रवणादिना जातया श्रद्धया गृहन हरेनामोचारयन् विष्णुधाम यातीति किं वक्तव्यमित्यर्थः ।।४६ ॥
- ।
- दक्ष
- इति श्रीमद्भागवत महापुराणे षष्ठस्कन्धे श्रीमच्छुकदेवकृत सिद्धान्तप्रदीप द्वितीयाध्यायार्थप्रकाशः ॥ २ ॥
- गोस्वामिगिरिधरलालविहिता बालप्रबोधिनी
- एवं विस्तरेणोक्तं नामसङ्कीर्त्तनादिमाहात्म्यमुपसंहरति- एवमिति द्वाभ्याम् । स अजामिल एवं वर्णितप्रकारेण विमावितास्त्यक्ताः सर्वे धर्मा येन सः, हतं व्रतं स्वदारनियमादि यस्य सः गण निन्दितेन कर्मणा चौर्यादिना पतितो ब्राह्मण्या- भ्रष्टः- सर्वत्र हेतुः दास्याः पतिरिति अत एव यमदूतैर्निरये निपात्यमानोऽपि भगवन्नाम गृह्णन् सद्यस्तत्क्षणमेव यमपाशाद्विमुक्त इत्यन्वयः ॥ ४५ ॥ अतः कारणात् तीर्थानि पावे यस्य तस्यानुकीर्त्तनात् नामसङ्कीर्त्तनादेः सकाशात् परं श्रेष्ठ
- श्रीमद्भागवतम्
- [ स्कं. ६ . २ श्लो. ४५-४० कर्मनिबन्धकृन्तनं पापमूलोच्छेदकं नास्तीत्यन्वयः । तत्र हेतुमाह-न यदिति । यत् यस्मात् भगवन्नामसङ्कीर्त्तनादितः पुनर्मनः कर्मसु दुष्टाचारेषु प्रायेण न सज्जते । ततो नामसङ्कीर्त्तनादेरन्यथा प्रायश्चित्तान्तरैस्तु मनः पुना रजस्तमोभ्यां कलिलं मलिनं भवत्येव दुराचारप्रवृत्तिदर्शनादिति भावः ॥ ४६ ॥ एतच्छ्रवणकीर्त्तनयोः फलमाह-य एवमिति द्वयेन । एवं वर्णितमितिहासं श्रद्धया विश्वासेन भक्त्या च युक्तो यो मर्त्यः शृणुयात् यश्चानुकीर्त्तयेत् स यद्यप्यमङ्गलः पापीयांस्तथापि नरकं नैव याति यमकिङ्करैवेक्षितो न भवति किन्तु विष्णुलोके महीयते विराजते । नरकगमने यमदूतदर्शने च हेतुमाह - अघाप- हमिति, पापेनैव नरकगमनादि सम्भवति, अस्य पापनाशकत्वादित्यर्थः । वैकुण्ठगमने हेतुमाह-परमं गुह्यमिति, सर्वशास्त्ररहस्यं भक्तिजनकमित्यर्थः ।। ४७-४८ ॥ * * एवं प्रकरणमुपसंहृत्यापि अतिरहस्यत्वाद्विश्वासदायार्थं पुनर्नाममाहात्म्यमाह - म्रियमाण इति । यदि म्रियमाणो विवशावस्थायां श्रद्धाभक्तिरहितोऽजामिलोऽतिपातक्यपि पुत्रोपचारितमपि हरेर्नाम गृणन् भगवद्धाम अगात्तदा सावधानतया श्रद्धाभक्तियुक्तो निरपराधी साक्षात्तन्नाम गृणस्तद्धाम यातीति किं पुनर्वक्तव्यम् ॥ ४९ ॥
- ।।
- इति श्रीवल्लभाचार्यवंश्यगोपालसूनुना । श्रीमन्मुकुन्दरायाणां पादसेवाधिकारिणा ॥ १ ॥ श्रीमगिरिधराख्येन भजनानन्दसिद्धये । श्रीमद्भागवतस्येयं टीका बालप्रबोधिनी ॥ २ ॥ रचिता तत्र षष्ठेऽस्मिन् स्कन्धे नामनिरूपणे । द्वितीयो विवृतोऽध्यायो वृत्तान्तः श्रवणार्थकः ॥ ३ ॥
- भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी
- साकमिति । विप्रः सोऽजामिलद्विजः, महापुरुषकिंकरैर्विष्णुपार्षदैः सार्क, हैमं सौवर्ण, विमानम् आरुय, विहाय - साssकाशमार्गेण, यत्र श्रियो लक्ष्म्याः पतिः अस्ति, तत्र ययौ ॥ ४५ ॥
- उक्तमितिहासमुपसंहरन् भगवन्नाम- संकीर्त्तनादन्यो भगवद्विषयमत्यापादक उत्कृष्ट उपायो नास्तीत्याह द्वाभ्याम् । एवमिति । एवमित्थं विभावितो विनाशितः सर्वः धर्मो वर्णाश्रमोचितो धर्मो येन सः, दास्याः पतिः, अत एव पतितः स्वाचाराच्च्युतः । गह्यं निन्यं कर्म यस्य सः । गर्ह्यकर्मणेति पाठे स्पष्टोऽर्थः । पतितः । तत्राक्षराधिक्यमार्षम् । हतं व्रतं भार्या नियमादिर्यस्य सः । अत एव निरये, नरके, निपात्यमानः । यमभटैरिति शेषः । तथाभूतोऽपि सः अजामिल: भगवन्नाम गृह्णन्नुञ्चारयन् सन्, सद्यः विमुक्तः । मृत्युपापाभ्यां रहित इत्यर्थः । अभूदिति शेषः ॥ ४६ ॥ नात इति । अतो हेतोः, मुमुक्षतां संसारबन्धनादात्मानं मोचयितु- मिच्छतां कर्मनिबन्धकृन्तनं पापमूलकर्मबन्धनिकृन्तनकरं, तीर्थ पदयोर्यस्य भगवतस्यानुकीर्त्तनं भजनं तस्मात् परमन्यत्, न अस्ति । यद्यस्माद्भगवन्नामानुकीर्त्तनात्, रजस्तमोभ्यां कलिलं मलिनं, मनः कर्मसु संसृतिहेतुभूतेषु कर्मसु पुनर्भूयः, न सज्जते सक्तं न भवति । ततः, अन्यथा तु, सज्जते एव । प्रायश्चित्तान्तरैस्तु रजस्तमः कलिलं मनो मलिनमेव तिष्ठतीति भावः ॥ ४७ ॥ * * अथैतदितिहासश्रवणादिफलमाह । य इति द्वाभ्याम् । परममतीव गुह्यं गोप्यम्, अघापहं पापहरम् इतिहासम्, इममिति शेषः । यः पुमान् श्रद्धया युक्तः सन्, एवमुक्तप्रकारेण शृणुयात्, यश्च भक्त्या अनुकीत्तयेत्कथयेत् ॥ ४८ ॥ * * न वै इति । स पुमान्, नरकं न याति व यमकिंकरैः, ईक्षितः अपि न भवति । सः मत्ये:, यद्यपि अमङ्गलः पापीयान् स्यात्, तथापि विष्णुलोके महीयते पूज्यते एतदितिहासश्रवणकीर्त्तनतो भगवद्विषयकमत्युत्पादनद्वारा भगवल्लोकं प्राप्य तत्रत्यैर्बहु मन्यते इत्यर्थः ॥ ४६ ॥ * * म्रियमाण इति । म्रियमाणः अजामिलः, पुत्रोपचारितम् अपि, हरेः नाम गृणन्, धाम हरेः पदम् अगात् प्राप्तः । तर्हि श्रद्धया गृह्वन् पुनः किम् । श्रद्धया हरिगुणप्रतिपादकान्नारायणादिशब्दान कीर्त्तयन् भगवद्धाम प्राप्नोति तत्र किमु वक्तव्यमित्यर्थः ॥ ५० ॥
- P
- इति श्रीधर्मधुरंधरश्रीधर्मात्मजप्रत्यक्षपुरुषोत्तम सहजानन्द स्वामिसुतश्रीरघुवीराचार्यसूनुभगवत्प्रसाचार्यविरचितायामन्वयार्थाय - बोधिन्यां भक्तमनोरञ्जन्याख्यायां श्रीमद्भागवतटीकायां षष्ठस्कन्धे द्वितीयोऽध्यायः ॥ २ ॥
- भाषानुवादः
- परीक्षित्! अजामिलने दासीका सहवास करके सारा धर्म-कर्म चौपट कर दिया था वे अपने निन्दित कर्मके कारण पतित हो गये थे। नियमोंसे च्युत हो जानेके कारण उन्हें नरकमें गिराया जा रहा था । परन्तु भगवानके एक नामका उाचारण करनेमात्रसे वे उससे तत्काल मुक्त हो गये । ४५ ॥ * * जो लोग इस संसारबन्धनसे मुक्त होना चाहते हैं, उनके लिये अपने चरणोंके स्पर्शसे तीर्थों को भी तीर्थ बनानेवाले भगवानके नामसे बढ़कर और कोई साधन नहीं है; क्योंकि नामका
- स्क. ६ अ. २ लो. ४५-४९1
- अनेकव्याख्यासमलङ्कृतम्
- ९३
- आश्रय लेनेसे मनुष्यका मन फिर कर्मके पचड़ोंमें नहीं पड़ता । भगवन्नामके अतिरिक्त और किसी प्रायश्चित्तका आश्रय लेनेपर मन रजोगुण और तमोगुणसे ग्रस्त ही रहता है तथा पापोंका पूरा-पूरा नाश भी नहीं होता ॥ ४६ ॥ * * परीक्षित् ! यह इतिहास अत्यन्त गोपनीय और समस्त पापोंका नाश करनेवाला है । जो पुरुष श्रद्धा और भक्तिके साथ इसका श्रवण-कीर्तन करता है, वह नरकमें कभी नहीं जाता । यमराजके दूत तो आँख उठाकर उसकी ओर देखतक नहीं सकते । उस पुरुषका जीवन चाहे पापमय ही क्यों न रहा हो, वैकुण्ठलोक में उसकी पूजा होती है ।। ४७-४८ ।। * * परीक्षित् ! देखो-अजामिल जैसे पापीने मृत्युके समय पुत्रके बहाने भगवान् के नामका उच्चारण किया ! उसे भी वैकुण्ठकी प्राप्ति हो गयी ! फिर जो लोग श्रद्धा के साथ भगवन्नामका उच्चारण करते हैं, उनकी तो बात ही क्या है ।। ४९॥
- इति षष्ठस्कन्धे द्वितीयोऽध्यायः ॥ १ ॥
- ॥॥ कृणवीट कर ये
कतार ए PEERE TOP FE ॥ अथ तृतीयोऽध्यायः TRIP काकडे एकाF & TEE ए राजोवाच PRES TRIPRSTHE BIF S निशम्य देवः स्वभदोपवणितं प्रत्याह किं तान् प्रति धर्मराजः । एवं हताज्ञो विहतान्मुरारेनैदेशिकैर्यस्य वशे जनोऽयम् ॥ १ ॥ यसस्य देवस्य न दण्डभङ्गः कुतश्वनर्षे श्रुतपूर्वं आसीत् । एतन्मुने वृश्चति लोकसंशयं न हि त्वदन्य इति मे विनिश्चितम् ॥ २ ॥ श्रीशुक उवाच O भगवत्पुरुषै राजन् याम्याः प्रतिहतोद्यमाः । पतिं विज्ञापयामासुर्यमं संयमनीपतिम् ॥ ३ ॥ यमदूता ऊचुः कति सन्तीह शास्तारो जीवलोकस्य वै प्रभो । त्रैविध्यं कुर्वतः कर्म फलाभिव्यक्तिहेतवः ॥ ४ ॥ यदि स्युर्बहवो लोके शास्तारो दण्डधारिणः । कस्य स्यातां न वा कस्य मृत्युश्वामृतमेव वा ॥ ५ ॥ किन्तु शास्तृबहुत्वे स्याद्बहूनामिह कर्मिणाम् । शास्त्रत्वमुपचारो हि यथा मण्डलवर्तिनाम् ॥ ६ ॥ अतस्त्वमेको भूतानां सेश्वराणामधीश्वरः । शास्ता दण्डधरो नृणां शुभाशुभविवेचनः ॥ ७ ॥ तस्य ते विहतो दण्डो न लोके वर्ततेऽधुना । चतुर्भिरद्भुतैः सिद्धैराज्ञा ते विप्रलम्भिता ॥ ८ ॥ नीयमानं तवादेशादस्माभिर्यातनागृहान् । व्यमोचयन् पातकिनं छत्वा पाशान् प्रसह्यते ॥ ९ ॥ तांस्ते वेदितुमिच्छामो यदि नो मन्यसे क्षमम् । नारायणेत्यभिहिते मा भैरित्याययुद्द्रुतम् ॥ १० ॥ कृष्णप्रिया व्याख्या अन्वयः—अयं जनः—यस्य वशे देवः धर्मराजः एवं हताज्ञः स्वभटोपवर्णितं निशम्य मुरारेः नैदेशिकैः विहतान् तान् प्रति किं प्रत्याह ॥ १ ॥ * ऋषे यमस्य देवस्य दण्डभंगः कुतश्चन श्रुतपूर्वः न आसीत् मुने एतं लोकसंशयं त्वदन्यः न हि वृश्वति इति मे विनिश्वितम् ॥ २ ॥ * * राजन् भगवत्पुरुषैः प्रतिहतोद्यमाः याम्याः पतिं संयमनीपतिं यमं विज्ञापयामासुः || ३॥ * * प्रभो इह त्रैविध्यं कर्म कुर्वतः जीवलोकस्य फलाभिव्यक्तिहेतवः शास्तारः कति सन्ति ॥ ४ ॥ * * यदि लोके दंडधारिणः शास्तारः बहवः स्युः मृत्युः च अमृतम् एव कस्य स्यातां वा कस्य न वा ॥ ५ ॥ * * किंतु इह बहूनाम् कर्मिणाम् शास्तृबहुत्वे यथा मंडलवर्त्तिनां शास्तृत्वं उपचारः हि स्यात् ॥ ६ ॥ अतः त्वं नृणां शुभाशुभविवेचनः सेश्वराणां भूतानाम् एकः अधीश्वरः शास्ता दण्डधरः ॥ ७ ॥ * * तस्य ते दंड : विहतः अधुना लोके न वर्तते ते आज्ञा चतुर्भिः अद्भुतैः सिद्धैः विप्रलंभिता ॥ ८ ॥ * * ते अस्माभिः तव आदेशात् यातना - गृहान् नीयमानं पातकिनं प्रसह्य पाशान् छित्वा व्यमोचयन् ॥ ९ ॥ * * यदि नः क्षमं मन्यसे तान् ते वेदितुं इच्छामि ‘नारायण’ इति अभिहिते मा भैः इति द्रुतम् आययुः ।। १० ।। १. प्रा० पा० तानपि । २. प्रा० पा० बादरायणिरुवाच । ३. प्रा० पा० – गृहम् । एकं ६ अ. ३. लो. १-१०] अनेकव्याख्या समलङ्कृतम् श्रीधरस्वामिविरचिता भावार्थदीपिका तृतीये तु यमेनापि वैष्णवोत्कर्ष वर्णनैः । सांत्वयित्वा स्वदूतांस्ते वैष्णवे किंकरीकृताः ॥ १ ॥ । । । .. ९५ विष्णुदूतैर्निर्णीतं शास्त्रार्थं यममुखेन द्रढयितुं तृतीयाध्यायारंभः । तत्र यदुक्तं यमराज्ञे यथासर्वमाचचचुरिति ततः किं तत्र वृत्तमिति पृच्छति । निशम्येति । मुरारेनदेशिकैः किंकरैरेवं विहतान् । अत एव हता आज्ञा यस्य । यस्य वशवर्त्ययं जनः सोऽपि तान्प्रति किमाह ॥ १ ॥ अस्याश्चर्यमेतदित्याह यमस्येति । हे ऋषे यमस्य दंडभंग: कुतश्चन कस्माचि- दपि श्रुतपूर्वो नासीत् । एतदेतस्मिन्नर्थे । यद्वा न श्रुतपूर्वः । एतद्यमदूतनिराकरणं चासीत् । अतः सर्वस्यापि लोकस्य संशयो वर्तते तं त्वत्तोऽन्यो न छिनत्तीति मे निश्चितमतः कथयेति शेषः ॥ २ ॥ * * भगवतः पुरुषैः प्रतिहत उद्यमो येषां ते याम्याः पुरुषाः ॥ ३ ॥ * * कति संतीत्याक्षेपोक्तिः । त्रैविध्यं त्रिविधम् । स्वार्थे ष्यञ् । यद्वा चैविध्यं यथा भवति तथा कर्म कुर्वतः । तथा कर्मफलस्याभिव्यक्तिहेतवः कति संतीति ॥ ४ ॥ * * सन्तु बहवः को बाधस्तत्राहुः | यदीति । मृत्युदु:खममृतं सुखं तेषां विप्रतिपत्तौ ते उभे कस्य स्यातां न कस्यापि परस्परविरोधेनोभयोरपि प्रतिबंधात् । ऐकमत्ये तु कस्य वा न स्याताम् । एकः सुखं कर्तुमिच्छति दुःखं चान्यः । ऐकमत्ये च तयोः परस्परकार्यानुमोदनेनोभयोरपि प्राप्ते कस्य वा ते उभे अपि न स्यातामित्यर्थः ॥ ५ ॥ ननु बहूनां कर्मिणां व्यवस्थया बहवः शास्तारो भवंतु तथा सति नायं दोषः स्यात्तत्राहुः । बहूनां कर्मिणां व्यवस्थया शास्तृबहुत्वे शास्त्रत्वं स्यात् घटेत । किं तु तदा यत्सर्वशास्तरि मुख्यं शास्तृत्वं तदेकदेश उपचारमात्रमेव स्यात् यथा चक्रवर्तिन एवं मुख्यं शास्तृत्वं मंडलवर्तिनामुपचारमात्रं निरंकुशत्वाभावात् ॥ ६ ॥ * * यस्मादेवं शास्तृबहुत्वं न घटतेऽतस्त्वमेक एव शास्ता । शुभाशुभे विविनक्तीति तथा ॥ ७ ॥ * * विप्रलंभिता वंचिता लंघितेत्यर्थः ॥ ८ ॥ * * तदेवाहुः । नीयमानमिति ॥ ९ ॥ ते त्वत्तः यदि नोऽस्माकं क्षमं हितं मन्यसे । अन्यथाऽज्ञानतस्तदवज्ञाने तवाप्यनर्थः स्यात् । अत हि तेषां प्रभावो यतो नारायणेति केवलमभिहिते मा भयं कुर्विति वदतः शोधमागताः ॥ १० ॥ क ४ वंशीधरकृतो भावार्थदीपिकाप्रकाशः सांत्वयित्वा सामवाक्यैर्बोधयित्वा । वैष्णवे विष्णुभक्ते । किंकरीकृतास्तदनुचरतां प्रापिताः । भवद्भिर्विष्णुभक्तानां कैंकर्यं कार्यं ते च मद्गुरुभ्रातर इति बोधिता इति भावः ॥ १ ॥ तत्र पूर्वाध्याये । ततो दूतवर्णिताजामिलवृत्तांतश्रवणोत्तरम् । निदेशं कुर्वतीति नैदेशिकाः । “निदेशः शासनेऽपि स्यात्कथनोपांतयोरपि” इति मेदिनी । एवमुक्तरीत्या । विह्तान्निरस्तान् । अत एव मुरारिकिंकरताडितस्वतद्वैतत्वादेव ॥१॥ * * दंडभंगः सैन्यभंग आज्ञाभङ्ग इति यावत । “दंड: सैन्ये प्रकांडे च व्यूहे लगुडमानयोः । ताडनेऽपि च” इति निरुक्तिः । एतस्मिन् लोके इत्यर्थः । विभक्त्यंतराश्रयणे गौरवं मत्वाह-यद्वेति । अतोऽश्रुतपूर्वत्वात् । ऋषे इति त्रिकालज्ञत्वं मुने इति सर्वशास्त्रज्ञत्वं च द्योतयन्नाह । यतः सर्वज्ञत्वात्त्वमेव वक्तुं समर्थोस्यतो हेतोः । लोकसंशय इत्युक्त्या स्वस्य न संशय इत्युक्तम् ॥ २ ॥ ** राजनिति । यथा त्वत्पुरुषास्त्वां विज्ञापयंतीति भावः ॥ ३ ॥ * * प्रभो इति साभिप्राया संबुद्धिः । त्रैविध्यमित्युक्ते न केवलं स्वार्थप्रतीतिरर्थातरस्यापि प्रतीतेरित्यत आह-यद्वेति । सात्त्विककर्मकर्तृणां फलदाता भिन्नो राजसादीनां च भिन्न इत्यर्थः ॥ ४ ॥ * विप्रतिपत्तौ विवादे एकैनोक्तमहमस्मै सुखं दास्यामि परेणोक्तं दुःखं दास्यामीत्येवंरूपे सति उभे सुखदुःखे विप्रतिपत्त्यैकमत्ये विवृणोति - एक इत्यादिना । इत्यर्थ इति । शास्तृबहुत्वे सर्वलोकविसवः स्यादिति भावः ॥ ५ ॥ * । पुनराक्षिपंति-नन्विति । स्पष्टमये । मंडलवर्त्तिनां सामंतानाम् ॥ ६ ॥ * * सेश्वराणामिंद्रादिसहितानाम् । भूतानां चराचराणां जीवानाम् ॥ ७ ॥ ॥७॥ * यः सर्वभूतानामीश्वर स्तस्येत्यर्थः । इत्यर्थं इति यावत् ॥ ८ ॥ * * तदेव आज्ञोल्लंघनमेव ॥ ९ ॥ * * अथ तेषां ज्ञानाय किंचिवेष्टादिकमुच्यतां तत्राहुः अतक्यों होति ॥ १० ॥ M अन्वितार्थप्रकाशिका । तृतीये बोधिता विष्णोरुत्कर्ष सर्वतोऽधिकम् । स्वदूता धर्मराजेन तत्र श्लोकाः शराग्नयः ( ३५ ) ॥ उवाच पञ्चकं षड्युक्चत्वारिंशदनुष्टुभः ( ४६ ) || ३ || निशम्येति । एवं हता आज्ञा यस्य सः अयं सर्वोऽपि जनो यस्य वशे तिष्ठति स देवो धर्मराजः स्वभटैरुपवर्णितं वृत्तं निशम्य मुरारेनैदेशिकैः किङ्करैर्विहतान तान् स्वभटान् प्रति किमाह हम ॥ १ ॥ * यमस्येति । हे ऋषे ! यमस्य देवस्य दण्डभङ्गः आज्ञापरिवर्तनं कुतश्चन कस्मादपि सकाशात् श्रुतपूर्वो ९६ श्रीमद्भागवतम् [ स्कं. ६ अ. ३ श्लो. १-१०. नासीत् अतः सर्वस्यापि लोकस्य संशयोऽस्ति । हे मुने ! एतत् एतं सामान्ये क्लैब्यम् । लोकसंशयं त्वत्तोऽन्यः हि यस्मान्न वृश्चति न छिनत्ति अल्पज्ञत्वाच्छेत्तुं न शक्नोतीति तु मे निश्चितम् अतो भवानेव ब्रवीतु ॥ २ ॥ 1 1 भगवदिति । हे राजन् ! भगवत्पुरुषैः प्रतिहत उद्यमो येषां ते याम्याः यमदूताः स्वपतिं संयमिनीपतिं यमं विज्ञापयामासुः ॥ ३ ॥ * * कतीति । हे प्रभो ! त्रैविध्यं त्रिविधम् । स्वार्थे ष्यम् । सत्त्वादिगुणत्रयहेतुकं पुण्यपापमिश्रात्मकम् । यद्वा । त्रैविध्यं यथा स्यात्तथा कर्म कुर्वतो जीवलोकस्य शास्तारः शिक्षकाः कर्मफलस्याभिव्यक्तिहेतवो दातार इह त्रिलोक्यां कति सन्तीत्या- पोक्तिः ॥ ४ ॥ यदीति । यदि लोके शास्तारो दण्डधारिणो बहवः स्युस्तर्हि मृत्युः पापफलं नरकात्मकं दुःखम् अमृतं पुण्यफलं स्वर्गात्मकं सुखमेव वा कस्य स्यातां न कस्यापीत्यर्थः । कस्य वा न स्यातां सर्वस्यापि स्यातामित्यर्थः । अयं भावः । यदि बहवः शास्तारः स्युः तर्हि शास्तॄणां विप्रतिपत्तौ सुखदुःखे कस्यापि न स्यातां परस्परविरोधेनोभयोरपि प्रतिबन्धात् । ऐकमत्ये तु एकः सुखं कर्तुमिच्छति दुःखं चान्यस्तयोश्चान्योन्यकार्यानुमोदनेन सर्वेषामपि सुखदुःखे स्याताम् ॥ ५ ॥ * * ननु बहूनां कर्मिणां व्यस्थयैव शास्तृबहुत्वमतो न दोषस्तत्राहुः — किन्त्विति । बहूनां कर्मिणां व्यवस्थया शास्तृबहुत्वे यत् शास्तृत्वं तत् स्यात् घटेत तत्तु यथा मण्डलवर्तिनामेकदेशवृत्तित्वात् उपचारमात्रं स्यात् । निरङ्कुश- त्वाभावात् चक्रवर्तिवन्मुख्यं शास्तृत्वं न स्यात्तथा च मुख्यः शास्ताऽन्य एव कल्प्यः स्यादिति भावः ॥ ६ ॥ * * अत इति । यस्मादेवं शास्तृबहुत्वं मुख्यतया न घटतेऽतोऽस्मज्ज्ञाने तु सेश्वराणां देवैः सहितानां सर्वभूतानां त्वमेक एवाधीश्वरः स्वामी शास्ता शिक्षकः नृणामधिकारिणां शुभाशुभविवेचकः पुण्यपापनिर्णयकुद्दण्डधरः पापिनां पुण्यवतां सुखदचेति ज्ञेयम् ॥ ७ ॥ तस्येति । तस्यैवं प्रभावस्य ते तव विहितो निरूपितो विहतः इति पाठे तु खण्डितो दण्डो लोकेऽधुना न प्रवर्तते । यतः चतुर्भिरद्भुतरूपैः सिद्धैः ते तवाज्ञा विप्रलम्भिता वचिता उल्लवितेत्यर्थः ॥ ८ ॥ * * नीयमानमिति । तवादेशादाज्ञातोऽस्माभिर्यातनागृहान् प्रति नीयमानं पातकिनमजामिलं प्रसथ बलात्कारेण पाशान् छित्त्वा ते सिद्धपुरुषा व्यमोचयन् ॥ ९ ॥ तानिति । नारायणेत्यभिहिते सति मा भैः भयं मा कुर्विति वदन्तः शीघ्रमाययुरागताः । मा भैरिति “बहुलं छन्दसि " इति अपृक्तहल ईडभावः । तान् ते त्वत्तो वेदितुमिच्छामो यदि नोऽस्माकं क्षमं हितं मन्यसे तहि वद अन्यथा अज्ञानतस्तदवज्ञानेन तवाप्यनर्थः स्यात् ॥ १० ॥ ४ I वीरराघवव्याख्या एवमितिहासमुखेन कर्णित भगवन्नाममाहात्म्यः राजा “पतिं वः पृच्छत इति धर्मेऽस्मिन् यदि संशयः । स वेद परमं गुह्यं धर्मस्य भगवान् यम” इति भगवत्पार्षदैराप्ततमत्वेनाभिहितयममुखेन नाममाहात्म्यं प्रथयितुं पृच्छति द्वाभ्याम् । निशम्येति । एवमित्थं देवो धर्मराजः स्वभटैर्वर्णितं निशम्याकर्ण्य मुरारेभगवतो नैदेशिकैराज्ञाकारिभिः किङ्करेर्विहतान् निराकृतान तान् किङ्करान् प्रति स्वयं विहता निराकृता आज्ञा यस्य तादृशः किमुक्तवान् धर्मराजं विशिनष्टि । यस्य धर्मराजस्य वशेऽयं जनः यद्वशवर्ती अयं सांसारिकजनः स किमाहेत्यर्थः ॥ १ ॥ हे ऋषे ! देवस्य यमस्य एतादृशो दण्डस्य भङ्गः कुतश्विदासीदिति न श्रुतपूर्वः न श्रुत इत्यर्थः । एतस्मिन्नथ सर्वस्यापि संशयो वर्तत इति शेषः । हे मुने ! तमिमं लोकस्य मादृशस्य संदेहं त्वदन्यः न हि वृश्चति न छिनत्ति इति मे मया सुनिश्चितम् ॥ २ ॥ * उत्तरमाह मुनिः । भगवत्पुरुषैरिति । 1 * 1/ हे राजन् ! भगवत्किङ्करैः प्रतिहतः उद्यमो येषां ते याम्या यमभटाः पतिमधिपति संयमिन्याः पुर्याः पतिं यमं प्रति विज्ञापयामासुः ॥ ३ ॥ * * विज्ञप्तिप्रकारमेवाह । कतीत्यादिना आययुर्द्धतमित्यन्तेन । हे प्रभो ! यम इह लोके त्रैविध्यं त्रिविधमेव त्रैविध्यं स्वार्थे ष्यन् पुण्यपापतदुभयमिश्ररूपेण त्रिविधं कर्म कुर्वतो जीवलोकस्य शास्तारः फलस्य सुखादिरूपस्य याभिव्यक्तिः प्रादुर्भावः तस्या हेतवः कति सन्तीत्याक्षेपः ॥ ४ ॥ सन्तु बहवः को बाधस्तत्राहुः । यदीति । बहवः यदि दण्डकारिणः शास्तारः दण्डरूपशासनकारिणः दण्डपूर्वकशिक्षाकारिणो वा बहवः स्युस्तहिं मृत्युर्दु:खममृतं सुखं च कस्य वा न स्यातां कस्याप्युभे स्यातामित्यर्थः । अयं भावः अन्योन्यविरोधिशास्तृबहुत्वे सति शास्त्रान्तराधीनस्य सुखदुःखादेः शास्त्रा- न्तरेण निवारणसम्भावनया कस्याप्युभे न स्यातां किन्तूभयपरिहारेणोदासीनो लोकः स्यादिति ॥ ५ ॥ * ॐ परस्पर- विरोधिशास्तृबहुत्वे यद्यप्युभे स्यातां तथापि शास्त्रत्वममुख्यं स्यादित्याहुः । किंत्विति । धर्मिणां कर्मिणां यत्शास्तृभिरापाद्यमानं सुखादि स्यादेव किन्तु शास्त्रत्वमुपचारः तेषां शास्तृत्वममुख्यं हि स्याद्वा यथा मण्डलवर्त्तिनामल्पजनपदाधिपतीनां शास्तृत्वं यथा न मुख्यं निरङ्कुशत्वाभावात् ॥ ६ ॥ तस्य त्वच्छासनं तु निरङ्कुशं दृष्टमतः शास्तृबहुत्वं न घटेतेत्यभिप्रेत्य त्वमेक एव शास्ता त्वच्छासनं चेदानीं निहतमित्याहुः । शास्तेति । दण्डधरः पापिनां नृणां दण्डं धारयति कारयतीति तथा शांता हिताहितयोर्विविच्य ज्ञापयिता शुभाशुभ पुण्यापुण्ये विविनक्ति विभजतीति शुभाशुभविवेचकः । नन्द्यादित्वात्कर्तरि * स्कं. ६ अ. ३ श्लो. १-१०] अनेकव्याख्यासमलङ्कृतम् ल्युः ॥ ७ ॥ * * तस्यैवम्भूतस्य ते तव दण्डः शासनं लोके काप्येतत्पर्यन्तं विहतो न वर्तते किन्त्वविहत एवाधुना ॥ त्वद्भुतरूपैश्चतुर्भिः सिद्धैस्ते तवाज्ञा विप्रलम्भिता वितथीकृता ॥ ८ ॥ * कथं विप्रलम्भितेत्यत्राहुः । नीयमानमिति । तवादेशादस्माभिर्यातनागृहं नरकं प्रति नीयमानं पातकिनं ते सिद्धा व्यमोचयन् किं कृत्वा प्रसह्य बलात्ते पाशान् छित्त्वात: तान् सिद्धान्वेदितुं तद्बलतदधिपतिनामादिप्रभावादिकं सर्व वेदितुमिच्छाम इत्यर्थः । नोऽस्माकं क्षमं हितं यदि मन्यसे तहिं कथ- येति शेषः । तान्विशिषन्ति । नारायणेत्येतस्मिं च्छन्देऽभिहिते उच्चारिते सति द्रुतमाययुराजग्मुः ॥ ९-१० ।। विजयध्वजतीर्थकृता पदरत्नावली * भक्तिपूर्वकं नामसङ्कीर्तन मुक्तिसाधनमित्येतस्मिन्नध्यायेऽभिधीयते तत्र राजा पृच्छति । निशम्येति । हता आज्ञा यस्य स हताज्ञः । मुरारेनैदेशिकैराज्ञाकारिभिः किङ्करैरित्यर्थः । विहतान् प्रतिहतान् स्वामिनिर्देशकरणाशक्तथा पीडितानित्यर्थः । अयं जनो यस्य यमस्य वशे वर्तते ॥ १ ॥ मस्य वशे वर्तते ॥ १ ॥ दण्डभङः आजार
- दण्डभङ्गः आज्ञाभङ्गः वृश्चति छिनत्ति ॥ २ ॥ “वाच यमे प्रेतपतौ यमने च यमः स्मृतः” इत्यभिधानात् संशयनिराकरणाय संयमनीपमिति ॥ ३ ॥ * * फलाभिव्यक्तिहेतवः फलदातारः कति सन्तीत्यस्यायमर्थः । किमेकः शास्ताऽथवा बहवः । तत्रापीयन्त इति नियमोऽस्ति किं वा नेति ॥ ४ ॥ ** 11 ❀ द्वितीयं प्रत्याहुरित्याह । यदि स्युरिति । इयन्त इति सङ्ख्याता बहवः मृत्यमृतयोः दानसमार्था उत न न द्वितीय इत्याहुरि- त्याह । कस्येति । मृत्युलक्षणो बन्धः अमृतलक्षणो मोक्षश्च कस्य स्यातामिति वक्तव्यं न कस्यापि स्यातां दातृत्वे सामर्थ्याभावात् प्रथमं परिहरन्तीत्याह । न वेति । तौ कस्य न स्यातां सर्वेषामपि स्यातां सामर्थ्यात् ॥ ५ ॥ * * न चैतद्युक्तमसम्भवात् । ५॥ मिथो विरोधापातादित्याहुरित्याह । किंत्विति । मण्डलवर्तिनां मण्डलेश्वराणाम् ॥ ६ ॥ * * यत एवं बहुत्वे दोषः अतः । ॥ एकः शास्ता स चैकस्त्वमेवेति प्रथमपक्षोऽभिमत इत्याहुरित्याह । अत इति । शुभाशुभविवेचनः शुभाशुभविवेककर्ता ।। ७-१० ।। जीव गोस्वामिकृतः क्रमसन्दर्भ : लोकसंशयमिति । स्वस्य तु न संशय इति भावः ॥ १-६ ॥ तत्राहुः । नारायण इति ॥ १० ॥ अथ तेषां ज्ञानाय किञ्चिचेष्टादिकमुच्यतां विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी T तृतीये तु यमं प्राहुर्दूतास्ते स्वावमाननम् । स च तान् शिक्षयामास भक्तरैश्वर्यमद्भुतम् ॥ कृष्णभक्तैः स्वभक्तैश्च यमो यद्यपि धिक् कृतः । न चुकोप प्रत्युत स्वाशिक्षणादनुतप्तवान् ॥ विष्णुदूतैर्निर्णीत शास्त्रार्थ यममुखेनापि द्रढयितुं तृतीयाध्यायमारभते । तत्र यदुक्तं यमराज्ञे यथासर्वमाचचक्षुरिति तत्र ततः किं वृत्तमिति पृच्छति । निशम्येति । नैदेशिकैहरेराज्ञाकारिभिरेवं विहतान् तान् स्वयंश्च हताज्ञः ।। १ ।। * कुतश्वन हे ऋषे ! कस्मादपि न श्रुतपूर्वः एतत् एतम् ।। २-३ ।। * सर्वलोकपराभवप्रदा वयमप्येवं पराभवं सहामहे तदद्य तेषां चतुर्णां चतुर्भुजानां शास्ति कारयित्वा तमेवाजामिलं नरकमेवानेष्यामः यद्यानेतुं न शक्नुमस्तर्ह्यस्य खद्योतस्य दूत्यमेवातः परं न कुर्म इत्यन्तः कोपगद्दाक्षर साक्षेपमाहुः । कतीति । त्रैविध्यं त्रिविधम् ॥ ४ ॥ * * सन्तु बहवस्तत्र को बाध इत्यत आहु: । यदीति । कर्मफलं हि द्विविधं मृत्युर्नरकममृतं स्वर्गः तयोर्द्वयोरेवस्वत्वमारोपयितुमिच्छतां तेषां मध्ये, कस्य ते द्वे स्यातामपि तु विरोधे सति न कस्यापीत्यर्थः । दैवादैकमत्येन तेषामविरोधे सति कस्य वा न स्यातामपि तु ते द्वे अपि सर्वस्य स्यातां न त्वेकं विनिगमनाभावादिति पुनर्विरोध एव भवेदिति भावः ॥ ५ ॥ * * ननु बहूनां कर्मिणां व्यवस्थयैव बहवः शास्तारो भवन्तु तथा सति नायं दोषः स्यात्तत्राहुः । किन्त्विति । सर्वशास्तर्येव शास्तृत्वं मुख्यमेकदेशे तूपचार एव । यथा चक्रवर्त्तिनः एव मुख्यं शास्त्रत्वं मण्डलवर्त्तिनां कर्मिणां त्वौपचारिकं निरङ्कुशत्वाभावात् ।। ६-७ ॥ * * विप्रलम्भिता वनिता खण्डितेत्यर्थः ॥ ८ ॥ * केन प्रकारेणेत्यत आहुः । नीयमानमिति । तेन तानत्रानीय यदि तदपराधदण्डं दातुं त्वं पारयिष्यसि तदैव त्वं शास्ता अस्माकमपि दुःखाग्निर्निर्वातीति भावः ॥ ६ ॥ * * ननु ते स्वप्रभुस्थानं गताः सम्प्रति के तानत्रानयन्तु यतो दण्डयामीति चेत्तत्राहुः । तांस्ते त्वत्तो महासर्वज्ञत्वात् वेदितुमिच्छामः कस्य ते दूताः क वसन्तीति आनेष्यामस्तु बलाद्वयमेवेति भावः । यदि नः क्षमं हितं मन्यसे अन्यथा पराभवासहिष्णुतया वयं मरिष्याम एवेति भावः । तान् ज्ञातुं तेषां चेष्टितं किमपि ब्रूथेति वेदहो हन्ताद्भुतं तेषां धाष्टर्यमित्याहुः । नारायणेतीति । माभैममैषीरिति पापिनमप्यु- चुरहो अन्याय इति भावः ॥ १० ॥ १३.
" ९८ श्रीमद्भागवतम् शुकदेवकृतः सिद्धांतप्रदीप: [ स्कं. ६ अ. ३ श्लो. १-१०/- हरिपार्षद वाक्यैर्भगवद्भक्तैः सर्वपापनिवर्तकत्वं सर्व पुरुषार्थदत्वं चोक्त्वाथ श्रीशुकः यममतेन खमतेन च श्रीभगवद्भक्तेः सर्वपापनिष्कृतित्वं सर्वपुरुषार्थप्रदत्वं चाह तृतीयेनाध्यायेन । यमराज्ञे तथा सर्वमाचचक्षुरित्युक्तं तदनन्तरं यमराजः किमुक्त- वानिति पृच्छति । यस्य वशे अयं सर्वोऽपि जनः स एवमुक्तप्रकारेण मुरारेनैदेशिकैः हता आज्ञा यस्य सः स्वभटोपवर्णितं श्रुत्वा मुरारेनैदेशिकैर्विहतान् स्वभटान् प्रति किं प्रत्याह प्रत्युत्तरमाह ॥ १ ॥ * * * हे ऋषे ! यमस्य दण्डभङ्गः कुतश्चन कस्मादपि श्रुतपूर्वो नासीत् एतदेनं मे मम सर्वस्य लोकस्य च संशयं त्वदन्यो न हि वृश्चति छिनत्ति अतः कथयेति शेषः ॥ २ ॥ * * प्रतिहतः उद्यमो येषां ते ॥ ३ ॥ * * त्रैविध्यं स्वार्थे ष्यन् विहितं निषिद्धं मिश्रं कर्म कुर्वतः जीवलोकस्य फलानां सुखादीनामभिव्यक्तेनिष्पत्तेर्हेतवः शास्तारः शिक्षकाच कति सन्ति ॥ ४ ॥ * * एवं चुभिताः कति शास्तारस्सन्तीत्याक्षिप्य किञ्चिद्वैर्य्यमवलम्ब्य बहुशास्त्रसम्भवकथनपूर्वकमेकस्यैव धर्मराजस्य शास्तृत्वं स्वयमेवाहुः । यदीति त्रिभिः । यदि बहवः शास्तारः लोके स्युः तर्हि मृत्युर्मरणममृतं जन्म चेत्युभे कस्य शास्तुराज्ञया वा स्यातां कस्य वा नैव स्यातामित्यन्वयः । लोके यदा बहूनां शास्तॄणां पृथक पृथक बुद्धयः बहूनि च प्राणिकर्माणि तत्र कस्यचिच्छास्तुः किञ्चित्कर्म- विशेषमवलम्ब्य प्राणिजन्ममरणे कस्मिंश्चिद्देशे काले संमते अन्यस्यान्यत्कर्मविशेषमवलम्ब्यान्यस्मिन् देशे काले संमते तत्र कस्याज्ञया ते स्यातां कस्य नेत्यर्थः । अतो बहवः शास्तारो न सम्भवन्त्येक एव सम्भवतीति भावः ॥ ५ ॥ * * किंतु इह कर्मलोके बहूनां कर्मिणां शास्तृबहुत्वे शास्त्रत्वमुपचार औपचारिकं स्यात् मुख्यं तु शास्तृत्वेमेकस्यैव सम्भवति यथा मण्डल- बर्तिनामौपचारिकं सार्वभौमस्य मुख्यं शास्तृत्वं सुप्रसिद्धम् ।। ६ ।। * * अतो हेतोः सेश्वराणाम् ईश्वरैर्नानानियन्तृभिः सहितानां त्वमेक एव शास्ता नियन्ता ॥ ७ ॥ * * अधुना ते आज्ञा विप्रलम्भिता लङ्घिता ॥ ८ ॥ * * ते प्रसह्य बलात् पाशान् छित्त्वा पातकिनं व्यमोचयन् विमोचितवन्तः ॥ ६ ॥ * * यदि नो क्षमं योग्यं तद्वेदनं मन्यसे तहि ते त्वत्तो वेदितुमिच्छामः ॥ १० ॥ गोस्वामिगिरिधरलाल विहिता बालप्रबोधिनी तृतीये सर्वसन्देहनाशाय भक्तिवर्त्मनि । यममुखेन निर्णीतः सिद्धान्तो विनिरूप्यते ॥ १ ॥ यदुक्तं यमराज्ञे यथा सर्वमाचचचुरिति तत्र तच्छ्रुत्वा स किमुवाचेति पृच्छति - निशम्येति । स्वभटैरुपवर्णितं वृत्तं निशम्य श्रुत्वा तान् स्वभटान् प्रति धर्मराजोऽपि किमाहेत्यन्वयः । किं यद्भगवत्पार्षदैरुक्तं तदेव सोऽप्याह अन्यद्वेत्यपिशब्दार्थः । अन्यथावचनं न सम्भवति यतो धर्मराज इति धर्मराजनामग्रहणेन सूचितम् । अन्यथावचनमपि सम्भवति तत्र हेतुमाह- एवमिति, एवमुक्तप्रकारेण मुरारेनैदेशिकैः किङ्करैर्हता आज्ञा यस्य सः । स्वभृत्यसन्तोषार्थमपि अन्यथावचनं सम्भवतीत्यभिप्रेत्य भटान् विशिनष्टि - विहतानिति । एवं मुरारेनँदेशिकैर्विहतान् विरस्कृत्य परिवर्तितानित्यर्थः । ननु तथापि सामर्थ्यं नास्ति चेत्कथमन्यथावचनं सम्भवतीत्याशङ्कयाह-यस्येति । अयं सर्वोऽपि जनो यस्य वशवर्तीत्यर्थः । तत्रापि हेतुमाह- देव इति ॥ १ ॥ $ * यमः किमपि ब्रवीतु त्वया तु नाममाहात्म्यं श्रुतमेवातस्तत्सङ्कीर्त्तनादिना कृतार्थो भवेति चेत्तत्राह- यमस्येति । हे ऋषे इति सम्बोधनं सर्वज्ञत्वसूचनाय । यमस्य देवस्य दण्डभङ्ग आज्ञापरिवर्त्तनं कुतश्व न कस्मादपि सकाशात् श्रुतपूर्वी नासीत् । अतः सर्वस्यापि लोकस्य कर्मनिष्ठस्य श्रोतृजनस्य संशयो भवति, भगवत्पार्षदैर्यन्नाममाहात्म्यं निर्णीतं तद्यथार्थ वा स्वस्वाम्युत्कर्षख्यापनाय आग्रहेण तथोक्त्वा बलात्कारेण वा यमदूता निवारिता इति, तमेतत् एतं लोकसंशयं त्वत् त्वत्तोऽन्यो हि यस्मान्न छिनत्ति अल्पज्ञत्वाच्छेत्तु ं न शक्नोतीति तु मे मम निश्चितम् । अतो भवानेव सर्वज्ञत्वाद्यत्स्वभटान् प्रति यमेनोक्तं तत्कर्मिजनसंशयनिवृत्त्यर्थं ब्रवीत्विति शेषेणान्वयः । सर्वज्ञत्वे हेतुं सूचयन् सम्बोधयति हे-मुने इति । मनन- शीलत्वात् सर्वज्ञ ऋषिस्त्वमिति भावः ॥ २ ॥ * * * भगवतः पुरुषैः प्रतिहत उद्यमो येषां ते याम्याः यमदूताः स्वपतिं यमं विज्ञापयामासुरित्यन्वयः । अयमस्माकं स्वाम्येव सर्वेश्वरः सर्वदण्डने समर्थः अतोऽस्मै सर्ववृत्तं विज्ञाप्यानेन चतुर्णां शास्ति कारयित्वा तमजामिलमानेष्याम इति दूतानामभिप्रायं सूचयन् यमं विशिनष्टि - संयमनीपतिमिति । राजदूतानां स्वस्वामिनि सर्वोत्कृष्टत्वबुद्धिः स्ववृत्तज्ञापनं च प्रसिद्धमेवेति सूचयन् सम्बोधयति - हे राजन्निति ॥ ३ ॥ तद्विज्ञापनमेव दर्शयति- कति सन्तीति सप्तभि: । हे प्रभो स्वामिन् त्रैविध्यं त्रिविधं सत्त्वादिगुणत्रयहेतुकं पुण्यपापमिश्रात्मकं कर्म कुर्ब तो जीवलोकस्य शास्तारः शिक्षकाः कर्मफलस्याभिव्यक्तिहेतवो दातार इह त्रिलोक्यां कति सन्तीति वै निश्चयो वक्तव्यः ॥ ४ ॥ * * सन्तु बहवः को बाधस्तत्राहु: - यदीति । यदि लोके बहवः शास्तारो निर्णयकर्त्तारः दण्डधारिण इत्युपलक्षणं शुभाशुभफलदातारोस्क. ६ अ. ३ श्लो. १-१०1 अनेकव्याख्या समलङ्कृतम् बहवः स्यु तर्हि तेषां वैमत्यं वा ऐकमत्यं वा स्यात् । आद्ये दोषमाह- कस्येति, मृत्युः पापफलं दुःखं, अमृतं पुण्यफलं सुखमेव वा कस्य स्यातामित्यन्वयः । अयं धर्मात्माऽतोऽस्य सुखं देयमित्येकः प्रवर्त्तते अयं पापीयानित्यस्य दुःखं देयमित्यन्यः प्रवर्त्तते इति परस्परविरोधेन उभयोरपि प्रतिबन्धादुभे अपि कस्यापि न स्यातामित्यर्थः । द्वितीये दोषमाह-न वा कस्येति, ऐकमत्येन परस्पर कार्यानुमोदनेन उभयोरपि प्राप्तेः कस्य वा ते उभे अपि न स्यातां किन्तु सर्वस्यैव वोभे अपि स्वातामित्यर्थः । तथा उभयथाऽपि पापिन एव दुःखं धर्मात्मन एव सुखमिति मर्यादाभङ्ग इति भावः ॥ ५ ॥ * * ननु बहूनां कर्मिणां व्यवस्थया बहवः शास्तारो भवन्तु तथा सति नायं दोषः स्यात्तत्राहु: - किन्त्वति । बहूनां कर्मिणां व्यवस्थया यच्छास्तृबहुत्वे शास्तृत्वं स्यात् किन्तु तत्तु यथा मण्डलवर्तिनामेकदेशवृत्तित्वादुपचारमात्रं तथा स्यात् निरङ्कुशत्वाभावात् । चक्रवर्त्तिवन्मुख्यं शास्तृत्वं न स्यात्तथाच मुख्यः शास्ताऽन्य एव कल्प्यः स्यादिति भावः ॥ ६ ॥ * * यस्मादेवं शास्तृबहुत्वं न घटतेऽतोऽ- स्मशाने तु सेश्वराणां देवैः सहितानां सर्वभूतानां त्वमेक एवाधीश्वरः स्वामी शास्ता शिक्षकः नृणामधिकारिणां शुभाशुभविवे- चकः पुण्यपापनिर्णायकः दण्डधरः पापिनां पुण्यवतां सुखदश्चेति ज्ञेयम् ॥ ७ ॥ * * सत्यमस्त्येवं तत्र किमिति चेत्तत्राहु: - तस्येति । तस्यैवम्प्रभावस्य ते तव विहितो निरूपितः - विहतपाठे तु खण्डितः - दण्डो लोकेऽधुना न वर्त्तते न प्रवर्त्तते इत्यन्वयः । कुत्र किं वृत्तमित्यपेक्षायामाहुः - चतुर्भिरिति सार्द्धेन, चतुर्भिरद्भुतैरद्भुतरूपैः सिद्धैः समर्थैस्तेजस्विभिः महाबलैः ते तवाज्ञा विप्रलम्भिता वञ्चिता उल्लङ्घितेत्यर्थः ॥ ८ ॥ कथमिति चेत्तत्राहुः - नीयमानमिति । तबादेशादाज्ञातः अस्माभिर्यातनागृहान् प्रति नीयमानं पातकिनमजामिलं प्रसह्य बलात्कारेण पाशांछित्वा ते सिद्धपुरुषा व्यमोचयन्नित्य- न्वयः ॥६॥ * * तेषु यमस्य क्रोधोत्पादनायैवमुक्तेऽपि तत्स्वरूपश्रवणेन भगवदपराधं मत्वा भीतं शुष्यद्वदनं यमं विलोक्य स्वयमपि भीता आहु:- तानिति । नारायणेत्यभिहिते सति मा भैः भयं मा कुर्विति वदन्तो द्रुतं शीघ्रमाययुः आगतांस्तान् ते त्वत्तो वेदितुमिच्छामो यदि नोऽस्माकं क्षमं हितं मन्यसे तर्हि वदेति शेषेणान्वयः । अन्यथाऽज्ञानतत्वज्ञाने सति कालान्तरे तवास्माकं चानर्थः स्यात्तेषामतर्क्यप्रभावत्वादिति भावः ॥ १० ॥ भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी यमेन वैष्णवोत्कर्ष वर्णनैर्हि तृतीयके । स्वदूतान् सान्त्वयित्वा ते किंकरा वैष्णवे कृताः ॥ १ ॥ । राजन्, 5 ? एवमितिहासद्वारा संश्रुत नारायणनाममाहात्म्यो नृपतिः, ‘पतिं वः पृच्छत इति धर्मेऽस्मिन् यदि संशयः । स वेद परमं गुह्यं धर्मस्य भगवान् यमः’ इति भगवत्पार्षदैराप्ततमत्वेनाभिहितं भगवन्नाममाहात्म्यं, यममुखेन प्रथयितुं पृच्छति द्वाभ्याम् । निशम्येति । एवमित्थं, देवो धर्मराजः स्वभटोपवर्णितं स्वदूतैः संप्रोक्तं निशम्य संश्रुत्य मुरारेर्भगवतः नैदेशिकैराज्ञा- कारिभिः, किंकरैरिति यावत् । विहतान् तान् स्वकिंकरान् प्रति यस्य धर्मराजस्य वशे वशवर्त्ती, अयं सांसारिकः जनः, सकलोऽपि लोकः, भवति । हता निराकृता आज्ञा यस्य तथाभूतः सन् किं प्रत्याह प्रत्युक्तवान् ॥ १ ॥ * * यमस्येति । हे ऋषे, देवस्य यमस्य, दण्डभङ्ग आज्ञाभङ्गः, कुतश्चन कस्माच्चित्सकाशादपि, पूर्व श्रुतः श्रुतपूर्वः न आसीत् । पाठान्तरे, स उक्तप्रकारः दण्डभङ्गः, कुतश्च कुतश्चिदपि, आसीत् किम् । श्रुतपूर्वोऽपि नासीत् । हे मुने एतत् लोकसंशयं एतस्मिन्नर्थे लोकानां महान् संशयो वर्त्तते तमित्यर्थः । त्वदन्यः, न हि वृश्चति । इति मे मया सुनिश्चितम् । अस्योत्तरविधाने ऽन्यस्याशक्यत्वदर्शना- त्वमेवास्योत्तरं कुर्वित्यर्थः ॥ २ ॥ उत्तरमाह मुनिः । भगवत्पुरुषैरिति । हे राजन्, भगवत्पुरुषैः भगवत्कि करैः प्रतिहतो निराकृत उद्यमो येषां ते, याम्या यमभटाः संयमनीपतिं स्वस्वामिनं यमं विज्ञापयामासुः स्ववृत्तं कथयां- चक्रुः ॥ ३ ॥ ॐ* * विज्ञप्तिप्रकारमेवाह । कतीत्यादिना आययुर्द्धतमित्यन्तेन । प्रभो यम, इह लोके, इह लोके, त्रिविधमेव त्रैविध्यं, स्वार्थे ष्यन् । पुण्यपापतदुभयमिश्ररूपेण त्रिविधमित्यर्थः । कर्म कुर्वतः, । कर्म कुर्वतः, जीवलोकस्य शास्तारः, फलस्य सुखादिरूपस्य याभिव्यक्तिः प्रादुर्भावस्तस्या हेतवश्च कति कतिसंख्याकाः सन्ति वै ॥ ४ ॥ * * सन्तु बहव: को वा बाधस्तत्राहुः । यदीति । लोके यदि शास्तारः दण्डधारिणश्च बहवः स्युः तहिं मृत्युर्दुःखम् अमृतं सुखं च, कस्य स्याताम् एव, कस्य वा न स्याताम् वा एव । शास्तॄणां दण्डधारिणां च विप्रतिपत्तेः । यत एकः सुखं कत्तु मिच्छेत्तदान्यो दुःखं कत्तुमिच्छेत् तयोरैकमत्ये च परस्परकार्यानुमोदनेन उभयोरपि तयोः प्राप्तेरप्राप्तेश्च ते उभे अपि सुखदुःखे स्यातां न स्यातां चेत्यर्थः ॥५॥ ** ननु बहूनां कर्मिणां सत्त्वात् व्यवस्थया बहवः शास्तारो भवन्तु तथा सति नायं दोषः स्यात्तत्राहुः । किं त्विति । इह, बहूनां कर्मिणां शास्तृबहुत्वे व्यवस्थया शासक बहुभावे, यथा मण्डलवर्त्तिनां राज्ञां शास्तृत्वम् उपचारः, किं तु एवं त्वय्यपीति शेषः । शास्तृत्वं उपचारः स्यात्, हि । न तु मुख्यमित्यर्थः ॥ ६ ॥ * * नन्वस्त्वेवमिति चेत्त्वच्छासनं तु, निरङ्कुशं दृष्टमतः साङ्कुशबहुशास्तृवत्तव तन्न घटते इत्यभिप्रेत्य एकशास्तुरपि तव तदिदानीं निहतमित्याहु: । अत इति । अतः वस्तुतस्त्वय्येवा- श्रीमद्भागवतम् [ स्कं. ६ अ ३ श्लो. १-१० ॐ साधारणशास्तृत्वाद्धेतोः सेश्वराणां भूतानाम्, अधीश्वरः, त्वम् एकः एव । ततश्च नृणां दण्डधरः, शास्ता शुभाशुभविवेचनश्च त्वम् एकः एव ॥ ७ ॥ * * तस्येति । तस्यैवंभूतस्य, ते तब, दण्डः शासनं, लोके कापि सर्वथैतत्कालपर्यन्तं विहतः न । अधुना तु अद्भुतैरद्भुतरूपैः, चतुर्भिः सिद्धैः ते तब, आज्ञा विप्रलम्भिता व्यर्थीकृता ॥ ८ ॥ कथं विप्रलम्भितेत्यत्राहुः । नीयमानमिति । तव आदेशात, अस्माभिः, यातनागृहान् नरकान् प्रति नीयमानं पातकिनं, ते सिद्धाः प्रसह्य बलात्, पाशान् छित्वा, व्यमोचयन् ॥ ९ ॥ * * तानिति । तान् सिद्धान् ते स्वत्तः वेदितुं इच्छामः । यदि नोऽस्माकं क्षमं हितं मन्यसे, तर्हि वद । तान् तद्बलं तदधिपतिनाम तत्प्रभावादिकं सर्व वेदितुमिच्छामस्ततस्तत्सर्व नः कथयेति भावः । ननु तत्र ते कया रीत्याऽऽजग्मुस्तत्राहुः । नारायण इत्येतस्मिन् शब्दे अभिहिते प्राणान्तसमये उच्चारिते सति, द्रुतं शीघ्रमेव मा भै:, इति ब्रुवाणाः सन्तः, आययुः आजग्मुः ॥ १० ॥ A भाषानुवादः यम और यमदूतोंका संवाद राजा परीक्षितने पूछा भगवन् ! देवाधिदेव धर्मराजके वशमें सारे जीव हैं और भगवान के पार्षदोंने उन्होंकी आज्ञा भङ्ग कर दी तथा उनके दूतोंको अपमानित कर दिया। जब उनके दूतोंने यमपुरीमें जाकर उनसे अजामिलका वृत्तान्त कह सुनाया, तब सब कुछ सुनकर उन्होंने अपने दूतोंसे क्या कहा ? ॥ १ ॥ * * ऋषिवर! मैंने पहले यह बात कभी नहीं सुनी कि किसीने किसी भी कारणसे धर्मराजके शासनका उल्लङ्घन किया हो । भगवन् ! इस विषय में लोग बहुत सन्देह " करेंगे और उसका निवारण आपके अतिरिक्त दूसरा कोई नहीं कर सकता, ऐसा मेरा निश्चय है ॥ २ ॥ * * श्रीशुकदेवजीने कहा- परीक्षित् ! जब भगवान के पार्षदोंने यमदूतों का प्रयत्न विफल कर दिया, तब उन लोगोंने संयमनीपुरीके स्वामी एवं अपने शासक यमराजके पास जाकर निवेदन किया ॥ ३ ॥ * * यमदूतोंने कहा - प्रभो ! संसारके जीव तीन प्रकारके कर्म करते हैं- पाप, पुण्य अथवा दोनोंसे मिश्रित । इन जीवोंको उन कमका फल देनेवाले शासक संसार में कितने हैं ? ॥ ४ ॥ * यदि संसारमें दण्ड देनेवाले बहुत-से शासक हों, तो किसे सुख मिले और किसे दुःख- और दु: इसकी व्यवस्था एक-सी न हो सकेगी ॥ ५ ॥ * * " अनेक संसारमें कर्म करनेवालोंके होनेके कारण यदि उनके शासक भी अनेक हों, तो उन शासकोंका शासकपना नाममात्रका ही होगा, जैसे एक सम्राट के अधीन बहुत-से नाममात्र के सामन्त होते हैं ॥ ६ ॥ * * इसलिये हम तो ऐसा समझते हैं कि अकेले आप ही समस्त प्राणियों और उनके स्वामियोंके भी अधीश्वर हैं । आप ही मनुष्यों के पाप और पुण्यके निर्णायक, दण्डदाता और शासक हैं ॥ ७ ॥ * * प्रभो ! अबतक संसारमें कहीं भी आपके द्वारा नियत किये हुए दण्डकी अवहेलना नहीं हुई थी; किन्तु इस समय चार अद्भुत सिद्धोंने आपकी ! आज्ञाका उल्लङ्घन कर दिया है ॥ ८ ॥ * प्रभो ! आपकी आज्ञासे हमलोग एक पापीको यातनागृहकी ओर ले जा रहे थे, परन्तु उन्होंने बलपूर्वक आपके फंदे काटकर उसे छुड़ा दिया ।। ९ ।। * हम आपसे उनका रहस्य जानना चाहते हैं। यदि आप हमें सुननेका अधिकारी समझें तो कहें। प्रभो ! बड़े ही आश्चर्यकी बात हुई कि इधर तो अजामिलके मुँह से ‘नारायण !’ यह शब्द निकला और उधर वे ‘डरो मत’ ‘डरो मत!” कहते हुए झटपट वहाँ आ पहुँचे ॥ १० ॥ श्रीशुक उवाच इति देवः स आपृष्टः प्रजासंयमनो यमः । प्रीतः खदूतान् प्रत्याह स्मरन् पादाम्बुजं हरेः ॥ ११ ॥ यम उवाच परो मदन्यो जगतस्तस्थुपच ओतं प्रोतं पटवद्यत्र विश्वम् । यदशतोऽस्य स्थितिजन्मनाशा नस्योतवद् यस्य वशे च लोकः ॥ १२ ॥ यो नामभिर्वाचि जनान्निजायां बध्नाति तन्त्यामिव दामभिर्गाः । यस्मै बलिं त इमे नामकर्मनिबन्धनद्धावकिता वहन्ति ॥ १३ ॥ १. प्रा० पा० - बादरायणिरुत्राच । स्कं. ६ अ. ३ श्लो. ११-२० ] अनेकव्याख्यासमलङ्कृतम् अहं महेन्द्रो निर्ऋतिः प्रचेताः सोमोऽग्निरीशः पवनोऽकों विरिवः । TEXTR आदित्यविश्वे वसवोऽथ साध्या मरुद्गणा रुद्रगणाः ससिद्धाः ॥ १४ ॥ अन्ये च ये विश्वसृजोऽमरेशा भृग्वादयोऽस्पृष्टरजस्तमस्काः । यस्येहितं न विदुः स्पृष्टमायाः सवप्रधाना अपि किं ततोऽन्ये ।। १५ ॥ यं वै न गोभिर्मनसासुभिर्वा हृदा गिरा गिरा वासुभृतो विचक्षते । चतुर्यथैवाकृतयस्ततः परम् ।। १६ ।। आत्मानमन्तर्हृदि सन्तमात्मनां मनां चक्षुर्यथैवाकृतयस्ततः तस्यात्मतन्त्रस्य हरेरधीशितुः परस्य मायाधिपतेर्महात्मनः । व ॥ १८ ॥ १८ ॥ प्रायेण दूता इह चै मनोहराश्वरन्ति तद्रूपगुणस्वभावाः ॥ १७ ॥ भूतानि विष्णोः सुरपूजितानि दुर्दर्शलिङ्गानि महाद्भुतानि । रक्षन्ति तद्भक्तिमतः परेभ्यो मत्तश्च मर्त्यानथ सर्वतश्च ॥ धर्मं तु साक्षाद्भगवत्प्रणीतं न वै विदुर्ऋषयो नापि देवाः सिद्धमुख्या असुरा मनुष्याः कुतश्व विद्याधरचारणादयः ।। १९ । स्वयम्भूर्नारदः शम्भुः कुमारः कपिलो मनुः । प्रह्लादो जनको भीष्मो बलिवैयासकिर्वयम् ॥ २० ॥ न कृष्णप्रिया व्याख्या *१०१ ire to rive T ! ऋ अन्वयः - इति पृष्टः देव प्रजासंयमनः सः यमः प्रीतः हरेः पादाम्बुजं स्मरन् स्वदूतान् प्रत्याह ॥ ११ ॥ मदन्यः जगतः च तस्थुषः परः यत्र विश्वं पटवत् ओतं प्रोतं यदशतः अस्य स्थितिजन्मनाशा: च नसि ओतवत् लोकः यस्य वशे ॥ १२ ॥ * * यः जनान् नामभिः निजायां वाचि गाः दामभिः | तन्त्याम् इव बध्नाति नामकर्मनिबन्धबद्धाः ते इमे चक्रिताः यस्मै बलिं वहति ॥ १३ ॥ अहं महेंद्र: निर्ऋतिः प्रचेताः सोमः अग्निः ईशः पवनः अर्क : विरिवः आदित्याविवे वसवः अथ साध्याः मरुद्गणाः ससिद्धाः रुद्रगणाः अन्ये च ये विश्वसृजः अमरेशाः अस्पृष्टरजस्तमस्का: सत्त्वप्रधानाः भृग्वादयः यस्य ईहितं न विदुः ततः स्पृष्टमायाः अन्ये किम् ।। १४-१५ ।। * * असुभृतः यम् आत्मना अंतर्हृदि आत्मानं यथा एव आकृतयः ततः परं चक्षुः विचक्षते तथा वै गोभिः मनसा वा असुभिः हृदा गिरा न विचक्षते ॥ १६ ॥ * * तस्य आत्मतन्त्रस्य अधीशितुः परस्य मायाधिपतेः महात्मनः हरेः मनोहराः ॥ तद्रूपगुणस्वभावाः दूताः इह प्रायेण वै चरंति ॥ १७ ॥ * * अथ सुरपूजितानि दुर्दर्शलिंगानि महाद्भूतानि विष्णोः भूतानि तद्भक्तिमतः मर्त्यान् मत्तः च परेभ्य च सर्वतः रक्षति ॥ १८ ॥ ऋषयः साक्षात् भगवत्प्रणीतं धर्म तु वै न विदुः देवाः अपि न सिद्धमुख्याः असुराः मनुष्याः न च विद्याधरचारणादयः कुतः ॥ १६ ॥ स्वयंभूः नारदः शम्भुः कुमारः कपिल : मनुः प्रह्लाद : जनक: भीष्मः बलिः वैयासकिः वयम् ॥ २० ॥ श्रीधरस्वामिविरचिता भावार्थदीपिका । प्रजाः संयमयतीति तथा ॥ ११ ॥ * मत्तोऽन्यो जगतस्तस्थुषश्च परोऽस्ति । अहं तु जंगमानामेव तत्रापि नृणामेव तत्रापि पापीनामेव तत्किंकरः सभीश्वरः स तु सर्वेश्वरः कोऽसौ । यत्र यस्मिन्विश्वमोत प्रोतं चोर्ध्वतिर्यक्ततुषु पटवत् । यस्य त्वंशेभ्यो विष्णुब्रह्मरुद्रेभ्योऽस्य स्थित्यादयो भवति यस्य च वशे लोको वर्तते नसि नासिकायाम् ।। १२ ।। प्रती ॥ १२ ॥ एतत्प्रपंचयति । ब्राह्मणादिनामभिर्वाचि निजायां तंत्यां दामन्यां जनान्यो बध्नाति दामभिर्गा बलीवर्दानिव त इमे जीवा नामकर्मभिर्निबधैर्दृढबंव साधनैर्बद्धा यस्मै बलि वहति यदधीना कर्म कुर्वती- यर्थः ॥ १३ ॥ यस्य च लीला दुर्विभाव्येत्याह अहमिति द्वाभ्याम् ॥ १४ ॥ न स्पृष्टं रजस्तमश्च यैस्ते । * म १. प्रा० पा० - वासुधुतो । २. प्रा० पा० कुतो नु । लोक १०३ श्रीमद्भागवतम् [ स्कं. ६ अ. ३ श्लो. ११-२० ईहितमभिप्रेतं चेष्टितं वा न विदुः । तत्र हेतुः । स्पृष्टमाया मायया स्पृष्टाः । ततस्तेभ्योऽन्ये न विदुरिति किं पुनर्वक्त- व्यम् ॥ १५ ॥ ॐ ॐ तन्मायया विमोहितत्वान्न जानं तीत्युक्तमविषयत्वाच तस्येत्याह । यमिति । गोभिरिंद्रियैर्हृदा । चित्तेन न विचक्षते न पश्यंति । “यद्वाचानभ्युदितम् । यन्मनो न मनुते” इत्यादिश्रुतेः । आत्मनां जीवानामात्मानं द्रष्टारम् आकृतयो रूपाणि चतुर्यथा कर्मभूतं न जानंति ततः परमाकृतीनां प्रकाशकम् । न हि प्रमाता प्रमाणस्य विषय इति भावः । एवंभूतः परमेश्वरो मदन्योऽस्तीति पूर्वेणैव संबंधः ॥ १६ ॥ भवत्वेवंभूतोऽन्यः परमेश्वरो ये पुनरस्मान्निर्भर्त्य पापिनं रक्षितवंतस्ते के तानाह द्वाभ्याम् । तस्येति । तस्येव रूपं गुणाः प्रभावादय: स्वभावो भक्तवात्सल्यादिर्येषां ते ।। १७ ।। * * विष्णोर्भूतानि भृत्याः दुर्दर्शानि द्रष्टुमप्यशक्यानि लिंगानि रूपाणि येषां तानि । तद्भक्तिमतो विष्णु- भक्तान् । परेभ्यः शत्रुभ्यो मत्तो मत्सकाशात् सर्वतोऽग्न्यादिभ्यश्च रक्षति ॥ १८ ॥ ननु विष्णुभक्ताश्चेत्कथमधर्म- पक्षपातं कृतवंतस्तत्राह धर्ममिति । ऋषयो भृग्वादयः ॥ १९ ॥ * * ननु केऽपि चेन्न जानंति तस्य सत्त्वे किं प्रमाणं तत्राह । स्वयंभूरिति । कुमारः सनत्कुमारः । वयमित्यात्मानमेव भागवतत्वलाभात् बहु मन्यमानो निर्दिशति ।। २० ।।
वंशीधरकृतो भावार्थ दीपिकाप्रकाशः W प्रीतः श्रीनारायणपुरुषत्वनिर्णयात् पूर्व त्वन्यदीयज्ञानाद्दुःखमासीदिति भावः ॥ ११ ॥ * * अयमर्थ:- पटवत् यथा कंथापटः सूत्रे तंतौ दीर्घतया ओतस्तिरचीनतया प्रोतस्तत्वाधारत्वेन स्थितः तथेदं विश्वं यत्र परमात्मनि ओतप्रोतधर्मेण तदाधारत्वेन स्थितं यस्मिन्निदं सर्व “परमे व्योमन्सर्वाभूतानि” इति श्रुतेरेतल्लक्षणमव्याप्त्यतिव्याप्त्यादिदोषरहितं यद्यस्य धारको न स्यात्तर्हि पतिष्यति वेगाख्यसंस्काररहितशरवदित्यादितर्काश्च लक्षणांतरमाह-यदंशत इति । “यतो वा इमानि” इति श्रुतेः । ‘यदा यदा हि धर्मस्य’ इति स्मृतेर्व्याप्तरूपमंतरेण रूपान्तरेणापि धारकत्वमस्यैवेति निश्चयाय वशशब्देन पुनर्ग्रहणम् । एवमपि जातपक्षपक्षिवत्पुनरस्याधीनं न स्यादिति चेत्तत्राह - नसीति ।। १२ ।। एतत् तद्वशवर्त्तित्वम् । निजायां स्वस्मादभिव्यक्तायां नित्यायां वा ‘निजमात्मीयनित्ययोः’ इत्यभिधानात् । चकिता भीताः । इत्यर्थ इति । स एव सर्वेश्वर इति भावः ॥ १३ ॥ अहं यमराजः ॥ १४ ॥ * * तेभ्यः पूर्वोक्तभ्योऽन्ये मनुष्यादयः ॥ १५ ॥ * * ।। ।। तत्प्रसादमं तरेणादृष्टलक्ष्यवेधवच्चक्षुरादींद्रियाविषयत्वेन तद्विषयं ज्ञानं दुर्लभमित्याह-यमिति । इन्द्रियाविषयत्वे प्रमाणमाह-यद्वा- चेति । अनभ्युदितमुच्चारितं न भवति । मनुते विषयीकरोति । अविषयत्वात् “यतो वाचो निवर्त्तते” इत्यादिश्रुतेः । इति भाव इति । प्रमाता अन्तःकरणावच्छिन्नं चैतन्यं प्रमाणमंतःकरणवृत्त्यवच्छिन्नं चैतन्यम् । अत्र न हि प्रमाणं प्रमेयस्य विषय इति पाठः सम्यक्प्रतिभाति प्रमेयं विषयावच्छिन्नं चैतन्यमिति ॥ १६ ॥ * * माया लक्ष्म्या वाऽधिपतेः संधिस्त्वार्ष: ‘इंदिरा लोकमाता मा’ इत्यमरः । अधीशितुः सर्वेश्वरस्य । मायाधिपत्यादिसत्त्वेपि परस्य तदासक्तिशून्यस्य तत्र हेतुरात्मतंत्र- स्यानन्याधीनस्य तत्रापि हेतुर्महात्मनो भूम्न इत्यर्थः । रूपं श्यामचतुर्भुजत्वादि । गुणा आदिना ब्रह्मण्यत्वादयो ग्राह्याः । पुनरादिना नित्यनिर्दोषत्वादिग्रहः । प्रायेणेत्युक्तेः कचित्तद्रूपगुणादिकं विनापि चरंति यथा हनुमदादयः ।। १७ ।। * * ‘भूतं भृत्यकुमारयोः’ इत्यभिधानचिन्तामणिः । मत्तः मम सकाशादपि मदीयेभ्यो युष्मत्तोपीत्यर्थः ॥ १८ ॥ शंकते । तुशब्देन युष्माकं सूक्ष्मज्ञानं नास्तीति सूचितम् । साक्षाद्भगवत्प्रणीतं भागवतमित्यर्थः ॥ १९ ॥ * पति - नन्विति । तस्य धर्मस्य ॥ २० ॥ । 1 अन्वितार्थप्रकाशिका * अत्रा- पुनराक्षि- इतीति । इत्येवं स आपृष्टः प्रजानां संयमनः यमो देवो नारायणनामश्रवणेन प्रीतः हरेः पादाम्बुजं स्मरन् स्वदूतान् प्रत्याह स्म ।। ११ ।। * * पर इति । यूयं यं परं जानीथ तस्मात् मत् मत्तः इत्युपलक्षणं मदुपलक्षितेभ्य इन्द्रवरुणादि- सर्वलोकपालेभ्योऽन्यः पर उत्कृष्टश्च जगतो जङ्गमस्य तस्थुषः स्थावरस्य चाधीश्वरोऽस्ति । अहं तु जङ्गमानामेव तत्रापि नृणामेव तत्रापि पापिनामेव तत्किङ्करः सन्नीश्वरः स तु सर्वेश्वरः यस्य त्वंशेभ्यो विष्णुब्रह्मरुद्रेभ्योऽस्य विश्वस्य यथाक्रमं स्थितिः पालनं जन्मोत्पत्तिः नाशः प्रलयश्च भवति । यत्र यस्मिन् ऊर्ध्वतिर्यक्तन्तुषु पटवद्विश्वमोतं प्रोतं च नसि नासिकायामोतः प्रोत- रज्जुनिबद्धः बलीवर्दस्तद्वत् लोको यस्य वशेऽस्ति ॥ १२ ॥ * * य इति । यो निजायां स्वस्मात्प्रादुर्भूतायां तन्तीस्थाना- पन्नायां वेदलक्षणायां वाचि ब्रह्मादिनामभिः खण्डरज्जुस्थानीयैर्जनान् ब्राह्मणादीन् बध्नाति तत्तदधिकारप्राप्तकर्मसु प्रयोजयति । यथा तन्त्यां दीर्घरज्ज्वां दामभिः रज्जुखण्डैर्निबद्धा गाः बलीवर्दान बध्नाति तथेत्यर्थः । त इमे जनाः नामकर्मभि: निबन्धैर्बद्धा अत एव चकिता भीताः सन्तो यस्मै बलिं वहन्ति स्वस्वकर्मभिर्यमाराधयन्ति सः सर्वेश्वरः ॥ १३ ॥ * * अहमिति ..” स्कं. ६ अ. ३ श्लो. ११-२०] अनेकव्याख्यासमलङ्कृतम् १०३ युग्मम् । अहं यमः प्रचेताः वरुणः ईशो महादेवः विश्वसृजो मरीच्यादयः अमराणामीशा बृहस्पत्यादयः अन्ये च ये मनुष्यादिषु महान्तः स्पष्टाः शेषाः न स्पष्टं रजस्तमश्च यैते तत्र हेतुः सत्त्वं प्रधानं येषां ते एवंभूता अपि स्पृष्टमायाः मायया मोहिताः एते यस्येहितमभिप्रेतं वा न विदुः ततस्तेभ्योऽन्ये न विदुरिति किं पुनः वक्तव्यम् ।। १४-१५ ॥ * * यमिति । आत्मनां स्थावरजङ्गमशरीराणां जीवानामन्तर्हृदि सन्तं विद्यमानमप्यात्मानं सर्वव्यापकं ततस्तेभ्य इन्द्रियादिभ्यः परं यं गोभिर्ज्ञानेन्द्रि यैर्मनसा सङ्कल्पात्मकेन हृदा चित्तेन असुभिः प्राणैः प्राणप्रधानैः कर्मेन्द्रियैगिरा शब्दात्मकेन शास्त्रेण च असुभृतो जीवा न विचक्षते न पश्यन्ति न जानन्ति न प्राप्नुवन्ति च । यथा आकृतयो रूपाणि कर्तृभूतानि ततः परम् आकृतीनां प्रकाशकं चतुः कर्मभूतं यथा न पश्यन्ति तथेत्यर्थः । न हि प्रयाता प्रयाणस्य विषय इति भावः । एवंभूतः सर्वेश्वरो मदन्योऽस्ति ॥ १६ ॥ * * ननु भवत्वन्य ईश्वरः परं तु अजामिलस्य रक्षितार: के इत्यत आह— तस्येति । आत्मतन्त्रस्य अधीशितुः परस्य मायाधिपतेः महात्मनः तस्य हरेः तस्यैव रूपं चतुर्भुजादिविशिष्टं गुणाः प्रभावादयः स्वभावो भक्तवात्सल्यादिर्येषां ते मनोहरा दूताच ह प्रायेण चरन्ति ॥ १७ ॥ * * भूतानीति । सुरैरपि पूजितानि दुर्दर्शानि द्रष्टुमप्यशक्यानि लिङ्गानि मूर्तयो येषां तानि यतो महाद्भुतानि अलौकिकरूपाणि विष्णोर्भूतानि भृत्यास्तद्भक्तिमतो भगवद्भक्तान् मर्त्यान् परेभ्यः कालकर्मादिभ्यो मत्तव सर्वतः सर्वत्र सर्वदैव रक्षन्ति ।। १८ ।। * * ननु ते कथमधर्मपक्षपातं कृतवन्तस्तत्राह - धर्ममिति । साक्षाद्भगवत्प्रणीतं धर्म तु सत्त्वप्रधाना ऋषयोऽपि न विदुः नापि देवाः न च सिद्धमुख्याः विदुः तदा रजः प्रधानाः असुराः मनुष्याः विद्याधर- चारणादयः कुतो विदुः ॥ १६ ॥ * * ननु केऽपि न जानन्ति चेत्तस्य सत्त्वे किं मानमित्याशङ्क्याह- स्वयंभूरिति युग्मम् । हे भटाः ! स्वयंभूर्ब्रह्मा शम्भुः शिवः कुमारः सनत्कुमारः मनुः स्वायम्भुवः वैयासकिः शुकः शेषाः स्पष्टाः । वयमिति अहमिति वक्तव्ये आत्मानमेव बहु मन्यमानो बहुत्वेन निर्दिष्टवान् । एते द्वादश वयं भागवतं भगवता प्रोक्तं गुह्यं धर्म विजानीमः । गुह्यत्वादेव स्वस्वस्मृतिशास्त्रेषु न स्फुटं प्रोक्तवन्तः । यं धर्मं ज्ञात्वैव पुरुषोऽमृतं मोक्षरूपं भगवन्तमश्नुते प्राप्नोति ।। २०-२१ ॥ वीरराघवव्याख्या एवमापृष्टो यमस्तान प्रत्याह इत्याह मुनिः । इतीत्थमाष्पृष्टः प्रजानां संयमनः संयमयति शास्तीति तथा । कर्तरि ल्युः यमो देवः प्रीतः सुप्रश्नेन हृष्टः हरेः पादाम्बुजं स्मरन् स्वदूतान् प्रत्याह ॥ ११ ॥ * * उक्तिमेवाह । पर इत्यादिना पुरुषाय भूम्न इत्यन्तेन । मन्मत्तः पर उत्कृष्टोऽन्योऽस्ति न केवलं मत्तः परः किन्तु जगतः जङ्गमात्तस्थुषः स्थावराश्चराचरात्मका- दाब्रह्मस्तम्बपर्य ताज्जगतः उत्कृष्टोऽन्योऽस्तीत्यर्थः । अतो भवन्त इव तच्छासनकारित्वान्नास्माकं मुख्यं प्रशास्तृत्वमिति भावः । कोऽसौ यत्र यस्मिन्निदं विश्वं तन्तवः पट इवौतं प्रोतमायामतो विस्तारतश्च स्यूतं सर्वतो व्याप्तमित्यर्थः । यस्य चांशतः अंशादेवास्य जगतः जन्मादयो भवन्ति नस्योत्वन्नासिकायामोतवत् प्रोतबलीवद्देवद्यस्य वशेऽयं लोकः यद्वशवर्त्ययं लोक इत्यर्थः ।। १२ ।। * एवं सर्वाभ्यधिकत्व सर्वव्यापकत्व सर्व जन्मादिका रणत्व सर्व प्रशास्तृत्वधर्मयुक्तो भगवानन्योऽस्ती- त्युक्तम् । अथान्यांश्च भगवतो धर्मान् प्रपञ्चयति । य इति । यो भगवान्निजायां वाचि वेदात्मिकायां तन्त्यां दामन्यां नामभिर्व- र्णाश्रमनामभिर्जनं दामभिर्व्रन्थिमद्रज्जुभिः स्थूलतन्त्यां गाः बलीवर्दानिव बध्नाति नामभिरित्यनेन ब्राह्मणब्रह्मचर्यादिवर्णाश्रम- नामनिर्देशपूर्वकं वेदोक्ता वर्णाश्रमधर्माः विवक्षिताः तैरीश्वराज्ञारूपायां तदुल्लङ्घने दण्डनापादिकायां वाचि बध्नाति बागधीनानि करोतीति यावत् । यस्मै च त इमे नामकर्मभिर्निबन्धः कृतः बन्धो येषां तादृशाः प्रतिनियतनामकर्माणः चकिता बिभ्यतः पूजां वहन्ति कुर्वन्तीत्यर्थः ॥ १३ ॥ * * अहं यमः प्रचेता वरुणः ईशानो रुद्रः अर्कः सूर्यः अब्जयोनिर्ब्रह्मा आदित्या अदितेः पुत्रा विश्वावसुप्रभृतयः उपदेवाः विश्वसृजः दक्षादयः अस्पृष्टं रजस्तमश्च यैः सत्त्वप्रधाना अपि यस्येहितमभिप्रायं न विदुः तत उक्तेभ्योऽन्ये न विदुरिति किं वक्तव्यम् । अवेदने हेतुः स्पृष्टा माया यैस्ते मायामोहितत्वादित्यर्थः ।। १४-१५ ।। * * असुभृतः प्राणभृतः यं गोभिरिन्द्रियैर्मनसासुभिः प्राणायामैर्हृदा चित्तेन गिरा वा कौशल्येन यं न विचक्षते न पश्यन्ति न जानन्तीत्यर्थः । कथम्भूतमात्मनां जीवानामात्मानमन्तरात्मानमन्तर्हृदि सन्तं न विचक्षते तत्र दृष्टान्तः । चक्षुरिति । आकृतयः रूपाणि ततः परमाकृतिभ्यो विलक्षणमाकृतीनां प्रकाशकं चतुरिन्द्रियं न विचक्षते तद्वदिति ॥ १६ ॥ एवं सर्ववशित्व सर्वाराध्यत्वसर्वाविज्ञाताभिप्रायत्ववाङ्मनसागोचरपरिच्छिन्न स्वरूपस्वभावत्वसर्वान्तरात्मत्वादयो धर्मा उक्ताः एभिरन्यैश्च कल्याणगुणैश्चिदचिदात्मकजगतो विलक्षणस्य स्वतन्त्रस्य मायाधिपतेरधीशितुः सर्वेश्वरस्य महात्मनो निरतिशय- प्रभावस्य हरेर्मनोहराः दूताः भगवत इव गुणरूपस्वभावा येषां तादृशा इह लोके चरन्ति ॥ १७ ॥ * * विष्णोर्भूतानि किङ्करात्मकानि भूतानि सुरैर्ब्रह्मादिभिः पूजितानि दुर्द्दर्शान्युज्ज्वलानि लिङ्गानि स्वरूपाणि येषां तानि महाद्भुतानि दृष्टविस- जातीयानि भगवद्भक्तिमतो जनान् मत्तो मृत्योश्वान्येभ्यश्च सर्वेभ्यः रक्षन्ति ॥ १८ ॥ * तद्भक्तिमतो रक्षन्तु नामायं
- 8 १०४ श्रीमद्भागवतम् [ स्कं. ६ अ. ३ श्लो. ११-२० त्वजामिलो निरतिशयदुष्कृद्भक्तिशून्यश्चेति कथमेनं रक्षितवन्तस्तत्राह । धर्ममिति । साक्षाद्भगवता प्रणीतमभिहितं धर्ममृषि- प्रभृतयस्ते विदुर्भागवतधर्मप्रभाव ईदृश इति भावः ॥ १९ ॥ * यदि केऽपि न विदुस्तर्हि स्तद्वर्मः शशविषाणवद सत्कल्पः स्यात्तत्राह । स्वयम्भूरिति । वयमहम् “अस्मदो द्वयोश्चेति बहुवचनमेकत्वे वेदितव्यम् । स्वयम्भूर्ब्रह्मा शम्भुः रुद्रः कुमारः सनत्कुमारः मनुः स्वायम्भुवः वैयासकिः शुकः ॥ २० ॥ विजयध्वजतीर्थकृता पदरत्नावली यमः स्वदूतान् प्रति वक्तीत्याह । इतीति ॥ ११ ॥ * * यदुक्तं भवद्भिस्त्वमेक एव शास्तेति तदनालोच्य कथितं मदन्यस्यात्युत्तमस्य सत्त्वादित्याह । पर इति । मदन्यो जगतो जङ्गमस्य तस्थुषः स्थावरस्य च शास्तास्ति स क इत्यत उक्तम् । परं इति “परोऽरिपरमात्मनोः” इत्यभिधानात् स शास्ता परः परमात्मा तस्य लक्षणमाह । ओतमिति । अयमर्थः पटवद्यथा कन्था पटः सूत्रे तन्तौ दीर्घतया ओतः तिरश्चीनतया प्रोतः तन्त्वाधारत्वेन स्थितः तथेदं विश्वं यत्र परमात्मनि ओतप्रोतधर्मेण तदाधारत्वेन स्थितं “यस्मिन्निदं सं च विचैति सर्व” तथा कन्था पटाः सूत्र तथा कन्था पटाः सूत्र ओताः प्रोताश्च संस्थिताः एवं विष्णाविदं विश्वमतं प्रोतं च संस्थितमित्यादिश्रुतिस्मृतिबला देतल्लक्षणमव्याप्त्यतिव्याप्त्यादिदोषरहितं यद्यस्य धारको न स्यात्तर्हि पतिष्यति वेगाख्यसंस्काररहितशरवदित्यादितर्कांश्चि लक्षणान्तरं चाह । यदशत इति । यस्यांशतो वासुदेवादिस्वरूपांशैर्भिन्नांशै- ब्रह्मादिभिरस्य जगतः स्थितिजन्मसंहाराः भवन्तीति शेषः “यतो वा इमानि भूतानि जायन्त” इत्यादिश्रुतेः । ‘यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ! अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ।।’ इत्यादेर्व्यासरूपेणापि धारकत्वं तस्यैवेति निश्चयाय चशब्देन पुनर्प्रहणं जन्मनाशावेव लक्षणान्तरे इति जातपक्षपक्षिवत् पुनरस्याधीनं न स्यादिति नेत्याह । नसीति । नसि नासिकायामोता: गाव इति च ॥ १२ ॥ * * हरेः शास्तृत्वं नाम दण्डधरस्य दण्डेनैव न किन्तु वेदलक्षणया वाचेत्याह । य इति । य ईशः निजायां स्वस्मादभिव्यक्तायां वाचि वेदलक्षणायां नामभिर्ब्रह्मादिलक्षणैर्बध्नाति “निजमात्मी- यनित्ययोः” इत्यभिधानं बन्धनेन किं प्रयोजनमत्राह । यस्मा इति । नामकर्मणात्मानन्त्यप्रकटनाय बहुवचनमन्यथा नामकर्म- भ्यामित्यलं दृढं बन्धो निर्बन्ध तेन बद्धाः ॥ १३ ॥ * लोकतः सर्वज्ञानामस्माकं स्वविषयज्ञानजनकत्वमाहात्म्यं च श्रीहरिलक्षणमित्याह । अहमित्यादिना ॥ १४ ॥ * * न स्पृष्टा रजस्तमोभ्यामस्पृष्टरजस्तमस्काः शुद्धसात्त्विका इत्यर्थः । ततो भृग्वादिभ्यो अन्ये मन्वादयः सत्त्वप्रधाना इत्यनेन सत्त्वं प्रचुरमन्ये रजस्तमसी च किञ्चित् स्त इति ज्ञायते कुत इत्यत उक्त स्पृष्ठेति ईहितमिच्छाविषयमभिप्रायम् ॥ १५ ॥ * * तत्प्रसादमन्तरेणादृष्टलक्ष्यवेधवच्चक्षुरादीन्द्रियाविषयत्वेन तद्विषयं ज्ञानं दुष्करमित्याह । यं वा इति । गोभिश्चक्षुरादीन्द्रियैः असुभृतो जीवाः आत्मनां जीवानामात्मानमन्तर्यामिणं स्वरूपान्तरं चाह अन्तर्हृदि सन्तम् अथवात्मनामन्तर्हृदि सन्तम् आकृतयो रूपाणि स्वप्रकाशं चतुरिन्द्रियमनेन निकटवर्तिनां चक्षुरादीन्द्रिया- भिमानिनां देवानामपि तद्विषयज्ञानाभाव उक्त इति ज्ञातव्यं स्वरूपत्वेन नाकृतयः पश्यन्तीति चेत्तत्राह । तत इति । तत: आकृतिभ्यः परं विलक्षणं भिन्नमित्यर्थः । इदमपि हरिलक्षणं स पर इति पूर्वेणान्वयः ।। १६ ।। । * * तांस्तु वेदितुमिच्छाम । इत्यस्योत्तरमाह । तस्येति । मायाधिपतेः लक्ष्मीपतैः आत्मतन्त्रत्वलक्ष्मीपतित्वे पूर्वोक्तलक्षगसाधके इति ज्ञातव्यं प्रायेणेति कथितार्थ निर्धारणाय तस्य हरेः रूपं श्यामवर्ण गुणाः विप्रप्रियत्वादयः स्वभावो नित्यनिर्दोषत्वं येषां ते तथा ॥ १७ ॥ * * तेषां किं कृत्यमिहेति तत्राह । भूतानीति । विष्णोर्भूतानि पार्षदा दुर्दर्शलिङ्गानि दर्शना योग्यलक्षणानि तद्भक्तिमतः विष्णुभक्ति- मतः ॥ १८ ॥ * * विष्णुदूताश्चेत्तर्हि पातकिनं किमित्युदमूमुचन्निति तत्राह । धर्म त्विति । तुशब्दात्सूक्ष्मज्ञानं युष्माकं नास्तीत्याह ॥ १६ ॥ * * तर्हि के विदुरिति तत्राह । स्वयम्भूरिति ॥ २०-२१ ।। 3 । ।। जीवगोस्वामिकृतः क्रमसन्दर्भः । प्रीत इति । श्रीनारायणपुरुषत्वनिर्णयात् पूर्व त्वन्यदीयत्वज्ञाने दुःखं जातमासीदिति ।। ११-१५ ॥
यं वै इति । श्रीभगवद्रूप एव वागाद्यगोचरतया श्रुतिभिवर्ण्यत इति व्यज्य तस्य स्वप्रकाशत्वं व्यञ्जितं न- विचक्षते न विषयी - कुर्वन्ति ।। १६-२० ।। विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी कम्प j स्मरन् प्रीत इति । नारायणनामश्रवणमात्रादेवेति भावः ॥ ११ ॥ * * किमरे अपराधिनः ! प्रलपथ तत्त्व शृणुथेत्याह । पर इति । यं मां लोकशास्तारं जानीथ तस्मान्मत्तोऽपि मदुपलक्षितेभ्य इन्द्रादिभ्योऽपि परः श्रेष्ठोऽधीश्वरोस्ति । । स्क. ६ अ. ३ श्लो. ११-२०] ॥ अनेकव्याख्यासमलङ्कृतम् १०५ अहन्तु जङ्गमानामेव तत्रापि पापिनामेव तत्रापि तत्कङ्करः सन्नीश्वरः स तु सर्वेश्वरः । कोऽसौ यत्र यस्मिन् विश्वमोतं प्रोत | ऊर्ध्वतिर्यकतन्तुषु पटवत् । यदशेभ्यो विष्णुब्रह्मरुद्रेभ्यः नस्योतवन्नसि प्रोतबलीवईवत् ॥ १२ ॥ एतदेव प्रपञ्चयति । य इति । वाचि वेदलक्षणायां नामानि ब्राह्मणादीनि कर्माणि यजनादीनि तैरेव निबन्धैर्निर्बन्धकैर्बद्धाः ॥ १३ ॥ * * न केवलं स मद्विधेभ्यः पर एव किन्तु वयं विरिचिपर्यन्ताः सर्वज्ञा अपि स कदा किं कुर्यादित्यपि न विद्म इत्याह । अहमिति । ईहितं चिकीर्षितं यदुक्तं " न ह्यस्य कर्हिचिद्राजन् ! पुमान् वेदविधित्सितम् । यद्विजिज्ञासया युक्ता मुह्यन्ते कवयोऽपि हि " इति ॥ १४ ॥ * अस्पृष्टरजस्तमस्का अपि स्पृष्टा सत्त्वमयी माया यैर्यतः सत्त्वप्रधानाः ।। १५ ।। ऋ ऋ तत्त्वतीन्द्रियत्वात् सुतरामेव न जानीम इत्याह । यमिति । गोभिर्ज्ञानेन्द्रियैः मनसा सविकल्पतया असुभिः कर्मेन्द्रियैः हृदा चित्तेन निर्विकल्पतया च न विचक्षते न जानन्ति आत्मनां जीवानामनेकेषाम् एकमेवात्मानमन्तर्यामिणमाकृतयो रूपाणि चतुर्यथा कर्मभूतं ततः प्रकाश्येभ्यः परं प्रकाशकम् ॥ १६ ॥ ननु भवत्वेवं भूतः परमेश्वरस्तं न जिज्ञासामहे ये ।। ।। वस्मान्निर्भत्स्य पातकिनं ररतुस्ते के इत्यत आह । तस्येति । प्रायेण मनोहरा इति युष्माकन्तु न मनोहरा इति भावः ।। १७ ।। * * सुरपूजितानीति । रे मूर्खास्तान् अपूजितवन्तो यूयमपराधिन एवेति भावः । तद्भक्तिमतो विष्णुभक्तान् मत्तश्चेति यूयं के बराका इति भावः ॥ १८ ॥ नन्वेवचेत्तर्हि ते कथमधर्मपक्षपातिन इति चेद्धर्मतत्त्वं युष्मद्विधा मूढाः कुतो ज्ञास्यन्ति महाविद्वांसो मुनयोऽपि न जानन्तीत्याह । धर्ममिति ॥ १६ ॥ * ननु केऽपि चेन्न जानन्ति तर्हि तस्य सत्त्वे किं प्रमाणं तत्राह । स्वयम्भूरिति । विजानीम इति । ननु निजकृतस्मृतिशास्त्रेष्वपि स्पष्टं कथयाम इत्यर्थः । तत्र हेतवः गुह्यं परमतत्त्वत्त्वात् संवृत्यैव स्थाप्यं राजविद्याराजगुह्याध्याये “सर्वगुह्यतमं भूयः शृणु मे " इत्यत्र हेतोरेव दृष्टत्वात् विशुद्धं गुणातीतं सगुणस्मृतिशास्त्रेषु वक्तुमर्हत्वात् दुर्बोधं कर्मिभिरर्थवादादिदोष कलिलान्तकरणैर्दुर्ज्ञे- यत्वात् ।। २०-२१ ॥ ।। زید ॥ * शुकदेवकृतः सिद्धांतप्रदीप: इत्येवं हरिस्मारकवाक्येन पृष्टः अत एव हरेः पादाम्बुजं स्मरन् प्रीतः प्रसन्नः सन् संयमयतीति संयमनः स्वदूतान् प्रत्याह ॥ ११ ॥ * जगतो जङ्गमतस्तस्थुषः स्थावरात् परः श्रेष्ठः यतः सर्वोपादानरूपो हेतुरित्याह । यत्रोर्ध्वतिर्य- कन्तुषु पटवत् विश्वमतं प्रोक्तं च यस्यांशेभ्य इन्द्रब्रह्मरुद्रेभ्यः अस्य स्थित्यादयः यस्य च वशे नसि नासिकायामोतपशुवत् सर्वोsपि लोकः स सर्वकारणकारणः सर्वेश्वरः मदन्यः अहमपि तदधीन इत्यर्थः ॥ १२ ॥ दामभिर्गाः बलीवद्दनिव नामभिर्ब्राह्मणादिशब्दैः निजायां वेदात्मिकायां वाचि तन्त्यां जनं बध्नाति त इमे जनाः नामकर्मभिर्निबन्धैर्बद्धाः बलिं स्वस्वाधिकारानुरूपाज्ञां वहन्ति यस्मै स मदन्य इति पूर्वेण सम्बन्धः ॥ १३ ॥ * * ये बलिं वहन्ति ते के इत्याकाङ्क्षायां तान् वदन् सर्वे एते तस्य चेष्टितं न जानन्तीत्याह । अहमिति द्वाभ्याम् ॥ १४ ॥ येऽस्पृष्टरजस्तमस्काः सत्त्वप्रधाना यस्येहितं न विदुः ततस्तेभ्यः सत्त्वप्रधानभ्योऽन्ये रजस्तमः प्रधानाः स्पृष्टमायाः क्षुद्राधिकारिणो न विदुरिति किं वाच्यम् ॥ १५ ॥ * * आत्मनामखिलजीवानामात्मानमन्तर्हृदि सन्तम् " अन्तः प्रविष्टः शास्ता जनानाम्” इति श्रुतेः गोभिर्वाग्भिः मनसा च असु भिरन्यैरिन्द्रियैश्च न विचक्षते कार्त्स्न्येन नैव पश्यन्ति इयत्तानवच्छिन्नत्वात् " यद्वाचा नभ्युदितं यन्मनो न मनुते” यस्यामतं तस्य मतं मतं यस्य न वेद सः” इत्यादिश्रुतेः हेतुगर्भितं विशेषणं ततः परं गवादिभ्यः परं चक्षुः प्रकाशकं तत्प्रकाश्याकृतयो यथा न विचक्षते तद्वत् सर्वथा निषेधस्तु नास्ति “तं त्वौपनिषदं पुरुषं पृच्छामि मनसैवानुद्रष्टव्यः सदा पश्यन्ति सूरयः” इत्यादिश्रुतिभ्यः स मदन्य इति पूर्वेणैवान्वयः ॥ १६ ॥ * * भवतु त्वदन्यः सर्वेश्वरः सर्वनियन्ता ये पाशान् छित्वा पापिनं विमोचितवन्तस्ते के इत्यतस्तानाह । तस्येति द्वाभ्याम् । तस्य आत्मतन्त्रस्य स्वतन्त्रस्य तद्रूपगुणभावाः तस्येव रूपं गुणाः स्वभावश्च येषां ते इह चरन्ति ॥ १७ ॥ * * भूतानि पार्षदरूपाणि दुर्दशनि द्रष्टुमप्यशक्यानि लिङ्गानि रूपाणि येषां तानि तद्भक्तिमतः विष्णुभक्तियुक्तान् ॥ १८ ॥ * * ननु यदि ते विष्णुपार्षदास्तर्ह्य धार्मिकरक्षां कुतः कृतवन्तस्तत्राह । धर्ममिति । ऋष्यादयोऽपि यदा न विदुस्तर्हि असुरादयः कुतो विदुः ॥ १९ ॥ भगवदनुग्रहतो जानन्तीत्याह । स्वयम्भूरिति ॥ २० ॥ ।। एते तु गोस्वामिगिरिधरलालविहिता बालप्रबोधिनी इत्येवं स आपृष्टो यम प्रीतः सन् स्वदूतान् प्रत्याहेत्यन्वयः । प्रीतौ हेतुमाह - हरेः पादाम्बुजं स्मरन्निति । तत्रापि हेतुमाह - प्रजासंयमन इति, भगवद्दत्ताधिकार इत्यर्थः । तद्दाने हेतुमाह देव इति, भगवद्भक्त इत्यर्थः ॥ ११ ॥ * * यम- १४ i २०६ श्रीमद्भागवतम् * [ स्कं. ६ अ. ३ श्लो. ११-२० वाक्यान्येव दर्शयति- पर इत्यादीन्ये कोनविंशतिभिः । तत्र यदुक्तं ‘अतस्त्वमेको भूतानामधीश्वरः’ इति तदज्ञानादेव मदन्यस्य पुरुषोत्तमस्य सत्त्वादित्याह पर इति । मत् मत्त इत्युपलक्षणम् । मदुपलक्षितेभ्य इन्द्रवरुणादिसर्वलोकपालेभ्योऽन्यः पर उत्कृष्टश्च जगतो जङ्गमस्य तस्थुषः स्थावरस्य चाधीश्वरोऽस्तीति शेषः । तर्हि किं स विष्णुब्रह्मरुद्रेष्वन्यतमः कश्चिदित्याशङ्कय तेभ्योऽपि पर एव सः । तेषां तदंशत्वादित्याह यदशत इति, यस्य त्वंशेभ्यो विष्णुब्रह्मरुद्रेभ्योऽस्य विश्वस्य यथाक्रमं स्थितिः पालनं जन्मोत्पत्तिः नाशः प्रलयश्च भवति । तर्हि स कीदृश इत्यपेक्षायां सर्वजगदुपादानकारणं स एवेत्याह-ओतमिति, यत्र यस्मिन् विश्वमोतं प्रोतं च । तत्र दृष्टान्तमाह - पटवदिति, ऊर्ध्वतिर्यक्तन्तुषु पटवदित्यर्थः । नन्वेवं जगदुपादानत्वे तस्य जडत्वा- पत्तिः जडोपादानस्य जडत्वनियमात् कर्त्रधीनता च स्यात् मृत्सुवर्णादिस्तथात्वदर्शनात् तथाच कथं सर्वेश्वरत्वमित्याशङ्कयाह- यस्य वशे च लोक इति । वशवर्तित्वे दृष्टान्तमाह- नस्योतवदिति, नसि नासिकायामोतः प्रोतः रज्जुनिबद्धः बलीवर्दस्तद्वत् । तथाच स एव सर्वेश्वरोऽहं तु जङ्गमानामेव तत्रापि नृणामेव तत्रापि पापिनामेव तत्किङ्करः सन्नेवेश्वर इति भावः ॥ १२ ॥ ** दृष्टान्तमेव विवृणोति - यो नामभिरिति । यो निजायां स्वस्मात्प्रादुर्भूतायां तन्तीस्थानापन्नायां वेदलक्षणायां वाचि ब्राह्मणादि- नामभिः खण्डरज्जुस्थानीयैर्जनान् ब्राह्मणादीन् बध्नाति तत्तदधिकारप्राप्तकर्मसु प्रयोजयति ते इमे जना नामकर्मभिर्निबन्धैर्बद्धा अत एव चकिता भीताः सन्तो यस्मै बलिं वहन्ति स्वस्वकर्मभिर्यमाराधयन्ति स सर्वेश्वरः । तत्र दृष्टान्तमाह-तन्त्यामिव दामभिर्गा इति, तन्त्यां दीर्धरज्वां दामभिः रज्जुखण्डैर्निबद्धा गा बलीवर्दा यथा स्वस्वामिनिरूपितं भारं वहन्ति तेषां देहनिर्वाह: स्वाम्यधीनः स्वाम्यानुगुण्येनैव सुखम् अन्यथा तु दण्ड एव तथा सर्वजीवानामपि देहादिनिर्वाहस्तदधीन एव तदाज्ञानुसारेणैव सुखं तदुल्लङ्घय प्रवृत्तौ तु नरकादिदुः खमेवेत्यर्थः ॥ १३ ॥ * * ननु तथापि कथं चेतनस्य जडोपादानत्वं उपादानत्वे वा कथं कर्तृत्वं सर्वेश्वरत्वं दृष्टिविरुद्धं सङ्गच्छते लोके भिन्नयोरेव निमित्तोपादानत्वनियमदर्शनादित्याशङ्कय इयं लीला तु ब्रह्मादीनामस्माकमपि दुर्विभाव्यैवेत्याह- अहमिति द्वाभ्याम् । प्रचेताः वरुणः । ईशो महादेवः ॥ १४ ॥ * * विश्वसृजो मरीच्यादयः । अमराणामीशा बृहस्पत्यादयः । अन्ये च ये मनुष्यादिषु महान्तः । न स्पृष्टं रजस्तमः यैस्ते । तत्र हेतुः सत्त्वं प्रधानं येषां ते । एवम्भूता अपि एते यस्येहितमभिप्रेतं चेष्टितं वा न विदुः । तत्र हेतुमाह - स्पृष्टमाया इति, मायया मोहिता इत्यर्थः । ततस्तेभ्योऽन्ये न विदुरिति किं पुनर्वक्तव्यम् ? ।। १५ ।। तर्हि सर्वोपादानतया तस्य सर्वत्र विद्यमानत्वं, सर्वदर्शनविषयत्वमप्यर्थादायाति तत्कुतो न दृश्यते इति चेत्सत्यमेवमेव, तथापि तत्कृपां विना केऽपि तं न पश्यन्ति । तत्रेन्द्रि- यादीनां सामर्थ्याभावादित्याह यमिति । आत्मनां स्थावरजङ्गमशरीराणां जीवानामन्तर्हृदि सन्तं विद्यमानमप्यात्मानं सर्वव्यापकं सर्वद्रष्टारं सर्वनियन्तारं च यं गोभिर्ज्ञानेन्द्रियैर्मनसा सङ्कल्पात्मकेन हृदा चित्तेन असुभिः प्राणैः प्राणप्रधानैः कर्मेन्द्रि- offer शब्दात्मकेन शास्त्रेण च असुभृतो जीवा न विचक्षते न पश्यन्ति, न जानन्ति न प्राप्नुवन्ति चेत्यर्थः । तत्र हेतुमाह - ततः परमिति, तेभ्य इन्द्रियादिभ्यः परं कारणतया प्रकाशकतया नियामकतया च स्वत एव सिद्धमित्यर्थः । तत्र दृष्टान्तमाह- चक्षुर्यथैवाकृतय इति, आकृतयो रूपाणि कर्तृभूतानि स्वतः परं स्वप्रकाशकमपि चक्षुः कर्मभूतं तथा न पश्यन्ति तथा । न हि प्रमाता प्रमाणविषयो भवतीत्यर्थः । एवम्भूतः सर्वेश्वरो मदन्योऽस्ति ।। १६ । एवं भगवत्तत्वं दुर्ज्ञेयमिति निरूप्य यदुक्तं तांस्ते वेदितुमिच्छाम इति तस्योत्तरमाह — तस्येति द्वाभ्याम् । मनोहरास्तस्यैव दूता इह प्रायेण चरन्तीत्यन्वयः । वै अवधारणे । तेषां सर्वतो रक्षायां सामर्थ्यमस्तीति ज्ञापनाय तत्स्वामिनं विशिनष्टि - हरेरिति, स्वभक्त दुःखहरणशीलस्येत्यर्थः । तथा शीलत्वेऽपि सामार्थ्याभावे शीलमात्रेण तद्धरणं कथं स्यादित्याशङ्कचाह - अधीशितुरिति — सर्वनियन्तुरित्यर्थः । तत्र हेतु- माह-मायाधिपतेरिति, सर्वे हि मायावशवर्तिनः स तु तस्या अप्यधिपतिर्नियन्ताऽतः सर्वनियन्तेत्यर्थः । अत एवात्मतन्त्रस्या- पराधीनस्य । तत्र हेतुमाह – परस्येति, सर्वोत्तमस्येत्यर्थः । नन्वेवम्भूतोऽपि यदि कचिदेशे तिष्ठेत्तदा देशान्तरे किं कुर्यादित्या- शङ्कयाह — महात्मन इति, महान् व्यापक आत्मा स्वरूपं यस्य तस्येत्यर्थः। भवतु तस्यैवभ्भूतत्वं तद्भृत्यानां सामर्थ्य कथं सिद्धयतीत्याशङ्कच तत्कृपया तेऽपि तथाविधा इत्याह- तद्रूपेति, तस्येव रूपं चतुर्भुजादिविशिष्टं, गुणा: प्रभावादयः, स्वभावो भक्तवात्सल्यादिर्येषां ते तथा । पापिनिग्रहार्थमस्य दूता अपि चरन्ति परन्तु न ते मनोहरा नापि तद्गुणस्वभावाः किन्तु स्वल्पबलाः क्रूरा भयङ्करा इति सूचयितुं प्रायग्रहणम् ॥ १७ ॥ * * अथ समर्थत्वात् विष्णोर्भूतानि भृत्यास्तद्भक्तिमतो भगवद्भक्तान् मन परेभ्यः कालकर्मादिभ्यो मत्तश्च सर्वतः सर्वत्र सर्वदैव रक्षन्तीत्यन्वयः । तेषां दर्शनमपि भगवत्कृपणं विना दुर्लभ युष्माकं कथं जातमित्याश्चर्येण तानि विशिनष्टि - दुर्दर्शानि द्रष्टुमप्यशक्यानि लिङ्गानि मूर्त्तयो येषां तानि, यतो महाद्भुतानि अलौकिकरूपाणि, अत एव सुरैरपि पूजितानि, अतो यूयं न पूजितवन्त इत्यपराधिन एव । मत्तोऽपि परेभ्यः कालादिभ्योऽपि रक्षकाणामये यूयं के वराका इति भावः ॥ १८ ॥ * * ननु नाजामिलो भगवद्भक्तः किन्तु पापीयानेव, केवलं पुत्रनाममात्रमुश्चारितवांस्तावता कथं तममूमुचन्निति चेत् न, विद्वांसोऽपि नाममाहात्म्यं न जानन्ति कुतः पुनर्युष्मद्विधा ज्ञास्यन्तीत्यभिप्रेत्याह – धर्ममिति । ऋषयो भृग्यादयः सत्त्वप्रधानाः न विदुस्तदा रजःप्रधाना असुरादयः कुतो विदुरित्य- 1 ..%. । स्क. ६ अ. ३ श्लो. ११-२० 1 अनैकव्याख्यासमलङ्कृतम् १०७ न्वयः ॥ १९ ॥ * * ननु यद्दृष्यादयोऽपि न जानन्ति तर्हि तस्य सत्त्वे किं प्रमाणं तत्राह - स्वम्भूरिति । स्वयम्भूर्ब्रह्मा, शम्भुः शिवः, कुमारः सनत्कुमारः मनुः स्वायम्भुवः, वैयासकिः शुकः, वयमिति, अहमिति वक्तव्ये आत्मानमेव बहु मन्यमानो बहुत्वेन निर्दिशति ॥ २० ॥ भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी एवमापृष्टो यमस्तान् प्रत्याहेत्याह मुनिः । इतीति । इतीत्थं, आपृष्टः स्वदूतैः संपृष्टः, प्रजासंयमनः सकलशासक: यमः, सः देवः प्रीतः सुप्रश्नसंश्रवणेनातिहृष्टः, हरेः स्वेष्टदेवस्य भगवतः पादाम्बुजं चरणकमलं स्मरन् स्मृतिर्विषयं गमयन्सन् स्वदूतान् प्रति, आह ॥ ११ ॥ * * उक्तिमेवाह । पर इत्यादिना पुरुषाय भूम्ने इत्यन्तेन । पर इति । मत्, मत्तः पर उत्कृष्टः, । अन्यः अस्ति । स च जगतो जङ्गमस्य, तस्थुषः स्थावरस्य च, पतिरस्तीति शेषः । अहं तु जङ्गमानामेव तत्रापि नृणामेव तत्रापि पापिनामेव तस्य किंकरः सन्, ईश्वरः स तु सर्वेश्वर इत्यर्थः । कोऽसौ यत्र यस्मिन् विश्वं चराचरात्मकमिदं जगत् पटवत् तन्तवः पटे इत्र, ओतं प्रोतं, आयामती विस्तरतश्च, सर्वतो व्याप्तमित्यर्थः । यदशतो यस्यांशात् यदंशभूत विष्णुब्रह्मरुद्रेभ्य इत्यर्थः । अस्य जगतः स्थितिजन्मनाशा: भवन्ति । नसि ओतवत् नस्योतबलीवर्द्दवत्, यस्य च वशे, लोकः सर्वोऽपि लोको यद्वशवर्त्ती भवतीत्यर्थः ॥ १२ ॥ * * एवं सर्वाभ्यधिकत्वसर्गव्यापकत्व सर्वजन्मादिकारणत्व सर्वप्रशास्तृत्वधर्मयुक्तो भगवानन्योऽस्तीत्युक्तमथान्यांश्च भगवद्धर्मान् प्रपञ्चयति । य इति । यो भगवान्, निजायां वाचि वेदलक्षणायां, तन्त्यां दामभिः गाः बलीवर्दान् इव, नामभिर्ब्राह्मणादिनामभिः, जनान् बध्नाति । नामानि ब्राह्मणादीनि कर्माणि स्ववर्णाश्रमोचितानि च तान्येव निबन्धा रज्जवस्तैर्बद्धाः, ते इमे जनाः, चकिता यद्भीताः सन्तः, यस्मै बलिं वहन्ति समर्पयन्ति । तस्य वाकू तन्तिर्नामानि दामानि’ इति श्रुतेः ॥ १३ ॥ * * यस्य लीला चातिदुर्विभाव्येत्याह द्वाभ्याम् । अहमिति । अहं यमः, महेन्द्रः देवेशः, निर्ऋतिरेतन्नामा देवः पवनः जलात्मना पवित्रतापादकः प्रचेता वरुणः, सोमश्चन्द्रः, अग्निर्हुतभुक्, ईशो रुद्र:, अर्कः सूर्यः, विरञ्चो ब्रह्मा, अब्जयोनिरिति पाठे जलजयोनिः, स एव । आदित्यविश्वे आदित्या अदितिसुताश्च विश्वे विश्वेदेवाख्याश्च ते, ans: वसुसंज्ञिका देवा अथ साध्याः साध्यसंज्ञिकाः, मरुद्गणाः सर्वेऽपि वायवः, ससिद्धाः सिद्धगणैः सहिताः रुद्रगणाः प्रमथादयः, ॥ १४ ॥ * * अन्ये चेति । ये, अन्येऽपि, विश्वसृजो दक्षादयः, अमरेशा उक्तदेवेभ्योऽर्वाचीनानामुत्तमा देवाः, भृग्वादयः अस्पृष्टं रजस्तमश्च यैः, अतः सत्त्वप्रधानाः सन्तोऽपि स्पृष्टमायाः मायामीहितत्वादित्यर्थः । यस्य ईहितम- भिप्रायं न विदुः । तत उक्तेभ्य एभ्य इत्यर्थः । अन्ये किं, न विदुरिति किं नु वक्तव्यमित्यर्थः । उभयोरेकसंबन्धः ॥ १५ ॥ * * एवं तन्मायामोहितत्वान्न विदुरिति तूक्तं सांप्रतमविषयत्वात्तस्यावेदनमित्याह । यमिति । असुभृतः, आत्मनां जीवानां, आत्मानमन्तरात्मानम्, अन्तर्हृदि, सन्तं यं भगवन्तं, आकृतयः रूपाणि तत आकृतिभ्यः परं विलक्षणं आकृतीनां प्रकाशक- मित्यर्थः । चक्षुश्चक्षुरिन्द्रियं यथा तथैव गोभिरिन्द्रियैः, मनसा असुभिः प्राणायामै:, हृदा चित्तेन, गिरा वाक्कौशल्येन, न वा विचक्षते नैव पश्यन्ति न जानन्तीत्यर्थः । वा एव ॥ १६ ॥ ननु भवत्वेवंभूतोऽन्यः परमेश्वरः ये पुनरस्मान्निर्भर्त्य पापिनं रक्षितवन्तस्ते के इत्याकाङ्क्षायां तानाह तस्येति द्वाभ्याम् । तस्येति । आत्मतन्त्रस्य स्वतन्त्रस्य, अधीशितुः सर्गशास्तुः परस्य सर्वविलक्षणस्य, मायाधिपतेः महात्मनः, तस्य पूर्वोक्तस्य, हरेः मनोहराः सुन्दराः तस्य हरेरिव रूपं गुणाः प्रभावादयः, स्वभावो भक्तवात्सल्यादिश्व येषां ते, दूताः पार्षदाः, प्रायेण, इह लोके, चरन्ति वै ।। १७ ।। * भूतानीति । सुरपूजि- । तानि ब्रह्मादिभिः समर्चितानि, दुर्दर्शानि द्रष्टुमप्यशक्यानि लिङ्गानि स्वरूपाणि येषां ते, महाद्भुतानि महाश्चर्यकराणि विष्णोः श्रीहरे:, भूतानि किंकरात्मकानि, विष्णोः पार्षदा इत्यर्थः । तद्भक्तिमतो भगवद्भक्तिमतः सकलजनान् मत्तः मृत्योश्व, अथ परेभ्यः, सर्वतः सर्वेभ्यः सकाशाच्च, रक्षन्ति चकारोऽवधारणे ॥ १८ ॥ * * ननु ते उक्तविष्णोर्भृत्याः स्युवेद्भगवद्भक्ति- मतो रक्षन्तु नामाऽयमजामिलस्तु निरतिशयदुष्कृतकृत् भक्तिशून्यश्च तद्रक्षणेन कथमधर्मपक्षपातं कृतवन्तस्तत्राह । धर्ममिति । साक्षात्स्वभक्तजनसुखप्रदानाय साक्षाद्भागं भजन् यो भगवान् रामकृष्णहरिकृष्णादिः परमेश्वरस्तेन प्रणीतो भगवद्गीताहरिगीता- दिप्रन्थद्वाराभिहितस्तं, धर्म तु, ऋषयोऽपि न वै विदुः, यद्भक्तजनसमागमं विना नैव विदन्तीत्यर्थः । देवाः अपि न विदुः । सिद्धमुख्याः अपि, न विदुः । तर्हि असुरा, मनुष्याः, विद्याधरचारणादयश्च कुतः विदुः । भागवतधर्मप्रभावस्येदृशत्वात्तेषां च तत्ज्ञानवत्त्वात्ते धर्मपक्षपातमेव कृतवन्त इति भावः ॥ १९ ॥ * * ननूक्ताः केऽपि चेत्तं न जानन्ति तर्हि तस्य शश- विषाणायमानत्वात्तत्सत्त्वे किं प्रमाणं तत्राह । स्वयंभूरिति । स्वयंभूर्ब्रह्मा, नारदो देवर्षिः शंभुः शिवः कुमारः सनत्कुमारः कार्त्तिकेयो वा, कपिलः कर्द्दमसूनुः, मनुः स्वायंभुवः, प्रह्लादः कायाधवः, जनकः मिथिलाधिपः, भीष्मः शान्तनवः, बलिवैरो- निः, वैयासकिः शुकः, वयमहं यम इत्यर्थः । ‘अस्मदो द्वयोश्च’ इति बहुवचनमेकत्वे वेदितव्यम् ॥ २० ॥ २०६ श्रीमद्भागवतम् भाषानुवादः [ स्कं. ६ अ. ३ श्लो. २१-३० श्रीशुकदेवजी कहते हैं— जब दूतोंने इस प्रकार प्रश्न किया, तब देवशिरोमणि प्रजाके शासक भगवान यमराजने प्रसन्न होकर श्रीहरिके चरणकमलोंका स्मरण करते हुए उनसे कहा ॥। ११ ॥ * * यमराजने कहा- - दूतों ! मेरे अतिरिक्त एक और ही चराचर जगत् के स्वामी हैं। उन्हीं में यह सम्पूर्ण जगत् सूतमें वस्त्रके समान ओतप्रोत है ! उन्हींके अंश ब्रह्मा, विष्णु और शङ्कर इस जगत् की उत्पत्ति, स्थिति तथा प्रलय करते हैं । उन्होंने इस सारे जगत्को नथे हुए बैलके समान अपने अधीन कर रक्खा है ॥ १२ ॥ * मेरे प्यारे दूतों ! जैसे किसान अपने बैलोंको पहले छोटी-छोटी रस्सियों में बाँधकर फिर उन रस्सियोंको एक बड़ी आड़ी रस्सीमें बाँध देते हैं, वैसे ही जगदीश्वर भगवान ने भी ब्राह्मणादि वर्ण और ब्रह्मचर्य आदि आश्रमरूप छोटी-छोटी नामकी रस्सियोंमें बाँधकर फिर सब नामोंको वेदवाणीरूप बड़ी रस्सीमें बाँध रक्खा है । इस प्रकार सारे जीव नाम एवं कर्मरूप बन्धन में बँधे हुए भयभीत होकर उन्हें ही अपना सर्वस्व भेंट कर रहे हैं ॥ १३ ॥ * दूतों ! मैं, इन्द्र, निर्ऋति, वरुण, चन्द्रमा, अग्नि, शङ्कर, वायु, सूर्य, ब्रह्मा, बारहों आदित्य, विश्वेदेवता, आठों वसु, साध्य, उनचास मरुत्, सिद्ध, ग्यारहों रुद्र, रजोगुण एवं तमोगुणसे रहित भृगु आदि प्रजापति और बड़े-बड़े देवता – सब-के-सब सत्त्वप्रधान होनेपर भी उनकी मायाके अधीन हैं तथा भगवान् कब क्या किस रूपमें करना चाहते हैं - इस बातको नहीं जानते । तब दूसरोंकी तो बात ही क्या है ।। १४-१५ ॥ दूतों ! जिस प्रकार घट, पट आदि रूपवान् पदार्थ अपने प्रकाशक नेत्रको नहीं देख सकते — वैसे ही अन्तःकरणमें अपने साक्षीरूपसे स्थित परमात्माको कोई भी प्राणी इन्द्रिय, मन, प्राण, हृदय या वाणी आदि किसी भी साधनके द्वारा नहीं जान सकता ॥ १६ ॥ वे प्रभु सबके स्वामी और स्वयं परम स्वतन्त्र हैं । उन्हीं मायापति पुरुषोत्तमके दूत उन्हींके समान परम मनोहर रूप, गुण और स्वभावसे सम्पन्न होकर इस लोक में प्रायः विचरण किया करते हैं ॥ १७ ॥ * * विष्णुभगवान् के सुरपूजित एवं परम अलौकिक पार्षदोंका दर्शन बड़ा दुर्लभ है । वे भगवान्के भक्तजनोंको उनके शत्रुओंसे, मुझसे और अग्नि आदि सब विपत्तियोंसे सर्वथा सुरक्षित रखते हैं ।। १८ ।। * * स्वयं भगवान्ने ही धर्मकी मर्यादाका निर्माण किया है। उसे न तो ऋषि जानते हैं और न देवता या सिद्धगण ही । ऐसी स्थिति में मनुष्य, विद्याधर, चारण और असुर आदि तो जान ही कैसे सकते हैं ॥ १९ ॥ * * भगवान के द्वारा निर्मित भागवतधर्म परम शुद्ध और अत्यन्त गोपनीय है । उसे जानना बहुत ही कठिन है । जो उसे जान लेता है, वह भगवत्स्वरूपको प्राप्त हो जाता है । दूतो ! भागवतधर्मका रहस्य हम बारह व्यक्ति ही जानते हैं - ब्रह्माजी, देवर्षि नारद, भगवान् शङ्कर, सनत्कुमार, कपिलदेव, स्वायम्भुव मनु, प्रह्लाद, जनक, भीष्मपितामह, बलि, शुकदेवजी और मैं ( धर्मराज ) ।। २० -२१ ।। द्वादशैते विजानीमो धर्म भागवतं भटाः । गुह्यं विशुद्धं दुबधं यं ज्ञात्वामृतमश्नुते ॥ २१ ॥ एतावानेव लोकेऽस्मिन् पुंसां धर्मः परः स्मृतः । भक्तियोगो भगवति तन्नामग्रहणादिभिः ।। २२ ।। नामोच्चारणमाहात्म्यं हरेः पश्यत पुत्रकाः । अजामिलोऽपि येनैव मृत्युपाशादमुच्यत ॥ २३ ॥ एतावतालमघनिर्हरणाय पुंसां सङ्कीर्तनं भगवतो गुणकर्मनाम्नाम् विक्रुश्य पुत्रमघवान् यदजामिलोऽपि नारायणेति त्रियमाण इयाय मुक्तिम् ॥ २४ ॥ प्रायेण वेद तदिदं न महाजनोऽयं देव्या विमोहितमतिर्बत माययालम् । त्रय्यां जडीकृतमतिर्मधुपुष्पितायां वैतानिके महति कर्मणि युज्यमानः ।। २५ ।। एवं विमृश्य सुधियो भगवत्यनन्ते सर्वात्मना विदधते खलु भावयोगम् । ते मे न दण्डमर्हन्त्यथ यद्यमीषां स्यात् पातकं तदपि हन्त्युरुगामवादः || २६ ॥ ते देवसिद्धपरिगीत पवित्रगाथा ये साधवः समदृशो भगवत्प्रपन्नाः । तान् नोपसीदत हरेर्गदयाभिगुप्तान् नैषां वयं न च वयः प्रभवाम दण्डे || २७ ॥ १. प्रा० पा०– णेन । २. प्रा० पा० अवाप । ।स्क. ६ अ. ३ श्लो. २१-३० ] अनेकव्याख्यासमलङ्कृतम् तानानयध्वमसतो विमुखान् मुकुन्दपादारविन्दमकरन्दरसादजस्रम् । निष्किञ्चनैः परमहंसकुलै रसज्ञैर्जुष्टाद् गृहे निरयवर्त्मनि बद्धतृष्णान् ॥ २८ ॥ जिह्वा न वक्ति भगवद्गुणनामधेयं चेतश्च न स्मरति तच्चरणारविन्दम् कृष्णाय नो नमति यच्छर एकदापि तानानयध्वमसतोऽकृतविष्णुकृत्यान् ॥ २९ ॥ तत् क्षम्यतां स भगवान् पुरुषः पुराणो नारायणः स्वपुरुषैर्यदसत्कृतं नः । स्वानामहो न विदुषां रचिताञ्जलीनां क्षान्तिर्गरीयसि नमः पुरुषाय भूझे ॥ २० ॥ कृष्णप्रिया व्याख्या १०९ अन्वयः— एते द्वादश गुह्यं विशुद्ध दुर्बोधं भागवतं धर्मं विजानीमः यं ज्ञात्वा अमृतम् अश्नुते ॥ २१ ॥ ** भगवति तन्नामग्रहणादिभिः भक्तियोगः अस्मिन् लोके एतावान् एव पुंसां परः धर्मः स्मृतः ।। २२ ।। * * पुत्रकाः हरेः नामोच्चारणमाहात्म्यम् अजामिल: अपि मृत्युपाशात् अमुच्यत ॥ २३ ॥ * * भगवतः गुणकर्मनाम्नां एतावता पुंसाम अघनिर्हरणाय अलं यत् अघवान् अजामिल: अपि म्रियमाणः पुत्रं नारायण इति विक्रुश्यमुक्तिम् इयाय ॥ २४ ॥ * बत देव्या मायया अलं विमोहितमतिः मधुपुष्पितायां त्रय्यां जडीकृतमतिः वैतानिके महति कर्मणि वियुज्यमानः अयं महाजन:- प्रायेण तत् इदं न वेद ।। २५ ।। सुधियः एवं विमृश्य अनन्ते भगवति सर्वात्मना खलु भावयोगं विधते ते मे दंड न अर्हति अथ अमीषां पातकं यदि स्यात् तत अपि उरुगायवादः हंति ॥ २६ ॥ ये साधवः समदृशः भग- वत्प्रपन्नाः ते देवसिद्धपरिंगीत पवित्रगाथाः हरेः गदया अभिगुप्तान् तान् न उपसीदत एषां दंडे वयं न प्रभवाम च वयः न ॥ २७ ॥ अजस्रं निष्किचनैः रसज्ञैः परमहंसकुलैः जुष्टात् पादारविंद मकरंदरसात् विमुखान् नरकवर्त्मनि गृहे बद्धतृष्णान् तान् असतः आनयध्वम् ॥ २८ ॥ * * यत् जिह्वा भगवद्गुणनामधेयं न वक्ति च चेतः तञ्चरणारविंद न स्मरति शिर: एकदा अपि कृष्णाय न नमति तान् अकृतविष्णुकृत्यान् असतः आनयध्वम् ॥ २९ ॥ ४ ४ नः स्वपुरुषैः यत् असत् कृतं तत् सः भगवान् पुराणः पुरुषः नारायणः क्षम्यतां अहो रचिताञ्जलीनां स्वानां क्षांतिः गरीयसि विदुषां न भूम्ने पुरुषाय नमः ।। ३० ॥ श्रीधरस्वामिविरचिता भावार्थदीपिका- * हे भटाः ॥ २१ ॥ * * तमेव धर्ममाह । एतावानिति ॥ २२ ॥ * * न चात्र प्रमाणं वक्तव्यं दृष्टत्वा- दित्याह । नामोच्चारणेति । येनैव केवलेन सकृदुच्चारितेन ॥ २३ ॥ ननु नामाभासेन कथं सर्वपापक्षयः स्यात् । श्रद्धाभत्त्यावृत्त्यादेरपि विधानात् । तथाहि । “सायं प्रातर्गृणन् भक्त्या दुःखग्रामाद्विमुच्यते ।” इति । “अनुदिनमिदमादरेण शृण्वन् " इति श्रवणं कीर्तनं ध्यानं हरेरद्भुतकर्मणः । जन्मकर्मगुणानां च तदर्थेऽखिलचेष्टितम् ।” इत्याद्यस्मिन्नेव पुराणे तत्रतत्र पठ्यते । पुराणांतरे च । “पापक्षयश्च भवति स्मरतां तमहर्निशम् ।” इति । अत्रैव च । " तस्मात्संकीर्तनं विष्णोर्ज- गन्मंगलमंहसाम् । महतामपि कौरव्य विद्धयेकांतिकनिष्कृतम् ।" इत्यादिना सम्यकीर्तनादेव मुच्यते । किं च तथा सति किमिति मन्वादयो द्वादशाब्दादीनि स्मरेयुः तस्मादिदमनुपपन्नमिव तत्राह । एतावतेति । भगवतो गुणानां कर्मणां च नानां च सम्यक्की तर्न मिति यदेतावता पुंसामघनिर्हरणाय पापक्षयमात्रायालमुपयोगो नास्ति । अलंशब्दोऽत्र वारणे । यथाहाम- रसिंहः । “अलं भूषणपर्याप्तिशक्तिवारणवाचकम् ।” इति । उपयोगाभावमेवाह । अजामिलो महापातक्यपि नारायणेति विक्रुश्य न तु सम्यक्कीर्तयित्वा तच पुत्रं विमृश्य न तु हरिम् । अधवानशुचिरपि म्रियमाणोऽस्वस्थचित्तोऽपि मुक्तिमवाप न त्वनिर्हरणमात्रमतो नामाभासेनापि सर्वपापक्षय इत्येव तत्त्वम् । आवृत्तिश्रद्धादिविधयस्तु पापवासनाक्षयार्था इत्युक्तमेव ‘हरेर्गुणानुवादः खलु सत्त्वभावनः’ इत्यत्र ॥ २४ ॥ यत्तक्तं व्यर्थ तर्हि द्वादशाब्दादिस्मरणमिति तत्राह । प्रायेणेति । महाजनो मन्वादिः । अयं भावः । यथा मृतसंजीवनौषधिमजानंतो वैद्या रोगनिर्हरणाय त्रिकटुकनिंबादीनि स्मरंति तथा स्वयंभूशंभु प्रमुखद्वादशव्यतिरेकेणायं महाजनोऽतिगुह्यमिदमज्ञात्वा द्वादशाब्दादिकं स्मरतीति । किं च मायया देव्या अलं विमोहितमतिरयं जनो मधु मधुरं यथा भवत्येवं पुष्पितायां पुष्पस्थानीयैरर्थवादैर्मनोहरायां त्रय्यां जडीकृताऽभि- निविष्टा मतिर्यस्य अतो महत्येव कर्मणि श्रद्धया युज्यमानो नाल्पे प्रवर्तते । दृश्यते हि । प्राकृतस्य लोकस्य महति मंत्राद श्रद्धापे चाश्रद्वा तस्मादस्य ग्राहको नास्तीति तैर्नोक्तम् । यद्वा स्वाधीनः सिंहोऽस्त्येतावता श्वसृगालादिनिवारणाय तं यथा न ॥
११० श्रीमद्भागवतम् [ स्कं. ६ अ. ३ श्लो. २१-३० प्रयुंजते तथाऽतितुच्छत्वात्पापस्य न तन्निरसनाय परममंगलं हरेर्नाम स्मरंति । यद्वा नाममाहात्म्यज्ञाने सर्वमुक्तिप्रसंगादित्येषा दिकू ग्रंथविस्तरभयान्तु नातिप्रपंच्यते ॥ २५ ॥ * * भावयोगं भक्तियोगम् । अमीषां पातकं न स्यादेव यदि स्यात् । उरुगायस्य भगवतो वादः कीर्तनम् ।। २६ ।। * * तदेवं धर्मतत्त्वं निर्णीय भृत्याननुशास्ति । त इति । ये भगवंतं प्रपन्नास्ते देवैः सिद्धैश्च परिगीतपवित्रगाथा वर्णितपवित्रकथा अतस्तान्नोपसीदत तत्समीपमपि न गच्छत । वयः कालोऽपि न प्रभवति ।। २७ ।। * * के तर्हि दंडार्थमानेया इत्यत्राह तानिति द्वाभ्याम् । असतो दुष्टान् । तानेवाइ । मुकुंदपादा- रविंदयोर्यो मकरंदरूपो रसस्तस्माद्विमुखान् । कथंभूतात् । निष्किंचनै रसज्ञैरजस्रं जुष्टात् । तेषां ज्ञापकमाह । निरयवर्त्मनि स्वधर्मशून्ये गृहे बद्धा तृष्णा यैस्तान् ॥ २८ ॥ किं च जिह्वेत्यादि । यद्येषां जिह्वेत्याद्यन्वयः । न कृतं विष्णुकृत्यं भगवदुतं यैः ॥ २९ ॥ * * भगवंतं क्षमापयति तदिति । अयं भावः । नः स्वपुरुषैरस्मदीयत्वेन स्थितैः स्वीयैरेव पुरुषैर्यद्यस्मादसदन्याय्यं कृतं तत्तस्मात्स्वयमेव क्षम्यतां सहताम् । स्वानां स्वीयानां भक्तानां नोऽस्माकं न विदुषामज्ञानाम् । अहो गरीयसि तस्मिन्क्षांतिर्युक्तैव । मह इति पाठे स्वीयानां माहात्म्यमविदुषां नः क्षमां करोत्वित्यर्थः ॥ ३० ॥ वंशीधरकृतो भावार्थदीपिकाप्रकाशः विजानीम एव न तु निजस्मृत्यादौ स्पष्टं कथयाम इति भावः । गुह्यं लोकमर्यादारक्षणाय गोप्यम् । किच- साधार- णजनदुर्बोधं च तत्र हेतुः – विशुद्धं न शुद्धाः शुद्धं ज्ञातुमर्हति गुह्यत्वे हेतुविशेषोऽयमिति । हे भटा इति । यूयं तु सुतरां न जानीथ भटानां मृत्यानां स्वामिकार्यव्यग्रत्वेन तत्प्राप्त्यसंभवादिति भावः ॥ २१ ॥ * * तमेव भागवत्तमेव । तस्य हरेर्नामग्रहणादिभिर्भगवति यो भक्तियोग एतावानेव परो धर्मः स्मृतः " एष मे सर्वधर्माणां धर्मोऽधिकतमो मतः । यत्त्या पुंडरीकाक्षं स्तवैरर्चेन्नरः सदा ।" इति स्मृतेः । आदिनाऽर्चनादिग्रहः । एवकारोऽत्र दृढीकरणार्थः ॥ २२ ॥ * * अत्र भागवतधर्मस्य परत्वे । हे पुत्रका इति । यूयं मे पुत्रतुल्या अतो युष्मभ्यं मयैतदुक्तमिति भावः ।। २३ ।। * * पुनराक्षिपति - नन्विति । आवृत्त्यादेरिहादिना चिंतनादिग्रहः । नाम्नो गुणानां चासकृदुच्चारणमवृत्तिः । तत्र तत्र प्रस्तावे | तं भगवंतम् । अत्रैवाजामिलोख्यान एव अत्राक्षिपति किं चेति । तथा सति नामसंकीर्त्तनस्यैव सर्वपापनाशकत्वे सति द्वादशाब्दादीनीति । ब्रह्महत्याकर्त्ता द्वादशाब्दत्रतं कुर्यात्क्षत्रियहंता ततो न्यूनमित्यादि । कुतो हेतोः । स्मरेयुः कथयामासुः । तस्मान्मन्वादिस्मृतिविरुद्धत्वादिदं नामसंकीर्तनमेव सर्वपापहरमिति कथनमनुपपन्नमिवायुक्तवत्प्रतिभातीति । गुणानां भक्तवात्सल्यादीनां कर्मणां गोवर्द्धनोद्धरणादीनां नाम्नां हरिविष्वित्यादीनाम् । यद्वा — गुणनाम्नां कृपासिंध्वित्यादीनां कर्मनाम्नां मधुसूदनेत्यादीनां सम्यक् कीर्त्तनं पापमात्रनाशायालं नात्र साधनांतरापेत्याह तीर्थः । सम्यक् कीर्त्तनेनैव पापक्षय इत्युपयोगो नास्ति किन्तु यथाकथंचिनाम्न उच्चारणमात्रादेवेति भावः । अतोऽजामिलोद्धारदर्शनाद्धेतोः । पापवासनाक्षयार्था इति । महदपराधाद्यालंबनेन या तिष्ठति पापवासना तस्याः क्षयार्था इत्थमेव द्वितीये ‘एतावान्सांख्ययोगाभ्याम्’ इत्यत्र व्याख्यातम् | अंते तु परमो लाभ इति तदुक्तम् “कृष्णः कृष्णः कृष्णः इत्यंतकाले जल्पञ्जन्तुर्जीवितं यो जहाति । आद्यः शब्दः कल्पते तस्य मुक्त्यै व्रीडानम्रौ तिष्ठतोऽन्यावृणस्थौ ” इति नाममाहात्म्ये ।। २४ ।। * * द्वादशोत्तरो मन्वादिः । अत्राशयमाह - अयं भाव इति । इदं भगवन्नामस्मरणम् । ननु सर्वज्ञास्ते कथं न जानतीति चेत्तत्राह - किचेति । देव्या बहुविध- नाशोपेतया । अतो मायामोहितबुद्धित्वात् ननु तदुक्तौ स्वल्पसाधनायामपि लोकः कथं न प्रवर्त्तेतान्यथातिप्रसंगात्तत्राह - यद्वेति । हरिनामापेक्षया पापस्यातितुच्छ त्वं दावाग्नेरमे तृणवदिति । ननु पापस्य तुच्छत्वेऽपि पापवासनामुक्त्यर्थ तु तेषां तत्स्मय्र्यमेवेति चेदाह - यद्वेति । सर्वमुक्तौ हि श्रीहरिलीलासाधनसृष्टयभावः स्यात्तच्चानुचितमेवेति भावः । “लीलार्थ कुरुते सृष्टिं ब्रह्मद्वारा जनार्दनः" इति पुराणांतरोक्तेः । प्रपंच्यते विस्तार्य्यते ॥ २५ ॥ एवं पूर्वोक्तभगवद्भक्तिमहिमप्रकारं विमृश्य विचार्य सर्वात्मना नित्यनैमित्तिकापेक्षया ।। २६ ।। * * अतो वर्णितपवित्रकथत्वात् । तानोपसीदत तन्निकटे प्रातक्यपि चेद्भवेत्तदापीति भावः ॥ २७ ॥ * * स्वधर्मशून्ये इत्युक्ते स्वधर्ममाश्रित्य ये गृहे तिष्ठति ते नानेया मोक्षाधिकारित्वा- तेषाम् “स्त्रे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः” इति श्रीमुखोक्तेः । निष्किञ्जनैः अपरिग्रहैः । परमहंसकुलैः ज्ञानिसमूहैः रसज्ञैः सारासारविवेकनिपुणैः ॥ २८ ॥ * * अन्यदाह किचेति । यस्या जिह्वा श्रीशस्य गुणं नामधेयं चैकदा जन्ममध्येऽपि न वदति चेतश्च तच्चरणारविंदं न स्मरति शिरश्च कृष्णाय कृष्णं लक्षीकृत्य नो नमति तानानयध्वं तदुक्तम् " शाठ्येनापि नमस्कारं कुर्वतः शार्ङ्गधन्वने । शतजन्मार्जितं पापं तत्क्षणादेव नश्यति ।" स्कांदे तु “स कर्त्ता सर्वधर्माणां भक्तो यस्तव केशव । स कर्त्ता सर्वपापानां यो न भक्तस्तवाच्युत । पापं भवति धर्मोऽपि तवाभक्तैः कृतो हरे । निःशेषधर्मकर्त्ता, वाप्यभक्तो नरके हरे । सदा तिष्ठति भक्तस्ते ब्रह्मापि विमुच्यते ।” नृसिंहपुराणे यमवाक्यम् “अहममरगणार्चितेन धात्रा यम
एकं ६ अ. ३ श्लो. २१-३० ] अनेकव्याख्या समलङ्कृतम् इति लोकहिताहिते नियुक्तः । हरिगुरुविमुखान्प्रशास्मि मर्त्यान्हरिचरणप्रणतान्नमस्करोमि ।” इति । भक्तिरसामृतसिंधुबिंदा- बप्युक्तम् “यदि मधुमथन त्वदंघ्रिसेवां हृदि विदधाति जहाति वा विवेकी । तदखिलमपि दुष्कृतं त्रिलोके कृतमकृतं न कृतं कृतं च सर्वम् ।” इति ।। २९ ।। * * अत्राभिप्रायमाह - अयं भाव इति । एतदीया अपि वस्तुतो मदीया एवेति ध्यात्वा क्षम्यतामिति भौवादिकस्य दैवादिकस्य वा रूपमाद्ये विकरणव्यत्यय आर्षः । द्वितीये त्वात्मनेपदं दीर्घाभावश्चाषः । स्वीयानां भक्तानां नो अस्माकम् । इत्यर्थ । इति । “अपराधः सकृद्भर्त्रा सोढव्यः स्वप्रजाकृतः” इत्युक्तन्यायेनेति भावः ॥ ३० ॥ अन्वितार्थप्रकाशिका › एतावानिति । अस्मिन् लोके पुंसां परः सर्वोत्कृष्टो धर्मः एतावानेव बेदरहस्यज्ञैः स्मृतः यस्तस्य भगवतो नामग्रहणा- दिभिः साधनभक्तिभिः भगवति परमपुरुषार्थरूपे प्रेमलक्षणो भक्तियोगः सः ॥ २२ ॥ * * नामेति । हे पुत्रकाः ! हरेर्नामोच्चारणमाहात्म्यं पश्यत येन पुत्रोपचारितनामोच्चारणमात्रेणैव महापातकित्वेनाभिमतोऽजामिलोऽपि मृत्युपाशाद- मुख्यत ॥ २३ ॥ * * ननु नामाभासेन कथं सर्वपापक्षयः भक्त्यादेरपि विधानात् अत आह— एतावतेति । भगवतो गुणनाम्नां भक्तवत्सलादीनां कर्मनाम्नां कंसारिरित्यादीनाम् उपलक्षणतया जन्मनाम्नां वासुदेव इत्यादीनामपि । यद्वा । गुणाः कर्माणि नामानि चेति द्वन्द्वः तेषां सम्यक्कीर्तनमिति यत् एतावता पुंसामघनिर्हरणाय पापक्षयमात्राय अलं पर्याप्तम् । यद्वा । अलं वारणार्थे उपयोगो नास्तीत्यर्थः । नामादीनामेकतरस्यापि असम्यक्कीर्तनादपि पापहरणस्य सिद्धेरिति यद्यस्मान्नारायणेति पुत्रं न तु नारायणं विक्रुश्य न तु श्रद्धादिपूर्वकं सम्यक्कीर्तयित्वा अधवानपि न तु विशुद्धः म्रियमाणः मरणदुःखेन विवशोऽपि न तु स्वस्थचित्तः अजामिलोऽपि महापापोऽपि न तु क्षुद्रपापः मुक्तिमियाय प्राप न तु पापनिर्हरणमात्रं भक्तिश्रद्धादिविषयस्तु वासनाक्षयार्थाः ।। २४ ।। * * ननु व्यर्थ तर्हि द्वादशाब्दादिस्मरणमिति तत्राह - प्रायेणेति । अयं महाजनो धर्मशास्त्र- प्रणेता तदिदं भागवतं धर्मप्रायेण न वेद । अयं भावः । यथा मृतसंजीवनोषधिमजानन्तो वैद्या रोगनिर्हरणाय त्रिकटुक- निम्बादीनि स्मरन्ति तथा पूर्वोक्तस्वयंभूशम्भुप्रमुखद्वादशव्यतिरेकेणायं महाजनोऽतिगुह्यमिदमज्ञात्वा द्वादशाब्दादिकं स्मरतीति किंच मायया देव्या अलं विमोहितमतिरयं जनो मधु मधुरं यथा भवत्येवं पुष्पितायां पुष्पस्थानीयैरर्थवादैर्मनोहरायां त्रय्यां जडीकृता अभिनिविष्टा मतिर्यस्य अतो वैतानिके महत्येव कर्मणि श्रद्धया युज्यमानो नाल्पे प्रवर्तते दृश्यते हि प्राकृतस्य लोकस्य महति मन्त्रादौ श्रद्धापे चाश्रद्धा तस्मादस्य ग्राहको नास्तीति तैर्नोक्तम् । यद्वा । स्वाधीनः सिंहोऽस्त्येतावता श्वसृगालादि- निवारणाय तं यथा न प्रयुञ्जते तथातितुच्छत्वात्पापस्य न तन्निरसनाय परममङ्गलं हरेर्नाम स्मरन्ति । यद्वा । नाममाहा- त्म्यज्ञाने सर्वमुक्तिप्रसङ्गादित्येषा दिकू ग्रन्थविस्तरभयात्तु नातिप्रपञ्चयते ।। २५ ।। * एवमिति । सुधियो जनाः एवं पूर्वोक्तं विमृश्य विचार्य सर्वात्मना एकाप्रेण मनसाऽनन्ते ऽनन्तगुणे भगवति भावयोगं परमप्रेमोपायं नामसंकीर्तनादिकं विद्यते । ये एवंभूतास्ते मे मम दण्डं नार्हन्ति तेषां भगवन्निष्टानां पापप्रवृत्त्यसंभवात् । अथ कदाचित् यद्यमीषां प्रमादतः पातकं स्यात्तदा तदपि उरुगायस्य बहुधा वर्णितमाहात्म्यस्य बहुधा भगवतो वादः नामकीर्तनमेव हन्ति नाश- यति ।। २६ ।। * * ते इति । ये साधवः समदृशः भगवन्तं प्रपन्नाः शरणं गताः ते देवैः सिद्धैश्च परिगीताः स्तुताः पवित्राः गाथाः कथा येषां ते तथाभूताः सन्ति । अतः हरेर्गदयाऽभिगुप्तान् सर्वतो रक्षितान् तान् नोपसीदत तत्समीपमपि न गच्छत । यतः एषां दण्डे वयं ब्रह्मादयः ईश्वराभिमानिनो न प्रभवाम तथाऽस्मन्नियन्ता वयः कालश्च न प्रभवति ।। २७ ।। * * तानिति । निष्किञ्चनैः परमहंसकुलैः रसज्ञैः जुष्टात् मुकुन्दस्य पादारविन्दयोर्यो मकरन्दरूपो रसस्तस्मात् विमुखान् अतः निरयस्य वर्त्मनि मार्गभूते गृहे अजस्रं विबद्धतृष्णान् तान् असतः दुष्टान् दण्डार्थमानयध्वम् ।। २८ ।। * * जिह्वेति । यत् येषां जिह्वा एकदापि भगवद्गुणनामधेयं न वक्ति येषां चेतश्चैकदापि तस्य चरणारविन्दं न स्मरति येषां शिर एकदापि कृष्णाय नो नमति एवं न कृतं विष्णुसंबन्धि कृत्यं कर्तव्यं भजनं यैस्तानसतोऽसाधून दण्डार्थमानयध्वम् ।। २६ ।। तदिति । स्वपुरुषैः स्वदासैः नः अस्माभिर्यदन्याय्यं कृतं तत् स्वानां स्वकीयानाम् । अहो न विदुषां इति पाठे माहात्म्यमविदुषा- मित्यर्थः । रचिताञ्जलीनामस्माकमपराधं स भगवान् पुरुषः पुराणो नारायणः स्वयमेव क्षम्यतां सहताम् । आर्षः प्रयोगः । यतः गरीयसि अतिशयेन गुरुतमे तस्मिन् क्षान्तिरेव युक्ता अतः भूम्ने परममहते पुरुषाय नमः ॥ ३० ॥ वीरराघवव्याख्या । * एते वयं द्वादश हे भढाः ! भागवतं धर्म जानीमः तत्प्रभावं जानीम इत्यर्थः । कथम्भूतं गुह्यं गोप्यं विशुद्धं विशुद्ध केवलसत्त्वप्रधानाधिकारं दुर्बोधमितरैर्दुर्विज्ञेयं यं धर्मं ज्ञात्वामृतं मुक्तिमश्नुते प्राप्नोति ॥ २१ ॥ * * क्रोऽसावीदृशो ।। ११२ श्रीमद्भागवतम् 1 [ स्के. ६ अ. ३ श्लो. २१-३० * धर्मः क्रियान् वा तत्राह । एतावानेवेति । भगवति तन्नामग्रहणादिभिरनुगृहीतो यो भक्तियोगः स एव पुंसां लोके पर उत्कृष्टो धर्मः लोके पुरुषैः साध्य उत्कृष्टो धर्मः भगवद्भक्तियोग एव स चैतावानेवाविच्छिन्नप्रेम पूर्वानुध्यानपर्यन्त एव “प्रेमपूर्वमनुध्यानं भक्तिरित्यभिधीयत” इति वचनार्थमभिप्रेत्य भक्तिशब्देनैवार्थलाभादे तावानेवेत्युक्तम् ।। २२ ।। * * आस्तां भगवद्भक्ति- योगप्रभावस्तावन्नामोच्चारणप्रभावमेव पश्यतेत्याह । नामेति । हे पुत्रकाः ! हरेर्नामोच्चारणमाहात्म्यं पश्यत येन नामोच्चारण- माहात्म्येनाजामिलोऽपि अपिशब्दस्तस्य सुतरां मुक्तचनर्हतां सूचयति । मृत्युपाशात् संसारपाशान्मुक्तोऽभूत् ॥ २३ ॥ * अतः पुंसामघस्य निर्हरणाय निःशेषक्षपणाय एतावतैवालं कियता भगवतो गुणकर्मप्रतिपादकनाम्नां सङ्कीर्त्तनमितीयता कुतः यद्यस्मादघवान् पाप्यपि अजामिलो म्रियमाणः पुत्रं नारायणेति विक्रुश्याहूय मुक्तिमुपैत्यागादित्यर्थः ॥ २४ ॥ * नन्वेवंविधं नाममाहात्म्यादिकं स्वयंभ्वादिवदन्येप्यधीतशास्त्रा अपि किं न जानीयुस्तत्राह । प्रायेणेति । महाजनः शास्त्रज्ञोऽप्ययं जनः तदिदं नाममाहात्म्यादिकं प्रायशो न वेद तत्र हेतु: देवदेवस्य भगवतः संबन्धिन्या माययालमत्यर्थं विमोहिता मतिर्यस्य तादृशः तं प्रति खिद्यति बतेति । किञ्च । मधुपुष्पितायां मधु मधुरं यथा भवति तथा पुष्पितायां पुष्पस्थानीय क्षुद्रस्वर्गादि- फलप्रकाश कार्थवादैर्मनोरमायामित्यर्थः । एवंभूतायां त्रय्यां जडीकृताभिनिविष्टा मतिर्यस्य अत एव वैतानिके महत्येव कर्मणि युज्यमानः भगवन्मायामोहितत्वादर्थवादाश्रयणं कर्मासक्तचित्तत्वाच्च न वेदेत्यर्थः ॥ २५ ॥ * * एवं विदित्वा ये भगवन्तं भजन्ति न तेषामस्मद्वश्यतेत्याह । एवमिति । सुधियः कुशलाः ये जना एवं नाममाहात्म्यादिकं विमृश्यानन्ते त्रिविध- परिच्छेदरहिते षाङ्गुण्यपूर्णे भगवति भावयोगं भक्तियोगं विधते कुर्वते खलु ते मम दण्डं प्रति नार्हन्ति तेषां पातकाभावादित्यर्थः । यदि किञ्चित्तेषां पातकं स्यात्तर्हि तदपि पातकमुरुगायस्य भगवतो वादः गुणानुवादात्मकनामग्रहणादिरूपो हन्ति क्षपयति ।। २६ ।। * * एवमाक्षेपस्योत्तरमभिधायाधुना स्वदूताननुशास्ति । त इति त्रिभिः । ये जनाः साधवः साधुगुणयुक्ताः समदृशः समं भगवदात्मकत्वेन सर्वं पश्यन्तीति तथा भगवत्प्रपन्नाः उपायोपेयभावेन भगवन्तं शरणं गताः ते देवैः सिद्धैश्च परितो गीताः पवित्राश्च गाथा येषां तादृशास्तान्नोपसीदत न तत्समीपं गच्छतेत्यर्थः । तत्र हेतुं वदंस्तान्विशिनष्टि । हरेर्गदाभितो गुप्तान् रक्षितानत एवैषां भयं संसृतिभयं नास्ति न च तेषां दण्डे वयं प्रभवामः समर्था भवेम ।। २७ ।। * * तर्हि क आनेयास्तत्राह । तानिति । तानानयध्वं कानजत्रं सन्ततं निष्कामैः परमहंसानां ज्ञानिनां कुलैः सङ्घैः रसज्ञैः : जुष्टान् सेवितान्मुकुन्दस्य पादारविन्दयोर्मकरन्दतुल्यो रसः तस्माद्विमुखानत एवासतः पापिष्ठान्नरकद्वारे गृहे बद्धतृष्णान् कृताभि- लाषान् ॥ २८ ॥ * * किञ्च । येषां जिह्वा चेतः शिरांसि भगवन्नामधेयचरणारविन्दवचनस्मरणनमस्कारान्न कुर्वन्ति तानानयध्वमित्याह । जिह्वेति । भगवतो गुणप्रतिपादकं नामधेयं यस्य जिह्वा न वक्ति यस्य चेतः भगवतश्चरणारविन्दं न स्मरति यस्य च शिरः सकृदपि श्रीकृष्णाय नो नमति तान्न कृतं विष्णोः कृत्यमाराधनं यैस्तानत एवासतः दुष्टानान- यध्वम् ॥ २९॥ * * एवं स्वदूतानादिश्य दूतकृतापराधभिया भगवन्तं क्षमापयति । तदिति । स्वपुरुषैरस्मद्भटैर्य- दसत्कृतमपराद्धं तत्पुराणः पुरुषो भगवान्नारायणः क्षाम्यतां दिवादित्वात्कर्त्रर्थे सार्वधातुके श्यन् स्वानां स्वभक्तानामज्ञानां कृताञ्जलीनां नोऽस्माकं क्षान्तिरस्मद्विषया क्षन्तिरित्यर्थः । अहो गरीयसी गुरुतरा बहुला भगवति वर्त्तत इतिभावः । तस्मै भूम्ने सर्वान्तर्यामिणे नमः “अञ्जलिः परमा मुद्रा क्षिप्रं देवः प्रसीदति” इत्युक्ततत्प्रसादनिमित्ताञ्जलि बन्धनेन नमस्करो- तीति भावः ॥ ३० ॥ विजयध्वजतीर्थकृता पदरत्नावली । किञ्च । धर्मस्वरूपं निवेदयतु भवानित्याशङ्कय उत्तमं धर्मं वचामीत्यभिप्रायेणाह । एतावानिति । तस्य हरेर्नामग्रहणा- दिभिर्भगवति यो भक्तियोगः एतावानुत्तमः परो धर्मः स्मृत इत्यन्वयः “एष मे सर्वधर्माणां धर्मोऽधिकतमो मतः” इति स्मृतावुक्तम् ।। २२-२३ ॥ * नारायणेत्यादिगुणनान्नां मधुसूदनेत्यादिकर्मनाम्नां गुणानां कर्मणां नाम्नां वा यत्सङ्की- र्तनमेतावता पापनिर्हरणायालं साधनान्तरं नापेक्षितमित्यन्वयः । आक्रुश्य आहूय ।। २४ ।। * * देव्या बहुविधविला - सोपेतया मधुपुष्पितायां स्वर्गादिपुष्पप्रकाशिकायां वैतानिके वेदविहिते यज्ञसम्बन्धिनि वा युज्यमानः प्रेर्यमाणः ।। २५ ।। * * भावयोगं भक्तियोगमुरुगायवाद: भगवन्नामकीर्तनम् ।। २६ ।। गाथाः सङ्कीर्तनानि वेदादिभिर्नित्यगीत सङ्कीर्तनाः गदया कौमोदक्या ।। २७ ।। * असतः लोकनिन्दितकर्मनिस्तान निरयवर्त्मनि नरकद्वारे गृहे भार्यादौ ॥ २८ ॥ * अकृत विष्णुकृत्यान् अननुष्ठितविष्णुपादार्चनादिकर्मणः ।। २९ ।। * * कृष्णाङ्घ्रिपद्ममधुलिट् कृष्णपादारविन्दमकरन्दं संसेवमानः पुमान् स्वकर्मनिर्मितेषु मायागुणेषु न रमते पुरुषार्थबुद्धिं न करोति यतः कर्मणः पुनः रजः रागः स्यात्तादृशं कर्म तुशब्देन कर्दमजलेन कर्दमप्रक्षालनमिवेति दर्शयति ॥ ३० ॥ स्कं. ६ अ. ३ श्लो. २१-३० ] अनेकव्याख्यासमलङ्कृतम् जीवगोस्वामिकृतः क्रमसन्दर्भ my ११३ विजानीम एव न तु निजस्मृत्यादौ स्पष्टं कथयाम इत्यर्थः तत्र हेतुः । गुह्यं लोकमर्यादारक्षणाय गोप्यम् । किन्न । साधारणजनैर्दुर्बोधञ्च । दुर्बोधत्वे हेतु: विशुद्धं न ह्यशुद्धाः शुद्धं ज्ञातुमर्हन्तीति गुह्यत्वे हेतुविशेषः । यमिति । हे भटा ! इति तस्माद्यूयं तु सुतरां न जानीथेत्यर्थः ॥ २१ ॥ * * लोकेऽस्मिन्निह जगतीत्यर्थः । तन्नामग्रहणादिभिरिति तृतीया प्रकृत्याभिरूप इतिवत् ।। २२ ।। * * एतावतेत्यस्य टीकायां पापवासनाक्षयार्था इत्यत्र तथापि महदपराधाद्यालम्बनेन तिष्ठति या पापवासना तस्याः क्षयार्था इत्यर्थः । मरणे तु निरपराधस्यैव सतो मुखे नामाविर्भावः स्यादिति भावः । इत्थमेव द्वितीये “एतावान् सापयोगाभ्याम्” इत्यत्र व्याख्यातम् । अन्ते तु परमो लाभ इति । तदुक्तम् । कृष्णः कृष्णः कृष्णः इत्यन्तकाले जल्पन जन्तुर्जीवितं यो जहाति । आद्यः शब्दः कल्पते तस्य मुक्तयै व्रीडानम्रौ तिष्ठतोऽन्यावृणस्थौ” इति । मुक्तिमियातेति जीवन्मुक्त यपेक्षया ।। २४ ।। * * महाजनो द्वादशेतरमुन्यादिः । स एव देव्या विमोहितमतिरित्यादिलक्षणः ।। २५ ।। ** एवं पूर्वोक्तभगवद्भक्तिम हिमप्रकारम् । सर्वात्मनेति । नित्यनैमित्तिकपरित्याग उक्तः तथा दण्डं नार्हन्ति । तत्र यदि दैवान्निषि- द्धाचरणेन पातकं स्यात्तदपि यथा कथञ्चित्तत्कीर्तनमात्रं हन्तीत्यर्थः ॥ २६ ॥ * * तेषामेव माहात्म्यानुवादपूर्व कं शिक्षयति । ते देवेति । नोपसीदति । तन्निकटे पातक्यपि चेद्भवति तदापीति भावः ।। २७-२८ ॥ अस्तु तावत्तेषां वार्त्ता यतो जिह्वा न वक्तीति । यद्यस्य जिह्वापि श्रीभगवतो गुणञ्च नामधेयञ्च वा एकदा जन्ममध्ये यदा कदापि न वक्ति जिह्वाया अभावे चेतश्च तच्चरणारविन्दमेकदापि न स्मरति चेतसो विक्षिप्तत्वे शिरश्च कृष्णाय कृष्णं लक्ष्यीकृत्य नो नमति । “शाठेचनापि नमस्कारं कुर्वतः शार्ङ्गधन्वने । शतजन्मार्जितं पापं तत्क्षणादेव नश्यति” इति स्कान्दोक्तमहिमानं नमस्कारं न करोति तानानयध्वम् । तत्र हेतुः असतः असत्त्वे हेतुः । अकृतविष्णुकृत्यान् । यथा च स्कान्दे रेवाखण्डे श्रीब्रह्मोक्तौ । “स कर्त्ता सर्वधर्माणां भक्तो यस्तव केशव ! । स कर्त्ता सर्वपापानां योऽभक्तस्तवाच्युत ! | पापं भवति धर्मोऽपि तवाभक्तैः कृतो हरे । निःशेषधर्मकर्त्ता वाप्यभक्तो नरके हरे । सदा तिष्ठति भक्तस्ते ब्रह्महापि विमुच्यते ।” श्रीपाद में “मन्निमित्तं कृतं पापमपि धर्माय कल्पते । मामनादृत्य धर्मोऽपि पापं स्यान्मत्प्रभावत” इति । युक्तञ्च तत् । श्रवणं कीर्तनञ्चास्येत्यादिना सर्वेषां मदुपास- नमित्यादिना सर्वे विधिनिषेधाः स्युरित्यादिना च परमनित्यत्वादिप्रतिपादनात् एवं सङ्कीर्त्तनादीनां त्रयाणामपि सुकराणामभावे परेषां सुतरामेवाभावो भवेदिति सामान्येनैव विष्णुकृत्यरहितत्वमुक्तम् । जिह्वादीनां करणभूतानामपि कर्तृत्वेन निर्देशः । पुरुषापि यथोचितकीर्त्तनादिकमादत्ते चरणारविन्दमिति विशेषाङ्गनिर्देशः यमस्य भक्तिख्यापक एव न तु तन्मात्रस्म- रणनियामकः अत्राभक्तानामानयनेन भक्तानामानयनमेव विधीयते “आनयनस्योत्सर्गसिद्धत्वात् “वैवस्वतं संयमनं प्रजानाम् " इति श्रुते: “सकृन्मनः कृष्णपदारविन्दयोः” इत्यादौ तद्गुणरागीति विशेषणं तु तेषां तद्दृष्टिपथगमनसामर्थ्यस्यापि घातकं तादृशतत्स्मरणस्य प्रभावविशेषमेव बोधयतीति ज्ञेयम् । यथैव नारसिंहे । “अहममरगणार्चितेन धात्रा यम इति लोकहिताहिते नियुक्तः । हरिगुरुविमुखान् प्रशास्मि मर्त्यान् हरिचरणनतान् नमस्करोमि ।” इति । तथैवामृतसारोद्वारे स्कान्दवचनम् । “न ब्रह्मा न शिवानन्द्रा नाहं नान्ये दिवौकसः । शक्तास्तु निग्रह कत्तु वैष्णरानां महात्मनाम्” इति ।। २९ ।। स्वपुरुषैर्द्वारभूतैर्यन्नोऽस्माभिरसत्कृतम् ॥ ३० ॥ विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी । तर्हितमेव धर्ममस्मान् सेवकान् शिक्षयित्वा त्रायस्वेत्यत आह । एतावानेव । प्रभेदबाहुल्येऽपि वस्तुतस्त्वियानेवेति भावः । पर इति । परशब्दविशेष्यत्वेनोच्यमानः तन्नामग्रहणादिभिरिति कर्मार्पणलक्षणः सगुणयोगो व्यावृत्तः एतदेव श्रीभागवतस्याभिधेयं तत्त्वम् । यदुक्तं शास्त्रारम्भ एवं “धर्मः प्रोज्झितकैतवोऽत्र परम” इति " स वै पुंसां परो धर्म” इति ।। २२ ।। * * न चात्र प्रमाणमन्वेष्टव्यं साक्षाद्दृष्टत्वादित्याह । नामेति ॥ २३ ॥ * * ननु सकृदुचरितेनैव नामाभासेन कथं सर्वपापक्षयः । तन्नामग्रहणादिभिरिति त्वयाप्यादिपदोपादानात् कीर्त्तनश्रवणाद्यङ्गभक्तियोगेन परमधर्मेण सर्वपापक्षयपूर्वकमोक्षप्राप्तिरित्युक्तत्वादित्यत आह । एतावतेति । भगवतो गुणानां कर्मणां नाम्नाश्च सम्यक् कीर्त्तनमित्येतावता पुंसामघनिर्हरणाय पापक्षयमात्राय अलमुपयोगो नास्ति अलशब्दोऽत्र वारणे नामादीनामेकस्यापि असम्यकू कीर्त्तनादपि सर्वाघनिर्हरणसिद्वेरिति भावः । यद्यतो विक्रुश्यैव न तु सम्यक् कीर्त्तयित्वा तच नारायणेति नाम्ना पुत्रं विक्रुश्य न तु हरिम् अघवानशुचिरपि न तु शुचिः सन् अजामिलोऽप्यतिप्रसिद्धमहापातक्यपि न त्वन्यः क्षुद्रपापी म्रियमाणो मरणदुःखविवशोऽपि न तु सुस्थचित्तः मुक्तिमियाय प्राप न तु पापनिर्हरणमात्रं तस्मात्तन्नामग्रहणादिभिरिति “श्रवणं कीर्त्तनं ध्यानं हरेरद्भुतकर्मणः । जन्मकर्मगुणानां च तदर्थे ऽखिलचेष्टितम्” इति “तस्मात् सङ्कीर्त्तनं विष्णो” रिति “अनुदिनमिदमादरेण शृण्वन” इत्यादिषु १५ । ११४ { श्रीमद्भागवतम् [ स्कं. ६ अ. ३ श्लो. २१-३० भक्तेरनेकेषामङ्गानां श्रद्धावृत्तिसम्यक्त्वादेरपि यद्विधानं तन्निरपराधानां प्रेमवृद्धयर्थं नामापराधवतां तु नामापराधक्षयार्थञ्च । “श्रद्धामृतकथायां मे” इत्युपक्रम्य " एवं धर्मैर्मनुष्याणामुद्धवात्मनिवेदिनाम् । मयि सञ्जायते भक्तिः कोऽन्योर्थोऽस्यावशिष्यत” इति अत्र भक्तिशब्देन प्रेमैवोक्तः कोऽन्य इत्यनेन मोक्षस्य निराकरणात् “नामापराधयुक्तानां नामान्येव हरन्त्यघम् । अविश्रान्तिप्रयुक्तानि तान्येवार्थ कराणि यत्” इति । “पापक्षयश्च भवति स्मरतां तमहर्निशम्” इत्यत्र तु चकारान्नामापरावक्षयः प्रेमभक्तिश्चेति व्याख्येयमिति पापतद्वासनातन्मूलभूताविद्याक्षयः सायुज्यसालोक्यादिकन्तु नामाभासस्यैकस्यापि फलमित्येत- दुपाख्यान एव दृष्टम् ॥ २४ ॥ * * नन्वेवमखिलधर्मश्रेष्ठं मुक्तिसाधनमतिसुगमं नामसंकीर्त्तनादिभगवद्भजनं प्रायेणा- नुपदिशन्तः किमिति विद्वांसः कर्मयोगमेवोपदिशन्ति कुर्वते च तत्राह । प्रायेणेति । महाजनो जैमिन्यादिरिदं न वेद ननु शास्त्रकृत् कथं न वेद तत्राह । देव्या परमेश्वर्या । अविदुषो मोहने खलु न किमप्यैश्वर्यमतो विद्वांसमधिकं मोहयेदिति भावः । अत एव मधु मधुरं यथा स्यात्तथा पुष्पितायामर्थवादः पुष्पाणि सञ्जातानि यस्यास्तस्यां त्रय्यां जडीकृता अत्यभिनिवेशाद्विवे- करहितीकृता मतिर्यस्य सः । अत एव वैतानिके द्रव्यानुष्ठानमन्त्रादिविस्तारवति कर्मणि महति दर्शपौर्णमासादियागे च बह्वायासवति लौकिकप्रतिष्ठादिहेतोर्युज्यमानो युक्तोऽल्पायासे नाम कीर्त्तनादौ न रज्यतीत्यर्थः ।। २५ ।। * * अथापि ते देव ! पदाम्बुजद्वयप्रसादलेशानुगृहीत एव हि " जानाति तत्त्वं भगवन्महिम्नो न चान्य एकोऽपि चिरं विचिन्वन्” इति ब्रह्मोक्तेः शास्त्रज्ञा अपि भगवत्तत्त्वानभिज्ञाः स्युरनधीतशास्त्रा अपि भगवदनुगृहीताः शुद्धबुद्धयः सन्तो विवेकिनो भगवन्तं भजन्त्येवेत्याह । एवमिति । सर्वात्मना सर्वेणैव मनसा न तु नित्यनैमित्तिककर्माद्यनुष्ठानार्थम् । मनसः कमप्यंशं परित्यज्येत्यर्थः । दण्डं नित्यकर्माकरणप्रत्यवायजनितम् | यदि दैवात् पातकं निषिद्धाचरणलक्षणं स्यादुरुगायवादः कीर्तनम् ॥ २६ ॥ * कै तस्मादेतावद्दिनपर्यन्तं यत्कृतं तत्कृतमेव भाग्येनैव रक्षिता अभूत अतः परन्तु यदि यदुपदिशामि तच्छृणुतेत्याह । ते इति । गाथाः कथाः समदृशः स्वस्य परस्य च सुखदुःखादिकं समं पश्यन्तः गदयाभिगुप्तानिति सकृदद्यतनो युष्माकमपराधो विष्णुदूतैः क्षान्त इत्यहं मन्ये यदि पुनरपि भक्तानां समीपं यास्यथ तदा हरेरेव गदया तेषां हस्तस्थितया चूर्णीभविष्यथेति भावः । यूयं खलु वराकाः के तावत् वयं मत्सहिता ब्रह्माद्या अपि वयः कालो ब्रह्मादेर्नियन्तापि ।। २७ ।। * * तर्हि कीदृशानानेष्यामस्तत्राह । तानसतः असाधून असाधूनां लक्षणमाह । मुकुन्दपादारविन्दयोर्मकरन्दरसात् तत्प्राप्तिसाधनात् भक्तियोगाद्विमुखान् तादृशभक्तियोगमकुर्वाणानित्यर्थः । ननु तेषां वैमुख्यादेव स खलु मकरन्दरसो न लिप्सनीय इत्यतो मकरन्दरसं विशिनष्टि । निष्क्रिञ्चनैः केवलभक्तिमद्भिः परमहंसकुलैश्च प्रधानीभूतभक्तिमद्भिर्जुष्टात् सेवितात् अत एव निरयव- मनि नरकप्रापके गृहे बद्धतृष्णान् ॥ २८ ॥ * * किञ्च । मुकुन्दस्य सकृदपि कीर्त्तनस्मरणादिकं तत्प्राप्तिसाधनं भवतीति तद्वन्तोऽपि सच्छब्देनाभिधीयन्त इत्यतस्तद्भिन्ना एवानेतव्याः इत्याह । जिह्वेति । जिह्वाया अभावे चेतश्चेत्यादि चेतसो विक्षिप्तत्वे कृष्णायेत्यादि एकदापीति सर्वत्रान्वेति तान् कैवल्येन प्राधान्येन वा अकृतविष्णुकृत्यान् विष्णोः किमपि कृत्यमकृतवन्तः अत एव असतः अवैष्णवान् । अत्र जन्ममध्ये वर्षमध्ये दिनमध्ये वेति यथा स्वमतं व्याचक्षते इत्यर्थः ।। २९ ।। * * भृत्यापराधेन स्वामिनो दण्ड इति न्यायेन स्वस्यापराधित्वं भावयन् सविनयं प्रणमति । तत्तस्मात् क्षम्यतां क्षाम्यतु नः स्वपुरुषः सुष्ठु अपुरुषैः कुपुरुषैरित्यर्थः । असत् अन्याय्यं कृतं नः कीदृशानां स्वानां तत्त्कङ्कराणामहो इत्याश्चर्ये तदपि न विदुषाम् अतो- ज्ञत्वादेव रचिताञ्जलीनाम् । ननु दण्डयितुं समर्था एव क्षमन्ते तत्राह । क्षान्तिर्गरीयसि महामहत्तमे तदपि क्षमैव युक्ता स्वानां मह इति पाठे विष्णुदूतानां यन्महो माहात्म्यं तदजानताम् ॥ ३० ॥ शुकदेवकृतः सिद्धान्तप्रदीप : भागवतं धर्ममर्थाद्भगवदनुग्रहादेव विजानीमः ॥ २१ ॥ यतस्तस्य विष्णोर्नामग्रहणादिभिरङ्गैः सहिता भक्तिर्भवति एतावान् धर्मः तथोक्तम् “प्रथमे स वै पुंसां परो धर्मो यतो भक्तिरधोक्षजे " इति ।। २२-२३ ॥ * * भगवतो गुणानां कर्मणां नाम्नां च सङ्कीर्तनं पुंसामघनिर्हरणाय दुरितक्षयमात्राय भवतीति एतावता एतावन्मात्रेण फलकथनेन अलं वारणं फलसङ्कोच इत्यर्थः । अलं वारणे “अलं भूषणपर्याप्तिशक्तिवारणवाचकम्” इति कोशात् यद्यतः अघवान् अजामिल: नारायणेति पुत्रं विक्रुश्य मुक्तिमियाय अवाप ॥ २४ ॥ * * भगवन्मायामोहिताः महाजनत्वेन प्रसिद्धाः अपीदं न जानन्तीत्याह । प्रायेणेति । त्रय्यां कर्मप्रतिपादकवेदत्रय्यां मधुरं यथा भवति तथा पुष्पितायां पुष्पं तत्तुल्यैरर्थवादैः “अक्षय्यं हवै चातुर्मास्ययाजिनः सुकृतं भवति” इत्यादिवाक्यैर्मनोहरायां जडीकृताभिनिविष्टा मतिर्यस्य सः अत एव वैतानिके वेदप्रोक्ते महति कर्मणि युज्यमानः अयं कर्मनिष्ठो महाजनः इदं भगवन्नाम कीर्तनादिरूपायाः भक्तेर्माहात्म्यं प्रायेण न वेद यतो देव्या देवमाययालमत्यर्थं विमोहितमतिस्तत्तस्मात् प्राचीनबर्हिवत्केचिन्महदुपदेशेन जानन्त्यपीति प्रायेणेत्युक्तम् ।। २५ ।। * * भावयोगं भक्तियोगं विदधते कुर्वते उरुगायस्य बहुधा गीयमानस्य भगवतो वादो नामकीर्त्तनादिरूपो हन्ति यदि किञ्चित्पातकं स्क. ६ अ. ३ श्लो. २१-३०] अनेकत्र्याख्यासमेलङ्कृतम् स्याद्वस्तुतस्तु तेषां तन्नास्तीत्यर्थः ॥ २६ ॥ * * भृत्यान् प्रति धर्मतत्त्वमुपदिश्यादण्ड्यान् दण्ड्यांश्चाह । त इति त्रिभिः । तानोपसीदत तत्समीपं न गच्छत वयः कालश्च न प्रभवति ।। २७ ।। * * परमहंसानां कुलैः समूहैर्जुष्टात् सेवितान्मु- कुन्दपादारविन्दयोः मकरन्दरसस्तद्भक्तिरसस्तस्मादजस्रं सततं नित्यं विमुखास्तद्भक्तियोगरहितास्तान् ॥ २८ ॥ * * तानेवाह । जिह्रेति । यद्येषाम् ॥ २९ ॥ भगवन्तं क्षमापयति । नः स्वपुरुषैः अस्मदीयैः सुष्ठु अपुरुषैर्निर्विवेकि- भिर्यदसत्कृतमयुक्तं कृतं तत्स दीनवत्सलत्वेन प्रसिद्धो भगवान् क्षम्यतां सहतामहो नामसंकीर्त्तनादिमाहात्म्यं न- विदुषामविदुषां स्वानां रचिताञ्जलीनां भृत्यानां विषयिणी क्षान्तिर्गरीयसि स्वामिनि युक्तैवेति शेषः सर्वमङ्गललाभाय प्रणमति । नम इति ॥ ३० ॥ | । * .. गोस्वामिगिरिधरलालविहिता बालप्रबोधिनी हे भटा इति सम्बोधनेन युष्माकं भटत्वमेव न धर्मरहस्यज्ञत्वमिति सूचयति । भागवतं भगवतोक्तं स्वप्रीतिकरं नामसङ्कीर्त्तनादिरूपं वयमेते द्वादशैव विशेषेण माहात्म्यपूर्वकं जानीमो नान्ये इत्यन्वयः । अन्येषामज्ञाने हेतुमाह-दुर्बोधमिति, दुर्ज्ञेयमित्यर्थः । तत्र हेतुमाह-गुह्यमिति, शास्त्रेषु गोप्यमित्यर्थः । तत्रापि हेतुः - विशुद्धमिति, विशुद्धिकरं सर्वानर्थमूला- विद्यानिवर्त्तकमित्यर्थः । तदेव स्पष्टयति-यमिति, यं धर्मं ज्ञात्वैव पुरुषोऽमृतं मोक्षरूपं भगवन्तमश्रुते प्राप्नोति, किं पुनस्तदनुष्ठा- नेनेत्यर्थः । तथाच भगवदिच्छ्यैव तद्गुह्यं सर्वेषां दुर्बोधं चान्यथा सर्वेषां तज्ज्ञाने सर्वमोक्षप्रसङ्गादिति भावः ॥ २१ ॥ * * एवं चेत्तर्हि तं परमं धर्ममस्मानपि स्वसेवकान् शिक्षयेत्यपेक्षायामाह - एतावानिति । अस्मिन् मनुष्यलोके पुंसां परः सर्वोत्कृष्टो धर्म एतावानेव वेदरहस्यज्ञैः स्मृतः । नात उत्कृष्टोऽन्यो धर्मोऽस्तीत्येवकारार्थः । एतावानिति कोऽसावित्यपेक्षायामाह - तस्य भगवतो नामग्रहणादिभिः साधनभक्तिभिः भगवति परमपुरुषार्थरूपप्रेमलक्षणो भक्तियोग इति । आदिपदेन श्रवणस्मरण- पादसेवनार्चनवन्दनदास्यसंख्यात्मनिवेदनानां ग्रहणम् ।। २२ ।। * * न चात्र प्रमाणं वक्तव्यं युष्माभिर्दृष्टत्वादित्याह - नामेति । हे पुत्रकाः हरेर्नामोच्चारणमाहात्म्यं पश्यत येन पुत्रोपचरितनामोच्चारणमात्रेणैव महापातकित्वेन अभिमतोऽ- जामिलोऽपि मृत्युपाशादमुच्यतेत्यन्वयः । एवं दृष्टेऽपि युष्माकं तत्र विश्वासो नास्ति तदस्मद्वचनात् कर्त्तव्यो युष्माकं हितमेवो- पदिशामोऽन्यथा युष्माकमनर्थः स्यादिति स्नेहसूचनाय सम्बोधनं बोध्यम् ॥ २३ ॥ * * ननु सकृदुच्चारितेनैव ।। ।। नामाभासेन कथं सर्वपापक्षयः सम्भवति त्वयाऽपि तन्नामग्रहणादिभिरित्यादिपदगृहीतश्रवणादिसाधनभक्तिजातेन प्रेमभक्ति- लक्षणेन सर्वपापक्षयपूर्वकमोक्षप्राप्तिकथनादित्याशङ्कयाह - एतावतेति । भगवतो गुणनाम्नां भगवान् सर्वज्ञो भक्तवत्सल इत्यादीनां कर्मनाम्नां गोवर्द्धनोद्धारणः कंसनिकन्दनः चाणूरमर्दनः जनार्दनो मुरारिरित्यादीनां जन्मनाम्नां देवकीनन्दनः वासुदेवः दाशरथिः नरसिंहः हयग्रीवः वामन इत्यादीनामपि ज्ञेयम् । यद्वा गुणानां सर्वज्ञत्वभक्तवात्सल्यादीनां कर्मणां गोबर्द्धनोद्धारकालिय निग्रहवृन्द्रावनविहारादीनां नान्नां रामकृष्णवासुदेवादीनां च सम्यक् कीर्त्तनमिति यदेताबता पुंसामघ- निर्हरणाय पापक्षयमात्राय अलम् । एतस्योपयोगो नास्तीत्यलंशब्दोऽत्र वारणे ‘अलं भूषणपर्याप्तिशक्तिवारणवाचकम्’ इति क्रोशात् । उपयोगाभावमेव स्पष्टयति — विक्रुश्येति । यद्यस्मान्नारायणेति पुत्रं न तु नारायणं विक्रुश्य न तु श्रद्धादिपूर्वकं सम्यक्कीर्त्तयित्वा अघवानपि न तु विशुद्धः म्रियमाण: मरणदुःखेन विवशोऽपि न तु स्वस्थचित्तः अजामिलोऽपि मुक्तिमियाय प्राप । न तु पापनिर्हरणमात्रं तस्मान्नामाभासेनापि समूलपापक्षयो भवत्येव नात्र श्रद्धाद्यपेक्षा । न च तदा ‘सायं प्रातर्गृणन् भक्त्या दुःखामाद्विमुच्यते’ इति ‘अनुदिनमिदमादरेण शृण्वन’ इति ‘पापक्षयश्च भवति स्मरतां तमहर्निशम्’ इति तन्नाम- ग्रहणादिभिरित्यादौ श्रद्धावृत्त्यादिविधानं व्यर्थमिति शङ्कनीयम्, नामापराधवतां तदपराधक्षयार्थत्वात् । तदुक्तं ‘नामापराध- युक्तानां नामान्येव हरन्त्यघम् । अविश्रान्तिप्रयुक्तानि तान्येवार्थकराणि यत्’ इति । निरपराधानां तु प्रेमलक्षणभक्तिदायर्थ तद्विधानम् । तद्वक्ष्यत्येकादशे — एवं धर्मैर्मनुष्याणामुद्धवात्मनिवेदिनाम् । मयि सञ्जायते भक्तिः कोऽन्योर्थोऽस्यावशिष्यते ’ इति । न चाजामिलेन गुरूपदेशं विनैव नामोच्चारितं तत्कथं सफलं जातमिति शङ्कनीयम्, ‘नो दीक्षां न च सत्क्रियां न च पुरश्चर्या मनागीक्षते मन्त्रोऽयं रसनास्पृगेव फलति श्रीकृष्णनामात्मकः’ इति गुरुदीक्षाविनाऽपि तस्य सफलत्वोक्तेः । न च तथा कथं ‘नृदेहमाद्यं सुलभं सुदुर्लभं सवं सुकल्पं गुरुकर्णधारम्’ इति भगवद्वाक्यं ‘ये गुरोश्चरणं संवाह्य यतन्ति तेऽकृतकर्णधारा बणिजो जलधाविव संसार एव भ्रमन्ति’ इतिवेदस्तुतिवाक्यं च सङ्गच्छते इति शङ्कनीयम्, हरिभजनीय एव तत्प्रापक’ भजनमेव, तदुपदेष्टा गुरुरेव, गुरूपदिष्टभजनमार्गेणैव पूर्वे हरि प्रापुरिति विवेकविशेषवत्त्वेऽपि नो दीक्षामित्याद्युक्तप्रमाण- दृष्टाऽजामिलादिदृष्टान्तेन च किं मे गुरुकरणश्रमेण नामकीर्त्तनादिनैव भगवत्प्राप्तिर्भविष्यतीत्यभिमानेन ये गुर्ववज्ञां कुर्वन्ति ते तस्माद्दोषात् संसारे भ्रमन्ति तथाप्यहर्निशं नामाभ्यासात्तस्मिन् जन्मनि जन्मान्तरे वा गुरुचरणमाश्रित्य तदुपदेशमात्रेण श्रीमद्भागवतम् [स्क. ६ अ. ३ श्लो. २१-३० भगवन्तं प्राप्नुवन्ति । ये तु पूर्वोक्तविवेकशून्या निरपराधास्ते तु नामसङ्कीर्त्तनादिमात्रेणैव गुरूपदेशं विनाऽप्यस्मिन्नेव जन्मनि जीवन्मुक्ता देहपातानन्तरं भगवन्तं प्राप्नुवन्तीति न कोऽपि शङ्कालेशः ॥ २४ ॥ * * ननु यद्येवं तदा किमित्यखिल- धर्मश्रेष्ठं भगवत्प्रापकमतिसुमङ्गलं अल्पप्रयाससाध्यं नामसङ्कीर्त्तनादिभजनं विहाय विद्वांसोऽपि बहुप्रयाससाध्ये महति कर्मणि प्रवर्त्तन्ते तदेवोपदिशन्ति चेत्याशङ्कयाह - प्रायेणेति । अयं महाजनो जैमिन्यादिस्तदिदं भागवतं धर्म प्रायेण न वेद अतो वैतानिके द्रव्यमन्त्राद्यनुष्ठानविस्तारवति महति बहायाससाध्ये कर्मणि दर्शपौर्णमासादौ श्रद्धया युज्यमानः प्रवर्त्तते नापायासे नामसङ्कीर्तनादाविति शेषेणान्वयः । ननु शास्त्रसिद्धमेव भगवद्भजनं शास्त्रीयं कथं न वेदेत्याशङ्कय तत्तत्फलाभिलाष- प्रतिबन्धादित्यभिप्रेत्याह - त्रय्यामिति । मधु मधुरं यथा भवति तथा पुष्पितायामर्थवादप्रकाशितानि पुष्पस्थानीयानि स्वर्गादि- सुखानि यस्यास्तस्यां वेदत्रय्यां जडीकृता अभिनिविष्टा मतिर्यस्य सः । ननु भगवद्भजनादपि सर्वफलप्राप्तिर्भवतीत्यपि शास्त्रप्रसि- मेवेति तदर्थमपि तत्रैव कुतो न प्रवर्त्तते इति चेत्सत्यम्, तथापि महति प्रसिद्धे कर्मणि प्रवृत्तस्य लोके ख्यातिलाभं पूजादिक’ दृश्यते, नैकान्ते नामसङ्कीर्त्तनादिनिष्ठस्येति लोकख्यात्याद्यर्थं नाममाहात्म्ये विश्वासाभावेन वा तदनादृत्य कर्मान्तरप्रवृत्ति- सम्भवात् । कथमेव महतोऽपि मोह इति चेद्भगवदिच्छयैव, अन्यथा संसारविमुक्तप्रसङ्गादित्यभिप्रेत्याह — देव्येति, देवस्य भगवतः शक्त्यात्मिकया माययाऽलमतिशयेन विमोहिता मतिर्यस्य सः । पूर्वगणितानां स्वयम्भूशम्भुप्रमुखानां अन्येषां च भगवदनुगृहीतानां एवं मोहो नास्तीति तद्वद्यावृत्त्यर्थं प्रायग्रहणम् ॥ २५ ॥ * * भगवदनुगृहीतानां तु तथा मोहाभावात्त- जनपराणां तेषां दण्डेनास्माकं सामर्थ्यमस्तीति युष्माभिस्ते दूरतो वर्जनीया इत्याह- एवमिति द्वाभ्याम् । सुधियो भगवदनुग्रहेण मायामोहरहितमतय एवं विमृश्य भगवद्भजनान्तदनुग्रहेणैव सर्वपुरुषार्थसिद्धिः नान्यथेति विचार्य खलु निश्चयेन सर्वात्मना एकाग्रेण मनसाऽनन्ते ऽनन्तगुणे भगवति भावयोगं परमप्रेमोपायं नामसङ्कीर्त्तनादिक विदधते । ये एवम्भूतास्ते मम दण्डं नार्हन्ति तेषां भगवन्निष्ठानां पापप्रवृत्त्यसम्भवात् । अथ कदाचित् यद्यमीषां प्रमादतः पातक स्यात्तदा तदपि उरुगायस्य बहुधा वर्णितमाहात्म्यस्य भगवतो वादः नामकीर्त्तनमेव हन्ति नाशयति । न तेषामपि मद्दण्डेनैव शुद्धिरिति नियम इत्यर्थः ।। २६ ।। * * अतो ये भगवत्प्रपन्नाः भगवन्तं शरणागतास्तान्नोपसीदत तत्समीपमपि न गच्छतेत्यन्वयः । एषां दण्डे वयं ब्रह्मादय ईश्वराभिमानिनो न प्रभवामस्तथाऽस्मान्नियन्ता वयः कालश्व न प्रभवति । तेषामभिभवे प्रवृत्तौ त्वस्माकमप्यनर्थः स्यात्तत्र के यूयं वराका इत्यभिप्रेत्याह - हरेर्गदयाऽभिगुप्तान् सर्वतो रक्षितान् । अतस्तत्पार्षदतो यूयं तत्कृपयैवोर्वरिताः अन्यथा तु चूर्णिता: स्युरिति सूचितम् । तेषां दुराचारे प्रवृत्तिरेव न सम्भवति भगवद्भजनपरत्वेन विषयवैमुख्यादित्याह- । इति । कदाचित् संस्कारवशाद्दुराचारप्रवृत्तावपि पापस्पर्शो न भवति भगवद्यानपरत्वादित्याह – समदृश इति, समो भगवांस्तत्र दृक् येषां ते । तर्हि ते कुत्र गच्छन्तीत्यपेक्षायां देवलोकादप्युपरि वैकुण्ठमिति सूचयन्नाह —त इति देवैः सिद्धैश्च परिगीताः स्तुताः पवित्रा गाथा: कथा येषां ते ॥ २७ ॥ * * तर्हि कीदृशानानयाम इत्यपेक्षायामाह - तानिति द्वाभ्याम् । तानसतो दुष्टान् दण्डार्थमानयध्वम् । के तेऽसन्त इत्यपेक्षायां तेषां लक्षणमाह-विमुखानिति, मुकुन्दस्य मुक्ति- दातुर्भगवतः पादारविन्दयोर्यो मकरन्दरूपो रसस्तस्माद्विमुखान्, भगवचरणसेवा सुखसाधनभक्तियोगरहितानित्यर्थः । कादाचित्कोऽपि श्रवणादिभक्तियोगस्त्रैकालिकदोषनिवर्त्तक एवेति सिद्धान्तमभिप्रेत्याह-अजस्रं निरन्तरं ततो विमुखानिति । भगवचरणसेवा सुखस्य सर्वपुरुषार्थोत्कृष्टतमत्वं दर्शयति निष्किञ्चनैरिति, भगवत्सेवाव्यतिरिक्त सर्व त्यागिभिरेव जुष्टात् सेविता- दित्यन्वयः । ननु तज्ज्ञानं विना कथं तत्साधने प्रवृत्तिः कथं वा तत्प्राप्तिरित्याशङ्कयाह - रसज्ञैरिति, सेवासुखज्ञैरित्यर्थः । ननु तज्ज्ञानमपि कथमित्याशङ्कय विवेकिजनसमुदाये परस्परनिरन्तरविचारादित्यभिप्रायेणाह - परमहंसकुलैरिति । परमहंसाः परम- विवेकिनस्तेषां कुलैः समूहैरिति बहुभिः प्राप्तत्वान्न तत्सत्त्वे प्राप्तावुत्कृष्टतमत्वे वा कोऽपि विवादावसर इत्यपि सूचितम् । ननु तद्भजनाभावमात्रेण कथं ते दण्डमईन्ति तावन्मात्रेण पापोत्पत्त्यसम्भवात् अभावाद्भावोत्पत्तावतिप्रसङ्गादिति चेत्, न, नहि देही क्षणमपि किञ्चिदकुर्वन् स्थातुं शक्नोति कायवाङ्मनोव्यापारस्यावश्यम्भावित्वात् । तथाच भजनविमुखा विषयाविष्टचित्ता विषयसम्पत्तिस्थाने गृह एव बद्धतृष्णा विषयसम्पादन व्यापारमेव कुर्वन्ति । तत्र च पापमेवोत्पद्यते अतस्ते दण्डयोग्या एवेत्यभिप्रेत्याह- गृहे इत्यादि ॥ २८ ॥ * * उक्तमेव विशदयति-जिह्वेति । यत येषां जिह्वा एकदाऽपि भगवद्गुण- नामधेयं न वक्ति, येषां चेतश्चैकदाऽपि तस्य चरणारविन्दं न स्मरति, येषां शिर एकदाऽपि कृष्णाय नो नमति, एवं न कृतं विष्णुसम्बन्धि कृत्यं कर्त्तव्यं भजनं यैस्तानसतोऽसाधून् दण्डार्थमानयध्वमित्यन्वयः । कृष्णायेति भगवदवतारेषु श्रीकृष्णस्य प्राधान्यसूचनाय ॥ २६ ॥ एवं स्वभृत्यान् शिक्षयित्वा ‘यन्नामानि च गृह्णाति लोको भृत्ये कृतागसि । सोऽसाधु- वादस्तत्कीति हन्ति त्वचमिवामयः’ इति न्यायेन स्वभृत्यकृतमजामिलतिरस्कारं स्वकृतापराधं मत्वा भगवन्तं क्षमापयति— तदिति । नः अस्माभिर्यदसत् अन्याय्यं कृतं तत् खानां स्वकीयानामस्माकमपराधं स परमकृपालुतया प्रसिद्धो भगवान् स्वयमेव क्षम्यतां सहतामित्यन्वयः । अस्मत्स्वरूपविचारे तस्मिन् क्षान्तिर्युक्तेत्यभिप्रेत्याह – स्वपुरुषैरिति, स्वदासैरित्यर्थः । क साधव स्क. ६ अ. ३ श्लो. २१-३०] अनेकव्याख्यासमलंकृतम् ११७ स्वदासेषु दण्ड उचित एवेत्याशङ्कयाह–अहो न विदुषामिति, अतिशयेनाज्ञानामित्यर्थः ॥ अहो न विदुषामिति पाठे माहात्म्यम- विदुषामित्यर्थः । तथा ज्ञात्वा कृते एव दण्ड उचितो नान्यथेति भावः । स्वस्वरूपविचारेणापि तस्मिन् क्षान्तिरेव युक्तेत्याह- गरीयसीति, अतिशयेन गुरुतमे इत्यर्थः । औपचारिक भगवत्त्वं वारयन् सर्वतो गुरुत्वमेव प्रतिपादयति-पुराणः सर्वकारण- कारणभूतः । तथापि स कचिदेव स्यात्तदा सर्वान्तर्बहिरभिज्ञता न स्यादित्याशङ्कयाह- पुरुष इति, सर्वसाक्षितया पुर्यामन्त:- करणे एव तिष्ठति यः । न च वयं स्वतन्त्राः यतो नारायणः नराणां समूहो नारस्तस्यायनं शुभाशुभप्रवृत्तिर्यस्मात् सः । तथाच सर्वान्तर्यामी यद्यज्ञानां क्षान्ति न कुर्यात्तदा कस्यापि निर्वाहो न स्यादिति भावः । न च कालान्तरे पुनरेवं करिष्यथेति शङ्कनीयमज्ञानादेव कृतं तदतः परं न कदापि करिष्याम इति सूचयन्नाह - रचिताञ्जलीनामिति । एवं सम्प्रार्थ्य प्रणमति- नमः पुरुषाय पुरुषोत्तमायेति । नातोऽधिक कत्तु शक्नुम उपयोगाभावादिति सूचयन् विशिनष्टि भूम्ने परम- —— महते इति ।। ३० ।। । } भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी । 2 } द्वादशेति । एते द्वादश द्वादशसंख्याका वयं, हे भटाः, गुह्यं गोप्यं, विशुद्धं केवलसत्त्वप्रधानाधिकार, दुर्बोधमितरैर्दुर्वि- ज्ञेयं, यं धर्म ज्ञात्वा, अमृतं मुक्ति, अश्नुते प्राप्नोति, तं, भागवतधर्मं विजानीमः । तत्प्रभावं विद्म इत्यर्थः ।। २१ ।। नन्वित्थंभूतोऽयं यदि भवति तर्हि तमस्मभ्यं भवान् निवेदयतु इति तन्मतं ज्ञात्वा तेभ्यस्तमाह । एतावानिति । अस्मिन् लोके, पुंसां भगवति, तन्नामग्रहणादिभिः सर्वकालं भगवन्नामोच्चारणादिभिः, भक्तियोगः प्रेमपूर्व भगवदनुध्यानं एतावान एव, परः परमः धर्मः स्मृतः ।। २२ ॥ * * आस्तां भगवद्भक्तियोगप्रभावरून्नामोच्चारणप्रभावमेव पश्यतेत्याह । नामेति । हे पुत्रकाः, हरेः नामोच्चारणमाहात्म्यं, तु पश्यत । येन नामोच्चारणमाहात्म्येन, अजामिलः अपि, अपिशब्दस्तु सुतरां मुक्त्यनर्हतां सूचयति । मृत्युपाशात् मृत्योः यमपाशाश्चेत्यर्थः । अमुच्यत मुक्तवान् एव ॥ २३ ॥ * * ननु सकृदुच्चरितेन नामाभासेन कथं सर्वपापक्षयः स्याच्छ्रद्धाभत्त्यावृत्त्यादेर्विधानात् । तथा हि ‘सायंप्रातर्गृणन् भक्त्या दुःखग्रामाद्विमुच्यते’ इति । ‘अनुदिन- मिदमादरेण शृण्वन्’ इत्यत्र तत्र तत्र पठनात् पुराणान्तरे च ‘पापक्षयश्च भवति स्मरतां तमहर्निशम्’ इति । ततः सम्यक्कीत- नादिनैव सर्वपापक्षयसंभवादिदं पापक्षयमननमनुपपन्नमिव तत्राह । एतावतेति । भगवन्नामोच्चारणस्यानवाधिकातिशयमहिम- त्वाद्धेतोरिति शेषः । पुंसाम् अघनिर्हरणाय निःशेषपापक्षपणाय, एतावता अलम् । एतावतैव सर्वपापक्षयपर्याप्ततेत्यर्थः । एतावता कियता तत्राह । भगवतः गुणकर्मनान्नां भगवद्गुणकर्मप्रतिपादकाभिधानानामित्यर्थः । संकीर्त्तनं यत्, इयता, कुतः । यद्यस्मात्, अघवान् पाप्यपि, अजामिल: म्रियमाणः सन् पुत्रं नारायण इति, विक्रुश्य असम्यक कीर्त्तयित्वा मुक्ति मोक्ष, इयाय । आदौ मृत्योस्ततो यमपाशात्ततो भजनातिशयेन मुक्ति संप्राप्तवानित्यर्थः । प्रत्यक्षप्रमाणाग्रे ऽनुमानादेरनुचितत्वा- दिति भावः । अतो नामाभासेनापि सर्वपापक्षयः स्यादेवेति तत्त्वं श्रद्धावृत्त्यादिविधयस्तु पापवासनाक्षयार्थी इति तात्पर्यार्थः । एतत् ‘हरेर्गुणानुवादः खलु सत्त्वभावनः’ इत्यत्रोक्तम् ॥ २४ ॥ नन्वल्पाक्षरनामोच्चारणमात्रेण सर्वाधनिवृत्तिश्व- त्स्मृतिकारजनस्तत्र कथं न प्रवृत्त इति चेत्स जनो भगवन्मायामोहितत्वाद्वेदो कार्थवादश्रुत्या पुष्पफलयज्ञकर्मासक्त्याऽल्पमात्रेऽपि नाम्नि महाफलाऽबोधान्न प्रवृत्तः । न तेन द्वादशाब्दादिकव्यर्थतेत्याह । प्रायेणेति । महाजनः शास्त्रज्ञो ऽप्ययं स्वयं स्वयं वादिव्यति- रिक्तः स्मृतिकारादिर्जनः, तत् इदं नाममाहात्म्यादिक ं प्रायेण न वेद । तत्र हेतुः । यतः स महाजनः, देव्या भगवत्संबन्धिन्या मायया, अलमत्यर्थं यथा तथा, विमोहिता मतिर्यस्य सः । बतेति खेदे | मधु मधुरं यथा भवति तथा पुष्पिता, न तु ततः फलाशावती तस्यां पुष्पस्थानीयक्षुद्र स्वर्गादिप्राप्तिप्रकाशकार्थवादैर्मनोरमायामित्यर्थः । त्रय्यां जडीकृता अभिनिविष्टा मतिर्यस्य सः । अत एव, वैतानिके वेदविहितयज्ञसंबन्धवति, महति कर्मणि युज्यमानश्च ततो न वेदेति संबन्धः । दृश्यते हि प्राकृत- लोकस्य महति मन्त्रादौ श्रद्धा, अल्पे चाश्रद्धा, तस्मान्महाघनिवर्त्तके, अल्पाक्षरे भगवन्नामोचारणे स्वेषामश्रद्धेयत्वात्तच्छान्त्यै द्वादशवार्षिकमुक्तं ततस्तस्यापि न व्यर्थता । यद्वा एकान्तिकभक्तिवशीकृतभगवन्नामसिंहाः स्वायंभूवादय: स्मृत्तिकारा वशी- कृतसिंहा राजानः आखेटके शशादिनाशाय श्वप्रेरणमेव कुर्वन्ति न मत्तमतङ्गजनाशप्रेय कण्ठीरवं, तथा मत्तमतङ्गजस्थानीय- संसारनिरास प्रेर्य भगवन्नामपञ्चाननं शशस्थानीय महाघनिवृत्तये न युञ्जन्ति । किंतु तदहं द्वादशाब्दादिकमेव । न तेन तद्वयर्थता । यद्वा । नाममाहात्म्यज्ञाने सर्वमुक्तिप्रसङ्गात्सृष्टयधिकृतव्या कोपप्रसङ्गाच न स्मरन्तीत्येषा दिक । ग्रन्थविस्तर- भयान्नैतदत्रातिप्रपश्यते ॥ २५ ॥ * एवं भगवन्महिमानं विदित्वा ये भगवन्तं भजन्ति न तेषामस्मद्दश्यता इत्याह । एवमिति सुधियः कुशलाः ये जनाः, एवं नाममाहात्म्यादिक, विमृश्य विचार्य, अनन्ते देशादिकृतत्रिविधपरिच्छेदरहिते, भगवति षाड्गुण्यपूर्णे हरौ, सर्वात्मना सर्वथा भावयोगं भक्तियोग, विदधते कुर्वते ते जनाः, मे मम, दण्डं, न अर्हन्ति खलु । तेषां पातकाभावादित्यर्थः । अथ यदि, अमीषां पातक स्थात्, तर्हि तदपि तत्पावकमपि, उरुगायस्य भगवतो वादः गुणातु- 1 ॥ * श्रीमद्भागवतम् [ स्कं. ६ अ. ३ श्लो. २१-३० वादात्मक नामग्रहणादिरूपः, हन्ति क्षपयति ॥ २६ ॥ * * एवं धर्मतत्त्वनिर्णयपूर्व कमाक्षेपोत्तरमभिधाय भृत्याननुशास्ति त इति त्रिभिः । ते इति । ये जनाः साधवः साधुगुणयुक्ताः, भगवदाश्रयविधापनकाले साध्यभिहितैकादशनियमपालनात्मक- गुणयुक्ता इत्यर्थः । समदृशः जगतो भगवदन्तर्यामिकत्वेन समं तदात्मक सर्व पश्यन्तीति तथाविधाः, भगवत्प्रपन्नाः यस्मि- न्काले यो भगवदवतारस्तमेवोपायोपेयभावेन सम्यक शरणं प्राप्ताः भवन्ति । ते तु, देवैः सिद्धैश्व परितो गीताः पवित्रा गाथा येषां ते तथाविधाः जायन्ते । ततः तान् न उपसीदत । तत्समीपं न गच्छतेत्यर्थः । तत्र हेतुं वदंस्तान् विशिनष्टि । हरेः, गदया अभिगुप्तान् संरक्षितान् भगवद्गदाभिरक्षितत्वात् एषां भयं संसृतिजस्त्रासः, न च अस्ति । न च तेषां दण्डे, वयं प्रभवाम समर्था भवेम । पाठान्तरे कालोऽपि तेषु न प्रभवतीति बोध्यम् ।। २७ ।। * के तर्हि दण्डार्थमत्रास्माभिराने- यास्तत्राह । तानिति । अजस्रं सततं निष्किंचनैर्निष्कामैः, रसज्ञैर्भगवश्चरणसेवा सर्वोत्तम रसाभिज्ञैः परमहंसकुलैर्भागवतपर- महंसवृन्दैः जुष्टात्कायवाङ्मनसामेकीभावेन संसेवितात्, मुकुन्दस्य श्रीहरेः पादारविन्दयोर्मकरन्दतुल्यो यो रसस्तस्मात्., विमुखान्, अत एव असतः लोकनिन्दितकर्मासक्तत्वात् पापिष्ठान् निरयवर्त्मनि नरकद्वारभूते, गृहे भार्यादौ, बद्धा तृष्णा यैस्तान् तानुक्तविधदुर्जनान् आनयध्वम् ॥ २८ ॥ * * किं च यज्जिह्वाचेतः शिरांसि श्रीहरिनामधेयचरणारविन्द- वचनस्मरणनमस्कारान्न कुर्वन्ति तानानयध्वमिति चाह । जिह्वेति । येषां जिह्वा रसना, भगवद्गुणनामधेयं, न वक्ति । येषां, चेतश्च, तञ्चरणारविन्दं भगवदङ्घ्रिपद्मं, न स्मरति । यच्छिरो यदीयं मस्तक, एकदाऽपि सकृदपि, कृष्णाय श्रीहरये, नो । ।। ।। नमति । न कृतं विष्णोः कृत्यमाराधनं यैस्तान् अत एव असत: दुष्टान् तान् आनयध्वम् ॥ २९ ॥ * * एवं स्वदूताना- दिश्य दूतकृतापराधस्य तत्स्वामिनि सत्त्वदर्शनात्तत्कृतापराधं स्वकृतं मत्त्वा तद्भिया भगवन्तं क्षमापयति । तदिति । स्वपुरुषै- रस्मद्भटैः, यत् असत्कृतमपराद्धं, तत् पुराणः पुरुषः, भगवान् नारायण, क्षम्यताम् । दिवादित्वात्कर्थे सार्वधातुके श्यन् । स्वानां त्वदेकभक्तत्वात्स्वीयानां नविदुषामज्ञानाम् अत एव रचिताञ्जलीनां विहिताञ्जलीनां, नोऽस्माकम् उपरि क्षान्तिः, अस्मद्विषया क्षमा इत्यर्थः । गरीयसि गौरवतावति भवति अहो योग्यैव अतीति शेषः । अतः क्षमां करोत्वित्यर्थः । भूम्ने सर्वान्तर्यामिणे, पुरुषाय सर्वकालं पुरुषाकृतये भवते इत्यर्थः । नमः ‘अञ्जलिः परमा मुद्रा क्षिप्रं देवप्रसादनी’ इत्युक्तस्तत्प्रसाद- हेतुकाञ्जलबन्धपूर्वकोयं नमस्कारः ॥ ३० ॥ 1 , भाषानुवादः इस जगत् में जीवोंके लिये बस, यही सबसे बड़ा कर्तव्य — परम धर्म - है कि वे नाम-कीर्तन आदि उपायोंसे भगवान के चरणों में भक्तिभाव प्राप्त कर लें ।। २२ ।। प्रियं दूतों ! भगवान के नामोच्चारणकी महिमा तो देखो, भगवान्के अजामिल - जैसा पापी भी एक बार नामोच्चारण करनेमात्र से मृत्युपाशसे छुटकारा पा गया ।। २३ ।। 1 भगवान्के गुण, लीला और नामका भलीभाँति कीर्तन मनुष्योंके पापोंका सर्वथा विनाश कर दें, यह कोई उसका बहुत बड़ा फल नहीं है; क्योंकि अत्यन्त पापी अजामिलने मरनेके समय चञ्चल चित्तसे अपने पुत्रका नाम ‘नारायण’ उच्चारण किया । इस नामाभासमात्र से ही उसके सारे पाप तो क्षीण हो ही गये, मुक्तिकी प्राप्ति भी हो गयी ।। २४ ।। बड़े-बड़े विद्वानोंकी बुद्धि कभी भगवान की मायासे मोहित हो जाती है । वे कर्मोंके मीठे-मीठे फलोंका वर्णन करनेवाली अर्थवादरूपिणी वेदवाणी में ही मोहित हो जाते हैं और यज्ञयागादि बड़े बड़े कर्मों में ही संलग्न रहते हैं तथा इस सुगमातिसुगम भगवन्नामकी महिमाको नहीं जानते । यह कितने खेदकी बात है ।। २५ । प्रिय दूतों ! बुद्धिमान पुरुष ऐसा विचारकर भगवान् अनन्तमें ही सम्पूर्ण अन्तःकरणसे अपना भक्तिभाव स्थापित करते हैं। वे मेरे दण्डके पात्र नहीं हैं । पहली बात तो यह है कि वे पाप करते ही नहीं, परन्तु यदि कदाचित संयोगवश कोई पाप बन भी जाय, तो उसे भगवान्का गुणगान तत्काल नष्ट कर देता है ।। २६ ।। जो समदर्शी साधु भगवान्को ही अपना साध्य और साधन दोनों समझकर उनपर निर्भर हैं, बड़े-बड़े देवता और सिद्ध उनके पवित्र चरित्रोंका प्रेमसे गान करते रहते हैं । मेरे दूतो ! भगवान्की गदा उनकी सदा रक्षा करती रहती है । उनके पास तुम लोग कभी भूलकर भी मत फटकना | उन्हें दण्ड देनेका सामर्थ्य न हममें है और न साक्षात् कालमें ही ।। २७ ।। * * बड़े-बड़े परमहंस दिव्य रसके लोभसे सम्पूर्ण जगत् और शरीर आदिसे भी अपनी अहंता-ममता हटाकर, अकिचन होकर निरन्तर भगवान् मुकुन्दके पादारविन्दका मकरन्दरस पान करते रहते हैं । जो दुष्ट उस दिव्य रससे विमुख हैं और नरकके दरवाजे घर-गृहस्थीकी तृष्णाका बोझा बाँधकर उसे ढो रहे हैं, उन्हींको मेरे पास बार-बार लाया करो ॥ २८ ॥ * * जिनकी जीभ भगवान्के गुणों और नामोंका उच्चारण नहीं करती, जिनका चित्त उनके चरणारविन्दोंका चिन्तन नहीं करता और जिनका सिर एक बार भी भगवान् श्रीकृष्णके चरणोंमें नहीं झुकता, उन भगवत्से- |स्कं. ६ अ. ३ श्लो. ३१-३५ ] अनेकव्याख्या समलङ्कृतम् ११९ वाविमुख पापियों को ही मेरे पास लाया करो ।। २९ । आज मेरे दूतोंने भगवान्के पार्षदोंका अपराध करके स्वयं भगवान का ही तिरस्कार किया है। यह मेरा ही अपराध है । पुराणपुरुष भगवान् नारायण हमलोगोंका यह अपराध क्षमा करें। हम अज्ञानी होनेपर भी हैं उनके निजजन, और उनकी आज्ञा पानेके लिये अञ्जलि बाँधकर सदा उत्सुक रहते हैं । अतः परम महिमान्वित भगवान् के लिये यही योग्य है कि वे क्षमा कर दें । मैं उन सर्वान्तर्यामी एकरस अनन्त प्रभुको नमस्कार करता हूँ ।। ३० ॥ तस्मात् सङ्कीर्तनं विष्णोर्जगन्मङ्गलमंहसाम् । महतामपि कौरव्य विद्धय कान्तिकनिष्कृतिम् ॥ ३१ ॥ शृण्वतां गुणतां वीर्याण्युद्दामानि हरेर्मुहुः । यथा सुजातया भक्त्या शुद्धयन्नात्मा व्रतादिभिः ॥ ર્ कृष्णाङ्घ्रिपद्ममधुलिण् न पुनर्विसृष्टमायागुणेषु रमते जिनावहेषु । अन्यस्तु कामहत आत्मरजः प्रमाटुमीहेत कर्म यत एव रजः पुनः स्यात् ॥ ३३ ॥ इत्थं स्वभर्तृगदितं भगवन्महित्वं संस्मृत्य विस्मितधियो यमकिङ्करास्ते । नैवाच्युताश्रयजनं प्रति शङ्कमाना द्रष्टुं च बिभ्यति ततः प्रभृति स्म राजन् ॥ ३४ ॥ ३२ ॥ इतिहासमिमं गुह्यं भगवान् कुम्भसम्भवः । कथयामास मलय आसीनो हरिमर्चयन् ॥ ३५ ॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे यमपुरुषसंवादे तृतीयोऽध्यायः ॥ ३ ॥ कृष्णप्रिया व्याख्या पा अन्वयः- - तस्मात् कौरव्य जगन्मंगलं विष्णोः संकीर्तनं महताम् अपि अंहसाम एकांतिकनिष्कृतिम् विद्धि ॥ ३१ ॥ * * उद्दामानि हरेः वीर्याणि मुहुः शृण्वतां गृणताम् आत्मा यथा सुजातया भक्त्या शुद्धयेत् व्रतादिभिः न ।। ३२ ।। * * कृष्णांघ्रिपद्ममधुलिट् पुनः वृजिनावहेषु विसृष्टमायागुणेषु न रमते अन्यः तु कामहतः आत्मरजः प्रमाटु कर्म ईहेत यतः एवं पुनः स्यात् ॥ ३३ ॥ * * राजन् ते यमकिंकराः इत्थं स्वभर्तृगदितं भगवन्महित्वं संस्मृत्य विस्मितधियः न एव च ततःप्रभृति अच्युताश्रयजनं प्रतिशंकमानाः द्रष्टुं बिभ्यति रम ॥ ३४ ॥ * * मलये आसीनः हरिम् अर्चयन् भगवान् कुंभसंभवः इमं गुह्यं इतिहास कथयामास ।। ३५ ।। ॥ इति तृतीयोऽध्यायः ॥ ३ ॥ श्रीधरस्वामिविरचिता भावार्थदीपिका तस्मादित्यादि शुकोक्तिः । जगतोऽपि मंगलरूपम् ॥ ३१ ॥ * * एकांतिकत्वमेवाह । शृण्वतामिति । त्रतादिभिस्तथा न शुद्धयेत् ॥ ३२ ॥ एतदुपपादयति । कृष्णांत्रिपद्मयोर्मधु लेढि आस्वादयतीति तथा । मधुलि- हताऽतितुच्छत्वेन विसृष्टा ये मायागुणा विषयास्तेषु पुनर्न रमते । अन्यस्तु तन्मध्वास्वादरहितोऽत एव कामाभिभूतः सन्नात्मनो रजः पापं प्रमाष्टुमपि कर्मैव प्रायश्चित्तरूपमीहेत यतः कर्मणः पुनरपि रजः पापं स्यादेव कुंजरशौचवत् सत्त्वशोधकत्वाभावात् ।। ३३ ॥ * नैव विस्मितधियो बभूवुः । किं तु सत्यमुक्तमित्येव मेनिरे । ततः प्रभृति प्रति- शंकमाना अस्मानेवैष हन्यादिति शंकां वहतस्तं द्रष्टुमपि विभ्यति स्म । पाठांतरे तु विस्मितधियो जाताः । ते च ततः प्रभृति बिभ्यति स्मेत्यर्थः ।। ३४ । कुंभसंभवोऽगस्त्यो मलये पर्वत आसीनोऽव्ययो हरिमर्चयन् । पुनः पुनः विश्वासार्थं हरेः पादौ स्पृशन्नित्यर्थः ॥ ३५ ॥ 8 इति श्रीमद्भागवते म० षष्ठस्कंधे टीकायां तृतीयोऽध्यायः ॥ ३ ॥ वंशीधरकृतो भावार्थदीपिकाप्रकाशः यतो विष्णुर्महांस्तस्माद्धेतोः । कौरव्येति । शुद्धकुलोद्भूतत्वात्तुभ्यं मयैतद्गुह्यमप्युपदिष्टमिति भावः ॥ ३१ ॥ * * उामान्युत्कटानि गोवर्द्धनोद्धरणादीनि । आदीनि तीर्थयात्रादिग्रहः सुष्ठु जातया भक्त्या रतिरूपया तु मुक्तिपर्यंतस्य यथा १. प्रा० पा० – पर्वाण्युत्तमानि । २. प्रा० पा० मह्यं । १२० श्रीमद्भागवतम् [ स्कं. ६ अ. ३ लो. ३१-३५ एतद्भक्तिमाहात्म्यम् । तधिपंकजमकरंदास्वादहीन-
- । किमुत पापमात्रस्य वासनाक्षयप्रकारेणात्मा मनः शुद्धयेत्तथा व्रतादिभिर्नेत्यर्थः ॥ ३२ ॥ तन्मध्वास्वादरहितो भगवचरणारविंदर सास्वादविधुरो भक्तिमात्रहीनः । अत एव त्वादेव ॥ ३३ ॥ ४ * पाठांतरे ‘ते चाच्युताश्रयजनम्’ इति पाठे । इत्यर्थ इति । अहो अस्माकं स्वाम्यप्येभ्यो विष्णु- भक्तेभ्यो बिभेति ततोऽस्माभिः सुतरां भेतव्यमिति विचार्य सभ्याः संतीति भावः ॥ ३४ ॥ * कुंभसंभव इति । संहिताध्ययने द्वैपायनादश्रुतत्वादिति भगवानतीव समर्थ: । ’ अगस्त्यः कुंभसंभवः’ इत्यमरः । एतेनायोनिजत्वमलयागासी- नत्र्यर्च नत्वकथनेन सर्वथा सत्यता द्योत्यतेऽस्योपाख्यानस्येति ॥ ३५ ॥ इति श्रीमद्भागवतभावार्थदीपिकाप्रकाशे षष्ठस्कन्धे तृतीयोऽध्यायः ।। ३ ।। || ग | PSFIRETT अन्वितार्थप्रकाशिका तस्मादिति । यस्माद्यमेनाप्येवमुक्तं तस्मात् हे कौरव्य ! विष्णोर्नामसंकीर्तन महतामप्यंहसां पापानामैकान्तिक- निष्कृतिं समूलानां प्रायश्चित्तं जगतां प्राणिनां मङ्गलं पुरुषार्थ चतुष्टयप्रापक च विद्धि ॥ ३१ ॥ * * शृण्वतामिति । ॥ उद्दामानि पापनाशनादौ विशृङ्गलानि हरेर्वीर्याणि मुहुः शृण्वतां गृणतां नृणां सुजातयाऽनायासेनैव निश्चिन्तयोत्पन्नया भक्त्या आत्माऽन्तःकरणं यथा निर्वासनं शुध्येत्तथा व्रतादिभिः प्रायश्चित्तान्तरैर्न शुध्येत्, किंतु सवासनमेव शिष्यते ॥ ३२ ॥ * * कृष्णेति । कृष्णाङ्घ्रिपद्मयोर्मधु लेढि आस्वादयतीति तथा भगवत्सेवासुखाभिज्ञः वृजिनावहेषु नरकादिदुःखप्रदेषु तुच्छतया विसृष्टास्यक्ता ये मायागुणा विषयास्तेषु पुनर्न रमते । अन्यः सेवासुखानभिज्ञस्तु कामाभिभूतः सन्नात्मनो रजः पापं प्रमाटुमपि कमैव प्रायश्चित्तरूपमीहेत करोति । यतोऽनन्तरं पुनरपि रजः स्यात्पापकर्मणि प्रवर्तत एव सत्त्वशुद्धेरभावात् ॥ ३३ ॥ इत्थमिति । हे राजन् ! स्वभर्त्रा यमेन गदितं भगवन्महित्वम् इत्थम् ईदृक्प्रभावं संस्मृत्य ततः प्रभृति विस्मितधियः सन्तः ते यमकिंकरा: अच्य ‘यमकिंकरा: अच्युताश्रयजनं प्रति अस्मानेवैष हन्यादिति शङ्कमानाः नैव गच्छन्तीति शेषः । किंतु तं द्रष्टुमपि बिभ्यति स्म । यद्वा । नैव विस्मितधियो जाताः किंतु सत्यमिति मेनिरे । ततो ऽच्युताश्रयजनं प्रति शङ्कमानाः तं प्रष्टुमपि विभ्यति स्म । ते चाच्युतेति पाठे ते विस्मिता जातास्ते च बिभ्यति स्मेत्यन्वयद्वयम् ॥ ३४ ॥ * इतिहासमिति । मलये पर्वते हरिमर्चयन् आसीनो भगवान् कुम्भसंभवोऽगस्त्यः इममितिहासं मह्यं कथयामास ।। ३५ ।। इति श्रीकृष्णसेवार्थमन्वितार्थप्रकाशिकाम् । गङ्गासहायः षष्ठस्य तृतीये निरमादिमाम् ॥ इति श्रीभागवते महापुराणे षष्ठस्कन्धेऽन्वितार्थप्रकाशिकायां तृतीयोऽध्यायः ॥ ३ ॥
- वीरराघवव्याख्या
- *
- एवं प्रत्याह किं तान् प्रति धर्मराज इति पृष्टां यमोक्तिमभिधाय तामुपसंहरिष्यमाणोऽन्तरा राज्ञः प्रश्नस्य यथैव नरकान्नरः नानोप्रयातना नेयादित्यस्योत्तरं सङ्गमयति मुनिः । तस्मादिति त्रिभिः । हे कौरव्य ! तस्मादितिहासमुखेन नाममाहात्म्यस्य श्रुतत्वाद्यमोक्त्या सम्वादितत्वाच विष्णोः सङ्कीर्त्तनं जगतो मङ्गलावहं महतां विपुलानामप्यंहसां पापानामै- कान्तिकनिष्कृतिं मुख्यं प्रायश्चित्तं विद्धि जानीहि ॥ ३१ ॥ व्रतादिक तु न मुख्यमित्याह । शृण्वतां हरेरुद्दामानि विपुलानि वीर्याणि यशांसि मुहुर्मुहुः शृण्वतां गृणतां कथयतां चात्मा चित्तं भगवति श्रवणादिना सञ्जातया भक्तथा यथा शुद्धयति तथा व्रतादिभिर्न शुद्धयति ॥ ३२ ॥ * कृष्णस्याङ्घ्रिपद्मयोर्यन्मधु रसप्तं लेव्यास्वादयतीति तथा पुनर्वृजि. नावहेषु दुरितापादकेषु विसृष्टेषु प्रकृतिकार्यगतशब्दादिषु न रमते न सज्जते अन्य तु कृष्णाङ्घ्रिपद्ममध्वनभिज्ञस्तु कामैः शब्दादिभिर्हतोऽभिभूतः आत्मनः स्वस्य रजः पापं प्रमाष्टुमपनेतुं कर्म प्रायश्चित्तरूपमीहेत कुर्यादित्यर्थः । कर्म विशिनष्टि । यतः कर्मणोऽनन्तरं पुनः रजः पापं स्यात् सम्भाव्येत पुना इति रेफलोपे दीर्घः ॥ ३३ ॥ * * यमोक्तिमुपसंहरति । इत्थमिति । हे राजन्नित्यं अत्रं मेानसम्भाव्य पूना कृति समला भावत।” महित्य माहात्म्यं संस्मृत्य प्रत्यभिज्ञाय
- । हे भर्त्रा “कर्तृकरणे" समासः
- विष्णुदूतोक्तिरीत्या एवं ज्ञात्वा विस्मिता धीर्येषां ते यमकिङ्कराः तेन यमशासनेनाच्युताश्रयजनं प्रति शङ्कमानाः तत्समीपगम- नेनास्माकं भर्तृदण्डनं स्यादिति शङ्कमानाः तत आरभ्य तं द्रष्टुं च बिभ्यति भयं प्राप्नुवन्तीत्यर्थः ॥ ३४ ॥ * उक्तस्य प्रामाण्यज्ञापनाय तस्यातप्रणीततामाह । इतिहासमिति । मलये पर्वते आसीनो भगवान् कुम्भसम्भवो ऽगस्त्यः हरिमारा- धयन्निमं गुह्यमितिहासं कथयामास कथितवान् ।। ३५ ।।
- इति श्रीमद्भागवते महापुराणे षष्ठस्कन्धे श्रीमद्वीरराघवाचार्यकृतभागवतचन्द्र चन्द्रिकायां तृतीयोऽध्यायः ॥ ३ ॥
- स्कं. ६ अ. ३ श्लो. ३१-३५ ]
- अनेकव्याख्यासमलङ्कृतम्
- विजयध्वजतीर्थकृता पदरत्नावली
- १२१
- यत् स्वपुरुषैरसत्कृतं नोऽस्माकं तत् क्षम्यतामित्यन्वयः । न विदुषां हरेर्माहात्म्यमजानताम् । क्षान्त्यर्थं को दण्ड इति तत्राह । रचितेति । किमनेनानायासेनेति तत्राह । नम इति । द्रव्यादिलक्षणदण्डमन्तरेण कथं क्षान्तिरिति तत्राह । क्षान्तिरिति । वरीयसि वरतरे परतमे पुरुषाय नमः इत्येतावता द्रव्यादिदानाधिकेन क्षान्तिर्भवतीति शेष: “ भूयिष्ठान्ते नम उक्ति विधेम" इति श्रुतेः सर्वदा सन्निहिता सन्तिष्ठते महति क्षमेति सप्तमी ॥ ३१-३२ ॥ अंहसां पापानामे- कान्तविनिष्कृतं नियतं प्रायश्चित्तं न केवलं स्त्रीशूद्रादीनां नामसङ्कीर्तनं विधीयते अन्येषामपीति भावेनाह महता- मिति ॥ ३३ ॥ * * सर्वाणि साधनान्यनुष्ठीयमानान्यपि भक्तिसहितानि बलवन्तीत्यभिप्रेत्याह । शृण्वत
- इति ॥ ३४ ॥
- कुम्भसम्भवोऽगस्त्यः मलये पर्वते ॥ ३५ ॥
- इति श्रीमद्भागवते महापुराणे षष्ठस्कन्धे श्रीमद्विजयध्वजकृत पदरत्नावल्यां तृतीयोऽध्यायः ॥ ३ ॥
- जीवगोस्वामिकृतः क्रमसन्दर्भः
- तस्मादित्यादिश्रीशुकोक्तिः तस्मात् सङ्कीर्त्तनन्तु जगतां सापराधनिरपराधानां सर्वेषामेव महतामहसामपराध- पर्यन्तानाम् ॥ ३१ ॥ * * सुष्ठु जातया रतिरूपया भक्तया तु यथा मुक्तिपर्यन्तस्य किमुत पापमात्रस्य वासनाक्षय- प्रकारेणात्मा मनः शुद्धचेत तथा व्रतादिभिर्नेत्यर्थः ॥ ३२ ॥ * तदेव व्यनक्ति । कृष्णाङ्ग्रीति । अन्यः भक्तिमात्र - हीनः ॥ ३३-३४ ॥ * * कुम्भसम्भवोऽगस्त्योऽपीत्यर्थः संहिताध्ययने श्रीद्वैपायनाच्छ्रुतत्वात् ॥ ३५ ॥
- इति श्रीमद्भागवते महापुराणे षष्ठस्कन्धे श्रीमज्जीवगोस्वामि कृतक्रम सन्दर्भस्य तृतीयोऽध्यायः ॥ ३॥
- विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी
- विष्णुदूतानां यमस्य च वाक्यप्रामाण्येन यदि यत्किंचित् कीर्त्तनेनैव सर्वपापक्षयस्तदा किमुत सम्यक्कीर्त्तनेनेत्याह । तस्मादिति श्रीशुकः ॥ ३१ ॥ * * श्रवणकीर्तनाद्यभ्यासवतां भक्तानां सापराधानामपि भक्तिरेव पूर्णा स्यादित्युक्तम् । “नामापराधयुक्तानां नामान्येव हरन्त्यघम् । अविश्रान्तप्रयुक्तानि तान्येवार्थ कराणि हि” इति । तस्यां सत्यान्तु जीवात्मैव शुद्धयेत् । किं पुनर्मन इत्याह । शृण्वतामिति । आत्मा जीवः अविद्यामालिन्याद्यथा शुद्धयति न तथा व्रतादिभिः कर्मकृतैः प्रायश्चित्तैः पापक्षये सत्यपि पापबीजस्याक्षयान्मनः किञ्चिन्मात्रमेवापाततः शुद्धयतीत्यर्थः । तेन भो राजन् ! " प्रायश्चित्तमथोऽपार्थ मन्ये कुञ्जरशौचवत्” इति यत्त्वयाक्षिप्तं तत् सत्यमेव मूलपापक्षयो भक्तानां भक्तथैव तेषामेव नरकगमनाभावो भगवत्प्राप्तिश्च तदभावात् कर्मिणान्तु पापपुण्यवशान्नरकस्वर्ग यातायातं पुनः पुनरित्युपाख्यानेन सिद्धान्तः प्रतिपादित इति द्योति- तम् ॥ ३२ ॥ * * तदेवं सापराधा निरपराधा वा भक्ता भक्तिमेव कुर्वीरन् न तु प्रायश्चित्तं भक्तावविश्वस्ताः स्मार्त्ता- स्त्वर्थवादादिकुतर्क कर्कशमतयः प्रायश्चित्तमेव । ननु नामकीर्तनमित्यतः प्रायश्चित्तशास्त्रमपि सार्थकमित्याह । कृष्णाङ्घ्रिपद्म- योर्मधुलिड भ्रमरः स यथा गोमनुष्यादिभक्ष्येषु घासौदनादिषु क्षुधा त्रियमाणोऽपि न विषज्जते तथैव भक्तः पूर्वदशायां दुर्विषयतोऽपि भक्तत्वे सति विसृष्टा ये मायागुणास्तेषु न रमते रमधातुप्रयोगात् यद्यपि कनिष्ठभक्तस्तान् सेवते तदपि “जुषमाणश्च तान् कामान् दुःखोदर्कांश्च गर्हयन्" इत्युक्तरीत्या तेषु नैव रमते । अन्य: स्मार्त्तस्तु आत्मनो रजः पापं प्रमाट्टु कर्म हेतैव प्रायश्चित्तं कुर्वीतैव यत एव रजः पापं कुञ्जरशौचवत् पुनः स्यादेव नामापराधवत्त्वादिति भावः ॥ ३३ ॥ * अच्युताश्रयजनं प्रति नैव गच्छन्तीति शेषः । तेनाच्युतेति पाठे ते विस्मृतधियो बभूवुः पुनस्ते च विभ्यतीति ॥ ३४ ॥ * * कुम्भसम्भवोऽगस्त्यो मलयपर्वत आसीनोऽव्ययो हरिमयन् पुनः पुनर्विश्वासार्थं हरेः पादौ स्पृशन्नित्यर्थ इति श्रीस्वामि-
- चरणाः ।। ३५ ।
- इति सारार्थदर्शिन्यां हर्षिण्यां भक्तचेतसाम् । षष्ठस्कन्धे तृतीयोऽयं सङ्गतः सङ्गतः सताम् ॥ ३ ॥
- शुकदेवकृतः सिद्धांतप्रदीपः
- जगतां मङ्गलं सर्वपुरुषार्थप्रदं विद्धि महतामहसां महापापानामप्यैकान्तिकनिष्कृतिं च विद्धि ॥ ३१ ॥ * * संकीर्त्तनादिरूपाया भक्तेः सर्वाहसामैकान्तिकनिष्कृतित्वमाह । शृण्वतामिति । हरेर्वीर्याणि शृण्वतां सुजातया भक्तया यथा आत्मा सर्वपाप मूलरूपवासनायुक्तं मनः शुद्धयेत्तथा व्रतादिभिः कृच्छ्रचान्द्रायणादित्रतैः आदिना तपोयज्ञादिभिश्व
- १६
- ।
- १२२
- श्रीमद्भागवतम्
- [ स्कं. ६ अ. ३ श्लो. ३१२३५ नेत्यर्थः ॥ ३२ ॥ * मनसः शुद्धिनिर्वासनत्वं तत् कृष्णभक्त्यैव भवति नान्यथेत्याह । कृष्णेति । कृष्णा घ्रिपद्मयो- र्यन्मधु रसस्तल्लेढ्यास्वादयतीति स तथा कृष्णभक्तः वृजिनावहेषु दुःखप्रदेषु मायागुणकार्येषु विषयेषु विसृष्टेषु त्यक्तेषु पुनर्न रमते तद्वासनारहितमनस्कत्वादन्यस्तु कृष्णाभक्तस्तु आत्मनो मनसः रजः विषयवासनात्मकं रागं प्रमाटु प्रक्षालयितुं यतः पुनः राग एव स्यात्तत् कर्म यज्ञतपोव्रत्तादिकमीहतेत्यन्वयः ।। ३३ ।। * * तदनन्तरं यमदूतानां चेष्टितमाह । इत्थमिति । इत्थं स्वभर्तृगदितं भगवन्महित्वं संस्मृत्य सत्यमेवोक्तमिति मत्वा नैव विस्मृतधियोस्मि ततः प्रभृति प्रतिशङ्कमानाः आत्मानं प्रति विष्णुपार्षदादिभ्यो भयं शङ्कमानाः अच्युताश्रयं जनं द्रष्टुं च बिभ्यति स्म ॥ ३४ ॥
- कुम्भसम्भवोऽ-
- गस्त्यः || ३५ ॥
- इति श्रीमद्भागवते महापुराणे षष्ठस्कन्धे श्रीमच्छुकदेवकृत सिद्धान्तप्रदीपे तृतीयाध्यायार्थप्रकाशः ॥ ३ ॥
- गोस्वामिगिरिधरलाल विहिता बालप्रबोधिनी
- एवं यमेन निर्णीतं निरूप्य यद्यपि भक्त्याभासोऽपि सर्वपुरुषार्थहेतुः तथापि श्रद्धादिपूर्वकमेव सा कर्तव्येति स्वसिद्धान्तं शुक आह- तस्मादिति । यस्माद्यमेनाप्येवमुक्तं तस्मात् हे कौरव्य विष्णोर्नामसङ्कीर्त्तनं महतामप्यंहसां पापानां एकान्तिकनिष्कृतिं समूलानां प्रायश्चित्तं जगतां प्राणिनां मङ्गलं पुरुषार्थचतुष्टयप्रापकं च विद्धीत्यन्वयः । यद्वा न च वेदान- धिकारिणां शूद्रादीनामिदमिति भ्रमितव्यं किन्तु ब्राह्मणादीनामपीत्याह - महतामपीति । शुद्धकुलोद्भवस्य तव त्विदमेवोचितमिति सम्बोधनेन सूचितम् ॥ ३१ ॥ * * ननु तर्हि किं मन्वादिभि: महद्भिर्विहितं द्वादशाब्दादिप्रायश्चित्तं व्यर्थमेव ? नहि नहि तदपि सत्यमेव ‘तैस्तान्यघानि पूयन्ते’ इत्युक्तत्वात्, तथापि श्रेष्ठं त्विदमेवात्पायासेनैव समूलपापनिवर्त्तकत्वादित्याह– शृण्वतामिति । उद्दामानि चतुर्विधपुरुषार्थदाने देशकालावस्थावर्णाश्रमादिलक्षणप्रतिबन्धोल्लङ्घितानि भगवद्वीर्याणि मुहु: शृण्वतां गृणतां नृणां सुजातयाऽनायासेनैव निश्चलतयोत्पन्नया भक्त्या आत्माऽन्तः करणं यथा निर्वासनं शुद्धयेत्तथा व्रतादिभिः प्रायश्चित्तान्तरैर्न शुद्धयेत् किन्तु सवासनमेवेत्यन्वयः ॥ ३२ ॥ * * नन्वत्र शास्त्रमेव प्रमाणमस्त्यस्ति वा प्रमाणान्तरम- पोत्याशङ्कय भक्ता भक्तिमेव कुर्वन्ति तत्र विश्वासरहिता अर्थवादादिकुतर्कव्यालय स्तमतयस्तु तामनादृत्य प्रायश्वित्तमेव कुर्वन्ति तेषामुभयेषां फलवैषम्यमपि तत्र प्रमाणमित्याहु कृष्णेति । कृष्णाङङ्घ्रिपद्मयोर्मधु लेढि आस्वादयतीति तथा भगवत्सेवासुख- ज्ञास्तुच्छतया विसृष्टास्त्यक्ता ये मायागुणा विषयास्तेषु वृजिनावहेषु नरकादिदुःखप्रदेषु पुनर्न रमते । अन्यः सेवासुखानभिज्ञस्तु कामाभिभूतः सन्नात्मनो रजः पापं प्रमाट्टुमपि कर्मैव प्रायश्चित्तरूपमीहेत करोति । यतोऽनन्तरं पुनरपि रजः स्यात् पाप- कर्मणि प्रवर्त्तते एव । तथाच भक्तानां पापप्रवृत्त्यभावात् समूलं पापक्षयो नरकगमनाभावो भगवत्प्राप्तिश्च । कर्मिणां तु पुनः पापप्रवृत्तिदर्शनात् समूलपापक्षयाभावः पापपुण्यवशान्नरकस्वर्गयातायातं चानुमीयते इति भावः ॥ ३३ ॥ ततः प्रभृति यमदूताः कथमवर्त्तन्तेत्यपेक्षायामाह - इत्थमिति । ततः प्रभृति विस्मितधियः सन्तस्ते यमकिङ्करा अच्युताश्रयजनं प्रति अस्मानैवैष हन्यादिति शङ्कमाना नैवागच्छन्तीति शेषः । किन्तु तं द्रष्टुमपि बिभ्यति स्मेत्यन्वयः । हे राजन्निति सम्बोधनं राजाज्ञोल्लङ्घनं कथं कुर्युरिति सूचनार्थम् । ते चाच्युतेति पाठे ते विस्मिता जातास्ते च बिभ्यति स्मेत्यन्वयद्वयम् ॥ ३४ ॥ अयमितिहासो भगवता कुतः श्रुत इत्यपेक्षायामाह - इतिहासमिति । इममितिहासं मह्यं मलये पर्वते हरिमर्चयन्नासीनः कुम्भ- सम्भवोऽगस्त्यः कथयामासेत्यन्वयः । तत्कथनं कथं प्रमाणं प्रलोभनार्थमन्यथैव कथितं कुतो न स्यादिति शङ्कानिरासायाह- हरिमर्चयन्निति । नहि तत्समयेऽन्यथाकथनं युक्तमिति भावः । तेन कुतो ज्ञातमित्याकाङ्क्षायामाह - भगवानिति, सर्वज्ञ इत्यर्थः ॥ ३५ ॥
- इति श्रीवल्लभाचार्यवंश्य गोपालसूनुना । श्रीमन्मुकुन्दरायाणां पादसेवाधिकारिणा ॥ १ ॥ श्रीमदगिरिधराख्येन भजनानन्दसिद्धये । श्रीमद्भागवतस्येयं टीका बालप्रबोधिनी ॥ २ ॥ रचिता तत्र षष्ठेऽस्मिन् स्कन्धे नामनिरूपणे । तृतीयो विवृतोऽध्यायः सिद्धान्तविनिरूपकः ॥ ३ ॥
- भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी
- *
- एवं ‘प्रत्याह किं तान्प्रति धर्मराजः’ इति संपृष्टां यमोक्तिमभिधाय तामुपसंहरिष्यमाणस्तदन्तरा ‘यथैव नरकान् नरः । नानोप्रयातनान्नेयात्’ इत्यस्य राज्ञः प्रश्नस्योत्तरं संगमयति मुनिस्तस्मादिति त्रिभिः । तस्मादिति । हे कौरव्य, तस्मात् इतिहासमुखेन नाममाहात्म्यस्य श्रुतत्वाद्यमोत्त्या तस्य संवादितत्वाच्चेत्यर्थः । जगन्मङ्गलं जगतां मङ्गलावहं विष्णोः, संकीर्त्तनं,
- स्कं. ६ अ. ३ श्लो. ३१-३५ ]
- अनेकव्याख्यासमलङ्कृतम्
- "
- १२३
- महतां विपुलानामपि, अंहसां पापानाम् एकान्तिकनिष्कृतिं मुख्यं प्रायश्चित्तं विद्धि जानीहि ॥ ३१ ॥ * * शृण्वता- मिति । हरेः, उद्दामानि विपुलानि, वीर्याणि यशांसि मुहुः पुनः पुनः शृण्वतां गृणतां कथयतां च, आत्मा चित्तं यथा सुजातया भगवद्गुणादिश्रवणादिसंजातया भक्त्या, शुद्धयेत् तथा व्रतादिभिः प्रायश्चित्तैः, न शुद्धयेत् । अनेन भगवन्नामो- चारणादीनां पापनिर्हरणे एकान्तिकत्वं यथा तथा, ब्रतादीनां नेति भावः ॥ ३२ ॥ * * एतदेवोपपादयति । कृष्णाघ्रीति । कृष्णस्य यावङ्घ्री तावेव पद्मे तयोर्यन्मधु मधुररसस्तत् लेढि आस्वादयतीति कृष्णाङ्घ्रिपद्ममधुलिड्जनः, वृजिनावहेषु दुरितापादकेषु, विसृष्टा अतितुच्छ त्वेन महाजनैस्त्यक्ता ये मायागुणा विषयास्तेषु पुनः न रमते नैव सज्जते । अन्यः कृष्णाङ्घ्रिपद्ममध्वास्वादरहितस्तु, कामहतः शब्दादिविषयैरभिभूतः सन्, आत्मनः स्वस्य रजः पापं प्रमार्टुमपनेतुं, कर्म प्रायश्चित्तरूपं, ईहेत कुर्यात् । यतः कर्मणः पुनरपि रजः पापमेव स्यात् ॥ ३३ ॥
- यमोक्तिमुपसंहरति । इत्थमिति । हे राजन्, इत्थं स्वभर्तृगदितं स्वभर्त्रा यमेन कथितं भगवन्महित्वं भगवतो निरतिशयं माहात्म्यं, संस्मृत्य प्रत्यभिज्ञाय, विष्णुदूतोक्तिरीत्यैव ज्ञात्वेत्यर्थः । विस्मिता धीर्येषां ते, ते यमकिंकराः, तेन यमशासनेन, अच्युताश्रयजनं भगवत्प्रपन्नजनं प्रति, शङ्कमानाः भगवत्प्रपन्नजनसमीपगमनेनास्माकं भर्तृदण्डनं स्यादिति शङ्कां कुर्वाणाः सन्तः, ततः प्रभृति तस्माद्दिनादारभ्य, द्रष्टुं भगवत्प्रपन्नजनं निरीक्षितुं च, बिभ्यति भयं प्राप्नुवन्ति स्म ॥ ३४ ॥ * * उक्तस्य प्रामाण्य- ताज्ञापनाय तस्याप्तप्रणीततामाह । इतिहासमिति । मलये पर्वते, आसीनः भगवान् कुम्भसंभवोऽगस्त्यः, हरिम् अर्चयन् ध्यायन्, स्वोक्तार्थसत्यताविश्वासार्थं हरेः पादौ स्पृशन्निति वा । इमं गुह्यम् इतिहास, कथयामास स्वेच्छागतमहर्षीन् प्रति कथया- मासेत्यर्थः || ३५ ||
- इति श्रीधर्मधुरंधरश्रीधर्मात्मजप्रत्यक्ष पुरुषोत्तम सहजानन्दस्वामि सुतश्रीरघुवीराचार्यसूनुभगवत्प्रसादाचार्यविरचिता- यामन्वयार्थावबोधिन्यां भक्तमनोरञ्जन्याख्यायां श्रीमद्भागवतटीकायां षष्ठस्कन्धे तृतीयोऽध्यायः ॥ ३ ॥
- भाषानुवादः
- श्रीशुकदेवजी कहते हैं—- परीक्षित् ! इसलिये तुम ऐसा समझ लो कि बड़े-से-बड़े पापोंका सर्वोत्तम, अन्तिम और पाप - वासनाओं को भी निर्मूल कर डालनेवाला प्रायश्चित्त यही है कि केवल भगवान् के गुणों, लीलाओं और नामोंका कीर्तन किया जाय । इसीसे संसारका कल्याण हो सकता है ।। ३१ ।। * * जो लोग बार-बार भगवान के उदार और कृपापूर्ण चरित्रोंका श्रवण-कीर्तन करते हैं, उनके हृदयमें प्रेममयी भक्तिका उदय हो जाता है । उस भक्तिसे जैसी आत्मशुद्धि होती है, वैसी कृच्छ्र- चान्द्रायण आदि व्रतोंसे नहीं होती ॥ ३ ॥ * * जो मनुष्य भगवान् श्रीकृष्णचन्द्रके चरणारविन्द - मकरन्दरसका लोभी भ्रमर है, वह स्वभावसे ही मायाके आपातरम्य, दुःखद और पहलेसे छोड़े हुए विषयों में फिर नहीं रमता । किन्तु जो लोग उस दिव्य रससे विमुख हैं, कामनाओंने जिनकी विवेकबुद्धिपर पानी फेर दिया है, वे अपने पापोंका मार्जन करनेके लिये पुनः प्रायश्चित्तरूप कर्म ही करते हैं । इससे होता यह है कि उनके कर्मोंकी वासना मिटती नहीं और फिर वैसे ही दोष कर बैठते हैं ॥ ३३ ॥ * * परीक्षित् ! जब यमदूतोंने अपने स्वामी धर्मराजके मुखसे इस प्रकार भगवानकी महिमा सुनी और उसका स्मरण किया, तब उनके आश्चर्यकी सीमा न रही। तभी से वे धर्मराजकी बातपर विश्वास करके अपने नाशको आशङ्कासे भगवान के आश्रित भक्तोंके पास नहीं जाते। और तो क्या, वे उनकी ओर आँख उठाकर देखने में भी डरते हैं ॥ ३४ ॥ * * प्रिय परीक्षित्! यह इतिहास परम गोपनीय - अत्यन्त रहस्यमय है । मलयपर्वत पर विराजमान भगवान् अगस्त्यजीने श्रीहरिकी पूजा करते समय मुझे यह सुनाया था ॥ ३५ ॥
- ये
- इति तृतीयोऽध्यायः
- अथ चतुर्थोऽध्यायः
- राजोवाच
- देवासुरनृणां सर्गों नागानां मृगपक्षिणाम् । सामासिकस्त्वया प्रोक्तो यस्तु स्वायम्भुवेऽन्तरे ॥ तस्यैत्र व्यासमिच्छामि ज्ञातुं ते भगवन् यथा । अनुसर्गं यया शक्त्या ससर्ज भगवान् परः ॥
- सूत उवाच
- १ ॥
- २ ॥
- इति सम्प्रश्नमाकर्ण्य राजर्षेर्वादरायणिः । प्रतिनन्द्य महायोगी जगाद मुनिसत्तमाः ॥ ३ ॥
- श्रीशुक उवाच
यदा प्रचेतसः पुत्रा दश प्राचीबर्हिषः । अन्तः समुद्रादुन्मना ददृशुर्गा द्रुमैर्वृताम् ॥ ४ ॥ द्रुमेभ्यः क्रुध्यमानास्ते तपोदीपितमन्यवः । मुखतो वायुमग्निं च ससृजुस्तद्दिधक्षया ॥ ५ ॥ ताभ्यां निर्दह्यमानांस्तानुपलभ्य कुरूद्वह । राजोवाच महान् सोमो मन्युं प्रशमयन्निव ॥ ६ ॥ मा द्रुमेभ्यो महाभागा दीनेभ्यो द्रोग्धुमर्हथ । विवर्धयिषवो यूयं प्रजानां पतयः स्मृताः ॥ ७ ॥ अहो प्रजापतिपतिर्भगवान् हरिरव्ययः । वनस्पतीनोषधीश्च ससजर्जमिषं विभुः ॥ ८ ॥ अन्नं चराणामचरा धपदः पादचारिणाम् । अहस्तहस्तयुक्तानां द्विपदां च चतुष्पदः ॥ ९ ॥ यूयं च पित्रान्वादिष्टा देवदेवेन चानघाः । प्रजासर्गाय हि कथं वृक्षान् निर्दग्धुमर्हथ ॥ १० ॥ कृष्णप्रिया व्याख्या अन्वयः—त्वया तु स्वायंभुवे अन्तरे देवासुरनृणां नागानां मृगपक्षिणां यः सर्गः सामासिकः प्रोक्तः ॥ १ ॥ * * भगवन् तस्य एव व्यासं यथा भगवान् परः यया शक्त्या अनुसर्ग ससर्ज ते ज्ञातुम् इच्छामि ॥ २ ॥ * * मुनिसत्तमाः इति महायोगी बादरायणिः राजर्षेः संप्रश्नम् आकर्ण्य प्रतिनंद्य जगाद ॥ ३ ॥ * * यदा प्राचीनवर्हिषः पुत्राः दश प्रचेतसः अन्तः समुद्रात् उन्मनाः गां दुमैः वृतां ददृशुः ॥ ४ ॥ * * तपोदीपितमन्यवः ते द्रुमेभ्यः क्रुध्यमानाः तद्दिधक्षया मुखतः वायुं च अग्निं च ससृजुः ॥ ५ ॥ * * कुरूद्वह ताभ्यां निर्दह्यमानान् तान् उपलभ्य महान् सोमः राजा मन्युं प्रशमयन् इव उवाच ॥ ६ ॥ * * महाभागाः दीनेभ्यः द्रुमेभ्यः द्रोग्धुं मा अर्हथ यूयं विवर्धयिषवः प्रजानां पतयः स्मृताः ॥ ७ ॥ * * अहो प्रजापतिपतिः भगवान् अव्ययः प्रभुः हरिः वनस्पतीन् च ओषधीः ऊर्जमिषं ससर्ज ॥ ८ ॥ * * अचराः चराणाम् अन्नं हि अपदः पादचारिणाम् अहस्तहस्तयुक्तानां च चतुष्पदः द्विपदाम् ॥ ९ ॥ अनघाः पित्रा च देवदेवेन प्रजासर्गाय अन्वादिष्टाः यूयम् वृक्षान् निर्दग्धुं कथं हि अर्हथ ॥ १० ॥ श्रीधरस्वामिविरचिता भावार्थदीपिका चतुर्थादित्रिभिर्विश्वरूपजन्मविवक्षया । प्रचेतः सुतदक्षस्य वंशस्तावत्प्रतन्यते ॥ १ ॥ चतुर्थे तु प्रजासृष्टचै दक्षेणाराधनं हरेः । तपसा हंसगुह्याख्यस्तोत्रेण च निरूप्यते ॥ २ ॥ प्रसक्तानुप्रसक्तेन स्वायंभुवसुतान्वये । नामप्रभावमाकर्ण्य वंशव्यासं बुभुत्सते ॥ ३ ॥ देवासुरेति द्वाभ्याम् । सामासिकः संक्षिप्तो यः प्रोक्तस्तृतीयस्कंधे ॥ १ ॥ * * व्यासं विस्तारं ते त्वत्तो यया शक्त्या यथा ससर्ज तां शक्तिं तत्प्रकारं च ज्ञातुमिच्छामि । अनुसर्गमनुवृत्तं सर्गम् ॥ २-३ ॥ * दक्षादिरूपेण १. प्रा० पा० - यथा योगी । २. प्रा० पा० ऋषिरुवाच । ३. प्रा० पा० – वृक्षेभ्यः । ४. प्रा० पा० * त्वादिष्टा । स्कं. ६ अ. ४ श्लो. १-१०] अनेकव्याख्यासमलङ्कृतम् १२५ ससर्जेति वक्तुं दक्षजन्मप्रकारमाह । यदेति । प्राचीनवर्हिषः पुत्रा यदा समुद्रमध्यादुन्मना निर्गतास्तदा गां पृथ्वीं दुमैर्वृतां ददृशुः । नारदोपदेशतः प्राचीनवर्हिषो निवृत्त्याऽराजके सति कृष्याद्यभावात् ॥ ४ ॥ * * तपसा दीपितो मन्युर्येषां ते तेषां द्रुमाणां दग्धुमिच्छया ॥ ५ ॥ ताभ्यां वाय्वग्निभ्यां दह्यमानांस्तान्दुमान् | वनस्पतीनां राजा सोम उवाच हे महाभागाः । विवर्धयिषवो विशेषेण वर्धयितुमिच्छवः ॥ ७ ॥ * * प्रजापतीनां तद्भक्ष्यभोज्यदाहोऽनुचित इत्याह अहो इति त्रिभिः । ऊर्ज भक्ष्यम् । इषमन्नम् ।। ८-१० ।। मा द्रुमेभ्य इति नवभिः ॥ ६ ॥ वंशीधरकृतो भावार्थदीपिकाप्रकाशः * चतुर्थादिभि: चतुर्थपञ्चमषष्ठैः (१) (२) स्वायंभुवसुतः प्रियत्रतस्तस्यान्वये कथ्यमाने प्रसंगसंगत्या प्रसक्तं भूगोलखगोलनरकादिवर्णनं तत्रानुप्रसक्तं तन्निवृत्त्युपायत्वेन नाममाहात्म्यवर्णनं तेन हेतुना नामप्रभावं श्रुत्वा ( ३ ) ’ मुह्यंति यत्सूरयः’ इत्यत्र यदुक्तं ब्रह्माद्यज्ञेयं माहात्म्यं हरेस्तत् ‘जन्माद्यस्य यतः’ इत्यत्र च यः सर्गविशेषः प्रतिज्ञातः सोऽपि भगवदे- कनिष्ठ इति प्रतिपाद्यतेऽस्मिन्नध्याये तत्र तृतीयादौ कथितः सर्गेः भगवदेकनिष्ठ उतान्यनिष्ठ आहोस्विदन्यनिष्ठोऽपि भगवत्प्र- सादायत्त इत्यभिप्रेत्य राजोक्तार्थमनूद्य तद्विस्तरं ब्रूहीत्याह - देवेति ॥ १ ॥ * * व्यासं तन्मन्वंतरजातदक्षानंतरशाखोप- शाखारूपम् । अनुवृत्तं सर्गं पूर्वसर्गस्य केनचिद्धेतुना नष्टत्वात्पुनर्जातं सर्गम् ॥ २ ॥ शुकेन राजप्रश्रमात्य परिहार उक्त उताना त्यात रमवादीति श्रुत्वा स्मित्वा तूष्णीं स्थितं किमिति शौनकादीनां हार्द प्रश्नं परिहरति सुत इत्याह-सूत इति । अनेन सूतशौनकादिसंवादो न समाप्तः किन्तु शौनकादिप्रश्नोप्ययमेव परिहारोप्ययमेवेति ध्वनितम् । मुनिसत्तमा इति । मनन- -शीलश्रेष्ठा यूयमिति मयाप्यज्ञायीति भावः ॥ ३ ॥ * भगवत्प्रसादायत्तत्वात् न्मंददृष्ट धान्यनिष्ठवत्प्रतीयमानोऽपि तदेक- निष्ठ इति लक्षणस्य नातिव्याप्तिरिति दर्शयितुं प्रकृतार्थानुवादपूर्वकमुपक्रमते इत्याह- दक्षादीत्यादि ।। ४-५ ।। * चंद्रेण तत्कोपशांतिप्रकारमाह - ताभ्यामिति ॥ ६ ॥ * * द्रुमेभ्य इति । " क्रुधद्रुह - " इत्यादिना चतुर्थी । तत्र हेतुः । विवर्द्धयिषव इति । पतयः पातारः स्मृता यतोऽतो द्रोग्धुं माईथेत्यन्वयः । हे महाभागा इति । न ह्येतन्महाभागलक्षणं यन्निरपराधद्रुमदहनमिति भावः ॥ ७ ॥ * ऊर्जति बली भवति चेष्टते वाऽनेनेत्यूर्जम् । अन्नातिरिक्तं फलादि भक्ष्यं वनस्पतिहेतुकम् ‘ऊर्जा’ - बलप्राणनयोः’ अतः " अकर्त्तरि च कारके संज्ञायाम्” इति घन् । इष्यते क्षुन्निवृत्तये इतीषमन्नं गोधूमा- द्यौषधिहेतुकम् | ‘इषु — इच्छायाम्’ अतः ‘धनर्थे कविधानम्’ इति कः ॥ ८ ॥ चराणां पक्षाभ्यां चरतां भ्रमरा- दीनाम् । अचराः पुष्पाद्याः । पादचारिणां पद्भिश्चरतां गवादीनामपदस्तृणाद्याः । तेष्वेव हस्तयुक्तानां सिंहादीनामहस्ता गवाद्याः । द्विपदां पद्भयां चरतां मनुष्याणां चतुष्पदो मेषाद्याः ॥ ६ ॥ पित्रा प्राचीनवर्हिषा । “पित्रादिष्टाः प्रजासर्गे तेपुते परमं तपः” इति चतुर्थस्कंधोक्तः । देवदेवेन महादेवेन । तदर्थमेव योगादेशाख्यस्तोत्रोपदेशादित्यपि तत्रैवोक्तम् । अनघा इति । तपसा गतपापा भूत्वा कथमेतादृशकर्मणि प्रवृत्ता इति भावः । एतद्भवद्भिर्न कर्त्तव्यम् ’ वृद्धिमिच्छतो मूलमपि नष्टम्’ इति न्यायापातप्रसंगात् ॥ १० ॥ अन्वितार्थप्रकाशिका * * 1 चतुर्थे विश्वरूपस्य जन्म वक्तुं प्रचेतसाम् । सूनोर्दक्षस्य वंशोऽत्र श्लोकाः सार्द्धाश्चितुः शराः (५४|| ) || सार्द्धा (५६॥ ) नवेषवनुष्टुप्मानं चोवाचसप्तकम् ॥ ४ ॥ देवेति सार्द्धम् । हे भगवन् ! स्वायंभुवे मन्वन्तरे सामासिकः संक्षिप्तो देवादीनां सर्वो यस्त्वया प्रोक्तः तस्यैव व्यासं विस्तारं ते त्वत्तो ज्ञातुमिच्छामि ॥ १ ॥ अनुसर्गमिति । तथा ‘यः ससर्ज प्रजा इष्टाः स दक्षो ब्रह्मचोदितः ।" इत्युक्तेर्दक्षस्यानुसर्गमनुप्रवृत्तं सगं भगवान् परः परमेश्वरो ब्रह्मा वा यथा येन प्रकारेण यया शक्त्या ससर्ज तां शक्ति तत्प्रकारं च ज्ञातुमिच्छामि ॥ २ ॥ इतीति । हे मुनिसत्तमाः ! इत्येवं राजर्षेः परीक्षितः संप्रश्नमाकर्ण्य महायोगी बादरायणिः श्रीशुकः प्रतिनन्द्य संश्लाघ्य जगाद उत्तरं दत्तवान् ॥ ३ ॥ * दक्षादिरूपेण ससर्जेति वक्तुं रुद्रापराधाच्छागमुखस्य दक्षस्यावमानदुःखेन देहं त्यक्तवतः पुनर्जन्मप्रकार माह - यदेति । यदा प्राचीनवर्हिषो दश पुत्राः प्रचेतसोऽन्तः समुद्रात् समुद्रमध्यादुन्मग्ना निर्गतास्तदा गां पृथ्वीं दुमैर्वृतामाच्छादितां ददृशुरित्यन्वयः । नारदोपदेशेन प्राचीनबर्हिषि विरज्य वनं गते सत्यराजकेन कृष्याद्यभावादेदु मबाहुल्यं ज्ञेयम् ॥ ४ ॥ * दुमेभ्य इति तपसा निरन्नत्वनिमित्तेन । सन्तापेन दीपितो मन्युर्येषां ते प्रचेतसो दुमेभ्यः क्रुद्धचमानाः । शानजार्ष: । तद्दिधक्षया तेषां द्रुमाणां दग्धुमिच्छया मुखतो वायुमग्नि च ससृजुः ॥ ५ ॥ * * ताभ्यामिति । हे कुरूद्वह ! तदा ताभ्यां वाय्वग्निभ्यां दह्यमानांस्तान्वृक्षानुपलभ्य दृष्ट्वा तेषां महान् राजा सोम तेषां प्रचेतसां मन्युं प्रशमयन्नेवोवाच । इवशब्दो- १२६ श्रीमद्भागवतम् [ स्कं. ६ अ. ४ श्लो. १-१० ऽवधारणे । स्वकिरणैर्वृक्षपोषकत्वात्सोमस्यैव मुख्यराजत्वं चतुर्थस्कन्धे ब्रह्मणा कृतं प्रचेतसां सान्त्वनं वाराहकल्पीयं सोमेन कृतं तु पाद्यकल्पीयम् इति न विरोधः ॥ ६ ॥ * * मा इति । हे महाभागाः ! दीनेभ्यो दुमेभ्यो द्रोग्धुं मार्हथ योग्या न भवथ यतः यूयं प्रजानाम् । शेषे षष्ठी । विवर्द्धयिषवः वृद्धिं कर्त्तुमिच्हवोऽत एवं तासां यूयं पतयः पालका: स्मृताः ॥ ७ ॥ * * प्रजापतीनां तद्भक्ष्यभोज्यदाहोऽनुचित इत्याह- अहो इति । प्रजापतीनां पतिः भगवान् अव्ययः विभुः हरिः वनस्पत्यादीन् ससर्ज । ये पुष्पं विनैव फलन्ति ते वनस्पतयः पिप्पलादयः उपलक्षणमेतत्सर्ववृक्षाणाम् । फलपाकान्ता ओष- धयो यवादयः । उर्जं पित्रन्नम् । इषं देवान्नम् । यद्वा । ऊर्जं वृक्षनिष्पन्नं फलादि इषमोषधिनिष्पन्नं व्रीह्यादि ॥ ८ ॥ * * अन्नमिति । चराणां पक्षाभ्यां चरतां भ्रमरादिपक्षिणामचराः पुष्पफलाद्याः अन्नं भक्ष्यम् । पादचारिणां गोमहिषादीनामपद: घासाद्याः अन्नम् । हस्तयुक्तानां व्याघ्रादीनामहस्ताः मृगादयः अन्नम् । द्विपदां मनुष्याणां चतुष्पदो गवादयः चकाराद्ब्रीह्यादयः । ॥ अन्नम् । अत्र चतुष्पदामन्नसाधनत्वादन्नत्वमन्येषां तु साक्षादिति विवेकः ॥ ९ ॥ * यूयं चेति । हे अनघाः ! हि यस्मात् पित्रा प्राचीनवर्हिषा देवदेवेन भगवता च प्रजासर्गाय यूयमन्वादिष्टा आज्ञप्ताः अतः प्रजोपजीव्यान् वृक्षान् कथं निर्दग्धुमर्हथ ।। १० ।। है. वीरराघवव्याख्या ॥ *
- । ।। एवमाकर्णितस्वायंभुवतत्पुत्रोत्तानपादप्रियव्रत संततिचरित्रस्तत्प्रसंगात्पृष्टभूगोलखगोलेषु तत्संस्थानतत्प्रसंगात्पृष्ट- नरकनिस्तारोपायः श्रुतपरिहारश्च पूर्व संक्षेपेण श्रुतं मनुसर्ग विस्तरेण बुभुत्सुः पृच्छति राजा । देवासुरेति द्वाभ्याम् । स्वायंभुवे मन्वन्तरे स तु देवादीनां सर्गः सामासिकः संक्षिप्तः त्वया प्रोक्तः ॥ १ ॥ हे भगवन्मुने! तस्यैव सर्गस्य व्यासं विस्तरं त्वत्तो ज्ञातुमिच्छामि । कोऽसौ विस्तरस्तत्राह । भगवान् परः सृज्यमानप्रकृतिपुरुषविलक्षणः यया शक्तथा यथानुसर्ग यं यं व्यष्टिसर्ग ससर्जाकरोत् ॥ २ ॥ एवमापृष्टो मुनिराहेत्याह सूतः । इतीति । हे मुनिसत्तमाः इतीत्थं राजर्षेः परीक्षितः तं प्रश्नमाकृर्ण्य प्रतिनन्द्य साधुष्पृष्टमिति प्रतिनन्द्य बादरायणिर्महायोगी जगाद ॥ ३ ॥ * * गदितमेवाह । यदेत्यादिना । तत्र भगवान् बादरायणिर्विस्तरेण पृष्टं मनुसर्गं विवक्षुस्तावच्चतुर्थस्कन्धान्तोक्तं प्राचीनवर्हिषः पुत्राणां चरित्रमुपोद्धा- तत्वेन प्रस्तौति । यत आपूरीतास्त्रय इत्यन्तेन । प्रचेतसः प्राचीनवर्हिषो दश पुत्राः यदा अन्तः समुद्रात् समुद्रमध्यादुन्मग्नाः निर्गतास्तदा गां भूमिं ददृशुः कथंभूतां द्रुमैर्वृतां नारदोपदेशात् प्राचीनवर्हिषो निवृत्त्याऽराजके कृष्याद्यभावात् द्रुमैर्वृतामिति भावः ॥ ४ ॥ * * द्रुमेभ्यः क्रुध्यमानास्तपसा उद्दीपितः मन्युः क्रोधो यैस्तदृशास्तेषां वृक्षाणां दिधक्षया दग्धुमिच्छया मुखाद्वायुमग्निं च ससृजुरुत्पादितवन्तः ॥ ५ ॥ * * ताभ्यां वाय्वग्निभ्यां नितरां दह्यमानांस्तान् द्रुमानुपलभ्य दृष्ट्वा हे कुरूद्वह ! महान् सन् सोमो राजा चन्द्रः मन्युं तत्क्रोधं शमयन्निव प्रशमयितुमित्यर्थः । उवाच बोधितवान् ॥ ६ ॥ * * किमुवाचेत्यपेक्षायां तदेवोक्तमाह । मा द्रुमेभ्यः इत्यादिना प्रतिगृह्यतामित्यन्तेन । हे महाभागाः ! दीनेभ्यो द्रोग्धुं मार्हथ कुतः यतो यूयं विवर्द्धयिषवः लोकान् वर्द्धयितुमिच्छवः प्रजानां पतयश्च स्मृताः उक्ताः विवर्द्धयिषूणां प्रजापतीनामिदं वनस्पतिदाहन- मनुचितमिति भावः ।। ७ ।। सत्यं विवर्द्धयिषवः प्रजापतयश्च किं द्रुमैः प्रयोजनमित्यत्राह । आदाविति प्रजापतीनां
- । ब्रह्मादीनामपि पतिर्विर्भुर्ह्यखिलदुमेष्वन्तरास्ते तथाप्यव्ययः असंस्पृष्टतद्गतविकारः भगवान् हरिरादौ जगदादिकाले वनस्पती- नोषधीश्च ससर्ज तान् तांश्च विशिनष्टि । ऊर्जमिषमिति । उर्ज पितॄनुद्दिश्य दीयमानमन्नम् इषं देवानुदिश्य दीयमानम् इषोर्ज - रूपा वनस्पतय इत्यर्थः । अयं भावः । देवपितृयज्ञावशिष्टान्नेन प्रजानां जीवनं विहितम् “यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः” इति स्मरणात् “भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात्” इति यज्ञानवशिष्टान्नभक्षणनिन्दनाच एवं देवाद्युप- जीव्यान्नरूपेण परिणममानान् वनस्पत्यादीन्निर्दग्धुं माहथेति ॥ ८ ॥ * * एतदेवोपपादयति । अन्नमिति । यावत् पादचारिणां चराणां भूतानामपादचारिणोऽचराः अन्नमद्याः अचरेषु भूतेष्वद्यात्तभावो नास्ति किंतु तेषामुपभोग्यत्वाकार एक एवेति भावः चरेषु त्वाकारद्वयमस्तीत्याह । अहस्ता इति । हस्तयुक्तानां द्विपदामहस्ताः चतुष्पदः अन्नमदनीयाः सामान्या- भिप्रायकमेकत्वं क्लीबत्वं च । चरेषूभयाकारकथनं व्यतिरेकदृष्टान्तार्थम् । यथा चरेषु केषाञ्चिदत्तृत्वमन्येषामदनीयत्वं न तथाचेतनेषु किं त्वदनीयत्वमेवेति सर्वोपभोग्यत्वान्निरपराधत्वाच्च तद्रोह: न कार्य इति तात्पर्यम् ॥ ६ ॥ * * किन । हे अनघाः ! यूयं पित्रा प्राचीनबर्हिषा देवदेवेन तपसा तोषितेन भगवता च प्रजासर्गाय निदिष्टा हि यतः एवमत: कथं वृक्षान्निर्दग्धुमर्हथ ॥ १० ॥ विजयध्वजतीर्थकृता पदरत्नावली मुन्ति सूर इत्यत्र यं यदुक्तं ब्रह्माद्यज्ञेयमाहात्म्यं हरेस्तजन्माद्यस्य यत इत्यत्र च यः सर्गविशेषः प्रतिज्ञातः सोऽपि भगवदेकनिष्ठ इति प्रतिपाद्यतेऽस्मिन्नध्याये । तत्र तृतीयादौ कथितः सर्गो भगवदेकनिष्ठ उतान्यनिष्ठः आहोस्विदन्यनिष्ठोऽपि स्कं. ६ अ. ४ श्लो. १-१० ] अनेकव्याख्यासमलङ्कृतम्
१२७ भगवत्प्रसादायत्त इत्यभिप्रेत्य राजोक्तार्थमनूद्य तद्विस्तरं ब्रूहीत्याह । देवेति । सामासिकः संक्षिप्तः ॥ १ ॥ व्यासं प्रपञ्चं ते तव सकाशादनुसर्गम् अवान्तरसर्गम् ॥ २ ॥ * * शुकेन राजप्रश्नमाहत्य परिहार उक्त उतानाहत्यान्यकथान्तर- भवादि श्रुत्वा स्मित्वा तूष्णीं स्थितं किमिति शौनकादीनां हार्द प्रश्नं परिहरति सूत इत्याह । इतीति । अनेन सूतशौनकसम्वादो न समाप्तः किञ्च । शौनकादिप्रश्नोऽप्ययमेव अयमेव परिहारोऽपीति ध्वनितम् ॥ ३ ॥ * * भगवत्प्रसादायत्तत्वान्मन्द- दृष्टान्यनिष्ठवत्प्रतीयमानोऽपि तदेकनिष्ठ इति लक्षणस्य नातिव्याप्तिरिति दर्शयितुं प्रकृतार्थानुवादपूर्वकमुपक्रमते । यदेति । प्रचेतस इति । तुल्यनामान: प्राचीनवर्हिषः दश पुत्राः यदान्तःसमुद्रादुत्थिताः दुमैर्वृतां गां भूमिं ददृशुः ॥ ४ ॥ * * तदा मुखतो वायुमग्निञ्च ससृजुरित्यन्वयः । तेषां वृक्षाणां दिधक्षया दहनेच्छया ॥ ५ ॥ * * तत्र चन्द्रेण तत्कोपशान्ति- प्रकारं कथयति । ताभ्यामिति । ताभ्याम् अग्निवायुभ्याम् ॥ ६ ॥ * किमाहेति तत्राह । मा द्रुमेभ्य इति । क्रुधदुहेत्यादिना चतुर्थी तत्र हेतुमाह । विवर्धयिषव इति । विवर्धयिषवः प्रजावृद्धिं करिष्णवः यूयं पतयः पातारः स्मृता इति यदतो द्रुमेभ्यो द्रोग्धुं नार्हथेत्यन्वयः ॥ ७ ॥ * * दाहे नारायणानुग्रहदूरत्वं भवतां स्यादित्यभिप्रेत्याह । आदाविति । ऊर्ज पित्रन्नम् इषं देवान्नम् ॥ ८ ॥ * * वनस्पत्योषधीनामूर्जाख्यान्नत्वं कथमत्राह । अन्नमिति । अचराश्चराणामन्नम् इत्याद्यन्वेतव्यम् ॥ ९-१० ॥ 1 I जीवगोस्वामिकृतः क्रमसन्दर्भः सामासिकः षष्ठादिमन्वन्तरजातवि ताराकथनात् ॥ १ ॥ * * व्यासं तन्मन्वन्तरजातदक्षानन्तरशाखोपशाखा- रूपम् । पूर्वसर्गस्य केनचित् कारणेन नष्टप्रायत्वादनुसर्गम् ॥ २-३ ॥ * * यदेति । उत्तानपादवंशान्तमारभ्य कथनं तस्यैवान्तिमराज्यत्वात् ।। ४-८ ॥ * ऊर्जमन्नातिरिक्तं भक्ष्यम् । अन्नमिति सबलानां दुर्बलानामन्नम सृजदित्यर्थः ।।९-२२|| । विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी १ ॥ २ ॥ पुनश्च पोषणं वाच्यमिन्द्रस्याचार्यघातिनः । स चाचार्यो विश्वरूपो दक्षकन्यासुतोद्भवः ॥ दक्षस्यातश्चतुर्थान्ते संक्षेपेणोक्तजन्मनः । कथाध्यायत्रयेणेह स्कन्धे वाच्या सविस्तरम् ॥ राजापि सृष्टेः प्रस्तावे स्वायम्भुवसुतान्वयौ । सप्रसङ्गौ समाकर्ण्य भूयः पप्रच्छ तत्पुनः ॥ ३ ॥ चतुर्थे तु प्रचेतोभ्यः जातो दक्षः प्रजाः सृजन् । हंसगुह्य स्तवेनेशं तुष्टावेति निरूप्यते ॥ ४ ॥ ने देवासुरेति द्वाभ्याम् । सामासिकः संक्षिप्तः यः प्रोक्तस्तृतीयस्कन्धे व्यासं विस्तारम् । ते त्वत्तः अनुसर्गमनुवृत्तं सर्गम् । यया शक्तया यथा ससर्ज तां शक्तिं तं प्रकार परो ब्रह्मा ॥ १-३ ॥ * * दक्षादिरूपेण ससर्जेति वक्तुं रुद्रापराधाच्छागमुखस्य दक्षस्यावमानदुःखेन देहं त्यक्तवतः पुनर्जन्मप्रकारमाह । यदेति । गां पृथ्वीं दुमैर्वृतां ददृशुः । नारदो- पदेशतः प्राचीनबर्हिषि विरज्य वनं गते सत्यराजकादेव कृष्याद्यभावात् ॥ ४ ॥ * * तपोदीपितेति । तपसा कोपा - धिष्ठानत्वात् ॥ ५॥ * * सोमो वृक्षाधिष्ठाता स एव वृक्षाणां राजा प्रशमयन्निवेति प्रथमं साम्नोपायेन मन्योरपगमा- सम्भवादिति भावः ॥ ६-७ ॥ ऊर्जमन्नातिरिक्तं फलादि भक्ष्यं वनस्पतिहेतुकम् । इषमन्नं गोधूमाद्योषधिहेतुकम् । * । । चराणां पक्षाभ्यां चरतां भ्रमरादीनाम् अचराः पुष्पलताद्या एवान्नम् । पादचारिणां पद्भिश्चरतां गोमहिषादीनाम् अपदो घासाद्या एवान्नं तेष्वेव हस्तयुक्तानां व्याघ्रादीनाम् अहस्ताः गवादयः द्विपदां पद्भ्यां चरतां मनुष्याणां चतुष्पदो हरिणाद्याः चकारात् अचरा धान्यगोधूमाद्याश्च ॥ ८-१० ॥ I शुकदेवकृत: सिद्धान्तप्रदीपः एवं पापकारिणो रक्षणमुक्त्वाथ चतुर्थे दक्षजन्मानुवादपूर्वकं दक्षकर्तृकं भगवदाराधनं वर्णयन् पुण्यकारिणो दक्षस्ये- ष्टसम्पादनेन रक्षणं वर्णयति । तत्र तावत् संक्षेपतः उक्तां देवादिसृष्टिं श्रुत्वा तां विस्तरतो बुभुत्सुः राजर्षिः पृच्छति । देवेति द्वयेन । सामासिकः संक्षिप्तस्तृतीये स्कन्धे त्वया यः प्रोक्तः ॥ १ ॥ हे भगवन् ! ते त्वत्तः तस्यैव सर्गस्य व्यासं विस्तरं वेदितुमिच्छामि को विस्तर इत्यत्राह । भगवान् मुख्यो विश्वहेतुः यया शक्तया येन नियोज्यकर्त्रा यथा अनुसर्गमनुकृतं ससर्ज तथा श्रोतुमिच्छामीति योजना | २-३ ॥ * * दक्षेण नियोज्यकर्त्राऽनुसर्गमकरोदिति वक्तुं तज्जन्मानुवदति । यदेत्यादिना । उन्मग्ना निर्गताः गां भुवम् ॥ ४ ॥ * * तद्दिधक्षया द्रुमाणां दग्धुमिच्छया ॥ ५ ॥ हे ; १२८ श्रीमद्भागवतम् [ स्कं. ६ अ. ४ श्लो. १-१० कुरूद्वह ! परीक्षित् वनस्पतीनां राजा सोमः ताभ्यां वाय्वग्निभ्यां नितरां दह्यमानान् तान् द्रुमानुपलभ्य ज्ञात्वा मन्युं प्रचेतसां क्रोधमुपशमयन्नुवाच ॥ ६ ॥ * * तदुक्तिमेवाह । मेति नवभिः । हे महाभागाः ! द्रुमेभ्यः द्रोग्धुं द्रोह कर्तुं माहथ यतो यूयं विवर्द्धयिषवः प्रजाः वर्द्धयितुमिच्छवः प्रजानां पतयः स्मृताः ॥ ७ ॥ * * प्रजावृद्धिकामानां प्रजापतीनां तद्भक्ष्यभोज्यदाहो न कार्य इत्याह । अहो इति त्रिभिः । ऊर्जं भक्ष्यमिषमन्नं ससर्ज ।। ८-१० ।। गोस्वामिगिरिधरलालविहिता बालप्रबोधिनी एवं त्रिभिर्गताध्यायैर्नामि तत्त्वं निरूपितम् । चतुर्दशभिरध्यायै रूपतत्त्वं निरूप्यते ॥ १ ॥ प्रचेतस्तद वै प्रसादं कृतवान् हरिः । चतुर्थे तपसा हंसगुह्येनेति निरूप्यते ॥ २ ॥ स्वायम्भुवसुतान्वयं शृण्वन् मध्ये प्रसक्तनरकानुप्रसक्तं नाममाहात्म्यं श्रुत्वा पुनस् द्वंशविस्तारमेव पृच्छति - देवासुरेति द्वाभ्याम् । स्वायम्भुवे मन्वन्तरे सामासिकः सहितो देवादीनां सर्गो यस्त्वया प्रोक्तः ॥ १ ॥ * * तस्यैव व्यासं विस्तारं ते त्वत्तो ज्ञातुमिच्छामीति द्वयोरन्वयः । पृष्टं विस्तारमेव स्पष्टयति-यथेत्यादिना । प्रियव्रतवंशे ‘विरजश्चरमोद्भवः’ इति चरमत्वो- क्तेस्तदनन्तरवंशबुभुत्साभावेऽपि उत्तानपादवंशे ‘यः ससर्ज प्रजा इष्टाः स दक्षः’ इत्युक्तेर्दक्षस्यानुसर्गमनुप्रवृत्तं सर्गं भगवान् परः परमेश्वरो यथा येन प्रकारेण यया शक्त्या ससर्ज तां शक्तिं तत्प्रकारं च ज्ञातुमिच्छामीत्यर्थः । अनेन मुख्यं कर्तृत्वं भगवत एव दक्षादीनां तु तच्छक्तिमात्रत्वमिति दर्शितम्, अत एव तत्प्रसादेनैव सृष्टिवृद्धिर्वक्ष्यते । त्वत्त एव ज्ञातुमिच्छामीत्यत्र हेतुत्वेन सर्वज्ञत्वं सूचयन् सम्बोधयति - हे भगवन्निति ॥ २ ॥ इत्येवं राजर्षेः परीक्षितः सम्यकू श्रद्धाभक्तिपूर्वकं प्रश्नमाकर्ण्य श्रुत्वा बादरायणः श्रीशुकः प्रतिनन्द्य संश्लाव्य जगाद् उत्तरं दत्तवानित्यन्वयः । उत्तरदाने तस्य सर्वज्ञत्वं हेतुं सूचयन् विशिनष्टि - महायोगीति । अत्रापि यथा दक्षादिषु भगवत्प्रसादो जातस्तच्छ्रवणयोग्या एव यूयमिति सूचयन् सम्बोधयति - हे मुनिसत्तमा इति ॥ ३ ॥ * * यथा ससर्ज भगवानित्यस्य दक्षादिरूपेण ससर्जेत्युत्तरमभिप्रेत्य ‘विरजश्चरमोद्भवः’ इत्युक्त्या प्रियव्रतवंशस्य सम्पूर्णस्योक्तत्वात् अवशिष्टमुत्तानपादवंशविस्तारं निरूपयन्नादौ प्रचेतोभ्यो दक्षजन्मप्रकारमाह-यदेति चतुर्दशभिः । यदा प्राचीनवर्हिषो दश पुत्राः प्रचेतसोऽन्तस्समुद्रात् समुद्रमध्यादुन्मन्ना निर्गतादा गां पृथ्वीं दुमैर्वृतामा- च्छादितां ददृशुरित्यन्वयः । नारदोपदेशेन प्राचीनबर्हिषि विरज्य वनं गते सत्यराजकेन कृष्याद्यभावाद्दुमबाहुल्यं ज्ञेयम् ॥ ४ ॥ दृष्ट्रा ते प्रचेतसो द्रुमेभ्यः क्रुद्धयमानास्तद्दिधक्षया तेषां द्रुमाणां दग्धुमिच्छया मुखतो वायुमग्निं च ससृजुरित्यन्वयः । क्रोधे हेतुमाह-तप इति, तपसा निरन्नत्वनिमित्तेन सन्तापेन दीपितो मन्युर्येषां ते ॥ ५ ॥ * * तदा ताभ्यां वाय्वग्निभ्यां दह्यमानांस्तान् वृक्षानुपलभ्य दृष्ट्वा तेषां महान् राजा सोमस्तेषां प्रचेतसां मन्युं प्रशमयन्नेवोवाचेत्यन्वयः । इवशब्दोऽवधारणे । स्वकिरणैर्वृक्षपोषकत्वात् सोमस्यैव मुख्यराजत्वमन्येषां तु गौणमिति सूचनाय महानिति विशेषणम् । स्वप्रजानां नाशे प्राप्ते तत्पालकस्तद्रक्षार्थं प्रवर्तते एवेति तु तव मुख्यत्वाद्विदितमेवेति सूचयन् मुख्यत्वेन सम्बोधयति - हे कुरूद्वहति । न च चतुर्थस्कन्धे ‘भस्मसात्क्रियमाणांस्तान् द्रुमान् वीक्ष्य पितामहः । आगतः शमयामास पुत्रान् बर्हिष्मतो नयैः’ ‘इति ब्रह्मणा कृतं प्रचेतसां सान्त्वनमुक्तं अत्र तु सोमेन तत्कृतमिदं वृत्तं तदेकीकृत्य कथमुच्यते इति शङ्कनीयं चतुर्थस्कन्धे वाराहकल्पीयं वृतमुक्तं अत्र तु कल्पद्वयेऽपि वंशविस्तारस्य मानत्वात् पाद्मकल्पीयमपि वृत्तं तदेकीकृत्य साधारण्येनोच्यते इति कल्पभेदान्न विरोधः । अन्यथा षष्ठे चाक्षुषे मन्वन्तरे उत्पन्नाया दितेः पुत्रेण हिरण्याक्षेण सह प्रथमे स्वायम्भुवे मन्वन्तरे भगवतो वाराहस्य युद्धस्यासङ्गत्यापत्तेः । तथा द्रोणनाम्नो ‘वसोर्भार्याया नाममात्राभिमति’ रिति वक्ष्यति । दशमे तु ‘द्रोणो वसूनां प्रवरो ‘धरया सहभार्यया’ इति तस्या नाम धरेति वक्ष्यति तदपि कल्पैक्ये विरुद्धं स्यात् । एवमन्यदपि विरोधसमाधानं तत्रतत्र व्यक्तीभविष्यतीति ज्ञेयम् ॥ ६ ॥ चन्द्रवदनमेव दर्शयति — मेति नवभिः । हे महाभागा इति सम्बोधनं सामर्थ्य - सूचकम् । यद्यपि भगवदनुग्रहेण यूयं समर्थास्तथापि दीनेभ्यो जडत्वेन प्रतीकारासमर्थेभ्यो दुमेभ्यो द्रोग्धुं मार्हथ योग्या न भवथ । तत्र हेतुमाह - विवर्द्धयिषव इति, प्रजावृद्धिकरिष्णवो यत इत्यर्थः । अत एव तासां यूयं पतयः पालकाः “स्मृताः ॥ ७ ॥ * * भगवद्भक्तानां युष्माकं कथं भगवत्सृष्टिविनाशे प्रवृत्तिर्जातेत्याश्चर्येणाह - अहो इति । भगवान् हरिः वनस्पत्यादीन् ससर्जेत्यन्वयः । ये पुष्पं विनैव फलन्ति ते वनस्पतयः पिप्पलादयः । उपलक्षणमेतत्सर्ववृक्षाणाम् । फलपाकान्ता ओषधयो यवादयः । ऊर्जं पित्रन्नम्, इषं देवान्नम्, यद्वा ऊर्जं वृक्षनिष्पन्नं फलादि इषमोषधिनिष्पन्नं व्रीह्यादि । किमर्थ ससर्जेत्यपेक्षायां प्रजापालनार्थमिति सूचयन् विशिनष्टि – प्रजापतिपतिरिति, प्रजापालको ब्रह्मा तस्यापि पतिः स्वामीत्यर्थः । एवं सृष्टौ सामर्थ्यमाह - विभुरिति । एवं समर्थस्यापि सृष्टिकरणे श्रान्त्यादिविकारः स्याल्लोके कार्यकर्तुस्तद्दर्शनादिशङ्कानिरा- सायाह - अव्यय इति स्वरूपतो धर्मतश्च क्षयरहित इत्यर्थः ॥ ८ ॥ * * भगवत्सृष्टमेवान्नं विभागेन दर्शयति- । 1 2स्कं. ६ अ. ४ श्लो. १-१०] । अनेकव्याख्यासमलङ्कृतम् १२९ अन्नमिति । चराणां पक्षाभ्यां चरतां भ्रमरादिपक्षिणामचराः पुष्पफलाद्याः, पादचारिणां गोमहिषादीनामपदः घासाद्याः, हस्तयुक्तानां व्याघ्रादीनामहस्ताः मृगादयः, द्विपदां मनुष्याणां चतुष्पदो गवादयः - चकारात् व्रीह्मादयः – अन्नं भक्ष्यं हरिः ससर्जेत्यनुषङ्गः । अत्र चतुष्पदामन्नसाधनत्वात् अन्नत्वमन्येषां तु साक्षादिति विवेकः । हिशब्दः प्रसिद्धिद्योतनार्थः ॥ ९ ॥ * * नतु न वयं प्रजापालका येनैवमुपालम्भो युक्तः स्यादित्याशङ्कयाह - यूयं चेति । हि यस्मात् पित्रा प्राचीनवर्हिषा देवदेवेन भगवता च प्रजासर्गाय यूयमन्वादिष्टा आज्ञप्ता अतः प्रजोपजीव्यान् वृक्षान् कथं निर्दग्धुमर्हथेत्यन्वयः । एवं प्रजापालनादेशे विप्रलिप्सादिदोषराहित्यं हेतुं सूचयन् सम्बोधयति–हे अनघा इति । चकारोऽन्येऽपि ये पित्राद्यन्वादिष्टाः प्रजापालकास्ते यथा वृक्षान्निर्दग्धुं नार्हन्ति तथेति सूचनार्थः ॥ १० ॥ भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी विश्वरूपोद्भवं वक्तुं चतुर्थाद्यैस्त्रिभिस्त्वथ । प्रतन्यते ऽन्वयस्तावत्प्रचेतः सुतदक्षजः ॥ १ ॥ हरेराराधनं दक्षकृतं तुर्ये निरूप्यते । स्तोत्रेण हंसगुह्येन तपश्चरणपूर्वकम् ॥ २ ॥ पूर्व संक्षेपेण श्रुतमनुसर्ग विस्तरेण बुभुत्सुर्नृपतिः पृच्छति देवासुरेति द्वाभ्याम् । देवासुरेति । स्वायंभुवे स्वायंभुव- संबन्धिनि, अन्तरे मन्वन्तरे यस्तु, देवाश्च असुराश्च नरश्च तेषां नागानां, मृगाश्च पक्षिणश्च तेषां सर्गः सामासिकः संक्षिप्तः त्वया प्रोक्तः । तृतीयस्कन्धे इत्यर्थः ॥ १ ॥ तस्यैवेति । हे भगवन्मुने, तस्यैव सर्गस्य व्यासं विस्तारं ते त्वत्तः,
- ज्ञातुम् इच्छामि कोऽसौ विस्तारस्तत्राह । पर: सृज्यमानप्रकृतिपुत्रविलक्षणः, भगवान् श्रीहरिः, यथा शक्त्या, अनुसर्ग यं यं व्यष्टिसर्ग, यथा, ससर्ज अकरोत् ॥ २ ॥ * * एवमापृष्टो मुनिराहेत्याह सूतः । इतीति । हे मुनिसत्तमाः इतीत्थं राजर्षेः परीक्षितः, संप्रश्न, आकर्ण्य, प्रतिनन्द्य साधु पृष्टमिति प्रश्नप्रशंसां कृत्वा, महायोगी बादरायणिः शुकः जगाद ||३|| * * गदितमेवाह तत्र तत्र भगवान्बादरायणिर्विस्तरेण पृष्टमनुसर्गं विवक्षुस्तावञ्चतुर्थस्कन्धान्तोक्तं प्राचीनवर्हिषः पुत्राणां चरित्र- मुपोद्घातत्वेन प्रस्तौति यदेत्यारभ्य ‘यत आपूरितास्त्रयः’ इत्यन्तेन । यदेति । प्राचीनबार्हिषः पुत्राः, दश प्रचेतसः, यदा अन्तः- समुद्रात्समुद्रमध्यात्, उन्मन्नाः बहिर्निर्गताः, तदा गां भूमि, द्रुमैः, वृतां ददृशुः । नारदोपदेशात् प्राचीनवर्हिषो निवृत्त्या - राजक सति, कृष्याद्यभावात् संभूतदुमैर्वृतां गां दृष्टवन्त इति भावः ॥ ४ ॥ * * द्रुमेभ्य इति । दुमेभ्यः क्रुद्धचमानाः, । अत्र क्रुध्यतेः परस्मैपदित्वात् शानच् आर्षः । ते प्रचेतसः, तपसा दीपितः उद्दीपितः मन्युः क्रोधो येषां ते एवंभूताः सन्तः, दग्धुमिच्छा दिधक्षा तेषां द्रुमाणां दिधक्षा तया, मुखतः मुखात्, वायुं अग्निं च, ससृजुरुत्पादितवन्तः ॥ ५ ॥ * ताभ्यामिति । हे कुरूद्वह नृपते, ताभ्यां वाय्वग्निभ्यां, निर्दह्यमानांस्तद्दहनं कुर्वाणान् तान्प्रचेतसः, राजा उपलभ्य दृष्ट्वा मन्युं तत्क्रोधं प्रशमयन्निव, प्रशमयितुमेवेत्यर्थः । उवाच ॥ ६ ॥ * किमुवाचेत्यपेक्षायां तदुक्तं यत्तदेवाह, मा द्रुमेभ्य इत्यादिना प्रतिगृह्यतामित्यन्तेन । मा द्रुमेभ्य इति । हे महाभागाः, दीनेभ्यः एकत्र स्थितिपूर्व प्रारब्धभोगवत्तया दीनतावद्भ्यः, दुमेभ्यः, द्रोग्धुं मा अर्हथ । यतः यूयं विवर्द्धयिषवः लोकान्वर्द्धयितुमिच्छ्वः, प्रजानां पतयश्च स्मृताः । विवर्द्धयिषूणां प्रजापती- नामिदं वनस्पतिदाहनमनुचितमिति भावः ॥ ७ ॥ * * सत्यं वयं विवर्द्धयिषवः प्रजापतयश्च परं तु भवतो दुमैः किं प्रयोजनमित्यत्राह । आदाविति । प्रजापतीनां ब्रह्मादीनामपि पतिः । विभुर्दद्यमानेषु द्रुमेषु अन्तरात्मतयावस्थितः । तथापि, अव्ययः असंस्पृष्टतद्गतविकारः, भगवानित्थंभूतैश्वर्यवान् हरिः, आदौ जगदादिकाले, वनस्पतीन्वनगततरून, ओषधीर्यवादि- धान्यानि च, ऊर्जा भक्ष्यं, इषमन्नं, यद्वा ऊर्जं पितृनुद्दिश्य दीयमानमन्नं, इषं देवानुद्दिश्य दीयमानमन्नं, ससर्ज । वनस्पत्यादय इषोर्जरूपाः सन्तीत्यर्थः । अयं भावः । देवपितृयज्ञावशिष्टान्नेन प्रजानां जीवनं विहितं ‘यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः’ इति स्मरणात् ‘भुञ्जते ते त्वयं पापा ये पचन्त्यात्मकारणात्’ इति यज्ञानवशिष्टान्नभक्षणनिन्दाश्चेत्येवं देवाद्युप- जीवान्नरूपेण परिणम्यमाणान्वनस्पत्यादीन्न द्रोग्धुमर्हथेति ॥ ८ ॥ * * एतदेवोपपादयति । अन्नमिति । चराणां जङ्गमानां तत्रापि, पादचारिणां तत्रापि हस्तयुक्तानां द्विपदां मनुष्याणां चतुष्पदः । षष्ठयर्थे द्वितीया । गवादिचतुष्पदां चेत्यर्थः । अपदः गतिवर्जितत्वात्पादाभावाच्च गमनक्रियावर्जिताः, अचरा एकत्रैवावस्थानभाज:, अत एव अहस्ता अन्तर्गते- न्द्रियज्ञानत्वाद्वाह्येन्द्रियविधेयहस्तादिवर्जिताः, वृक्षौषधिवासादय इति शेषः । अन्नं हि । ‘हसे हसने’ इत्यस्मात् ‘हसिमृत्रिण’- इत्यादिना तन्प्रत्यये हस्तशब्दनिष्पत्तिः अत्र वृक्षौषधिप्रकरणत्वादुक्तार्थ एव साधुरेतदन्यथा व्याख्यानमप्रकृतत्वादुपे- क्ष्यमेव ॥ ९ ॥ * यूयमिति । किं च हे अनघाः, यूयं पित्रा प्राचीन बर्हिषा, देवदेवेन तपसा तोषितेन भगवता च, प्रजासर्गाय अन्वादिष्टाः । हि यतः, एवम् अतः कथं वृक्षान्, निर्दग्धुम् अर्हथ ॥ १० ॥ १७ । १३० श्रीमद्भागवतम् भाषानुवादः दक्षके द्वारा भगवान्की स्तुति और भगवान्का प्रादुर्भाव [ स्कं. ६ अ. ४ श्लो. १९-२० राजा परीक्षितने पूछा- भगवन् ! आपने संक्षेपसे (तीसरे स्कन्धमें ) इस बातका वर्णन किया कि स्वायम्भुव मन्वन्तर में देवता, असुर, मनुष्य, सर्प और पशुपक्षी आदिकी सृष्टि कैसे हुई ? ॥ १ ॥ * अब मैं उसीका विस्तार जानना चाहता हूँ । प्रकृति आदि कारणोंके भी परम कारण भगवान् अपनी जिस शक्तिसे जिस प्रकार उसके बाद की सृष्टि करते हैं, उसे जानने की भी मेरी इच्छा है ॥ २ ॥ सूतजी कहते हैं— शौनकादि ऋषियों! परम योगी व्यासनन्दन श्रीशुक-
-
- देवजीने राजर्षि परीक्षित्का यह सुन्दर प्रश्न सुनकर उनका अभिनन्दन किया और इस प्रकार कहा ॥ ३ ॥ * श्रीशुक- देवजी ने कहा- राजा प्राचीनबर्हिके दस लड़के- जिनका नाम प्रचेता था - जब समुद्रसे बाहर निकले, तब उन्होंने देखा कि हमारे पिता निवृत्तिपरायण हो जानेसे सारी पृथ्वी पेड़ोंसे घिर गयी है ॥ ४ ॥ उन्हें वृक्षोंपर बड़ा क्रोध आया । उनके तपोबलने तो मानो क्रोधकी आगमें आहुति ही डाल दी । बस, उन्होंने वृक्षोंको जला डालनेके लिये अपने मुखसे वायु और अनकी सृष्टि की ॥ ५ ॥ * * परीक्षित् ! जब प्रचेताओंकी छोड़ी हुई अग्नि और वायु उन वृक्षोंको जलाने लगीं, तब वृक्षों के राजाधिराज चन्द्रमाने उनका क्रोध शान्त करते हुए इस प्रकार कहा ॥ ६ ॥ * * ‘महाभाग्यवान् प्रचेताओं ! ये वृक्ष बड़े दीन हैं। आपलोग इनसे द्रोह मत कीजिये; क्योंकि आप तो प्रजाकी अभिवृद्धि करना चाहते हैं और सभी जानते हैं कि आप प्रजापति हैं ॥ ७ ॥ * महात्मा प्रचेताओं ! प्रजापतियों के अधिपति अविनाशी भगवान् श्रीहरिने सम्पूर्ण वनस्पतियों और ओषधियोंको प्रजाके हितार्थ उनके खान-पानके लिये बनाया है ॥ ८ ॥ * * संसार में पाँखों से उड़नेवाले चर प्राणियोंके भोजन फल- पुष्पादि अचर पदार्थ हैं। पैरसे चलनेवालों के घास-तृणादि बिना पैरवाले पदार्थ भोजन हैं; हाथवालोंके वृक्ष लता आदि बिना हाथवाले, और दो पैरवाले मनुष्यादिके लिये धान, गेहूँ आदि अन्न भोजन हैं । चार पैरवाले बैल, ऊँट आदि खेती प्रभृतिके द्वारा अन्नकी उत्पत्ति में सहायक हैं ॥ ९ ॥ * * निष्पाप प्रचेताओं ! आपके पिता और देवाधिदेव भगवान्ने आपलोगोंको यह आदेश दिया है कि प्रजाकी सृष्टि करो । ऐसी स्थिति में आप वृक्षोंको जला डालें, यह कैसे उचित हो सकता है ॥ १० ॥ 1 ॥ ११ ॥ १२ ॥ १३ ॥ १४ ॥ १५ ।। आतिष्ठत सतां मार्ग कोपं यच्छत दीपितम् । पित्रा पितामहेनापि जुष्टं वः प्रपितामहैः ॥ तोकानां पितरौ बन्धू दृशः पदम स्त्रियाः पतिः । प्रतिः प्रजानां भिक्षूणां गृह्यज्ञानां बुधः सुहृत् अन्तर्देहेषु भूतानामात्माऽऽस्ते हरिरीश्वरः । सर्वं तद्धिष्ण्यमीक्षध्वमेवं वस्तोषितो सौ ॥ यः समुत्पतितं देह आकाशान्मन्युमुल्बणम् । आत्मजिज्ञासया यच्छेत् स गुणानतिवर्तते ॥ अलं दग्धैद्र मैदनैः खिलानां शिवमस्तु वः । वार्थी ह्येषा वरा कन्या पत्नीत्वे प्रतिगृह्यताम् ।। इत्यामन्त्र्य वरारोहां कन्यामाप्सरसीं नृप । सोमो राजा ययौ दच्चा ते धर्मेणोपयेमिरे ॥ १६ ॥ तेभ्यस्तस्यां समभवद् दक्षः प्राचेतसः किल । यस्य प्रजाविसर्गेण लोका आपूरितास्त्रयः ॥ १७ ॥ यथा ससर्ज भूतानि दक्षो दुहितृवत्सलः । रेतसा मनसा चैव तन्ममावहितः शृणु ॥ १८ ॥ मनसैवासृजत्पूर्वं प्रजापतिरिमाः प्रजाः । देवासुरमनुष्यादीन्नभःस्थलजलौकसः ॥ १९ ॥ तमबृंहितमालोक्य प्रजासर्गं प्रजापतिः । विन्ध्यपादानुपत्रज्य सोऽचरद् दुष्करं तपः ॥ २० ॥ कृष्णप्रिया व्याख्या अन्वयः - वः पित्रा पितामहेन प्रपितामहैः अपि जुष्टं सतां मार्गम् आतिष्ठत दीपितं कोपं यच्छत ॥ ११ ॥ पितरौ तोकानां बन्धुः दृशः पक्ष्म स्त्रियः पतिः भिक्षूणां गृही अज्ञानां सुहृत् बुधः प्रजानां पतिः (प्रजापतयः) ॥ १२ ॥ ….
-
१. प्रा० पा० - लोकानां पितरौ । २. प्रा० पा० भूतानां शास्तास्ते । ३. प्रा० पा०-हृष्टस्ते । ४. प्रा० पा० तस्य । ५, प्रा० पा० दुश्वरं । स्कं ६. अ. ४ श्लो. ११-२०] अनेकव्याख्यासमलङ्कृतम्
१३१ भूतानां अन्तर्देहेषु ईश्वरः हरिः आत्मा आस्ते सर्व तद्धिष्ण्यं ईक्षध्वम् एवम् असौ व तोषितः ।। १३ ।। * यः आकाशात् समुत्पतितम् उल्बणं मन्युम् आत्मजिज्ञासया यच्छेत् सः गुणान् अतिवर्तते ॥ १४ ॥ दग्धैः दीनैः दुमैः अलं खिलानां चवः शिवम् अस्तु हि एषा वार्शी वरा कन्या पत्नीत्त्वे प्रतिगृह्यताम् ॥ १५ ॥ * * नृप सोमः राजा इति आमन्त्र्य वरारोहां आप्सरसी कन्यां दत्त्वा ययौ ते ध उपयेमिरे ॥ १६ ॥ तेभ्यः तस्यां प्राचेतसः दक्षः समभवत् किल यस्य प्रजा- विसर्गेण त्रयः लोकाः आपूरिताः ।। १७ ।। * * दुहितृवत्सलः दक्षः रेतसा मनसा च एव यथा भूतानि ससर्ज तत् मम अवहितः शृणु ।। १८ ।। * * प्रजापतिः पूर्व मनसा एव इमाः नभस्थलजलौकसः देवासुरमनुष्यादीन् प्रजाः असृ- जत् ॥ १९ ॥ * * सः प्रजापतिः तं प्रजासंगम् अबृंहितम् आलोक्य विन्ध्यपादान् उपव्रज्य दुष्करं तपः अचरत् ॥ २० ॥ श्रीधरस्वामिविरचिता भावार्थदीपिका ॥ * अत आतिष्ठताश्रयत सतां मार्गमुपशमं पित्रादिभिर्जुष्टम् ॥ ११ ॥ प्रजानां प्रजापतिरेव बंधुरतस्त- ज्जीविकानाशो न कर्तव्य इति दृष्टांतपंचकेनाह । तोकानां बालानां मातापितरौ । अज्ञानां ज्ञानदो बुध एव सुहृत् ॥ १२ ॥ * * ईश्वराधिष्ठानत्वाच्च भूतद्रोहो न युक्त इत्याह । अंतर्देहेष्विति । वो युष्माभिः ॥ १३ ॥ ** आकाशाद्देहे समुत्पतितमाकस्मिकमित्यर्थः । आत्मविचारेण यो नियच्छेत् ॥ १४ ॥ * च शिवमस्तु । वृक्षरक्षणार्थं तदीयां कन्यां ददाति । वार्थी वृक्ष : पालिता ।। १५ ।। आप्सरसीमप्सरसः प्रम्लोचायाः सुताम् ॥ १६-१७ ।। दुहितृवत्सल इति तस्य मत्तः ।। १८ ।। * * प्रजापतिर्दक्षः ।। १६ ।। * * अबृंहितमसंवृद्धम् । विंध्यस्य पादान्सन्निहितपर्वतान् ।। २०-२१ ।। । वंशीधरकृतो भावार्थदीपिकाप्रकाशः खिलानां शेषाणां वो युष्माकं आमंत्र्य सांत्वयित्वा । कन्यावंश एवेत्युक्तम् । मम सतां मार्गम् उपशमम् ॥ ११ ॥ * * यूयं हि प्रजापालका द्रुमादयश्च प्रजाः प्रजोपजीव्याश्चात एतान्पालयत न हि पालकानां नाशकत्वं दृष्टमित्यत्र दृष्टांत पञ्चकमाह । किञ्चानन्यशरणानां वृक्षाणां दाहे शरणागतवधदोषोऽपि युष्माकं स्यादित्याह - तोकानामिति । तोकानां बालानां बंधू रक्षकः । बुधो ज्ञानी संसाराद्रक्षकत्वाद्द्बधुः । दृश इति सामान्याभिप्राय- मेकत्वम् । पक्ष्म नेत्राच्छादकरोमपंक्तिः । पतिर्भर्त्ता । प्रजानां लोकानां पतिर्नृपः । अतः प्रजारक्षकत्वहेतोः । “पतिर्धवे ना त्रिष्वीशे पालके पतिते नृपे” इति कोशात् । भिक्षूणां ब्रह्मचार्यादीनाम् । गृही गृहस्थः ॥ १२ ॥ * वो युष्माभिरेवं सर्वभूतदययैवासावीश्वरस्तोषितः पूर्वमिति किन्न स्मरथेति भावः । आर्षत्वात्तृतीयाबहुवचनेऽपि युष्मदो वसादेशः ।। १३ ।। ननु को काले कुत एतावान्विचारस्तत्राह - य इति । आकाशादिव देहे । इत्यर्थ इति । यथाकाशादवितर्कितं वस्त्वापतेत्तद्वदिति भावः । यद्वा-आत्मनः परमात्मनो जिज्ञासया विचारेण “यश्च किञ्चिज्जगत्यस्मिन् श्रूयते दृश्यतेऽपि वा । अंतर्बहिश्च तत्सर्व व्याप्य नारायणः स्थितः” इति श्रुत्यर्थ पर्यालोचनया भूतद्रोहेण श्रीनारायणद्रोह एव स्यादिति चिन्तयेत्यर्थः । यच्छेदुपशमयेत् । सगुणानिति । अन्यथा यूयं गुणैरेव प्रस्ता भविष्यथेति सामोक्त्या भेदश्च ध्वनितः ॥ १४ ॥ * * भेदेनाप्युपशमाभा- वमालक्ष्य दानमाह-अलमिति ॥ १५ ॥ * वरः श्रेष्ठ आरोहो नितंबप्रदेशो यस्यास्ताम् ‘श्रोण्यामारोहस्स्याद्वरस्त्रियाः ’ इत्यमरः । कंडोर्मुनेः । नृपेति । नृपालने सपत्नीकस्यैवाधिकार इति भावः । ते प्रचेतसः ॥ १६ ॥ * * समभवदिति । दक्षस्य स्वायंभुवमनुवंश्यत्वात्स्वायंभुवे मन्वंतरे जन्म यस्य । प्रजाविसर्गेणेति । प्रजाविसर्गस्तस्य चाक्षुष एवं “चाक्षुषे त्वंतरे प्राप्ते प्राक्सर्गे कालविप्लुते । यः ससर्ज प्रजा इष्टाः स दक्षो दैवचोदितः ।” इति चतुर्थोक्तेः । तस्मान्मध्ये मन्वतरपंचकम- भिव्याप्यास्य तप एव पौर्वकालिकैश्वर्यप्राप्त्यर्थमवगम्यते ॥ १७ ॥ * * कन्यावंश एवेत्युक्ते पुत्रवंशाभाव एव सूचितः ॥ १८-९९ ॥ * पादाः प्रत्यंतपर्वताः’ इत्यमरः ॥ २० ॥ । * * अन्वितार्थप्रकाशिका आतिष्ठतेति । अतः वः पित्रादिभिर्जुष्टं सेवितं सतां सुशीलानां कृपालूनां मार्ग जीवसंरक्षणलक्षणमातिष्ठत कुरुत दीपितं कोपं यच्छत उपसंहरत ॥ ११ ॥ * तोकानामिति । यथा तोकानां बालानां पितरौ मातापितरौ बन्धुः शरणं यथा च दृशो नेत्रस्य पक्ष्म बन्धुः रक्षकः यथा च स्त्रियाः पतिर्बन्धुः पोषको रक्षकश्च यथा च भिक्षूणां गृही गृहस्थो बन्धुः अन्नवस्त्रादिप्रदानेन निर्वाहकः । यथा चाज्ञानां बुधो ज्ञानी सुहृत् ज्ञानोपदेशेन संसारभयनिवर्त्तकः तथा प्रजानां पतिः राजा बन्धुः सर्वापद्भयो रक्षकः जीविकाप्रदश्च । अतः प्रजोपकारिणां वृक्षाणां विनाशोऽनुचितः ॥ १२ ॥ * * १३२ श्रीमद्भागवतम् । [ स्कं. ६ अ. ४ श्लो. ११-२० ईश्वराधिष्ठानत्वाच न द्रोहो युक्त इत्याह- अन्तरिति । सर्वभूतानां देहेष्वन्तर्मध्ये तेषामात्मा अन्तर्यामीश्वरः हरिरास्ते । अतः सर्व स्थावरजङ्गमात्मकं विश्वं तस्य विष्ण्यमितक्षयम् । एवमीक्षणेन वो युष्माभिरसौ हरिस्तोषितो भविष्यति चा तस्मिंस्तुष्टे किं दुर्लभमिति भावः ॥ १३ ॥ * * य इति । यः प्राणी आकाशादिव देहे समुत्पतितमाकस्मिक्रमित्यर्थः । यद्वा । देहे यो हृदयाकाशस्तस्मात्समुत्पतितं समुद्भूतम् उल्बणं मन्युमात्मनो जिज्ञासया विचारेण यच्छेत् उपशमयेत्सगुणान् संसारदुःखहेतुभूताननिवर्त्तते अतीतो भवति ।। १४ ।। * * अलमिति । दीनैर्दग्धैर्दुमैरलं तेषां दाहे उपयोगो नास्तीत्यर्थः । खिलानामवशिष्टानां वृक्षाणां वो युष्माकं च शिवं कल्याणमस्तु । वार्थी वृक्षैः पालितत्वात्तदीया एषा मारिषानाम्नी वरा वरणीया कन्या पत्नीत्वे पत्न्यर्थं प्रतिगृह्यताम् ॥ १५ ॥ * * इतीति । हे नृप ! इत्येवमामन्त्र्य सान्त्वयित्वा वरः 1 श्रेष्ठः आरोहो नितम्ब प्रदेशो यस्यास्तामप्सरसीमप्सरसः प्रम्लोचायाः सुतां कन्यां तेभ्यो दत्त्वा राजा सोमो ययौ । ते च सर्वे दश तामेकां धर्मेण भगवद्वचनप्रमाणेनोपयेमिरे विवाहितवन्तः ।। १६ ।। * * तेभ्य इति । तेभ्यः प्रचेतोभ्यः तस्यां मारिषायां प्राचेतसस्तत्पुत्रः किल प्रसिद्धो दक्षः समभवज्जातः यस्येत्यादि स्पष्टम् । दक्षस्य स्वायंभुवे मन्वन्तरे जन्म यस्य प्रजा- विसर्गेणेति प्रजाविसर्गस्तु चाक्षुषे मन्वन्तर एव “चाक्षुषे त्वन्तरे प्राप्ते प्राक्सर्गे कालविप्लुते । यः ससर्ज प्रजा इष्टाः स दक्षो ब्रह्मचोदितः ॥” इति चतुर्थोक्तस्तस्मान्मन्वन्तरपञ्चकमस्य तप एव पौर्वकालिकैश्वर्यप्राप्त्यर्थमवगम्यते ॥ १७ ॥ * * यथेति । यथा दुहितृवत्सलः एतेन तस्य कन्यावंश एवेत्युक्तम् । दक्षः रेतसा मनसा च भूतानि ससर्ज । तन्मम मत्तः अवहितः सावधानः सन् शृणु ॥ १८ ॥ * मनसेति । प्रजापतिर्दक्षः नभः आकाशः स्थलं च पृथ्वी जलं च ओकांसि येषां तान् देवादीनिमाः प्रजाः मनसैवासृजत् ॥ १६ ॥ तमिति । स प्रजापतिस्तं प्रजानां सर्गम् अबृंहितमसंवृद्धमालोक्य विन्ध्यस्य पादान् प्रान्तपर्वतान् उपव्रज्य दुष्करं तपः अकरोत् ॥ २० ॥ वीरराघवव्याख्या सतां साधूनां मार्गमातिष्ठताश्रयत । कथंभूतं वः युष्माकं पित्रा प्रचेतसा पितामहेन तत्पित्रा ये च वः युष्माकं प्रपितामहादयः तैश्व जुष्टं सेवितम् । पित्राद्याचरितमेव सन्मार्गमाश्रयतेत्यर्थः । दीपितं कोपं यच्छत उपसंहरत ।। ११ ।। * किञ्च । भगवतः सर्वरक्षकस्य शरीरत्वाद्वनस्पतिषु क्रोधोऽयुक्त इत्याह । तोकानामिति । तोकानां बालानां पितरौ यथा बन्धू रक्षकौ, यथा दृशः पक्ष्म बन्धुः, यथा च स्त्रियाः पतिर्बन्धुः तथा प्रजानां नृपः, यथा च भिक्षूणां भिक्षेत्यध्याहारः, यथा गुह्यज्ञानां प्रयोगकुशलानां बुधः मीमांसाभिज्ञः तथा भगवान् रक्षकः सुहृच्च भूतानामन्तर्देहेषु हृदयेष्वात्मेश्वरः अन्तः प्रविश्य नियन्ता हरिरास्तेऽतः सर्व जगत् अस्य भगवतो धिष्ण्यमेवमीक्षणेऽसौ भगवान् वः युष्माकं तोषितो भवति । यद्वा । प्रतिनियतरक्ष- कत्वव्यवस्थामुल्लङ्घय कथं द्रोग्धुमर्हथेत्याह । तोकानामिति । पित्रादय इव प्रजानां चराचरात्मकानां नृपः बन्धुः रक्षकः सुहच । किञ्च । भगवच्छरीत्वाच्च न द्रोहः कार्य इत्याह । अन्तद्देहेष्विति । उक्त एवार्थः गुह्यज्ञानामिति भिक्षुविशेषणं वा गुह्यं रहस्यभूतं परमात्मस्वरूपादिकं ज्ञातुमिच्छूनां बुध इव तदुपदेष्टा विद्वानिवेत्यर्थः । रक्षणं च सर्वत्रानिष्टपरिहारेष्टप्रापणात्म- कमेव ॥ १२-१३ ।। किन । क्रोधोपशमस्वाभ्युदयहेतुत्वाच्च तमुपसंहरतेत्याह । य इति । देहे आकाशात् समुत्पतितं तहृच्छयोत्पन्नमित्यर्थः । यद्वा । देहे आकाशाद्धृदयविवरात् समुत्पतितमुल्बणं दुःसहं मन्युं क्रोधमात्मजिज्ञासया स्वात्मपर- मात्मयाथात्म्यविचारणेन यच्छेदुपसंहरेत् स पुमान् गुणान् सत्त्वादीनतिवर्त्तते क्रमेण संसारबन्धान्मुक्तो भवती- त्यर्थः ॥ १४ ॥ * * अतो दग्धैरत एव दीनै: दुमैरलं दीनद्रुमदाहनेनालमित्यर्थः । खिलानामवशिष्टानां द्रुमाणां वः युष्माकं ।। ।। च शिवमस्तु । वार्थी वृक्षः पालिता एषा वरा सुलक्षणा कन्या मारिषाख्या पत्नीत्वेनेत्यर्थः । प्रतिगृह्यतां युष्माभिरिति शेषः ।। १५ ।। * * इतीत्थमामन्त्र्य सान्त्वयित्वाप्सरसमप्सरोदेहादाविर्भूतामृषिवीर्यसंभूतां वरारोहां वरैरारोढुमुद्रोढुं योग्यां कन्यां तेभ्यो दत्त्वा सोमो राजा ययौ गतः । ततस्ते प्रचेतसः सर्वे धर्मेण तामुपयेमिरे विवाहितवन्तः । धर्मेणेत्यनेन “अपृथग्धर्मशीलानां सर्वेषां वः सुमध्यमा । अपृथग्धर्मशीलेयं भूयात् पत्न्यर्पिताशया” इति भगवतोक्तत्वाद्बहुभिरेकस्याः पाणिग्रहो दोषावह इति शङ्का न कार्येति सूचितम् ॥ १६ ॥ * * तेभ्यः प्रचेतोभ्यः तस्यामाप्सरस्यां हे राजन् ! दक्षः प्रजापतिः प्राचेतसोऽभूदुत्पन्नः पूर्वं ब्रह्मणोऽङ्गुष्ठाज्जातो दक्षाध्वरे रुद्रापराधवशात्तं देहं विहायास्यां मारिषायां प्राचेतसनामा- जायतेत्यर्थः । तथाचोक्तं चतुर्थे “यस्यां महदवज्ञानादजन्यजनयोनिजः" इति प्राचेतसं विशिनष्टि । यस्येति । यस्य प्राचेतसस्य दक्षस्य प्रजासर्गेण त्रयो लोका आपूरिताः प्रायशो लोकत्रयस्था: प्रजास्तत्सन्तानरूपा इत्यर्थः ॥ १७ ॥ * दक्षः प्राचेतस: दुहितृषु वात्सल्ययुक्तः रेतसा वीर्येण मनसा सङ्कल्पेन चेमाः प्रजाः ससर्ज काः देवादींस्तथा नभ एव स्थल येषां जलमेवौकः स्थानं येषां तान् ॥ १६ ॥ * * तमेवं मनसा क्रियमाणं प्रजासर्गमबृंहितमवृद्धमालोच्य स प्रजापतिः प्राचेतसः विन्ध्यस्य पादान् प्रत्यन्तपर्वतानुपव्रज्य उपाय दुश्वरमितरैः कतुमशक्यं तप आचरत् कृतवान् ॥ २० ॥ ॥ स्कं. ६ अ. ४ श्लो. ११-२०] अनेकव्याख्या समलङ्कृतम्- विजयध्वज तीर्थकृता पदरत्नावली १३३ मार्ग विशिनष्टि । पित्रेति ॥ ११ ॥ * * अनन्यशरणानां वृक्षाणां दाहे शरणागतवधदोषोऽपि युष्माकं स्यादित्याशयवानाह । तोकानामिति । तोकानां बालानां पितरौ मातापितरौ बन्धू इत्येतत् सर्वत्रान्वेतव्यं गृही गृहस्थः भिक्षणाम्, अज्ञानां ज्ञानदानाख्यजीवनेन ।। १२ ।। * * किश्वानेनेश्वरद्रोहोऽपि स्यादित्याशयवानाह । अन्तरिति । भूतानामिति विशेषणाद्वृक्षदाहेनेश्वरदाहः कथं स्याद्भूतदाहाकरणादिति तत्राह । सर्वमिति । तस्य हरेर्धिष्ण्यं निवासस्थानम् अनेन किं फलं स्यादत्राह । एवमिति । असौ हरिः ॥ १३ ॥ इतोऽपि कोपो न कार्य इत्याह । यः समुत्पतितमिति । देहे आकाशाद्धृदयाकाशादुत्पतितमुज्ज्वलितं मन्युं यो यच्छेत् कथमात्मनः परमात्मन: जिज्ञासया विचारेण “ अन्तर्बहिश्च तत् सर्वं व्याप्य नारायणः स्थितः” इति श्रुत्यर्थ पर्यालोचनया भूतद्रोहेण श्रीनारायणद्रोह एव स्यादिति चिन्तया ।। ।। स पुमान् गुणान् संसारहेतुभूतांस्तरतीत्यन्वयः ॥ १४ ॥ * * वाक्ष वृक्षदुहिता वरा वरणीया ॥ १५ ॥ * * वरः श्रेष्ठः आरोहो नितम्ब प्रदेशो यस्याः सा तथा ताम् आप्सरसीम् अप्सरोजातिमतीम् ।। १६ ।। * यस्य दक्षस्य ।। १७-१८ ॥ * पूर्वमादिसृष्टौ इमाः प्रजाः मनसैवासृजत् प्रजापतिर्ब्रह्मा ॥ १९ ॥
- ।। कृतः प्रजासर्गः तमबृंहितमपूर्ण दृष्ट्वा ब्रह्मानुज्ञया विन्ध्यगिरेः पादान् प्रत्यन्तपर्वतानुपगम्य तपोऽचरत् स प्राचेतसो दक्षः यो मनसासृजत् स तपोऽचरदित्येकवाक्यं वा ।। २०-२१ ।। विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी
यो ब्रह्मणा पित्रादिभिर्जुष्टं सतां मार्गम् । उपशमगातिष्ठत ॥ ११ ॥ यूयं हि प्रजापालकाः, द्रुमादयः प्रजाः प्रजोप- जीव्याश्वेत्येतान् पालयत । नहि पालकानां नाशकत्वं दृष्टमित्यत्र दृष्टान्तपञ्चकमाह । तोकानां बालानां पितरौ बन्धू स्त्रिया: पतिर्भर्त्ता, प्रजानां पतिर्नृपः ।। १२ ।। * * ईश्वराधिष्ठानत्वाच भूतद्रोहो न युक्त इत्याह । अन्तरिति । वो युष्माभिरेवं सर्व्वभूत- दययैव असावीश्वर स्तोषित इति किं न स्मरथेति भावः ॥ १३ ॥ * * ननु कोपकाले कुत एतावान् विचारस्तत्राह । असावीश्वरस्तोषित ॥ य इति । आकाशादिव देहे समुत्पतितमाकस्मिकमित्यर्थः । आत्मनो जिज्ञासया विचारेण यच्छेत् उपशमयेत् स गुणानिति अन्यथा यूयं गुणैरेव प्रस्ता भविष्यथेति सामोक्त्या भेदश्व ध्वनितः ॥ १४ ॥ * भेदेनाप्युपशमाभावमालक्ष्य दानमाह । अलमिति । खिलानां शेषाणां वार्थी वृक्षैः पालितत्वाद्वृक्षकन्या ।। १५ ।। * आप्सरसीम् अप्सरसः प्रम्लोचायाः सुताम् ॥ १६॥ * * समभवदिति दक्षस्य स्वायम्भुवमनुवंश्यत्वात् स्वायम्भुवे मन्वन्तरे जन्म यस्य प्रजाविसर्गेणेति प्रजाविसर्गस्त्वस्य चाक्षुष एव “चाचुषे त्वन्तरे प्राप्ते प्राक्सर्गे कालविद्रुते । यः ससर्ज प्रजा इष्टाः स दक्षो दैवचोदितः ।” इति चतुर्थोक्तेः । तस्मान्मध्ये मन्वन्तरपञ्चकमभिव्याप्यास्य तप एवं पौर्वकालिकैश्वर्यप्राप्त्यर्थ कमवगम्यते ॥ १७ ॥ * * दुहितृवत्सलः इति पुत्रवंशाभावः सूचितः ॥ १८-१९ ।। * प्रजापतिर्दक्षः विन्ध्यस्य पादान् प्रत्यन्तपर्वतान् ।। २०-२१ ॥ शुकदेवकृतः सिद्धांतप्रदीप: । वो युष्माकं पित्रादिभिर्जुष्टं सेवितं सतां मार्गमुपशमात्मकमातिष्ठत आश्रयत दीपितं कोपं यच्छतोपसं- हस्त ॥ ११ ॥ * * तोकानां बालानां बन्धुः सहायः सुहृत् सखा ॥ १२ ॥ * भगवत्परितोषार्थ सर्वेषु भगवदधिष्ठितेषु सहाय भाव एव कर्तव्यो न द्रोह इत्याह अन्तरिति । वो युष्माभिः ॥ १३ ॥ * * यः आकाशाद्ध- दयाकाशात देहे समुत्पतितं मन्युं नियच्छेदुपसंहरेत् स आत्मजिज्ञासया परमेश्वरोपासनया गुणान् अतिवर्तते त्रिगुणं प्रपञ्चमतिक्रम्य मुक्तो भवतीत्यर्थः ॥ १४ ॥ खिलानामवशिष्टानां वो युष्मत्तः शिवमस्तु वार्थी वृक्षः पालिता युष्माभिः पत्नीत्वे प्रतिगृह्यताम् ।। १५ ।। इत्येवमामन्त्र्य सान्त्वयित्वा आप्सरसीं प्रम्लोचासुतां दत्त्वा ययौ स्वस्थानमगात् ।। १६-१७ ।। * रेतसा वीर्येण मनसा सङ्कल्पमात्रेण मम मत्तः ॥ १८ ॥ * * प्रजापतिर्दक्षः पूर्व मनसैवासृजत् ।। १९ ।। * * तं प्रजासर्गमबृंहितमसंवृद्धमालोक्य विन्ध्यस्य पादान् अवयवभूतान् पर्वतान् ॥ २० ॥
गोस्वामिगिरिधरलालविहिता बालप्रबोधिनी अतः सतां सुशीलानां कृपालूनां मार्ग जीवसंरक्षणलक्षणमातिष्ठत कुरुत । दीपितं कोपं यच्छत उपसंहरत । युष्मत्कुले सर्व एतमेव मार्गमनुगताः अतोऽपि युष्माकं तथैवोचितमित्यभिप्रेत्य मार्ग विशिनष्टि कः पित्रादिभिर्जुष्ट सेवित- मिति ॥ ११ ॥ * * किन यथा तोकानां बालानां पितरौ मातापितरौ बन्धुः शरणं, यथा च दृशो नेत्रस्य पक्ष्म बन्धुर ॥ १३४ 3 श्रीमद्भागवतम् [ स्कं. ६ अ. ४ श्लो. ११-२० रक्षक:, यथाच स्त्रियाः पतिर्बन्धुः पोषको रक्षकश्च यथा च भिक्षूणां गृही गृहस्थो बन्धुः अन्नवस्त्रादिप्रदानेन निर्वाहकः, यथाचाज्ञानां बुधो ज्ञानी सुहृत् ज्ञानोपदेशेन संसारभयनिवर्तकः, यथा प्रजानां पतिः राजा बन्धुः सर्वापद्धयो रक्षकः जीविका- प्रदश्च । तथा च प्रजापालनेऽधिकृतानां युष्माकं प्रजाजीविका साधनभूतानां वृक्षाणां विनाशकत्वं सर्वथाऽनुचितमेवेति भावः ।। १२ ।। * * भूतद्रोहश्वेश्वरद्रोहे पर्यवस्यति भूतानां तदधिष्ठानत्वात् अतो भगवदधिष्ठानदृष्टया च भूतद्रोह- स्त्यक्तव्य इत्याह-अन्तरिति । सर्वभूतानां देहेष्वन्तर्मध्ये तेषामात्मा अन्तर्यामीश्वरः सर्वथा सर्वं कर्तुं समर्थो हरिरास्ते अतः सर्वस्थावरजङ्गमात्मकं विश्वं तद्धिष्ण्यामितीक्षध्वमित्यन्वयः । एवमीक्षणे किं तद्रोहाभावमात्रमेव भवति किंवाऽन्यदपि किश्चित्फलं भवतीत्यपेक्षायामाह - एवमिति एवमीक्षणेन वो युष्माभिरसौ हरिस्तोषितो भविष्यति । तस्मिंश्च तुष्टे किं दुर्लभमिति भावः । हिशब्देन प्रसिद्धमेवैतत् तत्रतत्र शास्त्रेष्विति सूचयति ॥ १३ ॥ * न केवलं युष्माकमेव क्रोधः शत्रुः किन्तु सर्वस्यैव प्राणिनः अतस्तन्नियमनेनैव पुरुषार्थसिद्धिः नान्यथेत्याशयेनाह - य इति । यः प्राणी देहे यो हृदयाकाशस्तस्मात् समुत्प- तितं समुद्भूतं मन्युमात्मजिज्ञासयाऽन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थित इति परमात्मविचारेण यच्छेत् उपशमयेत् स गुणान् संसारदुःखहेतुभूतानतिवर्तते, भगवत्कृपयाऽतिक्रम्य भगवन्तं प्राप्नोतीत्यर्थः । क्रोधवशवर्ती दुःखमेवानुभवतीति सूचयंस्तं विशिनष्टि - उल्बणमिति, भयङ्करमित्यर्थः ॥ १४ ॥ * * एवं ‘मा द्रुमेभ्यो महाभागा’ इत्यादिसामवचनेन अन्तर्देहेष्वि- त्यादि भयप्रददर्शनलक्षणभेदवचनेन च क्रोधोपशमाभावमालक्ष्य दानेन तत्सम्पादयति-अलमिति । दीनैर्दग्धैर्दुमैरलम्, तेषां दाहे उपयोगो नास्तीत्यर्थः । खिलानामवशिष्टानां वृक्षाणां वो युष्माकं च शिवं कल्याणमस्तु, वार्थी वृक्ष : पालितत्वात्तदीया एषा मारीषानाम्नी वरा वरणीया पत्नीत्वे पत्त्यर्थं प्रतिगृह्यताम् ।। १५ ।। * श्रीशुको वर्णयति - इतीति । इत्येव - मामन्त्र्य प्रचेतसः सान्त्वयित्वा वरः श्रेष्ठः आरोहो नितम्ब प्रदेशो यस्यास्तां आप्सरसीमप्सरसः प्रम्लोचायाः सुतां कन्यां तेभ्यो दत्त्वा राजा सोमो ययौ । ते च सर्वे दश तामेकां धर्मेण भगवद्वचनप्रमाणेनोपयेमिरे विवाहितवन्तः। नृपेति सम्बोधनं सावधानतार्थम् ।। १६ ।। तेभ्यः प्रचेतोभ्यः तस्यां मारीषायां प्राचेतसस्तत्पुत्रः किल प्रसिद्धो दक्षः समभवत् जातः । तत्प्रसिद्ध हेतुमाह-यस्येत्यादि ॥ १७ ॥ दुहितृवत्सल इत्यनेन पूर्वमपि तस्य कन्यावंश एव वर्णितः इदानीमपि कन्यावंश एव प्रवृत्तो न पुत्रवंश इति सूचितम् । मम मत्तः अवहितः सावधानः सन् शृणु ॥ १८ ॥ * * प्रजापतिर्दक्षः नभः आकाशः स्थलं च पृथ्वी जलं च ओकांसि येषां तान् देवादीनिमाः प्रजाः पूर्व मनसैवासृजदित्यन्वयः ॥ १६ ॥ * * तं सर्गमबृंहितमसंवृद्धम् । विन्ध्यस्य पादान् प्रान्तपर्वतान् ।। २० ।। 2 भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी आतिष्ठतेति । हे प्रचेतसः, वो युष्माकं पित्रा प्राचीनवर्हिषा, पितामहेन तत्पित्रा हविर्धानेन, प्रपितामहैस्तत्पितृ- विजिताश्वप्रभृतिभिः प्रपितामहैरिति बहुवचनं प्रभृतिग्रहणार्थम् । जुष्टं सेवितं सतां साधूनां मार्गम् आतिष्ठत आश्रयत । पित्राद्याचरितमेव सन्मार्गमाश्रयतेत्यर्थः । दीपितं द्रुमादिनाशार्थमुद्दीपनतां नीतं कोपमधर्मसर्गजं मन्युं यच्छतोप- संहरत ।। ११ ।। * * किं च सकलवनस्पतीनामपि सर्वरक्षकस्य भगवतः शरीरत्वाद्वनस्पतिषु वः क्रोधोऽयुक्त इत्याह । तोकानामिति । यथा तोकानां बालानां पितरौ मातापितरौ, बन्धू रक्षकौ यथा दृशः, पक्ष्म बन्धुः, यथा च स्त्रियो नार्याः पतिः, बन्धुः, यथा भिक्षूणां भिक्षुकजनानां गृही गृहाश्रमावस्थः, बन्धुः, यथा अज्ञानां ज्ञानविधुरजनानां, बुधो ज्ञानदः, सुहृद्बन्धुः, तथा प्रजानां नृपः बन्धुः । पतिः प्रजानामिति पाठेऽपि स एवार्थः ॥ १२ ॥ * एवं सर्वरक्षकत्वेन द्रोहाचरणं दृष्टान्तैर्निराकृत्य सांप्रतं भगवच्छरीरत्वतश्च न तद्रोहः कार्य इत्याह । अन्तर्देष्विति । भूतानां देहेषु तत्रापि, अन्तस्तदन्तर्वर्त्तिषु जीवेष्वित्यर्थः । ईश्वरः परमेश्वरः, हरिः आत्मा तदन्तरात्मा सन् आस्ते तिष्ठति । अतः सर्व, तद्धिष्ण्यं तदावासस्थानं, ईक्षध्वम् । एवमीक्षणे, असौ भगवान्, वो युष्माकं तोषितः भवति हि ॥ १३ ॥ क्रोधोपशमस्याभ्युदयहेतुत्वाच्च तमुप- संहरतेत्याह । य इति । देहे, आकाशात, समुत्पतितं यदृच्छयोत्पन्नम् । यद्वा आकाशाद्धृदयविवरात्समुत्पतितं, उल्बणं दुःसहं, मन्युं क्रोधं, आत्मजिज्ञासया स्वात्मपरमात्मयाथात्म्यविचारणेन यः यच्छेदुपसंहरेत् । सः पुमान्, गुणात्सत्त्वादीन्, अतिवर्त्तते । क्रमेण संसारबन्धनाद्विमुक्तो भवतीत्यर्थः ॥ १४ ॥ * अलमिति । अतः दग्धैर्भस्मभावं गमितैः, अत एव, दीनैः द्रुमैः अलम् । दीनद्रुमदाहनेनालमित्यर्थः । खिलानामवशिष्टानां द्रुमाणां वो युष्माकं च, शिवम् अस्तु । वार्थी वृक्षैः पालिता एषा वरा सुलक्षणा कन्या मारिषाख्या, पत्नीत्वे पत्नीभावेनेत्यर्थः । प्रतिगृह्यतां हि । युष्माभिरिति शेषः ।। १५ ।। * * इतीति । हे नृप, इतीत्थं, आमन्त्र्य सान्त्वयित्वा, आप्सीरसीमृषिवीर्यतः प्रम्लोचाप्सरोदेहादा- विर्भूतां वरारोहां वरैरारोढुमुद्रोढुं योग्यां कन्यां, तेभ्यः दत्त्वा द्रुमेभ्य आदाय प्रचेतोभ्यो दत्त्वेत्यर्थः । सोमः राजा, ययौ गतः * स्कं. ६ अ. ४ श्लो. २१-२५ ] । अनेकव्याख्यासमलङ्कृतम् १३५ ततः ते प्रचेतसः, धर्मेण उपयेमिरे सर्वेऽप्येकां तां विवाहितवन्तः । धर्मेणेत्यनेन ‘अपृथग्धर्मशीलानां सर्वेषां वः, सुमध्यमा । अपृथग्धर्मशीलेयं भूयात्पत्न्यर्पिताशया’ इति भगवतोक्तत्वाद्बहुभिरेकस्याः पाणिग्रहः दोषावह इति शङ्का न कार्येति सूचितम् ।। १६ ।। * तेभ्य इति । तेभ्यः प्रचेतोभ्यः, तस्यां मारिषायां प्राचेतसः प्रचेतसां पुत्रः, दक्षः समभवत् किल । पूर्व ब्रह्मणोऽङ्गुष्टाज्जातो दक्षोऽध्वरे रुद्रापराधवशात् बस्तास्यदेहं विहायास्यां मारिषायां प्राचेतसनामा सञ्जायतेत्यर्थः । तथा चोक्तं चतुर्थे । ‘यस्यां महदवज्ञानादजन्यजनयोनिजः’ इति । प्राचेतसं विशिनष्टि । यस्य प्राचेतसस्य दक्षस्य, प्रजाविसर्गेण त्रयः, लोकाः, आपूरिताः । प्रायशो लोकत्रयस्थाः प्रजास्तत्संतानरूपा इत्यर्थः ॥ १७ ॥ * * यथेति । दुहितृवत्सलः । अनेनास्य कन्यावंश एव प्रसृत इति सूचितम् । दक्षः, यथा रेतसा वीर्येण मनसा मनः संकल्पेन च भूतानि ससर्ज । तत्तत्कृतं भूतसर्जनं, मम गदतः सतः सकाशादित्यर्थः । अवहित एकाग्रमनाः सन् एव शृणु आकर्णय ॥ १८ ॥ * * मनसैवेति । प्रजापतिः प्राचेतसो दक्षः, देवासुरमनुष्यादीन, नभश्च स्थलं च जलं च तान्येव ओकांसि येषां तांश्च देवादिरूपा इत्यर्थः । इमाः प्रजाः, पूर्व प्रथमं मनसा एव मनः कृतसंकल्पमात्रेणैवेत्यर्थः । असृजत् । केचित्तु पूर्वमादिसृष्टी, प्रजापतिर्ब्रह्मे- त्याहुः ॥ १९ ॥ तमिति । तं प्रजासर्ग, मनसा क्रियमाणं प्रजासर्गमित्यर्थः । अबृंहितमसंवृद्धम् आलोक्य, प्रजापतिः सः प्राचेतसो दक्षः, विन्ध्यपादान् विन्ध्याद्रेः प्रत्यन्तपर्वतान, उपव्रज्य समुपगम्य, दुश्चरमितरैः कतु मशक्यं, तपः तत्र अचरत् । आचचार कृतवानिति यावत् ॥ २० ॥ भाषानुवादः
A 2 आपलोग अपना क्रोध शान्त करें और अपने पिता पितामह, प्रपितामह आदिके द्वारा सेवित सत्पुरुषोंके मार्गका अनुसरण करें ॥ ११ ॥ ॐ ॐ जैसे मा-बाप बालकोंकी, पलकें नेत्रोंकी, पति पत्नीकी, गृहस्थ भिक्षुकोंकी और ज्ञानी अज्ञा- नियोंकी रक्षा करते हैं और उनका हित चाहते हैं - वैसे ही प्रजाकी रक्षा और हितका उत्तरदायी राजा होता है ।। १२ ।। प्रचेताओं ! समस्त प्राणियोंके हृदय में सर्वशक्तिमान भगवान् आत्माके रूपमे विराजमान हैं। इसलिये आपलोग सभीको भग- वानका निवासस्थान समझें यदि आप ऐसा करेंगे तो भगवान्को प्रसन्न कर लेंगे ॥ १३ ॥ जो पुरुष हृदयके उबलते हुए
-
- भयङ्कर क्रोधको आत्मविचारके द्वारा शरीरमें ही शान्त कर लेता है, बाहर नहीं निकलने देता, वह कालक्रमसे तीनों गुणोंपर विजय प्राप्त कर लेता है ॥ १४ ॥ * प्रचेताओं ! इन दीन-हीन वृक्षोंको ओर न जलाइये; जो कुछ बच रहे हैं, उनकी रक्षा कीजिये | इससे आपका भी कल्याण होगा। इस श्रेष्ठ कन्याका पालन इन वृक्षोंने ही किया है, इसे आपलोग पत्नीके रूपमें स्वीकार कीजिये ।। १५ ।।
-
- परीक्षित्! वनस्पतियों के राजा चन्द्रमाने प्रचेताओंको इस प्रकार समझा-बुझाकर उन्हें प्रम्लोचा अप्सराकी सुन्दरी कन्या दे दी और वे वहाँसे चले गये । प्रचेताओंने धर्मानुसार उसका पाणिग्रहण किया ।। १६ ।। उन्हीं प्रचेताओंके द्वारा उस कन्या के गर्भ से प्राचेतस दक्षकी उत्पत्ति हुई। फिर दक्षकी प्रजा- सृष्टिसे तीनों लोक भर गये ।। १७ ।। इनका अपनी पुत्रियोंपर बड़ा प्रेम था । इन्होंने जिस प्रकार अपने सङ्कल्प और वीर्यसे विविध प्राणियों की सृष्टि की, वह मैं सुनाता हूँ, तुम सावधान होकर सुनो ॥ १८ ॥ परीक्षित्! पहले प्रजापति दक्षने जल, थल और आकाशमें रहनेवाले देवता, असुर एवं मनुष्य आदि प्रजाकी सृष्टि अपने सङ्कल्पसे ही की ॥ १६ ॥ * * जब उन्होंने देखा कि वह सृष्टि बढ़ नहीं रही है, तब उन्होंने विन्ध्याचलके निकटवर्ती पर्वतोंपर जाकर बड़ी घोर तपस्या की ।। २० ।।
॥ तत्राघमर्षणं नाम तीर्थं पापहरं परम् । उपस्पृश्यानुसवनं तपसा तोषयद्धरिम् ॥ २१ ॥ अस्तौषीद्धंसगुह्येन भगवन्तमधोक्षजम् । तुभ्यं ‘तदभिधास्यामि कस्यातुष्यद् यतो हरिः ॥ २२ ॥ नमः अष्टधाम्ने प्रजापतिरुवाच परायावितथानुभूतये गुणत्रयाभासनिमित्तबन्धवे । गुणतत्त्वबुद्धिभिर्निवृत्तमानाय दुधे स्वयम्भुवे ॥ २३ ॥ १. प्रा० पा० समभिधास्यामि । १३६ श्रीमद्भागवतम् [ स्कं. ६ अ. ४ श्लो. २१-२५ न यस्य सख्यं पुरुषोऽवैति सख्युः सखा वसन् संवसतः पुरेऽस्मिन् । गुणो यथा गुणिनो व्यक्तदृष्टस्तस्मै महेशाय नमस्करोमि ॥ २४ ॥ भूतमात्रा नात्मानमन्यं च विदुः परं यत् । देहोऽसवोऽक्षा मनवो सर्व पुमान् वेद गुणांव तज्ज्ञो न वेद सर्वज्ञमनन्तमीडे ।। २५ ।। । कृष्णप्रिया व्याख्या २३ ॥
अन्वयः – तत्र अघमर्षणं नाम परं पापहरम् अनुसवनम् उपस्पृश्य तपसा हरिम् अतोषयत् ॥ २१ ॥ * * हंसगुह्येन अधोक्षजं भगवंतम् अस्तौषीत् यतः हरिः कस्य अतुष्यत् तत् तुभ्यम् अभिधास्यामि ।। २२ ।। * * अवितथा- नुभूतये पराय गुणत्रयाभासनिमित्तबंधवे गुणतत्त्वबुद्धिभिः अदृष्टधाम्ने निवृत्तमानाय स्वयंभुवे नमः दधे ॥ अस्मिन् पुरे वसन् सखा पुरुषः संवसतः व्यक्तदृष्टेः यस्य सख्युः सख्यं न अवैति गुणिनः गुणः तस्मै रोमि ॥ २४ ॥ * * देहः असवः अक्षाः मनवः भूतमात्राः आत्मानं च अन्यं यत् परं न विदुः पुमान् सर्व च गुणान वेद तज्ज्ञ: सर्वज्ञं न वेद अनंतम् ईडे || २५ | श्रीधरस्वामिविरचिता भावार्थदीपिका ।। महेशाय नमस्क- हंसगुह्याख्येन स्तोत्रेण कस्य दक्षस्य || २२ || पराय सर्वोत्तमाय नमो दधे नमनं करोमि । परत्वे हेतुः । अवितथाऽनुभूतिश्चिच्छक्तिर्यस्य । अतो गुणत्रयाभासो जीवो निमित्तं माया च तयोर्बंधने नियंत्रे । एवमपि गुणेषु तत्त्वबुद्धिर्येषां तैर्जीवैरदृष्टं धाम स्वरूपं यस्य । तत्र हेतुः । निवृत्तं मानं यस्मात् पाठांतरे निवृत्तं निरस्तं मानमवधिश्च यस्मात् । कथं तहिं तस्य सिद्धिरत आह । स्वयंभुवे स्वप्रकाशाय || २३ ॥ अदृष्टधामत्वं दर्शयन्नाह । नेति । पुरुषः सखा जीवोऽस्मिन्पुरे देहे वसन्नप्यत्रैव संवसतः सख्युर्यस्य सख्यं करणप्रवर्तकत्वादिकं नावैति न जानाति तस्मै । कुतः । व्यक्तदृष्टेः प्रपंचद्रष्टुः । न हि द्रष्टा दृश्यो भवतीति । प्रथमांतपाठे व्यक्ते प्रपंच एव दृष्टिर्यस्य सः । गुणो विषयो गुणिनो विषयिण इंद्रियादेः सख्यं प्रकाशकत्वं यथा न वेत्ति तद्वत् ॥ २४ ॥ * * ननु गुणो जडत्वान्न जानातीति जीवस्तु चेतनः किमिति न जानात्यत आह । देह इति । देहश्वासवश्च प्राणा अक्षाः इन्द्रियाणि मनवश्चांतःकरणानि भूतानि च मात्राश्च तन्मात्राण्यात्मानं स्वरूपं दृश्यमन्यमिद्रियवर्ग तयोः परं देवतावर्गं च न विदुः । पुमान् जीवस्तु सर्वमेतत्रयं वेद गुणांश्च तन्मूलभूतत्वाद् तज्ज्ञोऽपि अन्यं सर्वज्ञं न वेद तमनंतमीडे स्तौमि ॥ २५ ॥ वंशीधरकृतो भावार्थदीपिकाप्रकाशः ।
तत्र विंध्यपादेषु । अनुसेवनं त्रिकालम् । उपस्पृश्य स्नात्वेत्यर्थः । “उपस्पर्शः स्पर्शमात्रे स्नानाचमनयोरपि” इति मेदिनी ॥ २१ ॥ * * तद्धं गुह्यं पूर्वसिद्धमेव न तु दक्षनिर्मितमिति ज्ञेयम् ।। २२ ।। परापरकामेन निष्कामेन वा परमेश्वर एव भजनीयो नान्यस्तस्य मायाजीववशीकारिशक्तित्वादन्यस्य तन्मायाधीनतुच्छशक्तित्वादिति स्ववांछासिद्धिकैमुत्यं दर्शयंस्तदर्थं स्तुतिविशेषेणोपतिष्ठते – नम इति । परायेति सर्वनामसंज्ञाऽभावप्रदर्शनेन लोकवैलक्षण्यमुक्तं पूर्वादिश्च व्यवस्थायामित्युक्तस्सा न जातेत्यवधेयम् । तदेवाह - सर्वोत्तमायेति । अवितथाऽव्यभिचरिता चिच्छक्तिर्ज्ञानेच्छा- शक्ति: । एवमपि प्रकृतिपुरुषनियंतृत्वेपि अदृष्टं तर्कयितुमशक्यम् । तत्रादृष्टस्वरूपत्वे मानं प्रत्यक्षादि । पाठांतरे निवृत्तो माना- वधिः परिमाणसीमा यस्य तस्मै । न ह्येतावद्गुढरूपैश्वर्यकः परमेश्वर इति कोऽपि वक्तुं शक्नोतीति भावः । तदुक्तं ब्रह्मणा " गुणात्मनस्तेऽपि गुणान्मिमातुं हितावतीर्णस्य क ईशिरेऽस्य” इति । आशंकते — कथं तर्हीति । स्वप्रकाशाय स्वत एव प्रकाशत इत्यर्थः ॥ २३ ॥ * * वसन्नपि तत्सख्यमनुभवन्नपि । सख्युः आत्मारामत्वेऽपि सख्यभावात्कथमेतान्विषयान्भोजयितुः । अत्रैव देहे कुतो नावैति । व्यक्तदृष्टिरिति पाठे विषयो घटादि: इंद्रियादेरिहादिनेंद्रियाधिष्ठातृदेवग्रहः ॥ २४ ॥ * * अत्राशंकते - नन्विति । जीवः सर्वत्र चेतनोऽपि परमेश्वरे त्वचेतन एवेत्याह भूतानि पृथिव्यादीनि । तं जीवन्मुक्तदशायां जानातीति तज्ज्ञ: तदपि । ननु तज्ज्ञः इति ब्रूषे तदपि न वेदेति कुतस्तत्राह – अनन्तमिति । अप्राकृतगुणानामनंतत्वात्तदृष्य- ज्ञानमेव तदुक्तं ‘पतय एव ते न ययुरंतमनंत तया’ इति ॥ २५ ॥
स्कं. ६ अ. ४ श्लो. २१-२५ ] अनेकव्याख्यासमलङ्कृतम् अन्वितार्थप्रकाशिका १३७ तत्रेति । तत्राघमर्षणं नाम पापहरं परं श्रेष्ठं तीर्थमस्ति । तत्र अनुसवनं त्रिकालमुपस्पृश्य आचमनस्नानादि कृत्वा तपसा हरिमतोषयत् ।। २१ ।। अस्तोषीदिति । हंसानां परमहंसानां गुह्यं रहस्यं तेन हंसगुह्येन तन्नाम्ना स्तोत्रेण अधोक्षजं भगवन्तमस्तौषीत् । इडभाव आर्षः । यतः स्तोत्रात् कस्य दक्षस्य हरिरतुष्यत् तत्तुभ्यमभिधास्यामि कथयि- ष्यामि ॥ २२ ॥ * नम इति । पराय अवितथा यथार्थानुभूतिश्चिच्छक्तिर्यस्य तस्मै भ्रान्तिरहिताय गुणत्रयाभासो जीवः निमित्तं माया च तयोः बन्धवे नियन्त्रे प्रवर्तकाय च गुणेषु रूपरसादिविषयेषु तत्त्वं परमार्थ इति बुद्धिर्येषां तैर्न दृष्टं धाम स्वरूपं यस्य तस्मै निवृत्तं मानं प्रमाणं प्रत्यक्षादि यस्मात् स्वयंभुवे स्वप्रकाशाय नमः दधे नमस्करोमि । निवृत्तमानावधय इति पाठे तु निवृत्तो मानावधिः परिमाणेयत्ता यस्मात्तस्मै नमोऽस्त्विति ॥ २३ ॥ * * नेति । अस्मिन् पुरे शरीरे संवसतोऽपि अव्यक्तदृष्टेः प्रपञ्चद्रष्टुः दृश्यत्वाभावतः यस्य सख्युरीश्वरत्य सख्यं बहिरन्तःकरणप्रवर्त्तकत्वादिकं सखा पुरुषो जीवोsस्मिन् पुरे सह वसन्नपि नावैति न जानाति यथा गुणो रूपादिर्विषयिण इन्द्रियादेः सख्यं प्रकाशकत्वं यथा न वेत्ति तद्वत् इति तस्मै महेशाय नमस्करोमि । दृष्टिरिति प्रथमान्तपाठे व्यक्ते प्रपञ्च एव दृष्टिः परमार्थबुद्धिर्यस्य सः पुरुषः ।। २४ ।। * * देह इति । देहः असवः प्राणाः अक्षा इन्द्रियाणि मनवः अन्तःकरणानि भूतानि पृथिव्यादीनि मात्रास्तन्मात्राणि शब्दादयश्च आत्मानं स्वस्वरूपमन्यं देवतावर्ग ततोऽपि परं यत् जीवस्वरूपं च न विदुर्न जानन्ति जडत्वात् । पुमान् जीवस्तु सर्व पूर्वोक्तं गुणान् देहादिकारणीभूतान् सत्त्वादीन् च वेद जानाति चेतनत्वात् । एवं तज्ज्ञोऽपि यं सर्वज्ञं न वेद तमनन्तमहमी डे स्तौमि ॥ २५ ॥ * arriadoयाख्या. तत्र विन्ध्यपादेषु त्रिकालमघमर्षणाख्यं पापहरं पुण्यं तीर्थमुपस्पृश्य तत्र स्नात्वेत्यर्थः । तपसा हरिमतोषयदारा- धितवान् ।। २१ ।। तथा भगवन्तमधोक्षजं हंसगुह्याख्येन स्तोत्रेणास्तौषीत्तदेव स्तोत्रं तुभ्यमभिधास्यामि स्तोत्रं विशिनष्टि । यतो येन स्तोत्रेण हरिः कस्य प्रजापतेर्दक्षस्यातुष्यत्तुष्टोऽभूत् । प्रसन्नोऽभूदित्यर्थः ।। २२ ।। * * हंसगुह्याख्यं - स्तोत्रमुपदिशति । नमः परायेत्यादिना । स ईश्वरो मे कुरुतान्मनोरथमित्यन्तेन ग्रन्थेन । तत्र प्रथमं प्रकृतिपुरुषविलक्षणं सत्य-. सङ्कल्पं प्रकृतेनियन्तारमपरिच्छिन्नं प्रमाणशून्यावधिं सर्वकारणं नमस्करोति । पराय चिद्विलक्षणाय तावश्चिद्वयावर्त्तकधर्म- योगमाह । अवितथानुभूतये इति । अवितथाऽमोघाऽनुभूतिः सङ्कल्परूपात्मकं ज्ञानं यस्य सत्यसङ्कल्पायेत्यर्थः । जीवस्त्वसत्य- सङ्कल्प इति ततः तेनास्य व्यावृत्तिः अचिद्वयावर्त्तकधर्ममाह । गुणत्रयाभासनिमित्तबन्धवे गुणत्रयाभासः सत्त्वादिगुणात्रयोन्मे- पस्तस्य निमित्तं कारणं प्रकृतिः तस्या बन्धवे आश्रयभूताय प्रकृतिशरीरकाय तन्नियन्त्रे इत्यर्थः । अनेनाचितोऽस्य व्यावृत्तिः एवं पदद्वयेन चिदचिद्वयावृत्तिः । नन्वयं प्रजापतिवाक्योदिताविर्भूतसत्यसङ्कल्पः प्रकृतिविमुक्तः किं मुक्तो जीवः नेत्याह । गुणतत्त्व- बुद्धिभिर्गुणत्रय कार्यभूतपृथिव्यादितत्त्वविषयबुद्धिभिरदृष्टमनुपलक्षितं धाम स्वरूपं यस्य मुक्तस्तु संसारदशायां पृथिव्यादि- सङ्घातपरिणाम भूतशरीरविषयबुद्धिभिर्देवोऽयं मनुष्योऽयमित्युपलक्षित इति ततोऽस्य तेनैव व्यावृत्तिः तर्हि किं नित्यसिद्धः नेत्याह । निवृत्तं मानं यस्मान्निवृत्तमानः तादृशोऽवधिरियता यस्य स तथोक्त: प्रमाणशून्यावधये त्रिविधपरिच्छेदरहित- स्वरूपायेत्यर्थः । नित्यसिद्धस्तु जीवः स्वरूपतः परिच्छिन्नः इति ततः तेनास्य व्यावृत्तिः स्वयम्भुवे स्वयं कारणान्तरशून्याय’ सर्व कारणायेति भावः ॥ २३ ॥ * * गुणत्रयाभासनिमित्तबन्धवे इत्यनेनाचिदाश्रयत्वमुक्तमथ चेतनबन्धुत्वमाह । न । यस्येति । पुरे देहे संवसतः जीवान्तरात्मतया वसतः सख्युहितैककारिणः । यस्य परमात्मनः सख्यं तच्छेषभावं पुरुषो नावैति । गुणिनो रत्नादेर्गुण इव प्रभादिवत् अपृथक सिद्धप्रकारभूतो वसन् तद्धार्यत्वेन वसन् सखा तद्गतातिशयाधानैकस्वरूपतया मित्रमयं पुरुषः नावैति नानुसन्धत्ते इत्यर्थः । तत्र हेतुरव्यक्तदृष्टिः । देहगोचरज्ञानः तस्मै सख्ये परमपुरुषाय नमस्करोमि । " द्वा सुपण" इति श्रुत्यर्थोऽत्र विवक्षितः ॥ २४ ॥ * * नावैतीत्येतत् प्रपञ्चयति । देह इति । देहश्वासव इन्द्रियाणि प्राणा वा मनसः मनोवृत्तयः ज्ञानेन्द्रियाणि वा भूतानि पृथिव्यादीनि मात्रा गन्धादीनि तग्राहकाणि कर्मेन्द्रियाणि वा एता: आत्मानं स्वस्वरूपं परं स्वेभ्यः विलक्षणमन्यं जीवात्मानं न विदुः पुमान् जीव यत् सर्व देहादिकं तद्वेद जानातीत्यर्थः । एवं’ तत्तज्ज्ञो देहाद्यभिज्ञोऽपि जीवः देहादिकं स्वगुणान् स्वात्मानं च जानाति तं भगवन्तं सर्वज्ञं तद्गुणांश्च न वेद तमनन्तमपरि- च्छिन्नमीडे स्तौमि देहादयो दृष्टान्तार्थमुपात्ताः यथा देहादयः स्वस्वरूपं तस्माद्विलक्षणं जीवात्मानं च न विदुरेवं पुमान् देहाद्य-’ भिज्ञो ऽपि सर्वज्ञं तद्गुणांश्च न वेदेत्यर्थः ।। २५ । | १८ १३८ श्रीमद्भागवतम् स्कं. ६ अ. ४ श्लो. २१-२५ विजयध्वजतीर्थकृता पदरत्नावली नाना हंसगुह्येन स्तोत्रेण कस्य दक्षस्य यतो येन ।। २२ ।। सर्वनामसंज्ञाभावाल्लोकवैलक्षण्यप्रदर्शनाय पराय नम इत्यन्वयः । परत्वमुपपादयति । अवितथेत्यादिना । अवितथा यथार्था काप्यप्रतिहतानुभूतिर्यस्य स तथा तस्मै सत्यज्ञानाय “सत्यं ज्ञानम् “इति श्रुतेः गुणत्रयेणाभासः सृष्टिस्तन्निमित्तयोः प्रकृतिपुरुषयोर्बन्धुभूताय तत्र स्थित्वा ताभ्यां सृष्टौ प्रवर्तमानाय गुणत्रयप्रतीतिनिमित्ताव्यक्ताश्रयाय वा “सतो बन्धुमसति निरविन्दन्” इति श्रुतेः गुणेषु शब्दादिविषयेषु यथार्थबुद्धिर्येषां ते तथा तैर्बहिर्मुखैरदृधाम्नेऽज्ञातस्वरूपाय “न चक्षुषा पश्यति कश्चिदेनम्” इति श्रुतेः निवृत्तो मानावधि: परिमाणलक्षणेयत्ता यस्मात् स तथा तस्मै “अनन्तं ब्रह्म” इति श्रुतेः जन्मादिमतः कथमनन्तत्वमिति तत्राह । स्वयम्भुव इति । स्वयंभुवे स्वतः सिद्धाय “स भगवान् कस्मिन् प्रतिष्ठित इति स्वे महिनि” इति श्रुतेः ॥ २३ ॥ गुणतत्त्वबुद्धिभिरदृष्टधान्न इत्येतदुपपादयति । न यस्येति । अयं पुरुषो यस्य सख्यं न वेत्ति तस्मै महेशाय शिवादत्युत्तमाय नमस्करोमीत्यन्वयः । कीदृश त्य अस्मिन् पुरे शरीरे सवसतः स्वयं च सहैव वसन् “तदूरे तदन्तिके” इतिश्रुतेः सख्युः सखेत्येतदेकस्मिन् पुरे वर्तमानत्वादुभयोः समम् । “द्वा सुपर्णा सयुजा सखाया समानं वृक्षम्” इति श्रुतेः । अत्र दृष्टान्तमाह । गुण इति । यथा कश्चित्पुरतः स्थितोऽपि गुणभूतो भृत्यः गुणिनः प्रधानभूतस्य राज्ञो ममासौ सखेति गम्भीरेण राज्ञा चिन्तितं सख्यं न वेत्ति । कुतोऽत्राह । अव्यक्तेति । अस्पष्टदृष्टिः भृत्यस्य स्थूलज्ञानत्वात् राज्ञः । सूक्ष्म दृष्टित्वादित्यर्थः । गुणो रूपादिर्गुणिनो द्रव्यस्य सम्बन्धं यथा न वेत्ति । कुतः अव्यक्तदृष्टिः दृष्टिरहितत्वाज्जडत्वादित्येतदपव्याख्यानम् । “यथा राज्ञः प्रियत्वं तु भृत्यो वेद न चात्मनः । तथा जीवो न यत्सख्यं वेत्ति तस्मै नमोऽस्तु ते ॥" इत्यनेनापहस्तितमिति ज्ञातव्यम् ॥ २४ ॥ * * मुह्यन्ति यत् सूरय इति यदुक्तं तदधुना स्पष्टयति देह इति । “ता आप ऐक्षन्त” इत्यादिवद्देहादीनां जडानां ज्ञातृत्वादिधर्मानुपपत्त्या तद्वयतिरिक्तः कश्चित् ज्ञानाश्रयोऽङ्गीकर्तव्यः जीवस्य ज्ञानाश्रयत्वेऽपि सम्यक् स्वपरवेदनासामर्थ्यस्य प्रत्यक्षत्वेन परस्य हस्तज्ज्ञानाविषयत्ववर्णनेन माहात्म्यमाविर्भूतं न स्यादिति कश्चिद्विशिष्टः सर्वज्ञोऽपेक्षितस्तस्य सर्वज्ञत्वविशिष्टान्यसद्भावे घटते तेनान्यैश्च सम्भूयाप्यवेद्यमहिमा हरिरित्यनेन हरेर्निरति- शयमाहात्म्यं विज्ञातं स्यादिति तदर्थ देहादिशब्देन तदभिमानित्वेन ते लक्ष्यन्ते संबन्धात्तथाहि प्रधानाभिमानित्वाद्वैश्रवणादयो देहादय इति समानाधिकरण्येनोच्यन्ते न तु तादात्म्यात् देह: अभिमानी वैश्रवणः असवः प्राणाभिमानिनो मरुतः अक्षा इन्द्रियाणि तदभिमानिनः इन्द्रानिवरुणादय मनव इति मनसोऽन्तःकरणस्य वृत्तिबाहुल्या बहुबचनं तस्याभिमानी रुद्रः भूतानामभिमानिनः: पृथिव्याद्याः सुपर्णाद्याः वा मात्राः शब्दादयः तद्देवताः रुद्रसूनवः सौपर्णाद्या वा इत्येते देवाः वैश्रवणाद्याः आत्मानं स्वस्वरूपमन्यं स्वयतिरिक्तं प्रपञ्चं न विदुः यदुभयस्मात् परमुत्तमं ब्रह्म तन्न विदुरिति किमुत तत्प्रसादमन्तरेणेति शेषः । पुमान् जीवाभिमानी ब्रह्मा स्वात्मानं प्रपञ्चं चेति सर्व वेद न केवलं तावदेव किन्तु तत्तद्वस्तुसमवेतगुणांश्च शब्दांस्तद्वि- शेषांश्च क्रियादींश्च वेद तर्हि परमात्मानं वेद किं नेत्याह । तज्ज्ञ इति । तानि सर्वाणि जानातीति तज्ज्ञोऽपि ब्रह्मा तं सर्वज्ञं हरिं न वेद यथासौ हरिः स्वात्मानं स्वव्यतिरिक्तं सर्वं वेत्ति तथेति शेषः । तर्ह्यसौ स्वपरिच्छेद्यत्वेन परिमितः किं नेत्याह । अनन्तमिति । अनन्तमात्मानमपरिच्छेद्यत्वेन ज्ञातारं तस्य ज्ञानस्य यथार्थत्वादतः स एव सर्वमुख्यः सर्वज्ञो न ब्रह्मेति “तद्ब्रह्मावैत् अहं ब्रह्मास्मि" इति श्रुतिः विष्णोर्नु कं वीर्याणि इति श्रुतिश्च एवम्विधं परमात्मानमीड इत्यन्वयः । एतत् सर्व “देहा- भिमानी वैश्रवणो मरुतः प्राणमानिनः । इन्द्राद्या इन्द्रियात्मानो रुद्रोऽतःकरणात्मकः । नैते विदन्ति स्वात्मानं परं चापि विमोहिताः जीवाभिमानी ब्रह्मा तु सर्व वेद प्रजापतिः ।” सोऽपि वेद हरिं नैव सम्यक्स एव हि सर्ववित् । इत्यनेन सिद्धम् ।। २५ ।। जीवगोस्वामिकृतः क्रमसन्दर्भः परापरकामेन निष्कामेण वा परमेश्वर एव भजनोयो नान्यस्तस्य मायाजीववशीकारिशक्तित्वादन्यस्य तन्मायाधीन- तुच्छ शक्तिस्तदर्थं स्तुतिविशेषेणोपतिष्ठते । नम इति । अवितथेत्यव्यभिचारज्ञानेच्छाशक्ती दर्शिते । गुणत्रयेति । तादृशक्रिया- शक्तिर्दर्शिता जीवमायानियन्तृत्वात्तासां तादृशशक्तीनां तत्तदतीतत्वेन स्वरूपभूतत्वं च तथापि गुणेषु सत्त्वादिष्वेव तत्त्वबुद्धिः कारणज्ञानं येषां तैरदृष्टं तर्कयितुमशक्यं किमुतानुभवितुमशक्यं धाम तादृशशक्तिप्रकाशोऽपि किमुत स्वरूपतत्पूर्णशक्ती यस्य तस्मै सर्वत्र हेतु: स्वप्रकाशायेति । गुणत्रयस्याभासः स्वाज्ञानेनारोपो यस्मिन् स जीव इति जीवस्य चिद्रूपत्वे तद्वदज्ञान- स्पृष्टत्वाभासतो निकर्ष एवं व्यक्तीकृतः रशमीस्थानीयत्वात् तस्य ॥ २३ - २४ ॥ देहेति । अन्यं देवतावर्ग ।। २३-२४ परं पुमांसच ।। २५ ।।स्क. ६ अ. ४ श्लो. २१-२५] अनैकव्याख्यासमलङ्कृतम् विश्वनाथचक्रवतिकृता सारार्थदर्शिनी ત हंसगुह्येन स्तोत्रेण पूर्वसिद्धेनैव निगमेन न तु दक्षकृतेनेत्यर्थः । कस्य दक्षस्य || २२ ॥ ॐ पराय जीवमाया- मायिकेभ्य इत्यर्थः । कुतः अवितथानुभूतये सत्यानुभवाय गुणत्रयाभासो जीवः निमित्तं माया तयोर्बन्धवे एवमपि गुणेषु तत्त्वबुद्धिर्येषां तैर्जीवैरदृष्टस्वरूपाय । तद्भिन्नैरपि सम्यगनवगम्यधामेत्याह निवृत्तो मानावधिः परिमाणासीमा यस्य तस्मै न तावद्गुणरूपैश्वर्यकः परमेश्वर इति कोऽपि वक्तुं शक्नोतीति भावः । यदुक्तं ब्रह्मणा " गुणात्मनस्तेऽपि गुणान् विमातुं हितावतीर्णस्य क ईशिरेऽस्य " इति । निवृत्तमानाय दधे इति पाठे मानो ज्ञानं दधे करोमि तदा नम इति कर्म पदं तर्हि कथं तस्य सिद्धिस्तत्राह । स्वयम्भुवे स्वप्रकाशाय ॥ २३ ॥ * * अदृष्टधामत्वमुपपादयति । नेति । यस्य परमात्मनः सख्यं करणप्रवर्त्तकत्वादिकं पुरुषो जीवो नावैति न जानाति अस्मिन्नेव पुरे देहे वसतोऽपि सख्युरपि आत्मारामत्वेऽपि सख्यादेव तत्कामितान् विषयान् भोजयितुः स्वयं सखापि तस्य तत्तत्सख्यमनुभवन्नपि अत्रैव देहे वसन्नपि नैव वेद व्यक्तदृष्टेरिति षष्ठयन्तपाठे बुद्धीन्द्रियादिप्रकाशादेव यद्विषयकं ज्ञानं व्यक्तमेव तस्यापीश्वरस्य प्रथमान्तपाठे तस्मादेव हेतोर्यत्कर्तृकं ज्ञानं व्यक्तमेव सोऽपि जीवः गुणः शब्दस्पर्शादिर्यथा गुणिनः श्रोत्रादेरिन्द्रियस्य सख्यं स्वमाधुर्यादिज्ञापनलक्षणं न वेत्ति तद्वत् ॥ २४ ॥ * * ननु गुणो जडत्वान्न जानातु जीवस्तु चेतनः कथं न जानाति तत्र सर्वत्र चेतनोऽपि परमेश्वरे स्वत एवेत्याह । देहश्च तत्रस्था असवः प्राणाश्च अक्षा इन्द्रियाणि च मनवोऽन्तःकरणानि च भूतानि पृथिव्यादीनि च मात्राः शब्दादयश्च आत्मानं स्वस्वरूपम् आत्मनां मध्ये अन्यमन्यस्वरूपम् आत्मभ्यः सर्वेभ्य एव परं जीवस्वरूपञ्च न विदुः । पुमान् जीव तु चेतनत्वात् सर्वम् आत्मानं देहादीन् गुणान् सत्त्वादीन्मूलभूतांश्च वेद जीवन्मुक्तत्वदशायां तं परमात्मानश्च जानातीति तज्ज्ञः । तदपि सर्वज्ञं परमेश्वरं न वेद । ननु तज्ज्ञ इति ब्रूषे तदपि न वेदेति कुतस्तत्राह । अनन्तम् अप्राकृतगुणा- नामनन्तानामज्ञानात्तदप्यज्ञानमेव यदुक्तम् “द्युपतय एव ते न ययुरन्तमनन्ततया ” इति ॥ २५ ॥ शुकदेवकृतः सिद्धांत प्रदीप: तत्र विन्ध्यपादेषु ॥ २१ ॥ * * तद्धंसगुह्याख्यं स्तोत्रं यतो येन स्तोत्रेण कस्य दक्षस्य अतुष्यन्तुष्टोऽ- भूत् ।। २२ ।। * * पराय चेतनाचेतनेभ्यो विलक्षणाय नमः तत्राचेतनेभ्यः प्रकृतिकालादिभ्यः वैलक्षण्यमाह । गुणत्रयाभासनिमित्तबन्धवे इति । गुणत्रयस्य आभास उन्मेषो यस्मात्तत् प्रधानं निमित्तं कालस्तयोः प्रकृतिकालयोर्बन्धवे नियन्त्रे अणुपरिमाणकेभ्यश्चेतनेभ्यो वैलक्षण्यमाह । निवृत्तमानावधये इति । निवृत्तो मानावधिः स्वरूपगुणपरिमाणसीमा यस्मात्तस्मै मुमुक्षुभ्यो ज्ञानप्रदोऽयमित्याह । अवितथा सत्यफला अनुभूतिरुपासकस्य यस्मात्तस्मै “ददामि बुद्धियोगन्तं येन मामुपयान्ति ते” इति श्रीमुखवचनात् नित्यबद्धानां बुभुक्षूणां दुर्ज्ञेयोऽयमित्याह । गुणतत्त्वबुद्धिभिः गुणाः विषया एवं तत्त्वमिति बुद्धिर्येषां तैरदृष्टधाम्ने दुर्ज्ञेयस्वरूपाय अनन्यसिद्धत्वमाह । स्वयम्भुवे इति ॥ २३ ॥ * * बुभुचुजीवस्य कृतघ्नत्वमाह । पुरुषो भगवद्बहिर्मुखो जीवः पुरे देहे वसन्नपि यस्य अस्मिन्नेव पुरे सम्यग् वसतः सख्युर्हितकारिणः सख्यं हितकारित्वं स्थितिप्रवृत्त्यादिप्रदत्वं नावैति तस्मै नमस्करोमि कुत इत्यत्र हेतुगर्भविशेषणं व्यक्तदृष्टिः व्यक्ते संसारे एव दृष्टिर्यस्य सः यथा गुणो गुणकाय्र्यो देहः गुणिनः देहिनः धारकत्वप्रकाशकत्वादिकं नावैति तद्वदयं भावः यथा देहस्य जडत्वाज्जीव- स्वरूपगुणादिज्ञाने सर्वदायोग्यता तथा नित्यबद्धस्य संसारासक्तस्य जीवस्य चेतनत्वेऽपि भगवत्स्वरूपगुणादिज्ञानेऽ- योग्यतेति ॥ २४ ॥ * * एतदेव वर्णयन्नित्यबद्ध जीवदुर्ज्ञेयं भगवन्तं सर्वज्ञतया स्तौति । देह इति । सर्वज्ञमीडे स्तौमि अक्षा इन्द्रियाणि मनवः मनोबुद्धिचित्ताहङ्काराः भूतान्याकाशादीनि मात्राश्च शब्दादितन्मात्राणि । आत्मानं स्वस्वरूपं न विदुः अन्यं स्वविलक्षणं परं देहेन्द्रियादिभ्यः श्रेष्ठं ज्ञानस्वरूपं यत्तत्त्वं जीवाख्यं तत्कुतो विदुः अचेतनत्वान्नैव विदुरित्यर्थः । पुमान् गुणतत्त्वबुद्धिर्नित्यबद्धो जीवः यतो ज्ञः ज्ञाता तत्तत्सर्वं सुखदुःखादिकं गुणान् विषयश्च वेद अनन्तं परमात्मानं न वेद अहो तस्याभाग्यम् ।। २५ ।। गोस्वामिगिरिधरलालविहिता बालप्रबोधिनी तत्र परं श्रेष्ठं तीर्थमस्ति । अनुसवनं त्रिकालं तदुपस्पृश्य तत्र स्नात्वा ॥ २१ ॥ हंसगुह्याख्येन स्तोत्रेणाऽ- धोक्षजम् इन्द्रियजन्यज्ञानाविषयं भगवन्तमस्तौषीत् । यतः स्तोत्रात् कस्य दक्षस्य हरिरतुष्यत् तत् तुभ्यमभिधास्यामि कथयिष्या- मीत्यन्वयः ।। २२ ।। * * स्तोत्रमेव दर्शयति – नम इति द्वादशभिः । पराय पुरुषोत्तमाय नमो दधे नमनं करोमि । १४० श्रीमद्भागवतम् [ स्कं. ६ अ. ४ श्लो. २१-२५ पुरुषोत्तमत्वोपपादनाय विशेषणान्तराणि - अवितथाय यथार्थानुभूतिर्ज्ञानं यस्य तस्मै भ्रान्तिरहिताय । गुणत्रयस्य आभासे कार्ये निमित्तं प्रकृतिस्तस्य बन्धवे प्रवर्त्तकाय । गुणेषु रूपरसादिविषयेषु तत्त्वं परमार्थ इति बुद्धिर्येषां तैर्न दृष्टुं धाम स्वरूपं लोको वा यस्य तस्मै । तत्र हेतुमाह - निवृत्तं मानं प्रमाणं यस्मात्तस्मै । तर्हि कथं तत्सिद्धिस्तत्राह - स्वयम्भुव इति चक्षुरा- दिप्रमाणाविषयत्वेऽपि स्वप्रकाशत्वेनैव तत्सिद्धिरित्यर्थः । निवृत्तमानावधय इति पाठे तु निवृत्तो मानावधिः परिमाणेयत्ता यस्मात्तस्मै ॥ २३ ॥ * अदृष्टधामत्वमेव दर्शयति-नेति । अस्मिन् पुरे शरीरे सवसतोऽपि यस्य सख्युर्भोगापवर्ग- साधकस्य सख्यं बहिरन्तःकरणप्रवत्तैकत्वादिकं सखा पुरुषो जीवोऽस्मिन् पुरे सह वसन्नपि नावैति न जानाति तस्मै महेशाय ब्रह्मरुद्रादिसर्वेश्वराय नमस्करोमीत्यन्वयः । नन्वेवं तस्य तत्तत्कार्येषु प्रवर्त्तकत्वे वैषम्यनैर्घृण्ये स्यातामित्याशङ्कयाह — अव्यक्त- दृष्टरिति । अव्यक्ते जीवाष्ठे पापपुण्यसव्ज्ञके दृष्टिर्यस्य तस्य । तथाच जीवादृष्टानुसारेण प्रवर्त्तकत्वान्नोक्तदोष इति भावः । प्रथमान्तपाठे व्यक्ते प्रपञ्च एव दृष्टिः परमार्थबुद्धिर्यस्य स पुरुष इत्यज्ञाने हेतुरुक्तः । तत्र दृष्टान्तमाह – गुणो यथेति, गुणो रूपादिविषयः गुणिनो विषयिण इन्द्रियादेः सख्यं प्रकाशकत्वं यथा न वेत्ति तद्वत् ॥ २४ ॥ * ननु गुणो जडत्वात् भगवत्तत्त्वं तत्कृतोपकारं च न जानाति, जीवस्तु चेतनः किमिति तन्न जानीयादिति विषमो दृष्टान्त इत्याशङ्कय न हि चेतनत्वं सर्वज्ञत्वे हेतुः किन्तु ‘अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः’ इति वाक्यादज्ञानावरणराहित्यमेव तथा च जीवस्याज्ञानावृतत्वान्न सर्वज्ञत्वं, भगवतस्तु तदावरणरहितत्वात् सर्वज्ञत्वमित्यभिप्रेत्याह - देह इति । देहः, असव: प्राणा:, अक्षा इन्द्रियाणि, मनवः अन्तःकरणानि भूतानि पृथिव्यादीनि मात्रास्तन्मात्राणि शब्दादयश्च आत्मानं स्वस्वरूप- मन्यं देवतावर्गं ततोऽपि परं यत् जीवस्वरूपं च न विदुर्न जानन्ति जडत्वात् पुमान् जीवस्तु सर्व पूर्वोक्तं गुणान् देहादिकार- णीभूतान् सत्वादीन च वेद जानाति चेतनत्वात् एवं तज्ज्ञोऽपि यं सर्वज्ञं न वेद तमहमीडे स्तौमि । तदज्ञाने हेतुमाह- अनन्तमिति, देशकालवस्तुपरिच्छेदशून्यमित्यर्थः । न हि स्वयं देशादिपरिच्छिन्नदृष्टिस्तदनवच्छिन्नं ज्ञातुं शक्नोतीति भावः ।। २५ । , भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी ’’’’
तत्रेति । तत्र विन्ध्यपादेषु अघमर्षणं नाम अघमर्षणाख्यं पापहरं पापहरणेनान्वर्थसंज्ञमित्यर्थः । अत एव परं सर्वोत्तमं तीर्थं भवति । तत्र अनुसवनं त्रिकालं, उपस्पृश्य सम्यक् स्नात्वा, तपसा हरिं, अतोषयत् समाराधि- तवान् ॥ २१ ॥ * * अस्तौषीदिति । हंसगुह्येन स्तोत्रेण, अधोक्षजं भगवन्तं दक्षः अस्तौषीत् । यतो येन स्तोत्रेण, हरिः कस्य दक्षप्रजापतेः, अतुष्यत्तुष्टोऽभूत् । प्रसन्नोऽभवदित्यर्थः । तत्स्तोत्रं तुभ्यं अभिधास्यामि कथयामीत्यर्थः ॥ २२ ॥ माससंख्यायुतैर्मासदुर्बोधाथैर्हरिं वरैः । श्लोकैर्बद्धेन तुष्टाव हंसगुह्यस्तवेन कः । हंसगुह्याख्यं स्तोत्रमुपदिशति । नमः परायेत्यादिना ’ स ईश्वरो मे कुरुतान्मनोरथम्’ इत्यन्तेन । नम इति । सर्वनामसंज्ञाभावाल्लोकवैलक्षण्यप्रदर्शनायादौ पराये- त्युक्तम् । पराय चिदचिद्विलक्षणाय, चिद्वयावर्त्तकधर्मयोगं तावदाह । अवितथा अमोघा अनुभूतिः सत्यसंकल्पात्मकं ज्ञानं यस्य तस्मै, सत्यसंकल्पायेत्यर्थः । जीवस्यासत्संकल्पत्वात्ततोऽस्यानेन व्यावृत्तिः । अचिद्वयावर्त्तकधर्मयोगमाह । गुणत्रयाभासः सत्त्वादिगुणत्रयोन्मेष [तस्य निमित्तं कारणरूपा प्रकृतिस्तस्य बन्धुराश्रयभूतस्तस्मै, प्रकृतिशरीरकाय तन्नियन्ते चेत्यर्थः । अचितोऽस्यानेन व्यावृत्तिः । इत्थं पदद्वयेनास्य चिदचिद्भ्यां व्यावृत्तिरुक्ता । नन्वनेन विशेषणद्वयेनायं प्रजापतिवाक्योंदिता- विर्भूतसत्यसंकल्पादिगुणः प्रकृतिविमुक्तः मुक्तभावं प्राप्तो जीवः किं न स्यादित्याशङ्कायां तद्विलक्षणतासिद्धच आह । गुणतत्त्व- बुद्धिभिः गुणत्रयकायभूतपृथिव्यादितत्त्वविषयबुद्धिभिः, अदृष्टमनुपलक्षितं धामस्वरूपं यस्य तस्मै, मुक्तस्तु संसारदशायां पृथिव्यादिसंघातपरिणाम भूतशरीरविषयबुद्धिमत्तथा देवोऽयं मनुष्योऽयं इत्युपलक्षितस्ततोऽस्यानेन व्यावृत्तिः । तर्हि नित्य- सिद्धस्वरूपतया जीव एवंविधः किं न स्यात्तत्राह । निवृत्तं मानं प्रमाणं यस्मादसी निवृत्तमानस्तादृशोऽवधिरियत्ता यस्य स । : तथोक्तस्तस्मै त्रिविधपरिच्छेदरहितस्वरूपायेत्यर्थः । नित्यसिद्धस्वरूपत्वेऽपि जीवः स्वरूपतः परिच्छिन्नस्ततोऽनेनास्य व्यावृत्तिः । सर्वासाधारणं गुणमस्याह । स्वयंभुवे स्वयं कारणान्तरशून्याय सर्वकारणायेत्यर्थः । इत्थंभूताय नमः ॥ २३ ॥ गुणत्रयाभासनिमित्तबन्धव इत्यनेनाचिद्बन्धुत्वं पूर्वमुक्तमथ चेतनबन्धुत्वमाह । न यस्येति । अस्मिन् पुरे देहे, सवसतः जीवान्तरात्मतया निवसतः, सख्युः सर्वथा हितैककारिणः, यस्य परमात्मनः सख्यं गुणिनो रत्नादेः सख्यं गुणरुत्प्रभा, यथा न वेत्ति तद्वत् । यद्वा गुणिनः इन्द्रियादेर्विषयिणः, स्वप्रकाशकत्वादिरूपं सख्यं गुणो विषयो यथा, न वेत्ति, तद्वत् । यद्वा गुणिना गाम्भीर्यादिगुणवतो नृपतेः, सख्यं गुणः भृत्यत्वगुणभागममात्यादिः, यथा न वेत्ति तद्वत् । वसन्, अपृथकूसिद्धविशेषणतया तद्धार्यतया चैकस्मिन्देहे वसन् इत्यर्थः । सखा तद्गतगुणातिशयाधानैकभाजनतया मित्रं, अयं पुरुषः, अव्यक्तदृष्टिर्देहविषय- है स्क. ६ अ. ४ श्लो. २६-३० 1 अनेकव्याख्यासमलङ्कृतम् १४२ ज्ञान: सन्, न अवैति न वेद । तस्मै जीवपरममित्ररूपाय, महेशाय परमपुरुषाय, नमस्करोमि । द्वासुपर्णेतिश्रुत्यर्थोऽत्रानेन विवक्षितः ।। २४ ।। * * ननु गुणो जडत्वान्न जानातु जीवस्तु चेतनः सन् किमिति न जानाति अत आह । देह इति । देहः असवः प्राणाः, अक्षा इन्द्रियाणि मनवोऽन्तःकरणानि, भूतमात्रा भूतानि च मात्राश्चेत्यर्थः । तत्र भूतानि पृथिव्यादीनि, मात्रा गन्धाद्यास्तन्मात्राः, एतानि आत्मानं स्वस्वरूपं यत् परं देहेन्द्रियादिभ्यो विलक्षणं देवादिस्वरूपं, अन्यं सर्वथा स्वविलक्षणं जीवं च न विदुः । पुमान् जीवस्तु, सर्वं यद्देहादिकं गुणान् तन्मूलभूत सत्त्वादिकांश्चापि वेद । एवं तज्ज्ञः देहादेश- नवान्सन्नपि जीवः, सर्वज्ञं देहादिकं जीवं स्वगुणान् स्वात्मानं च यो विजानाति, तं न वेद, तमनन्तमपरिच्छिन्नं भगवन्तं, ईडे स्तौमि । देहादयो दृष्टान्तार्थमुपात्ताः । यथा देहादयः स्वस्वरूपं ततो विलक्षणं जीवात्मानं च न विदुरेवं पुमान्देहाद्यभिज्ञो ऽपि, अप्राकृतदिव्यगुणोपेतं सर्वज्ञं भगवन्तं नैव वेदेत्यर्थः ॥ २५ ॥ भाषानुवादः वहाँ एक अत्यन्त श्रेष्ठ तीर्थ है, उसका नाम है- अघमर्षण । वह सारे पापोंको धो बहाता है । प्रजापति दक्ष उस तीर्थ में त्रिकाल स्नान करते और तपस्याके द्वारा भगवान्की आराधना करते ।। २१ ।। * * प्रजापति दक्षने इन्द्रियातीत भगवान्की ‘हंसगुह्य’ नामक स्तोत्र से स्तुति की थी । उसीसे भगवान् उनपर प्रसन्न हुए थे । मैं तुम्हें वह स्तुति सुनाता हूँ ॥ २२ ॥ * * दक्ष प्रजापतिने इस प्रकार स्तुति की –भगवन् ! आपकी अनुभूति, आपकी चित् शक्ति अमोघ है । आप जीव और प्रकृति से परे, उनके नियन्ता और उन्हें सत्तास्फूर्ति देनेवाले हैं। जिन जीवोंने त्रिगुणमयी सृष्टिको ही वास्तविक सत्य समझ रक्खा है, वे आपके स्वरूपका साक्षात्कार नहीं कर सके हैं; क्योंकि आपतक किसी भी प्रमाणकी पहुँच नहीं है - आपकी कोई अवधि, कोई सीमा नहीं हैं। आप स्वयंप्रकाश और परात्पर हैं । मै आपको नमस्कार करत हूँ ॥ २३ ॥ * * यों तो जीव और ईश्वर एक दूसरेके सखा हैं तथा इसी शरीरमें इकट्ठे ही निवास करते हैं, परन्तु जीव सर्वशक्तिमान आपके सख्यभावको नहीं जानता-ठीक वैसे ही, जैसे रूप, रस, गन्ध आदि विषय अपने प्रकाशित करनेवाली नेत्र, प्राण आदि इन्द्रियवृत्तियोंको नहीं जानते; क्योंकि आप जीव और जगत्के द्रष्टा हैं, दृश्य नहीं । महेश्वर ! मैं आपके श्रीचरणों में नमस्कार करता हूँ ।। २४ ।। देह, प्राण, इन्द्रिय, अन्तःकरणकी वृत्तियाँ, पञ्चमहाभूत और उनकी तन्मात्राएँ — ये सब जड होनेके कारण अपनेको और अपनेसे अतिरिक्तको भी नहीं जानते । परन्तु जीव इन सबको और इनके कारण सत्त्व, रज और तम – इन तीन गुणों को भी जानता है । परन्तु वह भी दृश्य अथवा ज्ञेयरूपसे आपको क्योंकि आप ही सबके ज्ञाता और अनन्त हैं । इसलिये नहीं जान सकता। करता रहूँ ।। २५ ।। * प्रभो ! मैं तो केवल आपकी स्तुति यदोपरामो मनसो नामरूपरूपस्य स्मृतिसम्प्रमोषात् । य ईयते केवलया ‘स्वसंस्थया हंसाय तस्मै शुचिसने नमः ।। २६ ।। मनीषिणोऽन्तर्हृदि संनिवेशितं स्वशक्तिभिर्नवभिश्च त्रिवृद्भिः । वह्निं यथा दारूणि पाञ्चदश्यं मनीषया निष्कर्षन्ति गूढम् ॥ २७ ॥ स वैं ममाशेषविशेषमायानिषेधनिर्वाणसुखानुभूतिः । स सर्वनामा स च विश्वरूपः प्रसीदतामनिरुक्तात्मशक्तिः ॥ २८ ॥ यद्यन्निरुक्तं वचसा निरूपितं धियाक्षभिर्वा मनसा वोत यस्य । मा भूत् स्वरूपं गुणरूपं हि तत्तत् स वै गुणापायविसर्गलक्षणः ॥ २९ ॥ यस्मिन् यतो येन च यस्य यस्मै यद् यो यथा कुरुते कार्यते च । परावरेषां परमं प्राक् प्रसिद्धं तद् ब्रह्म तद्धेतुरनन्यदेकम् ॥ ३० ॥ १. प्रा० पा० - स्वसंज्ञया । ६. प्रा० पा० वा । १४३
- श्रीमद्भागवतम् कृष्णप्रिया व्याख्या [ स्कं. ६ अ ४ लो. २६-३० अन्वयः– यदा नामरूपरूपस्य मनसः दृष्टस्मृतिसंप्रभोषात् उपरामः यः केवलया स्वसंस्थया ईयते तस्मै शुचि- सद्मने हंसाय नमः ॥ २६ ॥ * * मनीषिण: अंतर्हृदि संनिवेशितं त्रिवृद्भिः नवभिः स्वशक्तिभिः गूढं यथा दारुणि पांचदश्यं वह्नि निष्कर्षन्ति ॥ २७ ॥ * * सः अशेषविशेषमायानिषेधनिर्वाणसुखानुभूतिः वै सः सर्वनामा च सः अनिरुक्तात्मशक्तिः विश्वरूपः मम प्रसीदताम् ॥ २८ ॥ * यत् यत् वचसा निरुक्तम् अक्षभिः वा मनसा वा उत धिया निरूपितं तत् तत् गुणरूपं यस्य स्वरूपं मा भूत् हि सः वै गुणापायविसर्गलक्षणः ॥ २९ ॥ * * यः यत् येन यस्मै यतः यस्य यस्मिन् यथा कुरुते च कार्यते तत् परावरेषां परमं प्राक् प्रसिद्धं तद्धेतु: अनन्यत् एकं ब्रह्म ॥ ३० ॥ श्रीधरस्वामिविरचिता भावार्थदीपिका
। अदृष्टधामत्वमुक्त्वा स्वप्रकाशत्वमाह । यदा मनस उपरामः समाधिर्न तु सुपुप्ताविव लयो न च जाग्रत्स्वप्रयोरिव विक्षेपः । तदाह । नामरूपे रूप्येते येन तत्तथा तस्य । उपरामे हेतुः । दृष्टं दर्शनं स्मृतिश्च तयोः संप्रमोषान्नाशात् । तदा यः केवलेन स्वरूपज्ञानेन प्रतीयते तस्मै हंसाय शुद्धाय शुचि शुद्धं मनः सद्म प्रतीतिस्थानं यस्य तस्मै नमः ॥ २६ ॥ * * एवंभूतः केषां प्रतीयत इत्यपेक्षायामाह । मनीषिण इति द्वाभ्याम् । विवेकिनो यं निष्कर्षति विविच्य ध्यायंति स निर्वाण- सुखानुभूतिर्मम प्रसीदतामिति द्वयोरन्वयः । एवं निष्कर्षतां प्रतोयत इति भावः । किमिति निकर्षति स्वशक्तिभिर्गूढम- प्रकाशमानं कतिभिनर्वभिः पुनश्च त्रिवृद्धिस्त्रिगुणाभिः सप्तविंशत्युपाधिभिर्गृहमष्टाविंशं निष्कर्षतीत्यर्थः । यद्वा नवभिः प्रकृति- पुरुषमहदहंकारपंचतन्मात्ररूपाभिः । त्रिवृद्धिस्त्रिगुणात्मिकाभिः । चकारात्षोडशविकाररूपाभिश्च । कथंभूतं निष्कर्षति । मनीषयांतर्हृदि संनिवेशितं निश्चलीकृतं पांचदश्यं पंचदशसामिधेनीमंत्रः प्रकाश्यमलौकिकं वह्निमिवाहंकारास्पदादात्मनोऽन्यं परमात्मानं निष्कर्षतीत्यर्थः ॥ २७ ॥ अशेषा विशेषा यस्याः तस्या मायया निषेधेन निर्वाणसुखे समाधिसुखेऽनु- भूतिर्यस्य । अप्रसक्तनिषेधासंभवात्प्रसक्तिमाह । स एव सर्वनामा स एव च विश्वरूप इति । तद्रूपत्वेऽपि वास्तवत्वाभावा- । निषेधः संभवतीत्याह । अनिरुक्ताऽऽत्मनि शक्तिर्माया यस्य सः ॥ ॥ २८ ॥ ननु यदि केवलया स्वसंस्थया प्रतीयते तर्हि सर्वनामत्वं विश्वरूपत्वं चानुपपन्नं वागाद्यगोचरत्वादित्याशंक्य सर्वैर्नामभिर्वाच्यं प्रत्यक्षादि दृश्यं च तस्य स्वरूपं वस्तुतो मा भूत्तथापि मायया घटत इति लोकत्रयेणोपपादयन्नमस्करोति । यद्यदिति । यद्यद्वचसा निरुक्तमभिहितं धिया निरूपितं व्यवसितमक्षभिर्वेद्रियैर्निरूपितं गृहीतमुतापि मनसाऽपि निरूपितं संकल्पितं यस्य स्वप्रकाशत्वं तस्य तत्स्वरूपं मा भूत् । स्वरूपत्वाभावे हेतुः । हि यस्मात्तत्तद्गुणानामेव रूपम् । पाठांतरे गुणैर्वर्धितम् । स तु गुणव्यतिरिक्तः । यतो गुणानामपायविसर्गाभ्यां प्रलयोत्पत्तिभ्यां लक्ष्यत इति तथा । चेतनाधिष्ठानं विना तयोरसंभवात् । यद्वा यस्य स्वरूपं मा भून्न भवति तस्मै नम इति तृतीयेनान्वयः ।। २९ ।। * * तदेवं वस्तुतो गुणस्वरूपत्वाभावमंगीकृत्यानिरुक्तात्मशक्तिरित्यनेन द्योतितं मायया सर्ववाच्यत्वेन विश्वरूपत्वमाह । यस्मिन्नधिकरणे । यतोऽपादानात् । येन करणेन । यस्य संबंधि । यस्मै संप्रदानाय । यदीप्सिततमम् । यः कर्ता । कुरुते स्वतंत्रः । कार्यते चान्येन प्रयोज्यकर्त्रा । तद्ब्रह्मेति प्रत्येकं संबंध: । अत्र च सप्तभिर्यच्छब्दैः सप्तविभक्त्यर्था दर्शिताः । यथेति च क्रियाकारकसंबंधप्रकारवाचिनामव्ययानामर्थाः । कुरुते कार्यते चेति स्वार्थपरार्थक्रियान्वयश्च सर्वेषां दर्शितः । च शब्देन भावकर्मादिविहितप्रत्ययार्थाः संगृहीताः । तत्ब्रह्मैवेति । कुतस्तत्राह । तद्धेतु- स्तेषां कारणम् । तत्कुतः । सर्वेभ्यः प्राक्प्रसिद्धम् । ननु ब्रह्मादयस्तद्धेतवः श्रूयंतेऽवरे च दृश्यंते तत्कथं ब्रह्मैव तद्धेतुस्तत्राह । परेषामवरेषां च हेतूनां परमं कारणम् । ननु सर्वकारणत्वे तस्य किं नाम सहकारि भवेत्तदानीमन्यस्याभावात् । सत्यम् । निरपेक्ष- मेव तत्कारणमित्याह । अनन्यद्विजातीयशून्यम् एकं सजातीयशून्यं च । तस्मै नम इत्युत्तरेणान्वयः ॥ ३० ॥ वंशीधरकृतो भावार्थदीपिकाप्रकाशः ननु तज्ज्ञोऽपि न वेदेति यदुक्तं तत्र तदेव वेद्यं वस्तु द्विविधं सुज्ञेयं दुर्ज्ञेयञ्च तत्र सुज्ञेयं निर्विशेषस्वरूपम् इति । नामरूपे प्रपंचनिष्ठे रूप्येते निरूप्येते एतत्स्वरूपस्य सुज्ञेयत्वमुक्तं ब्रह्मणा यथा “ तथापि भूमन्महिमाऽगुणस्य ते विबोधुमर्हत्य- मलांतरात्मभिः” इति ।। २६ । दुर्विज्ञेयं सविशेषस्वरूपमाह - मनीषिणः शुद्धभक्ताः । गूढम् अन्तर्हृदि संनिवेशितं “प्रविष्टः कर्णरंध्रेण स्वानां भावसरोरुहम्” इत्युक्तरीत्या श्रवणभक्त्यांतर्हृदि प्रवेशितं पुनर्मनीषया प्रेमभक्त्युत्थया निष्कर्षति * स्कं. ६ अ. ४ श्लो. २६-३०] अनेकव्याख्यासमलङ्कृतम् १४३ अंतर्हृदयान्निष्कृष्य चक्षुरादिभिरिंद्रियैः सौंदर्य्यादिमाधुर्य्यमास्वादयंतीत्यर्थः । कीदृशं संतं निष्कर्षति स्वशक्तिभिश्चिच्छक्तिभिः सहितं कतिभिर्नवभिर्विमलाद्याभिस्तत्रापि त्रिवृद्धिश्चिच्छक्तेरेव तिसृभिर्वृत्तिभिर्ह्रादिनीसंधिनीसंविद्भिश्च सहितं तदुक्तं विष्णुपुराणे " ह्रादिनी संधिनी संवित् द्वय्येका सर्वसंश्रये । ह्लादतापकरी मिश्रा त्वयि नो गुणवर्जिते ।” इति । यथा दारुणि काष्ठे पाञ्च- दश्यमिति स्वामिव्याख्यातत्वात् । अस्य सविशेषरूपस्य । प्राकृतानंत गुणस्य दुविज्ञेयत्वं भक्तिहीनैरनुभवितुमशक्यत्वात् । भक्तैरनुभूयमानत्वेऽपि माधुय्यैश्वर्ययोः पराज्ञानत्वात् । यदुक्तं ब्रह्मणैव “गुणात्मनस्तेऽपि गुणान्विमातुं हितावतीर्णस्य क ईशिरेऽस्य" इत्याद्युक्तेः । स्वामिचरणानाम् इति भाव इति । विचारं विना तस्य प्रतीतिर्न भवतीत्याशयः । सप्तविंशतिसंख्या च षोडशविकाराः सप्तप्रकृतयस्त्रयो गुणाः पुरुषश्चेति । अष्टाविंशं परमात्मानं त्वामित्यर्थः । एतन्मतस्यासार्वत्रिकत्वादाह-यद्वेति । इत्यर्थं इति । अहंकारास्पदस्यौपाधिकत्वान्निरुपाधिकं विचारयंतीति भावः ।। २७ ।। अशेषाः समग्राः । विशेषा भेदाः । निर्वाणसुखे मोक्षसुखे जीवन्मुक्त्यवस्थायामिति यावत् । तद्रूपत्वेपि सर्वरूपत्वेपि । अनिरुक्ताऽनिर्वचनीया । चक्रवर्ती तु यत्तु तस्य मायिकं सविशेषरूपं तद्वयतिरिक्तमेव ममोपास्यमित्याह - स मम प्रसीदताम्’ बाणा हृद्विदारका आध्यात्मिकादिदुःख- शराः केऽपि न विद्यते यत्र तस्मिन्निर्वाणसुखे ऽनुभूतिर्यस्य सः । “ह्लादतापकरी मिश्रा त्वयि नो गुणवर्जिते” इति वैष्णवोक्तेः । स एव सर्वनामेति ब्रह्मादितृणांतानां यानि नामरूपाणि तानि तस्यैवेत्यर्थः । मायायास्तच्छक्तित्वेन मायिक- विश्वस्यापि तद्रूपत्वात्तस्य स्वरूपभूता शक्तिस्तु मायाशक्तेर्मायिकाद्विश्वस्माच्चान्यो वेत्याह । अनिरुक्ता मायिकवाङ्मनसाभ्यामनि- रुक्तिविषयीभूताऽऽत्मभूता शक्तिर्यस्य सः ॥ २८ ॥ * * अत्राक्षिपति नन्विति । पाठांतरे " मा भूत्स्वरूपं गुणबृंहितं हि तत्" इति पाठे तयोः प्रलयोत्पत्त्योः । पूर्वव्याख्याने स्वप्रकाशत्वमित्यध्याहारे गौरवं मत्वाह- यद्वेति । अत्र विश्वनाथ:- वाग्बुद्धयादिकं तु सर्वं मायिकमेव तेन निरूपितमपि सर्वं मायिकमेव भवेत्तत्तु न तत्स्वरूपमित्याह यद्यदिति । सर्वं स्वामिवत् । यः सृष्टिप्रलय करोति स ईश्वर इत्यतः सृष्टेः प्राक्प्रलयात्परत्र च तस्य सत्त्वसिद्धेः । अत्र “दृश्यते त्वया बुद्धया" इति ‘मनसैवानुद्रष्टव्य’ इति ‘तमेव विदित्वाऽतिमृत्युमेति’ इति “आत्मा वा अरे मंतव्यः” इत्यादि । " तस्मात्सर्वात्मना राजन्भ- गवान्हरिरीश्वरः । श्रोतव्यः कीर्त्तितव्यश्च" इति परं सहस्रश्रुतिस्मृतिवाक्यविरोधादीश्वराननुगृहीतैरेव वचआदिभिरिति व्याख्येयमत एव श्रुतावप्रययेति’ विशेषणम् । “अतः श्रीकृष्णनामादि न भवेद् ग्राह्यमिद्रियैः । सेवोन्मुखे हि जिहादौ स्वयमेव स्फुरत्यदः ।” इत्यभियुक्तवचनं च । केचित्तु कार्त्स्न्येन निरूपणाभावान्न निरूपितमित्याहु: । “ यतोऽप्राप्य निवर्त्तते वाचश्च मनसा सह" इत्यत्रापादाननिर्देशाद्वायम सोरगम्यत्वम् । निवर्त्तत इति । अंतालाभाद्वाङ्ानसागम्यत्वं चेतिवत् । संदर्भस्तु ननु मम यनिर्वाणसुखैकरूपं ब्रह्माख्यं स्वरूपं तस्यानुभूतिकमेव भवदतीतत्रिवृन्नवशक्तिकं भवतु यत्तु गुणरूपबृंहितं स्वरूपं तत्तु तन्मयमेव भवेज्जगत्सादृश्यात्तत्राह - यद्यदिति । त्रिकेण गुणै रूपैश्च बृंहितम् असमोर्द्धबृहत्तमं यत्स्वरूपं तदपि वचआदिगोचरो यद्यद्वस्तु तन्न भवति । तत्र हेतु: स वा इति । सगुणरूपबृंहितस्वरूपः गुणप्रलयसृष्टिभ्यां लक्ष्यते तत एव न त्वनुभूयत इति । यद्वा-गुणानामपायोऽपगमो यस्मात्तस्मिन्विगतसर्गे नित्यसिद्धे वैकुंठे लक्ष्यते तदधिष्ठातृत्वेन दृश्यत इत्याह ॥ २६ ॥ ननु गुणमयं रूपं यदि तत्स्वरूपं न भवति तहिं तस्यापूर्णत्वं प्रसज्येतेत्यभिप्रायेणाह - तदेवमित्यादि । विश्वनाथः ननु चिच्छक्तीनां बिमलाद्यानां नवविधानां चिच्छक्तिवृत्तीनां ह्रादिन्यादीनां त्रिविधानां तद्विलासानां वैकुंठतत्पार्षदादीनां वासुदेवसंकर्षणादीनां च नित्यसिद्धत्वश्रवणात् कालमायाजीवादृष्टानां तु जगत्कारणत्वस्य च श्रवणात्कथमेकमित्युच्यते इत्यत आह- अनन्यदिति । न विद्यतेऽन्यद्यतस्तत् । चिच्छक्तीनां तद्विलासानां च तत्स्वरूपभूतत्वाद्वासुदेवादीनां तदंशत्वात्कालमायादीनामस्वरूप भूतत्वेऽपि तच्छक्तित्त्वात्तदनन्यत्वमित्यर्थः । विजातीयभेदो वृक्षस्य पाषाणादेर्यथा सजातीय भेदोऽश्वत्थस्य वटादेरिति ।। ३० ।। अन्वितार्थप्रकाशिका यदेति यदा समाधिसमये दृष्टं दर्शनं प्रमाणविकल्पविपर्ययलक्षणं त्रिविधं ज्ञानं स्मृतिश्च स्मरणं तयोः संप्रमोषात् नाशादित्यर्थः । नामरूपे रूप्येते येन तन्नामरूपरूपं तस्य मनसः उपरामो भवति यदा यः केवलया स्वसंस्थया सच्चिदानन्दरूपया प्रतीयते तस्मै हंसाय शुद्धाय परमविवेकिने शुचि शुद्धं मनः सद्म प्रतीतिस्थानं यस्य तस्मै नमः । एके तु ननु तज्ज्ञोऽपि न वेदेति यदुक्तं तत्र तदेव वेद्यं वस्तु द्विविधं सुज्ञेयं दुर्ज्ञेयं चा तत्र सुज्ञेयं निर्विशेषस्वरूपमाह । यदेति । यथा तत्स्वरूपस्य सुज्ञेयत्वमुक्तं ब्रह्मणा " तथापि भूमन्महिमा गुणस्य ते" इत्यादि इत्याहुः ।। २६ ।। * मनीषिण इति । मनोनियमने समर्था मनीषिणो विवेकिनः त्रिवृद्भिः त्रिगुणात्मिकाभिः नवभिः प्रकृतिमहदहङ्कारमनः पञ्चतन्मात्ररूपाभिः चकारात्पञ्चमहाभूतदशेन्द्रियरूपाभिश्च स्वशक्तिभूिगूढमप्रकाशमानं मनीषया श्रवणादिविशुद्धया बुद्धयाऽन्तर्हृदि संनिवेशितं निश्चलीकृतं यं निष्कर्षन्ति अहंकारास्पदा - दात्मनोऽन्यं परमात्मानं विविच्य ध्यायन्ति स निर्वाणसुखानुभूतिर्मम प्रसीदतामित्युत्तरेणान्वयः । यथा दारुणि स्थितं पाश्चदश्यं १४४
श्रीमद्भागवतम् । 1 [ स्कं ६ अ. ४ श्लो. २६-३० पञ्चदशसामिधेनीमन्त्रैः प्रकाश्यमलौकिकं वह्नि निष्कर्षन्ति तथा प्रकृत्यादिसंघातेभ्यो भक्ता भगवन्तं निष्कर्षन्ति । केचित्तु व्याचक्षते दुविज्ञेयं सविशेषं स्वरूपमाह । मनीषिणः श्रवणादिद्वारा अन्तर्हृदि सन्निवेशितं नवभिर्विमलोत्कर्षिण्यादिभिः तिसृभिर्द्धादिनीसन्धिनीसंविद्वृत्तिभिश्चेति स्वशक्तिभिश्चिच्छक्तिभिः सहितं पुनर्मनीषया प्रेमभक्त्युत्थया निष्कर्षन्ति अन्तर्हृद- यान्निष्कृष्य चक्षुरादिभिरिन्द्रियैः सौन्दर्यादिमाधुर्यमास्वादयन्ति । अस्य स विशेषस्वरूपस्याप्राकृतानन्तगुणस्य दुर्विज्ञेयत्वमुक्तं ब्रह्मस्तुतौ — “गुणात्मनस्तेऽपि गुणान्विमातुम्" इत्यादि ।। २७ ।। स वा इति । अशेषा विशेषा यस्यास्तस्या मायायाः कार्यकारणात्मकप्रपञ्चरूपाया: प्रकृतेर्नेति नेति निषेधे विवेकेन त्यागे सति निर्वाण इति सुखम् । आनन्दरूपानुभूतिर्यस्य सः सर्वाणि नामानि यस्य स सर्वनामा विश्वानि सर्वाणि रूपाणि यस्य स विश्वरूपश्च अनिरुक्ता निर्वचनानर्हा आत्मनि शक्तिर्यस्य सः मम प्रसीदताम् । तङार्षः ॥ २८ ॥ * * यद्यदिति । यद् यत् वचसा निरुक्तमभिहितं धिया निरूपितं व्यवसितमक्षभिर्वा इन्द्रियैरपि निरूपितं गृहीतम् । “छन्दस्यपि दृश्यते" इत्यक्ष्णोऽनङ् । उतापि मनसा वापि निरूपितं संकल्पितं तत्तत् यस्य सच्चिदानन्दात्मकस्य भगवत उपास्यं मोक्षप्रदं स्वरूपं मा भूत् न भवति । हि यस्मात्तत्सर्वं गुणरूपं सत्त्वादिगुणकार्यमेवेत्यर्थः । गुणबृंहितं हि तदिति पाठे गुणैर्वर्धितमित्यर्थः । गुणरूपबृंहितमिति पाठे गुणै रूपैश्च बृंहितं स वै स परमेश्वरस्तु गुणकार्यस्य विश्वस्यापायविसर्गाभ्यां प्रलयोत्पत्तिभ्यां तत्कारणतया लक्ष्यते ऽनुमीयते इति तथा सोऽस्ति चेतनाधिष्ठानं विना तयोरसंभवात् । यद्वा । यस्य स्वरूपं मा भून्न भवति तस्मै नम इति तृतीयेनान्वयः ।। २९ ।। यस्मिन्निति । इदं विश्वं यस्मिन्न- धिकरणे यतोऽपादानात् येन च करणेन यस्य संबन्धि यस्मै संप्रदानाय यदीप्सिततमं कर्म यः स्वतन्त्रः कर्त्ता यथा येन प्रकारेण कुरुते येन प्रयोजककर्त्रा कार्यते च तत्परेषामवरेषां हेतूनां परमकारणं यतः सर्वेभ्यः प्राक् प्रसिद्धं तद्धेतुः तेषां कारणम् अनन्यत् विजातीयभेदशून्यम् एकं सजातीयादिभेदशून्यं तत् ब्रह्मैव एवं चात्र सप्तभिर्यच्छदैः सप्त विभक्त्यर्थाः दर्शिताः । यथेति च क्रियाकारकसंबन्धप्रकारवाचिनामव्ययानामर्थं दर्शिताः । कुरुते कार्यते चेति खार्थपरार्थक्रियान्वयश्च सर्वेषां दर्शितः । चशब्देन भावकर्मादिविनितप्रत्ययार्थाः संगृहीताः ॥ ३० ॥ वीरराघवव्याख्या सर्वज्ञमित्यनेनाभिप्रेतं परमात्मनः सर्वज्ञत्वं जीवस्य परमात्मनां संश्लेषदशायामपि तदनभिज्ञतां चोपपादयति । यदेति । नामरूपरूपस्य देवमनुष्यब्राह्मणादिनामरूपकस्य मनसो यदादृष्टिस्मृतिसंप्रभोषाद्दृष्टस्य स्मृतिः स्मरणं स्वप्नावस्थोच्यते तस्याः संप्रमोषान्निवृत्त्योपरामः सुषुप्तिः तदा यः परमात्मा ईयते प्राप्यते जीवेन समन्वितो भवति “प्राज्ञेनात्मना संपरिष्वतो न बाह्यं किञ्चन वेद नान्तरम् एष सुप्तेषु जागति” इति श्रुत्यर्थोऽत्र विवक्षितः जीवस्याप्रबोधेऽपि परमात्मा प्रबुद्ध इत्यर्थः । सर्वथा दुर्ज्ञेयत्वेऽनुपास्यत्वं स्यादिति शङ्कां वारयति । यदेति । केवलया इत्यनुषज्यते यश्च केवलया रागादिकालुष्यरहितया स्वसंस्थया स्वाभाविकज्ञानेनेयतेऽवगम्यते प्राप्यते वा तस्मै हंसाय शुद्धाय शुचिसने शुद्धान्तःकरणसाने उपासनविशुद्धान्तःकरणे संनिहितायेत्यर्थः । यद्वा । केवलया स्वसंस्थया हंसाय विशुद्धाय रागाद्यकलुषितेनापरिच्छिन्नानन्दरूपविषयका नित्या सङ्कुचिता- परिच्छिन्नधर्मभूतज्ञानेन विशुद्धायास्पृष्टचिदचिद्धर्माय शुचिसझने उपासनया परिशुद्धमन्तःकरणं सद्म अभिव्यक्तिस्थानं यस्य तरमै इत्यर्थ: “हंसः शुचिषत्” इति श्रुत्यर्थोऽत्राभिप्रेतः ॥ २६ ॥ शुचिसझन इत्येतदेव प्रपञ्चयति । मनीषिण इति । त्रिवृद्धिः त्रयाणां वृद्वर्त्तनं यत्र तत्त्रिवृत्त्रिकमित्यर्थः । तद्रूपाभिस्त्रिकत्रयमापन्नाभिरिति यावत् नवभिः शक्तिभिः । “श्रिया पुष्टचा गिरा कान्त्या कीर्त्या तुष्टयेलयोर्जया । विद्ययाविद्यया शक्त्या मायया च निषेवितम्” इति वक्ष्यमाणाभिः शक्तिभिः कार्यो- पयोग्य पृथक सिद्धविशेषणरूपाभिः शक्तिभिः सहान्तर्हृदि संनिवेशितं स्वेच्छया संनिविष्टं गूढं बायैः करणैरग्राह्यम् अनेन “तं दुर्दर्श गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम् । अध्यात्मयोगाधिगमेन देवं मत्वा” इति श्रुत्यर्थोऽत्र विवक्षितः दुर्दर्शं मनसा ग्रहीतुमशक्यं गुहायां हृदये निहितं गह्वरे जीवे तिष्ठतीत्यन्तरान्मतयेति तथा यं मनीषिणः परमात्मयाथात्म्यविवेचन कुशलाः मनीषया योग परिशुद्धया धिया निष्कर्षन्ति प्रकृतिपुरुषाभ्यां विविच्य पश्यन्तीत्यर्थः । यथा मध्ना मथनसाधनेनोक्षरारणिना दारुण्यधस्तारणौ पाञ्चदश्यमग्निं निष्कर्षन्ति तद्वत्पाञ्चदश्यं पञ्चदशीयकर्मसम्बन्धिनं दर्शपूर्णमासानुष्ठानं हि पञ्चदश्युप- क्रममग्न्याधानमपीति वैदिकोऽभिः पाञ्चदश्य इत्युच्यते यं निष्कर्षन्ति स वा इत्युत्तरेणान्वयः ।। २७ ।। * एवभु- विधं परमात्मानमन्यैश्च तदसाधारणैर्द्धमैर्विशिषं तदनुग्रहं प्रार्थयते । स वा इति । स वै उक्तविधो भगवानशेषाः सर्वे विशेषा विकारा यस्यास्तस्या मायायाः निवृत्त्या यानैवीणसुखं दुःखासंभिन्नं मोक्षसुखं तस्मिन्ननुभूतिरनुभवो यस्य मुक्तानामनुभवविषय इत्यर्थः । य ईदृशः स एव सर्वनामा सर्वैः शब्दैर्वाच्य इत्यर्थः । सर्वशब्दनाम यस्येति वा “सर्वः शर्वः शिवः स्थाणुः” इतिनाम- पाठात् सर्वशब्दप्रवृत्तिनिमित्त पौष्कल्याश्रय इत्यर्थः । सर्वनामत्वे हेतुः स च विश्वरूप इति विश्वशरीरकत्वात् सर्वशब्दवाच्य इति भावः । विश्वान्तर्गतवस्तुवाचिनः शब्दास्तच्छरीरं तमेवाभिदधति शरीरवाचिनां शब्दानां शरीरिपर्यन्तबोधनशक्तेः स्क. ६ अ. ४ श्लो. २६-३० ] अनेकव्याख्यासमलङ्कृतम् १४५ यद्वा । सर्वशब्दस्य कृत्स्नजगद्वाचित्वात् तस्य च तच्छरीरत्वात्प्रवृत्तिनिमित्त पौष्कल्येन तमेवाभिधत्त इति भावः । ननु विश्वरूपत्वं परगतधर्मासंस्पर्शनं चेति कथमुभयं तत्राह । अनिरुक्तात्मशक्तिः वाङ्मनसापरिच्छेद्याः स्वाभाविक्यः शक्तयो यस्य सः विचित्रशक्तित्वात्तदुभयोपपत्तिरिति भावः । एवंभूतो भगवान् मम प्रसीदतां मामनुगृह्णात्वित्यर्थः ॥ २८ ॥ * * ननु यदि विश्वं तस्य शरीरं न तु स्वरूपं तर्हि केन लक्ष्यते इत्यत्राह । यद्यदिति । यद्यद्वचसा निरुक्तं शब्देनाभिहितं जाति- गुणादिकं प्रवृत्तिनिमित्तीकृत्य शब्देन बोधितं तथा धिया निरूपितं व्यवसितमक्षभिरिन्द्रियैर्गृहीतमुतापि मनसा निरूपितं सङ्कल्पितं यद्यपि यस्य स्वरूपं माभून्न भवति किन्तु शरीरमेवेति भावः । वचआदिभिर्निरुक्तादेस्तत्स्वरूपत्वाभावे हेतुः गुणरूपहेत्विति गुणरूपाः सत्त्वादिगुणात्मका हेतवो यस्य तद्गुणरूपहेतु सत्त्वादिगुणत्रयकार्य सत्त्वादिगुणगतमेव न तु तत्स्वरूपगतोऽसाधारणो धर्मो येन तदुपलक्ष्यं परमात्मस्वरूपं स्यात् गुणरूपं हि तदिति पाठे हि यस्मात्तद्गुणानामेव रूपं गुणरूपं वर्द्धितमिति पाठान्तरे गुणरूपैः सत्त्वादिगुणगतैर साधारणाकारैवैर्धितमारब्धमित्यर्थः । तथाप्यसौ परमात्मा गुणापाय- विसर्गलक्षण: गुणकार्यभूतप्रपञ्चस्य संहारसग लक्षणं यस्य तथोक्तः अपायविसर्गाभ्यां स्थितिरपि लक्ष्यते यद्यपि कार्यात्मकं जगन्न परमात्मनो लक्षणं तथापि कार्यप्रपञ्चगतोत्पत्तिस्थितिप्रलयकारणत्वं परमात्मनोऽसाधारणो धर्म इति तेन तत्स्वरूप- मुपलक्ष्यते इत्यर्थः । प्रपञ्चजन्मादिकारणत्वमपि न परमात्मनः स्वरूपविशेषणतया लक्षणं कारणत्वस्य चिदचिद्विशिष्टब्रह्मनिष्ठत्वेन विशेष्यभूतब्रह्मस्वरूपनिष्ठत्वाभावात् । किं तु चन्द्रादेः शाखामादिवत्तदुपलक्षणतया लक्षणमिति बोध्यम् ।। २९ ।। ननु देवमनुष्यादिशरीरनिर्वर्त्यं कर्म तदात्मभूतजीवकर्तृकं तद्बन्धकं च दृष्टुं यत्नस्य सुखदुःखादिवच्चेतनधर्मत्वादेवं कृत्स्नं चिदचिादात्मकं जगत् परमात्मनः शरीरचेत्तद्रचापारोऽप्यनेक कारकनिर्वर्त्यः परमात्माश्रय एव स्यादिति तथा सति स बध्येत तथा च “निष्क्रियं निष्कलम्” इत्यादिश्रुतिविरोधः । किञ्चैकस्य चेतनस्यैकदैकमेव शरीरं दृष्टमतः कथमेकस्य परमात्मनो देवमनुष्याद्यनेकानि शरीराणीति न विश्वरूपत्वं परमात्मनः सम्भवति यद्यसौ कारणत्वात् कार्यभूतविश्वरूपः कार्यकारणयोर- भेदादित्युच्यते तर्हि वचआदिभिर्निरुक्तादिकं तस्य स्वरूपमेव स्यात् परिणामिकारणस्याधिष्ठात्रपेक्षत्वदर्शनात्तस्याप्यधिष्ठात्र- पेक्षेति पूर्वोक्तपरत्वविरोध इत्याद्याशङ्कां निराकरोति । यस्मिन्निति । तावदनेककारकनिर्वर्त्यस्य व्यापारस्य परमात्मायत्तत्त्वम- भ्युपगम्यत एवेति न तच्चोदनीयमित्याह । यस्मिन्निति पूर्वोर्थेन । तत्र यस्मिन्नित्यादिभिर्विभक्तिभिरधिकरणोपादानकरणसम्प्र- दानकर्मकर्तृशक्तयो विवक्षिताः यस्येति षष्ठया तु सम्बन्धसामान्यं कुरुते इति प्रयोजककर्तृशक्तिः कार्यत इति प्रयोज्यकर्तृशक्ति: यद्देत्यनेन कालः उक्तशक्तीनां कालोपाधिकत्वात् । यथेति पाठे तूतकारकशक्तिगताः प्रकारविशेषा विवक्षिताः क्रियते कार्यते चेति कृञधातुना तत्कारकनिष्पाद्या क्रिया विवक्षितेति तत्तत्कारकाश्रयत्वकृताः क्रियागत विशेषा वा निर्दिश्यन्ते यस्मिन्नि- त्यादीनां तु तदित्युत्तरेणान्वयः । सप्तम्यादिविभक्तिप्रकृतिभूतैर्यच्छन्दैस्त्वधिकरणादिकारकश क्याश्रयाणि वस्तूनि विवक्षितानि कुरुते कार्यते चेयत्र लकारेण प्रयोज्य प्रयोजककर्तृशक्तथाश्रयं द्रव्यमपि विवक्षितं लकाराणां कृतिमत्येव शक्तिरित्यन्यत्र विस्तारः । सुप्तिङन्तस्थले च प्रकृत्यर्थविशेष्यकः शाब्दबोधः । एवं च तत्तद्वयापारनिर्वर्त्तकाधिकरणादिशक्तयाश्रयाणि द्रव्याणि सम्बन्ध- सामान्याश्रयत्वं च तद्ब्रह्मेत्यर्थः । शक्तचाश्रयवस्तूनां परमात्मशरीरत्वेन विशेषणत्वात्तस्यैव मुख्यत्वेन कारकशक्तया श्रयत्वादा- धारशक्त्याश्रयत्वात् सर्वस्य व्यापारस्य तदायत्तत्वमुपपन्नमिति भावः । नन्वेवं कारकशक्तत्याश्रयत्वप्रयुक्तं परमात्मनः सक्रियत्वं तत्प्रयुक्तं कार्यत्वं तत्प्रयुक्तमनित्यत्वं च प्रसज्येत तथाच “निष्क्रियं निष्कलं नित्यं विभुम्” इत्यादिश्रुतिविरोधः अत आहे । प्राक् प्रसिद्धमिति । हेतुरिति च । हेतुः प्राकुप्रसिद्ध मित्यनेन कार्यावस्थायाः पूर्वं कारणत्वेनावस्थितत्वमुच्यते । अयं भावः । तत्सृष्टा तदेवानुप्राविशत् तदनुप्रविश्य सञ्च त्यच्चाभवत् अन्तः प्रविष्टः शाता जनानां सर्वात्मा ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति" इत्यादिप्रमाणवशात् कार्यस्य जगतः चिदचिदीश्वरात्मकत्वमभ्युपेत्यं कार्यसजातीयत्वाच्च कारणस्य तदपि तत्त्वत्रया- त्मकमेव युक्तिबलात् “सदेव सोम्येदमग्र आसीत् प्रकृतिं पुरुषं चैव विद्वचनादी उभावपि " इत्यादिप्रमाणबलाच्चाभ्युपगन्तव्यं तंत्र कार्यावस्थायां कारणावस्थायां च “य: आत्मनि तिष्ठन् यः पृथिव्यां तिष्ठन् योऽक्षरमन्तरे सञ्चरन् यस्याक्षरं शरीरं योऽव्यक्तमन्तरे सञ्चरन् यस्याव्यक्तं शरीरम् “इत्यादिप्रमाणबलादात्मत्वेन परमात्मनो विशेष्यत्वं चिदचितोः शरीरत्वेन विशेषणत्वं चेषितव्यम् । एवं च कारणत्वेनावस्थितं ब्रह्म सूक्ष्मचिदचिद्विशिष्टं कार्यावस्थायां स्थूलचिदचिद्विशिष्टत्वेनावस्थितमिति कारकशक्त्याश्रयत्वस्य तस्य तस्मिन् शरीरभूतचिदचिदात्मकत्वात्तत्प्रयुक्तं सक्रियत्वादिकमपि सद्वारकमेवेति विशेष्यभूते तस्मिन्न तस्य साक्षात् प्रसङ्गः निष्क्रियत्वादिश्रवणं तु विशेष्यभूत ब्रह्मस्वरूपाभिप्रायकमिति न तद्विरोधः । कार्यावस्थकारणा- वस्थयोस्तस्य चिदचिच्छरीरकत्वादेव विश्वरूपत्वमप्युपपन्नम् । “एषोऽणुसत्मा” इतिश्रुतिवशाज्जीवस्याणुपरिणामत्वावगमात्त- स्यैकदाने कशरीरान्तःप्रवेशासम्भवेऽपि “सत्यं ज्ञानमनन्तं ब्रह्म” इत्यादिश्रुत्या तत्स्वरूपस्यापरिच्छिन्नत्वावगमात्तस्यानेकशरीरेषु जीवान्तः प्रवेशेन नियमनं सम्भवतीत्यनेकशरीरकत्त्वोपपत्तिः कार्यावस्थायां कारणावस्थायां च चिदचिच्छरीरकत्वाद्विश्वरूप- १९ * १४६ श्रीमद्भागवतम् [ स्कं. ६ अ. ४ लो. २६-३० त्वमपि तस्योपपन्नम् । ननु विश्वरूपत्वं नाम विश्व रूपं शरीरं यस्य तस्य भावस्तत्त्वमिति न विवक्षितं तथा सति “सर्व खल्विदं ब्रह्म ऐतदात्म्यम्” इत्यादिजगद्ब्रह्मतादात्म्यश्रवणविरोधापत्तेः । किं तु विश्वरूपत्वं नाम विश्वानन्यत्वमेव एवं च नमः परायेत्युपक्रान्तपरत्वविरोधस्तत्राह । अनन्यदिति । विश्वानन्यदित्यर्थः विश्वरूपत्वस्य विश्वानन्यात्मकत्वेऽपि न विरोधः । यत्प्राक् प्रसिद्धं कारणं सूक्ष्मचिदचिद्विशिष्टं तदेव कार्यावस्थायां स्थूलचिदचिद्विशिष्टमित्येकस्यैवावस्थाद्वययोगित्वेन कारणा- वस्थकार्यावस्थयोरेकद्रव्यगतत्वेन विश्वानन्यत्वोपपत्तेः अनेनासत्कार्यवादव्युदासः तथाच शरीरकं सूत्रम् । तदनन्यत्वमारम्भ- शब्दादिभ्यः ॥ २,१,१५ ।। इति । उपक्रान्तं परत्वं तत्प्रयुक्तं निःसमाभ्यधिकत्वं च विशेष्यनिष्ठमित्यभिप्रायेण परमं परावरेषामिति चोक्तं परावरेषां ब्रह्मादिजीवानामपि परं कारणमात्रस्याधिष्ठात्रपेक्षत्वशङ्कां वारयति । एकमिति । निस्समा- भ्यधिकमेकमेव प्राक्प्रसिद्धमित्यर्थः । इदं चैकत्वं स्वरूपनिष्ठमिति विशेष्याकारेण निमित्तत्वं विशिष्टाकारेण उपादानत्वमित्युक्तं भवति । लोके मृत्कुलालयोर्जडत्वादसर्वशक्तित्वाच्च तयोर्निमित्तोपादानयोर्भेद: परमात्मनस्तु चिदचिद्विशिष्टस्य सर्वशक्तित्वाज- गदाकारेण परिणामस्य सर्वज्ञत्वान्निमित्तत्वस्य चोपपत्तिरित्यभिप्रायः । यद्वा । तद्धेतुरित्यनेन निमित्तकारणत्वमुच्यते एकमित्य- नेनैकमेवाद्वितीयमित्यादाविवाविभक्तनामरूपसूक्ष्मचिदचिद्विशिष्टत्वमुच्यते प्रपञ्चस्यानेककारकात्मत्वेन बहुत्वस्य पूर्वमुक्तत्वा- त्तस्य च नामरूपविभागनिबन्धनत्वात्तत्प्रतिसम्बन्धिनामरूपविभागाभावनिबन्धनैकत्वस्यैकपदग्राह्यत्वौचित्यात् तथाचैकमवि- भक्तनामरूपत्वेन सूक्ष्मचिदचिद्विशिष्टं ब्रह्म प्राकप्रसिद्धमित्यर्थः । ब्रह्मेत्यनेन निमित्तत्वोपादानत्वोपयुक्तसार्वश्यसत्यसङ्कल्पत्वा- दिमुणानन्त्यरूपनिरतिशयबृहत्त्वमुच्यते ।। ३० ।। विजयध्वजतीर्थकृता पदरत्नावली भावः ।। २६ ।। अनुमानतोऽपि तज्ज्ञानं सुकरमित्याह । यदेति । यदा स्वप्नसुषुप्त्यादौ नामरूपरूपस्य नामरूपात्मकप्रपञ्चापादकस्य मनसो दृष्टिस्मृतिसंप्रमोषाच्चाक्षुष स्मरणलक्षणज्ञाने प्रमुष्यापहृत्योपरामः निर्व्यापारावस्था तदा यः केवलया स्वसंस्थया ईयते जीवस्यास्वातन्त्र्यात् स्वप्नावबोधादिदर्शनाच्च । जीवेच्छाराहित्येन शुद्धया स्वरूपशक्त्या स्वप्नादिनियामकत्वेन जीवादन्य ईश्वरोऽस्तीति ज्ञायत इत्यन्वयः । तस्मै हंसाय नित्यशुद्धाय श्वासरूपाय वा नम उपास्तिर्विशिष्टाधिष्ठानेन च भाव्येति अतस्तद्भावमाह । शुचिसझन इति । शुचिर्वायुरेव सद्म निवासस्थानं यस्य स तथा तस्मै नामरूपा- त्मकप्रपचविषये जीवस्य चाक्षुषमानसाज्ञानापहाराद्वा । “यदोपरामो मनसः स्वप्रसुप्तिलयादिषु । तदावस्था प्रबोधा- दिकारणत्वेन केशवः । अस्वातन्त्र्यान्तु जीवस्य विद्यतेऽन्यो नियामक: । जीवप्रवृत्त्यानुकूल्याज्ज्ञायतेऽसौ सदा विभुः ।” इत्येतत्प्रमाणानुगृहीतव्याप्तिकत्वाल्लिङ्गमव्यभिचारीति विद्वत्प्रत्यक्षानुगृहीतत्वाच लिङ्गं बलिष्ठमित्याशयेनाह । मनीषिण इति । मनोनियमनसमर्थाः मनीषिण: मनीषयान्तर्हृदि सन्निवेशितं भगवन्तं निष्कृषन्ति निष्कृष्य जानन्तीत्यन्वयः । कथमिव अग्निविदो दारुणि गूढं वह्नि निर्मथ्य जानन्ति यथा तथा इह जीवराशिशरीरेऽन्तर्हितमिति शेषः । त्रिवृद्भिः इच्छाज्ञान क्रियात्मना त्रिधावर्तमानाभिर्नवभिर्विमलोत्कर्षणीज्ञानक्रियेत्यादिनवत्वसंख्यविशिष्टाभिः स्वरूप- भूताभिः शक्तिभिर्लक्षितमिति शेषः । दशेन्द्रियमनोबुद्धिप्राणप्रधानाख्यानि चतुर्दशतत्त्वानि तेभ्य उत्तमत्वेन पञ्चदशाश्रयत्वा- त्पञ्चदश्यं मनोबुद्ध यहङ्कारचित्तचेतनभेदेन तत्प्रेरकतया स्थितत्वाद्वा । तदुक्तम् " इच्छादित्वेन त्रिविधा विमलाद्यास्तु शक्तयः" इति चशब्दात्तद्भिन्नास्तज्जाताश्चान्याः सन्तीति प्राह्यं तदप्युक्तम् - “विष्णोः स्वरूपभूतायास्ताभ्यस्तन्नामिकाः पराः । जायन्ते तप्प्रसादेन ताव पीठेऽभिपूजयेत् ॥ तद्भिन्नजीवास्तस्यैव प्रसादात्तत्समीपगाः ।” इति अनेन नवभि: नवद्वाराभिव्यक्ताभिः त्रिवृद्भिः गुणत्रयात्मभिरित्येतन्निरस्तम् । दशेन्द्रियाद्याश्रयत्वेन पाञ्चदश्य इति व्याख्यातं तत्र किं मानमितीयमाशङ्का " दशेन्द्रि- याणि च मनोबुद्धिप्राणप्रधानकाः । चतुर्दशैषां परमः पाञ्चदश्यो हरिः स्मृतः ॥ बुद्धिभेदेन चैतेषु पाञ्चदश्योऽथ संस्थितः । " इत्यनेन परिहर्तव्या । अनेन पञ्चदशीति सङ्ख्यातिथौ वर्तमानत्वात्पाञ्चदश्यमित्येतदपव्याख्यानं निरस्तमिति ज्ञात- व्यम् ।। २७ ।। * * यो मनीषिभिर्निर्मध्य ज्ञातः स हरिर्मम प्रसीदतामित्यन्वयः । किमन्येभ्यो विशिष्य अस्य प्रसादः प्रार्थ्यते “प्रजापते ! न त्वदेतान्यन्य” इत्यादिश्रुतेः अन्येषामप्यतिशयितमाहात्म्यप्रतीतेरित्याशङ्कय “एष ह्येव शतानन्दः इत्यादिश्रुतेः इतरेषामानन्दादेरियत्ताविशिष्टत्वात् “एत स्यानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति न ते विष्णो ! जायमानः " इत्यादिश्रुतेः अस्यापरिच्छिन्नानन्दानुभवरूपत्वादित्याह । अशेषेति । अशेषो विशेषः इयत्ताख्यः अशेषविशेषः स च माया- प्रकृतिश्च ते अशेषविशेषमाये तयोर्निषेधो यस्य तत्तथा तच्च निर्वाणमशरीरभोग्यं च यत् सुखं तस्याशेषविशेषमायानिषेधनिर्वाण- सुखस्यानुभूतिः एतादृशानन्दोऽहमिति स तथा अपरिमिताप्राकृतशरीरभोग्यानन्दानुभवरूप इत्यर्थ: । “इयत्ता तु विशेषः स्वादानन्दादौ तदुज्झितेः । सर्वैर्विशेषै रहित उच्यते हरिरव्ययः ॥ अप्राकृतस्वरूपत्वान्निर्मायश्चेति कथ्यते ।” इति अतोऽय- सेवार्थ इति ज्ञायते प्रजापत्यादिशब्दमुख्यार्थोऽपि अयमेवेति भावेनाह । स सर्वनामेति । अनेनोपन्यस्ता श्रुतिः सावकाशेति 39 स्क. ६ अ. ४ श्लो. २६-३० ] 1: अनेकव्याख्यासमलङ्कृतम् १४७ ज्ञातव्यम् “यो देवानाम्” इति श्रुतेश्च नीरूपस्य सर्वनामत्वं कथमित्यत उक्तं स चेति विश्वानि रूपाणि यस्य स तथा विश्वस्य रूपमिव रूपं यस्येत्यत्र विश्वरूपसदृशो विश्वरूप इति अन्यथा योज्यम् । ननु प्रतीतार्थं परित्यज्य अप्रसिद्धार्थकल्पने किं कारण- मित्यतश्चशब्दसूचितायाः । " तद्रूपसदृशं रूपं यतः सर्वस्य सर्वदा । सर्वरूपो यतः शब्दमुख्यार्थः सर्वनामकः ॥” इति स्मृतेः समाख्यानं कारणं सस इति तच्छन्दद्वयेन तत्तच्छ्रुत्युक्तसर्वनामत्वसर्वरूपत्वे परामृशति । नन्वदृष्टत्वादेकस्य सर्वनामत्वादि कथं युज्यते न च श्रौतत्वाद्युक्तिमत् । श्रुतीनामनन्तत्वेनैकत्रान्यथोक्तिसम्भवादिति तत्राह । अनिरुक्तेति । “विचित्रशक्तिः पुरुषः पुराणः” इति श्रुते: “गतिसामान्यात्” इति सूत्रेण श्रुतीनामेकविषयत्वेन ज्ञानोत्पादनधर्मत्वस्य निर्णीतत्वात् । ननु हरेः सर्वनामत्वे “अवचनेनैव प्रोवाच” इत्यादिश्रुतेः का गतिरित्यतो वाह अनिरुक्तेति । सर्वात्मनेति शेषः । अनिर्वाच्या स्वकीया ज्ञानशक्तिः । इत्येतच्छ्रुतेर्गुणाविर्भावलक्षणायाः दोषाविष्कारोक्तत्यसम्भवेनासङ्गतं स्यादिति अलौकिकत्वान्नो विष्णुरनिरुक्तो निरूपितः तथापि वेदेषूक्तत्वादुक्त रूपी स एव चेतिवाक्यविरुद्धत्वाच्चोक्त एवार्थः ॥ २८ ॥ * * स च विश्वरूप इति विश्वरूपोक्ति विशदयति । यद्यदिति । वचसा घटत इति निरुक्तं धियाऽक्षभिर्मनसा निरूपितं यद्यत्तत्तदस्य हरेः स्वरूपं माभून्न भवति कुतः सत्त्वादिगुणसमूहेन वर्धितत्वात्तर्हि स कीदृश इति तत्राह । स वा इति । सत्त्वादिगुणानामपायः राहित्यमेव निसर्गलक्षणं स्वाभाविकलक्षणं यस्य स तथा वा इत्यनेन “केवलो निर्गुणश्व” इति श्रुतिं प्रमाणयति अनेन जगद्रूपं त्रिगुणात्मकं भगवद्रूपम प्राकृतमिति निरणाथि माभूदित्यनेन जगत् साक्षाद्भगवद्रूपं न जानीहीत्यर्थोऽपि सूचित इति ज्ञातव्यम् ।। २९ ।। कालकारणत्वं च ब्रह्मणः स्वरूपलक्षणमित्याह । यस्मिन्निति । यस्मिन्नधिकरणभूते काले इदं वर्तते यतो यस्मादपादानभूता- कालादभूद्येन कारणभूतेन कालेन जायते यस्य सम्बन्धभूतस्य कालस्याधीनमिदं यस्मै संप्रदानभूताय कालाय कल्पते यं कर्मभूतं कालं प्रतीक्षते यः कर्तृभूतः कालः प्रेरयति यथा येन प्रकारेण पुरुषः कर्म कुरुते स्वयं चापरेण कार्यते तत्तस्य सप्त- विभक्त्यर्थस्य कालस्य प्रकाराणां प्रेरकस्य च यत् परावरेषां ब्रह्मादीनां सकाशात् प्राकूपूर्वं स्वसिद्धं कार्यकारणात्मकप्रपञ्च व्यति- रिक्तत्वेन स्वत एव सिद्धम् । अत एव परममत्युत्तमम् अनन्वदन्यसादृश्यरहितम् । एकमवतारादिरूपाभिन्नं तद् ब्रह्म हेतुः कारणमित्यन्वयः । तत्तत्कालस्य सदातनसत्ता प्रदत्वमस्यैव नान्यस्येति द्योतनाय सप्तविभक्त्यर्थत्वेन कालो विशेषितः । अन्यथा कालस्य कारणं ब्रह्मेति कृतं स्यादिति तदुक्तम् “सर्वसत्ताप्रदत्वतः " इति तत्तत्कालीन सर्ववस्तुसत्ताप्रदत्वाद्वा कुतस्तत्कल्प्यत इति चेत् विभक्त्यर्थस्य कालस्य प्रकाराणां च कारणम् । एक एव परो विष्णुः” इति स्मृते: अयमेवार्थो न तु यस्मिन्नित्यादिना क्रियमाणकारकफलरूपेण ब्रह्मैवावस्थितमिति “अनन्यः सदृशाभावादेको रूपाद्यभेदतः " इति वचनादनन्यदेकशब्दयोरुक्त एवार्थः ॥ ३० ॥ जीवगोस्वामिकृतः क्रमसन्दर्भ : * स्वसंस्थया स्वरूपशक्त्या ।। २६ ।। मनीषिण इति युग्मकम् । त्रिवृन्नवशक्त्तयतीतत्वे सति कथं स्वतो निःशक्तिक एवाहं नेत्याह । अशेषेति । अनुभूतिरवश्यं मन्तव्या तां विना पुरुषार्थत्वासिद्धेः । तस्यां च मन्तव्यायां तल्लक्षणा- खण्डापि स्वरूपशक्तिः सिद्धयत्येवेति भावः । तथैवाह । प्रसीदतामिति । ननु ताभ्यो निष्कृष्टश्चेत् कथं तन्मयसर्वनामरूपः तत्राह । अनिरुक्तेति । अचिन्त्यशक्तित्वादित्यर्थः ॥ २७-२८ ॥ * * ननु मम यन्निर्वाणसुखैकरूपं ब्रह्माख्यं स्वरूपं तस्या- नुभूतिकमेव भवतीति त्रिवृन्नवशक्तिकं भवतु । यत्तु गुणरूपबृंहितं स्वरूपं तन्तु तन्मयमेव भवेत् जगत्सादृश्यात्तत्राह । यद्यदिति त्रिकेण । गुणैरूपैश्च बृंहितम् असमोऽर्द्धबृहत्तमं यत् स्वरूपं तदपि । वचआदिगोचरो यद्यद्वस्तु तन्न भवति तत्र हेतुः । स वै इति । सगुणरूपबृंहितस्वरूपस्त्वं गुणप्रलयसृष्टिभ्यां लक्ष्यते तर्क्यत एव न त्वनुभूयत इति । यद्वा । गुणानामपायोऽपगमो यस्मा- तस्मिन् विगतसर्गे नित्यसिद्धे वैकुण्ठे लक्ष्यते तदधिष्ठातृत्वेन दृश्यत इति ॥ २० ॥ तदेव दर्शयति । यस्मिन्निति । यदिति यत्र विवदमानानां मृश्यता वादिनां तत्तद्भावेऽपि तादृशदुस्तर्कतच्छकय एव कारणत्वेनोपस्थिता इत्याह । यच्छक्तय इति । अत एवानन्तगुणत्वं भूमत्वं च तस्येत्यर्थः ॥ ३० ॥ विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी ननु यज्ज्ञोऽपि न वेदेति यदुक्तं तत्र तदेव वेद्यं वस्तु द्विविधं सुज्ञेयं दुर्ज्ञेयं च । तत्र सुज्ञेयं निर्विशेषस्वरूपमाह । यदेति । यदा मनस उपरामः उपरामातिशयः समाधिः । न तु सुषुप्ताविव लयः । न च जाग्रत्स्वप्नयोरिव विक्षेपः कीदृशस्य नामरूपे रूप्येते येन तस्य । उपरामातिशये हेतुः दृष्टं दर्शनं स्मृतिश्च तयोः सम्प्रमोषात् सम्यकतयैव नाशात् तदा यः केवलया स्वस्य संस्थयैव निर्विशेषज्ञानगम्यतया वस्तुमात्रत्वेनेत्यर्थः । ईयते प्रतीयते तस्मै हंसाय शुद्धाय शुचि शुद्धं चित्तं सद्म प्रतीतिस्थानं यस्य तस्मै । एतत् स्वरूपस्य सुज्ञेयत्वमुक्तं ब्रह्मणा यथा । " तथापि भूमन् महिमाऽगुणस्य ते विबोद्धुमर्हत्यमालान्तरात्मभिः” २४८ इति ॥ २६ ॥ श्रीमद्भागवतम् 1 1 [ स्कं. ६ अ. ४ श्लो. २६-३०
- दुर्विज्ञेयं सविशेषस्वरूपमाह । मनीषिणः शुद्धभक्ताः गूढम् अन्तर्हृदि सन्निवेशितं “प्रविष्टः कर्णरन्ध्रेण स्वानां भावसरोरुहम्” इत्युक्तरीत्या श्रवणभक्तथा अन्तर्हृदि प्रवेशितं पुनर्मनीषया प्रेमभक्त्युत्थया निष्कर्षन्ति । अन्तर्हदया- निष्कृष्य, चक्षुरादिभिरिन्द्रियैः सौन्दर्यादिमाधुर्यमास्वादयन्तीत्यर्थः । कीदृशं सन्तं निकर्षन्ति स्वशक्तिभिश्चिच्छक्तिभिः सहितं कतिभिर्नवभिर्विमलाद्याभिस्तत्रापि त्रिवृद्भिश्चिच्छक्तेरेव तिसृभिर्वृत्तिभिः ह्लादिनीसन्धिनीसम्विद्भिश्व सहितम् । यदुक्तम् । विष्णुपुराणे “ह्लादिनी सन्धिनी सम्वित् त्वय्येका सर्वसंश्रये । ह्लादतापकरी मिश्रा त्वयि नो गुणवर्जिते” इति । यथा दारुणि काष्ठे पाञ्चदश्यं पञ्चदशसामिधेनीमन्त्रैः प्रकाम्यमलौकिकं वह्नि निष्कर्षन्ति स प्रसीदतामित्युत्तरेणान्वयः । अस्य सविशेषस्वरूप- स्याप्राकृतानन्तगुणस्य दुर्विज्ञेयत्वं भक्तिहीनैरनुभवितुमशक्यत्वात् भक्तैरनुभूयमानत्वेऽपि माधुर्यैश्वर्ययोः पाराज्ञानात् । यदुक्तं ब्रह्मणैव । “गुणात्मनस्तेऽपि गुणान् विमातुं हितावतीर्णस्य क ईशिरेऽस्य । कालेन यैव विमिताः सुकल्पैभू पांशवः खे मिहिका- घुभास:” इति ।। २७ ।। * * तत्तु तस्य मायिकं सविशेषं रूपं तद्व्यतिरिक्तमेव ममोपास्यमित्याह । स मम प्रसीदताम् । अशेषा विशेषा यस्यास्तस्या मायाया निषेधेन यन्निर्वाणसुखं बाणा हद्विदारका आध्यात्मिकादिदुःखशराः केऽपि न सन्ति यत्र तस्मिन्नेव सुखे अनुभूतिर्यस्य सः “ह्लादतापकरी मिश्रा त्वयि नो गुणवर्जित” इति वैष्णवोक्तेः । अप्रसक्तनिषेधासम्भवात् प्रसक्तिमाह । स एव विश्वरूप इति ब्रह्मादितृणान्तानां यानि नामरूपाणि तानि तस्यैवेत्यर्थः । मायायास्तच्छक्तित्वेन मायिक- विश्वस्यापि तद्रूपत्वात् तस्य स्वरूपभूता शक्तिस्तु मायाशक्तेर्माथिका द्विश्वस्माच्चान्यैवेत्याह । अनिरुक्ता मायिकवाङ्मनसाभ्यामनि- रुक्तिविषयीभूता आत्मभूता शक्तिर्यस्य सः ॥ २८ ॥ ॐ वाग्बुद्धचादिकन्तु सर्व मायिकमेव तेन निरूपितमपि सर्व मायिकमेव भवेत् । तत्तु न तत्स्वरूपमित्याह । यद्यदिति । यद्यद्वचसा निरुक्तमभिहितं धिया निरूपितं व्यवसितम् अक्षभिर्वा इन्द्रियैर्निरूपितं गृहीतम् उत अपि मनसापि निरूपितं सङ्कल्पितं तत्तत् सर्वं यस्य स्वरूपं माभूत् न भवति तस्मै नम इति तृतीयेनान्वयः । हि यतस्तद्गुणानामेव रूपम् गुणबृंहितं हि तदिति पाठे गुणैर्वद्धितं स तु गुणव्यतिरिक्त इत्यर्थः । यतः गुणानाम अपायविसर्गाभ्यां प्रलयोत्पत्तिभ्यां लक्षणं यस्य सः । यः सृष्टिप्रलयौ करोति स ईश्वर इत्यतः सृष्टेः पूर्वत्र प्रलयात् परत्र च तस्य सत्त्वसिद्धेः । अत्र " दृश्यते त्वग्यया बुद्धया" इति “मनसैवानुद्रष्टव्य” इति । " तमेव विदित्वा अतिमृत्युमेति” इति " आत्मा वा अरे मन्तव्यः" इत्यादि “तस्मात् सर्वात्मना राजन् ! भगवान् हरिरीश्वरः । श्रोतव्यः कीर्त्तितव्यश्व” इति परस्सहस्रश्रुतिस्मृतिवाक्यविरोधादीश्वराननुगृहीतैरेव वचआदिभिरिति व्याख्येयम् । अत एव श्रुतावग्यूयेति विशेषणम् । “अतः श्रीकृष्णनामादि न भवेद्ग्राह्यमिन्द्रियैः । सेवोन्मुखे हि जिह्वादौ स्वयमेव स्फुरत्यदः" इत्यभियुक्तवचनं च । केचित्तु कार्त्स्न्येन निरूपणाभावान्न निरूपितमित्याहुः । “यतोऽप्राप्य निवर्त्तन्ते वाचश्च मनसा सह" इत्यत्रापादाननिर्देशात् वाङ्मनसागम्यत्वं निवर्त्तन्त इति अन्तालाभाद्वाङ्मनसागम्यत्वचेति यावत् ।। २९ ।। * * ननु गुणमयं रूपं यदि तत्स्वरूपं न भवति तर्हि तस्यापूर्णत्वं प्रसज्जेतेत्यत आह । यस्मिन्नधिकरणे यतोऽपादानाद्येन करणेन यस्य सम्बन्धिनः यस्मै सम्प्रदानाय यदीप्सि- ततमं यः कर्त्ता कुरुते स्वतन्त्रः कार्यते वा अन्येन प्रयोज्यकर्त्रा तद्ब्रह्मेति प्रत्येकमन्वयः । अत्र सप्तभिर्यच्छब्दैः सप्तविभक्त्यर्था दर्शिताः । यथेति क्रियाकारकसंबन्धप्रकारवाचिनामव्ययानामर्थाः कुरुते कार्यते चेति स्वार्थपरार्थक्रियान्वयश्च दर्शितः । चशब्देन च भावकर्मादिविहितप्रत्ययार्थाश्च संगृहीताः । तद्ब्रह्मैवेति कुतस्तत्राह । तद्धेतुस्तेषां कारणम् । कारणत्वं कुतः । प्राकून - सिद्धम् । ननु ब्रह्मादयस्तद्धेतवः श्रूयन्ते अवरे च दृश्यन्ते तत्राह । परेषामवरेषां च परमं तेषां कारणानामपि कारणत्वात् परमं कारणमित्यर्थः । ननु सर्वकारणत्वे तस्य किं नाम सहकारि । । त्रिविधानां तद्विलासानां वैकुण्ठतत्पार्षदादीनां वासुदेवसङ्कर्षणादीनां च नित्यसिद्धत्वश्रवणात् कालमायाजीवादृष्टानान्तु जगत्कारणत्वस्य च श्रवणात् कथमेकमित्युच्यत इत्यत आह । अनन्यत् न विद्यते अन्यद्यतस्तच्छतीनां तद्विलासानां च तत्स्वरूप भूतत्वाद्वासुदेवादीनां तदंशत्वात् । कालमायादीनामस्वरूपभूतत्वेऽपि तच्छक्तित्वा तदनन्यत्वमित्यर्थः ।। २० ।। ननु चिच्छक्तीनां विमलाद्यानां नवविधानां चिवित्तत्राह । एकम् अन्यनिरपेक्षमेव तत् कारणमित्यर्थः । शुकदेवकृत: सिद्धान्तप्रदीपः मुमुक्षूणां तु सुज्ञेय इत्याह । यदेति द्वाभ्याम् । नामरूपरूपस्य नामरूपाणि देवमनुष्यादीनि रूप्यन्ते चिन्त्यन्ते अनेनेति तथा । तस्य दृदृस्मृतेः दृष्टोपलक्षितदृष्टश्रुतमायिकपदार्थस्मृतेः प्रमोषात् त्यागाद्यदा उपरामः भगवत्स्वरूपगुणादिध्यान- सुखसमाधिः तदा केवलया निरतिशयया स्वकीयया संस्थया ईयते मुमुक्षुभिज्ञायते यस्तस्मै हंसाय शुचिसने शुद्धचित्तालयाय अप्राकृतलोकाय वा नमः ॥ २६ ॥ * * एतदेव स्पष्टतयाह । मनीषिण इति । यथा पाञ्चदश्यं पञ्चदशसामिधेनीमन्त्रैः प्रकाश्यं दारुणि गूढं वह्नि निष्कर्षन्ति उपायतः प्रत्यक्षं कुर्वन्ति तद्वन्मनीषिणः विमलबुद्धयस्त्रिवृद्भिः धारणाध्यानसमाधिभि- रुपायैः नवभिः स्वशक्तिभिः सह अन्तर्हृदि सन्निवेशितं सम्यक् स्थापितं मनीषया निष्कर्षन्ति । क्षराक्षरपदार्थविलक्षणतया ।स्कं ६ अ. ४ श्लो. २६-३०] अनैकव्याख्या समलङ्कृतम्- af १४९ यं पश्यन्तीत्यर्थः । तमीडे इति पूर्वेणान्वयः । नवशक्तयस्तु “श्रिया पुष्टया गिरा कान्त्या कीर्त्या तुष्टच लयोर्जया । विद्ययाऽविद्यया शक्त्या मायया च निषेवितम्” इति वक्ष्यमाणा ज्ञेयाः । यद्वा । अस्तीति बुद्धिरूपया मनीषया अन्तर्हृदि सन्निवेशितम् । स्वशक्तिभिः स्वानुष्ठिताभिर्भक्तरूपाभिः शक्तिभिः । त्रिवृद्भिस्त्रिगुणाभिः नवभिः श्रवणादिरूपाभिर्निष्कर्षन्ति प्रत्यक्षं कुर्वन्तीत्यर्थः ॥ २७ ॥ * * बुभुक्षूणां दुर्ज्ञेयत्वेन मुमुक्षणां सुज्ञेयत्वेन यो वर्णितः स मम प्रसीदताम् । कथंभूतः । अनिरुक्ताः असङ्ख्याताः स्वरूपतश्च वक्तुमशक्याः आत्मशक्तयः स्वकीयाः शक्तयः न त्वागन्तुका यस्य सः । स्वाभाविकान- न्तशक्त प्रसन्ने सति ममेष्टसिद्धिः स्यादेवेति भावः । चेतनाचेतनात्मकं सर्व विश्वं तदीयचिदचिच्छक्तिमयतया तदनतिरि- क्तमतस्तदनुग्रहकामेन सर्वत्र स्पर्द्धारूपादिदोषत्यागवता विश्वाकारतयापि भजनीय इत्याशयेनाह । स सर्वनामा स च विश्वरूप इति । स्वरूपतस्तु विश्वविलक्षणः परमानन्दरूप इत्याह । अशेषाः निखिला विशेषाः महदादितृणान्ता विकारा यस्या मायायाः निषेधेनेति नेतीति निराकरणे सति अन्ते यत् प्रोक्तमानन्दमयं निर्वाणं निर्गताः बाणा बाणवदहिताः सर्वे आध्या- त्मिकादयस्तापाः यस्मात् । तस्मिन् सुखे अनुभूतिर्यस्य सः विश्वविलक्षणपरमानन्दस्वरूप इत्यर्थः ॥ २८ ॥ पूर्व- श्लोकस्यार्थः प्रपञ्च्यते । यद्यदिति द्वयेन । तत्र अशेषविशेषमायानिषेधनिर्वाणसुखानुभूतिरित्येतस्य प्रपञ्चः । यदिति । यत् वचसा निरुक्तं वर्णितं धियाक्षिभिरिन्द्रियैः उत मनसा निरूपितं विषयीकृतं तत्सर्वं हि निश्चितं यस्य रूपं माभूत् न भवति । स प्रसीदतामित्यन्वयः । “सत्यं ज्ञानमनन्तं ब्रह्म” तं त्वौपनिषदं पुरुषं पृच्छामि सर्वे वेदा यत्पदमामनन्ति नमाम सर्ववचसां प्रतिष्ठा यत्र शाश्वती" इत्यादिवचसा निरुक्तस्य " दृश्यते त्वग्यया बुद्धया सदा पश्यन्ति सूरयः मनसैवानुद्रष्टव्यः" इत्यादिषु बुद्धयादिषु विषयीकृतस्य स्वरूपस्य व्यावृत्त्यर्थमाह । गुणवर्द्धितं प्रकृतिगुणमयमित्यर्थः । यतः गुणानामपायविसर्गाभ्यां संहारोद्भवाभ्यामुपलक्षणमेतत् स्थितेरपि विश्वसृष्टिस्थितिसंहारैर्लक्षणं यस्य सः । लक्षणं तु विश्वजन्मादिहेतुत्वे सति प्रकृति- तद्गुणविलक्षणत्वे सति सत्यत्वादिमत्त्वं ब्रह्मत्वम् इति ॥ २९ ॥ * सर्वनामा स च विश्वरूप इत्येतस्य प्रपञ्चः । यस्मिन्निति । यस्मिन्नधिकरणे यतोऽपादानात् येन करणेन यस्य सम्बन्धि यस्मै संप्रदानाय यदीप्सिततमं यः कुरुते कार्यते चेति प्रयोजकप्रयोज्यभेदेन द्विविधः कर्त्ता । अत्र पभिर्यच्छदैः षट् कारकाणि दर्शितानि यस्येत्यनेन संबन्धसामान्यं दर्शितं कुरुते कार्यते चेति स्वार्थपरार्थक्रियान्वयो दर्शितः । यथेति च क्रियाकारकसंबन्धप्रकारवाचिनामव्ययानामर्थाः सङ्गृहीताः । चशब्देन भावकर्मादिविहितप्रत्ययार्थाः सङ्गृहीताः यतस्तद्धेतुस्तेषां कारणं यतः प्राकुप्रसिद्धं यतः परेषां प्रकृतिपुरुषकालादीना- मवरेषां महदादीनां च ब्रह्मादीनां च परममाश्रयमनन्यत् विजातीयशून्यं एकं सजातीयशून्यं स्वगतभेदस्त्वस्त्यतो हि स्वभावत एव द्वैताद्वैतमित्यर्थः । तद्ब्रह्म प्रसीदतामिति सम्बन्धः ॥ २० ॥ गोस्वामिगिरिधरलालविहिता बालप्रबोधिनी 7 ag स्वयम्प्रकाशो भगवानस्मिन्नेव देहे वसति चेत्तदा कुतो न सर्वदा प्रतीयते इत्याशङ्कय विषयाविष्टचित्तत्वेन तिरोहितत्वात् तर्हि कदा प्रतीयते इत्यपेक्षायामाह - यदेति । नामरूपे रूप्येते येन तन्नामरूपरूपं तस्य मनसो यदोपरामो भवति तदा यः केवलया प्राकृतगुणरहितया स्वसंस्थया सच्चिदानन्दमूर्त्त्या प्रतीयते तस्मै हंसाय शुद्धाय परमविवेकिने शुचि शुद्धं हृदयमेव स प्रतीतिस्थानं यस्य तस्मै नम इत्यन्वयः । ननु दर्शनादितत्तद्वृत्तीनां सत्त्वे कथं मनस उपरामः सम्भवतीत्या- शङ्कयाह- दृष्टेति दृष्टं दर्शनं प्रमाणविकल्पविपर्ययलक्षणं त्रिविधं ज्ञानं स्मृतिश्च स्मरणं तयोः सम्प्रमोषात् नाशादित्यर्थः । न चैवं वृत्तिचतुष्टयनाशेऽपि निद्रालक्षणवृत्त्यन्तरं स्यात् तदाच जाग्रत्स्वप्नयोरिव विशेषाभावेऽपि विलय एव भवति नैवंरूपो भगवान् प्रतीयते इति शङ्कयमुपरामशब्देन समाधेर्विवक्षितत्वान्न सुषुप्तिरिति ॥ २६ ॥ * * एवम्भूतं भगवन्तं के पश्यन्तीत्य- पेक्षायामाह - मनीषिण इति । मनोनियमने समर्था मनीषिणो विवेकिनो मनीषया श्रवणादिविशुद्धया बुद्धयाऽन्तर्हृदि सन्निवेशितं निश्चलीकृतं यं निष्कर्षन्ति स निर्वाणसुखानुभूतिर्मम प्रसीदतामित्युत्तरेणान्वयः । ननु स्वहृदि स्थितः स्वप्रकाशश्चेत् स्वत एव कुतो न प्रकाशते किमिति निष्कर्षन्तीत्युच्यते इत्याशङ्कयाह - त्रिवृद्धिः त्रिगुणात्मिकाभिः नवभिः प्रकृतिमहदहङ्कारमनः- पञ्चतन्मात्ररूपाभिः चकारात् पञ्चमहाभूतदशेन्द्रियरूपाभिश्च स्वशक्तिभिर्गृढं अप्रकाशमानमित्यर्थः । स्वशक्तिभिरित्यनेन तर्हि तस्यापि जीववत् परवशता स्यात् प्रकृत्यादिभिरावृतत्वादिति शङ्का निरस्ता स्वतन्त्रोऽपि स्वेच्छयैव स्वशक्तिभिः प्रतिच्छन्न इति भावः । निष्कर्षे दृष्टान्तः - वह्निमिति, यथा दारुणि स्थितं पाञ्चदश्यं पञ्चदशसामिधेनीमन्त्रैः प्रकाश्यमलौकिकं वह्नि निष्कर्षन्ति तथा प्रकृत्यादिसङ्घातेभ्यो भक्ता भगवन्तं निष्कर्षन्तीत्यर्थः ॥ २७ ॥ * * सच्चिदानन्दात्मकं भगवन्तं निष्कर्षन्तीत्युक्तमेव स्पष्टयंस्तत्प्रसादं प्रार्थयते - स वा इति । अशेषा विशेषा यस्यास्तस्या मायायाः कार्यकारणात्मकप्रपञ्चरूपाया: प्रकृतेर्नेतिनेति- निषेधे विवेकेन त्यागे सति निर्वाणसुखानुभूतिर्यस्य स वै स एव मम प्रसीदतामित्यन्वयः । वाणो नाशकः कालादिः स निर्गतो यस्मात् स निर्वाण इति त्रिकाला बोध्यसत्तारूपतोक्ता । सुखशब्देन परमानन्दरूपत्वमुक्तम् । अनुभूतिपदेन चेतनत्वमुक्तम् । ।। १५० श्रीमद्भागवतम् [ स्कं. ६ अ. ४ श्लो. २६-३० ननु तर्हि सच्चिदानन्दात्मकस्य भगवतः प्रपञ्चाद्भिन्नत्वे द्वैतापत्तिः स्यादित्याशङ्कयाह - स इति सर्वाणि नामानि यस्य स सर्वनामा विश्वानि सर्वाणि रूपाणि यस्य स विश्वरूपश्च । ननु कथं सच्चिदानन्दरूपस्य नश्वरजडप्रपञ्चरूपता सम्भवतीत्या- शङ्कयाह — अनिरुक्तात्मशक्तिरिति, अनिरुक्ता निर्वचनानर्हा आत्मनि शक्तिर्यस्य स इत्यर्थः । अचिन्त्यशक्त्या सर्व घटते इति भावः ।। २८ ।
-
- ननु यदि सर्वप्रपञ्चरूपो भगवानेव तदा तत्र यस्य कस्यचिदपि स्त्रीपुत्रादेर्भजनान्मोक्षापत्त्या सर्वोऽपि मुक्त एवं स्यात् किं निष्कर्षन्तीत्याद्युक्तसाधनप्रया सेनेत्याशङ्कयाह – यद्यदिति । यद्यद्वचसा निरुक्तममिहितं धिया निरूपितं व्यवसितं अक्षभिर्वा इन्द्रियैरपि निरूपितं गृहीतं उतापि मनसा वापि निरूपितं सङ्कल्पितं तत्तत् यस्य सच्चिदानन्दात्मकस्य भगवत उपास्यं मोक्षप्रदं स्वरूपं मा भूत् न भवति । येन तद्भजनान्मोक्षः स्यादिति शेषः । तत्र हेतुमाह - गुणरूपमेव, हीति यस्मात्तत् सर्वं सत्वादिगुणकार्यमेवेत्यर्थः । गुणबृंहितं हि तदिति पाठे गुणैर्वद्धितमित्यर्थः । न हि गुणकार्यभजनान्मोक्ष: सम्भवतीति भावः । ननु संसारावस्थायां सच्चिदानन्दविग्रहस्य भगवतोऽनुभवाभावात् कथं तत्सिद्धिरित्याशङ्कयाह– स वा इति, गुणस्य गुणकार्यस्य विश्वस्यापायविसर्गाभ्यां प्रलयोत्पत्तिभ्यां तत्कारणतया लक्ष्यते ऽनुमीयते इति तथा सः ॥ २९ ॥ * * तथा च भग- वतः सर्वकारणत्वात् कार्यस्य च कारणानन्यत्वात्तस्य विश्वरूपत्वं सिद्धयतीति तदेव विशदयति यस्मिन्निति यस्मिन्नधिकरणे इदं विश्वं तद्ब्रह्म सच्चिदानन्दात्मको भगवानेव, इत्येवं प्रत्येकं यच्छब्दस्य तच्छब्देन सम्बन्धः । यतोऽपादानात् । येन च करणेन । यस्य सम्बन्धि । यस्मै सम्प्रदानाय । यदीप्सिततमं कर्म । यः स्वतन्त्रः कर्त्ता कुरुते येन प्रयोजककर्त्रा कार्यते च । एवं चात्र सप्तभिर्यच्छब्दैः सप्तविभक्त्यर्था दर्शिताः । यथेति च क्रियाकारकं सम्बन्धप्रकारवाचिनामव्ययानामर्था दर्शिताः । कुरुते कार्यते चेति स्वार्थपरार्थक्रियान्वयश्च सर्वेषां दर्शितः चशब्देन भाव कर्मादिविहितप्रत्ययार्थाः सङ्गृहीताः । ब्रह्मैवाधिकरणादीति कुतस्तत्राह - तद्धेतुरिति यतस्तेषां कारणमित्यर्थः । तत्कारणत्वमेव कुत इत्याकाङ्क्षायामनन्यथासिद्धनियतपूर्ववृत्तित्वकारण- लक्षणयुक्तत्वादित्याह – सर्वेभ्यः प्राक् प्रसिद्धमिति । ननु परे ब्रह्मादयस्तद्धेतवः श्रूयन्ते अबरे च तथा दृश्यन्ते तत्कथं ब्रह्मैव तद्धेतुरित्याश्यङ्कयाह – परेषामवरेषां च हेतूनां परमं कारणमित्यर्थः । ननु तदानीमन्यस्य सहकारिणो भावात् कथं तस्य कारणत्वं घटते इत्याशङ्कयाचिन्त्याप्रभावत्वादित्याभिप्रेत्याह - एकमिति । नन्वेवं कारणत्वेऽपि कथं तद्रूपत्वं कैश्चित् कार्यकारणयोर्भेदाङ्गी- कारादित्याशङ्कच तयोरन्यत्वाद्भेदाङ्गीकारस्य भ्रान्तिमूलत्वादित्याह - अनन्यदिति ।। ३० ।। भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी पूर्व श्लोके सर्वज्ञमिति पदेन परमात्मनः सर्वज्ञत्वं यदभिप्रेतं तत् परमात्मना सुषुप्तौ संश्लेषदशायामपि जीवस्य या तदनभिज्ञता तां चोपपादयति । यदेति । नाम देवमनुष्यब्राह्मणादिकं च रूपं तदाकृतिश्च ते रूपयतीति नामरूपरूपं तस्य नामरूपनिरूपकस्य, मनसः यदा दृष्टस्य जाग्रदशायां निरीक्षितस्य स्मृतिर्यस्यां सा दृष्टस्मृतिः स्वप्नावस्था तो संप्रमोषयति इति दृष्टस्मृतिसंप्रमोषः : सुषुप्तिस्तस्मात् उपरामः स्वप्नावस्थानिवृत्तिकर्तृ सुषुप्तिं प्राप्य मनसो यदोपरामो जायते इत्यर्थः । तदा योऽयं परमात्मा, ईयते प्राप्यते । जीवेन समन्वितो भवतीत्यर्थः । ‘प्राज्ञेनात्मना संपरिष्वक्तो न बाह्यं किंचन वेद नान्तरमेष सुप्तेषु जागर्त्ति’ इति श्रुत्यर्थोऽनेनाऽत्र विवक्षितः । ननु श्रुतीक्षया जीवस्य सुषुप्तौ परमात्मना संमेलनेऽपि अज्ञत्वे परमात्मनोऽ- यज्ञता आयायात्तस्य तत्त्वे सर्वज्ञताहानिरित्याशङ्कां निवारयति । केवलयेति । तदानीमपि य इति शेषः । तदानीमपि परमात्मा त्वित्यर्थः । केवलया रागादिकलुषतारहितया, स्वसंस्थया स्वस्वाभाविकज्ञानेन युक्त एव, ईयते योगिभिः अवगम्यते इत्यर्थः । शुचिसद्मने उपासनाविशुद्धान्तःकरणप्राप्यायेत्यर्थः । तस्मै हंसाय परमात्मने नमः ॥ २६ ॥ ननु शुचिसद्माऽसौ केषां प्रतीतिविषयः स्यादिति चेन्मनीषिणामित्याह । मनीषिण इति । त्रयाणां वृदावृत्तिर्यासु तास्त्रिवृतस्ताभिः त्रिकत्र्यावर्त्तन- मापन्नाभिः, अत एव, नवभिः श्रीपुष्टचादिभिः, स्वशक्तिभिः कार्योपयोग्य पृथक सिद्धविशेषणरूपाभिः स्वशक्तिभिः सह यद्वा त्रिवृद्भिः इच्छाज्ञानक्रियात्मना त्रिधा वर्त्तमानाभिः, नवभिः विमलोत्कर्षण्याद्यात्मना नवभिः स्वशक्तिभिः सह, अन्तर्हृदि, संनिवेशितं स्वेच्छया संनिविष्टं गृढं बायैः करणैरप्राह्यम् । यद्वा त्रिवृद्धिस्त्रिगुणिताभिः नवभिः स्वशक्तिभि: सप्तविंशतितत्त्वरूपाभि- रित्यर्थः । यद्वा त्रिवृद्धिस्त्रिगुणात्मकाभिः, नवभिः प्रकृतिपुरुषमहदहंकारपञ्चतन्मात्रारूपाभिर्नवभिः चकारात् षोडशविकार- रूपाभिरित्येवं पञ्चविंशतितत्त्वात्मना संख्याताभिः, स्वशक्तिभिः गूढमप्रकाशमानं, अन्तर्हृदि, संनिवेशितं, अष्टाविंशं षड्विंशं वेत्यर्थः । यं दारुणि काष्टे, निगूढ़ें, पाञ्चदश्यं पञ्चदशसामिधेनीमन्त्रः प्रकाश्यमलौकिकं वह्नि यथा अग्निमिव, मनीषिणः मनीषया योग परिशुद्धधिया निष्कर्षन्ति । प्रकृतिपुरुषादिभ्यो विविच्य ध्यायन्ति । दारुणः सकाशाद्वह्निमिवाहंकारास्पदा- दात्मनोऽन्यं परमात्मानं विचिच्य धिया ध्यायन्तीत्यर्थः । स मम प्रसीदतामित्युत्तरेणान्वयः ।। २७ ।। * * मनीषि- भिरित्थंविधो यः परमात्मा ध्यानविषयः क्रियते तमेव तदसाधारणैर्धर्मैर्विशिषन् तदनुग्रहं प्रार्थयते । स वै इति । स वै उक्तविधो भगवानेव, अशेषाः समग्राः विशेषा विकारा यस्यां सा चासौ माया तस्या निषेधो निवृत्तिस्तेन यन्निर्वाणसुखं स्कं. ६ अ. ४ श्लो. २६-३० ] " अनेकव्याख्यासमलङ्कृतम् १५१ दुःखाभिन्नमोक्षसुखं तस्मिन्ननुभूतिरनुभवो यस्य सः, मुक्तानामनुभवविषय इत्यर्थः । स च स एव, सर्वनामा सर्वैः शब्दैर्वाच्य इत्यर्थः । यद्वा सर्वः नाम यस्य सः ‘सर्वः शर्वः शिवः स्थाणुः’ इति भारतीयविष्णुसहस्त्रनाम्न्युक्तेः । अतः विश्वरूपः विश्वशरी- रकत्वात्सर्वशब्दवाच्य इति भावः । विश्वान्तर्गताखिलवस्तुवाचिनः शब्दास्तच्छरीरं तमेवाभिदधतीति शरीरखाचिनां शब्दानां शरीरिपर्यन्तत्त्वबोधनशक्तेः । यद्वा । सर्वशब्दस्य कृत्स्नजगद्वाचकत्वाज्जगतश्च तच्छरीरत्वात्प्रवृत्तिनिमित्त पौष्कल्येन सर्वशब्द- स्तमेवाभिधत्ते । नन्वेवं सर्वथा विश्वरूपत्वं तद्गतधर्मास्पर्शनं चैतत् द्वयमेकस्य कथं संभवेत्तत्राह । अनिरुक्ता वाङ्मनसा अपरिछेद्याः आत्मशक्तयः स्वाभाविकशक्तयो यस्य सः, विचित्रशक्तित्वादुभयोपपत्तिरिति भावः । एवंभूतः स भगवान्, मम प्रसीदताम् मामनुगृह्णात्वित्यर्थः ॥ २८ ॥ ननु यदि सोऽनिरुक्तात्मशक्तिस्तर्हि तत्स्वरूपं केन लक्ष्य ह ।
- इत्यत्राह यदिति । यत् यत् वचसा निरुक्तं, शब्देनाभिहितमित्यर्थः । जातिगुणादिकं प्रवृत्तिनिमित्तीकृत्य शब्देन बोधितमिति भावः । धिया, निरूपितं बुद्धचा व्यवसितमित्यर्थः । अक्षभिरिन्द्रियैर्वा निरूपितं गृहीतमित्यर्थः । उतापि, मनसा निरूपितमपि मनसा संकल्पितमित्यर्थः । तत् तत् गुणरूपं सत्त्वादिगुणत्रयकार्यम्, अतः यस्य स्वरूपं परमात्मस्वरूपभूतं मा भूत् हि । किं तु यत्य पृथिवी शरीरम्’ इत्यादिश्रुतेः शरीरमेवेति भावः । अत एव स वै स तु, अपायः संहारश्च विसर्गः सृष्टिश्व अपायविसर्गौ गुणानां सत्त्वादीनां यावपायविसर्गौ याभ्यां लक्ष्यते इति गुणापायविसर्गलक्षणः । अपायविसर्गयोः स्थितेरप्युपलक्षणत्वादुत्प- त्तिस्थितिप्रलया यतो भवन्ति तथाविधस्वरूपः परमात्मेत्यर्थः । जगदुत्पत्त्यादिभिरेव तत्स्वरूपं लक्ष्यते इति भावः ॥ २९ ॥ * * ’ यस्मिन्निदं सर्व’ ‘यतो वा इमानि भूतानि’ ‘येन जातानि जीवन्ति’ ‘यस्य ब्रह्म च क्षत्र ं चोभे भवत ओदनः’ ‘यस्मा इदं हि क्रियते’ ‘यत्सच्च त्यच्चाभवत्’ ‘यो वा एष:’ ‘यथा स्थितमेतत्’ इत्यादिश्रुतीक्षयाधिष्ठानादिकार- कधर्माश्रयत्वं परमात्मनः प्रतीयते तत्स्वीकारे ‘निष्कलं निष्क्रियं’ इत्यादिश्रुतिविरोधः एकस्योभयधर्मभाक्त्वं च कथं संभवति इति शङ्कां निराकुर्वन व्याकरणोक्तार्थान्प्रदर्शयति । यस्मिन्निति । योऽयं परमात्मा, येन स्वशरीरभूततत्त्ववृन्देन, यस्मै कर्मणां यस्मै ब्रह्मणेऽर्पणार्थ, यतः प्रकृतिशरीरात्स्वस्मात् यस्य स्वसंबन्धस्य योगतः, यस्मिन्स्वशरीरभूतप्रधानप्रकृतौ, यदिदं स्वशरीरभूतं जगत्, यथा येन प्रकारेण कुरुते संकल्पेन विदधाति । कार्यते च ब्रह्मादिद्वारा विधापयति च । कुरुते इत्यनेन स्वतन्त्र कर्तृत्वं, कार्यते इत्यनेन प्रयोज्यकर्तृत्वं, यदिति ईप्सितकर्मत्वं, येनेति करणकारकत्वं यस्मै इति संप्रदानकारकत्वं यस्येति संबन्ध - सामान्यत्वं, यत इत्यपादनकारकत्वं, यस्मिन्नित्यधिकरणकारकत्वं यथेति क्रियाकारक संबन्धप्रकारवाचिनामव्ययानामर्थाः । चशब्देन भावकर्मादिविहितप्रत्ययार्थाः संगृहीताः । एवं सकलकारकाद्येकाश्रयं यत्, तद्ब्रह्म । कुतः । तद्धेतुः सकलकारणं, तत्कुतः । प्राक् प्रसिद्धं सर्वेभ्यः पूर्वमेव प्रसिद्ध तोपेतम् । ननु ब्रह्मादीनामेवं श्रवणात्ते तथाविधतां भजेरन्निति चेन्न । परावरेषां परमं परेषामवरेषां च परमं कारणमित्यर्थः । अत एव अनन्यन्न विद्यतेऽन्यत्कारणं यस्मादतोऽनन्यत् । तत्कुतः । एकं समाभ्यधिकतावर्जितं एवंभूतं यद्ब्रह्म तत्त्वमेवेति निष्कर्षार्थः । जगद्ब्रह्मणोः शरीरशरीरिभावाच्छरीरगतधर्माणां वस्तुतः शरीरिण्यप्रसक्तत्वान्निष्क्रियत्वादिकं विशेष्यभूतब्रह्मस्वरूपाभिप्रायं सकलकारका श्रयताभावत्वं सर्वशरीरतारूपविशेषणता भावत्वा- भिप्रायकमिति न विरोध इति भावः ॥ ३० ॥ " भाषानुवादः '
- जब समाधिकाल में प्रमाण, विकल्प और विपर्ययरूप विविध ज्ञान और स्मरण शक्तिका लोप हो जानेसे इस नाम-रूपात्मक जगत्का निरूपण करनेवाला मन उपरत हो जाता है, उस समय बिना मनके भी केवल सच्चिदानन्दमयी अपनी स्वरूपस्थितिके द्वारा आप प्रकाशित होते रहते हैं । प्रभो ! आप शुद्ध हैं और शुद्ध हृदय - मन्दिर ही आपका निवास- स्थान है। आपको मेरा नमस्कार है ।। २६ ।। * * जैसे याज्ञिक लोग काष्ठमें छिपे हुए अभिको ‘सामिधेनी’ नामके पंद्रह मन्त्रोंके द्वारा प्रकट करते हैं, वैसे ही ज्ञानी पुरुष अपनी सत्ताईस शक्तियोंके भीतर गूढभाव से छिपे हुए आपको अपनी | शुद्ध बुद्धिके द्वारा हृदयमें ही ढूँढ़ निकालते हैं ।। २७ ॥ * * जगत्में जितनी भिन्नताएँ देख पड़ती हैं, वे सब मायाकी ही हैं । मायाका निषेध कर देनेपर केवल परम सुखके साक्षात्कारस्वरूप आप ही अवशेष रहते हैं । परन्तु जब विचार करने लगते हैं, तब आपके स्वरूप में मायाकी उपलब्धि– निर्वचन नहीं हो सकता । अर्थात् माया भी आप ही हैं । अतः सारे नाम और सारे रूप आपके ही हैं । प्रभो ! आप मुझपर प्रसन्न होइये । मुझे आत्मप्रसादसे पूर्ण कर दीजिये ॥ २८ ॥ * * प्रभो ! जो कुछ वाणीसे कहा जाता है अथवा जो कुछ मन, बुद्धि और इन्द्रियोंसे ग्रहण किया जाता है, वह आपका स्वरूप नहीं है; क्योंकि वह तो गुणरूप है और आप गुणोंकी उत्पत्ति और प्रलयके अधिष्ठान हैं आपमें केवल उनकी प्रतीतिमात्र है || २६ ॥ भगवन् ! आपमें ही यह सारा जगत् स्थित है; आपसे ही निकला है और आपने — और किसीके सहारे नहीं - अपने आपसे ही इसका निर्माण किया है । यह आपका ही है और । ! १५२ श्रीमद्भागवतम् [ स्कं. ६ अ. ४ श्लो. ३१-४० आपके लिये ही है । इसके रूपमें बननेवाले भी आप हैं और बनानेवाले भी आप ही हैं । बनने-बनानेकी विधि भी आप ি ही हैं । आप ही सबसे काम लेनेवाले भी हैं। जब कार्य और कारणका भेद नहीं था, तब भी आप स्वयंसिद्ध स्वरूपसे स्थित थे । इसीसे आप सबके कारण भी हैं । सच्ची बात तो यह है कि आप जीव जगत् के भेद और स्वगतभेद से सर्वथा रहित जीव-जगत एक, अद्वितीय हैं । आप स्वयं ब्रह्म हैं। आप मुझपर प्रसन्न हों ॥ ३० ॥ यच्छक्तयो वदतां वादिनां वै विवादसंवादभुवो भवन्ति । Sr. कुर्वन्ति चैषां मुहुरात्ममोहं तस्मै नमोऽनन्तगुणाय भूम्ने ॥ ३१ ॥ अस्तीति नास्तीति च वस्तुनिष्ठयोरेकस्थयोर्भिन्नविरुद्धधर्मयोः । अवेक्षितं किञ्चन योगसांख्ययोः समं परं ह्यनुकूलं बृहत्तत् ॥ ३२ ॥ योऽनुग्रहार्थं भजतां पादमूलमनामरूपो भगवाननन्तः । नामानि रूपाणि च जन्मकर्मभिर्भेजे स मां परमः प्रसीदतु ॥ ३३ ॥ यः प्राकृतैज्ञनिपथैर्जनानां यथाशयं देहगतो विभाति । यथानिलः पार्थिवमाश्रितो गुणं स ईश्वरो मे कुरुतान्मनोरथम् ॥ ३४ ॥ श्रीशुक उवाच इति स्तुतः संस्तुवतः स तस्मिन्नघमर्षणे । आविरासीत् कुरुश्रेष्ठ भगवान् भक्तवत्सलः ।। ३५ ।। समजः ।। ।। कृतपादः सुपर्णांसे प्रलम्बाष्टमहाभुजः । चक्रशङ्खासिचर्मेषुधनुः पाशगदाधरः ॥ ३६ ॥ पीतवासा घनश्यामः प्रसन्नवदनेक्षणः । वनमालानि बीताङ्गो लसच्छ्रीवत्सकौस्तुभः ॥ ३७ ॥ महाकिरीटकटक: स्फुरन्मकरकुण्डलः । काञ्च्यङ्गुलीयवलयन पुराङ्गदभूषितः ॥ ३८ ॥ त्रैलोक्यमोहनं रूपं बिभ्रत् त्रिभुवनेश्वरः । वृतो नारदनन्दाद्यैः पार्षदैः सुरयूथपैः । स्तूयमानोऽनुगायद्भिः सिद्धगन्धर्वचारणैः ॥ ३९ ॥ रूपं तन्महदाश्चर्यं विचच्या गतसाध्वसः । ननाम दण्डवद् भूमौ प्रहृष्टात्मा प्रजापतिः ॥ ४० ॥ कृष्णप्रिया व्याख्या
अन्वयः—यच्छक्तयः वदतां वादिनां वै विवादसंवादभुवः भवन्ति च एषाम् आत्ममोहम् मुहुः कुर्वति तस्मै अनंतगुणाय भूम्ने नमः ॥ ३१ ॥ * * अस्ति इति च न अस्ति इति वस्तुनिष्ठयोः भिन्नविरुद्धधर्मयोः एकस्थयोः योग- सांख्ययोः समम् किंचन अवेक्षितं तत् परं हि अनुकूलम् बृहत् || ३२ ॥ * * अनामरूपः यः अनतः भ
-
- अनामरूपः यः अनंतः भगवान् पादमूलम् भजताम् अनुग्रहार्थम् जन्मकर्मभिः नामानि च रूपाणि भेजे सः परमः मह्यं प्रसीदतु ॥ ३३ ॥ * * यथा पार्थिवं गुणम् आश्रितः अनलः यः प्राकृतैः ज्ञानपथेः यथाशयं जनानां देहगतः विभाति सः ईश्वरः मे मनोरथं कुरुतात् ॥ ३४ ॥ * * कुरुश्रेष्ठ इति तस्मिन् अघमर्षणे स्तुतः सः भक्तवत्सलः भगवान् संस्तुवतः आविरासीत् ॥ ३५ ॥ * सुपर्णा से कृतपाद: प्रलंबाष्टमहाभुजः चक्रशंखासिचर्मेषुधनुः पाशगदाधरः ।। ३६ ॥ * * पीतवासाः घनश्यामः प्रसन्नवदनेक्षणः वनमालानिवीतांगः लसच्छ्रीवत्सकौस्तुभः ॥ ३७ ॥ * महाकिरीटकदकः स्फुरन्मकरकुंडलः काञ्च्यङ्गुलीयवलयनूपुरांग- दभूषितः ।। ३८ ।। * * त्रिभुवनेश्वरः त्रैलोक्यमोहनम् रूपम् विभ्रत नारदनंदाद्यैः पार्षदैः सुरयूथपैः वृत्तः अनुगायद्भिः सिद्धगंधर्वचारणैः स्तूयमानः ।। ३९ ।। * * तत् महदाश्चर्यम् रूपम् विचक्ष्य आगतसाध्वसः ।। ४० ।। • १. प्राचीने पाठे श्रीशुक उवाच’ अयमंशो त । २. प्रा० पा० स्तवं । ३. प्रा० पा० प्रादुरा० ४, प्रा० पा०- २-विचित्राङगो । स्कं. ६ अ. ४ श्लो, ३१-४०] अनेकव्याख्यासमलङ्कृतम् श्रीधरस्वामिविरचिता भावार्थदीपिका १५३ नन्वेवं ब्रह्म चेद्विश्वस्य हेतुस्तर्हि ‘न कदाचिदनीदृशं जगत्’ इति वदतो मीमांसकाः कुतोऽत्र विवदते तैश्वान्ये स्वभाववादिनः संवदते ते च ते च तत्त्वविद्भिर्बोधिता अपि कुतः पुनःपुनर्मुह्यंति तत्राह । यस्य मायाविद्याद्याः शक्तयो विवादस्य क्वचित्संवादस्य भुवः स्थानानि मर्वति तस्मै नमः ॥ ३१ ॥ * * ननु किं तद्ब्रह्म यस्य शक्तयो विवादादिभुवो भवंति तत्राह । अस्तीति । योग उपासनाशास्त्रं तत्र हि विरारूपेणोपासनायां पातालपादादिकमस्तीत्युपास्यत्वेन विधीयते । नास्तीति सांख्यं ज्ञानशास्त्रं तत्र ह्यपाणिपाद: अचक्षुरश्रोत्रमिति च पादादि नास्तीति निषिद्धयते । तयोर्योगसांख्ययोर्यत्किंचि- त्सममनुवर्तमानमवेक्षितं प्रतीतं तद् बृहद्ब्रह्म । विवादास्पदं ब्रह्मेत्यर्थः । विवादं स्फुटयति । भिन्नावस्तिनातीत्येवंभूतौ विरुद्धौ धर्मों ययोस्तयोर्भिन्नविषयत्वेऽपि विरोधो न स्यादित्येकस्थयोरित्युक्तमेकविषययोः । कुतो वस्तुनिष्ठयोः पादादिविप्रतिषेधयोरेक- वस्तुनिष्ठत्वात् । समत्वे हेतुः । परम् । हि यतो विधिप्रतिषेधयोरविषयस्तयोः पादादिविषयत्वात् । तथा तर्ह्यविषयस्य सद्भावे किं प्रमाणं तदाह । अनुकूलमधिष्ठानं विना पादादिकल्पनायोगात् । अवधि विना तन्निषेधायोगाच्च । तयोरुपपादकत्वेन सिद्धमित्यर्थः । तस्मै नम इति पूर्वस्यानुषंगः ॥ ३२ ॥ ननूदासीनस्य समस्य नमस्कारे को लाभस्तत्राह य इति । * । पादमूलं भजतामनुग्रहार्थं प्राकृतनामरूपरहितोऽपि जन्मभिरवता रैर्विशुद्ध जितसत्त्वानि रूपाणि कर्मभिर्नामानि च यो भेजे । तत्कुतः । भगवान चित्यैश्वर्यः स मह्यं प्रसीदतु ॥ ३३ ॥ * * ननु त्वादृशाः सकामा गणेशादीन्प्रार्थयते त्वं तु तान्विहाय किमिति भगवंतमेव प्रार्थयसे तत्राह । प्राकृतैरर्वाचीनैर्ज्ञानपथैरुपासनामार्गेर्यथाशयं तत्तद्वासनानुसारेण यो देहगतोंतर्यामी । तत्तदेवतारूपेण विविधो भाति यथा वायुः पार्थिवं गुणं चंपकादिगंधभेदमाश्रित्य नानागंधवान्विभाति रेणोर्गुणं धूसरत्वादि- कमाश्रित्य नानारूपवान् प्रतीयते तद्वत्तस्यैव तत्तद्देवतारूपेण फलदातृत्वात्स ईश्वर एव मे मनोरथं सत्यं करोतु । किमंतर्ग- भिर्देवतांतरैरित्यर्थः । तदुक्तं गीतासु । “यो यो यां यां तनुं भक्तः श्रद्धयाऽचितुमिच्छति । तस्य तस्याचलां श्रद्धां तामेव विधा- म्यहम् । स तया श्रद्धया युक्तस्तस्याराधनमीहते । लभते च ततः कामान्मयैव विहितान्हितान् ।” इति । “ये यथा मां प्रपद्यं तांस्तथैव भजाम्यहम् ।” इति चेति ॥ ३४ ॥ संस्तुवतो दक्षस्य स भगवान् प्रत्यक्षोऽभूत् ॥ ३५ ॥ * * तं वर्णयति साधैश्चतुर्भिः । सुपर्णस्यां स्कंधे कृतौ पादौ येन । प्रलंबा अष्टौ महांतो भुजा यस्य । चक्राद्यष्टायुधधरः ॥ ३६ ॥ * * प्रसन्नं वेदनमीक्षणे च यस्य । वनमालया निवीतं कंठादिपादांतव्याप्तमंगं यस्य । लसंतौ श्रीवत्सकौस्तुभौ यस्य ॥ ३७ ॥ * महांति किरीटकटकानि यस्य । स्फुरती मकरकुंडले यस्य । कांच्यादिभिर्विभूषितः । वलयमत्र पादभूषणं द्रष्टव्यं कटकस्यो- तत्वात् ॥ ३८ ॥ * * त्रैलोक्यमोहनं श्रीपुरुषोत्तमाख्यम् । सुरयूथपैर्लोकपालैः ।। ३९-४० ।। वंशीधरकृतो भावार्थदीपिकाप्रकाशः 3 नन्वत्र मते सजातीयविजातीयस्वगत भेदा सहिष्णवोऽन्ये द्वैतवादिनो विवदते । तैश्वान्ये नैयायिकाः षोडशपदार्थ- वादित्वाद्वैतवादिनो विवदते तैश्चान्ये वैशेषिकाः संवदते तैः सर्वैश्चान्ये न कदाचिदनीदृशं जगदिति वदतो मीमांसका विवदते । तैश्वान्ये स्वभाववादिनः संवदते । ते च तत्त्वविद्भिर्बोधिता अपि कुतः पुनर्मुह्यतीति तत्राह । यच्छक्तयः यस्य मायाशक्तिवृत्तयो वदतां समादधतां वादिनां तत्राक्षेपकृतां विवादस्य क्वचित्संवादस्य च भुव उत्पत्तिहेतवो भवंति । प्रयोजनमाह - आत्म- मोहमिति । आत्मानं जिज्ञासमानानामपीत्यर्थः । मुहुरिति तत्राविच्छेदः सूचितः । अनंतगुणायेत्यनं तशब्दस्यानेकार्थत्वेनानां- शवाचित्वात् गुणानामनश्वरत्वं निःसीमत्वं चोक्तम् “इमे चान्ये च भगवन्नित्या यत्र महागुणाः” इति पृथिव्युक्तौ नित्या इति पदेन “नांतं गुणानामगुणस्य जग्मुर्योगेश्वरा ये भवपाद्ममुख्याः” इति सूतोक्तौ च अगुणस्येति योगेश्वरा इति पदाभ्यां “ज्ञानशक्तिबलैश्वर्यवीर्यतेजस्यशेषतः । भगवच्छब्दवाच्यानि विना हेयेर्गुणादिभिः ।” इति पराशरोक्तौ च विना हेयैरित्युपन्या- सेन च तदीयगुणानामप्राकृतत्वाववगमे ऽऽप्यवास्तवत्वमाचक्षाणास्तेऽपराधिनः कथमविद्यया न मुह्यतामिति भावः ॥३१॥ * * ननु ते शास्त्रज्ञाः किमिति निन्द्यते शास्त्राणामेवैकमत्या भावेन परस्परविरोधादिति चेन्मैवं वादिरित्याह- अस्तीति । योग- सांख्ययोः योगो भक्तियोगशास्त्रं सांख्यं ज्ञानशास्त्रं तयोस्तत्प्रसिद्धं परं सर्वोत्कृष्टं बृहद्ब्रह्मसममनुकूलन यथा स्यात्तथाऽवेक्षितं परस्परविरुद्धयोस्तयोर्द्वयोरेव शास्त्रयोरवेक्षणे किमपि वैषम्यं प्रातिकूल्यं च नास्तीत्यर्थः । तयोः कथंभूतयोः योगशास्त्रे हि “कृष्णं पिशंगांबर मंबुजेक्षणं चतुर्भुजं शंखगदाद्युदायुधम्” इत्यादिना नामरूपगुणपाणिपादाद्यंगोपांगपार्षदधामादि अस्तीत्युपा- स्यत्वेन विधीयते । सांख्यशास्त्रे ह्यनामरूपगुणमपाणिपादम चक्षुरश्रोत्रमेकमद्वितीयमपि नामरूपादिकं नास्तीति निषिध्यते इत्येवंभूतौ भिन्नौ परस्परविरुद्वौ च धर्मों ययोस्तयोर्भिन्नविषयत्वे विरोधो न स्यादित्येकस्थयोरित्येकस्मिन् ब्रह्मण्येव तिष्ठत इत्येकं ब्रह्मैव विषयीकुर्वतोरित्यर्थः । ननु तर्हि कथमवैषम्यमप्प्रातिकूल्यं वा तत्राह - वस्तुनिष्ठयोः । वस्तुनि वास्तववस्तुन्येव निष्ठा प्रतिपादकत्वलक्षणा ययोस्तेन ययोस्तेन भक्तिशास्त्रं त्रिधिना वास्तवं वस्त्वेव प्रतिपादयति न त्ववास्तवं तथा ज्ञानशास्त्रं च निषेधेन तदेव २० এড় १५४ श्रीमद्भागवतम् [ स्कं. ६ अ. ४ श्लो. ३१-४० प्रतिपादयति न त्ववास्तवं तेन भक्तिशास्त्रेण परमेश्वरस्य रामकृष्णादिमूर्त्तर्नामरूपादिकवस्तुप्रतिपादने सिद्धे ज्ञानशास्त्रमपि स्वस्य वस्तुनिष्ठत्वादेव तस्य नाम रूपादिकं नैव निषिध्यति किं तु तस्य मायिकमूतैर्विराज एवात एव पुनर्भक्तिशास्त्रमपि ज्ञानशास्त्र- निषिद्धं विराड्रूपमुपास्यत्वेन नोपादत्ते तदुक्तम् “अमुनी भगवद्रूपे मया ते ह्यनुवर्णिते । उभे अपि न गृह्णति माया सृष्टे विपश्चितः” इति विराड्र पस्यापि धारणायामुपादानं तु कस्यचिदेव प्रथमदशायामेव चित्तशुद्ध द्यर्थमेव न तु सर्व दोपासनार्थमिति तु भक्तिज्ञानशास्त्रयोर्वस्तुतस्त्वविरोध एवेति शास्त्राविरोधेऽपि विवदमानाः शास्त्रतात्पर्यमविद्वांसो दार्शनिका एव विगीता इति भावः । संदर्भस्तु तत्र विवादावसरे तादृशगुणरूपबृंहितखरूपमपि सिद्धयतीत्याह - अस्तीति योगः स्थूलोपासनाशास्त्रं तत्र हि भगवतो नामरूपित्वं श्रूयते तत्र दृष्टकल्पनालाघवात् । घटपटादिलक्षणा खिलनामधेयत्त्वं पातालपादादिकत्वं चेति विधीयते नास्तीति । सांख्यं ज्ञानशास्त्रं तत्र हि निषेधश्रुतिभिस्तत्य नामरूपित्वं यन्निषिध्यते तत्प्रापंचिकनामरूपित्वस्य नास्तीति निश्चीयते तदुक्तम् " उभयमतमस्यैव प्राक्ससर्वनाम” इत्यादिना ‘यद्यन्निरुक्तम्’ इत्यादिना च अस्तीति वस्तुनिष्ठा ययोस्तमेव विवाद स्फुटयति भिन्नौ अस्तीति नास्तीत्येवंभूतौ विरुद्धौ धर्मों ययोस्तयोः नन्वास्तामनयोर्भिन्नविषयत्वं नेत्याह-एकस्थयोः समान- विषययोः । तदेवं विवादे सति तयोर्यत्किञ्चन समं समंजसत्वेनैवावेक्षितं प्रतीतं वस्तु तद्वयोरपि बृहदनुकूलं भवति किं तत्समंजसं यत्परं नामरूपादत्यंतं तदभावाच्च विलक्षणं यत्र युगपन्नामरूपि त्वमनामरूपित्वमपि वक्तुं शक्यते तद्विलक्षणं वस्त्विस्यर्थः । एतदुक्तं भवति - एकस्मिन्नेव वस्तुनि नामरूपित्वविधिनिषेधाभ्यां परस्परं श्रुतयः पराहताः स्युः अत्र तु परत्वेनो- भयत्रापि प्राक्तनयुक्त्या समंजसमप्राकृतप्राकृतनामरूपित्वमेव विधिनिषेधश्रुतितात्पर्येणोपस्थाप्यते इति तन्मतं विवादमात्रम् । इत्थमेव श्रीवेण निर्विवादत्वमुक्तम् “तिर्यङ्नगद्विजसरीसृपदेवदैत्यमर्त्यादिभिः परिचितं सदसद्विशेषम् । रूपं स्थविष्ठमज ते मह- दाद्यनेकं नातः परं परम वेद्मि न यत्र वादः" इति स्वामिचरणैरपि निर्विवादत्वमेव व्याख्यातमित्यर्थ इत्यं तेनाधिष्ठानं विनेत्यादि- नेति । ‘सति कुडये चित्रम्’ इति न्यायेनाधिष्ठानं विनेत्युक्तं यथा शतपुरुषपंक्तिमध्ये ज्ञातुमिष्टस्य पञ्चाशत्तमस्य विष्णुमित्रशर्मणो ज्ञानार्थ तद्विज्ञं पृच्छति प्रथमत आरभ्यायं विष्णुमित्रशर्माऽयं विष्णुमित्रशर्मेति वदंतं तज्ज्ञाता वदति नायं नायमिति पंचाश- तमस्यैवमवधित्वात्तदपेक्षायान्येषां निषेधो नान्यथा ‘तद्वदचक्षुरश्रोत्रम्’ इत्यादिश्रुतावपीति भावः ॥ ३२ ॥ * * पुनराक्षिपति नन्विति । तत् नामरूपरहितस्यापि नामरूपभजनं कुत इति । विश्वनाथस्तु अतो नामरूपादिविधिनिषेधाभ्यां शास्त्रद्वयाविरोधं व्यंजयन्भक्तवत्सलस्य भगवतः स्वस्मिन्ननुग्रहं प्रार्थयते य इति । स्वामिवत् । संदर्भस्तु यो नामरूपरहित एव नामानि रूपाणि प्रकटितवान् जन्मकर्मभिः सह तानि भेजे व्यतिरेके दोषमाह - अनंत इति । यदि तस्मिन्नामरूपत्वादिकं नास्ति तर्हि तच्छक्तिमत्त्वं प्रति सांतत्त्वं प्रसज्येतेति तदुक्तं प्रचेतोभिः “न तो यद्विभूतीनां सोऽनंत इति गीयते” इति तत्प्रकाशने हेतुः । भगवान् भगात्मशक्तिमान् । तस्याः शक्तेर्मायात्वं निषेधति परमः पराख्यशक्तिरूपा मा लक्ष्मीर्य - स्मिन् अन्यथा परमत्वव्याघातः स्यादिति भावः । तस्मान्न मायया सर्व सर्वमैश्वर्यसंभवम् । “अमायो हीश्वरो यस्मात्तस्मात्तं परमं विदुः ।" ननु सर्वनामविश्वरूपत्वे तद्राहित्ये च संत्येव तत्तदुपासका प्रमाणम् अत्र तु के स्युरित्याशंक्याह पादमूलं भजतामनुग्रहार्थमिति योगसांख्ययोस्तत्तत्त्वं न सम्यक्प्रकाशते किन्तु भक्तावेव ‘भक्तिरेवैनं दर्शयति’ इति श्रुतेः । तस्माद्युक्तं तयोर्विवादमात्रत्वमिति भावः । अत एव वक्ष्यतेऽनंतरमेव इतीत्यादौ प्रादुरासीदित्यनेन तान्प्रति रूपप्राकट चात्पूर्वमपि रूपम- स्त्येवेति व्यंजितम् । ‘चरणं पवित्रं विततं पुराणम्’ इत्यादिश्रुतेः भेज इत्यतीतनिर्देशः प्रामाण्यदाद चयानादित्वं दर्शयति अनंतस्य नामानि रूपाणि चानं तान्येवेति भावः ॥ ३३ ॥ पुनराक्षिपति नन्विति - विभूतिकामस्य तव तत्तद्विभूतिसंवलित- गणपत्याद्युपाधित्वेनैव यमोपासना युक्ता कथं सर्वात्मना निरुपाधित्वेन स्तौषि तत्राह तत्र तत्रानिलवत्स्वकार्यकरत्वं भगवत एव न तूपाधेरिति स्थिते किमुपाधिभावनयेति भाव इति संदर्भ: । विश्वनाथस्तु तदेवम् ‘न यस्य सख्यम्’ इत्यनेन ‘सर्व पुमान्वेद्’ इत्यनेन च जीवेश्वरयोरल्पज्ञत्व सर्वज्ञत्वाभ्यां वास्तवमेव पार्थक्यमवधारितमेव ततश्च यदोपराम इत्यनेन मनीषिणतर्हृदीत्यनेन च तस्यैवेश्वरस्यैकस्याप्यलौकिक निर्विशेषसविशेषज्ञानगम्यत्वेन निर्विशेषं सविशेषस्वरूपं च यथामति व्यंजितं पुनश्च स वै ममाशेषेति त्रयेण मायिकवस्तूनां तद्रूपत्वेपि तत्स्वरूपभूतत्वाभाव उक्तः पुनरस्तीति नास्तीति द्वयेन भक्तिशास्त्रज्ञानशास्त्रयोर- विरोधो गूढोऽपि स्पष्टीकृतः । इदानीं ये जीवेश्वरयोः पार्थक्यमुपाधिकृतमेव न वास्तवमित्याचक्षते तेषां ज्ञानिमानिनाम- समंजसपथगामित्वं व्यंजयन्स्वमनोरथसिद्धिं प्रार्थयते य इति । यथाशयं दुष्टं शिष्टं वांतःकरणमनतिक्रम्य तद्धर्माक्रांत एव विभाति जीवरूपेण भासते यथा वायुः पार्थिवं दुष्टं शिष्टं वा गंधमाश्रित्य नानागंधवान्भाति न वस्तुत इति चक्रवर्ती । इत्यर्थ इति । तस्यैव सर्वदेवतारूपत्वात् “शैवाः सौराश्च गाणेशा वैष्णवाः शक्तिपूजकाः । मामेव प्राप्नुवंतीह वर्षापः सागरं यथा । " इति स्मृतेरयं भावः । एतच्च श्रीदशमेऽक्रूरस्तुतौ विस्तरेण वर्णयिष्याम इति । ‘योग्य’ इति गीतावाक्यं स्पष्टार्थत्वान्न व्याख्यातम् ॥ ३४ ॥ * * इतोत्थं हंसगुह्यस्तोत्रेणेत्यर्थः ॥ ३५ ॥ * * सुपर्णांसे गरुडस्कंधे ।। ३६-३७ ।। * * कटकं पादकटकमिति केचित् ।। ३८-३९ ।। आ सर्वतो गतं साध्वसं भयं यस्य स तथा ॥ ४० ॥ स्कं. ६ अ. ४ श्लो. ३१-४० 1 1 अनैकव्याख्यांसमलंकृतम् अन्वितार्थप्रकाशिका । नन्वेवंभूते विश्वस्य हेतौ ब्रह्मणि मीमांसकतार्किकादयो विवदन्ते तत्राह - यदिति । यस्य मायाविद्याद्याः शक्तयो वदतां वादिनां कचिद्विवादस्य क्वचित्संवादस्य च भुवः कारणानि भवन्ति एषां पण्डितंमन्यानां मुहुर्निरन्तरमात्मनः मनसो मोहं च कुर्वन्ति तस्मै अनन्तगुणाय भूम्ने व्यापिने नमः ॥ ३१ ॥ एवं विवादादिकं प्रदर्श्य तदुदाहरणं दर्शयन् धर्मिणि विवादाभावमाह-अस्तीति । योग उपासनाशास्त्रं तत्र हि विरारूपेणोपासनायां पातालपादादिकमस्तीत्युपास्यत्वेन विधीयते । साङ्ख्यं हि ज्ञानशास्त्रं तत्र हि अपाणिपादमित्यादिना तस्य नामरूपादिकं नास्तीति निषिद्धयते इति । अस्तीति नास्तीति च भिन्नौ भावाभावात्मकतया विरुद्धौ धर्मों प्रतिपाद्यतया ययोस्तयोः वस्तुनि परमात्मनि निष्ठा ययोस्तयोः एकस्थयोः एकस्मिन्नेव तिष्ठतो: ब्रह्मैव प्रतिपादयतोः तयोर्योगसाङ्ख्यशास्त्रयोः यत्किंचन समनुगतम् अनुकूलं विवादापनोदसाधकं वस्तु अवेक्षितं प्रतीतं तद्बृहद्ब्रह्मैव तस्मै नम इत्यनुषङ्गः । अयं भावः । यद्यपि योगसायप्रोक्तौ भगवति पादादिसद्भावासद्भावौ एकत्रैव विरुद्धत्वात् विरुद्धौ प्रतीयेते । तथापि अनुकूलमधिष्ठानं विना पादादिकल्पनायोगात् अवधिं विना तन्निषेधायोगाच्च तयोरुपपादकं ब्रह्म सिद्धमेव अतो वस्तुतो योगसाङ्गयप्रोक्तपादादितदभावयोरपि न विरोधः । उपासनायां कल्पनामात्रत्वात् । भक्तास्तु योगशास्त्रं भक्तियोगशास्त्रं तत्र गुणरूपनामादिकं भगवत्यस्तीत्युक्तम् । साङ्ख्यशास्त्रे च गुणरूपादि नास्तीत्युक्तं तत्र यानां प्राकृतानां च गुणादीनां निषेध इति वस्तुतो न विरोध इत्याहुः ॥ ३२ ॥ * * य इति । यो भगवानचिन्त्यैश्व- र्यादिमाननन्तः देशकालवस्तुपरिच्छेदशून्यः अनामरूपः प्राकृतनामरूपरहितोऽपि स्वपादमूलं भजतामनुग्रहार्थं जन्मभिरवतारै- विशुद्धसत्त्वानि रूपाणि कर्मभिर्नामानि च भेजे तत्तसमये प्रकटितवान् स परमः परमेश्वरो मह्यं प्रसीदतु ॥ ३३ ॥ * * य इति । योऽन्तर्यामी जनानां सर्वदेहगतोऽपि प्राकृतैरर्वाचीनैर्ज्ञानपथैरुपासनामार्गेर्यथाशयं तत्तद्वासनानुसारेण तत्तदेवता- रूपेण विभिन्नतया भाति तत्तद्देवतारूपेण ईश्वरस्यैव फलदातृत्वात् । यथा पार्थिवं गुणं धूसरत्वादिकमाश्रित्यानिलो विविधनाम- रूपवान् विभाति तथेत्यर्थः । स ईश्वर एव मे मम मनोरथं सत्यं कुरुतात् किं देवतान्तरैः परापेक्षैः ॥ ३४ ॥ * * इतीति । हे कुरुश्रेष्ठ ! इत्येवं तस्मिन्नघमर्षणसंज्ञके तीर्थे संस्तुवतो दक्षस्य स्तुतो भक्तवत्सलः स भगवानाविरासीत् ।। ३५ ।। * तं वर्णयति- - कृतपाद इति । सुपर्णस्यांसे स्कन्धे कृतौ पादौ येन प्रलम्बा अष्टौ महान्तो भुजा यस्य सः चक्राद्यष्टायु- धधरः ॥ ३६ ॥ * पीतेति । पीते वाससी यस्य सः घन इव श्यामः प्रसन्नं वदनमीक्षणे च यस्य सः वनमालया निवीतं कण्ठादिपादान्तं व्याप्तमङ्गं यस्य सः लसन्तौ श्रीवत्सकौस्तुभौ यस्य सः श्रीवत्सो रोमावर्तविशेष: कौस्तुभो मणिः ॥ ३७ ॥ * महाकिरीटेति । महान्ति किरीटकटकानि यस्य सः स्फुरन्ती मकराकारे कुण्डले यस्य सः कान्च्यादिभिर्विभूषितः कटकौ पादयोः वलयौ करयोः ॥ ३८ ॥ * त्रैलोक्येति । त्रैलोक्यमोहनं श्रीपुरुषोत्तमाख्यं सुरयूथपैरिन्द्रादिभिर्लोकपालैः स्पष्टं शेषम् ॥ ३९ ॥ * * स्तूयमान इति । एवंभूत आविरासीत् इत्येकक्रियान्वयः । स्पष्टं शेषम् । रूपमिति । तस्य भगवतो महदाश्चर्यमत्यलौकिकं मनोहरं रूपं विचक्ष्य दृष्ट्वा प्रहृष्ट आत्मा यस्य सः अत एवागतसाध्वसः जातसम्भ्रमः प्रजापतिर्दक्षो दण्डवत् भूमो ननाम ॥ ४० ॥ 1 1 वीरराघवव्याख्या ननु विश्वं परमाणुकारणकमीश्वरस्तु निमित्तमिति वैशेषिकादयः । प्रधानकारणकं पुरुषातिरेकेणेश्वरः स्यान्न वा पुरुषस्तु निमित्तमात्रमिति साङ्ख्यादयो वदन्ति । किञ्च । सर्वमपि वस्तु नित्यमनित्यं च भिन्नमभिन्नचेति । तथा सदसत् सदसदात्मकचेति वदन्ति । अतः कथं कृत्स्नस्य जगतः ब्रह्मैककारणत्वं तदनन्यत्वञ्चोच्यते इतीमां शङ्कां परिहरन्नमस्करोति । यच्छक्त इति वदतां ग्रन्थनिबन्धनेन स्वशास्त्रमुपदिशतामित्यर्थः । वादिनां वादं कुर्वतां वैशेषिकादीनां यस्य परमात्मनः शक्तयः पृथिव्यादयः विवादसम्वादयोः परस्परविरुद्वयोः वादयोः भुवः विषयभूता भवन्ति । शक्तिशब्देन पृथिव्यादय उच्यन्ते । तेषां भगवतः कार्योपयोग्य पृथक सिद्धविशेषणत्वात्तथा च भगवान् पराशरः “एकदेशस्थितस्याग्नेज्र्ज्योत्स्ना विस्तारिणी यथा । परस्य ब्रह्मणः शक्तिस्तथेदमखिलं जगत्” इति जगदात्मकान् पृथिव्यादीन् शक्तिशब्देन व्यपदिष्टवान् । ननु सर्वैरपि पृथिव्यादिस्वरूपाभ्युपगमान्नाने कविवादभुवस्तत्राह । कुर्वन्तीति । यस्य शक्तयः पृथिव्यादयः आत्ममोहं स्वविषयकमोहं तेषां वादिनां कुर्वन्ति । पृथिव्यादिस्वरूपाभ्युपगमेऽपि परमाणुकारणकत्वनित्यानित्यत्वभिन्नाभिन्नत्वसदसत्त्वादिप्रकारविप्रतिपत्तिं कुर्वन्ति । प्रधानकारणकत्वविप्रतिपत्तिविषयप्रकारवत्यः शक्तयो भवन्ति इत्यर्थः । तस्मै अनन्तगुणायासङ्घ चेयकल्याणगुणगणाय भूम्ने स्वरूपतोऽपि बृहते नमः । यद्यप्येवं वादिनां विवादास्तथापि पृथिव्यादीनां परमात्मशरीरत्वतत्कारणकत्वयोः पृथिव्या- स्थाया अनित्यत्वेऽपि द्रव्यस्य नित्यतायाः तस्य सतत परिणामत्वेनासदात्मकत्वानादेश्व श्रुतिस्मृत्यादिबहुप्रमाणप्रतिपन्नत्वेना- १५६
- श्रीमद्भागवतम् । ان میں [ स्कं. ६ अ. ४ लो. ३१-४० वैदिकानां केवलं विप्रतिपत्तिरेवेति भावः । श्रुतयस्तु “यस्यात्मा शरीरं यस्य पृथ्वी शरीरं यस्याक्षरं शरीरं यस्याव्यक्तं शरीर- मात्मन आकाशः सम्भूतः तोयेन जीवान् विससर्ज भूम्यां नासदासीन्नो सदासीत्तदानीं तम आसीत् ” इत्यादयः स्मृतयश्च “विष्णोः सकाशादुद्भूतम् अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा । यदम्बु वैष्णवः कायस्ततो विप्र ! वसुन्धरा । पद्माकारा समुद्भूता पर्वताब्ध्यादिसंयुता । तदेतदक्षयं नित्यं जगत् स्थावरजङ्गमम् । प्रकृतिं पुरुषं चैव विद्वचनादी उभावपि । सद्भाव एवं भवतो यमोक्को ज्ञानं यथा सत्यमसत्यमन्यत्" इत्यादयोऽनुसन्धेयाः । अनन्तगुणायेत्यनेन निर्गुणत्ववादी भ्रममूलक इति सूचितम् । “यः सर्वज्ञः सर्ववित्" इत्यादिबहुश्रुतिभिः कल्याणगुणा करत्वस्य सम्प्रतिपन्नत्वात् । भूम्न इत्यनेन जीवानामभूमत्वं ज्ञापतम् । एवं पृथिव्यादिस्वरूपाभ्युपगमेऽपि तत्प्रकारविप्रतिपत्तिरुक्तेति ॥ ३१ ॥ इदानीं परमात्मरूपप्रतिपत्ति वदन् वादिविप्रतिपत्तीनां शास्त्रानुसारेण परिहार्यत्वमाह । अस्तीति । घटपटादिवस्तुनिष्ठावस्तित्वनास्तित्वधर्मौ दृष्टौ योग- साङ्ख्ययोर्मतयोः । तावेकस्थावीश्वरविषयौ चेद्विरुद्वौ स्याताम् । एवमस्तित्वनास्तित्वयोभिन्नयोर्विरुद्वयोर्धर्मयोर्व्यवह्रियमाणयोः सतोरप्यकिञ्चनापेक्षितं वेदान्तवाक्यमपेक्षितम् । अतीन्द्रियेश्वरविषयकास्तित्वनास्तित्वयोः प्रमाणजिज्ञासायामनादिनिधाना- विच्छिन्न सम्प्रदायासम्भाव्यमानदोषगन्धं वेदान्तवाक्यमेव प्रमाणमपेक्षितमित्यर्थः । तच वेदान्तवाक्यं “ सत्यं ज्ञानम्” इत्यादि । तद्गम्यं च सममेकरूपमनु कूलमानन्दरूपं परं सर्वविलक्षणं बृहदपरिच्छिन्नमतो वेदान्तवाक्यरूपं प्रमाणं विहाय केवलास्तित्वनास्तित्वविवादो भ्रममूलो व्यर्थ इति भावः । यद्वा । अनन्तगुणायेत्यनेन गुणा न सन्तीति वादो भ्रममूल इति सूचितम् । तदेवोपपादयति । अस्तीति । “यः सर्वज्ञ” इत्यादिभिर्गुणजात मस्तीत्यवगम्यते निष्क्रियं निष्कलमित्यादि- भिनैर्गुण्यं तौ चास्तित्वनास्तित्वधर्मावुभावेकवस्तुनिष्ठ चेद्विरुद्धौ । तयोश्च भिन्नाधिकरणयोर्विरुद्वयोर्धर्मयोर्वस्तु- निष्ठयोरेकस्थयोः सतोरे कस्मिन्वस्तुनि तयोर्विरोधे सतीत्यर्थः । तत्रान्यतरव्यवस्थापकं किञ्चिद्रह्मस्वरूपशोधकं वेदान्त- वाक्यं प्रमाणमपेक्षितम् । एवं साङ्ख्ययोगयोरपि समं तुल्यं तयोरपीश्वरस्वरूपसद्भावाभावयोर्विरोधे सत्यन्यतरव्य- वस्थापकं किञ्चित्प्रमाणमपेक्षितमित्यर्थः । तच्च वाक्यं “सत्यं ज्ञानमनन्तं ब्रह्म" इत्यादिकं तद्वाक्यप्रतिपन्नं च वस्तु परम- नुकूलं बृहच । परत्वानुकूलत्व बृहत्त्वादिगुणयुक्तमिति निर्गुणवादो निरीश्वरवादश्च भ्रममूलक इति भावः । योगसाङ्ख्ययोरिति दृष्टान्तार्थं तयोर्मध्ये यथा निरीश्वरवादस्तथागुणासत्त्वत्वादोऽपीति । अत्र परशब्देन प्रकृतिपुरुषविलक्षणवाचिना सत्यशब्दार्थो विवक्षितः । अनुकूलशब्देन ज्ञानशब्दार्थो व्याख्यातः । आनन्दरूपज्ञानस्यैवानुकूलत्वात् बृहत्पदेनानन्तशब्दार्थः । स्वरूपेण गुणैश्चापरिच्छिन्नं हि बृहच्छब्दार्थः सङ्कोचकप्रमाणाभावात् ॥ ३२ ॥ ४ ४ एवं वादिनां विप्रतिपत्तिविषयत्वेन ब्रह्म- स्वरूपतद्गुणतच्छक्तीनां दुर्ज्ञेयत्वमुक्तम् । अथैवं दुर्ज्ञेयस्वरूपगुणशक्तिरप्याश्रितसुलभ इति वदन् तदनुग्रहं प्रार्थयते । यो भगवान् स्वपादमूलं भजतामनुग्रहार्थ स्वयमनामरूपः । कर्मकृतनामरूपरहितोऽपि जन्मकर्मभिरवतारचेष्टितैः सह नामानि दुरित- क्षपणक्षमाणि रामकृष्णादिनामानि रूपाणि स्वेच्छोपात्तान्यप्राकृतानि शरीराणि च भेजे आत्मानं दर्शयितुं परिगृहीतवान् । स परमः निःसमाभ्यधिकः मह्यं प्रसीदताम् ॥ ३३ ॥ * * एवं स्वेच्छोपात्ताप्राकृतदिव्यमङ्गलविग्रहविशिष्टो भक्तानुग्रहार्थ - मवतीर्णस्तैरुपलभ्यत इत्युक्तम् । विश्वरूपेणापि तैरुपलभ्यत इत्याह । यः प्राकृतैरिति । प्राकृतार्थगोचरैर्ज्ञानपथैरिन्द्रियैर्यथाशयं ह। । मनोवृत्त्यनुगुणमिन्द्रियाणां मनोवृत्त्यनुगुणप्रवृत्तेः देहगतः स्वदेहभूतचिदचिद्वस्तुगतो विभाति प्रकाशते । अयमर्थः । यथा राज- शरीरे दृष्टे राजा दृष्टो भवति एवं जगतः परमात्मशरीरत्वात् जगद्याथात्म्यविद्भिर्जगद्दर्शने सति परमात्मा दृष्टो भवतीति । जगद्विलक्षणस्याप्यस्य विशिष्टतया प्रकाशे दृष्टान्तमाह । यथाऽनिल इति । स्वयं पृथिवीविलक्षणो वायुः पार्थिवगुणमाश्रितः पार्थिवपुष्पपरागसंस्पृष्टो गन्धवह इति प्रकाशते । तद्वज्जगद्विलक्षणोऽपि जगच्छरीरकत्वात्तन्मात्ररूपभाक्तया परमात्मावभासत इत्यर्थः । " काठिन्यवान् यो बिभर्ति तस्मै भूम्यात्मने नमः" इत्याद्युक्तम् ॥ ३४ ॥ * एवं तुभ्यमुपदिष्टेनानेन स्तोत्रेणभिष्टुतो भगवान् प्राचेतसस्य प्रसन्नोऽभूदित्याह मुनिः । इतीति । हे कुरुश्रेष्ठ ! इतीत्थं स्तुतो भगवान् तस्मिन्नघमर्षणे तीर्थे संस्तुवतो दक्षस्य प्रादुरासीत् प्रत्यक्षोऽभूत् पुरत इति शेषः । तत्र हेतुः भक्तवत्सलः ।। ३५ ।। * * प्रादुर्भूतं भगवन्तं वर्णयति । कृतपाद इति । सुपर्णस्य गरुत्मतों से स्कन्धयोः कृतौ विन्यस्तौ पादौ येन । प्रलम्बा आजानुलम्बिनः अष्टौ महाभुजा यस्य । शङ्खाद्यायुधधरः । तत्रासि: खङ्गः चर्म खेटः || ३६ ॥ * * पीते वाससी यस्य सः । घन इव श्यामः प्रसन्नं वदनमीक्षणं च यस्य सः । वनमालया निवीतमङ्गं यस्य सः । लसन श्रीवत्सः कौस्तुभश्च यस्य सः ।। ३७ ।। ** महान्ति किरीटं स्फुरन्ती कटके च यस्य सः । मकराकारे कुण्डले यस्य काञ्चचादिभिभूषितः अलङ्कृतः । तत्र काञ्ची कटिमेखला वलयमत्र पादभूषणं कटकस्योक्तत्वात् ॥ ३८ ॥ * * त्रैलोक्य मोहयतीति त्रैलोक्यमोहनं नन्द्यादित्वाल्ल्युः । श्री पुरुषोतममन्त्रोपास्यं श्रीपुरुषोत्तमाख्यं तद्रपं विभ्रत विभव तद्रूपं बिभ्रत् त्रिभुवनेश्वरः । नारदादिभिः पार्षदैः सुरश्रेष्ठैश्व परिवृतः । अनु पृष्ठतो गायद्भिः सिद्धादिभिरनुवृतः अनुसृतः एवम्विधः प्रादुरासीदिति पूर्वेणान्वयः ॥ ३६ ॥ * * तन्महदाश्चर्य भगवतो ।। रूपम्विलोक्य गतसाध्वसः वीतभयः प्रजापतिः प्राचेतसः प्रहृष्टचित्तो भूमौ दण्डवन्नमस्कृतवान् ॥ ४० ॥ 1 एक. ६ अ. ४ श्लो. ३१-४० 1 अनेकव्याख्यासमलङ्कृतम् विजयध्वजतीर्थकृता पदरत्नावली : १५७ अनिरुक्तात्मशक्तिरित्येतद्विवृणोति । यच्छक्तय इति । विवादसम्वादभुवः विप्रतिपत्तिसंप्रतिपत्त्योर्भुवो विषयाः बदतां वादं कुर्वतां वादिनां मतमज्ञाननिमित्तमित्याह । कुर्वन्तीति ।। ३१ ।। * विवादसम्वादौ च कथंकारं स्वातामिति तत्राह । अस्तीति । यद्भिन्नयोर्विरुद्धयोर्धर्मयोरपेक्षितं विषयः किमाकारयोर्मदन्य ईश्वरोऽति नास्तीति वादिभिः प्रतिपाद्यमानयोः । भिन्नत्वविरुद्धत्वे कथमत्राह । वस्त्विति । भिन्नवस्तुनिष्ठत्वात् एकस्मिन्वस्तुनि स्थितयोरित्यङ्गीकारे विरुद्वयोः । यद्यप्येकस्य स्वरूपेण सत्त्वं परस्वरूपेणासत्त्वमिति द्वौ धर्मों स्तः तथापि नैतादृशी एते सत्त्वासत्त्वे स्वरूपस्यैवेति यत इति द्योतनायेति पदद्वयं यच किञ्चनालौकिकं यच्च साङ्ख्ययोगयोः समं कर्मानुष्ठानलक्षणयोगप्रदिपाककर्मकाण्डे तत्फलदातृत्वेन प्रतिपाद्यं साङ्ख्चे च यथार्थज्ञानसाधनं वेदान्ते विचारितं तच्चानुकूलं सर्वेषां प्रियतमं तत्तद्वादिनां तत्तद्बुद्धि- जनकत्वेन तत्तदनुरूपफलदातृत्वेन वर्तमानं वा तत्परं बृहत् परं ब्रह्म प्रपद्य इति वाक्यशेषः । सर्वदा वर्धमानं न कदाप्यन्यथा भूतमित्यतो बृहदिति अस्तित्वपक्ष एव श्रेयान्न वितरः । तस्य दुष्टत्वादिति विशदीकरणायं साङ्ख्ययोगयोरिति विशेषणं “सर्वे वेदा यत्पदमामनन्ति” इति श्रुतिं हिशब्देन सूचयति । अस्ति द्वैतं वस्त्विति निष्ठा साङ्ख्योगयोः नास्ति तद्वेतं वस्त्वद्वैतमेवेति निष्ठासुरीत्यतो वा हीति । तदुक्तम् “मदन्यो नास्ति सर्वेश इति विद्धयासुरं मतम् । अस्तीति दैवमुभयोर्हरिरेव ह्यपेक्षितः । निषेधविध्योर्विषयः फलदाता च केशवः । तादृम्बुद्धेः कारणं च स्थानयोश् चोचनीचयोः" इति ( १ ) ॥ ३२ ॥ ** इतोऽपि मदन्य ईश्वरोऽस्तीति पक्ष एव श्रेयानित्यभिप्रेत्याह । योऽनुग्रहार्थमिति । योऽनन्तो भगवान् पादमूलं भजतामनुग्रहार्थ जन्मकर्मभिर्नामनि रूपाणि च भेजे स परमो मह्यं प्रसीदतामित्यन्वयः । अलौकिकत्वेन तं विशिनष्टि । अनामरूप इति । देवदत्तकर्मवदीशकर्मणामप्रत्यक्षत्वाद्विष्णुमित्ररूपाणामदर्शनादनामरूपः । न तु स्वरूपकर्मोज्झितत्वात् “यदा पश्य: पश्यते रुक्मवर्ण कर्तारमीशम् अथैनमाहुः सत्यकर्मेति सर्वकर्मा सर्वनामा सर्वरूपः" इत्यादिश्रुतेः । अवतारैर्नामकर्मणां दर्शनाच | तदुक्तं “तत्कर्मणामदृष्टत्वादनामाचाप्यदर्शनात् । अरूपस्त्ववतारेण रूपकर्माणि दर्शयन् । नित्यरूपो नित्यकर्माप्यव्यक्तत्वमवेक्ष्य तत् । अरूपकर्मेत्युदितो रूपकर्मोज्झितेर्न तु” इति । किञ्च । भगवद्वयतिरिक्तपुरुषानुपपन्नार्थवाचि नाम यत्य सोऽनामा यथा मुक्तानां परमा गतिः कमलाकान्त इति कंसादिनिमहादवाप्तं कंसारिः मुरारिरित्यादिवाच्यार्थ समत्वात् सर्वनामा मूलरूपस्या- त्यन्तमव्यक्तत्वादरूपः अनामासोऽधिकार्थत्वादव्यक्तत्वादरूपकः । कंसारित्वादिसाम्यार्थो व्यक्तरूपोवतारगः” इति “लोक- दृष्टयाधिकार्थानि मूलनामानि केशवे । अथ दामोदरादीनि लोकदृष्ट्या समानि तु " आनन्दोऽव्यक्तरूपरंतु मूलरूपमुदाहृतम् । स एव व्यक्तिमापन्नः प्रादुर्भाव उदाहृतः ।” इति अनेन उक्तस्मृत्यर्थोऽपि स्पष्टीकृत इति ज्ञातव्यम् ॥ ३३ ॥ * * यथाधिकारं स्वविषयज्ञानस्य तारतम्यजनकत्वेन प्रमाणसिद्धत्वान्मदन्यो ना तीश्वर इति मतमासुरमित्याशयेनाह । यः प्राकृतै- रिति । यो भवान् प्राकृतैर्ज्ञानिपथैर्जनानां स्वबुद्धयनुसृतसिद्धान्तेन विभाति स ईश्वरो मे मनोरथं कुर्यादित्यन्वयः । क स्थित इत्यत उक्तम् । देहेति । अयं भावः । अधमानां जनानां जीवदेहगतो जीवः तदभिन्न इति प्रतीयते । अहं ब्रह्मास्मीति मध्यमानां जनानां देहगतः सन् देहगतोऽनिर्णीत इति यावज्जीवस्तदन्यो वा हरिरिति उत्तमानां जीवानां प्रकर्षेण प्राकृतेनौत्पत्तिकेन ज्ञानेन देहगतो देहगाज्जीवाद्भिन्न इति शेषः । ईश्वरः पूर्णानन्दादिगुण इति प्रकाशते तत्रोदाहरणम् । यथेति । यथाऽनिलो । । । वायुः पार्थिवं पृथिवीकार्य गुणं सुखदुःखभोगसाधनं शरीरमाश्रितः प्रकृति विकृतैर्ज्ञानसाधनैरिन्द्रियैः प्राकृतानां श्वास इति मध्यमrai शारीरः प्राण इति अप्राकृतानामुत्तमानां सर्वदेवोत्तमः सूत्रात्मेति प्रतिभाति तथेति । “स्वदेहस्थं हरिं प्राहुरधमा जीवमेव तु । मध्यमाश्वाप्यनिर्णीतं जीवाद्भिन्नं जनार्दनम् । पूर्णानन्दादिगुणकं सर्वजीवविलक्षणम् । उत्तमास्तु हरिं प्राहुस्तार- तम्येन तेषु च । बुद्धिशुद्धयनुसारेण यथा प्राणं शरीरिणाम् । श्वासमात्रं जनाः प्राहुरनिर्णीतं च मध्यमाः । देवदेवेश्वरं सूत्रमानन्द प्राणवेदिनः” इति स्मृतिसमाख्यासिद्धत्वात्र विध्येनार्थकथनं युक्तिमिति भावः ॥ ३४ ॥ * * नेयं स्तुतिर्जिह्वाग्र- डवत् स्तुत्वे चित्तद्रवविकारहेतुरिति । भावेनाह । इतीति ।। ३५-३९ ॥ * * नेदं रूपं मायाकल्पितं किन्तु निजमेव अर्थक्रियाकारित्वादित्याशयेनाह । रूपमिति ॥ ४० ॥ । १. अस्तीति नास्तीति श्लोकस्यायमर्थः । भिन्नविरूद्धधर्मयोः भिन्न विरुद्धधर्मं प्रतिपादकयोः । एकस्थयोः एकवस्तुविषयकयोः अस्तीति नास्तीति च वस्तुनिष्ठयोः मदन्यदिति शेषः । मदन्यदीश्वरास्यं वस्तु अस्तीति देवं मत तादृशं वस्तु नास्तीति आसुरं मतं तयोर्मतयोरित्यर्थः । अपेक्षितं तन्मतं विषयः किञ्चन लोकविलक्षणसममुच्चनीच स्थानयोयथायोग्य फलप्रदम् अनुकूल तादृशमतभेदेन द्विविधबुद्धिजनकं सांख्ययोगयोः ज्ञानयोग- कर्मयगयोः परं मुख्यतात्पर्यविषयं यत् तत् बृहत् ब्रहमेति । १५८ श्रीमद्भागवतम् जीवगोस्वामिकृतः क्रमसन्दर्भ : i. [ स्कं. ६ अ. ४ श्लो. ३१-४० तत्र विवादावसरे तादृशगुणरूपबृंहितस्वरूपमपि सिद्धयतीत्याह । अस्तीति । योगः स्थूलोपासनाशास्त्रम् । तत्र हि भगवतो नामरूपित्वं श्रूयते । तत्र दृष्टकल्पनालाघवात् घटपटादिलक्षणाखिलनामधेयत्वं पातालपादादिकत्वं चेति विधीयते । नास्तीति साङ्ख्यं ज्ञानशास्त्रम् । तत्र हि निषेघश्रुतिभिस्तस्य नामरूपित्वं यन्निषिध्यते तत् प्रापचिकनामरूपित्वस्य कल्पितत्वात् सर्वथैव नास्तीति निश्चीयते । तदुक्तमुभयमतमस्यैव प्राक् । “स सर्वनामा स च विश्वरूप" इत्यादिना । “ययन्निरुक्तं वचसा निरूपितम्” इत्यादिना च । अस्तीति नास्तीति वस्तुनिष्ठा ययोः । तमेव विवादं स्फुटयति भिन्नौ अतीति नास्तीत्येवम्भूतौ विरुद्वौ धर्मों ययोस्तयोः । नन्वास्तामनयोर्विभिन्नविषयत्वं नेत्याह । एकस्थयोः समानविषययोः तदेवं विवादे सति तयोर्यत्- किञ्चित् समं समञ्जसत्वेनैव | अपेक्षितं प्रतीतं वस्तु तद्वयोरपि बृहत् । बृहदनुकूलं भवति । किं तत् समञ्जसं यत् परं नाम- रूपादत्यन्तं तदभावाच्च विलक्षणं यत्र युगपेन्नामरूपित्वमनामरूपित्वमपि वक्तुं शक्यते तद्विलक्षणं किमपि नामरूपलक्षणमेव वस्त्वित्यर्थः । एतदुक्तं भवति । एकस्मिन्नेव वस्तुनि नामरूपित्वविधिनिषेधाभ्यां परस्परं श्रुतयः पराहतार्थाः स्युः । अत्र तु परत्वेनोभयत्रापि प्राक्तनयुक्तथा समञ्जसमप्राकृतनामरूपित्वमेव विधिनिषेधश्रुतितात्पर्येणोपस्थाप्यत इति तत्तन्मतं विवाद- मात्रम् । इत्थमेव श्रीध्रुवेण निर्विवादत्वमुक्तम्। तिर्यङनगद्विजसरीसृपदेवदैत्यमर्त्यादिभिः परिचितं सदसद्विशेषम् । रूपं स्थविष्ठमज ते महदाद्यनेकं नातः परं परम वेद्मि न यत्र वादः” इति ॥ ३२ ॥ * तदेव व्यनक्ति । यो नाम- रूपरहित एव नामानि रूपाणि भेजे प्रकटितवान् । जन्मकर्मभिः सहितानि च प्रकटितवानित्यर्थः । व्यतिरेकदोषमाह । अनन्तः यदि तस्मिन्नामरूपित्वादिक’ नास्ति तर्हि तच्छक्तिमत्त्वं प्रति सान्तत्वमेव प्रसज्ज येतेति । तदुक्तं प्रचेतोभिः । न ह्यन्तो यद्विभूतीनां सोऽनन्त इति गीयते इति । तत्तत् प्रकाशने हेतुः । भगवान् भगात्मकशक्तिमान् तस्याः शक्तेर्मायात्वं निषेधति । परमः पराख्यशक्तिरूपा मा लक्ष्मीर्यस्मिन् । अन्यथा परत्वव्याघातः स्यादिति भावः । " तस्मान्न मायया सर्व सर्वमैश्वर्य- सम्भवम् । अमायो हीश्वरो यस्मात्तस्मात्तं परमं विदुः" इत्युक्तेः । ननु सर्वनामविश्वरूपत्वे तद्राहित्ये च सन्त्येव तत्तदुपासका: प्रमाणम् । अत्र के स्युरित्याशङ्कयाह । पादमूलं भजतामनुग्रहार्थमिति । योगसांख्ययोस्तत्तत्त्वं न सम्यक प्रकाशते किन्तु भक्तावेव । “भक्तिरेवैनं दर्शयति" इत्यादिश्रुतेः । तस्माद्यदुक्तं तयोर्विवादमात्रत्वमिति भावः । अत एव लक्ष्यते ऽनन्तरमेव इतीत्यादौ प्रादुरासीत् कुरुश्रेष्ठ ! भगवान् भक्तवत्सलः । कृतपादः सुपर्णांस इत्यादि । पादमूलं भजतामित्यनेन तान् प्रति रूपप्राकट्यात् पूर्वमपि रूपमस्त्येवेति व्यञ्जितम् । “चरणं पवित्रं विवतं पुराणम्" इत्यादिश्रुतेः । भेज इत्यतीतनिर्देशः प्रामाण्य- दायानादित्वं बोधयति । अनन्तपदस्य च नामाणि रूपाणि चानन्तान्येवेति भावः । अत्र प्राकृतनामरूपरहितोऽपीति टीका च ॥ ३३ ॥ * * ननु विभूतिकामस्य तव तत्तद्विभूतिसम्वलितगणपत्याद्युपाधित्वेनैव ममोपासना युक्ता कथं सर्वात्मना निरुपाधित्वेन स्तौषि । तत्राह । यः प्राकृतैरिति । तत्र तत्रानिलवत् स्वकार्यकरत्वं भवत एव न तूपाधेरिति स्थिते किमुपाधिभावनयेति भावः ॥ ३४ ॥ * * इतीति सार्द्धपञ्चकम् ।। ३५-४० ।। विश्वनाथचक्रवतिकृता सारार्थदर्शिनी नन्वत्र मते सजातीयविजातीय स्वगतभेदा सहिष्णवोऽन्येऽद्वैतवादिनो विवदन्ते तैश्चान्ये नैयायिकाः षोडशपदार्थ- वादित्वात् द्वैतवादिनो विवदन्ते वैश्वान्ये वैशेषिकाः सम्वदन्ते । तैः सर्वेश्चान्ये न कदाचिदनीदृशं जगदिति वदन्तो मीमांसका विवदन्ते तैश्चान्ये स्वभाववादिनः सम्वदन्ते ते च तत्त्वविद्भिर्बोधिता अपि कुतः पुनर्मुद्यन्तीति तत्राह । यच्छक्तयः । यस्य मायाशक्तिवृत्तयो वदतां समाद्धतां वादिनां तत्राक्षेपकृतां विवादस्य क्वचित् सम्वादस्य च भुव उत्पत्तिहेतवो भवन्ति प्रयोज- नमाह । आत्ममोहमिति । आत्मानं जिज्ञासमानानामपीत्यर्थः । मुहुरिति । तत्राविच्छेदः सूचितः । अनन्तगुणायेत्यनन्त- शब्दस्यानेकार्थत्वेनानाशवाचित्वात् गुणानामनश्वरत्वं निःसीमत्वं चोक्तम्” इमे चान्ये च भगवन्नित्या यत्र महागुणाः” इति पृथिव्युक्तौ नित्या इति पदेन " नान्तं गुणानामगुणस्य जग्मुर्योगेश्वरा ये भवपाद्ममुख्या" इति सूतोक्तो च अगुणस्येति योगेश्वरा इति पदाभ्याम् “ज्ञानशक्तिबलैश्वर्यवीर्षतेजांस्यशेषतः । भगवच्छब्दवाच्यानि विना हेयैर्गुणादिभिः” इति पराशरोक्तौ च विना हेयैरित्युपन्यासेन च तदीयगुणानामप्राकृतत्वावगमे ऽप्यवास्तवत्वमाचक्षाणास्तेऽपराधिनः कथमविद्यया न मुह्यन्तीति भावः ॥ ३१ ॥ * * ननु ते शास्त्रज्ञाः किमिति निन्द्यन्ते शास्त्राणामेवैकमत्याभावेन परस्परविरोधादिति चेन्मैवं वादीरित्याह । अस्तीति । योगसाङ्ख्ययोः योगो भक्तियोगशास्त्रं साङ्ख्यं ज्ञानशास्त्रं तयोस्तत् प्रसिद्धं परं सर्वोत्कृष्टं बृहद्रह्म सममननुकूलं च यथास्यात्तथा अवेक्षितम् । परस्परविरुद्धयोस्तयोर्द्वयोरेव शास्त्रयोरवेक्षणे किमपि वैषम्यं प्रातिकूल्यं च४ स्कं. ६ अ. ४ श्लो. ३१-४०] 1 अनेकव्याख्यासमलङ्कृतम् १५९ नास्तीत्यर्थः । तयोः कथम्भूतयोः अस्तीति भिन्नविरुद्धधर्मयोः । योगशास्त्रे हि “कृष्णं पिशङ्गाम्बरमम्बुजेक्षणं चतुर्भुजं शङ्खगदा- द्युदायुधम्” इत्यादिना नामरूपगुणपाणिपादाद्यङ्गोपाङ्गपार्षदधामादि अस्तत्युपास्यत्वेन विधीयते । साङ्ख्यशास्त्रे हानामरूप- गुणमपाणिपादमचतुरश्रोत्रमेकमद्वितीयमपि नामरूपादिकं नास्तीति निषिद्धयते इत्येवं भूतौ भिन्नौ परस्परविरुद्धौ च धर्मों ययोस्तयोर्भिन्नविषयत्वे विरोधो न स्यादित्येकस्थयोः एकस्मिन् ब्रह्मण्येव तिष्ठत इत्येकं ब्रह्मैव विषयीकुर्वतोरित्यर्थः । ननु तर्हि कथमवैषम्यमप्रातिकूल्यं वा तत्राह । वस्तुनिष्ठयोः वस्तुनि वास्तववस्तुन्येव निष्ठा प्रतिपादकत्वलक्षणा ययोः । तेन भक्तिशास्त्र- विधिना वास्तवं वस्त्वेव प्रतिपादयति न त्ववास्तवम् । तथा ज्ञानशास्त्रज्ञ्च निषेधेन वास्तवं वस्त्वेव प्रतिपादयति न त्ववास्तवम् । तेन भक्तिशास्त्रेण परमेश्वरस्य रामकृष्णादिमूर्त्तेर्नामरूपादिकवस्तुप्रतिपादने सिद्धे ज्ञानशास्त्रमपि स्वस्य वस्तुनिष्ठत्वादेव तस्य नामरूपादिकं नैव निषेधति किन्तु तस्य मायिकमूर्तेर्विराज एवं अत एव पुनर्भक्तिशास्त्रमपि ज्ञानशास्त्रे निषिद्धं विरारूप- मुपास्यत्वेन नोपादत्ते । यदुक्तम् । अमुनी भगवद्रवे मया ते ह्यनुवर्णिते । उभे अपि न गृह्णन्ति मायासृष्टे विपश्चितः ॥
इति विरारूपस्यापि धारणायामुपादानं तु कस्यचिदेव प्रथमदशायामेव चित्तशुद्धयर्थमेव न तु सर्व दोपासनार्थमिति भक्तिज्ञानशास्त्रयोर्वस्तुतस्त्वविरोध एवेति शास्त्राविरोधेऽपि विवदमानाः शास्त्रतात्पर्यमविद्वांसो दार्शनिका एव विगीता इति भावः ॥ ३२ ॥ * * अतो नामरूपादिविधिनिषेधाभ्यां शास्त्रद्वयाविरोधं व्यञ्जयन् भक्तवत्सलस्य भगवतः स्वस्मिन्न- नुग्रहं प्रार्थयते । य इति । अनामरूप: प्राकृतनामरूपादिरहितोऽपि जन्मभिरवतारैर्विशुद्धोर्जित सत्त्वानि रूपाणि कर्म्मभिर्ना- मानि च मन भेजे इति स्वामिचरणाः । भेजे प्रपञ्चे प्रकटीचकार ॥ ३३ ॥ तदेवं न यस्य सख्यमित्यनेन “सर्व्वं पुमान् वेद गुणांश्च तज्ज्ञो न वेद सर्व्वज्ञमनन्दमीडे” इत्यनेन च जीवेश्वरयोरल्पज्ञत्वसर्व्वज्ञत्वाभ्यां वास्तवमेव पार्थक्यमवधारितमेव । ततश्च “यदोपरमो मनस” इत्यनेन मनीषिणो ऽन्तर्हृदीत्यनेन च तस्यैवेश्वरस्यैकस्याप्यलौलिकनिव्विशेषसविशेषज्ञानगम्यत्वेन निव्विशेषं सविशेषस्वरूपञ्च यथामति व्यञ्जितम् । पुनश्च स वै ममाशेषेति त्रयेण मायिकवस्तूनां तद्रूपत्वेऽपि तत्स्वरूप- भूतत्वाभाव उक्तः । पुनरस्तीति नास्तीति द्वयेन भक्तिशास्त्रज्ञानशास्त्रयोरविरोधो गूढोऽपि स्पष्टीकृतः । इदानीं ये जीवेश्वरयोः पार्थक्यमुपाधिकृतमेव न वास्तवमित्याचक्षते तेषां ज्ञानिमानिनामसमञ्जसपथगामित्वं व्यञ्जयन् स्वमनोरथं स्वमनोरथसिद्धिं यः प्राकृतैरव्र्वाचीनैर्ज्ञानमार्गैर्जनानां देहगतः यथाशयम् आशयमन्तःकरणं दुष्टं शिष्टं वा अनतिक्रम्य तद्धर्माकान्त एव विभाति प्रार्थयते । जीवरूपेण भासते यथा वायुः पार्थिवं दुष्टं शिष्टं वा गन्धमाश्रितो नाना गन्धवान् भवति न तु वस्तुतः ॥ ३४ ॥ * * संस्तुवतो दक्षस्य ।। ३५-३६ ।। * * कटक: पादकटक: वलयं हस्तस्थम् ।। ३७-४० ।। शुकदेवकृतः सिद्धांतप्रदीपः ननु ब्रह्मैव विश्वश्वत्तर्हि ब्रह्मकारणवादिभिः सह प्रधानपरमाण्वादिकारणवादिनः कुतो विवदन्ते इत्यत्राह । यदिति । यस्य ब्रह्मणः शक्तयः प्रकृत्याद्याः अज्ञाततया वादिनां पूर्वपक्षिणां साङ्ख्यादीनां विवादस्य पूर्वपक्षस्य ज्ञाततया च वदतां वेदान्तिनां सिद्धान्तिनां सम्वादस्य सिद्धान्तस्थापनस्य भुवा भूमयः निमित्तानि भवन्ति । एषां वादिनां भगवच्छक्तचन- भिज्ञानां मुहुरात्ममोहं च कुर्वन्ति तस्मै भूम्ने ब्रह्मणे नमः । अथ प्रधानादेर्विश्वहेतुत्वे अयोग्यतां ब्रह्मणस्तत्र योग्यतां च दर्शयति । अनन्तगुणायेति । सृज्यमानविश्वेक्षणसृजननियमनधारणपालनाद्यनन्ताः अबाध्याः नित्या गुणा यस्मिन् तस्मै । ते ‘च “अनन्तकल्याणगुणात्मकोऽसौ ” इत्यादिश्रुतिषु प्रसिद्धाः “ज्ञानशक्तिबलैश्वर्यवीर्यतेजां स्यशेषतः । भगवच्छब्दवाच्यानि विना हेयैर्गुणादिभिः । इति श्रीपराशरेणोक्ताश्च । अत्रापि “ इमे चान्ये च भगवन्नित्या यत्र महागुणाः” इत्यादिषु प्रसिद्धाः | । । अचेतनानां प्रधानादीनामीक्षितृत्वादिगुणहीनानां न जगत्कारणत्वमिति भावः ॥ ३१ ॥ * * तेषां मोहितत्वं दर्शयन् वैदप्रमाणकं ब्रह्मैव विश्वकारणमित्याह । अस्तीति । एकस्थमीश्वरभावनिष्टं योगशास्त्रं नास्तीति एकस्थमीश्वरसाङ्ख्यशास्त्रम् । एकस्थं च एकस्थं च एकस्थे तयोः भिन्नविरुद्धधर्मिणोः अन्योऽन्यभिन्नौ विरुद्धौ च धर्मों प्रतिपाद्य पदार्थों ययोस्तयोः वस्तुतः तदभिमतं जगत्कारणं तन्निष्ठयोः योगसाङ्ख्ययोः किमवेक्षितमहो किं विचारितं न च किमपीत्यर्थः । अयमर्थः । साङ्ख्ये प्रोक्तमीश्वरो नास्ति प्रधानमचेतनस्य जगतः कारणं न ब्रह्मेति तदयुक्तम् “यतो वा इमानि भूतानि जायन्ते” इत्युपक्रम्य " तद् “ब्रह्म तद्विजिज्ञासस्व” इति श्रुतिविरुद्धत्वात् योगे चोक्तमीश्वरोऽस्ति निमित्तमात्रं जगदुपादानकारणं तु प्रधानमिति तदप्ययुक्तं " तदात्मानं स्वयमकुरुत तदैक्षत बहु स्याम्" इत्यादिश्रुतिविरोधात् । तत्तस्मात् बृहद्ब्रह्मैव परं जगत्कारणमनुकूलं ध्यातॄणां हितं भवति । यतः समं सर्वात्मभूतमित्यर्थः “ कारणं तु ध्येयम्” इतिश्रुतेः सर्वात्मभूतब्रह्मध्यानेनैव मुक्तिर्भवति न प्रधानाद्यनात्म- ध्यानेनेति फलितोऽर्थः । एते च सर्वे वेदविरुद्धवादिनो भगवन्मायामोहिता इति बोधितम् ।। ३२ ।। * एवं माया- १६० श्रीमद्भागवतम् [ स्कं. ६ अ. ४ लो. ३१-४० मोहितैरज्ञातोऽपि यः पादमूलं भजतामनुग्रहार्थं जन्मभिः रूपाणि मूर्तीः कर्मभिर्नामानि च भेजे स मां प्रसीदताम् तानि रूपाणि नामानि चाप्राकृतानीति द्योतयितुं नामरूपे व्याकरवाणीति श्रुतिप्रसिद्धेः अनित्यप्राकृतनामरूपसंबन्धाभानं भगवतः आह । अनामरूप इति ।। ३३ ।। * * एवं परायावितथानुभूतये इत्यादिना परत्वसर्वात्मत्वमायामोहितजनदुर्ज्ञेयत्वविभुत्व- सर्वात्मत्व सर्व प्राकृतनामरूपविलक्षणत्वादिभिर्गुणैः स्वरूपतो जीवविलक्षण एव भगवानित्युक्तम् । अत्र भ्रान्तानु देहे जीवः स एवेति जानन्तीत्याह । प्राकृतैः प्रकृतिमोहितजीवप्रवर्तितैः ज्ञानमार्गेः जनानां यथाशयमा शयमन्तःकरणमनतिक्रम्य यो देहगतो विभाति जीवधारकोऽपि जीवो विभाति न तु स जीवः “अन्तः प्रविष्टः शास्ता जनानां द्वा सुपर्णा सयुजा सखाया” इत्यादिन श्रुतिगणव्याकोपात्तत्र दृष्टान्तमाह । यथा पार्थिवं गुणं गन्धं श्रितः तद्धारकः न तु पार्थिवगुणस्वरूपः अनिलः तथापि गन्धोऽ- यमिति जनानां विभाति तद्वदित्यर्थः । स मे मनोरथं कुरुतात् मामिष्टार्थदानेन रक्षतु ॥ ३४ ॥ इत्येवमुक्तप्रकारेण संस्तुवतो दक्षस्य स भगवानाविः प्रत्यक्षः आसीत् || ३५-३७ ।। * * महान्ति किरीटकटकानि शिरश्चरणगतानि यस्य सः काञ्च्यादिभिर्भूषितश्च वलयं हस्तभूषणं कदकस्यासक्तत्वात् ॥ ३८-३६ ॥ * * आगतसाध्वसः । आनन्दातिशया- जातसंभ्रमः ॥ ४० ॥
गोस्वामिगिरिधरलालविहिता बालप्रबोधिनी " ननु वस्तुतः सर्वं भगवानेव चेत्तदा कथं पण्डितानां कस्मिंश्चिदर्थे विवादः कस्मिंश्चिदर्थे संवाद इत्यपेक्षायामाह - यदिति । यस्य मायाविद्यायाः शक्तयो वदतां वादिनां क्वचिद्विवादस्य कचित्संवादस्य च भुवः कारणानि भवन्ति एषां पण्डितम्म- त्यानां मुहुर्निरन्तरमात्मनः मनसो मोहं च कुर्वन्ति तस्मै नम इत्यन्वयः । विवादिषु हेत्वन्तरमपरिगणितगुणत्वं सूचयन्नाह- अनन्तगुणायेति । तत्रापि हेतुमाह-भूम्न इति, अनन्तकोटिब्रह्माण्डव्यापिन इत्यर्थः ॥ ३१ ॥ * एवं धर्मे मार्गभेदेन विवादे सत्यपि धर्मिणि तु न विवादः शास्त्रिणामित्याह - अस्तीति । योग उपासनाशास्त्रं तत्र हि ‘कृष्णं पिशङ्गाम्बर मम्बुजेक्षणं चतुर्भुजं शङ्खगदायुदायुधं’ इत्यादिना भगवतो नामरूपगुणपाणिपादाद्यङ्गोपाङ्गादिधर्मोऽस्तीत्युपास्यत्वेन विधीयते । साङ्ख्यं हि ज्ञानशास्त्रं तत्र ‘ह्यनामरूपगुणमपाणिपादचतुरश्रोत्रमेकमद्वितीय’ इत्यादिना तस्य नामरूपादिकं नास्तीति निषिध्यते । इत्येवम्भूतौ भिन्नौ भावाभावात्मकतया परस्परविरुद्धौ धर्मों प्रतिपाद्यतया ययोः तयोर्योगसांख्यशास्त्रयोः यत्किञ्चन सममनुगतं वस्तु अपेक्षितं प्रतीतं तद्बृहत् ब्रह्मैवेत्यन्वयः । नन्वेकेन शास्त्रेणैकत्र सधर्मकत्वविधाने अपरेण च शास्त्रेणान्यत्र निर्धर्मकत्वविधाने कथं विरोध इत्याशङ्कयाह - एकस्थयोरिति, एकस्मिन् ब्रह्मण्येव तिष्ठते इति तथा तयोरेकं ब्रह्मैव प्रतिपादयतोरित्यर्थः । तत्र हेतुमाह-वस्तुनिष्ठयोरिति ‘यत्साङ्खचैः प्राप्यते स्थानं तद्योगैरपि गम्यते । साङ्ख्ययोगी पृथग्बालाः प्रवदन्ति न पण्डिताः । एकं साख्यं च योगं च यः पश्यति स पश्यति’ इत्यादिवचनात् उभयोः परमार्थैवस्तुनिष्ठत्वात् तच्च ब्रह्मैवेत्यर्थः । तत्र विवादा- भावे हेतुमाह — परं हीति, हि यस्मात् विवादविषयेभ्यो धर्मेभ्यः परं भिन्नमित्यर्थः । प्रत्युत विवादानुकूलमेव धर्मिणं विना धर्मविधानप्रतिषेधासम्भवादित्याह - अनुकूलमिति । तस्मै नम इति पूर्वस्यानुषङ्गः ॥ ३२ ॥ एवं नमस्कारपूर्वकं स्तुत्वा तत्प्रसादं प्रार्थयते - य इति । यो भगवानचिन्त्यैश्वर्यादिमान् अनन्तः देशकालवस्तुपरिच्छेदशून्यः अनामरूपः प्राकृत- नामरूपरहितोऽपि स्वपादमूलं भजतामनुग्रहार्थं जन्मभिरवतारैर्विशुद्धसत्त्वादिरूपाणि कर्मभिर्नामानि च भेजे तत्तत्समये प्रकटितवान् स परमः परमेश्वरो मह्यं प्रसीदत्वित्यन्वयः ॥ ३३ ॥ ननु त्वादृशानां सकामानां मनोरथपूत्त रुद्रादिदेवान्तरप्रसादेन प्रसिद्धा तत्र तत्प्रसादं विहाय मत्प्रसादप्रार्थनया किमित्याशङ्कय देवान्तरस्यापि त्वद्यपान्तरत्वात् । त्वत्प्रसादेनैव सर्वमनोरथप्राप्तिरित्याशयवान् स्वमनोरथं प्रार्थयते - य इति । योऽन्तर्यामी सर्वदेहगतोऽपि प्राकृतैरर्वाचीनैर्ज्ञान- पथैरुपासनामार्गेर्यथाशयं तत्तद्वासनानुसारेण तत्तदेवतारूपेण विभिन्नतया भाति स ईश्वर एव मम मनोरथं सत्यं कुरुता- दित्यन्वयः । एकस्यापि विविधनामरूपेण भाने दृष्टान्तमाह-यथेति, यथा पार्थिवं गुणं धूसरत्वादिकमाश्रित्य अनिलो विविध- नामरूपवान् विभाति तथेत्यर्थः । तदुक्तं तृतीयस्कन्धे ब्रह्मणा ‘यद्यद्धिया त उरुगाय विभावयन्ति तत्तद्वपुः प्रणयसे सदनुग्रहाय ’ इति ॥ ३४ ॥ * * इत्येवं तस्मिन्नघमर्षणसज्ञके तीर्थे संस्तुवतो दक्षस्य स्तुतो भगवानाविरासीदित्यन्वयः । इदं हंस- गुह्याख्यं स्तोत्रमतिरहस्य मिति न यस्मै कस्मै वक्तव्यं तुभ्यं तु भगवद्भक्तत्वेन कुरुकुले श्रेष्ठत्वाद्वर्णितमिति सूचयन् सम्बोधयति - हे कुरुश्रेष्ठ इति । स्तोत्रादिकं मध्ये द्वारमात्रं वस्तुतस्तु भक्तेषु भगवान् स्वकृपयैव तुष्यतीति सूचयन्नाह - भक्तवत्सल इति ।। ३५ ।। * * तं भगवन्तं वर्णयति - कृतपाद इति सार्द्धंश्चतुर्भिः । सुपर्णस्यांसे स्कन्धे कृतौ पादौ येन । प्रलम्बा अष्टौ महान्तो भुजा यस्य सः । चक्राद्यष्टायुधधरः ॥ ३६ ॥ * * पीते वाससी यस्य सः । घनवच्छयामः । प्रसन्नं वदनमीक्षणे च यस्य सः वनमालया निवीतं कण्ठादिपादान्तं व्याप्तमङ्गं यस्य सः । लसन्तौ श्रीवत्सकौस्तुभौ यस्य सः, श्रीवत्सो स्कं. ६ अ. ४ श्लो. ३१-४०] अनेकव्याख्यासमलङ्कृतम् १६१ रोमावर्त्तविशेषः । कौस्तुभो मणिः ।। ३७ ।। * * महान्ति किरीटकटकानि यस्य सः । स्फुरन्ती मकराकारे कुण्डले यस्य सः काऊच्यादिभिर्विभूषितः । वलयमत्र पादभूषणं द्रष्टव्यं कटकस्योक्तत्वात् ॥ ३८ ॥ सुरयूथपैरिन्द्रादिभिः लोक- पालैः । एवम्भूत आविरासीदित्येकक्रियान्वयः ॥ ३९ ॥ * * तस्य भगवतो महदाश्चर्यम् अत्यलौकिकं मनोहरं रूपं विचक्ष्य दृष्ट्वा प्रहृष्ट आत्मा यस्य सः अत एवागतसाध्वसः जातसम्भ्रमः प्रजापतिर्दक्षो दण्डवद्भूमौ ननामेत्यन्वयः ॥ ४० ॥ भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी " ननु विश्वं परमाणूपादानकारणमीश्वरो निमित्तकारणमेवेति वैशेषिकादयः । विश्व प्रधानकारणक पुरुषो निमित्त- कारणमात्रमिति सांख्यादयः । न कदाचिदनीदृशं जगदिति पूर्वमीमांसाप्रणेतारः । सर्वमपि वस्तु नित्यमनित्यं च भिन्नमभिन्नं चेति अन्ये । अतः कथं कृत्स्नस्य जगतो ब्रह्मैककारणत्वं तदनन्यत्वं चोच्यते इतीमां शङ्कां परिहरन्नमस्करोति । यच्छक्तय इति । वदतां ग्रन्थनिबन्धनेन स्वशास्त्रमुपदिशतामित्यर्थः । वादिनां वादान् कुर्वाणानां वैशेषिकादीनां यच्छक्तयः यस्य परमात्मनः शक्तयः पृथिव्यादयः, विवादसंवादभुवः विप्रतिपत्तिसंप्रतिपत्त्योः भुवो विषयभूताः कचिद्विवादस्य कचित्संवादस्य स्थानभूता इत्यर्थः । भवन्ति । एषां वादिविवादिनां मुहुः आत्ममोहं च कुर्वन्ति । तस्मै अनन्तगुणाय असंख्येयकल्याण- गुणगणाय, भूम्ने स्वरूपतोऽपि बृहते, नमः । ‘यस्य पृथ्वी शरीरम्’ इत्यादिश्रुतिषु पृथ्यादीनां ब्रह्मशरीरलां ब्रह्मकारणकत्वमुक्तं तत्र पृथिव्यादेरनित्यत्वदर्शनं वादिविप्रतिपत्तिस्थानं पृथिव्याद्यवस्थायाः सततपरिणामित्वेनासदात्मकेक्षया अनित्यत्वधीसं- भवेऽपि ‘नित्या सततविक्रिया’ इत्यादिवाक्यतस्तद्द्रव्यानित्यतायाः श्रुत्यादिप्रतिपन्नत्वं सिद्धान्तिसंप्रतिपत्तिस्थानं ज्ञेयमिति भावः । अनन्तगुणायेत्यनेन निर्गुणब्रह्मवादोऽपि भ्रममूलक इति सूचितम् ॥ ३१ ॥ * * इदानीं परमात्मस्वरूपप्रतिपत्ति वदन् वादिविप्रतिपत्तीनां शास्त्रानुसारेण परिहार्यत्वमाह । अस्तीति । भिन्नावत एव विरुद्धौ धर्मों ययोस्तौ तयोः, वस्तुनिष्ठयो- वस्तुमालम्ब्य वर्त्तमानयोः, एकस्थयोरेकस्मिन् धर्मिणि वर्त्तमानयोः, सांख्ययोगयोः, अस्तीति ‘चरणं पवित्रम्’ इत्यादिश्रुते- भगवतः साकारत्वमस्तीति । नास्तीति ‘अपाणिपाद:’ इत्यादिश्रुतेर्भगवतः साकारत्वं नास्तीति द्वयोरर्थयोरेकत्र सिद्धये इति शेषः । योगशास्त्रदृष्टया साकारत्वं सांख्येक्षया निराकारत्वं च प्राप्तं तयोर्हरौ सिद्धयर्थमिति तदर्थः । किंचन अपेक्षितं प्रमाण- मिति शेषः । तच्च ‘अपाणिपादो जवनो ग्रहीता’ इति, ‘साक्षी चेता केवलो निर्गुणश्च’ ‘सकालकालो गुणी सर्वविद्याः’ इत्यादि- श्रुतिवृन्दं भगवत उभयविधताभाक्त्वे प्रमाणं ‘सगुणो निर्गुणो विष्णुर्ज्ञानगम्यो ह्यसौ स्मृतः’ इति । ‘न हि तस्य गुणाः सर्वे सर्वे - मुनिगणैरपि । वक्तुं शक्या वियुक्तस्य सत्त्वाद्यैरखिलैर्गुणैः’ इत्यादिस्मृतिवृन्दं चोभयविधतागमकम् । एवं सर्वथोभयताभाक्त्वेन, अनुकूलं समं सर्वान्तरात्मतया समताभाक्त्वात्सूक्ष्ममित्यर्थः । बृहत् स्वरूपतो गुणैश्चापरिच्छिन्नत्वाद्वृहत्तोपेतं च परं परमा- त्मस्वरूपं, अस्ति हि । इत्थं भगवत्स्वरूपे वादिविप्रतिपत्तिपरिहारः । अस्यार्थस्यातिस्फुटता तु श्रीहरिवाक्यसुधासिन्धोः शताधिकचतुर्थतरङ्गात ज्ञातव्या ॥ ३२ ॥ * * एवं वादिनां विप्रतिपत्तिविषयत्वेन भगवत्स्वरूप तद्गुणतच्छक्तीनां दुर्ज्ञेयत्वमुक्तमथैवं दुर्विज्ञेयस्वरूपगुणशक्तिरपि भगवान् विजाश्रितानां सुलभ इति वदन् भगवतोऽनुग्रहं प्रार्थयते । योऽनुग्रहार्थमिति । अनन्त ऐश्वर्याद्यन्तवर्जितः यः भगवान्, पादमूलं भजताम् अनुग्रहार्थम् अनामरूपः स्वयं कर्मकृतनाम - रूपरहितः सन्नपि, जन्मकर्मभिः, नामानि रूपाणि च भेजे । परमः स भगवान, मह्यं प्रसीदतु ‘यदा पश्यः पश्यते रुक्मवर्ण कर्त्तारमीशम्’ ‘सर्वकर्मा सर्वनामा सर्वरूप’ इत्यादिश्रुतेः । ’ एका मूर्त्तिरनिर्देश्या शुक्लां पश्यन्ति तां बुधाः । ज्वालामालोपरुद्धांङ्गी, निष्ठा सा योगिनां परा’ इति । ‘यस्य स्मृत्या च नामोक्तत्या तपोयज्ञक्रियादिषु । न्यूनं संपूर्णतां याति’ इत्याद्याः स्मृतयश्च भगवज्जन्म कर्म नाम्नामप्राकृतत्वं वदन्ति । किं च देवदत्तकर्मवत्परमेश्वरकर्मणामसंभवात् विष्णुभित्ररूपवदीशरूपाणामदर्शनात् देववृत्तविष्णुमित्रनामवद्भगवन्नाम्नामसंभवाद्भगवतो न तद्रहितत्वं शङ्कचं ‘नित्यरूपों नित्यकर्माप्यव्यक्तत्वमवेक्ष्य तत् । अरूपकर्मेत्युदितो रूपकर्मोज्झितेर्न तु’ इत्यादिस्मृतेः ।। ३३ ।। * * ननु भवादृशाः सकामा गणाधिपादीन् प्रार्थयन्ते त्वं तु तान् परिहृत्य कुतो भगवन्तं मामेव प्रार्थयसे तत्राह । यः प्राकृतैरिति । जनानां प्राकृतैरर्वाचीनैः, ज्ञानपथैरुपासनामार्गे:, यथाऽऽशयं तत्तद्वासनानुसारेण, यो भवान् देहगतस्तत्तदाराध्याऽऽराध- कान्तर्यामी सन्नपि, विभाति तत्तद्देवतारूपेण विविधो भाति । कथमिव । यथा अनिलः वायुः, अरूपोऽगुणश्च भवति । तथापि, पार्थिवगुणं गन्धादि, आश्रितः सन् तथा भाति । यथा वायुञ्चम्पकादिगुणं गन्धमाश्रितः सन्नानागन्धवान् रेणोर्गुणं धूसरत्वा- दिकमाश्रित्य नानारूपांश्च प्रतीयते तद्वत्तत्तद्देवतान्तर्यामीभवंस्तत्तदेवतारूपेण भाति फलं च ददातीत्यर्थः । स ईश्वरः मे मम मनोरथं कुरुतात् । तत्तद्देवाराधकानां तत्तदाराध्यदेवानां चान्तरात्मा भवांस्तेषां तेषामाराधकानां श्रममालोच्य स्वव्यतिरेकेण देवतानां फलदातृत्वाभावं चालोक्यायमेतदाराधकोऽसंशयो मामेवाssराधयते इति खपरमकृपालुतया तत्तद्देवताछद्मना २१ १६२ श्रीमद्भागवतम् :…… [ स्कं. ६ ४ श्लो. ३१-४० स्वयमेव तत्फलं प्रयच्छति । ततः मुख्यं परित्यज्यामुख्यसेवया किमिति विचार्य, मुख्यमीश्वरमेवाश्रितोऽस्म्यतः स एव मन्मनोरथं कुरुतादिति प्रार्थयामीति भावः । तथा च भगवद्गीतासु ‘यो यो यां यां तनुं भक्तः श्रद्धयाचितुमिच्छति । तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् । स तया श्रद्धया युक्तस्तस्याऽऽराधनमीहते । लभते च ततः कामान्मयैव विहितान् हि तान् । ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम्’ इति च ॥ ३४ ॥ * * एवं तुभ्यमुपदिष्टेनानेन स्तोत्रेण दक्षाभिष्टुतो भगवान् प्राचेतसस्य तस्य प्रसन्नोऽभूदित्याह मुनिः । इतीति । हे कुरुश्रेष्ठ इतीत्थं स्तुतः दक्षेण कृतस्तुतिः, भक्तवत्सलः सः भगवान्, तस्मिन् अघमर्षणे तीर्थे, संप्तवतः दक्षस्य पुरतः, आविरासीत् प्रादुरासीत् ॥ ३५ ॥ प्रादुर्भूतं भगवन्तमनुवर्णयति सार्थैश्चतुर्भिः । कृतपाद इति । सुपर्णा से गरुत्मतः स्कन्धयोः कृतौ पादौ येन सः । सापेक्षत्वेऽपि गमकत्वात्समासः । प्रलम्बा आजानुलम्बिनः अष्टौ महाभुजा यस्य सः । चक्रं सुदर्शनं च शङ्खः पाञ्चजन्यश्च असिर्नन्दकाख्यः खङ्गश्च चर्म खेटश्च ईपुर्बाणश्च धनुः शार्ङ्गं च पाशश्च गदा कोमोदकी च तासां धरः । अष्टभुजैरष्टायुधधरः इत्यर्थः ॥ ३६ ॥ इत्यर्थः ॥ ३६ ॥ * ॐ पीतवासा इति । पीते वाससी यस्य सः । घन इव श्यामः, प्रसन्नं वदनमीक्षणे च यस्य सः वनमालया निवीतमङ्गं यस्य सः । लसन्तौ श्रीवत्स - कौस्तुभौ यस्य सः । तत्र श्रीवत्सो दक्षिणस्तनोपकण्ठगो रोमावर्त्तः लक्ष्मीवत्तत्रस्थो भक्तोत्तमो वा । कौस्तुभः समुद्रमथनोद्भूतो जलतत्त्वात्मको मणिविशेषः ।। ३७ ।। महाकिरीटेति । महान्ति किरीटकटकानि यस्य सः । स्फुरन्ती मकराकारे कुण्डले यस्य सः । काञ्ची रशना च अङ्गुलीतानि ऊर्मिकाश्च वलये पादभूषणे च नूपुरौ च अङ्गदे च तैर्भूषितः । वलयशब्दा- र्थान्तरविधानं कटकयोरुक्तत्वात् ॥ ३ ॥ 8 त्रैलोक्येति । त्रैलोक्यं मोहयतीति त्रैलोक्यमोहनं नन्द्यादित्वाल्ल्युः । श्रीपुरुषोत्तमाख्यमित्यर्थः । रूपं विभ्रत् त्रिभुवनेश्वरः, नारदनन्दाद्यैः, पार्षदैः सुरयूथपैः, वृतः । अनुगायद्भिः स्वपृष्ठतो गानं कुर्वद्भिः, सिद्धगन्धर्वचारणैः स्तूयमानः एवंविधः आविरासीदिति पूर्वेणान्वयः ।। ३९ ।। * * रूपमिति । महदाश्च- र्यमत्याश्चर्यकरं तत् रूपं भगवतः स्वरूपं विचक्ष्य व्यालोक्य गतसाध्वसः वीतभयः, प्रजापतिः प्राचेतसो दक्षः प्रहृष्टात्मा प्रसन्नचित्तः सन् भूमौ दण्डवत् ननाम नमस्कृतवान् ॥ ४० ॥ * । भाषानुवाद: सा * प्रभो ! आपकी ही शक्तियाँ वादी प्रतिवादियोंके विवाद और संवाद ( ऐकमत्य ) का विषय होती हैं और उन्हें बार-बार मोहमें डाल दिया करती हैं । आप अनन्त अप्राकृत कल्याण- गुणगणोंसे युक्त एवं स्वयं अनन्त हैं। मैं आपको नमस्कार करता हूँ ।। ३१ ।। * * भगवन् ! उपासकलोग कहते हैं कि हमारे प्रभु हस्त पादादिसे युक्त साकार - विग्रह हैं और सांख्यवादी कहते हैं कि भगवान् हस्त-पादादि विग्रहसे रहित – निराकार हैं । यद्यपि इस प्रकार वे एक ही वस्तुके दो परस्परविरोधी धर्मो का वर्णन करते हैं, परन्तु फिर भी उसमें विरोध नहीं है; क्योंकि दोनों एक ही परम वस्तुमें स्थित हैं । बिना आधारके हाथ-पैर आदिका होना सम्भव नहीं और निषेधकी भी कोई-न-कोई अवधि होनी ही चाहिये । आप वही आधार और निषेधकी अवधि हैं । इसलिये आप साकार, निराकार दोनोंसे ही अविरुद्ध सम परब्रह्म हैं ॥ ३२ ॥ प्रभो ! आप अनन्त हैं । आपका न तो कोई प्राकृत नाम है और न कोई प्राकृत रूप; फिर भी जो आपके चरणकमलोंका भजन करते हैं, उनपर अनुग्रह करनेके लिये आप अनेक रूपोंमें प्रकट होकर अनेकों लीलाएँ करते हैं तथा उन उन रूपों एवं लीलाओंके अनुसार अनेकों नाम धारण कर लेते हैं । परमात्मन् ! आप मुझपर कृपा प्रसाद कीजिये ।। ३३ ॥ * * लोगोंकी उपासनाएँ प्रायः साधारण कोटिकी होती हैं। अतः आप सबके हृदयमें रहकर उनकी भावनाके अनुसार भिन्न- भिन्न देवताओंके रूपमें प्रतीत होते रहते हैं — ठीक वैसे ही जैसे हवा गन्धका आश्रय लेकर सुगन्धित प्रतीत होती है परन्तु वास्तव में सुगन्धित नहीं होती। ऐसे सबकी भावनाओंका अनुसरण करनेवाले प्रभु मेरी अभिलाषा पूर्ण करें || ३४ ॥ ** श्रीशुकदेवजी कहते हैं —— परीक्षित् ! विन्ध्याचलके अघमर्षण तीर्थ में जब प्रजापति दक्षने इस प्रकार स्तुति की, तब भक्तवत्सल भगवान् उनके सामने प्रकट हुए ।। ३५ ।। उस समय भगवान् गरुड़के कंधोंपर चरण रक्खे हुए थे । विशाल एवं
-
- हृष्ट-पुष्ट आठ भुजाएँ थीं; उनमें चक्र, शङ्ख, तलवार, ढाल, बाण, धनुष, पाश और गदा धारण किये हुए थे || ३६ ॥ वर्षाकालीन मेघ के समान श्यामल शरीरपर पीताम्बर फहरा रहा था । मुखमंन्डल प्रफुल्लित था। नेत्रोंसे प्रसादकी वर्षा हो रही थी । घुटनोंतक वनमाला लटक रही थी । वक्षःस्थलपर सुनहरी रेखा – श्रीवत्सचिह्न और गलेमें कौस्तुभमणि जगमगा रही थी ॥ ३७ ॥ * * बहुमूल्य किरीट, कंगन, मकराकृति कुण्डल, करधनी, अँगूठी, कड़े, नूपुर, और बाजूबंद अपने-अपने स्थानपर सुशोभित थे ॥ ३८ ॥ * त्रिभुवनपति भगवानने त्रैलोक्यविमोहन रूप धारण कर रक्खा .. एक. ६ अ. ४. ४१-५०j अनैकत्र्याख्यासमलङ्कृतम् १६३ था । नारद, नन्द, सुनन्द आदि पार्षद उनके चारों ओर खड़े थे । इन्द्र आदि देवेश्वरगण स्तुति कर रहे थे तथा सिद्ध, गन्धर्व और चारण भगवान के गुणोंका गान कर रहे थे । यह अत्यन्त आश्चर्यमय और अलौकिक रूप देखकर दक्षप्रजापति कुछ सहम गये ।। ३९-४० ॥ न किञ्चनोदीरयितुमशकत् तीव्रया मुदा । आपूरितमनोद्वारैर्हदिन्य इव निर्झरैः ॥ ४१ ॥ तं तथावनतं भक्तं प्रजाकामं प्रजापतिम् । चित्तज्ञः सर्वभूतानामिदमाह जनार्दनः ॥ ४२ ॥ । || श्रीभगवानुवाच प्राचेतस महाभाग संसिद्धस्तपसा भवान् । यच्छ्रद्धया मत्वरया मयि भावं परं गतः ।। प्रीतोऽहं ते प्रजानाथ यत्तेऽस्योद्बृंहणं तपः । ममैष कामो भूतानां यद् भूयासुभूितयः ॥ ब्रह्मा भवो भवन्तश्च मनवो विबुधेश्वराः । विभृतयो मम होता भूतानां भूतिहेतवः ॥ तपो मे हृदयं ब्रह्मंस्तनुविद्या क्रियाऽऽकृतिः । अङ्गानि क्रतवो जाता धर्म आत्मासवः सुराः ॥ अहमेवासमेवाग्रे नान्यत् किञ्चान्तरं बहिः । संज्ञानमात्रमव्यक्तं प्रसुप्तमिव विश्वतः ॥ मध्यनन्तगुणेऽनन्ते गुणतो गुणविग्रहः । यदाऽऽसीत् तत एवाद्यः स्वयम्भूः समभूदजः स वै यदा महादेवो मम वीर्योपबृंहितः । मेने खिलमिवात्मानमुद्यतः सर्गकर्मणि ॥ अथ मेऽभिहितो देवस्तपोऽतप्यत दारुणम् । नव विश्वसृजो युष्मान् येनादावसृजद् विभुः ॥ ।। कृष्णप्रिया व्याख्या ॥ ४३ ।। ४४ ॥ ४५ ॥ ४६ ॥ ४७ ॥ ४८ ॥ ४९ ॥ ५० ॥ ॥ अन्वयः—गतसाध्वसः प्रहृष्टात्मा प्रजापतिः भूमौ दण्डवत् ननाम तीत्रया मुदा आपूरितमनोद्वारैः निर्झरैः हृदिन्य इव किंचन उदीरयितुं न अशकत् ॥ ४१ ॥ * * सर्वभूतानां चित्तज्ञः जनार्दनः तथा अवनतं तं भक्तं प्रजाकामं प्रजापतिम् इदम् आह ।। ४२ ।। महाभाग प्राचेतस भवान् तपसा संसिद्धः यत् मत्परया श्रद्धया मयि परं भाव गतः ॥ ४३ ॥ * * प्रजानाथ अहं ते प्रीतः यत् ते तपः अस्य उद्बृंहणं मम एषः कामः यत् भूतानां विभूतयः भूयासुः ।। ४४ ।। हि ब्रह्मा भवः च भवन्तः मनवः विबुधेश्वराः भूतानां भूतिहेतवः एताः मम विभूतयः ।। ४५ ।। * ब्रह्मन् तपः मे हृदये विद्या तनुः क्रिया आकृतिः जाताः क्रतवः अंगानि धर्मः आत्मा सुराः असवः ॥ ४६ ॥ अहम् एव अग्रे आसम् अन्यत् किंच आंतरं बहिः न संज्ञानमात्रम् अव्यक्तं विश्वतः प्रसुप्तम् इव ॥ ४७ ॥ * * अनन्तगुणे अनन्ते मयि यदा गुणतः गुणविग्रहः आसीत् ततः एव आद्यः स्वयंभूः अजः समभूत् ॥ ४८ ॥ * * यदा वै मम वीर्योप- बृंहितः सर्गकर्मणि उद्यतः सः महादेवः आत्मानं खिलम् इव मेने ॥ ४६ ॥ * * अथ ये अभिहितः देवः दारुणं तपः अतप्यत येन विभुः आदौ युष्मान् नव विश्वसृजः असृजत् ।। ५० ।। ।। श्रीधरस्वामिविरचिता भावार्थदीपिका
-
आपूरितानि मनोद्वाराणींद्रियाणि तैः । यथा हृदिन्यो नद्यो निर्झरैरापूर्यते तथा महानंदापूर्णत्वेनावृत्तिकत्वाद्वा- गादीनां न किंचिदपि वक्तुं शक्तोऽभूदित्यर्थः ॥ ४१ ॥ माह ।। ४२ ।। * * ।। ।। भावं भक्ति गतः प्राप्तः ॥ ४३ ॥ प्रीतः । मत्तपसो लोकसमृद्ध्यर्थत्वे त्वत्प्रीतेः किं कारणं तत्राह । एव मम कामः । अतो मत्कामपूरणादेवाहं प्रीतोऽस्मीत्यर्थः ॥ तः ।
- यद्यप्यसौ नावोचत्तथाऽपि चित्तज्ञ इदं वक्ष्यमाण- यद्यतस्ते तपोऽस्य विश्वस्योद्बृंहणं वृद्धिकरमतस्तेऽह ममेति । भूतानां विभूतयः समृद्धः यो भूयासुरिति यदेष ४४ ॥ * * भूतिविस्तारप्रयत्नश्च तवोचित एवेत्याह । ब्रह्मेति । भवंतः प्रजापतयः भूतेरुद्भवस्य हेतवः ॥ ४५ ॥ * * विश्ववृद्धयर्थेन त्वत्तपसाऽहं प्रीत इत्युक्तं तदेव तपः |
१. प्रा० पा० सर्वसत्त्वाना० । २. प्रा० पा० प्रभुः १६४ श्रीमद्भागवतम् [ स्के. ६ अ. ४ श्लो. ४१-५० स्तुवन्प्रसंगादन्यान्यपि लोकवृद्धिकराणि विद्यादीनि स्तौति । तपो यमनियमादिसहितं ध्यानं मे हृदयम् । विद्या सांगोपांग- मंत्रजपः सा ध्यानं तनोतीति तनुर्देहः । क्रिया ध्यानादिविषयः पुंव्यापारो भावनाशब्दवाच्यस्तेन हि ध्यानादिकमाक्रियत इत्याकृतिः । जाताः सुनिष्पन्नाः क्रतवोंगानि “शिरो वा एतद्यज्ञस्य यत्प्रवर्ग्यो ग्रीवा उपसदश्चक्षुषी आज्यभागौ" इत्यादिश्रुतेः । धर्मः क्रत्वाद्यपूर्वमात्मा मनः । हृदयाश्रयत्वात् । सुरा यज्ञभुजस्त एवासवः प्राणाः । संतर्पणीयत्वात् ॥ ४६ ॥ * * तपसः संतान वृद्धिहेतुत्वं दर्शयितुं द्वितीयतृतीयोक्तमितिहासमाह चतुर्भिः । अहमेवेति वस्त्वंतरव्यावृत्तिः आसमेवेति क्रियान्तर- व्यावृत्तिः । आंतरं ग्राहकम् । बहिर्ग्राह्यम् । संज्ञानमात्रं चैतन्यमात्रम् । अव्यक्तमिंद्रियवृत्तिभिरनभिव्यक्तम् । अत एव प्रसुप्तमिव । विश्वतः सर्वत्र ॥ ४७ ॥ * * गुणतो मायातः गुणमयो विग्रहो ब्रह्मांडम् । ततस्तदैव । अजोऽयोनिजः ॥ ४८ ॥ * * । । खिलमसमर्थमिव ।। ४९ ।। * * मे मया तप तपेत्यभिहितः सन् । येन तपसा ॥ ५० ॥ || वंशीधरकृतो भावार्थदीपिकाप्रकाशः ती या गाढया मुदा स्वात्मस्थित तत्प्रेमरूपयाऽऽपूरितैः सद्भिर्मनोद्वारैर्ज्ञानेंद्रियैरिति तत्तदावेशात्स्वात्मनः सर्वांशेन पूरितैर्निर्झरैर्जलनिर्गमैर्यथा हृदिन्य आपूर्यते तथा । इत्यर्थ इति । आनंदपूरितैर्हेतुभिः किंचिदपि वक्तुं द्रष्टुं श्रोतुं स्प्रष्टुं प्रातुं वा न समर्थोऽभूदिति भावः ॥ ४१-४२ ॥ * * प्राचेतसेति । मम भक्तानां प्रचेतसां त्वमात्मजोऽस्यत एव महाभा- गोऽप्यसीति तत एवं तुभ्यं मया दर्शनं दत्तमितिभावः ॥ ४३ ॥ प्रजानाथेति । भाविप्रजानाथत्वसूचनेन तन्मनो- रथसिद्धिरण्यसूचीति भावः । इत्यर्थ इति । मदिच्छयैव ते तपसः सिद्धिर्जातेति भावः ॥ ४४ ॥ * * नन्वकामस्य तव कथंभूतविभूतिकामनेति चेद्भक्तसंबंधात्तद्वात्सल्येनैवेत्याह- ब्रह्मेति । ब्रह्मादयो भक्ता हि मम विभूतयो विशेषेण सन्निधानस्था- नविशेषा एव न तु निकृष्टास्ते चान्येषां भूतिहेतव उत्पादका इति ॥ ४५ ॥ * कर्मयोगे समुचितं मे रूपं श्रण्वित्याह-
- तप इति । आदिनासनादिग्रहः । मंत्रांगानि विनियोगांगन्यासादीति तैः सहितो जपः सा विद्या तनुः भावना नाम भवितु- र्भवनानुकूलो भावयितुर्व्यापारविशेषः । भवितुर्यागादेर्भवनानुकूल उत्पत्तिजनको भावयितुः प्रयोजकस्य अस्याविशेषनिरूपणं नु मत्कृताद्यपद्यव्याख्याशतकेऽस्तीति । तच्च तत एव निश्चयम् । प्रवर्ग्यादय इष्टिभेदाः । धर्मः क्रत्वादेर्जातमपूर्वमदृष्टमित्यर्थः । अदृष्टद्वारैव यज्ञादेः फलजनकत्वस्योपपादितत्वात् । धर्मस्य हृदयाश्रयत्वं प्रसिद्धमेव ।। ४६ ।। * * द्वितीयस्कंधे तु नवमाध्याये “स आदिदेवो जगतां परो गुरुः” इत्यादिना तृतीयस्कंधे त्वष्टमाध्यायमारभ्योक्तम् । अत्र विश्वनाथ: - भक्तियोगे । समुचितं मे स्वरूपं शृण्वित्याह- अहमेव त्वया दृश्यैतत्स्वरूपवस्त्रालंकारास्त्रवाहन पार्षदादिविशिष्ट एवाग्रे सृष्टेः पूर्वमासमेव तथैवा महाप्रलयानंतरमपि भविष्याम्येवेत्यग्रे इत्यस्य पूर्वोत्तरकालवाचित्वाल्लभ्यते सांप्रतं त्वस्म्येवेत्यस्य स्वत एव प्राप्तिरिति स्वस्य त्रैकालिकी सत्ता दर्शिता । किञ्च - ममांतरं बहिश्चान्यत्किमपि नास्तीति परिच्छिन्नस्यापि मत्स्वरूपस्य व्यापकत्वादि- त्त्यचित्यशक्तिमत्त्वं च दर्शितं यद्वक्ष्यते । “न चांतर्न बहिर्यस्य न पूर्व नापि चापरम् । पूर्वापरं बहियांतर्जगतो यो जगश्च यः । तं मत्वात्मजमव्यक्तं मर्त्यलिंगमधोक्षजम् । गोपिकोलूखले दान्ना बबंध प्राकृतं यथा ।” इति । ज्ञानयोगे समुचितं स्वरूपं शृण्वत्याह- संज्ञानमात्रमिति ॥ ४७ ॥ * * स्वस्वरूपसत्त्वमुपदिश्य सृष्टौ प्रवर्त्तयितुमितिहासमाह - मयीति । ततो ब्रह्मांडमध्य एव युष्माकमाद्यः ॥ ४८ ॥ * महादेवः सर्वेभ्यो जातत्वान्महान्देवः ॥ ४९ ॥ ।। ।। * त्युक्तत्या ब्रह्मपुत्र एव महादेवापराधादिदानीं प्रचेतोभ्यः पुनर्जात इति सूचितम् ।। ५० ।। अन्वितार्थप्रकाशिका युष्मानि - नेति । यथा निर्जरैर्हदिन्यो नद्यः पूर्यन्ते तथा मुदा आनन्देनापूरितैर्मनोद्वारैरिन्द्रियैर्हेतुभूतैः प्रजापतिः किंचिदप्युदीर- यितुं वक्तुम् उपलक्षणतया द्रष्टुं श्रोतुं च नाशकत् । महानन्दपूर्णतया योगादीनां वृत्तिनिरोधात् ॥ ४१ ॥ तमिति । यद्यप्यसौ नावोचत् तथापि सर्वभूतानां चित्तज्ञः जनार्दनः तथाऽवनतं भक्तं प्रजाकामं तं प्रजापतिमिदमाह स्म ॥ ४२ ॥ * * प्राचेतसेति । हे प्राचेतस ! हे महाभाग ! यत् यतः मत्परया मदेकविषयया श्रद्धया मयि परं भावं भक्ति गतोऽसि अतो भवान् तपसा संसिद्धः ॥ ४३ ॥ प्रीत इति । हे प्रजानाथ ! यत् यस्मात्ते तपः अस्य विश्वस्य उद्बृंहणं वृद्धिकरमस्ति । अतोऽहं ते प्रीतः भूतानां विभूतयः समृद्ध्यादयो भूयासुरिति यत् एष एव मम कामः अतो मत्कामपूरणादहं प्रीतोऽस्मीति । यद्वा । अस्य विश्वस्य उद्बृंहणं यत्ते तपोऽभूत् एष ममैव कामः ममेच्छयैव तव तपः सिद्धिरित्यर्थः । कामस्वरूपमाह । भूतानां विभूतयो भूयासुरिति ॥ ४४ ॥ * * ब्रह्म ेति । ब्रह्मा भवः भवन्तः प्रजापतयः इत्याद्या भूतानां प्राणिनां भूतेरुद्भवस्य हेतवः हि यस्मात् एता ब्रह्माद्या मम विभूतयोऽवतारविशेषाः ॥ ४५ ॥ * * तप इति । हे ब्रह्मन् ! तपो यमनियमादि- स्कै ६ अ. ४ लो. ४१-५० 1 अनेकव्याख्या समलङ्कृतम् ।। १६५ सहितं ध्यानं मे हृदयं विद्या साङ्गमन्त्रजपो मे तनुः क्रिया नित्यनैमित्तिकपरिचर्याद्याः आकृति: आकारः क्रिया ध्यानादि- विषयः पुंव्यापारः भावनाशब्दवाच्यः । तेन हि ध्यानादिकमाक्रियत इत्याकृतिरिति स्वामिपादाः । जाताः सुनिष्पन्नाः क्रतवो मेङ्गानि शिरो वा एतद्यज्ञस्य " यत्प्रवर्ग्यः ग्रीवा उपसदः चक्षुषी आज्यभागौ ” इत्यादिश्रुतेः । धर्मः क्रत्वाद्यपूर्वमात्मा मनः सुरा यज्ञभागभुजो मे असवः प्राणाः सन्तर्पणीयत्वात् ॥ ४६ ॥ * * अहमिति । अग्रे सृष्टेः पूर्वम् अहमेवास- मेव आन्तरं प्राहकमन्तःकरणं वा बहिः ग्राह्यं वस्तु चान्यत् किंचिदपि नासीत् । आसमेवेत्येवकारेण क्रियान्तरं व्यावर्त्तयति । संज्ञानमात्रं चैतन्यमात्रमव्यक्तं यदिदानीमपीन्द्रियवृत्तिभिरनभिव्यक्तं विश्वतः सर्वतः प्रसुप्तमिव इवशब्द: प्रकाश्याभाव- मात्रेण प्रकाशकत्वाभावोपचारसूचनाय ।। ४७ ।। * मयीति । अनन्तगुणेऽनन्ते व्यापके मयि यदा गुणतः सत्त्वादितः गुणमयो गुणकार्यभूतो गुणविग्रहो ब्रह्माण्डात्मक आसीत्तदा ततस्तस्मिन्नेव आद्यः युष्माकं प्रजापतीनां कारणभूतम् उद्यमं विनैव जातत्वात्स्वयंभूः अदृष्टपितृकत्वादज इति व्यवह्रियमाणो ब्रह्मा समभूत् ॥ ४८ ॥ * * स इति ॥ महादेवो देवेभ्यो महानपि मम वीर्येणोपबृंहितः समर्थीकृतोऽपि सर्गकर्मणि उद्यतो यदा वै आत्मानं खिलं तत्रासमर्थमिव मेने ॥ ४९ ॥ * * अथेति । अथ तदा स देवः मे मया अभिहितः तप तपेति उपदिष्ट सन् दारुणं तपोऽतप्यत । येन तपसा स विभुः समर्थः सन्नादौ युष्माविश्वसृजोऽसृजत् । नव विश्वसृज इति पाठांतरम् ।। ५० ।। वीरराघवव्याख्या तीत्रया निरतिशयया मुदा आपूरितानि मनोद्वाराणीन्द्रियाणि तैर्यथा हृदिन्यो नद्यो निर्झरैरापूर्यन्ते तथा महानन्दा- पूर्णत्वान्मनोद्वाराणां तैर्युक्तो न किञ्चिदपि मनीषितं कर्तुं शक्तोऽभूदित्यर्थः ॥ ४१ ॥ * * तथा निरतिशयया मुदा स्वमनीषितविज्ञानेऽप्यशक्तमवनतं नम्रीभूतं प्रजाः कामयमानं भक्तं प्रजापति दक्षं प्रति सर्वेषां सत्त्वानां भूतानां चित्तज्ञः अभिप्रायज्ञो भगवान् जनार्द्दन: इदं १क्ष्यमाणमुवाच ॥ ४२ ॥ * * उक्तमेवाह । प्राचेतस इति । हे महाबुद्धिमन् ! । । प्राचेतस ! भवान् तपसा संसिद्धः । यत् यस्मात् परया श्रद्धया मयि परमुत्कृष्टं भावं भक्ति गतः प्राप्तवान् ।। ४३ ।। हे प्रजानाथ ! ते तुभ्यमहं प्रीतः । कुतः । यस्मात्ते तव तपः अस्य जगत उद्बृंहणं वर्द्धकं जगद्वर्द्धकत्वात्तपसस्तेनाहं प्रीत इति भावः । एतदेवोपपादयति । ममेत्यर्द्धेन । ममायमेव कामः कोऽसौ कामस्तत्राह । यद्भूतानां भूतयः समृद्धयो भूयासुः भवेयुरिति यत्तन्मनीषितं जगद्वृद्धिकरत्वात्त्वत्तपसस्तेनाहं प्रीत इत्यर्थः ॥ ४४ ॥ * * ब्रह्माद्यनुभवेन भूतिविस्तार- प्रयत्नश्च तवोचित एवेत्याह । ब्रह्मेत्येकेन श्लोकेन । ब्रह्मा चतुर्मुखः भवो रुद्रः भवन्तः प्रजापतयः मनवः स्वायम्भुवादयः विबुधे- श्वरा इन्द्रादयश्च ये ते सर्वे मम विभूतयः अंशाः । भूतानां भूतिहेतवः समृद्धिहेतवः पतिहेतव इति पाठे पतयश्च हेतव- श्वेत्यर्थः ॥ ४५ ॥ * * विश्ववृद्धिकरत्वात्तपसाहं प्रीत इत्युक्तं तदेव स्तुवन् प्रसङ्गादन्यान्यपि लोकवृद्धिकराणि स्तौति । तप इति । हे ब्रह्मन् तपः ध्यानं मम हृदयं विद्या मन्त्रजपः तनुः शरीरं क्रियाः स्मार्त्तक्रिया आकृतिः संस्थानं क्रतवो यज्ञाश्च ममाङ्गान्यवयवाः | सोमसाध्या यज्ञाः क्रतवश्च पुरोडाशादिसाध्या यज्ञा भेदः । क्रतवो ज्ञाता इति पाठे क्रतवो ममाङ्गानि ज्ञाता इत्यर्थः । धर्म: स्मार्त्तो दानादिरूपः आत्मा मनः असवः प्राणाः । तपआदीनां स्वहृदयत्वेन रूपणं तत्स्तुत्यथ स्वस्य जगदुत्पत्तिस्थितिलयहेतुत्वाज्जगत्कारणस्वावयवत्वेन रूपणे हि तपआदीनां स्तुतिः सम्पन्ना भवति । यद्वा । हृदयतन्वाकुत्यङ्गा- त्मासूनां लोके प्रीतिविषयित्वदर्शनात्स्वस्य तपआदयो नितरां प्रीतिविषया इति ज्ञापनाय हृदयादिभावेन रूप्यन्ते ।। ४६ ।। ** भगवतस्तपोपबृंहितत्वमेव वक्तुं तावज्जगदुत्पत्तेः प्राकारणस्य वस्तुनोऽवस्थानप्रकारमाह । अहमेवेति । अग्रे सृष्टेः प्रागह मेवा- समहमेक एवाविभक्तनामरूपचिदचिच्छरीरको ऽवस्थित इत्यर्थः । तदेवोपपादयति । अन्यदान्तरं चिद्रूपं बहिरचिद्रूपं किञ्चिन्ना- सीत् कार्यावस्थापनं चिदचित्तत्त्वं किञ्चिन्नासीदित्यर्थः । तदा जीवप्रकृतिस्वरूपनाशशङ्काव्यावृत्त्यर्थमाह । संज्ञानमात्रमिति । संजानातीति संज्ञानं नन्द्यादित्वात् कर्त्तरि ल्युः । तदेव तन्मात्रं मात्रशब्देन देवमनुष्यादिनामरूपविभागव्यावृत्तिः । नामरूप- विभागरहितं ज्ञानं तथा विश्वतः कार्त्स्न्येन प्रसुप्तं प्रलीनं सूक्ष्ममव्यक्तं प्रधानं च प्रसुप्तमिवेतीवशब्देन तस्य लीनत्वेऽपि जगदात्मना परिणामशक्तिस्तस्यानपगतेति सूच्यते ॥ ४७ ॥ * * अनन्तकल्याणगुणाकरे स्वरूपतोऽप्यनन्ते मयि आसीदिति क्रियापदविपरिणामेनान्वयः । मयि शरीरत्वेनावस्थितमासीदित्यर्थः । एवं सूक्ष्मचिदचिच्छरीरकत्वेनावस्थितस्य मम शरीरभूताद्गुणत्रयात्मकप्रधानान्महदादिक्रमेण गुणविग्रहः त्रिगुणपरिणामरूपो ब्रह्माण्डात्मको विग्रहो मम देहः यदासीत्तदा ततो गुणविग्रहादेवाद्यः समष्टिपुरुषः स्वयम्भुरयोनिजः अजो ब्रह्मा आसीत् ॥ ४८ ॥ * स वै महादेवो ब्रह्मा मम वीर्येण सङ्कल्परूपज्ञानेन उपबृंहितः अनेन जीवेनात्मनानुप्रविश्येत्युक्तरीत्या सङ्कल्पज्ञानेन व्याप्त इत्यर्थः । तदा सर्गकर्मणि जगत्सृष्टिकर्मणि उद्युक्तोऽपि खिलमसमर्थमिवात्मानं स्वात्मानं मेनेऽवमन्यत ।। ४९ ।। अथासमर्थत्वेनात्मनो मनसो मननान्तरं मे मयाभिहितः तप तपेत्यभिहितः दारुणं दुष्करं तपोऽतप्यताकरोत् । स च तप्ततपा विभुर्ब्रह्मा येन तपोबलेन विश्वसृजः प्रजापतीन् युष्मान् दक्षादीनसृजदतस्तप एव विश्वस्योपबृंहणमित्यभिप्रायः ॥ ५० ॥ १६६
- ।
- श्रीमद्भागवतम्
- विजयध्वजतीर्थकृता पदरत्नावली
- जलनिर्गम: ।। ४१ ।। * * इदमपि
- [ स्कं. ६ अ. ४ लौ, ४१-५०
- हृदिन्यः हृदिनीभवो
- निजरूपत्वसाधकमित्याशयेनाह । तं तथेति ॥ ४२ ॥ * भावं भक्तिम् ॥ ४३ ॥ * * बृंहणं प्रजापूरणयोजनं कामोऽभिप्रायः ॥ ४४ ॥ * * विभूतयः ममं विशेषेण सन्निधानस्थानभूताः । “विशेषव्यक्तिपात्रत्वाद्ब्रह्माद्यास्तु विभूतयः । तदन्तर्यामिणश्चैव मत्स्याद्याविभवा इति" इति वचनात् ॥ ४५ ॥ * ब्रह्म पूर्णं तपो मे हृदयं प्रियं कुतस्तपोऽमिमानी रुद्रः मम हृदयाज्जातः तदाश्रित- श्वेत्येवं व्याख्येयं विद्या मम तनुः स्वरूपं विद्याभिमानिन्युमा तनोर्जाता तदाश्रिता क्रियाभिमानी “त्विन्द्रो हरेराकृतिः शृङ्गारा- द्याकाराज्जातस्तदाश्रितश्च क्रतवो यज्ञाः सङ्कल्पा वा तदाश्रिताश्च अभिमानी च पूर्वोक्त एव । धर्मो धर्मराजः हरेरात्मा मध्य- देहाज्जातः तदाश्रितश्च । सुराः सुशोभमानमेव राः (१) कुल्यान्नं यस्य स सुराः वायुश्वित्तगतः हरेरतिप्रियः असवो हरें: प्राणाज्जातस्तदाश्रितश्च । असव इति बहुवचनमपशब्दवत् (२)। ब्रह्माद्याः सुराश्च हरेरसुशब्दवाच्येभ्यः श्रोत्रादीन्द्रियेभ्य उत्पन्नाः । तदाश्रिताश्चेति द्विरावृत्त्या व्याख्येयम् । तपोऽभिमानी रुद्रश्च विष्णोर्हृदयमाश्रितः । विद्यारूपा तथा चोमा विष्णो- स्तनुमुपाश्रिताः । शृङ्गाराद्याकृतिगतः क्रियात्मा पाकशासनः । अङ्गेषु क्रतवः सर्वे मध्यदेहे च धर्मराट् । प्राणो वायुश्चित्तगतो ब्रह्माद्याः स्वेषु देवताः । इतिवचनादुक्त एवार्थी ग्राह्यः । रुद्रादीनां हरेस्तदङ्गशब्दवाच्यत्वम् “यदाश्रयं यद्भवति तत्तन्नामकमी- रितम्” इत्यभिधानात् सिद्धम् ॥ ४६ ॥ * * अत्राद्वैतवादिनो निर्गुणं वाङ्मनसागोचरं जगत्कारणं सगुणमिति द्विविधं कल्पयन्ति तन्मतनिराकरणायाह । अहमेवेत्यादिना । “सप्तसु प्रथमा” इति सूत्रात्। अहं मम यदिदं स्वरूपं त्वया तपसा दृष्टं तदेवाम्रे सृष्टेः प्राक् लये आस अन्यद्वायनसागोचरं नास “सतो बन्धुमसति निरविन्दन् हृाद प्रतीष्या कवयो मनीषा " इतिश्रुतेः । असति प्रलये कीदृशमन्तर्बहिः सर्वान्तःस्थितं सर्वस्माद्बहिरपि स्थितम्” अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः” इति श्रुतेः । तपसा दृष्टं प्राकृतं चेदुक्तार्थानुपपत्तिरित्यत उक्त संज्ञानमात्रमिति समित्यनेन ज्ञानस्य स्वरूपाभेदं ध्वनयति मात्रशब्देन प्रकृतिप्राकृतरूपराहित्यमवताररूपाणां च तदात्मत्वं सूचयति “सत्यं ज्ञानम्” इति श्रुतेः । अत एवाव्यक्तमति - सूक्ष्मम् “तदव्यक्तमाह हि” इति सूत्रात्। हरेः स्वापवचनमपि लोकव्यामोहनायेति भावेनाह । प्रसुप्तमिवेति । कृतचक्षुनिमी- लनमात्रं न त्वज्ञानात्मकनिद्रया युतं श्रियं विनावस्थितं स्वापावस्थाभागित्यर्थः । सर्व हरौ लीन चेन्मुख्यतस्तदविशेष एव किं न स्यादित्यत उक्तं विश्वत इति । विश्वस्माद्भिन्नमिति शेषः । अनेन हरेर्नानावर्णत्वं तथा करचरणाद्यवयवत्वं श्रियमन्तरेणा- वस्थानं ध्वनितं तत्कथं युज्यत इतीयमाशङ्का “नानावर्णो हरिस्त्वेको बहुशीर्षभुजोरुपात्। आसील्लये तदन्यत्तु सूक्ष्मरूपं श्रियं विना । असुप्तः सुप्त इव च मीलिताक्षो भवेद्धरिः । अन्यत्रानादराच्छीच विष्णो लीनेव कथ्यते । सूक्ष्मत्वेन हरौ स्थानाल्ली- नमन्यदपीष्यते” । इत्यनेन परिहर्तव्येति । सृष्टौ स्वीकृतनानावर्ण ज्ञानात्मकावयवं यद्रयं दृष्टं तदेव प्रलये स्वोदरलीन प्रपञ्च- नित्यप्रबुद्धमपि स्वलीनवत्स्थितं श्रीतत्त्वेन मीलिताक्षमपरिच्छिन्नं श्रीहरिरूपमिति भावः ॥ ४७ ॥ * * लयमुक्त्वा सृष्टिमाह | मयीति । मयि मत्सम्बन्धिनाभेः यत्पद्ममासीत् ततः पद्मादेव स्वयम्भूः समभूदित्यन्वयः । कोऽयंभूरित्यत उक्तमज इति अजा विष्णुहरच्छागा” इत्यतः कथं निर्णय इत्यत उक्तमाद्य इति । जगदादौ भूतश्चतुर्मुख एवेत्यर्थः । “अजः पितामहो ’ इत्यभिधानाच्च । कीदृशे मयि अनन्तगुणे असङ्ख्यातज्ञानादिगुणे गुणतोऽनन्ते प्रत्येकशोऽप्यसंख्याते अनन्तविग्रहे असंख्यातरूपे “प्रत्येकशो गुणानां तु निःसीमत्वमुदीर्यते । अनन्तत्वं तु गुणतस्ते चानन्ता हि संख्यया । अतोऽन तगुणो विष्णुर्गुण- तोऽनन्त एव च” इति वचनं चात्र मानम् ॥ ४८ ॥ * * महादेवः देवेभ्यो महानुत्तमः । स ब्रह्मा अकल्पमशक्त स्रष्टुमिति शेषः ।। ४९ ।।
- अथ तदा में मया येन तपसा ।। ५०-५२ ।।
- ब्रह्मा”
- 1
- जीवगोस्वामिकृतः क्रमसन्दर्भः
- तीत्रया नितान्तया मुद्रा स्वात्मस्थिततत्प्रेमरूपया । आपूरितैः सर्वेणाप्यंशेन पूरितैः सद्भिर्मनोद्वारैः ज्ञानेन्द्रियैरिति तत्तदावेशात् स्वात्मनः सर्वाशेन पूरितैनिर्झरैर्जलनिर्गमैह दिन्य इवेति । ४१-४४॥ * * नन्वकामस्य तव कथम्भूत- विभूतिकामना । उच्यते । भक्तसम्बन्धात्तद्वात्सल्येनैवेत्याह । ब्रह्मेति । ब्रह्मादयो भक्ता हि मनवः मम विभूतयः ते चान्येषां
- । भूतिहेतव इति ॥ ४५ ॥ * * * यतो भक्तिः खलु ममान्तरङ्गा शक्तिरित्याह । तप इति ॥ ४६ ॥
- इति रूपम् ।
- (१) राशब्दस्य कुल्यान्नवाचित्वात्कुल्यान्नमित्युक्तम् कुल्यानं लातव्य कुलयोग्यान्नम् ।
- तत्र भक्त
- ( २ ) अपूशब्दवदित्यनेन अपशब्दो नित्यं बहुवचनान्त इति सूच्यते “पुंसि भूम्न्यसवः प्राणा” इत्यभिधानम् सुराः सुरायौ सुराय
- स्क. ६ अ. ४ श्लो. ४१-५० ]
- अनेकव्याख्यासमलङ्कृतम्
- १६७
- एव मम सृष्टचोदिसम्बन्धे हेतुरिति दर्शयितुमाह । अहमिति । पद्ममिदं जगदधिकृत्य न तु वैकुण्ठमधिकृत्येति ज्ञेयम् ॥ ४७ ॥ * भक्तमेव दर्शयति । मयीति ॥ ४८ ॥ * * वीर्योपबृंहितः वीर्याज्जातः ।। ४९ ।। * तस्य च भक्ति दर्शयति । अथेति । तस्माद्भवतोऽपि भूतिविभूतिहेतुत्वं भक्तत्वादेवेति ।। ५०-५२ ।।
- *
- 1
- विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी
- ।
- यथा हृदिन्यो निर्झरैरापूर्य्यन्ते तथा मुद्दा आनन्देन आपूरितानि मनोद्वाराणि चक्षुरादीन्द्रियाणि तैर्हेतुभिः किञ्चन उदीरयितुं वक्तुं द्रष्टुं श्रोतुं वा नाशकत् ।। ४१-४२ ।। मयि परं भावं परमात्मैवायमिति श्रेष्ठां भावनाम् ॥ ४३ ॥ ** अस्य विश्वस्य उद्बृंहणं वृद्धिकरं यत्ते तपोऽभूत् एष ममैव कामः । मदिच्छयैव तव तपः सिद्धं बभूवेत्यर्थः । ननु किमाकारस्ते कामस्तत्राह । भूतानां विभूतयः समृद्धयो भूयासुरिति । यदेष एवेति ॥ ४४ ॥ * * न तु भवादृशा निकृष्टा एवेत्याह ।
- । ब्रह्मेति ॥ ४५ ॥ * कर्म्मयोगे समुचितं मे रूपं शृण्वत्याह । तपः तपः यमनियमादिकं में हृदयम् । विद्या साङ्ग- मन्त्रजपो मे तनुः । क्रिया नित्यनैमित्तिकाद्या ममाकृतिः आकारः । क्रतवो ममाङ्गानि शिरो वा । “एतद्यत् प्रवर्ग्य उपसश्चक्षुषी आज्यभागौ” इत्यादि श्रुतेः । जाता अभूवन् । धर्म्मः क्रत्वाद्यपूव्वं ममात्मा मनः । ममासवो देवाः सच्चिदानन्दस्वरूपस्य मम हृदयादिविभूतयस्तपआदयः ॥ ४६ ॥ * * भक्तियोगे समुचितं मे स्वरूपं शृण्वत्याह । अहमेव त्वया दृश्यैतत्स्वरूप- वस्त्रालङ्कारास्त्रवाहन पार्षदादिविशिष्ट एवा सृष्टेः पूर्वमासमेव । तथैवाग्रे महाप्रलयानन्तरमपि भविष्याम्येवेत्य इत्यस्य पूर्वोत्तरकालवाचित्वाल्लभ्यते । साम्प्रतं त्वस्म्येवेत्यस्य स्वत एवं प्राप्तिरिति स्वस्य त्रैकालिकी सत्ता दर्शिता । किञ्च । ममान्तरं बहिश्च अन्यत् किमपि नास्ति । परिच्छिन्नस्यापि मत्स्वरूपस्य व्यापकत्वादित्यचिन्त्यशक्तिमत्त्वञ्च दर्शितम् । यद्वक्ष्यते “न चान्तर्न बहिर्यस्य न पूर्व्यं नापि चापरम् । पूर्व्वापरं बहिश्चान्तर्जगतो यो जगच्च यः । तं मत्वात्मजमव्यक्तं मर्त्यलिङ्गम- धोक्षजम् । गोपिकोलूखले दाम्ना बबन्ध प्राकृतं यथा” इति । ज्ञानयोगे समुचितं स्वरूपं शृण्वित्याह । संज्ञानमात्रं चैतन्य - मात्रम् । अव्यक्तमिन्द्रियवृत्तिभिरग्राह्यं विश्वतः सर्व्वत्र ॥ ४४ ॥ * * स्वस्वरूपसत्वमुपदिश्य सृष्टौ प्रवर्त्तयितुमिति- हासमाह । मयीति । गुणतो मायातः । गुणविग्रहो महासमष्टिब्रह्माण्डं ततस्तन्मध्य एव स्वयम्भूर्युष्माकमाद्यः ॥ ४८ ॥ * * खिलमसमर्थमिव ।। ४९ ।। * मे मया तप तपेत्युक्तः सन् येन तपसा ।। ५० ।।
- ।
- র
- शुकदेवकृतः सिद्धांत प्रदीपः
- निर्झरैर्हृदिन्यो नद्य व मुदा आपूरितमनोद्वारैरानन्दितान्तःकरणबहिरिन्द्रियैः किञ्चनाप्युदीरयितुं नाश- कत् ।। ४१–४२ ।। * * भावं भक्तिम् ॥ ४३ ॥ * * यत् यस्मात्ते तपः अस्योबृंहणं वृद्धिकरमतस्ते तुभ्यं प्रीतोऽहं प्रीतिमेव दर्शयति । भूतानां विभूतयः समृद्धयो भूयासुर्भवेयुरिति यद्वेष ममैव कामः ॥ ४४ ॥ * * भूतिहेतवो विभूतिवृद्धिकराः तपसेति शेषः ।। ४५ ।। * * प्रस्तुतं स्वप्रीतिजनकं तपः स्तुवंस्तद्वद्विद्यादीन्यपि स्वप्रीतिजनकानि स्तौति । तप इति । हृदयं मनः । तनुर्देहः क्रिया सदाचारः । आकृतिः आकारः । जाताः स्वनुष्ठिताः क्रतवः मखानि आत्मा स्वरूपम् ॥ ४६ ॥ * * ननु यत्तपसा प्रीतोऽभूत् यस्य च ब्रह्मादयो विभूतयः स त्वं कः कुतश्च ते तव विभूतय इत्यत्र अहं सर्वहेतुर्ब्रह्मादयो मत्कार्य्यत्वान्मद्विभूतय इति सूचयन् पुनस्तपस्तौति । अहमिति चतुर्भिः । अप्रे सृष्टेः पूर्वम् अहं सर्वबीज- भूतं ब्रह्मैव आसमेव अन्यत्ततः पृथगान्तरं भोक्तृत्वं बहिर्भोग्यवस्तु किञ्चन किञ्चनापि नासीत् । सर्वस्य सूक्ष्मरूपेण मदन्तर्गत- त्वात् । कथम्भूतम् । संज्ञानमात्रं सम्यग् ज्ञानमात्रं ज्ञेयस्य विश्वस्य स्वस्मिन्नुपसंहृतत्त्वादित्यर्थः । अत एवाव्यक्तं विश्वाकारं व्यक्तावस्थारहितम् । विश्वतः सर्वतः प्रसुप्तमिव ॥ ४७ ॥ * * गुणतः शक्तिगुणेभ्यः । गुणविग्रहो ब्रह्माण्डाख्यो मम देहः । ततस्तदनन्तरम् आद्यः प्रजानां पूर्वः अजोऽयोनिजः ॥ ४८ ॥ * * स महादेवो ब्रह्मा मम वीर्येणोपबृंहितः उत्पादितः । सर्गकर्मणि उद्यतः आत्मानं खिलमसमर्थमनाथमिव मेने नाथे मयि विद्यमानेऽपीति द्योतयितुमिव- शब्द: ।। ४९ ।। * * दारुणं दुष्करं विभुर्विपुलबोधः ॥ ५० ॥
- ।
- गोस्वामिगिरिधरलालविहिता बालप्रबोधिनी
- यथा निर्झरैर्हदिन्यो नद्यः पूर्यन्ते तथा मुदा आनन्देनापूरितैः मनोद्वारैन्द्रियैर्हेतुभूतैः प्रजापतिः किञ्चिदप्युदीरयितुं वक्तुं नाशकदित्यन्वयः ॥ ४१ ॥ यद्यपि दक्षो न किञ्चिदुवाच तथापीदं वक्ष्यमाणं भगवानाहेत्यन्वयः । न च दक्ष उपेक्षायोग्यो भक्तत्वादित्याह भक्तमिति भक्तेर्लिङ्गमाह - तथा विवशतयाऽवनतमिति । ननु तथापि तदभिप्रायज्ञानमन्तरेण
- १६८
- ।
- "
- श्रीमद्भागवतम्
- [ स्कं. ६ अ. ४ श्लो. ४१-५० कथमुवाचेत्याशङ्कयाह — सर्वभूतानां चित्तमभिप्रायं जानातीति तथा सः । ज्ञाने हेतुमाह - जनार्दन इति, जनामविद्यामर्द - यतीति तथा अविद्यारहित इत्यर्थः ॥ ४२ ॥ * * प्राचेतस इति सम्बोधनेन पितृत्वात्तेषां तपसोऽशोऽपि त्वयि वर्त्तते इति सूचयति । हे महाभागेति सम्बोधनेनैवम्भूतानां मद्भक्तानां गृहे जन्म तपो निष्ठा च तव पूर्वानुष्ठितयज्ञादिधर्म- प्रभावादेवेति सूत्रयति । तपसा भवान् संसिद्धः । का वा सिद्धिर्मया प्राप्तेत्यपेक्षायामाह - यदिति, परं भावं परां भक्तिं गतः प्राप्तः । भक्तिरेव परमपुरुषार्थं इति भावः ॥ ४३ ॥ हे प्रजानाथेति सम्बोधनेन प्रजापालनादिसामर्थ्यं प्रतिपाद- यति । अहं ते प्रीतः । तत्र हेतुमाह यदिति, यस्मात्ते तपः अस्य विश्वस्य उबृंहणं वृद्धिकरम् । ननु मत्तपसो विश्वसमृद्धिहेतुत्वं चेत्त्वत्प्रतीतेः किं कारणमित्याह - ममेति भूतानां विभूतयः समृद्धद्यादयो भूयासुरिति यदेष एव मम कामः । तथाच तपसा मत्कामपूरणादेवाहं प्रीतोऽस्मीति भावः ॥ ४४ ॥ * * लोकविभूतिविस्तारप्रयत्नश्च तवोचित एव ब्रह्मादिवत्तत्राधिकृत- त्वादित्याशयेनाह – ब्रह्मेति । भवन्तः प्रजापतयः भूतानां प्राणिनां भूतेरुद्भवस्य हेतवः । हि यस्मात् एता ब्रह्माद्या मम विभूतयोऽवतारविशेषा एव ।। ४५ ।। * * विश्वसमृद्ध्यर्थेन त्वत्तपसाऽहं प्रीत इत्युक्तं तदेव तपस्स्तुवन् प्रसङ्गादन्यान्यपि लोकवृद्धिकराणि विद्यादीनि स्तौति तपो यमनियमादिसहितं ध्यानं मे हृदयम् । विद्या साङ्गमन्त्रजपो मे तनुः । क्रिया नित्य- नैमित्तिक परिचर्याद्याः आकृतिः आकारः । जाताः सुनिष्पन्नाः । क्रतवो मेऽङ्गानि “शिरो वा एतद्यज्ञस्य यत्प्रवर्ग्यः श्रीवा उपसदः चक्षुषी आज्यभागौ ” इत्यादिश्रुतेः । धर्मः क्रत्वाद्यपूर्वमात्मा मनः । सुरा यज्ञभागभुजो में असवः प्राणाः सन्तर्पणीय- त्वात् । हे ब्रह्मनिति सम्बोधनं पूर्वजन्माभिप्रायेण यज्ञादिधर्मज्ञत्वसूचनाय । साक्षादिति तु पाठान्तरम् ॥ ४६ ॥ * तपस एव सृष्टिहेतुत्वं दर्शयति - अहमिति चतुर्भिः । अप्रे सृष्टेः पूर्वम् अहमेवासमेव, आन्तरं ग्राहकमन्तः करणं बहिःकरणं वा बहि: ग्राह्यं वस्तु चान्यत्किञ्चिदपि नासीत् । आसमेवेत्येवकारेण क्रियान्तरं व्यावर्त्तयति । सन्ज्ञानमात्रं चैतन्यमात्रमव्यक्तं यदिदानीमपि इन्द्रियवृत्तिभिरनभिव्यक्तं प्रकाश्याभावमात्रेण प्रकाशकत्वाभावोपचारो न तु ममापि लय इत्याह- प्रसुप्तमिवेति, विश्वतः सर्वव्यापकमित्यर्थः ॥ ४७ ॥ * एवं प्रलयं निरूप्य सृष्टिं निरूपयति-मयीति । अनन्तगुणेऽनन्ते व्यापके मयि यदा गुणतः सत्त्वादितः गुणमयो गुणकार्यभूतो गुणविग्रहो ब्रह्माण्डात्मक आसीत्तदा ततस्तस्मिन्नेव आद्यः । युष्माकं प्रजापतीनां कारणभूतम् उद्यमं विनैव जातत्वात् स्वयम्भूः अदृष्टपितृत्वादज इति व्यवह्रियमाणो ब्रह्मा समभूदित्य- न्वयः ।। ४८ ।। स महादेवो देवेभ्यो महानपि मम वीर्येणोपबृंहितः समर्थीकृतोऽपि सर्गकर्मणि उद्यतो यदा वै आत्मानं खिलं तत्रासमर्थमिव मेने ॥ ४९ ॥ अथ तदा मे मयाऽभिहित उपदिष्टः सन् देवो दारुणं तपोऽतप्यत । येन तपसा स विभुः समर्थः सन्नादौ युष्मान् विश्वसृजोऽसृजदित्यन्वयः । चकारादन्येऽपि बहवस्तपोबलेन सृष्टिं कृतवन्त इति दर्शयति-नव विश्वसृज इति पाठान्तरम् ।। ५० ।।
भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी , 5 न किंचनेति । तीव्रया निरतिशयया, मुदा आपूरितानि यानि मनोद्वाराणीन्द्रियाणि तैः, निर्झरैः हृदिन्यः नद्यः इव, निर्झरैः नद्यः यथा आपूर्यन्ते तथा मनोद्वारेन्द्रियाणां महानन्दापूर्णत्वात् तथाविवेन्द्रियैर्युक्तः सन् किंचन किंचिदपि मनीषितं, उदीरयितुं वक्तुं न अशकत् । कथयितुं समर्थो नाभूदित्यर्थः ॥ ४१ ॥ तं तथेति । तथा उक्तप्रकारेण । स्वमनीषित विज्ञापनेऽप्यशक्तम् अवनतं नम्रीभूतं, प्रजाकामं प्रजाः कामयमानं, प्रजापतिं तं दक्षं, सर्वभूतानां सर्वसत्त्वानां चित्तज्ञः अभिप्रायवित् जनार्द्दन: भगवान् इदं वक्ष्यमाणम् आहोवाच ।। ४२ ।। * * उक्तमेवाह । प्राचेतसेति । महाभाग महाबुद्धिमन्, हे प्राचेतस प्रचेतसां सूनो, भवान् तपसा संसिद्धः । यद्यस्मात् अहं परः प्रधानभूतो यस्यां तया मत्परया श्रद्धया मयि परमुत्कृष्टं भावं भक्ति गतः प्राप्तवान् ॥ ४३ ॥ * प्रीत इति । हे प्रजानाथ, ते तुभ्यम् अहं प्रीतः । कुतः यद्यस्मात् ते तब, तपः अस्य जगतः, उबृंहणं वृद्धिकरं तव तपसो जगद्वर्द्धकत्वात्तेनाहं प्रसन्नतां प्राप्तोऽस्मीति भावः । एतदेवोपपादयति । मम एषोऽयमेव, कामः । कोऽसौ तत्राह । भूतानां प्राणिनां विभूतयः विशेषतः समृद्धयः, भूयासुर्भवेयुः इति यत् एतस्य मम मनीषितत्वात्तपसो जगद्वृद्धिकरत्वाच्च तेनाहमतिप्रीतोऽस्मीत्यर्थः ॥ ४४ ॥ * ब्रह्मेति । ब्रह्मा चतुर्मुखः, भवो रुद्रः, भवन्तः प्रजापतयः, मनवः स्वायंभुवादय:, विबुधेश्वरा इन्द्रादयश्च एताः सर्वाः, मम विभूतयः । भूतानां भूतिहेतवः समृद्धिहेतवः भवन्ति हि ॥ ४५ ॥ * * विश्ववृद्धयर्थेन त्वत्तपसाऽहं प्रीत इत्युक्तं तदेव तपः स्तुवन् प्रसङ्गादन्यान्यपि लोकवृद्धिकराणि विद्यादीनि स्तौति । तूप इति । हे ब्रह्मन् तपः यमनियमादिसहितं ध्यानं, मे मम हृदयं, विद्या साङ्गमन्त्रजपः, तनुः शरीरम् क्रिया भावनाशब्दवाच्यः ध्यानादिविषयः पुंव्यापारः, आकृतिः । क्रतवो यज्ञाश्च, मम अङ्गान्यवयवाः । तत्र उपसद: पात्रविशेषास्तत्साध्याः यज्ञाः । क्रतवश्वरुपुरोडाशादिसाध्याः । धर्मः स्मात " 3 ,स्कं. ६ अ. ४ श्लो. ५१-५४] अनेकव्याख्यासमलङ्कृतम् १६९ दानादिरूपः, आत्मा मनः, सुरा यज्ञभुजः, असवः प्राणाः संतर्पणीयत्वात् ॥ ४६ ॥ * * तपसः संतानवृद्धिहेतुत्वं दर्शयितुं द्वितीयतृतीयोक्तमितिहासमाह चतुर्भिः । अहमेवासमिति । अग्रे सृष्टेः प्राक् अहम् एव आसम् | अविभक्तनामरूप- चिदचिच्छरीरक एकोऽहमेवावस्थित इत्यर्थः । एतदेवोपपादयति । अन्यत् आन्तरं चिद्रूपं बहिरचिद्रूपं, किंच किंचित्, न नैवासीदित्यर्थः । एवं सति जीवप्रकृतिस्वरूपनाशाशङ्का प्राप्ता तद्वयावृत्त्यर्थमाह । संज्ञानमात्रमिति । संजानातीति संज्ञानम् । नन्द्यादित्वात्कर्त्तरि ल्युः । संज्ञानमेव संज्ञानमात्रम् । नामरूपविभागरहितं ज्ञातृतोपेयज्ञानात्मकात्मस्वरूपमित्यर्थः । अव्यक्त प्रधानं च, विश्वतः कात्स्न्र्त्स्न्येन, प्रसुप्तं प्रलीनमिव इवशब्देन तस्य लीनत्वेऽपि जगदात्मना परिणामशक्तिस्तस्यानपगतासीदिति सूच्यते ।। ४७ ।। * मयीति । अनन्तगुणे कल्याणकार्यानन्तगुणाकरे, अनन्ते स्वरूपतोऽप्यन्तवर्जिते मयि, आसीत् । मच्छरीरत्वेनावस्थितमासीदित्यर्थः । ततः गुणतः सूक्ष्मचिदचिच्छरीरकत्वेनावस्थितस्य मम शरीरभूताद्गुणत्रयात् गुणविग्रहः त्रिगुणपरिणामरूपो विग्रहो ब्रह्माण्डात्मको मम देह इत्यर्थः । यदा आसीत्, तदा ततः ब्रह्माण्डशरीरकवैराजपुरुषात्, आद्यः स्वयंभूरयोनिजः, अजो ब्रह्मा, समभूत् एव । इत्युभयोरेकसंबन्धः ॥ ४८ ॥ * * स वै इति । सः वै महादेवो ब्रह्मा, यदा मम वीर्योपबृंहितः मत्संकल्परूपज्ञानेन वृद्धिं प्राप्तः । अनेन जीवात्मनानुप्रविश्येत्युक्तरीत्या मत्संकल्परूपज्ञानेन व्याप्त इत्यर्थः । तदा, सर्गकर्मणि सकलजगत्सर्गक्रियायां उद्यत उद्युक्तः सन्नपि, आत्मानं निजात्मानं खिलमसमर्थमिव, मेनेऽ-व- मन्यत ॥ ४६ ॥ * * अथेति । अथासमर्थत्वेनात्मनो मननान्तरं, मे मया, अभिहितस्तप तपेति संकथितः, देवो ब्रह्मा, दारुणं तपः, अतप्यताकरोत् । विभुस्तप्ततीव्रतपाः स ब्रह्मा येन तपोबलेन, विश्वसृजः प्रजापतीन्, नव नवसंख्याकान्, युष्मान, आदौ असृजत् । अतस्तप एवाखिलविश्वो बृंहणकारणमस्तीत्यभिप्रायः ।। ५० ।। " भाषानुवादः । प्रजापति दक्षने आनन्दसे भरकर भगवान् के चरणोंमें साष्टाङ्ग प्रणाम किया । जैसे झरनोंके जलसे नदियाँ भर जाती हैं, वैसे ही परमानन्दके उद्रेकसे उनकी एक-एक इन्द्रिय भर गयी और आनन्दपरवश हो जानेके कारण वे कुछ भी बोल न सके ।। ४१ ।। * * परीक्षित्! प्रजापति दक्ष अत्यन्त नम्रतासे झुककर भगवान् के सामने खड़े हो गये । भगवान् सबके हृदयकी बात जानते ही हैं, उन्होंने दक्ष प्रजापतिकी भक्ति और प्रजावृद्धिकी कामना देखकर उनसे यों कहा ॥ ४२ ॥ * * श्रीभगवान् ने कहा- परम भाग्यवान् दक्ष ! अब तुम्हारी तपस्या सिद्ध हो गयी; क्योंकि मुझपर श्रद्धा करनेसे तुम्हारे हृदयमें मेरे प्रति परम प्रेमभावका उदय हो गया है ॥ ४३ ॥ प्रजापते ! तुमने इस विश्वकी वृद्धिके लिये तपस्या की है, इसलिये मैं तुमपर प्रसन्न हूँ; क्योंकि यह मेरी ही इच्छा है कि जगत् के समस्त प्राणी अभिवृद्ध और समृद्ध हों ॥ ४४ ॥ * ब्रह्मा, शङ्कर, तुम्हारे जैसे प्रजापति, स्वायम्भुव आदि मनु तथा इन्द्रादि देवेश्वर – ये सब मेरी विभूतियाँ हैं और सभी प्राणियों की अभिवृद्धि करनेवाले हैं ।। ४५ ।। * * ब्रह्मन् ! तपस्या मेरा हृदय है, विद्या शरीर है, कर्म आकृति है, यज्ञ अङ्ग है, धर्म मन है और देवता प्राण हैं ॥ ४६ ॥ * * जब यह सृष्टि नहीं थी, तब केवल मैं ही था और वह भी निष्क्रियरूप में । बाहर - भीतर कही भी और कुछ न था। न तो कोई द्रष्टा था और न दृश्य । मैं केवल ज्ञानस्वरूप और अव्यक्त था । ऐसा समझ लो, मानो सब ओर सुषुप्ति - ही सुषुप्ति छा रही हो ॥ ४७ ॥ * * दक्ष ! मैं अनन्त गुणों का आधार एवं स्वयं अनन्त हूँ । जब गुणमयी मायाके क्षोभसे यह ब्रह्माण्ड - शरीर प्रकट हुआ, * जब मैंने उनमें शक्ति और चेतनाका सञ्चार किया, तब देवशिरोमणि ब्रह्मा सृष्टि करनेके लिये उद्यत हुए। परन्तु उन्होंने अपनेको सृष्टिकार्य में असमर्थ - सा पाया ॥ ४६ ॥ * * उस समय मैंने उन्हें आज्ञा दी कि तप करो। तब उन्होंने घोर तपस्या की और उस तपस्या के प्रभावसे पहले-पहल तुमको लेकर नौप्रजापतियोंकी सृष्टि की ।। ५० ।। प्रिय तब - इसमें अयोनिज आदिपुरुष ब्रह्मा उत्पन्न हुए ॥ ४८ ॥ एषा पञ्चजनस्याङ्ग दुहिता वै प्रजापतेः । असिक्नी नाम पत्नीत्वे प्रजेश प्रतिगृह्यताम् ॥ ५१ ॥ मिथुनव्यवायधर्मस्त्वं प्रजासर्गमिमं पुनः । मिथुनव्यवायधर्मिण्यां भूरिशो भावयिष्यसि ।। ५२ ।। त्वत्तोऽधस्तात् प्रजाः सर्वा मिथुनीभूय मायया । मदीयया भविष्यन्ति हरिष्यन्ति च मे बलिम् ॥ ५३ ॥ १. प्रा० पा० – प्रसह्य । २. प्रा० पा० त्वत्तो हि वंशजाः सर्वा० : २२ श्रीमद्भागवतम् प श्रीशुक उवाच [ स्कं. ६ अ. ४ श्लो. ५१-५४ इत्युक्त्वा मिषतस्तस्य भगवान् विश्वभावनः । खप्नोपलब्धार्थ इव तत्रैवान्तर्दधे हरिः ॥ ५४ ॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे चतुर्थोऽध्यायः ॥ ४ ॥ कृष्णप्रिया व्याख्या अन्वयः - अंग प्रजेश आसिक्नी नाम एषा पंचजनस्य प्रजापतेः वै दुहिता पत्नीत्त्वे प्रतिगृह्यताम् ।। ५१ ।। * * त्वं मिथुनव्यवायधर्मः मिथुनव्यवायधर्मिण्याम् इमं प्रजासर्ग पुनः भूरिशः भावयिष्यसि ॥ ५२ ॥ * त्वत्तः अधस्तात् सर्वाः प्रजाः मदीयया मायया मिथुनीभूय भविष्यति च मे बलिं हरिष्यति ।। ५३ ।। इति उक्त्वा तस्य मिषतः स्वप्नोपलब्धार्थः इव ॥ ५४ ॥ इति चतुर्थोऽध्यायः ॥ ४ ॥ श्रीधरस्वामिविरचिता भावार्थदीपिका विश्वभावनः भगवान् हरिः संततिवृद्धयुपायमाह । एषेति । अंग हे दक्ष | पंचजनाख्यस्य प्रजापतेः ॥ ५१ ॥ * मिथुनस्य यो व्यवायो रतिः स एव धर्मो यस्य स त्वम् । तथाभूतायां तस्याम् ॥ ५२ ॥ * * मायया निमित्तभूतया । स्त्रिया सह मिथुनीभूय भविष्यति पुत्रादिरूपेणोत्पत्स्यते ॥ ५३-५४ ॥ इति श्रीमद्भागवते म० षष्ठस्कंधे टीकायां चतुर्थोऽध्यायः ॥ ४ ॥ वंशीधरकृतो भावार्थदीपिकाप्रकाशः अंगेति । स्तुत्या प्रीतिर्थोतितेति भावः । प्रजेशेति । पूर्वजन्मापेक्षयोक्तं भाविप्रजेशत्वाभिप्रायं वा ॥ ५१ ॥ * * तथाभूतायां व्यवायधर्मिण्याम् । तादृशहंसगुह्यस्तवेन स्तुतोपि दत्तनिजश्री मूर्त्तिदर्शनप्रसादोप्युपदिष्टनिजतत्त्वोऽपि दक्षो भगवता यत्कर्मम्ये विषयभोगे निःसीमके निक्षिप्तो न तु स्वप्रेमामृतसिंवौ तत्खलु स्वमहाभक्त श्रीरुद्रापराधशेष स्याभंगुरत्वेन हेतुता गम्यते । अत एवानंतराध्याये श्रीमुनींद्रेणापि विष्णुमायोपबृंहित इत्याख्यास्यमानो दक्षो नारदमप्याक्षेप्यतीति पुनरप्यस्य महदपराधः फलिष्यति न च कर्दमोऽपि भगवता विषयभोग एव निक्षिप्त इति वाच्यं तस्येषत्सकामत्वमाक्ष्यैव भगवता सावधिक एव विषयभोगवरो दत्तो न तु निरवधिक एवं तदुक्तं तत्रैव " त्वञ्च सम्यगनुष्ठाय निदेशं म उशत्तम । मयि तीर्थीकृ- ताशेषक्रियार्थो मां प्रपत्स्यसे ।" इति स च कर्दमोपि अनुग्रहायास्त्वयीत्यादिना भक्तिमेवांते प्रार्थयामास एवं सकामा अपि सर्वे एव भक्ता ध्रुवादयो भक्तिमेवाचकांचुरेव दक्षस्त्वजभक्ति नाकांक्षति स्म भगवानपि तां न ददावित्येतदेवापराधशेषस्यास्तित्वे लक्षणमिति ।। ५२-५३ ॥ * तत्रैव यत्र दृष्ट इत्यर्थः ॥ ५४ ॥ 8 इति श्रीमद्भागवतभावार्थदीपिकाप्रकाशे षष्ठस्कन्धे चतुर्थोऽध्यायः ॥ ४ ॥ अन्वितार्थप्रकाशिका एषेति । अङ्ग हे प्रजेश ! पञ्चजनसंज्ञकस्य प्रजापतेरसिक्नी नामैषा दुहिता पत्नीत्वे पत्न्यर्थ प्रतिगृह्य - ताम् ॥ ५१ ॥ मिथुनेति । मिथुनस्य यो व्यवायः रतिः स एव धर्मो यस्य तथाभूतस्त्वं तथाभूतायां तस्यां पत्न्या- मिमं प्रजासर्ग पुनर्भूरिशो भावयिष्यसि उत्पादयिष्यसि । हंसगुह्यस्तोता तत्त्वज्ञोऽपि दक्षो यत्सृष्टिमार्ग एव भगवता निक्षिप्त- स्तत् श्रीशिवापराधस्य शेषत्वादेवेति ॥ ५२ ॥ * * त्वत्त इति । त्वत्तोऽधस्ताद सर्वाः प्रजा मदीयया मायया स्त्रीरूपया सह मिथुनीभ य भविष्यन्ति पुत्रादिरूपेण जनिष्यन्ते मे बलिं च हरिष्यन्ति मम पूजनं च करिष्यन्ति ।। ५३ ।। * * इतीति । इत्येवमुक्त्वा विश्वस्य भावनः उपबृंहको भगवान् हरिः तस्य प्रजापतेर्मिषतः सतः स्वप्न उपलब्धो दृष्टोऽर्थ इव तत्रैवान्तर्दधे ॥ ५४ ॥ इति श्रीभागवते महापुराणे षष्ठस्कन्धेऽन्वितार्थप्रकाशिकायां चतुर्थोऽध्यायः ॥ ४ ॥ १. प्राचीने पाठे ‘श्रीशुक उवाच’ अयमंशो न । २. प्राचीने पाठे ‘भगवद्दक्षसंवाद’ इत्यधिकः पाठः । स्के. ६ अ. ४ श्लो. ५१-५४] अनैकव्याख्यासंमलेङ्कृतम् वीरराघवव्याख्या १७१ सन्ततिवृद्ध्युपायमाह । एषेति । अङ्ग हे दक्ष ! पञ्चजनस्य प्रजापतेर्याऽसिक्नी नाम दुहिता सैषा हे प्रजेश ! पत्नीत्वे भार्यात्वेनेत्यर्थः । प्रतिगृह्यतां त्वयेति शेषः ।। ५१ ।। * मिथुनस्य यो व्यवायो रतिः स एव धर्मो यस्य सः त्वं मिथुनव्यवायधर्मिण्यामसिक्नथामिमं प्रजासर्ग भूरिशो भावयिष्यसि वर्द्धयिष्यसीत्यर्थः । उभयोरपि मिथुनव्यवायधर्म- विशेषणं परस्परसानुकूलसूचनार्थम् ॥ ५२ ॥ * * त्वत्तोऽधस्तादर्वाचीनाः प्रजाः सर्वाः मदीयया मायया मत्सङ्कल्पेन मिथुनीभूय भविष्यन्ति । मिथुनीभूता भविष्यन्ति मिथुनकर्मणोत्पत्स्यन्त इत्यर्थः । त्वत्तोऽधस्तात् प्रजा इत्यनेन प्राचेतसात्पूर्व केवलसङ्कल्पादिभिरपि प्रजानामुत्पतिरिति सूचितम् । तथा मे मह्यं च बलि हरिष्यन्ति । मदाराधनरूपं यज्ञादिकर्म करिष्यन्ती- त्यर्थः ॥ ५३ ॥ * * इतीत्थमुक्त्वा विश्वस्य भावन उत्पादको भगवान् हरिस्तस्य प्राचेतसस्य मिषतः पश्यतः सतः स्वप्नोपलब्धार्थ इवेति विस्मयनीयत्वविषददृष्टित्वे च दृष्टान्तः । यथा “ रुक्माभं स्वप्नधीगम्यं विद्यात्तं पुरुषं परम्” इति ॥ ५४ ॥ इति श्रीमद्भागवत महापुराणे षष्ठस्कन्धे श्रीमद्वीरराघवाचार्यकृतभागवतचन्द्रचन्द्रिकायां चतुर्थोऽध्यायः ॥ ४ ॥ विजयध्वजतीर्थकृता पदरत्नावली मदीयया मत्सृष्टया मायया स्त्रीरूपिण्या अधस्तादर्वाचीनाः । बलिं मे हरिष्यन्ति दास्यन्ति ॥ ५३ ॥ * * मिषतः पश्यतः ॥ ५४ ॥ इति श्रीमद्भागवते महापुराणे षष्ठस्कन्धे श्रीमद्विजयध्वजकृतपदरत्नावल्यां चतुर्थोऽध्यायः ॥ ४॥ जीवगोस्वामिकृतः क्रमसन्दर्भ : मिथुनीभूयेति केवलं मिथुनी भूयैवेत्यर्थ: ।। ५३-५४ ।। इति श्रीमद्भागवते महापुराणे षष्ठस्कन्धे श्रीमज्जीव गोस्वामिकृतक्रमसन्दर्भस्य चतुर्थोऽध्यायः ॥ ४ ॥ विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी त्वमपि सर्व्वरूपे पैतृके धर्मे यतस्वेत्याह । एषेति ॥ ५१ ॥ मिथुनस्य स्त्रीपुंसयोर्यो व्यवायः रतिः स एव धर्मो यस्य स त्वम् । तथाभूतायां तस्यामिति तादृशहंसगुह्यस्तवेन स्तुतेनापि दत्तनिजश्रीमूर्त्तिदर्शनप्रसादोऽपि उपदिष्टनिज- तत्त्वोsपि दक्ष भगवता यत् कर्ममार्गगम्ये विषयभोगे निःसीमके निक्षिप्तो न तु स्वप्रेमामृतसिन्धौ । तत्खलु स्वमहाभक्त- श्रीरुद्रापराधशेषस्या भङ्गुरत्वेन हेतुना इति गम्यते । अत एवानन्तराध्याये श्रीमुनीन्द्रेणापि विष्णुमायोपबृंहित इत्याख्यास्यमानो दक्षो नारदमप्याक्षेप्स्यतीति पुनरप्यस्य महदपराधः फलिष्यति । न च कर्द्दमोऽपि भगवता विषयभोग एव निक्षिप्त इति वाच्यम् । तस्यैषत्सकामत्वमा लक्ष्यैव भगवता सावधिक एव विषयभोगवरो दत्तः । न तु निरवधिक एव । यदुक्तं तत्रैव " त्वच सम्यगनुष्ठाय निदेशं मे उशत्तमः । मयि तीर्थीकृताशेषक्रियार्थो मां प्रपत्स्यसे" इति । स च कर्द्दमोऽपि अनुग्रहायास्त्वी- त्यादिना भक्तिमेवान्ते प्रार्थयामास । एवं सकामा अपि सर्व्व एव भक्ता ध्रुवादयो भक्तिमेवाचकानुरेव दक्षस्त्वजं भक्ति नाका- कृति स्म भगवानपि तां न ददावित्येतदेवापराधशेषस्यास्तित्वे लक्षणमिति ।। ५२ ।। * * भविष्यन्ति पुत्रादिरूपेण जनिष्यन्ते ।। ५३-५४ ॥ इति सारार्थदर्शिन्यां हर्षिण्यां भक्तचेतसाम् । षष्ठस्कन्धे चतुर्थोऽयं सङ्गतः सङ्गतः सताम् ॥ ४ ॥ शुकदेवकृत: सिद्धांत प्रदीपः कुरुतान्मे मनोरथमिति तद्वान्छितं प्रजावृद्ध्युपायमाह । एषेति ॥ ५१ ॥ * मिथुनस्य स्त्रीपुरुषयुग्मस्य यो व्यवायो रतिः स एव धर्मो यस्य । स त्वं तथाभूतायां प्रजासर्गं भूरिशः बहुप्रकारं भावयिष्यसि ॥ ५२ ॥ * * अधः अधस्तात्पश्चात् । मिथुनीभूय द्वन्द्वीभूय भविष्यन्त्यपत्यरुपैरुत्पत्स्यन्ते ।। ५३ ॥ * * मिषतः पश्यतः ॥ ५४ ॥ इति श्रीमद्भागवत महापुराणे षष्ठस्कन्धे श्रीमच्छुकदेवकृत सिद्धान्तप्रदीपे चतुर्थाध्यायार्थप्रकाशः ॥ ४ ॥ १७३ श्रीमद्भागवतम् गोस्वामिगिरिधरलाल विहिता बालप्रबोधिनी [ स्कं. ६ अ ४ श्लो. ५१-५४ एवं तपःप्रभावमुक्त्वा तद्युक्तस्येदानीं प्रजावृद्धयुपायमुपदिशति - एषेति त्रिभिः । पञ्चजनसन्ज्ञकस्य प्रजापतेरसिक्नी नामैषा दुहिता पत्नीत्वेन पत्न्यर्थ वै निश्चयेन प्रतिगृह्यतामित्यन्वयः । हे अङ्गेति सम्बोधनं स्वानुग्रहसूचकम् । प्रजासृष्ट्चधिकृतस्य तब पत्नीग्रहणमावश्यकमिति सूचनाय सम्बोधनान्तरं हे प्रजेशेति ॥ ५१ ॥ मिथुनस्य यो व्यवायः रतिः स एव धर्मो यस्य स तथाभूतस्त्वं तथाभूतायां तस्यां पत्न्यामिमं प्रजासर्ग पुनर्भूरिशो भावयिष्यसि उत्पादयिष्यसीत्यन्वयः । पूर्वजन्मो- त्पादितस्य सर्गस्येदानीं विनष्टत्वात् पुनर्ग्रहणम् ।। ५२ ।। त्वत्तोऽधस्ताद सर्वाः प्रजा मदीयया मायया स्त्रीरूपया सह मिथुनीभूय भविष्यन्ति पुत्रादिरूपेण जनिष्यन्ति मे बलिं च हरिष्यन्ति मम पूजनं च करिष्यन्तीत्यर्थः ॥ ५२ ॥ * * मिषतः पश्यतः सतः । एवमनुग्रहेणोपदेशे हेतुं सूचयन् विशिनष्टि - विश्वभावन इति, विश्वं भावयति संवर्द्धयतीति तथा || ५४ || इति श्रीवल्लभाचार्यवंश्य गोपालसूनुना । श्रीमन्मुकुन्दरायाणां पादसेवाधिकारिणा ॥ १ ॥ श्रीमगिरिधराख्येन भजनानन्दसिद्धये । श्रीमद्भागवतस्येयं टीका बालप्रबोधिनी ॥ २ ॥ रचिता तत्र षष्ठेऽस्मिन् स्कन्धे रूपनिरूपणे । चतुर्थो विवृतो दक्षप्रसादविनिरूपकः ॥ ३ ॥ भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी
सांप्रतं संततिवृद्धयुपायमाह । एषेति । अङ्ग हे दक्ष, पञ्चजनस्य, प्रजापतेः, या असिक्नी नाम दुहिता, सा एषा हे प्रजेश पत्नीत्वे भार्यात्वे स्त्रीभावेनेत्यर्थः । प्रतिगृह्यताम् । त्वयेति शेषः ॥ ५१ ॥ मिथुनेति । मिथुनस्य स्त्रीपुंस - युगलस्य यो व्यवायो रतिः स एव धर्मो यस्य सः त्वं मिथुनव्यवायधर्मिण्यामसिक्न्यां इमं प्रजासर्ग, पुनः भूरिशः, भावयिष्यसि वर्द्धयिष्यसि उभयोरपि मिथुनव्यवायधर्मविशेषणं परस्परानुकूलतासूचकत्वाय ।। ५२ ।। * * त्वत्त इति । त्वत्तः, अधस्तात् भवतः अर्वाचीना इत्यर्थः । सर्वाः प्रजाः, मदीयया मायया निमित्तभूतया, मत्संकल्पेनेत्यर्थः । मिथुनीभूय, भविष्यन्ति । मिथुनकर्मणोत्पस्यन्ते इत्यर्थः । त्वत्तोऽधस्तादित्यनेन प्राचेत सदक्षात्पूर्वं केवलसंकल्पादिभिरपि प्रजोत्पत्तिरभवदिति सूचितम् । तथा च मे मह्यं, बलिं हरिष्यन्ति । मदाराधनरूपं यज्ञादि कर्म च करिष्यन्ति इत्यर्थः ॥ ५३ ॥ इतीति । इतीत्थम् उक्त्वा, विश्वभावनः विश्वोत्पादकः, भगवान् हरिः, तस्य प्राचेतसस्य, मिषतः पश्यतः सतः, स्वप्नोपलब्धार्थः इव, तत्रैव अन्तर्द्दधे ।। ५४ ॥ । इति श्रीधर्मधुरंधर श्रीधर्मात्मजप्रत्यक्षपुरुषोत्तम सहजानन्दस्वामिसुतश्रीरघुवीराचार्यसूनुभगवत्प्रसादाचार्यविरचिता- यामन्वयार्थावबोधिन्यां भक्तमनोरञ्जन्याख्यायां श्रीमद्भागवतटीकायां षष्ठस्कन्धे चतुर्थोऽध्यायः ॥ ४ ॥ भाषानुवादः । प्रिय दक्ष ! देखो, यह पञ्चजन प्रजापतिकी कन्या असिक्नी है । इसे तुम अपनी पत्नी के रूपमें ग्रहण करो ॥ ५१ ॥ * अब तुम गृहस्थोचित स्त्रीसहवासरूप धर्मको स्वीकार करो । यह असिक्नी भी उसी धर्मको स्वीकार करेगी । तब तुम इसके द्वारा बहुत-सी प्रजा उत्पन्न कर सकोगे ॥ ५२ ॥ प्रजापते ! अबतक तो मानसी सृष्टि होती थी, परन्तु अब तुम्हारे बाद सारी प्रजा मेरी मायासे स्त्री-पुरुषके संयोग से ही उत्पन्न होगी तथा मेरी सेवामें तत्पर रहेगी ॥ ५३ ॥ * श्रीशुकदेवजी कहते हैं- विश्वके जीवनदाता भगवान् श्रीहरि यह कहकर दक्षके सामने ही इस प्रकार अन्तर्धान हो गये, जैसे स्वप्नमें देखी हुई वस्तु स्वप्न टूटते ही लुप्त हो जाती है ॥ ५४ ॥ इति चतुर्थोऽध्यायः ॥ ४ ॥ अथ पञ्चमोऽध्यायः श्रीशुक उवाच । तस्यां स पाञ्चजन्यां वै विष्णुमायोपबृंहितः । हर्यश्वसंज्ञानयुतं पुत्रानजनयद् विभुः ॥ १ अपृथग्धर्मशीलास्ते सर्वे दाक्षायणा नृप । पित्रा प्रोक्ताः प्रजासर्गे प्रतीचीं प्रययुर्दिशम् ॥ २ ॥ तत्र नारायणसरस्तीर्थं सिन्धुसमुद्रयोः । सङ्गमो यत्र सुमहन्मुनिसिद्धनिषेवितम् ॥ ३ ॥ तदुपस्पर्शनादेव विनिधू तमलाशयाः । धर्मे पारमहंस्ये च प्रोत्पन्नमतयोऽप्युत ॥ ४ ॥ तेपिरे तप एवोग्रं पित्रादेशेन यन्त्रिताः । प्रजाविवृद्धये यत्तान् देवर्षिस्तान् ददर्श ह ॥ ५ ॥ उवाच चाथ’ हर्यश्वाः कथं त्रक्ष्यथ वै प्रजाः । अदृष्ट्ान्तं भुवो यूयं बालिशा बत पालकाः ।। ६ ।। तथैकपुरुषं राष्ट्रं बिलं चादृष्टनिर्गमम् । बहुरूपां स्त्रियं चापि पुमांसं पुंश्चलीपतिम् ॥ ७ ॥ नदीमुभयतोवाहां पञ्चपञ्चाद्भुतं गृहम् । क्वचिद्धंसं चित्रकथं क्षौरपन्यं स्वयं भ्रमिम् ॥ ८ ॥ कृष्णप्रिया व्याख्या
-
- तदुपस्पर्शनात्
- तत्र नारायणसरः एव विनिर्धूतमलाशयाः अन्वयः - विष्णुमायोपबृंहितः सः विभु तस्यां पाञ्चजन्यां हर्यश्वसंज्ञान् अयुतं पुत्रान् अजनयत् ॥ १ ॥ * * नृप अपृथग्धर्मशीलाः सर्वे दाक्षायणा: प्रजासर्गे पित्रा प्रोक्ताः प्रतीचीं दिशं प्रययुः ॥ २ ॥ सुमहन् मुनिसिद्धनिषेवितं तीर्थं यत्र सिंधुसमुद्रयोः संगमः ॥ ३ ॥ उत च पारमहंस्ये धर्मे अपि प्रोत्पन्नमतयः ॥ ४ ॥ * * पित्रादेशेन यंत्रिताः उग्रं तपः एव तेपिरे ह देवर्षिः प्रजा- विवृद्धये यत्तान् ददर्श ॥ ५ ॥ * * अथ च उवाच हर्यश्वाः वै भुवः अन्तम् अदृष्ट्वा यूयं प्रजाः कथं त्रक्ष्यथ पालकाः बत बालिशाः ॥ ६ ॥ * * तथा एकपुरुषं राष्ट्रम् अदृष्टनिर्गमम् बिलं च बहुरूपां स्त्रियं च अपि पुंश्चलीपतिं पुमांसम् ॥७॥ ॐ उभयतोवाहां नदीं पंचपंचाद्भुतं गृहं चित्रकथं कचित् हंसं क्षौरपव्यं स्वयं भ्रमिम् ॥ ८ ॥ श्रीधरस्वामिविरचिता भावार्थदीपिका पंचमे नारदेनाथ वाचः कूटैस्तु नाशितान् । सुतानाकर्ण्य दक्षोऽमुं शशापेति निरूप्यते ॥ १ ॥ अपृथग्धर्मशीला एकाचारस्वभावाः ।। १-२ ।। * * तत्र प्रतीच्यां दिशि सिंधोर्नद्याः समुद्रस्य च यत्र संगमस्तत्रस्थं नारायणसरो नाम तीर्थं प्रययुरित्यन्वयः । सुमहदतिविस्तीर्णम् ॥ ३ ॥ * विनिर्धूतो मलो रागादिर्यस्मात्स आशयो येषाम् ॥ ४ ॥ * * तान् शुद्धसत्त्वानपि पित्रादेशजाडयेन प्रजाविवृद्धये यत्तानुद्युक्तान्ददर्श ॥ ५ ॥ * * अहो कष्टं मोक्षमार्गाधिकारिणः संत एते प्रवृत्तिनिष्ठैः कर्मभिर्नश्येरन्निति कृपया तान्निगूढार्थेर्वाक्यैरुपदिशति स्म तदाह उवाचेति चतुर्भिः । पालकाः संतोऽपि बालिशा अज्ञा यूयं प्रजाः स्रक्ष्यथ बतेति खेदे | बालका इति पाठे बालिशत्वे हेतुः ॥ ६ ॥ एक एव पुरुषो यस्मिंस्तद्राष्ट्रमदृट्वेत्यनुषंगः । बिलं चेत्यादिद्वितीयांतानामविज्ञाय कथं सर्गं करिष्यथेति तृतीयेनान्वयः ॥ ७ ॥ * * पंचपंचानां पंचविशतेरद्भुतं गृहं क्षौरपद्यं क्षुरैः परिभिर्वत्रैश्च निर्मितमिवातितीक्ष्णं दृढं चेत्यर्थः । स्वायं स्वतंत्रम् । भ्रमि भ्रमणस्वभावम् ॥ ८ ॥ १. प्रा० पा० - बादरायणिरुवाच । २. प्रा० पा०तेपुस्ते । ३. प्रा० पा० तान्स | १७४ श्रीमद्भागवतम् वंशीधरकृतो भावार्थदीपिकाप्रकाशः ॥ [ स्कं. ६ अ. ५ श्लो. १-८ वाचः कूटैः परोक्षवादेनार्थांतरमिव प्रतीयमानैर्वचनैः । नाशितान् गृहस्थमार्गतश्चालितान् । अमुं नारदम् ( १ ) स दक्षः । पांचजन्यां पंचजननाम्नः प्रजापतेः पुत्र्याम् ॥ १ ॥ * * प्रतीचीं पश्चिमाम् ॥ २-३ ॥ * * तस्य तीर्थजलस्योपस्पर्शनात्स्नानाचमनादितः उतात्यर्थमुग्रं तप इत्यग्रिमेणान्वयः । " उतात्यर्थविकल्पयोः । समुचये वितर्के च प्रश्ने च पादपूरणे" इति मेदिन्युक्तेः । पादपूरणार्थं वा उतेति । केचित्तु प्रोत्पन्नमतयोऽभवन्निति पेठुः ॥ ४-५ ॥ * * हे हर्यश्वा इति । हरिमविद्यातत्कार्यहर्त्तारमश्नुवते प्राप्नुवंतीति हर्यश्वा इत्यन्वर्थनामवंतो भवंतो भवंतु मा सूर्यभानुदेव- दत्तवद्व पर्थनामानः संत्विति भावः ।। ६-७ ।। * * गृहं विष्णुं परमसाद्गुण्यप्रदत्वाद्भक्तानां तानि तत्रैव स्थातुमर्हतीति भावः । इत्यर्थ इति । क्षुरस्यातितीक्ष्णत्वाद्वस्यातिदृढत्वादिति भावः ॥ ८ ॥ अन्वितार्थप्रकाशिका पञ्चमे स्वसुतान् दक्षो गतान्नारदवाक्यतः । श्रुत्वा शशाप तं तत्र श्लोका दृष्टाः कृतान्धयः ॥ १ ॥ तावत्योऽनुष्टुभो (४४) ऽप्यत्रोवाचवाचां चतुष्टयम् (४) ॥ ५ ॥ तस्यामिति । विष्णुमायया उपबृंहितः लब्धसामर्थ्यः विभुः स दक्षः तस्यां पाञ्चजन्यां हर्यश्वसंज्ञानयुतं पुत्रानजनयत् ॥ १ ॥ * * अपृथगिति । हे नृप ! अपृथग् धर्मशीला एकाचार- स्वभावास्ते सर्वे दाक्षायणाः दक्षपुत्राः प्रजासर्गे पित्रा प्रोक्ताः प्रेरिताः तपोर्थ प्रतीचीं दिशं प्रययुः ॥ २ ॥ तत्रेति । तत्र प्रतीच्यां दिशि यत्र सिन्धुसंज्ञाया नद्याः समुद्रस्य च सङ्गमोऽस्ति तत्रस्थं मुनिभिः सिद्धैश्च नितरां सेवितं सुमहत् अति- विस्तीर्ण नारायणसरो नाम तीर्थमस्ति तद्ययुरित्यनुषङ्गः ॥ ३ ॥ तदिति युग्मम् । तस्य तीर्थस्य स्पर्शनादेव तत्र स्नाना- चमनादिमंत्रेणैव विशेषेण निर्धूतो मलो रागलोभादिर्यस्मात् स आशयोऽन्तःकरणं येषां ते तथा अत एव परमहंसानां विवेकिनां धर्मे आत्मज्ञाने प्रकर्षेणोत्पन्ना मतिर्येषां ते तथाभूताः शुद्धसत्त्वा अपि प्रजाविवृद्धये पित्रादेशेन तन्त्रिताः सन्तः उम्र तप एव तेपिरे । तान् प्रजाविवृद्धये यत्तान् उद्युक्तान् देवर्षिर्नारदो ददर्श ॥ ४-५ ॥ * अहो निवृत्तिमार्गाधिकारिणः प्रवृत्ति- मार्गे क्लिश्येरन्निति कृपया उपदिशति स्मेत्याह - उवाचेति । हे हर्यश्वाः ! प्रजापालकाः अपि यूयं बालिशाः अज्ञा एव । यतः भुवः अन्तमदृष्ट्वा प्रजाः कथं स्रक्ष्यथ । बालका इति पाठे बालिशत्वे हेतुः ॥ ६ ॥ तथेति युग्मम् । तथा भुवोऽ- न्तवत् एक एव पुरुषो यस्मिंस्तद्राष्ट्रमदृष्ट्वा तथा अदृष्टो निर्गमो यस्मात्तविलमदृष्ट्वा बहुरूपं स्त्रियं चादृष्ट्रा पुंश्चल्याः पतिं पुमांस- मदृष्वा उभयतोवाहां विरुद्धोभयदिक्प्रवाहवतीं नदीमदृष्ट्वा पञ्चपञ्चानां पञ्चविंशतिवस्तूनामद्भुतं गृहमदृष्ट्वा चित्रा कथा यस्य तं हंसं कचिददृष्ट्वा क्षौरपत्र्यं तुरैः पविभिर्वत्रैश्च विनिर्मितमिवातितीक्षणं दृढं च स्वयं स्वतन्त्रं भ्रमिं भ्रमणस्वभावं किमपि वस्तु अदृष्ट्वा प्रजाः कथं स्रक्ष्यथ ॥ ७-८ ॥ वीरराघवव्याख्या
. ततः प्राचेतसः किमकरोदित्यत्राह मुनिः । स इति । विष्णुमायोपबृंहितः भगवत्सङ्कल्पेन व्याप्तः स विभुर्दक्षः तस्यां पाञ्चजन्यां पञ्चजनस्य दुहितरि हर्यश्वसंज्ञानयुतं पुत्रानजनयत् ॥ १ ॥ * 883 तान्विशिनष्टि । हे नृप ! सर्वे दाक्षायणाः दक्षस्य पुत्राः । अनन्तरापत्ये फगार्ष: । अपृथग्धर्मशीलाः समानधर्माचरणशीलाः । प्रजासर्गे निमित्ते पित्रा प्राचेतसेन प्रोक्ता: आदिष्टाः प्रतीचीं दिशं प्रययुः ॥ २॥ * * क सिन्धुसमुद्रयोर्यत्र सङ्गमः यत्र नारायणसरआख्यं सुमहत्पुण्यमत एवं मुनिभिः सिद्धैश्च निषेवितं तीर्थं वर्त्तते तत्र ययुरित्यर्थः ॥ ३ ॥ * * तस्य तीर्थस्योपस्पर्शनादेव विनिर्धूतमल: निरस्तमल आशयोऽन्तःकरणं येषां तादृशास्ते । पारमहंस्ये धर्मे । परम- हंसानां ज्ञानिनां कर्म पारमहंस्यं तस्मिन्निवृत्तिधर्मे प्रोत्पन्ना मतिर्येषां तादृशाश्चाभवन् ॥ ४ ॥ * * एवंभूता अपि पित्रादेशेन प्राचेतसाज्ञया यन्त्रिता वशीकृताः उग्रं तप एव तेपिरे चक्रुः । पारमहंस्यधर्मपरा अपि पित्रादिष्टप्रजावृद्धि- विधानोपयुक्तं तप एव चक्रुरित्यर्थः । एवं प्रजाभिवृद्धये यत्तान् प्रजाभिवृद्धयुपयुक्तयत्नं कुर्वाणांस्तान् हर्यश्वान् देवर्षिः श्रीनारदो ददर्श । हेति देवर्षेर्दर्शनस्य दौर्लभ्यं द्योतयति ॥ ५ ॥ * हर्यश्वान् प्रत्युवाच उक्तमेवाह । कथमित्यादिना सर्ग करि- ष्यथेत्यन्तेन । हे बालकाः ! यूयं बालिशा अज्ञाः सन्तः प्रजाः कथं स्रक्ष्यथ अज्ञतामेवाह । अदृष्टेति । भुवोऽन्तमदृष्ट्रा कथं स्रक्ष्यथेत्यन्वयः । यद्यपि भुवोऽन्तज्ञानादिकं सृष्टचुपयोगीव प्रतिभाति तथापि न तत्सृष्टद्युपयोगित्वेनोच्यते । तस्य भूः क्षेत्र - मित्यादिभिः सृष्टिप्रतिक्षेपकत्वावगमात् । किन्त्वदृष्टवा सर्गं कर्तुमुद्यताः दृष्ट्वा तु भवन्तः सर्गोद्योगान्निवृत्ता एव भवेयु - स्कं. ६ अ. ५ श्लो. १-८] अनेकत्र्याख्यासमलङ्कृतम् १७५ रित्यत्रोच्यते । कथंशब्देन भुवोऽन्तः ज्ञानाद्यभावे सर्वोद्योगस्य सम्भावना द्योत्यते । अविज्ञाय कथं चित्सर्ग कर्तुमुद्यताः विज्ञाय सुतरां तदुद्योगान्निवृत्ता भवन्तः भवेयुरित्यर्थः । भुवः पार्थिवस्य देहस्यान्तमवसानमदृष्ट्रा नालोच्येत्यर्थः ॥ ६ ॥ * * एक: पुरुष ईश्वरो यस्मिंस्तद्राष्ट्रम् ईश्वरनियाम्यं जगत् राष्ट्रादीनां द्वितीयान्तानामविज्ञायेत्यनेनान्वयः । अदृष्टनिर्गममविज्ञात- निर्गमोपायं जीवात्मस्वरूपस्याधिष्ठानं हृदयबिलं बहुरूपामनेकरूपां स्त्रियं बुद्धिरूपां पुंश्चल्या व्यभिचारिण्याश्चपलाया बुद्धेः पतिं वत्संसृष्टजीवस्वरूपम् ॥ ७ ॥ उभयतोवाहां सृष्टयप्ययकरीं नदीं मायारूपां पञ्चपञ्चाद्भुतं पञ्चपञ्चविंशतितत्त्वात्मकं गृहं स जीवशरीररूपम् । चित्रकथं चित्रपक्षं हंसं बन्धमोक्षहेत्वापादनात्मककथारूपाभ्यां विचित्रपक्षाभ्यां युक्तमीश्वरमिति भावः । क्षौरपत्र्यं तुरैः पविगिर्वश्व निर्मितं तीक्ष्णं दृढं चेत्यर्थः । एवंविधं स्वयं भ्रमणशीलं कालचक्रमिति भावः ॥ ८ ॥ विजयध्वजतीर्थकृता पदरत्नावली ज्ञानमन्तरेण केवलकर्मणां परमश्रेयःसाधनत्वं निषिध्यतेऽस्मिन्नध्याये । तत्रोपोद्घातं रचयति । तस्यामिति । पाञ्चजन्यां पञ्चजननाम्नः प्रजापतेः पुत्र्याम् । विष्णुमायया विष्णुमहिम्ना ॥ १-२ ॥ * * तत्र प्रतीच्यां सिन्धुसमुद्रयोः सङ्गमोऽस्ति यत्र सङ्गमे नारायणसरो नाम तीर्थ चाति सुमहान्तो मुनयश्च सिद्धाश्च सुमहन्मुनिसिद्धाः तैर्निषेवितम् ||३|| * तस्य तीर्थजलस्य स्नानाचमनादिना विनिर्धूतमल: आशयो येषां ते तथोक्ताः ॥ ४ ॥ * * यत्तान् सन्नद्धान् ॥ ५ ॥ * * हे हर्यश्वाः ! सर्जनलक्षणं कर्म प्रयोजनेन भवितव्यं तत्कथं सेत्स्यति न कथमपि ज्ञानाभावात् । तच्चात्मानात्मविवेकलक्षणं वा इत्यनेन सूचयति “परोक्षप्रिया इव हि देवाः प्रत्यक्षद्विषः” इति श्रुतेः । इतरेषां दुर्बोधाय हर्यश्वानामौत्सर्गिकज्ञान- सद्भावप्रकटनाय च परोक्षवचनेन ज्ञानाभावं दर्शयति । अदृष्वेति । यस्माद्बालकाः अत एव च बालिशा इत्युपचारमात्र- वचनम् ।। ६-८ ।। जीवगोस्वामिकृतः क्रमसन्दर्भ : उवाच चेति चतुष्कम् । पञ्च गुणिताः पच आश्रयिरूपा यत्र तद्गृहमाश्रयरूपमद्भुतम् ॥ १-१४ ॥ विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी वाचः कूटेन हर्यश्वानन्यांश्चाकृतवैष्णवान् । पञ्चमे नारदः शप्तः स दक्षेणेति वर्ण्यते ।। १-२ ।। तत्र । दिशि नारायणसरस्तीर्थ महद्वर्त्तते । यत्र सिन्धोर्नद्याः समुद्रस्य च सङ्गमः ॥ ३४ ॥ यत्तान् । उद्यतान् ॥ ५ ॥ * * शुद्धान्तःकरणा एते मोक्षधर्माधिकारिणः । अनुरोधात् पितुः कस्मादत्र मज्जन्ति कर्म्मणि । तदिमान् मोचये तत्त्वमुपदिश्यैव गूढवाक् । इति कारुणिको वाचः कूटांस्तानाह नारदः । हे हर्य्यश्वाः ! भुवोऽन्तमदृष्ट्वा प्रजाः कथं स्रक्ष्यथ व्याख्या त्वेषां स्वयमेवाग्रे करिष्यत इति न व्याख्यायन्ते । तस्मात् यूयं बालिशा मूर्खा एव यतो बालकाः पालका इति पाठे प्रजानां पालका अपि यूयं बालिशा एव । बतेति विस्मये । एक एव पुरुषो यत्र तद्राष्ट्रमित्यादिद्वितीयान्तानामविज्ञाय कथं सर्गं करिष्यथेति तृतीयेनान्वयः । उभयतोवाहाम्। उभयदिक्प्रवाहवतीं पञ्चपञ्चानां पञ्चविंशतितत्त्वानामद्भुतं गृहं विष्णुं परमसाद्गुण्यप्रदत्वात् भक्तानां तानि तत्रैव स्थातुमर्हन्तीति भावः तुरैः । पविर्भिर्वश्व निम्मितमतितीक्ष्णं ि विपश्चितः सर्व्वज्ञस्य ॥ ६-९ ॥ I शुकदेवकृतः सिद्धांतप्रदीपः पञ्चमे श्रीनारदरूपिणा हरिणा हर्यश्वादिपोषणं कृतमित्याद्युच्यते विभुर्विपुलप्रभावः ॥ १ ॥ * * अपृथकधर्मः शीलं स्वभावश्च येषां ते ॥ २ ॥ * * तत्र प्रतीच्यां दिशि यत्र सिन्धोर्नद्याः समुद्रस्य च सङ्गमः तत्र सुमहन्नारायण- सरस्तीर्थं प्रययुरिति पूर्वेणान्वयः ॥ ३ ॥ तस्मिन् सरसि उपस्पर्शनात् स्नानात् विनिर्धूतमल आशयोऽतःकरणं येषां ते ॥ ४ ॥ * * पित्रादेशेन प्रजाविवृद्धये यत्तानपि पारमहंस्ये धर्मे प्रोत्पन्नमतितया मोक्षाधिकारिणो ज्ञात्वा देवर्षिस्तान् ददर्श ॥ ५ ॥ * * अथ दर्शनानन्तरमुवाच मोक्षोपायं दशभिर्गूढार्थेर्वाक्यैस्तान् प्रत्युपदिष्टवान् । हे हर्य्यश्वाः हे पालकाः ! प्रजापतिपुत्राः भुवोऽन्तमदृष्ट्वा अत एव बालिशाः अज्ञा यूयं कथं प्रजाः स्रक्ष्यथ ॥ ६ ॥ * * तथा राष्ट्रादिकमविज्ञाय अहो कथं सर्ग करिष्यथेति त्रयाणामन्वयः ॥ ७ ॥ * * पञ्चपञ्चानां पञ्चविंशतितत्त्वानामद्भुतं गृहमाश्रयम् । क्षुरैः पविभिश्व निर्मितम् ॥ ८ ॥ १७६ श्रीमद्भागवतम् गोस्वामिगिरिधरलालविहिता बालप्रबोधिनी पञ्चमे दक्षपुत्रेषु हरिणा कृपया कृतः । नारदस्योपदेशेन प्रसादस्तन्निरूप्यते ॥ १ ॥ [ स्कं ६ अ. ५ लो. १-८ स दक्षस्तस्यां पाञ्चजन्यां हर्यश्वसञ्ज्ञानयुतं पुत्रानजनयदित्यन्वयः । ननु कथमेवं जीवः स्वातन्त्र्येण बहूनां जनने समर्थ इत्याशङ्कथं भगवत्सम्पादितसामर्थ्यादित्यभिप्रायेणाह - विभुरिति । ननु तपसा भगवन्तं प्राप्य कथं पुनः संसारहेतौ पुत्रोत्पादनादौ तस्य प्रवृत्तिरित्याशङ्कय तन्मायामोहितत्वादेवेत्याह- विष्णुमायोपबृंहित इति । वै इति निश्चयेनान्यो हेतुस्तत्रा- स्तीत्यर्थः ॥ १ ॥ * अपृथग्धर्मशीला एकाचारस्वभावास्ते सर्वे दाक्षायणा दक्षपुत्राः प्रजासर्गे पित्रा प्रोक्ताः प्रेरिता भगवदनुग्रहं विना तदशक्यं मत्वा भगवदाराधनार्थं प्रतीचीं दिशं प्रययुरित्यन्वयः । मोक्षाधिकारिणामपि पितृवाक्यगौरवेण सर्गार्थप्रवृत्ती राजधर्मानुसारेण घटते इति सूचयन् सम्बोधयति - हे नृपेति ॥ २ ॥ * * तत्र प्रतीच्यां दिशि यत्र सिन्धुसन्ज्ञाया नद्या: समुद्रस्य च सङ्गमोऽस्ति तत्र मुनिभिः सिद्धैश्च नितरां सेवितं सुमहत् अतिविस्तीर्ण नारायणसरो नाम तीर्थमस्ति तद्ययुरित्यनुषङ्गेणान्वयः ॥ ३ ॥ * * तस्य तीर्थस्य स्पर्शनादेव तत्र स्नानाचमनादिमात्रेणैव विशेषेण निर्धूतो मलो रागलोभादिर्यस्मात् स आशयोऽन्तःकरणं येषां ते तथा अत एव परमहंसानां विवेकिनां धर्मे भगवद्भजनलक्षणे प्रकर्षेणो- त्पन्ना मतिर्येषां ते तथाभूता अपि प्रजाविवृद्धये उम्र तीव्रं तप एव तेपिरे उत्युत्तरेणान्वयः । चकारादात्मानात्मविवेकसाम- थ्र्योत्पतिं सूचयति । एवम्भूतामपि सृष्टौ प्रवृत्त्या भगवन्मायामोहस्य प्राबल्यं सूचयन्नाश्चर्येणाह - उतेति । तथाभूतानामपि सृष्टी प्रयत्ने लौकिकं हेत्वन्तरमाह - पित्रादेशेनेति, यन्त्रितः विवशा इत्यर्थः । तान् प्रजाविवृद्धये यत्तान् उद्युक्तान् देवर्षिर्नारदो ददर्श । विषयासक्तानप्यधिकारिणो भगवान् कृपयोद्धरत्येवातस्तदुपदेशाय नारदं प्रेरितवानिति भगवत्कृपाया आश्चर्यं सूचयति- हेति ।। ४-५ ।। तान् दृष्ट्वा च शुद्धान्तःकरणा ह्येते मोक्षधर्माधिकारिणः पितृवाक्यानुरोधेन कर्ममार्गप्रवेशे पुरुषा- र्थाभ्रश्येरन्निति कृपया निगूढार्थैर्वाक्यैरुपदिदेशेत्याह – उवाच चाथेति न च दृष्ट्वोपेक्षितवान् किन्तु अथ दर्शनानन्तरमुवाच चेत्यर्थः । तद्वाक्यान्येव दर्शयति - हर्यश्वा इत्यादिभिः पञ्चाक्षरन्यूनैश्चतुर्भिः । हे हर्यश्वाः यूयं भुवोऽन्तमदृष्ट्वा कथं किमर्थं प्रजाः स्रक्ष्यथेत्यन्वयः । युष्माकं सृष्टिप्रयोजनाभावो निश्चित एवेति सूचयति – वा इति । अतोऽकार्ये प्रवृत्तत्वाद्यूयं बालिशा अज्ञा एव । अज्ञत्वमेव स्पष्टयति- पालका इति, वयं पालका राजानोऽतः प्रजासृष्टिरस्मद्धर्म इत्यभिमानवन्त इत्यर्थः । बालका इति वा पाठः । शुद्धान्तःकरणानां युष्माकमेवं मोहोऽनुचित एवेति स्वखेदं सूचयन्नाह - बतेति ॥ ६ ॥ * * तथा भुवोऽ- न्तवत् एक एव पुरुषो यस्मिंस्तद्राष्ट्रमदृष्वेति व्याख्यानानुरोधादनुषङ्गः । बिलं चेत्यादिद्वितीयान्तानामविज्ञाय कथं सर्ग करिष्यथेति तृतीयेनान्वयः ॥ ७ ॥ * * उभयतोवाहां विरुद्धोभयदिकप्रवाहवतीं नदीम् । पञ्चपञ्चानां पञ्चविंशतितत्त्वा- नामद्भुतं गृहम् । चित्रा कथा यस्य तं हंसं कचित् । क्षौरपव्यं तुरैः पविभिर्वत्र व विनिर्मितमिव अतितीक्ष्णं दृढं च स्वयं स्वतन्त्र भ्रमिभ्रमण स्वभावं किमपि वस्तु ॥ ८ ॥ *
.A भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी । नाशितान्नारदेनाथ वाचः कूटैस्तु पञ्चमे । श्रुत्वा दक्षः सुतान् क्रुद्धस्तं शशापेति कथ्यते ॥ १ ॥ " ततः प्राचेतसः किमकरोदित्यत्राह मुनिः । स इति । विष्णुमायोपबृंहितः, भगवत्संकल्पेन व्याप्तः, विभुः स दक्षः, तस्यां पाञ्चजन्यां, हर्यश्वसंज्ञान् अयुतं दशसहस्रसंख्याकान् पुत्रान् अजनयत् वै ॥ १ ॥ * * तान्विशिनष्टि । अपृथगिति । हे नृप, सर्वे ते दाक्षायणा दक्षस्य पुत्राः, अनन्तरापत्ये फ़गार्ष: । अपृथग्धर्मशीलाः समानधर्माचरणशीलाः, अत एव प्रजासर्गे निमित्ते, पित्रा प्राचेतसेन प्रोक्ता आदिष्टाः सन्तः प्रतीचीं दिशं प्रययुः ॥ २ ॥ * * तत्रेति । तत्र प्रतीच्यां दिशि सिन्धुसमुद्रयोः, सिन्धोर्नद्याः समुद्रस्य च यत्र संगमः तंत्रस्थं नारायणसरो नाम, सुमहत् अतिविस्तीर्ण, पुण्यं वा अत एव मुनयश्च सिद्धाश्च तैर्निषेवितं तीर्थं वर्त्तते तत्र प्रययुः ॥ ३ ॥ तदिति । तस्य तीर्थस्त्योपस्पर्शनं तस्मात्, तीर्थजलस्नानाचमनादिनैवेत्यर्थः । विनिर्धूता मला यस्य तथाभूत आशयोऽन्तःकरणं येषां ते परमहंसानां ज्ञानिनां कर्म पारम- हंस्यं तस्मिन् चैव धर्मे प्रकर्षेणोत्पन्ना मतिर्येषां उत तादृशाश्वापि, अभवन् ॥ ४ ॥ तेपिरे इति । एवंभूता अपि , ते इति शेषः । पित्रादेशेन पित्रादेशरूपजाडयेन, यन्त्रिताः दक्षाज्ञावशीकृताः सन्तः, उयं तपः तेपिरे एव । परमहंस्यधर्मपरा अपि पित्रादिष्टप्रजावृद्धि विधानोपयुक्ततप एव चक्रुरित्यर्थः । प्रजाविवृद्धये यत्तान् तान प्रजाभिवृद्धयुपयुक्तयत्नं कुर्वाणांस्ता- नित्यर्थः । देवर्षिर्नारदः, ह स्फुटं ददर्श । स्फुटमेते मोक्षधर्माधिकारिण इत्यालोचितवानित्यर्थः ॥ ५ ॥ * * अहो मोक्ष- धर्माधिकारिणः सन्त्येते प्रवृत्तिनिष्ठैः कर्मभिर्नश्येयु रेवेति कृपया तान्निगूढार्थेर्वाक्यैरुपदिशति स्म तदाहः । उवाचेति चतुर्भिः स्कं. ६ अ. ५ श्लो. ९-१६ ] अनेकव्याख्यासमलङ्कृतम् १७७ उयाचेति । हे बालकाः, यूयं बालिशा अज्ञाः स्थ । अतः हे हर्यश्वाः, बत भुवः, अन्तम् अदृष्ट्वा अनालोच्य प्रजाः कथं स्रक्ष्यथ वै इति । अथेति प्रभे, उवाच च तान् प्राप्य कथयामासेत्यर्थः ॥ ६ ॥ * तथेति । तथा एकः पुरुषो यस्मिंस्तत्, राष्ट्रं राष्ट्रादीनां द्वितीयान्तानामविज्ञायेत्यनेनान्वयः । अदृष्टेत्यनुषङ्गो वा । अदृष्टोऽविज्ञातः निर्गमः निर्गमोपायो यस्य तत् । बिलं च, बहूनि रूपाणि यस्यास्तामनेकरूपामित्यर्थः । स्त्रियं च पुंश्चल्या व्यभिचारिण्याः पतिस्तं पुमांसम् । अपि च ॥ ७ ॥ * * नदीमिति । उभयतो वहतीति तां नदीं, पञ्चभिः गुणितानि पञ्च पञ्चपञ्च पञ्चविंशति संख्यातानि अद्भुतानि यस्मिंस्तत् गृह, चित्रकथं विचित्रकथम्, कचित्कंचनेत्यर्थः । हंसं क्षौरपव्यं, क्षुरैः पविभिर्वश्व निर्मितं क्षौरपव्यं, तीक्ष्णं दृढं चेत्यर्थः । स्वयं भ्रमि स्वतो भ्रमणशीलं यच्चक्रं तदित्यर्थः ॥ ८ ॥ भेट भाषानुवादः श्रीनादजी के उपदेश से दक्षपुत्रोंकी विरक्ति तथा नारदजीको दक्षका शाप श्रीशुकदेवजी कहते हैं - परीक्षित् ! भगवान् के शक्तिसञ्चारसे दक्ष प्रजापति परम समर्थ हो गये थे । उन्होंने पञ्चजनकी पुत्री असिक्नी से हर्यश्व नामके दस हजार पुत्र उत्पन्न किये ॥ १ ॥ * राजन् ! दक्षके ये सभी पुत्र एक आचरण और एक स्वभाव के थे। जब उनके पिता दक्षने उन्हें सन्तान उत्पन्न करनेकी आज्ञा दी, तब वे तपस्या करनेके विचारसे पश्चिम दिशाकी ओर गये ॥ २ ॥ पश्चिम दिशामें सिन्धुनदी और समुद्रके सङ्गमपर नारायण-सर नामका एक महान् ।। * तीर्थ है। बड़े-बड़े मुनि और सिद्ध पुरुष वहाँ निवास करते हैं ॥ ३ ॥ * नारायण-सरमें स्नान करते ही हर्यश्वोंके अन्तःकरण शुद्ध हो गये, उनकी बुद्धि भागवतधर्म में लग गयी । फिर भी अपने पिता दक्षकी आज्ञासे बँधे होनेके कारण वे उम्र तपस्या ही करते रहे । जब देवर्षि नारदने देखा कि भागवतधर्म में रुचि होनेपर भी ये प्रजावृद्धिके लिये ही तत्पर हैं, तब उन्होंने उनके पास आकर कहा - अरे हर्यश्वो ! तुम प्रजापति हो तो क्या हुआ । वास्तवमें तो तुमलोग मूर्ख ही हो । बतलाओ तो, जब तुमलोगोंने पृथ्वीका अन्त ही नहीं देखा तब सृष्टि कैसे करोगे ? बड़े खेदकी बात है ।। ४६ ।। देखो- ।
- एक ऐसा देश है, जिसमें एक ही पुरुष है। एक ऐसा बिल है, जिससे बाहर निकलनेका रास्ता ही नहीं है । एक ऐसी स्त्री है, जो बहुरूपिणी है । एक ऐसा पुरुष है, जो व्यभिचारिणीका पति है । एक ऐसी नदी है, आगे-पीछे दोनों ओर बहती है । एक ऐसा विचित्र घर है, जो पचीस पदार्थोंसे बना है। एक ऐसा हंस है, जिसकी कहानी बड़ी विचित्र है । एक ऐसा चक्र है, जो छुरे एवं बज्र से बना हुआ है और अपने-आप घूमता रहता है ॥ ७८ ॥ तदविज्ञस्य । कथं स्वपितुरादेशमविद्वांसो विपश्चितः । अनुरूपमविज्ञाय अहो सर्ग करिष्यथ ॥ ९ ॥ 3 श्रीशुक उवाच ११ ॥ १२ ॥ १३ ॥ तनिशम्याथ हर्यश्वा औत्पत्तिकमनीषया । वाचः कूटं तु देवर्षेः स्वयं विममृशुधिया ॥ १० ॥ भूः क्षेत्रं जीवसंज्ञं यदनादि निजबन्धनम् । अदृष्ट्वा तस्य निर्वाणं किमसत्कर्मभिर्भवेत् ॥ एक एवेश्वरस्तुयों भगवान् स्वाश्रयः परः । तमदृष्ट्वाभवं पुंसः किमसत्कर्मभिर्भवेत् ॥ पुमान् नैवैति यद् गत्वा बिलवर्गं गतो यथा । प्रत्यग्धामाविद इह किमसत्कर्मभिर्भवेत् ॥ नानारूपाऽऽत्मनो बुद्धिः स्वैरिणीव गुणान्विता । तन्निष्ठामगतस्येह किमसत्कर्मभिर्भवेत् ॥ तत्सङ्गभ्रंशितैश्वर्यं संसरन्तं कुभार्यवत् । तद्गतीरबुधस्येह किमसत्कर्मभिर्भवेत् ॥ सृष्ट्यप्ययकरीं मायां वेलाकूलान्तवेगिताम् । मत्तस्य तामविज्ञस्य किमसत्कर्मभिर्भवेत् ॥ । १४ ॥ १५ ॥ ।। ।। १. प्रा० पा० तद्वाचःकूट देवर्षेः । २. प्रा० पा० किं नु स्यात्कर्म० । ३. प्रा० पा०-बिलं सगँ । १६ ॥ ४. प्रा० पा०. २३ १७८ श्रीमद्भागवतम् कृष्णप्रिया व्याख्या [ स्कं. ६ अ. ५ श्री. ९-१६ अन्वयः—अविद्वांसः विपश्चितः स्वपितुः आदेशम् अनुरूपम् अविज्ञाय कथं सर्ग करिष्यथ ॥ ६ ॥
- अथ हर्यश्वाः तु तत् देवर्षेः वाचःकूटं निशम्य ओत्पत्तिकमनीषया धिया स्वयं विममृशुः ॥ १० ॥ * * भूः जीवसंज्ञ क्षेत्र यत् अनादि निजबंधनं तस्य निर्वाणम् अदृष्ट्वा असत्कर्मभिः किं भवेत् ॥ ११ ॥ अभवम् अदृष्ट्वा पुंसः असत्कर्मभिः किं भवेत् ।। १२ ।। एति प्रत्यग्धाम अविदः इह असत्कर्मभिः किं भवेत् ॥ १३ ॥
ईश्वरः तुर्यः भगवान् स्वाश्रयः परः एकः एव तम् पुमान् यत् गत्वा यथा बिलस्वर्गं गतः न एव आत्मनः नानारूपा बुद्धि: स्वैरिणी इव गुणान्विता तत्संग भ्रंशितैश्वर्यं कुभार्यवत् तद्गतीः संसरन्तम् अबुधस्य तन्निष्ठाम् अगतस्य इह असत्कर्मभिः किं भवेत् ॥ १४ ॥ * * इह असत्कर्मभिः किं भवेत् ॥ १५ ॥ * * सृष्ट्यप्ययकरीम् वेलाकूलान्तवेगितां तां मायाम् अविज्ञस्य मत्तस्य असत्कर्मभिः किं भवेत् ॥ १६ ॥ श्रीधरस्वामिविरचिता भावार्थदीपिका विपश्चितः सर्वज्ञस्य स्वपितुरादेशमात्मनोऽनुरूपमविद्वांसोऽजानंतः पूर्वोक्तं चैकपुरुषं राष्ट्रमित्याद्यविज्ञायाहो कथं सर्गं करिष्यथेत्यन्वयः ॥ ९ ॥ * * वाचःकूटं परोक्षवादेनार्थांतरमिव प्रतीयमानं वचनम् । औत्पत्तिकी सहजा मनीषा विचारशक्तिर्यस्यास्तया धिया स्वयमेव विममृशुर्विचारितवंतः ॥ १० ॥ * * नारदोक्तदशवाक्यानां तैर्बिमृश्य निर्णीतानर्थानाह दशभिः । अदृष्टांतम् भुव इत्यत्र भूशब्दार्थमाह । भूरिति । क्षेत्रं तञ्चात्र जीवसंज्ञं लिंग- शरीरं यन्निजबंधनमात्मनो बंधकारणम् | अंतशब्दार्थमाह निर्वाणं नाशम् । असद्भिर्मोक्षानुपयोगिभिः कर्मभिः किं भवेन्न किमपि ॥ ११ ॥ * * एकपुरुषमित्यस्यार्थमाह । एक एवेति । तुर्यः सर्वसाक्षी । स्वाश्रयः स्वाधारः अभवं नित्यमुक्तम् असद्भिरीश्वरासमर्पितैः कर्मभिः ॥ १२ ॥ * * बिलं चादृष्टनिर्गममित्यस्यार्थमाह । पुमान् यद्गत्वा प्राप्य बिलस्वर्ग पातालं गत इव नैवेति नावर्तते तत्प्रत्यग्धाम ज्योती नावर्तते तत्प्रत्यग्धाम ज्योती रूपं ब्रह्माविदोऽविदुषोऽसद्भिर्नश्वरस्वर्गादिसाधनैः कर्मभिः॥ १३॥ * * बहुरूपां स्त्रियमित्यस्यार्थमाह । नानारूपेति । स्वैरिणीव पुंश्चलीव विमोहकै रजआदिगुणैरन्विता । तन्निष्टां तस्या अवसानं विवेकमगतस्याप्राप्तस्य । असद्भिरशांतैः ।। १४ ।। * * पुमांसं पुंश्चलीपतिमित्यस्यार्थमाह । तस्याः संगेन भ्रंशितमैश्वर्य स्वातंत्र्यं यस्य । कुत्सिता भार्या यस्य तद्वत् । तस्या गतीः सुखदुःखलक्षणाः संसरतं गच्छतं जीवमबुधस्या- जानतः । असद्भिर्बुद्धयविवेकप्राप्तैः ॥ १५ ॥ * * नदीमुभयतोवाहामित्यस्यार्थमाह । सृष्टचप्ययौ करोतीत्युभयतः प्रवाहो दर्शितः । वेलाकूलं प्रवाहपतितानां निर्गमस्थानं तपोविद्यादि तस्यांते समीपे वेगितां निर्गमप्रतिबंधाय क्रोधाहंकारा- दिभिः कृतवेगां मत्तस्य तद्वेगेन विवशस्यात एव तां तथाभूतामविज्ञस्याविचारयतः । असद्भिर्मायिकैः । यद्वा वेलाकूलं समुद्रस्य व्यवहारस्थानं तस्य समीपे समुद्रवृद्धिहासाभ्यां यथोभयतोंतर्बहिः कृतवेगा नदी भवत्येवं समुद्रतुल्यात्मनो व्यवहारस्थाने देहे जन्ममरणादिभिः कृतवेगामित्यर्थः । वेगिनीमिति पाठे वेगवतीम् ॥ १६ ॥ ; वंशीधरकृतो भावार्थदीपिकाप्रकाशः कामको अनुरूपमनुकूलम् ॥ ६ ॥ वाचःकूटं वचनसमूहं वा गुह्यभाषात्मकत्वेन कैतवमिव प्रतीयमानं वाऽल्पमतिभिर्दुर्बोधं वा स्वयं परोपदेशं विना विचार्य निश्चितवंत इत्यर्थः । “कूटं तु कैतवं ज्ञेयं समूहो मेलनं तथा” इति तीर्थः ॥ १० ॥ * * बंधस्य जन्मादेः कारणं तस्य लिंगशरीरस्य नाशमदृष्ट्राऽनेनोपायेनास्य नाशो भविष्यतीत्यज्ञात्वा ज्ञानेन तस्य नाशं वाऽज्ञात्वा मोक्षानुपयोगिभिरसत्कर्मभिरात्मविवेकाजनकैः कर्मभिः सर्जनादिभिरवास्तवैः कर्ममार्गेः किं तेन कर्म- निर्वाणार्थमेव यतध्वमिति भावः ॥ ११ ॥ ॐ पूर्णवाक्यस्थराष्ट्रपदेन जगद्विवक्षितं तथा सति तत्र जगतीश्वरो नियंतृत्वेन स्थित इत्यर्थः । कर्मभिर्यागादिभिः । किं नित्यं फलं स्यान्नेत्यर्थः । तुर्यः । किं नित्यं फलं स्यान्नेत्यर्थः । तुर्यः विश्वतैजसप्राज्ञेभ्यो भिन्नः । यद्वा न भवो भक्तानां येन स तम् । अदृष्टा भजनैरप्रत्यक्षीकृत्य तेन तमेव भजतेति भावः ।। १२ ।। * यद्वा-प्रतीचो भगवतो धाम वैकुंठं गत्वा प्राप्य न पुनरेति । पातालं गतो यथा तत्रैवासज्य तिष्ठतीत्यर्थः । तेन बैकुंठप्राप्तये यतध्वमिति भावः ।। १३ ।। * * स्वैरिणीव कुविषयोन्मुखी न तु कृष्णविषयोन्मुखी गुणाः सौन्दर्य्यवैदग्ध्यादय: पांडित्यादयश्च तैरन्विता तनिष्ठां भद्राभद्र प्रवृत्तिम- गतस्याजानतोऽविचारयत इत्यर्थः । अतो विवेकेन बुद्धिं कृष्णोन्मुखीं कुरुतेति भावः ॥ १४ ॥ * * भ्रंशितैश्वर्यमित्यनेन जीवस्य स्वज्ञानादिस्वसामर्थ्यं दर्शितमिति संदर्भः । ऐश्वर्यं भगवज्ज्ञानादिलक्षणं शमदमादिलक्षणं वाडत एव संसरंतं सुखदुःखे । ।स्कं ६ अ. ५ श्लो. ९-१६ ] अनेकव्याख्या समलङ्कृतम् १७९ भुंजानं तद्गतीः स्वर्ग नरकादिलक्षणाः । बुद्धचविवेकेन प्राप्तैस्तीर्थस्नानादिलक्षणैर्भगवदुद्देशेनाप्रसक्तैः किं दु:खनिवृत्तिः स्यान्नत्यर्थः । तेनात्मानमात्मनैवोद्धरतेति भावः ॥ १५ ॥ सृष्टिकाले पूर्वपूर्वतस्तत्त्वानि निःसरति अप्ययकाले उत्तरोत्तरतः पूर्वं पूर्वं प्रविशतीत्युभयतः प्रवाहो दर्शितः वेलाकूलत्यांतः समीपं ‘वेला स्यात्तीरनीरयोः’ इत्यभिधानात् । अत एव • विवशत्वादेव | वेलाशब्दस्यार्थांतरं गृहीत्वाह- यद्वेति । “वेला काले च सीमायामब्धेः कूलविकारयोः” इति मेदिनी । इत्यर्थ इति व्याख्या तेन लौकिकप्रतिष्ठादिकमपि परित्यज्य पारं ब्रजथेति भावः ॥ १६ ॥ ।। अन्वितार्थप्रकाशिका कथमिति । अहो विपश्चितः सर्वज्ञस्य स्वपितुः स्वानुरूपमादेशमनुशासनमविद्वांसो जानन्तः कथं सर्ग करि- व्यथ ॥ ९ ॥ * * तदिति । तद्देवर्षेर्वाचः कूटं परोक्षवादेनार्थान्तरमिव प्रतीयमानं वचनसमूहं निशम्याथान्तरमौत्पत्तिकी सहजा मनीषा विचारशक्तिर्यस्यास्तया धिया हर्यश्वाः स्वयमेव विममृशुः विचारितवन्तः ॥ १० ॥ * * तत्रादृष्ट्वान्त- मित्यस्यार्थमाहुः - भूरिति । भूः भूशब्दोक्तं क्षेत्रं क्षेत्रवत् पुण्यपाप सुखदुःखाद्युद्भवस्थानत्वाज्जीवोपाधिभूतं लिङ्गशरीरं यदनादि चिरन्तनं निजस्य जीवस्य बन्धनं तस्य निर्वाणमन्तशब्दोक्तं नाशोपायमदृष्ट्वाऽसद्भिर्मोक्षानुपयोगिभिर्बन्धहेतुभिः कर्मभिः किं फलं भवेन्न किमपीत्यर्थः ।। ११ ।। * * तथैकपुरुषमित्यस्यार्थमाहुः- एक इति । राष्ट्रशब्देन जगत् विवक्षितं तत्र ईश्वरः कर्त्तुं मन्यथा कर्त्तुं समर्थः तुर्यः विश्वतैजसप्राज्ञेभ्योऽन्यश्च चतुर्थः सर्वसाक्षी स्वाश्रयं स्वाधारः परः सर्वकारणं भगवानेक एव तमभवं भवरहितं नित्यमुक्तमदृष्ट्वा असद्भिस्तदसमर्पितैलौकिकालौकिकैः कर्मभिः पुंसः किं फलं भवेन्न किमपीत्यर्थः ॥ १२ ॥ * * बिलं चादृष्टनिर्गममित्यस्यार्थमाहुः पुमानिति । यद्गत्वा प्राप्य बिलस्वर्ग पातालं गत इव पुमान् नैवैति पुनः संसारे नावर्त्तते तत्प्रत्यग्धाम ज्योतीरूपं ब्रह्म अविदोऽविदुषः तदर्हमिति ज्ञापकात्कृद्योगेऽपि कर्मणि द्वितीया । इह जगति असद्भिर्नश्वरस्वर्गा- दिसाधनैः कर्मभिः किं भवेत् ॥ १३ ॥ * * बहुरूपां स्त्रियमित्यस्यार्थमाहुः - नानारूपेति । स्वैरिणीव नानारूपा कुत्सि- तविषयोन्मुखतया रूपरसादिनानाकारा आत्मनो जीवस्य बुद्धिः तथात्वे हेतुः रजआदिगुणान्विता स्वैरिण्यपि वस्त्राभरणा- दिभिर्नानाकारा भवति तन्निष्ठां तस्या अवसानं विवेकमगतस्याप्राप्तस्येहासद्भिः कुत्सितभोगद्वारा नरकहेतुभिः कर्मभिः किं भवेत् ॥ १४ ॥ पुमांसं पुंश्चलीपतिमित्यस्यार्थमाहुः- तत्सङ्गेति । तत्या बुद्धेः सङ्गेनाभ्यासेन भ्रंशितमैश्वर्यमस- ङ्गत्वस्वातन्त्र्यादि यस्य तम् अत एव कुभार्यपुरुषवत् तस्या बुद्धेर्गतीः सुखदुःखहर्षविषादादिलक्षणाः संसरन्तं गच्छन्तमात्मानम- बुधस्य पुरुषस्येहा सद्भिस्तदध्यासनिवर्त्तकैः कर्मभिः किं भवेत् ॥ १५ ॥ * * नदीमुभयतोवाहामित्यस्यार्थमाहुः - सृष्टय- प्ययकरीमिति । सृष्टिरुत्पत्तिः अप्ययः प्रलयः तौ करोतीति तथा तां भगवतो मायां शक्त्यात्मिकां प्रकृतिं सृष्टिकाले हि तत आरभ्य पूर्वपूर्वतस्तत्त्वानि निःसरन्ति प्रलयकाले चोत्तरोत्तरतः पूर्वं पूर्वं प्रविशन्तीत्युभयतः प्रवाहो दर्शितः । बेलाकूलं नदीप्रवाहे पतितानां ततो निर्गमस्थानं तीरं “वेला स्यात्तीरनीरयोः” इत्यभिधानात् । तद्वत्संसारप्रवाहपतितानां ततो निर्गमस्थानं तपोविद्यादि तस्यान्ते समोपे वेगितां निर्गमप्रतिबन्धाय तपोविद्यावत्सु दृष्टैः क्रोधाहङ्कारादिभिः कृतवेगां वेगिनीमित्यपि पाठः । तामविज्ञस्य एवं मायामोहेन कामक्रोधादिभिरहं संसारप्रवाहे पतितोऽस्मीति विचारशून्यस्यात एव मत्तस्य तत उद्वारहेतुं भगवद्भजनं विहाय तत्कारणविषयभोगप्रसक्तस्यासद्भिः संसारपातहेतुभिः कर्मभिः किं भवेत् ॥ १६ ॥ । वीरराघवव्याख्या विपश्चितः । सर्वज्ञस्य स्वपितुरनन्तजन्मसु हितोपदेशेन रक्षकस्य शास्त्रस्यादेशमनुशानमनुकूलमविद्वांसो यूयं कथंचि- त्सर्गं करिष्यथ विज्ञाय तु न यतिष्यथेति भावः ॥ ९ ॥ * * एवमन्योपदेशरूपाणि देवर्षेर्वचांस्याकर्ण्य तानि हर्यश्वाः स्वयं विममृशुरित्याह मुनिः । तदिति । तदेवर्षेर्वचो निशम्याकर्ण्य हर्यश्वा औत्पत्तिकमनीषया स्वभावसिद्धा मनीषा विचार- शक्तिर्यस्यास्तया बुद्धया । देवर्षेर्वाचः कूटं कूटमयोघनस्तद्वदुर्भेद्यं वाचः कूटं प्रच्छन्नाभिप्रायं वाक्यमित्यर्थः । विममृशुः विचार- पूर्वकमभिप्रायं निश्चितवन्तः ॥ १० ॥ * * कथं विममृशुरित्यपेक्षायां तैर्विमृश्य निर्णीतानर्थानाह । भूरित्यादिदशभिः । । तावद्भूशब्दार्थमाह । भूः क्षेत्रमिति । जीवति प्राणान् धारयतीति जीवः स प्राणः । स एव संज्ञा यस्य तत्सप्राणशब्दवाच्य- मित्यर्थः । यद्वा । जीवः प्रत्यगात्मैव तेन सम्यग्ज्ञायते इति तज्जीवसंज्ञं बाहुलकात्कर्मणि क्तः । जीवेन ज्ञेयमित्यर्थः । " एतद्यो वैत्ति तम्” इति शरीरस्य जीवेन ज्ञेयत्वगानात् । अनादिनिजबन्धनमनादिपुण्यपापकर्मनिबन्धनं यत्तेत्रं तद्भूशब्दार्थ इति विममृशुरित्यर्थः । अन्तशब्दार्थं तैर्निर्णीतं वदन् समुदायाभिप्रायमाह । अदृष्वेति । तस्य भूशब्दस्य विवक्षितस्य क्षेत्रस्य निर्वाण- मन्तशब्दविवक्षितं प्रकृतौ देहस्य प्रलयमदृष्ट्वाऽनालोच्या सत्कर्मभिः किं भवेत् जन्मजरामरणादिमद्देहापादककर्मनिबन्धम- بلید १८० * श्रीमद्भागवतम् [ स्कं. ६ अ. ५ लो. ९-१६ निवर्त्तयद्भिः प्रत्युत संसृत्यापादकैः कर्मभिः न कोऽपि पुरुषार्थोऽस्तीत्यर्थः । अत्र सर्वत्र विचारश्लोकेषु किमसत्कर्मभिर्भवेदिति चतुर्थः पादो ज्ञेयः ॥ ११ ॥ * * तथैकपुरुषं राष्ट्रमित्यस्य तैर्निश्चितमर्थमाह । एक इति । तुर्यः जागराद्यवस्था- त्रयातीतः स्वाश्रयः अनन्याधारः परः प्रकृतिपुरुषविलक्षणः भगवान् षाड्गुण्यपूर्णो निरस्तनिखिलदोष एक एवेश्वरः अन्तः प्रविश्य धारणेन नियन्ता तमेवं भूतमभवं भवप्रतिभटमविदित्वानुपास्य । एक एवेश्वर इत्यनेन पुरुषशब्दार्थ उक्तः । अनेनैवेश्वरप्रति- सम्बन्धीशितव्यं जगद्राष्ट्रमिति फलितम् । ईशितव्यानामीश्वरानुवर्तनस्यैवोचितत्वादाराध्येश्वराननुरूपैरीश्वरवैमुख्यापादकैः कर्मभिः किमित्यर्थः ।। १२ ॥ बिलं चादृष्टनिर्गममित्यस्यार्थमाह । पुमानिति । बिलस्वर्ग पातालं गत इव पुमान् जीवः यद्गत्वा यद्धृदयबिलं प्राप्य “हृद्ययमात्मा प्रतिष्ठितः, इतिवचनान्नैवैति नावच्छति । यथा बिलस्वर्गं गतो नितरां भोगासक्तो मदान्धः स्वस्वरूपादिकं न विविनक्ति ततो न निर्गच्छति च तथा प्रत्यगात्मस्वरूपं प्रकृतिवियुक्तं यत्र हृदयदेशे स्थितं नावगच्छति तज्जीवस्वरूपस्याधिष्ठानं हृदयं बिलं चादृष्टनिर्गममित्यनेन विवक्षितमित्यर्थः । समुदायाभिप्रायमाह । प्रत्य- ग्धाम हृदयबिलस्थं प्रत्यक् स्वप्रकाशं धाम ज्योति: जीवात्मस्वरूपमविदुषः अजानत: असत्कर्मभिः देवमनुष्यादिशरीरहृदय- बिलावस्थापादकैः कर्मभिः किं भवेत् किमपि श्रेयो नास्ति प्रत्युतानर्थ एवेति भावः ॥ १३ ॥ * बहुरूपामित्यस्या- र्थमाह । नानेति । आत्मनो जीवस्य या नानारूपा बहुवृत्तिमती स्वैरिणीव पुंश्चलीव रागादिभिर्गुणैरन्विता बुद्धिः सैव बहुरूपां स्त्रियमित्यनेनाभिप्रेतेत्यर्थः । तस्या निष्ठामवसानं विवेकमगतस्याप्राप्तस्येह लोकेऽसत्कर्मभिः किं भवेत् प्रत्युत संसाररूपानर्थ एवेति भावः ॥ १४ ॥ * * पुमांसं पुंश्चलीपतिमित्यस्यार्थमाह । तत्सङ्गेति । तस्याः सङ्गेन पारवश्येन भ्रंशितमैश्वर्य- मकर्मवश्यत्वं यस्य तमत एव कुत्सिता भार्या यस्य । तेन तुल्यं कुभार्यवत् । भार्याभिलषितवस्त्राभरणाद्यर्जनायासदुःखिनमिव सरन्तं जन्मजरामरणादिपरिवृत्तिरूपसंसारमनुभवन्तं संसृष्टजीवस्वरूपम् । तद्गतीः बुद्धयायत्तस्वर्गनरकादिगतीश्च बुधस्या- जानतः । असत्कर्मभिः स्वर्गनरकादिगत्यापादकैः कर्मभिः किं भवेन्न किमपि श्रेयः सम्भवति । प्रत्युत दुःखमेव स्यादिति भावः ।। १५ ।। * नदीमुभयतोवाहामित्येतद्विवृणोति । सृष्टयप्ययकरीमिति । जन्ममरणकरीमनेनोभयतः प्रवाहो दर्शितः । वेलाकूलशब्दौ तो रद्वयपरौ तयोरन्तेऽवसाने वेगितां संजातवेगाम् । इहलोकपरलोकौ वेलाकुलत्वेन रूपितौ । वेगेनेह- लोकपरलोकप्राप्तिकरीमित्यर्थः । एवम्विधां मायां तदविज्ञस्य तत्त्वेनाविज्ञस्य तथाभूतामविज्ञस्याविचारयतः । तत्र हेतुः मत्तस्य मायापरवशस्यासत्कर्मभिरिह परलोकप्राप्तिहेतुभिः कर्मभिः किं भवेन्न किमपि प्रत्युतान्तः स्थानत्वादिप्राप्तिरूपोऽनर्थ एवेति भावः ॥ १६ ॥ 1 विजयध्वजतीर्थकृता पदरत्नावली * अनुरूपमात्मानात्मविवेकलक्षणम् ॥ ९ ॥ * * औत्पत्तिकमनीषया स्वाभाविकज्ञानसम्पन्नया धिया विचार- विशुद्धया बुद्धद्या वाचः कूटं वचनसमूहं गुह्यभाषात्मकत्वेन कूटमिव प्रतीयमानं वा अल्पबुद्धिभिर्दुर्बोधं वा स्वयं परोपदेशं विना विममृशुः विचार्यालोच्य निश्चितवन्त इत्यर्थः । “मननेच्छा मनीषा स्याज्ज्ञानं बुद्धिर्मतिस्तथा” इत्यभिधानम् । “कूटं तु कैतवं ज्ञेयं समूहो मेलनं तथा” इति च औत्पत्तिकमनीषया निरूप्योक्तं धिया विममृशुरिति वा ॥ १० ॥ * * कथं निश्चिक्युरिति तत्राह । भूः क्षेत्रमिति । भुवोऽन्तमित्यत्र भूशब्देन क्षेत्रं सूक्ष्मशरीरं लिङ्गशब्दवाच्यमुच्यते । कस्य विद्यमान- मत्राह । बीजेति बीज संज्ञस्य जीवस्य यच्छरीरमनादिकालमारभ्य जीवं नितरां बन्नातीति अनादिनिबन्धनम् । अस्मिन् काले प्रारब्धमित्यनियमादनादि अनेन लिङ्गशरीरस्य भूशब्दवाच्यत्वं युक्तम् “भू सत्तायाम्” इति धातोः सत्तायास्तथात्वात् तस्य शरीरस्यान्तं निर्वाणं सर्वात्मना नाशमदृष्ट्वानेनोपायेन नाशो भवतीत्यज्ञानत्वासत्कर्मभिरात्मनात्मविवेकाजनकैः सर्जनलक्षणैः कर्मभिः किं फलं न किमपीत्यर्थः ।। ११ ।। * * तथैकपुरुषं राज्यमित्यस्य विमृष्टार्थमाह । एक एवेति । तुर्योऽवस्था- त्रयातीतः । अभवं न भवः संसारः उत्पत्तिर्वा यस्य स तथा तं नित्यमुक्तमित्यर्थः । अदृष्टाविज्ञाय पुरुषस्य पशुहिंसालक्षणैः भगवदर्पणबुद्धिशून्यैः यागादिकर्मभिः किं नित्यं फलं भवेन्न स्यादित्यर्थः । पुंसोऽभवं मुक्तिप्रदं वा ।। १२ ।। * * बिलं चादृष्टनिर्गममित्यस्यालौचितार्थमाह । पुमानिति । पुमान् यत्प्रत्यगात्मना सर्वात्मनानुगतं ब्रह्मस्वरूपं गत्वा नापैति तदति- शयित बलात्मकत्वाद्विलशब्दवाच्यं ब्रह्माविदोऽजानतः पुंस इह जीवलोके नित्यनैमित्तिकाद्यसत्कर्मभिः इतरविषयैः बिलं स्वर्गेति व्यतिरेकदृष्टान्तः । अनेन अदृष्टनिर्गममित्यस्य पुनरावृत्तिशून्योऽर्थः इतरत्रानिष्क्रमणार्थ इति सूचितम् ॥ १३ ॥ * * बहुरूपामित्यस्य युक्तार्थमाह । नानारूपेति । आत्मनो जीवस्य या बुद्धिः चिदचिदात्मिका सत्त्वादिगुणैरुपरक्ता विकृता वा अत एव नानारूपा “अजामेकां लोहितशुक्कुकृष्णाम्” इति श्रुतेः । नानाविधसंस्काराधिवासितत्वात्स्वैरिणी स्वच्छन्दवर्तिनी स्त्रीव तन्निष्ठां तस्याः बुद्धेश्चेतनायाः निष्ठां भगवत्परतामचिदात्मिकायाः नाशमगतस्य भगवद्भक्तत्यादिसामग्री मकुर्वतः पुरुषस्य । स्क. ६ अ. ५ लो. ९-१६] अनेकव्याख्यासमलङ्कृतम् १८१ बुद्धिदोषनाशासमथैः दानादिलक्षणैः कर्मभिः ॥ १४ ॥ * * पुमांसं पुंश्चलीपतिमित्यस्य विवक्षितार्थमाह । तत्सङ्गेति । तस्याः रजस्तमः प्रकृतेर्बुद्धेः सङ्गेन वशवर्तित क्षणेन भ्रंशितं विस्रस्तं नष्टमैश्वर्यं भगवज्ज्ञानलक्षणशमदमादिलक्षणं वा यस्य स तथा तम् । अत एव संसरन्तं सुखदुःखे भुञ्जानं जीवं तद्गतीः तस्य जीवस्य गतीः स्वर्गनरकादिलक्षणाश्वाबुधस्याजानतः पुंसः । असद्भिः भगवदनुद्देशेन प्रसक्तैः कर्मभिः तीर्थस्नानादिलक्षणैः दुःखनिवृत्तिः फलं भवेत् किम् । कुत्सिता शास्त्रलोकनिन्दिता भार्या पुंश्चली यस्य । स तथा यस्य या नरकादिगतिः तद्वत् अनेन पुंश्चलीपतिशब्दार्थ उक्तः ॥ १५ ॥ * नदीमुभय- तोवाहामित्यस्याभिमतार्थमाह । सृष्टीति । वेलाकूलशब्दाभ्यां सृष्टिसंहारौ लक्ष्येते । तयोरन्तयोर्वाहिशब्दोपलक्षितवेगयुक्तां स्थितौ शनैः प्रवर्तमानां तथोक्तां क्रमव्युत्क्रमतः उभयतो वाहत्वम एवम्विधामीश्वरमायां मत्तस्य विषयरागेण विस्मृतस्य अत एव तदविज्ञानात्तद्विषयज्ञानाभावादसद्भिः कर्मभिः अश्रद्धया कृततपआदिलक्षणैः मायाविनिवर्तकं फलं प्रसिद्धनद्याच वृद्धि- हासाभ्यामुभयतो वाहत्वं सिन्धुसङ्गमे दृष्टं नदीमातृके वेशे सस्यादिसंहारे च ।। १६ ।। जीवगोस्वामिकृतः क्रमसन्दर्भः तत्सङ्गभ्रंशितैश्वर्य्यमिति । जीवस्य स्वज्ञानादिरूपं स्वरूप सामर्थ्य दर्शितम् ।। १५-१६ ।। विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी वाचः कूटं परोक्षवादेनार्थान्तरमिव प्रतीयमानम् ॥ १० ॥ * * नारदोक्तानि दश वाक्यानि सुखबोधार्थ स्वयमेव व्याचष्टे दशभिः । तत्र अदृष्टान्तं भुव इति व्याचष्टे । भूरिति । क्षेत्रं तच्चात्र जीवसंज्ञं लिङ्गशरीरमनादि आदिशून्यं निजस्य जीवात्मनो बन्धनं यतस्तत्तस्य निर्वाणम् अन्तं ज्ञानेन नाशमित्यर्थः । असत्कर्मभिः अवास्तवैः कर्मनिर्वाणार्थमेव प्रत्युत यतध्वमिति भावः ॥ ११ ॥ * * तथैकपुरुषं राष्ट्रमित्येतव्याचष्टे ।
- एक इति । तुर्य्यः विश्वतैजसप्राज्ञेभ्यो भिन्नश्चतुर्थः । राष्ट्रं जगदिति ज्ञेयम् । अभवं न विद्यते भवः संसारो भक्तानां यतस्तम् । अदृष्ट्वा भजनैर प्रत्यक्षीकृत्य । तेन तमेव भजतेति भावः ॥ १२ ॥ * बिलनादृष्टनिर्गममिति व्याचष्टे । पुमानिति । यत् प्रत्यग्धाम प्रतीचो भगवतो धाम वैकुण्ठं गत्वा प्राप्य न पुनरेति न पुनरावर्त्तते । बिलस्वर्गं पातालं गतो यथा तत्रैवासज्य तिष्ठतीत्यर्थः । अविदः अविदुषो जनस्य तेन वैकुण्ठप्राप्तये यतध्वमिति भावः ।। १३ ।। * * बहुरूपां स्त्रियमित्येतद्वयाचष्टे । नानेति । स्वैरिणीव कुविषयोन्मुखी न तु कृष्णविषयोन्मुखी गुणाः सौन्दर्य्यवैदग्ध्यादयः । पाण्डित्यादयश्च तैरन्विता । तस्या निष्ठां भद्राभद्रप्रवृत्तिमगतस्य अजानतः अविचारयत इत्यर्थः । अतो विवेकेन बुद्धि कृष्णोन्मुखीं कुरुतेति भावः ॥ १४ ॥ ॥ * पुमांसं पुंश्चलीपतिमिति व्याचष्टे । तदिति । कुत्सितभार्य्यं गृहस्थमिव संसरन्तं जीवमबुधस्य अजानतः षष्ठ भाव आर्षः । तस्य गतीः स्वर्गनरकाद्या अप्यजानतः तेनात्मानमात्मनैवोद्धरतेति भावः ।। १५ ।। * * नदीमुभयतोवाहामिति व्याचष्टे । सृष्टचप्ययौ करोतीति । तां सृष्टिकाले पूर्व पूर्व्वतस्तत्त्वानि निःसरन्ति अध्ययकाले उत्तरोत्तरतः पूर्वं पूर्वं प्रविशन्तीत्युभयतः प्रवाहो दर्शितः । वेलाकूलस्यान्तं समीपं “वेला स्यात्तीरनीरयोः” इत्यभिधानात् । संसारप्रवाहपतितानां निर्गमस्थानं तपोविद्यादि तत्रैव वेगिनीं निर्गम- प्रतिबन्धाय तपोविद्यादिमत्सु दृष्टैः क्रोधाहङ्कारादिभिः कृतवेगां वेगितामिति च पाठः । मत्तस्य तत्तद्वेगेन विवशस्य । अत एव तां तथाभूतामविज्ञस्य अविचारयतः । तेन लौकिकप्रतिष्ठादिकमपि परित्यज्य पारं व्रजतेति भावः ।। १६ ।। । । शुकदेवकृतः सिद्धांतप्रदीप: विपश्चितः । सर्वज्ञस्य आदेशमाज्ञामविद्वांसः अजानन्तः ॥ ९ ॥ * * औत्पत्तिकी स्वाभाविकी मनीषा यथावदर्थचिन्तनरूपा बुद्धिवृत्तिस्तया धिया वाचः कूटं गूढार्थं वाक्यं विममृशुः विचारितवन्तः ॥ १० ॥ * * ते कथं विममृशुरित्याकाङ्क्षायां श्रीनारदोक्तदशकूटानां तैर्विमृश्य निणीतानर्थानाह । भूरिति दशभिः । तत्र तावत् अदृष्टवान्तं भुव इत्यस्यार्थमाह । क्षेत्रं संसारप्रापककर्मोदयस्थानं जीवति प्राणान् धारयतीति जीवः । स एव संज्ञा यस्य तज्जीवसंज्ञं लिङ्ग- शरीरम् । तस्य निर्वाणं बाधोपायमदृष्ट्वा असद्भिः क्षुद्रैः पितृलोकादिफलकैः मोक्षप्रतिबन्धकैः कर्मभिः किं स्यात् ॥ ११ ॥ ** तथैकपुरुषं राष्ट्रमित्यस्यार्थमाह । एक इति । तुर्यो जागराद्यवस्थात्रयरहितः । ननु अवस्थात्रयसाक्षी जीवः किमित्यत आह स्वाश्रयः स्वतन्त्रः परः क्षराक्षरभिन्नस्वरूपः । नास्ति भवः संसारो यस्मात्तमदृष्ट्वा अनर्च्य असद्भिस्तदर्चनानुपयोगिभिः कर्मभिः किं भवेन्न किमपीत्यर्थः ॥ १२ ॥ * * बिलं चादृष्टनिर्गममित्यस्यार्थमाह । पुमानिति । बिलस्वर्गं पाताले गतो यथा नैति तथा यद्गत्वा ज्ञात्वा नैवैति देहादिकमात्मत्वादिना नैव जानाति तत्प्रत्यग्जीवाख्यं धाम स्वरूपमविद अजानतः । असद्भिः ॥ 1 १८२ श्रीमद्भागवतम् । [ स्कं. ६ अ. ५ लो. ९-१६ प्रत्यत्तत्त्वस्मरणानुपयोगिभिः ॥ १३ ॥ * बहुरूपां स्त्रियं चापीत्यस्यार्थमाह । नानेति । गुणान्वितां तन्निष्ठां तस्योः निष्ठां संसारप्रदां ब्रह्मणि तत्साधर्म्यप्रदामगतस्य अजानतः असद्भिः संसारप्रापकैः ॥ १४ ॥ पुमांसं पुंश्चलीपति- मित्यस्यार्थमाह । तदिति । तस्या बुद्धेः सङ्गात् भ्रंशितमैश्वर्य ज्ञानं तस्य तं तस्याः बुद्धेर्गतीः संसारप्रापकान् मार्गान् । संसरन्तं सम्यगनुसरन्तमात्मानमबुधस्य असद्धिः बुद्धिपारवश्यकृतैः ।। १५ ।। * * नदीमुभयतोवाहामित्यस्यार्थमाह । सुष्टयप्यय- करीमिति । सृष्टिसंहारकरीत्यनेनोभयतः प्रवाहो दर्शितः । वेलाकूलं जलनिधेः प्राप्तिकरं तदं तद्वदिह वेलाकूलं परमानन्दनिधेः प्राप्तिकरं भजनं तस्मिन् अन्तो निष्ठा यस्य । तस्माद्गरुडाद्व्यालीव वेगितां विद्रुतामविज्ञस्य असत्कर्मभिः भगवद्भजनानुपयोगिभिः मायाप्रापकैः ॥ १६ ॥ गोस्वामिगिरिधरलाल विहिता बालप्रबोधिनी विपश्चितः सर्वज्ञस्य स्वपितुः स्वानुरूपमादेशमनुशासनम् अविद्वांसोऽजानन्तः । सर्गमित्युपलक्षणम् लौकिकालौकिक- व्यापारं किमर्थं कथं करिष्यथ ? युष्माकं शुद्धान्तःकरणानां तत्सङ्कल्पोऽप्याश्चर्यमेवेति सूचयति - अहो इति ॥ ९ ॥ * * तद्देवर्षेर्वाचःकूटं परोक्षार्थवचनसमूहं निशम्य अथानन्तरमौत्पत्तिकी सहजा मनीषा विचारशक्तिर्यत्यास्तथा धिया हर्यश्वाः स्वयमेव विमृशर्विचारितवन्त इत्यन्वयः ॥ १० ॥ किं विचारितवन्त इत्यपेक्षायां नारदोक्तदशवाक्यानां तैर्विचार्य निर्णीतानर्थानाह - भूरिति दशभिः । तत्र भूशब्दार्थमाह-भूः क्षेत्रमिति । क्षेत्रशब्देनापि किमुच्यते इत्यपेक्षायामाह - जीव- सञ्ज्ञमिति क्षेत्रवत् पुण्यपापसुखदु:खाद्युद्भवस्थानत्वात् जीवोपाधिभूतं लिङ्गशरीरं यदनादि चिरन्तनं निजस्य जीवस्य बन्धनं तस्य निर्वाणं नाशोपायमध्वा असद्भिर्मोक्षानुपयोगिभिर्बन्धहेतुभिः कर्मभिः किं फलं भवेत् ? न किमपीत्यर्थः ॥ ११ ॥ * * तथैकपुरुषं राष्ट्रमित्यस्यार्थमाह - एक एवेति । राष्ट्रशब्देन चतुर्दशभुवनात्मक ब्रह्माण्डो विवक्षितः, तत्र ईश्वरः कत्तु मकन्तु मन्यथा- कत्तु समर्थः तुर्यः विश्वतैजसप्राज्ञेभ्योऽन्यश्चतुर्थः सर्वसाक्षी स्वाश्रयः स्वाधारः परः सर्वकारणकारणं सर्वाधारश्च भगवानेक एव तमभवं न विद्यते भवः संसारो भक्तानां यस्मात् तं संसारदुःखनिवत्तैकमदृष्ट्वा भजनाभावेन अप्रत्यक्षीकृत्यासद्भिस्तदसमर्पितै- लौकिकैः कर्मभिः पुंसः किं फलं भवेत् ? न किमपीत्यर्थः । तथा च तदाराधनमेव कर्त्तव्यं नान्यदिति भावः ॥ १२ ॥ * * ।। ।। बिलं चादृष्टनिर्गममित्यस्यार्थमाह-पुमानिति । यद्गत्वा प्राप्य बिलस्वर्ग पातालं गत इव पुमान् । नैवेति पुनः संसारे नावर्त्तते 1 तत् प्रत्यग्धाम प्रतीचः सर्वान्तर्यामिणो भगवतो धाम अक्षरब्रह्माख्यमविदोऽविदुषः तत्प्राप्तिसाधनविमुखस्येह जगति असद्भिर्न- श्वरस्वर्गादिसाधनैः कर्मभिः किं भवेत् ? ।। १३ ।। * * बहुरूपां स्त्रियमित्यस्यार्थमाह - नानारूपेति । स्वैरिणीव नाना- रूपा कुत्सितविषयोन्मुखतया रूपरसादिनानाकारा आत्मनो जीवस्य बुद्धिः । तथात्वे हेतुः – रजआदिगुणान्विता । स्वैरिण्यपि वस्त्राभरणादिभिर्नानाकारा भवति । तन्निष्ठां तस्या अवसानं विवेकम् अगतस्याप्राप्तस्य इहासद्भिः कुत्सितभोगद्वारा नरकहेतुभिः कर्मभिः किं भवेत् ? ॥ १४ ॥ पुंमांसं पुंश्चलीपतिमित्यस्यार्थमाह — तत्सङ्गेति । तस्या बुद्धेः सङ्गेन अध्यासेन । भ्रंशितमैश्वर्यमसङ्गत्वस्वातन्त्र्यादि यस्य तम् अत एव कुभार्यपुरुषवत् तस्या बुद्धेर्गतीः सुखदुःखहर्षविषादादिलक्षणाः संसरन्तं गच्छन्तमात्मानम् अबुधस्य पुरुषस्येहा सद्भिस्तदध्यासानिवर्त्तकैः कर्मभिः किं भवेत ? ॥ १५ ॥ * * नदीमुभयतोवाहा- मित्यस्यार्थमाह-सृष्टयप्ययकरीमिति । सृष्टिरुत्पत्तिः अप्ययः प्रलयः तौ करोतीति तथा तां भगवतो मायां शक्त्यात्मिकां प्रकृतिं सृष्टिकाले हि तत आरभ्य पूर्ण पूर्णतस्तत्त्वानि निस्सरन्ति । प्रलयकाले चोत्तरोत्तरतः पूर्वं पूर्व प्रविशन्तीत्युभयतः प्रवाहो दर्शितः । वेलाकूलं नदीप्रवाह पतितानां ततो निर्गमस्थानं तीरं वेला स्यात्तीरनीरयोरित्यभिधानात् तद्वत्संसारप्रवाहपतितानां ततो निर्गमस्थानं तपोविद्यादि तस्यान्ते समीपे वेगितां निर्गमप्रतिबन्धाय तपोविद्यावस्तुदृष्टैः क्रोधाहङ्कारादिभिः कृतवेगां तामविज्ञस्य एवं मायामोहेन कामक्रोधादिभिरहं संसारप्रवाहे पतितोऽस्मीति विचारशून्यस्य अत एवं मत्तस्य तत उद्धारहेतुं भगवद्भजनं विहाय तत्कारणविषयभोगप्रसक्तस्य असद्भिः संसारपातहेतुभिः कर्मभिः किं भवेत् ? : कथं तत उद्धारो भवेदित्यर्थः ।। १६ ।। भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी कथमिति । विपश्चितः सर्वज्ञस्य, स्वपितुः, आदेशमनुशासनं, अनुरूपम् अविज्ञाय, अनुरूपाननुरूपशासनद्वयमध्ये स्वानुरूपपितृशासनमबुद्ध्वेत्यर्थः । वर्त्तमानाः अत एव अविद्वांसः अज्ञाः, यूयम् अहो दाक्षायणाः, सर्ग, कथं करिष्यथ ॥ ९ ॥ * * एवमन्यापदेशरूपाणि देवर्षेर्वेचांस्थाकर्ण्य तानि हर्यश्वाः स्वमनीषया विममृशुरित्याह मुनिः । तदिति । हर्यश्वाः, तत् देवर्षेर्वचः, निशम्य, औत्पत्तिकमनीषया स्वकीयस्वभावसिद्धविचारशक्त्या, देवर्षेः वाचःकूट, कूटमयो- घनस्तद्वदुर्भेद्यं प्रच्छन्नाभिप्रायवाक्यमित्यर्थः । तु स्वयमेव अथ साकल्येन, धिया विममृशुः । विचारपूर्वकं तदभिप्रायं .: स्कं. ६ अ. ५ श्लो. ९-१६ ] अनेकत्र्याख्यासमलङ्कृतम् १८३ निश्चितवन्त इत्यर्थः ॥ १० ॥ * * कथं विममृशुरित्यपेक्षायां तैर्विमृश्य येऽर्था निर्णीतास्तानाह दशभिः । भूरिति । जीवति प्राणान् धारयतीति जीवः स एव संज्ञा यस्य तत् । ‘जीवो जीवेन निर्मुक्तः जीवो जीवं विहाय च’ इत्यादी जीवशब्देनो- लिङ्गशरीररूपं, अनादिनिजबन्धनमनादिपुण्यपापरूपकर्मनिबन्धनं यत् क्षेत्रं, भूः तदेव भूशब्दार्थ इति, विममृशुरित्यर्थः । अन्तशब्दार्थं वदन् समुदायार्थमाह अदृष्वेति । तस्य क्षेत्रस्य, निर्वाणं, अन्तशब्दविवक्षितं प्रकृतौ देहस्य प्रलयमित्यर्थः । अ अनालोच्य, असद्भिः जन्मजरामरणादिमदेहापादकानादिकर्मनिबन्धनमनिवर्त्तयद्भिः प्रत्युत संसृत्यापादकैः कर्मभिः, किं भवेत् । न कश्चनापि पुरुषार्थः स्यादित्यर्थः । अत्र सर्वेषु विचारश्लोकेषु किमसत्कर्मभिर्भवेदिति चतुर्थः पादो ज्ञेयः ॥ ११ ॥ * * तथैकपुरुषं राष्ट्रमित्यस्यार्थमाह । एक इति । तुर्यः जागराद्य वस्थात्रयातीतः, स्वाश्रयोऽनम्याधारः, पर । प्रकृतिपुरुषविलक्षणः भगवान् षाड्गुण्यपूर्णः, निरस्तनिखिलदोषश्च, ईश्वरः अन्तः प्रविश्य धारणेन नियन्ता, एकः एव, अभवं जीवभयनिवर्त्तकं, तं भगवन्तं अवाऽविदित्वाऽनुपास्येति यावत् । पुंसः असद्भिः ईशितव्यानामीश्वरानुवर्त्तनस्यैवोचितत्वादाराध्येश्वरानुरूपैः प्रत्युतेश्वरवैमुख्यतापादकैः कर्मभिः, किं भवेत् अनैक एवेश्वर इत्यनेन पुरुषशब्दार्थ उक्तः । अनेनैवेश्वरप्रतिबन्धीशितव्यं जगद्रा- ट्रमिति फलितम् ।। १२ ।। * * बिलं चादृष्टनिर्गममित्यस्यार्थमाह । पुमानिति । बिलस्वर्गं गतः यथा, पातालं गत इवेत्यर्थः । पुमान् जीवः, यत् गत्वा, यद्धाम बिलं प्राप्य नैवैति भूयो नावर्त्तते । तत् प्रत्यग्धाम प्रतीचो भगवदुपासनया मुक्तभावं प्राप्तस्यात्मनो निवासभूतं ब्रह्मधाम अविदः अविदुषः इह असद्भिस्तत्प्राप्तिप्रतिरोधकैः कर्मभिः, किं भवेत् । ‘यद्गत्वा न निवर्त्तन्ते तद्धाम परमं मम’ इति भगवदुक्तेः ॥ १३ ॥ * * बहुरूपां स्त्रियमित्यस्यार्थमाह । नानारूपेति । आत्मनः जीवस्य, नानारूपा बहुवृत्तिमती, स्वैरिणीव पुंश्चल्यङ्गना इव, गुणान्विता रागादिभिर्गुणैरन्विता, बुद्धिः या, सैव बहुरूपा स्त्रीति शेषः । तनिष्ठां तस्या अवसानभूतं विवेक, अगतस्याप्राप्तस्य, इह लोके, असद्भिरशान्तैः कर्मभिः, किं भवेत् । श्रीभाष्ये ध्रुवानुस्मृतिसाधनसप्तके विवेकस्यैव प्रथम मुदाहृतत्वात्तद्रहितस्यासत्कर्माचरणमनर्थहेतुरिति भावः ॥ १४ ॥ * * पुमांसं पुंश्चलीपतिमित्यस्यार्थमाह । तत्सङ्गेति । तस्या उक्तविधाया बुद्धेः सङ्गो वशवर्त्तित्वलक्षण तेन भ्रंशितं नष्टमैश्वर्यं यस्य तं, अत एव कुत्सिता पुंश्चलीत्वतो लोकशास्त्रनिन्दिता भार्या यस्य तेन तुल्यं तद्वत् । संसरन्तं सुखदुःखे भुञ्जानं कचित्, समीक्ष्य वर्त्तमानस्येति शेषः । तद्गतीः तस्य जीवस्य स्वर्गनरकप्राप्यादिलक्षणा गतीरित्यर्थः । अबुधस्याजानतः पुंसः इह लोके, असद्भिर्भगवदनुद्देशेन प्रसक्तैः कर्मभिः शुष्कतीर्थस्नानादिलक्षणैः, किं भवेत् ॥ १५ ॥ नदीमुभयतोवा हा मित्येतद्विवृणोति । सृष्टयप्ययकरीमिति । सृष्टयप्ययकरीं जन्ममरणकरी, अनेनोभयतः प्रवाहो दर्शितः । वेलाकूल प्रवाहपतितानां निर्गमस्थानं तपोविद्यादिलक्षणं तस्यान्ते समीपे वेगितां निर्गमप्रतिबन्धाय क्रोधाहंकारादिभिः कृतवेगां तां मायाम् अविज्ञाय, वर्त्तमानस्य तां सत्येनाविजानत इत्यर्थः । अत एव मत्तस्य तद्वेगविवशस्य, असद्भिरिहलोकप्राप्तिहेतुभिः कर्मभिः, किं भवेत् ॥ १६ ॥ भाषानुवादः … मूर्ख हर्यश्वो ! जबतक तुम लोग अपने सर्वज्ञ पिताके उचित आदेशको समझ नहीं लोगे और इन उपर्युक्त वस्तुओं को देख नहीं लोगे, तबतक उनके आज्ञानुसार सृष्टि कैसे कर सकोगे ?’ ॥ ९ ॥ * * श्रीशुकदेवजी कहते हैं- परीक्षित् ! हर्यश्व जन्मसे ही बड़े बुद्धिमान थे। वे देवर्षि नारदकी यह पहेली, ये गूढ़ वचन सुनकर अपनी बुद्धिसे स्वयं ही विचार करने लगे - ॥ १० ॥ * ( देवर्षि नारदका कहना तो सच है ) यह लिङ्गशरीर ही, जिसे साधारणतः जीव कहते हैं, पृथ्वी है और यही आत्माका अनादि बन्धन है । इसका अन्त ( विनाश ) देखे बिना मोक्षके अनुपयोगी कर्मों में लगे रहने से क्या लाभ है ? ॥ ११ ॥ सचमुच ईश्वर एक ही है । वह जाग्रत् आदि तीनों अवस्थाओं और उनके अभिमानियोंसे भिन्न, उनका साक्षी तुरीय है । वह सबका आश्रय है परन्तु उसका आश्रय कोई नहीं है । वही भगवान् हैं । उस प्रकृति आदिसे अतीत, नित्यमुक्त परमात्माको देखे बिना भगवान् के प्रति असमर्पित कर्मोसे जीवको क्या लाभ है ? ।। १२ ।। * * जैसे मनुष्य बिलरूप पातालमें प्रवेश करके वहाँसे नहीं लौटपाता - वैसे ही जीव जिसको प्राप्त होकर फिर संसार में नहीं लौटता, जो स्वयं अन्तर्ज्योति: स्वरूप है, उस परमात्माको जाने बिना विनाशवान् स्वर्ग आदि फल देनेवाले कर्मोंको करनेसे क्या लाभ ? ।। १३ ।। यह अपनी बुद्धि ही बहुरूपिणी और सत्त्व, रज आदि गुणोंको धारण करनेवाली व्यभिचारिणी स्त्री के समान है। इस जीवन में इसका अन्त जाने बिना — विवेक प्राप्त किये बिना अशान्तिको अधिकाधिक बढ़ानेवाले कर्म
- करनेका प्रयोजन ही क्या है ? ॥ १४ ॥ * * यह बुद्धि ही कुलटा स्त्रीके समान है । इसके सङ्गसे जीवरूप पुरुषका ऐश्वर्य - इसकी स्वतन्त्रता नष्ट हो गयी है । इसके पीछे-पीछे वह कुलटा स्त्रीके पतिकी भाँति न जाने कहाँ कहाँ भटक रहा है । इसकी विभिन्न गतियों, चालोंको जाने बिना ही विवेकरहित कर्मोंसे क्या सिद्धि मिलेगी ? ।। १५ ।। * * माया ही 1 १८४ श्रीमद्भागवतम् [ स्कं. ६ अ. ५ लो. १७-२४ दोनों ओर बहनेवाली नदी है । यह सृष्टि भी करती है और प्रलय भी । जो लोग इससे निकलनेके लिये तपस्या, विद्या आदि तटका सहारा लेने लगते हैं, उन्हें रोकनेके लिये क्रोध, अहंकार आदिके रूपमें वह और भी वेगसे बहने लगती है । जो पुरुष उसके वेगसे विवश एवं अनभिज्ञ है, वह मायिक कर्मोंसे क्या लाभ उठावेगा ? ।। १६ । १७ ॥ १८ ॥ १९ ॥ पञ्चविंशतितच्चानां पुरुषोऽद्भुतदर्पणम् । अध्यात्ममबुधस्येह किमसत्कर्मभिर्भवेत् ॥ ऐश्वरं शास्त्रमुत्सृज्य बन्धमोक्षानुदर्शनम् । विविक्तपदमज्ञाय किमसत्कर्मभिर्भवेत् ॥ कालचक्रं भ्रमिस्तीक्ष्णं सर्वं निष्कर्षयञ्जगत् । स्वतन्त्रमनुधस्येह किमसत्कर्मभिर्भवेत् ॥ शास्त्रस्य पितुरादेशं यो न वेद निवर्तकम् । कथं तदनुरूपाय गुणविश्रम्भ्युपक्रमेत् ॥ २० ॥ इति व्यवसिता राजन् हर्यश्वा एकचेतसः । प्रययुस्तं परिक्रम्य पन्थानमनिवर्तनम् ॥ २१ ॥ स्वरब्रह्मणि निर्भातहृषीकेशपदाम्बुजे । अखण्डं चित्तमावेश्य लोकाननुचरन्मुनिः ॥ नाशं निशम्य पुत्राणां नारदाच्छीलशालिनाम् । अन्वतप्यत कः शोचन् सुप्रजस्त्वं शुचां पदम् ॥ स भूयः पाञ्चजन्यायामजेन परिसान्त्वितः । पुत्रानजनयद् दक्षः शबलाश्वान् सहस्रशः ॥ २२ ॥ २३ ॥ २४ ॥ कृष्णप्रिया व्याख्या अन्वयः- : - पंचविशतितत्त्वानां पुरुषः अद्भुतदर्पणम् अध्यात्मम् अबुधस्य इह असत्कर्मभिः किं भवेत् ॥ १७ ॥ ** ऐश्वरं बंधमोक्षानुदर्शनं विविक्तपदं शास्त्रम् उत्सृज्य अज्ञाय असत्कर्मभिः किं भवेत् ॥ १८ ॥ * * भ्रभिः तीक्ष्णं सर्व जगत् निष्कर्षयत् स्वतंत्र कालचक्रम् अबुधस्य इह असत्कर्मभिः किं भवेत् ॥ १९ ॥ * * यः तदनुरूपाय निवर्तकं शास्त्रस्य पितुः आदेश न वेद गुणविश्रंभी कथम् उपक्रमेत् ॥ २० ॥ * राजन इति व्यवसिताः एकचेतसः हर्यश्वाः तं परिक्रम्य अनिवर्तनं पंथानं प्रययुः ॥ २१ ॥ मुनिः स्वरब्रह्मणि निर्भातहृषीकेशपदांबुजे अखंड चित्तम् आवेश्य लोकान् अनुचरत् ।। २२ ।। * * कः शीलशालिनां पुत्राणां नारदात् नाशं निशम्य शोचन् अन्वतप्यत सुप्रजः त्वं शुचां पदम् ॥ २३ ॥ * सः दक्षः अजेन परिसात्वितः भूयः पांचजन्यायां शबलाश्वान् सहस्रशः पुत्रान् अजनयत् ॥ २४ ॥ ।। ।। 1
श्रीधरस्वामिविरचिता भावार्थदीपिका 11 । * पंचपंचेत्यस्यार्थमाह । पंचविंशतितत्त्वानां पुरुषोंतर्यामी । अद्भुतदर्शन आश्चर्यरूप आश्रयः अध्यात्मं कार्यकारण- संघाताधिष्ठातारं तमबुधस्य । असद्धिर्मिध्यास्वातंत्र्यकृतैः ॥ १७ ॥ * * क्वचिद्धंसमित्यस्यार्थमाह । ऐश्वरमीश्वरप्रति- पादकं विविक्तं पदं चिज्जडरूपं वस्तु येनेति हंसपदव्याख्यानम् । बंधमोक्षावनुदर्शयतीति तथा । अनेन चित्राः कथा यस्येति व्याख्यातम् । तदुत्सृज्यानभ्यस्य अज्ञायाविदुषः । असद्भिर्बहिर्मुखैः ॥ १८ ॥ क्षौरपव्यमित्यस्यार्थमाह । काल- चक्रमिति । भ्रमिभ्रमणात्मकम् । तीक्ष्णमिति निष्कर्षयदिति च क्षौरपव्यपदं व्याख्यातम् । तदबुधस्यात एव फलस्य नित्य- बुद्धया काम्यकर्मानुष्ठाने वैगुण्यबाहुल्यादसद्भिः ॥ १६ ॥ * * स्वपितुरादेशमित्यस्यार्थमाह शास्त्रस्य स्वपितुर्द्वितीयजन्म- हेतोः । तदनुरूपाय निवृत्त्यनुरूपाय निवृत्तकर्मादेिशं यो न वेद स कथं गुणविश्रंभी गुणमयप्रवृत्तिमार्गविश्वासवान्सन्नुप- त्या प्रवर्तेत । “मोक्षेशत्रह्मबुद्धीनां जीवमायांतरात्मनाम् । शास्त्र कालोपदेशानामज्ञाने किमु कर्मभिः ।” इति । वाचः कूट संग्रहश्लोकः ॥ २० ॥ * * इति व्यवसिता एवं निष्ठितवंतः । एकचेतस ऐकमत्ययुक्तः । तं नारदं प्रदक्षिणी- कृत्यापुनरावृत्तिमार्ग प्रययुः ॥ २१ ॥ * निर्भातः साक्षात्कृतो यो हृषीकेशस्तस्य पदांबुजे । अनुचरदन्वचर- दित्यर्थः ।। २२ ।। * नाशमदर्शनं स्वधर्मभ्रंशं वा शीलेन शालते शोभंते इति तथा तेषाम् । को दक्षः । सुप्रजस्त्वं शुचां शोकानां स्थानम् ॥ २३ ॥ * * अजेन ब्रह्मणा । सहस्रशः सहस्रसंख्यान् ।। २४ ।। १. प्रा० पा० दर्शनम् । २. प्रा० पा० - रूपम० । ३. प्रा० पा० - चरेन्मु० । ४. प्रा० पा० ततः स पाश्च० । स्कं. ६ अ. ५ श्लो. १७-२४ ] | अनेकव्याख्यासमलङ्कृतम् १८५ वंशीधरकृतो भावार्थदीपिकाप्रकाशः । पुरुषो विष्णुः । अद्भुतदर्शन इति । भक्ता हि स्वचित्तादीनि पञ्चविंशतितत्त्वानि विष्णावेवापयति तानि च विष्णु- गतानि भूत्वा निर्मलान्यप्रकृतानि नित्यानि प्रतिविश्वतां परित्यज्य विष्णुरूपदर्शनधर्माण्येव भवतीति विष्णुरूपदर्शनस्याद्भुतत्वम् अन्यदर्शनगतं सुखादिकं तु यथास्थितरूपं यत्तत्प्रतिविश्वमेव भवेन्न तु दर्शनगतनैर्मल्यग्राहीत्यर्थः । तं पुरुषं विष्णुमध्यात्मे आत्मन्येव वर्त्तमानमबुधस्य सेव्यत्वेनाजानतः तस्माद्देहात्मानौ हरये समर्पयतेति भावः ॥ १७ ॥ * ऐश्वरं श्रीमन्महा- भारतादिशास्त्रं श्रीवेद चतुष्कञ्च “सर्वे वेदा यत्पदमामनति” इति श्रुतेः “वेदैश्व सर्वैरहमेव वेद्यः” इति स्मृतेश्च विविक्तं सर्वतः सारभूतं परमात्मवस्तु पद्यते प्राप्नोत्यनेनेति विविक्तपदं विविक्तानि विचारयुक्तानि पदानि सुप्तिङतानि यत्रेति वाऽनेन मनुष्यवाङ्गनिर्मित सुप्तिङतपवर्जितस्य भगवत्प्रतिपादकस्यापि ग्रंथस्य शास्त्रत्वं नास्ति तत्रास्था न कार्येति द्योतितम् । यत्तु “स्तवैरुचावचैः स्तोत्रैः पौराणैः प्राकृतैरपि । स्तुत्वा” इति वक्ष्यत्येकादशे भगवांस्तत्स्तुतिविषयमेव न तु विचारश्रवणादिविषयम् । यद्वा-प्राकृतैः स्वाभाविकैः पुरुषसूक्तादिभिरित्यर्थः । तदुक्तं संहितायाम् “पुमान्न प्राकृतं शास्त्रमापद्यपि कदाचन । शृणुयाच्छृणु- याचा विप्रादेव न चान्यतः । प्राकृतश्रवणं व्यर्थं न पुण्यं तेन जायते । प्रत्यवायावहं किं तु केवलं स्याद्विजन्मनाम् ।” इति याचार्ष वारतांतविना | आर्षश्रवणफलं तु हरिवंशांत वैशंपायने नाप्युक्तम् “नरमेधाश्वमेधाभ्यां यत्फलं प्राप्यते नरैः । तत्फलं लभते नूनं पुराणश्रवणाद्धरेः । “ब्रह्महा भ्रूणहा गोघ्नो सुरापो गुरुतल्पगः । सकृत्पुराणश्रवणात्पूतो भवति नान्यथा ।” इत्यलं प्रसक्तानुप्रसक्त्येति प्रकृतमनुसरामः - एताद्दर्श शास्त्रमज्ञायाज्ञात्वा ऽसत्कर्मभिबौद्धादिशास्त्रश्रवणाध्ययनादिभिर्व हिर्मुखैर्वेदविरुद्वैः किं ज्ञानलक्षणं फलं स्यान्नेत्यर्थः । तथा च वेदाविरुद्धार्षशास्त्रोक्तरीत्येश्वरं भजतेति भावः । वेदाविरुद्वेत्युक्त्या “बृहस्पतिर्हि शुक्रो भूत्वेन्द्रस्याभयायासुरेभ्यः क्षयायेमामविद्यामसृजत्” इत्यादिमैत्रायणीयश्रुतेर्बृहस्पतिप्रणीत पाखंडशास्त्रस्यार्षत्वेऽपि वेद- विरुद्धत्वादनादेयतोक्तेति । यद्वा ऽसत्कर्मभिरविद्यमानसूत्र कार्यैः शाखाभासै: “अपदं न प्रयुंजति” इति श्रुतेः पदरहितैर्न किमपि शुभं भवतीत्यर्थः ॥ १८ ॥ तुरपविभ्यामिव निर्वृत्तमिति औरपव्यं भयप्रदत्वात्क्षौरपव्यं तीव्रत्वात्तीक्ष्णमिति तेन श्वः परश्वो वा मरिष्यथ किमिति हरिं न भजथेति भावः ॥ १६ ॥ * न ह्याधानकत्तैव पिता किं तु शास्त्रमेव तस्य पितुरादेशो हि निवर्तको न तु प्रवर्तकोऽतो यद्यादेशं निवर्तकं न वेद तदा तदनुरूपायादेशानुरूपं तु कथमुपक्रमेत यतोऽयं गुणे प्रवृत्तिमार्गे एव विश्रंभी अयमेवादेश इति विश्वासवान् । अतः शास्त्रस्य शास्त्रानुयायिनः पितुश्च निवृत्तिधर्मे याऽऽज्ञा सैव वास्तवी तामेव पालयतेति ध्वनिः । अतः शास्त्रवात्पर्यप्रतिकूलमादेष्टुर्दक्षस्य पितृत्वाभावात्तदाज्ञाया अपालने वो नास्ति दोष इत्यनुध्वनिः । तस्मान्मत्त एव विष्णोर्मत्रं गृहीत्वा कचिदेकांते उपविश्य तं विष्णुमेव भजतेति सर्वानुध्वनिः । तीर्थस्तु ‘मातेव रक्षति पितेव हिते नियुक्ते’ इत्यादिवचनात्पितृवद्धितोपदेष्टृत्वात्पितृशब्देन शाखमेव लक्ष्यते ‘प्रातरुत्थायाथ संध्यामुपासीत’ ‘कलंजं न भक्षयेत्’ इत्यादिश्रुतेरित्याह । मोक्षादयो दशार्थाः क्रमेण कूटसंग्रहे उक्ताः ॥ २० ॥ * * इत्येवं विशेषेणाव- सितं निश्चितं यैस्ते । प्रदक्षिणीकृत्येत्युपलक्षणं गुरुकरणे चरणामृतग्रहणदंडवत्प्रणत्यादेः अनिवर्त्तनं संन्यासानंतरमाश्रमांतरा- भावादनिवर्त्तक संन्यासमित्यर्थः । मोक्षं वा “न स पुनरावर्त्तते” इति श्रुतेः ।। २१ ।। *
-
- हंतह्तैतावतो जीवा नरकादुद्धृतास्तत्प्रभोर्यश उपवर्णयामीति नारदस्य समुद्रे निमज्जनमाह स्वराः षड्जादय एव ब्रह्म तत्र निर्भातस्य लीलागानेन साक्षात्कृतस्य हृषीकेशत्य सर्वेन्द्रियाकर्षकस्य कृष्णस्य चरणकमले। संदर्भस्तु-नारदस्य च चेष्टेयं सर्वं तदुन्मुखीकरणेच्छामयेन श्रीभगवदनुरागेणैवैत्याह-स्वरब्रह्मणीति । उत्तमस्वरजातिस्वभावोयं यः सामान्यतः स्वस्वोत्कर्षविषयं स्मारयति विशेषतो भक्तानां भगवत्तत्त्वमित्यनुभवसिद्धम् । इत्यर्थं इति । अनुचरन्निहाडागमाभावस्त्वार्ष इति भावः ॥ २२ ॥ । "
- अदर्शनं पुनर्गृहागमनाभावात् । स्वस्यादर्शनेऽप्यन्येषां तद्दर्शनस्य सत्त्वादाह-स्वधस्मद् गृहस्थधर्भाद्भूशं पतनं वेति । गृहस्थानां मते विरक्ततैव नाश इति केचित् । अन्वतप्यत इतहत तादृशा मे पुत्रा नारदेन भ्रंशिता इति विषसाद । सुप्रजास्त्वमंगिरसे वो अस्त्विति वैदिकप्रयोगानुकारि प्रयोग इति । शुचां पदं वियोगे दुःखप्रदत्त्वादिति भावः ॥ २३ ॥ * सहस्रिणः सहस्रं संख्या येषां ते तथा पंचजनस्यापत्यं स्त्री पांचजन्या अपत्ये ण्यप्रत्ययः । शेन कल्याणेन बलते आच्छादयति भक्तजनानिति शबलो विष्णुस्तमश्नुवत इति शबलाश्वास्तान् । नारदोपदेशेन तन्नाम्नोप्यन्वर्थतैव भविष्यतीति ज्ञेयम् ॥ २४ ॥ अन्वितार्थप्रकाशिका । “पचपचाद्भुतं गृहम्” इत्यस्यार्थमाहुः - पचेति । पञ्चविंशतितत्त्वानां पुरुषोऽन्तर्यामी अद्भुतदर्पणमाश्वर्यरूपः आश्रयः प्रकाशश्च तमध्यात्मं कार्यकारणसंघानाधिष्ठातारमबुधस्याजानतः तदर्हमितिवत् द्वितीया । इहासद्भिः स्वातन्त्र्याभि- मानेन कृतैः स्वरूपावरकैः कर्मभिः किं भवेत् ॥ १७ ॥ * “क्वचिद्धसं चित्रकथम्” इत्यस्यार्थमाहुः – ऐश्वरमिति । ऐश्वरमीश्वरप्रतिपादकं विविक्तं पदं चिज्जडरूपं वस्तु येनेति हंसपदार्थः बन्धमोक्षावनुदर्शयतीति तथा अनेन चित्रा: कथा: DY १८६ श्रीमद्भागवतम् [ स्कं. ६ अ. ५ श्लो. १७- २४ यस्येति व्याख्यातमेवंभूतं शास्त्रमुत्सृज्यानभ्यस्यात एवाज्ञाय तदर्थमविदुषः षष्ठयर्थे चतुर्थी । असद्भिर्बहिर्मुखैः कर्मभिः किं भवेत् ॥ १८ ॥ * * “ क्षौरपत्र्यं स्वयं भ्रमि” इत्यस्यार्थमाहुः – कालचक्रमिति । भ्रमि भ्रमणात्मकमित्यनुवादः तीक्ष्ण- मिति सर्वं जगन्निष्कर्षयत् जन्ममरणादिनेतस्ततः स्वर्गनरकादौ प्रक्षिपदिति द्वयं क्षौरपव्यपदव्याख्यानं स्वतन्त्रमिति स्वयमि- त्यस्य व्याख्यानम् । एवंभूतं कालचक्रमबुधस्य द्वितीया प्राग्वत् तत्तत्फलानां नित्यत्वबुद्धया कर्माणि कुर्वतस्तैरसद्भिः कालग्रस्त - फलकैः कर्मभिः किं भवेत् ॥ १९ ॥ * " कथं स्वपितुरादेश" मित्यादेरर्थमाहुः - शास्त्रस्य पितुरिति । उपनयनादिसंस्कारद्वारा द्वितीयजन्म हेतुत्वाद्धितोपदेष्टृत्वाच्च शास्त्रं पिता तस्य निवर्तकं निवृत्त्यपदेशमुपदेशं यो न वेद असौ गुणविश्रम्भी गुणप्रयुक्त- प्रवृत्तिमार्गे विश्वासवान् तदनुरूपाय निवृत्तिरूपाय कथम् उपक्रमेत् । तम्भाव दीर्घाभावश्चार्ष: । “मोक्षेशत्रह्मबुद्धीनां जीवमा- यान्तरात्मनाम् । शास्त्र कालोपदेशानामज्ञाने किमु कर्मभिः । " इति । वाचः कूटसंग्रह लोकः ॥ २० ॥ * * इतीति । हे राजन् ! इत्येवं व्यवसिता नारदवाक्यार्थे कृतनिश्चया एकचेतसः ऐकमत्यप्रयुक्ताः हर्यश्वास्तं नारदं परिक्रम्य प्रणम्य च अनिवर्तकं पुनः संसाराप्रापकं पन्थानं भगवन्मार्ग ययुः ॥ २१ ॥ * स्वरैति । स्वराः षड्जादय एव ब्रह्म तंत्र निर्मात आविर्भूतो यो हृषीकेशो भगवान् तस्य पदाम्बुजेऽखण्डमेकाग्रं चित्तमावेश्य मुनिर्लोकाननुचरत् अन्वचरदित्यर्थः । अडभाव आर्षः ।। २२ ।। नाशमिति । शीलेन सुखभावेन शाल ते शोभन्त इति तथा तेषां पुत्राणां नारदात् नाशम् अदर्शनं गार्हस्थ्यधर्मभ्रंशं वा निशम्य श्रुत्वा कः दक्षः अहो ममाज्ञानुसारिणः सुशीलाः पुत्राः स्वधर्माद् भ्रष्टा इति शोचन्नन्वतप्यत । यतः सुप्रजस्त्वं सत्पुत्रवत्त्वमेव तद्वियोगे शुचां शोकानां पदं स्थानं कारणमित्यर्थः ॥ २३ ॥ * * * स इति । ततश्च ब्रह्मणा परिसान्त्वितः स दक्षः पाञ्चजन्यायां स्वभार्यायां भूयः सहस्रसङ्घ यान् शबलाश्वसंज्ञान् पुत्रानजनयत् ॥ २४ ॥ वीरराघवव्याख्या । ४ पञ्चपञ्चाद्भुतं गृहमित्येतद्विवृणोति । पञ्चविंशतीति । पञ्चविंशतितत्त्वानां जीवपर्यन्तानां सङ्घातरूपं यत्पुरुषस्य परमपुरुषस्याद्भुतं वर्षणं शरीरमात्मन्यध्यात्मं परमपुरुषधार्यत्वेनावस्थितमबुधस्याविचारयतः । असत्कर्मभिर्देहात्मभ्रमस्वतन्त्रा- त्मभ्रमापादकैः कर्मभिः किं भवेन्न किमपि प्रत्युत देहात्मादिभ्रमप्रयुक्तोऽनर्थ एवेति भावः ॥ १७ ॥ * * कचिद्धसं चित्रकथमित्येतद्वचाचष्टे । ईश्वरमिति । अनेन हंसशब्दार्थ उक्तः । हन्ति दोषानिति हंसः निरस्तनिखिलदोषः । तमीश्वरं शास्त्रं शास्त्रैकवेद्यं बन्धमोक्षानुदर्शनं बन्धमोक्षावनुदर्शयति बन्धमोक्ष हेतु प्रवृत्तिनिवृत्तिधर्मानुष्ठापनेन तौ दर्शयतीति तथा कर्त्तरि ल्युः । अनेन चित्रकथशब्दार्थ उक्तः । विविक्तं पदं यस्य तं विविक्तस्थानवर्त्तिनं हृदयकुहरे स्थितमित्यर्थः । अनेन कचिच्छब्दार्थ उक्तः । उत्सृज्य त्यक्त्वा अज्ञाय उक्तविधं तमनालोच्य ऐश्वरं शास्त्रमिति पाठान्तरम् । तत्रैश्वरमीश्वरप्रतिपादकमध्यात्मशास्त्र- मुत्सृज्यानधीत्य बन्धमोक्षानुदर्शनं विविक्तपदमीश्वरमविज्ञायानुपास्येत्यर्थः । ऐश्वर्यमिति पाठे तु ईश्वरस्य सम्बन्धि ऐश्वरं ईश्वरावेदकं तदेवैश्वर्य स्वार्थे ष्यम् । ईश्वरस्वरूपरूपगुणप्रतिपादकमित्यर्थः । अत्रापि परशब्देन हंसशब्दार्थ उक्तः । असत्कर्म - भिरीश्वरवैमुख्यापादकैः कर्मभिः किमपि न अपि त्वात्मनाशरूपोऽनर्थ एवेति भावः ।। १८ ।। * * क्षौरपव्यमित्येतद्वचा- चष्टे । कालचक्रमिति । यत्सर्वमाब्रह्मस्तम्बपर्यन्तं जगन्निष्कर्ष यन्निष्काषयत्त्रोटयदित्यर्थः । अनेन पव्यशब्दार्थ उक्तः । तीक्ष्णं गर्भजन्मजरामरणादिनिमित्तत्वेन दुःसहमनेन क्षौरशब्दार्थ उक्तः । भ्रमत्परिवर्त्तमानं स्वतन्त्रमपरवशं कालचक्रं तदबुधस्या- विचारयतः असत्कर्मभिः कालवश्यतापादकैः न किमपि प्रत्युत तापत्रयाभिहतिरेवेति भावः ॥ १९ ॥ * * स्वपितुरादेशं विवृणोति । शास्त्रस्य पितुः शास्त्रमेव हि सर्वस्य पिता हितोपदेष्टत्वात्तस्यादेशं विविच्य ज्ञापनरूपमनुशासनं निवर्त्तकं प्रवृत्ति- धर्मानुष्ठाननिवृत्तिज्ञापकं यः पुमान्न वेद स गुणविस्रम्भी गुणमयशब्दादिविषयविश्वासवान् । तदनुरूपाय उक्तादेशानुकूल्याय कथं सृष्टयादावुपक्रमेत् । सृष्ट्याद्यनुक्रमस्य पित्रादेशप्रतिकूलत्वात्तदुपरम एव । तदादेशानुकूलः पित्रादेशानुवर्ती न सृष्टचादौ यतेतेति भावः ॥ २० ॥ * * एवं वाचः कूटं विमृश्य किमकुर्वन्नित्यत्राह मुनिः । इतीति । हे राजन्नितीत्थं व्यवसिता: निश्चयवन्तः । व्यवसायो व्यवसितं भावे क्तः सोऽस्त्येषामिति व्यवसिताः अर्शआदित्वान्मत्वर्थीयोऽच् हर्यश्वाः सर्वैः एकचेतसः एकमतयः तं नारदं परिक्रम्यानिवर्त्तनं न विद्यते निवर्त्तनं निवृत्तिः यस्मात्तं पन्थानं प्रययुः परब्रह्मोपासनेन मुक्ति भगवन्तं प्रापुरित्यर्थः ॥ २१ ॥ * मुनिर्नारदस्तु स्वरब्रह्मणि ब्रह्मसान्निध्यापादकवल्लकीस्वरे निर्मातः साक्षात्कृतो यो हृषीकेशः तस्य पदाम्बुजे चित्तमखण्डमविच्छिन्नं यथा तथावेश्य लोकाननुचरत् अन्वचरत् अडभाव आर्षः ।। २२ ।। * * ततः को दक्षः । शीलशालिनां सुशीलानां पुत्राणां नारदान्नाशं निशम्य सृष्टयुद्योगनिवृत्तिपूर्वकमुक्तिं निशम्याकर्ण्य शोचन्नन्वतप्यता- दुःख्यत् । सुप्रजस्त्वं शुचां पदमिति लोकोक्तिप्रकारः सुप्रजस्त्वं सत्पुत्रवत्त्वं शोकानां स्थानमिति हि किं वदन्तीत्यर्थः । अत्र प्रजाशब्देन प्रजाविपत्तिरुपलक्ष्यते ।। २३ ।। * स दक्षोऽजेन ब्रह्मणा परिसान्त्वितः समाहितः पुनः पाञ्चजन्यायां सबलाश्वसंज्ञान् सहस्रसंख्याकान् पुत्रानजनयत् ॥ २४ ॥ وليد ** %% स्कं. ६ अ. ५ श्लो. १७-२४ ] अनेकत्र्याख्यांसमलङ्कृतं विजयध्वजतीर्थकृता पदरत्नावली पञ्चपञ्चेत्यस्य विमर्शप्रकारमाह । पश्चेति । पञ्चविंशतितत्त्वानामद्भुतत्वेन दृश्यत अत्यद्भुतदर्शनः गृहस्थानीयो यः पुरुषस्तमध्यात्ममात्मानमधिकृत्य वर्तमानमिन्द्रियं चाबुधस्याजानतः पुरुषस्यासत्कर्मभिः “ओमित्येकाक्षरं ब्रह्म व्याहरन्माम- नुस्मरन्” इतिस्मृतिविहिताविषयैर्योगाभ्यासादिलक्षणैः वायुप्रसादादिः फलम् । अनेन पञ्चपञ्चेत्यत्र पचकत्रयं ग्राह्यमिति सूचितम् ॥ १७ ॥ * * कचिद्धसं चित्रकथमित्यस्यार्थ दर्शयति । ऐश्वरमिति । ईश्वरप्रतिपादकं समाध्यादिभाषात्रयेण चित्राः कथाः यस्मिंस्तत् बन्धमोक्षावनुदर्शयतीति बन्मोक्षानुदर्शनम् । अत एव हंसं विविक्तपदं विविक्तं सर्वतः सारभूत पद्यते प्राप्नोति अनेन पुरुष इति । हंसो यथा सारं क्षीरमेव गृह्णाति तथेदमिति लुप्तोपमम् । एवम्विधं भारतादिशास्त्रमुत्सृज्या- ज्ञात्वासत्कर्मभिबौंद्धादिशास्त्रश्रवणलक्षणैः ज्ञानलक्षणं फलम् ॥ १८ ॥ * * क्षुरात्तं स्वयं भ्रमिमित्यस्यानुरूपार्थमाह । कालचक्रमिति । भ्रमिमित्यनूद्य सर्वं जगन्निष्कर्षयेदिति व्याख्याति “भ्रामयन्सर्वभूतानि” इति स्मृतेः । क्षुरान्तमित्यस्यार्थ - तीक्ष्णमिति । क्षुरान्तः क्षुरधारा तद्वत्तीक्ष्णमित्यर्थः । स्वयमित्यस्यार्थः स्वतन्त्रमिति । एतैरथैः किं लक्ष्यत इति तदाह । काल- चक्रमिति । द्वादशमासादिदलाद्यन्वितत्वाच्चक्रव्यपदेशः । तत्स्वरूपमप्यजानतः पुंसस्तत्तत्कालविहिताविषयैः कालजयलक्षणं फलम् ॥ १९॥ * * कथं स्वपितुरादेशमित्यस्यानुगुणार्थमाह । शास्त्रस्येति । “मातेव रक्षति पितेव हिते नियुङक्ते” इति वचनात् पितेव हितोपदेष्टृत्वात् पितृशब्देन शास्त्रमुपलक्ष्यते " प्रातरुत्थाय यथा- सन्ध्यामुपासीत” इत्यादेः अनुरूपं संसारनिवर्तकं शास्त्रलक्षणं पितुरादेशं यो न वेद स गुणविश्रम्भी गुणविश्वासी पुरुषस्तदनुरूपाय शास्त्रविधानानुगुणाय कथं सत्कर्म उपक्रमेदज्ञानादिति शेषः ॥ २० ॥ * * इति ऋषेरभिप्रायं व्यवसिताः निश्चितवन्तः एकमेधसः एकबुद्धयः । अतिवर्तकं पन्थानं संन्यासलक्षणं मार्ग संन्यासानन्तरं पुनराश्रमान्तराभावादनिवर्तकं वा न निवर्तकं यस्य स तथा तम् ॥ २१ ॥ * * स्वरब्रह्मणि षड्जादिस्वरलक्षणब्रह्मणि गान्धर्वे नितरां भाते प्रकाशिते यथा अखण्डं निरन्तरं भवति तथा निर्भातमितिपाठे चित्तविशेषणं निष्णातमित्यर्थः ॥ २२ ॥ को दक्षः । सुप्रजस्त्वं शोभनसन्ततिमत्त्वं शुचां शोकानां पदं स्थानमिति सञ्चिन्त्य । सुप्रजस्त्वमङ्गिरसो वो अस्त्विति छन्दोऽनुकारिप्रयोगः ॥ २३ ॥ * * सहस्रं सङ्घचैषामस्तीति सहस्रिणः ।। २४-२६ ।। जीवगोस्वामिकृतः क्रमसन्दर्भ : J लोहानामिव पञ्चविंशतितत्त्वानां सङ्घातरूपः पुरुषोऽद्भुतो दर्पण: आत्मनः आभास आश्रयो मुखादेरिव । ऐश्वरं भगवल्लीलात्मकम् । चित्रकथमित्युक्तत्वात् । विविक्तानि पदानि सर्व्वेऽप्यर्था यस्मात् ।। १७-१६ ।। * * तदनुरूपाय निवृत्त्यनुरूपाय ज्ञानाय । तदवेदने तत्रैव वध्येतेति भावः ॥ २०-२१ ।। * नारदस्य च चेष्टेयं सर्व्वं तदुन्मुखीकरणे- च्छामयेन श्रीभगदनुरागेणैवेत्याह । स्वरब्रह्मणीति । उत्तमस्वरजातिस्वभावोऽयम् । यः सामान्यतः स्वस्वोत्कण्ठाविषयं स्मारयति विशेषतो भक्तानां भगवन्तमित्यनुभवः ।। २२-२६ ॥ विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी. । पञ्चपञ्चाद्भुतं गृहमित्येतद्वचाचष्टे । पश्चेति । पुरुषो विष्णुः अद्भुतदर्पण इति । भक्ता हि स्वचित्तादीनि पञ्चविंशति- तत्त्वानि विष्णावेवार्पयन्ति तानि च विष्णुगतानि भूत्वा निर्मलान्यप्राकृतानि नित्यानि प्रतिबिम्बतां परित्यज्य विष्णुरूप- दर्पणधर्माण्येव भवन्तीति विष्णुरूपदर्पणस्याद्भुतत्वम् । अन्यदर्पणगतं मुखादिकन्तु यथास्थितरूपं यत्तत् प्रतिबिम्बमेव भवेन्न तु दर्पणगतनैर्मल्यग्राहीत्यर्थः । तं पुरुषं विष्णुम् अध्यात्म आत्मन्येव वर्त्तमानम् । अबुधस्य सेव्यत्वेनाजानतः । तस्माद्देहात्मानौ हरये समर्पयतेति भावः ॥ १७ ॥ * * कचिद्धसं चित्रकथमिति व्याचष्टे । ऐश्वरमीश्वरप्रतिपादकं बन्धमोक्षौ विचित्राभिः कथाभिरनुदर्शयतीति । चित्रकथमिति व्याख्यातं क्षीरनीरमिव विविक्तमात्मानात्मवस्तु येनेति हंसपदं व्याख्यातम् । विवि- क्तानि विचारयुक्तान्येव पदानि सुप्तिङन्तानि यत्रेति तत्रैवास्तिक्यमुचितमतो मोक्षार्थमीश्वरं भजतेति भावः ॥ १८ ॥ औरपव्यं स्वयं भ्रमीति व्याचष्टे । कालचक्रमिति । चुरपविभ्यामिव निवृत्तमिति, भयप्रदत्वात् क्षौरपव्यं भ्रमणात्मकत्वा- दुर्भामि । तीक्ष्णत्वात्तीक्ष्णं निष्कर्षयत् विनाशयत् । तेन श्वः परश्वो वा मरिष्यथ किमिति हरिं न भजथेति भावः ॥ १९ ॥ * कथं स्वपितुरादेशमविद्वांस इति व्याचष्टे । शास्त्रस्येति । न ह्याधानकत्तैव पिता किन्तु शास्त्रमेव तस्य पितुरादेशोऽपि निवर्त्तक एव न तु प्रवर्त्तकः । अतो यद्यादेशं निवर्त्तकं न वेद तदा तदनुरूपाय आदेशानुरूपं कत्तु कथमुपक्रमेत् । यतोऽयं गुणे प्रवृत्ति- मार्गे एव विस्रम्भी अयमेवादेश इति विश्वासवान् अतः शास्त्रस्य शास्त्रानुसारिणः पितुश्च निवृत्तिधर्मे या आज्ञा सेवा वास्तवी
- ।
- १८६
- श्रीमद्भागवतम्
- [ स्कं. ६ अ. ५ श्लो. १७-२४
- तामेव पालयेदिति ध्वनिः । अतः शास्त्रतात्पय्र्यप्रतिकूलमादेष्टुर्दक्षस्य पितृत्वाभावात्तदाज्ञाया अपालने वो नास्ति प्रत्यवाय इत्यनुध्वनिः । तस्मान्मत्त एव विष्णोर्मन्त्रं गृहीत्वा कचिदेकान्त उपविश्य तं विष्णुमेव भजतेति सर्व्वानुध्वनिः ॥ २० ॥ * इति विशेषेण अवसितं निश्चितं यैस्ते एकचेतसः ऐकमत्यवन्तः परिक्रम्येति । गुरूकरचरणामृतप्रहणदण्डवत् प्रणमनादयोऽ- प्युपलक्ष्यन्ते ।। २१ ।। * * हन्त हन्त एतावन्तो जीवा नरकादुद्धृतास्तत् प्रभोर्यश उपवर्णयामीति नारदस्यानन्द- समुद्रे निमज्जनमाह । स्वराः षड्जादय एव ब्रह्म तत्र निर्भातस्य लीलागानेन साक्षात् कृतस्य हृषीकेशस्य सर्वेन्द्रियाकर्षकस्य कृष्णस्य चरणकमले ।। २२ ॥ नाशं वैष्णवत्वमेव गृहस्थानां मते नाशस्तम् । को दक्षः । अन्वतप्यत । हन्त हन्त तादृशा मे पुत्रा नारदेन भ्रंशिता इति विषसान सुप्रजस्त्वं सत्पुत्रवत्त्वं शुचां पदं शोकानां स्थानं शोकदुःखादृष्टवन्त एव लोकाः सुप्रजसो भवन्तीति विललाप ॥ २३ ॥ * * सबलाश्वान् सबलाश्वसंज्ञान् सहस्रिणः सहस्रसङ्घ- यातान् ।। २४-२५ ।।
- शुकदेवकृतः सिद्धांतप्रदीपः
- पञ्चपञ्चाद्भुतं गृहमित्यस्यार्थमाह । पश्चेति । पञ्चविंशतितत्त्वानां जीवसहितस्य चतुर्विंशतिप्राकृतपदार्थमयस्य देहस्येत्यर्थः। पुरुषः अन्तर्यामी अद्भुतदर्पणः सर्वधारकत्वेऽपि सर्वदोषास्पृष्टत्वेनाश्चर्य्यरूपः आश्रयः तमध्यात्मं सर्वप्रेरक- तयात्मनि तिष्ठन्तमपि अबुधस्य नियन्तृत्वेनाजानतः असद्धिः मयैव स्वातन्त्र्येण कृतानीति वृथास्वातन्त्र्यकृतैः ॥ १७ ॥ * क्वचिद्धंसं चित्रकथमित्यस्यार्थमाह । ऐश्वरमिति । ऐश्वरभीश्वरसम्बन्धि शास्त्रमुत्सृज्य अत एव तदर्थभूतं विविक्तपदं कार्य- कारणप्रकृतिभिन्नं पदं स्थानं मुक्तगम्यं स्वरूपं वाविज्ञाय असद्भितत्पदाप्रापकैः कर्मभिः किं भवेत् ॥ १८ ॥ * * क्षौरपव्य- सित्यस्यार्थमाह । कालचक्रमिति । श्रमि स्वयं भ्रमणशीलं तीक्ष्णं तुरवत् स्वतन्त्रं वज्रवदुर्निवारं निष्कर्षयत् विनाशयदबुधस्या - सद्भिस्तन्निवारणानहैः ।। १९ ॥ ॐ स्वपितुरादेशमविद्वांस इत्यस्यार्थमाह । शास्त्रस्येति । पितुः हितोपदेष्टुः शास्त्रस्या- देशं विधिवाक्यं निवर्त्तकं निषेधवाक्यं च यो न वेद स तदनुरूपाय स्वानुकूल्याय कथमुपक्रमेत् । हिते अहिते वा केन प्रकारेण प्रवृत्तो निवृत्तो वा भवेत् । यतः स्वभावतो बालवत् गुणविस्रम्भी इन्द्रियार्थेषु विश्वासवान् विषयार्थं कर्म कुर्वन् संसारे भ्रमेन्न तु मुक्तो भवेदिति भावः ।। २० ।। इत्येवं विशेषतो अवसितं निश्चितं यैस्ते तं श्रीनारदं परिक्रम्य नास्ति निवर्तनं श्रीनारदं परिक्रम्य नास्ति निवर्तनं संसारे पुनः पतनं यस्यात्तं भगवद्भावापत्तिप्रदं पन्थानं प्रययुः ।। २१ ॥ * * * “स्वतो रञ्जयति श्रोतुश्चित्तं स स्वर उच्यते " इत्येवंलक्षण: षड्जादिस्वर एव ब्रह्मदृष्टयोपास्यमानत्वात् तस्मिन्वल्लक्या प्रवर्त्यमाने निर्मातो गुणगानेन साक्षात्कृतो यो हृषीकेश- स्तंस्य पदाम्बुजमखण्डमविच्युतम् अनुचरत् अन्वचरत् अडभाव आर्षः ॥ २२ ॥ * * को दक्षः । शीलेन शालन्ते शोभन्ते इति तथा तेषां नारदाद्धेतुभूतात् नाशं प्रवृत्तिमार्गाद्भ्रंशं निशम्य श्रुत्वा शोचन्नन्वतप्यत । तत्र हेतुमाह । सुप्रजस्त्वमिति शुचां शोकानां पदं स्थानं किं पुनर्दुष्प्रजस्त्वमिति भावः ॥ २३ ॥ * ॐ सहस्रशः सहस्रसङ्ख्याकान् ।। २४-२५ ।।
- ।। ।। *
- गोस्वामिगिरिधरलाल विहिता बालप्रबोधिनी
- काळ
- पञ्चपञ्चाद्भुतं गृहमित्यस्यार्थमाह-पचेति । पञ्चविंशतितत्त्वानां पञ्चमहाभूतानि पञ्चतन्मात्राणि दशेन्द्रियाणि प्रकृतिमहदहङ्कारमनांसीति चत्वारि जीवश्च तेषां पुरुषोऽन्तर्यामी अद्भुतदर्पणमाश्चर्यरूपः आश्रयः प्रकाशकश्च तुमध्यात्म- कार्यकारणसङ्घाताधिष्ठातारमबुद्धस्य अजानेतः इहासद्भिः स्वातन्त्र्याभिमानेन कृतैः स्वरूपावरकैः कर्मभिः किं भवेत् ? ॥ १७ ॥ * * कचिद्धंसं चित्रकथमित्यस्यार्थमाह– ऐश्वरमिति । ऐश्वरमीश्वरप्रतिपादकं बन्धमोक्षावनुदर्शयतीति
- । तथाख्यानमेवम्भूतं शास्त्रमुत्सृज्य अनभ्यस्य अतएवाज्ञाय तदर्भमविज्ञाय अविदुषोऽसद्भिर्बहिर्मुखैः कर्मभिः किं भवेत् संसार एव भवेदित्यर्थः ।। १८ । ४ ४ क्षौरपव्यं स्वयंभ्रमीत्यस्यार्थमाह- कालचक्रमिति । भ्रमिभ्रमणात्मकमित्यनुवादमात्रम् । क्षौरपदव्याख्यानं तीक्ष्णमिति । पव्यपदव्याख्यानं तु सर्वं जगन्निष्कर्षयत् जन्ममरणादिना इतस्ततः स्वर्गनरकादी प्रक्षिपदिति । स्वयमित्यस्य व्याख्यानं स्वतन्त्रमिति । एवम्भूतं कालचक्रमबुधस्य तत्तत्फलानां नित्यत्वबुद्धधा कर्माणि कुर्वतस्तैरसद्भिः कालग्रसितफलकैः कर्मभिः किं भवेत् ? ।। १९ ।। * * कथं स्वपितुरादेशमित्यादेरर्थमाह-शास्त्रस्य पितुरिति उपनयनादि- संस्कारद्वारा द्वितीयजन्महेतुत्वाद्वितोपदेष्टृत्वाच्च शास्त्रं पिता तस्य निवर्त्तक संसारदुःखनिवर्त्तकं भगवद्भजनविषयक आदेश- मुपदेशं यो न वेद स कथं तदनुरूपाय शास्त्रविधानानुगुणाय निवर्त्तकं कर्म उपक्रमेत् ? । यतोऽसौ गुणविश्रम्भी गुणप्रयुक्तप्रवृत्ति- मार्गे विश्वासवान् । अतः सर्वशास्त्रतात्पर्यविषये भगवद्भजन एव प्रवृत्तिरुचिता, न सर्गादाविति भावः ॥ २० ॥ * * इत्येवं व्यवसिता नारदवाक्यार्थकृतनिश्चया हर्यश्वास्तं नारदं परिक्रम्य प्रणम्य च ततो भगवन्मन्त्रं गृहीत्वा अनिवर्त्तकंस्कं. ६ अ. ५ श्लो. १७-२४ ]
- *
- अनैकव्याख्यासमलङ्कृतम्
- भगवत्प्रापकत्वेन संसाराप्राषेकं तद्भजनलक्षणं पन्थानं ययुरित्यन्वयः । कथं ते सर्वे एकमेव मार्ग ययुरित्याशङ्कय तत्र हेतुमाह- एकचेतस इति, ऐकमत्यादित्यर्थः । त्वमप्यपुनरावृत्तिमार्गे एव प्रवृत्तोऽसीति सूचयन् सम्बोधयति - हे राजन्निति । २१ ॥ * * तेषां भजनमार्गप्रवृत्त्या नारदस्य महान सन्तोषो जात इति सूचयंस्तद्वृत्तमाह- वरेति । स्वराः षड्जादय एव ब्रह्म तत्र निर्मात आविर्भूतो यो हृषीकेश इन्द्रियादिप्रवर्त्तको भगवानन्तर्यामी तस्य पदाम्बुजेऽखण्डमेकामं चित्तमावेश्य मुनिर्लोकाननुचरत् अन्वचरदित्यर्थः ॥ २२ ॥ एवं हर्यश्वानां निवृत्तिमार्गप्रवृत्त्यनन्तरं दक्षः किमकरोदित्याकाङ्गायामाह - नाशमिति द्वाभ्याम् । शीलेन सुखभावेन शालन्ते शोभन्ते इति । तथा तेषां पुत्राणां नारदात् नाशं गार्हस्थ्यधर्मभ्रंशं निशम्य श्रुत्वा क: देक्षः अहो ममाज्ञानुसारिणः सुशीलाः पुत्राः स्वधर्माद्रष्टा इति शोचन्नन्वतप्यतेत्यन्वयः । शोके हेतुमाह– सुप्रजस्त्वं सत्पुत्रवत्त्वमेव तद्वियोगे शुचां शोकानां पदं स्थानं, कारणमित्यर्थः । नहि दुष्टपुत्रवियोगे तादृशः शोको भवतीति लोकप्रसिद्धेः ।। २३ ।। * * यथा बीषु धानासु कुतश्चिद्धाना उत्पद्यन्ते कुतश्चिन्न तथा कुतश्चिदेव प्राणिनः सन्ततिर्भवति कुतश्विन्नेति पुत्रनाशे त्वया शोको न कार्यः पुनश्च सर्गे उद्यमः कार्य इत्यजेन ब्रह्मणा पारिसान्त्वितः स दक्षः पाञ्चजन्यायां स्वभार्यायां भूयः सहस्रसङ्ख्यान् शबलाश्वसञ्ज्ञान् पुत्रानजनयदित्यन्वयः ॥ २४ ॥
- ३२ ।। भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी
- ।।
- ।
- पञ्चपञ्चाद्भुतं गृहमित्येतद्विवृणोति । पचेति । पुरुषोऽन्तर्यामी, चतुविशतिप्राकृता भावाः पञ्चविंशो जीव इत्येवं पञ्चविंशतितत्त्वानि तेषां अद्भुतदर्पणं तन्निष्ठत्वेऽपि निर्लेपत्वेन वर्त्तमानतारुपाश्चर्यकराश्रयरूप इत्यर्थः । अत एव अध्यात्म- मात्मनि वर्त्तमानः यः, भवति अनेन पञ्चपञ्चाद्भुतं गृहमिति पदं व्याख्यातम् । तं परमपुरुषं, अबुद्धस्य अविचारयतः, असद्भिः देहात्मभ्रमस्वतन्त्रात्मभ्रमसंपादकैः कर्मभिः किं भवेत् ॥ १७ ॥ * * कचिद्धंसं चित्रकथमित्येतद्वे याचष्टे । ऐश्वरमिति । विविक्तं विवेचितं पदं चिज्जडरूपं वस्तु येन तत्, अनेन हंसपदं व्याख्यातम् । बन्धमोक्षौ अनुदर्शयतीति तथाभूतं, अनेन चित्रकथपदं व्याख्यातम् । ऐश्वरमीश्वरतद्धामतदवतारतद्भक्तादिसत्यताप्रतिपादकं शास्त्रं, उत्सृज्य अज्ञाय अनभ्यस्य वर्त्तमानस्य असद्भिरीश्वरवैमुख्यापादकैः कर्मभिः, किं भवेत् ॥ १८ ॥ * * औरपव्यं स्वयं भ्रमीत्येतद्वचाचष्टे । कालचक्रमिति । सर्वमाब्रह्मस्तम्बपर्यन्तं जगत् निष्कर्षयत् वित्रोटयत् अनेन पव्यशब्दार्थो
- व्याख्यातः । भ्रमिः भ्रमत् स्वतन्त्र’, अनेन स्वयंपदं व्याख्यातम् । तीक्ष्णं गर्भजन्मजरामरणादिप्रदखेन दुःसहं, अत्तेन क्षौरशब्दार्थो व्याख्यातः । इत्थंभूतं, कालचक्रम् अबुधस्याविज्ञानतः, अविदारयत इत्यर्थः । असद्भिः कालवश्यतापादककर्मभिः, इह किं भवेत् ।। १९ ।। स्वपितुरादेशमित्येतद्विवृणोति । शास्त्रस्येति । शास्त्रस्य शास्त्ररूपस्य पितुः ‘मातेव रक्षति पितेव हिते नियुक्त’ इति वचनात् पितृवद्धितोपदेष्टृत्वात् शास्त्रे पितृत्वारोपः । आदेशं प्रवृत्तनिवृत्तधर्मप्रदर्शनपूर्वं प्रवृत्तेनेह पुनरावर्त्तनं निवृत्तेन संसृतेर्निवर्त्तनं संप्रदृश्य निवृत्तधर्मप्रवर्त्तनरूपामाज्ञामित्यर्थः । निवर्त्तकं संसृतिनिवृत्तिमुख्यतागमकं, यः पुमान्, न वेद गुणविस्रम्भो गुणमय- प्रवृत्तिमार्गविश्वासचान् सन्, तदनुरूपाय प्रवृत्तिधर्माननुष्ठातुमित्यर्थः । कथं उपक्रमेत्सृष्ट्यादौ प्रवर्तत ॥ २० ॥
- १९ ॥ * *
- एवं वाचः कूटं विमृश्य ते किमकुर्वन्नित्यत्राह । इतीति । हे राजन्, इतीत्थं, व्यवसितं व्यवसायस्तद् ऽस्त्येषामिति व्यवसिताः, अर्श आदित्वान्मर्थीयो । एवं कृतनिश्चया इत्यर्थः । एकचेतसः एकमतयः, हर्यश्वाः तं नारदं परिक्रम्य, न विद्यते निवर्त्तनं यस्मात्तं पन्थानं, प्रययुः । चतुर्थाश्रमस्वीकृतिपूर्वं तचतुर्थ भेदं स्वीकृत्य परब्रह्मोपासनेन मुक्तिमगमन्नित्यर्थः ।। २१ ।। स्वरब्रह्मणीति । मुनिर्नारदः, स्वरब्रह्मणि ब्रह्मसानिध्यापादकवल्लकीवरे, निर्भातः साक्षात्कृती यो हृषीकेशस्तस्य यत्पदाम्बुजं तस्मिन् अखण्डमविच्छिन्नं यथा तथा, चित्तम् आवेश्य लोकान्, अनुचरत्वचरत् । अडभाव आर्षः ।। २२ ।। * * नाशमिति । ततः को दक्षः, शीलशालिनां सुशीलानां पुत्राणां नारदात्, नाशं निशम्य सृष्टचुद्योगनिवृत्तिपूर्वकं मुक्तिमार्गप्रविष्टा- नाकर्ण्य, शोचन् अन्वतप्यत दुःखितोऽभवदित्यर्थः । यतः सुप्रजस्त्वं शुचां पदं स्थानम् । एष लोकोक्तिप्रकारः ॥ २३ ॥ * सभूय इति । अजेन ब्रह्मणा परिसान्त्वितः सः दक्षः, भूयः, पाञ्चजन्यायां, सबलाश्वान् सबलाश्वसंज्ञान, सहस्रशः सहस्र- संख्याकान् पुत्रान, अजनयत् ॥ २४ ॥
, भाषानुवादः ये पचीस तत्व ही एक अद्भुत घर हैं। पुरुष उनका आश्चर्यमय आश्रय है । वही समस्त कार्य-कारणात्मक जगत्का अधिष्ठाता है । यह बात न जानकर सच्चा स्वातन्त्र्य प्राप्त कियेबिना झूठी स्वतन्त्रतासे किये जानेवाले कर्म व्यर्थ ही हैं ॥ १७ ॥ * * भगवान्का स्वरूप बतलानेवाला शास्त्र हंसके समान नीर-क्षीर विवेकी है वह बन्ध-मोक्ष, चेतन और जडको अलग-अलग करके दिखा देता है । ऐसे अध्यात्मशास्त्ररूप हंसका आश्रय छोड़कर उसे जाने बिना बहिर्मुख १९० श्रीमद्भागवतम् [ स्कं. ६ अ. ५ . २५-३२ बनानेवाले कर्मोंसे लाभ ही क्या है ? ॥ १८ ॥ * * यह काल ही एक चक्र है । यह निरन्तर घूमता रहता है । इसकी धार छूरे और बज्र के समान तीखी है और यह सारे जगत्को अपनी ओर खींच रहा है । इसको रोकनेवाला कोई नहीं, यह परम स्वतन्त्र है । यह बात न जानकर कर्मोंके फलको नित्य समझकर जो लोग सकामभावसे उनका अनुष्ठान करते हैं, उन्हें उन अनित्य कर्मोंसे क्या लाभ होगा ? ॥ १६ ॥ * * शास्त्र ही पिता है, क्योंकि दूसरा जन्म शास्त्रके द्वारा ही होता है और उसका आदेश कर्मों में लगना नहीं, उनसे निवृत्त होना है। इसे जो नहीं जानता, वह गुणमय शब्द आदि विषयोंपर विश्वास कर लेता है। अब वह कर्मोंसे निवृत्त होनेकी आज्ञाका पालन भला, कैसे कर सकता है ?’ ।। २० ।। ऋ परीक्षित्! हर्यश्वोंने एक मतसे यही निश्चय किया और नारदजीकी परिक्रमा करके वे उस
- मोक्षपथ के पथिक बन गये, जिसपर चलकर फिर लौटना नहीं पड़ता ।। २१ ।। इसके बाद देवर्षि नारद स्वरब्रह्ममें—- संगीतलहरीमें अभिव्यक्त हुए, भगवान् श्रीकृष्णचन्द्रके चरणकमलोंमें अपने चित्तको अखण्डरूपसे स्थित करके लोक-लोकान्तरोंमें विचरने लगे ।। २२ ।। * * परीक्षित्! जब दक्षप्रजापतिको मालुम हुआ कि मेरे शीलवान् पुत्र नारदके उपदेश से कर्तव्यच्युत हो गये हैं, तब वे शोकसे व्याकुल हो गये । उन्हें बड़ा पश्चात्ताप हुआ। सचमुच अच्छी सन्तानका होना भी शोकका ही कारण है ॥ २३ ॥ * * ब्रह्माजीने दक्षप्रजापतिको बड़ी सान्त्वना दी। तब उन्होंने पञ्चजन- नन्दिनी असिक्नीके गर्भ से एक हजार पुत्र और उत्पन्न किये । उनका नाम था शबलाश्व ।। २४ ।।
तेऽपि पित्रा समादिष्टा: प्रजासर्गे धृतव्रताः । नारायणसरो जग्मुर्यत्र सिद्धाः स्त्रपूर्वजाः ।। तदुपस्पर्शनादेव विनिधू तमलाशयाः । जयन्तो ब्रह्म परमं तेपुस्तेऽत्र महत् तपः ।। अब्भक्षाः कतिचिन्मासान् कतिचिद् वायुभोजनाः । आराधयन् मन्त्रमिममभ्यस्यन्त इडस्पतिम् ॥ ॐ नमो नारायणाय पुरुषाय महात्मने । महात्मने । विशुद्धसत्वधिष्ण्याय महाहंसाय धीमहि ।। इति तानपि राजेन्द्र प्रतिसर्गधियो मुनिः । उपेत्य नारदः प्राह वाचः कूटानि पूर्ववत् ॥ दाक्षायणाः संशृणुत गदतो निगमं मम । अन्विच्छतानुपदवीं भ्रातृणां भ्रातृवत्सलाः ॥ भ्रातॄणां प्रायणं भ्राता योऽनुतिष्ठति धर्मवित् । स पुण्यबन्धुः पुरुषो मरुद्भिः सह मोदते एतावदुक्त्वा प्रययौ नारदोऽमोघदर्शनः । तेऽपि चान्वगमन् मार्ग भ्रातणामेव मारिष । कृष्णप्रिया व्याख्या ॥ २५ ।। २६ ।। २७ ॥ २८ ॥ २९ ॥ ३० ॥ ३१ ॥ ३२ ॥ अन्वयः - ते अपि धृतव्रताः पित्रा प्रजासर्गे समादिष्टाः यत्र स्वपूर्वजाः सिद्धाः नारायणसरः जग्मुः ।। २५ ।। तदुपस्पर्शनात् एव विनिर्धूतमलाशयाः ते अत्र परमं ब्रह्म जपतः महत् तपः तेपुः ।। २६ ।। कतिचित् मासान् अब्भक्षाः कतिचित् वायुभोजना: इमम् मंत्रम् अभ्यस्यतः इडस्पतिम् आराधयन् ।। २७ ।। ॐ पुरुषाय विशुद्धसत्त्वधिष्ण्याय महाहंसाय महात्मने नारायणाय नमः धीमहि ॥ २८ ॥ * राजेन्द्र नारदः मुनिः प्रतिसर्गधियः तान् अपि उपेत्य इति पूर्ववत् वाचः कूटानि प्राह ॥ २९ ॥ भ्रातृवत्सलाः दाक्षायणाः गदतः मम निगमं शृणुत भ्रातॄणां पदवीम् अन्वि- च्छत ॥ ३० ॥ यः धर्मवित् भ्राता भ्रातॄणां प्रायणम् अनुतिष्ठति सः पुण्यबंधुः पुरुषः मरुद्भिः सह मोदते ॥३१ ॥ * * अमोवदर्शनः नारदः एतावत् उक्त्वा प्रययौ मारिष च ते अपि भ्रातृणाम् मार्गम् अन्वगमन् ।। ३२ ।। *
श्रीधरस्वामिविरचिता भावार्थदीपिका परमं ब्रह्म प्रणवं वक्ष्यमाणमंत्रं वा ॥ २६ ॥ * * इडस्पतिं वाचां मंत्राणां पतिं विष्णुमाराधया- मासुः ॥ २७ ॥ विशुद्धसत्त्वाश्रयाय परमहंसाय नमो धीमहि ॥ २८ ॥ प्रतिसर्गे धीर्येषां तान् । वाचः कूटान्यदृष्टांतं भुव इत्यादीनि पूर्वोक्तानि प्राह ॥ २९ ॥ हे दाक्षायणाः संशृणुतेत्यादि पुनरन्यदपि प्राह । निगम-
-
- मुपदेशम् अन्विच्छ तावलोकयत ।। ३० ।। प्रायणं प्रकृष्टं गमनम् । पुण्यमेव बंधुर्यस्य मरुद्भिर्भ्रातृवत्सलैर्देवैः ।। ३१ ।। ** अमोघं दर्शनं यस्य । हे मारिष आर्य ॥ ३२ ॥ । १. प्रा० पा० - प्रजास० 1 धके एक. ६ अ. ५ श्लो. २५-३२ ] अनेकव्याख्यासमलङ्कृतम् वंशीधरकृतो भावार्थदीपिकाप्रकाशः १९१ तेऽपि । शबलाश्वा अपि । स्वपूर्वजाः स्वज्येष्ठ भ्रातरः ॥ २५ ॥ * * ‘ओमित्येकाक्षरं ब्रह्म’ इति प्रणवे । केवलब्रह्मत्वस्यैव भगवता प्रोक्तत्वादाह । वक्ष्यमाणम् ‘ओं नमो भगवते’ इत्यादिकं मंत्रं चेति ॥ २६ ॥ * $ इडानां वाचामर्थान्मंत्राणां पतिं स्वामिनम् । इलाभिर्मंत्ररूपाभिर्वाग्भिः पाति जपतो भक्तानिति वेडस्पतिस्तम् । इडाया इडसादेश: पृषोदरादित्वात् । डलयोरैक्यादिडैलाशब्दौ पर्यायौ ‘इडा भूधेनुवाक्षु च’ इति कोशात् ॥ २७ ॥ * ॐ पुरुषाय संसार- रोगनाशकाय । ‘पुरु रोगे च प्रचुरे’ इति कोषात् । पुरुं स्यति नासयतीति तथा । महात्मने ईश्वराय || २८ ॥ * * प्रतिसर्गे प्रजासृष्टौ ‘दक्षाद्यै रचितः सर्गः प्रतिसर्ग उदीरितः’ इति कालिकापुराणात् ॥ २९ ॥ हे दाक्षायण इति यथा पूर्वे दक्षपुत्रा आसंस्तथैव भवद्भिर्भवितव्यमित्याशयः । भ्रातृवत्सला इति । तथाकरण एव भ्रातृवत्सलत्वं स्यादिति भावः ॥ ३० ॥ * मरुद्भिरित्ययं दृष्टांत एवोक्तः यूयं तु वैकुंठगामिभिरप्रजैः सह मोदिष्यध्वे इति भावः ॥ ३१ ॥ * * मारिषेति । तेषां तद्गतिं श्रुत्वाहो धन्यास्तेऽहं तु द्विजकोपेरित सर्पदंशमृतेर्नरकादिकमेव यास्यामीति शोचंतं श्रीशुक आह- मारिषेति । मां लक्ष्मीमियर्ति प्राप्नोतीति मारिर्विष्णुस्तं सनति भजते इति मारिषस्तत्संबुद्धौ तथा त्वमप्यायसीति भावः । ‘मारिषः शाकभिद्यार्ये’ इति मेदिनि ॥ ३२ ॥ | 1 अन्वितार्थप्रकाशिका
तेऽपीति । तेऽपि शबलाश्वाः पित्रा दक्षेण प्रजासर्गे समादिष्टा नियुक्ताः धृतव्रताः सन्तस्तपः कर्तुं यत्र स्वपूर्वजा भ्रातरो नारदोपदेशेन सिद्धाः भक्तिं प्राप्य कृताथां: जातास्तन्नारायणसरो नाम तीर्थ जग्मुः ॥ २५ ॥ * तदिति । तस्य तीर्थस्योपस्पर्शनादेव विशेषेण निर्धूतो निरस्तो मलो यस्य स आशयोऽन्तः करणं येषां ते परमं ब्रह्म प्रणवं वक्ष्यमाणं मन्त्रं वा जपन्तोऽत्र स्थाने महत्तपस्तेपुः ॥ २६ ॥ * * अन्भक्षा इति । पूर्वार्द्ध स्पष्टम् । इमं वक्ष्यमाणं मन्त्रमभ्यसन्तः इस्पतिं वाचां मन्त्राणां च पतिं भगवन्तमाराधयामासुः ।। २७ ।। * ओमिति । विशुद्धं सत्त्वं चित्तमेव धिष्ण्यं प्रतीतिस्थानं यस्य तस्मै महाहंसाय ईश्वराय नमः धीमहि करवाम । शेषं स्पष्टम् ॥ २८ ॥ इतीति । हे राजन् ! इत्येवं प्रतिसर्गेऽर्वाचीनसर्गोत्पादने धीर्येषां तान्मुदिर्नारद उपेत्य आगत्य पूर्ववत् अवान्तं भुव इत्यादीनि वाचः कूटानि परोक्षार्थवचनानि प्राह स्म ।। २९ ।। * * अन्यदप्याह- दाक्षायणा इति । हे दाक्षायणाः ! हे भ्रातृवत्सलाः ! गदतो मम निगममुपदेशं सम्यक् सावधानतया शृणुत भ्रातॄणां पदवीमेवान्विच्छ अवलोकयत ॥ ३० ॥ भ्रातृणामिति । यो भ्राता धर्मवित् भ्रात्रानुगमनं धर्म इति ज्ञानवान् भ्रातॄणां प्रायणं श्रेष्ठमार्गमनुतिष्ठति स पुरुषः पुण्यमेव बन्धुर्यस्य स: पुण्यवान् मरुद्भिर्भ्रातृवत्सलैर्देवैः सह स्वर्गे मोदते ।। ३१ ।। * एतावदिति । हे मारिष श्रेष्ठ ! अमोघं सफलं दर्शनं यस्य स नारद एतावदुक्त्वा प्रययौ । ते शबलाश्वाश्वापि भ्रातृणामेव मार्गमन्वगमन् सर्गोद्योगं त्यक्त्वाऽऽत्मचिन्तनं कृतवन्तः ॥ ३२ ॥ 1 वीरराघवव्याख्या । dsपि सबलाश्वाः पित्रा दक्षेण प्रजासर्गे निमित्ते सम्यगादिष्टाः धृतं व्रतं पित्रादेशकरणरूपं यैस्ते नारायणसरआख्यं तीर्थं ययुः । यत्र नारायणसरसि स्वपूर्वजाः हर्यश्वाः सिद्धा बभूवुः ॥ २५ ॥ ॐ ॐ तस्य नारायणसरस्तीर्थं स्योपस्पर्श- नादेव विनिर्धूतं निरस्तं मनसो मलं वासनारूपं येषां तादृशाः परममुत्कृष्टं ब्रह्म प्रवणं जपन्तः महत्तपस्तेपुश्चक्रुः । ब्रह्मशब्दो वक्ष्यमाणमन्त्रस्याप्युपलक्षकः । तस्य प्रणवघटितत्वादिति भावः ।। २६ ।। * महत्तप एव प्रपञ्चयति । अन्भक्षा । इति । अबेव भक्षयन्तीति तादृशाः कतिचिन्मासान् कतिचिश्च मासान् वायुं भुञ्जन्तीति वायुभोजनाः कर्त्तरि ल्युः । इमं बक्ष्यमाणं मन्त्रमभ्यस्यन्तः इडस्पतिमीड्यते स्तूयतेऽनेनेतीडो मन्त्रः । आर्षत्वाद्धखः पारस्करादित्वात्सुट् । तस्य पतिमधि- दैवतं भगवन्तमाराधयामासुः आङ्पूर्वाद्राधयतेर्लङ आङाटोः सवर्णदीर्घः ॥ २७ ॥ * * मन्त्रमाह । ओमिति । नारस्य जीवसमूहस्यायनाय प्राप्याय प्रापकाधाराय च पुरुषाय हृदयकमलस्थाय परमात्मनेऽन्तः प्रविश्य नियन्त्रे विशुद्धमुपा- सनेन निर्मलं सत्त्वमन्तःकरणं धिष्ण्यमभिव्यक्तिस्थानं यस्य । यद्वा । शुद्धं रजस्तमोभ्यामननुविद्धं सत्त्वं धिष्ण्यं स्थानं यस्य तस्मै । परमव्योमनिलयायेति भावः । महांश्चासौ हंसस्तस्मै महाकल्याणगुणैर्महान् हंसो निरस्तनिखिलदोषः । एवंभूताय नमः उक्तविधं धीमहि ध्यायेम ॥ २८ ॥ इतीत्थं मन्त्रं जपत: प्रजासर्गे थीर्येषां तान सबलाश्वानपि हे राजेन्द्र ! मुनिर्नारद उपेत्य पूर्ववद्वाचः कूटान्यदृष्टान्तं भुवो यूयमित्यादीनि प्राहोक्तवान् ॥ २६ ॥ * ॥ 1 *
- पूर्वोक्तात् किञ्चिद्विशेषमाह । १९२ श्रीमद्भागवतम् [ स्कं. ६ अ. ५ श्लो. २५-३२ हे दाक्षायणाः ! गदतो ब्रुवतो मम निगममुपदेशं संशृणुत भ्रातॄणामप्रजानामनुपदवीं मार्गानुसरणमन्विच्छत । अनुगता पदवी अनुपदवी " कुगतिप्रादय" इति समासः । यतो यूयं भ्रातृषु वत्सलाः ॥ ३० ॥ * भ्रातॄणां प्रायणं प्रकृष्टमनु- वर्त्तनं भ्राता धर्मविदनुतिष्ठति करोति स पुण्यमेव बन्धुर्यस्य तादृशो मरुद्भिर्देवैः सह मोदते ॥ ३१ ॥ * अमोघं दर्शनं यस्य स परमार्थदर्शी नारदः । एतावदियदुक्त्वा प्रययौ । तेऽपि मारिषा दाक्षाः मारिषेति पाठे राज्ञः सम्बोधनं मारिष इति । तस्य नामान्तरं भ्रातॄणामप्रजानामेव मार्ग परब्रह्मोपासनरूपमन्वगमन्ननुस्मृतवन्तः ॥ ३२ ॥ विजयध्वजतीर्थकृता पदरत्नावली ४ अभ्यसन्तः अभ्यस्यन्तः । इडस्पतिम् इलापतिम् ।। २७ ।। * * विशुद्धसत्त्वधिष्ण्याय विशुद्धसत्त्वगुणाश्रयाय निर्दोषबलज्ञानस्वरूपाय वा महाहंसाय सारग्राहिश्रेष्ठाय ।। २८-३० ॥ * प्रायणं प्रयाणमाश्रमप्राप्तिलक्षणं पुण्यमेव बन्धुर्यस्य स तथा मरुद्भिर्देवैः ।। ३१-३२ ।। विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी ।। ।।
healt ब्रह्म परमं वक्ष्यमाणं मन्त्रम् ॥ २६-२९ ॥ निगममुपदेशम् ॥ ३० ॥ * * प्रायणं प्रव्रज्यं मरुद्भि- भ्रातृवत्सलैर्देवैः । अयं दृष्टान्त एवोक्तः । यूयं तु वैकुण्ठगामिभिरप्रजैः सह मोदिष्यध्वे इति भावः ॥ ३१ ॥ ** मारिष हे आर्य || ३२ ॥ ब्रह्म वक्ष्यमाणं मन्त्रम् ।। २६ ॥ [ ॥ मन्त्रमाह । ओमिति || २८ ॥ ॥ कपने एकि शुकदेवकृत: सिद्धान्तप्रदीपः क क
-
- इडस्पतिं मन्त्राणां पतिं भगवन्तमाराधयामासुः ॥ २७ ॥ * * प्रजासर्गे धीर्येषां तान् । अलुक् समासः । पूर्ववत् वाचः कूटानि अदृष्टान्तं भुव इत्यादीनि प्राह ।। २९ ।। ४ अन्यदपि प्राह । हे दाक्षायणाः । गदतो मम निगसमुपदेशं शृणुत भ्रातॄणामनुपदवी- मन्विच्छत अवलोकयत ॥ ३० ॥ * * प्रायणं प्रकृष्टमयनमनुवर्तनम् ॥ ३१ ॥ * मारिष । हे आर्य ! ॥ ३२ ॥ ।
- । गोस्वामिगिरिधरलालविहिता बालप्रबोधिनी तेऽपि शबलाश्वाः पित्रा दक्षेण प्रजासर्गे समादिष्टा नियुक्ताः वृतत्रताः कर्तुं यत्र स्वपूर्वजा भ्रातरो नारदोपदेशेन सिद्धाः भक्ति प्राप्य कृतार्था जातास्तन्नारायणसरो नाम तीर्थं जग्मुरित्यन्वयः ॥ २५ ॥ * ॐ तस्य तीर्थस्योपस्पर्शनादेव विशेषेण निर्धूतो निरस्तो मलो यस्य स आशयोऽन्तःकरणं येषां ते परमं ब्रह्म वक्ष्यमाणं मन्त्रं जपन्तोऽत्र स्थाने महत्तपस्ते- पुरित्यन्वयः ।। २६ ।। * * तपःप्रकारमेव स्पष्टयति–अब्भक्षा इति । इमं वक्ष्यमाणं मन्त्रमभ्यसन्तः इडस्पतिं वाचां मन्त्राणां पतिं भगवन्तमाराधयामासुः ॥ २७ ॥ * * मन्त्रं दर्शयति-ओमिति । नाराणां समूहो नारस्तस्यायनं गमनं प्रवृत्तिर्यस्मात् स नारायणोऽन्तर्यामी तस्मै नमो धीमहीत्यन्वयः । अन्तर्यामित्वे हेतुमाह - पुरुषायेति, पुरीष्यन्तः करणेषु शेते इति पुरुषः तस्मै । तथात्वेऽपि परीच्छिन्नत्वशङ्कानिरासायाह महात्मने इति, व्यापिने इत्यर्थः । तथा चेत्कुतो न प्रणीयते इत्याकाङ्क्षा- निरासायाह – विशुद्धेति, विशुद्धं सत्त्वं चित्तमेव धिष्ण्यं प्रतीतिस्थानं यस्य तस्मै चित्तमालिन्यान्न प्रतीयते इतिभावः । तथापि तत्तदन्तःकरणगतधर्माधर्मरागलोभादिदोषसम्बन्धेन तस्य दुष्टत्वं स्यादिति शङ्कानिरासायाह - मह | हंसायेति, विवेकित्वेन विशुद्धाये- त्यर्थः । जीवस्यैव अविवेकित्वेन तदध्यास दुष्टत्वं न त्वीश्वरस्येति भावः ॥ २८ ॥ इत्येवं प्रतिसर्गेऽर्वाचीन- सर्गोत्पादने धीर्येषां तान् मुनिर्नारद उपेत्य आगत्य पूर्ववत् ‘अदृष्टान्तं भुवः’ इत्यादीनि वाचःकूटानि परोक्षार्थवचनानि प्राहेत्यन्वयः । भवतस्तु प्रेरणं विनापि स्वत एव भगवद्भजने प्रवृत्तिरतस्तेभ्यः श्रेष्ठ एवेति सूचयन् सम्बोधयति - हे राजेन्द्रेति ॥ २६ ॥ * * पूर्वापेक्षया किञ्चिदधिकं चाह - तद्दर्शयति- दाक्षायणा इति द्वाभ्याम् । हे दाक्षायणा इति पितृनामग्रहणपूर्वक सम्बोधनं श्रेष्ठत्वसूचनेन अनुनयनार्थम् । गदतो मम निगममुपदेशं सम्यक् सावधानेन शृणुत । भ्रातॄणां पदवीं भगवद्भजनमार्गमेव अनुगच्छत । भ्रातृषु प्रीतियुक्तानां तत्प्रीतिमाकाङ्क्षतां च युष्माकं तन्मार्गानुगमनमेवोचितमिति सूचयन् सम्बोधयति - हे भ्रातृवत्सला इति ॥ ३० ॥ न केवलं भातृप्रसन्नतैव तदनुगमनफलं किन्तु यो भ्राता धर्मवित् भ्रान्ननुगमनं धर्म इति ज्ञानवान् भ्रातॄणां प्रायणं श्रेष्ठमार्गमनुतिष्ठति अनुगच्छति स पुरुषः पुण्यबन्धुः पुण्यवान् ४ स्कं. ६ अ. ५ लो. २५-३२ ] अनैकव्याख्यासमलङ्कृतम् १९३ मरुद्भिर्भ्रातृवत्सलैदेवैः सह स्वर्गे मोदते । अयं प्रकारस्तु सामान्यतः कर्मिण एव भवतां तु भगवद्भजनानुगन्तॄणां भगवल्लोका- नन्दानुभव एव फलमिति प्रकरणाज्ज्ञेयम् ॥ ३१ ॥ * अमोघं यथार्थमेते भजनाधिकारिणोऽत एवमुपदेशे तदङ्गी- करिष्यतीत्येवं दर्शनं ज्ञानं यस्य यद्वा अमोघस्य परमार्थभूतस्य भगवतो दर्शनं यस्य स नारद एतावदुक्त्वा प्रययौ । ते शबला- श्वाश्वापि भ्रातॄणां मार्गमन्वगमन् सर्वोद्योगं हित्वा भगवदाराधनमेव कृतवन्त इत्यर्थः । हे मारिष आर्य इति सम्बोधनमा - श्वासनार्थम् ।। ३२ ।। भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी J4%.
। तेऽपीति । ते सबलाश्वाः अपि, पित्रा दक्षेण, प्रजासर्गे निमित्ते, समादिष्टाः सम्यगाज्ञापिताः । वृतं व्रतं पित्रादेश- करणरूपं यैस्ते तथाभूताः सन्तः यत्र नारायणसरसि, स्वपूर्वजाः हर्यश्वाः सिद्धाः बभूवुः, तन्नारायणसरः प्रति जग्मुः ॥ २५ ॥ तदिति । तदुपस्पर्शनात्तस्मिन्नारायणसरसि स्नानाचमनविधानादित्यर्थः । एवं विनिर्धूतं मनोमलं वासनारूपं येषां ते, परममुत्कृष्टं ब्रह्म प्रणवं वक्ष्यमाणं मन्त्र’ वा ‘जपन्तः सन्तः, ते सबलाश्वाः, तत्र महत् तपः तेपुश्चकुः ॥ २६ ॥ * * महत्तप एव प्रपनयति । अभक्षा इति । कतिचित् मासान् कांश्चन मासान् पर्यन्तमित्यर्थः । अब्भक्षाः जलपानमात्रेण स्ववर्त्तनं कुर्वाणाः, कतिचित् मासान् वायुभोजनाः वायुपानमात्रेण स्ववर्त्तनमाचरन्तः सन्तः, इमं वक्ष्यमाणं, मन्त्रम् अभ्यसन्तो जपन्तः सन्तश्च, ईड्यते स्तूयतेऽनेनेति ईडो मन्त्रः । आर्षत्वात् ह्रस्वत्वं पारस्करादित्वात् सुट् च । तस्य पतिस्तं, मन्त्राधिदेवतारूपं भगवन्तमित्यर्थः । आराधयन् । आङ्पूर्वाद्राधयतेर्लङ् ॥ २७ ॥ * * मन्त्रमाह । ओमिति । नराणां समूहो नारं तस्यायनं प्राप्यस्तस्मै, पुरुषाय पुरुषाणां हृत्पद्मस्थायेत्यर्थः । महात्मने, परात्मने इति पाठे परमात्मने इत्यर्थः । विशुद्धं निर्मलं सत्त्वमन्तःकरणं धिष्ण्यमभिव्यक्तिस्थानं यस्य तस्मै, महाहंसाय निरस्तनिखिलदोषाय, ॐ नमः । धीमहि ध्यायेमहि ॥ २८ ॥ इतीति । इतीत्थं मन्त्रं जपन्तः, प्रजासर्गे धीर्येषां तान् तान् सबलाश्वानपि, हे राजेन्द्र नारदः मुनिः, पूर्ववत् हर्यश्वानिवेत्यर्थः । उपेत्य, वाचः कूटानि प्राह ॥। २९ ।। पूर्वोक्तात्किचिद्विशेषमाह दाक्षा- यणा इति । हे दाक्षायणाः, गदतः ब्रुवतः मम निगममुपदेशं, संशृणुत । यतः यूयं भ्रातृवत्सलाः भवथ । अतः भ्रातृणाम- प्रजानां, अनुगता पदव्यनुपदवी तां, ‘कुगतिप्रादयः’ इति समासः । भ्रातृमार्गानुसरणमित्यर्थः । अन्विच्छत ॥ ३० ॥ * * भ्रातॄणामिति । धर्मवित् यः भ्राता भ्रातॄणां प्रायणं प्रकृष्टमनुवर्त्तनं, अनुतिष्ठति करोति । पुण्यमेव बन्धुर्यस्य तादृशः स मरुद्भिर्देवैः सह मोदते ॥ ३१ ॥ एतावदिति । अमोघं सफलं दर्शनं यस्य सः, नारदः, एतावत् उक्त्वा प्रययौ । हे मारिष आर्य, पाठान्तरे मारिषाः सूनवः, ते दाक्षायणाः अपि भ्रातॄणां मार्ग, एव परब्रह्मोपासनारूपमध्वान- मेवेत्यर्थः । अन्वगमन्ननुकृतवन्तश्च ।। ३२ । पुरुष:, , भाषानुवाद: …… वे भी अपने पिता दक्षप्रजापतिकी आज्ञा पाकर प्रजासृष्टिके उद्देश्यसे तप करनेके लिये उसी नारायण सरोवरपर गये, जहाँ जाकर उनके बड़े भाइयोंने सिद्धि प्राप्त की थी ।। २५ । * * शबलाश्वोंने वहाँ जाकर उस सरोवर में स्नान किया । स्नानमात्रसे ही उनके अन्तःकरणके सारे मल धुल गये । अब वे परब्रह्मस्वरूप प्रणवका जप करते हुए महान् तपस्यामें लगगये ।। २६ ।। * कुछ महीनों तक केवल जल और कुछ महीनोंतक केवल हवा पीकर ही उन्होंने ‘हम नमस्कारपूर्वक ओङ्कारस्वरूप भगवान् नारायणका ध्यान करते हैं, जो विशुद्ध चित्तमें निवास करते हैं, सबके अन्तर्यामी हैं तथा सर्वव्यापक एवं परम हंसस्वरूप हैं।’ इस मन्त्रका’ अभ्यास करते हुए मन्त्राधिपति भगवान की आराधना की ।। २७-२८ ।। * * परीक्षित्! इस प्रकार दक्षके पुत्र शबलाश्व प्रजासृष्टिके लिये तपस्यामें संलग्न थे । उनके पास भी देवर्षि नारद आये और उन्होंने पहलेके समान ही कूट वचन कहे ।। २९ ।। * * उन्होंने कहा - ‘दक्षप्रजापतिके पुत्रो ! मैं तुमलोगों को जो उपदेश देता हूँ, उसे सुनो। तुमलोग तो अपने भाइयोंसे बड़ा प्रेम करते हो। इसलिये, उनके मार्गका अनुसन्धान करो ॥ ३० ॥ * जो धर्मज्ञ भाई अपने बड़े भाइयोंके श्रेष्ठ मार्गका अनुसरण करता है, वही सचा भाई है । वह पुण्यवान पुरुष परलोकमें मरुद्गणोंके साथ आनन्द भोगता है ॥ ३१ ॥ * * परीक्षित् ! शबलाश्वोंको इस प्रकार उपदेश देकर देवर्षि नारद वहाँसे चले गये और उन लोंगोने भी अपने भाइयों के मार्गका ही अनुगमन किया; क्योंकि नारदजीका दर्शन कभी व्यर्थ नहीं जाता ।। ३२ ।। २५ १९४ श्रीमद्भागवतम् [ स्कं. ६ अ. ५ श्लो. ३३-४० सध्रीचीनं प्रतीचीनं परस्यानुपथं गताः । नाद्यापि ते निवर्तन्ते पश्चिमा यामिनीवि ॥ ३३ ॥ एतस्मिन् काल उत्पातान् बहून् पश्यन् प्रजापतिः । पूर्ववन्नारदकृतं पुत्रनाशमुपाशृणोत् ॥ ३४ ॥ चुक्रोध नारदायासौ पुत्रशोकविमूच्छितः । देवषिमुपलभ्याह रोषाद्विस्फुरिताधरः ॥ ३५ ॥ दक्ष उवाच ३७ ॥ ३८ ॥ अहो असाधो साधूनां साधुलिङ्गेन नस्त्वया । असाध्धकार्यर्मकाणां भिक्षोर्मार्गः प्रदर्शितः ॥ ३६॥ ऋणैस्त्रिभिरमुक्तानाममीमांसितकर्मणाम् । विद्यातः श्रेयसः पाप लोकयोरुभयोः कृतः ॥ एवं त्वं निरनुक्रोशो बालानां मतिभिद्धरेः । पार्षदमध्ये चरसि यशोहा निरपत्रपः ॥ ननु भागवता नित्यं भूतानुग्रहकातराः । ऋते त्यां सौहृदघ्नं वै वैरङ्करमवैरिणाम् ॥ नेत्थं पुंसां विरागः स्यात् त्वया केवलिना मृषा । मन्यसे यद्युपशमं स्नेहपाशनिकृन्तनम् ॥ ४० ॥ ३९ ॥ कृष्णप्रिया व्याख्या र्तन्ते ।। ३३ ।। *
-
- शृणोत् ॥ ३४ ॥ ।।
अन्वयः - परस्य सध्रीचीनम् प्रतीचीनम् अनुपथम् गताः ते पश्चिमाः यामिनीः इव अद्य अपि न निव- एतस्मिन् काले बहून् उत्पातान् पश्यन् प्रजापतिः पूर्ववत् नारदकृतम् पुत्रनाशम् उपा- 8 पुत्रशोकविमूर्च्छितः असौ नारदाय चुक्रोध रोषात् विस्फुरिताधरः देवर्षिम् उपलभ्य अहो असाधो साधुलिंगेन त्वया नः साधूनाम् असाधु अकारि अर्भकाणां भिक्षोः मार्गः * पाप त्रिभिः ऋणैः अमुक्तानाम् अमीमांसितकर्मणाम् उभयोः लोकयोः श्रेयसः विद्यातः एवं बालानाम् मतिभित् निरनुक्रोशः अरेः यशोहा निरपत्रपः त्वं पार्षदमध्ये चरसि ॥ ३८ ॥ * * ननु सौहृदध्नं वै अवैरिणां वैरंकरम् त्वाम् ऋते भागवताः नित्यं भूतानुग्रहकातराः ॥ ३६ ॥ * * यदि स्नेहपाश- निकृंतनं उपशमं मन्यसे मृषा केवलिना त्वया इत्थं पुंसां विरागः न स्यात् ॥ ४० ॥ आहू ॥ ३५ ॥ प्रदर्शितः ।। ३६ ।। ३६॥ कृतः ।। ३७ ।। * * * ! श्रीधरस्वामिविरचिता भावार्थदीपिका सध्रीचीनं समीचीनम् । प्रतीचीनं प्रत्यग्वृत्तिलभ्यम् । परस्य ब्रह्मणः । अनुपथमनुगुणं पंथानम् । पश्चिमा यामि- नीर्गता रात्रय इव ।। ३३-३४ ॥ पुत्राणां पारमहंस्यनिष्ठामुपश्रुत्य दक्षोऽपि प्रायशो विरक्तः स्यादिति तदनुग्रहार्थं देवर्षिस्तत्पार्श्व गतस्तदा तमुपलभ्य दक्ष आह || ३५ ॥ साधोरिव लिंगं वेषो यस्य तेन त्वया नोऽस्मदीयानामर्भ- काणामसाध्वकारि कृतम् । तदेवाह । साधूनां स्वधर्मे प्रवृत्तानां भिक्षोर्यो मार्गः स प्रदर्शितः ॥ २६ ॥ * * ननु संन्यासिनो मार्ग साधुरेव मोक्षहेतुत्वात् । सत्यम् । ऋणत्रयापाकरणं विना तु महाननर्थ एवेत्याह । ऋणैरिति । " जायमानो वै ब्राह्मणस्त्रिभिर्वा ऋणवान् जायते । ब्रह्मचर्येण ऋषिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्यः । एष वा अनृणो यः पुत्री यज्वा ब्रह्मचारी वासी” ति श्रुतेः । ऋणैरमुक्तानां न मीमांसितानि विचारितानि कर्माणि यैः तेषां तावद्दणविमोको नास्ति । तदुत्तर- कालभावित्वाच्च पुत्रोत्पादनयज्ञानुष्ठानयोरभावेन पितृदेवर्षिऋणाद्विमुक्तिश्च नास्ति । अतो हे पाप विषयभोगत्यागादिह लोके श्रेयसो विघातः कृतः । मोक्षानधिकारित्वाच्च परलोकेऽपि श्रेयसो विघातः कृत इत्यर्थः । तथा च मनुः- “ऋणानि त्रीण्य- पाकृत्य मनो मोक्षे निवेशयेत् । अनपाकृत्य मोक्षं तु सेवमानो ब्रजत्यधः ।” इति ॥ ३७ ॥ * * बालानां मतिं पुत्रादि- विषयां भिनत्तीति तथा । एवं निरनुक्रोशो निघृणो हरेर्यशोनाशकः संस्तत्पार्षदानां मध्ये कथं चरसि ॥ ३८ ॥ * निर्लज्जत्वमेवाह । नन्विति । ननु त्वामृते भागवताः सर्वे भूतानुग्रहपरवशास्त्वं तु भूतविप्रियं कुर्वन्कथं न लज्जस इति भावः ॥ ३९ ॥ * * ननु वैराग्यादुपशम उपशमाच्च भूतस्नेहपाशच्छेदनं भवति । न च विरक्तस्य ऋणत्रयापाकरण- मावश्यकम् । “यदहरेव विरजेत्तदहरेव प्रव्रजेत् । यदि वेतरथा ब्रह्मचर्यादेव प्रत्रजेत्" इत्यादिश्रुतेः । अतो वैराग्योपदेशेन तेषां मयानुग्रह एव कृत इति चेत्तत्राह । नेति । यद्यपि त्वमेवं मन्यसे तथाऽपि मृषा केवलिना ज्ञानं विनाऽवधूतवेषेण त्वयेत्थं मतिचालने कृतेऽपि पुंसां विरागो नैव स्यात् । न च विरागं विनोपशमो न च तेन विना स्नेहपाशनिकृंतनमित्यर्थः ॥ ४० ॥ । । स्क. ६ अ. ५ श्लो. ३३-४० ] परस्य परमेश्वरस्य ॥ ३३ ॥ अनैकव्याख्या समलङ्कृतम् वंशीधरकृतो भावार्थदीपिकाप्रकाशः प प्रजापतिर्दक्षः || ३४ ॥
- देवर्षिमुपलभ्येति । स्वायंभुवस्य प्राचीनवर्हिरण्युद्धृतस्तस्य पुत्रा दश मनोवेश्याः प्रियव्रतोत्तानपाद्ध्रुवादयः सर्वे मद्द्द्वारैव भगवतात्मसात्कृताः महाक्रमेज एवं गृहस्थकूपे खेलतीति तमप्यु - प्रचेतसः पौत्रा दशसहस्राणि हर्यश्वाः सहस्रं शबलाश्वाश्चोत्तीर्णाः कथमेक स्तन्मध्यवर्ती दक्ष . कथमेकस्तन्मध्यवर्त्ती दक्ष । द्दिधीर्षामीति विमृश्य सांप्रतं च पुत्राणां पारहस्यनिष्ठां श्रुत्वा स्वयमेव शोचन्दक्षः प्रायो गृहे निर्विण्ण एव वर्तते तत्तमनुग्रहीतु- मयमेव समयः साधुः । यद्यपि सांप्रतमपि स मां नान्विष्यति तदप्यहमेव तस्य गृहं यामीति विचार्य्यं तत्रागतवंतं तं नारद- मुपलभ्याह ।। ३५ ।। * साधोरिव लिंगं जटायज्ञोपवीतशमदमादिर्यस्य तेन साधुलिंगेन महादांभिकेनेत्यर्थः । साधूनामस्माकमिति गौरवेण बहुवचनं मम साधोस्तव वैरं स्वप्नेप्यकुर्वतस्त्वयाऽसाधु अभद्रमकारीत्येतावता कालेन तव महदपराधो जात इति भावः । ननु किमसाध्यकारीवि तत्राह - अर्भकाणां मम बालकानां गाहस्र्थ्यभोगमसहमानेन मत्सरेण या भिक्षोभिक्षुकलोकस्य । अर्भकाणामित्यर्भकत्वादेव ते सरलास्तव कपटिनोऽप्युपदेशं जगृहुरिति भावः । अत्र न विद्यते साधुर्यतः हे तथाभूतः साधूनि लिंगानि चिह्नानि यस्य तेन न विद्यते साधुर्यस्तथाभूतं यथा स्यात्तथा दर्शितः इति । सरखत्य- भिप्रेतोप्यर्थी ज्ञेयः । एवमग्रिमेषु लोकेष्वपि ग्रंथविस्तरभयान्न विवृतम् । दक्षाभिप्रायेणासाधो इति । अवैरिणि मयि वैरकारित्वेन त्वमसाधुरिति भावः ॥ ३६ ॥ * अत्राक्षिपति नन्विति । त्रिभिऋणैर्देवर्षिपितृसंबंधिभिः । ऋषिभ्य इति त्रयः पंचमीबहुवचनांताः । कर्मविचारो हि शास्त्राध्ययनेन भवति तेन चर्षिऋणनिवृत्तिः स्यात् । तदुत्तरकाले । शास्त्राध्ययनोत्तरकाले । भावित्वाच्च । अतः ऋणत्रययुक्तानां भ्रंशात् हे पाप विश्वासघातित्वेन मित्रदोहित्वादिति भावः । मित्रद्रोहस्य महापातकत्वे भोजराजकथानुसंधैया सा चेत्थम् - कदाचिद्भोजनृपतये तदाज्ञया भानुमत्यास्तद्भार्याया मूर्ति लिखित्वा कालिदासो दर्शयामास स च तां जघनदेशे तिलकांतितां दृष्ट्वा ‘अनेन मद्भार्या रमिता’ इति शंकितो भूत्वा तं देशान्निःसारयामास । तदनु कदाचि - न्मृगयां गतो नृपो विषमवने भयार्त्तः सैन्यपरिच्युतः कचिदारूढवानरवृक्षमारुरोह । वानरोऽपि तेन मैत्रीं कृतवान्स च विश्वस्य तत्रैव निशि शिश्ये । तदा च कश्चित्कपिविरोधी सिंहस्तत्रागत्य ‘इमं मे देहि वैरनिर्यातनार्थम्’ इत्यूचे । स च शरणापन्नत्यागे दोषं दृष्ट्वा न ददौ । तच कपिरपि सिंहाय ‘अहं त्वया न प्रक्षेप्यः’ इत्युक्त्वा शिश्ये । स एव राजानमुपेत्याह ‘देहि मे इम afi at aai भक्षयिष्याम्यवतीर्णम्’ इति श्रुत्वा राजा कपिं प्रक्षिप्तवान् स च पतन्कांचिद् वृक्षशाखामालंव्य तत्रैवागत्य राजानम् ‘कुष्ठी भव’ इति शशाप । पुना राज्ञा प्रसादितः ‘वि, से, में, रा’ इति वर्णचतुष्टयार्थश्रवणेन नीरोगो भविष्यसीत्युवाच । ततो नृपः सेनया गृहमागत्य वृत्तं मंत्रिभ्य उक्त्वा विद्वत्समाजमक्षरचतुष्टयार्थश्रवणार्थं चकार । तत्र च निष्कासितः कालिदासः स्त्रीवेषेण कस्यचिद्विदुषो गृहे धारायामुवास ततस्तद्वृत्तमाकर्ण्य स च पितृभूतं पंडितमित्थमुवाच ‘मत्पुत्री भवदद्भि- वर्णचतुष्टार्थ जानाति तामाहूय पृच्छ’ इति नृपाय कथय स च यथा कृत्वा स्त्रीवेषिणं तं नृपसदसि निनाय सच aari कालिदासः पृथगर्थे प्रत्येकव स्योक्तवान् । तथाहि– “विश्वासप्रतिपन्नेषु ये च विश्वासघातिनः । ते यांति नरकं घोरं ताड्यमाना यमानुगैः । ( १ ) । सेतुबंधे समुद्रे च गंगासागरसंगमे । स्नात्वा पापविमुक्तः स्यान्मित्रद्रोहकरं विना । ( २ ) । मेरुतुल्यान्महापापात्कृत्वा संगं सतां नरः । मुच्यते न हि संदेहो मित्रद्रोही न मुच्यते । ( ३ ) राजन्भोः शृणु मद्वाक्यं यदि कल्याणमिच्छसि । देहि दानं सुविप्रेभ्यस्ततः श्रेयो भविष्यति । ( ४ )” इत्याकर्ण्य भोजराजः स्वस्थो भूत्वा स्त्रीवेषं कालिदास- मुवाच “गृहे वससि भो देवि वनं नैव तु गच्छसि । पञ्चास्यकपिमद्वृत्तं कथं जानासि सुंदरि ।” ( ५ ) स चोवाच “देवद्विज- प्रसादेन श्रीमत्कालीप्रसादतः । सर्वं जानामि भो राजन्भानुमत्यास्तिलं यथा” ( ६ ) ततो नृपस्तं कालिदासं ज्ञात्वा प्रसाद्यानयामासेति बृहद्भोजप्रबंधे । प्रकृतमनुसराम : - इत्यर्थ इति । ऐहिकपारलौकिकौ चाथ तेषां नाशिताविति भावः । अत्र प्रमाणमाह —तथा चैति । अपाकृत्य संशोध्य । मोक्षे प्रव्रज्यायाम् । ऋणानि अनपाकृत्याऽसंशोध्य प्रव्रज्यां कुर्वाणो नरके विशतीत्यर्थः ।। ३७ ।। * * त्वां दुष्टं किं ब्रवीमि त्वया सेवकेन भगवतोऽपि दुर्यशोऽजनिष्ठेत्याह– एवमिति । निरनु- ॥ amcharitm क्रोशो निर्दयः । मतिं शास्त्रविहितकर्मनिष्ठां बुद्धिं भिनत्तीति तथा । हरेर्यशोहा त्वमभूस्तेन हरावपि तवापराधः । पार्षदमध्ये इति । वैष्णवेष्वपीत्येवं मद्विधेषु महत्सु भगवति भागवतेषु च तवापराधो जातो दुर्वार एव विश्वस्तघातित्वादीनां दुष्कृतानाञ्च वार्त्ता दूरे एवेति भावः । वेदरूपभगवदाज्ञाविघातकारित्वात्तद्यशोहा चाही कथं पार्षदमध्ये चरसीति निर्लज्जोऽयमिति भावः ॥ ३८ ॥ * * किश्व मत्संमुखमायातस्त्वं कीदृशं मुखं दर्शयितुमतो धिक् त्वां निर्लज्जमित्याह - नन्विति । आश्चर्य्ये संबोधने च नन्विति । ऋते त्वामिति । त्वं तु भूतमात्रद्रोहीति भावः । सौहृदन्नभिति । सौहृदकारिणामप्यस्माक- मिति भावः । इति भाव इति । वैरंकरमित्यस्माकं प्रकटमेव वैरं कृत्वाऽपि पुनः केन मुखेन प्रत्यक्षीभवसीति सत्यं निरपत्रप एवासि कति पुनरहं त्वां लज्जयामीत्याशयः ॥ ३९ ॥ * * अत्राक्षिपति-नन्विति । मत्प्रवर्त्तिताद्वैराग्यात् । तच्च स्नेह- पाशनिकृतनं तेषां वृत्तमेव । अद्यापि तव पितुरपि पार्श्वनागमनादेवानुमितं तत्कथं तेषां मोऽनधिकारः । विरक्तस्यर्णत्रयापा- । । । । । 9 १९६ श्रीमद्भागवतम् [स्क. ६ अ. ५ श्लो. ३३-४० करणमावश्यकं न चास्ति । इह श्रुतिं प्रमाणयति - यदहरिति । यदहो यस्मिन्दिने विरजेद्विरक्तो भवेत्तस्मिन्नेव दिने प्रव्रजेदित्यर्थः । यदि वेतरथा वैराग्यसद्भावे इत्यर्थः । अतो विरक्तस्यर्णापाकरणस्यानावश्यकत्वादेव । मयानुग्रह एव कृत इति चेन्न सत्यं महापुरुषाणां कृपया विरागः स्यादेव त्वया मृषा केवलिना ज्ञानशून्यावधूतेनानन्यवैष्णवं मन्येन वा इत्थं मतिचालने कृतेऽपि सप्ताष्टवासरान् विरागो भवन्नपि नीतितो वास्तवो विरागः स्याद्यद्यपि त्वमुपशमं मन्यसे तदपि नैव स्यात्तव महापुरुष- त्वाभावादिति भावः । इत्यर्थ इति । स्वतस्त्यक्तस्यैव स्नेहपाशनिकर्त्तकत्वादिति भावः ॥ ४० ॥ अन्वितार्थप्रकाशिका
सध्रीचीनमिति । सध्रीचीनं समीचीनं प्रतीचीनं प्रत्यगवृत्तिलभ्यं परस्य पुरुषोत्तमस्य सम्बन्धिनमनुपथमनुकूलं मार्ग गतास्ते अद्यापि संसारं प्रति न निवर्तन्ते । तत्र दृष्टान्तः । पश्चिमा यामिनीः यामिन्य इव । पूर्वसवर्णदीर्घ आर्षः । अतीता रात्रयो यथा न पुनरायान्ति तथेत्यर्थः ॥ ३३ ॥ * एतस्मिन्निति । स्पष्टम् ॥ ३४ ॥ चुक्रोधेति । तच्छ्रुत्वा पुत्रशोकेन मूर्च्छितः असौ दक्षः नारदाय चुक्रोध । स्वायंभुवमनोर्वश्याः प्रियत्रतोत्तानपादध्रुवप्राचीन बर्हिः प्रचेतोहर्यश्वाद्याः भगवत्कृपया मोक्षमार्गे मया प्रवर्त्तिताः । कथमेको दक्षोऽन्धकूपे पतन्नोद्भियते अधुना च पुत्राणां पारमहंस्यनिष्ठामुपश्रुत्य दक्षोऽपि विरक्तः सुखेनोद्धार्थः स्यादिति तदनुग्रहार्थं देवर्षिस्तत्पार्श्व गतः तदा च देवर्षिमुपलभ्यागतं दृष्ट्वा रोषात् स्फुरितोऽधरो यस्य स आह स्म ।। ३५ ।। अहो इति । अहो हे असाधो ! साधुवल्लिङ्गं चिह्न जटायज्ञोपवीतादि यस्य तेन महादाम्भिकेन त्वया नोऽस्माकं साधूनां सन्मार्गस्थानम् असाधु अभद्रमेव अकारि कृतं यतोऽर्भकाणां बालानां भिक्षोर्मार्गो निवृत्तिमार्गः प्रदर्शितः । यद्वा । नोऽस्माकमर्भकाणामसाधु अकारि यतः साधूनां स्वधर्मे प्रवृत्तानां भिक्षोर्मार्गः प्रदर्शित इत्य- न्वयः । वास्तवोऽर्थस्तु नास्ति साधुर्यतः साधूनि लिङ्गान्यपि यस्य साधुभिर्लिङ्गयते ज्ञायते नास्ति साधु यतस्तथाऽ- कारि ॥ ३६ ॥ * * ननु संन्यासिनो मार्गः साधुरेव तत्राह - ऋणैरिति । हे पाप ! “जायमानो वै ब्राह्मणस्त्रिभिर्ऋणवान् जायते । ब्रह्मचर्येण ऋषिभ्यो यज्ञ ेन देवेभ्यः प्रजया पितृभ्यः । एष वा अनृणो यः पुत्री यज्वा ब्रह्मचारी” इति श्रुतेः । सर्वे त्रैवर्णिका ऋणत्रयवन्त एव जायन्ते एतेऽपि त्रिभिणैरमुक्ता यतो न मीमांसितानि न परिचारितानि कर्माणि यैस्ते तथा अतस्तेषां विषयभोगत्यागादेतल्लोकविघातः मोक्षानधिकारित्वाच परलोक श्रेयसोऽपि विघातः कृतः । तथा चाह मनुः - “ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् । अनपाकृत्य मोक्षं तु सेवमानो व्रजत्यधः ॥” इति ॥ ३७ ॥ एवमिति । एवं प्राणिद्रोहेण स्वस्वामिनो हरेरपि यशोहा यशोनाशकोऽसि यतो बालानामज्ञानां मतिं सृष्टयादिसत्कर्मविषयां भिनत्तीति तथा अत एव परमपुरुषार्थ नाशकत्वान्निरनुक्रोशो निर्दयः अत एव निरपत्रपः निर्लज्जस्त्वं हरेः पार्षदमध्ये कथं चरसि ॥ ३८ ॥ * * निर्लज्जत्वमाह – नन्विति । ननु सौहृदघ्नम् अवैरिणामपि वैरकरं त्वामृते विना भागवता नित्यं भूतानामनुग्रहे कातरा भवन्ति । त्वन्तु भूतानामहितं कुर्वन् कथं न लज्जसे इति भावः ॥ ३९ ॥ * * ननु विरक्ता- नामृणापाकरणं नावश्यकं " यदहरेव विरजेत्तदहरेव प्रव्रजेत्” इति श्रुतेः । अतः ऋणैरित्याद्ययुक्तमित्याशङ्कयाह — नेति । यद्यपि वैराग्यादुपशमः तस्मात्स्नेहपाशच्छेद इति रीत्या उपशमं स्नेहपाशनिकृन्तनं त्वं मन्यसे तथापि मृषा केवलिना ज्ञानं विनाऽवधूतवेषेण त्वया इत्थं मतिचालने कृते ऽपि पुंसां विरागो नैव स्यात् ॥ ४० ॥ 1 वीरराघवव्याख्या ततस्ते सत्रीचीनं सहावति गच्छतीति स आतिवाहिकैः सह गन्ता जीवः तेन गम्यं सध्रीचीनं प्रतीचीनं स्वस्मै भासमानेन ब्रह्मात्म कस्वात्मयाथात्म्यसाक्षात्कारवता गम्यं प्रतीचीनं परस्य परमपुरुषस्यानुबन्धमनुकूलम चिरादिमार्ग गता अद्यापि न निवर्त्तन्ते न पुनरावर्तन्ते “एतं देवयानं पन्थानमापद्य न पुनरावर्त्तन्त” इति श्रुत्यर्थोऽत्र विवक्षितः । न पुनरावृत्तौ दृष्टान्तः । यामिनीरिव पश्चिमा इति । पश्चिमा अतीता यामिनीर्यामिन्यो रात्रयो यथा न पुनरावर्त्तन्ते तथेत्यर्थः ॥ ३३ ॥ ४४ एतस्मिन् काले । नारदोपदेशेन सबलाश्वानां मुक्तिप्राप्तिकाले प्रजापतिर्दक्षः बहूनुत्पातान्पुत्र नाशप्रयुक्तानपश्यत्ततः पूर्ववन्नारदो- पदेशकृतं पुत्राणां नाशमुपाशृणोत् ॥ ३४ ॥ * पुत्राणां निवृत्तिधर्मनिष्ठया मुक्तिमुपश्रुत्य दक्षोऽपि प्रायशो विरक्तः स्यादिति तदनुग्रहार्थं देवर्षिस्तत्पार्श्व गतः । तदासौ दक्षो देवर्षिमुपलभ्य पुत्रनाशान्निमित्ताद्विमूर्च्छितः उत्थाय नारदाय चुक्रोध क्रुद्धवान् ।। ३५ ।। * * क्रोधमेवाह । अहो इति । साधोरिव लिङ्गं वेषो यस्य तेन त्वया नोऽस्मदीयानामर्भकाणाम- साध्वकारि कृतं तदेवाह । स्वधर्मे प्रवृत्तानां यः संन्यासिनां मार्गः स प्रदर्शितः ॥ ३६ ॥ ननु संन्यासिनां मार्गः साधुरेव मोक्षहेतुत्वात्सत्यम् । ऋणत्रयानपनोदनं पितुर्महदनर्थ एवेत्याह । ऋणैरमुक्तानां न मीमांसितान्यविचारितानि । * स्क. ६ अ. ५ श्लो. ३३-४० अनैकव्याख्यासमलैंङङ्कृतम् कर्माणि यैस्तेषामृष्यर्णविमोचनं नास्ति तदुत्तरकालभावित्वाच्च पुत्रोत्पादनयज्ञानुष्ठानयोरभावेन पितृदेवऋणमुक्तिश्च नास्त्यतः हे पाप ! विषयभोगत्यागादिह लोके श्रेयसो विघातः विषयभोगपूर्वकस्य भोगत्याभावान्मोक्षानधिकारित्वात्परलोकेऽपि श्रेयसो विघातः कृतः इत्यर्थः ॥ ३७ ॥ * * बालानां मतिभिदुबुद्धिविचालकः एवं निरनुक्रोशो निर्घृणः हरेर्यशोनाशक : सन् तत्पार्षदानां मध्ये निर्लज्जः कथं चरसि ॥ ३८ ॥ * * निर्लज्जत्वमाह । नन्विति । ननु हे नारद ! अवैरिणां वैरंकरं सौहृदनं त्वां विना भागवताः सर्वे भूतानुग्रहपरवशाः त्वं तु भूतविप्रियं कुर्वन् कथं न लज्जसे इति भावः ॥ ३६ ॥ * * न विषयभोगाद्विराग उत्पद्यते किन्तु विषयभोगस्य हेयत्वोपदेशेनैवेत्यत आह । नेत्यमिति । यद्यपि त्वं विषयभोगस्य हेयत्वो- पदेशेन स्नेहपाशनिकृत्तनं विषयासक्तिरूपस्नेह एव पाशस्तस्य निकृन्तनं छेदकमुपशमं विरागं मन्यसे । तथापि मुधा मृषा केवलेन ज्ञानं विना साधुवेषेण त्वयेत्थं मतिचालने कृतेऽपि पुंसां विरागो नैव स्यादित्यर्थः ॥ ४० ॥ 1 विजयध्वजतीर्थकृता पदरत्नावली सध्रीचीनं शोभनं प्रतीचीनमाभिमुख्येन वर्तमानं परस्य परमात्मनः अनुपथमनुगुणं पन्थानं पश्चिमाः यामिनीः यामिन्यः अतीता रात्रय इव ॥ ३३ ॥ * * प्रजापतिर्दक्षः || ३४-३५ ॥ * साधोरिव लिङ्गं जटायज्ञोपवीतशम- दमादिलक्षणं यस्य स तथा तेन त्वया नः साधूनामर्भकाणां भिक्षोः संन्यासिनः मार्गः प्रदर्शित इति यदतोऽसाध्वमङ्गलमका- रीत्यन्वयः ॥ ३६॥ * * ननु भिक्षुमार्गस्य “संन्यासेन तनुं त्यजेत्” इत्यादिना विहितत्वात्कथममङ्गलं कृतमित्युच्यत इति तत्राह । ऋणैरिति । “ब्रह्मचर्येण ऋषिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्यः” इति श्रुतेः । त्रिभिः ऋणैरमुक्तानामननुष्ठा- नादिति शेषः । अमीमांसितानि अविचारितानि कर्माणि यैस्तथा तेषां पुत्राणामुभयोर्लोकयोरवाप्तिहेतोः श्रेयसो विघातो विघ्नः कृत इत्यन्वयः । रोषनिमित्तं हे पापेति सम्बोधनं न तु तदर्थयुक्तत्वात् ।। ३७ ।। * * एवं विचार्यमाणे सति बालानां कृत्याकृत्यविवेकज्ञानशून्यानां मतिभिद्बुद्धिभेदकृदयशसो हानिर्यस्मात्स तथा यशो नाशं कृतवान् वा निरनुक्रोशः निर्गता अनुकम्पा यस्मात्स तथेति ॥ ३८ ॥ एतदेवाह । नन्विति । सौहृदन्नमित्यस्य विवरणं वैरङ्करमिति खश्प्रत्ययेन दक्षस्य कोपोद्रेकं दर्शयति । एतदेव विस्फुरिताधर इत्यनेनाप्यसूचि ॥ ३९ ॥ * * विषयप्रसक्तचा रागोद्रेकसम्भवेन संसारानिवृत्तिः स्यादतो वैराग्याय मयाहितमुपादेशीति तत्राह । नेत्यमिति । केवलिना सन्ध्योपासनादिकर्मशून्येन भगवता - भिमानिना त्वया विना इत्थं बोधनेन पुंसो बिरागो न स्यादित्यन्वयः । ननु विषयस्नेहाद्रागः उपशमात् स्नेहनिवृत्त्या राग- निवृत्तिरिति चेत्तत्राह । मन्यस इति यद्युपशमं स्नेहनिवर्तकं मन्यसे तथापि स व्यर्थ इति मन्य इति शेषः ।। ४० ।। * जीवगोस्वामिकृतः क्रमसंदर्भः श्रीनारदे दक्षापराधोऽयं प्राचीन शिवापराधदुः संस्कारेण ।। ४०-४४ ।। इति श्रीमद्भागवत महापुराणे षष्ठस्कन्धे श्रीमज्जीवगोस्वामिकृतक्रमसन्दर्भे पञ्चमोऽध्यायः ॥ ५ ॥ विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी सध्रीचीनं समीचीनं प्रतीचीनं प्रत्यग्वृत्तिलभ्यं परस्य परमेश्वरस्य अनुपथम् अनुकूलं भक्तिमार्गं पश्चिमा यामिनीर्गता रात्रय इव ।। ३३-३४ ॥ * * देवर्षिमुपलभ्येति । स्वायम्भुवस्य मनोर्वंश्याः प्रियत्रतोत्तानपादधुवादयः सर्व्वे मद्द्द्वारैव भगवता आत्मसात्कृताः । महाकर्म्मजडः प्राचीनबर्हिरण्युद्धृतः । तस्य पुत्रा दश प्रचेतसः पौत्रा दशसहस्राणि हयश्वाः सहस्रं सबलाश्वावतीर्णाः । कथमेकस्तन्मध्यवर्त्ती दक्ष एव गृहान्धकूपे खेलतीति तमप्युद्दिधीर्षामीति विमृश्य साम्प्रतञ्च पुत्राणां पारम- हंस्यनिष्ठां श्रुत्वा स्वयमेव शोचन दक्षः प्रायो गृहे निर्विण्ण एव वर्त्तते तत्तमनुगृहीतुमयमेव समयः साधुः । यद्यपि साम्प्रतमपि स मां नान्विष्यति तदप्यहमेव तस्य गृहं यामीति विचार्य तत्रागतवन्तं नारदमुपलभ्याह ।। ३५ ।। * * साधोरिव लिङ्ग वेशो यस्य तेन त्वया महादाम्भिकेनेत्यर्थः । साधूनामस्माकमिति गौरवेण बहुवचनम् । मम साधो तव वैरं स्वप्नेऽप्यकुर्व्व- तस्त्वया असाधु अभद्रमकारीत्येतावता कालेन तव महदपराधो जात इति भावः । ननु किमसाध्वकारीति तत्राह । अर्भकाणा मद्बालकानां गार्हस्थ्य सुखभोगमसहमानेन मत्सरेण त्वया भिक्षोर्भिक्षुकलोकस्य । अर्भकाणामित्यर्भकत्वादेव ते सरलास्तव कपटिनोऽप्युपदेशं जगृहुरिति भावः । अत्र न विद्यते साधुर्यतः हे तथाभूत ! साधुलिङ्गेन साधूनि लिङ्गानि चिह्नान्यपि यस्य तेन न विद्यते साधुर्यतस्तथाभूतं यथा स्यात्तथा दर्शित इति सरस्वत्यभिप्रेतोऽप्यर्थो ज्ञेयः । एवमप्रिमेषु लोकेष्वपि किन विस्तर- भयान्न विवृतः ।। ३६ ।। * * ननु भिक्षोर्मार्ग एव संसारतारणक्षमो न तु गृहस्थानां युष्माकमिति चेत्तत्राह । ऋणैरिति । “जायमानो ह वै ब्राह्मणस्त्रिभिणवान् जायते । ब्रह्मचर्येण ऋषिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्य एष वा अनृणो १९८ श्रीमद्भागवतम् [स्क. ६ अ. ५ लो. ३३-४० यः पुत्री यज्ञकृद्ब्रह्मचारी वासि” इत्यादिश्रुतेः । ऋणैरमुक्तानां न मीमांसितानि न विचारितानि कर्माणि यैस्तेषां तावदृषि- ऋणविमोक्षो नास्ति तदुत्तरकालभावित्वाच्च पुत्रोत्पादनयज्ञानुष्ठानयोरभावेन पितृदेवर्णविमुक्तिश्च नास्ति अतः हे पाप ! हे विश्वत्तघातिन् ! विषयभोगत्याजनादिहलोके श्रेयसः विधातः । मोक्षानधिकारेऽपि वैराग्यप्रवर्त्तनात् परलोकेऽपि विघातः कृत इत्यर्थः । तथा च मनुः । HE FIVE ST ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् । अनपाकृत्य मोक्षं तु सेवमानो व्रजत्यधः । इति ।। ३७ ।। । * त्वां दुष्टं किं ब्रवीमि त्वया सेवकेन भगवतोऽपि दुर्यशोऽजनिष्ठेत्याह । एवमिति । निरनुक्रोशो निर्दयः । मति शास्त्र- विहितकर्म्मनिष्ठां बुद्धिं भिनत्तीति सः । हरेर्यशोहा त्वमभूतेन हरावपि तवापराधः पार्षदमध्ये इति वैष्णवेष्वपीत्येवमस्मद्विधेषु महत्सु भगवति भागवतेषु च तवापराधो जातो दुर्व्वार एव विश्वस्तघातित्वादीनां दुष्कृतानान्तु वार्त्ता दूरे एवेति भावः ।। ३८ ।। * * किञ्च मत्सम्मुखमायातस्त्वं कीदृशं मुखं दर्शयितुमतो धिक् त्वां निर्लज्जमित्याह । नन्विति । ऋते त्वामिति त्वन्तु भूतमात्रद्रोहीति भावः । सौहृदन्नमिति सौहृदकारिणामप्यस्माकमिति भावः । वैरङ्करमित्यस्माकं प्रकंटमेव वैरं कृत्वापि पुनः केन मुखेन प्रत्यक्षी भवसीति सत्यं निरपत्रप एवासि कति पुनरहं त्वां न लज्जयामीति भावः ।। ३९ ।। ननु मत्प्रवत्तिताद्वैराग्यादेव तेषामुपशमस्माच्च स्नेहपाशनिकृन्तनं वृत्तमेव । अद्यापि तव पितुरपि पार्श्वानागमनादेवानुमितं तत्कथं तेषां मोक्षेऽनधिकारः न च विरक्तस्य ऋणत्रयापाकरणमेवावश्यकम् । “यदहरेव विरज्येत तदहरेव प्रब्रजेत् यदि वेतरथा ब्रह्मचर्य्यादेव प्रव्रजेत्” इत्यादिश्रुतेः । अतो वैराग्योपदेशेन तेषां मया नुग्रहः कृत एवेति चेत् तत्राह । नेति । सत्यं महापुरुषाणां कृपया विरागः स्यादेव त्वया तु मृषा केवलिना ज्ञानशून्यावधूतेन अनन्यवैष्णवम्मन्येन वा इत्थं मतिचालने कृतेऽपि सप्ताष्टवासरान् विरागो भवन्नपि ततो वास्तवो विरागः स्यात् । यद्यपि त्वमुपशमं मन्यसे तदपि नैव स्यात् तव महापुरुष- त्वाभावादिति भावः ॥ ४० ॥ मानसिक शुकदेवकृत: सिद्धान्तप्रदीपः सभीचीनं मुक्तिमार्गत्वात्समीचीनं प्रतीचीनं प्रतीचा अन्तर्वृर्त्तिमता भगवद्धद्याननिष्ठेन लभ्यम्। परस्य मुक्तगम्यस्य भगवतोऽनुपथमनुगुणमर्चिरादिमार्गम् । पश्चिमा यामिनीः गता रात्रय इव अद्यापि न निवर्त्तन्ते “एवं देवयानं पन्थानम। पद्य न पुनरावर्त्तते” इति श्रुतेः ॥ ३३-३४ ॥ ४ ४ सर्वज्ञो भगवान् देवर्षिः दक्षशान्त्यर्थं तत्समीपमागतस्तमुपलभ्य समीपगं दृष्ट्वा आह ।। ३५ ।। * * " यदहरेव विरजेत्तदहरेव प्रब्रजेत् किं प्रजया किं धनेन त्यागेनैकेनामृतमानशुः” इत्यादि प्रसिद्धम् “कौमारे आचरेत्प्राज्ञः धर्मान् भागवतानिह ।” देवर्षिभूताप्तनृणां पितॄणां न किंकरो नायमृणी च राजन् ! सर्वा - त्मना यः शरणं शरण्यं गतो मुकुन्दं परिहृत्य कर्त्तम् । इति वक्ष्यमाणमुत्तमाधिकारिविषये श्रीनारदादिसतं प्रजासृष्टचभिनिवेशेन त्यक्त्वा " ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् । अनपाकृत्य मोक्षं तु सेवमानो ब्रजत्यधः || ” इति मन्वादिवाक्यं मन्दाधिकारिविषयं गृहीत्वा श्रीनारदं निन्दति । अहो इत्यादिना । हे असाधो ! साधुलिङ्गेन त्वया साधुनामर्भकाणां यद्भिक्षो- मर्गः प्रदर्शितस्तदिदमसाधु अयुक्तमकारी ॥ ३६ ॥ * * न मीमांसितानि कर्माणि यैस्तेषाम् । अर्थाद्वेदाध्ययनपुत्रोत्पा- दनयज्ञानुष्ठानरहितानामत एव ऋषिपितृदेवानामृणैरमुक्तानां “पुत्रेणेह लोकः” इति श्रुतेः पुत्रानुत्पादनेनेह लोके कर्मानाच- रणेन पितृलोके श्रेयसो विधातः हे पाप ! त्वया कृतः ॥ ३७ ॥ * * निरनुक्रोशो निर्दयः । तत्र हेतुः । बालानां ! । मतिमुभयलोकसुखदकर्माचरणपुत्रोत्पादनादिबुद्धिं भिनत्तीति तथा । निरपत्रपो निर्लज्जः । तत्र हेतुः । हरेर्यशोहापि तत्पार्षदानां मध्ये चरसि ॥३८॥ * * हरियशोन्नत्वमुपपादयति । त्वां सौहृदन्नमवैरिणां वैरंकरमृते भागवताः नूनं निश्चितं भूतानुग्रहे कातरा व्यप्राः ॥ ३९ ॥ * * विषयसेवनेन विषयेषु भूय आसक्तिः स्यादतः “त्यागेनैकेनामृतत्वम्” इति श्रुतेः प्रथमत एव विषयान् सोपायान् परित्यजेन्मुक्तिकामः इति देवर्षिमतमनादृत्य भुक्तेभ्यो विषयेभ्यो दृष्टदोषेभ्यो वैराग्यं संभवति नान्यथेत्याह । नेत्थमिति द्वाभ्याम् । स्नेहपाशस्य विषयासक्तेर्निकृ त्तनमुपशमं वैराग्यं यन्मन्यसे तदित्थं मृषा केवलिना । । मिथ्याविरक्तेन त्वया कारितः पुंसां विरागो न स्यात् ॥ ४० ॥ गण ।। गोस्वामिगिरिधरलालविहिता बालप्रबोधिनी सध्रीचीनं समीचीनं प्रतीचीनं प्रत्यम्वृत्तिलभ्यं परस्य पुरुषोत्तमस्य सम्बन्धिनम् अनुपथमनुकूलं भक्तिमार्ग गतास्ते भगवन्तमेव प्राप्ता इत्यद्यापि संसारं प्रति न निवर्त्तन्ते । तत्र दृष्टान्तः पश्चिमा यामिनीः यामिन्य इव अतीता रात्रयो यथा न पुनरायान्ति तथेत्यर्थः ॥ ३३ ॥ * * तदा च दक्षस्य बहून्यपशकुनानि जातानीत्याह – एतस्मिन्निति ॥ ३४ ॥ * *स्कं. ६ अ. ५ श्लो. ३३-४० ] अनेकव्याख्यासमलङ्कृतम् । १९९ तच्छ्रुत्वा चासौ नारदाय चुक्रोध । ननु नारदो भगवद्भक्तः शापादौ समर्थश्वेति । कथं तस्मै क्रोध उचित इत्याशङ्कयाह– पुत्रेति । पुत्रशोकेन विवशत्वेन विवेकाभावादिति भावः । तदा च देवर्षिमुपलभ्य स्वायम्भुवस्य मनोर्वंशे प्रियव्रतमारभ्योत्तान- पादधुवप्राचीनवर्हिः प्रचेतोहर्यश्वशबलाश्वान्ताः सर्वे मद्द्द्वारैव भगवताङ्गीकृताः संसारार्णवमुत्तीर्णाः तन्मध्यवत्त्यैको दक्ष एव कथं गृहान्धकूपे पतितस्तिष्ठेदिति तदुद्धारार्थं सोऽपि मयोपदेष्टव्यस्तस्य चावसरोऽयमेव पुत्रशोकेन गृहे निर्विण्णत्वादित्यभिप्रे- त्यागतं दृष्ट्वा रोषात् स्फुरितोऽधरो यस्य स आहेत्यन्वयः ।। ३५ ।। * * तद्वाक्यान्येव दर्शयति- अहो इत्यष्टभिः । अहो असाधो वस्तुतोऽसाधुनापि साधुवल्लिङ्गं चिह्न जटायज्ञोपवीतादि यस्य तेन त्वया नोऽस्माकं साधूनां सन्मार्गस्थानामसाधु अभद्रमेव अकारि कृतम् । यतोऽर्भकाणां बालानां भिक्षोर्मार्गो निवृत्तिमार्गः प्रदर्शितः ॥ ३६ ॥ * * ननु तव पुत्रवियोगात् यद्यपि अनिष्टं जातं तथापि निवृत्तिमार्गस्य मोक्षहेतुत्वात्तत्प्रवृत्त्या पुत्राणां भद्रमेव कृतमित्याशङ्कय यद्यपि ‘देवर्षिभूताप्तनृणां पितॄणां न किङ्करो नायमृणी च राजन् । सर्वात्मना यः शरणं शरण्यं गतो मुकुन्दं परिहृत्य कर्त्तम्’ इत्यादिशास्त्रप्रमाणाद्भगव- द्भक्तानां न ऋणशङ्का तथापि दक्षस्य कर्ममार्गाभिनिवेशेन तच्छङ्कया पुत्राणां तत्रानर्थ एवं प्रतिभातीति तदेव दर्शयति- ऋणैरिति । ‘जायमानो वै ब्राह्मणस्त्रिभिरृणवाञ्जायते ब्रह्मचर्येण ऋषिभ्यो यज्ञ ेन देवेभ्यः प्रजया पितृभ्य एष वा अनृणो यः पुत्री यज्वा ब्रह्मचारी वासीत्’ इति श्रुतेः । सर्वे त्रैवर्णिका ऋणत्रयवन्त एव जायन्ते । एतेऽपि त्रिभिणैरमुक्ता यतो न मीमांसितानि न परिचारितानि कर्माणि यै ते तथा । तथाच ब्रह्मचर्यपूर्वकवेदाचाराभावात् ऋष्यृणविमोको नास्ति, तदुत्तरकाला- भावित्वाश्च पुत्रोत्पादन यज्ञानुष्ठानयोरभावेन पितृदेवर्णाद्विमुक्तिश्च नाति । अत एतेषां निवृत्तिमार्गप्रवर्त्तनेन विषयभोगत्यागादिह लोकश्रेयसो विघातः कृतः, ऋणवत्त्वेन मोक्षानधिकारित्वाच्च परलोकश्रेयसोऽपि विघातः कृतः । तथाचाह मनुः - ‘ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् । अनपाकृत्य मोक्षं तु सेवमानो व्रजत्यधः इति । एवं सर्वपुरुषार्थनाशनात्तव महत्पापं जातमित्यभिप्रायेण सम्बोधयति - हे पापेति ॥ ३७ ॥ न केवलमस्माकमेव अनिष्टमाचरसि किन्तु एवं प्राणिद्रोहेण स्वस्वामिनो हरेरपि यशोहा यशोनाशकोऽसि, यतो बालानामज्ञानां मतिं सृष्टयादिसत्कर्मविषयां भिनत्तीति तथा अत एव परमपुरुषार्थ नाशकत्वात् निरनुक्रोशो निर्दयः, अत एव निरपत्रपः निर्लज्जस्त्वं हरेः पार्षदमध्ये चरसि ॥ ३८ ॥ * अन्ये तु भगवद्भका नैवम्भूताः अतस्त्वं तद्वेषमात्रधरो विश्वतानिटकरणेन तेषामपि यशो नाशयसीत्यभिप्रायेणाह - नन्विति, निश्चितमेतत् ।। ३६ ।। * * ननु वैराग्यादुपशमस्ततश्च सर्वप्राणिस्नेहपाशोच्छेदो भवति ततश्च सर्वतो विनिर्मुक्त: कृतार्थो भवतीति वैराग्योपदेशेन मया तेषामनुग्रह एव कृतः । न च विरक्तानामृणमस्ति येन तदपाकरणायावश्यं गृहे स्थेयं ‘यदहरेव विरजेत्तदहरेव प्रत्रजेत् यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेत्’ इत्यादिश्रुतेरित्याशङ्कयाह - नेति । यद्यपि स्नेहपाशनिकृन्त- नमुपशमं त्वमेवं मन्यसे तथापि तवायमभिमानो मृषा । यतः केवलिना सन्ध्योपासनादिसत्कर्मविवेकादिरहितेन त्वया इत्थं मतिचालने कृतेऽपि पुंसां विरागो नैव स्यात् । कुतो विसगं विनोपशमः कुतो वा तेन विना स्नेहपाशनिकृन्तन- मित्यर्थः ॥ ४० ॥ भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी " | सध्रीचीनमिति । सह आतिवाहिकैर्देवैः साकमञ्चति अर्चिरादिमार्गेण गच्छतीति सध्यङ् जीवस्तेन गम्यः सधीची- नस्तं प्रतीचा ब्रह्मात्मकस्वात्मयाथात्म्यसाक्षात्कारवता गम्यः प्रतीचीनस्तं परस्य परमपुरुषस्य, अनुपथमनुकूलमर्चिरादिमार्ग, गताः । ते सबलाश्वाः, पश्चिमा अतीताः, यामिनीर्यामिन्यः रात्रय इति यावत् । इव अद्यापि न निवर्त्तन्ते । ‘एतं देवयान- पन्थानमापद्य न पुनरावर्त्तन्त’ इति श्रुत्यर्थोऽत्र विवक्षितः ॥ ३३ ॥ * * एतस्मिन्निति । एतस्मिन्काले नारदोपदेशेन १ या । सबलाश्वानां मुक्तिप्राप्तिकाले प्रजापतिर्दक्षः, बहून् उत्पातान् पश्यन् पुत्रनाशप्रयुक्त वामनेत्रभुजादिस्फुरणादीनुत्पातान्वीक्षमाणः सन् । पूर्ववत् नारदकृतं पुत्रनाशम् उपाशृणोत् ॥ ३४ ॥ * * पुत्राणां निवृत्तिधर्मनिष्ठया मुक्तिमुपश्रुत्य दक्षोऽपि प्रायशो विरक्तो जातः स्यादिति तदनुप्रहार्थे देवर्षिर्यदा तत्पार्श्व गतस्तदा यज्जातं तदाह । चुक्रोधेति । पुत्रनाशविमूच्छितः, असौ दक्षः, । । नारदाय चुक्रोध । देवर्षिनारदं, उपलभ्य रोषात् क्रोधात् विस्फुरितः कम्पमानोऽधरोऽधरोष्ठो यस्य तथाभूतः सन् आह च ॥ ३५॥ * * क्रुद्धः सन् यदाह तदाह । अहो इति । अहो इत्याश्चर्ये । हे असाधो, साधोरिव लिङ्गं वेषो यस्य तेन, त्वया, साधूनाम् अर्भकाणां, योऽयं भिक्षोः संन्यासिनः मार्गः प्रदर्शितः । इदम् असाधु, अकारि कृतम् ॥ ३६॥ संन्यासिनां मार्ग: साधुरेव मोक्षहेतुत्वात्सत्त्यम् ऋणत्रयापाकरणं विना तु सोऽपि महानर्थरूप एवेत्याह । ऋणैरिति । ननु ‘जायमानो वै ब्राह्मणस्त्रिभिर्ऋणैऋणवान् जायते ब्रह्मचर्येण ऋषिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्यः एष वा अनृणो यः पुत्री यज्वा ब्रह्मचारी वासीत्’ इति श्रुतेः । त्रिभिः ऋणैः, अमुक्तानां न मीमांसितानि अविचारितानि कर्माणि यैतेषां इत्थंभूतानां मत्सुतानां, हे पाप पापरूप नारद, त्वया उभयोः लोकयोः, संबन्धिनः श्रेयसः विघातः कृतः । प्रथमं तावत्तेषामृष्यण- 1 २०० श्रीमद्भागवतम् । [ स्कं ६ अ. ५ श्लो. ४१-४४ विमोचनं नास्ति, पुत्रोत्पादनयज्ञानुष्ठानयोस्तदुत्तरकालभावित्वाच्च तयोरभावेन पितृदेवऋणाद्विमुक्तिश्च नाति । अतः, एवैषां i विषयभोगत्यागादैहिकलौकिकन योविघातः मोक्षानधिकारित्वात्पारलौकिक श्रेयोविघातश्च त्वया कृत इति भावः । तथा च मनुः । ‘ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् । अनपाकृत्य मोक्षं तु सेवमानो व्रजत्यधः’ इति ॥ ३७ ॥ एवमिति । बालानां मतिभिबुद्धिविचालक:, निरनुक्रोश: निर्घृणः, एवं दुर्जनः त्वं, हरेः यशोहा यशोनाशकः, यतः निरपत्रपो निर्लज्जः सन्, पार्षदानां मध्ये चरसि । अकलङ्कान् भगवत्पार्षदानपि सहचरत्वेन कलङ्कायमानान्कुर्वन्कलङ्क मूर्त्तिस्त्वं तेषु निर्लज्जः किमिति पर्यटसीति भावः ॥ ३८ ॥ तर्हि किं भगवत्पादानपि कलङ्किनो वेत्सि, न हि न हि त्वमेक एवैवंभूत इत्याह । नन्विति नतु हे नारद, अवैरिणां वैरंकर, सौहृदघ्नं त्वां ऋते विना, सर्वे भागवतान्तु नित्यं भूतानुग्रहकातराः भूतानुग्रहपरवशाः वै, त्वं तु भूताविप्रियं कुर्वन्कथं न लज्जसे इति भावः ॥ ३९ ॥ ननु वैराग्यादुपशम उपशमाच भूतस्नेहपाशच्छेदनं भवति । न च विरक्तस्य ऋणत्रयापाकरणमावश्यकं ‘यदहरेव विरजेत्तदहरेव प्रव्रजेत् यदि वेतरथा ब्रह्म- चर्यादेव प्रव्रजेत् ’ इति श्रुतेः । अतो वैराग्योपदेशेन मया तेषामनुग्रह एव कृत इति चेत्तत्राह । नेति । यद्यपि त्वम् एवम् उपशमं वैराग्यं, मन्यसे । तथापि, पुंसाम् इत्थं विरागः न स्यात् । भूषा केवलिना ज्ञानं विनापि एवंभूतवेषभृता, त्वया इत्थं मतिचालने कृतेऽपीति शेषः । स्नेहपाशनिकृन्तनं, न । नैव जायते इत्यर्थः ॥ ४० ॥ । I भाषानुवादः ।। * वे उस पथ के पथिक बने, जो अन्तर्मुखी वृत्तिसे प्राप्त होनेयोग्य, अत्यन्त सुन्दर और भगवत्प्राप्ति के अनुकूल है। वे बीती हुई रात्रियों के समान न तो उस मार्ग से अबतक लौटे हैं और न आगे लौटेंगे ही ॥ ३३ ॥ * * दक्षप्रजापतिने देखा कि आजकल बहुत-से - अपशकुन हो रहे हैं । उनके चित्तमें पुत्रों के अनिष्टकी आशङ्का हो आयी। इतनेमें ही उन्हें मालूम हुआ कि पहलेकी भाँति अबकी बार भी नारदजीने मेरे पुत्रों को चौपट कर दिया ।। ३४ ।। * * उन्हें अपने पुत्रोंकी कर्तव्यच्युति से बड़ा शोक हुआ और वे नारदजीपर बड़े क्रोधित हुए । उनके मिलनेपर क्रोधके सारे दक्षप्रजापति के होठ फड़कने लगे और वे आवेशमें भरकर नारदजीसे बोले || ३५ ॥ * * दक्षप्रजापतिने कहा—ओ दुष्ट ! तुमने झूठमूठ साधुओंका बाना पहन रक्खा है ! हमारे भोलेभाले बालकोंको भिक्षुकोंका मार्ग दिखाकर तुमने हमारा बड़ा अपकार किया है ।। ३६ ।। * अभी उन्होंने ब्रह्मचर्यसे ऋषि ऋण, यज्ञसे देव ऋण और पुत्रोत्पत्तिसे पितृ ऋण नहीं उतारा था । उन्हें अभी कर्मफलकी नश्वरताके सम्बन्ध में भी कुछ विचार नहीं था । परन्तु पापात्मन् ! तुमने उनके दोनों लोकोंका सुख चौपट कर दिया ।। ३७ ।। * * सचमुच तुम्हारे हृदयमें दयाका नाम भी नहीं है। तुम इस प्रकार बच्चोंकी बुद्धि बिगाड़ते फिरते हो। तुमने भगवान के पार्षदोंमें रहकर उनकी कीर्तिमें कलङ्क ही लगाया । सचमुच तुम बड़े निर्लज हो ॥ ३८ ॥ * * मैं जानता हूँ कि भगवान् के पार्षद सदा-सर्वदा दुःखी प्राणियोंपर दया करनेके लिये व्यग्र रहते हैं । परन्तु तुम प्रेमभावका विनाश करनेवाले हो । तुम उन लोगोंसे भी वैर करते हो जो किसीसे वैर नहीं करते ॥ ३६ ॥ ** यदि तुम ऐसा समझते हो कि वैराग्यसे ही स्नेहपाश - विषयासक्तिका बन्धन कट सकता है, तो तुम्हारा यह विचार ठीक नहीं है; क्योंकि तुम्हारे - जैसे झूठमूठ वैराग्यका स्वांग भरनेवालोंसे किसीको वैराग्य नहीं हो सकता ॥ ४० ॥ नानुभूय न जानाति पुमान् विषयतीक्ष्णताम् । निर्विद्येत स्वयं तस्मान्न तथा भिन्नधीः परैः ॥ ४१ ॥ यन्नस्त्वं कर्मसन्धानां साधूनां गृहमेधिनाम् । कृतवानसि दुर्मर्षं विप्रियं तव मर्पितम् ।। ४२ ।। तन्तुकृन्तन यन्नस्त्वमभद्रमचरः पुनः पुनः । तस्माल्लोकेषु ते मूढ न भवेद्भ्रमतः पदम् ॥ ४३ ॥ श्रीशुक उवाच प्रतिजग्राह तद् बाढं नारदः साधुसम्मतः । एतावान् साधुवादो हि तितिक्षेतेश्वरः स्वयम् ॥ ४४ ॥ इति श्रीमद्भागवत महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे नारदशापो नाम पञ्चमोऽध्यायः ॥ ५ ॥ १. प्रा० पा०दक्षान्नारदशापः पश्च० । स्कं. ६ अ. ५ श्लो. ४१-४४] अनेकव्याख्यासमलङ्कृतम् २०१ अंकात हा उपकृष्णप्रिया व्याख्या अन्वयः - पुमान् न अनुभूय विषयतीक्ष्णतां न जानाति तस्मात् स्वयं निर्विद्येत तथा परैः भिन्नधीः न ॥ ४१ ॥ त्वं कर्मसंधानां न साधूनां गृहमेधिनां न यत् दुर्मर्षं विप्रियं कृतवान् असि तव मर्षितम् ।। ४२ ।। * तन्तुकृंतन त्वं यत् नः पुनः अभद्रम् अचरः तस्मात् मूढ लोकेषु भ्रमत ते पदं न ।। ४३ ।। * * साधुसंमतः नारदः तत् बाढं प्रतिजग्राह हि स्वयं ईश्वरः तितीक्षेत एतावान् साधुवादः ॥ ४४ ॥ इति पञ्चमोऽध्यायः ॥ ५ ॥ श्रीधरस्वामिविरचिता भावार्थदीपिका इत्थं विरागो न स्यादित्यत्र हेतुमाह । नानुभूयाननुभूय विषयाणां तीक्ष्णतां दुःखहेतुत्वं न जानाति । तस्माद्विषया- नुभवेन तीक्ष्णत्वज्ञानात् कारणात्स्वयं यथा निर्विद्येत तथा भवादृशैः परैर्भिन्नधीन निर्विद्येत ॥ ४१ ॥ अतस्त्वयाऽ- स्माकमप्रियमेव कृतं तथापि वयं न कुर्म इत्याह । यदिति । कर्मसंधानां कर्ममर्यादानाम् । कर्तुमंधानामिति पाठे विप्रियं कर्तुम- जानतामित्यर्थः । दुर्मर्ष दुःसहं यत्त्वं कृतवानसि तन्मर्षितं सोढम् ॥ ४२ ॥ * तथापि तवाभद्रं भविष्यत्येवेत्याह तंतुकृंतन संतानच्छेदक । यद्यस्मादभद्रं पुत्राणां स्थानभ्रंशमचरस्तत्तस्मात्तव लोकेषु भ्रमतः पदं स्थानं न भवेदिति मृदुच्छलेन शापः ॥ ४३ ॥ * * बाढं तथेति स्वीकृतवान् । ईश्वरोऽपि प्रतिशप्तुं समर्थोऽपि तितिक्षेत सहतेति यदेतावानेव ॥ ४४ ॥ इति श्रीमद्भागवते महापुराणे षष्ठस्कंधे टीकायां पञ्चमोऽध्यायः ॥ ५ ॥ काराग T वंशीधरकृतो भावार्थदीपिकाप्रकाशः or arap S तदेवाह - नानुभूयाननुभूय अत्र नलोपनुडभावौ त्वाषै । नञर्थो नशब्दो वा । विश्वनाथः - तस्मात्त्वमनभिज्ञो राजमार्ग शृण्वत्याह - नेति । परैस्त्वाद्यशैर्भिन्नधीर्विदीर्णमतिः ।। ४१ ।। * * एवं त्वया यथा निर्हेतुकं वैरं कृतं तस्य प्रतिफलमहमपि तच्चतुर्गुणितं दातुं शक्नोम्येव तथापि न ददामीति पश्य गृहस्थानामप्यस्माकं तितिक्षामित्याह-यदिति । कर्मणि संधा मर्यादा येषां तेषाम् । चक्रवर्त्तिना तु कर्ते कर्ममार्गे संधा येषां ते कर्त्तसंधास्तेषामिति व्याख्यातम् । साधूनां सदाचारिणाम् । तव ज्ञानभक्तिमर्यादा भ्रष्टस्य परं विप्रियं कत्तु चक्षुष्मतोऽसाधोः परमहंसाश्रमिणः क्षांतम् ॥ ४२ ॥ * * यद्यपि क्षांतं तथापीत्यर्थः । तंतुं संतति कृतति छिनत्तीति तंतुकृतनस्तत्संबुद्धौ तथा अत्र मुमागमस्त्वार्ष: । ‘तंतुकृत्तनयानां त्वम्’ इति तीर्थ संमतः पाठः ‘तंतुः संतानसूत्रयो:’ इति कोशात् । तंतुकृन्तनो यथा तंतुसंशोधनार्थमितस्ततो भ्रमति तथा त्वमपि भ्रमणं कुरु नैकत्र ते स्थितिर्भूयादिति भावः ॥ ४३ ॥ प्रतिजग्राह बाढं तथेति स्वीचकार । साधूनां संमत इति । साधव
- । * एवमेव सहत इत्यर्थः । प्रसिद्धस्य साधुवादशब्दस्याप्येषैव निरुक्तिरित्याह– एतावानिति । ईश्वरः प्रतिशप्तुं समर्थोपि । ननु दक्षमनुगृहीतुमागतो दक्षेण बहुशस्तिरस्कृतस्तत्र तांस्तिरस्काराच्छ्रुत्वा नारदेन तत्समीपात्कथं नापसृतम् । उच्यते । नारदस्या- यमभिप्रायः —— क्रोधवशोऽयं बहुशस्तिरस्कारानपि करोतु शापं च ददातु ततश्च ‘क्रोधस्यैतत्फलोदयात्’ इत्युक्तेर्यदा क्रोधः शाम्येत् मान प्रति तिरस्कारादिकमकुर्वाणः सर्वमेव सहमानमालोक्य हंतहंत भगवद्भक्तोयं तिरस्कृतः शप्तश्चेति वैकुंठगतानां सनकादी- नामिवानुतापश्च यदा भविष्यति तदा भक्तिबीजवपनयोग्य क्षेत्रीभूते ऽस्मिन् शुद्धभक्तिबीजमुप्त्वा यामीति बुद्धधा तावत्क्षण- पर्यंतमपि स्थितं दक्षस्य तु तत्तद्दृष्ट्वा अहो चंद्रार्द्धमौलेरपराधविशेषप्राबल्यमिति स्मृत्वा ततोऽपसृत इति ॥ ४४ ॥ इति श्रीमद्भागवतभावार्थदीपिकाप्रकाशे षष्ठस्कन्धे पञ्चमोऽध्यायः ॥ ५ ॥ अन्वितार्थप्रकाशिका तत्र हेतु: नेति । नानुभूय विषयभोगं विना पुमान् विषयाणां तीक्ष्णतां दुःखहेतुत्वं न जानाति । अतो यथा स्वयं परप्रेरणमन्तरेणैव तस्माद्विषयानुभवेन तत्तीक्ष्णत्वज्ञानान्निर्विद्येत तथा परैर्भिन्ना प्रेरणया चालिता धीर्यस्य स न निर्वि- द्यते ।। ४१ ।। * * यदिति । नोऽस्माकं कर्मसन्धानां वैदिककर्मानुष्ठान संकल्पवतां कत्तु सन्धानामिति पाठे विप्रिय कर्तुं मजा नतामित्यर्थः । साधूनां स्वर्गादिसाधनपराणां गृहमेधिनां गृहस्थानां पुत्रनाशनेन दुर्मर्षं दुःसहं विप्रियं यत्त्वं कृतवानसि तत्तव सर्पितमेकदा तु सोढमित्यर्थः ॥ ४२ ॥ * * तन्त्विति । हे तन्तुकृन्तन अस्मत्सन्तानोच्छेदक! यत्तु पुनस्त्वं २६ २०२ श्रीमद्भागवतम् [ स्कं. ६ अ. ५ श्लो. ४१-४४ नोऽस्माकमभद्रं शबलाश्वनाशनेन विप्रियमचरः कृतवान् तस्मात् हे मूढ ! लोकेषु भ्रमतः पर्यटतस्ते कुत्रापि पदं स्थानं न भवेत् ॥ ४३ ॥ * प्रतीति । साधुषु संमतः नारदः तत् तं दक्षशापं बाढं तथाऽस्त्विति प्रतिजग्राह स्वीकृतवान् । स्वयमीश्वरः प्रतिकर्तुं समर्थोऽपि परोपद्रवं तितिक्षेत सहेतैव न शापादिनाऽपकारं कुर्यादित्येतावानेव हि यस्मात्साधुवादः साधुशब्दनिरुक्तिः ॥ ४४ ॥ इति श्रीभागवते महापुराणे षष्ठस्कन्धेऽन्वितार्थप्रकाशिकायां पञ्चमोऽध्यायः ॥ ५ ॥ वीरराघवव्याख्या : कुतः । यतः पुमान्नानुभूत अननुभूय विषयाणां तीक्ष्णतामन्ततो दुःखरूपतां न जानाति । यथा विषयाननुभूय स्वयमेव तस्माद्विषयान्निर्विद्येत विरज्येत । तथा परैर्भिन्नधीचालितधीर्न निर्विद्येत विरज्येत ।। ४१ ।। * * यत्त्वं कर्मसन्धानां कर्मण्यासक्तचित्तानां कत्तु मन्धानामिति पाठे प्रतिविप्रियं कर्तुमजानतां गृहस्थानां साधूनामस्माकं दुर्मर्षं सोदुम- शक्यं विप्रियं कृतवानसि तदप्रियममर्षितमस्माभिरिति शेषः । न मृश्यतेऽस्माभिरित्यर्थः ।। ४२ ।। ४ ॐ एवं नारदाय क्रुद्धवान् दक्षः शशाप । तन्त्विति । हे तन्तुकृन्तन ! सन्तानच्छेदक ! यस्मात्त्वमभद्रं पुत्रविनाशमचरः कृतवानसि चरतेर्लङ् मध्यमैकवचनं हे मूढ ! तस्मात्सर्वेषु लोकेषु भ्रमतस्तव पदं स्थानं न भवेत्कचिदपि भवान्न चिरमवतिष्ठेत्किन्तु भ्रा शापः ॥ ४३ ॥ * * तं च शापं साधूनां सम्मतो नारदो बाढं तथैवास्त्विति प्रतिजग्राह स्वीकृतवान् । कुतः हि यस्मा- दीश्वरोऽपि स्वयं प्रतिकन्तु समर्थोऽपि तितिक्षेत सहतेति यदेतावानेव साधूनां वादः न तु प्रतिशापप्रदानबाद इति भावः ।। ४४ ॥ इति श्रीमद्भागवते महापुराणे षष्ठस्कन्धे श्रीमद्वीरराघवाचार्यकृतभागवत चंद्रचंद्रिकाख्यायां टीकायां पञ्चमोऽध्यायः ॥ ५ ॥ विजयध्वजतीर्थकृता पदरत्नावली । कुतो व्यर्थ इति तत्राह । । नेति । नानुभूयाननुभूय विषयसेवामकृत्वेत्यर्थः । विषयतीक्ष्णतां संसारापादनपटुताम् । तज्ज्ञानाद्वैराग्यं स्यात्किमिति तत्राह । निर्विद्येत इति । यथा विषयभोगेन तत्तैक्ष्ण्यं ज्ञात्वा स्वयं परोपदेशमन्तरेण तस्माद्विषय- प्रामान्निर्विद्यते विरक्तो भवति तथा परैर्भिन्नधीः प्रबोधितबुद्धिः न विरक्तो भवति अज्ञातविषयतीक्ष्णत्वादिति शेषः ॥ ४१ ॥ * * गालीवचनमन्तरेण क्रोधफलमाह । यदिति । त्वं दुर्मर्षं दुःसहं विरोधं कृतवानसीति यत्तन्मर्पितं सोढमेवेत्यन्वयः ।। ४२ ।। * * तर्हि किं मर्षितमिति तत्राह । तन्त्विति । हे मूढ ! अस्मादभिमतविरुद्धबोधक ! तन्तुकृतां सन्ततिकराणां नः तनयानामभद्रमैहिक सुखानुभवविरोधिरूपमचरः । पुन: यस्मात्तस्माल्लोकेषु भ्रमतस्ते पदमेकत्र निवासलक्षणं स्थानं न भवेदित्यन्वयः ॥ ४३ ॥ स्वयं शोभनदेवो नारद ईश्वरः प्रतिशप्तुं समर्थोऽपि न शशाप तितिक्षेत सहेत हि यदेतावान् साधूनां वादः स्वभावलक्षणः ॥ ४४ ॥ 1 इति श्रीमद्भागवते महापुराणे षष्ठस्कंधे विजयध्वजतीर्थकृत पदरत्नावल्यां पञ्चमोऽध्यायः ॥ ५ ॥
विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी तस्मात्त्वमनभिज्ञो राजमार्ग मत्तः शृण्वत्याह । नेति विषयाणां तीक्ष्णतां दुःखप्रदत्वमननुभूय न जानाति । अतस्तस्माद्विषयभोगोत्थादेव तदीयतीक्ष्णत्वज्ञानात् स्वयमेव निर्विद्यत यथा न तथा परैस्त्वादृशैर्भिन्नधी: विदीर्ण- मतिः ॥ ४१ ॥ एवं त्वया यथा मम निर्हेतुकं वैरं कृतं तस्य प्रतिफलमहमपि तच्चतुर्गुणितं स्वयमेव दातुं शक्नोम्येव तथापि न ददामीति पश्य गृहस्थानामप्यस्माकं तितिक्षामित्याह । यदिति । कर्मण्येव कर्ममार्गे एव सन्धा मर्यादा येषां तेषां कर्त्तुं मन्धानामिति पाठे परेषां विप्रियं कर्त्तुं मजानतामित्यर्थः । दुर्मर्ष दुःसहमपराधमेव ज्ञानभक्तिमर्थ्यादा भ्रष्टस्य परं विप्रियं कत्तु चक्षुष्मतः । असाधोः परमहंसाश्रमिणः मर्षितं क्षान्तम् ॥ ४२ ॥ * तथापि तवाभद्रन्तु भविष्यत्येवेत्याह । तन्तुकृन्तन ! सन्तानोच्छेदक ! अभद्रं मत्पुत्राणां स्थानभ्रंशम् अचरः अकरोः पदं स्थानम् ॥ ४३ ॥ * * प्रतिजग्राह । वाढं तथेति स्वीचकार साधूनां सम्मत इति । साधव एवमेव सहन्त इत्यर्थः । प्रसिद्धस्य साधुवादशब्दस्याप्येषैव निरुक्ति- रित्याह । एतावानिति । ईश्वरः प्रतिशप्तुं समर्थोऽपि । ननु दक्षमनुग्रहीतुमागतो नारदो दक्षेण बहुशस्तिरस्कृतस्तत्र तांस्तिर- स्कारान् श्रुत्वा नारदेन तत्समीपात् कथं नापसृतम् । उच्यते । नारदस्यायमभिप्रायः । क्रोधवशोऽयं बहुशस्तिरस्कारानपि 1 स्कं. ६ अ. ५ श्लो. ४१-४४ 1 अनेकव्याख्यासमलङ्कृतम् करोतु शाप ददातु । ततश्च “क्रोधस्यैतत्फलोदयात्” इत्युक्तेर्यदा क्रोधः शाम्येत् मा प्रति तिरस्कारादिकमकुर्वाणं सर्व्व- मेव सहमानमालोक्य हन्त हन्त भगवद्भक्तोऽयं तिरस्कृतः शप्तश्चेति वैकुण्ठगतानां सनकादीनामिवानुतापश्च यदा भविष्यति तदा भक्तिबीजवपनयोग्यक्षेत्रीभूतेऽस्मिन् शुद्धभक्तिबीजमुप्त्वा यास्यामीति बुद्धया तावत्क्षणपर्य्यन्तमपि स्थितम् । दक्षस्य तु तत्तददृष्ट्वा अहो चन्द्रार्द्धमौलेरपराधशेषप्राबल्यमिति स्मृत्वा ततोऽपसृतम् ॥ ४४ ॥ इति सारार्थदर्शिन्यां हर्षिण्यां भक्तचेतसाम् । षष्ठस्य पञ्चमोऽध्यायः सङ्गतः सङ्गतः सताम् ॥ ५ ॥ शुकदेवकृतः सिद्धांतप्रदीपः ॥ ननुभूय विषयानुभवमकृत्वा विषयाणां तीक्ष्णतां दुःखोदर्कतां न जानाति तस्माद्विषयानुभवेन तत्तीक्ष्णत्वज्ञानात्स्व- यमेव निर्विद्येत विषयेभ्यो विरज्येत परैस्त्वद्विधैर्भिन्नधीस्तु तथा न विरज्येत ॥ ४१ ॥ * * कर्मणि कर्ममार्गे सन्धा निष्ठा येषां नोऽस्माकं दुःसहमप्रियं कृतवानसि यत्तत्तव मर्षितं क्षान्तं मया ॥ ४२ ॥ इदं तु तब मय्यप्रियकारिणः भविष्यत्येवेत्याह । हे तन्तुकृन्तन ! वंशन्न ! यद्यतस्त्वं नोऽस्माकमभद्रमप्रियमचरस्तस्मात्ते भ्रमतः पदं स्थानं न भवेत् ॥ ४३ ॥ तच्छापं बाढ तथास्त्विति प्रतिजग्राह स्वीकृतवान् । ईश्वरोऽपि प्रतिशप्तुं समर्थोऽपि तितिक्षेतेति यदेतावानेव साधुवादः ॥ ४४ ॥ इति श्रीमद्भागवत महापुराणे षष्ठस्कन्धे श्रीमच्छुकदेवकृतसिद्धान्तप्रदीपे पञ्चमाध्यायार्थप्रकाशः ॥ ५ ॥ गोस्वामिगिरिधरलालविहिता बालप्रबोधिनी इत्थं विरागाभावे हेतुमाह - नेति । नानुभूय अननुभूय विषयभोगं विना पुमान् विषयाणां तीक्ष्णतां दुःखहेतुत्वं न जानाति । अतो यथा स्वयं परप्रेरणमन्तरेणैव तस्माद्विषयानुभवेन तत्तीक्ष्णत्वज्ञानान्निर्विद्येत तथा परैर्भिन्ना प्रेरणया चालिता धीर्यस्य स न निर्विद्यते इत्यर्थः ॥ ४१ ॥ * एवं निन्दापूर्वकं नारदमुपालभ्येदानीं शपति - यदिति द्वयेन । नोऽस्माकं कर्मसन्धानां वैदिककर्मानुष्ठानसङ्कल्पवतां कत्तु मन्धानामिति पाठे विप्रियं कर्त्तुमजानतामित्यर्थः । साधूनां स्वर्गादिसाधन- पराणां गृहमेधिनां गृहस्थानां पुत्रनाशनेन दुर्मर्ष दुस्सहं विप्रियं यत्त्वं कृतवानसि तत्त्व मर्षितमेकदा तु सोढमि- त्यर्थः ॥ ४२ ॥ हे तन्तुकृन्तन अस्मत्सन्तानोच्छेदक यत्तु पुनस्त्वं नोऽस्माकमभद्रं शबलाश्वनाशनेन विप्रियमचरः कृतवान् तस्मात् हे मूढ लोकेषु भ्रमतः पर्यटतस्ते कुत्रापि पदं स्थानं न भवेदित्यन्वयः । मूढेति सम्बोधनेन मौर्यादस्माक- मस्मत्पुत्राणां तव चैवमुपदेशेन अनिष्टं स्यादिति त्वमुपदेशसमये न ज्ञातवानिति सूचितम् ।। ४३ ।। * * एवं शापं श्रुत्वा नारदेन किं कृतमित्याकाङ्क्षायामाह - प्रतिजग्राहेति नारदस्तत् तं दक्षशापं बाढं तथास्त्विति प्रतिजग्राह स्वीकृतवान् | तत्र हेतुमाह - साधुत्वेन सम्मत इति । साधुत्वेऽपि कथं दुर्वचनं सोढुं शक्यमित्यपेक्षायामाह - एतावानिति । स्वयमीश्वरः प्रतिकर्तुं समर्थोऽपि परोपद्रवं तितिक्षेत सहेतैव, न शापादिनाऽपकारं कुर्यादित्येतावानेव हि यस्मात् साधुवादः साधुशब्द- निरुक्तिः । अन्यथा साधुत्वमेव न स्यादित्यर्थः ॥ ४४ ॥ इति श्रीवल्लभाचार्यवंश्यगोपालसूनुना । श्रीमन्मुकुन्दरायाणां पादसेवाधिकारिणा ॥ १ ॥ श्रीमगिरिधराख्येन भजनानन्दसिद्धये । श्रीमद्भागवतस्येयं टीका बालप्रबोधिनी ॥ २ ॥ रचिता तत्र स्कन्धेऽस्मिन् षष्ठे रूपनिरूपणे । पञ्चमो विवृतो दक्षपुत्रानुग्रहरूपकः || ३ || भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी तत्र हेतुमाह । नानुभूयेति । पुमान् विषयतीक्ष्णतामन्ततो विषयाणामतिदुः खरूपतामित्यर्थः, नानुभूय तदनुभवम- कृत्वा, न जानाति । यथा विषयाननुभूयेति शेषः । स्वयमेव तस्माद्विषयात् निर्विद्येत विरज्येत, तथा परैः भिन्नधी, न विरज्येत । अतस्त्वयाऽस्माकं विप्रियमेव कृतमिति भावः ॥ ४१ ॥ * * तथापि वयं तवाप्रियं न कुर्म इत्याह । यदिति । त्वं, कर्मसंधानां कर्ममर्यादापालकानां, पाठान्तरे विप्रियं कर्त्तु मजानतामित्यर्थः । गृहमेधिनां साधूनां, नोऽस्माकं दुर्मर्षं दुःसह विप्रियं कृतवान् असि यत्, तदपि तव विप्रियं, मर्षितमस्माभिः सोढम् ॥ ४२ ॥ * * तथापि तवाभद्रं तु भविष्य- त्येवेत्याह । तन्तुकृन्तनेति । हे तन्तुकृन्तन संतानच्छेदक, यद्यस्मात् त्वं पुनः तु, नोऽस्माकं, अभद्रं पुत्रविनाशरूपममङ्गलं, अचर: कृतवानसि । चरतेर्लङो मध्यमैकवचनम् । तस्मात्, हे मूढ, लोकेषु भ्रमतः सर्वेषु लोकेषु परिभ्रमणं कुर्वत इत्यर्थः । ते तब, २०४ श्रीमद्भागवतम् पदं स्थानमेकत्र स्थितिरिति यावत् । न भवेत् । कचिदपीति शेषः ॥ ४३ ॥ [ स्कं. ६ अ. ५. ४१-४४ प्रतीति । साधुसंमृतः साधुजनमान्यः नारदः, तत्तत्कृतं शापवचनं बाढं तथास्तु इति, प्रतिजग्राह स्वीकृतवान् । हि यस्मात्, स्वयम् ईश्वरः प्रतिशप्तुं समर्थः सन्नपि, तितिक्षेत सहेत यत्, एतावान् एव साधुवादः साधूनां स्वभावः ॥ ४४ ॥ इति श्रीधर्मधुरंधर श्रीधर्मात्मजप्रत्यक्ष पुरुषोत्तम सहजानन्दस्वामिसुतश्रीरघुवीराचार्यसूनुभगवत्प्रसादाचार्यविरचितायामन्वयार्थाव- बोधिन्यां भक्तमनोरञ्जन्याख्यायां श्रीमद्भागवतटीकायां षष्ठस्कन्धे पञ्चमोऽध्यायः ॥ ५ ॥ भाषानुवादः नारद ! मनुष्य विषयोंका अनुभव किये बिना उनकी कटुता नहीं जान सकता। इसलिये उनकी दुःखरूपताका अनुभव होनेपर स्वयं जैसा वैराग्य होता है, वैसा दूसरोंके बहकानेसे नहीं होता ॥ ४१ ॥ * * हमलोग सद्गृहस्थ हैं, अपनी धर्ममर्यादाका पालन करते हैं। एक बार पहले भी तुमने हमारा असा अपकार किया था । तब हमने उसे सह लिया ।। ४२ ।। * तुम तो हमारी वंशपरम्पराका उच्छेद करनेपर ही उतारू हो रहे हो। तुमने फिर हमारे साथ वही दुष्टताका व्यवहार किया । इसलिये मूढ ! जाओ, लोक-लोकान्तरोंमें भटकते रहो । कहीं भी तुम्हारे लिये ठहरनेको । ठौर नहीं होगी ॥ ४३ ॥ * श्रीशुकदेवजी कहते हैं - परीक्षित् ! संतशिरोमणि देवर्षि नारदने ‘बहुत अच्छा’ कहकर दक्षका शाप स्वीकार कर लिया । संसारमें बस, साधुता इसीका नाम है कि बदला लेनेकी शक्ति रहनेपर भी दूसरेका किया हुआ अपकार सह लिया जाय ॥ ४४ ॥
इति पञ्चमोऽध्यायः ॥ ५ ॥ को एक game in कनक ल अथ षष्ठोऽध्यायः 17 श्रीशुक उवाच १ ॥ २ ॥ ३ ॥ ततः प्राचेतसोऽसिक्न्यामनुनीतः स्वयम्भुवा । षष्टिं सञ्जनयामास दुहितुः पितृवत्सलाः ॥ दश धर्माय कायेन्दोर्द्विषट् त्रिणव दत्तवान् । भूताङ्गिरः कृशाश्वेभ्यो द्वे द्वे तार्याय चापराः ॥ नामधेयान्यमूषां त्वं सापत्यानां च मे शृणु । यासां प्रसूतिप्र सबैलोंका आपूरितास्त्रयः ॥ । भानुर्लम्बा ककुब्जाभिविश्वा साध्या मरुत्वती । वसुमुहूर्ता सङ्कल्या धर्मपत्न्यः सुताञ् शृणु ॥ ४ ॥ भानोस्तु देवऋषभ इन्द्रसेनस्ततो नृप । विद्योत आसील्लम्बायास्ततश्च स्तनयित्नवः ॥ ५ ॥ ककुभः सङ्कटस्तस्य कीकटस्तनयो यतः । भुवो दुर्गाणि जामेयः स्वर्गो नन्दिस्ततोऽभवत् ।। ६ विश्वेदेवास्तु विश्वाया या अप्रजांस्तान् प्रचक्षते । साध्योगणस्तु साध्याया अर्थसिद्धिस्तु तत्सुतः ॥ ७ ॥ मरुत्वांश्च जयन्तथ मरुत्वत्यां बभूवतुः । जयन्तो वासुदेवांश उपेन्द्र इति यं विदुः ॥ HE ME ८ ॥ कृष्णप्रिया व्याख्या
-
- च त्वं अन्वयः–ततः स्वयंभुवा अनुनीतः प्राचेतसः असिकन्यां पितृवत्सलाः षष्टिं दुहितृः संजनयामास ॥ १ ॥ दश धर्माय द्विषट् काय त्रिणव इंदो: द्वे द्वे भूताङ्गिरः कृशाश्वेभ्यः च अपराः तार्क्ष्याय दत्तवान् ॥ २ ॥ सापत्यानाम् अमूषां नामधेयानि मे शृणु यासां प्रसूतिप्रसवैः त्रयः लोकाः आपूरिताः ॥ ३ ॥ * * * भानुः लंबा : ककुब जामि: विश्वा साध्या मरुत्वती वसुः मुहूर्ता संकल्पा धर्मपत्न्यः सुतान् शृणु ॥ ४ ॥ नृप भानोः देवऋषभः ततः इंद्रसेनः लंबायाः विद्योतः आसीत् ततः च स्तनयित्नवः ॥ ५ ॥ * * ककुभः संकटः तस्य कीकटः तनयः यतः भुवः दुर्गाणि जामेयः स्वर्गः ततः नंदिः अभवत् ।। ६ ।। * विश्वायाः तु विश्वदेवाः तान् अप्रजान् प्रचक्षते साध्यायाः तु साध्यः गणः तत्सुतः तु अर्थसिद्धिः ॥ ७ ॥ च मरुत्वत्यां मरुत्त्वान् च जयन्तः इति उभौ बभूवतुः वासुदेवांशः जयंत: यम् उपेन्द्रः इति विदुः ॥ ८ ॥ ।। ॥ श्रीधरस्वामिविरचिता भावार्थदीपिका
षष्ठे दक्षेण सृष्टायां कन्याषष्ट्रयां प्रकीर्तिताः । पृथग्वंशा यतो जातो विश्वरूपो दितेः सुतात् ॥ १ ॥ नारदात्पुत्राणां नाशमाशंकमानो दुहितृर्जनयामास ॥ १ ॥ * * काय कश्यपाय द्विपट द्विगुणाः पटू द्वादश यासु ताः । त्रयोदशेत्यर्थः । इंदोः सोमाय त्रिणव सप्तविंशति तार्क्ष्याय नामांतरं प्राप्ताय कश्यपायैव अपरा अवशिष्टाश्च- · तस्रः ॥ २ ॥ * * सापत्यानामपत्यसहितानाम् । मे मत्तः शृणु । प्रसूतिप्रसवैः पुत्रपौत्रादिभिः ॥ ३-४ ॥ * * ततो देवऋषभात् इंद्रसेनोऽभवत् ॥ ५ ॥ यतः कीकटाडुवो दुर्गाणि दुर्गाभिमानितो देवाः । जामेयो जाम्याः पुत्रः तत्सुतः साध्यानां सुतः ॥ ७८ ॥ स्वर्गस्तः स्वर्गानंदिः पुत्रोऽभवत् ।। ६ ।। đ * * १. प्रा० पा०. -वक्ष्यपाय द्वि० । २. प्रा० पा० – प्रभवै० । ३. प्रा० पा० - वेद० : ४ प्रा० पा० - ककुदः । ५. प्रा० पा०. यामर्थ० । ६. प्रा० पा० त्वांस्तु | २०६ श्रीमद्भागवतम् वंशीधरकृतो भावार्थदीपिकाप्रकाशः [ स्कं. ६ अ. ६ श्लो. १-८ कन्यायां षष्टिर्दशगुणिता षटू संख्या तस्यां यतः कन्यावंशे दितेः सुतात्त्वष्टुः ( १ ) ततो नारदशापाद्यनंतरं पुत्रशोकेन निर्विण्णः पुनर्ब्रह्मवचनाद्गार्हस्थ्यं कुर्वन्नारदो मयि वैरं न त्यक्ष्यतीति मत्वा तस्मात्पुत्राणां नाशमाशंकमान इति पुत्रीरुत्पाद- यामास । नैष्ठिकोऽयं स्त्रीसंगाविभेतीति भावः । प्राचेतसो दक्षः ॥ १ ॥ इत्यर्थं इति । द्वाभ्यां गुण्यंते बध्यन्ते इति द्विगुणास्ते षड् यासु त्रयोदशसंख्यासु ता द्विषट् । इह वैयधिकरण्ये मध्यमपदलोपः । त्रयोदशसु द्वादशसंख्यायाः संभवादिति भावः । नन्वियं कल्पना कुतः कृता द्वादशैव ताः संत्वितिचेन्न । “ददौ स दश धर्माय कश्यपाय त्रयोदश । कालस्य नयनैर्युक्ताः सप्तविंशतिमिन्दवे ।” इति पुराणांतरोक्तेः । भूताय द्वे अङ्गिरसे द्वे कृशाश्वाय द्वे इति ज्ञेयम् । धर्मादयश्चैते ब्रह्मपुत्र- दक्षजामातृभ्योऽन्ये ज्ञेया इति संदर्भः ॥ २ ॥ * अमूषां षष्टिसंख्याकानाम् ॥ ३ ॥ सुतान् आसाम् पुत्रान् ॥ ४ ॥ * * नृपेति । नृपाणामवश्यं धर्मवंशः श्राव्य इति भावः । ततो विद्योतात् । स्तनयित्नवो मेघाभिमानिनो देवाः ॥ ५ ॥ * * तस्य संकटस्य । ततः स्वर्गाभिमानिनो देवात् ॥ ६ ॥ * * तान विश्वान्देवान् । अप्रजान् संततिरहितान् ॥ ७ ॥ * अस्योपेंद्रत्वं कल्पभेदाभिप्रायेण । चक्रवर्त्ती तु अदित्याः पुत्र उपेन्द्र इव जयंतोऽप्युपेन्द्रसंज्ञ इति व्याचख्यौ ॥ ८ ॥ अन्वितार्थप्रकाशिका * षष्ठे दक्षस्य कन्यानां षष्टशाः प्रकीर्तिताः । विश्वरूपजनिश्चात्र श्लोकाः सार्द्धाः शराब्धयः ( ४५ | | )॥ * तावत्यो ( ४५|| ) अनुष्टुभव कोवाचवागपि दृश्यते || ६ || तत इति । ततः पुत्रशोकेन निर्विण्णः पुनः पूर्वोक्तरीत्या स्वयंभुवा ब्रह्मणा अनुनीतः सान्त्वयित्वा सृष्टौ प्रवर्तितः प्राचेतसो दक्षः पुनर्नारदात् पुत्राणां नाशमाशङ्कमानोऽसिक्न्यां स्वभार्यायां षष्टिं पितृवत्सलाः पितृस्नेहषतीः दुहितृः जनयामास ॥ १ ॥ दशेति । दश धर्माय दत्तवान् । द्विषट् || || द्विगुणिताः षट् द्वादश याः सुताः त्रयोदश काय कश्यपाय दत्तवान् । त्रिनव त्रिगुणिता नव सप्तविंशतिमिन्दोः इन्दवे सोमाय दत्तवान् । द्वे अङ्गिरसे द्वे कृशाश्वाय अपरा: अवशिष्टाश्चतस्रश्च पुनस्तार्क्ष्याय तार्क्ष्यनामान्तरप्राप्ताय कश्यपायैव दत्त- वान् ॥२॥ * * नामेति । सापत्यानाम् अपत्यसहितानाममूषां दक्षकन्यानां नामधेयानि मे मत्तः शृणु । यासां प्रसूतिप्रसत्रैः पुत्रपौत्रादिभिस्त्रयो लोका आपूरिताः ॥ ३ ॥ * भानुरिति । भान्वाद्या धर्मपत्न्यस्तासां सुतान् शृणु स्पष्टम् ॥ ४ ॥ * * भानोरिति । हे नृप ! भानोर्देवऋषभ आसीत् तत इन्द्रसेन आसीत् । अम्बाया विद्योत आसीत् । ततो विद्योतत् स्तनयित्नव आसन् ॥ ५ ॥ ककुभ इति । ककुभः संकटः पुत्रः तस्य संकटस्य कीकटस्तनयोऽभव-
- । दित्यन्वयः । यतः कीकटाद्भुवो दुर्गाभिमानिनो देवा जाताः । जामेयः जाम्याः पुत्रः स्वर्गः ततः स्वर्गान्नन्दिरभवत् ॥ ६ ॥ * विश्वेदेवा इति । प्रचक्षते वृद्धाः कथयन्ति । तत्सुतः तेषां साध्यानां सुतः स्पष्टमन्यत् ॥ ७ ॥ * * मरुत्वानिति । पूर्वार्द्धं स्पष्टम् । तत्र उपेन्दो वासुदेवांशः यं वोपेन्द्र इति विदुः अदितेः पुत्र उपेन्द्र इव जयन्तोऽप्युपेन्द्रसंज्ञः । केचित्तु पूर्वकल्प- वृत्तकथनात्तत्र जयन्त उपेन्द्रः । अस्मिन् कल्पे तु वामनस्योपेन्द्रत्वस्य वक्ष्यमाणत्वात् । अयं धर्मवंशः पाद्मे कल्पे वाराहकल्पे तद्वंशस्य चतुर्थे निरूपितत्वात् तत्रत्यस्य श्रीनारायणस्य विद्यमात्वाच्चेत्याहुः ॥ ८ ॥ J वीरराघवव्याख्या नारदात्पुत्रनाशमाशङ्कमानो दक्षः पुत्रोत्पादन यत्नाद्विरम्य तूष्णीमवस्थितो ब्रह्मणा परिसान्त्वितस्तो दुहितृरजनय- दित्याह मुनिः । तत इति । प्राचेतसो दक्षः स्वयम्भुवानुनीतः अनुसान्त्वितोऽसिक्नयां भार्यायां दुहितुः पितृवत्सलाः षष्टि- सङ्ख्याकाः सञ्जनयामास ॥ १ ॥ * * तासां मध्ये दश कन्यकाः भानुलम्बाद्याख्या धर्मायादात् काय कश्यपाय द्विषडेकां च त्रयोदशेत्यर्थः । अदितिदितिदनुकाष्ठारिष्टासुरसेलामुनिक्रोधवशाताम्रासुरभीसरमातिरम्या इति वक्ष्यमाणाख्या अदात् । इन्दवे सोमाय त्रिणवं त्रयाणां नवानां समाहारस्त्रिणवं सप्तविंशतिसङ्ख्याकाः कृत्तिकारोहिण्याद्याख्या नक्षत्ररूपा अदात् । भूतो रुद्रः भूताङ्गिरः कृशाश्वेभ्यः त्रिभ्यः द्वे द्वे कन्ये अदात्तत्र रुद्रस्य सरूपा अन्या च प्रसिद्धेति भार्ये अङ्गिरसस्तु स्वधा सती चेति द्वे कृशाश्वस्य त्वर्चिर्भीषणा चेति द्वे इति विवेक: । अपरावशिष्टाश्चतस्त्रो दुहितुः तार्क्ष्याय तार्क्ष्यो नाम कश्चिद्देवः तस्मै अदादित्यर्थः ॥ २ ॥ * * अमीषां दक्षस्य दुहितृणां सापत्यानां पुत्रपौत्रादिसहितानां नामधेयानि मे मत्तः शृणु ताः विशिनष्टि । यासां दक्षकन्यानां प्रसूतिप्रसवैः पुत्रपौत्रादिभिः त्रयो लोका आपूरिताः ॥ ३ ॥ तावद्धर्मस्य दश स्कं. ६ अ. ६ श्लो. १-८] अनेकव्याख्यासमलङ्कृतम् २०७ ! ! भार्या निर्दिशति । भानुरिति । भान्वादयः सङ्कल्पान्ताः दश धर्मस्य भार्याः तासां सुतान् क्रमेण शृण्वत्यर्थः ॥ ४ ॥ ** तत्रैकैकस्याः सन्तानं क्रमेणाह । भानोस्त्विति । भानोर्धर्मभार्यायां देवः ऋषभ इति द्वौ पुत्रौ तत ऋषभादिन्द्रसेनः हे नृप लम्बायां विद्योतः पुत्र आसीत्ततो विद्योतारस्तनयित्नवः विद्युत्स्तनयित्नुशब्दौ तदभिमानिदेवतापरौ ॥ ५ ॥ ककुभः भार्यायाः कीकटस्तनयः यतः कीकटात्सङ्कटः तनयोऽभवदित्यन्वयः । जामेयाः जाम्याः पुत्राः भूमेर्दुर्गाणि दुर्गाभिमानिनो देवाः ततः जामेयेभ्यः स्वर्गो नन्दिश्चाभवत् ॥ ६ ॥ * * विश्वायां धर्मस्य भार्यायां विश्वेदेवाख्याः पुत्रा बभूवुः । तान् विश्वेदेवानप्रजानपुत्रान् प्रचक्षते कथयन्ति । साध्यायां साध्यगणाः बभूवुः तत्सुतः साध्यगणासुतस्त्वर्थसिद्धोऽभूत् ॥ ७ ॥ * * मरुत्वत्यां तु मरुत्वान् जयन्तश्चेति द्वौ पुत्रौ बभूवतुः । तत्र जयन्तो वासुदेवस्य भगवतोऽशभूतः यं जयन्तमुपेन्द्र इति विदुः बसोवंशस्य भूयस्त्वादन्ते निर्देशः ॥ ८ ॥ विजयध्वजतीर्थकृता पदरत्नावली सदसज्जनतारतम्यज्ञानं च भगवन्माहात्म्यज्ञानोपयोगीत्यभिप्रेत्य दक्षपत्म्यसिक्नी प्रसूतिप्रसरं प्रपञ्चयत्यस्मिन्नध्याये । ततः प्राचेतस इत्यादिना ॥ १ ॥ * कालस्य नयने ज्ञापने युक्ताः योग्याः सप्तविंशतिं ददाविति शेषः । अपराः षट्पञ्चाशत्सङ्ख्या नाभ्यः शिष्टाश्चतस्रः कन्यास्तार्याय ददाविति शेषः ॥ २ ॥ * * सापत्यानामपत्यतदपत्यादिभिः सहितानां प्रसूतिप्रभवैः पुत्रपौत्रादिभिः भान्वादीनां सपुत्राणां नामधेयं मे मम सकाशादिति शेषः ।। ३-४ ॥ * * ततो देवर्षभात । तत: । इन्द्रसेनात् ॥ ५ ॥ * * यतः सङ्कटात् जामीपुत्राः जामेयाः दुर्गाण्यगम्यस्थानाभिमा- निनः ॥ ६ ॥ * अप्रजान् पुत्ररहितान् । तत्सुतः साध्यगणसुतः ।। ७-८ ।। । जीवगोस्वामिकृतः क्रमसन्दर्भ : धर्मादयोऽप्येते पूर्वदक्षजामातृभ्योऽन्ये इति ज्ञेयाः ॥ १-९ ॥ विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी षष्ठे दक्षस्य कन्यानां वंशाः पृथगुदीरिताः । यत्रादितेः सुतात्त्वष्टुर्विश्वरूपोऽभ्यजायत । ॥ पुत्रशोकेन निर्विण्णः पुनर्ब्रह्मवचनाद् गार्हस्थ्यं कुर्व्वन् नारदो मयि वैरं न हास्यतीति मत्वा तस्मात् पुत्राणां नाशमा- शङ्कमानः कन्या एवं जनयामासेत्याह । तत इति । असिक्न्यां भाय्र्यायाम् ॥ १ ॥ * काय कश्यपाय द्विषट् द्विगुणिताः षट् द्वादशेति न्यून सङ्घयाव्यवच्छिन्ना तेन त्रयोदश इत्यर्थः । इन्दवे सोमाय त्रिणवं त्रिगुणिता नव सप्तविंशति द्वे द्वे इति । भूताय द्वे अङ्गिरसे द्वे कृशाश्वाय द्वे । अपरा अवशिष्ठाश्चतस्रः तार्याय तार्क्ष्यनाम्ने कश्यपायैव ।। २५ ।। * * यतः । कीकटात भुवो दुर्गाणि दुर्गाभिमानिनो देवाः यामेयः याम्याः पुत्रः स्वर्गः ॥ ६ ॥ * तत्सुतः । साध्यानां सुतः ॥ ७ ॥ * * यं विदुरित्यदित्याः पुत्र उपेन्द्र इव जयन्तोऽप्युपेन्द्रसंज्ञ इत्यर्थः ॥ ८-११ ॥ शुकदेवकृतः सिद्धांत प्रदीप : अथ दक्षकन्योद्भवेन्द्रादिपोषणं वक्तुं दक्षकन्या वंशानाह | षष्ठेनाध्यायेन । ततस्तदनन्तरमनुनीतः सा- न्त्वितः ॥ १ ॥ * * ता भर्तृभिर्योजितवानित्याह । दुहितुः धर्माय काय कश्यपाय द्विषडू द्विगुणाः षड् द्वादश या सुताः त्रयोदश । इन्दोश्चन्द्रस्य त्रिणव सप्तविंशति भूतादिभ्यो द्वे द्वे । अपराः शेषाः चतस्रः तार्क्षाय नामान्तरं गताय कश्यपायैव दत्तवान् ॥ २ ॥ * मे । मत्तः प्रसूतिप्रसवैः पुत्रपौत्रादिभिः ॥ ३ ॥ * * ततो वेदऋषभतः ॥ ५ ॥ दुर्गाणि । तदभिमानिनो देवाः ।। ६ ।। तत् । तेषां साध्यानाम् ॥ ७-६ ।। ।। गोस्वामिगिरिधरलाल विहिता बालप्रबोधिनी षष्ठे तु दक्षकन्यानां वंशा हरिप्रसादतः । देवासुरादिभेदेन विस्तृता विनिरूपिताः ॥ १ ॥ ॥ ॥ * * ततो मुनिविनिगमनानन्तरं पुत्रशोकेन निर्विण्णः पुनः पूर्वोक्तरीत्या स्वयम्भुवा ब्रह्मणा अनुनीतः सान्त्वयित्वा सृष्टौ प्रवर्त्तितः प्राचेतसो दक्षः पुनर्नारदात् पुत्राणां नाशमाशङ्कमानोऽसिक्न्यां स्वभार्यायां षष्टिं दुहितुः सञ्जनयामासेत्यन्वयः । २०५ श्रीमद्भागवतम् [ स्कं. ६ अ ६ लो. १८ तास्तु तन्मनोरथपूरिका जाता इत्यभिप्रेत्याह– पितृवत्सला इति ॥ १ ॥ तासां विनियोगमाह-दशेति । दश धर्माय दत्तवान् । द्विषट् द्विगुणिताः षट् द्वादशे यासु ताः त्रयोदश काय कश्यपाय दत्तवान । त्रिणव त्रिगुणिता नव सप्तविंशति- मिन्दो: इन्दवे सोमाय दत्तवान् । द्वे भूताय दत्तवान् द्वे अङ्गिरसे दत्तवान् । द्वे कृशाश्वाय दत्तवान् । अपरा: अवशिष्टाश्चतस्रश्च पुनः ताय तार्क्ष्यनामान्तरप्राप्ताय कश्यपायैव दत्तवान् ॥ २ ॥ सापत्यानां अपत्यसंहितानां अमूषां दिक्षकन्यानां नामधेयानि मे मत्तस्त्वं शृणु । प्रसूतिप्रसवैः पुत्रपौत्रादिसन्ततिभिः ॥ ३ ॥ * धर्मपत्नीनामा न्याह - भानुरित्यादि । सुतान् तासां सुतान् ॥ ४ ॥ * ततो देवऋषभात् आसीदिति क्रियान्वयः । तत्तश्च विद्योतात् स्तनयित्नव आसन्निति विपरिणतेनान्वयः ॥ ५ ॥ तस्य सङ्कटस्य की कटस्तनयोऽभवदित्यन्वयः । यतः कीकटाद्भुवो दुर्गाभिमानिनो देवा
- जाताः । जामेयः जाम्याः पुत्र स्वर्गः । ततः स्वर्गान्नन्दिरभवत् || ६ || प्रचक्षते वृद्धाः कथयन्ति । तत्सुतः । तेषां साध्यानां सुतः ॥ ७ ॥ * * पूर्वकल्पवृत्तकथनात् तत्र जयन्त उपेन्द्रः । अस्मिन् कल्पे तु वामनस्योपेन्द्रत्वस्य वक्ष्य- माणत्वात् । अयं धर्मवंशः पाद्म े कल्पे वाराहकल्पे तद्वंशस्य चतुर्थे निरूपितत्वात् तत्रत्यस्य श्रीनारायणस्य विद्यमान- त्वाच्चेति ज्ञेयम् ॥ ८ ॥ भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी दक्षसृष्टसुताषष्टयां षष्ठे प्रोक्ताः पृथक् पृथक् । वंशा यत्र समुद्भूतो विश्वरूपो दितेः सुतात् ॥ १ ॥ नारदात्पुत्रनाशमाशङ्कमानो दक्षः पुत्रोत्पादनयत्नाद्विरम्य तूष्णीमवस्थितो ब्रह्मणा परिसान्त्वितो दुहितुरजनयदित्याह मुनिः । ततः इति । ततः स्वयंभुवा ब्रह्मणा, अनुनीतः, प्राचेतसो दक्षः, असिक्न्यां भार्यायां पितृवत्सलाः, षष्टि षष्टिसंख्याकाः, दुहितुः सुताः, संजनयामास ॥ १ ॥ ॐ दशेति । तासां मध्ये इति शेषः सुताः, धर्माय प्रजापतये, दत्तवान । काय कश्यपाय, द्विगुणाः षट् यासु ताः, द्विषट् त्रयोदशेत्यर्थः । दत्तवान् ददौ स दश धर्माय कश्यपाय त्रयोदश’ इति विष्णुपुराणोक्ते- रेवमर्थः संपादितः । इन्दोः सोमायेत्यर्थः । त्रिगुणाः नव त्रिनव त्रिणवेत्यार्षम् । ‘पूर्वपदात्संज्ञायामगः’ इति णत्वाभावात् । सप्तविंशतिसंख्याका इत्यर्थः । दत्तवान् । ‘कालस्य नयने युक्ताः सप्तविंशतिमिन्दवे’ इत्यपि विष्णुपुराणोक्तेः । भूतो रुद्रश्च अपरा अङ्गराश्च कृशाश्वश्व तेभ्यः द्वे द्वे कन्यके, दत्तवान् श्वतस्रः, तार्क्ष्याय नामान्तरं प्राप्ताय कश्यपायैव । तथा च । मत्तः, विष्णुपुराणे ’ चतस्रोऽरिष्टनेमिने’ इति । अत्रैव भूतस्थाने बहुपुत्रशब्द उक्तोऽस्ति ‘द्वे चैव बहुपुत्राय द्वे चैवाङ्गिरसे तथा । द्वे कृशाश्वाय विदुषे तासां नामानि मे शृणु’ इत्यत्र ॥ २ ॥ * नामधेयानीति । यासां दक्षदुहितॄणां प्रसूतिप्रसवैः पुत्रपौत्रादिभिः त्रयः लोकाः आपूरिताः । सापत्यानां पुत्रपौत्रादिसहितानाम् अमूषां दक्षदुहितृणां नामधेयानि मे त्वं शृणु ॥ ३ ॥ * तावदत्रादौ धर्मस्य दश भार्या निर्दिशति । भानुरिति । भानुः, लम्बा, ककुप, जामि, विश्वा, साध्या, मरुत्वती, वसुः, मुहूर्त्ता, संकल्पा, एताः, दश धर्मपत्न्यः सुतस्तासां पुत्रान् शृणु ॥ ४ ॥ * * तत्रैकैकयाः संतानं क्रमेणाह । भानो- रिति । हे नृप, भानोर्भानुसंज्ञाया धर्मपत्न्याः, वेदऋषभः पुत्रः आसीत् । ततो वेदऋषभात्, इन्द्रसेनः पुत्र, आसीत् । अत्र कश्चित्तु भानोर्धर्मभार्यायाः, वेदेन युक्तो ऋषभ एवं वेदो ऋषभश्चेति द्वौ पुत्रौ इति, तत्र ऋषभादिन्द्रसेन इति च व्याख्यातवान् । लम्बाया धर्मस्य द्वितीयभार्यायाः, विद्योतः पुत्रः आसीत् । ततो विद्योतात्, स्तनयित्नवः आसन् । अत्र विद्योतस्तनयित्नुशब्दौ तदभिमानिदेवतापरौ बोध्यौ ॥ ५ ॥ ककुभ इति । ककुभः ककुबाख्यायाः धर्मस्य तृतीयभार्यायाः, संकटः तनयः अभवत् । तस्य संकटस्य, तनयः कीकटः अभवत् । यतः कीकटात्, भुवः दुर्गाणि भूगतदुर्गाभिमानिनो देवाः अभवन् । जामेयः जामिसंज्ञाया धर्मचतुर्थपत्न्याः पुत्रः, स्वर्गः अभवत् । ततः स्वर्गात्, नन्दिः पुत्रः अभवत् । अत्र केचित्तु जामेया इति बहुवचनं पठित्वा जामेयाः भुवः दुर्गाणि ततो जामेयेभ्यः स्वर्गो नन्दिश्चाभवत् इति व्याचख्युः ॥ ६ ॥ * * विश्वेदेवा इति । विश्वायाः विश्वाख्याया धर्मस्य पञ्चम्या भार्यायाः, विश्वेदेवाः सुताः अभवन् । तांस्तु, अप्रजान् प्रचक्षते साध्यायाः साध्याख्यधर्मषष्ठभार्यायाः तु, साध्यः गणः सुतः । तत्सुतः साध्यगणसुतः, अर्थसिद्धिः, तुरवधारणे । अभवदिति शेषः ॥ ७ ॥ * * मरुत्वानिति । मरुत्वत्यां मरुत्वतीसंज्ञायां सप्तमधर्मपत्न्यां, मरुत्वानेतन्नामा पुत्रः, जयन्तो जयन्त- नामा पुत्रश्च बभूवतुः । द्वितीयश्चकारोऽवधारणे । तत्र जयन्तः वासुदेवांशः यं जयन्तं, उपेन्द्रः इति विदुः ॥ ८ ॥
। भाषानुवादः दक्षप्रजापतिकी साठ कन्याओंके वंशका विवरण श्रीशुकदेवजी कहते हैं - परीक्षित्! तदनन्तर ब्रह्माजीके बहुत अनुनय-विनय करनेपर दक्षप्रजापतिने अपनी पत्नी असिक्नीके गर्भ से साठ कन्याएँ उत्पन्न कीं । वे सभी अपने पिता दक्षसे बहुत प्रेम करती थीं ॥ १ ॥ * दक्षप्रजापतिनेस्कं. ६ अ. ६ श्लो. ९-१६ ] अनेकव्याख्यासमलङ्कृतम् * २०९ उनमें से दस कन्याएँ धर्मको, तेरह कश्यपको, सत्ताईस चन्द्रमाको, दो भूतकों, दो अङ्गिराको, दो कृशाश्वको और शेष चार तार्क्ष्यनामधारी कश्यपको ही व्याह दीं ॥ २ ॥ * * परीक्षित् ! तुम इन दक्षकन्याओं और इनकी सन्तानों के नाम मुझसे सुनो। इन्हींकी वंशपरम्परा तीनों लोकों में फैली हुई है ॥ ३ ॥ * * धर्मकी दश पत्नियाँ थीं-भानु, ककुभू, जामि, विश्वा, साध्या, मरुत्वती, वसु, मुहूर्ता और सङ्कल्पा । इनके पुत्रोंके नाम सुनो ॥ ४ ॥ राजन् ! भानुका पुत्र देवऋषभ और उसका इन्द्रसेन था । लम्बाका पुत्र हुआ विद्योत और उसके मेघगण ॥ ५ ॥ * * ककुभ्का पुत्र हुआ सङ्कट, उसका कीकट और कीकटके पुत्र हुए पृथ्वी के सम्पूर्ण दुर्गों ( किलों ) के अभिमानी देवता । जामिके पुत्रका नाम था स्वर्ग और उसका पुत्र हुआ नन्दी || ६ || विश्वाके विश्वेदेव हुए । उनके कोई सन्तान न हुई । साध्यासे साध्यगण हुए और उनका पुत्र हुआ अर्थसिद्धि ॥ ७ ॥ * मरुत्वतीके दो पुत्र हुए- मरुत्वान् और जयन्त । जयन्त भगवान् वासुदेव के अंश हैं, जिन्हें लोग उपेन्द्र भी कहते हैं ॥ ।
- ८ ॥ १० ॥ ११ ॥ १२ ॥ मौहूर्तिका देवगणा मुहूर्तायाश्च जज्ञिरे । ये वै फलं प्रयच्छन्ति भूतानां स्वस्वकालम् ॥ ९ ॥ सङ्कल्पायाश्च सङ्कल्पः कामः सङ्कल्पजः स्मृतः । वसवोऽष्टौ वसोः पुत्रास्तेषां नामानि मे शृणु ॥ द्रोणः प्राणो ध्रुवोकोऽग्निर्दोषो वसुर्विभावसुः । द्रोणस्याभिमतेः पत्न्या हर्षशोकभयादयः ॥ प्राणस्योर्जस्ती भार्या सह आयुः पुरोजवः । ध्रुवस्य भार्या धरणिरसूत विविधाः पुरः ॥ अर्कस्य वासना भार्या पुत्रास्तर्षादयः स्मृताः । अग्नेर्भार्या वसोर्धारा पुत्रा द्रविणकादयः ॥ स्कन्दश्व कृत्तिकापुत्रो ये विशाखादयस्ततः । दोषस्य शर्वरीपुत्रः शिशुमारो हरेः कलाः वसोराङ्गिरसीपुत्रो विश्वकर्मा कृतीपतिः । ततो मनुश्चानुषोऽभूद् विश्वे साध्या मनोः सुताः विभावसोरतोषा व्युष्टं रोचिषमातपम् । पञ्चयामोऽथ भूतानि येन जाग्रति कर्मसु कृष्णप्रिया व्याख्या ॥ १३ ॥ १४ ॥ ॥ १५ ॥ ॥ १६ ॥ ॥ ९ ॥ * * अन्वयः - च मुहूर्तायाः मौहूर्तिकाः देवगणाः जज्ञिरे ये वै भूतानां स्वस्वकालजं फलं प्रयच्छन्ति संकल्पायाः संकल्पः च संकल्पजः कामः स्मृतः वसोः पुत्राः अष्टौ वसवः तेषां नामानि मे शृणु ॥ १० ॥ * * द्रोणः प्राणः ध्रुवः अर्कः अग्निः दोष: वसुः विभावसुः द्रोणस्य अभिमतेः पत्न्याः हर्षशोकभयादयः ॥ ११ ॥ * * प्राणस्य ऊर्जस्वती भार्या च सहः आयुः पुरोजवः ध्रुवस्य भार्या धरणिः विविधाः पुरः असूत ।। १२ ।। * अर्कस्य भार्या वासना पुत्राः तर्षादयः स्मृताः अग्नेः भार्या वसोर्धारा च पुत्राः द्रविणकादयः ॥ १३ ॥ * * च कृत्तिकापुत्रः स्कंद : ये विशाखादयः ते ततः आसन दोषस्य शर्वरीपुत्रः शिशुमारः ॥ १४ ॥ * * वसोः आंगिरसीपुत्रः आकृतीपतिः विश्वकर्मा ततः चाक्षुषः मनुः अभूत् मनोः विश्वे साध्याः सुताः ।। १५ ।। * विभावसोः उषा व्युष्टं रोचिषम् आतपम् असूत अथ पश्यामः येन भूतानि कर्मसु जाति ॥ १६ ॥ ; श्रीधरस्वामिविरचिता भावार्थदीपिका । वसोवंशस्य भूयस्त्वादते निर्देशः । मे मत्तः ॥ १० ॥ * * अभिमतिर्नाम पत्नी तस्या हर्षादयः पुत्राः ॥ ११ ॥ * * अहश्वायुश्च पुरोजवश्च पुत्राः । पुरः पुराणि ।। १२-१३ ॥ * स्कंदच कृत्तिकासुतोऽग्नेः पुत्रः षाण्मातुर इत्यभिभूरिति च प्रसिद्धेः । ततः स्कंदात् विशाखादयोऽभवन् । १४ ॥ * * आकृतीपतिः शिल्पाचार्यः । ततो विश्वकर्मणश्चाक्षुष मनुरासीत् ।। १५ ।। * * विभावसोरुषा नाम भार्या । अथ आतपात्पंचयामो दिवसो जात: । अत एव रात्रिस्त्रियामा प्रदोषप्रत्यूषयोदिवसस्यावयवत्वात् । येन दिवसेन ॥ १६ ॥ १. प्रा० पा० सुतः । २. प्रा० पा० मता: । ३. प्रा० पा० www. २७
- रसः : पु० 1 २१० | श्रीमद्भागवतम् वंशीधरकृतों भावार्थदीपिकाप्रकाशः मौहूर्तिका मुहूर्त्ताभिमानिनः ॥ ६ ॥ वसोर्वसुसंज्ञकन्यायाः ॥ १० ॥ [ स्कं. ६ अ. ६ श्लो. ९-१६
-
- हर्षाद्यभिमानिन आदिपदगृहीता एव हर्षादिपदैरुच्यते । आदिना मोहादिग्रहः ॥ ११ ॥ * * ऊर्जस्वतीति सप्तम्यर्थे प्रथमा । ऊर्जस्वत्यां भार्यायां सहादयः । पुत्राः पुराणि तदभिमानि देवाः ॥ १२ ॥ * * * इहोभयत्रादिपदगृहीतपुत्राः पुराणांतरादवसेयाः । अग्नेर्वसोर्धारानाम भार्या । तीर्थस्तु - वसोः पुत्र त्याग्नेर्धारा नाम स्वाहापरपर्याया भार्येति व्याचख्यौ || १३ || भरतादिभ्योऽवसेयाः । कृत्तिकानां धात्रीत्वेन तत्पुत्रत्वव्यवहारः । मुख्यतस्तु —– सदाशिवपुत्र एव स इति विशेषतो वर्णितं महाभारते शार्वरीसंज्ञभार्यायां जातः पुत्रः शिशुमारसंज्ञोऽभूत् । हरेर्विष्णोः कला उपासनास्थानं च तद्विश्वनाभिमतिवर्त्य विष्णोरित्युक्तेर्य एतदुहैव ॥ भगवतो मायामयं रूपमित्युक्तेश्च ॥ १४ ॥ * * अंगिरस्यां जातः पुत्रः अयं ध्रुववंशे जातोपि दक्षवशिष्ठादिवत्पुनरत्र जात इति गम्यते । एवं विश्वे साध्या अपि धर्मपुत्राः पुनस्तत्प्रपौत्रभावञ्च प्राप्ता इति ज्ञेयम् ॥ १५ ॥ * * अत एव दिवसस्य पञ्चयामत्वादेव । प्रत्येकं द्विद्विमुहूर्त्तात्मकयोः प्रत्यूषप्रदोष योर्दिवसस्यैवाद्यंताव- यवत्वम् । यत्तु ‘प्रदोषो रजनीमुखम्’ इति रात्र्यवयवत्वमुक्तं तन्नावयवाभिप्रायं किन्त्वाद्याभिप्रायमिति । अथ कार्त्स्न्येन येन पञ्चयामेन भूतानि जीवाः ॥ १६ ॥ अन्वितार्थप्रकाशिका SEPRI ।। मौहूर्तिका स्तत्तन्मुहूर्ताभिमानिनः स्पष्टमन्यत् ॥ ६ ॥ * * संकल्पाया इति ॥ स्पष्टम् । कामः पूर्व ब्रह्म- पुत्रत्वेनोक्तः । अत्र तु संकल्पपुत्र इत्यपि कल्पभेदज्ञापकम् ॥ १० ॥ वसुनामान्याह - द्रोण इत्यादि । द्रोणस्याभि- मतिर्नाम पत्नी तस्या हर्षादयः हर्षाद्यन्तः करणवृत्त्यभिमानिनो देवाः पुत्राः । इदमपि कल्पान्तरवृत्तं दशमे । द्रोणभार्याया धरेति नाम्नो वक्ष्यमाणत्वात् हर्षादीनां चतुर्थस्कन्धे धर्माधर्मयोर्वशे निरूपितत्वाच्च ॥ ११ ॥ * * प्राणस्येति । प्राणस्य ऊर्जस्वती भार्या तस्याः सहः आयुः पुरोजवः इति त्रयः पुत्राः । ऊर्जस्वती भार्येति सप्तम्यर्थे प्रथमेत्येके । पुरः तत्पुराभिमा- निनीर्देवताः शेषम उत्तरार्द्ध स्पष्टम् ॥ १२ ॥ * * अर्कस्येति । स्पष्टम् ॥ १३ ॥ स्कन्द इति । स्कन्द- वाग्निपुत्रः धात्रीत्वेन कृत्तिकापुत्रः कृत्तिका चाग्नेर्भार्या | वस्तुतः स्कन्दः शिवपुत्रः ये विशाखादयस्ते ततः स्कन्दाज्जाताः दोष स्य भार्या शर्वरी तत्पुत्रः शिशुमारः स च हरेः कला ॥ १४ ॥ * वसोरिति । वसोर्भार्या आङ्गिरसी तत्पुत्रो विश्वकर्मा आकृत्याः पतिः शिल्पाचार्यः ततो विश्वकर्मणश्चाक्षुषो मनुरभूत् । ध्रुववंशजोऽप्यसौ दक्षादिवदत्रापि जातः । केचित्तु एतदपि कल्पान्तरत्वज्ञापकं चतुर्थे । “स चक्षुः सूतमाकृत्यां पत्न्यां मनुमवाप हु” । इति सर्वतेजसः पुत्रत्वोक्तेः । विश्वे - साध्याश्च मनोः सुताः ॥ १५ ॥ विभावसोरिति । विभावसोर्भार्या उषा व्युष्टादिपुत्रत्रयमसूत । चतुर्थे तु " प्रदोषो निशिथो व्युष्ट इति दोषासुतास्त्रयः ।” इत्युक्तं तदपि कल्पान्तरवृत्तमिति ज्ञेयम् । अथ आतपात्पश्र्चयामो दिवसाभिमानी जातः अत एव रात्रित्रियामा प्रदोषप्रत्यूषयोर्दिवसावयवत्वात् येन पञ्चयामेन हेतुना भूतानि कर्मसु जाग्रति प्रवर्तन्ते ।। १६ ।। । वीरराघवव्याख्या ि
मुहूर्त्तायां भार्यायां मौहूर्त्तिका मुहूर्त्ताभिमानिनो देवगणा उद्बभूवुः । तान् विशिनष्टि । ये वै मौहूर्त्तिकाः स्वस्वम्- हूर्त्तकालजं सुखदुःखादिरूपं फलं भूतानां देहिनां प्रयच्छन्त्यर्पयन्ति ॥ ९ ॥ ॐ सङ्कल्पायाः सङ्कल्पस्तनयोऽभूत् । कामस्तु सङ्कल्पाज्जात इति स्मृतिः । वसोः पुत्रास्त्वष्टौ वसवः । तेषां नामानि मे मत्तः शृणु ॥ १० ॥ * * द्रोणादयो विभावस्वन्ता अष्टौ वसवः । तत्र द्रोणादीनां सन्तानमाह क्रमेण । द्रोणस्येति । द्रोणस्याभिमतिः पत्नी तस्या हर्षादयस्तनया बभूवुः ॥ ११ ॥ प्राणस्य तु ऊर्जस्वती भार्या तस्याः पुत्रा आयुः सहपुरोजवाः ध्रुवस्य धरणिर्भार्या सा च विविधाः पुरः पुराणि पुराभिमानिनो देवानसूत ॥ १२ ॥ * * अर्कस्य तु भार्या वासना तस्यास्तर्षादयः पुत्राः । अग्नेस्तु भार्या वसोर्धारा तस्यास्तनयावकाः ॥ १२ ॥ * * स्कन्दः कुमारस्त्वनैरेव कृत्तिकासु उ जातः षाण्मातुर इत्यग्नि- भूरिति च प्रसिद्धेः । ये विशाखादयस्ते ततः स्कन्दाज्जाताः दोषस्य तु भार्या शर्वरी तस्याः पुत्रः शिशुमारः । स च हरे: कलांशभूतः ॥ १४ ॥ * * वसोराङ्गिरसी भार्या तस्याः पुत्रो विश्वकर्मा स च कृतीपतिः शिल्पाचार्यः ततो विश्वकर्मणः चाक्षुषाख्यो मनुरभून्मनोश्चानुषस्य विश्वे साध्याः सुता बभूवुः ।। १५ ।। * * विभावसोर्भार्या उषा सा च व्युष्टं रोचिषं चातपं च पुत्रानसूत प्रसूतवती अथातपात्पञ्चयामः दिवसः । अत एव रात्रित्रियामा प्रदोषप्रत्यूषयोः पूर्वोत्तरदिवसाव- यवत्वात्पञ्चयामशब्दः तदभिमानि देवपरः । तं विशिनष्टि । येन पञ्चयामेन भूतानि प्राणिनः कर्मसु स्वस्वव्यापारेषु जाप्रति जागरूकाणि भवन्तीत्यर्थः ॥ १६ ॥ । ।। स्क्र. ६ अ. ६ श्लो. ९-१६ ] अनेकव्याख्यासमलङ्कृतम् विजयध्वजतीर्थकृता पदरत्नावली २११ मौहूर्तिका: मुहूर्ताभिमानिनः यथाफलं यथोचितं फलं स्वस्वमुहूर्तजम् ॥ ६-१० ॥ * अभिमतिः अभिमानि- देवता हर्षादयः हर्षाद्यन्तःकरणदेवताः ॥ ११ ॥ * * सहआयुः प्रभृतयः पुत्राः । पुरः पुराभिमानिदेवताः ॥ १२ ॥ * * वसोः पुत्रस्याग्नेर्भार्या धारा स्वाहापरपर्याया द्रविणकादयस्तत्पुत्राः ॥ १३ ॥ * * स्कन्दश्चानिपुत्रः धात्रीत्वेन कृत्ति- कापुत्रः उपचारमात्रमेतत् मुख्यतस्तु सदाशिवपुत्रः ये विशाखादयस्ते ततः स्कन्दाज्जाताः । दोषभार्या शर्वरी तत्पुत्रः शिशुमारः । कोऽसाविति तत्राह । हरेरिति ॥ १४ ॥ * * वसोर्भार्याङ्गिरसी तत्पुत्रः विश्वकर्मा कृतिपतिः कृतीनां शिल्पानाम् इरिच्छा तस्याः पतिः शिल्पिनां कुलाचार्य इत्यर्थः । कृत्याः देव्याः पतिरिति वा ततो विश्वकर्मणः ॥ १५ ॥ * * अथ पचयामो दिवसाभिमानी आतपाज्जात इति शेषः । येन पञ्चयामेन ॥ १६ ॥ जीवगोस्वामिकृतः क्रमसन्दर्भः वसोवंशस्य भूयस्त्वादन्ते निर्देशः मे मत्तः ॥ १४ ॥ * अभिमतिर्नाम पत्नी तस्या हर्षादयः ।। ११-१४ ॥ ततो मनुरित्यर्द्धकम् । अयं ध्रुववंशेऽपि पूर्व जातोऽपि दक्षवशिष्ठादिवत् पुनरत्र जात इति गम्यते ।। १५-४२ ॥ ततो P विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी ऊर्जस्वतीति सप्तम्यर्थे प्रथमा ॥ १२ ॥ * * कृत्तिकाश्चाग्नेर्भार्या ॥ १३–१४॥ * * आकृत्याः पतिः मनुश्चाक्षुष इति ध्रुववंशजोऽप्यसौ दक्षवशिष्टादिवदत्रापि जात इति गम्यते ।। १५ ।। पञ्चयामः । प्रदोषप्रत्यूषयोर्दिवसावयवत्वात् पञ्चयामो दिवसः । अत एव रात्रिलियामा ॥ १६ ॥ मे मत्तः ॥ १० ॥ शुकदेवकृतः सिद्धांत प्रदीपः १२ ४ ४ अथ आतपात्
- अभिमतिः पत्नी तस्याः ॥ ११ ॥ * * प्राणस्योर्जस्वती भार्या सहआदय: सुताश्च ।। १२-१३ ।। atith
- कृत्तिकापुत्रः कृत्तिकासु जातः स्कन्दश्चाग्नेः पुत्रः ततः स्कन्दात् दोषस्य शर्वरीपुत्रः शर्वर्यां जातः शिशुमारः पुत्रः ॥ १४ ॥ * * * वसोराङ्गिरसीपुत्रः अङ्गिरस्यां जातो विश्वकर्मा स च कृतीपतिः शिल्पाचार्यः ततो विश्वकर्मणश्चाक्षुषो मनुरभूत मनोर्विश्वे साध्याः पुत्राः अभूवन् ।। १५ ।। * * विभावसोः सकाशादुषा व्युष्टादीन श्रीनसूत तत्रातपात् पञ्चयामो दिवसो जातः । प्रदोषप्रत्यूषयोः रात्रिगतयोरपि स्नानादिक्रियार्थं दिवसे गृहीत्वreat after- यामेति वस्तुतस्तु “यामाश्चत्वारो मर्त्यानामहनी उभे " इति मुख्यो व्यवहारः प्राक् प्रदर्शित एव ॥ १६ ॥ 1 गोस्वामिगिरिधरलालविहिता बालप्रबोधिनी मौहूर्त्तिकास्तत्तन्मुहुर्त्ताभिमानिनः ॥ ९ ॥ * ॐ कामः पूर्व ब्रह्मपुत्रत्वेनोक्तः । अत्र तु सङ्कल्पपुत्र इत्यपि कल्पभेदज्ञापकम् । मे मत्तः ॥ १० ॥ वसुनामान्याह–द्रोण इति । द्रोणस्याभिमतिर्नाम पत्नी तस्या हर्षादय: हर्षाद्यन्तःकरणवृत्त्यभिमानिदेवाः पुत्राः । इदमपि कल्पान्तरवृतं दशमे द्रोणभार्याया धरेति नाम्नो वक्ष्यमाणत्वात् । हर्षादीनां चतुर्थस्कन्धे धर्माधर्मयोर्वशे निरूपितत्वाच्च ॥ ११ ॥ * * सहः आयुः पुरोजवः इति त्रयः पुत्राः पुरः तत्तत्- पुराभिमानिदेवताः ।। १२–१३ ॥ 83 * स्कन्दश्चाग्निपुत्रः, धात्रीत्वेन कृत्तिकापुत्रः, मुख्यतस्तु सदाशिवपुत्रः । ये विशाखा- दयस्ते ततः स्कन्दाज्जाताः । दोषस्य भार्या शर्वरी तत्पुत्रः शिशुमारः ॥ १४ ॥ * * वसोर्भार्या आङ्गिरसी तत्पुत्रो विश्वकर्मा आकृतीपतिः शिल्पाचार्यः । ततो विश्वकर्मणश्चानुषो मनुरभूत् । एतदपि कल्पान्तरत्वज्ञापकं चतुर्थे । ‘स चक्षुः सूतमाकृत्यां पत्न्यां मनुमवाप ह’ इति सर्वतेजसः पुत्रत्वोक्तेः ।। १५ ।। * * विभावसोर्भार्या उषा । व्युष्टादि पुत्रत्रयम- सूत । चतुर्थे तु प्रदोषो निशिथो व्युष्ट इति दोषासुतास्त्रय इत्युक्तं तदपि कल्पान्तरवृत्तमिति ज्ञ ेयम् । अथ आतपात् पञ्चयामो दिवसाभिमानी जातः, अतएव रात्रित्रियामा, प्रदोषप्रत्युषयोर्दिवसावयवत्वात् । कर्मसु जाग्रति प्रवर्तन्ते ॥ १६ ॥ । UDE PISC भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी क्रमप्राप्तं धर्माष्टमपत्न्या वसोवंशं भूयस्त्वात्समुल्लङ्घ्य नवम्या मुहूर्त्ताख्यधर्मपत्न्या वंशमुक्त्वा तं त्वन्तेऽभिधास्यते । मौहूत्तिका इति । मुहूर्त्ताया मुहूर्त्ताख्याया धर्मनवमपत्न्याः सकाशात्, मौहूर्त्तिका मुहूर्त्ताभिमानिनो देवगणाश्च जज्ञिरे २१२ I श्रीमद्भागवतम्
[ स्कं. ६ अ. ६ श्लो. १७-२४ बभूवुः वै । ये मौहूर्त्तिकाः, भूतानां स्वस्वकालजं फलं, प्रयच्छन्ति समर्पयन्ति ॥ ९ ॥ संकल्पाया इति । संकल्पायाः संकल्पाख्यदशमधर्मपत्न्याः, संकल्पः संकल्पाधिदेवस्तनयः, अभवत् । संकल्पजः संकल्पतः समुत्पन्नः कामः स्मृतः । संकल्पसुतः काम इत्यर्थः । वसोः वस्वाख्याष्ट्रमधर्मपत्न्याः, अष्टौ वसवः पुत्राः तेषां नामानि मे मत्तः शृणु ॥ १० ॥ द्रोण इति । द्रोणः प्राणः, ध्रुवः, अर्क:, अग्निः, दोषः, वसुः, विभावसुः, तत्र द्रोणादीनां संतानमाह क्रमेण । द्रोणस्य अभिमतेः अभिमत्याख्यायाः पत्न्याः, हर्षश्च शोकश्च भयं च आदयो येषां ते तनयाः, बभूवुः । अस्य धराख्याऽपरापि पत्नी बोध्या । ‘द्रोणो वसूनां प्रवरो धरया सह भार्यया’ इति दशमस्कन्धे वक्ष्यमाणत्वात् ॥ ११ ॥ * * प्राणस्येति । प्राणस्य, ऊर्जस्वती ॥ ऊर्जस्वतीसंज्ञा, भार्या, तस्याः, सहः, आयुः पुरोजवः, त्रयः पुत्रा आसन्निति शेषः । ध्रुवस्य धरणिः भार्या सा, विविधाः पुरः पुराणि पुराभिमानिनो देवादित्यर्थः । असूत ॥ १२ ॥ * * अर्कस्येति । वासना वासनाख्या, अर्कस्य भार्या, तस्याः, तर्षादयः पुत्राः स्मृताः । केचित्तु अर्कस्य त्वशना भार्येति पठन्ति । वसोर्धारा वसोर्धाराख्या, अग्नेः भार्या, तस्याः द्रविणकादयः, पुत्राः आसन् । केचित्तु वसोः पुत्रस्याग्नेः स्वाहापरपर्याया धाराख्या भार्या तस्या द्रविणकादयः सुता इत्याहुः ॥ १३ ॥ * * स्कन्द इति । स्कन्दश्च कुमारोऽपि, कृत्तिकापुत्रः कृत्तिकाख्यान्याग्निभार्यासंभूतस्ततः कार्त्तिकेय इत्यपि तन्नाम । केचित्तु कृत्तिकादीनां तद्धात्रीत्वात्कार्त्तिकेयः षाण्मातुर इत्यौपचारिकं नाम, मुख्यं त्वग्निभूर्नामेत्याहु: ये विशाखादयः, ते ततः स्कन्दादेव जाताः । पुराणान्तरेऽस्य नैष्ठिकत्वमुक्तमस्ति तत् कल्पान्तरविषयं बोध्यम् । दोषस्य शर्वरी शर्वरीसंज्ञा भार्या, तस्याः पुत्रः शिशुमारः । स च हरेः कला अंशभूतः ॥ १४ ॥ * * वसोरिति । वसोः, आङ्गीरसी एतदाख्या पत्नी । तस्याः पुत्रः, विश्वकर्मा । स च, आकृतिपतिः शिल्पाचार्यः । ततो विश्वकर्मणः सकाशात्, चाक्षुषः एतन्नामा मनुः अभूत् । विश्वे विश्वसंज्ञाः, साध्याः साध्यासंज्ञाश्च, मनोश्चाक्षुषस्य सुताः बभूवुः ॥ १५ ॥ * * विभावसोः उषासंज्ञा भार्या, व्युष्टं, रोचिषं, आतपं, असूत । विभावसोरुषायां त्रयः सूनव आसन्नित्यर्थः । अथ आतपादित्यर्थः । पञ्चयामो दिवसः जातः । अत एव रात्रिस्त्रियामेत्युच्यते । प्रदोषप्रत्यूषयोः पूर्वोत्तरदिवसावयवत्वात् । पञ्चयामशब्दस्तदभिमानिदेवपरः । येन पञ्चयामेन भूतानि प्राणिनः कर्मसु स्वस्वव्यापारेषु, जाग्रति । जागरूका भवन्तीत्यर्थः ॥ १६ ॥ ॥ भाषानुवादः मुहूर्तासे मुहूर्तके अभिमानी देवता उत्पन्न हुए। ये अपने-अपने मुहूर्त में जीवोंको उनके कर्मानुसार फल देते हैं ॥ ९॥ * * सङ्कल्पाका पुत्र हुआ सङ्कल्प और उसका काम । वसुके पुत्र आठों वसु हुए। उनके नाम मुझसे सुनो ॥ १० ॥ द्रोण, प्राण, ध्रुव, अर्क, अग्नि, दोष, वसु और विभावसु । द्रोणकी पत्नीका नाम है अभिमति । उससे हर्ष, शोक, भय आदि अभिमानी देवता उत्पन्न हुए ।। ११ ।। * * प्राणकी पत्नी ऊर्जस्वती के गर्भ से सह, आयु और पुरोजव नामके तीन पुत्र हुए। ध्रुवकी पत्नी धरणीने अनेक नगरोंके अभिमानी देवता उत्पन्न किये ।। १२ ।। * अर्ककी पत्नी वासनाके गर्भ से तर्ष (तृष्णा) आदि पुत्र हुए। अनि नामक वसुकी पत्नी धाराके गर्भ से द्रविणक आदि बहुत-से पुत्र उत्पन्न हुए ।। १३ ॥ * * कृत्तिकापुत्रस्कन्द भी अग्निसे ही उत्पन्न हुए। उनसे विशाख आदिका जन्म हुआ । दोषकी पत्नी शर्वरीके गर्भ से शिशुमारका जन्म हुआ । वह भगवान्का कलावतार है ॥ १४ ॥ वसुकी पत्नी आङ्गिरसीसे शिल्पकला के अधिपति विश्वकर्माजी हुये । विश्वकर्माके उनकी भार्या कृतीके गर्भसे चाक्षुष मनु हुए और उनके पुत्र विश्वेदेव एवं साध्यगण हुए ।। १५ ।। * * विभावसुकी पत्नी उपासे तीन पुत्र हुए — व्युष्ट, रोचिष् और आतप । उनमेंसे आतपके पश्याम (दिवस ) नामक पुत्र हुआ, उसीके कारण सब जीव अपने-अपने कार्योंमें लगे रहते हैं ॥ १६ ॥ । भूतविनायकाः ॥ चाकरोत् सती ॥ १८ ॥ १९ ॥ सरूपासूत भूतस्य भार्या रुद्रांश्च कोटिशः । रैवतोऽजो भवो भीमो वाम उग्रो वृषाकपिः ।। १७ ।। अजैकपादहिर्बुध्न्यो बहुरूपी महानिति । रुद्रस्य पार्षदाचान्ये घोरा प्रजापतेरङ्गिरसः स्वधा पत्नी पितृनथ । अथर्वाङ्गिरसं वेदं पुत्रत्वे कृशाश्वोऽचिषि भार्यायां धूम्रकेशमजीजनत् । धिषणायां वेदशिरो देवलं वयुनं मनुम् ॥ तार्यस्य विनता कद्रुः पतङ्गी यामिनीति च । पतङ्गयसूत पतगान् यामिनी शलभानथ सुपर्णास्त गरुडं साक्षाद् गरुड । साक्षाद् यज्ञेशवाहनम् । सूर्यसूतमनुरुं च कब्रुर्नागाननेकशः ॥ ।। ।। ॥ १. प्रा० पा० सुरूपा० । २. प्रा० पा० राः प्रेतवि० । ३. प्रा० पा०- देवं । ४. प्रा० पा० धिषणा वेदशिरसं । २० ॥ २१ ॥ २२ ॥ ॥ स्क. ६ अ. ६ श्लो. १७-२४ ] अनेकव्याख्या समलङ्कृतम् कृत्तिकादीनि नक्षत्राणीन्दोः पत्न्यस्तु भारत । दक्षशापात् सोऽनपत्यस्तासु यक्ष्मग्रहादितः ॥ २३ ॥ पुनः प्रसाद्य तं सोमः कला लेभे क्षये दिताः । शृणु नामानि लोकानां मातृणां शङ्कराणि च ॥ २४ ॥ कृष्णप्रिया व्याख्या ३१३ अन्वयः - भूतस्य सरूपा भार्या कोटिशः रुद्रान् असूत रैवतः अजः भवः भीमः वामः उम्र: वृषाकपिः अजैकपाद् आहिर्बुध्न्यः बहुरूपः महान् इति रुद्रस्य अन्ये भूतविनायकाः पार्षदाः ।। १७ ।। * * * प्रजापतेः अंगिरसः स्वधा पत्नी पितॄन् अथ च सती अथर्वांगिरसम् वेदम् पुत्रत्वे अकरोत् ॥ १८ ॥ * * कृशाश्वः अर्चिषि भार्यायाम् धूम्रकेशं धिष- णायाम् वेदशिराः केवलं वयुनं मनुम् ॥ २० ॥ * * विनता कद्रुः पतङ्गी यामिनी इति पतङ्गीपतगान् अथ यामिनी शलभान् असूत सुपर्णा साक्षात् यज्ञेशवाहनम् गरुडम् च सूर्यसूतं अनूरुम् असूत कदुः अनेकशः नागान् ।। २१-२२ ॥ * भारत इन्दोः पत्न्यः तु कृत्तिकादीनि क्षत्राणि दक्षशापात् यक्ष्ममहार्दितः सः तासु अनपत्यः ॥ २३ ॥ तं प्रसाद्य क्षयेदिताः कलाः लेभे लोकानाम् मातृणाम् शंकराणि नामानि शृणु ॥ २४ ॥ | श्रीधरस्वामिविरचिता भावार्थदीपिका * सोमः पुनः भूतस्य द्वे भार्ये तयोर्वशमाह । सरूपेति ॥ १७ ॥ * * महानित्येवमेकादशरूपस्य रुद्रस्य पार्षदाः प्रेतादयोऽन्ये ऽन्यस्यां जाताः ॥ १८ ॥ अंगिरसः स्वधा सती चेति द्वे भायें तयोर्वशमाह । प्रजापतेरिति । स्वधा नाम पत्नी पितॄन्पुत्रत्वेऽकरोत् । अथ सती चाथर्वांगिरस नाम वेदम् ॥ १९ ॥ * कृशाश्वस्याचिर्धिषणेति द्वे भायें तयोर्वंशमाह । कृशाश्व इति ।। २०-२१ ॥ सुपर्णा विनता । अनूरुमरुणम् ।। २२ ।। रोहिण्यामेव प्रेमातिशयेनान्या- सामुपेक्षणात्कुपितस्य दक्षस्य शापाद्यक्ष्मग्रहार्दितः क्षयरोगपीडितः संस्तास्वनपत्योऽभूत् ॥ २३ ॥ * * तं दक्षं प्रसाद्य केवलं कला एव लेभे न त्वपत्यानि । कथंभूताः । क्षये कृष्णपक्षेदिताः खंडिताः सतीः । दो अवखंण्डने धातुः । पाठांतरे क्षये सति पुनरेधितास्तेनैव वर्धिताः सतीः । अथ लोकानां मातॄणां कश्यपपत्नीनां कल्याणकराणि नामानि शृणु ।। २४-२५ ।। वंशीधरकृतो भावार्थदीपिकाप्रकाश: द्वे सरूपासूतेत्यर्थः । कोटिषु मध्ये एकादश खतादयः प्रधानाः ॥ १७ ॥ अन्यस्यां भूतायां द्वितीयायां
- । भार्यायाम् ॥ १८-१६ ॥ वेदशिरसा सहितो देवलो वेदशिरो देवलस्तं वेदशिरसं देवलञ्चेत्यर्थः । तीर्थस्तु - वेद शिरा ।। * इति कृशाश्वस्य नामांतरमाह ॥ २० ॥ ननु कश्यपमुनेर्वशे कथं पशुपक्षिदक्षादीनामुत्पत्तिस्तत्रेदमवधेयम् — “शुक्तौ मुक्ता यथोत्पन्ना गजमुक्ता गजश्रवे । मृगनाभ्यां च कस्तूरी गोकर्णे धेनुरोचनम् । वंशवृक्षे तुकाक्षीरी गोमयाद् वृश्विकोद्भवः । ऋषभार्यासु पक्ष्यादिजन्म ज्ञेयन्तथा बुधैः ।” वस्तुतः सत्यसंकल्पत्वादृषीणां तत्र किञ्चिन्न चाद्भुतमिति ज्ञेयम् | पतंगान् दीपज्वालायां ज्वलनशीलान्सूक्ष्मपक्षिणः । शलभान् कृषिभक्षणशीलात्रक्तपीतान्सूक्ष्मपक्षिणः ॥ २१ ॥ गरुडानूरू भ्रातरौ विनतापुत्रौ ॥ २२ ॥ * * भारतेति । भरतो यथा स्वभार्या स्वनपत्यस्तथाऽयमपीति संदेहं मा कुर्विति कथं स्त्रीषु विद्यमानास्वपुत्रोऽयमिति भावः ॥ २३ ॥ पाठांतरे क्षयैधिता इति पाठे ।। २४-२५ ।। । अन्वितार्थप्रकाशिका ॥
सरूपेति युग्मम् । भूतस्य द्वे भार्ये तत्र सरूपाख्या भार्या कोटिशो रुद्रानसूत । तेषु रैवतायाः बहुरूपान्ता: मुख्या रुद्रा महानिति सर्वेषां विशेषणम् । एवमेकादशरूपस्य रुद्रस्य ये पार्षदाः अन्ये च ये घोररूपा भूतप्रेतादयस्तेऽन्यस्यां भार्यायां जाताः ।। १७-१८ ।। * * प्रजापतेरिति । प्रजापतेरङ्गिरसो द्वे भार्ये तयोर्मध्ये स्वधा नाम पत्नी पितॄन् पुत्रत्वेऽकरोत् । अथ च सती नाम पत्नी अथर्वाङ्गिरसं नाम वेदं पुत्रत्वेऽकरोत् ॥ १९ ॥ * * कृशाश्व इति । कृशाश्वः अचिर्नाम्यां भार्यायां धूम्रकेशमजीजनत् । धिषणाख्यायां च भार्यायां वेदशिरा वेदशिरसमित्यर्थः । देवलादित्रयं चेति चतुरः पुत्रान- जीजनत् ॥ २० ॥ * * तार्क्ष्यस्येति । तार्क्ष्यस्य तृक्षस्य मरीचेः पुत्रत्वात् तार्क्ष्यनाम्नः कश्यपस्य विनताद्याश्चतस्रो भार्याः । सन्ध्यभाव आर्षः । स्पष्टं शेषम् ॥ २१ ॥ सुपर्णेति । सुपर्णा विनता साक्षाद्यज्ञेशस्य वाहनं गरुडमसूत । गरुडस्या-
- । २१४ श्रीमद्भागवतम् ४ [ स्कं. ६ अ. ६ श्लो. १७-२४ वतारोऽयं साक्षाद्गरुडस्य नित्यत्वात् सुपर्णैव सूर्यस्य । सूतमनूरुमरुणं च असूत । कद्रूरनेकशो नागानसूत ।। २२ ॥ कृत्तिकेति सार्द्धम् । हे भारत ! इन्दोः पत्न्यस्तु कृत्तिकादीनि नक्षत्राणि आसन् स इन्दुः रोहिण्यामेव प्रेमातिशयेनान्या- सामुपेक्षणात् कुपितस्य दक्षस्य शापात् यक्ष्मग्रहार्दितः क्षयरोगपीडितः सन् तासु पत्नीषु अनपत्यः अभूत् । पुनस्तं दक्षं प्रसाद्य क्षये कृष्णपक्षे दिता खण्डिताः सतीः । क्षयैधिता इति पाठे क्षये सति पुनरेधितास्तेनैव वर्द्धिताः सतीः कला एव लेभे न त्वपत्यानि ॥ २३ ॥ * * अथ इदं जगत् याभ्यः प्रसूतं तासां लोकानां मातृणां कश्यपपत्नीनां शङ्कराणि सुखकराणि नामानि चकारादपत्यानि च शृणु ॥ २४ ॥ वीरराघवव्याख्या एवं धर्मभार्याणां सन्तानमभिधायाथ कश्यपसोमयोः सत्तानं भूयस्त्वाद्वक्ष्यमाणो भूतस्य तावत्सन्तानमाह । सरूपेति चतुर्भिः । भूतस्य शम्भोर्भार्या सरूपा सा च रुद्रान् कोटिशः असूत प्रसूतवती । तत्र प्रधानानेकादश रुद्रान् गणनाय- कानाह । रैवत इति सार्द्धेन । यद्वा । रैवतादिरूपेणैकादशधा भिन्नस्य रुद्रस्य पारिषदा घोररूपा प्रेतादिरूपेणानेकविधा अन्येऽ- न्यस्यां भार्यायां च बभूवुरित्यन्वयः ॥ १७ - १८ ॥ अथाङ्गिरसः सन्तानमाह । प्रजापतेरिति । अङ्गिरसः प्रजापतेः पत्नी स्वधा सती च । तत्र स्वधा पितॄन् सती त्वथर्वाङ्गिरसं नाम वेदं वेदाभिमानिनं पुरुषं पुत्रत्वेनाकरोत् ॥ १९॥ * * अथ कृशाश्वसन्तानमाह । कृशाश्वः अर्चिषि भार्यायां धूम्रकेशं पुत्रमजीजनत् । धिषणायां पत्न्यां तु वेदशिरसं देवलञ्च वयुनं मनुं चेति पुत्रानजीजनत् ॥ २० ॥ * * अथ तार्क्ष्यस्य सन्तानमाह । तार्क्ष्यस्य विनताद्याश्चतस्रो भार्याः । तत्र पतङ्गी पतगान् पक्षिणः असूत । यामिनी तु शलभानसूत ॥ २१ ॥ सुपर्णेति । विनताया एव नामान्तरम् । सा तु साक्षाद्यज्ञेशत्य विष्णोर्वाहनभूतं गरुडं सूर्यस्य सूतमनूरुमरुणं चासूत कद्रस्त्वनेकशो नागान् सर्पानसूत ।। २२ ।। * * अथ सोमस्य पत्नीराह । इन्दोः सोमस्य पत्न्यस्तु कृत्तिकादीनि नक्षत्राणि सप्तविंशतिः हे भारत स च इन्दुः दक्षशापात् रोहिण्यामेव प्रेमातिशयेनान्यासूपेक्षारूपान्निमित्तादक्षस्य शापाद्यक्ष्मग्रहेण राजयक्ष्मरोगेण पीडितः सन् तासु कृत्तिकादिष्व- नपत्योऽऽभूत् ॥ २३ ॥ * तं दक्षं पुनः प्रसाद्य प्रसन्नं कृत्वा केवलं कला एवं लेभे न त्वपत्यानि । कथम्भूताः क्षये कृष्णपक्षे अर्दिताः । खण्डिताः क्षयैधिता इति पाठे क्षये सति पुनरेधिता वर्धिताः । अथ लोकमातॄणां कश्यपपत्नीनां लोकस्य शं सुखं कुर्वन्तीति तथा तानि नामानि शृणु लोकानां मातृत्वे हेतुः इदं जगद्यत्प्रसूतं याभिः कश्यपपत्नीभिः प्रसूतम् । ता निर्दिशति । अदितिरिति ।। २४-२५ ।। विजयध्वजतीर्थकृता पदरत्नावली भूतस्य सन्ततिमाह । भूतस्य भार्या नाम्ना भूता भार्या एकादश रुद्रानसूत तस्यान्या सुरूपा भार्या कोटिशो रुद्रानसूत तथा रुद्राणां पार्षदानसूत । तथा प्रेतान् विनायकांश्च प्रमथरुद्ररूपाणां नामान्याह । रैवत इति ।। १७-१८ ॥ * * आङ्गिरसः प्रजापतेः नाम्ना स्वधा पत्नी पितॄनसूत । अथ तस्यैवान्या भार्या अथर्वाङ्गिरसं वेदं पुत्रत्वेऽकरोत् ॥ १९ ॥ * * वेदशिरा इति कृशाश्वस्य नामान्तरम् ॥ २० ॥ * * पुत्राणां जातिभेदसूचनाय यामिनी इति सन्धिकार्याभावः ॥ २१ ॥ * * अनूरुम् । ऊरुरहितमरुणमित्यर्थः ।। २२ ।। * * यक्ष्ममहार्दितः क्षयरोगार्तः । कीदृश्यः कलाः कृष्णपक्षे क्षयाः क्षीणाः शुकपक्षे एधिताः वर्धिताः वृद्धद्यभावः छान्दसः । अथ एध वृद्धाविति धातोः । अथवा इधि दीप्ताविति धातुः निष्ठायां नुमो लोपे इधिता इति रूपं सिद्धयति । तस्य गुणः । शङ्कराणि सुखकराणि ॥ २३-२४ ॥ विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी भूतस्य द्वे भाय् तयोर्मध्ये सरूपा ॥ १७ ॥ * * रैवतादथ एकादश रुद्राः महानिति विशेषणम् । अन्ये रुद्रस्य पार्षदा अन्यस्यां भार्य्यायाम् ॥ १८ ॥ * अङ्गिरसः स्वधा सती चेति द्वे भार्य्यं तयोर्मध्ये स्वधा ॥ १६ ॥ * * कृशाश्वस्यार्श्विर्धिषणेति द्वे भाय्यै तयोर्मध्ये अचिषि ।। २० ।। तार्क्ष्यस्य तार्क्ष्यनाम्नः कश्यपस्य ॥ २१ ॥ सुपर्णा विनता अनूरुमरुणम् ॥ २२ ॥ रोहिण्यामेव प्रीत्यतिशयेनान्या सामुपेक्षणात् कुपितस्य दक्षस्य शापात् । यक्ष्मप्रहार्दितः क्षयरोगपीडितः सन् तास्वनपत्योऽभूत् ।। २३ ।। * कला एवं लेभे न त्वपत्यानि कीदृशीः क्षये कृष्णपक्षे दिताः खण्डिताः सतीः । क्षयैधिता इति पाठे क्षये सति पुनरेधितास्तेनैव वर्द्धिताः सतीः ।। २४-२५ ।। स्कं. ६ अ. ६ श्लो. १७-२४ ] अनेकव्याख्यासमलङ्कृतम् शुकदेवकृतः सिद्धान्तप्रदीप: २१५ धर्मपत्नीवंशमुक्त्वा भूतपत्नीवंशमाह । सरूपेति । तंत्र मूलभूता रैवतादयः सप्त । अजैकपादष्टमः अहिर्बुध्न्यो नवमः बहुरूपी दशमः एकादशी महानित्येकादश रुद्राः । अन्ये अन्यस्यां जाताः रुद्रस्य पार्षदाः ॥ १७-१८ ॥ अङ्गिरसो भार्यावंशमाह । स्वधा पितॄन पुत्रत्वे सती च अथर्वाङ्गिरसं नाम वेदं पुत्रत्वे अकरोत् ।। १९ ।। * * कृशा- श्वभार्यासन्ततिमाह । कृशाश्व इति ॥ २० ॥ तार्क्ष्यपत्नीवंशमाह । तार्यस्येत्यादिना ॥ २१ ॥ * * सुपर्णा विनता सूर्यसूतम् अपक्काण्डभेदनेन कनिष्ठं साक्षात् यज्ञेशवाहनं गरुडं चासूतोत्पादितवती ।। २२ ।। * चन्द्रपत्नी सन्तत्यभावमाह । कृत्तिकादीनीति । स चन्द्रः सर्वासु समो भवेति दक्षेणोक्तोऽपि रोहिण्यामत्यन्ततः प्रीतिमानभूत्तन्निमित्ता- दक्षशापात् यक्ष्मप्रहार्दितः क्षयरोगपीडितः तासु अनपत्योऽभूत् ।। २३ ।। * * क्षयैविताः क्षये सति एधिताः तेनैव वर्द्धित्ताः सतीः कलाः लेभे अथ कश्यपपत्नीनां शङ्कराणि कल्याणकराणि नामानि शृणु । यतः याभ्यः इदं जगत् प्रसूत- Sarr । मुत्पन्नम् ।। २४-२५ ।। गोस्वामिगिरिधरलाल विहिता बालप्रबोधिनी
.. भूतस्य द्वे भायें । तयोर्वशमाह - सरूपेति द्वयेन । रुद्राणां मध्ये एकादश मुख्यनामान्याह - रैवत इत्यादिमहा- नित्यन्तेन ॥ १७ ॥ * * एवमेकादशरूपस्य रुद्रस्य ये पार्षदाः अन्ये च ये घोररूपा भूतप्रेतादयस्तेऽन्यस्यां भार्यायां जाता इति ।। १८ ।। * * प्रजापतेरङ्गिरसो द्वे
- प्रजापतेरङ्गिरसो द्वे भार्ये, तयोर्मध्ये स्वधानाम पत्नी पितॄन् पुत्रत्वेऽकरोत् । अथ च सती नाम पत्नी अथर्वाङ्गिरसं नाम वेदं पुत्रत्वेऽकरोत् ॥ १६ ॥ ॥ १६ ॥ * * कृशाश्वस्यार्चिर्धिषणा च द्व े भार्ये । तयोर्वशमाह - कृशाश्व इति वेदशिरो वेदशिरसमित्यर्थः ॥ २० ॥ तार्क्ष्यत्य तार्क्ष्यनाम्नः कश्यपस्य यामिनी । इतीति सन्ध्य- भाव आर्षः तत्सन्ततौ जातिभेदसूचनार्थः ।। २१ ।। सुपर्णेति विनताया नामान्तरम् । साक्षादिति देवान्तर- व्यावृत्त्यर्थं विशेषणम् । इन्द्रादीनामपि यज्ञभागभोक्तृत्वेन फलदातृत्वेन च यज्ञेशत्वव्यवहारात् । साक्षाद्यज्ञेशस्तु तेषामप्य- न्तर्यामी भगवान् विष्णुस्तस्य वाहनं गरुडं सूर्यस्य सूतमनूरुमरुणं च सुपर्णाऽसूत् ॥ २२ ॥ * * कृत्तिकादीनि या इन्दोः पन्यस्तासु सोऽनपत्यः अपत्यानि न लेभे । तत्र हेतुमाह - दक्षशापेति । रोहिण्यामेव प्रेमातिशयेन अन्यासामुपेक्ष- णात् कुपितस्य दक्षस्य शापात् यक्ष्मग्रहादितः क्षयरोगपीडितः संस्तं दक्षं प्रसाद्य केवलं कला लेभे न त्वपत्यानि । कीदृशीः क्षये कृष्णपक्षे दिताः खण्डिताः सतीः । क्षयैधिता इति पाठे क्षये सति पुनरेधितास्तेनैव वर्धिताः सतीः ॥ २३ ॥ अथेदानीं कश्यपपत्नीनां शङ्कराणि सुखकराणि नामानि चकारादपत्यानि च शृण्वित्यन्वयः । सुखजनकत्वे हेतुमाह - लोकानां मातृणामिति । सर्वलोकमातृत्वं कथं तत्राह - यत्प्रसूतमिदं जगदिति ।। २४ । が भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी एवं धर्मभार्याणां संतानमभिधायाथ कश्यपस्य संतानभूयस्त्वात्सोमस्यानपत्यत्वात्तयोरन्वयं पश्चात्कथयिष्यन् भूताङ्गिरः कृशाश्वानां तावत् संतानमाह सरूपेति चतुर्भिः । सरूपेति । भूतस्य शम्भोः, सरूपा सरूपासंज्ञा भार्या, कोटिशः असंख्यातान् रुद्रान् असूत प्रसूतवती । रुद्राणामसंख्यातत्वमाह श्रुतिः । ‘असंख्याता रुद्रा अधिभूम्याम्’ इत्याद्या । तत्र प्रधानभूतानेकादशरुद्रगणनायकानाह रैवत इति । रैवतः, अज:, भवः भीमः, वामः, उग्रः, वृषाकपिः || १७|| अजैकेति । अजैकपाद्, अहिर्बुध्न्यः, बहुरूपः, महान, इत्येते नायकाः । अन्येऽन्यस्यां भूतसंज्ञभूतभार्यायां संभूताः । घोरा अतिक्रूराः, भूतविनायकाः, रुद्रस्य एकादशात्मकरुद्रगणस्य, पार्षदाच ज्ञेयाः ॥ १८ ॥ * * प्रजापतेरिति । अङ्गिरसः प्रजापतेः, एका स्वधा पत्नी, अन्या सतीच पत्नी तत्र स्वधा, पितॄन असूत । अथ सती अथर्वाङ्गिरसं नाम वेदं पुत्रत्वे अकरोत् च ॥ १९ ॥ * * कृशाश्व इति । कृशाश्वः अचिंषि, भार्यायां धूम्रकेशं पुत्रम् अजीजनत् । धिषणायां भार्यायां वेदशिरः वेदशिरसमित्यर्थः । देवलं वयुनं, मनुम् इति चतुरः सुतानजीजनत् । केचित्तु वेदशिरा इति पाठं कृत्वा वेदशिरा इति कृशाश्वस्यैव नामान्तरमित्युक्त्वा देवलादींस्त्रीन् पुत्रानित्याहुः ॥ २० ॥ अथ तार्क्ष्यस्य संतानमाह । तार्क्ष्यस्येति । तार्क्ष्यस्य विनता, कद्र:, पतङ्गी, यामिनी इत्येताः चतस्रः भार्याः आसन् । तत्र पतङ्गी, पतगान् असूत । अथ यामिनी, शलभान असूत ॥ २१ ॥ सुपर्णेति । । सुपर्णा विनता, साक्षादृग्विषयार्हो यो यज्ञेशो विष्णुस्तस्य वाहनं वाहनभूतं, गरुडं, सूर्यसूतं सूर्यस्य सारथिकर्मावस्थितं, अनूरुमरुणं च असूत । कद्रूः अनेकशः नागान् असूत ।। २२ ।। अथ सोमस्य पत्नीराह । कृत्तिकादीनि इति ।
। २१६ श्रीमद्भागवतम् [ स्कं. ६ अ. ६ श्लो. २५-३२ हे भारत, कृत्तिकादीनि नक्षत्राणि, सप्तविंशतिभानि तु, इन्दोः सोमस्य पत्न्यः । स इन्दुः, दक्षशापात् रोहिण्यामेव प्रेमाति - शयेनान्यासामुपेक्षारूपनिमित्तजादक्षशापात् यक्ष्मप्रहेण राजयक्ष्मरोगेणार्द्दित: पीडितः सन् तासु कृत्तिकादिषु अनपत्यः अनुत्पन्नपुत्रः, अभूत् । पुनः, तं दक्षं प्रसाद्य संप्रसन्नं कृत्वा, सोमः क्षये कृष्णपक्षे, दिताः खण्डिताः, पाठान्तरे क्षये सति पुनरेधितास्तेनैव वर्द्धिताः, कलाः एव, लेभे । न त्वपत्यानि ॥ २३ ॥ * * शृण्विति । किं च अथ लोकानां मातृणां कश्यपपत्नीनां, शंकराणि सुखकराणि, नामानि शृणु । तासां लोकमातृत्वे हेतुः । इदं जगत, यत्प्रसूतं याभिः कश्यप- पत्नीभिः प्रसूतम् ॥ २४ ॥ भाषानुवादः भूतकी पत्नी दक्षनन्दिनी सरूपाने कोटि-कोटि रुद्रगण उत्पन्न किये। इनमें रैवत, अज, भव, भीम, वाम, उम्र, वृषाकपि, अजैकपाद, अहिर्बुध्न्य, बहुरूप और महान् — ये ग्यारह मुख्य हैं। भूतकी दूसरी पत्नी भूतासे भयङ्कर भूत और विनायकादिका जन्म हुआ। ये सब ग्यारहवें प्रधान रुद्र महान्के पार्षद् हुए ।। १७-१८ ॥ * * अङ्गिरा प्रजापतिकी प्रथम पत्नी स्वधाने पितृगणको उत्पन्न किया और दूसरी पत्नी सतीने अथर्वाङ्गिरस नामक वेदको ही पुत्ररूपमें स्वीकार कर लिया ।। १९ ।। * * कृशाश्व की पत्नी अर्चिसे धूम्रकेशका जन्म हुआ और धिषणासे चार पुत्र हुए- वेदशिरा, देवल, वयुन और मनु ॥ २० ॥ तार्क्ष्यनामधारी कश्यपकी चार स्त्रियाँ थीं- विनता, कद्र, पतङ्गी और यामिनी । पतङ्गीसे पक्षियोंका और यामिनीसे शलभों ( पतिंगों ) का जन्म हुआ ॥ २१ ॥ विनता के पुत्र गरुड हुए, ये ही भगवान् विष्णुके वाहन हैं। विनताके ही दूसरे पुत्र अरुण हैं, जो भगवान् सूर्यके सारथि हैं । कद्रसे अनेकों नाग उत्पन्न हुए ।। २२ ।। * * परीक्षित् ! कृत्तिका आदि सत्ताईस नक्षत्राभिमानिनी देवियाँ चन्द्रमाकी पत्नियाँ हैं । रोहिणीसे विशेष प्रेम करनेके कारण चन्द्रमाको दक्षने शाप दे दिया, जिससे उन्हें क्षयरोग हो गया था। उन्हें कोई सन्तान नहीं हुई ॥ २३ ॥ * * उन्होंने दक्षको फिरसे प्रसन्न करके कृष्णपक्षकी क्षीण कलाओंके शुक्लपक्षमें पूर्ण होनेका वर तो प्राप्त कर लिया, ( परन्तु नक्षत्राभिमानिनी देवियोंसे उन्हें कोई सन्तान न हुई ) ॥ २४ ॥ 1 २६ ॥ २७ ॥ २८ ॥ अथ कश्यपपत्नीनां यत्प्रसूतमिदं जगत् । अदितिदितिर्दनुः काष्ठा अरिष्टा सुरसा ‘इला ।। २५ ।। मुनिः क्रोधवशा ताम्रा सुरभिः सरमा तिभिः । तिमेर्यादोगणा आसन श्वापदाः सरमासुताः ॥ सुरभेर्महिषा गावो ये चान्ये द्विशफा नृप । ताम्रायाः श्येनगृघाद्या मुनेरप्सरसां गणाः ॥ दन्दशू कादयः सर्पा राजन् क्रोधवशात्मजाः । इलाया भूरुहाः सर्वे यातुधानाच सौरसाः ॥ अरिष्टायाच गन्धर्वाः काष्ठाया द्विशफेतराः । सुता दनोरेकषष्टिस्तेषां प्राधानिकां शृणु ॥ द्विमूर्धा शम्बरोऽरिष्टो हयग्रीवो विभावसुः । अयोमुखः शङ्कुशिराः स्वर्भानुः कपिलोऽरुणः || पुलोमा वृषपर्वा च एकचक्रोऽनुतापनः । धूम्रकेशो विरूपाक्षो विप्रचित्ति दुर्जयः ॥ स्वर्भानोः सुप्रभां कन्यामुवाह नमुचिः किल । वृषपर्वणस्तु शर्मिष्ठां ययातिर्नाहुषो बली ॥ ३२ ॥ 1 कृष्णप्रिया व्याख्या २९ ॥ ३० ॥ ३१ ॥ अन्वयः - अथ कश्यपपत्नीनां यत्प्रसूतम् इदम् जगत् अदिति: दितिः दनुः काष्ठा अरिष्टा सुरसा च * मुनिः क्रोधवशा ताम्रा सुरभिः सरमा तिमिः तिमेः यादोगणाः सरमासुताः श्वापदाः * नृप सुरभे; महिषाः गावः च ये अन्ये द्विशफाः ताम्रायाः श्येनगृध्राद्याः मुनेः अप्सरसां इला ।। २५ ।। आसन् ।। २६ ।। १. प्रा० पा० - इरा । २. प्रा० पा० - गृधश्येनाद्या: । ३. प्रा० पा० - इराया । ४ प्रा० पा० यास्तु । ५. प्रा० पा०- प्राधानिकं श्र० १६. प्रा० पा० - चित्तिः सुदु० । स्कं. ६ अ. ६ श्लो. २५-३२] गणाः ||२७|| अनेकत्र्याख्यासमलङ्कृतम् २१७ राजन् ददशकादयः सर्पाः क्रोधवशात्मजाः इलायाः सर्वे भूरुहाः च सौरसाः यातुधानाः च ॥ २८ ॥ ** अरिष्टायाः गंधर्वाः च काष्ठायाः द्विशफेतराः दनोः एकषष्टिः सुताः तेषां प्राधानिकान् शृणु ।। २९ ।। * * द्विमूर्धा शंबर: अरिष्टः हयग्रीवः विभावसुः अयोमुखः शंकुशिराः स्वर्भानुः कपिल: अरुणः ॥ ३० ॥ अनुतापनः धूम्रकेशः विरुपाक्षः विप्रचितिः च दुर्जयः ॥ ३१ ॥ * पुलोमा च पुलोमा च वृषपर्वा एकचक्र: नमुचिः स्वर्भानोः सुप्रभां कन्याम् उवाह किल नाहुष: श्रीधरस्वामिविरचिता भावार्थदीपिका बली ययातिः तु वृषपर्वणः शर्मिष्ठाम् ॥ ३२ ॥ अल्पत्वेन सुगमत्वाद्यथायथं व्युत्क्रमेण तासां वंशानाह । विमेरित्यादिना ।। २६-२७ ।। सौरसाः सुर- सायाः पुत्राः ॥ २८ ॥ * प्राधानिकान्मुख्यानष्टादश शृणु ।। २६-३२ ।। * 1918 वंशीधरकृतो भावार्थदीपिकाप्रकाशः आ तासामदित्यादीनां व्युत्क्रमेण क्रमपरित्यागेन सूचीकटाहन्यायमाश्रित्याह– तिमेरिति । यादोगणा जलचरजीवगणाः ‘यादांसि जलजंतव:’ इत्यमरः श्वापदा हिंसाशीलचतुष्पदाः ।। २६ । * * ये चान्ये द्विखुरा मृगादयः । ‘शर्फ़ कीबे खुर: पुमान्’ इत्यमर: । आदिना चिह्नादिग्रहः ।। २७ ॥ * राजन्निति । श्रवणे देदीप्यमानांतः करणत्वादुक्तम् । आदिना । सर्प जात्यंतरग्रहः ॥ २८ ॥ द्विशफेतरा एकखुरा अश्वादिपशवः ।। २९-३१ ।। * ।।
- नमुचिदैत्यः । नाहुषो नहुषपुत्रः ।। ३२-३३ ॥ अन्वितार्थप्रकाशिका Hindi अदितिरिति । स्पष्टम् । सन्ध्यभावावार्षौ ।। २५ ।। * * - अल्पत्वेन सुगमत्वाद्यथायथं सूचीकटाहन्याय- मनुसृत्य व्युत्क्रमेण तासां वंशमाह-तिमेरिति । यादोगणाः मत्स्यादयो जलचराः श्वापदा व्याघ्रादयो वनचराः । स्पष्टमन्यत् ॥ २६ ॥ * * ताम्राया इति । स्पष्टम् ॥ २७ ॥ ।।
-
- इलाया इति । भूरुहाः वृक्षायाः सौरसा: सुरसाया: इमे पुत्राः द्विशफेतराः एकशफा अश्वगर्दभादयः । स्पष्टमन्यत् ॥ २८ ॥ * * सुता इति सार्द्धद्रयम् । एक- ॥ षष्टिसयाका दनोः पुत्रा जातास्तेषां मध्ये प्राधानिकान् मुख्यानष्टादश शृणु । द्विमूर्द्धेति । २९-३० ।। स्वर्भानोरिति । वृषपर्वणः शर्मिष्ठां कन्यां बली नाहुषपुत्रः ययातिः उवाह ॥ ३१ ॥ दनोः पुत्रः ॥ ३२ ॥ वीरराघवव्याख्या PIRP R PETE CAMINH
वैश्वानरेति । वैश्वानरो अल्पत्वेन सुगमत्वाद्यथायथं व्युत्क्रमेण तासां वंशानाह । तिमेरिति । तिमेः कश्यपस्य भार्यायाः यादोगणाः आसन् । सरमायाः सुताः श्वापदाः श्वानः व्याघ्रमार्जारादयश्चासन् । सुरभेः पुत्रास्तु महिषा गावश्चान्ये द्विशफाश्चासन् । हे नृप ! ताम्रायाश्च पुत्राः श्येनाः गृध्राः आदिशब्देन श्येनादिसदृशा बलिनः पक्षिणो विवक्षिताः । मुनेः सुतास्त्वप्सरसां गणाः हे राजन् ! क्रोधवशाया आत्मजास्तु दन्दशूकाद्यः दंशनस्वभावादयः सर्पा आसन् । इलायास्तु सर्वे भूरुहाः आत्मजाः । सौरसाः सुरसायाः अपत्यानि सर्वे यातुधानाः । अरिष्टायास्त्वात्मजा गन्धवाः । काष्ठायास्तु द्विशफेतराः एकशफाः or अश्वगर्दभाः बभूवुः । दनोः सुतास्त्वेकषष्टिस्तेषां मध्ये प्राधानिकानष्टादश पुत्रान् शृणु ।। २६-२९ ।। * * द्विमूर्द्धा च शम्बरच अरिष्टश्च हयग्रीवश्च विभावसुश्च अयोमुखश्च शङ्कुशिराश्च स्वर्भानुश्च कपिलश्चारुणश्च पुलोमा च वृषपर्वा च एकचक्रश्च अनुतापनश्च धूम्रकेशश्च विरूपाक्षश्च विप्रचित्तिश्च दुर्जयश्चैतेऽष्टादश ।। ३०-३१ ।। * * एषां मध्ये स्वर्भानुः नमुचेः कन्यां दुहितरं सुप्रभा वाह उपयेमे स्वर्भानुरत्रान्यो दनुजः न तु राहुः तस्योत्पत्तेर्वक्ष्यमाणत्वात् । वृषपर्वणस्तु कन्यां शर्मिष्ठां नाहुषो नहुषात्मजो बलवान् ययाती राजोवाह ॥ ३२ ॥ विजयध्वजतीर्थकृता पदरत्नावली * अत्रापि मिथो वैलक्षण्यद्योतनाय सन्धिकार्याभावः ॥ २५ ॥ * सूचीकटाहन्यायेन प्रातिलोम्येन सन्तति- माहः । तिमेरिति ॥ २६–२७ ॥ ( ) भूरुहाः वृक्षाः । सुरसायाः पुत्राः सौरसाः ॥ २८ ॥ * * द्विशफेतरा; एकशफाः । प्राधानिकं प्रधानविषयसङ्ख्यानम् ॥ २६-३५ ॥ २८ २१८ श्रीमद्भागवतम् विश्वनाथचक्रवतिकृता सारार्थदर्शिनी ……. सूचीकटाहक्रमेण तासां वंशानाह । तिमिरित्यादिना ।। २६-३२ ।। शुकदेवकृतः सिद्धांत प्रदीपः तासां संततीर्वर्णयति । तिमेरित्यादिना । यादोगणाः जलचरगणाः ।। २६-२७।। [ स्कं. ६ अ. ६ लो. २५-३२ सौरसाः सुरसा- सुताः ॥ २८ ॥ * प्राधानिकान् मुख्यान् शृणु ।। २६-३१ ॥ * * प्राधानिकानुक्त्वा तन्मध्ये केषाञ्चिद्वं- शानाह । स्वर्भानोरिति ॥ ३२ ॥ गोस्वामिगिरिधरलाल विहिता बालप्रबोधिनी $3 83 तासां नामान्याह – अदितिरिति । काष्ठा अरिष्टेति सुरसा इलेति च सन्ध्यभाव आर्षः ।। २५ ।। सूचीकटाहन्यायेन तासां वंशानाह - तिमेरिति । यादोगणाः मत्स्यादयो जलचराः । श्वापदा: व्याघ्रादयो वन- । चराः ।। २६-२७ ॥ * * भूरुहाः वृक्षाद्याः । सौरसाः सुरसायाः पुत्राः । द्विशफेतराः एकशफा अश्वगर्दभा- दयः ।। २८ ।। * * एकषष्टिसङ्घाका दनोः पुत्रा जातास्तेषां मध्ये प्राधानिकान् मुख्यान् शृणु । तानष्टादश दर्शयति- द्विमूर्द्धेति द्वयेन ॥ २६-३० ॥ तुश्चार्थे ॥ ३१ ॥ बलीति विशेषणेन कूपे पतितायास्तस्यास्तेन ततो निस्सारणं तद्विवाहे निमित्तं सूचयति । शर्मिष्ठामुवाहेत्यनुषङ्गः । वैश्वानरो दनोः पुत्रस्तत्सुताः ॥ ३२ ॥ * भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी ः । श्वापदाः, ता नाम्ना निर्दिशति अदितिरिति । अदितिः, दितिः, दनुः, काष्ठा, अरिष्टा, सुरसा, इला, मुनिः क्रोधवशा, ताम्रा, सुरभिः, सरमा, तिमिः ।। २५ ।। * अल्पतया सुगमत्वाद्वचुक्रमेण तासां वंशानाह । तिमेरिति । तिमेः कश्यप- भार्यायाः, यादोगणाः यादांसि जलजन्तवस्तद्गणाः आसन् । सरमासुताः सरमाख्यकश्यपपत्नीपुत्राः, श्वव्याघ्रमार्जारादयः आसन् । सुरभेः पुत्रास्तु, महिषा गाव:, हे नृप ये अन्ये, द्विशफा द्विखुराः, ते च आसन् ।। २६ ।। * ताम्राया इति । ताम्रायाः कश्यपपत्न्याः, पुत्रास्तु सेनाश्व गृधाश्च ते आद्या येषान्ते, आसन् । मुनेः मुन्याख्यकश्यप- पत्न्याः, अपत्यानि तु, अप्सरसां गणा आसन् । आसन्। हे राजन् क्रोधवशात्मजाः क्रोधवशाख्य कश्यपपत्न्यपत्यानि तु दन्दशूको दशनस्वभाव आदिर्मुख्यो येषान्ते सर्पा आसन् ॥ २७ ॥ * * इलाया इति । इलाया इलाख्य कश्यपपत्न्याः, सुताः सर्वे भूरुहास्तरवः, आसन् । सौरसाश्च सुरसाख्यकश्यपपत्नीसुतास्तु सर्वे यातुधानाः आसन् । अरिष्टायाः अरिष्टाख्यकश्यपपत्न्याः सुतास्तु, गन्धर्वाः आसन् । काष्ठायाः काष्ठाख्यकश्यपपत्न्याः, सुताः द्विशफेतराः एकशफा अश्वगर्दभादयः, बभूवुः ॥ २८ ॥ सुता इति । दनोः दनुसंज्ञकश्यपपत्न्यः, एकषष्टिः सुताः आसन् । तेषां मध्ये, प्राधानिकान् प्रधानवाभाजोऽष्टादश पुत्रान् शृणु। द्विमूर्धा, शम्बरः, अरिष्टः, हयग्रीवः, विभावसुः ।। २९ ।। * * अयोमुख इति । अयोमुखः, शङ्कुशिराः, स्वर्भानुः, कपिलः, अरुणः, पुलोमा, वृषपर्वा, एकचक्रः, अनुतापनश्च ।। ३० ।। * * धूम्रकेश इति । धूम्रकेशः, विरूपाक्षः, विप्रचित्तिः, दुर्जयश्च । एषां मध्ये, स्वर्भानोः, सुप्रभा कन्यां नमुचिः, उवाह किल । वृषपर्वणः शर्मिष्ठां पुत्रीं तु, बली महाबलयुक्तः, नाहुषो नहुषपुत्रः, ययातिः उवाह । स्वर्भानुरत्रान्यो दनुजः न तु राहुस्तदुत्पत्तेर्वक्ष्यमाणत्वात् ॥ ३१ ॥ वैश्वानरे इति । उपदानवी, हयशिरा, पुलोमा, तथा, कालका, एताः च चतस्रः याश्च चारुदर्शनाः, वैश्वानरसुताः आसन् । तासां मध्ये, हे नृप, उपदानवीं हिरण्याक्षः, उपयेमे । हयशिरां हयशिरसं, क्रतुः प्रजापतिः, उदवत् ।। ३२ ।। ॥ । भाषानुवादः अब तुम कश्यपपत्नियोंके मङ्गलमय नाम सुनो। वे लोकमाताएँ हैं । उन्हींसे यह सारी सृष्टि उत्पन्न हुई है । उनके नाम हैं–अदिति, दिति, दनु, काष्ठा, अरिष्टा, सुरसा, इला, मुनि, क्रोधवशा, ताम्रा, सुरभि, सरमा और तिमि । इनमें तिमिके पुत्र हैं— जलचर जन्तु और सरमाके बाघ आदि हिंसक जीव ।। २५- ६२ ।। * * सुरभिके पुत्र हैं- भैंस, गाय तथा दूसरे दो खुरवाले पशु । ताम्राकी सन्तान हैं - बाज, गीध आदि शिकारी पक्षी । मुनिसे अप्सराएँ उत्पन्न हुई ।। २७ ।। * क्रोधवशाके पुत्र हुए- साँप, बिच्छू आदि विषैले जन्तु । इलासे वृक्ष, लता आदि पृथ्वी में उत्पन्न होनेवाली वनस्पतियाँ और सुरसासे यातुधान ( राक्षस ) ॥ २८ ॥ गन्धर्व और काष्ठासे घोड़े आदि एक खुरवाले पशु उत्पन्न हुए । दनुके इकसठ पुत्र हुए। उनमें प्रधान प्रधानके नाम अरिष्ठासेस्कं. ६ अ. ६ श्लो. ३३-४० ] अनेकव्याख्या समलङ्कृतम् २१९ सुनो ।। २९ ।। * * द्विमूर्धा, शम्बर, अरिष्ट, हयग्रीव, विभावसु, अयोमुख, शङ्कुशिरा, स्वर्भानु, कपिल, अरुण, पुलोमा, वृषपर्वा, एकचक्र, अनुतापन, धूम्रकेश, विरूपाक्ष, विप्रचित्ति और दुर्जय ॥ ३०-३१ ॥ ॐ स्वर्भानुकी कन्या सुप्रभासे नमुचिने और वृषपर्वाकी पुत्री शर्मिष्ठासे महाबली नहुषनन्दन ययातिने विवाह किया ।। ३२ ।। ३४ ॥ ३५ ॥ ३६ ॥ वैश्वानरसुता याच चतस्रश्चारुदर्शनाः । उपदानवी हयशिरा पुलोमा कालका तथा ॥ ३३ ॥ उपदानवीं हिरण्याक्षः क्रतुर्हयशिरां नृप । पुलोमां कालकां च द्वे वैश्वानरसुते तु कः ॥ उपयेमे ऽथ भगवान् कश्यपो ब्रह्मचोदितः । पौलोमाः कालकेयाश्च दानवा युद्धशालिनः ॥ तयोः षष्टिसहस्राणि यज्ञनांस्ते पितुः पिता । जघान स्वर्गतो राजन्नेक इन्द्रप्रियङ्करः ॥ विप्रचित्तिः सिंहिकायां शतं चैकमजीजनत् । राहुज्येष्ठं केतुशतं ग्रहत्वं य उपागतः ॥ अथातः श्रूयतां वंशो योऽदितेरनुपूर्वशः । यत्र नारायणो देवः स्वांशेनावतरद् विभुः ॥ विवस्वानर्यमा पूषा त्वष्टाथ सविता भगः । धाता विधाता वरुणो मित्रः शक्र उरुक्रमः ॥ ३९ ॥ विवस्वतः श्राद्धदेवं संज्ञासूयत वै मनुम् । ३७ ॥ ८॥ मिथुनं च महाभागा यमं देवं यमीं तथा । सैव भूत्वाथ वडवा नासत्यौ सुषुवे भुवि ॥ ४० ॥ कृष्णप्रिया व्याख्या अन्वयः - चारुदर्शनाः चतस्रशः याः वैश्वानरसुताः उपदानवी हयशिरो पुलोमा तथा च कालका ॥ ३३ ॥ * * नृप हिरण्याक्षः उपदानवीं क्रतुः हयशिरां पुलोमां च कालको वैश्वानरसुते तु ब्रह्मचोदितः भगवान् कः कश्यपः उपयेमे आ पौलोमाः च कालकेयाः दानवाः युद्धशालिनः ।। ३४-३५ ।। * * राजन् ते पितुः पिता इंद्रप्रियंकरः एकः स्वर्गतः तयोः यज्ञन्नान् षष्टिसहस्राणि जघान ॥ ३६ ॥ विप्रचित्तिः सिंहिकायां राहुज्येष्ठं केतुशतं शतं च एकम् अजी- जनत् यः महत्वम् उपागतः ।। ३७ ।। * * अथ अतः यः अदितेः वंशः सः अनुपूर्वशः श्रूयतां यत्र नारायणः देवः विभुः स्वांशेन अवतरत् ॥ ३८ ॥ विवस्वान् अर्थमा पूषा त्वष्टा अथ सविता भगः धाता विधाता वरुणः मित्रः शक्रः उरुक्रमः ॥ ३९ ॥ ** विवस्वतः संज्ञा श्राद्धदेवं मनुम् असूयत वै च महाभागा देवं यमं च यमीं मिथुनं तथा अथ सा एव asar भूत्वा भुवि नासत्यौ सुषुवे ॥ ४० ॥ श्रीधरस्वामिविरचिता भावार्थदीपिका कः प्रजापतिः कश्यप उपयेमे इत्यन्वयः ॥ ३४ ॥ * * तयोः षष्टिसहस्राणि निवातकवचा नाम पुत्रा जातास्तांश्च ३६ ॥ * * राहुर्ज्येष्ठटो यस्य ।। ३७-३६ ॥ * * असूयताजनयत् । ३५ ॥ वैश्वानरो दनोः पुत्रस्तस्य सुताः ॥ दानवी परिणयने हेतुर्ब्रह्मणा चोदित इति ॥ स्वर्गतः संस्ते पितामहोऽर्जुनो जघान ॥ भुवि वर्तमाना ॥ ४० ॥ ३३ ॥ वंशीधरकृतो भावार्थदीपिकाप्रकाशः । क्रतुर्दैत्यः ॥ ३४ ॥ * * नतु दानवीं पौत्रीं कथं कश्यप उपयेमे इति चेत्तत्राह - ‘‘उत्पत्तिश्च निरोधश्च नित्यौं भूतेषु पार्थिव । ऋषयोऽत्र न मुह्यंति विद्वांसश्चैव ये जनाः । " इति हरिवंशादिपर्वद्वितीयाध्यायात् । अस्यार्थः - भूतेषु पश्वादिषु उत्पत्तिर्नित्या स्वाभाविकी सापिंडयनियमं बिना प्रजोत्पादनं स्वाभाविकं तथा मनुष्येषु निरोधो नित्यः । ‘असपिंडामुद्वहेत्’ इत्यादिनियमः स्वाभाविकः यद्यप्येवं तथाप्यत्र ऋषयः “प्रजापतिस्स्वां दुहितरमभ्ययात्” इत्यादिश्रुतिदर्शिनो विद्वांसश्च सापिंड - चशास्त्रस्यानित्यांगमिवाचरणार्थत्वं जानाना न मुह्यंति विश्वसृजां कार्यगौरवाच्छुत्यपेक्षयाधुनिकस्य सापिंडपशाबस्योल्लंघने न दोष इति भावः । इत्यभिप्रेत्यैव स्वामिचरणैरपि व्याख्यातमुपदानवीपरिणयने हेतुः ब्रह्मणा ‘प्रजापतिः स्वां दुहितरम्’ इत्यादि- १. प्रा० पा० उपयेमे स । २. प्रा० पा० सर्वे । ३. प्रा० पा० शतमे कम० । ४ प्रा० पा०-
- शुचिः । २२. श्रीमद्भागवतम् [ स्कं. ६ अ. ६ श्लो. ३३-४० वेदेन हिरण्यगर्भेण वा ॥ ३५ ॥ * * तयोः पुलोमाकालिकयोः । शतसहस्रायुतलक्षादीनां नियतक्लीबत्वमाश्रित्याह- पष्टिसहस्राणि यज्ञन्नानिति । यज्ञादिकर्मनाशकान् । ते पितुरभिमन्योः पिताऽर्जुनः विद्याभ्यासार्थमिन्द्रलोकं गतो गुरुदक्षि- णानिमित्तं जघानेति महाभारते वनपर्वणि वर्णितं विस्तरेण ॥ ३६ ॥ * सिंहिकायां हिरण्यकशिपुभगिन्याम् । “दितेः
- । सुतो हिरण्याक्षो हिरण्यकशिपुस्तथा । कन्या च सिंहिका नाम बभूव कुरुसत्तम ।" इति पुराणांतरोक्तेः । केतूनां शतं यस्मिंस्तत् । एकाधिकं शतमस्य विवरणं राहुज्येष्ठमिति । केतूनां शतत्वं ज्योतिश्शास्त्रे वर्णितम् “वरुणस्य दश सुताश्चतुर्विंशा वेः सुताः । अग्नेः पुत्राश्चतुर्विंशा यमस्य नव कीर्त्तिताः । अष्टादश कुबेरस्य वायोविंशतिरेव च । एवं संख्या च केतूनां शतं पश्चोत्तरं भवेत् ।” इति ज्योतिर्निबंधे । चकारेणानुक्ता अपि पंच ग्राह्याः ॥ ३७ ॥ अथ मंगले । वेदरूपता सूचिता । अतो दन्वादिवंशकथनोत्तर यत्रादितेवेशे । स्वांशेन वामनरूपेण ता ब्रह्मजिज्ञासा” इतिवदस्य ननुक्रामति विवस्वानिति ।। ३६ ॥ । ॥ ३८ ॥ * द्वादशादित्या- * संज्ञा विश्वकर्मपुत्री । यमी यमुनाम्। सैव संज्ञेवाथ तत्तेजोऽसहमाना तपश्चरंती वडवा तुरंगी भूत्वा । नासत्यावश्विनीकुमारौ ।। ४० ।। अन्वितार्थप्रकाशिका FINALIST 161KET INTE IT THAP VISES IFP GES उपदानवीमिति सार्द्धम् । अथ पुलोमां कालकां चेति द्वे वैश्वानरस्य सुते ब्रह्मणा चोदितः कः प्रजापतिर्भगवान् कश्यपः उपयेमे । तयोरतिबलत्वात् कश्यपं विना तन्मनोरथपूर्त्यसंभवात् ब्रह्मप्रेरणया अधर्ममपि पौत्रीपरिणयनमङ्गी- कृतवान् ॥ ३३-३४ ॥ * * पौलोमा इति सार्द्धम् । हे राजन् ! तयोः पुलोमा कालकयोः पुत्राः पौलोमाः कालकेयाश्च दानवा युद्धशालिनो महापराक्रमवन्तः षष्टिसहस्रसङ्ख्याका निवातकवचसंज्ञका जाताः । तांश्च यज्ञघ्नान्स्वर्गं गतः इन्द्रस्य प्रियङ्करः एक एव ते पितुः पिता अर्जुनः जघान ॥ ३५ ॥ विप्रचित्तिरिति । पूर्वार्द्ध स्पष्टम् । शतं चैकमित्यस्य विवरणं राहुर्ज्येष्ठो यस्य तत तत्केतूनां शतम् इति यः केतुभिः सहितो राहुः महत्वमुपागतः ॥ ३६ ॥ * * अथेति । मङ्गलार्थः ; यः अदितेवेशः सः अतोऽग्रे अनुपूर्वशः क्रमेण श्रूयताम् । योऽत्र विभुः नारायणो देवः स्वांशेन वामनरूपेण अवतरत् अवातरत । अभाव आर्षः ॥ ३७ ॥ विवस्वानित्याद्याः द्वादशादित्या अदितेः सुताः॥ ३ः॥ * * विवस्वत इति सार्द्धम् । महाभागा विवस्वतो भार्या संज्ञा श्राद्धदेवाख्यं मनुमसूयत । तथा यमी यमुनां यमं देवं चेति मिथुनमपि संज्ञैवासूत । सैव वडवा भूत्वा भुवि गता सती नासत्यावश्विनीकुमारी सुषुवे || ३९ ॥ * * छायेति । छायाख्या द्वितीया पत्नी तु ततः विवस्वतः शनैश्चरं तथा सावर्णि मनुं तपती नाम कन्यां च लेभे । या तपती संवरणं राजानं पतिं वत्रे ॥ ४० ॥ यो 3 वीरराघवव्याख्या उपदानवीहयशिरापुलोमाकालिकाख्याः ॥ ३३ ॥ * * तासां मध्ये उपदानवीं हिरण्याक्ष उदवहत् हयशिरां तु क्रतुः प्रजापतिः द्व े वैश्वानरस्य सुते पुलोमाकालकाख्ये तु कः कश्यपः उपयेमे दानवीपरिणयने हेतुः । ब्रह्मणा चोदित इति । तयोः पुलोमाकालकयोः षष्टिसहस्राणि पौलोमास्तेषामेव निवातकवचा इति नामान्तरम् । तथा कालकेयाश्च युद्धशालिनो दानवा जाताः तांश्च दानवान् यज्ञघ्नान् ते तव पितुः पितार्जुनः कदाचिदेकः स्वर्लोकः गतः इन्द्रस्य प्रियङ्करो भूत्वा जघान हतवान् ।। ३४-३६ ।। * * विप्रचित्तिः सिंहिकायां भार्यायां शतं चैकमेकशतं दानवानजीजनत् तत्रैकशतमध्ये राहुर्ज्येष्ठः इतरे शतं तु केतवः राहुज्येष्ठमिति पाठे राहुर्ज्येष्ठो यस्य तत्केतुशतमित्यर्थः । कोऽसौ राहुर्य ज्येष्ठमजीजनत् तत्राह । ग्रहत्वमुपागतः प्राप्तः स्वयं दानवाथमोऽपि भगवदनुग्रहवशात् महत्वमुपागत इत्युक्तं पञ्चमे || ३७ ॥ * * अथ तिम्यादीनां वंशश्रवणानन्तरमतत्तासां वंशस्य श्रुतत्वाददितेर्वंशः श्रूयताम् । मया कथ्यमान इति शेषः । दितेर्वंशस्त्वष्टादशा- ध्याये वक्ष्यते । अदितेर्वंशं विशिनष्टि । यत्र वंशे विभुर्नारायणो देवः स्वांशेनावतरत् ॥ ३८ ॥ * * विवस्वदादयः पुत्रास्तत्रोरुक्रमो भगवान साक्षादवतीर्णः ॥ ३६ ॥ * * तत्र विवस्वतः भार्या संज्ञाख्या श्राद्धदेवं यमं यमीं चेति मिथुनं च यमयमीरूपं च मिथुनमसूयत असूत । हे महाभाग ! सैव संज्ञेव बडवा भूत्वा भुवि वर्तमाना नासत्यावश्विनौ सुषुवे ॥ ४० ॥ विजयध्वजतीर्थंकृता पदरत्नावली FIRM ते तव पितुरभिमन्योः पितार्जुनः ।। ३६-३९ ॥ * * भुवि वर्तमानेति शेषः । नाम्ना वडवा ॥। ४०-४२ ।। स्क. ६ अ. ६ लो. ३३-४०] अनेकव्याख्यासमलङ्कृतम् विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी ॥ ॥ २२१ वैश्वानरो दनोः पुत्रस्तस्य सुताः ।। ३३-३४ ॥ * * दानवीपरिणये हेतुर्ब्रह्मणा चोदित इति ॥ ३५ ॥ * तयोः षष्टिसहस्राणि निवातकवचा जाताः । तांश्च स्वर्गं गतः सन् तव पितामहोऽर्जुनो जघान ।। ३६-३९॥ * * नासत्यावश्विनीकुमारौ ।। ४०-४१ ।। Wi कोण TRE शुकदेवकृतः सिद्धांतप्रदीपः ।। या वैश्वानरस्य दनुपुत्रस्य सुतास्ताः शृण्विति शेषः ।। ३३-३४ ॥ * * दनुपुत्रकन्यास्वीकारे कारणमाह । ब्रह्मणोदित इति । तयोः पुलोमाकालिकयोः षष्टिसहस्त्राणि यज्ञध्ना असुरा जाता इति शेषः । ते च पौलोमाः कालिकेयाश्च दनुदौहित्रत्वाद्दानवाः । तच ते पितुरभिमन्यो, पिता अर्जुन: जघान । इन्द्रस्य गुरोः विद्यासमाप्तौ दानववधैन प्रियङ्करः । असूयत अर्जनयत् विवस्वद्भयात् वडवा भूत्वा तत एवाश्वरूपिणः सकाशात् नासत्यौ सुपुत्रे ।। ३५-४० ।। ।। ig FM IN TA DESE VERT TS EPARE FINN MITTEN TIE गोस्वामिगिरिधरलाल विहिता बालप्रबोधिनी ।। HE म ता दर्शयति- उपदानवीति । उवाहेत्यत्राप्यनुषङ्गः ॥ ३३ ॥ * * कः प्रजापतिः कश्यप उपयेमे । तस्य दानवीपरिणयने सृष्टिवृद्धयर्थं ब्रह्मप्रेरणं हेतुमाह-ब्रह्मचोदित इति ॥ ४३ ॥ * * तयोः पुलोमाकालकयोः पुत्राः पौलोमाः कालकेयाश्च दानवा युद्धशालिनो महापराक्रमवन्तः षष्टिसहस्रसङ्ख्याका निवातकवचसन्ज्ञका जाताः तांश्च स्वर्गं गतः संस्ते पितामहो जघानेत्यन्वयः | एक इति अर्जुनस्यातिरथित्वं सूचयति । तद्धनने हेतुमाह – इन्द्रप्रियङ्कर इति इन्द्रप्रार्थनयेत्यर्थः । इन्द्रस्य तैः किमपकृतसित्यपेक्षायामाह - यज्ञघ्नानिति । सकलदेवोपभोग्ययज्ञविनाशनमेव तदपकार इति भावः । अर्जुनवंशे जातो भवानपि महाशूरः कलिनिग्रहादिप्रसिद्धेरिति सूचयन् सम्बोधयति- हे राजन्निति ।। ३५ ॥ * * राहुर्ज्येष्ठो येषां तत् ॥ ३६ ॥ * अदेति मङ्गलार्थः । अतोऽमे । स्वांशेन वामनरूपेण । विभुर्देवकार्यसम्पादने समर्थः ॥ ३७ ॥ * * द्वादशादित्यानाह - विवस्वानिति ॥ ३८ ॥ विवस्वतो भार्या संज्ञा | असूयत अजनयत् यमीं यमुनाम् । भुवि गता सती नासत्यौ अश्विनीकुमारौ ।। ३९ ।। * * ततो विवस्वतः ।। ४० ॥ ॥ ३ ॥
एक भगवत्प्रसादाचार्य विरचिता । भक्त मनोरञ्जन PIRS DESIR DOE पुलोमामिति । हे नृष, पुलोमा काठकां च, द्वे वैश्वानरस्तुते तु ब्रह्मणा जोदित, अनुमतः कः प्रजापति भगवान क्तपरिणयनजदोषनिवर्त्तनसमर्थः, कश्यपः, अथ ब्रह्माज्ञां मन्यमान उपयेमे एवं ॥ ३३ ॥ * पौलोमाः कश्यपात्पुलोमायां जाताः, कालकेयाः कश्यपपल्यां कालकाया जाताच, ये दानवाः युद्धशालिनः, अभवन् । तयोः पौलोमकालकेययोः, पष्टिसहस्राणि षष्टिसहस्रमित्तांस्तानित्यर्थः । यज्ञन्नान्, विदित्वा, ते तव पितुरभिमन्योः, पिता अर्जुनः, हे राजन्, स्वर्गतः स्वर्गं गतः, एकोऽसहायः, इन्द्रस्य प्रियंकरः सन् जघान हतवान् । एतेषामेव निवातकवचा इति नामान्तरं बोध्यम् ॥ ३४ ॥ * * विप्रचित्तिरिति । विप्रचित्तिः सिंहिकायां पल्ल्यां शतम् एकं च, एकाधिकं शतमित्यर्थः । अजी- जनत् । तच्च राहुर्ज्येष्ठो यस्मिंस्तथाविधं, केतुशतं, यो ज्येष्ठत्वेनाभिहितोऽसौ राहुः क इत्यत्राह । यः महत्वम् उपागतः, स्वयं दानवा- धमोऽपि भगवदनुग्रहवशाद्ब्रह्भावं प्राप्तः स राहुरित्यर्थः ॥ ३५ ॥ प्राप्तः स राहुरित्यर्थः ॥ ३५ ॥ अथेति । अथात स्तिम्यादिवंशश्रवणानन्तरं, अनुपूर्वशः अनुक्रमेण, अदितेः वंशः श्रूयताम् । मया कथ्यमान इति शेषः । दितेर्वंशस्त्वष्टादशेऽध्याये वक्ष्यते । अदितिवंशं विशिनष्टि । यत्र यस्मिन्नदितेर्वशे, विभुः सर्वान्तरात्मा देवः, नारायणः, स्वांशेन सकलेन विजैश्वर्येण सहेत्यर्थः । अवातरत्प्रा- दुर्बभूव हि ।। ३६ ।।
- विवस्वदादीनदितिपुत्रानाह । विवस्वानिति । विवस्वान, अर्यमा, पूषा, त्वष्टा, अथ सविता, । । भगः, धाता, विधाता, वरुणः, मित्रः, शक्रः, उरुक्रमः, अत्र विष्णुपुराणे तु ‘चानुपस्यान्तरे पूर्वमासन ये तुषिताः स्मृताः । वैवस्वतेऽन्तरे ते वै आदित्या द्वादश स्मृताः’ इत्युक्तमस्ति । विवस्वदादिद्वादशसु उरुक्रमः साक्षाद्धरिर्वेद्यः ॥ ३७ ॥ * * विवस्वत इति । विवस्वतः, संज्ञा संज्ञाख्या भार्या, श्राद्धदेव, मनुं, तथा हे महाभाग, यमं देवं, यमीं यमुनां च इति मिथुनं, असूयत वै । सा एव संज्ञैव, वडवाऽश्विनी भूत्वा, अथ भुवि नासत्यावश्विनीकुमारौ सुषुवे असूयत ॥ ३८ ॥ * * छायेति । छायासंज्ञया सृष्टा छायाख्या विवस्वत्पत्नी, शनैश्वरं ततः सावर्णि मनुं च तपतीं कन्यां च लेभे असूत । का सा 2 २६२ श्रीमद्भागवतम् [ स्कं. ६ अ. ६ लो. ४१-४५ तपती तत्राह । या तपती, संवरणं नृपं पतिं वत्रे । विस्तरत एतत्कथाप्रस्तावो मार्कण्डेयपुराणस्थमन्वन्तरकथाप्रसङ्गगतवैवस्वत- मन्वन्तरकथाप्रसङ्गवत्सप्तसप्ततितमाध्यायाष्टसप्ततितमाध्यायतो बोध्यः ॥ ३६ ॥ अर्यम्ण इति । अर्यम्णः, पत्नी मातृका
- अभूत् । तयोरर्यममातृकयोः कर्त्तरि षष्ठी । अर्यममातृकाभ्यामित्यर्थः । चर्षणयः कर्मशीलाः सुताः केचित्तु कृताकृतज्ञानवन्त इत्याहु: । उत्पादिता इति शेषः । के ते चर्षणयस्तत्राह । यत्र येषु चर्षणिषु वै निश्चयेन, ब्रह्मणा मानुषी जातिश्च उपकल्पिता । मानुषजात्याश्रया हि सदा व्यापारिणो भवन्ति अतस्ते चर्षणयः । कृषेरौणादिके ‘कृषेश्च चः’ इति अनिप्रत्यये ककारस्य च चकारादेशेऽयं निष्पन्नः ॥ ४० ॥ भाषानुवादः दनुके पुत्र वैश्वानरकी चार सुन्दर कन्याएँ थीं । इनके नाम थे—-उपदानवी, हयशिरा, पुलोमा और कालका ॥ ३३ ॥ * * इनमेंसे उपदानवीके साथ हिरण्याक्षका और हयशिराके साथ क्रतुका विवाह हुआ । ब्रह्माजीकी आज्ञासे प्रजापति भगवान् कश्यपने ही वैश्वानरकी शेष दो पुत्रियों—पुलोमा और कालकाके साथ विवाह किया। उनसे पौलोम और कालकेय नामके साठ हजार रणवीर दानव हुए। इन्हींका दूसरा नाम निवातकवच था । ये यज्ञकर्म में विन्न डालते थे, इसलिये परीक्षित् ! तुम्हारे दादा अर्जुनने अकेले ही उन्हें इन्द्रको प्रसन्न करनेके लिये मार डाला । यह उन दिनोंकी बात है, जब अर्जुन स्वर्ग में गये हुए थे ।। ३४-३६ ॥ * * विप्रचित्तिकी पत्नी सिंहिकाके गर्भ से एक सौ एक पुत्र उत्पन्न हुए। उनमें सबसे बड़ा था राहु, जिसकी गणना ग्रहोंमें हो गयी । शेष सौ पुत्रोंका नाम केतु था ॥ ३७ ॥ * * परीक्षित् ! अब क्रमशः अदितिकी वंशपरम्परा सुनो। इस वंशमें सर्वव्यापक देवाधिदेव नारायणने अपने अंशसे वामनरूपमें अवतार लिया था ।। ३८ ।। अदिति के पुत्र थे - विवस्वान्, अर्यमा, पूषा, त्वष्टा, सविता, भग, धाता, विधाता, वरुण, मित्र, इन्द्र और त्रिविक्रम (वामन ) यही बारह आदित्य कहलाये ॥ ३९ ॥ * * विवस्वानकी पत्नी महा- भाग्यवती संज्ञाके गर्भसे श्राद्धदेव ( वैवस्वत ) मनु एवं यम-यमीका जोड़ा पैदा हुआ । संज्ञाने ही घोड़िका रूप धारण करके भगवान् सूर्यके द्वारा भूलोकमें दोनों अश्विनीकुमारोंको जन्म दिया ॥ ४० ॥
४२ ॥ ४३ ॥ छाया शनैश्वरं लेभे सावर्णिं च मनुं ततः । कन्यां च तपतीं या वै वत्रे संवरणं पतिम् ॥ ४१ ॥ अर्यम्णो मातृका पत्नी तयोवर्षणयः सुताः । यत्र वै मानुषी जातिर्ब्रह्मणा चोपकल्पिता ॥ पूषानपत्यः पिष्टादो भग्नदन्तोऽभवत् पुरा । योऽसौ दक्षाय कुपितं जहास विवृतद्विजः ॥ त्वष्टुर्दैत्यानुजा भार्या रचना नाम कन्यका । संनिवेशस्तयोर्जज्ञे विश्वरूपश्च वीर्यवान् ॥ तं वावरे सुरगणा स्वस्त्रीयं द्विषतामपि । विमतेन परित्यक्ता गुरुणाऽऽङ्गिरसेन यत् ।। इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे षष्ठोऽध्यायः ॥ ६ ॥ कृष्णप्रिया व्याख्या ४४ ॥ ४५ ।। अन्वयः - छाया ततः शनैश्वरं वै सावर्णि मनुं लेभे च या संवरणं पतिं वै वत्रे तपतीं कन्यां सुषुवे ॥ ४१ ॥ * * अर्यम्णः पत्नी मातृका तयोः चर्षणयः सुताः च यत्र ब्रह्मणा वै मानुषी जातिः उपकल्पिता ।। ४२ ।। * अनपत्यः पिष्टाद: पूषा भग्नतः अभवत् पुरा यः असौ विवृतद्विजः दक्षाय कुपितं जहास ।। ४३ ।। * * दैत्यानुजा रचना नाम कन्यका त्वष्टुः भार्या तयोः संनिवेश: च वीर्यवान विश्वरूपः जज्ञे ॥ ४४ ॥
-
- सुरगणाः द्विषतां स्वस्त्रीयम् अपि तं वत्रिरे यत् विमतेन आंगिरसेन गुरुणा परित्यक्ता ॥ ४५ ॥ इति षष्ठोऽध्यायः ॥ ६॥ १. प्रा० पा० - सुसमाहिता । २. प्रा० पा० - कुपितो । ३. प्रा० पा० - चरमा० । स्कं. ६ अ. ६ श्लो. ४१-४५ ] ..Y अनैकव्याख्यासमलङ्कृतम् २२३ ततो विवस्वतः ॥ ४१ ॥ श्रीधरस्वामिविरचिता भावार्थदीपिका चर्षणयः कृताकृतज्ञानवंतः । पश्यति कर्मत्वेन निघंटावुक्तेः । यत्र येषु आत्मानुसंधान विशेषेण मानुषी जातिश्चोपकल्पिता । तथा च श्रुतिः । “पुरुषत्वे चाविस्तरामात्मा" इति ।। ४२ ।। * * कुपितं हरमिति शेषः । विवृतद्विजः प्रकटतितः सन् ।। ४३-४४ ॥ * यद्यदा विमतेनावज्ञातेन बृहस्पतिना परित्य- । तास्तदा द्विषतां शत्रूणां भागिनेयमपि विश्वरूपं पौरोहित्ये वृतवंतः ॥ ४५ ॥ ॐ इति श्रीमा० म० षष्ठस्कन्धे टीकायां षष्ठोऽध्यायः ॥ ६ ॥ वंशीधरकृतो भावार्थदीपिकाप्रकाशः 1 या तपती । संवरणं राजानम् ॥ ४१ ॥ * * तयोरर्यममातृकयोः । चर्षणिशब्दस्य कृताकृतज्ञानवत्त्ववाचकत्वे वैदिको निघंटुः प्रमाणमित्याह - पश्यतीति । पश्यतिः । कर्म यस्य स पश्यतिकर्मा तस्य भावस्तत्त्वं तेन पश्यतिपदेन तदर्थो दर्शनं ग्राह्यं दर्शनकर्त्तारवर्षणयः । यत्र चर्षणिषु उपकल्पिता तेषां मानुषत्वं पुरुषत्वं स्थापितमिमे पुरुषा इति लोकेषु ख्यापित- मिति भावः । कृतं कर्म । अकृतं मोक्षः । नास्त्यकृतः कृतेनेति श्रुतावित्थं व्याख्यातत्वात् । पुरुषस्यात्मदर्शित्वे प्रमाणमाह - तथा चेति । पुरुषत्वे मानुषत्वे । आत्माऽतिशयेन साधनसंपत्त्या प्रत्यक्षीभवतीति श्रुतिपदार्थः ॥ ४२ ॥ * अनपत्येऽपि रुद्रकोपादेव रुद्वाराधनस्यैवागमशास्त्रे संततिसाधनत्वेन विधानात् “भक्त्या श्रीशिवमाराध्य पुत्रोत्पतिं प्रसाधयेत्” इत्युक्तेः । यः पूषा ॥ ४३ ॥ * * रचना नाम कन्यका या दैत्यानुजा सा त्वष्टुर्भार्यासीत् । तयोस्ताभ्यां त्वष्टृरचनाभ्यां सन्निवे- शविश्वरूपनामानौ द्वौ पुत्रावभूतामित्यर्थः ॥ ४४ ॥ * * तं बुद्धिस्थं विश्वरूपं शत्रणां दैत्यानाम् ।। ४५ ।। इति श्रीमद्भागवतभावार्थदीपिकाप्रकाशे षष्ठस्कन्धे षष्ठोऽध्यायः ॥ ६ ॥ अन्वितार्थप्रकाशिका T अर्यम्ण इति । अर्यम्णो मातृकानाम पत्नी तयोरर्यममातृकयोश्चर्षणयः कृताकृतज्ञानवन्तः सुताः पश्यति कर्मत्वेन चर्षणीनां निवण्टादावुक्तेः । यत्र येषु आत्मानुसन्धानविशेषत्वेन मानुषी जातिश्च ब्रह्मणोपकल्पिता । तथा च श्रुतिः - " पुरुषत्वे चाविस्तरामात्मा" इति ॥ ४१ ॥ पूषेति । पूषा तु अनपत्योऽभूत् । यः पुरा दक्षयज्ञे भग्नदन्तः अभूत् पश्चात्पष्टा- दश्चाभूत् । यः दक्षाय कुपितं हरमिति शेषः । विवृतद्विजः प्रकटितदन्तः सन् जहास ॥ ४२ ॥ * * ।। त्वष्टुरिति । दैत्यात्मजा रचना नाम कन्यका त्वष्टुर्भार्या तयोः ताभ्यां त्वष्टृरचनाभ्यां स्पष्टं शेषम् ।। ४३ ।। * तमिति । तं द्विषतां शत्रूणां दैत्यानां स्वस्त्रीयं भागिनेयमपि तं विश्वरूपं सुरगणाः पौरोहित्ये वत्रिरे । यत् यदा विमतेन अवज्ञातेन आङ्गिरसेन बृहस्पतिना गुरुणा त्यक्तास्तदा गत्यन्तराभावात् तं वृतवन्तः ॥ ४४ ॥ उपकारमितियां ॥ * इति श्रीभागवते महापुराणे षष्ठस्कन्धे ऽन्वितार्थप्रकाशिकायां षष्ठोऽध्यायः ॥ ६ ॥ वीरराघवव्याख्या । तथा छाया भूत्वा शनैश्चरं सावर्ण्याख्यं मनुश्रेष्ठं च लेभे सुषुवे । तथा तपतीं तपत्याख्यां च लेभे । या कन्या संवरणं पतिं वत्रे ॥। ४१ ।। * * अथार्यम्णो वंशमाह । अर्यम्णः पत्नी मातृकाख्या तयोरर्यममातृकयोः कर्त्तरि षष्ठी ताभ्यामित्यर्थः । चर्षणयः कर्मशीलाः जनाः कृताः उत्पादिताः । के ते चर्षणयस्तत्राह । यत्र येषु मानुषी जातिर्ब्रह्मणोप- कल्पिता मानुषजात्याश्रयाहि सदा व्यापारिणो भवन्तीत्यतस्ते चक्षिणयः कृषेरौणादिक इनिप्रत्ययः ।। ४२ ।। पूषा त्वनपत्यः अपुत्रः पूर्व भग्नदन्तः पिवादः पिष्टमुगभवत् भग्नदन्तत्वे हेतु वदस्तं विशिनष्टि । योऽसो पूषा दक्षाय कुपितं रुद्रं विवृतद्विजः प्रकटितदन्तः सन् जहास प्रहसितवान् । चतुर्थे चैतद्वृत्तान्तः अभिव्यक्तः ॥ ४३ ॥ * ॐ त्वष्टुदैत्या- नामनुजा रचना नाम कन्यका भार्या तयोस्त्वष्टृरचनयोः संनिवेशात् समावेशाद्विश्वरूपो वीर्यवान् जज्ञे जातः ॥ ४४ ॥ * * तं विश्वरूपं द्विषतां दैत्यानां स्वस्त्रीयं भागिन्यैमपि देवाः यद्यदा विमतेनावज्ञानेनाङ्गिरसः पुत्रेण गुरुणा बृहस्पतिना परि- त्यक्तास्तदा वत्रिरे वृतवन्तः पुरोहितं कृतवन्तः इत्यर्थः ।। ४५ ।। इति श्रीमद्भागवत महापुराणे षष्ठस्कन्धे श्रीमद्वीरराघवाचार्यकृतभागवतचन्द्रचन्द्रिकायां षष्ठोऽध्यायः ॥ ६ ॥ २२४ श्रीमद्भागवतम् विजयध्वजतीर्थकृता पदरत्नावली [ स्कं ६ अ. ६ . ४१-४५ विवृतद्विजः प्रकाशितदन्तः दक्षाय कुपितं हरमिति शेषः ।। ४३ ।। * * तया रचनया त्वष्टुः सन्निवेशो नाम सुतो जज्ञे विश्वरूपञ्श्चाभूदिति शेषः ॥ ४४ ॥ * * तं विश्वरूपं रचना देवानामपि स्वसा उभयेषां कश्यपपुत्रत्वेन मिथों भ्रातृत्वाद्देवानां स्वस्त्रीयं स्वसुः पुत्रं द्विषतामसुराणामपि स्वस्त्रीयमित्यर्थः । देवैः सहेन्द्रेण विमतेनावज्ञातेनाङ्गिरसेन गुरुणा बृहस्पतिना परित्यक्ता अभूवन्निति यदतोऽसुरजयार्थं विश्वरूपं वत्रिरे इत्यर्थः ॥ ४५ -FRID ।। ४५ ।। इति श्रीमद्भागवत महापुराणे षष्ठस्कन्धे श्रीमद्विजयध्वजकृत पदरत्नावल्यां षष्ठोऽध्यायः ।। ६ ।। पुरा पूर्वजन्मनि ।। ४३-४५ ।। जीवगोस्वामिकृतः क्रमसंदर्भः इति श्रीमद्भागवत महापुराणे षष्ठस्कन्धे श्रीमज्जीव गोस्वामिकृतक्रम सन्दर्भे षष्ठोऽध्यायः ॥ ५ ॥ विश्वनाथचक्रवतिकृता सारार्थदर्शिनी IF
-
- यत् यदा विमतेना- तयोरर्य्यममातृकयोः चर्षेणयः कृताकृतज्ञानवन्तः । तत्र येषु आत्मानुसन्धानविशेषवत्सु मानुषीजातिश्चोपकल्पिता । तथा च श्रुतिः “पुरुषत्वे चाविस्तरामात्मा" इति ।। ४२ ।। कुपितं रुद्रमिति । ४४ ।। ॥ ४३ ॥ * दैत्यात्मा रचना नाम कन्या त्वष्टुर्भार्या । तयोस्ताभ्याम् ॥मिति शेषः । विवृतद्विजः प्रकटितदन्तः वज्ञातेन । बृहस्पतिना त्यक्तास्तदा नृत्यन्तराभावात् द्विषतां दैत्यानां दौहित्रमपि पौरोहित्येन वत्रिरे ॥ ४५ ॥ इति सारार्थदर्शिन्यां हर्षिण्यां भक्तचेतसाम् । षष्ठस्कन्धस्य षष्ठोऽयं सङ्गतः सङ्गतः सताम् ॥ ६ ॥ शुकदेवकृतः सिद्धान्तप्रदीप: FITNE तयोरर्यममातृकयोः चर्षणः कृताकृतविशेषज्ञानवन्तः सुताः छाया संज्ञानिर्मिता ततो विवस्वतः ।। ४१ ।। * यत्र येषु “पुरुषत्वे चाविस्तरामात्मा” इति श्रुतेः परमात्मज्ञानोपयोगित्वेन ब्रह्मणा मानुषीजातिरूपकल्पिताः ।। ४२ ।। यः पुरा दक्षाय कुपितं शिवं जहास स अनपत्योऽभूत् ॥ ४३ ॥ * ॐ त्वष्टुर्भार्या रोचना नाम सा कन्यका दैत्यात्मजा तयोस्ताभ्याम् ॥ ४४ ॥ * वा 18811
- द्विषतां दैत्यानां दौहित्रं तं विश्वरूपं सुरगणाः पौरोहित्येन त्रिरे । तत्र हेतुः । यद्यतः विमनेनावज्ञातेनाङ्गिरसेन अङ्गिरसः पुत्रेण गुरुणा त्यक्ताः ॥ ४५ ॥ FIFTE इति श्रीमद्भागवत महापुराणे षष्ठस्कन्धे श्रीमच्छुकदेवकृत सिद्धान्तप्रदीपे षष्ठाऽध्यायार्थप्रकाशः ॥ ६ ॥ गोस्वामिगिरिधरलाल विहिता बालप्रबोधिनी तयोरर्य ममातृकयोश्चर्षणयः कृताकृतज्ञानवन्तः । यत्र येषु आत्मानुसन्धानविशेषवत्त्वेन मानुषी जातिश्व ब्रह्मणोप- कल्पिता ‘पुरुषत्वे चाविस्तरामात्मा’ इति श्रुतेः ॥ ४१ ॥ * * भमदन्तोऽभवदिति पुरा चतुर्थस्कन्धे वर्णितमिति शेषः । तत्रोक्तमेव हेतुं स्मारयति - य इति । कुपितं हरमिति शेषः । विवृतद्विजः प्रकटितदन्तः सन् जहास ।। ४२ ।। * ४ तयोस्ताभ्यां त्वष्टृरचनाभ्यां सन्निवेशः सन्निवेशसब्ज्ञकः पुत्रः मिथुनमिति केचित् विश्वरूपश्च जज्ञे जातः ॥ ४३ ॥ * * तं द्विषतां शत्रूणां दैत्यानां स्वस्त्रीयं भागिनेयमपि विश्वरूपं सुरगणाः पौरोहित्ये वबिरे । नतु पुरोहितस्य बृहस्पतेर्विद्यमानत्वात् कथं ते तं वृतवन्त इत्यपेक्षायामाह - विमतेनेति । यत् यदा विमतेन अवज्ञातेन आङ्गिरसेन बृहस्पतिना गुरुणा त्यक्तादा तं वृतवन्त इत्यर्थः ॥ ४४ ॥ इति श्रीवल्लभाचार्यवंश्यगोपालसूनुना । श्रीमन्मुकुन्दरायाणां पादसेवाधिकारिणा ॥ १ ॥ श्रीमद्गरिधराख्येन भजनानन्द सिद्धये । श्रीमद्भागवतस्येयं टीका बालप्रबोधिनी ॥ २ ॥ रचिता तंत्र षष्ठेऽस्मिन् स्कन्धे रूपनिरूपणे । षष्ठोऽस्मिन् विवृतो दक्षकन्यानुग्रहरूपकः ॥ २॥ स्कं. ६ अ. ६ श्लो. ४१-४५] अनेकव्याख्यासमलङ्कृतम् भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी २२५ पूषेति । यः असौ पूषा दक्षाय, कुपितं रुद्रं विवृतद्विजः प्रकटितदन्तः सन् जहास | अतः पुरा भग्नदन्तः अत एवं पिष्टादः, अभवत् । सोऽस्मिन् जन्मन्यपि तथाभूतः सन् अनपत्यश्च अभवत् ॥ ४१ ॥ * * त्वष्टुरिति । दैत्यानुजा । दैत्यानां भगिनी रचना नाम, कन्यका त्वष्टुः भार्या आसीत् । तयोस्ताभ्यां सकाशात्, संनिवेशः, वीर्यवान्, विश्वरूपश्च जज्ञे । केचित्तु संनिवेशादिति पाठं कृत्वा तयोः संनिवेशात् संबन्धात्, वीर्यवान् विश्वरूपः जज्ञे इत्याहुः ॥ ४२ ॥ * * तमिति । यद्यदा, विमयेनावज्ञातेन, आङ्गिरसेनाङ्गिरसः पुत्रेण गुरुणा बृहस्पतिना, परित्यक्ताः तदा, सुरगणाः देवाः, द्विषतां शत्रूणां, दौहित्रं दुहितुः पुत्रमपि तं विश्वरूपं वत्रिरे पौरोहित्ये वृतवन्तः ॥ ४३ ॥ इति श्रीधर्मधुरंधर श्रीधर्मात्मजप्रत्यक्षपुरुषोत्तम सहजानन्द स्वामि सुतश्री रघुवीराचार्यसूनु भगवत्प्रसादाचार्यविरचिता- यामन्वयार्थावबोधिन्यां भक्तमनोरञ्जन्याख्यायां श्रीमद्भागवतटीकायां षष्ठस्कन्धे षष्ठोऽध्यायः ॥ ६॥ भाषानुवादः विवस्वान की दूसरी पत्नी थी छाया । उसके शनैश्वर और सावर्णि मनु नामके दो पुत्र तथा तपती नामकी एक कन्या उत्पन्न हुई । तपतीने संवरणको पतिरूपमें वरण किया ।। ४१ ॥ /
-
- अर्यमाकी पत्नी मातृका थी । उसके गर्भसे चर्षणी नामक पुत्र हुए। वे कर्तव्य अकर्तव्य के ज्ञानसे युक्त थे । इसलिये ब्रह्माजीने उन्हींके आधारपर मनुष्यजातिकी ( ब्राह्मणादि वर्णोंकी) कल्पना की ।। ४२ ।। * पूषाके कोई सन्तान न हुई। प्राचीन कालमें जब शिवजी दक्षपर क्रोधित हुए थे, तब पूषा दाँत दिखाकर हँसने लगे थे; इसलिये वीरभद्रने इनके दाँत तोड़ दिये थे। तबसे पूषा पिसा हुआ अन्न ही खाते हैं ।। ४३ । दैत्योंकी छोटी बहिन कुमारी रचना त्वष्टाकी पत्नी थी । रचनाके गर्भ से दो पुत्र हुए - संनिवेश और पराक्रमी विश्वरूप ॥ ४४ ॥ * * इस प्रकार विश्वरूप यद्यपि शत्रुओंके भानजे थे - फिर भी जब देवगुरु बृहस्पतिजीने इन्द्रसे अपमानित होकर देवताओंका परित्याग कर दिया, तब देवताओंने विश्वरूपको ही अपना पुरोहित बनाया था ॥ ४५ ॥ इति षष्ठोऽध्यायः ॥ ६ ॥ २९
अथ सप्तमोऽध्यायः २ राजोवाच कस्य हेतोः परित्यक्ता आचार्येणात्मनः सुराः । एतदाचच्व भगवञ्चिष्याणामक्रमं गुरौ ॥ १ ॥ इन्द्रस्त्रिभुवनैश्वर्यमदोल्लङ्घितसत्पथः । श्री शुक उवाच मरुदिव भी ॥ रुद्रैरादित्यैर्ऋभु भिर्नृप ॥ २ ॥ विश्वेदेवैश्व साध्यैव नासत्याभ्यां परिश्रितः । सिद्धचारणगन्धर्वैर्मुनिभिर्ब्रह्मवादिभिः ॥ ३ ॥ विद्याधराप्सरोभिश्व किन्नरैः पतगोरगैः । निषेव्यमाणो मघवान् स्तूयमानश्च भारत ।। ४ ।। उपगीयमानो ललितमास्थानाध्यासनाश्रितः । पाण्डुरेणातपत्रेण चन्द्रमण्डलचारुणा || ५ ॥ युक्तवान्यैः पारमेष्ठ्य वामख्यजनादिभिः । विराजमानः पौलोम्या सहार्धासनया भृशम् || ६ || स यदा परमाचीयं देवानामात्मनश्च ह । नाभ्यनन्दत संप्राप्तं प्रत्युत्थानासनादिभिः ॥ ७ ॥ वाचस्पतिं मुनिवरं सुरासुरनमस्कृतम् । नोच्चचालासनादिन्द्रः पश्यन्नपि सभागतम् ॥ ततो निर्गत्य सहसा कविराङ्गिरसः प्रभुः । आययौ स्वगृहं तूष्णीं विद्वान् श्रीमदविक्रियाम् ॥ ९ ॥ तव प्रतिबुद्ध्येन्द्रो गुरुहेलनमात्मनः । गर्हयामास सदसि स्वयमात्मानमात्मना ॥ १० ॥ 11 कृष्णप्रिया व्याख्या ८ ॥ अन्वयः - भगवन् कस्य हेतोः आचार्येण आत्मनः सुराः परित्यक्ताः एतत् शिष्याणां गुरौ अक्रमम् आचक्ष्व ॥ १ ॥ ** भारत नृप त्रिभुवनैश्वर्यमदोल्लवितसत्पथः मरुद्भिः वसुभिः रुद्रैः आदित्यैः ऋभुभिः च विश्वेदेवैः च साध्यैः च नासत्याभ्यां परिश्रितः सिद्धचारणगन्धर्वैः ब्रह्मवादिभिः मुनिभिः च विद्याधराप्सरोभिः किन्नरैः पतगोरगैः निषेव्यमाणः च स्तूयमानः ललितम् उपगीयमान: आस्थानाध्यासनाश्रितः चन्द्रमण्डलचारुणा पांडुरेण आतपत्रेण च अन्यैः पारमेष्ठयैः चामरव्यजनादिभिः युक्तः भगवान् इंद्रः सहार्धासनया पौलोम्या भृशं विराजमानः ।। २ -६ ॥ यदा सः देवानां च आत्मनः संप्राप्तं परमाचार्य प्रत्युत्थानासनादिभिः न अभ्यनन्दत ॥ ७ ॥ * * इन्द्रः सुरासुरनमस्कृतं मुनिवरं वाचस्पतिं सभागतम् पश्यन् अपि आसनात् न उच्चचाल ॥ ८ ॥ * * श्रीमदविक्रियाम् विद्वान् आंगिरसः प्रभु कविः ततः सहसा निर्गत्य तूष्णीं स्वगृहम् आययौ ॥ ९ ॥ तर्हि एव इंद्र: आत्मनः गुरुहेलनं प्रतिबुद्धय सदसि स्वयम् आत्मना आत्मानं गर्हयामास ।। १० ।। श्रीधरस्वामिविरचिता भावार्थदीपिका सप्तमे विश्वरूपोऽसौ पौरोहित्ये वृतः सुरैः । गुरुणा संपरित्यक्तैः पौरोहित्यमथाकरोत् ॥ १ ॥ कस्य हेतोः कस्माद्धेतोर’त्मनः शिष्याः सुराः परित्यक्ताः अक्रममपराधम् ॥ १ ॥ * * स इंद्रो यदा संप्राप्तं वाचस्पतिं नाभ्यनंदत नाहतवांस्तदा आङ्गिरसस्ततो निर्गत्य तूष्णीं स्वगृहमाययावित्यष्टानामन्वयः । अनादरे हेतुं मदं दर्शयितुं तं विशिनष्टि । त्रिभुवनैश्वर्यमदेनोल्लंघितः सतां पंथा येन सः ॥ २ ॥ * * परिश्रितः परिवृतः ॥ ३४ ॥ * १. प्रा० पा० – यस्य । २. प्रा० पा० सुताः । ३. प्रा० पा० श्रीबादरायणिरुवाच । ४. प्रा० पा० - ऋषिभिनृप । स्क एक. ६ अ. ७ श्लो, १-१०1 अनेकत्र्याख्यासमलंकृतम् आस्थानं सभा तस्मिन्नव्यासनं सिंहासनं तदास्थितः ॥ ५ ॥ * * पारमेष्ठचैर्महाराजचिह्नेः । आसनस्यार्थे स्थितया पौलोम्या शच्या सह विराजमानः सन् ॥ ६ ॥ * प्रत्युत्थानादिना नाभ्यनंदत नाहतवान् ॥ ७ ॥ * * न उच्चचाल आसन एव स्थितोऽपि किंचिन्न चलितवान् ॥ ८ ॥ * * श्रीमदेन या विक्रिया तां विद्वान् जानन् ॥ ६ ॥ ४६ प्रतिबुध्यानुस्मृत्य ।। १२ ।। वंशीधरकृतो भावार्थदीपिकाप्रकाशः न ॥ पौरोहित्ये पुरोहितकर्मणि तत्कर्त्तुमित्यर्थः । अथ वरणानंतरम् ( १ ) ‘गुरुद्वारा प्रसादो मे’ इति पुराणांतरीय- भगवद्वचनाद्गुरुप्रसाद एव बलीयान्भक्तिज्ञानादिसमुद्रकसिद्धये । तदभावः सद्योऽनर्थपरंपरा हेतुरतो ज्ञानाद्यर्थिना पुरुषेण स्वप्नेऽपि गुरुर्नावमंतव्यः किन्तु निरंतरं सबहुमानं प्रसादसिद्धये निषेवणीय इत्येतदस्मिन्नध्याये निरूपयन्नाह — यस्येति । भगवन्निति । वकुं सामर्थ्य द्योतयति ॥ १ ॥ * * हे नृपेति । राज्ञां महो भवत्येवेति स्मारयतीति ।। २-३ ॥ * भारतेति । यथा भरतखंड स्थैस्त्वमिति भावः ॥ ४ ॥ * * पांडुरेण श्वेतेन ॥ ५ ॥ * * पौलोम्या शच्या । अर्द्धमासनमेवासनं यस्यास्तया । मृगलोचनेतिवदासनपदस्य वृत्तानंतर्भावः ॥ ६ ॥ स इन्द्रः । परमत्युत्कृष्टम् । आचार्य बृहस्पतिम् । न केवलं देवानामपि त्वात्मनोऽपीत्यर्थः । नाभ्यनंदत नापूजयत् ॥ ७ ॥ बोधनाय विशेषणबाहुल्यम् । आसन एवारुह्य स्थितोऽपीति ल्यब्लोपे पञ्चमी ॥ ८ ॥ ८ ॥ भविष्यतीति भाविकार्यविज्ञः । प्रभुः शासितुं समर्थः विद्वान गुर्ववमानहेतुत्वेन जानन् ॥ । ॥ निवृत्तस्तव तदानीमेव स्वयं परप्रेरणमंतरैव प्रतिबुध्य ।। १० ।। अन्वितार्थप्रकाशिका *
-
- पूज्यत्वाधिक्य- ततः सभातः । कविरेवं ९ ॥ * * यहिं गुरुः सभातो ।। सप्तमे गुरुणा त्यक्तैर्विश्वरूपो वृतः सुरैः । पौरोहित्यं चकारात्राध्यायश्लोकाः कुवार्द्धयः ( ४१ ) ॥ उवाचेत्यष्टकं (८) सांघ्रिनेत्र ( ४२ ) वेदा अनुष्टुभः ॥ ७ ॥ कस्येति । हे भगवन् ! आत्मन आचार्येण सुराः कस्य हेतोः परित्यक्ताः तेषां शिष्याणां त्यागकारणं यत्तदेतत् गुरौ अक्रममपराधमाचक्ष्व । एतदिति सामान्ये नपुंस- कम् ॥ १ ॥ * * इन्द्र इति अष्टकम् । हे भारत ! हे नृप ! त्रिभुवनैश्वर्यमदेनोल्लङ्घितः सतां पन्थाः येन सः मरुदादिभिः परिश्रितः परिवृतो निषेव्यमाणः स्तूयमानश्च आस्थानं सभा तस्मिन्नध्यासनं सिंहासनं तदाश्रितः अप्सरोगन्धर्वादिभिर्ललितं यथा भवति तथोपगीयमानः चन्द्रमण्डलवच्चारुणा मनोहरेण पाण्डुरेण श्वेतवर्णेन आतपत्रेण छत्रेण अन्यैश्च चामरव्यजनादिभिः पारमेष्ठचैर्महाराजचिह्नेर्युक्तश्च अर्द्धमासनमेवासनं यस्यास्तया मृगलोचनेतिवदासनपदस्य वृत्तावन्तर्भावः । पौलोम्या सह भृशम- तिशयेन विराजमानः इन्द्रो देवानामात्मनश्च परमाचार्य सुरासुरैर्नमस्कृतं मुनिवरं सम्प्राप्तं सम्यक् कृपया आगतमपि वाचस्पतिं बृहस्पतिं पश्यन्नपि यदा आसनान्नोच्चचाल आसनमारुह्य प्रत्युत्थानादिभिश्च नाभ्यनन्दत् तदा श्रीमदेन या विक्रिया तां विद्वान् जानन् कविः क्रान्तदर्शी आङ्गिरसः बृहस्पतिं प्रभुः शापादिना इन्द्रदण्डे समर्थोऽपि तूष्णीं ततः स्थानान्निर्गत्य सहसा स्वगृहमाययौ ।। २-९ ॥ तहींति । तवेन्द्रोऽप्यात्मनः सकाशाद् गुरोर्हेलनमपमानं प्रतिबुद्धय ज्ञात्वा सदसि स्वयं परप्रेरणमन्तरेणैवात्मनाऽऽत्मानं गर्हयामास निन्दितवान् ॥ १० ॥
वीरराघवव्याख्या देवाः विमतेन गुरुणा परित्यक्ताः विश्वरूपं विवत्रिरे इत्युक्तं तदेव सप्रपञ्चं बुभुत्सुः पृच्छति राजा । कस्येति । कस्माद्धेतोराचार्येण गुरुणा आत्मनः शिष्याः सुराः परित्यक्ताः हे भगवन्मुने एतदाचक्ष्व कथय तथा शिष्याणां गुरौ विषये अक्रममपराधं चाक्षस्व ॥ १ ॥ एवमापृष्टो मुनिर्देवानां गुरौ कृतमपराधं वक्तुमुपक्रमते — इन्द्र इति । इन्द्रो यदा सम्प्राप्तं वाचस्पतिं नाभ्यनन्दत नाहतवान् तदाङ्गिरसः । ततो निर्गत्य तूष्णीं स्वगृहमायया इत्यष्टानामन्वयः । अनादर- हेतुं मदं दर्शयितुमिन्द्रं विशिनष्टि त्रिभुवनैश्वर्यमदेनोल्लङ्घितः सतां पन्था येन । हे नृप ! मरुद्रणादिभिः परिश्रितः परिवृत: ब्रह्मवादिभिर्वेदान् पठद्भिर्मुनिभिः सिद्धादिभिश्च यथायथं निषेव्यमाणः स्तूयमानश्च ॥ २-४ ।। 8 ललितं यथा- तथोपगीयमानश्च भगवानिन्द्र: आस्थानं सभा तस्मिन्नध्यासनं सिंहासनं तदास्थितः अधिष्ठितः हे भारत ! चन्द्रमण्डल- बचारुणा सुन्दरेण पाण्डुरेण श्वेतेनातपत्रेण क्षत्रेण ॥ ५ ॥ * * तथा पारमेष्ठ धैर्महाराजलिङ्गैश्चामरादिभिर्युक्तः । अर्द्धा- २२८ श्रीमद्भागवतम् 1 [ स्कं. ६ अ. ७ श्लो. १-१० सनया आसनस्याद्वे स्थितया पौलोम्या शच्या सह नितरां विरोचमानः ॥ ६ ॥ * * स इन्द्रो यदा देवानामात्मनः स्वस्य च परमं पूज्यमाचार्य सुरासुरवन्दितं मुनिश्रेष्ठं बृहस्पतिं सम्प्राप्तं प्रत्युत्थानासनादिभिर्नाभ्यनन्दत नाहतवान् न चचाल • किं तु सभागतं पश्यन्नप्यासन एवं स्थित इत्यर्थः ॥ ७-८ ।। तूष्णीं तदा कविर्विद्वान् प्रभुः समर्थ आङ्गिरसो बृह- स्पतिः श्रीमदेन या विक्रिया तां विद्वान् जानन् तूष्णीं स्वगृहं प्रति ययौ ॥ ६ ॥ तव इन्द्र आत्मनः स्वस्य गुरु- | हेलनं प्रतिबुद्धधानुस्मृत्य आत्मना स्वेनैवात्मानं सदसि सभायां गर्हयामास निन्दितवान् ॥ १० ॥ विजयध्वजतीर्थकृता पदरत्नावली ܀ गुरुद्वारा प्रसादकृदहं त्विति वचनाद्गुरुप्रसाद एवं बलीयान् भक्तिज्ञानादिसमुद्र कसिद्धये तदभावः । सद्योऽनर्थपरम्परा- हेतुरतो ज्ञानाद्यर्थिना पुरुषेण स्वप्नेऽपि गुरुर्नावमन्तव्यः । किन्तु निरन्तरं स बहुमानं प्रसादसमृद्धये निषेवणीय इत्येतस्मिन्न- ध्याये निरूप्यते । तत्र राजा पृच्छति । यस्येति । यस्य कस्य आत्मनः आचार्येण शिष्याणां पुत्राणामक्रममपराधम् ॥ १ ॥ । * राजप्रभं परिहर्तुमुपक्रमते । इन्द्र इति ॥ २४ ॥ * आस्थानं सभा तत्राध्यासनं सिंहासनमाश्रितः ॥ ५॥ * * पारमेष्ठयैः श्रेष्ठैः ॥६॥ * * नाभ्यनन्दत सन्तुष्टया नापूजयत् ॥ ७॥ ॐ प्रत्येकशः पूजाहेतव इति द्योतनाय वाचस्पत्यादिविशेषेण बाहुल्यम् ॥ ८ ॥ * श्रीनिमित्तमदस्य विक्रियां विकारम् ॥ ९ ॥ * * तव ‘तदानीमेव गुरोर्हेलनमवज्ञानम् ॥ १० ॥ इन्द्र इति सार्द्धसप्तकम् ॥ १-२३ ॥ जीव गोस्वामिकृतः क्रमसन्दर्भः विश्वनाथचक्रवतिकृता सारार्थदर्शिनी । x सप्तमे गुरुणा त्यक्तैर्देवदैत्यपराजितैः । विश्वरूपो गुरुत्वेन वृतो ब्रह्मोपदेशतः ॥ आत्मनः शिष्याः सुराः ॥ १॥ * * इन्द्रो यदा सम्प्राप्तं वाचस्पति ना
- इन्द्रो यदा सम्प्राप्तं वाचस्पतिं नाभ्यनन्दत् तदा स स्वगृहमायया- वित्यष्टानामन्वयः ।। २-४॥ * * आस्थानं सभा तस्मिन्नध्यासनं सिंहासनमाश्रितः ॥ ५ ॥
-
- पारमेष्ठचै- महाराजचिह्नः । पौलोम्या शच्या । अर्द्धमासनमेवासनं यस्यास्तया सह मृगलोचनेतिवदासनपदस्य वृत्तावन्तर्भावः ।। ६ ।। * आचार्य बृहस्पतिम् ॥ ७ ॥ 8 * अप्रत्युत्थानमेव स्पष्टयति । वाचस्पतिमिति । आसनादासनमारुह्य स्थितोऽपि किमपि न उच्चचाल न पस्पन्दे ॥ ८ ॥ * *
-
- ततः । सभातः कविः एवं भविष्यतीति भाविकार्य्यविज्ञः । प्रभुः शास्तौ समर्थः । विद्वान् गुर्व्ववमानं हेतुत्वेन जानन् ॥ ६ ॥ * * प्रतिबुद्धय श्रीमदमदिरानिद्रात इत्यर्थः ॥ १० ॥
शुकदेवकृतः सिद्धांत प्रदीप:- Į गुरुणा परित्यक्ताः सुरगणा विश्वरूपं विरे इत्युक्तं तत्प्रपञ्चबुभुत्सुः पृच्छति - यस्येति । यस्येति षष्ठी पञ्चम्यर्थे । यस्माद्धेतोः आचार्येण आत्मनः स्वकीयाः सुराः परित्यक्ताः अस्वकीयाः कृताः एतत् एवम्भूतं गुरौ शिष्याणामक्रमं व्यति- क्रममाचक्ष्व कथयेत्यन्वयः ॥ १ ॥ उत्तरमाह । इन्द्र इत्यादिना । इन्द्रः यदा देवानामात्मनश्च परमाचार्य्यं वाच- स्पतिं प्रत्युत्थानादिभिः नाभ्यनन्दतेति तु किं वाच्यं सभागतं पश्यन्नपि आसनान्नोचचाल तदा प्रभुरपि तन्नाशं कर्त्तुं समर्थोऽपि ततः स्वगृहं तूष्णीमाययावित्यष्टानामन्वयः । त्रिभुवनैश्वर्यमदेनोल्लङ्घितः सतां पन्था येन सः ॥ २ ॥ * परिश्रितः परिवृतः ।। ३-४ ॥ ** आस्थाने सभायां यदद्धयासनं सिंहासनं तदास्थितः ॥ ५ ॥ कै पारमेष्ठचै: महाराज- चियुक्तः पौलोम्या पुलोम्नोऽपत्यभूतया अर्धे वामभागे आसनम् अस्यास्तया सह विराजमानः ।। ६८ ।। * ततः सभातः ।। ६-१० ॥ FR गोस्वामिगिरिधरलाल विहिता बालप्रबोधिनी है सप्तमे विश्वरूपे यः प्रसादो हरिणा कृतः । पौरोहित्यप्रसङ्गेन निखिल तन्निरूप्यते ॥ १ ॥ हे भगवन् सर्वज्ञ आत्मन आचार्येण सुराः कस्य कस्माद्धेतोः परित्यक्ताः । अपराध विना त्यागासम्भवात् तेषां शिष्याणां गुरौ यदक्रममपराधं तदेतदाचक्ष्व ॥ १ ॥ * * स इन्द्रो यदा सम्प्राप्तं वाचस्पतिं नाभ्यनन्दत नाहतवान् ॥स्क. ६ अ. ७ श्लो. १-१०] अनेकव्याख्यासमलंकृतम् तदा स आङ्गिरसस्ततो निर्गत्य तूष्णीं स्वगृहमाययावित्यष्टानामन्वयः । अनादरहेतुं मदं दर्शयितुं तं विशिनष्टि - त्रिभुवनैश्वर्य- • मदेनोल्लङ्घितः सतां पन्था येन सः । मरुदादिभिः परिश्रितः परिवृतो निषेव्यमाणः स्तूयमानश्चेत्यन्वयः । राज्यमदो महान् दोषो येन त्वयाऽपि ब्राह्मणगले सर्पनिक्षेपः कृत इति सूचनाय सम्बोधयति - हे नृपेति । २-४ ॥ * * आस्थानं सभा तस्मिन्नध्यासनं सिंहासनं तदास्थितः । अप्सरोगन्धर्वादिभिर्ललितं यथा भवति तथोपगीयमानः । चन्द्रमण्डलवच्चारुणा मनोहरेण पाण्डुरेण श्वेतवर्णेन आतपत्रेण च्छत्रेण ॥ ५ ॥ * * अन्यैश्च चामरव्यजनादिभिः पारमेष्ठ चैर्महाराजचिहैर्युक्तश्च । अर्द्धमासनमेव आसनं यस्यास्तया पौलोम्या शच्या सह भृशम् अतिशयेन विराजमानः ॥ ६ ॥ * परमाचार्यमित्यादि- विशेषणैर्बृहस्पतेः परम पूज्यत्वं दर्शितम् । देवानामाचार्यमित्यनेन इन्द्रानादरेण देवा अपि नादृतवन्त इति सूचयति । अन्यथा ते सर्वे तेन न त्यक्ताः स्युरिति ज्ञेयम् । प्रत्युत्थानादिभिर्नाभ्यनन्दत् । अहो सत्त्वप्रधानानामपि देवानामैश्वर्य बुद्धि भ्रंशयति किमुत अन्येषामित्याश्चर्यं दर्शयति - हेति ॥ ७ ॥ * * सम्यक कृपया आगतं तं पश्यन्नपि आसनान्नोच्चचाल आसन- मारुह्य स्थितो न, ततः स्पन्दै ॥ ८ ॥ प्रभुः शापादिना इन्द्रदण्डे समर्थोऽपि तूष्णीं ततः स्थानान्निर्गत्य सहसा स्वगृहमाययावित्यन्वयः । तूष्णीं निर्गमने हेतुमाह श्रीमदेन या विक्रिया तां विद्वान् जानन् । ननु तथा ज्ञानेऽपि विक्रिया- निवृत्तये दण्ड एव युक्त इत्याशङ्कयाह - कविरिति । अग्रे विश्वरूपद्वारा नारायणकवचप्राप्त्या भाविभगवदनुग्रहज्ञानवा- नित्यर्थः । एवं सामर्थ्य हेतुमाह-यत आङ्गिरसः अङ्गिरसः पुत्रः ॥ ६ ॥ *
तर्ह्येवेन्द्रोऽपि आत्मनः सकाशात् गुरोर्हेलनमपमानं प्रति बुद्धय ज्ञात्वा सदसि स्वयं पर प्रेरणमन्तरेणैव आत्मनाऽऽत्मानं गर्हयामास निन्दितवान् ॥ १० ॥ भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी गुरुणा संपरित्यक्तैः पौरोहित्ये वृतः सुरैः । पौरोहित्यं चकारैषां विश्वरूपस्तु सप्तमे ॥ १ ॥ देवाः यदा विमतेन गुरुणा परित्यक्ताः तदा विश्वरूपं वत्रिरे इत्युक्तं तदेव सप्रपचं बुभुत्सुः पृच्छति राजा । कस्येति । आचार्येण गुरुणा, आत्मनः शिष्याः सुराः कस्य हेतोः कस्मात् कारणात्, परित्यक्ताः, हे भगवन् एतत् आचक्ष्व । तथा गुरौ विषये शिष्याणां अक्रममपराधं च आचक्ष्व ॥ १ ॥ * * एवमापृष्टो मुनिर्देवानां गुरौ कृतमपराधं वक्तुमुपक्रमते । इन्द्र इत्यादिना । हे नृप, इन्द्रो यदा संप्राप्तं वाचस्पतिं गुरुं नाभ्यनन्दत्तदाङ्गिरसस्ततो निर्गत्य तूष्णीं स्वगृहमाययावित्यष्टा- नामन्वयः । अनादरे हेतु प्रदर्शयितुमिन्द्रं विशिनष्टि त्रयाणां भुवनानां यदैश्वर्यं तस्य मदस्तेनोल्लङ्घितः सतां पन्था येन सः । मरुद्भिः, वसुभिः, रुद्रैः, आदित्यैः, ऋभुभिः ॥ * विश्वेदेवैरिति । विश्वेदेवैः साध्यैश्च, नासत्याभ्यामश्विनीकुमाराभ्यां च, परिश्रितः परिवृतः । सिद्धाश्च चारणाश्च गन्धर्वाश्च तैः ब्रह्मवादिभिः मुनिभिः अपि, निषेव्यमाणः । इत्युत्तरश्लोका- दनुषञ्जनीयम् ॥ ३ ॥ * * * रात / विद्याधराश्च अप्सरसश्च ताभिः, किंनरैः, पतगाश्च उरगाश्च तैश्च निषेव्यमाणः, हे भारत, स्तूयमानश्च, भगवानैश्वर्यसंपन्नः ॥ ४ ॥ ॥ उपगीयमान इति । ललितं यथा तथा, उपगीयमानः, आस्थानं सभा तस्मिन्नध्यासनं सिंहासनं तदास्थितोऽधिष्ठितः, पाण्डुरेण श्वेतेन, चन्द्रमण्डलचारुणा सोममण्डलवदतिसुन्दरेण, आत- पत्रेण छत्रण, युक्तः ॥ ५ ॥ * * युक्त इति । तथा पारमेष्ठचैर्महाराजलिङ्गैः, चामरव्यजनादिभिः, अन्यैः स्वर्णवेत्र- धरादिभिश्व युक्तः । सहार्द्धासनया आसनस्यार्द्धे सहैव स्थितया पौलोम्या शच्या, भृशं विराजमानः ॥ ६ ॥ * * स यदेति । स उक्तविध इन्द्रः, यदा देवानाम् आत्मनश्च स्वस्य च परमाचार्य परमपूज्यं गुरुं, ह स्फुटं यथा तथा संप्राप्तं विदित्वापि, प्रत्युत्थानं तं दृष्ट्वाभ्युत्थानं च आसनमासनप्रदानं च ते आदी येषामर्घ्यपाद्यादीनां तैः नाभ्यनन्दत नादृतवान् ॥ ७ ॥ * * न चायमेवमनादराई इति द्योतयितुं तमर्द्धेन विशिनष्टि । वाचस्पतिमिति । वाचस्पतिं साक्षाद्बृहस्पतिं तत्रापि, मुनिवरं, अतः सुरासुरनमस्कृतं, सभागतं पश्यन्नपि, आसनात् इन्द्रः, यदा न उच्चचाल ॥ ८ ॥ * * तत इति । तदा प्रभुरति- समर्थः, कविर्मन्त्रद्रष्टा, आङ्गिरसोऽङ्गिरसः पुत्रः बृहस्पतिः, ततस्तस्याः सभायाः सकाशात्, सहसा तत्क्षणमेव, निर्गत्य परावृत्य, श्रीमदेन या विक्रिया तां इन्द्रस्येति शेषः । विद्वान् जानन् सन् तूष्णीं स्वगृहम् आययौ ॥ ९ ॥ * * तवेति तर्ह्येव तत्क्षणमेव, इन्द्रः आत्मनः स्वात्मना जातमित्यर्थः । गुरुहेलनं प्रतिबुद्धय, सदसि स्वयम् आत्मना स्वबुद्धया, आत्मानं स्वं, गर्हयामास निन्दितवान् ।। १० ।। भाषानुवादः बृहस्पतिजीके द्वारा देवताओंका त्याग और विश्वरुपका देवगुरुके रूपमें वरण राजा परीक्षित ने पूछा-भगवन् ! देवाचार्य बृहस्पतिजीने अपने प्रिय शिष्य देवताओंको किस कारण त्याग दिया था ? देवताओंने अपने गुरुदेवका ऐसा कौन-सा अपराध कर दिया था, आप कृपा करके मुझे बतलाइये ॥ १ ॥ * * २३० श्रीमद्भागवतम् [ स्कं. ६ अ. ७ श्लो. ११-२० श्रीशुकदेवजी ने कहा- राजन् ! इन्द्रको त्रिलोकीका ऐश्वर्य पाकर घमंड हो गया था । इस घमंडके कारण वे धर्ममर्यादाका, सदाचारका उल्लङ्घन करने लगे थे । एक दिनकी बात है, वे भरी सभामें अपनी पत्नी शचीके साथ ऊँचे सिंहासनपर बैठे हुए थे, उन्चास मरुद्गण, आठ वसु, ग्यारह रुद्र, आदित्य, ऋभुगण, विश्वेदेव, साध्यगण और दोनों अश्विनीकुमार उनकी सेवा में उपस्थित थे । सिद्ध, चारण, गन्धर्व, ब्रह्मवादी मुनिगण, विद्याधर, अप्सराएँ, किन्नर, पक्षी और नाग उनकी सेवा और स्तुति कर रहे थे । सब ओर ललित स्वरसे देवराज इन्द्रकी कीर्तिका गान हो रहा था। ऊपर की ओर चन्द्रमण्डलके समान सुन्दर श्वेत छत्र शोभायमान था । चँवर, पंखे आदि महाराजोचित सामग्रियाँ यथास्थान सुसज्जित थीं । इस दिव्य समाजमें देवराज बड़े ही सुशोभित हो रहे थे ।। २-६ ।। इसी समय देवराज इन्द्र और समस्त देवताओंके परम आचार्य बृहस्पतिजी वहाँ आये । उन्हें सुर-असुर सभी नमस्कार करते हैं । इन्द्रने देख लिया कि वे सभामें आये हैं; परन्तु वे न तो खड़े हुए और न आसन आदि देकर गुरुका सत्कार ही किया । यहाँतक कि वे अपने आसनसे हिले-डुलेतक नहीं ।। ७-८ ॥ * * त्रिकालदर्शी समर्थ बृहस्पतिजीने देखा कि यह ऐश्वर्यमदका दोष है। बस, वे झटपट बहाँसे निकलकर चुपचाप अपने घर चले आये ॥ ६ ॥ घर चले आये ॥ ६ ॥ परीक्षित् ! उसी समय देवराज इन्द्रको ज्ञान हुआ
- -गये कि मैंने अपने गुरुदेवकी अवहेलना की है । वे भरी सभा में स्वयं ही अपनी निन्दा करने लगे ॥ १० ॥ ॥ ॥ ११ ॥ १२ ॥ १३ ॥ १४ ॥ १५ ।। अहो बत ममासाधु । कृतं वै बुद्धिना । यन्मयैश्वर्यमत्तेन गुरुः सदसि कात्कृतः ॥ को गृध्येत् पण्डितो लक्ष्मी त्रिविष्टपपतेरपि । ययाहमासुरं भावं नीतोऽद्य विबुधेश्वरः ॥ ये पारमेष्ठ्य धिषणमधितिष्ठन् न कश्चन । प्रत्युत्तिष्ठेदिति ब्रूयुर्धमं ते न परं विदुः तेषां कुपथदेष्टृणां पततां तमसि धः । ये श्रद्दध्युर्वचस्ते वै मञ्जन्त्यश्मप्लवा इव ॥ अथाहममराचार्यमगाधधिषणं द्विजम् । प्रसादयिष्ये निशठः शीष्ण तच्चरणं स्पृशन् ।। एवं चिन्तयतस्तस्य मघोनो भगवान् गृहात् । बृहस्पतिर्गतोऽदृष्टां गतिमध्यात्ममायया ।। १६ ॥ गुरोर्नाधिगतः संज्ञां परीक्षन् भगवान् स्वराट् । ध्यायन् धिया सुरैर्युक्तः शर्म नालभतात्मनः ।। १७ ।। तच्छ्रुत्वैवासुराः सर्व आश्रित्य शनसं मतम् । देवान् प्रत्युद्यमं चक्रुदुर्मदा आततायिनः ॥ तैर्विसृष्टेषुभिस्तीच्णनिभिन्नाङ्गोरुबाहवः । ब्रह्माणं शरणं जग्मुः सहेन्द्रा नतकन्धराः ॥ तांस्तथाभ्यदितान् वीच्य भगवानात्मभूरजः । कृपया परया देव उवाच परिसान्त्वयन् ॥ २० ॥ MA IRHEGEDS कृष्णप्रिया व्याख्या ॥ に १८ ॥ ९ ॥ वे समझ अन्वयः - अहो बत मम असाधु कृतं यत् चै दबुद्धिना एश्वर्यमत्तेन मया सदसि गुरुः कात्कृतः ।। ११ ।। यया विबुधेश्वरः अहम् अद्य आसुरं भावं नीतः त्रिविष्टपपतेः अपि लक्ष्मी कः पंडितः गृद्धयेत् ।। १२ ।। * * पारमेष्ठ्यं धिषण अधितिष्ठन् कंचन न प्रत्युत्तिष्ठेत् इति ब्रूयुः ते परमं धर्म न विदुः ॥ पततां तेषां वचः ये हि श्रदध्युः ते वै अश्मलवाः इव मज्जन्ति ॥ १४ ॥ arrafari द्विजम् अमराचार्यम् प्रसादयिष्ये ।। १५ ।। अगाधधिषणं अध्यात्ममायया अदृष्टां गतिं गतः ॥ १६ ॥ अधिगतः आत्मनः शर्म न अलभत ॥ १७ ॥ ७ ॥ १८ ॥
११ ॥ * * कुपथदेष्घृणां तमसि अध: अथ निशठः अहं शीर्णा तञ्चरणं स्पृशन * * एवं चिन्तयतः तस्य मघोनः गृहात् भगवान् बृहस्पतिः भगवान् स्वराट् सुरैः युक्तः धिया ध्यायन परीक्षन गुरोः संज्ञां न ‘दुर्मदाः आततायिनः सर्वे असुराः तत् श्रुत्वा एव औशनसं मतम् * तैः तीक्ष्णैः विसृष्टेषुभिः निर्भिन्नांगोरुबाहवः सहेन्द्राः नतकन्धराः ब्रह्माणं शरणं जग्मुः ।। १९ ।। * * भगवान् आत्मभूः अजः देवः तथा अभ्यर्दितान् तान् वीक्ष्य परया कृपया परिसांत्वयन् आश्रित्य देवान् प्रत्युद्यमं चक्रुः ॥ उवाच ।। २० ॥ १. प्रा० पा० कथञ्चन । २. प्रा० पा० शुचा युक्ताः । ३. प्रा० पा० स्तिग्मनि० । स्क. ६ अ. ७ श्लो. ११-२० 1 अनेकव्याख्यासमलङ्कृतम् श्रीधरस्वामिविरचिता भावार्थदीपिका * २३१ मम कृतं कर्म अहो असाधु यद्यस्मादभ्रबुद्धिनाल्पमतिना मया कात्कृतस्तिरस्कृतः ॥ ११ ॥ * * विबुधानां सात्त्विकानां देवानामीश्वरोऽप्यहम् ॥ १२ ॥ ननु सिंहासनस्थो राजाऽभ्युत्थानं न कुर्यादिति वृद्धा वदंति तत्राह । य इति द्वाभ्याम् । धिषणमासनम् ॥ १३ ॥ * कुपथं दिशंत्युपदिशंतीति कुपथदेष्टारस्तेषां वचः । अश्ममयः प्लवी । ॥ ॥ येषां ते यथा मज्जंतं प्लवमनु मज्जति तद्वत् ॥ १४ ॥ * * अगाधा गंभीरा धिषणा तस्य तम् । निशठः शाख्यहीनः सन् ।। १५ ।। * अधिकया आत्ममायया ।। १६ ।। * गुरोः संज्ञा ज्ञानोपायं परीक्षमाणोऽपि नाधिगतोऽ- प्राप्तः सन् ॥ १७ ॥ 8 * आततायिन उद्यतास्त्राः ॥ १८ ॥ वाहवश्च येषाम् ।। १९-२० ।। वंशीधरकृतो भावार्थदीपिकाप्रकाश न निर्भिन्नान्यंगान्युत्तमांगानि शिरांसि ऊरवो परं कल्याणहेतुम् ।। १३ ।। * * अस्य विपत्तौ क कः खलूपाय इति सदसीत्यपराधोद्रेकतामाह । कुत्सितः कृतः कत्कृतस्स एव कात्कृतः पृषोदरादिः ॥ ११ ॥ * * स्वसंपत्ति- मेव तिरस्कारहेतुत्वेन ज्ञात्वा निंदतिक इति । गृध्येद्वाञ्छेत् । यया त्रिविष्टपेशसंपत्या ॥ १२ ॥ * * अत्राक्षिप्य समाधत्ते—नन्विति । ं -नन्विति । वृद्धा इति । कुशलाः । सत्यं ते भ्राता एवेत्याह-य इति । परं कल्याणहेतुम् ॥ १३ ॥ अधस्तमसि नरके । पततां पतिष्यमाणानाम् । सवस्तरणसाधनम् ॥ १४ ॥ क्षणं विमृश्य स्वयमेवाह - अथाहमिति । यत एवमनर्थोऽथ तस्मात् शाठ्याहीनो अथाहमिति । यत एवमनर्थोऽथ तस्मात् शाठ्याहीनो निष्कपटः ॥ १५ ॥ * * अदृष्टामिति पाठे न विद्यते दृष्टं दर्शनं यस्यामित्यर्थः । आत्ममायया योगसामर्थ्येन ॥ १६ ॥ * तद्बृहस्पतिककर्तृकदेवत्यजनम् । औशनर्स भार्गवम् ॥ १८ ॥ भ्यर्दितान दैत्यशस्त्रच्छिन्नांगान् आत्मनः परमात्मनो भवतीत्यात्मभूर्ब्रह्म ॥ २० ॥ स्वराद्रिः ।। १७ ।। हः ।। १७ ।।
-
- तैः असुरैः ॥ १९ ॥ * * तान्देवान् । तथा अन्वितार्थप्रकाशिका । ** अहो इति । अहो मम कृतं कर्म वै निश्चितमसाध्येव यत् दवा अल्पा बुद्धिर्यस्य तेनैश्वर्यमत्तेन मया गुरुः सदसि कात्कृत: तिरस्कृतः सदसीत्यपराधाधिक्याय ॥। ११ ॥ * * क इति । अतः त्रिविष्टपपतेर्ममापि लक्ष्मी सम्पदं पण्डितः तस्या मादकतादिदोषज्ञानवान् को गृध्येत वाच्छेत् । यया सम्पदाऽहं विबुधानां सात्त्विकानां देवानामीश्वरोऽप्यासुरं भाव- महङ्कारमय नीतोऽस्मि ॥ १२ ॥ * * ननु राजसिंहासनस्थस्य अनभ्युत्थाने दोषाभाव इत्याशङ्कयाह-य इति । पारमेठ्य धिषणं महाराजसिंहासनमधितिष्ठन् ब्राह्मणादि कमपि कंचन न प्रत्युत्तिष्ठेदिति ये ब्रूयुस्ते परमुत्कृष्टं धर्म न विदुः । “ब्राह्मणं कुलसम्पन्नं भक्तं विष्णोर्महात्मनः । आयान्तं वीक्ष्य नोत्तिष्ठेत्स दुःखैः परिभूयते ।" इत्यादिशास्त्रविरोधात् ।। १३ ।। तेषामिति । अधस्तमसि पततां कुपथदेष्टृणां कुमार्गे प्रवत्तकानां तेषां वचो ये श्रद्दध्युः तत्र श्रध्धां कुर्वन्ति ते मञ्जन्ति नरकादि- दुःखे निमग्ना भवन्ति । यथा अश्मना कृतः सवो नौयैस्ते तथा मज्जन्तं सवमनुमज्जन्ति तद्वदित्यर्थः ॥ १४ ॥ अथेति । अथ तस्मात् अगाधा धिषणा यस्य तं सर्वज्ञम् अमराणामाचार्य द्विजं ब्राह्मणत्वात्कृपालु बृहस्पति निशठ: शाव्यरहितः अहं शीर्णा तञ्चरणं स्पृशन प्रसादयिष्ये ।। १५ ।। * एवमिति । एवं तस्य मघोनः इन्द्रस्य स्वसभायामेव चिन्तयतः सतो बृहस्पतिर्यतो भगवान् सर्वज्ञोऽतस्तदभिप्रायं भाविकार्य च सर्वं ज्ञात्वा अधि अधिकया उत्कृष्टया आत्मनो मायया शक्त्या स्वगृहाद्यदृष्टामन्तर्धानलक्षणां गतिं स्थितिं गतः ।। १६ ।। गुरोरिति । यदा च भगवान् स्वराट् इन्द्रः परीक्षन परित ईक्षमाणोऽपि । शता आर्षः । गुरोः संज्ञां स्थिति स्थानज्ञानं नाधिगतो न प्राप्तस्तदा गुरुवैमुख्येन रक्षकाभावाद- सुरेभ्यः कथमस्माकं निर्वाहो भविष्यतीति धिया ध्यायन् सर्वैः सुरैर्युक्तोऽप्यात्मनो मनसः शर्म स्वास्थ्यं नालभत ।। १७ ।। ** तदिति । तद् बृहस्पतेर्वैमनस्यं श्रुत्वैव दुर्मदाः सर्वेऽसुराः औशनसं मतं शुक्राचार्यस्य समतिमाश्रित्य आततायिनः गृहीतशस्त्राः सन्तो देवान् प्रत्युद्यमं चक्रुः तेषां नाशाय युद्धं चक्रुः ॥ १८ ॥ * * तैरिति । तदा तैरसुरैर्विसृष्टै- सीक्ष्णैरिषुभिर्निर्भिन्नान्यङ्गानि उदरशिरआदीनि उरवो बाहवश्च येषां ते तथाभूताः अत एव लज्जया आनता कन्धरा येषां ते तथाभूताः अत एव लज्जया आनता कन्धरा येषां ते तथाभूताः इन्द्रेण सहिता देवाः ब्रह्माणं शरणं ययुः उपायार्थ विज्ञापनं चक्रुः ।। १९ ।। * * तानिति । तान् देवान् तथोक्तप्रकारेणासुरैरभ्यर्दितान् पीडितान् वीक्ष्य परया कृपया व्याप्तस्तान् परिसान्त्वयन भगवानजो देवः आत्मभूः ब्रह्मा उवाच ॥ २० ॥ काम । ।
- 1-
- श्रीमद्भागवतम्
- वीरराघवव्याख्या
- [ स्कं. ६ अ. ७ श्लो. ११-२०
- प्रकारमाह । अहो इति पञ्चभिः । अहो बताहो मम कष्टं प्राप्तम् । असाधु कर्म मया कृतं वै यद्यस्माद्दबुद्धि- नाल्पमतिना ऐश्वर्यमत्तेन मया सदसि गुरुः कात्कृतः तिरस्कृतः ॥ ११ ॥ * * पण्डितो विद्वान्नित्यानित्यविवेकसम्प- अश्चेदित्यर्थः । को वा पुमान् त्रिविष्टपपतेः त्रीलोकान्पातीति त्रिविष्टपं तस्य पतेः सत्यलोकाधिपतेरपि लक्ष्मीं गृध्येदभिका- क्षेत्किन्तु तुच्छं मन्येतेत्यर्थः । विबुधानां सात्त्विकानामीश्वरोऽप्यहमासुरं भावं मोहमिति यावत् नीतः प्रापितः ।। १२ ।। ननु सिंहासनस्थो राजा प्रत्युत्थानादिकं न कुर्यादिति वदन्ति वृद्धस्तत्राह । य इति द्वाभ्याम् । पारमेष्ठयं धिषणं परमेष्ठी महाराज- स्तत्सम्बन्ध्यासनं धिषणं तदधितिष्ठन् कञ्चन प्रति नोत्तिष्ठेदिति ये ब्रूयुस्ते परं केवलं धर्म न विदुः ॥ १३ ॥ * * किन । तेषां कुपथदेष्टृणां कुमागोपदेष्टुणामत एवाधस्तमसि नरके पततां वचः ये जनाः श्रद्दध्यु तेऽश्मसवाः बृहत्पाषाणयुक्तमवारूढा इव मज्जन्त्यधो यान्ति ॥ १४ ॥ अथातः अहममराणामाचार्यमगाधा धिषणा बुद्धिर्यस्य तं मत्कृतापराधमगणयन्तं द्विजं वाक्पतिं प्रसादयिष्ये प्रार्थये कथंभूतः निशठः निर्गतशाठ्यः सन् । तस्य गुरोश्चरणौ शीर्णा स्पृशन् ॥ १५ ॥ * * एवं तस्य मघोन इन्द्रस्य चिन्तयतः सतः भगवान् बृहस्पतिरध्यात्ममायया योगप्रभावेण गृहाददृष्टां गतिं गतः अदृश्योऽभूदित्यर्थः । ततो भगवान् स्वराडिन्द्रः गुरोः संज्ञां दर्शनोपायं परीक्ष्य विचार्य्यापि नाधिगतः न प्राप्तः धिया ध्यायन् दर्शनोपायं चिन्तयन् शुचा शोकेन युक्तः आत्मनः स्वस्य शर्म सुखं नालभत न प्राप ।। १६-१७ ॥ तदिन्द्रस्य गुर्वपराधप्रयुक्त क्लेश- चिन्तादिकं श्रुत्वा तदैव औशनसम्मतमुशनसा मन्त्रिणमाश्रित्य सर्वेऽसुराः दुर्मदा अनिवार्यमदाः आततायिनः जिघांसवः देवान् प्रत्युद्यमं युद्धोद्योगं चक्रुः ॥ १८ ॥ * * तैरसुरैर्विसृष्टेः प्रयुक्तैस्तीक्ष्णैरिषुभिर्निर्भिन्नान्यङ्गान्युत्तमाङ्गानि शिरांसि ऊरवो बाहवश्च येषां ते इन्द्रसहिता देवा नम्रशिरसो ब्रह्माणं शरणं ययुः ॥ १६ ॥ * * अभ्यर्दितान् तदा पीडितांस्तान् देवान् वीक्ष्य भगवानात्मभूः परमात्मजः अजो ब्रह्मा परयाधिकया कृपया युक्तस्तान् सान्त्वयन्नुवाच ॥ २० ॥
- ।। ।।
- विजयध्वजतीर्थकृता पदरत्नावली
- सदसीत्यनेनावज्ञानस्योद्रेकतामाह । दधबुद्धिनाल्पबुद्धिना कात्कृतः धिक्कृतः ॥ ११ ॥ को गृद्धयेदिति “गृधु” अभिकाङ्क्षायाम् ।। १२ ।। ॐ राजयोग्यसिंहासनमधिष्ठितो न प्रत्युत्तिष्ठेदिति शास्त्रकारवचनात्कथमासुरं भावं नीत इति चेत्तत्राह । य इति । पारमेष्ठ यधिषणं सिंहासनस्थानमधितिष्ठन् राजा कञ्चन नोत्तिष्ठेदिति प्रत्युत्थानं न कुर्यादिति ये पण्डितंमन्या ब्रूयुस्ते परमं धर्म न विदुरित्यन्वयः ।। १३ ।। * * तादृशानां वाक्ये विश्वासेन प्रवर्तमानस्या- नर्थफलहेतुत्वाद्बुद्धिमता न कर्तव्यमित्यभिप्रेत्याह । तेषामिति । अश्मना कृताः सवाः नावोऽश्मसवाः ।। १४ ।। ** यत एवमनर्थोऽथ तस्माद्गाधधिषणं गम्भीर बुद्धिम् ।। १५ ।। * * अध्यात्ममायया योगसामर्थ्येन अदृष्टां गतिमदृश्य- लक्षणां स्थितिम् ।। १६ ।। * * संज्ञां स्वरूपविषयज्ञानं स्वराडिन्द्रः ।। १७-१८ ।। * * निर्भिन्नान्यङ्गानि शरीराणि ऊरवश्च बाहवश्च येषां ते तथा ॥ १९ ॥ * * आत्मनः परमात्मनो भवतीत्यात्मभूः ।। २० ।।
- विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी
- *
- कात्कृतः तिरस्कृतः ॥ ११ ॥ * * स्वसम्पत्तिमेव तिरस्कारहेतुत्वेन ज्ञात्वा निन्दति । को गृध्येत् वाच्छेत् ।। १२ ।। * * ननु “सिंहासनस्थो राजा कमपि नाभ्युत्तिष्ठेत्” इति नीतिशास्त्रज्ञा आहुः । सत्यं ते भ्रान्ता एवेत्याह-ये इति । पारमेष्ठयं धिषणं परमेष्ठिनोऽप्यासनम् ॥ १३ ॥ नुमज्जन्ति तथेति राजनीत्युपदेष्टुषु पुंस्खसभ्येषु कोपो व्यञ्जितः ।। १४ ।। विमृश्य स्वयमेवाह । अथाहमिति । निशठः शाठयहीनः सन् ।। १५ ।।
- । अधिकया आत्मनो मायया ।। १६ ।। * * संज्ञां ज्ञानोपायं सन् ।। १७-२१ ॥
- अश्ममयः सवो येषां ते यथा मज्जन्तं प्लवम- * तस्मादस्यां विपत्तौ कः खलूपायः क्षणं * चिन्तयतः । चिन्तयन्तमघवन्तमनादृत्य । परीक्षन् परितः ईक्षमाणोऽपि नाधिगतः अप्राप्तः
- शुकदेवकृतः सिद्धांत प्रदीपः
- ॥
- दभ्रुबुद्धिना अल्पमतिना कात्कृतः कदर्थीकृतः ॥ ११ ॥ * * गृध्येदभिकाङक्षेत् ॥ १२ ॥ * * पारमेष्ठयं महाराज संबन्धिधिषणमासनमधितिष्ठन् कंचन प्रति नोत्तिष्ठेदिति ये ब्रूयुः ते परं धर्मम् । आयान्तममतो गच्छेत्
- स्कं. ६ अ. ७ श्लो. ११-२० ]
- अनैकव्याख्यासमलङ्कृतम्
- २३३
- गच्छन्तं तमनुब्रजेत् । आसने शयने वापि न तिष्ठेदमतो गुरोः । इत्यादि शास्त्रोक्तं न विदुः ।। १३ ॥ * कुपथं कुत्सितं मार्ग दिशन्त्युपदिशन्तीति कुपथदेष्टारस्तेषाम् अत एवाधस्तमसि नरके पतताम् ये वचः श्रद्दध्युः ते अश्मलवा इव अश्मा पाषाण : तन्मय वो येषां तद्वत् मज्जन्ति उपदेष्टृभिः सहिताः अधस्तमसि पतन्तीत्यर्थः ॥ १४ ॥ * * निशठः नितरां शठः कृतापराधः ।। १५ ।। एवं चिन्तयतः सतः अध्यात्ममायया अधिका या आत्मनो माया अन्तर्धानशक्ति- स्तया ।। १६ ।। * * धिया ध्यायन सुरैर्युक्तश्च परीक्षन परितः ईक्षमाणोऽपि गुरोः संज्ञां दर्शनोपायं नाधिगतः अलभ- मानः सन् आत्मनः स्वय शर्म सुखं नालभत ॥ १७ ॥ * * औशनसं मतम् " आपदि शत्रुः सपदि धर्षणीयः" इति उशनसः शुक्रस्य नीतिम् । आततायिनः गृहीतशस्त्राः ।। १८ ।। * * निसृष्टैः क्षिप्तैर्निर्भिन्नान्यङ्गानि उत्तमाङ्गादीनि ऊरवो बाहवश्च येषां ते शरणं रक्षितारम् ॥ १९ ॥ * * अभ्यर्द्दितान् पीडितान् ॥ २० ॥
- ।। ।।
- ॥
- *
- गोस्वामिगिरिधरलाल विहिता बालप्रबोधिनी
- …
- इन्द्रेण कृतं स्वनिन्दनं दर्शयति — अहो इति द्वयेन । वै अवधारणे । अहो आश्चर्यं मम कृतं कर्म असाधु एव । किमसाधु कर्म त्वया कृतमित्यपेक्षायामाह - यन्मया गुरुः कात्कृतः तिरस्कृत इति । सदसीत्यनेनापराधाधिक्यं द्योतयति । यदि क्रीडापरिहासादिस्थलेऽपि मनसाऽपि गुरुतिरस्कारो न युक्त तदा सभायां साक्षात्त्वत्ययुक्त एवेति भावः । तर्हि किमित्येवं कृतवानिति वीक्षायां ऐश्वर्यलक्षणदोषेणेत्याह- ऐश्वर्यमत्तेनेति । ननु तथा मदेऽपि किं कारणं न हि सर्वे ऐश्वर्यवन्तस्तन्मदमत्ता एव भवन्तीति नियमोऽस्ति अन्यथा परमैश्वर्यवतो भगवतोऽपि मदः स्यादित्याशङ्कयाह-दभ्रुबुद्धिनेति, दुधा अल्पा अविद्या- प्रस्ता बुद्धिर्यस्य तेनेत्यर्थः । अविद्ययाहम्ममाभिमानेनैव ऐश्वर्यादिमतां मदो भवति भगवतस्तदभावात् स कथं स्यादिति भावः ।। ११ ।। * * अतस्त्रिविष्टपपतेर्ममापि लक्ष्मीं सम्पदं पण्डितस्तस्या मादकतादिदोषज्ञानवान् को गृध्येत् वाछेत् ? । यया सम्पदाऽहं विबुधानां सात्त्विकानां देवानामीश्वरोऽपि आसुरं भावमहङ्कारमय नीवोऽस्मीत्य- न्वयः ।। १२ ।। * * ननु ‘राजसिंहासनस्थो हि नाभ्युत्तिष्ठेश्च कञ्चन’ इति शास्त्रादनभ्युत्थानमुचितमेवेत्याशङ्कयाह- यदिति द्वयेन । पारमेष्ठयं धिषणं महाराजसिंहासनमधितिष्ठन् ब्राह्मणादिं कञ्जन न प्रत्युत्तिष्ठेदिति ये ब्रूयुस्ते परमुत्कृष्टं धर्म न विदुः । ‘ब्राह्मणं कुलसम्पन्नं भक्तं विष्णोर्महात्मनः ।। आयान्तं वीक्ष्य नोत्तिष्ठेत् स दुःखैः परिभूयते’ इत्यादिशास्त्रविरोधादिति भावः ।। १३ ।। * * अतो हि निश्चितं कुपथदेष्टृणां कुमार्गे प्रवर्त्तकानां तेषां वचो ये श्रद्दध्युः श्रद्धां कुर्वन्ति ते मज्जन्ति नरकादिदुःखे निमग्ना भवन्ति । यतस्त उपदेष्टारः स्वयमेव नरके पतन्तीत्याह अधस्तमसि पततामिति । तत्र दृष्टान्तमाह- अश्मप्लवा इवेति । अश्मना कृतः प्लवो नौयैस्ते तथा मज्जन्तं प्लवमनुमज्जन्ति तद्वदित्यर्थः । वैशब्द उदाहृतशास्त्रस्मरण- द्योतकः ।। १४ ।। * एवं स्वापराधं ततो दुःखं च निश्चित्येदानीं तन्निवृत्त्युपायं निश्चिनोति – अथेति । अथ तस्मादमराणामाचार्य बृहस्पतिमहं शीर्णा तच्चरणं स्पृशन् प्रसादयिष्ये इत्यन्वयः । नन्वेवमपि कथं तव शठस्य प्रसीदेत्तत्राह - निशठ इति । शाठ्यं त्यक्त्वेत्यर्थः । ननु तव मानसं भावं स कथं ज्ञास्यतीत्याशङ्कयाह - अगाधधिषणमिति, सर्वज्ञमित्यर्थः । ननु तथापि पूर्वकृतमनादरं स्मरन कथं प्रसीदेदित्याशङ्कयाह — द्विजमिति । ब्राह्मणत्वेन कृपालुत्वादिति भावः ।। १५ ।। * * एवं तस्य मघोनः इन्द्रस्य स्वसभायामेव चिन्तयतः सतो बृहस्पतिर्यतो भगवान् सर्वज्ञोऽतस्तदभिप्रायं भाविकार्यं च सर्व अधि अधिकया उत्कृष्टया आत्मनो मायया शक्त्या स्वगृहादप्यदृष्टां अन्तर्धानलक्षणां गतिं स्थितिं गत इत्यन्वयः ।। १६ ।। यदाच भगवानैश्वर्यादिमानपि स्वराट् सर्वदेवाधिपतिरिन्द्रः परीक्षमाणोऽपि गुरोः सब्ज्ञां स्थितिं स्थानज्ञानं नाधिगतो न प्राप्तस्तदा गुरुवैमुख्येन रक्षकाभावादसुरेभ्यः कथमस्माकं निर्वाहो भविष्यतीति धिया ध्यायन् सर्वैः सुरैर्युक्तोऽपि आत्मनो मनसः शर्म स्वास्थ्यं नालभतेत्यन्वयः ।। १७ ।। * * तत् बृहस्पतेर्वैमनस्येन देवोपेक्षां श्रुत्वैव दुर्मदाः सर्वेऽसुरा औशनसं मतं शुक्राचार्यसम्मतिमाश्रित्य आततायिनः गृहीतशस्त्राः सन्तो देवान् प्रत्युद्यमं चक्रुः तेषां नाशाय युद्धं चक्रु- रित्यर्थः ॥ १८ ॥ * तदा तैरसुरैर्विसृष्टैः तीक्ष्णैरिषुभिः निर्भिन्नान्यङ्गानि उदरशिरआदीनि उरवो बाहवश्व येषां ते तथाभूतः अत एव लज्जया आनता कन्धरा येषां ते तथाभूताः इन्द्रण सहिता देवा ब्रह्माणं शरणं ययुस्त्वमस्मत्पितामहो देवदेवो दुःखनिवृत्त्युपायमुपदिशेति विज्ञाननं चक्रुरित्यन्वयः ।। १९ ।। * * तदा ब्रह्मणा किं कृतमित्यपेक्षायामाह - तानिति । तान् देवान् तथोक्तप्रकारेण सुरैरभ्यर्दितान पीडितान् वीक्ष्य परया कृपया व्याप्तस्तान् परिसान्त्वयन् देवः देवदेवो ब्रह्मा उवाचेत्यन्वयः । कृपया परिसान्त्वने यथावत्तत्सर्ववृत्तज्ञाने च हेतुं सूचयंस्तं विशिनष्टि-भगवानिति । ज्ञानैश्वर्यादिमानि- त्यर्थः । तत्रापि हेतुमाह — आत्मभूरिति, आत्मा भगवान् श्री नारायणस्तस्माद्भवतीति तथा । तत्रापि लौकिकेन प्रकारेण न जात इत्याह- अज इति । तथा चैवम्भूतो न सान्त्वयेत्तदा कः सान्त्वयेदिति भावः ।। २० ।।
- ३०
- ज्ञात्वा
- २३४
- श्रीमद्भागवतम्
- [ स्कं. ६. अलो. ११-२०
- भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी
- ।
- *
- ।
- "
- गहप्रकारमाह अहो इति पञ्चभिः । अहो इति । अहो बत दबुद्धिना अल्पमतिना मया, असाधु असमीचीनं कृतं वै यद्यस्मात् ऐश्वर्यमत्तेन मया, गुरुः सदसि कात्कृतस्तिरस्कृतः ।। ११ ।। क इति । पण्डितः विद्वांश्चेत्, त्रिविष्ट- पपतेः स्वर्लोकाधिपतेः अपि, लक्ष्मी कः गृद्धयेत् अभिकाङक्षेत् । न कोऽपि । यया त्रिलोकाधिपत्यलक्ष्म्या, विबुधेश्वरः सात्त्वि- कानां देवानां पतिः, अहम् अद्य आसुरं भावं नीतः, तमोभावं गमित इत्यर्थः ॥ १२ ॥ ननु सिंहासनस्थो राजा प्रत्युत्थानादिकं न कुर्यादित्याहुवृद्धास्तत्राह य इति द्वाभ्याम् । य इति । परमेष्ठी महाराजस्तत्संबन्धि पारमेष्ठयम् । धिषण- मध्यासनम् अधितिष्ठन्, कंचन प्रति, न उत्तिष्ठेत् इति ये ब्रूयुः, ते परं केवलं धर्म न विदुः ॥ १३ ॥ तेषामिति । कुपथदृष्टृणां कुमार्गोपदेशिनां, अत एव अधः तमसि नरके, पततां तेषां वचः, ये जनाः, हि निश्चयेन, श्रद्दध्युः, ते अश्मलवाः पाषाणनावाश्रिताः इव, मज्जन्त्यधो यान्ति वै ॥ १४ ॥ अथेति । अथातो हेतोः, अहम् अगाधधिषणमगाधबुद्धि मत्कृतापराधमगणयन्तमित्यर्थः । अमराचार्यं देवगुरुं द्विजं विद्यामयद्वितीयजन्मयुतं बृहस्पतिं, निशठो निर्गतशठभावः तच्चरणं शीर्णा शिरसा, स्पृशन प्रसामयिष्ये ॥ १५ ॥
- एवमिति । एवं तस्य मघोन इन्द्रस्य, चिन्तयतः सतः, भगवान् ।। ।। * * बृहस्पतिः अध्यात्ममायया स्वीययोगप्रभावेन, गृहात् अदृष्टां गतिं गतः । अदृश्योऽभूदित्यर्थः ॥ १६ ॥ ततः भगवान् स्वराट्, स्वर्गलोकाद्यधिपतिरिन्द्रः, गुरोः संज्ञां दर्शनोपायं परीक्षन्विचारयन् सन्नपि, नाधिगतः सन्, सुरैः युक्तः, धिया ध्यायन् सन्नपि, आत्मनः शर्म सुखं न अलभत ॥ १७ ॥ गुर्वपराधप्रयुक्तक्लेशचिन्तादिकमित्यर्थः । श्रुत्वा एव, औशनसं स्वगुरोः शुक्रस्य संबन्धि मतं च, आश्रित्य सर्वे असुराः दुर्मदा अनिवार्यमदाः, आततायिन उद्यतास्त्राः सन्तः, देवान् प्रति उद्यमं युद्धोद्योगं चक्रुः ॥ १८ ॥ * * तैरिति । तैरसुरैः, तीक्ष्णैः, विसृष्टेषुभिः असुरप्रयुक्ततीक्ष्णबाणैरित्यर्थः । निर्भिन्नानि अङ्गान्युत्तमाङ्गानि उखो बाहवश्च येषां ते देवाः सहेन्द्रा इन्द्रसहिताः, नतकंधरा नम्रशिरसः सन्तः, ब्रह्माणं शरणं जग्मुः ॥ १९ ॥ * * तानिति । आत्मभूः स्वयंभूः, भगवानै- स्वर्यसंपन्नः, अजः देवो ब्रह्मा, तथोक्तप्रकारेण अभ्यर्दितानसुरैः पीडितान, तान सकलदेवान् वीक्ष्य, परया कृपया, परिसान्त्व- यन् सन् उवाच ॥ २० ॥
- ||
- ॐ गुरोरिति । पाठान्तरे विचार्यापि, तदिति । तत् इन्द्रस्य
भाषानुवादः * ‘हाय-हाय ! बड़े खेद की बात है कि भरी सभा में मूर्खतावश मैंने ऐश्वर्य के नशेमें चूर होकर अपने गुरुदेवका तिरस्कार कर दिया । सचमुच मेरा यह कर्म अत्यन्त निन्दनीय है ।। ११ ।। * भला, कौन विवेकी पुरुष इस स्वर्गकी राजलक्ष्मीको पानेकी इच्छा करेगा ? देखो तो सही, आज इसीने मुझ देवराजको भी असुरोंके से रजोगुणी भावसे भर दिया ।। १२ ।। * * जो लोग यह कहते हैं कि सार्वभौम राजसिंहासनपर बैठा हुआ सम्राट किसीके आनेपर राजसिंहासनसे न उठे, वे धर्मका वास्तविक स्वरूप नहीं जानते ।। १३ ।। ऐसा उपदेश करनेवाले कुमार्गकी ओर ले जानेवाले हैं । वे स्वयं घोर नरकमें गिरते हैं । उनकी बातपर जो लोग विश्वास करते हैं, वे पत्थरकी नावकी तरह डूब जाते हैं ।। १४ ।। * मेरे गुरुदेव बृहस्पतिजी ज्ञानके अथाह समुद्र हैं। मैंने बड़ी शठता की । अब मैं उनके चरणोंमें अपना माथा टेककर उन्हें मनाऊँगा’ ।। १५ ।। * * परीक्षित् । देवराज इन्द्र इस प्रकार सोच ही रहे थे कि भगवान बृहस्पतिजी अपने घर से निकलकर योगबल से अन्तर्धान हो गये ।। १६ ।। * * देवराज इन्द्र ने अपने गुरुदेवको बहुत ढूँढ़ा- दुदवाया; परन्तु उनका कहीं पता न चला। तब वे गुरुके बिना अपनेको सुरक्षित न समझकर देवताओंके साथ अपनी बुद्धिके अनुसार स्वर्गकी रक्षाका उपाय सोचने लगे, परन्तु वे कुछ भी सोच न सके । उनका चित्त अशान्त ही बना रहा ।। १७ ।। * परीक्षित्! दैत्यों को भी देवगुरु बृहस्पति और देवराज इन्द्र की अनबनका पता लग गया। तब मदोन्मत्त और आततायी असुरोंने अपने गुरु शुक्राचार्यके आदेशानुसार देवताओंपर विजय पानेके लिये धावा बोल दिया ।। १८ ।। * * उन्होंने देवताओंपर इतने तीखे तीखे बाणोंकी वर्षा की कि उनके मस्तक, जंघा, बाहु आदि नङ्ग कट-कटकर गिरने लगे । तब इन्द्रके साथ सभी देवता सिर झुकाकर ब्रह्माजीकी शरण में गये ।। १६ ।। स्वयम्भू एवं समर्थ ब्रह्माजीने देखा कि देवताओंकी तो सचमुच बड़ी दुर्दशा हो रही है । अत: उनका हृदय अत्यन्त करुणासे भर गया । वे देवताओंको धीरज बँधाते हुए कहने लगे ।। २० ।। स्क. ६ अ. ७ श्लो. २१-३० ] अनेकव्याख्यासकृतम् ब्रह्मोवाच २३५ अहो वत सुरश्रेष्ठा भद्रं वः कृतं महत् । ब्रह्मिष्ठं ब्राह्मणं दान्तमैश्वर्यान्नाभ्यनन्दत ॥ २१ ॥ तस्यायमनयस्यासीत् परेभ्यो वः पराभवः । प्रक्षीणेभ्यः स्ववैरिभ्यः समृद्धानां च यत् सुराः ॥ २२ ॥ मघवन् द्विषतः पश्य प्रक्षीणान् गुर्वतिक्रमात् । सम्प्रत्युपचितान् भूयः काव्यमाराध्य भक्तितः । आददीरन निलयनं ममापि भृगुदेवताः ।। २३ ।। त्रिविष्टपं किं गणयन्त्यभेद्यमन्त्रा भृगूणामनुशिक्षितार्थाः । न विप्रगोविन्दगवीश्वराणां भवन्त्यभद्राणि नरेश्वराणाम् ॥ २४ ॥ तद् विश्वरूपं भजताशु विप्रं तपखिनं त्वाष्ट्रमथात्मवन्तम् । सभाजितोऽर्थान् स विधास्यते वो यदि क्षमिष्यध्वमुतास्य कर्म ॥ २५ ॥ श्रीशुक उवाच त एवमुदिता राजन् ब्रह्मणा विगतज्वराः । ऋषि त्वाष्ट्रमुपव्रज्य परिष्वज्येदमब्रुवन् ॥ २६ ॥ देवा ऊचुः वयं तेऽतिथयः प्राप्ता आश्रमं भद्रमस्तु ते । कामः सम्पाद्यतां तात पितॄणां समयोचितः ॥ पुत्राणां हि परो धर्मः पितृशुश्रूषणं सताम् । अपि पुत्रवतां ब्रह्मन् किमुत ब्रह्मचारिणाम् ॥ आचायों ब्रह्मणो मूर्तिः पिता मूर्तिः प्रजापतेः । भ्राता मरुत्पतेर्मूर्तिर्माता साक्षात् क्षितेस्तनुः दयाया भगिनी मूर्तिर्धर्मस्यात्मातिथिः स्वयम् । अग्नेरभ्यागतो मूर्तिः सर्वभूतानि चात्मनः ॥ कृष्णप्रिया व्याख्या ॥ २७ ॥ २८ ॥ २९ ॥ ३० ॥ अन्वयः — :— अहो सुरश्रेष्ठाः बत वः महत् अभद्रं कृतं हि ऐश्वर्यात ब्रह्मिष्ठं दान्तं ब्राह्मणं न अभ्यनंदत ।। २१ ।। * * सुराः च यत् प्रक्षीणेभ्यः स्ववैरिभ्यः परेभ्यः समृद्धानां वः अयं पराभवः तस्य अनयस्य आसीत् ।। २२ ।। * * मघवन् गुर्वतिक्रमात् प्रक्षीणान् संप्रति भूयः भक्तितः काव्यम् आराध्य उपचितान् द्विषतः पश्य भृगुदेवताः मम अपि निलयनम् आददीरन् ।। २३ ।। * * अभेद्यमंत्राः भृगूणाम् अनुशिक्षितार्थाः त्रिविष्टपं गणयन्ति किम् विप्रगोविन्दगवीश्वराणां नरेश्वराणाम् अभद्राणि न भवन्ति ।। २४ ।। * * तत् अथ आत्मवन्तं तपस्विनं त्वाष्ट्रं विश्वरूपं विप्रम् आशु भजत उत यदि अस्य कर्म क्षमिष्यध्वं सभाजितः सः वः अर्थान् विधास्यते ।। २५ ।। राजन् ब्रह्मणा एवम् उदिताः ते विगतब्बराः ६ । त्वाष्ट्रम् ऋषिम उपव्रज्य परिष्वज्य इदम् अब्रुवन् ।। २६ ।। * तात वयं ते आश्रमं प्राप्ताः अतिथयः ते भद्रम् अस्तु समयो- चितः पितॄणां कामः संपाद्यताम् ॥ २७ ॥ ब्रह्मन् हि पितृशुश्रूषणं सतां पुत्राणां परः धर्मः पुत्रवताम् अपि ब्रह्मचा- रिणां किमुत ॥ २८ ॥ * * आचार्यः ब्रह्मणः मूर्तिः पिता प्रजापतेः मूर्तिः भ्राता मरुत्पतेः मूर्तिः माता साक्षात् क्षितैः तनुः ।। २९ ।। * * भगिनी दयायाः मूर्तिः अतिथिः स्वयं धर्मस्य आत्मा अभ्यागतः अग्नेः मूर्तिः च सर्वभूतानि आत्मनः ॥ ३० ॥ श्रीधरस्वामिविरचिता भावार्थदीपिका * परेभ्यः वो युष्माकं कृतं करणं महदभद्रम् । तदाह । ब्रह्मिष्ठमिति । नाभ्यनंदत नाभिनंदितवंतः ॥ २१ ॥ शत्रुभ्यो वः पराभव इति यदयं तस्यानयस्यान्यायस्य संबंधी फलरूप आसीत् । उक्तं च । ब्राह्मणं कुलसंपन्नं भक्तं विष्णो- • प्रा० पा०– गुरुणा० ॥ २३६ । श्रीमद्भागवतम् I
[ स्कं. ६ अ. ७ लो. २१-३० महात्मनः । आयतं वीक्ष्य नोत्तिष्ठेत्स दुःखैः परिभूयते " इति । स्वयमेव वैरिणो हतारो येषां तेभ्यः ।। २२ ।। गुरुतिरस्कारसत्कारावेवापचयोपचयकारणमित्यसुरदृष्टांतेनाह । मघवन्निति । द्विषतः शत्रून् । काव्यं भार्गवं गुरुमेवाऽऽसेव्यो- पचितान् । उपचितत्वमेवाह आददीरन्गृहीयुः || २३ ॥ * * अभेद्यो मंत्रो येषाम् । अनुशिक्षितार्थाः शिष्याः । यतो विप्रा गोविंदो गावश्वेश्वरा अनुग्राहका येषां तेषामेवाभद्राणि न भवत्यन्येषां तु भवंति ॥ २४ ॥ * * तत्तस्मात् । अथानंतरमेव भजत । अस्य कर्मासुरपक्षपातम् ॥ २५ ॥ उदिता उक्ताः विगतज्वरा निश्चिताः ।। २६-२८ ।। * । ।। * * अतिथीनां पितॄणां च प्रशंसार्थमाहुः । आचार्य उपनीय वेदाध्यापकः । ब्रह्मणो वेदस्य मूर्तिः ।। २९ ।। * मूर्तिरतिथिः । स्वयं साक्षात् । आत्मनः श्रीविष्णोः । यद्वा आत्मनः स्वस्य । सर्वभूतेष्वात्मदृष्टिः कर्तव्येत्यर्थः ।। ३० ।। 1 । । वंशीधरकृतो भावार्थदीपिकाप्रकाशः धर्मस्यात्मा अहो बतेत्यव्ययद्वयं महदनर्थद्योतनार्थम् । सुरश्रेष्ठा इति साकूता संबुद्धिः । नायं सुराणां धर्मः कुतः सुरश्रेष्ठाना- मिति महाननर्थः कृत इति भावः । तदभद्रम् । प्रथमं तु ब्राह्मण एव मान्यः किं पुनर्ब्रह्मष्ठो वेदार्थनिष्ठः कुतस्तरां दांतः कृतेन्द्रियनिग्रह इति भावः ।। २१ ।। * * ब्राह्मणावज्ञानमनर्थहेतुरित्यत्र पुराणांतरवाक्यं प्रमाणयति - तदुक्तमिति । यो नोत्तिष्ठेत्स इत्यर्थः । हे सुरा अपि यूयं गुर्ववज्ञानादीदृशा जाताः का पुनरन्येषां गतिरिति भावः ।। २२ ।। * * मघवन्निति । मह्यते पूज्यते इति मघवेति निरुक्त्या त्वं तु स्वयं पूज्यत्वेन पूज्यपूजाव्यवहारं जानन्नपि किमर्थं तथा कृतवानिति भाव: “मान्या एव हि मान्यानां मानं कुर्वति नेतरे । रुद्रो विभत्ति मूर्तेन्दु स्वर्भानुस्तं जिघृक्षति ।" इति न्यायेनेत्यर्थः । अथैषामेतादृशं बलं दृश्यते यथा ममापि निलयनं सत्यलोकमाददीरन् । तत्र हेतुः - भृगुदेवता गुरुभक्ताः ।। २३ ।। * * अत्र सामदानदंडा उपाया न संभवतो दृश्यंते भेदोप्यशक्य इत्याह- मंत्री मंत्रणा भृगूणां शुक्राचार्याणामनुशिक्षितमेवार्थः पुरुषार्थत्वेनोपादेयो येषां ते । ननु तर्हि किं वयं मरिष्याम एवेति तत्र साश्वासमाह - न विप्रेति ॥ २४ ॥ * * ब्राह्मणशक्तिरचित्यविभवेत्याह-तदिति । यत इत्थं तत्तस्माद्धेतोः । त्वाष्ट्रं त्वष्टुरादित्यस्य त्वष्टा हि कश्यपविप्रस्यात्मजत्वाद्विप्र एव वस्तुतोऽतस्तत्पुत्रस्य सुतरां तपश्चयवेिदाभ्यासनिष्ठत्वाद्विप्रत्वमस्तीत्याह विप्रमिति । विशेषेण प्राति पूरयति स्वसेविमनोर- थानिति विप्र: “समीहितार्थार्पणकामधेनवः” इत्युक्तेः । ‘प्रा- पूरणे’ अतः “आतश्चोपसर्गे” इति कः । यद्वा - उप्यते बीजी- क्रियते धर्ममत्र विप्रः औणादिकरप्रत्यये धातोरस्येत्वे रूपम् “क्षेत्रत्वाद्धर्मबीजानां सेवकाभीष्टपूरणात् । ब्राह्मणः कथ्यते विप्रः शब्दार्थनिपुणैर्बुधैः ।” इति संहितो: । आत्मवन्तं ज्ञानिवरम् । स विश्वरूपः । सभाजित: श्रद्धाभक्तिभ्यामर्चितः । वो युष्माकं मनोरथान्करिष्यते । अस्य विश्वरूपस्य ।। २५ ।। * ते देवाः । इदं वक्ष्यमाणम् ।। २६ ।। ।
-
- तातेति प्रियत्वद्योतनायोक्तम् ।। २७ ।। * हे ब्रह्मन्निति । त्वं त्वर्थिजनमनोरथकरणजन्यधर्म्मफलं जानास्येवेति भावः । ममात्मजो मम पितृसेवनं करिष्यत्येवाहं धर्मांतरं करिष्यामीति पुरुषेण न मंतव्यं किन्तु पुत्रे सत्यपि स्वयं पितृसेवनं कर्त्तव्यं तस्यैव परमधर्मत्वात् । ‘पितृसेवा परो धर्मः’ इति पुराणांतरोक्तेः ॥ २८ ॥ * * पित्रादिसेवनेन रुद्रादिदेवतासेवन- मपि कृतं स्यात्तेषु तेषां विशेषतः सन्निधानादित्याह – आचार्य इति " उपनीय तु यः शिष्यान्वेदमध्यापयेद्विजः । सकल्पं सरहस्यं च तमाचार्य प्रचक्षते ।” इति स्मृतेः । यद्वा- “स्वयमाचरति शिष्यानाचारे स्थापयत्यपि । आचिनोति हि शास्त्रार्थ- “माचार्य्यस्तेन कथ्यते” इति कुलार्णवे । प्रजापतेः स्रष्टुर्महादेवस्य वा “प्रजापतिः शिवः स्थाणुरुमेशो वृषवाहनः” इत्यभिधानात् । मरुत्पतेरिन्द्रस्य । क्षितेस्नुर्मूर्त्तिः साक्षान्माता मूर्त्तिः संनिधानस्थानमित्यर्थः ।। २९ ।। * * विश्वनाथस्तु — अतिथि- धर्मस्यात्मैव किं पुनर्मूर्त्तिरिति भाव इत्याह । अतिथिर्वैश्वदेवांते आगतो यः कश्विदित्यर्थः । “शूद्रो वा यदि चांडाल शत्रुर्वा ब्रह्मघातकः । आगतो वैश्वदेवांते सोऽतिथिः स्वर्गदायकः ।” इति स्मृतेः । अभ्यागतो याज्ञवल्क्योक्तः षड्विधभिक्षुको ग्राह्यः “यतिश्च ब्रह्मचारी च विद्यार्थी गुरुपोषकः । अध्वगः क्षीणवृत्तिश्च षडेते भिक्षुकाः स्मृताः ।” इति निरुपपदात्मशब्दस्य निजवा- चकत्वमभिप्रेत्याह-यद्वेति । इत्यर्थ इति । " एक एव हि भूतात्मा भूते भूते व्यवस्थितः” इत्यादिश्रुतेरिति भावः ॥ ३० ॥ 1 अन्वितार्थप्रकाशिका अहो इति । हे सुरश्रेष्ठाः ! ऐश्वर्यमदात् ब्राह्मणं तत्रापि दान्तं वशीकृतचित्तं तत्रापि ब्रह्मिष्ठं ब्रह्मज्ञानिनं यन्नाभ्य- नन्दत नाभिनन्दितवन्तस्तद्वो युस्माभिर्महदभद्रमन्याय्यमेव कृतम् ॥ २१ ॥ * * तस्येति । हे सुराः ! स्वे स्वयं वैरिणो हन्तारो येषां तेभ्यः पूर्वं भवद्भिरेव पराभूते इत्यर्थः । प्रक्षीणेभ्यः परेभ्यः दैत्येभ्यः अत्र परेभ्योऽन्येभ्यः सकाशात् केभ्यः स्ववैरिभ्य इति चक्रवर्ती। वो युष्माकं समृद्धानामपि यत् यः पराभवः स एव तस्यैवानयस्य अन्यायस्यायं विपाकः फलं स्कं. ६ अ. ७ श्लो. २१-३०] अनेकव्याख्यासमलंकृतम् ॥ २३७ युष्माकमासीत् ।। २२ । * * मघवन्निति सार्द्धम् । हे मघवन् ! पूर्व गुरोरतिक्रमात् प्रक्षीणान् अपि द्विषतः शत्रून् सम्प्रति भक्तितः काम्यं शुक्रं गुरुमाराध्य उपसेव्य भूय उपचितान् पश्य । यतः भृगुः शुक्रः देवता येषां ते ममापि निलयनं स्थानमाददीरन् गृह्णीयुः । गुरुसत्कार तिरस्कारादेव सम्पद्विपदोर्हेतू इति भावः ॥ २३ ॥ * * अत्र सामाया उपाया अप्यशक्या इत्याह- त्रिविष्टपमिति । अभेद्यो मन्त्रो मन्त्रणा येषां ते तथा । तत्र हेतुमाह । भृगूणामिति । शुक्राचार्याणामनु- शिक्षितमेवार्थः । पुरुषार्थत्वेनोपादेयो येषां ते दैत्याः त्रिविष्टपं किं गणयन्ति । यतः विप्रा गोविन्दो गावश्चेश्वरा अनुग्राहका येषां तेषां नरेश्वराणामभद्राणि नैव भवन्ति अन्येषां तु भवन्ति । अतः यावद्दैत्यानां विप्रादयोऽनुग्राहकास्तावत्तेषामभद्राणि न भवि- व्यन्ति तदा भवतामपि दुःखशान्तिर्भविष्यतीति ॥ २४ ॥ तदिति । तत्तस्मात् तपस्विनः त्वाष्ट्रं त्वष्टुः पुत्रम् आत्म- वन्तं स्वाधीनं विश्वरूपं विप्रमाशु भजत यद्यस्य विश्वरूपस्य कर्म असुरपक्षपातरूपं क्षमिष्यध्वम् । लुटि टेरेत्वाभाव आर्ष: । तत्तदा सः युष्माभिः सभाजितः सत्कृतः सन्नथान्तरमेव वो युष्माकमर्थान् मनोरथान् विधास्यते साधयिष्यति ॥ २५ ॥ * * त इति । हे राजन् ! ते देवाः ब्रह्मणा एवमुदिताः उक्ताः अत एव विगतः ज्वरोऽसुरजनितः सन्तापो येषां ते त्वाष्ट्रं विश्वरूपम् ऋषिम् उपव्रज्य परिष्वज्य चेदं वक्ष्यमाणमब्रुवन् ॥ २६ ॥ वयमिति । हे तात! ते तव भद्रमस्तु । वयमतिथयो याचकास्ते तवाश्रमं प्राप्ताः । अतो हे तात! पितॄणामस्माकं समयोचितः एतत्कालयोग्यः कामः मनोरथः सम्पाद्य - ताम् ।। ३७ ।। * * पुत्राणामिति । हे ब्रह्मन् ! पुत्रवतां पुत्रादिपोषणव्यापृतानामपि सतां पुत्राणां परः उत्कृष्टो धर्मः पितृशुश्रूषणं सेवनमेव ब्रह्मचारिणां पुत्राद्यभावेन तत्पोषणचिन्तारहितानां भवादृशानां तु पितृसेवापरो धर्म इति किमुत वक्तव्यम् । तेषां तु तद्भवत्येवेत्यर्थः ॥ २८ ।। * * आचार्य इति । आचार्यः उपनयनपूर्वकं साङ्गोपनिषद्वेदाध्यापकः ब्रह्मणो वेदस्य मूर्तिः भ्राता मरुत्पतेरिन्द्रस्य मूर्तिः माता साक्षात्क्षितेनुः ॥ २९ ॥ दयाया इति । भगिनी दयाया मूर्तिः अतिथिः अज्ञातपूर्वः गृहागतः स्वयं साक्षाद्धर्मस्य आत्मा मूर्तिः अभ्यागतो ज्ञातपूर्वः सः अग्नेर्मूर्तिः । सर्वभूतानि च स्थावरजङ्गमानि सर्वात्मनो भगवतो मूर्तयः । सर्वभूतेष्वात्मदृष्टिः कर्तव्येत्यर्थः ॥ ३० ॥
वीरराघवव्याख्या । उक्तिमेवाह । अहो इत्यादिना क्षमिष्यध्वमुतास्य कर्मेत्यन्तेन । हे सुरश्रेष्ठाः ! अहो बत महत्कष्टं वः प्राप्तं महदभद्र- मसाधु युष्माभिः कृतम् । किं तद्ब्रह्मिष्ठमतिशयेन ब्रह्मज्ञानसंपन्नो ब्रह्मिष्ठस्तं ब्राह्मणं दान्तं जितेन्द्रियमैश्वर्यान्मदान्नाभ्यनन्दत नाभिनन्दितवन्तः ॥ २१ ॥ * हे सुराः ! परेभ्यः शत्रुभ्यः पराभव इति यदयं तस्यानयस्य संबन्धी फलरूपः आसी- त्कथम्भूतानां वः प्रक्षीणेभ्यः ऐश्वर्यरहितेभ्यः सपत्नेभ्यः समृद्धानां सम्पन्नानाम् ॥ २२ ॥ गुरुतिरस्कार सत्कारा- वेवापचयोपचयकारणमित्यसुरदृष्टान्तेनाह । मघवन्निति । हे मघवन् ! द्विषतः शत्रूनसुरान् गुर्वतिक्रमाद्धेतोः प्रक्षीणान् संप्रति तु काव्यं शुकं भक्तितः आराध्य उपचितान् समृद्धान् पश्य गुर्वाराधनाद्युष्मान् बाधन्त इति किं वक्तव्यम् । यतो मत्स्थानमपि गृह्णीयुरिति सम्भावयति । अद्येति । अद्यास्मिन्नहनि श्वः परस्मिन्नहनि परश्वः ततः परस्मिन्नहनि वा बलशालिनोडत एव हप्ताः गर्वि- तास्ते मम निलयनं मम स्थानमपि आददीरन् गृह्णीयुः यतस्ते भृगुः शुक्रः काव्य एव देवता येषां तादृशाः ||२३|| * * अभेद्यो मन्त्रो येषां ते भृगूणां भृगुकुलप्रभवाणामनुशिक्षिताथोः शिष्या त्रिविष्टमपि किं गणयन्ति न गणयन्त्येवेत्यर्थः । विप्राः गोविन्दो भग- वांश्व गावश्वेश्वरा अनुग्राहकाः पूज्या वा येषां तेषामेव अभद्राणि न भवन्ति इतरेषामीश्वराणामपि न भवन्तीति न किंत्वभद्राणि भवन्त्येवेत्यर्थः ।। २४ ।। * तत्तस्मादथानन्तरमेवाशु त्वष्टुः पुत्रमात्मवन्तं जितेन्द्रियं तपस्विनं विश्वरूपाख्यं द्विजं भजत यूयमनुवर्त्तध्वं तम्पौरोहित्ये वृणुतेत्यर्थः । स विश्वरूपो वः युष्मान् भावितार्थान् भावितः निष्पादितः अर्थोऽभिलषितं प्रयोजनं येषां तादृशान् विधास्यते करिष्यति । अस्य विश्वरूपस्य कर्मासुरपक्षपातादिरूपं यूयमुतं । क्षमिष्यध्वं यदि क्षमिष्यध्वे तहि सविधास्यते इत्यर्थः । यद्वा । उत अपि तु तस्य कर्म क्षमिष्यध्वं सर्वथा तस्य कर्म युष्माभिः क्षन्तव्यमित्यर्थः ।। २५ ।। * * एवमुक्ता विश्वरूपं प्रार्थयितुं देवा ययुरित्याह मुनिः । त इत्यादिना । हे राजन् ! ते देवा ब्रह्मणैवमित्यमुदिता उक्ता विगतः ज्वरः आधिर्येषां ते त्वाष्ट्रमृषिं विश्वरूपमुपत्रज्य उपेत्य परिष्वज्यालिङ्गच पुत्रत्वात् परिष्वज्येत्युक्तं न तु नमस्कृत्येति इदं वक्ष्यमा - णमब्रुवन् ।। २६ ।। * * उक्तिमेवाह । वयमिति । वयं ते तवातिथयः प्राप्ताः ते तवाश्रमं भद्रमशून्यमस्तु अतिथ्याभावे । । आश्रमः शून्य इति व्यपदिष्यत इति भावः । तथा तव पितॄणामस्माकं समयोचितः तत्कालोचितः कामः इच्छाविषयोऽर्थः सम्पद्यतां त्वत्तः संपन्नो भवतु ।। २७ ।। * * हे ब्रह्मन् ! पुत्रवतामपि सतां पुत्राणां पितृशुश्रूषणं परो धर्मः ब्रह्मचारिणां सतां पुत्राणां पितृशुश्रूषणं परो धर्म इति किमुत किमु वक्तव्यम् । त्वन्तु ब्रह्मचारी पुत्रश्चेति अस्मच्छुश्रूषणमत्यन्तोचितमिति भावः ।। २८ ।। * * किंचाचार्यो ब्रह्मणः परब्रह्मणो मूर्त्तिरीश्वरदृष्टया आचार्य आराधनीय इति भावः । पिता तु २३८ श्रीमद्भागवतम् [ स्कं. ६ अ. ७ श्लो. २१-३० प्रजापतेर्विरिवस्य मूर्त्तिः भ्राताः तु मरुत्पतेरिन्द्रस्य मूर्त्तिर्माता साक्षात्क्षितेर्भूमे स्तनुर्मूत्तिः ॥ २६ ॥ * * भगिनी तु दयाया मूर्त्तिरात्मा स्वयं तु धर्मस्य मूर्त्तिरतिथिस्तु स्वयमेव स्वात्मनो मूर्त्तित्वेन द्रष्टव्यः । स्वशरीरत्वेन द्रष्टव्य इति यावत् । अभ्यागत- स्त्वग्नराहवनीयादेर्मूर्त्तिः सर्वभूतानि चात्मनो मूर्त्तिरात्मतुल्यत्वेन द्रष्टव्यानीत्यर्थः । यद्वा । परमूर्त्तिः ॥ ३० ॥ विजयध्वजतीर्थकृता पदरत्नावली व इति षष्ठी तृतीयार्थे युष्माभिरित्यर्थः ॥ २१ ॥ तस्यानयस्यान्यायस्य परिपाकः कोऽसाविति तत्राह । परेभ्य इति ।। २२ ।। * * काव्यं शुक्रं निलयनं युष्मदधिकृतं स्वर्गमिति शेषः । भृगुरेव देवताः येषान्ते भृगुदेवताः जनः ममापि अभेद्यं निलयनमाददीरन दारयन्तीति वा ॥ २३ ॥ * अनुशिक्षितः सम्यक्साधितोऽर्थो यैस्तै तथा भृगूणां मन्त्राः त्रिविष्टपमभेद्यं गणयन्ति किं नैव ब्राह्मणशक्तिरचिन्त्यविभवेत्याह । न विप्रेति । विप्राश्व गोविन्दश्च गावश्व ईश्वराः येषां ते तथा तेषां विप्रभक्तिर्गोविन्दगोभक्त चविनाभूतेति दर्शना सहैवोकं सापि तारतम्योपेता शुभदैत्यतो गवीति ।। २४ ।। * * तत्तस्मात्तपस्वित्वादिगुणाधिको गुणोऽप्यस्तीत्याह । अथेति । आत्मवत्त्वादपरः कल्याणगुणो नास्तीत्यतोऽथेति । नैक एवार्थी- । नेन किन्त्वपेक्षिताशेषार्थोऽप्यस्तीत्यतोऽर्थानिति नेदानीमुत्तरत्राप्ययमेवालमित्यतो विधास्यत इति । तत्रेतिकर्तव्यतामाह । यदीति उताप्यर्थः ॥ २५ ॥ * * ते देवाः ॥ २६ ॥ पितॄणां न समयोचितः एतत्कालयोग्यः । ॥ काम्यत इति कामोऽर्थः ॥ २७ ॥ * * सतां पुत्राणां ब्रह्मचारिणामपुत्रवतां पुत्राः उभयेषामपि शुश्रूषणं कुर्वन्तीत्यर्थः ॥ २८ ॥ * * ।। ।। पित्रादिशुश्रूषणेन रुद्रादिदेवताशुश्रूषणमपि कृतं स्यात्तेषां तेषु विशेषसन्निधानादित्याह । आचार्य इति । ब्रह्मणश्चतुर्मुखस्य मूर्तिः सन्निधानस्थानम् । प्रजापतेः रुद्रस्य “प्रजापतिः शिवः स्थाणुरुमेशो वृषवाहन” इत्यभिधानात् । मरुत्पतेरिन्द्रस्य अतिथिः स्वयं धर्मस्यात्मा मूर्तिः अभ्यागतः प्राहुणिकः । आत्मन: सर्वभूतानि मूर्तिः “एको देवः सर्वभूतेषु गूढः इति श्रुतेः ।। २९-३० ॥ जीवगोस्वामिकृतः क्रमसन्दर्भ:/ त्रिविष्टपमिति । अत्र गोविन्देति दृष्टान्तेनोपन्यस्तम् ।। २४-४० ।। इति श्रीमद्भागवत महापुराणे षष्ठस्कन्धे श्रीमज्जीवगोस्वामिकृतक्रमसन्दर्भे सप्तमोऽध्यायः ॥ ७ ॥ 1 विश्वनाथचक्रवतिकृता सारार्थदर्शिनी परेभ्यः अन्येभ्यः सकाशात् केभ्यः स्ववैरिभ्यः ॥ २२ ॥ गुरुतिरस्कार सत्कारावेव विपत्सम्पदो: कारण- मित्यसुरदृष्टान्तेनैवाह । मघवन्निति । अद्यैषां तथा बलं दृश्यते यथा ममापि निलयनं सत्यलोकमाददीरन् । तत्र हेतुः । भृगुदेवताः गुरुभक्ताः ॥ २३ ॥ * * अत्र सामदानदण्डा उपायाः न सम्भवन्ति दृश्यन्ते । भेदोऽप्यशक्य इत्याह । न भेद्यः मन्त्रो मन्त्रणा येषां ते सर्वत्र हेतुः । भृगूणां शुक्राचार्याणामनुशिक्षितमेव अर्थः पुरुषार्थत्वेनोपादेयो येषां ते । ननु तर्हि किं वयं मरिष्याम एवेति तत्र साश्वासमाह । न विप्रेति । विप्रा गोविन्दो गाव ईश्वरा अनुग्राहका येषां तेषाम् ॥ २४ ॥ * * तत्तस्मादयमेव सम्प्रत्युपाय इत्याह । विश्वरूपं गुरुत्वेन भजत । यद्यस्य विश्वरूपस्य कर्मासुरपक्षपातम् ॥ २५-२८ ॥ * * आचार्यो वेदाध्यापकः । ब्रह्मणो वेदस्य । मरुत्पतेरिन्द्रस्य अतिथिस्तु धर्मस्यात्मैव मूर्तिरिति किं वक्तव्यमिति भावः । आत्मनः परमेश्वरस्य ।। २९-३० ॥ 1 शुकदेवकृत: सिद्धांत प्रदीप: : । । वो युष्माभिः महदभद्रममङ्गलं कृतं तदेवाह । ब्रह्मिष्टं ब्रह्मसंपन्नं दान्तं ब्राह्मणमैश्वर्य्यात् प्रभुत्वमदात् नाभ्यनन्दत नाभिनन्दितवन्तः ।। २१-२२ ।। आदौ गुर्वतिक्रमात् प्रक्षीणान् सम्प्रति काव्यं गुरुमाराध्य भूय उपचितान द्विषतः शत्रून् पश्य गुरुतिरस्कारसत्कारौ विपत्संपदोर्हेतुरित्यर्थः । यदि ममापि निलयनं स्थानमाददीरन गृह्णीयुः यतो भृगुदेवताः भृगवः भृगुवंश्याः शुक्रतत्पुत्रादयो देवता येषां ते गुरुमक्ताः ॥ २३ ॥ * * तदा अभेद्यो मन्त्रो येषां ते तथा भृगूणाम- नुशिक्षितार्थाः शिष्याः त्रिविष्टपं किं गणयन्ति न किमपीत्यर्थः । अत्यन्ततो भीतानालक्ष्य तच्छरणं सूचयति । नेत्य- र्धेन ॥। २४ ।। * * विशेषतः आश्रयणीयमाह । तदिति । तत्तस्मात् सभाजितः सेवितः अस्य विश्वरूपस्य कर्म मातामह- कुलपक्षपातं यदि क्षमिष्यध्वम् क्षमिष्यध्वे ॥ २५ ॥ * * ते देवा एवमनेन प्रकारेणोदिता उक्ताः उपव्रज्य तन्निकट ॐ देवा एवमनेन प्रकारेणोदिता उका: गत्वेदमब्रुवन् ॥ २६ ॥ * * समये अस्मिन्नापत्काले उचितः ।। २७-२८ ।। * * आत्मनोऽतिथित्वं पितृत्वं च तं प्रति निर्दिश्याथातिथीनां पितॄणां पूज्यत्वं बहुभिर्दृष्टान्तैराहुः । आचार्य इति द्वाभ्याम् ।। २९ ।। * धर्मस्य आत्मा मूर्त्तिरतिथिः आत्मनो जगत्कारणस्य भगवतो मूर्तिः सर्वभूतानि ।। ३०-३१ । ॥ । ।स्कं. ६ अ. ७ श्लो. २१-३० ] अनेकव्याख्यासमलङ्कृतम् गोस्वामिगिरिधरलालविहिता बालप्रबोधिनी ४ २३९ $ ब्रह्मवाक्यान्येव दर्शयति-अहो इति सार्द्धपञ्चभिः अहो इत्याश्वर्ये । बवेति खेदे । हे सुरश्रेष्ठा इति सम्बोधनमनौ- चित्यसूचनाय । हीत्यवधारणे । ऐश्वर्यात् ऐश्वर्यमदात् ब्राह्मणं तत्रापि दान्तं वशीकृत कार्यकारणसङ्घातं तत्रापि ब्रह्मिष्ठं ब्रह्मज्ञा- निनं यन्नाभ्यनन्दत नाभिनन्दितवन्तस्तद्वो युष्माभिर्महदभद्रमन्याय्यमेव कृतं तद्युष्माकं साविकानामनुचितमेव । तेनास्माकमपि खेदो वर्त्तते आश्चर्य भगवन्मायाचेष्टितमित्यन्वयः ॥ २१ ॥ * * तस्यैवानयत्य अन्यायस्यायं विपाकः फलं युष्माक- मासीत् । कोऽसावित्यपेक्षायामाह — परेभ्य इति । स्वयं वैरिणो हन्तारो येषां तेभ्यः । तत्र हेतुः - प्रक्षीणेभ्यः वो युष्माकं समृद्धानामपि यत् यः पराभवः स एव तच युष्माकं विदितमेव सात्त्विकत्वादित्यभिप्रायेण सम्बोधयति– हे सुरा इति ।। २२ ।। * * गुरुतिरस्कार सत्कारयोरपचयोपचयकारणत्वं प्रत्यक्षमेवेत्याह- मघवन्निति सम्बोधनमाश्वासनार्थम् | सम्प्रति गुर्वतिक्रमाद्युष्माकमपचयो जात इति शेषः । द्विषतः शत्रूस्तु प्रक्षीणानपि भक्तितः काव्यं शुक्र गुरुमाराध्य उपसेव्य भूय उपचितान् पश्य । उपचयमेव दर्शयति-भृगुः शुक्रः देवता येषां ते ममापि निलयनं स्थानमाददीरन् गृह्णीयुः युष्मनि- लयनं त्रिविष्टपं किं गणयन्तीत्युत्तरेणान्वयः || २३ ॥ किं गणयन्ति तद्ग्रहणे कोऽतिप्रयास इत्यर्थः । ननु यद्येवं सामदानदण्डा उपाया न सम्भवन्ति तदा भेदेन कार्य सेव्यतीत्याशङ्कयाह - अभेद्यमन्त्रा इति, अभेद्यो मन्त्रो मन्त्रणा येषां ते तथा । तत्र हेतुमाह - भृगूणामिति, शुक्राचार्याणामनुशिक्षितमेवार्थः । पुरुषार्थत्वेनोपादेया येषां ते तथा । तथाचैकमत्येन भेदोऽप्यशक्य एवेति भावः । नतु तर्हि किममाकं मरणमेव भविष्यति किं वाति किञ्चिदुपायान्तरमित्यपेक्षायां सामान्यत उपायमाह -नेति । विप्रा गोविन्दो गावश्वेश्वरा अनुग्राहका येषां तेषां नरेश्वराणामभद्राणि नैव भवन्ति ॥ २४ ॥ यस्मादेवं तस्माद्विश्वरूपं विप्रमाशु भजत । स युष्माभिः सभाजितः सत्कृतः सन् अथान तरमेव वो युष्माकमर्थान् मनोरथान् विधास्यते साधयिष्यति । यद्यस्य विश्वरूपस्य कर्म असुरपक्षपातरूपं क्षमिष्यध्वमुत तदेत्यन्वयः । कोऽसौ विश्वरूप इत्यपेक्षाया- माह – त्वाष्ट्रमिति, त्वष्टुः पुत्रम् । ननु सर्वमनोरथसम्पादने तस्य कथं सामर्थ्यम लीत्याशङ्कय भगवदनुग्रहादित्यभिप्रेत्याह- आत्मवन्तमिति, आत्मा सर्वात्मा भगवान् स्वामित्वेन विद्यते यस्य तम् । ननु भगवानपि तस्मिन् कथमेवं प्रसन्नो जात इत्यपे- क्षायामाह - तपस्विनमिति । अनेन विश्वरूपस्य मर्यादापुष्टिभक्तत्वं दर्शितम् । तथोक्तं निबन्धे - ‘पुष्टिरत्र द्विरूपा हि मर्यादा- पुष्टिभेदतः । विश्वरूपस्तु मर्यादा द्वितीयो वृत्र उच्यते । मर्यादासर्यादापुष्टः द्वितीयः शुद्धपुष्ट इत्यर्थः । एवं सर्वज्ञो ब्रह्मा विश्व- रूपद्वारा भाविभगवदनुग्रहमिन्द्रे ज्ञात्वा विश्वरूपमुपदिष्टवान् । अन्यथा स्वपौत्रत्वेन वशवर्त्तित्वात् देवैः पूर्वं स्वीकृतत्वाच बृहस्पतिमेव उपदिशेदिति ज्ञेयम् ।। २५ ।। * * ते देवा ब्रह्मणैवमुदिताः उक्ताः अत एव विगतो ज्वरोऽसुरजनितसन्तापो येषान्ते त्वाष्ट्रं विश्वरूपमुपव्रज्य परिष्वज्य च इदं वक्ष्यमाणमब्रुवन् । निर्भयतया गत्वा प्रार्थने हेतुं सूचयन्नाह - ऋषिमिति, स्वामिवचनविश्वासेन तापनिवृत्तिर्भवत्येवेति तु राजत्वात्त्वया ज्ञायते इति सूचयन् सम्बोधयति — हे राजन्निति ।। २६ ।। * देवानां वाक्यानि दर्शयति - वयमिति सप्तभिः । वयमतिथयो याचकास्ते तवाश्रमं प्राप्ता आगताः, अतो हे तात पितॄणामस्माकं समयोचितः एतत्कालयोग्यः कामः मनोरथः सम्पाद्यतामित्यन्वयः । ते तब भद्रमस्त्वित्याशीर्वादः प्रोत्साहनार्थः । सम्बोधनं स्नेहसूचकम् ।। २७ ।। * * पुत्राणां परः उत्कृष्टो धर्मः पितृशुश्रूषणं सेवनमेव । हिशब्द एवकारार्थकः । तर्हि कथं सर्वे पुत्रास्तन्न कुर्वन्तीत्याशङ्कचाहुः — सतामिति । तदकुर्वन्तो दुष्टा ज्ञेया इति भावः । तत्रापि कैमुत्यन्यायं दर्शयन्ति - अपीति । पुत्रपौत्रादिमन्तो हि तेषां पालनपोषणव्यापारव्याकुलचित्ता ये भवन्ति तेषामपि यदि पितृसेवापरो धर्मस्तदा ब्रह्मचारिणां भवादृशां पितृसेवापरो धर्म इति किमुत वक्तव्यम् ? तेषां तु तद्भवत्येवेत्यर्थः । तवाग्रे बहु किं वक्तव्यं ज्ञायते एव त्वयेत्यभि- प्रायेण सम्बोधयन्ति ब्रह्मन्निति ॥ २८ ॥ * * पितृत्वादतिथित्वाच अस्मत्कामस्त्वयाऽवश्यं सम्पादनीय इत्यभिप्रायेण तु यः शिष्यं वेदमध्यापयेद्द्विजः । सकल्पं
तत्वेन अन्यान्यप्युपासनान्याहुः - आचार्य इति द्वाभ्याम् । आचार्यः : * सरहस्यं च तमाचार्य प्रचक्षते’ इति स्मृत्युक्तलक्षणः ब्रह्मणो वेदस्य मूर्त्तिः । पिता प्रजापतेर्ब्रह्मणो मूर्त्तिः । भ्राता मरुत्पतेरिन्द्रस्य मूर्त्तिः । माता साक्षात् क्षितेस्तनुः मूर्त्तिः ॥ २९ ॥ * * भगिनी दयाया मूर्त्तिः । अतिथिः स्वयं साक्षाद्धर्मस्य आत्मा मूर्त्तिः । अभ्यागतोऽग्नेर्मूर्त्तिः । ज्ञानपूर्वकत्वाज्ञातपूर्वकत्वेनातिथ्यभ्यागतोर्भेदो ज्ञेयः । सर्वभूतानि च स्थावरजङ्गमानि सर्वात्मनो भगवतो मूर्त्तयः ॥ ३० ॥ भगवत्प्रसादाचार्यविरचिता भक्त मनोरञ्जनी उक्तमेवाह अहो इत्यादिना, उतास्य कर्मेत्यन्तेन । अहो इति बतेति खेदे । अहो देवानामेवं कष्टमित्याश्चर्ये । हे सुरश्रेष्ठाः, वो युष्माभिः महदतिशयितं अभद्र, कृतम् । अत्यसाध्वा चरितमित्यर्थः । हि यस्मात् ब्रह्मिष्ठं अतिशयेन ब्रह्मज्ञान-
२४० " श्रीमद्भागवतम् , * [ स्कं. ६ अ. ७ श्लो. २१-३० संपन्नं, ब्राह्मणं, दान्तमात्मदमनशीलं स्वगुरुम् ऐश्वर्यात्तत ऐश्वर्य प्राप्यापि, न अभ्यनन्दत मदान्नाभिवन्दितवन्तः ।। २१ ।। * * तस्येति । हे सुराः, प्रक्षीणेभ्यः ऐश्वर्यरहितेभ्यः, स्ववैरिभ्यः सपत्नेभ्यः, समृद्धानाम् अधिकं संपन्नानां वो युष्माकं, परेभ्यः, प्रक्षीणतावद्धयोऽपि शत्रुभ्यः, पराभवः यत्, अयं तस्य अनयस्य फलरूपः आसीत् । चोऽवधारणे ।। २२ ।। गुरु- तिरस्कार सत्कारावेवापचयोपचयकारणमित्यसुरदृष्टान्तेनाह । मववन्निति । हे मघवन् द्विषतस्तव शत्रूनसुरानिति यावत् आदौ, गुर्वतिक्रमात् प्रक्षीणान् संप्रति काव्यं स्वगुरुं शुक्रं, भक्तितः आराध्य, भूयः उपचितान् समृद्धान् पश्य ।। २३ ।। ** अगुर्वाराधनान् युष्मान् बाधन्ते इति किमु वक्तव्यं यतो मत् स्थानमपि गृह्णीयुरिति संभावयामीत्याह । अद्येति । अद्यास्मिन्नहनि, श्व आगामिनि दिने वा परश्वस्ततः परस्मिन्नहनि वा, बलशालिनः, अत एव हप्ता गर्विता, भृगुरेव देवता देवतावदुपास्यो येषां ते तेऽसुराः, मम निलयनं मत्स्थानमपि, आददीरन गृह्णीयुः ॥ २४ ॥ * त्रिविष्टपमिति । अभेद्यो मन्त्रो येषां || || * ते, भृगूणां भृगुकुलप्रभवानां, अनुशिक्षितार्थाः शिष्याः, त्रिविष्टपं, कि गणयन्ति । न गणयन्त्येव । विप्राश्च गोविन्दश्च गावश्च ताः ईश्वरा अनुग्राहका येषां तेषां अभद्राणि न भवन्ति । अन्येषां तु, नरेश्वराणामपि भवन्ति ॥ २५ ॥ तदिति । तत्तस्मात्, अथानन्तरं, आशु शीघ्रमेव, आत्मवन्तं जितेन्द्रियं तपस्विनं, त्वाष्ट्रं त्वष्टुः पुत्रं, विश्वरूपं विप्रं द्विजं, भजत संसेवध्वम् । तं पौरोहित्ये वृत्वा यूयमनुवर्त्ततेत्यर्थः । यदि, अस्य विश्वरूपस्य, कर्म असुरपक्षपातादिरूपं कृत्यं क्षमिष्यध्वमुत सहिष्यध्वं यदीत्यर्थः । तर्हि, वो युष्मान्, संभावितो निष्पादितः अर्थोऽभिलषितप्रयोजनं येषां तान् सः विधास्यते करिष्यति । अतः सर्वथा तस्य कर्म युष्माभिः क्षन्तव्यमित्यर्थः ॥ २६ ॥ * * एवं ब्रह्मणोक्ता देवा विश्वरूपं प्रार्थयितुं ययुरित्याह मुनिः । त इति । हे राजन् ते देवाः, ब्रह्मणा एवमित्थं उदिता उक्ताः, अत एव विगतः ज्वरः आधिर्येषां तथाभूताः सन्तः, ऋषिमृषिवृत्त्या वर्त्तमानं, त्वाष्ट्रं त्वष्टुः पुत्रं, विश्वरूपम् उपव्रज्य उपेत्य परिष्वज्य पुत्रत्वादालिङ्गन्य, अस्य पुत्रत्वात्परिष्वज्येत्युक्तं न तु नमस्कृत्येति । इदं वक्ष्यमाणं वाक्यम् अब्रुवन् ॥ २७ ॥ * * उक्तमेवाह । वयमिति । हे विश्वरूप, वयं ते तव, आश्रमम् अतिथयः सन्तः प्राप्ताः । ते तव भद्रम् अतु । अस्माकं तवाश्रमं प्रत्यागमनमशून्यमस्त्विति भावः । हे तात, पितॄणां त्वत्पितृत्वेन व्यवहर्त्तव्यानामस्माकमित्यर्थः । समयोचितः एतत्कालयोग्यः, काम इच्छाविषयोऽर्थः संपाद्यतां त्वया संपादनीय इत्यर्थः । पाठान्तरे संपन्नो भवत्वित्यर्थः ॥ २८ ॥ * * पुत्राणामिति । हे ब्रह्मन् पुत्रवताम् अपि सतां, पुत्राणां पितृ- शुश्रूषणं परः धर्मः हि । ब्रह्मचारिणां सतां पुत्राणां किमुत, पितृशुश्रूषणं परो धर्म इति किमु वक्तव्यम् । अतस्त्वं तु ब्रह्मचारी पुत्रश्चेत्यस्मच्छुश्रूषणमत्यन्तमुचितमिति भावः ।। २९ ।। * * आचार्य इति । किं च आचार्य उपनीय वेदाध्यापकः, ब्रह्मणो वेदस्य, मूर्त्तिः, यद्वा आचार्य: दीक्षां दत्त्वा मोक्षमार्गप्रदर्शकः, ब्रह्मणः परब्रह्मणः मूर्त्तिः । ईश्वरदृष्टया आचार्य आराधनीय इति भावः । पिता जनक:, प्रजापतेर्ब्रह्मण:, मूर्त्तिः । भ्राता मरुत्पतेः इन्द्रस्य मूर्त्तिः । माता, साक्षात्प्रत्यक्षायाः क्षितः पृथिव्याः, तनुर्मूर्त्तिः ॥ ३० ॥ भाषानुवादः .. " , * ब्रह्माजी ने कहा- देवताओ ! यह बड़े खेद की बात है। सचमुच तुमलोगोंने बहुत बुरा काम किया । हरे, हरे ! तुमलोगोंने ऐश्वर्य के मदसे अंधे होकर ब्रह्मज्ञानी, वेदज्ञ एवं संयमी ब्राह्मणका सत्कार नहीं किया ।। २१ ।। * देवताओ ! तुम्हारी उसी अनीतिका यह फल है कि आज समृद्धिशाली होनेपर भी तुम्हें अपने निर्बल शत्रुओंके सामने नीचा देखना पड़ा ।। २२ ।। * देवराज ! देखो, तुम्हारे शत्रु भी पहले अपने गुरुदेव शुक्राचार्यका तिरस्कार करनेके कारण अत्यन्त निर्बल हो गये थे, परन्तु अब भक्तिभावसे उनकी आराधना करके वे फिर धन-जनसे सम्पन्न हो गये हैं । देवताओ ! मुझे तो ऐसा मालूम पड़ रहा है कि शुक्राचार्यको अपना आराध्यदेव माननेवाले ये दैत्यलोग कुछ दिनोंमें मेरा ब्रह्मलोक भी छीन लेंगे || २३ ॥ * * भृगुवंशियोंने इन्हें अर्थशास्त्रकी पूरी-पूरी शिक्षा दे रक्खी है । ये जो कुछ करना चाहते हैं, उसका भेद तुमलोगों को नहीं मिल पाता । उनकी सलाह बहुत गुप्त होती है। ऐसी स्थितिमें वे स्वर्गको तो समझते ही क्या हैं, वे चाहे जिस लोकको जीत सकते हैं। सच है, जो श्रेष्ठ मनुष्य ब्राह्मण, गोविन्द और गौओंको अपना सर्वस्व मानते हैं और जिनपर उनकी कृपा रहती है, उनका कभी अमङ्गल नहीं होता ॥ २४ ॥ * * इसलिये अब तुमलोग शीघ्र ही त्वष्टाके पुत्र विश्वरूपके पास जाओ और उन्हींकी सेवा करो । वे सच्चे ब्राह्मण, तपस्वी और संयमी हैं । यदि तुमलोग उनके असुरोंके प्रति प्रेमको अमा कर सकोगे और उनका सम्मान करोगे, तो वे तुम्हारा काम बना देंगे ।। २५ ।। * * श्रीशुकदेवजी कहते हैं— परीक्षित् ! जब ब्रह्माजीने देवताओंसे इस प्रकार कहा, तब उनकी चिन्ता दूर हो गयी वे त्वष्टाके पुत्र विश्वरूप ऋषिके पास गये और उन्हें हृदयसे लगाकर यों कहने लगे ॥ २६ ॥ * * देवताओंने कहा- बेटा बिश्वरूप ! तुम्हारा कल्याण हो । हम तुम्हारे आश्रमपर अतिथि के रूपमें आये हैं। हम एक प्रकार से स्कं ६ अ. ७ श्लो. ३१-३५ ] अनेकव्याख्या समलङ्कृतम् २४१ । ।। तुम्हारे पितर हैं । इसलिये तुम हमलोगों की समयोचित अभिलाषा पूर्ण करो ॥ २७ ॥ * * जिन्हें सन्तान हो गयी हो, उन सत्पुत्रों का भी सबसे बड़ा धर्म यही है कि वे अपने पिता तथा अन्य गुरुजनों की सेवा करें। फिर जो ब्रह्मचारी हैं, उनके लिये तो कहना ही क्या है ॥ २८ ॥ * * वत्स ! आचार्य वेदकी, पिता ब्रह्माजीकी, भाई इन्द्रकी और माता साक्षात पृथ्वीकी मूर्त्ति होती है ॥ २६ ॥ ( इसी प्रकार ) बहिन दयाकी, अतिथि धर्मकी, अभ्यागत अभिकी ।। ।। और जगत् के सभी प्राणी अपने आत्माकी ही मूर्ति आत्मस्वरूप होते हैं ॥ ३० ॥ ३१ ॥ ३२ ॥ तस्मात् पितॄणमार्तानामार्ति परपराभवम्। तपसापनयंस्तात सन्देशं कर्तुमर्हसि ॥ वृणीमहे त्वोपाध्यायं ब्रह्मिष्ठं ब्राह्मणं गुरुम् । यथाञ्जसा विजेष्यामः सपत्नांस्तव तेजसा ॥ न गर्हयन्ति वर्थेषु यविष्ठाङ्ग्यभिवादनम् । अन्दोभ्योऽन्यत्र न ब्रह्मन् वयो ज्यैष्ठयस्य कारणम् ॥ ३३ ॥ ऋषिरुवाच अभ्यर्थितः सुरगणैः पौरोहित्ये महातपाः । स विश्वरूपस्तानाह प्रसन्नः श्लक्ष्णया गिरा ॥ ३४ ॥ विगर्हितं धर्मशीलैर्ब्रह्मवर्च उपव्ययम् । विश्वरूप उवाच ॥ कथं नु मद्विधो नाथा लोकेशैरभियाचितम् । प्रत्याख्यास्यति तच्छिष्यः स एवं स्वाथ उच्यते ।। ३५।। कृष्णप्रिया व्याख्या अन्वयः - तात तस्मात् आर्तानां पितॄणां परपराभवम् आर्तिं तपसा अपनयन् संदेशं कर्तुम् अर्हसि ॥ ३१ ॥ * * यथा तव तेजसा अंजसा सपत्नान् विजेष्यामः ब्रह्मिष्ठं गुरुम् ब्राह्मणं त्वा उपाध्यायं वृणीमहे ॥ ३२ ॥ * * ब्रह्मन् हि अर्थेषु यविष्ठाप्रयभिवादनम् न गर्हयन्ति छन्दोभ्यः अन्यत्र वयः ज्येष्ठयस्य कारणं न सुरगणैः पौरोहित्ये अभ्यर्थितः महातपाः सः विश्वरूपः प्रसन्नः लक्ष्णया गिरा तान् आह ।। ३३-३४ ॥ ४ नाथाः मद्विधः तच्छिष्यः धर्मशीलैः विगर्हितं ब्रह्मवर्च उपव्ययं लोकेशैः अभियाचितं कथं तु प्रत्याख्यास्यति सः एव स्वार्थः उच्यते ॥ ३५ ॥ * श्रीधरस्वामिविरचिता भावार्थदीपिका Shayr परेभ्यः पराभव एवार्तिस्ताम् ॥ ३१ ॥ संदेशमाहुः । वृणीमह इति ।। ३२ ।। * * ननूपाध्यायत्वे कनिष्ठस्य ममाभिनंदनं करिष्यथ तच्च गर्हितं तत्राहुः । नेति । अर्थेषु प्रयोजननिमित्तं यविष्ठानामभिवादनं न निंदति । किं च छंदोभ्यो मंत्रेभ्योऽन्यत्र वयो ज्यैष्ठयस्य कारणं न तु मंत्रेषु । अतोऽस्मभ्यं मंत्रदातृत्वेन त्वमेव ज्येष्ठो भविष्यसि । यद्वा छंदोभ्योऽ- न्यत्र वेदान्विहाय वय एव ज्यैष्ठयस्य कारणं न भवति किं तु वेदा एवं मुख्यं कारणं तत्साम्ये तु वयः । वेदज्ञत्वाच्च त्वमेव ज्येष्ठ इत्यर्थः ॥ ३३-३४ ॥ * निंदितमपीदं युष्मद्याच्या भंग भयेन करिष्यामीत्याह सार्धेन । विगर्हितं पौरोहित्यमिति शेषः । धर्मशीलैः अधर्महेतुत्वात् । किं च ब्रह्मवर्चउपव्ययं पूर्वसिद्धस्य ब्रह्मवर्चसो व्ययकरम् । प्रत्याख्यातुं च मादृशो नाहती- त्याह । कथं न्विति । तेषां लोकेशानां शिष्यः शिक्षणार्हः । स एव प्रत्याख्यानाभाव एव हि शिष्यस्य स्वार्थ उच्यते ।। ३५ ।। वंशीधरकृतो भावार्थदीपिकाप्रकाशः लिए कह नवलं धर्मोपदेशस्तुतिभ्यां विवक्षितं ब्रूतेत्यत आह-तस्मादिति । यत इत्युक्तरीत्या वयं पितरस्तस्माद्धेतोः ॥३१॥ * * उपाध्यायं पुरोहितं पुरोहितोपाध्यायशब्दौ पर्यायाचेव “वृतः पुरोहितस्त्वाष्ट्रो महेंद्रायानुपृच्छतः” इत्युपसंहारादुपाध्याय एव पुरोहितो भवत्यन्यथा “उपक्रमोपसंहारावेकरूपाविति स्थितिः” इति न्यायभंगप्रसंगः स्यादिति भावः । किच- पुरोहितोपाध्यायाचार्यगुरुयाजकविछन्दसामेक एवार्थो न भिन्नस्तथादर्शनात् । ‘नैतज्जानंत्युपाध्यायाः’ इति चतुर्थे “पौरो- १. प्रा० पा० - प्रहसन् । २. प्रा० पा० नाम । २० प्रा० पा०- सच्छिष्यः । ३१ २४२ श्रीमद्भागवतम् [ स्कं. ६ अ. ७ श्लो. ३१-३५ हित्याय भगवान्वृतः काव्यः किलासुरैः । शंडामकौं सुतौ तस्य " इत्यत्र पुरोहितशब्द प्रयुज्य तदग्रे “गृहमानीतमाहूय प्रह्लादं दैत्य- याजकाः” इह तत्पुत्रेषु याजकपदप्रयोगो दृश्यते तेन याजका एव पुरोहिता न त्वयाजका इति ज्ञायते सप्तवाक्येन । किञ्च- निमिरिक्ष्वाकुतनयो वशिष्ठमवृतत्विजम्” इति नवमे । श्रीदशमेऽपि गर्गः पुरोहितो राजन्’ इत्यत्र पुरोहितपदं प्रयुज्य तत्रैव ‘यदूनामहमाचार्यः’ तत्रैवाचार्यपदं श्रीशुकः प्रायुक्त । “पुरोहितोऽथर्वविद्वै जुहाव ग्रहशांतये” इत्यादिदशमे पुनरप्युक्तम् । किं बहुना कर्मकारयितैव मुख्यः पुरोहितपदवाच्यो यश्चाधुनिकैर्महामूर्खे कंकणादिबंधके गोत्रोच्चारयितरि पुरोहितपदं प्रयुज्यते तत्पुरो- हितार्थाज्ञानत एवेति ध्येयम् । ये च ग्राममात्रस्य याजकत्वेन वृतास्ते ग्रामयाजका ग्रामपुरोहिता एवोपाध्यायशब्देनोच्यते । अत्र बहुवक्तव्यमस्ति तदस्मत्संगृहीतदाननिर्णयतो ऽवसेयं विशेषश्रवणेच्छायामित्युपरम्यते । प्रकृतमनुसरामः - यथा सपत्नान् शत्रू स्तव तपस्तेजसा विजेष्यामस्तथा त्वां वृणीमह इति योज्यम् ।। ३२ ।। * * अत्राक्षिपति नन्विति । अन्यत्रान्येषु व्यावहारिक- कृत्येषु । यविष्ठांघ्रयभिवादनं कनिष्ठनमनं न गर्हयंति न अपि तु गर्हयंत्येव यतो वय एव ज्यैष्ठचस्य कनिष्ठत्वस्य च कारणमिति अधिकवयस्त्वे ज्यैष्ठ्यमल्पवयस्त्वे कनिष्ठत्वं चेति अस्त्विदम् । वैदिककृत्येषु न तु तत्र छंदोज्ञत्वमेव ज्यैष्ठयस्य कारणमित्यर्थः । किन - वेदविदे विप्रस्य सर्वदेवाधिष्ठानत्वेनापि पूज्यत्वं तथा च श्रुतिः - “सर्वा देवता वेदविदि ब्राह्मणे निवसंति” इति वेदा- भिज्ञानमेव ज्यैष्ठस्य कारणं न वय इति । इत्यर्थ इति । तस्मात्त्वां वेदाधिक्यज्ञानवत्त्वेन पौरोहित्यं कुर्वन्नोऽस्माकं मंत्रप्रदो गुरुर्भवेति । । भावः ॥ ३३ ॥ * ॐ सर्वज्ञत्वेन ज्ञातदैन्यत्वादृषिरित्युक्तम् । ऋषिः शुकः ॥ ३४ ॥ * अधर्महेतुत्वात्प्रतिग्रह- ग्रहणादिना धर्मनाशकत्वात् । केवलं धर्मस्यैव नाशोपि तु ब्रह्मतेजसोऽपीत्याह किचेति । तर्हि तन्न शक्यमित्युच्यतां तत्राह - प्रत्याख्यातुमिति । नाथा इति । हे उपतप्ता इत्यर्थः । न पतप्तोपेक्षा योग्या धर्मनाशकत्वात् । “ब्राह्मणः समदृक शांतो दीनानां समुपेक्षकः । स्रवते ब्रह्म तस्यापि भिन्नभांडात्पयो यथा ।” इति चतुर्थस्कंधोक्तेः । यद्यपि विगर्हितं तथापि लोकेशत्वात्सर्व- गुरुणां युष्माकं लोकांतर्गतत्वादहमपि शिष्य एवातो गुर्वाज्ञालंघनदोषभयान्निन्दितमपि पौरोहित्यं करिष्याम्येवेति भावः । स एव प्रत्याख्यानाभाव एव । शिष्यस्य स्वार्थ: स्वार्थसिद्धिद इत्यर्थः ।। ३५ ।। । 1 अन्वितार्थप्रकाशिका तस्मादिति । हे तात ! तस्मात् पितॄणामार्तानामस्माकं परेभ्यः शत्रुभ्यः पराभवरूपामातिं स्वतपसाऽपनयन् सन्देश- मस्मदर्शितं कर्तुमर्हसि ॥ ३१ ॥ वृणीमह इति । ब्रह्मिष्ठं ब्रह्मनिष्ठं ब्राह्मणं गुरुं त्वाम् उपाध्यायं वृणीमहे । यथा येनोपाध्यायवरणप्रकारेण तव तेजसा अञ्जसा अनायासेनैव सपत्नान् स्वशत्रून् विजेष्यामः । तङभाव आर्षः ॥ ३२ ॥ * ननूपाध्यायस्य पादाभिवन्दनमावश्यकं तज्ज्येष्ठानां वः भ्रातुष्पुत्रे मयि कथं युक्तमित्याशङ्कयाह -नेति । हे ब्रह्मन् ! अर्थेषु प्रयोजननिमित्तं हि यविष्ठस्य कनिष्ठस्याङ्यभिवादनं न गर्हयन्ति वृद्धाः । वस्तुतस्तु छन्दोभ्योऽन्यत्र वेदज्ञानं विहाय न वयो ज्यैष्ठ्यस्य ज्येष्ठत्वस्य कारणं किंतु वेदज्ञत्वमेव ज्येष्ठत्वस्य कारणम् । यद्वा । छन्दोभ्यो वैदिककृत्य भ्योऽन्यत्र अर्थेषु व्यावहारिक- कृत्येषु यविष्ठाङ्घयभिवादनं न गर्हयन्तीति न अपि तु गईयन्त्येव । यतो व्यावहारकृत्येषु वय एव ज्येष्ठत्वाकारणं वैदिक- कृत्येषु न वयोज्येष्ठत्वकारणं किन्तु छन्दोज्ञत्वमेवातस्तव वेदज्ञानेऽधिकत्वादभिवादनीयोऽसि इति ॥ ३३ ॥ * * अभ्यर्थित इति । स्पष्टम् ।। ३४ ।। * विगर्हितमिति सार्द्धम् । हे नाथाः ! पौरोहित्यं धर्मशीलैर्विगहितं निन्दितं ब्रह्मवर्चसः ब्रह्मतेजसः । समासान्ताभाव आर्षः । उपव्ययः अधिकक्षयो यस्मात् तथापि मद्विधः सुशीलः तच्छिष्यः तेषां भवतां शिक्षणा: लोकेशैर्युष्माभिरभियाचितं कथं प्रत्याख्यास्यति । अस्माकं तु स एव युष्मद्वचनप्रत्याख्यानाभाव एव स्वार्थः स्वपुरुषार्थ उच्यते । शास्त्रे शास्त्रज्ञैरिति शेषः ॥ ३५ ॥ वीरराघवव्याख्या तस्माद्धे तात ! त्वत्पितॄणामार्तानां पीडितानामस्माकं शत्रुभ्यः पराभवरूपामार्ति तपसा तपःप्रभावेणापनयन्नस्माकं सन्देशं कर्तुमर्हसि योग्यो भवसि ॥ ३१ ॥ * सन्देशमेवाहुः वृणीमह इति । ब्रह्मिष्ठं ज्ञानिनं तत्रापि ब्राह्मणमत एव सर्ववर्णानां गुरुं त्वामुपाध्यायं वृणीमहे यथा येन प्रकारेणाञ्जसा सुखेनैव तव तेजसा ब्रह्मतेजसा सपत्नान् शत्रून्विजेष्यामः * । तथानुगृहाणेति शेषः ॥ ३२ ॥ ननूपाध्यायत्वे कनिष्ठस्य ममाङ्घयभिवादनं कथं करिष्यथ तत्तु गर्हितं तत्राहुः । नं गर्हय तीति । स्वार्थेषु स्वप्रयोजननिमित्तं यविष्ठाध्यूभिवादनं न गर्हयन्ति । हे ब्रह्मन् ! छन्दोभ्योऽन्यत्रैव वेदाध्ययनादेर- न्यत्रैव कर्मणि वय: ज्यैष्ठयस्य कारणं छन्दोभ्यो मन्त्रेभ्योऽन्यत्र वयो ज्यैष्ठयस्य कारणं न तु मन्त्र ठेवतोऽस्मभ्यं मन्त्रदातृत्वेन त्वमेव ज्येष्ठो भवसीति वार्थः । यद्वा । छन्दोभ्योऽन्यत्र वेदान्विहाय वय एवं ज्यैष्ठयस्य कारणं न भवति । किन्तु । वेदा एव स्कं. ६ अ. ७ श्लो. ३१-३५ अनेकव्याख्या समलङ्कृतम् २४३ मुख्यं कारणं तत्साम्ये तु वयः अतो वेदज्ञत्वात्त्वमेव ज्येष्ठ इत्यर्थः ॥ ३३ ॥ एवमुक्तो विश्वरूपो देवानुवाचेत्याह मुनिः । अभ्यर्थित इति । एवं सुरगणैः पौरोहित्यं पुरोहितस्य कर्म प्रति प्रार्थितः । स महातपाः विश्वरूपः प्रहसन् लक्ष्णया मृद्वया गिरा तान् देवानाह ॥ ३४ ॥ * * उक्तिमेवाह सार्द्धस्त्रिभिः । विगर्हितमिति । धर्मशीलैर्विगर्हितं तावद्धर्मशीलाः पौरोहित्यं विगर्हयन्तीत्यर्थः । किन । तत्पौरोहित्यं ब्रह्मवर्चसस्य व्ययकरम् | आर्षत्वात् “ब्रह्महस्तिभ्यां वर्चसः” इति समासान्ताभावः । एवं पौरोहित्यस्य विगर्हितत्वं स्वघर्मनाशकत्वं चाभिधायाधुना तदप्रत्याख्येयं चेत्याह । कथमिति । लोकेशैर्युष्माभिरभियाचितो मद्विधः पितृसेवकः कथं नु तत्प्रत्याख्यास्यति नाम न प्रत्याख्यास्यत्येवेत्यर्थः । मद्विध इत्यनेनाभिप्रेतं विशदयति । तच्छिष्य इति । तेषां शिष्यः शिक्षणाहः शिष्योऽहि प्रत्याचष्टां तत्राह । स एव । प्रत्याख्यानाभाव एव हि शिष्यस्य स्वार्थ उच्यते मद्विधो नाथ इत्येकवचनपाठे नाथो याचितनाथत्वेन रक्षकत्वेन याचितः स एव स्वार्थः इति लोकेशैः शिष्यैर्नियुज्यत इति यतः स एव स्वार्थः परमो लाभ इत्यर्थः ।। ३५ ।। विजयध्वजतीर्थकृता पदरत्नावली स्वोक्तवाक्यस्य कर्तव्यत्वे हेतुमुक्त्वा निगमयन्ति । तस्मादिति । परेभ्यः शत्रुभ्यः प्राप्तपराभवलक्षणामार्तिमपन- यन् ॥ ३१ ॥ * * त्वा त्वाम् ।। ३२ ।। * * नन्वहं युष्मदुपाध्यायश्च त्कनिष्ठस्य मम पादाभिनन्दनं निन्दितं भवतामिति तत्राह । नेति । अर्थेषु प्रयोजनेषु यविष्ठस्य कनिष्ठस्य “आचार्या देवा विद्या विदिता साधिष्ठं प्रापयति सर्वा देवता वेदविदि ब्राह्मणे निवसन्ति” इत्यादिश्रुतेः । वेदाभिज्ञानमेव ज्यैष्ठयस्य कारणं न वय इत्याह । छन्दोभ्य इति । अत्र छन्दोभ्य इत्यनेन तदभिज्ञानं लक्ष्यते । वेदाभिज्ञानमन्तरेण ज्यैष्टयकारणं वयो न भवति तज्ज्ञानमेतत्तवास्ति तस्मात्त्वदरित्र- वन्दनं न निन्दितं धौम्यादौ पाण्डवादीनां दृष्टत्वादित्यर्थः ।। ३३-३४ ॥ * धर्मशीलैर्विगर्हितम् (१) पौरोहित्यमिति शेषः । कस्मादिति तत्राह । ब्रह्मेति । ब्रह्मवर्चसः उपव्ययो नाशो यस्मात्तत्तथा पौरोहित्ये ब्रह्मवर्चः उपगतव्ययं प्राप्तनाशं स्यादिति यत्तस्माद्धर्मशीलैर्विगर्हितमिति वा योजना । तर्हि तन्न शक्यमित्युच्यतामितिचेत्तत्राह । कथं न्विति । हे नाथाः ! लोकेशैः अभियाचितो मद्विधो विप्रः कथं नु प्रत्याख्यास्यति कथमपि न निराकरोतीत्यर्थः । गुर्वाज्ञालङ्घने दोषापत्तेरित्यभिप्रेत्याह । तच्छिष्य इति । परकार्यत्वेन निराकार्यमिति तत्राह । स एवेति ॥ ३५ ॥ विश्वनाथचक्रवतिकृता सारार्थदर्शिनी ।। ।। * नम्बलं धर्मोपदेशस्तुतिभ्यां विवक्षितं ब्रूतेत्यत आहुः । तस्मादिति ॥ ३१ ॥ त्वा त्वां गुरुं गुरुत्वेन वृणीमहे । प्रयोजनमाहुर्यथेति ॥ ३२ ॥ ननु मां गुरुं कुरुथेति चेत् भ्रातुष्पुत्रत्वेन कनिष्ठस्य कथं ममाभिवादनं करिष्यथेति तत्राहुः । नेति । छन्दोऽभ्योन्यत्र अन्येषु व्यावहारिककृत्येषु यविष्ठाङ्यभिवादनं न गर्हयन्ति न अपि तु गर्हयन्त्येव । यतो वय एव ज्येष्ठत्वस्य कनिष्ठत्वस्य च कारणम् । अधिकवयस्त्वे ज्येष्ठः | अल्पवयस्त्वे कनिष्ठ इति । छन्दस्सु वैदिककृत्येषु न तु तत्र छन्दोज्ञत्वमेव ज्येष्ठत्वस्य कारणमित्यर्थः । तस्मात्तव वेदज्ञत्वाधिक्यात् त्वमेवास्माकं पौरोहित्यं कुर्वन् मन्त्रप्रदो गुरुर्भवेति भावः ।। ३३-३४ ॥ * * धर्मशीलैर्मुनिभिः पौरोहित्यं विगर्हितं यतो ब्रह्मवर्थसः ब्रह्मतेजस उपव्य- योऽधिकव्ययो यतस्तत् । किञ्च । तदपि सम्प्रति मम तत् कर्त्तव्यमेवाभूदित्याह । कथमिति । हे नाथाः ! लोकेशैर्युष्माभिः तच्छिष्यः तेषां युष्माकं शिष्यः । तस्मात् । स एव । प्रत्याख्यानाभाव एव शिष्यस्य स्वार्थः ।। ३५ ।। ।। शुकदेवकृतः सिद्धान्तप्रदीपः त्वा त्वाम् ॥ ३२ ॥ * * हे ब्रह्मन् । छन्दोभ्योऽन्यत्र वेदाध्ययनादिव्यवहारव्यतिरिक्ते लौकिके व्यवहारे अर्थेषु प्रयोजनेषु यविष्ठाध्यभिवादनं न गर्हयन्तीति न अपि तु गर्हयन्ति हि यतः ज्यैष्ठयस्य कारणं वयो भवति वयसैव ज्येष्ठः स्वीक्रियते । वेदाध्यायनादिव्यवहारे तु यविष्ठाध्यभिवादनं न गर्हयन्ति अतः पितॄणामपि वैदिकव्यवहारनिर्वाहाय पुत्रोऽपि त्वं गुरुर्भवितुमर्हसीति फलितोऽर्थः ॥ ३३ ॥ * * अभ्यर्थितः प्रार्थितः श्रक्ष्णया बहुगुणयुक्तया ॥ ३४ ॥ * * ब्रह्मवर्च उपव्ययं ब्रह्मतेजोनाशकम् । स एव । प्रत्याख्यानाभाव एव शिष्यस्य स्वार्थ उच्यते ।। ३५ ।। १. पौरोहित्यं याचकत्वं माठापत्यं तथैव च । यः करोति स देवोऽपि श्वानयोनिं समश्नुत इतिकर्मविपाकोक्तेः । ર J । श्रीमद्भागवतम् गोस्वामिगिरिधरलाल विहिता बालप्रबोधिनी [ स्कं ६ अ. ७ श्लो. ३१-३५ यस्मादेवमाचार्यादयः तत्तद्रूपेणोपास्यास्तस्मात् हे तात पितॄणामार्त्तानामस्माकं परेभ्यः शत्रुभ्यः पराभवरूपामाति स्वतपसाऽपनयन् सन्देशमाज्ञां कतुमर्हसि योग्योऽसि ॥ ३१ ॥ * * सन्देशमेवाहुः —— घृणीमहे इति । त्वा त्वामु- पाध्यायं वृणीमहे । तेन किं फलं स्यादित्यत आहुः यथेति । यथा येनोपाध्यायवरणप्रकारेण तव तेजसा अञ्जसा अनायासेनैव सपत्नान् स्वशत्रून् विजेष्यामः । कथं मय्येवं तेजस्तत्राहुः - ब्रह्मिष्ठमिति, भगवदुपासकमित्यर्थः । ननु भगवन्निष्ठोऽतितेजख्यपि क्षत्रियादिर्नोपाध्यायो भवितुमर्हतीत्याशङ्कयाहु:– ब्राह्मणमिति । तथा च ‘ब्राह्मणो जन्मना गुरुः’ इति शास्त्रतपआदिरहितोऽपि ब्राह्मणो गुरुर्भवितुमर्हति किं पुनस्तद्युक्तस्त्वमित्याशयेन विशेषणान्तरमाहुः गुरुमिति ॥ ३२ ॥ - * ननूपाध्यायस्य पादाभिवन्दमावश्यकं तच्च मयि भ्रातुः पुत्रे कनिष्ठे युष्माकं ज्येष्ठानां गर्हितमिति कथं तत् करिष्यथेत्याशङ्कयाहुः – नेति । अर्थेषु प्रयोजननिमित्तं यविष्ठस्य अभिवादनं न गर्हयन्ति वृद्धाः । वस्तुतस्तु छन्दोभ्योन्यत्र वेदज्ञानं विहाय । हे ब्रह्मन् वेदज्ञ न वयो ज्यैष्ठयस्य ज्येष्ठत्वस्य कारणं किन्तु वेदज्ञत्वमेव ज्येष्ठत्वकारणम् “सर्वा देवता वेदविदि ब्राह्मणे निवसन्ति” इति श्रुतेः । तथा वेदज्ञत्वात्त्वमेव ज्येष्ठ इति नोक्तदोषः ॥ ३३ ॥ * * एवमभ्यर्थितः प्रार्थितः ऋक्ष्णया मधुरया गिरा । ननु देवपौरोहित्यदैत्यभयसम्भवात् कथं प्रसन्नता सम्भवति तत्राह - महातपा इति । स्पष्टमन्यत् ॥ ३४ ॥ * * तद्वाक्यानि दर्शयति- विगर्हितमिति । पौरोहित्यं धर्मशीलैर्विगर्हितं निन्दितम् । तत्र हेतुमाह - ब्रह्मवर्च उपव्ययमिति, ब्रह्मवर्चसः ब्रह्मतेजसः उपव्ययः अधिकक्षयो यस्मात्तत् । तथापि मद्विधः सुशीलः तच्छिष्यः तेषां भवतां शिक्षणार्हः लोकेशैर्युष्माभिरभि- याचितं कथं प्रत्याख्यास्यतीत्यन्वयः । हे नाथ इति सम्बोधनेन अस्मद्धानिरपि युष्मद्धानिरेव वृद्धत्वादिति सूचयति । अस्माकं तु स एव युष्मद्वचन प्रत्याख्यानाभाव एव स्वार्थः स्वपुरुषार्थं उच्यते । शास्त्रे शास्त्रज्ञैरिति शेषः ॥ ३५ ॥ * भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी दयाया इति । भगिनी दयायाः मूर्त्तिः । आत्मा स्वयं क्षेत्रज्ञः, धर्मस्य मूर्त्तिः । अतिथिः स्वयं साक्षाद्विष्णोः मूर्त्तिः " अभ्यागतः अग्नेः, मूर्त्तिः । सर्वभूतानि च आत्मनः स्वदेहस्य सर्वभूतानि च आत्मनः स्वदेहस्य मूर्त्तिः । भूतान्यात्मतुल्यत्वेन द्रष्टव्यानीत्यर्थः । यद्वा । भगिनी I दयायाः, मूर्त्तिः । स्वयं अतिथिः धर्मस्य आत्मा मूर्त्तिः । अभ्यागतः अग्नेः मूर्त्तिः । सर्वभूतानि आत्मनः परमेश्वरस्य च मूर्त्तिरित्यर्थः । ‘यस्य सर्वाणि भूतानि शरीरं’ इति श्रुतेः ॥ ३१ ॥ * * तस्मादिति ।
- तस्मादिति । हे तात, तस्माद्धेतोः, पितॄणां पितृतया मान्यानां आर्त्तानां दुःखितानामस्माकं, परपराभवं शत्रुकृत पराभवरूपामित्यर्थः । आर्त्ति पीडां तपसा त्वत्तपः- प्रभावेण, अपनयन्विनाशयन्, संदेशमस्मत्प्रार्थितं कर्तुम अर्हसि ॥ ३२ ॥ * * संदेशमेवाहुः । वृणीमह इति । ब्रह्मिष्ठं ज्ञानिनं तत्रापि ब्राह्मणं ब्राह्मणधर्मनिष्ठं, अतः गुरुं सर्ववर्णगुरुधर्मवन्तं त्वा त्वां, उपाध्यायं वृणीमहे । वयमिति शेषः । त्वय्युपाध्याये सति, यथा येन प्रकारेण, अञ्जसा सुखेनैव तव तेजसा, सपत्नान् शत्रून् विजेष्यामः । तथानुगृहाणेति शेषः ॥ ३३ ॥ * * ननूपाध्यायत्वे कनिष्ठस्य ममाङ्यभिवादनं करिष्यथ तच्चातिगर्हितं तत्राहुः । न गर्हयन्तीति । अर्थेषु प्रयोजननिमित्तमित्यर्थः । यविष्ठाध्यभिवादनं कनिष्ठचरणाभिवन्दनं, न गर्हयन्ति हि । ब्रह्मन्, त हि । ब्रह्मन्, छन्दोभ्यः अन्यत्र वेदाध्ययनादितरत्रैव कर्मणि, वयः ज्येष्ठत्वकारणं, यद्वा । छन्दोभ्यो मन्त्रेभ्योऽन्यत्र वयो ज्येष्ठत्वकारणं, न तु मन्त्रेषु । अस्मभ्यं मन्त्रदातृत्वेन त्वमेव ज्येष्ठो भविष्यसि । यद्वा । छन्दोभ्योऽन्यत्र वेदान्विहाय, वय एव ज्यैष्ठयस्य कारणं न भवति किं तु वेदा एव मुख्यं कारणं तत्साम्ये वयः, वेदज्ञत्वात्त्वमेव ज्येष्ठ इत्यर्थः ॥ ३४ ॥ एवमुक्तो विश्वरूपो देवानाहेत्याह मुनिः । अभ्यर्थित इति । सुरगणैः, पौरोहित्ये पुरोहितकर्मणि, अभ्यर्थितः । पाठान्तरे । पुरोहितकर्म प्रति संप्रार्थितः, महातपाः सः विश्वरूपः, प्रहसन् ऋक्ष्णया मृद्वया, गिरा, तान् देवान्, आह || ३५ | " भाषानुवादः
पत्र! । । पुत्र ! हम तुम्हारे पितर हैं। इस समय शत्रुओंने हमें जीत लिया है। हम बड़े दुःखी हो रहे हैं। तुम अपने तपोबल से हमारा यह दुःख, दारिद्रय, पराजय दाल दो । पुत्र ! तुम्हें हमलोगोंकी आज्ञाका पालन करना चाहिये ॥ ३१ ॥ * * तुम ब्रह्मनिष्ठ ब्राह्मण हो, अतः जन्मसे ही हमारे गुरु हो । हम तुम्हें आचार्यके रूपमें वरण करके तुम्हारी शक्तिसे अनायास ही शत्रुओंवर विजय प्राप्त कर लेंगे ॥ २॥ ॐ पुत्र पड़ने पर अपने आवश्यक छोटों का पैर छूना भी निन्दनीय नहीं है । वेदज्ञानको छोड़कर केवल अवस्था बड़प्पनका कारण भी नहीं है ।। ३३ ॥ * * श्रीशुकदेवजी कहते हैं–परीक्षित् ! जब देवताओंने इस प्रकार विश्वरूपसे पुरोहिती करनेकी प्रार्थना की, तब परम तपस्वी स्क. ६ अ. ७ श्लो. ३६-४०] अनेकव्याख्यासमलङ्कृतम् विश्वरूपने प्रसन्न होकर उनसे अत्यन्त प्रिय और मधुर शब्दों में कहा ॥ ३४ ॥ ॐ २४५ का काम विश्वरूपते कहा- विश्वरूपते कहा- पुरोहितीका ब्रह्मतेजको क्षीण करनेवाला है। इसलिये धर्मशील महात्माओंने उसकी निन्दा की है। किन्तु आप मेरे स्वामी हैं और लोकेश्वर होकर भी मुझसे उसके लिये प्रार्थना कर रहे हैं । ऐसे स्थितिमें मेरे जैसा व्यक्ति भला, आपलोगोंको कोरा जवाब कैसे दे सकता है ? मैं तो आपलोगोंका सेवक हूँ । आपकी आज्ञाओंका पालन करना ही मेरा स्वार्थ है ।। ३५ ।। अकिञ्चनानां हि धनं शिलोञ्छनं तेनेह निर्वर्तितसाधुसत्क्रियः । कथं विगर्ह्य नु करोम्यधीश्वराः पौरोधसं हृप्यति येन दुर्मतिः ॥ ३६ ॥ तथापि न प्रतिब्रूयां गुरुभिः प्रार्थितं कियत् । भवतां प्रार्थितं सर्वं प्राणैरर्थैश्च साधये ॥ ३७ ॥ श्रीशुक उवाच तेभ्य एवं प्रतिश्रुत्य विश्वरूपो महातपाः । पौरोहित्यं वृतश्चक्रे परमेण समाधिना ॥ सुरद्विषां श्रियं गुप्ता मौशनस्यापि विद्यया । आच्छिद्यादान्महेन्द्राय वैष्णव्या विद्यया विभुः ॥ यया गुप्तः सहस्राक्षो जिग्येऽसुरचमूविभुः । तां प्राह स महेन्द्राय विश्वरूप उदारधीः ।। (यां प्रविश्यामुरश्वत् कक्ष्यां नारायणात्मिकाम् । अजैषीद्वषभस्तात सिंहः क्षुद्रमृगानिव ॥ इति श्रीमद्भागवत महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे सप्तमोऽध्यायः ॥ ७ ॥ कृष्णप्रिया व्याख्या ३८ ॥ ३९ ॥ ४० ।। ० ॥ ) अन्वयः - अधीश्वराः शिलोञ्छनं हि अकिंचनानां धनं तेन इह निर्वर्तितसाधुसत्क्रियः विगर्ह्य पौरोधसं कथं नु करोमि येन दुर्मतिः हृष्यति ॥ ३६ ॥ * * तथापि न प्रतिब्रूयां गुरुभिः प्रार्थितं कियत् भवतां प्रार्थितं सर्वं प्राणैः च अर्थैः साधये ॥ ३७ ॥ * * वृतः महातपाः विश्वरूपः तेभ्यः एवं प्रतिश्रुत्य परमेण समाधिना पौरोहित्यं चक्रे ॥ ३८ ॥ * * विभुः औशनस्य विद्यया गुप्ताम् अपि सुरद्विषां श्रियं वैष्णव्या विद्यया आच्चिद्य महेन्द्राय अदात् ॥ ३६ ॥ सहस्राक्षः यया गुप्तः असुरचमूः जिग्ये वां सः उदारधीः विश्वरूपः महेंद्राय प्राह ॥ ४० ॥
- विभुः पण इति सप्तमोऽध्यायः ॥ ७ ॥ line श्रीधरस्वामिविरचिता भावार्थदीपिका । ननु पौरोहित्येन धनलाभाद्धर्मः सिद्धयेत् अन्यथा निर्धनस्य कुतो धर्मः । अत एव तेन लोको हृष्यति तत्राह । अकिंचनानां शिलोंछनं हि धनम् । क्षेत्रे स्वाम्पुपेक्षितकणिशोपादानं शिलम् । हट्टादौ पतितत्रीह्यादेरुपादान मुंछनम् । इह गृहाश्रमे । तेनैव निर्वर्तिता संपादिता साधूनां सत्क्रिया येन || ३६ ॥ * * कियदेतत्प्रार्थितमल्पमेव । अभ्यधिकमपि करिष्या- मीत्याह भवतामिति ॥ ३७ ॥ * * परमेण समाधिना परमोद्यमेन ॥ ३८ ॥ ॐ वैष्णव्या श्रीनारायणकवचा- त्मिकया ।। ३९ ।। 8 * असुरचमूदैत्यसेना: जिग्ये तां विद्यां तु तस्मै विश्वरूप उक्तवान् ॥ ४० ॥ ॥ इति षष्ठस्कन्धे टीकायां सप्तमोऽध्यायः ॥ ७ ॥ वंशीधरकृतो भावार्थदीपिकाप्रकाशः अत्राक्षिपति — नन्विति । लुनसस्ये केदारे स्वामिना च परित्यक्ते एकैकावशिष्टमं जरीग्रहणं शिलं तादृशे क्षेत्र एकैक- व्रीहिग्रहणमुञ्छनम् । “उञ्छः कणश आदानं शिलं तद्युतवल्लरेः” इति यादवः । तेन शिलोंछनेनैव न तु प्रतिग्रहादिना निर्वर्तिताः साधिताः । साधूनां वेदानुयायिनां सत्यः क्रिया अग्निहोत्रादिलक्षणा येन एवंविधो विशेषेण गर्हितं पौरोधसं पौरोहित्यं कथं करोमि विगर्हितत्वं त्वस्य विगर्हितवस्तूनामाद्यक्षरनिर्मितनामत्वात् । तदुक्तं शार्ङ्गधरेण “पुरीषस्य च रोषस्य हिसायास्तस्करस्य च । आद्याक्षराणि संगृह्य वेधाश्चक्रे पुरोहितम् ।" इति । किंच - पुरोहितम् इत्युक्ते पुरीषादिस्मरणस्य नाममात्रैकदेशन्यायेन संभवात् । ‘न निषिद्धं विचिन्तयेत्’ इति निषेधविषयत्वात्तश्चिंतनस्यापि प्रत्यवायजनकत्वं किमुत तत्स्वीकारस्येति भावः । अत । १. प्रा० पा० दुर्मनाः । २. प्रा० पा० - वादरायणिरुवाच । ३. प्रा० पा०-द्विजः । । ૪૬ श्रीमद्भागवतम् [ स्कं. ६ अ. ७ श्लो. ३६-४० एव श्रीरामायणे । “श्रीराम त्वद्गुरुत्वार्थ पौरोहित्यं विगर्हितम् । स्वीकृतं हि मया नाथ तपस्तेजोयशोनुदम्” इति श्रीवशिष्ठे - नाप्युक्तम् । येन पौरोहित्येन दुर्मतिर्विषयाभिलाषी पुमानेव हृष्यति न तु सुमतिरित्यर्थः । यद्वा-दुष्टा मतिरेव हृष्यति न तु शोभना शास्त्रतात्पर्यग्राहिणीति भावः ॥ ३६ ॥ * * यद्यपि सर्वथानिंद्यमेतत्तथापि न प्रतिब्रूयां प्रत्याख्यास्ये । एतेन प्राणधनादिव्ययेनापि गुर्वर्थ: साधनीय इत्यसूचि ॥ ३७ ॥ * * तेभ्यो देवेभ्यः ॥ ३८ ॥ * * औशनस्य उशनसि विद्यमानया । गुप्तामपि आच्छिद्य स्वीकृत्य । वैष्णव्या हयग्रीवब्रह्मविद्याख्यया । विभुस्तपोबलवान् विश्वरूपः ।। ३९ ।। कै यया वैष्णव्या विद्यया । तां विद्याम् ॥ ४० ॥ | … इति श्रीमद्भागवतभावार्थदीपिकाप्रकाशे षष्ठस्कन्धे सप्तमोऽध्यायः ॥ ७ ॥ अन्वितार्थप्रकाशिका ॥ । धनलाभार्थं पौरोहित्यं नाङ्गीकरोम्यपि तु भवतां गौरवादेवेत्याह — अकिञ्चनानामिति । हे अधीश्वराः ! क्षेत्रे स्वाम्युपेक्षित कणिशोपादानं शिलं हट्टादौ पतितत्रीह्मादेरुपादानमुच्छनं तदेवाकिंचनानां तपखिनां धनं हि प्रसिद्धम् । तत्र तत्र शास्त्रे तेनेह द्विविधेनान्नेनेह गृहाश्रमे निर्वर्तिता साधूनां सदाचाराणां सती लौकिकालौकिकक्रिया येन स तथाविधोऽहं येन दुर्मतिर्हृष्यति तादृशं विगर्ह्य तेजोहानिकरत्वेन निन्द्यं पौरोधसं कथं करोमि ॥ ३६ ॥ तथापीति । तथापि तेजो- नाशकत्वेन निन्दितत्वेऽप्यहं न प्रतिब्रूयां न प्रत्याख्यायां गुरुभिर्युष्माभिरेतत् कियत् प्रार्थितं स्वल्पमेव प्रार्थितमतो भवतां प्रार्थितं त्वन्यदपि सर्वं प्राणैरथैश्चाहं साधये ॥ ३७ ॥ * * तेभ्य इति । महातपा अपि विरूपस्तेभ्यो देवेभ्य एवं प्रतिश्रुत्या प्रतिज्ञाय तैर्वृतः परमेण समाधिना परमोद्यमेन पौरोहित्यं पुरोहितकार्य चक्रे ॥ ३८ ॥ * सुरेति । उशनस इयम् औशनसी तथा विद्यया गुप्तामपि सुरद्विषां दैत्यानां श्रियं विष्णुर्देवताऽस्या इति वैष्णवी तया श्रीनारायणकवचात्मिकया विद्यया आ आहृत्य विभुः भगवदनुग्रहेण समर्थो विश्वरूपो महेन्द्राय अदात् ॥ ३६ ॥ ययेति । यया विद्यया गुप्तो रक्षितः सहस्राक्ष इन्द्रः बिभुः समर्थः सन्नसुरचमूदैत्यसेना जिग्ये । तङार्षः । तां विद्यां स उदारधीः उदारबुद्धिः विश्वरूपो महेन्द्राय प्राह स्म प्रादात् ॥ ४० ॥ |
- । इति श्रीभागवत महापुराणे षष्ठस्कन्धेऽन्वितार्थप्रकाशिकायां सप्तमोऽध्यायः ॥ ७ ॥ वीरराघवव्याख्या ननु पौरोहित्ये धनलाभात्स्वधर्मः सिध्येदन्यथा निर्धनस्य कुतो धर्मः अत एव तेन लोको हृष्यतीत्यत्राह । अकिञ्चनाना- मिति । अकिञ्चनानां निष्कामानां शिलोच्छनम् “उच्छ: कणश आदानं कणिशाद्यर्जनं शिलम् " एतदन्यतरवृत्तिसम्पाद्यमेव हि धनं तेनैव उक्तान्यतरेणैव निर्वर्तिताः निष्पादिताः सत्क्रियाः पञ्चमहायज्ञादिरूपाः क्रिया यैस्तादृशा भवन्ति यतो हे अधीश्वराः ! विगर्हितं पौरोहित्यं पुरोहितकर्माहं कथं नु करोमि येन पौरोहित्येन दुर्भतिः मूर्खः तुष्यति पौरो- हित्यं दुर्मतेस्तोष हेतुरकिचनस्य तु शिलोच्छनमेवेति भावः ॥ ३६ ॥ * तथापि पौरोहित्यस्य गर्हितत्वेऽपि न
प्रतिब्रूयां प्रत्याचक्षे यद्यस्माद्गुरुभिः पितृभिर्युष्माभिः प्रार्थितं कियदिति भावः । कियदेतत्प्रार्थितम् इतोऽधिकमपि करिष्यामीतिभावः । अतो भवतां सर्व प्रार्थितं धर्मैस्तपआदिभिः प्राणैश्च साधये प्राणपर्यन्तं यथा सामर्थ्यं साधय इत्यर्थः ॥ ३७ ॥ * एवमुक्तैर्देवैर्वृतः पौरोहित्यमकरोद्विश्वरूप इत्याह मुनिः । तेभ्य इति । इतीत्थं तेभ्यो देवेभ्यः प्रति- श्रुत्य प्रतिज्ञाय महातपाः विश्वरूपः देवैर्वृतः पौरोहित्यं सावधानेन चित्तेन कृतवान् ॥ ३८ ॥ * पौरोहित्यकारण- मेवाह । सुरद्विषामिति । औशनस्या उशनसः सम्बन्धिन्या विद्यया गुप्तां रक्षितामपि सुरद्विषां श्रियं वैष्णव्या नारायणवर्मा- त्मिकया मन्त्रविद्यया आच्छिद्य तेभ्य आकृष्य विभुर्विश्वरूपः महेन्द्राय प्रादात् ||३९|| वैष्णव्या विद्यया आच्छिद्या-: दादित्येतदेवं विशदयति । ययेति । सहस्राक्ष इन्द्रो यथा वैष्णव्या विद्यया गुतो रक्षितः अत एव विभुः समर्थो भूत्वासुरसेना जघ्ने हतवान् तां विद्यामुदारधीर्विपुलमतिविश्वरूपो महेन्द्राय प्राह विश्वरूपदिष्टवैष्णव विद्याभिरक्षितः शक्रः शत्रुन्निहत्य श्रियं लब्धवानित्यर्थः ॥ ४० ॥ इति श्रीमद्भागवते महापुराणे षष्ठस्कन्धे श्रीमद्वीरराघवाचार्यकृतभागवतचंद्रचंद्रिकाख्यायां टीकायां सप्तमोऽध्यायः ॥ ५ ॥ विजयध्वजतीर्थकृता पदरत्नावली एतदेव स्पष्टमाह । अकिञ्चनानामिति । लुनसस्ये केदारे स्वामिना च परित्यक्ते एकैकावशिष्टमञ्जरीग्रहणं शिलं तादृशे क्षेत्रे एकैकत्रीहिग्रहणमुब्छनं शिलं चोन्छनं यत्तेनैव न प्रतिग्रहादिना निर्वर्तिताः साधूनां सत्यः क्रिया अग्निहोत्रलक्षणा यस्य स स्कं. ६ अ. ७ श्लो. ३६-४०] अनैकव्याख्यासमलङ्कृतम् २४७ तथा एवंविधो विगर्हितं पौरोधसं कथं करोमि । दुर्मतिः दुखिःतमतिः विषयाकृष्टचित्त इत्यर्थः । येन पौरोहित्येन प्राप्तेन हृष्टो भवति तदिति शेषः ।। ३६ ।। * * गुरुभिः प्रार्थितं कियदिति धिक्कृत्य न करोमीति न वच्मीति कथं तर्हि निर्णय इति तत्राह । भवतामिति ॥ ३७-३८ ॥ * * औशनस्या उशनसः शुक्रस्य विद्यमाना औशनसी तया आच्छिद्य स्वीकृत्य विष्णु- देवता अस्या इति वैष्णवो तया ।। ३९-४० ।। कक्ष्यां कवचलक्षणां रक्षाम् ॥ ० ॥ इति श्रीमद्भागवते महापुराणे षष्ठस्कंधे विजयध्वजतीर्थकृत पदरत्नावल्यां सप्तमोऽध्यायः ॥ ५ ॥ विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी ननु पौरोहित्येन धनलाभाद्धर्मः सिद्धयेत् । अन्यथा निर्धनस्य कुतो धर्मस्तत्राह । किचानानां शिलोच्छनमेव धनम् । क्षेत्रे स्वाम्युपेक्षित कणिशोपादानं शिलम् । हट्टादौ पतितत्रीहादेरुपादानमुच्छनम् । येन पौरोधसेन दुर्मतिः पुमानेव हृष्यति न तु सुमतिः । यद्वा दुष्टा मतिरेव स्वानुकूल्यात् हृष्यति ॥ ३६ ॥ * * न प्रतिब्रूयां न प्रत्याख्यास्ये कियदेतत् प्रार्थितमत्यल्पमेव अभ्यधिकमपि करिष्यामीत्याह । भवतामिति ।। ३७ ।। * * समाधिना चित्तैकाप्रयेण ।। ३८-३९ ।। तां वैष्णवीं विद्याम् ॥ ४० ॥ इति सारार्थदर्शिन्यां हर्षिण्यां भक्तचेतसाम् । षष्ठस्य सप्तमोऽध्यायः सङ्गतः सङ्गतः सताम् ॥ ५ ॥ शुकदेवकृतः सिद्धांत प्रदीपः अकिञ्चनानां शिलोच्छनं शिलं क्षेत्रे पतितकणिशोपादानं उच्छनं हट्टादिपतितत्रीह्याद्युपादानं च धनम् । तेनैव निर्व- र्त्तिताः साधु सम्यक् सत्क्रिया येन सोऽहं कथं नु विगर्हितं पौरोधसं पौरोहित्यं करोमि येन पौरोहित्येन दुर्मतिर्हृष्यति धनलोभेन तुष्यति ।। ३६-३७ ।। * * तैर्वृतः समाधिना चित्तैकाग्रयेण पौरोहित्यं चक्रे ।। ३८-३९ ॥ * * यया गुप्तः विभुः समर्थः सन्नसुरचमूः जिग्ये तां महेन्द्राय सहस्राक्षाय प्राह उदारधीरिति पदेन सा गोपनीयेति सूच्यते ॥ ४० ॥ इति श्रीमद्भागवत महापुराणे षष्ठस्कन्धे श्रीमच्छुक देवकृतसिद्धान्तप्रदीपे सप्तमाध्यायार्थप्रकाशः ॥ ५ ॥ गोस्वामिगिरिधरलाल विहिता बालप्रबोधिनी ननु पौरोहित्येन धनलाभात्तेन लौकिकालौकिकसर्वक्रियानिर्वाह: सुकरः तव तु तद्रहितस्य कथं क्रियानिर्वाह : ? अतो हर्षेण पौरोहित्यमङ्गीकुर्वित्याशङ्कयाह - अकिञ्चनानामिति । क्षेत्रे स्वाम्युपेक्षितकणिशोपादानं शिलं, हट्टादौ पतितत्रीह्यादेरु- पादानमुञ्छनं, तदेवाकिञ्चनानां तपस्विनां धनम् । हि प्रसिद्धं तत्र तत्र शास्त्रे । तेनैव द्विविधेनान्नेनेह गृहाश्रमे निर्वर्तिता साधूनां सदाचाराणां सती लौकिकक्रिया येन स तथाविधोऽहं विगर्ह्य तेजोहानिकरत्वेन निन्द्यं पौरोधसं कथं करोमीत्यन्वयः । तत्करणे स्वस्य खेदं द्योतयति - न्विति । युष्माकं विरक्त्यभावादैश्वर्यमेव पुरुषार्थतया भातीति सूचनाय सम्बोधयति — हे अधीश्वरा इति । ननु कथं तर्हि पौरोहित्येन जनो हृष्यतीत्याशङ्कच विषयाविष्टत्वेन तन्मतेर्दुष्टत्वादित्याह - हृष्यति येन । दुर्मतिरिति ॥ ३६ ॥ * * ननु क्षणं वदसि युष्मद्वचनपरिपालनं मम पुरुषार्थहेतु:, क्षणं वदसि विगर्ह्य पौरोधसं ।। कथं करोमीति तत्र यन्निश्चितं तद्वदेत्यत आह- तथापि तेजोनाशकत्वेन निन्दितत्वेप्यहं न प्रतिब्रूयाम् । गुरुभिर्युष्माभिरेतत् कियत् प्रार्थितं स्वल्पमेव प्रार्थितं अतो भवतां प्रार्थितं त्वन्यदपि सर्व प्राणैरथैवाहं साधये ॥ ३७ ॥ महातपा अपि विश्वरूपस्तेभ्यो देवभ्य एवं प्रतिश्रुत्य प्रतिज्ञाय तैर्वृतः परमेण समाधिना सर्वरक्षको भगवानेषां शुभं करोत्विति चित्तैकाग्र्येण पौरोहित्यं पुरोहितकार्य चक्रे ॥ ३८ ॥ उशनसः इयम् औशनसी तथा विद्यया गुप्तामपि सुरद्विषां दैत्यानां श्रियं विष्णुर्देवताऽस्या इति वैष्णवी तथा श्रीनारायणकवचात्मिकया विद्यया आच्छिद्य विभुः भगवदनुग्रहेण समर्थो विश्वरूपो महेन्द्राय अदादित्यन्वयः ॥ ३९ ॥ * * ननु विद्याया विश्वरूपनिष्ठत्वात्तस्य पुरोहितत्वेन युद्धेऽनुपयोगात् कथमिन्द्रस्य विजय इत्याशङ्कयाह - ययेति । यया नारायणकवचात्मिकया विद्यया गुप्तो रक्षितः सहस्राक्ष इन्द्रः विभुः समर्थः सन्नमुरचमूदैत्यसेना जिग्ये तां स विश्वरूपो महेन्द्राय प्राहेत्यन्वयः ॥ ४० ॥ इति श्रीवल्लभाचार्यवंश्यगोपालसूनुना । श्रीमन्मुकुन्दरायाणां पादसेवाधिकारिणा ॥ १ ॥ श्रीमगिरिधराख्येन भजनानन्दसिद्धये । श्रीमद्भागवतस्येयं टीका बालप्रबोधिनी ॥ २ ॥ रचिता तत्र षष्ठेऽस्मिन् स्कन्धे रूपनिरूपणे । सप्तमो विवृतो विश्वरूपानुग्रहरूपकः ॥ ३ ॥ २४८ श्रीमद्भागवतम् [ स्कं. ६ अ. ५ श्लो. ३६-४० भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी 1 उक्तमेवाह साद्धैस्त्रिभिः । विगर्हितमिति । हे देवाः, पौरोहित्यमिति शेषः । धर्मशीलैः विगर्हितम् । धर्मशीला पौरोहित्यं विगर्हयन्ति अधर्महेतुत्वादित्यर्थः । किं च ब्रह्मवर्च उपव्ययं पूर्वसिद्धब्रह्मतेजसो व्ययकरमपि, आर्षत्वात् समासान्ता- भावः । अतः एवं पौरोहित्यस्य विगर्हितत्वं स्वधर्मनाशकत्वं चाभिधायाधुना तदप्रत्याख्येयत्वं चाह । हे नाथा, लोकेशैर्युष्माभिः, अभियाचितः मद्विधः पितृसेवक इत्यर्थः । तत्रापि, तच्छिष्यस्तेषां भवतां शिक्षणार्हः, कथं नु प्रत्याख्यास्यति । शिष्योऽपि प्रत्या- । तु । चष्टतां तत्राह । सः प्रत्याख्यानाभाव एव, भाव एव, स्वार्थः शिष्यधर्मः, उच्यते ॥ ३६ ॥ ननु पौरोहित्ये धनलाभात् स्वधर्मः । अकिंचनानामिति । नास्ति भगवदतिरिक्तं किंचन येषां * सिद्धयेदन्यथा निर्द्धनस्य कुतो धर्मः, अत एवैतेन लोको हृष्यतीत्यछनं तेन शिलोच्छ्रनलब्धान्ना- तेषां, शिलोञ्छनं धनं, क्षेत्रे स्वाम्युपेक्षितकणिशोपादानं शिल, हट्टादौ पतित दिनैव, इह गृहाश्रमे निर्वर्त्तिता निष्पादिताः साधवः सत्याः सक्रिया अग्निहोत्राद्याः, यैते । निष्पादिताः साधूनां सक्रियाः सत्कारा येते इति वा । पाठान्तरे येन सः । इत्थंभूतैरित्थंभूतेन वा भवितव्यमित्यर्थः । अतः हे अधीश्वराः, मादृशः धनार्थ- मिति शेषः । येन पुरोहितकर्मणा, दुर्मतिः हृष्यति । तत् विगर्ह्य विगर्हितं पौरोहितं पुरोहितकर्म, कथं नु करोति । पाठान्तरे अहं कथं करोमि । पौरोहित्यं दुर्मते तोषहेतुरकिंचनस्य तु शिलोच्छन मेवेति भावः ॥ २७ ॥ * * तथापीति । तथापि उक्तरीत्या पौरोहित्यस्य गर्हितत्वेऽपि न प्रतिब्रूयाम् । न प्रत्याख्यामीत्यर्थः । गुरुभिर्भवद्भिः, प्रार्थितं कियदल्पमेव, इतोऽधि- कमपि, करिष्यामीत्याह । भवतां प्रार्थितं सर्वं धर्मैस्तपआदिभिः प्राणैः असुभिश्च साधये ।। ३८ ।। * * एवमुक्तैर्देवैर्वृतः विश्वरूपः पौरोहित्यमकरोदित्याह मुनिः । तेभ्य इति । एवमुक्तप्रकारेण, तेभ्यो देवेभ्यः, प्रतिश्रुत्य प्रतिज्ञाय, महातपाः विश्वरूपः, वृतः सन्, देवैरिति शेषः । परमेण समाधिना, सावधानेन चित्तेनेत्यर्थः । पौरोहित्यं चक्रे कृतवान् ॥ ३९ ॥ * * सुरद्विषामिति । औशनस्या उशनसः संबन्धिन्या विद्यया, गुप्तां रक्षिताम् अपि, सुरद्विषामसुराणां श्रियं विभुः समर्थो विश्वरूपः, वैष्णव्या नारायणकवचात्मिकया विद्यया, आच्छिद्य असुरेभ्यः आकृष्य, महेन्द्राय अदात् ॥ ४० ॥ * * एतदेव विशदयति । ययेति । सहस्राक्षः इन्द्रः, यया वैष्णव्या विद्यया, गुप्तः संरक्षितः, अत एव विभुः समर्थो भूत्वा, असुरचमूर- सुरसेना:, जघ्ने हतवान् । तां विद्यां उदारधीर्विपुलमतिः, सः विश्वरूपः, महेन्द्राय प्राह । विश्वरूपोपदिष्टया वैष्णव्या महन्द्रायः । विद्ययाभिरक्षितः शक्रः शत्रुन्निहत्य श्रियं लब्धवानित्यर्थः ॥ ४१ ॥ । इति श्रीधर्मधुरंधरश्रीधर्मात्मजप्रत्यक्ष पुरुषोत्तम सहजानन्द स्वामि सुतश्री रघुवीराचार्यसुनुभगवत्प्रसादाचार्यविरचितायामन्वयार्थाव- बोधिन्यां भक्तमनोरञ्जन्याख्यायां श्रीमद्भागवतटीकायां षष्ठस्कन्धे सप्तमोऽध्यायः ॥ ७ ॥ ! भाषानुवादः क देवगण ! हम अकिञ्चन हैं। खेती कट जानेपर अथवा अनाजकी हाट उठ जानेपर उसमेंसे गिरे हुए कुछ दाने चुन लाते हैं और उसीसे अपने देवकार्य तथा पितृकार्य सम्पन्न कर लेते हैं । लोकपालो ! इस प्रकार जब मेरी जीविका चल ही रही है, तब मैं पुरोहितीकी निन्दनी वृत्ति क्यो करूँ ? उससे तो केवल वे ही लोग प्रसन्न होते हैं, जिनकी बुद्धि बिगड़ गयी है ।। ३६ ।। जो काम आपलोग मुझसे कराना चाहते हैं, वह निन्दनीय है- फिर भी मैं आपके काम से मुँह नहीं मोड़ सकता; क्योंकि आपलोगोंकी माँग ही कितनी है । इसलिये आपलोगों के मनोरथ मैं तन- मनसे पूरा करूँगा || ३७ ॥ * * श्रीशुकदेवजी कहते हैं- परीक्षित ! विश्वरूप बड़े तपस्वी थे । देवताओंसे ऐसी प्रतिज्ञा करके उनके वरण करनेपर वे बड़ी लगनके साथ उनकी पुरोहिती करने लगे || ३८ ॥ * * यद्यपि शुक्राचार्यने अपने नीतिबलसे असुरोंकी सम्पत्ति सुरक्षित कर दी थी, फिर भी समर्थ विश्वरूपने वैष्णवी विद्याके प्रभाव से उनसे वह सम्पत्ति छीनकर देवराज इन्द्रको दिला दी ।। ३९ ।। * * राजन् ! जिस विद्यासे सुरक्षित होकर इन्द्रने असुरोंकी सेनापर विजय प्राप्त की थी, उसका उदारबुद्धि विश्वरूपने ही उन्हें उपदेश किया था ॥ ४० ॥ " इति सप्तमोऽध्यायः ॥ ७॥ 1… ॥ || अपाष्टमोऽध्यायः राजोवाच ि एक यया गुप्तः सहस्राक्षः सवाहान् रिपुसैनिकान् । क्रीडन्निव विनिर्जित्य त्रिलोक्या बुभुजे श्रियम् ॥ भगवंस्तन्ममाख्याहि वर्म नारायणात्मकम् । यथाऽऽततायिनः शत्रून् येन गुप्तोऽजयन्मृषे ॥ I rece श्रीशुक उवाच वृतः पुरोहितस्त्वाष्ट्रो महेन्द्रायानुपृच्छते । नारायणाख्यं वर्माह तदिहैकमनाः शृणु ॥ विश्वरूप उवाच १ ॥ २ ॥ धौताङ्गि पाणिराचम्य सावित्र उदमुखः । कृतखाङ्गकरन्यासो मन्त्राभ्यां वाग्यतः शुचिः ॥ ४ ॥ नारायणमयं वर्म सन्नह्येद् भय आगते । पादयोर्जानुनोरूबरुदरे हृद्यथोरसि ॥ ५ ॥ मुखे शिरस्यानुपूर्व्यादोङ्कारादीनि विन्यसेत् । ॐ नमो नारायणायेति विपर्ययमथापि वा ॥ ६ ॥ करन्यासं ततः कुर्याद् द्वादशाक्षरविद्यया । प्रणवादियकारान्तमङ्गुल्यङ्गुष्ठपर्वसु ॥ ७ ॥ न्यसेद्धृदय ओङ्कारं विकारमनु मूर्धनि । पकारं तु भ्रुवोर्मध्ये णकारं शिखया दिशेत् ॥ बेकारं नेत्रयोर्युज्यानकारं सर्वसन्धिषु । मकारमखमुद्दिश्य मन्त्रमूर्तिर्भवेद् सविसगं फडन्तं तत् सर्वदितु विनिर्दिशेत् । कृष्णप्रिया व्याख्या बुधः ॥ ९ ॥ विष्णवे नम इति ॥ इति ॥ १० ॥ अन्वयः - यया गुप्तः सहस्राक्षः सवाहान् रिपुसैनिकान् क्रीडन इव विनिर्जित्य त्रिलोक्याः श्रियं बुभुजे ॥ २ ॥ ** भगवान् येन गुप्तः आततायिनः शत्रून मृधे यथा अजयत् तत् नारायणात्मकं वर्म मम आख्याहि ॥ २ ॥ * * त्वाष्ट्रं पुरोहितः वृतः अनुपृच्छते महेन्द्राय नारायणाख्यं वर्म आह तत् इह एकमनाः शृणु ॥ ३ ॥ भये आगते धौताविपाणिः आचम्य सपवित्रः उदङ्मुखः मंत्राभ्यां कृतवाङ्गकरन्यासः शुचिः नारायणमयं वर्म संनह्येत् ॐ नमो नारायणाय इति ॐ कारादीनि पादयोः जानुनोः ऊर्वोः उदरे हृदि अथ उरसि मुखे शिरसि आनुपूर्व्यात् विन्यसेत् विपर्ययम् अपि ।। ४-६ ॥ ततः द्वादशाक्षरविद्यया अङ्गुल्यङ्गुष्ठपर्वसु प्रणवादियकारान्तम् करन्यासं कुर्यात् ॥ ७ ॥ * ॐ विष्णवे नमः इति ॐ कारम् हृदये न्यसेत् अनु विकारम् मूर्धनि षकार ध्रुवोः मध्ये णकार शिखया दिशेत् बेकारं नेत्रयोः नकारं सर्वसन्धिषु युज्यात सविसर्ग फडन्तं तत् मकारम् अखम् उद्दिश्य सर्वदितु विनिर्दिशेत् बुध मंत्रमूर्तिः भवेत् ॥ ८-१० ॥ येन ॥ ४ ॥ श्रीधरस्वामिविरचिता भावार्थदीपिका अष्टमे विश्वरूपस्तु वर्म नारायणात्मकम् । इन्द्राय प्राह येनेंद्रो गुप्तो दैत्यानथाजयत् ॥ १ ॥ त्रिलोक्या: सम्बंधिनीं श्रियम् ।। १-३ ॥ * मंत्राभ्यामष्टाक्षरद्वादशाक्षराभ्यां कृतः स्वांगेषु करयोश्च न्यासो تاد پره دو در پایان नारायणमयं
- वर्म संनह्येद्बध्नीयात् तत्राष्टाक्षरेण पादाद्यष्टांगेषु न्यासमाह || पादयोरिति १. प्रा० पा०—ममाचक्ष्व । २. प्रा० पा० शत्रून्सेन्ये । ३. प्रा० पा० - बादरायणिरुवाच । ४. प्रा० पा० न्यसेत् ३२ २५० श्रीमद्भागवतम् [ स्कं. ६ अ. पो. १-१० सार्धेन ॥ ५ ॥ * * प्रणवसंपुटित मोंकारायेकैकमक्षरं विन्यसेत् । विपर्ययं यथा भवत्येवं शिरआदि पादांतं वा विन्य- सेत् । उत्पत्तिन्यासं संहारन्यासं वा कुर्यादित्यर्थः ॥ ६ ॥ द्वादशाक्षरस्योद्धारः प्रणवादियकारांतमिति । प्रणव- संपुटितमेकैकमक्षरं दक्षिणतर्जनीमारभ्य वामतर्जनीपर्यंत मंगुलीषु परिशिष्टमक्षरचतुष्टयमंगुष्ठयोराद्यंतपर्वसु न्यसेत् ॥ ७ ॥ ** मंत्रांतरन्यासमाह । न्यसेदिति । षकारणकारयोर्विश्लेषेण षडक्षराणि हृदयादिषु न्यसेत् ॥ ८ ॥ * मकारमस्त्रमुद्दिश्य ध्यात्वा ।। ९ ।। * तन्मकारास्त्रं मः अस्त्राय फडित्येवं दिग्बंधे विनिर्दिशेत् ॥ १० ॥ । वंशीधरकृतो भावार्थदीपिकाप्रकाशः हमे । येन नारायणवर्मणा ( १ ) “अकामः सर्वकामो वा मोक्षकामो यजेद्वरिम्” इत्युक्तं प्रपञ्चयति । पूर्वाध्याये सूचितां ari लोकहिताय परीक्षित्पृच्छति - राजेति । वाहाँ अश्वाः प्रेरका वा तत्सहितान् ॥ १ ॥ * भगवन्निति । साक्षा- द्विष्णुरूपोऽसीति भावः । वर्म कवचम् ‘वर्म स्यादबाहुजे दंशे’ इति कोशात् । दंशः कवचम् । मृधे युद्धे ॥ २ ॥ * ।
- त्वष्ट्रो विश्वरूपः ॥ ३ ॥ * * धौतौ प्रक्षालितावंत्री पाणी च येन स तथा । सपवित्रः पवित्राभ्यां सहितः पवित्रस्वरूपा - || याह — “पवित्रं ब्राह्मणस्यैव चतुर्भिर्दर्भपिजुलैः । एकैक हीनमुद्दिष्टं वर्णेवर्णे यथाक्रमम् । सर्वेषां वा भवेद्वाभ्यां पवित्रं प्रथितं नवम् । अनामिकयोर्मध्यपर्व पवित्रस्थानमुच्यते ।” इति हारितः । हेमाद्रौ तु — “ अन्यान्यपि पवित्राणि कुशदूर्वात्मकानि च । हेमात्मक पवित्रस्य कलां नार्हति षोडशीम्" इत्युक्तम् ॥ ४-५ ॥ * * प्रणवसंपुटितमुभयत्र प्रणवं दत्त्वेत्यर्थः । तथा हि — ॐ ॐ ॐ पादयोः । ॐ नॐ जानुनोः । ॐ म ॐ ऊर्वोः । ॐ ना ॐ उदरे । ॐ रा ॐ हृदि । ॐ य ॐ उरसि । ॐ णा ॐ मुखे । ॐ य ॐ शिरसि । इत्युत्पत्तिन्यासः । ॐ य ॐ शिरसि । ॐ णा मुखे । ॐ यं ॐ । । ॐ ॐ हृदि । उरसि रा ॐ ना ॐ उदरे । ॐ मा ॐ ऊर्वोः । ॐ नॐ जानुनोः । ॐ ॐ ॐ पादयोरिति । इत्यर्थ इति । " क्रमेणोत्पत्तिराख्याता संहारो व्युत्क्रमेण इत्युक्तेर्यः क्रमेण न्यासः स उत्पत्तिन्यासो यश्च व्युत्क्रमेण वैपरीत्येन न्यासः स संहारन्यास इति भावः । न्यासेंगुलिनियमोपि तंत्रसारे “ललाटे नासिकामध्ये विन्यसेन्मुखवृत्तके । तर्जनीमध्यमानामाऽबद्धनामां च नेत्रयोः । अंगुष्ठं कर्णयोश्चैव कनिष्ठांगुष्ठके नसोः । मध्यास्तिस्रो गंडयोश्च मध्यमामोष्ठयोन्यसेत् । अनामां दंतयोश्चैव मध्यमामुत्तमांगके मुखेनामा मध्यमां च हस्ते पाय पार्श्वयोः । कनिष्ठानामिकामध्यात्वेऽथ विन्यसेत् । ताः सांगुष्ठा नाभिदेशे सर्वाः कुक्षौ च विन्यसेत् । हृदये च तलं सर्वमंसयोश्व ककुत्स्थले | अज्ञात्वा विन्यसेद्यस्तु न्यासः स्यात्तस्य निष्फलः । पाद- वज्जानुनोरूर्वोर्द्वद्वदुरसि नाभिवत् । गुह्येसवद्बाह्वोः शिरोवच्छिखायां यथायथं न्यसेत्” इति ।। ६ ।। ततोऽष्टाक्षर- न्यासानंतरम् । द्वादशाक्षरविद्यया ‘ॐ नमो भगवते वासुदेवाय’ इति मंत्रेण । न्यासप्रकारमाह – प्रणवादीति । ॐ ॐ ॐ दक्षिणतर्जन्याम् । ॐ न ॐ दक्षिणमध्यमायाम् । ॐ मो ॐ दक्षिणानामिकायाम् । ॐ भॐ दक्षिणकनिष्ठायाम् । ॐ गॐ बाम- । । कनिष्ठायाम् । ॐ व ॐ वामानामिकायाम् । ॐ ते ॐ वाममध्यमायाम् । ॐ वा ॐ वामतर्जन्याम् । ॐ A सुॐ दक्षिणांगुष्ठो- ॐ पर्वणि । ॐ दे ॐ दक्षिणांगुष्ठाधः पर्वणि । ॐ वा ॐ वामांगुष्टोर्ध्वपर्वणि । ॐ य ॐ वामांगुष्ठाधः पर्वणीति विवेकः ॥७॥ ** अथ षड्वर्ण मंत्रेण हृदयादिन्यासमप्याह —— न्यसेदिति । ॐ हृदये । वि मूर्द्धनि । अनु कारन्यासानंतरम् । ष भ्रुवो: । ण शिखायाम् । शिखयेति तृतीया सप्तम्यर्थे ॥ ८ ॥ * वे मैत्रयोः । न सर्वांगुलिसंधिषु । सर्वांगसंधिषु न्यासाविधानात् । मकार म मसुरनिरासं ध्यात्वा मंत्रमूर्त्तिमंत्रदेवतासंनिधानयुक्तदेहों भवेद् बुधो मंत्राधिष्ठातृदेवताविज्ञानवान् ।। ९ ।। * सर्वपदोपादानाद्विदिक्ष्वपि मः अस्त्राय फंडित्युत्क्वा प्रोच्यादिदिनु शिरस उपरि क्षोटिको कुर्वन्हस्तं भ्रामयेदित्यर्थः । तेन दिग्विदिक्स्थितासुरादिप्रतिबंधो भवति । वस्तुतस्तु षडक्षरेऽपि प्रणवसंपुटितमेव न्यसेत् । तथाहि ॐ ॐ ॐ हृदये । ॐ विॐ मूर्द्धनि । ॐ ष ॐ भ्रुवोः । ॐ ण ॐ शिखायाम् । ॐ ॐ नेत्रयोः । ॐ नॐ सर्वांगुलिसंधिषु । ॐ म ॐ सर्वदेहं भगवत्स- निधानयुक्तं ध्यायेत् । ततो मः अस्त्राय फडिति दिग्बंधं कुर्यादित्यर्थः ॥ १० ॥ अन्वितार्थप्रकाशिका अष्टमे विश्वरूपोऽदाद्वर्म नारायणात्मकम् । शक्राय जैत्रं तत्राप्रियुक्ताः श्लोकानिवार्द्धयः (४३| ) || चत्वार्युवाचेति ( ४ ) साङ्घ्रिनागवेदा (४८। ) अनुष्टुभः ॥ ८ ॥ * * ययेति ॥ यया विद्यया गुप्तो रक्षितः सहस्राक्षः क्रीडन्निवानायासेन संवाहान् रिपुसैनिकान् दैत्यसेनापतीन् विनिर्जित्य त्रिलोक्या: संबन्धिनीं श्रियं बुभुजे ॥ १ ॥ भगवन्निति । हे भगवन् ! तन्नारायणात्मकं वर्म कवचं ममाख्याहि । येन सहायभूतेन गुप्तो रक्षित इन्द्रो मृधे युद्धे यथा येन प्रकारेण आततायिनः वधोद्यतान् शत्रून अजयत् तत्प्रकारं च ममाख्याहि ॥ २ ॥ * * स्क. ६ अ. ८ लो. १-१०] । अनैकव्याख्या समलङ्कृतम् २५१ वृत इति ॥ स्पष्टम् ॥ ३ ॥ धौतेति सार्द्धम् ॥ भये आगते सति धौती प्रक्षालितौ अघी पाणी च येन सः आचम्य आचमनं कृत्वा अत एव शुचिः सपवित्रः पवित्रेण कुशरचितमुद्रिका - विशेषेण सहितः उदङ्मुखतयोपविश्य वाग्यतः मौनी मन्त्राभ्यामष्टा- क्षरद्वादशाक्षराभ्यां कृतः स्वाङ्गेषु करयोश्व न्यासो येन स नारायणपरं नारायणदेवत्वं वर्म संनह्येत् बध्नीयात् ॥ ४ * * तत्राष्टाक्षरेण पादाद्यष्टाङ्गषु न्यासमाह - पादयोरिति सार्द्धम् ॥ ॐ नमो नारायणाय" इत्यस्याष्टाक्षर मन्त्रस्य प्रणवसम्पुटितमोङ्काराद्येकैकमक्षरमानुपूर्व्यात् यथाक्रमेण पादाद्यष्टाङ्गेषु विन्यसेत् । अथ वा विपर्ययं यथा भवति तथा शिरआदिपादान्तेषु यकाराद्योङ्कारान्तमपि विन्यसेत् । क्रमेण सृष्टिन्यासं व्युत्क्रमेण संहारन्यासं वा कुर्यात् ॥ ५ ॥ * * “ॐ नमो भगवते वासुदेवाय" इति मन्त्रेण करन्यासं कुर्यात् तत्र । करन्यासमिति ततोऽङ्गन्यासानन्तरं द्वादशाक्षरविद्यया प्रणवादियकारान्तं प्रणवसम्पुटितमेकैकमक्षरं दक्षिणतर्जनी पर्यन्तमङ्गुलीषु परिशिष्टमक्षरचतुष्टयमङ्गुष्ठयोराद्यन्तपर्वसु विन्यसेदिति शेषः ॥ ६॥ * * पुनः षडक्षरमंत्रेण षडङ्गन्यासमाह - न्यसेदिति सार्द्धद्वयम् । तत्राद्यः श्लोको व्याख्यातप्रायः । पकारणकारयोविंश्लेषेण षडक्षराणि हृदयादिषडङ्गेषु न्यसेत् । शिखया शिखायामित्यर्थः । मकारमस्त्रमुद्दिश्य ध्यात्वा बुधः मन्त्रमूर्त्तिः सन् तत् मकारास्त्रं मः अस्त्राय फडित्येवं सविसर्ग फडन्तं सर्वदिक्षु विनिर्दिशेत् दिग्बन्धं कुर्यात् । षकारणकारयोर्विश्लेषेणान्यथा प्रतीतेर्भ्रमनिरासाय मन्त्रं दर्शयति ओमिति ।। ७-८ ।। । वीरराघवव्याख्या । वैष्णवीं विद्यां जिघृत्तुः पृच्छति राजा । ययेति द्वाभ्याम् । सहस्राक्षो यया वैष्णव्या विद्यया गुप्तः वाहनः सहितान रिपूणां सैनिकान् क्रीडन्निव विनिर्जित्य त्रिलोक्याः सम्बन्धिनीं श्रियं बुभुजे अनुबभूव ॥ १ ॥ * * तन्नारायणात्मकं नारायणरूपं मन्त्रदेवतयोरभेदाध्यवसायेन नारायणात्मकमित्युक्तम् । यद्वा । नारायण आत्मा प्रतिपाद्यो यस्य सः । अर्थो हि मन्त्रस्यात्मा मम मह्यं हे भगवन् ! आख्याहि उपदिश येन वर्मजापेन यथा आततायिनो जिधांसून शत्रून्मृधे युद्धेऽजय- दिन्द्रः ॥ २ ॥ * * एवमुक्तो मुनिर्वर्मोपदेष्टमुपक्रमते । वृत इति । त्वाष्ट्रो विश्वरूपः पुरोहितत्वेन देवैर्वृतः अनुपृच्छते इन्द्राय यन्नारायणाख्यं वर्म नारायणवर्माख्यं मन्त्रमाह उपदिदेश तद्वर्मैकमनाः समाहितचित्तस्त्वं शृणु उपदिशाम्यहमिति शेषः ३ ॥ * * उपदेक्ष्यमाणमन्त्रजपस्याङ्गभूतशौचन्यासकथनपूर्वकं विश्वरूपोपदिष्टक्रमेण मन्त्रमुपदिशति । धौतेति । शुचिः कृतस्नानादिकः धौतांघ्रिपाणि: प्रक्षालितपादपाणिः पुमान् सदर्भपवित्रकर उदेङमुख उपविश्याचम्य वाग्यतः नियमित - वाकू मन्त्राभ्यां नारायणाष्टाक्ष वासुदेव द्वादशाक्षराभ्यां मन्त्राभ्यां कृतः स्वस्याङ्गन्यासः करन्यासश्च येन तादृशः मन्त्राभ्यामिति विष्णुषडक्षरस्याप्युपलक्षणम् । तन्न्यासस्यापि वक्ष्यमाणत्वात् ॥ ४ ॥ दैवभूतात्मनां कर्मभ्य आधिदैविकाध्यात्मि- केभ्यो भये आगते सति स्वयं नारायणध्यानप्रचुर: नारायणमयं नारायणप्रतिपादनप्रचुरम् । यद्वा । नारायणादुपदेशक्रमेणा- गतं नारायणमयम् “तत आगत” इत्यधिकारे “मयट् च इति मयटू । वर्म कवचं वर्मवद्रक्षकत्वाद्वर्मेत्युक्तम् । सनोब- ध्नीयाज्जपेदित्यर्थः । कृतस्वाङ्गकरन्यास इत्युक्तावङ्गन्यासकरन्यासावाह । पादयोरिति । यद्यप्यत्र ऋषिच्छन्दोदैवतबीजानि नोक्तानि तथाप्यस्य वर्मणो नारायणमन्त्रत्वादष्टाक्षरसम्बन्धीन्येव तान्युह्यानीति संप्रदायः ओमित्यादि योऽयं नारायणाष्टाक्षरो मन्त्रस्तस्योङ्कारादीन्यष्टाक्षराणि क्रमेण पादद्वयजानुद्वयोरुद्वयोद रहृदयोष्ठमुख शिरः स्वष्टसु स्थानेषु सबिन्दुकानि प्रणवसम्पुटि- तानि नमोऽन्तानि विन्यसेत् अथापि वा यद्वा विपर्ययं न्यसेच्छिरः प्रभृतिपादान्तेष्वष्टसु स्थानेषु क्रमेणोङ्कारादीन्यष्टौ न्यसे- दित्यर्थः । यद्वा । अथापिवेति ! निपातसमुदायः पुनरर्थकः । प्रथमं यकारादीन्यष्टावक्षराणि पादादिशिरः पर्य्यन्तेषु स्थानेषु संहार- क्रमेण विन्यस्य पुनः शिरः प्रभृतिषु । पादान्तेष्वोङ्कारादीनि सृष्टिक्रमेण विन्यसेदित्यर्थः । एवमङ्गन्यासं विधाय ततः करन्यासं द्वादशाक्षरविद्यया कुर्यात् । द्वादशाक्षरस्य चतुर्थस्कन्धे उक्तत्वादष्टाक्षरवत्स्वरूपानुक्तिः । कथं कुर्यात्करन्यासमित्यत्राह । प्रणवा- दीति । प्रणवादिकारान्तानि द्वादशाक्षराणि हस्तयोरङ्गुलिषु तर्जन्यादिषु चतुर्षु चतुर्षु अङ्गुष्ठयोर्द्वयोर्द्वयोः पर्वणोश्व न्यसेदित्यर्थः । तदिस्थम् ॐमों नमः तर्जन्या दक्षिणाङ्गुष्ठप्रथमपर्वणि । ॐ नं नमः तदङ्गुष्ठान्त्यपर्वणि । ॐ मो नमः तदङ्गुष्ठेन तर्जनीमध्यम- पर्वणि । मन्त्राक्षरमाद्यन्तयोः पर्वणोस्तु प्रणयनमः पदैः एवमुत्तरत्रापि द्रष्टव्यम् । ॐ भं नमः मध्यमाङ्गुलौ । ॐ गं नमः अनामि- काङ्गुलौ । ॐ यं नमः कनिष्ठिकाङ्गुलौ । ॐ तेंः नमः वामाङ्गुष्ठाद्यपर्वणि तत्तर्जन्या । ॐ बां नमः तदन्त्यपर्वणि । ॐ सुं नमः तर्जन्यां तदङ्गुष्ठेन | | ॐ दें नमः तन्मध्यमायाम् ॐ वां नमः तद॑नामिकायाम् । ॐ यं नमः तत्कनिष्ठिकायामिति यथायथ - मूह्यम् ॥ ५७ ॥ अथ विष्णुषडक्षरन्यासमाह । न्यसेदिति । प्रत्येकं वर्णन्यासकथनेनैव मन्त्रस्वरूपमप्युक्तप्रायमिति पृथक्तदनुक्तम् । षकारणकारयोर्विश्लेषेण षडक्षराणि प्रणवादीनि नकारान्तानि तानि हम्मूर्द्ध भ्रूमध्यशिखानेत्रसर्व सन्धिस्थानेषु । 1 । २५२ श्रीमद्भागवतम् [ स्कं. ६ अ. लो. १-१० षट्सु विन्यसेत् ततोऽवशिष्टं मकारं सविसर्ग फडन्तम् ओं नमः फडिति कृत्वा सर्वदितु भागायष्टसु दिनु ऊर्ध्वाधरयोश्च विनिहि- शेत तर्जन्यङ्गुष्ठयोश्छोटिक्रया दिनु न्यसेदित्यर्थः । एवम्विधे न्यासे कृते सति बुधो मन्त्रजापकः मन्त्रमूर्तिमन्त्रावृत्तियो ग्यदेशे भवतीत्यर्थः यद्वा । मन्त्राश्रयमूर्तिर्भवेदुक्तमन्त्रत्रयभवितान्यादृशमूर्त्तिर्भवेदितिवार्थः॥ १०॥ ।। RTVE BE SIP-PRIS विजयध्वजतीर्थकृता पदरत्नावली
“अकामः सर्वकामो वा मोक्षकामो यजेद्धरिम्” इत्युक्तं प्रपञ्चयत्यनेनाध्यायेन । तत्र राजातीताध्याये संक्षिप्य कथितं नारायणकवचनामस्तोत्रं लोकोपकाराय विस्तरतः श्रोतुं पृच्छति । ययेति । गुप्तो रक्षितः रिपुसैनिकान् शत्रु सेनानाय- कान् ॥ १ ॥ ॐ तदित्युत्तरलिङ्गानुसारेण यथाततायिनः इतीत्थंभावेन श्रोतुं पुनर्वचनम् । यथा येनेत्थंभावेन तमित्थं-
- भावं त्वमाख्याहीति शेषः ॥ २-३ ॥ धौतो प्रक्षालितावधी पाणी च यस्य स तथा धौतेत्यारभ्य ॐ विष्णवे नम इत्यन्तेन मन्थेन तद्वधारणे इत्थम्भावं वक्ति । कृतः स्वाङ्गे करयोश्च न्यासो येन स तथा ॥ ४ ॥ 83 * सन्नबध्नीयात् देवाद्वये अनावृष्टिलक्षणे भूतेभ्य उन्मादादिलक्षणे आत्मकर्मणः कुष्ठभगन्दरादिलक्षणे ॥ ५ ॥ * आनुपूर्व्यात्संप्रदाय- क्रमात् विपर्ययं शिरआदिर्वा करन्यासं संक्षिप्योक्तं विस्तारार्थमाह । करन्यासमिति । ॐ नमो भगवते वासुदेवायेतीय द्वादशाक्षर- विद्या ॥ ६-७ ॥ * * न्यसे हृदय इत्यादिना षडङ्गान्याह । न्यसेदिति । अनु ङ्कारन्यासानन्तरं प्रत्येकमोङ्कारमनुगतं कृत्वेति वा ललाटोपरि वा तुना वर्णदेवतास्मरणं सूचयति । शिखया शिखायां मुकुटप्रदेशे ॥ ८ ॥ * * अत्रमसुरनिरास- मुद्दिश्य कुर्यादिति शेषः । मन्त्रमूर्तिः मन्त्रदेवतासन्निधानयुक्तदेह इति विसर्गेण सहितं फडित्यक्षरावसानमन्त्रम् अन्तं रक्षसां नाशकरं फडक्षरं वा तं मकारं स्वाहाविसर्जनीयसहितं फडक्षरं चेति वा व्यत्यस्योक्तया विष्णवे नम इत्यन्यथा प्रतीतिनिरासाय प्रतीकं पठति । ॐ विष्णवे नम इतीति । अनन्तरं ध्येयदेवताप्रकारं निरूपयति । आत्मानमिति । परमात्मानं विप्रतिपत्ति- निरासायोक्तं ध्येयमिति । ऐश्वर्यादिषट्शक्तिभिः उत्साहप्रभुमन्त्रज्ञानक्रियेच्छाशक्तिभिर्वा तपो नाम शत्रुसन्तापनशक्तिर्ज्ञानं बा इमं मन्त्रमिति वक्ष्यमाणमोमिति ।। ६-११ ॥ ERİFET IPSHENTIC TWIS TRE जीवगोस्वामिकृतः क्रमसन्दर्भ कोययेति युग्मकम् । यथा बर्मरूपया विद्यया यथा अजयत् तं प्रकारञ्चाख्याहि ।। १-१७ ।। । ॥ विश्वनाथचक्रवतिकृता सारार्थदर्शिनी More fre नारायणात्मकं वर्म विश्वरूप उपादिशत् । शक्रं येनाजयद्दैत्यान् स इत्यष्टम उच्यते ।। मन्त्राभ्यामष्टाक्षरद्वादशाक्षराभ्याम् ॥ १-४ ॥ * * अत्राष्ठाक्षरेण पादाद्यष्टाङ्गेषु न्यासमाह । पादयोरिति सार्द्धेन । प्रणवसंपुटितमोङ्काराद्येकैकाक्षरं विन्यसेत् । विपर्ययं यथा भवत्येवं शिरआदिपादान्तं वा विन्यसेत् । प्रक्रमेण सृष्टिन्यासं व्युत्क्रमेण संहारन्यासं वा कुर्यादित्यर्थः ॥ ५-६ ॥ * * प्रणवादीति । प्रणवसंपुटितमेकैकमक्षरं दक्षिणतर्जनीमारभ्य बामतर्जनीपर्यन्तमङ्गुलीषु परिशिष्टमक्षरचतुष्टयम् अङ्गुष्ठयोराद्यन्तपर्वसु न्यसेत् ॥ ७ ॥ * * मन्त्रान्तरेणापि हृदया- दिन्यासमाह । - न्यसेदिति ॥ ८ ॥ * * मकारमस्त्रमुद्दिश्य ध्यात्वा तन्मकारास्त्रं मः अस्त्राय फडिति एवं सर्वदिग्बन्धे विनिर्दिशेत् ।। ६-१० ।। ।। शुकदेवकृतः सिद्धांत प्रदीप: नारायण वर्म अष्टमे नाध्यायेन प्रकाश्यते तत्र । तावत नारायणवर्म बुभुत्सुः पृच्छति । ययेति । यथा नारायणवर्म- रूपया विद्यया त्रिलोक्यां या श्रीः संपत्ताम् ॥ १ ॥ * * नारायणात्मकं नारायण आत्मा विषयो यस्य तत् । मम महा- माख्याहि कथय ॥ २॥ * * नारायणः आख्यायते कथ्यते येन तत् ॥ २ ॥ * * शुचिः कृतस्नानः पुनधता- त्रिपाणिः उदङ्मुखः आसने उपविष्ट इति शेषः । सपवित्रः गृहीतकुशः आचम्य विधिवत्कृताचमनः मन्त्राभ्यामष्टाक्षरद्वादशा- क्षराभ्यां कृतः स्वीयेषु अङ्गेषु करयोश्च न्यासो येन सः । नारायणपरं नारायण एवं परः साध्योऽर्थो यस्मान्नारायणप्रापक- मित्यर्थः । अनेनैतद्धारणफलं नारायणप्राप्तिरिति गम्यते । वर्म कवचं संन्हयेत । फलान्तरं दर्शयति । भय जागते इति । अङ्गेष्वष्टाक्षरेण न्यासं कुर्यादित्याह । पादयोरिति सार्द्धेन । प्रणवाद्येकैकमक्षरं प्रादयुग्मादिशिरोऽन्तेष्वङ्गेषु अनुक्रमेण विन्यसेत् । विपर्ययं यथा भवति तथा शिरआदिपादयुग्मान्तं वा विन्यसेत् अत्र केवलानामक्षराणां न्यास उक्तः । स्कं. ६ अ. ८ श्लो. १-१०] अनेकत्र्याख्यासमलङ्कृतम् २५३ ऋषिच्छन्दआदिकं च नोक्तम् । यथोक्तस्यैव सर्व पुरुषार्थप्रदत्वात्तथापि यथारुचि यथाशास्त्रं सानुस्वारं प्रणवसम्पुटितं वा नमोऽन्तं वा एकैकमक्षरं तत्र विन्यसेत् । नारायणमन्त्रसम्बन्धि ऋष्यादिकं च ज्ञेयम् । मन्त्रमाह । ॐ नम इति ॥ ४-६ ॥ * * द्वादशाक्षरेण करयोन्यसं कुर्यादित्याह । करन्यासमिति । द्वादशाक्षरं मन्त्रमाद्यन्ताभ्यामक्षराभ्यां सूचयति । प्रणवादियकारान्तमिति । एकैकमक्षरं दक्षिणतर्जनीमारभ्य वामतर्जनीपर्यन्तमङ्गुलीषु परिशिष्टानि चतुरक्षराणि अङ्गुष्ठयोराद्यन्तेषु पर्वसु च विन्यसेत् ॥ ७ ॥ * * मन्त्रान्तरन्यासमाह । न्यसेदिति द्वाभ्याम् । षकारणकारयोर्विश्ले- पेण न्यासमाह । षकारं भुवोर्मध्ये णकारं शिखया शिखायां बेकारं नेत्रयोर्युज्यात् नकारं सर्वसिन्धुषु करचरणसन्धिषु तदनन्तरं मः अस्त्राय फडित्येवं सविसर्ग मकारं फडन्तमस्त्रमन्त्रमुद्दिश्य ध्यात्वा सर्वदिक्षु विनिर्दिशेत् तर्जन्यङ्गुष्ठप्रयोगरूपया छोटिकमुद्रया दिग्बन्धनं कुर्यात् । एवं मन्त्रमूर्तिर्भवेदित्यर्थः । मन्त्रमाह । ॐ विष्णवे नम इति ।। ८-१० ।। गोस्वामिगिरिधरलालविहिता बालप्रबोधिनी refecare यत्तु नारायणात्मकम् । वर्म प्राह महेन्द्राय ह्यष्टमे तन्निरूप्यते ॥ १ ॥ यत्तु विश्वरूपेण नारायणकवचं महेन्द्रायोक्तं तत्सर्वोपकाराय राजा पृच्छति ययेति । यया विद्यया गुप्तो रक्षित: सहस्राक्षः क्रीडन्निवानायासेन सवाहान् रिपुसैनिकान् दैत्यसेनापतीन् विनिर्जित्य त्रिलोक्या: सम्बन्धिनीं श्रियं बुभुजे ॥ १ ॥ * * हे भगवन् सर्वज्ञ तन्नारायणात्मकं वर्म कवचं ममाख्याहीति द्वयोरन्वयः । एवं मन्त्रं पृष्ट्वा ‘विजयप्रकारं पृच्छति ययेति । येनान्येन सहायभूतेन सेनापतिना गुप्तो मृधे युद्धे यथा येन प्रकारेण आततायिनः ‘अमिदो गरदचैव शस्त्रपाणिर्धनापहः । क्षेत्रदारहरश्चैव षडेते ह्याततायिनः’ इति वाक्याच्छ्स्त्रधारिणः आततायिनो प्राया- स्तान शत्रूनजयत् तत्प्रकारं च ममाख्याहीतिसम्बन्धः ॥ २ ॥ * * एवं पृष्टः सम्यक् श्रवणाय सावधानीकरोति - वृत इति । स्पष्टम् ॥ ३ ॥ * एवं नारायणकवचश्रावणं प्रतिज्ञाय तत्सन्नाप्रकारं विश्वरूपेणेन्द्राय प्रदर्शितमेवाह- धौतपाणिरिति सार्द्धेन । आधिदैविकादिभेदभिन्न े भय आगते सति धौतो प्रक्षालितौ अघी पाणी च येन सः आचम्य आचमनं कृत्वा अत एव शुचिः सपवित्रः पवित्रेण कुशरचितमुद्रिकाविशेषेण सहितः उदङमुख उत्तरमुखतयोपविष्टः वाग्यतः मौनी मन्त्राभ्याम् अष्टाक्षरद्वादशाक्षराभ्यां कृतः स्वाङ्गेषु करयोश्च न्यासो येन सः नारायणपरं नारायणदैवत्यं वर्म सन्नह्येत् बीयादित्यन्वयः ॥ ४ ॥ * * तत्राष्टाक्षरेण पादाद्यष्टाङ्गेषु न्यासमाह - पादयोरिति सार्द्धेन । ॐ नमो नारायणायेत्यस्य अष्टाक्षरमन्त्रस्य प्रणव- सम्पुटितमोङ्काराद्येकैकमक्षरं आनुपूर्यात् यथाक्रमेण पादाद्यष्टाङ्गेषु विन्यसेत् । अथवा विपर्ययं यथा भवति तथा शिरआदिपादान्तेषु यकाराद्यो- ङ्कारान्तमपि विन्यसेत् । प्रक्रमेण सृष्टिन्यासं व्युत्क्रमेण संहारन्यासं वा कुर्यादित्यर्थः ॥ ५ ॥ ॐ नमो भगवते वासुदेवायेति द्वादशाक्षरमन्त्रेण करन्यासमाह - करन्यासमिति । ततोङ्गन्यासानन्तरं द्वादशाक्षरमन्त्रस्य प्रणवादियकारान्तं प्रणवसम्पुटितमेकैकमक्षरं दक्षिणतर्जनीमारभ्य वामतर्जनी- पर्यन्तं अङ्गुलीषु परिशिष्टमक्षर चतुष्टयमङ्गुष्ठयोरा द्यन्तपर्वसु विन्यसेदिति शेषः ॥ ६ ॥ पुनः षडक्षरमन्त्रेण षडङ्ग’ ६॥ न्यासमाह - न्यसेदिति सार्द्धद्वयेन । षकारगकारयोर्विश्लेषेण षडक्षराणि हृदयादिषडङ्गेषु न्यसेत् । शिखया शिखायामि- त्यर्थः ॥ ७ ॥ * * मकारमस्त्रमुद्दिश्य ध्यात्वा एवं मन्त्रमूर्त्तिः सन् तत् मकारास्त्रं ‘मः अस्त्राय फट् ’ इत्येवं सविसर्ग फडन्तं सर्वदिक्षु विनिर्दिशेत् । षकारणकारयोर्विश्लेषेण अन्यथाप्रतीते भ्रमनिरासाय मन्त्रं दर्शयति-ओमिति ॥ ८ ॥
-
भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी * नारायणात्मकं वर्म विश्वरूपस्त्वथाष्टमे । प्राहेन्द्रायाजयद्गुप्तो येनेन्द्रः सकलासुरान् ॥ १ ॥
- वैष्णवीं विद्यां जिघृक्षुः पृच्छति राजा ययेति द्वाभ्याम् । ययेति । सहस्राक्ष इन्द्र:, यया वैष्णव्या विद्यया, गुप्तः सन् सवाहान् वाहनैः सहितान् रिपुसैनिकान् शत्रुसेनासमवेतजनान्, क्रीडन् इव विनिर्जित्य, त्रिलोक्याः संबन्धिनीं श्रियं लक्ष्मी बुभुजे अनुबभूव ॥ १ ॥ ॐ भगवन्निति । हे भगवन् येन नारायणवर्मणा, गुप्तः इन्द्रः, मृधे संग्रामे, आत्ता- यिनः शस्त्राण्युद्यम्य स्वं हन्तुमुपागतान् शत्रूनसुरान् यथा अजयत् । तत् नारायणात्मकं नारायणरूपं मन्त्रदेवतयोरभेदाध्य- बसायेन नारायणात्मकमित्युक्तम् । यद्वा । नारायण आत्मा प्रतिपाद्यो यस्य तत् । मन्त्रस्यार्थात्मत्वात् । वर्म मम मझं आख्याहि उपदिश ॥ २ ॥ * * एवमुक्तो मुनिर्वर्मोपदेष्टुमुपक्रमते वृत इत्यादिना यावदध्यायसमाप्ति वृत इति । त्वाष्ट्रो विश्वरूपः, पुरोहितः वृतः, यः पुरोहितत्वेन देवैर्वृतः सन्नित्यर्थः । अनुपृच्छते महेन्द्राय यत् नारायणाख्यं वर्म आह । नारायण-
- २५४
- 3
- श्रीमद्भागवतम्
- [ स्कं. ६ अ. ८ श्लो. १-१० वर्माख्यं मन्त्रमुपदिदेशेत्यर्थः । तत् इह एकमनाः एकाग्रचित्तः सन् शृणु त्वमवधारय । अहमुपदिशामीति शेषः ॥ ३ ॥ * उपदेक्ष्यमाणमन्त्रजपस्याङ्गभूतशौचन्यासकथनपूर्वकं विश्वरूपोपदिष्टक्रमेण मन्त्रमुपदिशति । धौतेति । शुचिः यथार्थविहित- स्नानादिना शुद्धताभाकू, धौताङ्घ्रिपाणिः स्नानशुचित्वेऽत्येतद्वारणनिमित्तं प्रक्षालितपादपाणिः सपवित्रः हस्तविवृतदर्भमय- पवित्र:, उदङ्मुखः उदङ्मुखतया विहितस्वोपवेशन:, इत्थंभूतः पुमान्, आचम्य चतुर्थ्यन्तनमोऽन्तकेशवनारायणमाधवनाम- भिस्त्रिराचमनं कृत्वेत्यर्थः । इदं शिखाबन्धनस्याप्युपलक्षणम् । ‘विशिखोऽनुपवीतश्च यत् करोति न तत्कृतं ’ इति अबद्धशिखवि - हितकर्मणोऽकृतप्रायत्वात् । वाग्यतः नियमितवाकू सन्, मन्त्राभ्यामष्टाक्षरद्वादशाक्षराभ्यां मनुभ्यां, एताभ्यां षडक्षरमनोरप्यु- पलक्षणं, तन्न्यासस्यापि वक्ष्यमाणत्वात् । कृतौ स्वाङ्गकरन्यासौ येन सः । एवंविधः स्यात् ॥ ४ ॥ * * एवंभूतेन भूत्वा कदैतत् संनहनं कार्यं तत्राह । दैवेति । दैवभूतात्मकर्मभ्यः आधिदैविकाधिभौतिकाध्यात्मिकक्रियाभ्यः, भये आगते सति, स्वयं नारायणमयः नारायणध्यानप्रचुरः सन् नारायणमयं नारायणप्रतिपादनप्रचुरं यद्वा । नारायणादुपदेशक्रमेणागतं " तत आगत:’ इत्यधिकारे ‘मयट् च’ इति मयट् । वर्म कवचं वर्मवद्रक्षकत्वाद्वर्मेत्युक्तम् । सन्नह्येद्बध्नीयाज्जपेदित्यर्थः ॥ ५ ॥ * * ‘कृतस्वाङ्गकरन्यासः’ इत्यनेनेोक्तावङ्गकरन्यासावाह । पादयोरिति सार्द्धद्वाभ्याम् । पादयोरिति । पादयोः, जानुनोः, ऊर्वोः उदरे, हृदि, अथ उरसि, मुखे, शिरसि च, आनुपूर्व्यात् मन्त्राक्षरानुपूर्वीक्रमेण, कारादीनि अक्षराणि, प्रणवसंपुटितमेकै- कमक्षरं यथा भवेत्तथेति शेषः । विन्यसेत् । तानि अक्षराणि मन्त्रप्रकटनपूर्वकमाह । ॐ नमो नारायणाय । इति, अथवा विपर्ययं यथा भवति तथा अपि, विन्यसेत् । तत्तु शिरआदिपादान्तं यथा भवति तथेति उत्पत्तिन्यासं संहारन्यासं वा कुर्यादि- त्यर्थः । यद्यप्यत्र ऋषिछन्दोदैवतानि तथा विनियोगश्च नोक्तस्तथापि स इत्थं बोध्यः । आदावद्येत्यादि । पठित्वा, अस्य श्रीनारायण वर्ममन्त्रस्य | विश्वरूपः ऋषिः । त्रिष्टुबनुष्टुभौ छन्दसी । श्रीनारायणो देवता । मम श्रीनारायणप्रीतिपूर्वकं सकलो- पद्रवशान्त्यर्थं नारायणवर्मजपे विनियोगः । इतिसंकल्प्य न्यासाः । प्रणवसंपुटितास्ते पूर्वटीकायां प्रदर्शिताः ॥ ६ ॥ * करेति । ततोऽष्टाक्षरन्यासविधानानन्तरं द्वादशाक्षरविद्यया ॐ नमो भगवते वासुदेवाय इति मन्त्रेण । प्रणवादियकारान्तं यथा भवति तथा, अङ्गुल्यङ्गुष्ठपर्वसु करन्यासं कुर्यात् । प्रणवसंपुटितमेकैकमक्षरं दक्षिणतर्जनीमारभ्य वामतर्जनी पर्यन्तमङ्गुलिषु परिशिष्टमक्षरचतुष्टयमङ्गुष्ठयोराद्यन्तपर्वसु न्यसेदित्यर्थः । प्रकारोऽयं पूर्व प्रदर्शितः ॥ ७ ॥ * * अथ मन्वान्तरन्या- समाह । न्यसेदिति द्वाभ्याम् । न्यसेदिति । अत्र ॐ विष्णवे नमः इति मन्त्रः । षकारणकारयोर्विश्लेषेण तस्य षडक्षराणि । ॐकारादीनि नकारान्तानि हन्मूर्द्धभ्रूमध्यशिखानेत्रेषु विन्यस्य मकारमलत्वेनोद्दिश्य दिग्बन्धं कुर्यात् । एतन्मूले एव दर्शयति । हृदये ॐ कारं न्यसेत् । अनु ततः पश्चात्, विकारं मूर्द्धनि न्यसेत् । षकारं भ्रुवोः मध्ये विन्यसेत् । णकारं, शिखया शिखायां दिशेत् विन्यसेत् ॥ ८ ॥ * * वेकारमिति । वेकारं नेत्रयोः, युज्यात् विन्यसेत् । नकारं सर्वसंधिषु, युञ्जयात् । मकारं
- । । सविसर्ग फडन्तं यथा तथोच्चार्य, तत्र अस्त्रम् उद्दिश्य ध्यात्वा, मः अस्त्राय फडित्येवं दिग्बन्धे विनिर्द्दिशन् सर्वदिक्षु विनिर्द्दिशेत् । तु एवं सतीत्यर्थः । बुधः मन्त्रमूर्त्तिः भवेत् । न्यासकर्त्ता मन्त्रमयदेहः स्यादित्यर्थः । नारायण त्रिलोकेश सर्वदुःखविमर्देन । सर्वोपद्रवशान्त्यर्थं त्वदीयं वर्म धारये’ इति मन्त्रत्रयन्यासानन्तरं संकल्पयेत् ॥ ९ ॥ * * एवं कृतस्वाङ्गकरन्यासः परमात्मानं ध्यायन मन्त्रमावर्त्तयेदित्याह । आत्मानमिति । ततः ध्येयं ध्यातुं योग्यं, द्वादशविग्रहविशिष्टत्य भगवतो ध्यानेन स्वमनः प्रसन्नं भवेत्तादृशमित्यर्थः । षट्शक्तिभिः ज्ञानशक्तिबलैश्वर्यवीर्यतेजआत्मकशक्तिभिः, ऐश्वर्यादिभिर्भगशब्दवाच्याभिर्वा, उत्साहप्रभुमन्त्रज्ञानक्रियेच्छाभिर्वा । युतं परमम् आत्मानं परमेश्वरमित्यर्थः । ध्यायेत् प्रथमं परमात्मध्यानं कुर्यादित्यर्थः । ततः विद्या च तेजश्च तेषां मूर्त्तिराश्रयस्तं तत्र विद्या ज्ञानं, तेजः प्रभावः तपः सत्कर्म, इमं वक्ष्यमाणं मन्त्र श्रीनारायणकवचा- ख्यमनुं, उदाहरेश्वोश्चारयेत् । सर्वज्ञानानां तेजसां तपसां चैतन्मन्त्रायत्वात् । सर्वज्ञानादिसंततिरूपोऽयं मन्त्र इत्यर्थः ॥ १० ॥
- भाषानुवादः
- नारायणकवचका उपदेश
- राजा परीक्षितने पूछा- भगवन् ! देवराज इन्द्रने जिससे सुरक्षित होकर शत्रुओंकी चतुरङ्गिणी सेनाको खेल-खेल में अनायास ही जीतकर त्रिलोकीकी राजलक्ष्मीका उपभोग किया, आप उस नारायणकवचको मुझे सुनाइये और यह भी बतलाइये कि उन्होंने उससे सुरक्षित होकर रणभूमिमें किस प्रकार आक्रमणकारी शत्रुओं पर विजय प्राप्त की ।। १-२ ॥ * * श्रीशुकदेवजीने कहा- परीक्षित् ! जब देवताओंने विश्वरूपको पुरोहित बना लिया, तब देवराज इन्द्रके प्रश्न करनेपर विश्वरूपने उन्हें नारायणकवचका उपदेश किया। तुम एकाग्रचित्त से उसका श्रवण करो ॥ ३ ॥ * * विश्वरूपने कहा- देवराज इन्द्र ! भयका अवसर उपस्थित होनेपर नारायणकवच धारण करके अपने शरीरकी रक्षा कर लेनी चाहिये । उसकी विधि
- स्कं. ६ अ. ८ श्लो. ११-२०]
- अनेकव्याख्यासमलङ्कृतम्
२५५ यह है कि पहले हाथ-पैर धोकर आचमन करे, फिर हाथ में कुशकी पवित्री धारण करके उत्तर मुँह बैठ जाय। इसके बाद कवचधारणपर्यन्त और कुछ न बोलनेका निश्चय करके पवित्रता से ॐ नमो नारायणाय’ और ‘ॐ नमो भगवते वासुदेवाय’- इन मन्त्रोंके द्वारा हृदयादि - अङ्गन्यास तथा अङ्गुष्ठादि करन्यास करे | पहले ‘ॐ नमो नारायणाय’ इस अष्टाक्षर मन्त्र ॐ आदि आठ अक्षरोंका क्रमश: पैरों, घुटनों, जाँघों, पेट, हृदय, वक्षःस्थल, मुख और सिरमें न्यास करे । अथवा पूर्वोक्त मन्त्र के मकार से लेकर ॐकारपर्यन्त आठ अक्षरोंका सिरसे आरम्भ करके उन्हीं आठ अङ्गोंमें विपरीत क्रमसे न्यास करे ।। ४-६ ॥ * * तदनन्तर ॐ नमो भगवते वासुदेवाय’ - इस द्वादशाक्षर मन्त्रके ॐ आदि बारह अक्षरोंका दायीं तर्जनीसे बायीं तर्जनीतक दोनों हाथकी आठ अँगुलियों और दोनों अँगूठोंकी दो-दो गाँठोंमें न्यास करे ॥ ७ ॥ * * फिर ‘ॐ विष्णवे नमः’ इस मन्त्रके पहले अक्षर ‘ॐ’ का हृदयमें ‘वि’ का ब्रह्मरन्धमें, ‘बू’ का भौहों के बीच में, ‘ण’ का चोटीमें, ‘वे’ का दोनों नेत्रों में और ‘न’ का शरीरकी सब गाँठोंमें, न्यास करे । तदनन्तर ‘ॐ मः अस्त्राय फट्’ कहकर दिग्बन्ध करे । इस प्रकार न्यास करनेसे इस विधिको जाननेवाला पुरुष मन्त्रस्वरूप हो जाता है ।। ८-१० ॥ ༣, आत्मानं परमं ध्यायेद् ध्येयं षट्शक्तिभिर्युतम् । विद्यातेजस्तपोमूर्तिमिमं मन्त्रमुदाहरेत् ॥ ११ ॥ ॐ हरिविंदध्यान्मम सर्वरक्षां न्यस्ताङ्घ्रिपद्मः पतगेन्द्रपृष्ठे । दरारिचर्मासिगदेषुचापपाशान् दधानोऽष्टगुणाः ॥ १२ ॥ जलेषु मां रक्षतु मत्स्यमूर्तिर्यादोगणेभ्यो वरुणस्य पाशात् । स्थलेषु मायावटुवामनोऽव्यात् त्रिविक्रमः खेऽवतु विश्वरूपः ।। १३ ।। दुर्गेष्वटव्याजिमुखादिषु प्रभुः पायान्नसिंहोऽसुरयूथपारिः । विमुञ्चतो यस्य महाट्टहास दिशो विनेदुर्न्यपतंश्च गर्भाः ॥ १४ ॥ रक्षत्वसौ माध्वनि यज्ञकल्पः स्वदंष्ट्रयोनीतधरो वराहः । रामोऽद्रिकूटेष्वथ विप्रवासे सलक्ष्मणोऽव्याद् भरताग्रजोऽस्मान् ।। १५ ।। मामुग्रधर्मादखिलात् प्रमादान्नारायणः पातु नरश्व हासात् । दत्तस्त्वयोगादथ योगनाथः पायाद् गुणेशः कपिलः कर्मबन्धात् ॥ १६ ॥ सनत्कुमारोऽवतु कामदेवाद्धयशीर्षा मां पथि देवहेलनात् । देवर्षिवर्यः पुरुषार्चनान्तरात् क्रूमों हरिर्मा निरयादशेषात् ॥ १७ ॥ धन्वन्तरिर्भगवान् पात्वपथ्याद् द्वन्द्वाद् भयादृषभो निर्जितात्मा । यज्ञच लोकादवताञ्जनान्ताद् बलो गणात् क्रोधवशादहीन्द्रः ॥ १८ ॥ द्वैपायनो भगवानप्रबोधाद् बुद्धस्तु पाखण्डगणात् प्रमादात् । कल्किः कलेः कालमलात् “प्रपातु धर्मावनायोरुकृतावतारः ॥ १९ ॥ मां केशवो गदया प्रातरव्याद् गोविन्द आसङ्गवमात्तवेणुः । नारायणः प्राह उदात्तशक्तिर्मध्यन्दिने विष्णुररीन्द्रपाणिः ॥ २० ॥ कृष्णप्रिया व्याख्या अन्वयः - ध्येयम् षट्शक्तिभिः युतम् परमम् आत्मानम् विद्यातेजस्तपोमूर्तिम् ध्यायेत् इमं मंत्रम् उदाह- रेत् ॥ ११ ॥ पतगेन्द्रपृष्ठे न्यस्ताङ्घ्रिपद्मः दरारिचर्मासिगदेषुचापपाशान् दधानः अष्टगुणः अष्टबाहुः हरिः १. प्रा० पा० - मुदीरयेत् । २. प्रा० पा० मां पथि यज्ञ० । ३. प्रा० पा० - तात्कृतान्ताद् । ४. प्रा० पा० – बुद्धश्च । ५. प्रा० पा०– प्रपायोद् । ६. प्रा० पा० - प्रातरुदात्तः । २५६ श्रीमद्भागवतम् ॐ [ स्कं. ६ अ. ८ श्लो. ११-२० मम सर्वरक्षां विदध्यात् ॥ १२ ॥ मत्स्यमूर्तिः यादोगणेभ्यः वरुणस्य पाशात् मां जलेषु रक्षतु मायाबदुः वामनः स्थलेषु अध्यात् विश्वरूपः त्रिविक्रमः खे अवतु ॥ १३ ॥ असुरयूथपारिः प्रभुः नृसिंहः अटव्याजिमुखादिषु दुर्गेषु पायात् यस्य महाट्टहासं विमुञ्चतः दिशः विनेदुः च गर्भाः न्यपतन् ॥ १४ ॥ * * असौ यज्ञकल्पः स्वदंष्ट्र्या उन्नतधरः वराहः मा अध्वनि रक्षतु रामः अद्रिकुदेषु अथ भरताग्रजः सलक्ष्मणः विप्रवासे अस्मान् अव्यात् ।। १५ ।। * * नारायणः माम् उग्रधर्मात् अखिलात् प्रमादात् च नरः हासात् पातु योगनादः दत्तः तु अयोगात् अथ गुणेश: कपिलः कर्मबंधात् पायात् ॥ १६ ॥ सनत्कुमारः कामदेवात् हयशीर्षाः पथि देवहेलनात् माम् अवतु देवर्षिवर्यः पुरुषार्चनान्तरात् कूर्मः हरिः अशेषात् निरयात् माम् ॥ १७ ॥ * भगवान् धन्वन्तरिः अपथ्यात् निर्जितात्मा ऋषभः द्वंद्वात् भयात् पातु च यज्ञः लोकात् बलः जनान्तात् अहींद्रः क्रोधवशात् गणात् अवतात् ॥ १८ ॥ * * भगवान् द्वैपायनः अप्रबोधात् बुद्धः तु पाखण्डगणात् च प्रमादात् धर्मावनाय उरुकृतावतारः कल्किः कालमलात् कलेः प्रपातु ॥ १९ ॥ * * केशवः गदया प्रातः आत्तवेणु: गोविंदः आसंगवम् उदात्तशक्तिः नारायणः प्राह्ये अरींद्रपाणिः विष्णुः मध्यंदिने माम् अव्यात् ॥ २० ॥ …: श्रीधरस्वामिविरचिता भावार्थदीपिका ध्येयमीश्वररूपमात्मानं ध्यायेत् । षट्शक्तिभिरैश्वर्यादिभिर्भगशब्दवाच्याभिः । विद्या च तेजश्च तपश्च मूर्तिर्यस्य तम् । इमं वक्ष्यमाणं श्रीमन्नारायणकवचाख्यम् ॥ ११॥ अष्टगुणोऽणिमाद्यष्टैश्वर्ययुक्तः ॥ १२ ॥ * * यादसां गणा एव वरुणस्य पाशस्तस्मात् ॥ १३ ॥ * * अटवी आजिमुखं संग्रामोपक्रमश्च आदिर्येषां तेषु संकट- स्थानेषु ॥ १४ ॥ ** असौ प्रसिद्धो वराही मामध्वनि रक्षतु । असौ प्रसिद्धो वराही मामध्वनि रक्षतु । यज्ञैरवयवरूपैः कल्प्यते निरूप्यत इति तथा । । उन्नतोद्धृता धरा येन सः । अद्रिकूटेषु गिरिशिखरेषु रामो जामदग्न्यः विप्रवासे दूर प्रवासे ।। १५ ।। * * उग्रधर्मा- दभिचारादिलक्षणात् । हासाद्रवन्नरोऽवतु । दत्तो दत्तात्रेयः । अयोगाद्योगभ्रंशात् ॥ १६ ॥ * पथि यद्देवानां हेलनं नमस्कारमकृत्वा गमनं तस्मात् । पुरुषार्चनस्यांतरादेवपूजाछिद्राद् द्वात्रिंशदपराधरूपान्नारदः ॥ १७ ॥ * * लोकाज्ज- नापवादाद्यज्ञः । जननिमित्तो योंत उपघातस्तस्माद्बलभद्रोऽवतात् । कृतांतादिति पाठे कृतांतात्कालाद्रक्षतु । क्रोधवशात्सर्पाणां गणात् अहींद्रः शेषः ॥ १८ ॥ * कालमलभूतात्कले: कल्किः । धर्माचिनाय धर्मरक्षणायोरुर्महान्कृतोऽवतारो येन ॥ १९ ॥ * * दिनस्य षट्सु भागेषु क्रमेण प्रातरादिसंज्ञेषु रात्रश्च प्रदोषादिसंज्ञेषु रक्षाप्रार्थनम् । मां केशव इति त्रिभिः । आसंगवं संगवमभिव्याप्य ॥ २० ॥ वंशीधरकृतो भावार्थदीपिकाप्रकाशः । आत्मन ईश्वररूपत्वेन ध्यानमन्यैर वृष्यत्व कामनयाऽहं ग्रहोपासनैः विद्यादिमूर्त्तित्वकथनेन तत्फलदायकत्वं सूचित- मस्य कवचस्य ॥। ११ ॥ * ॐ ॐमिति मंगलार्थे । “ ॐकारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा । कंठं भित्त्वा विनिर्यातौ तस्मान्मांगलिकावुभौ ।” इत्युक्तेः । ननु भेदनात्कुतो मांगलिकत्वमिति चेन्महतां दूषणमपि भूषणं नीलकंठवदिति गृहाण समुद्रेण सह नदीनदादिवद्धचेयरूपेण सहैक्यं प्राप्तोऽपि पृथग्भूयापि तिष्ठन्स्वरक्षाप्रार्थनमंत्रमुदाहरेत्याह- हरिरिति । पतगेंद्रो गरुडः । दरः शंख: अरि चक्रम् ॥ १२ ॥ * * सामान्येन सर्वतो रक्षां प्रार्थ्य देशविशेषेषु तत्तदधिष्ठातृस्वरूपेण भगवतो रक्षामं- त्रानाह - जलेष्विति त्रिभिः । मथ्नाति हिनतीति मत् हयग्रीवाख्योऽसुरस्तं स्यति नाशयतीति मत्स्यः । ’ मथि - हिंसायाम् ’ ‘शिरो ममंथ तरसा’ इति प्रयोगात् । केचित्तु मथित्वा विलोड्य सरतीति मत्स्य: । ‘मथे - विलोडने’ ‘सृ गतौ’ अतो ड्यप्रत्ययः वृतौ मयित्वेत्यस्य मथादेशः । यद्वा-माद्यति सत्यव्रतेन सह सप्तर्षिगणो ज्ञानावाप्त्याऽनेनेति मत्स्यः । “अश्रौषी दृषिभिः सार्द्धमा- । “अश्रौषीदृषिभिः त्मतत्त्वमसंशयम्” इत्यष्टमे वक्ष्यमाणत्वात् । ‘मदी - हर्ये’ अतः स्यप्रत्यय औणादिकः । मायया देवकृपया बटुर्ब्रह्मचारी चासौ वामनो वामनरूपः । मायाबटुना रूपेण वामयति त्याजयति त्रैलोक्यश्रियं बलेरिति वा । मायया छलेन वदति वेष्टते बलिमिति मायावदुः ‘वट - वेष्टने’ स चासौ वामनश्चेपि तथा ॥ १३ ॥ * आदिना पर्वतादिग्रहः । नॄन् सिनोति बनातीति नृसिंहिरण्यकशिपुर्विषय समूहोऽविद्या वा तं हंति नाशयतीति नृसिंहः । खप्रत्ययो डित्वञ्चार्षे । यद्वा-नृयंते विक्षिप्यते लोका येस्ते नरः सिंहसर्पशस्त्ररोगादयः ‘न-विक्षेपे’ तान् हिनस्तीति नृसिंहः । “सिंहे वर्णविपर्ययः इति व्याकरणांतरोक्तेः ॥ १४ ॥ यज्ञाः कल्पाः समर्था यतः स यज्ञकल्पः । यज्ञैर्यज्ञावयवैः कल्प्यते समर्थ्यत इति यज्ञकल्पः । " स्रुक तुड आसीत्स्रुव ईशनास- योरिडोदरे चमसाः कर्णरंध्रे " इत्याद्युक्तेः । वरमहो दिवसो यत्स्मरणादिनेति वराहः । अहः पदं कालोपलक्षकम् । “तस्यर्ते C कं. ६ अ. ८ श्लो. १९-२० ] ॥ अनेकव्याख्यासमलङ्कृतम् ४ * २५७ यत्क्षण नीत उत्तम लोकवार्त्तया” इत्युक्तेः समान्तष्टजार्ष: । रमते दुष्टक्षत्रहनने क्रीडते इति रामः परशुरामः । भरतानजो दाशरथी राम: विविधप्रवासे देशांतरगमने ॥ १५ ॥ * * खपरोद्भवेभ्य उपद्रवेयः । रक्षामंत्रानाह चतुर्भिः - नारायणो- -ऽखिलांतर्यामित्वादभिचारादिवारणसमर्थः । नारं नरसमूहमयते प्रेरयतीति व्युत्पत्तेः नरो नीतिकुशल: ‘नृ-नये " हासो हास्ये च गर्ने च’ इत्यभिधानात् । दत्तः सर्वमनोरथदातादायि सर्वमनेनेति दत्तः । योगभ्रंशाद्भक्तिविघातकोद्रवात् । योगानां भक्ति- गादीनां नाथः । कं सुखं पाति रक्षतीति कपि ज्ञानं तल्लाति ददातीति कपिलः । कर्मबंधात्संसारात् । गुणेशो गुणनियंतृस्वा- तद्वारणेन तत्कृतकर्मबंधमपि वारयितुं समर्थः ॥ १६ ॥ सनत्कुमारस्य नैष्ठिकत्वात्तद्धयातॄणामपि कामपीडा न भवतीति भावः । कामेनेच्छया दीव्यति द्योतत इति कामदेवस्तस्मात् हयग्रीवः । द्वात्रिंशदपराधास्तु पञ्चरात्रे – “यानैर्वा पादुकै- र्वापि गमनं भगवद्गृहे । देवोत्सवाद्यासेवा च प्रणामस्तदप्रत: ( १ ) । उच्छिष्टे वाऽप्यशौचे वा भगवद्वंदनादिकम् । एकहस्तप्रणामश्च तत्पुरस्तात्प्रदक्षिणाम् । ( २ ) पादप्रसारणं चाग्रे तथा पर्य कबंधनम् । शयनं भक्षणं चापि मिथ्याभाषणमेव च । (३) उच्चैर्भाषण मिथो जल्पो रोदनादि च विग्रहः । निग्रहानुग्रहौ चैव नृषु च क्रूरभाषणम् । ( ४ ) कंबलावरणं चैव परनिन्दा परस्तुतिः । अश्लीलभाषणं चैव ह्यधोवायुविमोक्षणम् । ( ५ ) शक्तौ गौणोपचारश्च ह्यनिवेदितभक्षणम् । तत्तत्कालोद्भवानां च फलादीनामर्पणम् । ( ६ ) विनियुक्तावशिष्टस्य प्रदानं व्यंजनादिके। पृष्ठी कृत्वासनश्चैव परेषामभिवादनम् । ( ७ ) गुरौ मौनं निजस्तोत्रं देवतानिंदनं तथा । अपराधा इमे विष्णोद्वात्रिंशत्परिकीर्त्तिताः । ( 5 ) " इति । कौ भूमावप्यूर्मिवेंगो यस्य सः कूर्मः । जलचरेषु कूर्मो भूमावपि शीघ्रं चलतीति प्रसिद्धम् । यद्वा-कुत्सितेषूर्तिर्यस्य स कूर्म इति निरुक्तेर्नारकाणां कुत्सितत्वात्तत्र तद्भयमुचितमेव निरया दुःखाद्वा ॥ १७ ॥ * * अपध्याद्रोगकारिखव्यात् । धं धनं धैर्य वा नाशयंतीति धनव रोगास्तेषामन्तं राति ददातीति धन्वंतरिः । द्वंद्वात्सुखदुःखस्तुविनिंदादिरूपद्वंद्वसमूहात् । ऋष्यते ज्ञायते सर्वमनेनेति ऋषं ज्ञानम् इगुपधत्वात्कः तेन भाति शोभत इति ऋषभः । निर्जितात्मा वशीकृतेंद्रियग्रामः । आत्मा जीवेंद्रियग्रामवृति- बुद्धिमनस्सु च’ इति कोशात् । लोक्यते भाष्यत इति लोकोऽपवादो ऽकीर्त्तिरिति यावत् । यज्ञ इति । यजनकर्तुरपवादः स्वयमेव नश्यतीति भावः । इह बलभद्रस्य शेषादवताराभिप्रायेणान्यत्वं कृतांतादित्यधिकशक्तित्वं च दर्शितम् ॥ १८ ॥ अप्रबोधात्प्रबोधाभावादज्ञानात् । बुद्धस्य पाखण्डप्रवर्त्तकत्वात्स एव स्वप्रवर्त्तितपाखंड समूहाद्रक्षत्विति भावः । प्रमां यथार्थज्ञान- मति नाशयतीति प्रमादस्तस्मात् । ‘तद्वति तत्प्रकारकानुभवो यथार्थः सैव प्रमेत्युच्यते’ इत्युक्तेः । पाखंडस्य देवविरुद्धार्थप्रतिपाद- कत्वात्प्रमादत्वम् । कलिं कृणोति नाशयतीति कल्कि: ‘कृ-हिंसायाम्’ अत औणादिको डिप्रत्ययः कलेरिकारलोपश्च ।। १९।। ** कालविशेषेषु तत्तदधिष्ठातृस्वरूपेण भगवतो रक्षामंत्रानाह - मामिति त्रिभिः । केशवो मधुराधिपतिः प्रातर्दिनस्य पंचम- घटिकापर्यंतम् । गोविंदो वृंदावनाधिपतिः आसंगवं पष्ठघटिकामारभ्य दशमघटिकापर्यंतम् । एकाशदघटिकामारभ्य पञ्चदश- घटिकापर्यतं प्राहस्तत्र षोडशघटिकामारभ्य विंशतिघटिकापर्यंत मध्यंदिनं तत्रारींद्रपाणिश्चक्रधरः ॥ २० ॥ … अन्वितार्थप्रकाशिका आत्मानमिति । प्रभिरैश्वर्यादिभिः भगशब्दवाच्याभिः शक्तिभिर्युतं विद्या च मन्त्रात्मिका तेजश्च तपश्च मूर्तिर्यस्य तं ध्येयं ध्यातुं योग्यमीश्वररूपं परमात्मानं ध्यायेत् । तदनन्तरं चेमं वक्ष्यमाणं श्रीनारायणकवचाख्यं मन्त्रमुदाहरेत् आवृत्त्या जपेदित्यर्थः ॥ ९ ॥ ॐ ॐ ॐ हरिरिति । पतगेन्द्रस्य गरुडस्य पृष्ठे न्यस्ताङ घ्रिपद्मः दरः शङ्खः अरिचक्रं तदादिकानष्टायुधान् दधानः । अष्टगुण इति अणिमाद्यष्टैश्वर्ययुक्तः अष्टायुधधारणायाष्टबाहुः हरिः सर्वदेशे सर्वकाले च मम रक्षां विदव्यात् करोतु ॥ १० ॥ * * जले त्विति । जलेष्विति वा पाठः । यादांसि हिंस्रा जलजन्तवस्तद्गणेभ्यो वरुणस्य पाशाच्च यादोगणा एव वरुणपाशस्तस्माद्वा मां जले तु मत्स्यमूर्ती रक्षतु । मायया स्वेच्छया बटुवामनरूपो जातो भगवान् स्थलेषु मां रक्षतु । त्रयो विक्रमाः बलेखिभुवनमादातुं पादविक्षेपा यस्त स विश्वरूपः स्थूलरूपो मा खे आकाशे रक्षतु ॥ ११॥ * * दुर्गेष्विति । यस्य महागृहासं विमुञ्चतः कुर्वतो दिशो विनेदुः दशदिक्षु प्रतिध्वनिर्जातस्तच्छ्रवणेन चासुरस्त्रीणां गर्भाश्व न्यपतन् । सः असुरयूथपस्य हिरण्यकशिपोररिः प्रभुर्नृसिंहः अटवीवनमाजिमुखं युद्धसंमुखप्रदेशः आदिर्येषां तेषु दुर्गेषु सङ्कटस्थानेषु मां पायात् ॥ १२ ॥ रक्षत्विति । यज्ञः स्वावयवरूपैः कल्प्यते निरूप्यत इति तथेति स्वार्थे
-
- । कल्पपू वा । यज्ञाः कल्पाः यतः इति वा स्वदंष्ट्र्या उन्नीता रसातलादुद्धृता धरा येन सः असाववतारेषु प्रसिद्धो वाराहो मा मामध्वनि मार्गे रक्षतु । अद्रिकूटेषु गिरिशिखरेषु रामो जामदग्न्यो मां रक्षतु । विप्रवासे देशान्तरे सलक्ष्मणो भरताग्रजो दाशरथिः समोऽस्मान अव्यात् ॥ १३ ॥ * * मामिति । उग्रधर्मादभिचारादिप्रवृत्तितोऽखिलात्प्रमादात् विहिताकरण- ।। ४ लक्षणाच मां नारायणः पातु । नरश्च मां हासात् गर्वात् पातु । अयोगात् योगभ्रंशात् योगनाथो दत्तः दत्तात्रेयश्च मां पातु । ३३ २४८ श्रीमद्भागवतम् । [ स्कं. ६ अ. लो. ११-२० तत्त्वादिगुणप्रेरितात् कर्मरूपबन्धात् मां गुणाधीशः कपिलः पायात् ॥ १४ ॥ * * सनदिति । कामदेवात् कन्दर्पवेगात् मां सनत्कुमारोऽवतु । पथि मार्गे यद्देवानां हेलनं नमस्कारादि यथोचितमकृत्वा गमनेनावज्ञानं तस्मात् मां हयशीर्षा हयग्रीवोsar | देवर्षिवर्य : नारदः पुरुषो महापुरुषो भगवांस्तदर्द्धनस्यान्तराच्छिद्रात् द्वात्रिंशदपराधलक्षणादवतु । कूर्मः कच्छ- पावतारो हरिममशेषात् निरयात् अवतात् ।। १५ ।। * धन्वन्तरिरिति । अपथ्यात् रोगजनकद्रव्यभक्षणात् मां धन्वन्तरिर्भगवान्पातु । द्वन्द्वात् शीतोष्णादिजनिताद्भयात् निर्जितः आत्मा येन स ऋषभो मां पातु । लोकात् जनापवादात् यज्ञः यज्ञावतारो भगवान् पातु । जननिमित्तो योऽन्त उपघातस्तस्माद्बलो बलभद्रोऽवतात् । कृतान्तादिति पाठे कालादित्यर्थः । क्रोधवशात्सर्पाणां गणादहीन्द्रः शेषो मामवतात् ॥ १६ ॥ ह 8 । वीरराघवव्याख्या एवं कृतस्वाङ्गकरन्यासः परमात्मानं ध्यायन् मन्त्रमावर्त्तयेदित्याह आत्मानमिति । परमात्मानं ध्यायेत् कथम्भूतं ध्येयं ध्यातुं योग्यं यादृशविग्रहविशिष्टस्य ध्यानेन मनः प्रसन्नं भवेत्तादृशमित्यर्थः । षट्शक्तिभिर्ज्ञानशक्तिबलैश्वर्यवीर्यतेजआत्मिकाभिः शक्तिभिरपृथक् सिद्धप्रकारभूताभिः कार्योपयोगिनीभिर्युतं यावत्स्वसन्तं युक्तमेवंविधं परमात्मानं ध्यात्वा इमं वक्ष्यमाणं नारा- यणवर्माख्यं मन्त्रमुदाहरेत् पठेत् मन्त्रं विशिनष्टि । विद्यातेजस्तपोमूतः विद्या ज्ञानं तेजः प्रभावस्तपः सत्कर्म विद्यादीनां मूर्ति- राश्रयः तं विद्यादयो मूर्त्तिः शरीरं यस्येति वार्थः । सर्वज्ञानानां तेजसां तपसां चैतन्मन्त्रायत्तत्वात्सर्वज्ञानादिसन्ततिरूपोऽयं मन्त्र इत्यर्थः ॥ ११ ॥ * वर्माह । ओमिति । " स्रवत्यनोङङ्कृतं पूर्वम्” इति न्यायेन मन्त्रादाबोङ्कारः प्रथनं शरणागत- गजेन्द्ररक्षणायावतीर्ण हर्यवताररूपं श्रीनारायण गजेन्द्रवत्पीडितस्वरक्षणाय प्रार्थयते । हरिरिति । हरत्याश्रितानामार्त्तिमिति हरिः । मम सर्वतो रक्षां विदध्यात्कुर्यात् । मन्त्र एव स्वजापकपुरुषगतं प्रार्थयितृत्वं स्वस्मिन्नारोप्य प्रार्थयते । कथम्भूतः पत- गेन्द्रस्य गरुत्मत पृष्ठे न्यस्ते अपि अधिः पद्म इव अङ्घ्रिपद्मे येन सः । दरः शङ्खः अरि चक्रं चर्म खेटः असिः खङ्ग दरा- दीन् दधानः बिभ्रत् अष्टौ गुणा अणिमादयो यस्य नित्याविर्भूतनिरुपाधिकापहतपाप्मत्वाद्यष्टगुणको वा अष्टौ बाहवो यस्य सः॥१२॥ * * एवं सामान्यतो रक्षाविधानं प्रार्थ्याथ जलस्थलादिप्रदेशभेदेन रक्षणोपयुक्त मत्स्यादिमूर्त्तिधरं श्रीमन्ना- रायणं प्रार्थयते । जलेष्विति । यादसा जलजन्तूनां गणा एव वरुणस्य पाश स्तमाज्जलचर दुष्कृत्प्रतिभटः मत्स्य मूर्त्तिर्भगवान् जलेषु मां रक्षतु स्थलेषु निर्जलप्रदेशेषु मायावटुर्वामनः स्वसङ्कल्पोपात्तवटुवामनरूपः स्थलजदुष्कृतां शास्ता मामव्याद्रक्षतु खेऽन्तरिक्षे त्रिविक्रमः त्रयो विक्रमाः पदविन्यासाः लोकत्रयसंग्राहका यस्यात एव विश्वरूपः कृत्स्नविश्वव्याप्तरूपः स्वसञ्चरिष्णुदुष्कृतां शास्ताऽवतु रक्षतु ॥ १३ ॥ * * अटव्यरण्यमाजिमुखं युद्धोपक्रमचादिर्येषां तेषु दुर्गेषु सङ्कटस्थानेषु प्रभुः समर्थोऽसुर- सेनानायकानामरिर्नृसिंहः स्वभटप्रतिभट निरसनशीलः पायात् रक्षतु । नृसिंहं विशिनष्टि । यस्य नृसिंहस्य महान्तमट्टहासं विमुञ्चतः सतः दिशो विनेदुः प्रतिदध्वनुः गर्भाश्च न्यपतन् सस्रंसिरे ॥ १४ ॥ * * असौ प्रसिद्धो वराहमूर्तिः मार्गेऽभिमुखमागत- दुष्कुद्धिरण्याक्षस्य हन्ता मामध्वनि रक्षतु कथम्भूतः यज्ञकल्पः यज्ञैः कल्प्यत इति तथा यज्ञावयवकत्वेनोपास्यः स्वदंष्ट्र्या करणेन उन्नतोद्धृता धरा भूमिर्येन अद्रिकूटेषु पर्वतशिखरेषु रागो जामदग्न्योऽद्रिकूटस्थदुष्कृतां हन्ता रक्षत्वित्यनुषङ्गः । विप्र- वासे परदेशगमनदशायां सलक्ष्मणो भरताग्रजो दाशरथी रामः देशान्तरस्थरावणादीनां हन्ताव्यात् ।। १५ । उग्रधर्मादभिचारादेरखिलात्प्रमादान्नारायणः अभिचारादिनिरसनक्षम नामवान्मूर्त्तिपुत्रः पातु हासागर्वान्नरः गर्वप्रतिभटः मूर्ति- पुत्रः पातु दत्तो दत्तात्रेयः योगविरोधिनिरसनक्षमो योगाद्योगविरोधिवर्गात्पातु । अथेति प्रार्थनानन्तरारम्भद्योतकम् । योगनाथः योगेश्वरो गणानां सिद्धगणानामीशः कपिलः ज्ञानप्रदानेन कर्मबन्धनिरासकः कर्मबन्धात् दुरितकर्मबन्धात्पायादव्यात् । गण- यन्तीति गणाः प्रकृतिमहदादितत्त्वानां याथात्म्यविवेचने गणयितारस्ते सांख्यास्तेषामीश इति वार्थः ।। १६ ।। * ** कामदेवान्मदनात्सनत्कुमारोऽपृष्टकामः अवतु पथि देवहेलनात् देवानां हेलनं परिहासस्तस्माद्धयशीर्ष : वेदापहरणादिना चतुर्मुखादिदेवहेलनं कुर्वतां मधुकैटभादीनां हन्ता मामवतु पुरुषस्य भगवतोऽचनमाराधनं तस्यान्तराद्विच्छेदाद्देवर्षिवर्य : नारदः अविच्छिन्नभगवदाराधनपरः पातु । अशेषान्निरयान्नरकात्कूर्मो हरिराश्रितार्तिहा अधक्षान्मग्नानामुद्धारकः ।। १७ ।। अपथ्याद्धन्वन्तरिः भिषक श्रेष्ठः पातु । द्वन्द्वाच्छीतोष्णादेः ऋषभः निर्जितः आत्मा मनो येन जितान्तर्बाह्येन्द्रियः शितोष्णादि- ध्वनावृतस्तत्सहिष्णुः पातु लोकाज्जनापवादात् यज्ञः विष्णुः “यज्ञो वै विष्णुः” इति श्रुतेः । सर्वजनान्तरात्मा पातु । उत अपि तत्कृतान्तात् तेन जनेन कृतोऽन्तः उपघातस्तस्माद्बलो बलभद्रः दुर्जनकृतोपघातहा पातु । नः कृतान्तादिति पाठे तु कृतान्ता- मृत्योर्बलभद्रो मृत्युहा नः पात्वित्यर्थः । क्रोधवशात् सर्पाणां गणादहीन्द्रः शेषः पातु ॥ १८ ॥ * * अप्रबोधादज्ञानाद्भगवान् द्वैपायनो ज्ञानदः पातु । अत्र नरदत्तसनत्कुमारदेवर्षिबलाहीन्द्रद्वैपायना अंशावतारा: जामदग्न्यकपिलधन्वन्तरिऋषिभा- स्वावेशावतराः इतरे पूर्णाः । जीवविशेषे आविर्भाव आवेशः कैश्विद्गुणैः साक्षादाविर्भावशः प्रमादान्मोहजनकात्पाखण्डानां । *कै. ६ अ. ली. ९१-२०] अनेकत्र्याख्यासमलङ्कृतम् २५९ गणाद्बुद्धः जगन्मोहपाखण्डगणहा कालमलभूतात् कलेः कल्किः कालमलकलिहा प्रपातु । काल्कि विशिनष्टि । धर्मावनाय धर्मरक्षणाय उरुर्महान् कृतः अवतारो येन सः ॥ १९ ॥ * * अथ प्रातरादिकालेषु दिनस्य षट्सु भागेषु केशवादिमू- तिभ्यो रक्षां प्रार्थयते । मामिति । केशवः गदया युक्त इति शेषः । प्रातर्मामव्यात् आत्तः धृतः वेणुर्येन स गोविन्दः आसङ्गवं सङ्गव कालमभिव्याय सङ्गव उदयानन्तरकालः उदात्ता उद्धृता शक्तिरायुधविशेषो येन सः श्रीमन्नारायणः प्राहे पूर्वा अरीन्द्रश्चक्रराजः स पाणौ यस्य सः विष्णुः मध्यन्दिने मध्याह्ने पातु रक्षतु ।। २० ।। विजयध्वजतीर्थकृता पदरत्नावली हरिर्विदध्यादित्यादिना नारायणाख्यं कवचमुच्यते अणिमाद्यष्टगुणो वा व्याप्तगुणो वा अशून्याप्ताविति धातुः शुभलक्षणं गुणमेव भुङ्क्ते न त्वशुभलक्षणं दुखः मिति वाष्टगुणः अशूभोजन इति धातुः “शुभं पिबत्यसौ नित्यं नाशुभं स हरिः पिबेत्” इत्यादेः ॥ १२ ॥ “यादांसि जलजन्तवः” इत्यतो वरुणपाशस्य यादोगणान्तर्भूतत्वेऽपि तद्ग्रहणस्य मरणा- विनाभूतत्वेन तत्परिहारार्थं पृथग्ग्रहणं मथ्नाति हिंसतीति मदसुरस्तं स्यति नाशयतीति मत्स्यः “ मथि " हिंसायां शिरो ममन्थ तरसेतिप्रयोगाश्च इतरस्तु मथित्वा विलोड्य सरतीति मत्स्यः “मन्थ विलोडने " इति धातुः सगतावित्यस्मात् ड्यप्रत्ययः । मायये- च्छया गृहीतबटुवामननाममूर्त्तिर्विश्वरूपः स्थूलरूपः ॥ १३ ॥ * * अटवी च आजिश्च मुखश्चादिर्येषां तानि तथा तेषु गर्भा असुरस्त्रीणामिति शेषः ॥ १४ ॥ * * * अध्वनि मा मां स्वदेहेन यज्ञं कल्पयतीति यज्ञकल्पः यज्ञो विष्णुस्तत्समः स एवेत्यतो वा रामः परशुराम: विविधप्रवासे भरताग्रजः दाशरथी रामः ।। १५ ।। * * छन्दः साम्यद्योतनाय उग्रधन्वा अखिलप्रमादादित्युक्तम् । नरनामा विष्णुः हासादुन्मादकृतहासात् अयोगान्नारायणस्मरणाद्युपायवैकल्यात् ।। १६ ।। * * सनत्कुमारो ब्रह्मचारिवपुः ब्रह्मपुत्रसनत्कुमाराविष्टः । “सनत्कुमारनामा तु ब्रह्मचर्यवपुर्हरिः । सनत्कुमारमपरं ब्रह्मपुत्रं विवेश यः । स मां योग्येतरात्कामात्पातु विश्वेश्वरः प्रभुः ।” इतिवाक्यमत्र मानं कामानयोग्यान मद्यादिविषयान् देवयति गमयति आत्मनीति देवः तस्माद्देवर्षिवर्यः महिदासः पुरुषान्तरार्चनात् विष्णोः परिवारत्वमन्तरेण प्राधान्येनान्यदेवतार्चनाद्दोषात् । “महिदासस्तु देवर्षिः पातु मां विष्णुरव्ययः । तदनर्पितकर्मभ्यस्तदस्मरणतस्तथा इति । ” अनेन हर्यनर्पितार्चनालक्षणकर्मणः तथा तस्यास्मरणपूर्वकानर्चनाच्च “महिदासस्तु देवर्षिः पातु मां विष्णुरव्ययः । तदनर्पित कर्मभ्यस्तदस्मरणतस्तथेतिवाक्यद्योतनाय महिदासेति प्रसिद्धनाममुक्त्वा देवर्षिवर्य इत्यबन्धि अनेन वैष्णवानाधिकारो नान्येषां तेषामेव विशेषस्मरणज्ञानपूर्तेरिति सूचितम् । केचित्पुरुषार्चनान्तरादित्यनूद्यान्तरायवाचित्वमन्तरशब्दस्योचुस्तच्चिन्त्यम् “अन्तरः परिधानीये बाह्ये स्वीयेन्तरात्मनि” इत्यादौ एवं प्रयोगात् ॥ १७ ॥ * * शरीररोगजनकादपध्यद्रव्यान्निर्जितात्मा वशीकृतेन्द्रियग्रामः तत्कृताद्यज्ञकर्मापादितादनि- त्यफलात्स्वर्गादेर्यज्ञनामा यागप्रवर्तको विष्णुः । बलः बलभद्रः स एवाहीन्द्रशेषनामा “शेषदेवः सहस्राक्षः सहस्राङ्घ्रिशिरोभुजः” इत्यादे: “बलं शक्तौ बलो रामे बलिष्ठे च बलस्तथा” इत्यभिधानात् बलिष्ठोऽहीन्द्र इति वा ॥ १८ ॥ * * धर्मावनाय धर्मपरिपालनाय उरु प्रपातु भूयो भूयो रक्षत्वित्यर्थः ॥ १९ ॥ प्रातारारभ्य पञ्चभिः पञ्चभिर्घटिकाभिः अहोरात्र- विभागं कृत्वा तेष्वेकैकां मूर्ति सङ्कल्प्याह । मां केशव इति । गोष्ठेभ्यो निर्गत्य यदैकत्र गावः संयुज्यन्ते स काल आसन्नवस्त- स्मिन्काले ।। २० ।। " जीवगोस्वामिकृलः क्रमसन्दर्भः यज्ञश्व लोकादित्यत्र बलदेवस्य शेषादन्यत्र कृतान्तादित्यधिकशक्तित्वं दर्शितम् । जनान्तादिति पाठे जनानामन्ता- नाशादिति स एवार्थः ॥ १८-१९॥ * * मां केशव इति सार्द्धकम् । अनेन मथुरावृन्दावननाथयोर्नित्यप्रकाशत्वं दर्शितम् । प्रातरादयः काला एवं युज्यन्ते । प्रास्तावत् प्रथमभागः प्रातः सङ्गवौ तु तस्यैवांशौ मध्याह्नो मध्यभागः । तृतीय- भागस्त्वपराह्नः सायंसन्ध्याभ्यामवान्तरभेद्भेदभिन्नः रात्रौ च प्रदोषः प्रथमभागः मध्यभागो निशीथ: अर्द्धरात्रस्तु तत्रापि मध्यम- घटिकाद्वयम् । अपररात्रस्तु तृतीयो भागः । तस्यैवान्तिमांशद्वयं प्रत्यूषप्रभातसंज्ञम् । यथा सन्ध्याश्च तदवान्तरभेदा अपि पृथग्गणयन्त इति । क्रमगणनायां तु मध्याह्नाद्यतिक्रमापत्तेः प्राह्नस्तु स्मृतौ न भिन्नत्वेन गण्यते । तथाहि " मुहूर्त्तत्रितयं प्रातस्तावानेव तु सङ्गवः । मध्याह्नस्त्रिमुहूर्तोऽथ अपराह्नोऽपि तादृशः । सायाह्नस्त्रिमुहूर्त्तः स्यात् सर्वकर्मसु गर्हित” इति ।। २०-३० ।। विश्वनाथचक्रवतिकृता सारार्थदर्शिनी ध्येयमीश्वररूपमात्मानं ध्यायेदित्यन्यैरधृष्यत्वकामनया अहं ग्रहोपासना । विद्या तेजस्तपांसि मूर्त्तिर्यस्य तमिमं मन्त्र नारायण कवचाख्यम् ॥ ११ ॥ समुद्रेण सह नदीनदादिवत् ध्येयरूपेण सदैव यं प्राप्तोऽपि पृथगभूयापि तिष्ठन् स्वरक्षा- ३६० श्रीमद्भागवतम् [ स्कं. ६ अ. लो. ११-२० प्रार्थनमन्त्रमुदाहरेदित्याह । हरिरिति । अष्टगुणः अणिमाद्यष्टैश्वर्ययुक्तः ॥ १२ ॥
- सामान्येन सर्वतो रक्षां प्रार्थ्य देशविशेषेषु तत्तदधिष्ठातृस्वरूपेण भगवतो रक्षामन्त्रानाह । जलेष्विति त्रिभिः । यादसां गणा एव वरुणस्य पाशस्त- स्मात् ॥ १३ ॥ * * आजिमुख युद्धसम्मुखप्रदेशः ॥ १४ ॥ ।। ।। यद्वा । यज्ञाः कल्पाः समर्था यतः सः । रामो जामदग्न्यः ॥ १५ ॥ । । ॥
| यज्ञकल्पः यज्ञस्वरूपः स्वार्थिकः कल्पः । स्वपरोद्भवेभ्यः उपद्रवेभ्यः । रक्षामन्त्रानाह चतुर्भिः । उग्रधर्मादभिचारादेः । हासात् गर्वात् । अयोगात् योगभ्रंशात् ॥ १६ ॥ कामदेवात् कन्दर्पवेगात् । पथि यद्देवहेलनं नमस्कारमकृत्वैव गमनम् । पुरुषार्च्चनस्यान्तरात् देवपूजाच्छिद्रात् द्वात्रिंशदपराधरूपादित्यर्थः ॥ १७ ॥ * लोकाज्जनापवादात् जनान्तात् जनहेतुकोऽन्त उपघातस्तस्मात् कृतान्तादिति च पाठः । क्रोधवशात् सर्पाणां गणात अहीन्द्रः शेषः ॥ १८ ॥ * * कालमलरूपात् । कले: कल्किः कीदृशः धर्मावनेत्यादि ॥ १६ ॥ । ॥ १६ ॥ कालविशेषेषु तत्तदधि- ष्ठातृस्वरूपेण भगवतो रक्षामन्त्रानाह । मामिति त्रिभिः । केशवो मथुराधिपतिः । प्रातर्दिनस्य पञ्चमघटिकापर्यन्तम् । गोविन्दो वृन्दावनाधिपतिः । आसङ्गवं षष्ठघटिकामारभ्य दशमघटिकापर्यन्तम् । एकादशघटिकामारभ्य पञ्चदशघटिकापर्यन्तः । प्रास्तत्र । षोडशघटिकामारभ्य विंशतिघटिकापर्यन्तं मध्यन्दिनं तत्र । अरीन्द्रपाणिः चक्रहस्तः एकविंशतिघटिकामारभ्य पञ्चविंशतिघटिकापर्यन्तमपराहरू । षड्विंशतिघटिकामारभ्य त्रिंशद्धटिकापर्यन्तं सायं तत्र । त्रयः सच्चिदानन्दा धामानि यस्य सः ॥ २० ॥ । शुकदेवकृत: सिद्धान्तप्रदीपः * ….. । आत्मानमंशभूतं परममंशिनं ध्यायेत् । अंशभूतोऽहमं शिपृथस्थितिप्रवृत्त्याद्यभावात्तदभिन्नोऽस्मीति चिन्तयेत् । परमं विशिनष्टि । ध्येयमुपास्यम् । षडभिः । “ऎश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः । ज्ञानवैराग्ययोश्चापि षण्णां भग इतीङ्गना ।” इति स्मृतिप्रोक्ताभिर्युतं विद्यादयो मूर्त्तयः शरीरवत् प्रिया यस्य । सः इमं श्रीनारायणकवचरूपं मन्त्रमुदाहरेदावर्त्तयेदि- त्यर्थः ।। ॥ ११ ॥ * * अष्टौ अणिमादिरूपा गुणा यस्य सः । मम रक्षां विदध्यात् करोतु ॥ १२॥ * * एवमा- त्मनः सामान्यतो रक्षणं प्रार्थ्य जलस्थलादिषु तत् प्रार्थयते । जलेध्वित्यादित्रिभिः । मायया भक्तविषयिण्या कृपया बटुवामनः बालह्रस्वरूपः ॥ १३ ॥ * अटवीषु आजिमुखेषु युद्धाप्रभागेषु आदिना अग्न्याद्यावृतप्रदेशेषु ।। १४ । यज्ञाः कल्पाः फलदाने समर्थाः यस्मात्सः । यज्ञैः सादृश्येनोपासनाथ कल्प्यते निरूप्यते इति वा यज्ञकल्पः ।। १५ ।। * * स्वपरहेतुकोपद्रवेभ्यो रक्षणं प्रार्थयते । मामिति चतुर्भिः । उग्रधर्मादभिचारादिरूपात् । प्रमादात् अनवधानतः । हासात् गर्वात अयोगात् योगविघ्नात् ।। १६-१८ ॥ * * प्रमादात् बुद्धिमोहात् यः पाखण्डगणः प्रवर्त्तते तस्मात् काल- मलात्कलेः ।। १९ ।। * * कालभेदेषु रक्षां प्रार्थयते । मां केशव इति त्रिभिः । तत्र दिनस्य षड भागाः प्रातरादिशब्दार्थाः । तत्र प्रातः केशवः अरीन्द्रपाणिः चक्रपाणिः ।। २० ।। ॥ * ।। गोस्वामिगिरिधरलाल विहिता बालप्रबोधिनी ।
एवं न्यासमुक्त्वा ध्यानमाह - आत्मानमिति । षड्भिरैश्वर्यादिभिः शक्तिभिर्युतं विद्या च मन्त्रात्मिका तेजश्च तपश्च मूर्त्तिर्यस्य तं ध्येयं ध्यातुं योग्यं रामकृष्णविष्ण्वादिमनोहरविग्रहं परमं सर्वोत्कृष्टमात्मानं ध्यायेत् । यद्वाऽन्यैरपवृष्यत्वकामनया एवंभूतं ध्येयमात्मानं ध्यायेत् । तदनन्तरं चेमं वक्ष्यमाणं श्रीनारायणकवचाख्यं मन्त्रमुदाहरेत्, आवृत्त्या जपेदि- त्यर्थः ॥ ९ ॥ * त्रयोविंशतितत्त्वानां सङ्घात्तस्यैव यथायथं तत्तद्रूपेण दुःखहेतुत्वात्तत्तदुःखनिवृत्त्यर्थं त्रयोविंशतिभिः कवचमाह-ओं हरिरित्यादिभिः । हरिः सर्वदेशे सर्वकाले च मम रक्षां विदध्यात् करोतु । नन्वेकः परिच्छिन्नत्वेन प्रतीयमानः कथं सर्वत्र रक्षां कर्त्तुं शक्नोतीत्याशङ्कय मनोजवगरुडवाहनत्वेन तत्र शक्यत्वादित्यभिप्रेत्याह-यस्तैति । तथाप्यायुधमन्तरेण तदसम्भवादायुधसम्पत्ति दर्शयति-दरेति । दरः शङ्खः । अरि चक्रम्, तथापि सामर्थ्यमपेक्षितमत आह-अष्टगुण इति, अणिमाश्वर्ययुक्तः । अष्टायुधधारणायाष्ट्रबाहुः ॥ १० ॥ एवं सामान्यतः सर्वतो रक्षां प्रार्थ्य तत्तद्देशकालविशेषेऽपि । । तत्तद्रवेण रक्षां प्रार्थयते— जलेत्विति । यादांसि जलजन्तव स्तद्गणेभ्यो वरुणस्य पाशाच्च मां जले तु मत्स्यमूर्ती रक्षतु । मायया स्वेच्छया बटुवामनरूपो जातो भगवान् स्थलेषु मां रक्षतु । त्रयो विक्रमाः बलेस्त्रिभुवनमादातुं पादविक्षेपा यस्य स विश्वरूपः स्थूलरूपो मां खे आकाशे रक्षतु ॥ ११ ॥ मां स ि ॥ ॥ * यस्य महाट्टहासं विमुञ्चतः कुर्वतो दिशो विनेदुः दशदिक्षु प्रतिध्वनि- जतस्तच्छ्रवणेन च असुरखीणां गर्भाश्व न्यपतन् । स असुरयूथपस्य हिरण्यकशिपोररिः प्रभुः सर्वथा सर्वतः पातुं समर्थो नृसिंह: अटवी वनं आजिमुखं युद्धभूमिश्व आदिर्येषां तेषु दुर्गेषु सङ्कटस्थानेषु मां पायादित्यन्वयः ॥ १२ ॥ ॐ ॥ असाबवतारेषु । । स्के. ६ अ. ८ श्लो. ११-२०]
अनेकव्याख्यासमलङ्कृतम् ३६१ प्रसिद्धो वराहो मा मामध्वनि मार्गे रक्षतु । तस्य लोकद्वयोपकारित्वं दर्शयन् विशिनष्टि यज्ञः स्वावयवरूपैः कल्प्यते निरूप्यते इति- तथेति, परलोकोपकारित्वं सूचितम् । स्वदंष्ट्रया उन्नीता रसातलादुद्धृता घरा येन स इतीह लोकोपकारो दर्शितः । अद्रिकूटेषु गिरिशिखरेषु रामो जामदग्न्यो मां रक्षतु । विश्वासे देशान्तरे सलक्ष्मणो भरताग्रजो दाशरथिः श्रीरामोऽस्मान- व्यादित्यन्वयः ॥ १३ ॥ * * उम्रधर्मादभिचारादिप्रवृत्तित: अखिलात्प्रमादात् विहिताकरणलक्षणाच मां नारायणः पातु । नरश्व मां हासात् गर्वात् पातु । अयोगात् योगभ्रंशात् योगनाथो दत्तः दत्तात्रेयश्च मां पातु । सत्त्वादिगुणप्रेरितात् कर्मरूपबन्धात् मां गुणाधीशः कपिलः पायात् ॥ १४ ॥ कामदेवात् कन्दर्पवेगात् मां सनत्कुमारोऽवतु । पथि मार्गे यद्देवानां हेलनं नमस्कारादि यथोचितमकृत्वा गमनमेवाज्ञानं तस्माद् मां हयशीर्षा हयग्रीवोऽवतु । देवर्षिवर्यः नारद्रः पुरुषो महापुरुषो भगवान् तदर्चनस्य अन्तराच्छिद्रात् अपराधादवतु । ते त्वपराधाः पूजाप्रकरणे एकादशस्कन्धे विस्तरतो दर्शयिष्यते इति तत्र द्रष्टव्याः ॥ १५ ॥ अपध्यात् रोगजनकभक्षणात् मां धन्वन्तरिर्भगवान् पातु । द्वन्द्वात् शीतो- -ष्णादिजनिताद्भयात् निर्जितः कार्यकारणसङ्घातो येन स ऋषभो मां पातु । लोकात् जनापवादात् यज्ञः यज्ञावतारो भगवान् पातु । जननिमित्तो योऽन्त उपघातस्तस्मात् बलो बलभद्रोऽवतात् । कृतान्तादिति पाठे कालादित्यर्थः । क्रोधवशात सर्पाणां गणादहीन्द्रः शेषो मामवतात् ॥ १६ ॥ * अप्रबोधादज्ञानान्मां द्वैपायनो वेदव्यासो भगवान् प्रपातु । बुद्धस्तु पाषण्डगणात् वेदविरुद्धाचारसमूहात् प्रमादात् वेदविहिताचारे आलस्यादिना प्रवृत्त्यभावाच मां प्रपातु । धर्मस्यावनाय रक्षणाय उरवो बहवः कृता अवतारा येन सः कल्किः कालमलभूतात् कलेः सकाशान्मां प्रपातु ॥ १७ ॥ * दिनस्य षट्सु भागेषु क्रमेण प्रातरादिसन्ज्ञेषु तत्तन्नाममूर्त्तिभेदेन रक्षां प्रार्थयते—मामिति सार्द्धन । प्रातः पञ्चमघटिकापर्यन्तं मां गदया युक्तः केशवोsव्यात् । आसङ्गवं षड्घटिकामारभ्य दशघटिकापर्यन्तं मां गृहीतवेणुगोविन्दोऽव्यात् । एकादशघटिकामारभ्य पञ्चदशघटिकापर्यन्तं प्राहस्तत्र गृहीतशक्तिर्नारायणोऽव्यात् । षोडशघटिकामारभ्य विंशतिघटिकापर्यन्तं मध्यन्दिनं तत्र मामरीन्द्रपाणिः चक्रहस्तो विष्णुख्यात् ॥ १८ ॥ भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी । E * अथ नारायणवर्माह । ॐमिति । ‘ब्रवत्येनः कृतं पूर्वम्’ इति यास्को तेर्मन्त्रादावोंकारः । प्रथमं शरणागतगजेन्द्र- रक्षणायावतीर्ण श्रीहर्यवताररूपं श्रीनारायण गजेन्द्रवत स्वरक्षणाय प्रार्थयते । हरिरिति । पतगेन्द्रपृष्ठे गरुडपृष्ठप्रदेशे, न्यस्ते अपि येन सः, दरः शङ्खश्च अरि चक्रं च चर्म खेटच असिः खङ्गश्च गदा च इषवो बाणाश्च चापं धनुश्च पाशश्च तान्, दधानो बिभ्रत्, अष्टौ गुणा अणिमादयो यस्य सः, नित्याविर्भूतनिरुपाधिकापहतपाप्मत्वाद्यष्टगुणको वा । अष्टौ बाहवो यस्य सः, हरिः स्वाश्रितार्त्तिहर्ता गजेन्द्ररक्षको भगवान् मम सर्वरक्षां सर्वतः परित्राणं विदध्यात् कुर्यात् । एवं मन्त्रजापक- पुरुषगतं प्रार्थयितृत्वं स्वस्मिन्नारोप्य प्रार्थयते इति भावः ॥ ११ ॥ * * एवं हरेः सामान्यतो रक्षाविधानं प्रायथ जलस्थलादिप्रवेशभेदेन रक्षणोपयुक्त मत्स्यादिमूर्त्तिधरं श्रीमन्नारायणं प्रार्थयते । जलेष्विति । यादोगणेभ्यः, यादसां गणरूपादि- त्यर्थः । वरुणस्य पाशात्, संख्याविभेदेऽपि एकविभक्तयन्तन्वाद्विशेष्यविशेषणाभावः । मत्स्यमूत्तिः भगवान, मां जलेषु, रक्षतु मत्स्य मूर्त्तेर्हरेर्दुष्टजलचरप्रतिभटत्वात् । स्थलेषु निर्जलप्रदेशेषु, मायाबदुः स्वसंकल्पस्वीकृत बटुवामन स्वरूपः, वामनः माम् अव्यात् । वामनस्य मायाबटुत्वेन तस्य स्थलजदुष्ट्रशास्तृत्वसंभवात् । खे अन्तरिक्षे त्रयो विक्रमाः पदविन्यासाः यस्य सः, अत एव विश्वरूपः कृत्स्नविश्वव्यापनरूपः, माम् अवतु । विश्वरूपस्य तस्य खादिसंचरिष्णुदु ष्टशास्त्रत्वात् ॥ १२ ॥ * * दुर्गेष्विति । अटव्यरण्यं च आजिमुखं युद्धोपक्रमश्च ते आदी येषां तेषु, दुर्गेषु संकटस्थानेषु, प्रभुः समर्थः, असुरयूथपारिः असुरसेनानायकानामरिः, यस्य नृसिंहस्य, महाट्टाहासमतिशयितमट्टहासं, विमुञ्चतः सतः दिशः विनेदुः प्रतिदध्वनुः । गर्भाश्च असुरस्त्रीणामिति शेषः । न्यपतन् सस्रंसुः । एवंभूतः नृसिंहः, पायात् मां रक्षतु । नृसिंहस्य स्वभक्तप्रतिभटनिरसनशील- त्वात् ॥ १३ ॥ * * रक्षत्विति । यज्ञैः कल्प्यते इति यज्ञकल्पः यज्ञावयकत्वेनोपास्यः । स्वदंष्ट्रया करणेन, उन्नतोद्धृता धरा भूमिर्येन सः । असौ प्रसिद्धः, वराहो वराहमूर्त्तिर्भगवान्, मा माम् अध्वनि मार्गे रक्षतु । तस्यैव स्वाध्वाभिमुखागतदुष्कृ- द्धिरण्याक्षस्य निहन्तृत्वात् । अद्रिकूटेषु पर्वतशिखरेषु, रामो जामदग्न्यो भगवान्, अथ कार्त्स्न्येन रक्षित्विति शेषः । अद्रिकूटेषु बिलीयावस्थितदुष्कृतनृपहननस्य तत्कृतत्वात् । विश्वासे परदेशगमनदशायां, सलक्ष्मणः भरताग्रजः रामः स्वयं दाशरथि - भगवान, अस्मान अदयाद्रक्षतु । जन्ममरणादिनिरासकनानो देशान्तरस्थरावणादिदुष्कृन्निहन्तुर्दाशरथेरेवात्र समर्थ- त्वात् ॥ १४ ॥ मामिति । उम्रधर्मादभिचारादेः, तथा अखिलात् प्रमादादनवधानतायाः, नारायणः मां पातु । यत्तपोतिशय दर्शनशङ्किवेन्द्र प्रेरिताभिचारकर्मात्मक कामादिकृते ऽपचारेऽप्रमादवत्तया वर्त्तनस्य मूर्त्तिमुतनारायणे एव सत्त्वात् । उत्तविधसामर्थ्यवान् मूर्त्तिसुतः स्वयं नसे भगवानपि, हासादुन्मादजाद्गर्वात् पातु । एकेषिकाचेपनिवारितदम्भोद्भव- २६२ । [ स्कं. ६ अ. ८ श्लो. ११-२० गर्वत्वेक्षया तस्यैव गर्वप्रतिभटत्वात् । दत्तः दत्तात्रेयो भगवांस्तु, अयोगान्नारायणस्मरणादौ वैकल्पतापादकयोगविरोधिवर्गात्, योगभ्रंशाद्वा, पायात् । चतुर्विंशतिगुरुप्रदर्शनपूर्वं योगविरोधिनिरसनत्वस्य तस्मिन्नेव सत्त्वात् । अथेति प्रार्थनान्तरसंरम्भद्योत - कमव्ययम् । योगनाथः, योगेश्वरः, गुणेशः गुणनियन्ता, पाठान्तरे सकलसिद्धगणानामीशः । यद्वा गणयन्तीति गणाः प्रकृति- महदादितत्त्वानां याथात्म्यविवेचनेन गणयितारः सांख्यास्तेषामीशः कपिल: कई मसूनुर्भगवान्, कर्मबन्धात् दुरितकर्मबन्धनतः, पायात् । ज्ञानप्रदानेन कर्मबन्धनिरासकत्वे तस्यैव प्रवृत्तत्वात् ॥ १५ ॥ * सनत्कुमार इति । कामदेवात् मदनात्, सनत्कुमारः भगवान्, माम् अवतु । तस्यास्पृष्टकामत्वात् । पथि देवहेलनात्, मार्गे व्रजतो देवमन्दिरं दृष्ट्वा स्वधर्मरक्षणपूर्व मन्दिरस्थशिवादिदेवदर्शननस्करणमकृत्वा गमनरूपदेवतानादररूपापराधत इत्यर्थः । हयशीर्ष : हयशिराः भगवान्, माम् अवतु । वेदापहरणादिना चतुर्मुखानादरकृतां मधुकैटभादीनां तेनैव हन्तृत्वात् । हयशीर्षेत्यपि पाठः । पुरुषस्य भगवतोऽर्चन- माराधनं तस्यान्तरं छिद्रं तस्मात्, द्वात्रिंशदपराधरूपादित्यर्थः । अपराधविवेचनं तु शिक्षापत्र्याः षट्पञ्चाशत्तमश्लोकस्यार्थ - दीपिका टीकातोsवगन्तव्यमथवा रामार्चनचन्द्रिकायाञ्चतुर्थपटलाद्बोध्यम् । देवर्षिवर्यो नारदः माम् अवतु । तस्यैवाविच्छिन्न- भगवदाराधनपरत्वात् । कूर्मः हरिः, अशेषात् निरयात् नरकत्रातादित्यर्थः । माम् अवतु । अधोमज्जन्मन्दराद्रधुद्धारकस्याश्रिता- र्त्तिहरस्या स्याधो मज्जनोद्धारविधानस्याकिंचित्त्वात् ॥ १६ ॥ * धन्वन्तरिरिति । भगवान् सर्वामयविनाशनाद्यैश्वर्यभाकू, धन्वन्तरिः, अपथ्यात् शरीररोगजनकात्पथ्यभिन्नान्नाद्यशनादेः पातु मां रक्षतु । पुरुरुनुरुजां यन्नामस्मरणमात्रनिर्वतकत्वात् । निर्जित आत्मा मनो येन सः, वशीकृतसमनस्केन्द्रियग्राम इत्यर्थः । ऋषभः भगवान्, द्वन्द्वात् क्षुत्पिपासाशीतोष्णादिजात, भयात् पातु । स्वतो द्वन्द्वसहिष्णोः स्वाश्रितानां ततस्त्राणविधानस्यादुष्करत्वात् । यज्ञो भगवांश्च, लोकाज्जनापवादात् पातु । ‘सर्व पाप्मानं तरति ब्रह्महत्यां योऽश्वमेधेन यजेत’ इति श्रुतौ यज्ञेन सर्वपापनाशोक्तेर्यज्ञमूर्त्तेस्तस्य जनापवादनिवर्त्तनस्याकिंचित्त्वात् । बलो बलभद्रो भगवान्, जनान्तात् जननिमित्तो योऽन्त उपघातस्तस्मात् कृतान्तादिति पाठे मृत्योः पातु । बलभद्रस्य रुक्म्या - दिकृतोपघाताक्षमत्वात् । क्रोधवशाख्यात् सर्पाणां गणात्, अहीन्द्रः शेषो भगवान्, अवतात् । ‘जातिर्जात्यैव संप्राया’ इति न्यायात् सर्पवपुर्धरस्य शेषभगवत एव तन्नियम्यत्वात् ॥ १७ ॥ * * द्वैपायन इति । अप्रबोधादज्ञानात्, भगवान् ज्ञानप्रदानादिम हैश्वर्ययुक्तः, द्वैपायनः साक्षाद्वेदव्यासो हरिः, प्रपातु मां प्रकर्षेण रक्षतु । द्वैपायनस्य परमात्मात्मादिस्वरूप- बोधनेन जनज्ञानापनोदनार्थावतारत्वात् । प्रमादात् मोहजनकात्, पापण्डगणात् पाखण्डानां वृन्दात् बुद्धः भगवान्, प्रपातु । बुद्धस्य पाखण्डिस्वरूपप्रदर्शनपूर्व ततः स्वीयत्राणसमर्थत्वात् । धर्मस्यावनं सर्वथा परित्राणं तस्मै, उर्वधिकं यथा कृतोऽ- वतारो येन सः । कल्किः भगवान्, कालमलात् कृतादियुगकालस्य मलभूतात्, कलेः प्रपातु । कालमलकलिदोषहरत्वे कल्कि - भगवतः समर्थत्वात् ॥ १८ ॥ * ४ दिनस्य षड्भागात्मकप्रातरादिकालेषु केशवादिमूर्त्तिभ्यो रक्षाः प्रार्थयते । मामिति । । गदया युक्त इति शेषः । केशवः मां प्रातः अव्यात् । आत्तः पाणी विधृतः वेणुर्येन सः, गोविन्दः आसंगवं संगवकालमभिव्याप्यं, माम् अव्यात् अत्र संगव उद्यानन्तरः काल इत्येके । गोष्ठेभ्यो निर्गत्य यदैकत्र गावः संयुज्यन्ते स काल आसंगव इत्यन्ये । सूर्योदयानन्तरं षड्घटिकात्मकः प्रातः कालः, तदनन्तरं षड्घटिकात्मकः कालः, संगव इति तु वयम् । प्राह्णे पूर्वाह्न, उन्नत्तोद्धृता शक्तिरायुधविशेषों येन तथाभूतः, नारायणः अव्यात् । मध्यंदिने मध्याह्ने, अरीन्द्रश्चक्रधरः पाणौ यस्य तथोक्तः विष्णुः, अव्यात् ॥ १९ ॥ * * देव इति । उग्रं धनुर्यस्य सः, स्वतेजसा दीप्यमानः, मधुहा मधुसूदनः, अपराह्ने, माम् अवतु । सायं षड्घटिकादिनशेषात्मके काले, त्रीणि धामानि तेजोऽभिव्यक्तिस्थानानि यस्य सः ‘गामग्निं ब्राह्मणं चैव त्रीणि तेजांसि न स्पृशेत्’ इति त्रीणि तेजोऽभिव्यक्तिस्थानानि । यद्वा विराट्योगिहृदयक्षीराब्धिरूपाणि त्रीणि वामानि स्थानानि यस्य सः, त्रिधामा । ब्रह्मादित्रिमूर्त्तिरेवेत्यन्ये । माधवः माम् अवतु । दोषे प्रदोषे, हृषीकेशः माम् अवतु । अर्द्धरात्रे अर्द्धरात्रपर्यन्ते काले, निशीथे उत निशीथे च, एकः पद्मनाभ:, माम् अवतु ॥ २० ॥ 1 * भाषानुवाद : इसके बाद समग्र ऐश्वर्य, धर्म, यश, लक्ष्मी, ज्ञान और वैराग्यसे परिपूर्ण इष्टदेव भगवानका ध्यान करें और अपने को भी तद्रूप ही चिन्तन करें। तत्पश्चात् विद्या, तेज और तपः स्वरूप इस कवचका पाठ करे ।। ११ ।। * ‘भगवान् श्रीहरि गरुड़जीकी पीठपर अपने चरण-कमल रक्खे हुए हैं। अणिमादि आठों सिद्धियाँ उनकी सेवा कर रही हैं। आठ हाथोंमें शङ्ख, चक्र, ढाल, तलवार, गदा, बाण, पाश ( फंदा ) धारण किये हुए हैं। वे ही ॐ कारस्वरूप प्रभु सब प्रकारसे, सब ओरसे मेरी रक्षा करें ॥ १२ ॥ * मत्स्यमूर्ति भगवान् जलके भीतर जलजन्तुओंसे और वरुणके पाशसे मेरी रक्षा करें। मायासे ब्रह्मचारीका रूप धारण करनेवाले वामन भगवान् स्थलपर और विश्वरूप श्रीत्रिविक्रमभगवान् आकाशमें मेरी रक्षा करें ॥ १३ ॥ जिनके घोर अट्टहाससे सब दिशाएँ गूँज उठी थीं धनुष और स्कं. ६ अ. ८ श्लो. २१-३०] अनेकव्याख्यासमलङ्कृतम् র २६३ और गर्भवती दैत्यपत्नियों के गर्भ गिर गये थे, वे दैत्य-यूथपतियोंके शत्रु भगवान् नृसिंह, किले, जंगल, रणभूमि आदि विकट स्थानोंमें मेरी रक्षा करें ॥। १४ ॥ * * अपनी दादोपर पृथ्वीको धारण करनेवाले यज्ञमूर्ति वराहभगवान् मार्गमें, परशुरामजी पर्वतोंके शिखरोंपर और लक्ष्मणजीके सहित भरतके बड़े भाई भगवान् रामचन्द्र प्रवास के समय मेरी रक्षा करे ।। १५ ।। * * भगव नारायण मारण- मोहन आदि भयङ्कर अभिचारों और सब प्रकारके प्रमादोंसे मेरी रक्षा करें। ऋषिश्रेष्ठ नर गर्व से, योगेश्वर भगवान् दत्तात्रय योगके विघ्नोंसे और त्रिगुणाधिपति भगवान् कपिल कर्मबन्धनोंसे मेरी रक्षा करें ।। १६ ।। * * परमर्षि सनत्कुमार कामदेवसे, हयग्रीव भगवान् मार्गमें चलते समय देवमूर्तियोको नमस्कार आदि न करनेके अपराधसे, देवर्षि नारद सेवापराधोंसे और भगवान् कच्छप सब प्रकारके नरकोंसे मेरी रक्षा करें ।। १७ । * * भगवान् धन्वन्तरि कुपथ्यसे, जितेन्द्रिय भगवान् ऋषभदेव सुखदुःख आदि भयदायक द्वन्द्वोंसे, यज्ञ भगवान लोकापवादसे, बलरामजी मनुष्यकृत कष्टोंसे और श्रीशेषजी क्रोधवश नामक नामक सर्पोके गणसे मेरी रक्षा करें ।। १८ ।। * * भगवान् श्रीकृष्णद्वैपायन व्यासजी अज्ञानसे तथा बुद्धदेव पाखण्डियोंसे और प्रमादसे मेरी रक्षा करें । धर्मरक्षा के लिये महान् अवतार धारण करनेवाले भगवान् कल्कि पापबहुल कलिकालके दोषोंसे मेरी रक्षा करें ॥ १९ ॥ * प्रातः काल भगवान् केशव अपनी गदा लेकर कुछ दिन चढ़ आनेपर भगवान गोविन्द अपनी बाँसुरी लेकर, दोपहरके पहले भगवान् नारायण अपनी तीक्ष्ण शक्ति लेकर और दोपहरको भगवान् विष्णु चक्रराज सुदर्शन लेकर मेरी रक्षा करें ।। २० ।। ट्र
देवोsपराह्न मधुहोग्रधन्वा सायं त्रिधामावतु माधवो माम् । दोषे हृषीकेश उतार्धरात्रे निशीथ एकोऽवतु श्रीवत्सधामापररात्र ईश: प्रत्यूष ईशोऽसिधरो पद्मनाभः ॥ २१ ॥ जनार्दनः । दामोदरोऽव्यादनुसन्ध्यं प्रभाते विश्वेश्वरो भगवान् कालमूर्तिः ।। २२ ।। चक्रं युगान्तानलतिग्मनेमि भ्रमत् दन्दग्धि दन्दग्ध्यरिसैन्यमाशु कक्ष गदेऽशनिस्पर्शन विस्फुलिङ्ग निष्पिण्डि कूष्माण्डवैनायकयक्षरक्षो भूतग्रहांश्चूर्णय समन्ताद् भगवत्प्रयुक्तम् । यथा वासखो हुताशः ॥ २३ ॥ निष्पण्ठ्यजितप्रियासि । चूर्णयारीन् ॥ २४ ॥
- बत्तीस प्रकारके सेवापराध माने गये हैं— १ - सवारीपर चढ़कर अथवा पैरोंमें खड़ाऊँ पहनकर श्रीभगवान् के मन्दिर में जाना । २–रथयात्रा, जन्माष्टमी आदि उत्सवोंका न करना या उनके दर्शन न करना । ३ - श्रीमूर्तिके दर्शन करके प्रणाम न करना । ४- अशुचि- अवस्थामें दर्शन करना । ५-एक हाथसे प्रणाम करना । ६-परिक्रमा करते समय भगवान् के सामने आकर कुछ न रुककर फिर परिक्रमा करना अथवा केवल सामने ही परिक्रमा करते रहना । ७- श्रीभगवान् के श्रीविग्रहके सामने पैर पसारकर बैठना । ८-श्रीभगवान के श्रीविग्रह के सामने दोनों घुटनोंको ऊँचा करके उनको हाथोंसे लपेटकर बैठ जाना । ९ - श्रीभगवान् के श्रीविग्रहके सामने सोना । १० - श्रीभगवानके श्रीविग्रहके सामने भोजन करना । ११–श्रीभगवान् के श्रीविग्रह के सामने झूठ बोलना । १२ - श्रीभगवान के श्रीविग्रहके सामने जोरसे बोलना । १३ - श्रीभगवान् के श्रीविग्रहके सामने आपस में बातचीत करना । १४ - श्रीभगवान्के श्रीविग्रहके सामने चिल्लाना । १५ - श्रीभगवान् के श्रीविग्रह के सामने कलह करना । १६–श्रीभगवान्के श्रीविग्रहके सामने किसीको पीड़ा देना । १७ - श्रीभगवान् के श्रीविग्रह के सामने किसीपर अनुग्रह करना । १८ - श्रीभगवानुके श्रीविग्रहके सामने किसीको निष्ठुर वचन बोलना । १९ - श्रीभगवान के श्रीविग्रह के सामने कम्बलसे सारा शरीर ढक लेता । २० - श्रीभगवान्के श्रीविग्रह के सामने दूसरेकी निन्दा करना । २१ -श्रीभगवान के श्रीविग्रहके सामने दूसरेकी स्तुति करना । २२ - श्रीभगवान्के श्रीविग्रहके सामने अश्लील शब्द बोलना । २३ - श्रीभगवान्के श्रीविग्रहके सामने अधोवायुका त्याग करना । २४ - शक्ति रहते हुए भी गौण अर्थात् सामान्य उपचारोंसे भगवान्की सेवा पूजा करना २५ - श्रीभगवान्को निवेदित किये बिना किसी भी वस्तुका खाना-पीना । २६ - जिसॠतुमें जो फल हो, उसे सबसे पहले श्रीभगवान्को न चढ़ाना । २७ - किसी शाक या फलादिके अगले भागको तोड़कर भगवान्के व्यञ्जनादिके लिये देना । २८ - श्रीभगवान् के श्रीविग्रहको पीठ देकर बैठना । २६ - भगवान्के विग्रहके सामने दूसरे किसीको भी प्रणाम करना । ३० - गुरुदेवकी अभ्यर्थना, कुशल- प्रश्न और उनका स्तवन न करना । ३१ - अपने मुख से अपनी प्रशंसा करना और ३२ – किसी भी देवताकी निन्दा करना । १. प्रा० पा० वायु० 1 २६४ श्रीमद्भागवतम् कोणत्वं यातुधानप्रमथप्रेतमातृपिशाचविप्रग्रहघोरदृष्टीन् । सिर्फ शहर FIR [ स्कं. ६ अ. ८ श्लो. २१-३० दरेन्द्र विद्रावय कृष्णपूरितो भीमस्वनोऽरेर्हृदयानि कम्पयन् ॥ २५ ॥ त्वं तिग्मधारासिवरारिसैन्यमीशप्रयुक्तो मम छिन्धि विधि | चक्षूंषि चर्मञ्छतचन्द्र छादय द्विषामघोनां हर पापचक्षुषाम् ॥ २६ ॥ यत्रो भयं ग्रहेभ्योऽभूत् केतुभ्यो नृभ्य एव च । सरीसृपेभ्यो दंष्ट्रिभ्यो भूतेभ्योऽहोभ्य एव वा सर्वाण्येतानि भगवन्नामरूपास्त्रकीर्तनात् । प्रयान्तु संक्षयं सद्यो ये नः श्रेयः प्रतीषकाः ॥ गरुडो भगवान् स्तोत्रस्तोभश्छन्दोमयः प्रभुः । रक्षत्वशेषकृच्छ्रेभ्यो विष्वक्सेनः स्वानामभिः सर्वापद्भ्यो हरेर्नामरूपयानायुधानि नः । बुद्धीन्द्रियमनः प्राणान् पान्तु पार्षदभूषणाः PP कक प्रा TOTE MEER FE कृष्णप्रिया व्याख्या FIFT का AFTE ॥ २७ ॥ २८ ॥ ॥ २९ ॥ ॥ ३० ॥ अन्वयः – उग्रधन्वा मधुहा देवः अपराह्ने त्रिधामा इषीकेशः दोषे उत एकः पद्मनाभः माधवः सायं माम् अवतु
निशीथे अर्धरात्रे अवतु ॥ २१ ॥ श्रीवत्सधामा ईशः अपररात्र असिधरः ईशः जनार्दनः प्रत्यूषे दामोदरः प्रभाते भगवान् कालमूर्तिः विश्वेश्वरः अनुसंध्यम् अव्यात ।। २२ ।। * * युगान्तानलतिग्मनेमि भगवत्प्रयुक्तं समन्तात् भ्रमत् चक्रं यथा वातसखः हुताशः कक्षम् आशु अरिसैन्यं दन्दग्धि दन्दग्धि ।। २३ ॥ * * अशनिस्पर्शनविस्फुलिङ्ग गढ़े अजितप्रिया असि कूष्माण्डवैनायकयक्षरक्षोभूतग्रहान् निष्पिण्टि निष्पिष्ट अरीन चूर्णय चूर्णय || २४ ॥ * दरेन्द्र कृष्णपूरित: भीभस्वनः त्वम् अरेः हृदयादि कंपयन् यातुधानप्रमथप्रेतमातृपिशाचविप्रग्रहघोरदृष्टीन विद्रावय ।। २५ ।। * तिग्मधार असिवर ईशप्रयुक्तः त्वं मम अरिसैन्यम् छिन्धि छिन्धि शतचन्द्र चर्मन् अघोनां द्विषां चक्षूंषि छादय पापचक्षुषां हर ।। २६ ।। * * यत् श्रहेभ्यः केतुभ्यः च नृभ्यः एव सरीसृपेभ्यः दंष्ट्रिभ्यः भूतेभ्यः वा अंहोभ्यः एव नः भयम् भगवन्नामरूपाखकीर्तनात् सद्यः संक्षयम् अभूत् ।। २७ ।। * * ये नः श्रेयः प्रतीपकाः सर्वाणि एतानि प्रयान्तु ।। २८ ।। * * भगवान् स्तोत्रस्तोभः छन्दोभयः प्रभुः गरुडः विश्वक्सेनः स्वनामभिः अशेषकृच्छ्रेभ्यः रक्षतु ।। २९ ।। * हरेः नामरूपयानायुधानि पार्षदभूषणाः नः बुद्धीन्द्रियमनः प्राणान् सर्वापद्भयः पान्तु ॥ ३० ॥ SME CAREFER THREE FAY श्रीधरस्वामिविरचिता भावार्थदीपिका । । T । * त्रिधामा ब्रह्मादित्रिमूर्त्तिः श्रीमाधवः । दोष प्रदोषे हृषीकेशोऽवतु आर्धरात्रे अर्धरात्रिपर्यंते काले निशीथे चैक एव पद्मनाभोऽवतु ।। २१ ।। * अपररात्रे ईशः श्रीवत्सधामाऽवतु । प्रत्यूष ईशः श्रीजनार्दनः अव्यात् । श्रीदामोदरः प्रभाते । श्रीविश्वेश्वरोऽनुसंध्यम् ।। २२ ।। * * युगांतानलवत्तिग्मा तीक्ष्णा नेमिर्यस्य तचक्रं भगवता प्रयुक्तं सदरिसैन्यं दग्धि दग्ध्यतिशयेन दहति तस्यायं स्वभाव एव न तु तस्मात्प्रार्थनीयमित्यर्थः । यद्वा ददग्धीति लोण्मध्यमपुरुषः । अत्र त्वमेवंभूतं चक्रमिति स्वरूपमुक्त्वा संबोध्य प्रार्थ्यतेऽतिशयेन दहेति । कक्षं शुष्कतृणम् ॥ २३ ॥ अशनिवत्स्पर्शो येषां ते विस्फुलिंगा यस्याः तस्याः संबोधनं हे गर्दा त्वमजितस्य प्रियाऽसि अहमच्युतस्य दासः अतः कूष्मांडादीन्निष्पिढि निष्पिढि संचूर्णय संचूर्णय । अरीश्च चूर्णय चूर्णय । सर्वत्र वीप्सातिशीघ्रत्वाय ।। २४ ।। हे दरेंद्र पांचजन्य त्वं यातुधानादीन्विद्रावय । विप्रग्रहा ब्रह्मराक्षसा येऽन्ये च घोरदृष्टयस्तान् ॥ २५ ॥ * * तिग्मा धारा यस्य हे तिग्मधार असिवर खङ्गश्रेष्ठ । त्वं ममारिसैन्यं छिंधि छिंधि । शतं चंद्राकाराणि मंडलानि यस्मिन्हे शतचन्द्र चर्मन् अघोनामघवतां द्विषां चक्षूंषि छादय पापचक्षुषां चोम दृष्टीनां चक्षूंषि हर ॥ २६ ॥ यत् येभ्यो भयम् । अहोभ्यः पापेभ्यः ।। २७ ।। * * श्रेयः प्रतीपका इष्टव्याघातकाः ॥ २८ ॥ * स्तोत्राणि बृहद्रथंतरादिसामानि तैः स्तोभ्यते संस्तूयत इति स्तोत्रस्तोभः ।
- छंदोमयो वेदमूर्त्तिः । “सुपर्णोऽसि गरुत्मान” इत्यादिश्रुतेः। ऐकपद्यपाठे स्तोभा गीतिपूरकाक्षराणि । स्तोत्रस्तोमेति पाठे सामा- धारभूतऋकस्तोमः ।। २९ ।। * * नामानि च रूपाणि च यानानि च वाहनानि आयुधानि च नो बुद्धयादीन् पातु । पार्षद भूषणा: पार्षद मुख्याश्च पातु ॥ ३० ॥ १. प्रा० पा०—भ्यो घोरेभ्य एव च । । स्क. ६ अ. लो. २१-३० ] ि 1 अनेकव्याख्यासमलङ्कृतम् वंशीधरकृतो भावार्थदीपिकाप्रकाशः । ।
२६५ एकविंशतिघटिकामारभ्य पंचविंशतिघटिकापर्यतमपराह्नस्तत्र मधुहा मधुसूदनः । षड्विंशतिघटिकामारभ्य त्रिंशद्ध- टिकापर्यंत सायं तंत्र त्रय: सच्चिदानंदा धामानि खरूपाणि यस्य सः । संदर्भस्तु - प्रातरादयः काला एवं युज्यंते प्राहास्तावद्दि- rer four fart प्रथमो भागः । प्रातस्संगवौ तस्यांशादेव । मध्याह्नो मध्यभागः तृतीयभागस्तु पराह्नः । सायं संध्याभ्याम- वांतरभेदभिन्नः । रात्रौ च प्रदोषः प्रथमभागः । मध्यमभागो निशीथः । अर्द्धरात्रं तु तत्रापि मध्यमघटिकाद्वयम् । अपररात्रस्तु । तृतीयो भागस्तस्यैवांतिमांशद्वयं प्रत्यूषप्रभातसंज्ञम् । यथा संध्याश्च तदवांतरभेदा अपि पृथग्गण्यते इति । क्रमगणनया तु मध्याह्ना- द्यतिक्रमापत्तेः प्राहस्तु स्मृतौ न भिन्नत्वेन गण्यते । तथाहि– “मुहूर्त्तत्रितयं प्रातस्तावानेव तु संगवः । मध्याह्नस्त्रिमुहूतथापर- रात्रोऽपि तादृशः । सायाह्रस्त्रिमुहूर्तः स्यात्सर्वकर्मसु गर्हितः ।” इति ॥ २१ ॥ षोढा विभक्तां दिवसरक्षामुक्त्वा पंचधा विभक्तरात्रिरक्षामाह दोषे रात्रैश्चतुर्थघटिकापर्यंत प्रदोषस्तत्र पंचघटिकामारभ्य चतुर्दशघटिकापर्यंत मर्द्धरात्रमंतभाग- स्यार्द्धरात्रत्वात्तत्र पंचदशषोडशघटि के निशीथस्तत्र श्रीवत्सो धामनि शरीरे यस्य । निशोथादूर्ध्वमरुणोदयात्प्राक् अपररात्रः । प्रत्यषे रात्रिशेषे घटिकाचतुष्टये । अनुसंध्यं दिनरात्रिसंध्ययोः । प्रभाते प्रकृष्टप्रकाशे ।। २२ ।। इत्यर्थ इति । न ह्यग्निर्दहनार्थं प्रार्थ्यते तस्य दहनस्वभावत्त्वादिति भावः । संभवत्वादाह-यद्वेति । संबोध्य हे समंतात् भ्रमणशीलेति संबोधनं कृत्वा ददग्धीति वीप्साप्रार्थनायां शैघ्रये च ।। २३ ॥ * अशनिर्वज्रम् । विस्फुलिंगा अग्निकणाः । यश्च केनापि न जीयते सोजस्तस्य त्वं प्रियासि । अतोऽजप्रियत्वादेव । तस्य वासस्य मे कूष्मांडादीन द्रगणभेदान् । कुं भूमिमूष्मणाऽमति- तापतयतीति कूष्मांडः । अनुनासिकांतत्वादौणादिको ड ‘अम-रोगे’। विनानां नायको विनायकः स एव वैनायकः प्रबलतरविघ्नः । यक्षा यजते संगच्छते कुबेरेणेति निरुक्तेरुपदेवगणाः । एवं रक्ष्यते यज्ञादिर्यतस्तानि रक्षांसि । अभूवत्र द्र- सेवार्थमिति भूतानि गृह्णन्ति बालवृद्धादीनि ग्रहाः पूतनादयो यक्ष्मादयश्च ।। २४ ।। * * यातूनि रक्षांसि दधति पुष्णंतीति यातुधाना रक्षसां स्वजातिपोषकत्वाद्राक्षसा एव । प्रकर्षेण मध्नंति शुद्धिमिति प्रमथा रुद्रपार्षदाः । प्रेता दुष्कर्मणा दुर्गति प्राप्ता जीवाः । पिशाचस्तेषामवांतरभेदः । मातरो हि ब्राह्म्यादिभिन्ना रुद्रगणान्तर्गताः स्त्रियो विकृतरूपास्ताश्च महाभारते स्कंदा- विर्भावोपाख्याने वर्णिता विस्तारभियेह नोक्ताः । दृणाति स्वशब्देन विदारयति दुष्टमनांसीति दरः शंखः स चासाविन्द्रः । श्रेष्ठश्चेति दरेन्द्रः कृष्णेन पूरितो वादितः धातूनामनेकार्थत्वात्पूरी वादनेऽपीति । भीमो भयजनकः स्वनो यस्य सः ||२५|| * * ईशेन प्रयुक्तश्चालितः । शतं चंद्राचंद्राकारा यत्र तत्संबुद्धौ ॥ २६ ॥ केतुभ्य इति बहुत्वोक्तेः सहस्रं केतवो ज्ञेयास्ते च – । ज्योतिः कल्पतरावुक्ताः – पञ्चविंशतिः प्रागपरदृश्या रविजाः २५ | चंद्रजा उत्तरदृश्याः स्त्रयः ३ । भौमपुत्रा उत्तरदृश्याः षष्टिः ६० | बुधपुत्राः सर्वदिग्दश्या एकपंचाशत् ५१ । एवम् १३९ । गुरुपुत्राः पंचषष्टिः ६५ । याम्यदृश्या: । शुक्रपुत्राश्चतुर- शीतिः ८४ पुरोदृश्याः । एवं १४६ । पूर्वेण सह २८८ । शनिपुत्राः षष्टिः ६० । पश्चिमदृश्याः । राहुपुत्राः रविचंद्र मंडलदृश्या- स्त्रयस्त्रिंशत् ३३ । अग्निपुत्राः पञ्चविंशतिरग्निदिग्दृश्याः २५ । एवं ११८ | पूर्वेण सह ४०६ । मृत्युपुत्राः पञ्चविंशतिर्याम्यदिग्दृश्याः । २५ । भूमिपुत्रा द्वाविंशतिरीशदिग्दृश्याः २२ । एको ब्रह्मपुत्रः १ । सर्वदिग्दृश्यः । पुनरग्निपुत्रा विंशत्यधिकशतम् १२० अग्निदि- ग्दृश्याः । वायुपुत्राः सप्तसप्ततिर्वायुदिग्दृश्याः ७७ । प्रजापतिपुत्रा अष्ट में तारामंडलगाः । पुनर्ब्रह्मपुत्राश्चतुरधिकशतम् १०४ । वरुणपुत्रा द्वात्रिंशत् ३२ । स्वदिग्दृश्याः । षण्णवतिः कालपुत्रा ९६ याम्यदृश्या: । नव विदिक्पुत्रा ९ विदिग्दृश्या भवन्ति । एवं सहस्रं केतवः सपुच्छास्ताराविशेषा एव प्रायो लोकदुःखावहास्ते इति ।। २७-३० ।। अन्वितार्थप्रकाशिका द्वैपायन इति । अप्रबोधादज्ञानान्मां द्वैपायनो वेदव्यासो भगवान् प्रपातु । बुद्धस्तु पाखण्डगणाद्वेदविरुद्धाचार- समूहात् प्रमादाद्वेदविहिताचारे आलस्यादिना प्रवृत्त्यभावाच्च मां प्रपातु । धर्मस्यावनाय रक्षणाय उरवो बहवः कृता अबतारा येन स कल्किः कालमलभूतात्कलेः सकाशान्मां प्रपातु ।। १७ ।। * दिनस्य रात्रश्च षट्षभागेषु रक्षाप्रार्थनम्- मामिति । तत्र दिनस्य रात्रेश्च षष्ठो भागः त्रिंशद्घटिकामिते दिनमाने पञ्चघटिकात्मकः न्यूनेऽधिके वाऽनुपातात् तत्र प्रात: दिनस्य प्रथमे भागे मां गदया युक्तः केशवो ऽव्यात् । आसङ्गत्वं द्वितीयो भागः सङ्गः तमभिव्याप्य माम् आत्तवेणु: गृहीत - वेणुर्गोविन्दोऽव्यात् । तृतीयो भागः प्राहस्तत्र गृहीतशक्तिर्नारायणोऽव्यात् । चतुर्थो भागः मध्यंदिनं तत्र मामरीन्द्रपाणि: । चक्रहस्तो विष्णुरख्यात् ॥ १८ ॥ * * देव इति । पञ्चमो भागोऽपराह्नस्तत्र मामुग्रं दैत्यभयङ्करं शाङ्गख्यं धनुर्यस्य स देवो देवपक्षपाती मधुहा मधुसूदनोऽवतु । षष्ठों भागः सायं तत्र मां त्रिधामा ब्रह्मादित्रिमूर्त्तिः माधवोऽवतु । रात्रौ प्रथमो । । ३४ २६६ श्रीमद्भागवतम् [स्कं ६ अ.लो. २१-३० भागः प्रदोषस्तत्र हृषीकेशोऽवतु । उत अपि अर्द्धरात्रे द्वितीये भागे तथा निशीथे तृतीये भागेऽपि एक: पद्मनाभ एवा- वतु ॥ १९ ॥ * * श्रीवत्सेति । अपररात्र चतुर्थे भागे श्रीवत्सो रोमावर्त्तचिह्नविशेषो धामनि स्वविग्रहे वक्षःस्थले यस्य स ईशो मामव्यात् । प्रत्यूषे पञ्चमे भागे जनानामविद्यामर्दयतीति जनार्दन ईशोऽसिधरः सन् मामव्यात् । प्रभाते षष्ठे भागे दामोदरोऽव्यात् । प्राह्णादिशब्दानां कचित् किंचिद्भिन्नार्थवाचकत्वेऽप्यत्र तत्तद्भागपरतया विवक्षा । अनुसन्ध्यं प्रति- सन्ध्यं दिनरात्रिसन्ध्ययोः कालमूर्त्तिर्विश्वेश्वरो भगवान् मामव्यात् ॥ २० ॥ * * चक्रमिति । युगान्तानलस्येव तिग्मा तीक्ष्णत्वेनातिभयङ्करा नेमिर्यस्य तत् भगवता प्रयुक्तं प्रेरितं चक्रं समन्तादस्मत्सर्वतो भ्रमत्सदस्मदरिसैन्यमाशु दन्दग्धि दन्दग्धि गर्हितं दहति । तस्यायं स्वभाव एव न तु तस्मात्प्रार्थनीयमित्यर्थः । दहतेर्यङ्लुकि लट् । यद्वा । त्वमेवंभूतं चक्रमसि अतोऽरिसैन्यं गर्हितं दहेति लोप्मध्यमैकवचनम् । कक्षं शुष्कतृणं यथा वातोद्भूतो हुताशोऽग्निर्दहति तद्वदित्यर्थः ॥ २१ ॥ गढ़े इति । अशनिवत्स्पर्शनं येषां ते विस्फुलिङ्गा यस्यास्तस्याः सम्बोधनं हे गदे ! त्वमजितस्य भगवतः प्रियाऽसि अहं च तस्य दासः अनेन कर्त्तव्यस्यावश्यकत्वं सूचितम् । अतस्त्वं कूष्माण्डादीन्निष्पिण्डि निष्पिण्टि संचूर्णय संचूर्णय । अन्याननुक्तांश्चस्म- दरीन चूर्णय चूर्णय । सर्वत्र वीप्सा अतिशीघ्रत्वाय ॥ २२ ॥ * * त्वमिति । हे दरेन्द्र पाञ्चजन्य ! त्वं कृष्णेन पूरितो मुखवायुपूरणेन चादितः अत एव भीमः स्वनः शब्दो यस्य तथाभूतः सन् यातुधानादीनामन्यस्य च ममारेर्हृदयानि कम्पयन् तान् विद्रावयेति । यातुधानाः राक्षसाः प्रमथादयो रुद्रगणविशेषाः विप्रग्रहाः ब्रह्मराक्षसाः ये चान्ये घोरदृष्टय- स्तान् ॥ २३ ॥ * * त्वमिति । तिग्मा तीक्ष्णा धारा यस्य तत्सम्बोधनं हे तिग्मधार ! हे असिवर खड्गश्रेष्ठ ! त्वमीशेन भगवता प्रयुक्तो ममारिसैन्यं छिन्धि छिन्धि शतचन्द्राकाराणि मण्डलानि यस्मिंस्तत्सम्बोधनं हे शतचन्द्र चर्मन् ! अघोनाम- घवतां संप्रसारणमार्षम् । द्विषां चक्षूंषि छादय पापचक्षुषां च उग्रदृष्टीनां चक्षूंषि हर ।। २४ ।। * * यदिति युग्मम् । नोऽस्माकं यद्भयं प्रहेभ्य आदित्यादिभ्यो नवभ्योऽभूत् यच्च भयं केतुभ्यः- उल्कापातादिभ्योऽभूत् राहुभ्रातृकेतोः ग्रहान्तर्भूतत्वात् नृभ्यो दुष्टमनुष्येभ्य एव वा यद्भयमभूत् यद्भयं सरीसृपेभ्यः सर्पवृश्चिकादिभ्योऽभूत् यत्तु भयं दंष्ट्रिभ्यो व्याघ्रसिंहादिभ्योऽभूत् यच्च भयं भूतेभ्यः प्रेतादिभ्यः । यद्वा । पञ्चमहाभूतेभ्यो जलाग्निविद्युदादिभ्योऽभूत् यच्च भयमहोभ्यः पापेभ्य एव वाऽभूत् एतानि सर्वाणि भयानि ये चान्ये नोऽस्माकं श्रेयसां च प्रतीपकाः व्याघातकाः ते च । तत्करोतीति ण्यन्तात्प्रतीपशब्दात् ण्वुल् । भगवतो नामानि रूपाणि अस्त्राणि च तेषाँ कीर्त्तनात् सय तत्क्षणमेव सम्यक् पुनरुत्पत्तिराहित्यं यथा भवति तथा क्षयं प्रयान्तु ।। २५-२६ ॥ * * गरुड इति । स्तोत्राणि बृहद्रथन्तरादिसामानि तैः स्तोभ्यते संस्तूयत इति स्तोत्र स्तोभः छन्दोमयो वेदमूर्तिः । ऐकपद्यपाठे स्तोभाः गीतिपूरकाक्षराणि । स्तोत्रस्तोमच्छन्दोमय इति पाठे तु स्तोत्रस्तोमः सामाधारऋक्स- मूहस्तल्लक्षणं छन्दः सामवेदस्तन्मयः भगवान् प्रभुः एवंभूतो गरुडो मामशेषकृच्छ्रेभ्यः सर्वदुःखेभ्यो रक्षतु । तथा विश्वकू सर्वतः सेना यत्य स भगवान् स्वनामभिरशेषकृच्छ्रेभ्यो रक्षतु । विष्वक्सेनः पार्षदविशेषो वा ।। २७ ।। * * सर्वेति । हरेर्नामानि च रूपाणि यानानि वाहनानि आयुधानि च तानि सर्वापद्धयो नो बुद्धीन्द्रियमनः प्राणान् पान्तु । तथा पार्षद भूषणा : भगवत्पार्षद मुख्याश्च नो बुद्धधादीन् पान्तु ।। २८ ।। वीरराघवव्याख्या है उम्र धनुर्यस्य स मधुहा मधुसूदनः स्वतेजसा दीप्यमानः अपराह्न त्रीणि धामानि तेजांस्यभिव्यक्तिस्थानानि यस्य " गामग्निं ब्राह्मणं चैव त्रीणि तेजांसि न स्पृशेत्” इत्युक्तत्रीणि तेजांस्यत्र विवक्षितानि । यद्वा । योगिहृदयक्षीराब्धिरूपाणि त्रीणि धामानि स्थानानि यस्य सः । माधवः सायङ्काले मामवतु । दोषे प्रदोषे हृषीकेशः । अर्द्धरात्रपर्यन्तकाले निशीथे चैकः पद्म- नाभोऽवतु ।। २१ ।। * अपररात्रे श्रीवत्सचिह्नः ईर्लक्ष्मीस्तस्या ईशः श्रीधरः पातु प्रत्यूषे असिधरः खगघरो जनार्द्दनः पातु । अनुसन्ध्यं प्रतिसन्ध्यं दामोदरः पातु । भगवान् कालशरीरको विश्वनियन्ता पातु । अत्र केशवादिद्वादशमूर्तीनां मध्ये वामनत्रिविक्रमयोर्मायावटुवामनोऽव्यात् त्रिविक्रमः खेऽवत्विति रक्षकत्वेन प्रार्थितत्वात्तयोरत्रानुक्तिः । नारायणमूर्त्तेरुक्तत्वेऽप्या- युधविशेषविशिष्टस्यात्र रक्षितृत्वं प्रार्थ्यत इति न पौनरुक्तथम् । क्रमस्त्वविवक्षितः । प्रातः प्रत्युषप्रभातशब्दा भूतभविष्यद्वर्त्तमान- दिनावयवप्रातः कालपराः॥ २२ ॥ * * अथ भगवतोऽस्त्राण्यरिष्टनिरासकत्वेन । प्रार्थयते । चक्रमित्यादिना । युगान्ता- शनिवत्तीक्ष्णा नेमिर्यस्य तञ्चक्रं भगवता प्रयुक्तं सदरीणां सैन्यं दन्दग्धि अतिशयेन दहति । अरिसैन्यदाहकत्वं तस्य स्वभाव एवेति न तत् प्रार्थनीयमिति प्रथमपुरुषनिर्देशः । दहने दृष्टान्तः । वायुसहायोऽग्निः कक्षं शुष्कं तृणं यथेति ॥ २३ ॥ * ४ अशनिवत् स्पर्शो येषां ते विस्फुलिङ्गाः यस्यास्तस्याः सम्बोधनं हे गदे ! त्वमजितस्य भगवतः प्रियास्यहं च तस्य दासः । अतः कूष्माण्डा- दीन् निष्पिण्डि निष्पिण्ढि आभीक्ष्ण्ये द्विर्वचनमतिशीघ्रत्वद्योतनाय वीप्सायां वा । पुनः पुनर्नितरां पेषयेत्यर्थः । तथारीन् शत्रून 8 अनेकव्याख्यासमलङ्कृतम् 4. २६७ स्कं. ६ अ.लो. २१-३०1 पुनः पुनश्चूर्णय ।। २४ ।। हे दरैन्द्र ! शङ्खराज ! पाञ्चजन्य ! त्वं कृष्णेन भगवता पूरितः भीमः भयङ्करः स्वनो ध्वनिर्यस्य तादृशः शत्रोर्हृदयानि कम्पयन् यातुधानादीन् ग्रहविशेषान् येऽन्ये च घोरदर्शनाः तान् विद्रावय पलायितान् कुरु ॥ २५ ॥ * तिग्मा तीक्ष्णा धारा यस्य स चासावसिवरश्च तस्य सम्बोधनं त्वम् ईशेन भगवता प्रयुक्तः ममारिसैन्यं छिन्धि छिन्धि शतं चन्द्राश्चन्द्राकाराणि मण्डलानि यस्मिन् हे शतचन्द्र ! चर्मन् खेट ! अघवतां द्विषां चक्षूंषि छादय पापचक्षुषा- मुग्रदृष्टीनां चक्षूंषि हर ।। २६ ।। * महादिभ्यो यद्यद्भयं नोऽस्माकमभूत्तानि सर्वाणि भयानि भगवतो नामरूपाण्येवास्त्राणि तेषां कीर्त्तनात् । यद्वा । कीर्त्तनं स्मरणस्याप्युपलक्षणम् । भगवतो नाम्नां कीर्त्तनाद्रूपाणां दिव्यमूर्तीनामस्त्राणां च स्मरणात् । संशयं नाशं सद्य एव यान्तु प्राप्नुवन्तु । तत्र केतवो धूमकेत्वादयः । नरचौरादयः सरीसृपाः सर्पणस्वभावाः दंष्ट्रिणः श्वापदादयः अघानि पापस्वभावानि भूतानि तथा येऽन्ये श्रेयस इष्टस्य प्रतीपकाः विघातकाः तेऽपि संक्षयं यान्तु ।। २७-२८ ।। * * स्तोत्राणि बृहद्रथन्तरसामादीनि तैः स्तोभ्यते स्तोत्रावयवत्वेन स्तूयता इति तथा । छन्दोमयः छन्दः प्रचुरः प्रभुः समर्थो भगवान् गरुडः स्तोभस्तोत्रछन्दोमय इति पाठे स्तोभानि गीतपूरकाक्षराणि तद्युक्तानि स्तोत्राणि छन्दांसि बृहदादीनि गीत्याधारभूतानि छन्दांसि तत्प्रचुरः तदवयवकत्वप्राचुर्येणानुसन्धेय इत्यर्थः । अशेषकच्छेभ्यः अशेषापद्धयो रक्षतु स्वनामभिर्विश्वक्सेनो रक्षतु ॥ २६ ॥ * * तथा हरेर्नामानि रूपाणि च यानानि वाहनानि च तथा पार्षदप्रवरा भूषणानि च मम बुद्धया- दीन पान्तु ।। ३० ।। …. । विजयध्वजतीर्थकृता पदरत्नावली ।। । दोषे रात्रिभोजनकाले रात्रिसामान्यविवक्षायां, दोषशब्दोऽव्ययवाची स्त्रीलिङ्गो वा रात्रिविशेषकालविवक्षायां पुल्लिङ्गः निशीथात्पूर्वयामोऽर्धरात्र उच्यते तस्मिन् काले निशीथे पञ्चदशघटिकातुलिके एकः पद्मनाभ एवावतु ॥ २१ ॥ * प्रत्यूषे अरुणोदयप्रारम्भे अनुसन्ध्यं सन्ध्यानिकटे प्रभाते सूर्योदयासन्नसमये ।। २२॥ * * युगान्तेऽमिवत्तिग्मा तीक्ष्णा नेमिर्यस्य तत्तथा । स्वरूपमुक्त्वा सम्बोधयति । दन्दग्धीति । हे सुदर्शन ! अरिसैन्यमाशु दन्दग्धि अतिशयेन दह अनेन । “सुदर्शन ! महाज्वाल ! कोटिसूर्यसमप्रभ ! अज्ञानान्धस्य मे नित्यं विष्णोमार्ग प्रदर्शय । इति मन्त्रोऽर्थत उधृतः ॥ २३ ॥ * “स्पृश उपतापे” इति धातोः स्पर्शनं तपनम् अशनिवन्निर्घातवत्स्पर्शनात्तापकरा विस्फुलिङ्गा अग्निकणा: यस्याः सा तथा अशन्योर्वयोः स्पर्शनेन संघट्टनेन जाता ये विस्फुलिङ्गा यस्याः सा तथा इति वा सम्बन्धेन अशनिशब्देन मेघवहिर्लक्ष्यते तस्य स्पर्शनवदुः सहाविस्फुलिङ्गा यस्याः सा इति वा तस्याः सम्बुद्धिः अशनिस्पर्शनविस्फुलिङ्गे हे गदे ! निष्पिण्ठि नितरां पिष्टं कुरु निष्पिष्ठीति पाठे “पिषि पेषणे” इत्यस्य रूपम् ॥ २४ ॥ * दरेन्द्र शङ्खश्रेष्ठ ! यातुधानादिदृष्टवत् धोरा दृष्टिर्येषां ते तथा तान् अरीन् विद्रावयेत्यन्वयः अनेन । “पाञ्चजन्यनिजध्यानध्वस्तपातकसञ्चय ! पाहि मां पापिनं घोरं संसारार्णवपातिनम् इत्ययं मन्त्रः सूचितः ॥ २५ ॥ * * मम छिन्धीति तुगागमो विकल्पेनेति वक्तव्यम् । द्विषां चक्षूंषि छादय नोऽस्माकमघं हरेत्यन्वयः । शतचन्द्रेति चर्मणो नाम ।। २६ ।। केतुभ्य इत्यनेन उल्कापाता गृह्यन्ते तोर्महेभ्य इत्यनेन गतार्थत्वात् अघेभ्यो व्यसनेभ्यः ।। २७ ।। * श्रेयः प्रतीपकाः श्रेयोविरोधिनस्त चासुराः ॥ २८ ॥ * * स्तोत्राणां स्तोमः समूहः स्तोत्रस्तोमः तल्लक्षणश्छन्दः सामवेदस्तन्मयस्तत्प्रधान इत्यर्थः । भगवान् पूज्यः विष्वक्सर्वत्र सेना यस्य स तथा । स्वस्य स्वामिनो नामभिः (१) । विष्वक्सेनश्च हरेर्निवेदिताशनः ||२९|| * यानं रथः पार्षदाच भूषणाश्च पार्षदभूषणा भूषणानामपि ज्ञानाश्रयत्वज्ञापनाय पुल्लिङ्गप्रयोगः “तत्कण्ठगं कौस्तुभमास धाता इत्यादे !” ।। ३० ॥ विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी षोढा farai दिवसरक्षामुक्त्वा पञ्चधा विभक्तरात्रिरक्षामाह दोषे रात्रश्चतुर्थघटिकापर्यन्तं प्रदोषस्तत्र । पश्च- घटिकामारभ्य चतुर्दशघटिकापर्यन्तमर्द्धरात्रमन्तभागस्थार्द्धरात्रत्वात् तत्र । पञ्चदशषोडशघटिके निशीथस्तत्र ॥ २१ ॥ श्रीवत्सो धामनि शरीरे यस्य निशीथादूर्द्धमरुणोदयात् प्राक् अपररात्रः । प्रत्युषे रात्रिशेषघटिकाचतुष्टये । अनुसन्ध्यं दिन- रात्रिसन्ध्ययोः ॥ २२ ॥ * भगवदस्त्रैश्व रक्षामन्त्रानाह । चक्रमिति चतुर्भिः । युगान्तानलवत् तिग्मा तीक्ष्णा नेमिर्यस्य तत् । हे समन्तात् भ्रमत् ! भ्रमणशील ! त्वं चक्रं भगवत्प्रयुक्तं सत् अरिसैन्यं दन्दग्धि अतिशयेन दह । कक्षं शुष्कतृणम् ।। २३ ।। अशनिवत् स्पर्शनं येषां ते विस्फुलिङ्गाः यतः । हे गढ़े ! निष्पिण्डि निष्पिण्डि चूर्णय * * २६८ श्रीमद्भागवतम् चूर्णय ॥ २४ ॥ शतचन्द्राकारयुक्त ! चक्षूंषि हर आच्छादय च ।। २६-२७ ।। [ स्कॅ. ६.अ. लो. २१-३०
- दरेन्द्र ! हे पाञ्चजन्य ! ।। २५ ।। ४ हे तिग्मधार ! हे असिवर ! हे खड्गश्रेष्ठ ! हे शतचन्द्र ! श्रेयसः प्रतीपकाः प्रतिकूलाः ॥ २८ ॥ * स्तोत्राणि बृहद्रथन्तराणि सामानि तैः स्तोभ्यते संस्तूयत इति स्तोत्रस्तोभः । ऐकपद्यपाठे स्तोभा गीतिपूरकाक्षराणि स्तोत्र- स्तोमेति पाठे समाधारभूतऋक्समुदायः स्तोमः ।। २६ ॥ * * पार्षदभूषणाः पार्षदमुख्याः ।। ३० ।। 8 ܀ शुकदेवकृतः सिद्धांत प्रदीप:
। त्रीणि ऊर्ध्वाधोमभ्यलोकाख्यानि धामानि यस्य सर्वलोकस्य इत्यर्द्धरात्रश्च षड्भागाः दोषादिशब्दवाच्याः तत्र दोषे प्रदोषे हृषीकेशः निशीथे अर्द्धरात्रे चेति विभागद्वयेऽपि एकः पद्मनाभः ।। २१ ।। दामोदरः प्रभाते उत कालानामनुसन्ध्यं प्रतिसन्ध्यं च विश्वेश्वरः ॥ २२ ॥ एवं भगवन्तं रक्षार्थं प्रार्थ्यं तदायुधानि रक्षार्थं प्रार्थयते । चक्रमिति चतुर्भिः । । । युगान्तानलवत्तिग्मा नेमिर्धारा यस्य तदीदृक् चक्रं त्वं भगवत्प्रयुक्तं समन्तात् भ्रमत् सत् अरिसैन्यमस्मच्छत्रुसमूहं दन्दग्धि द्विरुक्तिः * * अशनिर्वज्र तद्वत् स्पर्शो येषां ते विस्फुलिङ्गा ! शीघ्रत्वाय शीघ्रं दहेत्यथः । कक्ष शुष्कतृणम् ।। २३ ।। यस्याः तस्याः सम्बुद्धौ हे अशनिविस्फुलिङ्गे हे गढ़े ! त्वमजितप्रियासि । अतोऽजित भजने विन्नकरान् कुष्माण्डादीन । निष्पिण्डि शीघ्रं पेषयेत्यर्थः ! ममारींश्चूर्णय चूर्णय ॥ २४ ॥ * हे दरेन्द्र ! शङ्खराज ! विप्रग्रहा ब्रह्म- राक्षसाः ॥ २२ ॥ * * हे तिग्मधार ! तीक्ष्णधार ! हे असिवर ! खड्गराज ! त्वमीशप्रयुक्तो ममारिसैन्यं छिन्धि छिन्धि शतचन्द्राकाराणि मण्डलानि यस्मिन हे शतचन्द्र ! हे चर्मन् ! खेट अघोनामघवतां मम द्विषां चक्षूंषि छादय तत्र पापचक्षुषामतिक्रूरदृष्टीनां तु चक्षूंषि हर उत्पाटयेत्यर्थः ॥ २६ ॥ * * अंहोभ्यः पापेभ्यः ॥ २७ ॥ * * ।। ।। श्री पुरुषार्थानां प्रतीपकाः घातकाः ॥ २८ ॥ * * स्तोत्रैर्बृहद्रथन्तरादिसामभिः स्तोभ्यते इति स्तोत्रस्तोभः श्रीयसां छन्दोमयो वेदप्रचुरः । प्रभुः समर्थो भगवान् गरुडः विश्वक्सेनो हरिश्च स्वनामभिः अशेषकृच्छ्रभ्यो । रक्षतु ।। २९ ।। * * हरेनमादीनि पार्षदभूषणा: पार्षद श्रेष्ठाश्च सर्वपद्रयः नोऽस्माकं बुद्धद्यादीन् पान्तु ॥ ३० ॥ ॥ गोस्वामिगिरिधरलालविहिता बालप्रबोधिनी fire Fire Bi t एकविंशतिघटिकामारभ्य पञ्चविंशतिघटिकापर्यन्तमपराहः तत्र मामुग्रं दैत्यभयङ्करं शाङ्गख्यं धनुर्यस्य स देवो देवपक्षपाती मधुहा मधुसूदनोऽवतु । षड्विंशतिघटिकामारभ्य त्रिंशद्घटिकापर्यन्तं सायं तत्र मां त्रिधामा सच्चिदानन्दविग्रहो माधवोऽवतु । रात्रेश्च षट्सु विभागेषु दोषादिसन्ज्ञेषु मूर्त्तिभेदेन रक्षां प्रार्थयते - दोषे इति सार्द्धेन । चतुर्थघटिकापर्यन्तं प्रदोष- स्तत्र हृषीकेशोऽवतु । उत अपि अर्द्धरात्रेऽर्द्धरात्रपर्यन्ते पञ्चघटिकामारभ्य चतुदर्शघटिकापर्यन्तकाले तथा निशीथे पञ्चदश- षोडशवदिकाद्वयकालेऽपि एकः पद्मनाभ एवावतु ॥ १२ ॥ अपररात्रे निशीथादूर्ध्वम् अरुणोदयात्प्राक्काले श्रीवत्सो रोमावर्त्तचिह्नविशेषो धामनि स्वविग्रहे वक्षःस्थले यस्य स ईशो मामव्यात् । प्रत्यूषे ऽरुणोदय प्रारम्भे जनानामविद्याम् अदयतीति जनार्दन ईशोsसिधरः सन् मामव्यात् । प्रभाते सूर्योदयासन्नकाले मां दामोदरोऽव्यात् । अनुसन्ध्यं प्रतिसन्ध्यं दिनरात्रि- सन्ध्ययोः कालमूर्तिर्विश्वेश्वरो भगवान् मामव्यात् ॥ २० ॥ * * एवं भगवतो रक्षां सम्प्रार्थ्येदानीं तदायुधेभ्यो रक्षां प्रार्थयते– चक्रमिति चतुर्भिः । युगान्तानलवत् तिग्मा तीक्ष्णत्वेनातिभयङ्करा नेमिर्यस्य तत् भगवता प्रयुक्तं प्रेरितं चक्रं समन्ता- दस्मत्सर्वतो भ्रमत्सदस्मदरिसैन्यमाशु दन्दग्धि दन्दग्धि अतिशयेन दह अतिशयेन दद्देत्यन्वयः । तत्र दृष्टान्तः-कक्षं शुष्कतृणं यथा वातोद्भूतो हुताशोऽग्निर्दहति तद्वदित्यर्थः ॥ २१ ॥ * * अशनिवत् स्पर्शनं येषां ते विस्फुलिङ्गा यस्यास्तस्याः सम्बोधनं तेन स्वकार्ये प्रयासाभावः सूचितः । हे गढ़े त्वमजितस्य भवतः प्रियाऽसि अहं च तस्य दासः अनेन कर्त्तव्यस्यावश्यकत्वं सूचितम् । अतस्त्वं कूष्माण्डादीनिष्पिष्ठ सर्णय । अन्याननुक्तांश्चास्मदरीन चूर्णय चूर्णय । सर्वत्र वीप्सा अति- शीघ्रत्वाय ।। २२ ।। * * हे दरेन्द्र पाञ्चजन्य त्वं कृष्णेन पूरितो मुखवायुपूरणेन वादितः अत एव भीमः स्वनः शब्दो यस्य तथाभूतः सन् यातुधानादीनां अन्यस्य च ममारेर्हृदयानि कम्पयन् तान विद्रावयेत्यन्वयः । यातुधाना राक्षसाः प्रमथादयो रुद्रगणविशेषाः विप्रग्रहाः ब्रह्मराक्षसाः । ये चान्ये घोरदृष्टयस्तान् ॥ २३ ॥ तिग्मा तीक्ष्णा धारा यस्य तत्सम्बोधनं हे तिग्मधार हे असिवर खड्गश्रेष्ठ त्वमीशेन भगवता प्रयुक्तो ममारिसैन्यं छिन्धि शतं चन्द्राकाराणि मण्डलानि यस्मि तत्स- म्बोधनं हे शतचन्द्र चर्मन् अघोनामघवतां द्विषां चक्षूंषि छादय । पापचक्षुषां च उमष्टीनां चक्षूंषि हर ॥ २४ ॥ * एवं सामान्यतो देशे काले च रक्षां सम्मार्थ्य इदानीं भयजनकनामग्रहणपूर्वकतं तद्धयविनाशं प्रार्थयते– यदिति द्वयेन । नोऽस्माकं यद्भयं महेभ्य आदित्यादिभ्योऽभूत्, यथ भयं केतुभ्यः उल्कापातादिभ्योऽभूत्, राहुभ्रातृकेतोर्महान्तर्भूतत्वात् नृभ्यो दुष्ट * 1स्कं. ६ अ. लो. २१-३० ] अनैकव्याख्या समलङ्कृतम् , २६९- मनुष्येभ्य एव वा यद्भयमभूत्, यद्भयं सरीसृपेभ्यः सर्पवृश्चिकादिभ्योऽभूत्, यत्तु भयं दंष्ट्रिभ्यो व्याघ्रसिंहादिभ्योऽभूत् यच्च भयं भूतेभ्यो भूतप्रेतादिभ्यः यद्वा पञ्चमहाभूतेभ्यो जलाभिविद्युदादिभ्योऽभूत् यच्च भयमहोभ्यः पापेभ्य एव वाऽभूत् ।। २५ ।। एतानि सर्वाणि भयानि ये चान्ये नोऽस्माकं श्रेयसां प्रतीपकाः व्याघातकास्तेऽपि सर्वे भगवतो नामानि च रूपाणि च तेषां कीर्त्तनात् सद्यस्तत्क्षणमेव सम्यक् पुनरुत्पत्तिराहित्यं यथा भवति तथा क्षयं प्रयान्त्वित्यन्वयः ॥ २६ ॥ * * स्तोत्राणि बृहद्रथन्तरादिसामानि तैः स्तोभ्यते संस्तूयते इति स्तोत्रस्तोभः छन्दोमयो वेदमूर्तिः - स्तोत्र स्तोमच्छन्दोमय इति पाठे तु स्तोत्राणां स्तोमः समूहः स्तोत्रस्तोमस्तल्लक्षणं छन्दः सामवेदस्तन्मयः - भगवान् भगवद्वाहत्वात्ततो लब्धैश्वर्यादिमान् अत एव प्रभुः रक्षादिषु समर्थः एवम्भूतो गरुडो मामशेषकृच्छ भ्यः सर्वदुःखेभ्यो रक्षतु ! तथा विष्वक् सर्वतः सेना यस्य स भगवान् स्वनामभिरशेष- कृच्छ्रेभ्यो रक्षतु ।। २७ ।। * * * हरेर्नामानि च रूपाणि च यानानि वाहनानि च आयुधानि च तानि सर्वापद्धयो नो निच बुद्धीन्द्रियमनः प्राणान् पान्तु । तथा पार्षदभूषणाः भगवत्पादमुख्याश्च नो बुद्धयादीन पान्तु ।। २८ । । भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी * श्रीवत्सेति । अपररात्रे, श्रीवत्सलयामा श्रीवत्सलक्ष्मा, ईर्लक्ष्मीस्तस्या ईशो लक्ष्मीकान्तः भगवान्, अवयात् मां पातु । प्रत्यूषे अरुणोदयारम्भे, ईशः असिधरः खड्गधरः जनाईनः भगवान् अव्यात् । अनुसंध्यं प्रतिसंध्यं, संध्यानिकटकाले इत्यर्थः। दामोदरः भगवान्, अव्यात् । प्रभाते सूर्योदयासन्नसमये, कालमूर्तिः कालशरीरकः, विश्वेश्वरः सकलविश्वनियन्ता भगवान्, अव्यात् । अत्र केचित्तु दामोदरः प्रभाते, कालमूर्त्तिः विश्वेश्वरः भगवान्, अनुसंध्यमव्यादिति व्याख्यात- वन्तः ॥ २१ ॥ * * अथ भगवतोऽस्त्राण्यरिष्टनिरासकत्वेन प्रार्थयते । चक्रमिति । युगान्तानलवत्तिग्मा तीक्ष्णा नेमिर्यस्य तत्, चक्रं सुदर्शनं, भगवता प्रयुक्तं, अत एव भ्रमत् सत्, अरिसैन्यम् आशु अतिशीघ्रं, दंदग्धि ददग्धि अतिशयेन दहति । तस्यायं स्वभाव एवेति न प्रार्थनीयमिति प्रथमपुरुषनिर्देशः । यद्वा ददग्धीति लोप्मध्यमपुरुषैकवचनम् । आदरे वीप्सायां द्विर्वचनम् । तत्र त्वमेवंभूतं चक्रमिति स्वरूपमुक्त्वा संबोध्य प्रार्थ्यम् । अतिशयेन दहेत्यर्थः । कथमिव कक्षं शुष्कं तृणं, वातसखो वायोर्मित्रभूतः, हुताशोऽग्निर्यथा तद्वत् ।। २२ ।। * * गढ़े इति । अशनिवत् स्पर्शनं स्पर्शो येषां ते तथाविधा विस्फुलिङ्गा यस्यास्तस्याः संबोधनं हे गदे, त्वम् अजितस्य प्रिया भगवतोऽतिप्रेमास्पदीभूता, असि । अहमप्यच्युतस्य दासः, अतः कूष्माण्डाश्च वैनायकाश्च यक्षाश्च रक्षांसि च भूताश्च ग्रहा वृद्धबालग्रहाश्च तान, निष्पिण्डि निष्पिष्टि नितरां पेषय पेषय | तथा अरीन चूर्णय चूर्णय ॥ २३ ॥ त्वमिति हे दरेन्द्र शङ्खराज पाञ्चजन्य, त्वं कृष्णपूरितः स्वयं श्रीकृष्णेन स्वमुख- वातापूरितः, भीमः भयंकरः स्वनो ध्वनिर्यस्य सः, अरेः शत्रोः, हृदयानि कम्पयन् सन् यातुधानाश्च, प्रमथाश्च प्रेताश्च मातरश्च पिशाचाश्च विप्रग्रहा ब्रह्मराक्षसाच घोरदृष्टयो येऽन्ये च तान्, विद्रावय पलायितान् कुरु ॥ २४ ॥ * * त्वमिति । तिग्मा तीक्ष्णा धारा यस्य सः, असिषु वरः स चासौ स च तस्य संबोधनम् । संबोधनद्वयं वा । त्वम् ईशेन भगवता प्रयुक्तः सन्, मम अरिसैन्यं छिन्धि छिन्धि । शतं चन्द्राश्चन्द्राकाराणि मण्डलानि यस्मिन हे शतचन्द्र, हे चर्मन् खेट, अघोनामघवतां द्विषां शत्रूणां चक्षूंषि, छादयापवारय, पापचक्षुषामुग्रहष्टीनां च चक्षूंषि, हर ॥ २५ ॥ * यन्न इति । नोऽस्माकं, यत् येभ्यः, भयम्, अभूत् । तेभ्यः ग्रहेभ्यः, केतुभ्यो धूमकेत्वादिभ्यः, यद्वा । केतुभ्य इत्यनेन उल्कापातेभ्य इति बोध्यम् । केतोर्महेभ्य इत्यनेन गतार्थ - त्वात् । नृभ्यश्चौरादिन रेभ्यः एव । वा सरीसृपेभ्यः सर्पणस्वभावेभ्यः, दंष्ट्रिभ्यः सर्पादिभ्यः भूतेभ्य उक्तेतरभूतेभ्यः, अघेभ्यः पापेभ्यः, व्यसनेभ्यः वा एव ।। २६ ।। * * सर्वाणीति । एतानि सर्वाणि भयानि ये नोऽस्माकं श्रेयःप्रतीपकाः, ते सर्वे, भगवन्नामरूपास्त्रकीर्त्तनात्, सर्वापद्धर भगवन्नाम्नां हरिहरिकृष्णकृष्णादीनां रूपाणां दिव्यभगवन्मूर्तीनामखाणां च संकीर्त्तनात्, कीर्त्तनस्योपलक्षणत्वात् स्मरणाच्च, सद्यः संक्षयं प्रयान्तु इत्युभयोरेकसंबन्धः || २७ ॥ * * गरुड इति । स्तोत्रेबृहद्रथन्त- रादिसामभिः, स्तोभ्यते स्तूयते इति स्तोत्र स्तोभः । छन्दोमयो वेदमूर्त्तिः, ‘सुपर्णोऽसि गरुत्मान्’ इति श्रुतेः । प्रभुः समर्थः, गरुडः भगवान्, अशेषकृच्छ्र ेभ्यः, रक्षतु । विश्वक्सेनः श्रीहरिः, स्वनामभिः रक्षतु । सर्वत्रेति शेषः ।। २८ ।। ।। सर्वापद्भ्य इति । हरेः नामानि च रूपाणि च यानानि वाहनानि च आयुधानि च तानि सर्वापद्भयः नोस्माकं बुद्धीन्द्रियमनः प्राणान्, पान्तु । पार्षदभूषणा: पार्षदमुख्याः अपि, पान्तु । पार्षदाच भूषणा भूषणानि च पान्त्वित्यन्ये । भूषणानामपि ज्ञानाश्रयत्व- ज्ञापनाय पुल्लिङ्गप्रयोगः । आर्ष इत्येके ।। २६ ।। * * यथा हीति । यत् सदसच, कार्यकारणात्मना मूर्त्तामूर्तं सर्वं यदिदं जगदित्यर्थः । तत् वस्तुतः सर्वाधारसर्वान्तर्यामिपरमेश्वरैकवस्त्वालम्बनत इत्यर्थः । भगवानेव तत् यथा यथार्थमेव, अनेन सत्येन प्रमाणेन, नोऽस्माकं सर्वे उपद्रवाः नाशं यान्तु हि ॥ ३० ॥ ॥ २७० श्रीमद्भागवतम् भाषानुवाद: [ स्कं. ६ अ. ३१-३८ तीसरे पहर में भगवान् मधुसूदन अपना प्रचण्ड धनुष लेकर मेरी रक्षा करें। सायङ्कालमें ब्रह्मा आदि त्रिमूर्तिधारी माधव, सूर्यास्त के बाद हृषीकेश, अर्धरात्रिके पूर्व तथा अर्धरात्रिके समय अकेले भगवान् पद्मनाभ मेरी रक्षा करें ।। २१ ।। * * रात्रिके पिछले प्रहरमें श्रीवत्सलान्छन श्रीहरि, उषाकालमें खड्गधारी भगवान् जनार्दन, सूर्योदयसे पूर्व श्रीदामोदर और सम्पूर्ण सन्ध्याओंमें कालमूर्ति भगवान् विश्वेश्वर मेरी रक्षा करें ॥ २२ ॥ * * ‘सुदर्शन ! आपका आकार चक्र ( रथके पहिये ) की तरह है । आपके किनारेका भाग प्रलयकालीन अभिके समान अत्यन्त तीव्र है । आप भगवान्की प्रेरणासे सब ओर घूमते रहते हैं । जैसे आग वायुकी सहायतासे सूखे घास-फूसको जला डालती है, वैसे ही आप हमारी शत्रु सेनाको शीघ्र से शीघ्र जला दीजिये, जला दीजिये || २३ ॥ * * कौमोदकी गढ़ा ! आपसे छूटनेवाली चिनगारियों का स्पर्श वज्र के समान असह्य है । आप भगवान् अजितकी प्रिया हैं और मैं उनका सेवक हूँ । इसलिये आप कूष्माण्ड, विनायक, यक्ष, राक्षस, भूत और प्रेतादि ग्रहों को अभी कुचल डालिये, कुचल डालिये तथा मेरे शत्रुओंको चूर-चूर कर दीजिये ॥ २४ ॥ * शङ्खश्रेष्ठ ! आप भगवान् श्रीकृष्ण के फूँकनेसे भयङ्कर शब्द करके मेरे शत्रुओंका दिल दहला
- दीजिये एवं यातुधान, प्रमथ, प्रेत, मातृका, पिशाच तथा ब्रह्मराक्षस आदि भयावने प्राणियोंको यहाँसे झटपट भगा दीजिये ॥ २५॥ * * भगवान्की प्यारी तलवार ! आपकी धार बहुत तीक्षण है । आप भगवान् की प्रेरणा से मेरे शत्रुओंको छिन्न-भिन्न कर दीजिये । भगवान्की प्यारी ढाल ! आपमें सैकड़ो चन्द्राकार मण्डल हैं । आप पापदृष्टि पापात्मा शत्रुओंकी आँखें बंद कर दीजिये और उन्हें सदाके लिये अंधा बना दीजिये ॥ २६ ॥ * * ‘सूर्य आदि ग्रह घूमकेतु ( पुच्छलतारे ) आदि केतु, दुष्ट मनुष्य, सर्पादि रेंगनेवाले जन्तु, दाढोंवाले हिंसक पशु, भूत-प्रेत आदि तथा पापी प्राणियों से हमें जो-जो भय हों और जो-जो हमारे मङ्गलके विरोधी हों- के सभी भगवान्के नाम, रूप तथा आयुधों का कीर्तन करनेसे • तत्काल नष्ट हो जाय ।। २७-२८ ।। बृहन् रथन्तर आदि सामवेदीय स्तोत्रोंसे जिनकी स्तुति की जाती है, वे वेदमूर्ति भगवान् गरुड और विष्वक्सेनजी अपने नामोच्चारण के प्रभावसे हमें सब प्रकारकी विपत्तियोसे बचायें ॥ २६ ॥ * * श्रीहरिके नाम, रूप, वाहन आयुध और श्रेष्ठ पार्षद हमारी बुद्धि, इन्द्रिय, मन और प्राणोंको सब प्रकारकी आपत्तियों से बचायें ।। ३० ।। यथा हि भगवानेव वस्तुतः सदसच्च यत् । सत्येनानेन नः सर्वे यान्तु नाशमुपद्रवाः ।। ३१ ।। यथैकात्म्यानुभावानां विकल्परहितः स्वयम् । भूषणायुधलिङ्गाख्या धत्ते शक्तीः स्वमायया ।। ३२ ।। तेनैव सत्यमानेन सर्वज्ञो भगवान् हरिः । पातु सर्वैः स्वरूपैर्नः सदा सर्वत्र सर्वगः ॥ ३३ ॥ विदितु दिक्षुर्ध्वमधः समन्तादन्तर्बहिर्भगवान् नारसिंहः । प्रहापयँल्लोकभयं स्वनेन स्वतेजसा ग्रस्तसमस्ततेजाः ॥ ३४ ॥ मघवन्निदमाख्यातं वर्म नारायणात्मकम् । विजेष्यस्यञ्जसा येन दंशितोऽसुरयूथपान् ॥ एतद् धारयमाणस्तु यं यं पश्यति चक्षुषा । पदा वा संस्पृशेत् सद्यः साध्वसात् स विमुच्यते ।। न कुतश्चिद् भयं तस्य विद्यां धारयतो भवेत् । राजदस्यु ग्रहादिभ्यो व्याघ्रादिभ्यश्च कर्हिचित् ॥ इमां विद्यां पुरा कश्चित कौशिको धारयन् द्विजः । योगधारणया स्वाङ्गं जहौ स मरुधन्वनि ॥ ३८ ॥ कृष्णप्रिया व्याख्या ३५ ॥ ३६ ।। ३७ ॥ अन्वयः- —यथा हि यत सत् च असत् सर्वं वस्तुतः भगवान् एव अनेन सत्येन नः सर्वे उपद्रवाः नाशं यान्तु ।। ३१ ।। * * यथा ऐकात्म्यानुभावानां स्वयं विकल्परहितः स्वमायया भूषणायुधलिङ्गाख्याः शक्तीः धत्ते ॥ ३२ ॥ तेन एव सत्यमानेन सर्वज्ञः भगवान् हरिः सदा सर्वत्र सर्वगः सर्वैः स्वरूपैः नः पातु ॥ ३३ ॥ * * भगवान् नारसिंहः १. प्रा० पा०– वान् देवः संस्तुतः सद० । २. प्रा० पा० – व्याध्यादिभ्यश्व स्कं. ६ अ.प श्लो. ३१-३८ ] अनेकव्याख्यासमलङ्कृतम् एतद् २७१ स्वतेजसा प्रस्तसमस्ततेजाः स्वनेन दिक्षु विदिक्षु ऊर्ध्वम् अधः समन्तात् अंतः बहिः लोकभयं प्रहापयन् ॥ ३४ ॥ * मघवन् इदं नारायणात्मकम् वर्म आख्यानं येन दंशितः असुरयूथपान् अंजसा विजेष्यति ।। ३५ ।। धारयमाणः तु चक्षुषा यं यं पश्यति वा पदा संस्पृशेत् सः सद्यः साध्वसात् विमुच्यते ॥ ३६ ॥ धारयतः तस्य राजदस्युग्रहादिभ्यः च व्याघ्रादिभ्यः कुतश्चित् कर्हिचित् भयं न भवेत् ॥ ३७ ॥ कौशिकः सः द्विज: इमां विद्याम् धारयन् योगधारणया मरुधन्वनि स्वाङ्ग जहाँ ॥ ३८ ॥ श्रीधरस्वामिविरचिता भावार्थदीपिका
विद्यां पुरा कश्चित् । स्वतेजसा स्वप्रभावेण प्रस्तानि सच असच्च मूर्तीमूर्त यत्तत्सर्वं जगत् ॥ ३१ ॥ ऐकात्म्यस्यानुभावोऽनुध्यानं येषां तेषाम् । विकल्पो भेदस्तद्रहितोऽपि ॥ ३२ ॥ सत्यमानेन सत्यभूतेन प्रमाणेन ॥ ३३ ॥ पुनरपि श्रीनृसिंह एवं प्रार्थ्यते । ।। * * * विदिक्ष्वतिपात्वित्यनुषंगः । यद्वा नारसिंहः प्रह्लादः स्वनेन श्रीनृसिंहनामगर्जनेन समस्तानि दिग्गजविषशस्त्र जलवाय्वग्न्यादीनां तेजांसि प्रभावा येन सः ॥ ३४ ॥ सोऽपि साध्वसाद्भयाद्विमुच्यते ॥ ३६ ॥ * * तस्य तु भयं न भवेदेव ॥ ३७ ॥ इमामिति साधैस्त्रिभिः । मरुधन्वनि निरुदके देशे । अनेन विद्यायाः क्षेत्रतीर्थानपेक्षत्वं दर्शितम् ॥ ३८ ॥ वंशीधरकृतो भावार्थदीपिकाप्रकाशः म ।।
- दंशितः कवचितः ॥ ३५ ॥ * एतद्विद्याप्रभावमितिहासेनाह यत्सदसद्रूपं जगत्तद्वस्तुतो भगवानेव तस्यैव बहिरंगमायाकार्यत्वात् । सत्येनानेन शपथेनेति । यद्येवंभूतो भगवान्सत्यः स्यात्तर्हि अस्माकमुपद्रवा नश्यंतु यदि ‘वेदा प्रमाणम्’ इति वदुक्तिरियम् ।। ३१ ॥ * * ऐकात्म्यं चिन्मयत्वादेक- स्वरूपत्वमेवानुभावो लक्षणं यासां तासां भूषणादीनां शक्तीनां विकल्परहितः । स्वस्य तासां च चिद्रूपत्वात् । ताभ्यो भेद- रहितोऽपि भूषणाद्याख्यास्ताः शक्तीः यथा धत्ते तथा तेनैव सत्यमानेन स पात्वित्यन्वयः । तत्र भूषणानि कौस्तुभादीनि । आयु- धानि चक्रादीनि । लिंगानि चतुर्भुजत्वादीनि । आख्या नामानि यासां ताः शक्तीः स्वरूपशक्तिवृत्तीर्धत्ते स्वमायया स्वरूप त्या स्वरूपभूतया निजशक्तया मायाख्यया युक्तः “अतो मायामयं विष्णुं प्रवदति मनीषिणः” इति माध्वभाष्यप्रमाणित- श्रुतेः॥ ३२ ॥ * * तेनैव सत्यमानेन सत्यरूपप्रमाणेन भूषणादीनि चतुर्भुजत्वादीनि । च स्वरूपशक्तिमयत्वात्स्वेनाभि- नान्येव भगवान् धत्ते इति यदि सत्यः स्यात्तर्हि सर्वैर्हरिर्विदध्यादित्यादिमंत्रोक्तैः स्वरूपैः । सर्वत्र देशे काले च सर्वगः सन्पातु सर्वज्ञ इत्यस्मन्मनोगतमास्तिक्यं भगवानेव जानातीति शपथो दर्शितः । अत्र संदर्भ: - यथेति युग्मकम् । ऐकात्म्यानुभावानां केवलपरमखरूपदृष्टिपराणाम् । विकल्परहितः परमानंदैकरूपपरमस्वरूपतया स्फुरन्नपि यथा येन प्रकारेण स्वेषु स्वस्वामितया भजत्सु मायया कृपया हेतुना स्वयं वचित्रशक्तिमयेन स्वस्वरूपेणैव कारणभूतेन भूषणाद्याख्याः शक्तीः शक्तिमयाविर्भावान्धत्ते गोचरति तेनैव विद्वदनुभवलक्षणेन सत्यप्रमाणेन तद्यदि सत्यं स्यात्तदेत्यर्थः । तैरेव भूषणादिलक्षणैः सर्वैः स्वरूपैर्विचित्रस्वरूपा- विर्भावैर्नः पातु । अत एव विष्णुधर्मे बलिकृतचक्रस्तुतौ “यस्य रूपमनिर्देश्यमपि योगिभिरुत्तमैः” इत्याद्यनंतरं च “भ्रमतस्तस्य चक्रस्य नाभिमध्ये महीपते । त्रैलोक्यमखिलं दैत्यो दृष्टवान्भूर्भुवादिकम् ॥” इति । एवं नवमेंबरीषेणापि स्तुतं लिंगानि गरुडा- कारध्वजादीनि । अनेन यत्किञ्चिदाकस्मिकत्वमिव श्रूयते तदपि भगवदाविर्भाववज्ज्ञेयं तृतीयोक्तमपि ‘चैतस्य तत्त्वममलं मणि- मस्य कंठे इति वाक्यमप्यसहायम् । अतो द्वादशेऽपि “कौस्तुभव्यपदेशेन स्वात्मज्योतिर्बिभर्त्यजः इत्यादिविराङ्गत्वेनोपासनार्थम- भेददृष्टया दर्शितमेव यथासंभवं साक्षाच्छ्रीविग्रहगतत्वेनाप्यनुसंधेयम् । तथाहि विष्णुपुराणे “आत्मानमस्य जगतो निर्लेपमगुणा- मलम् । बिभर्त्ति कौस्तुभमणिस्वरूपं भगवान्हरिः” इति ॥ ३३ ॥ * * एवं नानाखरूपैः । स्वरक्षां समाप्यापि पुनरपि सर्वेषां प्रतिकूलानां भीषणेनैकनैव नृसिंहस्वरूपेण स्वरक्षा मंत्रमेकमाह विदिवित्यादि । ‘पायान्नृसिंहो सुरयूथपारिः’ इत्यत्रोक्त एव नृसिंहमंत्रः पुनरुक्त्या कथनं त्वधिकमेवेति चेदाह - यद्वेति । प्रहापयन्निति स्वार्थे णिच् । परिहरन्नित्यर्थः । अस्य क्षमिति बीज- संपुटितस्य जपान्महामारी नश्यतीति ॥ ३४ ॥ * उपसंहरति- मघवन्निति । देवपूज्यत्वादिदमति रहस्यमपि तुभ्यमुक्तमिति भावः ॥ ३५ ॥ * * * सोऽपि साध्वसाद्भयात्किमुतैतद्धारयमाणः । पदा पादने ॥। ३६-३७ ।। * कौशिक गोत्रे विद्यमानः । योगधारणया योगाभ्यासेन । मरुधन्वनि निर्जलप्रदेशे ॥ ३८ ॥ ।
- अन्वितार्थप्रकाशिका
- यथेति । वस्तुतः परमार्थतः सच असच मूर्त्तामूर्त यत्तत्सर्वं जगद्भगवानेव न ततो भिन्नम् यथा हि यथार्थ - शास्त्रप्रतिपादितं सत्यं चेत्तदाऽनेनैव सत्येन नोऽस्माकं सर्व उपद्रवा नाशं यान्तु गच्छन्तु । यदि वेदाः प्रमाणं स्युरितिवत्
- श्रीमद्भागवतम्
- [ स्कं. ६ अ. ८ श्लो. ३१-३८ असन्देहे सन्देहवचनं शैलीविशेषः ॥२६ ॥ यथेति युग्मम् । यथा ऐकात्म्यस्यानुभावो भावना ध्यानं येषां तेषां विकल्पो भेदस्तद्रहितोऽपि तथा भावनारहितानां भेददर्शिनां भूषणानि कौस्तुभादीनि आयुधानि सुदर्शनादीनि लिङ्गानि च चतुर्भुजद्विभुजादिमूर्तीः आख्याः रामकृष्णादिनामानि शक्तीः ज्ञानैश्वर्यादीनि स्वमायया स्वेच्छ्या स्वयमेव धत्त इति प्रतिभाति । तत्तु " यद्यद्धिया त उरुगाय विभावयन्ति तत्तद्वपुः प्रणयसे सदनुग्रहाय ।” इत्यादिशास्त्रोक्तं यथा यथार्थ सत्यं चेत् तदा तेनैव सत्यमानेन यथार्थभूतेन प्रमाणेन सर्वैः पूर्वोक्तैरनुक्तैश्चाष्टभुजादिस्वरूपैर्नोऽस्मान् सदा सर्वत्र सर्वज्ञः सर्वगः भगवान हरिः पातु ॥ ३० ॥ ३१ ॥ * विदिश्विति । स्वनेन महाट्टहासेन यः सर्वलोकानां यद्भयं तत्प्रहापयन अपसारयन् विदिक्षु आग्नेय्यादिषु चतसृषु दिक्षु प्राच्यादिषु चतसृषु उर्ध्वमधः समन्तात् सर्वतः अन्तर्बहिश्चास्मान् स्वतेजसा प्रस्तानि अभिभूतानि समस्तानां तेजस्विनां दिग्गजविषशस्त्रजला ग्न्यादीनां तेजांसि प्रभावाः येन स भगवान्नारसिंहः नरसिंह एव पातु । यद्वा । नारसिंह: नरसिंहभक्तः प्रह्लादः स्वनेन नृसिंहनाम-गर्जनेन ॥ ३२ ॥
- भगवन्निति दंशितः कवचितः विजेष्यसीति । तदभाव आर्षः । स्पष्टमन्यत् ॥ ३३ ॥ * * एतदिति । स दृष्टः स्पृष्टो वा सद्यः साध्वसात्
- ।
- भयाद्विमुच्यते किं पुनर्धारकः । स्पष्टमन्यत् ॥ ३४ ॥ * * नेति तस्य विद्यां धारयतः राजादिभ्यः कुतश्चित्कर्हिचिदपि भयं नैव भवेत् ॥ ३५ ॥ * * इमामिति । पुरा कश्चित्कौशिको द्विजोऽभूत् स च मरुधन्वनि निरुदके मलिनेऽपि ।। ।। देशे इमां विद्यां धारयन् पुरा योगधारणया स्वाङ्गं जहौ । एतेन क्षेत्रतीर्थाद्यनपेक्षत्वं विद्याया दर्शितम् ॥ ३६ ॥ वीरराघवव्याख्या
A एवं भगन्नामरूपास्त्रभूषण पार्षदादीनिष्टप्रापकत्वेनानिवर्त्तकत्वेन च सम्प्रार्थ्य तन्नामरूपादिवत्तद्विभूत्यादिवश्च तद्विषय- कप्रार्थनायाः सत्यत्वं प्रतिजानीते । यथेति त्रिभिः । यथा च यत् सदसञ्चिदचिदात्मकं जगद्वस्तुतो भगवानेव भगवदात्मक- मेवात्र न तु विप्रतिपत्तिः “यस्य पृथिवी शरीरं यस्यात्मा शरीरं तदनुप्रविश्य सच्च त्यच्चाभवत्" इति श्रुतेरितिभावः । तथानेन सत्येन सत्यभूतेनाबाधितेन दृष्टान्तेन तद्विषयकप्रार्थनया नोऽस्माकमुपद्रवाः तस्य नोऽस्माकमुपद्रवाः तस्य जगदात्मकत्ववत् तद्विषयकप्रार्थनापि न मिथ्या भवितुमर्हतीति भावः ॥ ३१ ॥ * * तथा च भगवानैकात्म्यानुभावेन कृत्स्नचिद- चिदात्मकजगदेकान्तरात्मत्वकृतभावेन विकल्परहितः । प्राकृतदेवमनुष्यादिनामरूपात्मकभेदरहितः स्वमायया स्वसङ्कल्प- ज्ञानेन स्वयमात्मनैव स्वेच्छया न तु जीववत्कर्मणेत्यर्थः । भूषणादीन् धत्ते बिभर्त्ति अत्र लिङ्गानि दिव्यविग्रहा आख्याः रामकृष्णादीनि नामानि यथा भूषणादीनि सत्यान्येव बिभर्ति तथा स्वविषयामपि प्रार्थनां सत्यां कृत्वा तेनैव सत्यमानेन सत्यभूतेन मीयते प्रमीयतेऽनेनेति मानं दृष्टान्तस्तेन सर्वस्वरूपेणास्त्रपार्षदादिस्वरूपेण सर्वदा सर्वकालेषु सर्वत्र सर्वेषु देशेषु सदा सर्वावस्थासु च पातु ।। ३२-३३ ॥ एवं प्रार्थनायाः सत्यतां प्रतिज्ञाय पुनः सिंहावलोकनन्यायेन श्रीनृसिंहं त्रातारं प्रार्थयते । विदिविति । विदिवाग्न्येयादिषु दिक्षु ऐन्द्रयादिषु ऊर्ध्वायामधश्व दिशि शरीरस्यान्तर्बहिश्व भगवन्नारसिंहः पात्वित्यनुषङ्गः । तं विशिनष्टि । स्वनेन महाट्टहासेन ध्वनिना लोकस्य स्वभक्तलोकस्य भयं महापयन्नपनुदन् स्वतेजसा प्रस्तान्याच्छादितानि समस्तानि तेजांसि सूर्यादितेजांसि येन सः “न तत्र सूर्यो भाति न चन्द्रतारकम्” इति श्रुत्यर्थोऽ- नेनाभिप्रेतः ॥ ३४ ॥ * * एवमिन्द्रायेदं नारायण वर्मोपदिश्यैतन्मन्त्रप्रभावेण शत्रून् विजेष्यसीति वदन्नन्यमपि तत्प्रभा- वमाह विश्वरूप इत्याह । मघवन्निति । हे मघवन् ! इदं नारायणात्मकं वर्म तुभ्यमाख्यातं मयेति शेषः । कथम्भूतं येन नाराय- णवर्मणा दंशितः कवचितः अञ्जसा सुखेनैवासुरयूथपान् शत्रून्विजेष्यसि ॥ ३५ ॥ एतद्वर्म धारयमाणः अनुसन्द- धत्पुमान् यं यं भीतं पुरुषं चक्षुषा पश्यति पदा वा संस्पृशेत्स भीतः साध्वसाद्भयाद्विमुच्यते ॥ ३६ ॥ * विद्यां नारा- ।। ॥ यणवर्मरूपमन्त्रविद्यां धारयतः पुंसः कुतश्चिदपि कर्हिचिदपि राजादिभ्यो व्याघ्रादिभ्यश्च भयं न विद्यते निर्भयो जायत इत्यर्थः ॥ ३७ ॥ * * एतद्विद्याप्रभावसूचकं कश्चिदितिहासमाह । इमामिति सार्द्धंस्त्रिभिः । पूर्वस्मिन् काले कश्चित्का- शिकगोत्रजो द्विजः इमां विद्यामधारयत् स च योगधारणया “स्वपाणिनापीड्य गुदम्” इत्यादिना द्वितीयस्कन्धोक्तया स्वशरीरं Horraft निरुदके देशे जहौ तत्याज ॥ ३८ ॥ ॥ विजयध्वजेतीर्थकृता पदरत्नावली “सर्वं खल्विदं ब्रह्म" इति श्रुतेः । भगवानेव यत्सदसद्वस्तु वस्तुतस्तन्नियामकतया तद्रूप उच्यत इति यथा सत्यम् - ‘तत्सृष्ट्वा तदेवानुप्राविशत्तदनुप्रविश्य संच त्यचाभवत्" इति श्रुतिविहितत्वादव्यभिचरितेन सत्येन " द्रव्यं कर्म च कालश्च स्वभाव जीव एव च" इत्यादिवाक्यं चशब्दगृहीतम् । एवशब्देन “सत्येनानेन मां देवः पातु विष्णुश्चतुर्भुजः” इति स्मार- अनेकव्याख्यासमलङ्कृतम् २७३ स्कं. ६ अ. ८ श्लो. ३१-३८] यति ॥ ३१ ॥ * * भूषणादीनामचेतनत्वेन चेतनवत्प्रार्थितदातृत्वं कथमित्याशङ्कय तेषु हरेस्तत्तत्कार्यक्षमशक्तिस्व- ** रूपेणावस्थानं यथा सत्यं तेन सत्येन हरिः पात्वित्याह । यथेति । ऐकात्म्यानुभावेन तत्तद्वस्तुस्थितरूपाणामेकात्मत्वापरोक्ष- ज्ञानेन विकल्परहितः स्वगतभेदवर्जितोऽपि स्वमायया स्वरूपसामर्थ्येन स्वयमेव भूषणादिसंज्ञाः स्वाधीनत्वाच्छक्तिशब्दवाच्या धन्त इति यथा यत्सत्यं तेन सत्येन अनेन सत्याख्यप्रमाणेन यथार्थेन सर्वज्ञत्वमपि सत्यत्वे प्रमाणमिति द्योतनाय विशेषणी- कृतम् ॥ ३२ ॥ * * न कैवलमायुधादिष्वेव सन्निहितत्वं किन्तु सर्वत्रापीति भावेनाह । सर्वैरिति । “एक एव परो विष्णुर्भूषाहेतिध्वजेष्वजः । तत्तच्छक्तिस्वरूपेण स्वयमेव व्यवस्थितः । सत्येनानेन मां देवः पातु सर्वेश्वरो हरिः " इति । अतो भूषणादिषु विशेषतः सन्निहितत्वादुच्यत इति ज्ञातव्यम् ॥ ३३ ॥ मूलरूपस्य सर्वगतत्वं नावता- रस्येति शङ्कां परिहरन् सर्वगतत्वं यथा सत्यं तेन सत्येन तथा नारसिंहः पात्विति तात्पर्याद्विशिष्याह । विदिविति । प्रहापय- निति स्वार्थे णिच परिहरन्नित्यर्थः । स्वतेजसा प्रस्तानि अभिभूतानि समस्तानि तेजांसि सूर्यादीनि येन स तथा ॥ ३४ ॥ * * मघवन् ! धनवन् ! दंशितः कवचितः ।। ३५ ।। * * साध्वसाद्भयात् ।। ३६-३६ ॥ कौशिकगोत्रे विद्य- मानः । योगधारणया योगाभ्यासेन । मरुधन्वनि निर्जलप्रदेशे ॥ ३८ ॥ जीवगोस्वामिकृतः क्रमसन्दर्भ : तस्तस्य । यथा येन प्रकारेण ॥ ३१ ॥ यथेति युग्मकम् । ऐकात्म्यानुभावानां केवल परमस्वरूप दृष्टिपराणां विकल्परहितः परमानन्दैकरसपरमस्वरूपतया स्फुरन्नपि यथा येन प्रकारेण स्वेषु स्वस्वामितया भजत्सु माया कृपा तथा हेतुना स्वयं विचित्रशक्तिमयेन स्वस्वरूपेणैव कारणभूतेन भूषणाद्याख्याः शक्तीः शक्तिमयाविर्भावान् धत्ते गोचरति । तेनैव विद्वदनु- भवलक्षणेन सत्यप्रमाणेन तद्यदि सत्यं स्यात्तदेत्यर्थः । तैरेव भूषणादिलक्षणैः सर्वैः स्वरूपैर्विचित्रस्वरूपाविर्भावैर्नः पातु अत एव विष्णुधर्मे । विष्णु कृतस्तौ “यस्य रूपमनिर्देश्यमपि योगिभिरुत्तमैः” इत्याद्यनन्तरञ्च । चक्रस्य नाभिमध्ये महीपते । त्रैलोक्यमखिलं दैत्यो दृष्टवान् भूर्भुवादिकम्” इति तदेवमेव नवमे श्रीमदम्बरीषेणापि चक्रमिदं स्तुतमस्ति लिङ्गानि गरुडाकार- ध्वजादीनि अनेन यत् कचिदाकस्मिकत्वमिव श्रूयते तदपि श्रीभगवदाविर्भाववज्ज्ञेयम् । अत्र तृतीये " चैत्यस्य तत्त्वममलं मणिमस्य कण्ठे” इत्यपि सहायम् । अतो द्वादशेऽपि “कौस्तभव्यपदेशेन स्वात्मज्योतिर्बिभत्र्त्यजः” इत्यादिकं विराङ्गतत्वेनोपा- सनार्थमभेददृष्टया दर्शितमेव यथासम्भवं साक्षाच्छ्रीविग्रहगतत्वेनाप्यनुसन्धेयम् । तथाहि श्रीविष्णुपुराणे “आत्मानमस्य जगतो निर्लेपमगुणा मलम् । बिभर्ति कौस्तुभमणिस्वरूपं भगवान् हरिः" इति ।। ३२-३६ ॥ तर्हि कथं विद्याधारिणः फलं नास्तीत्याशङ्कयाह । कुतश्चिदिति ।। ३७-४२ ॥ ।। इति श्रीमद्भागवते महापुराणे षष्ठस्कन्धे श्रीमज्जीव गोस्वामि कृतक्रम सन्दर्भेऽष्टमोऽध्यायः ॥ ६ ॥ विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी यत् सदसद्रूपं जगत् तद्वस्तुतो भगवानेव तस्यैव बहिरङ्गमायाशक्तिकार्यत्वात् । सत्येन शपथेनानेन इति यद्येवंभूतो भगवान् सत्यः स्यात् तदास्माकमुपद्रवा नश्यन्तु । “यदि वेदाः प्रमाणम्” इतिवत् ॥ ३१ ॥ * * ऐक्यात्म्यं चिन्मयत्वा- देकस्वरूपत्वमनुभावो लक्षणं यासां तासां भूषणादीनां शक्तीनां विकल्परहितः स्वस्य तासाच चिद्रूपत्वात्तेभ्यो भेदरहितोऽपि भूषणाद्याख्यास्ताः शक्तीः यथा धत्ते तथा तेनैव सत्यमानेन नः पात्वित्यन्वयः । तत्र भूषणानि कौस्तुभादीनि आयुधानि चका- दीनि लिङ्गानि चतुर्भुजत्वादीनि आख्या नामानि यासां ताः शक्तीः स्वरूपशक्तिवृत्तीर्धत्ते । स्वमायया स्वरूपशतचा स्वरूप- भूतया नित्यशक्त्या मायाख्यया युतः “अतो मायामयं विष्णुं प्रवदन्ति मनीषिणः" इति माध्वभाष्यप्रमाणितश्रुतेः । तेनैव सत्यमानेन सत्यरूपप्रमाणेन भूषणायुधादीनि चतुर्भुजत्वादीनि च स्वरूपशक्तिमयत्वात् स्वेनाभिन्नान्येव भगवान् धत्ते इति यदि सत्यं स्यात्तदा सर्वै: “हरिर्विदध्यात्" इत्यादिमन्त्रोक्तैः स्वरूपैः सर्वत्र देशे काले च सर्वगः सन् पातु । सर्वज्ञ इत्यस्मिन् मनोगत - मास्तिक्यं भगवानेव जानातीति शपथो ज्ञापितः ॥ ३२-३३ ॥ * एवं नानास्वरूपैः स्वरक्षां समाप्यापि पुनरपि सर्वेषां प्रतिकूलानां भीषणेनैकेनैव नृसिंहस्वरूपेण स्वरक्षामन्त्रमेकमाह । विदिविति । पात्वित्यनुषङ्गः । यद्वा । नारसिंहः नरसिंहभक्त: प्रह्लादः खनेन श्रीनृसिंहनामगर्जनेन स्वतेजसा प्रस्तानि समस्तानां दिग्गजविषयशखजलवाय्वग्न्यादीनां तेजांसि प्रभावा येन सः ॥ ३४ ॥ * * दंशितः कवचितः ॥ ३५॥ * * सोऽपि साध्वसाद्विमुच्यते किमुत देहे तद्धार्थ- माणः ।। ३६-३८ ३५ २७४ श्रीमद्भागवतम् शुकदेवकृतः सिद्धांतप्रदीप: [ स्कं. ६ अ. ८ श्लो. ३१-३८ यत्ते सदसच्च स्थूलं सूक्ष्मं च जडमजडं तत्सर्व भगवानेव सर्वचेतनाचेतनस्य तदंशत्वादिना तत्पृथक स्थितिप्रवृत्त्या- द्यभावात् ॥ ३१ ॥ * * ऐकात्म्यं स्वस्य भगवदंशत्वेन तदनतिरिक्तत्वं तस्यानुभावोऽनुचिन्तनं येषां विकल्पो भेदः पृथगवस्थानं तद्रहितः सत्य एव यथा स्वयं च सर्वात्मा सत्य एव यथा भूषणानि कौस्तुभादीनि आयुधानि सुदर्शनादीनि लिङ्गानि नृसिंहादीनि आख्या ब्रह्मनारायणादीनि नामानि शक्तीः प्रकृतिकालाद्याः सत्या एव धत्ते यथा ॥ ३२ ॥ * * तथा तेनैव सत्यभूतेन मानेन प्रमाणेन सर्वैः स्वरूपैः स्वकीयेषु दासेषु या माया कृपा तथा नोऽस्मान् पातु ॥ ३३ ॥ * * एकैकस्य स्वरूपस्य नाममात्रं येन केनाप्युच्चारितं लोकस्य यस्य कस्यापि संसारभयं सदा सर्व निराकरोतीति द्योतयितुं पुनरपि नृसिंहः प्रार्थ्यते । विदिविति । विदिक्ष्वादिषु देशेषु समन्तात्कालयोगतः सर्वेषु कालेषु इत्यर्थः । अन्तः शुचिजन्मादौ बहिर- शुचिजन्मादौ च लोकस्य वर्णाश्रमादिनिरपेक्षस्य भयं भयमात्रं सर्वभयगर्भ संसारभयं स्वनेन हरिः इत्येवमात्रेण विभक्तयादि- सम्बन्धवर्जिते । पि कुतश्चिन्निर्गतेनापि प्रहापयन् विराजते इति शेषः ॥ ३४ ॥ * वर्म कवचं येन कवचेन दंशित: कवचितः ॥ ३५ ॥ * * साध्वसाद्भयात् ।। ३६-३७ ॥ * * मरुधन्वनि निरुदके देशे ॥ ३८ ॥ I ।। गोस्वामिगिरिधरलाल विहिता बालप्रबोधिनी * इदानीं शपथपूर्वकं रक्षां प्रार्थयते - यथा हीति त्रिभिः । वस्तुतः परमार्थतः सच असच मूर्त्तामूर्त्त यत्तत्सर्वं जगद्भग- बानेव न ततो भिन्नमिति । यथाहि यथार्थं चेत् हि शब्दः शास्त्रप्रसिद्धियोतनार्थः । शास्त्रप्रतिपादितं सत्यं चेत्तदाऽनेनैव सत्येन नोऽस्माकं सर्व उपद्रवा नाशं यान्तु गच्छन्त्वित्यन्वयः ॥ २९ ॥ ऐकात्म्यस्यानुभावो भावना ध्यानं येषां तेषां विकल्पो भेदस्तद्रहितोऽपि तथा भावनारहितानां भेददर्शिनां तु भूषणानि कौस्तुभादीनि आयुधानि सुदर्शनादीनि लिङ्गानि चतुर्भुज- द्विभुजादिमूर्ती: आख्या: रामकृष्णादिनामानि । शक्ती : ज्ञानैश्वर्यादीनि स्वमायया स्वेच्छया स्वयमेव धत्त इति प्रतिभाति तत्तु ‘यद्यद्धिया त उरुगाय विभावयन्ति तत्तद्वपुः प्रणयसे सदनुग्रहाय’ इत्यादिशास्त्रोक्तं यथा यथार्थ सत्यं चेत् ॥ ३० ॥ तदा तेनैव सत्यमानेन यथार्थेन प्रमाणेन सर्वैः पूर्वोक्तैरनुक्तैश्च अष्टभुजादिखरूपैर्नोऽस्मान् सदा सर्वत्र हरिः पात्वित्यन्वयः । ननु युष्मद्दुःखं कथं ज्ञास्यति ज्ञानं विना रक्षाया असम्भवादित्याशङ्कयाह - सर्वज्ञ इति । तथापि रक्षायां सामर्थ्यम् अपेक्षित- मित्याशङ्कयाह - भगवानिति, अचिन्त्यैश्वर्यादिमान् । तथाप्येकत्र स्थितेन सर्वत्र रक्षा कथं स्यात्तत्राह - सर्वग इति ॥ ३१॥ * * एवं नानास्वरूपैः स्वरक्षां सम्प्रार्थ्य सर्वभयङ्करभीषणेन अचिन्त्यप्रभावेण श्रीनृसिंहस्वरूपेण पुनरपि रक्षां प्रार्थयते - विदिविति । स्वनेन महाट्टहासेन सर्वलोकेभ्यो लोकशब्दवाच्यचेतनवर्गेभ्यो यद्भयं तत् प्रहापयन् अपसारयन् विदिक्षु आग्नेय्यादिषु चतसृषु दिक्षु प्राच्यादिषु ऊर्ध्वम् अधः समन्तात् सर्वतः अन्तर्बहिश्च अस्मान् नरसिंह एवं नारसिंहः पात्वित्यनुषङ्गेणान्वयः । ननु कथमेवं कत्तु शक्यते इत्याशङ्कयाह - स्वतेजसेति, स्वतेजसा प्रस्तानि अभिभूतानि समस्तानां तेजस्विनां ब्रह्मादीनां तेजांसि येन स: । तत्रापि हेतुमाह - भगवानिति । यद्वा नारसिंहभक्तः प्रह्लादः स्वनेन श्रीनृसिहनामगर्जनेन स्वतेजसा स्वप्रभावेण प्रस्तानि समस्तानां दिग्गजविषशस्त्र जलवाय्वग्न्यादीनां तेजांसि प्रभावा येन सः । तत्र हेतुः - भगवानिति, भक्तत्वेन भगवद्दन्तैश्वर्यादि- मानित्यर्थः । अन्यत्समानम् ॥ ३२ ॥ 883 एवं कवचमुपदिश्य तस्य फलमाह - मघवन्निति सम्बोधनेन तस्मिन् स्वप्रीति सूचयति । दंशितः कवचितोऽञ्जसाऽनायासेन ॥ ३३ ॥ * * न केवलं तव भयनिवृत्त्यर्थमेवेदमुक्तं किन्तु सर्वस्यैव धारयतो भयनिवर्त्तकमिदमित्याह – एतदिति द्वयेन । स दृष्टः स्पृष्टो वा सद्यः साध्वसात् भयाद्विमुच्यते किं पुनर्धारकः ? ॥ ३४ ॥ तस्य तु राजादिभ्यः कुतश्चित्कर्हिचिदपि भयं नैव भवेत ॥ ३५ ॥
-
- एतद्विद्याप्रभावातिशयमितिहासेनाह - इमामिति सार्द्धंस्त्रिभिः । मरुधन्वनि निरुदके देशे । अनेन विद्यायाः क्षेत्रतीर्थानपेक्षित्वं दर्शितम् ॥ ३६ ॥ भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी ॥ * * यथेति । एकोऽलंकारादिधारणवर्जित आत्मा भगवान् मूर्तिरेकात्मा तस्य भाव ऐकात्म्यं तस्यैवानुभावोऽखण्डं ध्यानं येषां ते तेषां, आनखादाशिखं शुद्धभगवन् मूत्येकनिरीक्षकाणामित्यर्थः । स्वयं श्रीहरिः, विकल्परहितः भूषणभूषणाङ्ग- स्वाद्भूषणजन्यविकल्पवर्जितः, यथा यथावदेव, स्वदर्शनमिति शेषः । धत्ते ददाति । धातूनामनेकार्थत्वाद्दधातेर्दानार्थत्वम् । स्वाङ्गस्य भूषणभूषणभूतत्वाच्छुद्ध केवलस्वमूत्यैकध्यानवतां यथाविधा भूषणादिभेदवर्जिता स्वमूर्त्तिः प्रियाऽस्ति तथाविधां तां, स्वमूत्तिं प्रदर्श्य तदीक्षणजन्यं परमं सुखं ददाति इत्यर्थः । स्वमायया सालंकारस्वमूर्त्तीक्षकस्वभक्तभजनेच्छया, भूषणानि कटक- स्क ६ अ. ८ श्लो. ३९-४२ ] अनेकव्याख्या समलङ्कृतम् २७५ कटिसूत्रादीनि च आयुधानि शङ्खचक्रादीनि च लिङ्गानि चतुर्भुजाष्टभुजत्वादीनि च आख्या रामकृष्णाद्या विद्यन्ते यासु ताः । यद्वा । भूषणायुधलिङ्गैराख्यायन्ते वर्ण्यन्ते इति तथोक्ताः शक्तीः, धत्ते । भूषणादिसहितं स्वदर्शनं तथाविधतदिच्छया ददाती - त्यर्थः ॥३१॥ * * तेनैवेति । सर्वज्ञः सर्वज्ञतागुणयुक्तः, भगवानुक्तविधाद्यनेकैश्वर्यवान्, सर्वगः सर्वान्तरात्मा, हरिः स्वाश्रिता- पन्निवर्त्तकः परमेश्वरः अस्तीति शेषः । तेनानेन सत्येन मानेन परमार्थप्रमाणेन, सर्वैः ‘यो यो यां यां तनुं भक्त’ इत्युक्तरीत्या भक्तेच्छानुगुणं विधृतैरखिलैः स्वरूपैः स्वमूर्त्तिभिः, सदा सर्वकालं सर्वत्र सर्वेषु देशेषु नोऽस्मान् पातु ॥ ३२ ॥ एवं भगवन्तं संप्रार्थ्य पुनः सिंहावलोकनन्यायेन श्रीनृसिंहं त्रातारं प्रार्थयते । विदिश्विति । विदिश्वाग्नेयादिदिक्षु, ऐन्द्रयादिषु दिशासु, ऊर्ध्वमूर्ध्वायां दिशि, अधोऽधस्तनायां दिशि, समन्तादुक्तानुक्तसर्वदिवित्यर्थः । अन्तः शरीरान्तःप्रदेशे, बहिः शरीरादिबहि:- प्रदेशेषु, स्वतेजसा प्रस्तानि समाच्छादितानि समस्तानि तेजांसि सूर्यादिमहांसि येन सः, स्वनेनागृहासध्वनिना, लोकभयं प्रहापयन्नपनुदन्, नारसिंह: भगवान् पात्वित्यनुषङ्गः ॥ ३३ ॥ * * एवं श्रीनारायणकवचमुक्त्वा तदुपसंहरन् तत्सामर्थ्यमाह त्रिभिः । मधवन्निति । हे मघवन् येन वर्मणा, दंशितः कवचितः, अञ्जसा सुखेनैव, असुरयूथपान् शत्रून, विजेष्यसि । तथाविधम् इदं नारायणात्मकं वर्म तुभ्यम आख्यातम् । ययेति शेषः ॥ ३४ ॥ * * ॥ एतदिति । एतद्वर्म, धारयमाणः अनुसंदधत् पुमांस्तु, यं यं पुरुषं चक्षुषा पश्यति, तथा पदा पादेन वापि संस्पृशेदवशोपि स्पर्श कुर्यात्, स पुमान्, साध्वसाद्भयात्, सद्यः विमुच्यते ॥ ३५ ॥ * न कुतश्चिदिति । विद्यां नारायणकवचरूपामिमां विद्यां, धारयतः तस्य पुंसः, कुतश्चिदपि कर्हिचिदपि राजानश्च दस्यवश्च महादयश्च तेभ्यः, व्याघ्रादिभ्यश्च भयं न भवेत् । एतद्धारको निर्भयो जायते इत्यर्थः ॥ ३६ ॥ * * एतद्विद्याप्रभावसूचकं कंचिदितिहासमाह सार्द्धंस्त्रिभिः । इमामिति । पुरा पूर्वस्मिन् काले, कौशिकः कौशिकगोत्रजः कश्चित् द्विजः इमां विद्याम् अधारयत् । स च योगधारणया ‘स्वपाणिनापीड्य गुदम्’ इत्यादिद्वितीयस्कन्धोक्तरीत्या, मरुधन्वनि निरुदकदेशे, स्वाङ्गं स्वदेहं जहौ तत्याज । धारयन्निति पाठे स इत्यस्म विशेषणम् || ३७ ॥
भाषानुवादः
‘जितना भी कार्य अथवा कारणरूप जगत् है, वह वास्तवमें भगवान ही हैं - इस सत्यके प्रभावसे हमारे सारे उपद्रव नष्ट हो जायँ ॥ ३१ ॥ * * जो लोग ब्रह्म और आत्मा की एकताका अनुभव कर चुके हैं, उनकी दृष्टिमें भगवान्का स्वरूप समस्त विकल्पों-भेदोंसे रहित है; फिर भी वे अपनी माया शक्तिके द्वारा भूषण, आयुध और रूप नामक शक्तियोंको धारण करते हैं । यह बात निश्चितरूपसे सत्य है । इस कारण सर्वज्ञ, सर्वव्यापक भगवान् श्रीहरि सदा-सर्वत्र सब स्वरूपोंसे हमारी रक्षा करें ।। ३२-३३ ॥ जो अपने भयङ्कर अट्टहाससे सब लोगोंके भयको भगा देते हैं और अपने तेजसे सबका तेज ग्रस लेते हैं, वे भगवान् नृसिंह दिशा - विदिशामें, नीचे-ऊपर, बाहर-भीतर - सब ओर हमारी रक्षा करें ।। ३४ ।। * * देवराज इन्द्र ! मैंने तुम्हें यह नारायणकवच सुना दिया। इस कवचसे तुम अपनेको सुरक्षित कर लो । बस, फिर तुम अनायास ही सब दैत्य यूथपतियोंको जीत लोगे ॥ ३५ ॥ * * इस नारायण- arasो धारण करनेवाला पुरुष जिसको भी अपने नेत्रोंसे देख लेता अथवा पैरसे छू देता है, वह तत्काल समस्त भयोंसे मुक्त हो जाता है ॥ ३६ ॥ * * जो इस वैष्णवी विद्याको धारण कर लेता है, उसे राजा, डाकू, प्रेत- पिशाचादि और बाध आदि हिंसक जीवोंसे कभी किसी प्रकारका भय नहीं होता ॥ ३७ ॥ देवराज ! प्राचीन काकी बात है, एक कौशिकगोत्री ब्राह्मणने इस विद्याको धारण करके योगधारणासे अपना शरीर मरुभूमिमें त्याग दिया || ३८ ॥ तस्योपरि विमानेन गन्धर्वपतिरेकदा । ययौ चित्ररथः स्त्रीभिर्वृतो यत्र गगनान्न्यपतत् सद्यः सविमानो हावाक्शिराः । * द्विजक्षयः ।। ३९ ।। स वालखिल्यवचनादस्थीन्यादाय विस्मितः । प्रास्य प्राचीसरस्वत्यां स्नात्वा धाम स्वमन्वगात् ॥ ४० ॥ श्रीशुक उवाच य इदं शृणुयात् काले यो धारयति चादृतः । तं नमस्यन्ति भूतानि मुच्यते सर्वतो भयात् ॥ ४१ ॥ एतां विद्यामधिगतो विश्वरूपाच्छतक्रतुः । त्रैलोक्यलक्ष्मीं बुभुजे विनिर्जित्य मृधेऽसुरान् ॥ ४२ ॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे नारायणधर्मकथनं नामाष्टमोऽध्यायः ॥ ८ ॥ २७६ श्रीमद्भागवतम् कृष्णप्रिया व्याख्या [ स्कं. ६ अ. ८ श्लो. ३९-४२ अन्वयः – एकदा गंधर्वपतिः चित्ररथः स्त्रीभिः वृतः यत्र द्विजक्षयः तस्य उपरि विमानेन ययौ ॥ ३९ ॥ सद्यः सः सविमानः अवाक्शिराः गगनात् हि न्यपतत विस्मितः वालखिल्यवचनात् अस्थीनि आदाय प्राचीसरस्वत्यां प्रास्य स्नात्वा अनु स्वं धाम अगात् ॥ ४० ॥ * यः काले इदं शृणुयात् च यः आदृतः धारयति तं भूतानि नमस्यन्ति सर्वतः भयात् मुच्यते ॥ * * शतक्रतुः विश्वरूपात् एतां विद्यां अधिगतः असुरान् मृधे विनिर्जित्य तः त्रैलोक्यलक्ष्मी बुभुजे ॥ ४२ ॥ ।। ।। ॥ ॥ ४१ ॥ इत्यष्टमोऽध्यायः ॥ ८ ॥ श्रीधरस्वामिविरचिता भावार्थदीपिका यत्र द्विजस्य क्षयो देहत्यागस्तस्योपरि ॥ ३६ ॥ * * सद्यस्तत्क्षणादेव गगनान्न्यपतत् पाठांतरे अंगनाभिः सह । वाल- खिल्योपदेशात्तस्यास्थीनि प्रास्य प्रक्षिप्य विस्मितः सन् स्वं धाम गंधर्वलोकं जगाम ।। ४०-४१ ॥ * * अधिगतः प्राप्तः सन् ।। ४२ १२॥ sa tara to geकन्धे टीकायामष्टमोऽध्यायः ॥ ८ ॥ वंशीधरकृतो भावार्थदीपिकाप्रकाशः ॥ तस्येति यत्रेति पदेनान्वेति ॥ ३६ ॥ * इति पाठे । अवाशिरा अधः शिराः । विमानपतितेन विमानान गंधर्वेण प्रार्थितैर्वालखिल्यैरुक्तमत्र कौशिकद्विजास्थीनि संति तानि पृथूदकक्षेत्रे प्राचीसरस्वत्यां प्रक्षिप तत्र स्नाहि च ततः स्वां गतिमवाप्स्यसीति तच्छ्रुत्वा स तथा कृतवान् ॥ ४० ॥ * आहतो धारयति सर्वदा जपेन धारयति तं श्रोतारमध्येतारश्च ॥ ४१ ॥ * * ननु यत्फलम् ‘एतद्धारयमाण’ इत्यादिनोक्तं तत्कुतो नास्तीति वेदत्रेदमवधेयम् - गुरुशिष्ययोर्मिथो योग्यतावैकल्याद्योग्यत्वेऽपि “नासंवत्सरवासिने ब्रूयात्” इति श्रुतेर्गुरुकुलवासापूर्त्या गुरुप्रसादाभावेन वा लोकापकारादिना वा गुरोः प्राप्ता शिष्यस्य यथोक्तफलदा न स्यात् । तदुक्तं तीर्थेन " गुरुशिष्य- योरयोग्यत्वाद्गुरुवृत्तेरपूर्त्तितः । अप्रसादाद् गुरोर्विद्या न यथोक्तफलप्रदा” इति तर्हि गुरूपदेशमंतरेण यथा लिखित- पाठादिना प्राप्ता फलदा स्यादिति चेन्न ‘गुरोः प्राप्ता फलप्रदा’ इत्युक्तस्तत्रापि प्रसन्नाद् गुरोः प्राप्तैव फलदेति तत्त्वम् " सुप्रसन्न - गुरोर्दत्ता या विद्याभीष्टदा हि सा " इति स्मृतेः । “अन्येनैव प्रोक्ता सुज्ञानाय प्रेष्ठा" इति काठकश्रुतेः । " यदृच्छया श्रुतं वापि च्छन्नेनाथ च्छलेन वा । पत्रे स्थितं वा गाथायां वर्जयेत्तदनर्थवत्" इति ब्रह्मवैवर्त्तक्तेश्व । तथा च विधिवैकल्यादेव फलवैकल्य- मिति यथोक्तश्रद्धादिसत्त्वे फलस्यावश्यंभावित्वनियमादित्यलम् ॥ ४२ ॥ इति श्रीमद्भागवतभावार्थदीपिकाप्रकाशे षष्ठस्कन्धेऽष्टमोऽध्यायः ॥ ८ ॥ अन्वितार्थप्रकाशिका । तस्येति । एकदा स्त्रीभिर्वृतचित्ररथो नाम गन्धर्वपतिः यत्र द्विजस्य क्षयः देहत्यागस्योपरि विमानेन ययौ ॥ ३७ ॥ । ** गगनादिति अर्द्धम् । तस्य स्थानस्योल्लङ्घनात् सद्यस्तत्क्षणमेव सविमानोऽवाकूशिराः अधः शिरा गगनान्न्यपतत् ॥ ३८ ॥ * * स इति । अस्यास्थीनि सरस्वत्यां क्षिपतस्तामितो गन्तुं शक्ष्यसि नान्यथेति वाल- खिल्यानां ऋषीणां वचनात्स चित्ररथः तस्यास्थीन्यादाय प्राचीन सरस्वत्यां पूर्ववाहिन्यां सरस्वत्याम् । पुंवद्भावाभाव आर्ष: । प्रास्य प्रक्षिप्य तत्र स्नात्वा च तत्प्रभावेण विस्मितः सन् स्वं धाम गन्धर्वलोकमन्वगात् जगाम । अन्यथा गन्तुं नापारयिष्यदिति ॥ ३६ ॥ * * य इति । काले यस्मिन् कस्मिन्नपि काले भयकाले च स्पष्टमन्यत् ॥ ४० ॥ * * एतामिति । विश्वरूपादधिगतः प्राप्तः सन् स्पष्टमन्यत् ॥ ४१ ॥ इति श्रीकृष्ण सेवार्थमन्वितार्थप्रकाशिकाम् । गङ्गासहायः षष्ठस्याष्टमेऽध्याये व्यधादिमाम् ॥ इति श्रीभागवते महापुराणे षष्ठस्कन्धे ऽन्वितार्थप्रकाशिकायामष्टमोऽध्यायः ॥ ८ ॥ स्कं. ६ अ. ८ श्लो. ३९-४२] 1 अनेकत्र्याख्यासमलङ्कृतम् वीरराघवव्याख्या ૨૭ तस्य त्यक्तस्य देहस्योपरिष्टाचित्ररथाख्यः कश्चिद्गन्धर्वाणां पतिः स्त्रीभिः परिवृतः विमानेन कदाचिद्ययौ यत्र द्विजस्य क्षयो देहत्यागस्तत्र चित्ररथो विमानसहितो गगनादवाकूशिरा अधोमुखः सद्यो न्यपतत् । पुनरुत्थाय वालखिल्यस्य ऋषेः वचनात्कौशिकस्यास्थीन्यादिशल्यानि गृहीत्वा प्राचीसरस्वत्यां नद्यां प्रास्य प्रक्षिप्य स्नात्वा विस्मितः अहो एतद्विद्याप्रभाव ईदृश इति विस्मितः । स्वं धाम स्थानमन्वगादिति ।। ३९-४० ।। * * एवंविधानेकप्रभावशालिनो वर्मणः श्रवणधारणाभ्यां न कुतश्चिद्भयं भवतीष्टप्राप्तिश्च भवतीत्याह मुनिः । य इति द्वाभ्याम् । यः पुमानिदं वर्म काले शृणुयाद्यश्चादृतः कर्तरिक्तः आदरयुक्तः धारयति वा तं सर्वाणि भूतानि कूष्माण्डादीनि न पश्यन्ति सर्वतो भयान्मुच्यते ॥ ४१ ॥ * शतक्रतु- रिन्द्रो विश्वरूपादेतां विद्यामधिगतः प्राप्तः सन् मृधे युद्धेऽसुरान्दानवान् विजित्य निर्जित्य त्रैलोक्यलक्ष्मीं बुभुजे अनु- बभूव ।। ४२ ।। इति श्रीमद्भागवते महापुराणे षष्ठस्कन्धे श्रीमद्वीरराघवाचार्यकृतभागवतचन्द्रचन्द्रिकायाम अष्टमोऽध्यायः ॥ ८ ॥ विजयध्वजतीर्थकृता पदरत्नावली द्विजक्षयः द्विजमरणम् ॥ ३६ ॥ * * प्रास्य निरस्य ॥ ४०-४१ ।। * * एतद्धारयमाण इत्यादिना यत् फलमुच्यते तस्य कस्माद्वैलक्षण्यदर्शनमिति चेदुच्यते गुरुशिष्ययोर्मिथो योग्यतावैकल्यात् योग्यत्वेऽपि “नासम्वत्सरवासिने प्रब्रूयात्” इति विधेर्गुरुकुलवासापूर्त्या गुरुप्रसादाभावेन लोकोपकारादिना वा गुरोः प्राप्ता विद्या शिष्यस्य यथोक्तफलदा न स्यात् । गुरुशिष्ययोरयोग्यत्वाद्गुरुवृत्तेरपूर्तितः । अप्रसादाद्गुरोर्विद्या न यथोक्तफलप्रदा । इत्युक्तेः तर्हि गुरुपदेशमन्तरेण यथालिखितपाठादिना प्राप्ता फलदा स्यादिति चेन्न । गुरोः प्राप्ताया फलप्रदत्वात् " विद्या कर्माणि च सदा गुरोः प्राप्ताः फलप्रदाः । अन्यथा नैव फलदाः” इत्युक्तेः तस्मात्प्रसन्नगुरुदत्ता यथोक फलदा इति मन्तव्यम् “प्रसन्नोक्ताः फलप्रदाः” इति यथोक्तफलदा वचनात् । अत उक्तफलसाकल्यादृष्टया नाश्रद्धेयमिति भावः ॥ ४२ ॥ । इति श्रीमद्भागवते महापुराणे षष्ठस्कन्धे श्रीमद्विजयध्वजतीर्थ कृतपदरत्नावल्याम् अष्टमोऽध्यायः ॥ ८ ॥ विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी * द्विजस्य क्षयो देहत्यागः ॥ ३९ ॥ प्राचीसरस्वत्यामिति’ पुंवद्भावाभाव आर्षः । स्वं धाम सविमानोऽ- न्यथा गन्तु नैवापारयिष्यदिति भावः ।। ४०-४२ । इति सारार्थदर्शिन्यां हर्षिण्यां भक्तचेतसाम् । षष्ठेऽयमष्टमोऽध्यायः सङ्गतः सङ्गतः सताम् ॥ ८ ॥ शुकदेवकृत: सिद्धान्तप्रदीपः द्विजस्य कौशिकस्य क्षयो देहत्यागः ॥ ३९ ॥ ॐ वालखिल्यस्य वचनादाज्ञातः प्रास्य प्रक्षिप्य स्वं धाम गन्धर्वलोकम् ।। ४०-४२ ॥ इति श्रीमद्भागवते महापुराणे षष्ठस्कन्धे श्रीमच्छुकदेवकृत सिद्धान्तप्रदीपे अष्टमाऽध्यायार्थप्रकाशः ॥ ८ ॥ गोस्वामिगिरिधरलालविहिता बालप्रबोधिनी यत्र द्विजस्य क्षयो देहत्यागस्तस्योपरि ययावित्यन्वयः ॥ ३७ ॥ * * तस्य स्थानस्योलङ्घनात् सद्यस्तत्क्षणमेव सविमानोऽवाकूशिराः अधश्शिरा गगनान्न्यपतदित्यन्वयः । हि शब्दो निश्चये । नात्र सन्देहः कर्त्तव्यः । स चित्ररथो वाल- खिल्यानामृषीणां वचनात् एवं त्वमितो गन्तुं शक्ष्यसि नान्यथेत्युपदेशात् तस्यास्थीन्यादाय प्राची सरस्वत्यां पूर्ववाहिन्यां सरस्वत्यां प्रास्य प्रक्षिप्य तत्र स्नात्वा च तत्प्रभावे विस्मितः सन् स्वं धाम गन्धर्वलोकमन्वगात् जगाम ॥ ३८ ॥ * * एवं कवचधारण- मर्यादया धारयतः फलमुक्त्वा साधारणेन आदरपूर्वक श्रवणकीर्त्तन कत्तु रपि फलमाह - य इदमिति । काले यस्मिन्नपि काले भय- काले च ॥ ३९ ॥ * * प्रश्नोत्तरमुपसंहरति - एतामिति । यथाऽऽततायिन इति प्रकारप्रम्नस्याप्युत्तरं मृधे युद्धे इत्युक्त्या २७८ श्रीमद्भागवतम् [ स्कं. ६ अ. लो. ३९-४२ युद्धस्य प्रकारः प्रसिद्ध एवेति सूचितम् । विश्वरूपादधिगतः प्राप्तः सन्नित्यनेन तपआदियुक्तेन भगवदनुगृहीतेनोपदिष्टं तथाविधेन गृहीतमेवेदं सफलं भवति नान्यथा लिखितपाठादिना गृहीतमितीदानीं प्रायशः तत्प्रकारासम्भवाद्यथोक्त फलादर्शनेऽपि नाश्रद्धेयं तथापि नाममाहात्म्योक्तफले तु न सन्देह इति सूचितम् ॥ ४० ॥ इति श्रीवल्लभाचार्यवंश्यगोपालसूनुना । श्रीमन्मुकुन्दरायाणां पादसेवाधिकारिणा ॥ १ ॥ श्रीमद् गिरिधराख्येन भजनानन्दसिद्धये । श्रीमद्भागवतस्येयं टीका बालप्रबोधिनी ॥ २ ॥ रचिता तत्र षष्ठेऽस्मिन् स्कन्धे रूपनिरूपणे । अष्टमो विवृतो: श्रीमद्वर्मनारायणात्मकः ॥ ३ ॥ , भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी کچھ *- * तस्योपरीति । यत्र द्विजक्षय: ब्राह्मणस्य देहत्यागः, अभूत्, तस्य उपर्यन्तरिक्षे, एकदा विमानेन गन्धर्वपतिः चित्ररथः स्त्रीभिः वृतः सन् ययौ गतवान् ॥ ३८ ॥ * * गगनादिति । सः चित्ररथः, सद्यः सविमानः अवाकूशिराः सन्, गगनात् न्यपतत् । स चित्ररथः, वालखिल्यवचनाद्वालखिल्यमुनेरुपदेशात्, अस्थीनि आदाय गृहीत्वा द्विजस्येति शेषः । प्राचो प्राग्वाहिनी या सरस्वती तस्यां नयां, प्रास्य प्रक्षिप्य स्नात्वा विस्मितः सन् अहो एतद्विद्याप्रभाव ईदृश इति विस्मयाविष्टः सन् स्वं धाम स्थानं, अन्वगात् ॥ ३६ ॥ एवंविधानेकप्रभावशालिनो वर्मणः श्रवणधारणाभ्यां न कुतश्चिद्भयं भवति प्रत्युतेष्टप्राप्तिश्च भवतीत्याह मुनिः । य इति द्वाभ्याम् । य इति । यः पुमान्, काले भयागमनावसरे, इदं वर्म, आदृतः शृणुयात् । धारयति च तं पुमांसं भूतानि नमस्यन्ति । सर्वतो भयात् मुच्यते च ।। ४० ।। * * एतामिति । शतक्रतुरिन्द्रः, विश्वरूपात् एतां विद्यां अधिगतः संप्राप्तः सन् मृधे युद्धे, असुरान् दानवान्, विनिर्जित्य, त्रैलोक्यलक्ष्मीं बुभुजे अनुबभूव ॥ ४१ ॥ J इति श्रीधर्मधुरंधर श्रीधर्मात्मजप्रत्यक्ष पुरुषोत्तम सहजानन्दखामि सुतश्रीरघुवीराचार्यसूनुभगवत्प्रसादाचार्यविरचिता- यामन्वयार्थावबोधिन्यां भक्तमनोरञ्जन्याख्यायां श्रीमद्भागवतटीकायां षष्ठस्कन्धेऽष्टमोऽध्यायः ॥ ८ ॥ भाषानुवादः जहाँ उस ब्राह्मणका शरीर पड़ा था, उसके ऊपरसे एक दिन गन्धर्वराज चित्ररथ अपनी स्त्रियोंके साथ विमानपर बैठकर निकले ॥ ३९ ॥ * * * वहाँ आते ही वे नीचेकी ओर सिर किये विमानसहित आकाशसे पृथ्वी- पर गिर पड़े। इस घटना से उनके आश्चर्यकी सीमा न रही। जब उन्हें बालखिल्य मुनियोंने बतलाया कि यह नारायणकवच धारण करनेका प्रभाव है, तब उन्होंने उस ब्राह्मण देवताकी हड्डियोंको ले जाकर पूर्ववाहिनी सरस्वती नदीमें प्रवाहित कर दिया और फिर स्नान करके वे अपने लोकको गये ॥ ४० ॥ * * श्रीशुकदेवजी कहते हैं - परीक्षित्! जो पुरुष इस नारायण- कवचको समयपर सुनता है और जो आदरपूर्वक इसे धारण करता है, उसके सामने सभी प्राणी आदर से झुक जाते हैं और वह सब प्रकारके भयोंसे मुक्त हो जाता है ॥ ४१ ॥ परीक्षित्! शतक्रतु इन्द्रने आचार्य विश्वरूपजीसे यह वैष्णवी- विद्या प्राप्त करके रणभूमि में असुरोंको जीत लिया और वे त्रैलोक्यलक्ष्मीका उपभोग करने लगे ॥ ४२ ॥ इत्यष्टमोऽध्यायः ॥ ८ ॥अथ नवमोऽध्यायः श्रीशुक उवाच तस्यासन् विश्वरूपस्य शिरांसि त्रीणि भारत । सोमपीर्थं सुरापीथमन्नादमिति शुश्रुम ॥ सवै बर्हिषि देवेभ्यो भागं प्रत्यक्षमुच्चकैः । अवदद् यस्य पितरो देवाः सप्रश्रयं नृप ॥ स एव हि ददौ भागं परोक्षमसुरान् प्रति । यजमानोऽवहद् भागं मातृस्नेहवशानुगः ॥ तद् देवहेलनं तस्य धर्मालीकं सुरेश्वरः । आलक्ष्य तरसा भीतस्तच्छीर्षाण्यच्छिनद् रुषा ॥ सोमपीथं तु यत् तस्य शिर आसीत् कपिञ्जलः । कलविङ्कः सुरापीथमन्नादं यत् स तित्तिरिः ॥ ब्रह्महत्यामञ्जलिना जग्राह यद्पीश्वरः । १ ॥ २ ॥ ३ ॥ ४ ॥ ५ ॥ संवत्सरान्ते तदर्थं भूतानां स विशुद्धये । भूम्यम्बुद्रुमयोषिद्यश्वतुर्धा व्यभजद्धरिः ॥ ६ ॥ भूमिस्तुरीयं जग्राह खातपूरवरेण वै। ईरिणं ब्रह्महत्याया रूपं भूमौ प्रदृश्यते ॥ ७ ॥ तयं छेदविरोहेण वरेण जगृहुद्रुमाः । तेषां निर्यासरूपेण ब्रह्महत्या प्रदृश्यते । ॥ ८ ॥ शश्वत्कामवरेणांहस्तुरीयं जगृहुः स्त्रियः । रजोरूपेण तास्त्रहो मासि मासि प्रदृश्यते ॥ ९ ॥ ‘द्रव्यभूयोवरेणापस्तुरीयं जगृहुर्मलम् । तासु बुबुफेनाभ्यां दृष्टं तद्धरति क्षिपन् ॥ १० ॥ कृष्णप्रिया व्याख्या || || * 1 अन्वयः – भारत तस्य विश्वरूपस्य सोमपीथं सुरापीथम् अन्नादं त्रीणि शिरांसि आसन इति शुश्रुम ॥ १ ॥ * कै नृप देवाः यस्य पितरः देवेभ्यः सः बर्हिषि प्रत्यक्षम् उच्चकैः भागं सप्रश्रयं वै अवदत् ॥ २ ॥ * सः एव असुरान् प्रति हि परोक्षं भागं ददौ मातृस्नेहवशानुगः यजमानः भागम् अवहत् ॥ ३ ॥ सुरेश्वरः तस्य धर्मालीकं तत् देवहेलनम् आलक्ष्य भीतः तरसा रुषा तच्छीर्षाणि अच्छिनत् ॥ ४ ॥ * * तस्य यत् तु सोमपीथं शिरः कपिञ्जलः आसीत् सुरापीथं कलविंक: यत् अन्नादं सः तित्तिरिः ॥ ५ ॥ * * यत् अपि ईश्वरः अञ्जलिना ब्रह्महत्यां जग्राह सः हरिः भूतानां विशुद्धये संवत्स- रान्ते तदघं भूम्यम्बुदुमयोषिद्वयः चतुर्धा व्यभजत् ।। ६ ।। भूमिः खातपूरवरेण वै तुरीयं जग्राह भूमौ ईरिणं ब्रह्महत्यायाः रूपं प्रदृश्यते ॥ ७ ॥ द्रुमाः छेदविरोहेण वरेण तुर्य जगृहु: ब्रह्महत्या तेषां निर्यासरूपेण प्रहर- यते ॥ ८ ॥ * स्त्रियः शश्वत्कामवरेण तुरीयम् अंहः जगृहु: अंहः तासु मासिमासि रजोरूपेण प्रदृश्यते ॥ ६ ॥ * द्रव्यभूयोवरेण आपः तुरीयं मलं जगृहुः तासु बुबुद्दफेनाभ्यां दृष्टं क्षिपन् तत् हरति ॥ १० ॥ * श्रीधरस्वामिविरचिता भावार्थदीपिका नवमे विश्वरूपे तु हते शक्रेण कोपतः । त्वष्ट्रा चोत्पादिते वृत्रे भीतैर्देवैहरेः स्तुतिः ॥ १ ॥ 1 सोमस्य पीथं पानं यस्मिन् एवं सुरापीथम् । अन्नमत्तीत्यन्नादम् । “अत्र विश्वरूपो वै त्वाष्ट्रः पुरोहितो देवानामासीत्” इत्यादिश्रुतिरनुसंधेया ॥ १ ॥ तस्यासुरपक्षपातमाह । स वा इति द्वाभ्याम् । प्रत्यक्षं प्रकटं यथा भवति तथा सविनयं देवेभ्यो हविर्भागमिंद्रायेदममय इदमित्युचैरवदत् । अत्र हेतुः । यस्य पितरो देवाः सः ॥ २ ॥ असुरेभ्यस्तु १. प्रा० पा० - बादरायणिरुवाच । २. प्रा० पा० भीतः शीर्षाण्यस्याच्छिनद् । ३. प्रा० पा० - यदवीश्वरः । ४ प्रा० पा०— ‘द्रव्यरूपथ० । ५. प्रा० पा० तद्धरिरक्षिपत् ।
२८० श्रीमद्भागवतम् [ स्कं. ६ अ. ९ लो. १-१० परोक्षं गुप्तभागं ददौ । तदेवाह । देवान्यजमानोऽसावसुरान्प्रति भागमवहत् केनाप्युपायेन प्रापयामास । यतो मातृस्नेहवशेना- सुराननुगच्छति ॥ ३-५ ॥ * * तां वारयितुं समर्थस्तथापि जमाह । संवत्सरं तथैव स्थित्वा संवत्सरांते भूताक्रोशभीतः सन् भूतानां मध्ये विशुद्धये । लोकापवादपरिहाराय स हरिरिंद्रो भूम्यादिभ्यस्तदघं व्यभजद्विभज्य ददावित्यन्वयः ॥ ६ ॥ * * तुरीयं चतुर्थं भागम् । खातस्य गर्तस्य पूरः पूरणं तेन वरेण यदि खातपूरणं स्वत एव भविष्यति तर्हि ग्रहीष्यामीत्येवं भाषाबंधन जग्राहेत्यर्थः । ईरणमूषरम् । अत एवोपरेऽध्ययनादि निषिद्धयते ॥ ७ ॥ * * छेदे सति पुनर्विरोह: प्ररोहो भवत्विति वरेण । निर्यासरूपेण ब्रह्महत्याया दृष्टत्वान्निर्यासो न भक्ष्यः ॥ ८ ॥ * * शश्वत्कामवरेण कामः संभोगः यावत्प्रसव गर्भानुपघातेनैव संभोगवरेण । रज इति । अत एव रजोदर्शने तत्संगादि न कार्यम् ॥ ६ ॥ * * द्रव्यभूयोवरेण यस्मि - द्रव्ये क्षीरादावापी मिश्रा भवेयुस्तस्य भूयस्त्वमाधिक्यं तन्मयत्वेन स्यादिति वरेण । यद्वा स्वस्यैव उद्धरणेपि निर्झरोद्गमादिना भूयस्त्ववरेण । द्रवभूय इति पाठेऽप्ययमेवार्थः । यद्वा द्रवभूयस्त्वं सांसिद्धिकद्रवत्वं तेन वरेण । अस्य विभागस्य “विश्वरूपो वै त्वाष्ट्रः" इत्यस्यां श्रुतावुक्तः । तद्विभागफलमाह । तत्पापं हरति निराकरोति । कः क्षिपन् । बुदबुदादि जलाद्बहिः प्रक्षिप - न्नित्यर्थः । यद्वा क्षिपन् जलं पापं हरत्याहरति गृह्णातीत्यर्थः । अयं च “यस्मादापो न परिचक्ष्याः" इत्यादिश्रुत्यर्थ उक्तः । पाठांतरे हरिकिल्बिषमिंद्रपापम् ॥ १० ॥ । 1 । वंशीधरकृतो भावार्थदीपिकाप्रकाशः T त्वष्ट्रा कोपतः कोपेन ( १ ) त्वाष्ट्रः त्वष्टुः पुत्र इति श्रुतिपदार्थः । अनुसंधेया योज्या भारतेति । शुद्धवंशोद्भूतत्वा- पृष्टमपि त्वां विश्वरूपचरितं श्रावयिष्यामीति भावः ॥ १ ॥ * * बर्हिषि यज्ञे “बर्हिर्यज्ञे नृपे देवे हस्तमात्रकुशेऽपि च” इति धरणिः । स विश्वरूपः । अत्रोच्चैः कथने । नृपैति । शृणु राज्ञा स्वभावं सौजन्यपरित्यागलक्षणमिति भावः ||२|| दत्वा च केनाप्युपायेन प्रापयामासेति भावः । तत्र हेतु:- मातृस्नेह इति ॥ ३ ॥ * * देवानां हेलनमवज्ञानलक्षणम् । धर्मेऽलीकं कपटमसुरभागदानरूपम् । भीत: मंत्रदत्तभागेन बलवृद्धिं विचार्य त्रस्त इत्यर्थः ॥ ४ ॥ कपिंजल : पारावतः । कल- विकश्चटकः । “कुलविंकः पुमान् मामचटके च कलिंगके" इति । तित्तिरिः प्रसिद्धः ॥ ५ ॥ * * आकस्मिकाभ्यां क्रोध- भयाभ्यां तं हत्वैवाही हंत महापापं बुद्धिपूर्वकमेवाकरवं महानीचो न जाने कुत्र वा नरके पतिष्यामि तदेतत्समुचितं फलं शीघ्रमेव लभेयेत्यनुतापपुंजे निमज्जेत्याह - ब्रह्मेति । स्वतेजसा मां ज्वालयेति भावः । यद्यत: । अधि अधिकृतभक्त ईश्वरविभूतिरूपस्त- स्मात्कथमेवं विकर्मणोनुतापं न कुर्यादिति भावः । अधीश्वर इति पाठेऽयमर्थः । संदर्भस्तु - तादृशपापस्य तादृशेनाप्यपहरणी- यत्वमाह । एवमनुतापेन क्षीणपापवेगः संवत्सरपर्यंतं तथैव विगीत एव स्थित्वा तदन्ते भूतानां स्वदेहस्थपृथिव्यप्तेजोवायूनां ब्रह्महत्यैवापवित्रीकृतानां विशुद्धये तदधं चतुर्द्धा व्यभजत् । आकाशस्यापावित्र्यासंभवात् चतुर्णामेव भूतानां शुद्धये चतुर्द्धेति न्यायः । तेनांतः करणगतमघं तु सूक्ष्मरूपेण तस्थावेव । यदेव बीजं पुनरपि वृत्रवधेन ब्रह्महत्यां जनयिष्यतीति भावः ॥ ६ ॥ इत्यर्थ इति । यद्यपि वृष्ट्यादिना मृत्तिकापातेन स्वयमेव पूरणं भविष्यति तथापि वरेण स्वतो वृद्धद्यापीति भावः ॥ ७ ॥ ऊपरं क्षारमृत्तिकावत्स्थलम् । अत एवोपरस्य ब्रह्महत्याधिष्ठानत्वादेव ॥ ८ ॥ * * निर्यासो वृक्षच्युतो तीव चिकणद्रव विशेषः । ‘निर्यासान्वर्जयेत्सर्वान्’ इति स्मृतेरभक्ष्य इत्यर्थः । शश्वत्कामा बहुसंभोगेऽप्यलंबुद्धयभावः । गर्भवत्या अपि गर्भा- नुपकारकसंभोगश्च । अत एव रजसि ब्रह्महत्यायाः स्थितत्वादेव स्त्रीसंगो न कार्यः ॥ ९ ॥ * न केवलं जलमिश्रण एव भूयस्त्वमन्येषां दध्यादीनां मिश्रणेऽपि भूयस्त्वस्य संभवादिति चेदाह – यद्वेति । निर्झरोद्गमादिना प्रस्रवणादिना द्रवभूय- स्त्वशब्दस्य प्रसिद्धार्थमादायाह-यद्वेति । अस्य चतुर्द्धा ब्रह्महत्याविभागस्य । श्रुतिश्चेयं संहितायां द्रष्टव्या । संदर्भस्तु - द्रव्य- शब्देनात्र द्रव एवोच्यते भावे कृत्प्रयोगात् । स्वार्थे तद्धितान्तो वा । मिश्रा इति । इतः पूर्व मिश्रा एव नो भवेयुरिति गम्यते । निर्झरोद्गमेति । इतः पूर्वं निर्झरोद्गमादिकमपि नेति गम्यते। सांसिद्धिकद्रवत्वमिति । इतः पूर्वं किञ्चिद्धनमासीदिति गम्यते । इत्यर्थ इति । जलार्थी बुबुदादिकमपाकृत्यैव जलं स्वीकरोति न तु बुदबुदादिसहितमिति । यदि च तद्युक्ता अप: कश्चिद्गृह्णाति तदा स पापमेव हरतीति भावः । ‘क्षेपणं निन्दनम्’ इति कोशादाह - यद्वेति । क्षिपन् जलनिंदां कुर्वन् । इत्यर्थ इति । जलनिन्दको जलब्रह्महत्यां गृह्णातीति भावः । अयन श्रुत्यर्थ उक्त इति । यतोऽपां निंदकस्य पापावाप्तिस्तस्मादापो जलानि न परिचक्ष्या निंद्या इति श्रुतिपदार्थः । पाठांतरे ‘दृष्टं तद्धरिकिल्बिषम्’ इति पाठे ।। १० ।। अन्वितार्थप्रकाशिका नवमे विश्वरूपस्य वधो वृत्रस्य चोद्भवः । देवैर्हरेः स्तुतिस्तत्र श्लोकाः सार्द्धाः शरेषवः (५५ || ) उवाचषट्कं (६) * * पादोना स्याद् द्वयशीतिरनुष्टुभाम् ( ८१ ॥ ) ॥ ९॥ तस्येति । हे भारत स्कं ६ अ. ९ श्लो. १-१०] अनेकव्याख्यासमलंकृतम् । 33 २८१ तस्य विश्वरूपस्य त्रीणि शिरांसि आसन् । सोमस्य पीथं पानं यस्मिंस्तत् एवं सुरापीथम् अन्नमत्तीत्यन्नादम् इति वयं शुश्रुम ॥ १ ॥ * * स वा इति । हे नृप ! यस्य देवाः पितरः स वै विश्वरूपो बर्हिषि यज्ञे प्रत्यक्षं प्रकटं समश्रयं सविनयं च यथा भवति तथा देवेभ्यो हविर्भागमिन्द्रायेदमग्नये इदमित्युच्च कैरवदत् उच्चारयन्ददौ ॥ २ ॥ * * स इति । मातू रचनाया दैत्येषु स्नेहेन तद्वशमनुगच्छतीति स एव विश्वरूपः देवान् यजमानोऽप्यसुरान्प्रति तु देवानां दृष्टिं वञ्चयित्वा परोक्ष गुप्तं यथा भवति तथा भागम् अवहत् प्रावयत् ॥ ३ ॥ * * तदिति । तत् असुरेभ्यो हविर्दानलक्षणं तस्य विश्वरूपस्य देवहेलनं देवापराधं धर्मेऽलीकं कपटं चालक्ष्य ज्ञात्वा सुरेश्वर इन्द्र एवमयमसुरान् वर्द्धयित्वाऽस्मान् घातयिष्यतीति भीतो रुषा क्रोधेन तरसा वेगेन तस्य शीर्षाण्यच्छिनत् ॥ ४ ॥ * * सोमपीथमिति । यत्तस्य शिरः सोमपीथं तत्कपिञ्जल: पक्षी आसीत् एवमन्यदपि ॥ ५ ॥ * * ब्रह्मेति अर्द्धम् । यदपि यद्यपि इन्द्र ईश्वरखिलोक्यधीश्वरस्तथापि ब्रह्महत्यायाः प्राबल्यात्तानञ्जलिना हस्तद्वयेन यातत्वात्तेनैव जग्राह स्वयमनुतापं चकारेत्यर्थः संवत्सरेति । एवमनुतापेन क्षीण- पापवेगः संवत्सरपर्यन्तं तथैव विगीतः स्थित्वा तदन्ते भूतानां स्वशरीरारम्भकमहाभूतानां शुद्धये । यद्वा प्राणिनां मध्ये स्वविशुद्धये अपवादपरिहाराय तदुघं हत्यारूपं पापं भूम्यादिभ्यश्चतुर्द्धा व्यभजद्विभज्य ददौ । आकाशस्य अपावित्र्यासंभवाच्चतुर्द्धा विभागः । अन्तःकरणगतमघं तु सूक्ष्मरूपेण स्थितमेव तदेव पुनरपि वृत्रवधेन ब्रह्महत्यां जनयिष्यति ।। ६ ।। भूमि- रिति । खातस्य गर्तस्य पूरः पूरणं तेन वरेण यदि खातस्य पूरणं स्वत एव भविष्यति तर्हि हत्यां ग्रहीष्यामीति भाषाबन्धरूपेणैव ब्रह्महत्यायास्तुरीयं रूपं चतुर्थभागं भूमिर्जग्राह । भूमौ यदीरिणमूषरं प्रदृश्यते तद्ब्रह्महत्यारूपमेवेति ज्ञेयम् । अत एवोपरेऽध्यय- नादिशुभक्रियानिषेधः ॥ ७ ॥ * तुर्यमिति । छेदे सति विरोहः पुनः प्ररोहो भवत्विति वरेण तुर्य ब्रह्महत्यायाश्चतुर्थ भागं द्रुमा जगृहु: तेषामिति स्पष्टम् । अतो निर्यासभक्षणनिषेधः ॥ ८ ॥ * शश्वदिति । शश्वत्कामवरेण नित्यबहु- संभोगेऽपि अलंबुद्धद्यभावः गर्भवत्या अपि संभोगे गर्भानुपघातश्च तद्रूपेण वरेणाहस्तुरीयं पापस्य चतुर्थं भागं स्त्रियो जगृहु: । तासु रजोरूपेण मासि मासि तत्प्रदृश्यते । तथा च रजोदर्शने स्त्रीस्पर्शादि न कार्यम् ।।९ ॥ * द्रव्येति । द्रव्यस्य भूयः आधिक्यं यत्र द्रव्ये क्षीरादाचापो मिश्रा भवेयुस्तस्याधिक्यं स्यादिति वरेण । यद्वा । द्रव्याणां मध्ये स्वस्य कृपादावुद्धृतस्यापि भूयस्त्वं निर्झरोद्गमादिना पुनर्वृद्धिस्तेन वरेण तुरीयं मलं पापमापो जगृहु: । द्रवभूय इति पाठेऽप्ययमेवार्थः । यद्वा । द्रबभूयः सांसिद्धिकं द्रवत्वं तेन वरेण तत्पापं बुदबुदफेनाभ्यां तासु दृष्टम् । अत एतदभिज्ञस्तदबुदबुदादि क्षिपन् दूरीकुर्वन्नपो हरति आहरति । बुद्बुदादिसहिताहरणे तु पापमेवाहरति । दृष्टं तद्धरिकिल्बिषमिति पाठे इन्द्रपापमित्यर्थः ॥ १० ॥ । वीरराघवव्याख्या T एवं देवैः पुरोहितत्वेन वृतस्तत्प्रियं कुर्वन्नपि विश्वरूपोऽसुरपक्षपातं “यदि क्षमिष्यध्वमुतास्य कर्म” इति ब्रह्मणा सूचित- मकरोदिति वक्तुमुपक्रमते मुनिः । तस्येति । तस्य विश्वरूपस्य हे भारत ! त्रीणि शिरांस्यासन् बभूवुः । तत्रैकं शिरः सोमपीथं सोमपीथाख्यं सोमस्य पीथः पानं यस्य सोमं पिबतीति वा सोमपीथमित्यन्वर्थं नाम । तथा सुरापीथमन्यच्छिरः । अन्नमत्ती- त्यन्नादमिति तृतीयं शिर इति शुश्रुम । वेदे इति शेषः । तथा च श्रुतिः “विश्वरूपो वै त्वाष्ट्रः पुरोहितो देवानामासीत्स्वस्रीयोs- सुराणां तस्य त्रीणि शीर्षाण्यासन् सोमपानं सुरापानमन्नादम्" इति ॥ १ ॥ * * स विश्वरूपो बर्हिषि यज्ञे प्रत्यक्षं प्रकट यथा भवति तथा सविनयं देवेभ्यो हविर्भागमिन्द्रायेदमग्नये इदमित्युञ्चैरवदत् । तस्य हेतुः यस्य विश्वरूपस्य पितरो देवाः ॥ २ ॥ * * स विश्वरूप एवासुरान्प्रति परोक्षं यथा तथा भागं ददौ । तदेवाह । देवान् यजमानोऽसौ विश्वरूपों । मातृप्रयुक्तो यः स्नेहो मातुलेषु तद्वशं गतः असुरान्प्रति भागमवहत्प्रापयत् ॥ ३ ॥ तद्विश्वरूपस्य देववञ्चनात्मक- ।। ३॥ मलीकं कपटं कर्मालक्ष्य ज्ञात्वा सुरेश्वर इन्द्रस्तरसा आशु भीतस्तस्य विश्वरूपस्य शीर्षाणि शिरांसि क्रोधेनाच्छिनच्चिच्छेद ॥ ४ ॥ * * तस्य यत्सोमपीथाख्यं छिन्नं शिरस्तत्कपिञ्जलः पक्षिविशेषः आसीत् । सुरापीथाख्यं तु कलविङ्काख्यः पक्षी आसीत् । यदन्नादाख्यं तत्तित्तिरिः पक्षी आसीत् ॥ ५ ॥ * * यदपि, यद्यपीश्वरः ब्रह्महत्यां वारयितुं समर्थोऽपि ब्रह्महत्यां तन्मूर्त्तिभूतं पापमञ्जलिना जग्राह । स हरिः इन्द्रः वत्सरपर्यन्ते हे ब्रह्मन्निति सम्बोधयतां भूतानां जनानां मध्ये आत्मनो विशुद्धये भूता- कोशनिवृत्तये । भूताशंसाविशुद्धय इति पाठान्तरं तत्राप्ययमेवार्थः । भूम्यादिभ्यस्तत्पापं चतुर्द्धा व्यभजत् । चतुर्द्धा विभज्य भूम्यादिषु चतुष्वेकैकं भागं निहितवानित्यर्थः ।। ६ ।। * * तत्र ब्रह्महत्यायास्तुरीयं चतुर्थ भागं भूमिः खातपूरवरेण जग्राह खातस्य गर्त्तस्य पूरः पूरणं तेन वरेण । यदि मे खातः स्यात्तर्हि स्वत एव पूरणं भवत्विति एवंरूपेण वरग्रहणपूर्वकं जग्राहेत्यर्थः । भूम्या यद् ब्रह्महत्याया रूपं तदीरिणमूषरम् ऊषररूपेण दृश्यत इत्यर्थः ॥ ७ ॥ * * यथा ब्रह्महत्यायाश्चतुर्थमंशं द्रुमाश्छेद- रोहेण वरेण जगृहु: । छिन्न प्रदेशस्य पुनः प्ररोहणरूपेण वरेणेत्यर्थः । तेषु दुमेषु निर्यासरूपेणापि ब्रह्महत्या प्रदृश्यते ॥ ८ ॥ * * खियो योषितः शश्वत्कामवरेण आप्रसवाद्भोगयोग्यत्ववरेण अंहसः ब्रह्महत्यायाः तुरीयं चतुर्थ भागं जगृहुः । तासु स्त्रीषु रजोरूपेण ३६ । २८२ श्रीमद्भागवतम् क [ स्कं. ६ अ. ९ लो. १-१० रुधिररूपेणांहः पापं मासि मासि प्रदृश्यते ॥ ६ ॥ * आप अम्बूनि द्रवभूयोवरेण द्रवाधिक्यरूपेण वरेण हत्यायास्तुरीयं मलं पापं जगृहुः । तास्वप्सु तद्धरेरिन्द्रस्य किल्बिषं बुद्बुदफेनाभ्यां बुद्बुदफेनरूपेण दृष्टं दृश्यत इत्यर्थः ॥ १० ॥ विजयध्वजतीर्थकृता पदरत्नावली * ॥ ब्रह्माद्यन्यतमाम परिहार्य यत्तत्परिहर्तृत्वमहिमावर्णनेन हरावभिवृद्धनिशितभक्तिकुठारस्य योग्याधिकारिकरगतस्य संसारतरुनिर्मूलनपटुताभिप्रेयते ऽस्मिन्नध्याये । तत्रादौ बीजदोषस्वभावो दुःसह इति प्रकटयितुं विश्वरूपस्य विप्रत्वेऽपि रचना- जनितत्वेन दोषित्वेनासुरपक्षपातं तावदाह । तस्येति । सोमं सुरां पिवतीति सोमपीथं सुरापीथम् ॥ १ ॥ * * भार्ग हविर्भागम् । यस्य विश्वरूपस्य ॥ २ ॥ * * परोक्षमज्ञातवन्मातुः रचनायाः स्नेहस्य परः ॥ ३ ॥ * * धर्मालीक । धर्मदोष धर्मकपट वा अयमात्मानमपि हन्तीति भीतः ॥ ४-५ ॥ यदपि यद्यपि इन्द्रो ब्रह्महत्यादोषनिवारणे ईश्वरः समर्थः । तथाप्यञ्जलिना ब्रह्महत्यां जमाद्देत्यन्वयः । भूताशंसाविशुद्धये लोकापवादपरिहाराय भूतहिंसापापशोधनायेति वा हरिरिन्द्रः तद्वतो विष्णुर्वा ॥ ६ ॥ वातस्य ad खातस्य स्वत एव पूर्तिः स्यादिति खातपूरवरस्तेन हारिदत्तेन ईरिणम् उखरं लवणोपरक्तरस इत्यर्थः ॥ ७ ॥ छेदे रोहः पुनर्वर्धन तेरे ॥ ॥
- ८ * * शाश्वत्
- शाश्वत् कामेन निरन्तरविषय- सेवाभिलाषलक्षणेन वरेण रजोरूपेण रागरूपेण ॥ ६ ॥ -* * द्रव्याणां पञ्चानां भूतानां मध्ये स्वभूयस्त्वलक्षणेन वरेण “तापापनोदो भूयस्त्वमभ्भसो वृत्तयस्त्विमाः” इत्युक्तेः ॥ १० ॥ जीवगोस्वामिकतः क्रमसन्दर्भः तस्य शीर्षाण्यच्छिनदिति बृहस्पत्यतिक्रमेण देवगणद्रोहेण सर्वशक्तिहानात् ॥ १-४ ॥ * * कपिञ्जलश्चेति तित्तिरिः ॥ ५ ॥ ॐ ब्रह्महत्यामित्यर्द्धकम् । यदपीश्वरस्तथापि अञ्जलिना साक्षात् स्वापराधस्वीकारे जग्राह । तादृश- पापस्य तादृशेनाप्यपहरणीयत्वात् । भूतानां विशुद्धय इत्यन्तस्तु सूक्ष्मरूपेण स्थितमेवेत्यर्थः । यदेतद् वृत्रहत्यामपि जनयिष्यतीति भावः ॥ ६ ॥ * खातपूरवरेणेति यद्यपि तत् पूर्वमपि वृष्टयादिना मृत्तिकादिपातेन पूरणं सम्भवति तथापि वरेणानेन स्वतो वृद्धयापेति ज्ञेयम् ॥ ६ ॥ * * द्रव्यशब्देनात्र द्रव एवोच्यते भावे कृत्यप्रयोगात् स्वार्थे तद्धिताद्वा । टीकायां मिश्रा इति । इतः पूर्व मिश्रा एव न भवेयुरिति गम्यम् । निर्झरोगमेति । इतः पूर्व निर्झरोद्गमादिकमेव नासीदिति गम्यम् । द्रव- भूय इति पाठे सांसिद्धिकद्रवत्वमिति । इतः पूर्व किञ्चिद्धनमासीदिति लक्ष्यते ।। १० ।। विश्वनाथचक्रवतिकृता सारार्थदर्शिनी विश्वरूपमहन् शक्रस्त्वष्ट्रा वृत्तमजीजनत् । देवैस्तुतो हरिर्वज्रप्राप्तिं नवम ऊचिवान् ॥ ० ॥ T । सोमस्य पीथं पानं यस्मिन् तत् । अन्नमन्तीति अन्नादम् । अत्र “विश्वरूपो वै त्वाष्ट्रः पुरोहितो देवानामासीत्” इति श्रुतिरनुसन्धेया ॥ १ ॥ * तस्यासुरपक्षपातमाह । स वा स वा इति द्वाभ्याम् । प्रत्यक्षं प्रकटं यथा भवति तथा सविनयं हविर्भागं इन्द्रायेदमग्नये इदमिति उच्चैरददत् । तत्र हेतुः यस्य पितरो देवाः ॥ २ ॥ * * परोक्षं देवानां दृष्टि ववयित्वा द्वित्रिवारं नीचैरित्यर्थः । ददौ दत्त्वा च भागमवहत् परोक्षमेव प्रापयामासेत्यर्थः । अत्र हेतुः । मात्रिति । यस्यासुरा मातामहा इत्यर्थः । भीतः असुरबलोद्भवः विभाव्येत्यर्थः ॥ ३-५ ॥ * * आकस्मिकाभ्यां क्रोधभयाभ्यां तं हत्वैवाहो हन्त महापाप बुद्धिपूर्वकमेवाकरवं महानीचो न जाने कुत्र वा नरके पतिष्यामि तदेतत् समुचितं फलं शीघ्रमेव लभेयेत्यनुतापपुब्जे निममज्जे- त्याह ब्रह्मेति । स्वतेजसा मां ज्वालयेति भावः । यद्यस्मात् अधि अधिकृतभक्त ईश्वरविभूतिरूपस्तस्मात् कथमेवं विकर्मणा अनुताप न कुर्यादिति भावः । एवमनुतापेन क्षीणपापवेगः सम्वत्सरपर्यन्तं तथैव विगीत एव स्थित्वा तदन्ते भूतानां स्वदेहस्थभूतानां पृथिव्यप्तेजोवायूनां ब्रह्महत्ययैवापवित्रीकृतानां विशुद्धये तदर्घं चतुर्द्धा व्यभजत् । आकाशस्यापावित्र्यासम्भवात् चतुर्णामेव भूतानां शुद्धये चतुद्धेति न्यायः । तेनान्तःकरणगतमघन्तु सूक्ष्मरूपेण तस्थावेव । यदेव बीजं पुनरपि वृत्रवधेन ब्रह्महत्यां जनयिष्यतीति भावः ॥ ६ ॥ * *
-
- तुरीयं चतुर्थभागं खातस्य गर्त्तस्य पूरः पूरणं तेन वरेण यदि खातपूरणं स्वत एव भविष्यति तर्हि ग्रहीष्यामीत्येवं भाषाबन्धेन जमाहेत्यर्थः । ईरिणमूषरमत एवोषरे अध्ययनादि निषिध्यते ॥ ७ ॥ * * क्षेत्र सति पुनर्विरोहः प्ररोहों भवत्विति वरेण । निर्यासेति अत एव निर्यासोऽभक्ष्यः ॥ ८ ॥ * * शश्वत्कामः बहुसम्भो- गेऽप्यलम्बुद्धयभावः । गर्भवत्या अपि गर्भानपकारकसंभोगञ्च स एव वरस्तेन । रज इति । अत एव रजस्वला अव्यवहार्या ॥ ९ ॥ F स्क. ६ अ. एलो. १-१०] अनेकव्याख्यासमलङ्कृतम् २-३ द्रव्याणां क्षीरादीनां भूयः भूयस्त्वं तस्मात् सम्पर्केण बहुतरत्वमेवास्माकं वरस्तेन द्रवभूय इति पाठे द्रवभूयस्त्वं सांसिद्धिकद्रवत्वं तेन तास्वप्सु बुद्बुदफेनाभ्यां तन्मलं दृष्टम् । अत एव तत् बुदबुदादिकं क्षिपन् दूरीकुर्वन एव हरति अप आहरति । न तु बुदबुदादियुक्ता इत्यर्थः । यदि च तद्युक्ता एव अपः कश्चिदाहरति तदा पापमेव हरतीति । भावः ।। १० ।। bf j ma शुकदेवकृतः सिद्धांतप्रदीप: इन्द्रेण स्वहिताय पौरोहित्ये वृतस्य विश्वरूपस्य किञ्चिदहित कर्तुर्वधस्तद्वधसन्तमेन त्वष्ट्रा इन्द्रवधाय वृत्र उत्पादितस्त- ट्र्यानिवृत्तये देवैर्विष्णुः प्रार्थित इति नवसे ऽध्याये वर्णयति । तस्येति । सोमस्य पीक्षं पानं यस्मिन् तत् । अन्नमत्तीति तत् ॥ १ ॥ * * बर्हिषि यज्ञे देवेभ्यो हविर्भागं प्रत्यक्षं प्रकटमुचैरवदत् ॥ २॥ स एव हि असुरान् प्रति तु परोक्षम प्रकटं हविर्भागं ददौ तदेव हेतु प्रदर्शनपूर्वक मातृस्नेहवशानुगः यजमानश्च अतो भागमवहत् असुरानपि प्रापयामा- सेत्यर्थः ॥ ३ ॥ * धर्मालीक धर्मे कपटम् ॥ ४-५ ॥ ॐ ईश्वरः समर्थोऽपि जमाह समर्थेनापि ब्रह्मवधफल भोक्तव्यमेवेत्यर्थः ॥ ६ ॥ * * खातस्य गर्त्तस्य पूरणं स्वतो भवत्विति वरेण तुरीयं चतुर्थ भागं जग्राह ॥ ७ ॥ ** छेदेऽपि पुनर्विरोहो भवत्विति वरेण ॥ ८ ॥ शश्वत् कामवरेण अनृतावपि भोगानुच्छेदवरेण अंहः पापम् ॥ ६ ॥ द्रवभूयोवरेण द्रवस्य शैत्येन लोपितस्य भूयः पुनर्भूयस्त्वं तद्वरेण तुरीयं भागमापः जगृहु: । तन्मलं तासु बुदबुदफेनाभ्यां द दृश्यते । अत एव तत् बुद्बुदादिकं ब्रह्महत्यालिङ्गत्वात् क्षिपन् अपसारयन् अपहरति गृह्णाति जलं जन इति शेषः ।। १० ।।
INE गोस्वामिगिरिधरलाल विहिता बालप्रबोधिनी गुरुघातिमहेन्द्रेपि हरिणानुग्रहः कृतः । ब्रह्महत्याविभागेन नवमे तन्निरूप्यते ॥ १ ॥ * है । ब्रह्म- सोमस्य पीथ पानं यस्मिंस्तत् । एवं सुरापीथम् अन्नसत्तीत्यन्नादम् ॥ १ ॥ विश्वरूपस्य मर्यादापुष्टि- भक्तत्वात् भगवदनभिप्रेतदैत्यपक्षपातेन मर्यादोल्लङ्घनाद्भगवता उपेक्षितस्यातितेजस्विनो मन्त्राद्यभिज्ञस्यापि वधो जात इत्यभिप्रेत्य असुरपक्षपातमाह-स वा इति द्वयेन । स वै विश्वरूपो बर्हिषि यज्ञे प्रत्यक्ष प्रकट सप्रश्रयं च यथा भवति तथा देवेभ्यो हविर्भागं इन्द्रायेदमग्नये इदमित्युचकैरवदत् उच्चारयन् ददावित्यर्थः । तथादाने हेतुमाह-यस्य पितरो देवाः स इति । मर्यादामार्गे तदुल्लङ्घनमनर्थहेतुरिति तु तव विदितमेवेति सम्मत्यर्थं सम्बोधयति - हे नृपेति ॥ २ ॥ स एव यजमानोऽसुरेभ्यस्तु परोक्ष गुप्तं यथा भवति तथा भागं ददौ । एतदेव पुनः स्पष्टयति-देवान् यजमानोऽसावसुरान् प्रतिभागमवहत् अप्रापयत् । अत्र हेतुमाह- मात्रिति, मातू रचनाया दैत्येषु स्नेहेन तद्वशमनुगच्छतीति तथा ॥ ३ ॥ महापराधयुक्तमपि पुष्ट्रभक्तं भगवाननुगृह्णातीतिन्द्रस्य शुद्धपुष्टिभक्तत्वं दर्शयन् प्रथमं तस्य गुरुबधलक्षणमपराधं दर्शयति तदिति । तत् असुरेभ्यो हविर्दान- लक्षणं तस्य विश्वरूपस्य देवहेलनं देवापराधं धर्मेऽलीकं कपट चालक्ष्य ज्ञात्वा सुरेश्वर इन्द्रः एवम् अयमसुरान् वर्द्धयित्वाऽस्मान्न घातयिष्यतीति भीतो रुपा क्रोधेन तरसा वेगेन तस्य शीर्षाण्यच्छिनदित्यन्वयः ॥ ४ ॥ * * तस्य त्रीणि शिरांसि त्रिविधाः पक्षिणो जाता इत्याह- सोमपीथमिति ॥ ५ ॥ स हरिरिन्द्रो यदपि यद्यपि ईश्वर: त्रिलोकीवस्तथापि - हत्यायाः प्राबल्यात्ताम् अञ्जलिना हस्तद्वयेन जातत्वात्तेनैव जमाह । संवत्सरं तथैव स्थित्वा तदन्ते भूतानां यद्वा प्राणिनां मध्ये विशुद्धये अपवादपरिहाराय तदघं हत्यारूपं पापं भूम्यादिभ्यश्वतुर्धा व्यभजत् विभज्य ददावित्यर्थः ॥ ६ ॥ * * अन्यकृतपापस्यान्येन ग्रहणस्य असम्भवादिन्द्रमनुगृह्णतो भगवतः प्रेरणयेन्द्रहत्यां वरेण सह भूम्यादयो गृहीतवन्तस्तह- शेयति — भूमिरिति चतुर्भिः । खातस्य गर्त्तस्य पूरः पूरणं तेन वरेण यदि खातस्य पूरणं स्वत एव भविष्यति तर्हि हत्यां ग्रहीष्यामीति भाषाबन्धरूपेणैव ब्रह्महत्यायास्तुरीयं रूपं चतुर्थं भागं भूमिर्जप्राहेत्यन्वयः । ननु तद्भूम्या क स्थापित- मित्यपेक्षायामाह – ईरणमिति । भूमौ यदीरणमूषरं प्रदृश्यते तद्ब्रह्महत्यारूपमेवेति ज्ञेयम् । अत एवोपरे ऽध्ययनादिशुभक्रिया- निषेधः ॥ ७ ॥ * * च्छेदे सति विरोहः पुनः प्ररोहो भवत्विति वरेण तुर्थ ब्रह्महत्यायाश्चतुर्थं भागं द्रुमा जगृहु: । तर्हि तेषां तत्केन रूपेण स्थितमित्यपेक्षायामाह - तेषामिति, अतो निर्यासभक्षणादि न कार्यम् ॥ ८ ॥ * * शश्वत्काम- वरेण नित्यदा पुरुषेण बहु सम्भोगेऽपि पुरुषवच्छ्रमराहित्यरूपेण वरेण अंहस्तुरीयं पापस्य चतुर्थं भागं स्त्रियों जगृहुः । तासु रजोरूपेण तत्प्रदृश्यते । तथा च रजोदर्शने तत्सम्बन्धादि न कार्यम् ॥ ९ ॥ * * द्रव्याणां मध्ये स्वस्य कूपादावुद्धृत- स्यापि भूयस्त्वं निर्झरोद्गमादिना पुनर्वृद्धिस्तेन बरेण तुरीयं मलं पापमापो जगृहुः । द्रवभूय इति पाठेऽप्ययमेवार्थः । तत् पापं बुद्बुद्धेनाभ्यां तासु दृष्टम् । अत एतदभिज्ञस्तदबुदबुदादि क्षिपन् दूरीकुर्वन्नपो हरति आहरति । बुदबुदादिसहिताहरणे तु तदशुद्धिर्ज्ञेया । दृष्ट तद्धरिकिल्बिषमिति पाठे इन्द्रपापमित्यर्थः ॥ १० ॥
। A २८४ श्रीमद्भागवतम् भगवत्प्रसादाचार्यविरचिता भक्त मनोरञ्जनी [ स्कं. ६ अ. ९ श्लो. १-१० विश्वरूपे हते कोपाच्छक्रेण नवमे कृता । त्वष्टुत्पादितवृत्रात्तु भीतैर्देवैहरेः स्तुतिः ॥ १ ॥ * तस्येति । हे भारत, तस्य विश्वरूपस्य, त्रीणि शिरांसि आसन् । तत्रैकं शिरः सोमं पिबतीति सोमपीथं सोमस्य पीथं पानं यस्येति वा । द्वितीयं शिरः सुरां पिवतीति सुरापीथं, सुरायाः पीथं यस्येति वा । तृतीयं शिरः, अन्नमत्तीत्यन्नादं, इत्येव शुश्रुम । वेदे इति शेषः । तथा च श्रुतिः ‘विश्वरूपो वै त्वाष्ट्रः पुरोहितो देवानामासीत् स्वस्त्रीयोऽसुराणां तस्य त्रीणि शीर्षाण्या- सन् सोमपानं सुरापानमन्नादम्’ इति ॥ १ ॥ * स वै इति । हे नृप, सः विश्वरूपः, बर्हिषि यज्ञे, प्रत्यक्षं प्रकटं यथा तथा तु सप्रश्रयं सविनयमित्यर्थः । देवेभ्यः भागं हविर्भागं, इन्द्रायेदमग्नये इदम् इति उच्चकैः अवदत् वै । अत्र हेतुः । यस्य देवाः, पितरः, देवानां पितृत्वादुञ्चस्वरेण स हविर्भागमर्पयतीत्यर्थः ॥ २ ॥ स एवेति । यजमानो यज्वा सः ॥ * * विश्वरूपः एव, असुरान् प्रति तेभ्य इत्यर्थः । परोक्षं यथा तथा, भागं ददौ । एवं मातृस्नेहो मातृप्रयुक्तो मातुलादिषु यः स्नेहस्त- द्वशानुगस्तद्वश्यतां प्राप्तः सन् भागम् अवहत् असुरेभ्यस्तूष्णीं प्रापयामास हि ॥ ३ ॥ * * तद्देवेति । तस्य विश्वरूपस्य, तदुक्तप्रकारं देवहेलनं देववञ्चनात्मकम् अलीकं कपटरूपं कर्म, आलक्ष्य ज्ञात्वा, सुरेश्वर इन्द्रः, भीतः सन्, तरसा आशु, रुषा क्रोधेन तच्छीर्षाणि विश्वरूपशिरांसि अच्छिनत् चिच्छेद ॥ ४ ॥ * सोमपीथमिति । तस्य विश्वरूपस्य यत् सोमपीथं शिरः आसीत्, तत्तु कपिञ्जलः एतन्नामा पक्षिविशेषः आसीत् । यत् तस्य सुरापीथं शिरः आसीत्, तत् कलविङ्कः पक्षि- विशेष:, आसीत । यत् यस्य अन्नादं शिरः आसीत्, तत् तित्तिरः पक्षिविशेषः आसीत् ॥ ५ ॥ * * ब्रह्महत्यामिति । हरिः स्वयमिन्द्रः, यदपीश्वरः ब्रह्महत्यां वारयितुं समर्थो भवति तथापीत्यर्थः । ब्रह्महत्यां मूर्त्तिमत्तद्वधपापं, अञ्जलिना जमाह । सः इन्द्रः, संवत्सरान्ते संवत्सरपर्यन्तं तथैव स्थित्वा तदन्ते भूतानां मन्ये, विशुद्धये भूतकृताक्रोशनिवृत्तये इत्यर्थः । तदघं ब्रह्महत्यापापं भूम्यम्बुद्रुमयोषिद्धयः, चतुर्धा व्यभजत् । चतुर्धा विभज्य भूम्यादिषु चतसृषु एकैकं भागं निहितवानित्य- र्थः ॥ ६ ॥ * * भूमिरिति । तत्र तुरीयं ब्रह्महत्यायाश्चतुर्थं भागं, भूमिः खातपूरवरेण खातस्य प्रयासमन्तरा पूरणवरेण, जग्राह । यदि मयि जातखातपूरणं स्वत एव स्यात्तदा तां गृह्णीयामिति भूम्योक्ते तथा भविष्यतीवीन्द्रेणोक्ते गृहामीत्येवं भाषा- बन्धेन जग्राहेत्यर्थः । भूमौ यत् ईरणं तत् ब्रह्महत्यायाः रूपं, प्रदृश्यते ॥ ७ ॥ * * तुर्यमिति । तथा तुर्य ब्रह्महत्याया - श्वतुर्थमंशं द्रुमाः छेदविरोहण वरेण जगृहुः । शाखादिषु छिद्यमानाखपि तासां प्ररोहः पुनः पुनः भवत्विति वरेण न्यग्रोधादयो वृक्षात तुरीयभागं जगृहुरित्यर्थः । तेषां वृक्षाणां मध्ये तु, निर्यासरूपेण, ब्रह्महत्या प्रदृश्यते । वृक्षेषु निर्यासरूपेण ब्रह्महत्याया दृष्टत्वात्तन्निर्यासो न भक्ष्यः ॥ ८ ॥ * * शश्वदिति । स्त्रियः शश्वत् कामवरेण यावत्प्रसवं गर्भानुपघातेनैव संभोगवरेण, अंहस्तुरीयं ब्रह्महत्यायाश्चतुर्थं भागं, जगृहुः । तासु स्त्रीषु, रंजोरूपेण रुधिररूपेण, अहो ब्रह्महत्यापापं, मासि मासि, प्रदृश्यते । रजसो ब्रह्महत्यापापरूपत्वाद्रजोदर्शने तत्सङ्गादि न कार्यम् ॥ ६ ॥ * * द्रव्येति । आपोऽम्बूनि द्रव्यभूयोवरेण, द्रव्याधिक्यरूपवरेण, कूपादेरुद्धृतस्यापि तस्य तत्र तथैव भूयस्त्ववरेणेत्यर्थः । तुरीयमिन्द्र ब्रह्महत्या चतुर्थभागरूपं मलं, जगृहु: । तास्वप्सु, तत् हरिकिल्बिषमिन्द्र ब्रह्महत्यापापं, बुद्बुदफेनाभ्यां दृष्टम् । बुद्बुदादिरूपेण दृश्यते इत्यर्थः । अत्र द्रव्यभूयोवरेणेति पदस्य यस्मिन् द्रव्ये क्षीरादौ वा आपो मिश्रा भवेयुस्तस्य भूयस्त्वमाधिक्यं स्यादिति वरेण यद्वा । स्वस्यैव निर्झरोद्गमादिना भूयरत्ववरेणेति केचिदर्शमाहुः । द्रव्याणां पञ्चानां भूतानां मध्ये स्वभूयस्त्वलक्षणेन वरेणेत्यन्ये आहुः । दृष्टं तद्धरति क्षिपन्निति पाठे क्षिपन् बुदबुदादिकं जलाद्बहिः क्षिपन् तत्पापं निराकरोति ॥ १० ॥ 1 भाषानुवादः विश्वरुपका वध, वृत्रासुरद्वारा देवताओंकी हार और भगवान्की प्ररणासे देवताओंका दधीचि ऋषिके पास जाना . श्रीशुकदेवजी कहते हैं— परीक्षित्! हमने सुना है कि विश्वरूपके तीन सिर थे । वे एक मुँहसे सोमरस तथा दूसरेसे सुरा पीते थे और तीसरेसे अन्न खाते थे ॥ १॥ * * उनके पिता त्वष्टा आदि बारह आदित्य देवता थे, इसलिये वे यज्ञके समय प्रत्यक्षरूपमें ऊँचे स्वरसे बोलकर बड़े विनयके साथ देवताओंको आहुति देते थे ॥ २ ॥ * * साथ ही वे छिप-छिपकर असुरोंको भी आहुति दिया करते थे। उनकी माता असुर-कुलकी थीं इसीलिये वे मातृस्नेह वशीभूत होकर यज्ञ करते समय उस प्रकार असुरोंको भाग पहुँचाया करते थे ॥ ३ ॥ * * देवराज इन्द्रने देखा कि स्कं. ६ अ. ९ श्लो. ११-२०] अनेकव्याख्यासमलङ्कृतम् २८५ इस प्रकार वे देवताओंका अपराध और धर्मकी ओटमें कपट कर रहे हैं । इससे इन्द्र डर गये और क्रोधमें भरकर उन्होंने बड़ी फुर्तीसे उनके तीनों सिर काट लिये ॥ ४ ॥ * * विश्वरूपका सोमरस पीनेवाला सिर पपीहा, सुरापान करनेवाला गौरैया और अन्न खानेवाला तीतर हो गया ॥ ५॥ * * इन्द्र चाहते तो विश्वरूपके वध से लगी हुई हत्याको दूर कर सकते थे; परन्तु उन्होंने ऐसा करना उचित न समझा, परंतु हाथ जोड़कर उसे स्वीकार कर लिया तथा एक वर्ष तक उससे छूटनेका कोई उपाय नहीं किया । तदनन्तर सब लोगोंके सामने अपनी शुद्धि प्रकट करनेके लिये उन्होंने अपनी ब्रह्महत्याको चार हिस्सोंमें बाँटकर पृथ्वी, जल, वृक्ष और स्त्रियोंको दे दिया ।। ६ ॥ * परीक्षित ! पृथ्वीने बदले में यह वरदान लेकर कि जहाँ कहीं गढढा होगा, वह समयपर अपने-आप भर जायगा, इन्द्रकी ब्रह्महत्याका चतुर्थांश स्वीकार कर लिया । वही ब्रह्महत्या पृथ्वीमें कहीं-कहीं ऊसरके रूप में दिखायी पड़ती है ॥ ७ ॥ * * दूसरा चतुर्थांश वृक्षोंने लिया । उन्हें यह वर मिला कि उनका कोई हिस्सा कट जानेपर फिर जम जायगा । उनमें अब भी गोंदके रूपमें ब्रह्महत्या दिखायी पड़ती है ॥ ८ ॥ * * स्त्रियोंने यह वर पाकर कि वे सर्वदा पुरुषका सहवास कर सकें, ब्रह्महत्याका तीसरा चतुर्थांश स्वीकार किया । उनकी ब्रह्महत्या प्रत्येक महीने में रजके रूपसे दिखायी पड़ती है ॥ ९ ॥ * * जलने यह वर पाकर कि खर्च करते रहनेपर भी निर्झर आदिके रूपमें तुम्हारी बढ़ती ही होती रहेगी, ब्रह्महत्याका चौथा चतुर्थांश स्वीकार किया। फेन, बुदबुद आदिके रूपमें वही ब्रह्महत्या दिखायी पड़ती है । अत एव मनुष्य उसे हटाकर जल ग्रहण किया करते हैं ।। १० ।। " हतपुत्रस्ततस्त्वष्टा जुहावेन्द्राय शत्रवे । इन्द्रशत्रो विवर्धख मा चिरं जहि विद्विषम् ॥ अथान्वाहार्यपचनादुत्थितो घोरदर्शनः । कृतान्त इव लोकानां युगान्तसमये यथा ॥ विष्वग्विवर्धमानं तमिषुमात्रं दिने दिने । दग्धशैलप्रतीकाशं सन्ध्याभ्रनीकवचम् ॥ तप्तताग्रशिखाश्मश्रु मध्याह्नाकग्रलोचनम् ॥ १४ ॥ देदीप्यमाने त्रिशिखे शूल आरोप्य रोदसी । नृत्यन्तमुन्नदन्तं च चालयन्तं पदा महीम् दरीगम्भीरवक्त्रेण पिता च नभस्तलम् । लिहता जिह्वयणि ग्रसता भुवनत्रयम् ॥ महता रौद्रदंष्ट्रेण जृम्भमाणं मुहुर्मुहुः । वित्रस्ता दुद्रुवुलोंका वीक्ष्य सर्वे दिशो दश येनानुता इमे लोकास्तमसा त्वाष्टमूर्तिना । स वै वृत्र इति प्रोक्तः पापः परमदारुणः ॥ तं निजघ्नुरभिद्रुत्य सगणा विबुधर्षभाः । स्वैः स्वैदिव्यास्त्रशस्त्रौघैः सोऽग्र सत् तानि कृत्स्नशः ॥ ततस्ते विस्मिताः सर्वे विषण्णा ग्रस्ततेजसः । प्रत्यञ्चमादिपुरुषमुपतस्थुः समाहिताः ॥ । ११ ॥ १२ ॥ १३ ॥ ॥ १५ ॥ १६ ॥ ।। १७ ॥ १८ ॥ १९ ॥ २० ॥ कृष्णप्रिया व्याख्या दिनेदिने
- तप्तताम्रशिखाश्मश्रु अन्वयः – ततः हतपुत्रः त्वष्टा शत्रवे इन्द्राय जुहाव इन्द्रशत्रो विवर्धस्व मा चिरम् विद्विषम् जहि ।। ११ ।। * * अथ घोरदर्शनः यथा लोकानां युगान्तसमये कृतान्तः इव अन्वाहार्यपचनात् उत्थितः ॥ १२ ॥ * विष्वग इषुमात्रं विवर्धमानं तम् दग्धशैलप्रतीकाशं सन्ध्याभ्रानीकवर्चसम् ॥ १३ ॥ मध्याह्माकमलोचनम् देदीप्यमाने त्रिशिखे शूले रोदसी आरोप्य नृत्यन्तम् उन्नदन्तं च पदा महीं चालयन्तम् ।। १४-१५ ।। ** दरीगंभीरवक्त्रेण नभस्तलम् पिबता च जिह्वया ऋक्षाणि लिहता भुवनत्रयं प्रसता महता रौद्रदंष्ट्रेण मुहुर्मुहु: जृम्भमाणं वीक्ष्य सर्वे लोकाः वित्रस्ताः दश दिश दुद्रुवुः ।। १६-१७ ।। * येन त्वाष्ट्रमूर्तिना तमसा इमे आवृताः वै सः पापः परम- दारुणः वृत्रः इति प्रोक्तः ॥ १८ ॥ * सगणाः विबुधर्षभाः स्वैः स्वैः दिव्यास्त्रशस्त्रौघैः तम् अभिद्रुत्य निजघ्नुः सः तानि कृत्स्नशः अप्रसत् ॥ १६ ॥ * ततः विषण्णाः ग्रस्ततेजसः ते सर्वे विस्मिताः समाहिताः प्रत्यवम् आदिपुरुषम् उपतस्थुः ।। २० । १. प्रा० पा० - हते पुत्र तत० । २. प्रा० पा०-दिवौकसः । ३. प्रा० पा०– स्तपसा । २८६ श्रीमद्भागवतम् श्रीधरस्वामिविरचिता भावार्थदीपिका
[ स्कं. ६ अ. ९ श्लो. ११-२० इंद्रायेंद्र हंतुम् । शत्रवे शत्रुत्पत्त्यै । तदाह इंद्रशत्रो विवर्धस्वेति । अत्र चेंद्रशत्रुपदस्याद्युदात्तत्वात् “बहुव्रीहौ प्रकृत्या पूर्वपदम्” इति स्मृतेर्बहुव्रीहिलक्षणापच्या इंद्र एव तस्य शत्रुरभूत् । तदुक्तं श्रुत्या “यदब्रवीत्स्वाहेंद्रशत्रुर्वर्धस्वेति तस्मादस्येंद्रः शत्रुरभवत्” इति । यथा च शिक्षायाम् “मंत्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह । स वाग्यत्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधात्" इति ॥ ११ ॥ * अन्वाहार्यपचनादक्षिणाग्नेः ॥ १२ ॥ * * तं वीक्ष्य वित्रस्ता लोका दश दिशो विदुदुवुरिति पंचमेनान्वयः । कथंभूतम् । विष्वक्समंतत इषुविक्षेपमात्रं प्रतिदिनं वर्धमानम् ॥ १३ ॥ दग्धशैलप्रतीकाशं कृष्णघर्णम् । संध्याभ्रानीकवद्वचें दीप्तिर्यस्य तम् तप्तताम्रवच्छिखाः श्मश्रूणि च यस्य । मध्याह्नार्कवदुमे लोचने यस्य ॥ ९४ ॥
- रोदसी आरोप्येवेत्यर्थः ॥ १५ ॥ * * दरीवद्गंभीरेण वक्त्रेण मुहुर्मुहुज भ्रमाण- मित्यन्वयः। कथंभूतेन । नभस्तलं पिबता । ऋक्षाणि जिह्वया लिहता । भुवनत्रयं ग्रसता ॥ १६ ॥ * * महता विस्तीर्णेन । रौद्रा दंष्ट्रा यस्मिन् ॥ १७ ॥ दंष्ट्रा यस्मिन् ॥ १७ ॥ * * वृत्रनाम निर्वक्ति । येनावृता वृत्रनाम निर्वक्ति । येनावृता इति । त्वाष्ट्रो मूर्तिर्यस्य तमसस्तेन त्वाष्ट्र- रूपेणेत्यर्थः । तथा च श्रुतिः । “स इमाँल्लोकानावृणोत्तद् वृत्रस्य वृत्रत्वम्” इति ॥ १८ ॥ * * अग्रसद्भक्षितवान् ॥ १९ ॥ ग्रस्तं तेजो येषाम् । प्रत्यञ्चमं तर्यामिणं त्रिभुवनस्य तेन व्याप्तत्वात्वापि गमनासंभवात्तत्रैव स्थित्वा तुष्टुवुरित्यर्थः । " महाभये । परित्राणमन्यतो न भवेदिति । हरिमेव प्रपद्यंते सुराः शरणमातुराः ॥ २० ॥ वंशीधरकृतो भावार्थदीपिकाप्रकाशः अत्र च मंत्रे विश्वरूपस्य पिता त्वष्टा इंद्रबधकामनया वृत्रासुरोत्पादनाय “इन्द्रशत्रुर्वर्द्धव" इत्यनेन मंत्रेणाहुति दत्तवांस्तत्रेंद्रशत्रुरित्युत्तरपदप्रधानस्वरपाठेन तत्पुरुषसमासे कर्त्तव्ये इं इंद्रः शत्रुः शातयिता नाशयिता यस्येति पूर्वपदस्वर- पाठाद्बहुव्रीहिसिद्धेः खरविपर्ययाद्यजमानघातकत्वं मंत्रस्य सिद्धम् । अत्र प्रमाणमाह- तथा चेति । शिक्षायां पाणिनिशिक्षा- याम् । स्वरादिहीनो मंत्रो मिथ्या’ प्रयुक्तो भवति यदर्थमुचार्यते तत्कार्यकरो न भवति किन्तु स वाग्वत्रो वाणीरूपो वज्राख्यशस्त्रं भूत्वा यजमानं हिनस्ति अत्र यजमानं हिनति अत्र दृष्टांत ः– यथेति । इंद्रशत्रुर्वृत्रः स्वरस्य विपर्ययोचारणादित्यर्थः अत्र संदर्भ: - अत्र तत्पुरुषे वृत्रस्य तृत्वं बहुव्रीहौ सतींद्रस्य । तत्र च तत्पुरुषत्वम् “समासस्य च" इत्यनेन समासांत स्वर त्यांतोदात्तविधिना । व्यज्यते । बहुव्रीहित्वं तु तद्वाधकेन “बहुव्रीहौ प्रकृत्या पूर्वपदम्” इत्यनेन पूर्वपदे स्वभावसिद्धाद्युदात्तस्थापकेन व्यज्यते इंद्रशब्दो ह्याद्युदात्त: इदि - परमैश्वर्ये’ इति धातोरुदात्तगणे पठितत्वात् । तदेवं देवादाद्युदात्तपाठेन फलपैपरीत्यं जातम् । इंद्र एव तस्य शत्रुरभूदिति । अत्र विश्वनाथ:- ‘संवत्सरान्ते तदयम्’ इति पूर्वो केराश्विनमासारंभे इन्द्रो यदैव ब्रह्महत्या तो विमुक्तो बभूव तदैव तपोवनादागत्य स्वीयमाश्विनमासं संपालयितुं प्रवृत्तस्त्वष्ट्रा स्वपुत्रवधं श्रुत्वा क्रोधशोकाभ्यामिद्रवधोपायं चकारेत्याह - हतपुत्र इति । इंद्राय शत्रवे इंद्ररूपं शत्रु हतुम् । तत्र मंत्रमाह-“इंद्रशत्रो विवर्द्धस्व” इति इंद्रत्य शत्रुः सन्विव- र्द्धस्वेति तत्पुरुषस्य समासस्य विवक्षितत्त्वेपि इंद्र एवं शत्रु र्यस्येति बहुव्रीह्यर्थ एव दैवादापतितः स्वरव्यतिक्रमात् । तथाहि- ’ इदि - परमैश्वर्ये’ इत्यस्योदात्तगणपठितत्वादिन्द्रशब्दो ह्याद्युदात्तस्तत्र ‘समासस्य च’ इति सूत्रेण समासमात्र एवांतोदात्तत्व- विधानात्तत्पुरुषे शेषमनुदात्तमित्यनेनेन्द्रशत्रो इत्यस्याद्युदात्तत्त्वम् “बहुव्रीहौ प्रकृत्या पूर्वपदम्” इति पाणिनीयसूत्रेण पूर्वपदस्य स्वभावसिद्धस्वरस्थापनाद्बहुव्रीहाविंद्रशत्रो इत्यस्याद्युदात्तत्वम् । स्वष्टुस्तु — दैवाद्युदात्तस्वरतयैव पाठादिंद्र एव तस्य शत्रु- न्ताऽभूदिति शेषं स्वामिवत् । अयमर्थः — श्रीभगवद्गीतोपनिषत्सप्तदशाध्याये वाङ्मयतपस्त्ववर्णने प्रियहितमधुरादिविशेषण- । चतुष्टयवत एव वाङ्मयत पस्त्वमुक्तं श्रीशङ्करानन्दसरखतीभिरपि तत्र दृष्टांतत्वेनोक्तमुदात्तादिस्वरचतुष्कयुक्तोच्चारितवेदस्य यथा वेदत्वं नान्यथेति । परन्तु शिक्षायां तु पचधोक्ताः स्वरास्तथाहि उदात्तानुदास्वरितप्रचयजात्यादिभेदात् । “अनुदात्तो हृदि ज्ञेयो TH P P inrRE HERE THIE किन और SEL
१. स्वस्तः स्वरेण आद्यादित्वात्तसिः । मिथ्याप्रयुक्तो यदर्थप्रतिपादनाय प्रयुक्तस्ततोर्थातरं स्वरवर्णदोषात्प्रतिपादयन्नभिमतमर्थ नाहेत्यर्थः । वागेव वज्रो हिंसकत्वात् यथेद्रशत्रुशब्दः स्वरदोषाद्यजमानं हिंसितवानित्यर्थः । इंद्रस्याभिचारो वृत्रे गारव्यात्रे शत्रुर्द्धस्त्रेति मंत्रसहितः । द्र शमयिता शातयिता भवति क्रियाशब्दोऽत्र शत्रु शब्द आश्रितो न तु रूढिशब्दः शत्रुर्भवेत्यत्रार्थे प्रतिपाद्य ऽन्तोदाते प्रयोक्तव्ये आद्य दात ऋत्विजा प्रयुक्त इत्यर्थन्तिराभिधानादिद्र एव वृत्रस्थ शातयिता संपन्नः इंद्रशत्रुत्वस्य च विधेयत्वात्संबोधनविभक्तेरनुवाद्यविषयत्वादिहाभावः । यथा राजा भव युध्य- स्त्रेति ऊह्यमानस्य चामंत्रत्वाद्यज्ञकर्मणीति जपादिपर्युदासेन मंत्राणामेकश्रुतिविधीयमानेह न भवति वृत्रेगेति । अत्र विवरणकारेण फले हेती तृतीयेति व्याख्यातं तस्यायं भावः — तैत्तिरीये “विश्वरूपवधात्कुपितेन त्वष्ट्रा आरब्धेवीन्द्रे सोमेऽनुपहतेनेन्द्रेण पीतस्य सोमस्यावशेषं क्रुद्धस्त्वष्टाऽऽहवनीयमुपावर्त- यत्स्वाहेन्द्रशत्रुद्धस्वेति ततो वृत्र उदभूत्” इति । श्रूयते ततश्चाभिचारकर्तृत्वं त्वष्टुरेव न वृत्रस्येतिः पातञ्जलमहाभाष्यविवरणे । स्कं. ६ अ. ९ श्लो. ११-२०] अनेकव्याख्यासमलङ्कृतम् २८७ मूयुदात्त उदाहृतः । स्वरितः कर्णमूलीयः सर्वास्ये प्रचयः स्मृतः । उदात्तं भुवि पातव्यं प्रचयं नासाग्रमेव च । हृत्प्रदेशेऽनु- दात्तं तु तिर्य्यग्जात्यादिरीरितः ।” अधो रक्तोऽनुदात्तोऽताम्र उदात्तः उपरिरक्तस्तिर्यप्रक्तो वा स्वरितः । स्वरितपरा अताम्रा प्रचयाः एकपदे नीचपूर्वी पूर्वी वायवान्यतरयुक्तो जात्यः । जात्ये तु पितृदानवद्धस्तमिति प्रसंगात्स्वरापराधस्योक्तम् ॥। ११ ॥ अथ तदनंतरमेव स्वीयपाठव्यतिक्रमेऽवगते सति अन्वाहार्यवचनात् । स्वभावप्राप्ताद्युदात्तव्यंजित बहुव्रीहिपठनानंतरमाहार्य- ताप्राप्ताद्यनुदात्तव्यंजित तत्पुरुषपाठाद्धेतोः । स घोरदर्शन उत्थितः स्वाभाविकपाठादिद्रोऽस्य हंता भविष्यति पश्चादाहार्यपाठा- दिद्रोप्यनेन हतो भविष्यति सवाहनस्यापि तस्यानेन निगिलिष्यमाणत्वादिति भावः । अन्वाहार्यशब्दस्य मासिकश्राद्धवाचि- । त्वाद्वचाख्यान्तरं न घटते ॥ १२ ॥ इषुमात्रमिति । । ‘ईषीकाऽत्र बुधैर्ज्ञेया इषुशब्देन नो शरः ।’ मात्र स्थूलमिह प्रोक्तं तन्मात्र’ वर्द्धते दिने ।” इति ज्ञ यमन्यथा जगन्नाशप्रसंगात् । समंतात्स्वस्योर्द्धाधो दशदिश्वित्यर्थः ।। १३-१४ ॥ * | ॥ आरोप्यारोप्येवेत्यर्थः ॥ १५ ॥ * * पिबतेव ।। १६-१७ ।। * पातीति पः पालः परमात्मा धर्मो वा तस्माद- ।। ।। पगतः पापः । नन्वग्रे तस्य " नारायणे भगवति कथमासीद्द्दा मतिः” इति राज्ञः राज्ञः प्रश्नेन परमभक्तत्ववर्णनात् कथमित्थमुक्तमत पं परमात्मानमाप्नोतीति पापः । एवं परं केवलमदारुण इत्यपि ज्ञेयम् । श्रुतिस्तु स्पष्टार्थत्वान्न व्याख्याता ॥ १८ ॥ तं वृत्रम् ।। १९ ।। * * ततः शस्त्रप्रासानंतरम् । ते देवाः । तेन वृत्र ेण तत्रैव यत्र स्थिता इत्यर्थः । शरणं रक्षकम् ।। २० ।।
जीवन अन्वितार्थप्रकाशिका “ያ፡፡ यस संवत्सरान्ते इति प्रागुक्तराश्विनमासारम्भ इन्द्रो ब्रह्महत्यातो मुक्तस्तदैव त्वष्टा स्वपुत्रवधं श्रुत्वा इन्द्रवधोपायं चकारेत्याह– हतेति । एवमिन्द्रस्य दोषनिवृत्तौ ततस्तदनन्तरं हतः पुत्रो विश्वरूपो यत्य स त्वष्टा इन्द्रशत्रुस्तत्संबोधनं हे इन्द्रशत्रो ! विवर्धस्व इन्द्रस्य शत्रुः सन् विवर्धस्व । मा चिरं शीघ्रमेव विद्विषं शत्रुमिन्द्रं जहीत्युच्चारयन् इन्द्राय इन्द्रं हन्तुं शत्रवे शत्रुत्पत्त्यै । यद्वा । इन्द्ररूपं शत्रु हन्तु जुहावेत्यन्वयः । इन्द्रशत्रो इत्यत्र तत्पुरुषस्वाभिप्रेतत्वेऽपि इन्द्रः शत्रुर्यस्येति । बहुव्रीह्यर्थ एव स्वरव्यक्तिक्रमादापतितः । तथा हि इदिधातोरुदात्त गणपठितत्वेनेन्द्र शब्दो ह्याद्युदात्तः । तंत्र समासस्य चेति- सूत्रेण समासमात्र एवान्तोदात्तविधानात्तत्पुरुषे । अनुदात्तं पदमेकवर्जमित्यनेन इन्द्रशत्रो इत्यस्याद्यनुदात्तत्वं ततो बहुव्रीहौ प्रकृत्या पूर्वपदमिति तद्बाधकसूत्रेण पूर्वपदस्य स्वभावसिद्धस्वरस्थापनाद्बहुव्रीहाविन्द्रशत्रो इत्यस्याद्युदात्तत्वम् । त्वष्टा तु देवादाद्युदात्तस्वरितयैव पपाठ तेन इन्द्र एव तस्य शत्रुहन्ता जातः । तदुक्तं श्रुत्या - “यदत्रवीत् स्वाहेन्द्रशत्रो वर्धस्वेति तस्माद- स्येन्द्रः शत्र ुरभवत्” इति । तथा चोक्तं शिक्षायाम् । “मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह । स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधात्” इति ॥ ११ ॥ * * अथेति । अथ अन्वाहार्यपचनादक्षिणाग्नितः घोरदर्शनः भयङ्कररूपो वृत्र उत्थितः । भयङ्करत्वमेव स्पष्टयति । युगान्तसमये प्रलयप्रारम्भे लोकानां कृतान्तः कालात्मा रुद्रो यथा तद्वत् । चक्रवर्त्ती तु पचनादित्यत्र पठनादिति पपाठ व्याचख्यौ च । अथ स्वीयपाठव्यतिक्रमेऽवगते सति संसभ्रममनु पश्चादेव आहार्यपठनात् स्वभावप्राप्ताद्युदात्तव्यञ्जित बहुव्रीहिपठनानन्तरम् आहार्यता प्राप्ताद्यनुदात्तव्यञ्जिततत्पुरुषपाठाद्धेतोः घोरदर्शनः उत्थितः । स्वाभाविकपाठादिन्द्रोऽस्य हन्ता भविष्यति पश्चादाहार्यपाठादिन्द्रोऽप्यनेन हतो भविष्यति सवाहन - स्येन्द्रस्य निगरणात् इति भावः । अन्वाहार्यशब्दस्य षाण्मासिकश्राद्धवाचित्वाद्वयाख्यान्तरं न घटते इति चाह स्म ॥ १२ ॥ ** विष्वगिति सार्द्धचतुष्कम् । विष्वक समन्ततः स्वस्योर्ध्वाधो दिक्षु च इषुविक्षेपमात्रं प्रतिदिनं वर्द्धमानं दग्धशैलप्रतीकाशमत्युचं कृष्णवर्णं च सन्ध्याभ्रानीकवद्वर्षो दीप्तिर्यस्य तं तप्तताम्रवच्छिखाः श्मश्रूणि च यस्य तं मध्याह्नार्कवटुग्रे सन्तापकरे लोचने यस्य तं तिस्रः शिखाः अग्राणि यस्य तस्मिन् देदीप्यमाने शूले रोदसी आरोप्येव नृत्यन्तमुन्नदन्तं पदा महीं चालयन्तं नभस्तलं पिबतेव ऋक्षाणि नक्षत्राणि जिह्वया लिहतेवेति भुवनत्रयं प्रसतेव । शतार्षः । महता विस्तीर्णेन रौद्रा दंष्ट्रा यस्मिंस्तेन दरीतुल्येन गम्भीरेण वक्त्रेण मुहुर्मुहु म्भमाणं तं वीक्ष्य वित्रस्ताः सर्वे लोका दश दिशः प्रदुद्रुवुः ।। १३-१७ ॥ येनेति । येन त्वामू- र्तिना त्वष्टुरपत्यरूपेण तमसा इमे सर्वे लोका आवृताः । स परमदारुणः भयङ्करः लोकानां पापरूप इव त्वाष्ट्र आवरकत्वा वृत्र इति प्रोक्तः । इति वृत्रशब्दनिरुक्तिः । पाप इत्युत्प्रेक्षामात्रं न तु पापवत्त्वं भगवद्भक्तत्वात् ॥ १८ ॥ * * तमिति । आद्यं पादत्रयं स्पष्टम् । सः वृत्रः तानि अस्ववस्त्रादीनि कृत्स्नशः सर्वाणि अग्रसत् भक्षितवान् । तङभाव आर्षः ।। १९ ।। * * तत इति । एवं प्रस्तं तिरस्कृतं तेजो येषां ते सर्वे देवगणास्ततस्तेजसतिरस्काराद्विस्मिता विषष्णास्ते समाहिताः सन्तः प्रत्यच- मन्तर्यामिणमादिपुरुषमुपतस्थुः तुष्टुवुः । तङभाव आर्षः ॥ २० ॥ … * श्रीमद्भागवतम् वीरराघवव्याख्या * [ स्कं. ६ अ. लो. ११-२० 8 ततस्त्वष्ट्रा इन्द्रेण हतः पुत्रो यस्य तादृशः इन्द्राय शत्रवे जुहाव इन्द्रायात तादर्थ्ये चतुर्थी तदर्थश्चात्र तन्निवृत्तिरर्थ- शब्दस्य निवृत्तेरपि वाचकत्वात् । यथा मशकार्थो धूमः मशकेभ्यो धूम इति । इन्द्रविनाशार्थमजुहोदित्यर्थः । हुत्वैवं प्रार्थित- । । वानित्याह । इन्द्र शत्रो इति । इन्द्रस्य शत्रो माचिरमाशु विवर्द्धख स्वविद्विषमिन्द्र जहि विनाशयेति ॥ ११ ॥ अथ होमानन्तरमन्वाहार्यपचनादक्षिणाग्नेर्घोरदर्शनोऽसुर उत्थितः उदितः तं विशिनष्टि । यः लोकानां युगान्तसमये प्रलये कृतान्तो
- । मृत्युरिव स्थितः ॥ १२ ॥ तमसुरं दिने दिने प्रतिदिनमिषुमात्रम् इषुप्रमाणं विश्वक्सर्वतो विवर्द्धमानम् । दग्धः साङ्गारो यः शैलः पर्वतः तत्प्रतीकाशं तदुपमम् । सन्ध्याभ्राणामनीकस्य समूहस्येव वर्चो यस्य । तप्तताम्रवच्छिखाप्रभागो येषां तादृशानि श्मश्रूणि यस्य । मध्याह्ने योऽर्कः सूर्यः तद्वदुझे लोचने यस्य देदीप्यमानास्तिस्रः शिखा यस्मिंस्तस्मिन् शूले रोदसी द्यावा- पृथिव्यौ तदन्तर्वर्तिपदार्थजातमित्यर्थः । आरोप्य नृत्यन्तम् उन्नदन्तमुचैर्श्वनन्तम् । पदा पादेन महीं चालयन्तं कम्पयन्तम् ।। १३-१५ । दरीवत्पर्वतद्रोणीवगभीरचक्रेण किम्भूतेन नभस्तलं पिबतेव स्थितेन किञ्च जिह्वया ऋक्षणि नक्षत्राणि लिहता आस्वादनं कुर्वता भुवनत्रयं प्रसता ॥ १६ ॥ रौद्रा भयङ्करा दंष्ट्राः यस्मिन्महता विपुलेनैवम्भूतेन वक्त्रेण मुहुर्मुहुजूम्भमाणं विक्ष्य विशेषेण त्रस्ता भीताः सर्वे लोका दश दिशो दुदुवुः ।। १७ ।। * * त्वाष्ट्री मूर्त्तिर्यस्य तेन त्वामूर्त्तिभूतेन तपसा । त्वष्टुस्तपसा येनेमे लोकाः । आवृतास्तेन लोकावरणरूपप्रवृत्तिनिमित्तेन वृत्र इति प्रोक्तः । वृत्रशब्द- वाच्यः सोऽभूदित्यर्थः । तथा च श्रुतिः “स इमाँल्लोकानावृणोत्तद्वृत्रस्य वृत्रत्वम्” इति वृत्रस्य वृत्रशब्दाभिधेयस्य वृत्रत्वं वृत्रशब्द- प्रवृत्तिनिमित्तम् । तल्लोकावरणमेवेत्यर्थः । स च पापः धर्मप्रतिपक्षः । लोकपालविरोधित्वादिति भावः । दुःसहः ॥ १८ ॥ तं वृत्रमभिद्रुत्याभिमुखमागत्य सगणाः ससैन्या विबुधर्षभा इन्द्रादयः स्वः स्वैर्दिव्यानामस्त्राणां शस्त्राणां च ओघैः सङ्घ निजघ्नुः प्रजहुः । तानि दिव्यान्यस्त्रादीनि स वृत्रोऽग्रसीत् ।। १९ ।। * * ततस्ते देवा विस्मिताः अहो एतस्य दुर्गेयत्वमिति विस्मिताः ग्रतं वृत्रेणापहृतं तेजो येषां ते । अत एव विषण्णाः खिन्नाः प्रत्यचं प्रत्यगात्मशरीरकं प्रत्यग्दिग्गतं वा प्रतीच्यां दिश्याविर्भूदिति तत्रैवाविर्भावस्य दिश्याविर्भूदिति तत्रैवाविर्भावस्य वक्ष्यमाणत्वात् । आदिपुरुषं जगत्कारणभूतं परमात्मानं समाहितचित्ताः सन्तः उपतस्थुस्तुष्टुवुः । त्रिभुवनस्य तेन व्याप्यत्वादन्यत्र गमनाभावात्तत्रैव स्थित्वा स्वान्तरात्मानं तुष्टुवुरिति भावः ॥ २० ॥ विजयध्वजतीर्थंकृता पदरत्नावली ।। परमदारुणः इन्द्रशत्रव इत्यादिना " त्वष्ट्रा हतपुत्रोऽपीन्द्रं सोममाहरत्” इत्यादिवेदवाक्यं सूचयति । इन्द्रः शत्रुर्यस्य वृत्रस्य स इन्द्रशत्रुः इन्द्र एव तस्य सम्बुद्धिरिन्द्रशत्रो ! इति अनेन यजमानस्यानभिप्रेतार्थोऽपि सूच्यत इति ज्ञातव्यम् ॥ ११ ॥ * * अन्वाहार्यपचनादक्षिणाग्ने: लोकानां क्षयाय ।। १२-१३ ।। * सन्ध्याकालाभ्रमालावत्कपिशं वासो यस्य स तथा तं तप्ततान्नवच्छिखा श्मश्रूणि च यस्य स तथा तम् ॥ १४ ॥ * * तिस्रः शिखाः शिरांसि यस्य तत्तथा तस्मिन् ।। १५ ।। ** दरीगम्भीरवक्त्रेण गुहावदगाधमुखेन ॥ १६ ॥ * * रौद्ररूपे रौद्ररूपे दंष्ट्रे यस्य तत्तथा तेन मुखेन जृम्भयन्तं व्याद- दानम् ॥ १७ ॥ * * निरुक्तिपूर्वक नाम निर्दिशति । येनेति । त्वाष्ट्रलक्षणा मूर्तिर्यस्य तत्तथा तेन तमसा आवृता इति येन ततः सोऽसुरो वृत्र इति ख्यातः " वृत्र जघन्वाँ अपतद्ववार” इति श्रुतेः " दैत्यभेदे चान्धकारे वृत्रशब्दः प्रयुज्यते" इत्य- भिधानाच्च । पतीति पः पालः परमात्मा धर्मो वा तस्मादपगतः पापः एतदेव सूचयति । परमदारुण इति ।। १८-१९ ।। श्रीनारायणानुग्रहमन्तरेण वृत्रजयो दुःसाधन इति कृत्वा देवानां हरिशरणप्रकारं वक्ति । तत इति प्रत्यचं प्रत्यगात्मानमादि- पुरुषं सृष्टेरादौ भक्तानुग्रहाय गृहीतपुरुषरूपम् ।। २० ।। द्र ।। ।। 1 । जीवगोस्वामिकृतः क्रमसन्दर्भः इन्द्रशत्रो ! विवर्द्धस्वेति शत्रु: हन्ता तत्र तत्पुरुषे वृत्रस्य हन्तृत्वम् । बहुव्रीहौ सतीन्द्रस्य हन्तृत्वमायाति तत्र च तत्पुरुषत्वं “समासस्य” इत्यनेन समासान्तस्वरस्यान्तोदात्तविधिना व्यज्यते । बहुब्रीहित्वं तु तद्बाधकेन “बहुव्रीहौ प्रकृत्या पूर्वपदम्" इत्यनेन पूर्वपदे स्वभावसिद्धाद्युदात्तस्थापकेन व्यज्यते । इन्द्रशब्दो ह्याद्युदात्तः “ इदि परमैश्वर्य” इत्यस्योदात्तगण- पठितत्वात् । तदेवं दैवादाद्य दात्तत्वपाठेन वैपरीत्यं जातमिति इन्द्र एव तस्य शत्रु रभूत् ।। ११-१४॥ ।
-
- तत्र शूल आरोप्यैवेति द्यावापृथिवीस्थलोकैस्तस्मिन् शूले स्वप्रथनानिष्पत्तिमननात् ।। १५-१७ ॥ * * येनेति तैः । त्वाष्ट्रमूर्त्तिनेति मूर्त्तिः स्वरूपं त्वाष्ट्रसम्बन्धेनैव तस्य स्वरूपं भासत इत्यर्थः ॥ १८-२१ ॥स्कं. ६ अ. ९ श्लो. १९-२० ] t अनेकव्याख्यासमलङ्कृतम् विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी २८९ संवत्सरान्ते तदद्यमिति पूर्वोक्तराश्विनमासारम्भे इन्द्रो यदैव ब्रह्महत्यातो विमुक्तो बभूव तदैव तपोवनादागत्य विमासं पालयितुं प्रवृत्तः । त्वष्टा स्वपुत्रवधं श्रुत्वा क्रोधशोकाभ्यामिन्द्रवधोपायं चकारेत्याह । हतपुत्र इति । इन्द्राय -शत्रवे इन्द्ररूपं शत्रु हन्तुं तत्र मन्त्रमाह । इन्द्रशत्रो ! विवर्द्धस्वेति । इन्द्रस्य शत्रुः सन् विवर्द्धस्वेति तत्पुरुषसमासस्य विवक्षि- तत्वेऽपि इन्द्र एव शत्रुर्यस्येति बहुव्रीह्यर्थ एव दैवादापतितः स्वव्यतिक्रमात् । तथा “इदि परमैश्वर्ये” इत्यस्योदात्तगणपठि- तत्वादिन्द्रशब्दो ह्याद्युदात्तः । तत्र “समासस्य" इति सूत्रेण समासमात्र एवान्तोदात्तत्वविधानात्तत्पुरुषे शेषम् “अनुदात्तम्” इत्यनेन इन्द्रशत्रो इत्यस्याद्यानुदात्तत्वम् “बहुव्रीहौ प्रकृत्या पूर्वपदम्" इति तद्बाधकसूत्रेण पूर्वपदस्य स्वभावसिद्धस्वरस्थापनाद्- बहुव्रीहाविन्द्रशत्रो इत्यस्याद्युदात्तत्वम् । त्वष्टा तु दैवाद्युदात्तस्वरितयैव पाठादिन्द्र एव तस्य शत्रुर्हन्ता अभूत् । तदुक्तं श्रुत्या “यदब्रवीत् स्वाहेन्द्रशत्रो ! विवर्द्धस्वेति तस्मादस्येन्द्रः शत्रुरभवत्” इति । तथा च शिक्षायाम्- “ मन्त्रो हीनः खरतो वर्णतो वा मिथ्या प्रयुक्तो न तमर्थमाह । स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रु : स्वरतोऽप- राधात्” इति ॥। ११ ॥ अथ तदनन्तरमेव स्वीयपाठव्यतिक्रमेऽवगते सति अन्वाहार्यपचनात् स्वभावप्राप्ताद्युदात्तव्यञ्जित बहुव्रीहिपठनानन्तरं आहार्यताप्राप्ताद्यनुदात्तव्यञ्जिततत्पुरुषपाठाद्धेतोः स घोरदर्शन उत्थितः स्वाभाविकपाठादिन्द्रोऽस्य हन्ता भविष्यति पश्चादा- हार्यपाठादिन्द्रोऽप्यनेन हतो भविष्यति सवाहनस्यापि तस्यानेन निगिलिष्यमाणत्वादिति भावः । अन्वाहार्यशब्दस्य षाण्मासि- कश्राद्धवाचित्वाद्व चाख्यान्तरं न घटते ।। १२ ।। * तं वीक्ष्य वित्रस्ता लोका दश दिशो विदुदुवुरिति पञ्चमेनान्वयः । कीदृशं विष्वक्समन्ततः स्वस्य ऊर्ध्वाधो दशदिनु इषुविक्षेपमात्र प्रतिदिनं वर्द्धमानम् । आरोप्य आरोप्येवेत्यर्थः । पिबता पिबतेव ।। १३-१७ ॥ * त्वाष्ट्री त्वष्टृसम्बन्धिनी मूर्त्तिर्यस्य तेन वृत्रण इमे लोका आवृता इत्यर्थः ।। १८-१६ ॥ * * प्रत्यचं प्रत्यग्भूतमन्तर्यामिणमित्यर्थः ॥ २० ॥ | सवा शुकदेवकृतः सिद्धांतप्रदीपः । ततस्तदनन्तरं हतः पुत्रो यस्य सः । इन्द्राय शत्रवे जुहाव “तादर्थ्ये चतुर्थी” मत्कुणेभ्यो धूम इतिवत् इन्द्ररूपशत्रु- बधार्थं जुहावेत्यर्थः । तत्र मन्त्रमाह । इन्द्रशत्रो ! विवर्द्धस्वेति । अत्राद्युदात्तं पदं पठितं तेनानिष्टं जातम् । तथा हि तत्पुरुष- विवक्षया पठितेऽपि तत्पुरुषे शेषम् “अनुदात्तम्” इत्यनेन आद्यानुदात्तत्वे प्राप्ते इन्द्रशत्रुपदस्याद्युदात्तत्वात् “बहुव्रीहौ प्रकृत्या पूर्वपदम्” इत्यनेन बहुव्रीहिलक्षणापत्या इन्द्र एव तस्य शत्रुर्जातः । तथोक्तं शिक्षायाम् मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्या- प्रयुक्तो न तमर्थमाह । स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधात् । इति । " यदब्रवीत्स्वाहेन्द्रशत्रो विवर्द्धस्वेति तस्माद्स्येन्द्रः शत्रुरभवत्" इति श्रुतिरस्यनेनोपबृंहिता ॥ ११ ॥ * * अथ होमानन्तरमन्वाहार्यपचना दक्षिणा- भितः ॥ १२ ॥ * * तं वीक्ष्य लोका वित्रस्ता दश दिशो दुदुवुरित्यनेन सम्बन्धः । विश्वक्सर्वदिनु इषुविक्षेपमात्र दिने दिने विवर्द्धमानं दग्धशैलप्रतीकाशं कृष्णवर्णम् । सन्ध्याभ्रसमूहवद्वर्थः कान्तिर्यस्य तं तप्तताम्रवदत्यरुणा शिखा श्मश्रूणि च यस्य मध्याह्नार्कवदुम्रे दुर्दर्शे लोचने यस्य तम् ।। १३-१५ ॥ शूले रोदसी आरोप्येत्यनेन शूलस्यापि लम्बत्वं दृढत्वं सूच्यते ।
-
-
- दरीवद्गम्भीरेण वक्त्रेण मुहुर्मुहुः जृम्भमाणमित्यन्वयः । कथम्भूतेन नभस्तलं पिबता अतिविपुलेन जिह्वया ऋक्षाणि लिहता दीर्घजिह्व ेन भुवनत्रयं ग्रसता दुष्पूरेणेत्यर्थः ।। १६-१७ ॥ * * त्वाष्ट्रः त्वष्टुरपत्यभूतः अन्वाहार्यपचनादुत्थितो यः कृष्णवर्णः पुरुषः स एव मूर्तिर्यस्य तपसस्तेन पुरुषाकारेण त्वष्टुः तपसेत्यर्थः । इमे लोका आवृताः अतो वृत्र इति प्रोक्तः । अनेन “स इमाँल्लोकानावृणोत्तद्वृत्रस्य वृत्रत्वम्” इति श्रुतिरुपबृंहिता ॥ १८-१६ ॥ * * विषण्णाः खिन्ना: प्रत्यचमन्तर्यामि- णमुपतस्थुस्तुष्टुवुः ॥ २० ॥ እኔ፦ ।। ।। गोस्वामिगिरिधरलाल विहिता बालप्रबोधिनी एवमिन्द्रस्य भगवदनुग्रहेण दोषनिवृत्तौ ततस्तदनन्तरं हतः । पुत्रो विश्वरूपो यस्य स त्वष्टा इन्द्रस्य शत्रुः इन्द्रशत्रु- स्तत्सम्बोधनं हे इन्द्रशत्रो मा चिरं शीघ्रमेव विवर्द्धस्व विद्विषं शत्रुमिन्द्रं जहीत्युच्चारयन् इन्द्राय इन्द्रं हन्तुं शत्रवे शत्रुत्पत्यै जुहावेत्यन्वयः । इन्द्रशत्रो इत्यत्र तत्पुरुषस्यभिप्रेतत्वेऽपि इदिधातोरुदात्तगण पठितत्वेन इन्द्रशत्रुपदस्याद्युदात्तत्वात् बहुव्रीहौ प्रकृत्या पूर्वपदमिति सूत्रेण बहुव्रीहिलक्षणापत्त्या इन्द्र एतस्य शत्रुर्हन्ता जातः । तदुक्तं श्रुत्या- “यदब्रवीत् स्वाहेन्द्रशत्रो वर्द्धस्वेति ३७ २९० श्रीमद्भागवतम् [ स्कं. ६ अ. ९ श्लो. ११-२० तस्मादस्येन्द्रः शत्रुरभवत्” इति । तथा चोक्तं शिक्षायाम् - ‘मन्त्रो हीनः खरतो वर्णतो वा मिध्याप्रयुक्तो न तमर्थमाह । स arrar यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधात्’ इति ।। ११ ।। * * अथानन्तरमेव अन्वाहार्यपचनात् दक्षिणा- मितः घोरदर्शन: भयङ्कररूपो वृत्र उत्थितः । भयङ्करत्वमेव स्पष्टयति — युगान्तसमये प्रलयप्रारम्भे लोकानां कृतान्तः कालात्मा रुद्रो यथा तद्वत् ।। १२ ।। * * तं वीक्ष्य वित्रस्ता लोका दशदिशो दुदुवुरिति पञ्चमेनान्वयः । पलायन हेतुना भयङ्करत्वेन तं विशिनष्टि - विष्वक् समन्ततः स्वस्योर्ध्वाधो दशदिनु इषुविक्षेपमात्रं प्रतिदिनं वर्द्धमानम् । दग्धशैलप्रतीकाशमत्युच्चं कृष्ण- वर्णम् सन्ध्याभ्रानीकवद्वर्चो दीप्तिर्यस्य तम् ॥ १३ ॥ * * तप्तताम्रवच्छिखाः श्मश्रूणि च यस्य तम् मध्याह्नार्कवदुप्रे सन्ताप- करे भयङ्करे लोचने यस्य तम् ॥ १४ ॥ | १४ ॥ * * तिस्रः शिखाः शिरांसि यस्य तस्मिन् देदीप्यमाने शूले रोदसी आरोप्यैव नृत्यादि कुर्वन्तमित्यर्थः ॥ १५ ॥ * दरीवद्गम्भीरेण वक्रेण मुहुर्मुहुज म्भमाणमित्यर्थः । वक्त्रस्य महत्त्वमुत्प्रेक्ष्यते - नभस्तलं पिबतेव, ऋक्षाणि नक्षत्राणि जिह्वया लिहतेवेति भुवनत्रयं ग्रसतेव ॥ १६ ॥ महता विस्तीर्णेन रौद्रा दंष्ट्रा यस्मि- स्तेन ॥ १७ ॥ ** तस्य वृत्रनामनिरुक्तिमाह — येनेति येन त्वाष्ट्रमूर्त्तिना त्वष्टुरपत्यरूपेण तमसा इमे सर्वे लोका आवृताः स वै त्वाट्रो वृत्र इति प्रोक्त इत्यन्वयः । अतिकृष्णवर्णत्वान्महत्त्वाच्च तमोरूपेणोत्प्रेक्ष्यते । परमदारुणः अतिभयङ्कररूप- इत्यर्थः । अत एव पाप इत्यप्युत्प्रेक्षामात्रम् । सर्वप्राणिभयङ्करत्वात्तेषां पापनिचय इवाविर्भूत इति भावः । ननु स पापिष्ठ इति वक्तुं युक्तं परमभक्तत्वेन भगवदनुग्रहविषयत्वेन च वक्ष्यमाणत्वात् ॥ १८ ॥ * * तानि अस्त्रशस्त्रादीनि अग्रसत् भक्षि- तवान् ॥ १९ ॥ * * एवं प्रस्तं तिरस्कृतं तेजो येषां ते सर्वे देवगणास्ततस्तेज सस्तिरस्काराद्विस्मिताः कथमेकेनानेन सर्वेषां देवानां सामर्थ्यं निरस्तमित्याश्चर्ययुक्ताः अत एव विषण्णाः कथमपि ततो विमोकमपश्यन्तो विवाद प्राप्ताः भगवतोऽन्यस्मा- तद्भयनिवृत्तिमपश्यन्तः समाहिताः भगवत एव भयनिवृत्तिर्भविष्यतीति निश्चयेन तदेकप्रवणचित्ताः सन्तस्तमादिपुरुषं सर्वकारण- कारणत्वेन सर्वस्वामिनमुपतस्थुः तुष्टुवुरित्यन्वयः । ननु वृत्रेण सर्वतः परिवृतानां कथं भगवत्समीपे गत्वा स्तुतिः सम्भवतीत्या- शङ्कयाह — प्रत्यचमिति, अन्यत्र गमनासम्भवेऽपि भगवतोऽन्तर्यामिणः सर्वत्र विद्यमानत्वात्तत्रैव स्थित्वा तुष्टुवुरित्यर्थः ॥ २० ॥ ॥ भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी
-
T हतपुत्र इति । ततः हत इन्द्रेण व्यापादितः पुत्रो यस्य सः, त्वष्टा शत्रत्रे इन्द्राय, जुहाव । इन्द्रायेति तादर्थ्ये चतुर्थी । तदर्थश्चात्र निवृत्तिः । यथा मशकार्थो धूम इति मशकनिवृत्तये इत्यर्थस्तथा पुत्रविनाशनेन शत्रुतां प्राप्तस्येन्द्रस्य विनाशार्थमजुहो दित्यर्थः । यद्वा । इन्द्रायेन्द्र ं हन्तुं शत्रवे शत्रूत्पत्त्यै, जुहावेति हुत्वैवं प्रार्थितवानित्याह । हे इन्द्रशत्रो, माचिरमाशु विवर्द्धस्व । विद्विषं जहि विनाशय । अत्रेन्द्रशत्रु शब्दे तत्पुरुषसमासप्रयुक्ते अन्तोदात्तत्वे वक्तव्ये प्रमादाद्बहुव्रीहिसमासप्रयुक्तायुदात्तः किलोक्तः । इन्देर्धातोरौणादिके ‘ऋन्द्रा’ इत्यादिना रनप्रत्यये कृते इन्द्रशब्द आद्युदात्तो व्युत्पादित: । ‘बहुव्रीहौ प्रकृत्या पूर्वपदम्’ इति स्मृतेर्यत्रायुदात्तत्वं तत्र बहुव्रीहिरेव । यत्रान्त्योदात्तत्वं तत्र तत्पुरुषः । एवं सत्यत्र स्वाभिप्रेतमन्तोदात्तत्वं प्रमादा- द्विस्मृत्याद्युदात्तस्वरोच्चारणतो बहुव्रीहिलक्षणापत्या इन्द्र एव तस्य शत्रुरभूत् । तदुक्तं श्रुत्या – ‘यदब्रवीत स्वाहेन्द्रशत्रुर्वर्द्धस्वेति तस्मादस्येन्द्रः शत्रुरभवत्’ इति । शिक्षायां च ‘मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्या प्रयुक्तो न तमर्थमाह । स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधात्’ इति ॥ ११ ॥ अथेति । अथ होमानन्तरं, अन्वाहार्यपचनाद्दक्षि- णाग्नेः, युगान्तसमये, लोकानां क्षयायेति शेषः । कृतान्तः यथा उत्थितः भवति, स इव घोरदर्शनः असुरः, उत्थित उत्पन्नो- ऽभूत् ।। १२ ।। विष्वगिति । तमसुरं वीक्ष्य, वित्रस्ताः सर्वे लोकाः दश दिशः दुदुवुरिति पञ्चमेनान्वयः । तं
-
- विशिनष्टि । विष्वक् समन्तः, इषुमात्रमिषुविक्षेपप्रमाणं, दिने दिने प्रतिदिनं विवर्द्धमानं दग्धशैलप्रतीकाशं कृष्णवर्ण, संध्या भ्रा- नीकवच दीप्तिर्यस्य तम् ॥ १३ ॥ तप्तेति । तप्तताम्रवच्छिखाः श्मश्रूणि च यस्य तं, मध्याह्नार्कवत् उग्रे लोचने यस्य तं, देदीप्यमाने त्रिशिखे शिखात्रयवति शूले, रोदसी द्यावापृथिव्यौ, द्यावापृथिव्यन्तर्वर्त्तिपदार्थजातमित्यर्थः । आरोप्य, नृत्यन्तं, उन्नदन्तमुच्चैर्ध्वनन्तं, पदा महीं चालयन्तं कम्पयन्तम् ॥ १४ ॥ * * दरीति । नभस्तलं पिबता जिह्वया ऋक्षाण्यश्विन्यादि- नक्षत्राणि, लिहता आस्वादनं कुर्वता, भुवनत्रयं, प्रसता ।। १५ ।। महतेति । महता विस्तीर्णेन रौद्रा दंष्ट्रा यस्मिं- स्तेन, दरीवद्गम्भीरं यद्वक्त्र तेन मुहुः मुहुः, जृम्भमाणं, अन्यद्वयाख्यातम् । केचित्तु द्वितीयान्ततया पठन्ति । तद्यथा - ‘दरी - गम्भीरवक्रेण पिबन्तं च नभस्तलम् । लिहन्तं जिह्वयाक्षणि प्रसन्तं भुवनत्रयम्’ इति । उभयोरेकाऽन्वयः ॥ १६ ॥ * वृत्रनाम निर्वक्ति । येनेति । तपसा त्वष्टुस्तपोभूतेन त्वाष्ट्रो मूर्त्तिर्यस्य तेन त्वाष्ट्रमूर्त्तिभूतेनेत्यर्थः । येन इमे लोकावरणरूप- प्रवृत्तिनिमित्तेन, पापः परमदारुणः सः वृत्रः इति प्रोक्तः, वै । तथा च श्रुतिः - ‘स इमान् लोकानावृणोत्तद्वृत्रस्य वृत्रत्वम्’ इति । अस्या अर्थ:- वृत्रस्य वृत्रशब्दाभिधेयस्य, वृत्रत्वं वृत्रशब्दप्रवृत्तिनिमित्तं, तल्लोकावरणमेवेति ॥ १७ ॥ 1 ।
तमिति । स्कं. ६ अ. ९ श्लो. २१-३० ] अनेकव्याख्यासमलङ्कृतम् २९१ तं वृत्रं, अभिद्रुत्य अभिमुखमागत्य, सगणाः ससैन्याः, विबुधर्षभा इन्द्रादयः, स्वैः स्वैः दिव्यानामस्त्राणां शस्त्राणां च ओधैः संधैः, निजघ्नुः प्रजहुः । तानि दिव्यान्यस्त्रादीनि कृत्स्नशः सर्वाण्यपि, सः वृत्रः, अप्रसत् ॥ १८ ॥ तत इति । ततस्तत्- कृतस्वदिव्यास्त्रशस्त्रग्र सनानन्तरं, विस्मिताः अहो एतस्य दुर्ज्ञेयत्वमिति विस्मयाविष्टाः, विषण्णाः सखेदाः, प्रस्ततेजसो वृत्रापहृत- महसः, सर्वे ते देवाः, प्रत्यचं प्रत्यागात्मशरीरकं, आदिपुरुषं जगत्कारणभूतं परमात्मानं समाहिताः एकाग्रचेतसः सन्तः, उपतस्थुस्तुष्टुवुः । त्रिभुवनस्य तेन व्याप्तत्वात् काप्यन्यत्र गमनस्थानासंभवात्तत्रैव स्थित्वा तुष्टुवुरिति भावः । परित्राणां न चाऽन्यस्माद्भवेदस्मिन् महाभये । निश्चित्यैवं सुराः श्रीशमातुराः शरणं ययुः’ इति ॥ १९ ॥ T उपस्थानमाह । ‘भीषा - स्माद्वातः पवते’ | ‘एतस्य वाऽक्षरस्य प्रशासने गार्गि द्यावापृथिव्यौ विधृते तिष्ठतः’ । ‘प्राच्योऽन्या नद्यः स्यन्दन्ते’ इत्यादिश्रुत्यु- क्तरीत्या सर्वस्य प्रशास्तुः परमात्मनः शासनानुवर्त्तिनामात्मनां तदनन्यशरणत्वं वदन्तः स्तुवन्ति ॥ २० ॥ भाषानुवादः थे ।। १ विश्वरूपकी मृत्यु के बाद उनके पिता त्वष्टा ‘हे इन्द्रशत्रो ! तुम्हारी अभिवृद्धि हो और शीघ्र से शीघ्र तुम अपने शत्रुको मार डालो’ - इस मन्त्र से इन्द्रका शत्रु उत्पन्न करनेके लिये हवन करने लगे ॥ ११ ॥ * * यज्ञ समाप्त होनेपर अन्वाहार्य - पचन नामक अनि ( दक्षिणाग्नि) से एक बड़ा भयावना दैत्य प्रकट हुआ। वह ऐसा जान पड़ता था, मानो लोकों- का नाश करनेके लिये प्रलयकालीन विकराल काल ही प्रकट हुआ हो ॥ १२ ॥ * परीक्षित्! वह प्रतिदिन अपने शरीरके सब ओर बाणके बराबर बढ़ जाया करता था। वह जले हुए पहाड़के समान काला और हुए पहाड़के समान काला और बड़े डील-डौलका था । उसके शरीर मेंसे सन्ध्याकालीन बादलोंके समान दीप्ति निकलती रहती थी ॥ १३ ॥ और * उसके सिरके बाल और दाढ़ी-मूँछ तपे हुए ताँबे समान लाल रंगके तथा नेत्र दोपहरके सूर्यके समान प्रचण्ड ॥ १४ ॥ * * चमकते हुए तीन नोकोंवाले त्रिशूलको लेकर जब वह नाचने चिल्लाने और कूदने लगता था, उस समय पृथ्वी काँप उठती थी और ऐसा जान पड़ता था कि उस त्रिशूलपर उसने अन्तरिक्षको उठा रक्खा है ।। १५ ।। * * वह बार-बार जँभाई लेता था। इससे जब उसका कन्दराके समान गम्भीर मुँह खुल जाता, तब जान पड़ता कि वह सारे आकाशको पी जायगा, जीभसे सारे नक्षत्रोंको चाट जायगा और अपनी विशाल एवं विकराल दाढ़ोंवाले मुँहसे तीनों लोकोंको निगल जायगा । उसके भयावने रूपको देखकर सब लोग डर गये और इधर उधर भागने लगे ।। १६-१७ ॥ परीक्षित् ! त्वष्टाके तमोगुणी पुत्रने सारे लोकोंको घेर लिया था । इसीसे उस पापी और अत्यन्त क्रूर पुरुषका नाम वृत्रासुरं पड़ा ॥ १८ ॥ * बड़े-बड़े देवता अपने-अपने अनुयायियोंके सहित एक साथ ही उसपर टूट पड़े तथा अपने-अपने दिव्य अस्त्र-शस्त्रोंसे प्रहार करने लगे । परन्तु वृत्रासुर उनके सारे अस्त्र-शस्त्रोंको निगल गया ।। १९ ।। अब तो देवताओंके आश्चर्यकी सीमा न रही । उनका प्रभाव जाता रहा। वे सब के सब दीन-हीन और उदास हो गये तथा एकाग्र चित्तसे अपने हृदय में विराजमान आदिपुरुष श्रीनारायणकी शरण में गये ।। २० ।। वाय्वम्बराग्न्यप्तियस्त्रिलोका हराम यस्मै बलिमन्तकोऽसौ अविस्मितं तं परिपूर्णकामं देवा ऊचुः ब्रह्मादयो ये वयमुद्विजन्तः । बिभेति यस्मादरणं ततो नः ॥ २१ ॥ स्वेनैव लाभेन समं प्रशान्तम् । श्वलाङ्गुलेनातितितर्ति विनोपसर्पत्यपरं हि बालिशः यस्योरुशृङ्गे जगतीं स्वनावं मनुर्यथाऽऽबध्य ततार सिन्धुम् ।। २२ ।। दुर्गम् । 1 स एव नस्त्वाष्ट्रभयाद्दुरन्तात् त्राताऽऽश्रितान् वारिचरोऽपि नूनम् ॥ २३ ॥ पुरा स्वयम्भूरपि संयमाम्भस्युदीर्णवातोमिरवैः कराले । एकोऽरविन्दात् पतितस्ततार तस्माद् भयाद् येन स नोऽस्तु पारः ॥ २४ ॥ य एक ईशो निजमायया नः ससर्ज येनानुसृजाम विश्वम् । वयं न यस्यापि पुरः समीहतः पश्याम लिङ्गं पृथगीशमानिनः ।। २५ । ॥ २९२ श्रीमद्भागवतम् [ स्कं. ६ अ. ९ श्लो. २१-३० श यो नः सपत्नैर्भृशमर्द्यमानान् देवर्षितिर्यनृषु area | कृतावतारस्तनुभिः खमायया कृत्वाऽऽत्मसात् पाति युगे युगे च ॥ २६ ॥ तमेव देवं वयमात्मदैवतं परं प्रधानं नं पुरुषं विश्वमन्यम् । बजाम सर्वे शरणं शरण्यं खानां स नो धास्यति शं महात्मा ॥ २७ ॥ श्रीशुक उवाच ॥। इति तेषां महाराज सुराणामुपतिष्ठताम् । प्रतीच्यां दिश्यभूदाविः शङ्खचक्रगदाधरः ॥ २८ ॥ आत्मतुल्यैः षोडशभिर्विना श्रीवत्सकौस्तुभौ । पर्युपासितमुनिद्रशरदम्बुरुहेक्षणम् ॥ २९ ॥ दृष्ट्वा तमवनौ सर्व ईक्षणाह्लादविक्लवाः । दण्डवत् पतिता राजञ्छनैरुत्थाय तुष्टुवुः ॥ ३०॥ पंचक E EET कृष्णप्रिया व्याख्या ॥ अन्वयः - ये वयं वाय्यम्बराग्न्यप्क्षितयः त्रिलोकाः ब्रह्मादयः उद्विजन्तः यस्मै बलि हराम असौ अंतकः यस्मात् बिभेति ततः न अरणम् ॥ २१ ॥
-
अविस्मितं स्वेन एव लाभेन परिपूर्णकामं समं प्रशान्तम् तं विना अपरम् उप- सर्पति बालिशः श्वलाङ्गुलेन सिंधुम् अतितितर्ति हि ॥ २२ ॥ ४ * * मनुः यथा यस्य उरुशृंगे जगतीं स्वनावं आबद्धच दुर्गम् ततार सः एव वारिचरः अपि श्रितान् नः दुरन्तात् त्वाष्ट्रभयात् नूनं त्राता ।। २३ ।। * * पूरा एकः उदीर्ण- वातोर्मिरवैः कराले संयमभसि अरविंदात् पतितः स्वयंभूः अपि येन तस्मात् भयात् ततार सः नः पारः अस्तु ।। २४ ।। * * यः एकः ईशः निजमायया नः ससर्ज येन विश्वम् अनुसृजाम पृथगीशमानिनः वयम् पुरः समीहतः यस्य लिङ्गम् अपि न पश्याम ||२५| ॥२५॥ * * च नित्यः एव यः युगे युगे स्वमायया तनुभिः देवर्षितिर्यङनृषु कृतावतारः सपत्नैः भृशम् अर्द्यमानान् नः आत्मसात्कृत्वा पाति ॥ २६ ॥ पाई पाति ॥ २६ ॥ * सर्वे वयम् आत्मदैवतम् परम् पुरुषम् विश्वम् अन्यम् शरण्यम् तम् एव देवम् शरणं व्रजाम सः महात्मा स्वानां नः शं धास्यति ॥ २७ ॥ * महाराज शंखचक्रगदाधरः इति उपतिष्ठताम् तेषाम् सुराणाम् प्रतीच्याम् दिशि आविः अभूत् ॥ २८ ॥ * * राजन् श्रीवत्सकौस्तुभौ बिना आत्मतुल्यैः षोडशभिः पर्यु- पासितम् उन्निद्रशरदम्बुरुहेक्षणम् तम् अवनौ दृष्ट्वा ईक्षणाह्लादविक्लवाः सर्वे दंडवत्पतिताः शनैः उत्थाय तुष्टुवुः ।। २९-३० ।। क श्रीधरस्वामिविरचिता भावार्थदीपिका वाय्वादीनि पंचमहाभूतानि तैर्निर्मितास्त्रयो लोकास्तेषामधिपतयो ब्रह्मादयश्च ततोऽर्वाचीना वयं च सर्वे यस्मै अंतकाय कालायोद्विजतः संतो बलि हरामासावपि यस्माद्विभेति ततः परमेश्वरादेव नोऽस्माकमरणं शरणं रक्षणमस्तु ॥ २१ ॥ तत एवेत्यवधारणे हेतुमाहुः । अविस्मितं निरहंकारं कुतूहलशून्यं वा कुतः । प्रशांतं रागादिशून्यम् । तच्च कुतः । स्वेनैव लाभेन परिपूर्णकामम् । तच्च कुतः । समनुपाधिपरिच्छेदशून्यम् । एवंभूतं परमेश्वरं विना परं यः शरणार्थमुपसर्पति स बालिशोऽज्ञः । यतोऽसौ शुनौ लांगूलेन पुच्छेन समुद्रमतितितति अतितर्तुमिच्छतीत्यर्थः । यथा तेन समुद्रतरणं न भवति तथा निरीश्वराश्रयणेन व्यसनार्णवतरणं न भवतीति भावः ।। २२ ।। * * महाभये स एव रक्षक इति दृष्टिमित्याहु: यस्येति द्वाभ्याम् । यस्य महाशृंगे जगतीं पृथ्वीमेव स्वनावं बद्ध्वा मनुः सत्यत्रतो यथावदुर्ग संकटं ततार स एव वारिचरो मत्स्य मूर्त्तिर्नोऽस्मानप्याश्रि- तान्सतो नूनं त्राता रक्षिष्यति ।। २३ ।। संयमांभसि प्रलयोदके उदीर्णैरुद्गतैवतैर्ये ऊर्मयस्तेषां रवैः कराले भयंकरे | अरविंदान्नाभिकमलात्पतितप्राय एकोऽसहाय एव तस्माद्भयाद्येन नारायणेन ततार स एव नः पारस्तारकोऽस्तु ॥ २४ ॥ ** कि च, वयं भगवतैव सृष्टाः पालिताश्च बहुशो ऽतस्तमेव शरणं व्रजामेत्याहु: य एक इति त्रिभिः । येनानुगृहीताः संतो विश्वं सृजाम । ननु यूयमेव स्रष्टारो नान्यो युष्माकमनुग्राहकोऽस्ति तस्यादर्शनात्तत्राहु: । अस्मत्तः पुरः पूर्वमेवांतर्यामितया समीह- मानस्यापि यस्य लिंगं रूपं न पश्यामः । तत्र हेतुः । पृथक्पृथगीशा इत्यभिमानिनः ॥ २५ ॥ राममत्स्यरामादितनुभिः कृतावतारः सन्नस्मानात्मसात्कृत्वा पाति च ।। २६ ।। । १. प्रा० पा० ऋषिरुवाच । २. प्रा० पा० मधिति० ।
-
देवादिषूपेंद्र परशु- आत्मभूतं दैवतं कुतो विश्वं स्क. ६ अ. ९ श्लो. २१-३०]
अनेकव्याख्या समलङ्कृतम् विश्वात्मकम् । तथापि विकारं वारयति । अन्यम् । विश्वात्मत्वे हेतुः । परं कारणम् । ननु प्रधानं पुरुषश्च विश्वस्य कारणं तत्राहुः । प्रधानं पुरुषं च । तदात्मकोऽपि स एवेत्यर्थः । स एव स्थानां नः शं विधास्यति ।। २७ ।। * * प्रतीच्यां दिशि हृदि प्रथममाविरभूत् ॥ २८ ॥ * पुनश्च तं पुरो दृष्प्रेक्षणाह्लादेन विवशा अवनौ दंडवत्पतिताः संतः शनैरुत्थाय तुष्टुवुरित्यन्वयः । कथंभूतम् । श्रीवत्सकौस्तुभौ विना स्वतुल्यैः श्रीवत्सकौस्तुभमात्रव्यतिरिक्तैः शंखचक्रादिभिः कृत्वा स्वसमानैः षोडशभि: सुनंदादिभिः परितः सेवितम् । उन्निद्रशरदंबुरुदीक्षणे यस्य यम् ।। २९-३० ।। I वंशीधरकृतो भावार्थदीपिकाप्रकाशः असावपि । अंतकोपि ॥ २१ ॥ सुधियान्यो नाश्रयणीय इत्याह- अविस्मितमिति । तं विनाऽपरं देवतांतरं कर्मयोगं ज्ञानयोगमयोगं वा शरणार्थं बालिशो महामूर्ख एवापसर्पति न तु विज्ञः । यथा शुनः पुच्छेन सिन्धुमतितत्तुमिच्छति स श्वैव सिंधुं तत्तुं न शक्नोति किमुत तत्पुच्छग्राही प्रत्युत स्वपुच्छ तत्पुच्छ प्राहिणं दृष्ट्वा प्रथमं समुद्रे क्षिपति पश्चात्स्वयमपि निमज्ज- तीति भावः । भगवदाश्रयी तु संसारसिन्धुं यत्तरति तत्किमपि नाद्भुतमित्याह - अविस्मितमिति । न विद्यते विस्मितं किमप्यद्भुतं यत्र तं विना दुर्लभ्यस्यापि संसारसिंधोस्तारणेऽन्यत्रातिविस्मयोऽपि तत्र न कोऽपि विस्मयः सदैव तस्य गोष्पदीकरणसामर्थ्या- दिति भावः । स्वेनैव स्वस्वरूपेणैव योः लाभः सौन्दर्यादिमाधुर्य सप्तकस्य यो लाभस्तेन सह परिपूर्णः कामः स्वीयह्लादिनीशक्ति- दत्तो भोगो यस्य तम् । प्रशांतमनुयं सेवापराधे जातेऽपि भक्तवात्सल्यात्क्षतारम् । संदर्भस्तु - अविस्मितं ततोन्यस्यापूर्वस्य वस्तु- नोऽसंभवाद्विस्मयरहितम् । अतः स्वेनैव स्वीयेनैव स्वस्यैव कर्मभूतस्य क्रियाभूतेन लाभेन परिपूर्णकामं नान्यस्येत्यर्थः । अतः सर्वत्र समम् । अतः प्रशांतं चित्तदोषरहितं तथोक्तम् “रजस्तमः प्रकृतयः समशीला भजंति वा? इत्यादि । सत्यव्रतेनाप्युक्तम् “न यत्प्रसादायुतभागळेशमन्ये च देवा गुरवो जनाः स्वयम् । कर्तुं समेताः प्रभवंति पुंसस्तमीश्वरं वै शरणं प्रपद्ये ।” इति । श्रीमहा- भारतेऽपि “यस्तु विष्णुं परित्यज्य मोहादन्यमुपासते । स हेमराशिमुत्सृज्य प्रांशुराशि जिघृक्षति ।” इति । तदिदं भक्तिसंदर्भे विशेषेण विवृतमस्तीत्युपरम्यते । स्वामिचरणैरप्येतत्सुष्ठवेव विवृतम् ॥ २२ ॥ * * वयं त्विति । निकृष्टाः सकामाः अध्य- स्मिन्महाभय एव शरणं यांतोऽपि तेनैव रक्षणीया यथा पूर्वे इत्यभिप्रेत्याह- महाभय इति । यस्य मत्स्य मूर्त्तेः । यथा ततार तथा वयमपि तरेमेति भावः । वारिचरोऽपि वारिण्येव चरन्नपि तत्रैव स्थित्वा जगतीस्थानस्मानीश्वरत्वाद्रक्षतु ।। २३ ।। * * नाभिकमले स्थितस्यैव मोहोद्भवात्पतिततुल्यत्वात्पतितप्राय प्राय इत्युक्तं स्वामिचरणैः । एकाकित्वाद्वितीयवस्तुनोऽनुत्पन्नत्वात् । सोऽबिभेत् । “स द्वितीयमैच्छत्” इति श्रुतेः ॥ २४ ॥ * * स खलु सर्वत्रात्र च वर्तमानोप्यस्माकं बहिर्मुखेंद्रियाणाम- दृश्योऽपि कृपयैव दृश्यो भूत्वा रक्षत्वित्याहुः - किचेति । अतो भगवत्सृष्टत्वात् अत्राक्षिपति - नन्विति । तत्र अदर्शने । विश्वनाथस्तु — पुरतोऽस्माकमग्र एव समीहमानस्य रामकृष्णादिरूपेण लीलां कुर्वतोऽपीत्याह ॥ २५ ॥ * * मायया कृपया चिच्छक्त्या वा । नोऽस्मानात्मसात्कृत्वा पातीत्यत एव सांप्रतं स्वरक्षणार्थं निवेदनेऽपि न संकुचाम इति भावः ॥ २६ ॥ * * मायाशक्त्या विश्वं विश्वरूपं स्वरूपशक्त्याऽन्यं विश्वस्माद्भिन्नम् ॥ २७ ॥ विश्वस्माद्भिन्नम् ।। २७ ।। ॐ प्रतीच्यां दिशि पश्चिमसमुद्रकूले । देशांतरस्योत्तमस्य दैत्याक्रांतत्वात्तत्र देवैः स्थातुमशक्यत्वात्तत्रैव विविक्ते उपविश्य स्तुतत्वात् । अन्यत्र गमनासंभवेन तत्रैव स्थित्वांतर्यामिणः स्तुतत्वान्मुख्यायाः प्रतीच्या दिशोऽसंभवाल्लक्षणया हृदीति बोध्यं वा ॥ २८ ॥ श्रीवत्सकौस्तुभौ विना द्वे चिह्न विहाय चतुर्भुजत्वादिनात्मतुल्यैः षोडशभिः । ते च नंदसुनंदप्रबलो बलजयविजय विष्वक्सेनगरुडश्रुतदेवजयंत- कुमुदकुमुदाक्षनिशठसात्वतपुष्पदं तदारुकाख्याः षोडशेति विवेक: ।। २९-३० । अन्वितार्थप्रकाशिका ॥ ४ वाय्विति । वाय्वाद्युपलक्षितानि त्रयोविंशतिस्तत्त्वानि तैर्निर्मितास्त्रयो लोकास्तत्रत्याः प्राणिन तेषामधिपतयो ब्रह्मा- दयश्च ततोsर्वाचीना ये वयं ते सर्व उद्विजन्तो भीताः सन्तः । शता आर्षः यस्मै अन्तकाय कालाय बलिं हराम वहाम तत्तत्कालविहितं कर्म नियमेन कुर्मः । असावपि कालो यस्माद्बिभेति ततः परमेश्वरादेव नोऽस्माकमरणं शरणं रक्षण- मस्तु ।। २१ ।। * * अविस्मितमिति । अविस्मितं निरहङ्कारं कुतूहलशून्यं वा । यद्वा । न विद्यते विस्मितमाश्चर्यं यत्र तम् । भावे क्तः । सर्वाश्चर्यनिर्मातरि आश्चर्यासम्भवात् स्वेन स्वस्वरूपभूतपरमानन्दलाभेनैव परिपूर्णाः कामाः यस्य सममुपाधि- परिच्छेदशून्यं प्रशान्तं रागादिशून्यं तं विना विहाय योऽपरं शरणार्थमुपसर्पति गच्छति स बालिशः महामूर्ख एव न तु विज्ञः । हि यस्मात्स शुनो लाङ्गुलेन । ह्रस्व आर्ष: । सिन्धुमतितितर्ति अतितरितुमिच्छति अतितितीर्षति । आर्षः प्रयोगः । यथा श्वा एष सिन्धुं तरितु ं न शक्नोति कुतः श्वपुच्छप्राहिणस्ते च यथा समुद्रे मज्जन्ति तथा परमेश्वरं त्यक्त्वाऽन्योपायावलम्बिनो P २९४ ।। श्रीमद्भागवतम् [ स्कं. ६ अ. ९ श्लो. २१-३० मज्जन्ति ॥ २२ ॥ * यस्येति । यस्य मत्स्यमूर्तेः उरुशृङ्गे विस्तृतशृङ्गे जगतीं पृथ्वीरूपां स्वनावं बद्ध्वा मनुः सत्यव्रतो नाम राजा यथा यथावदनायासेनैव दुर्गं प्रलयकालिकं महाभयं ततार । अतः स एव वारिचरः गृहीतमत्स्यमूर्तिन - स्मानप्याश्रितान् शरणागतान् दुरन्तात् त्वाष्ट्रभयान्नूनं त्राता रक्षिष्यति ॥ २३ ॥ पुरेति । पुरा सृष्टिप्रारम्भसमय उदीर्णैरुद्गतैवतैर्य ऊर्मयस्तेषां रवैः शब्दैः कराले भयङ्करे संयमाम्भसि प्रलयोदकेऽरविन्दात् नाभिकमलात्स्वस्थानात् पतितः पतितप्रायः एकः असहायः स्वयम्भूः ब्रह्मापि तस्माद्भयात् येन सहायभूतेन ततार स एव नोऽस्माकमपि पारः अस्माद्भयात्तार- कोऽस्तु ॥ २४ ॥ * * य इति । यः ईशः एकः असहाय एव निजमायया नोऽस्मान् ससर्ज येनानुगृहीताः सन्तो वयं विश्वं सृजामः पृथगीशमानिनोऽपि वयं यस्य पुरः समीहतः अस्मत्तः पूर्वमेव अन्तर्यामितयाऽस्मदादिशरीराणि तत्तत्कार्येषु प्रेरयतोऽपि । शता आर्षः । लिङ्गं चिह्नं वयं न पश्यामः तमेव शरणं व्रजाम: । इति तृतीयेन संबन्धः ।। २५ ।। * यो न इति । नित्य एव वस्तुतः सच्चिदानन्द एव यः स्वमायया अचिन्त्यनिजशक्त्या नानातनुभिर्देवादिषु कृतावतारः सन् सपत्नैः शत्रुभिरसुरादिभिर्भृशमत्यन्तमर्थमानान् पीड्यमानान्नोऽस्मान् आत्मसात्कृत्वा स्वकीयान् मत्त्वा युगे युगे तत्तदवसरे पाति च तमेवेत्युत्तरेणान्वयः । तत्र देवेषु वामनः ऋषिषु परशुरामः तिर्यक्षु नृसिंहहयग्रीववाराहादिः नृषु रामकृष्णादिः ॥ २६ ॥ * * तमेवेति । वयं सर्वे आत्मनां जीवानां दैवतमुपास्यं परं कारणं प्रधानं प्रकृतिरूपं पुरुषं च विश्वरूपं ततः अन्यं पृथगपि स्थितं शरण्यं शरणार्हं तमेव शरणं व्रजाम । स्वानां स्वभक्तानां नोऽस्माकं शं सुखं स एव महात्मा विधास्यति ।। २७ ।। * * इतीति । हे महाराज ! इत्युपतिष्ठतां तेषां सुराणाम् । शता आर्षः । प्रथमं प्रतीच्यां दिशि शङ्खचक्रगदाधरः । भगवानाविरभूत् । अत्र प्रतीच्यां दिशि समुद्रकुले इत्यर्थः । देशान्तरस्योत्तमस्य दैत्याक्रान्तत्वात् इत्याहुः ॥ २८ ॥ * आत्मेति युग्मम् । हे राजन् ! श्रीवत्सकौस्तुभौ विनान्यैश्चतुर्भुजत्वादिभिश्चिहैरात्मतुल्यैः भगवत्समानरूपैः श्रीवत्सकौस्तुभौ भगवतः एव चिह्न न तु सुनन्दादीनामिति भावः । षोडशभिः पार्षदैः सुनन्दादिभिः परितः सेवितम् उन्निद्र फुल्ले शरदम्बुरुहे ते इवेक्षणे यस्य तं दृष्ट्वा तस्येक्षणेन य आह्लादः तेन विक्लवा विवशास्ते सर्वेऽवनौ दण्डवत्पतिताः सन्तः शनैरुत्थाय तुष्टुवुः ।। २६-३० ।। वीरराघवव्याख्या उपस्थितिमेवाह । वावित्यादिना । तावत् “भीषास्माद्वातः पवते एतस्य वाक्षरस्य प्रशासने गार्गि ! द्यावापृथिन्यौ विवृते तिष्ठतः एतस्य वाक्षरस्य प्रशासने गार्गि ! प्राच्यो नद्यः स्वदन्ते” इत्यादिश्रुत्युक्तरीत्या सर्वस्य प्रशासितुः परमात्मनः शासनानुवर्त्तिनामात्मनां तदनन्यशरणत्वं वदन्तः स्तुवन्ति । वाय्विति । वायुश्चाम्बरं चाग्निश्चापश्च क्षितिश्च तास्तथा त्रिलोकाः लोकत्रयान्तर्गता ब्रह्मादयश्चतुर्मुखप्रभृतयो ये च ते सर्वे वयमुद्विजन्तः बिभ्यतः सन्तो यस्मै परमपुरुषाय बलिं तच्छासनानुरूप- माराधनं वहामः प्रापयामः कुर्मः असौ प्रसिद्धोऽन्तको मृत्युरपि यस्माद्विभेति तस्मात्परमपुरुषादन्यः कः अरणं शरणं रक्षको - स्माकम् ।। २१ । ४ अथ शरण्यत्वौपयिकगुणपूर्णत्वात्तस्यैव शरण्यत्वं तदितरस्याशरण्यत्वं च वदन्तः शरणं ययुः । अवि- स्मितमिति । अविस्मितं स्वमहिम्नः स्वाभाविकत्वाद्विस्मयरहितं परिपूर्णकाममवाप्तसमस्त कामम् । लभ्यते । इति लाभः स्वाभा- विकेनैव लाभेन स्वानुभवानन्देन उपलक्षितं समं रागादिरहितं प्रशान्तमूर्मिषट्करहितं एते हि शरण्यत्वोपयुक्ता गुणाः एतेन समस्त सोपाधिकमहिनोऽपरिपूर्णसमस्तकामस्योपाधिकानन्दयुक्तस्य रागद्वेषादिप्राकृतगुणयुक्तस्योर्मिषट्कपीडितस्य शरणागत- तुल्यत्वेनाशरण्यत्वं सूचितम् । नहि शृंखलितस्तादृशमन्यं शरणं व्रजति । एवमीश्वरं शरण्यं त्वां विना परमन्यं क्षुद्रं देवं यो बालिशोऽज्ञः सन्नुपसर्पत्यनुवर्त्तते सः श्वलाङ्गुलेन प्लवमानस्य शुनः पुच्छेन साधनेन सिन्धुं तितीर्षुरिव नेष्टं प्राप्नोति प्रत्युत विहृतो भवति इत्यर्थ: ।। २२ ।। * यथा मनुचतुर्मुखादयः शरण्यमापद्भयः त्रातारं भक्तवत्सलं भगवन्तमाश्रित्यैवापदोऽ- त्यवर्त्तन्त तथा वयमपि तमेवापन्निवृत्तये शरणं व्रजाम इत्याहु: । यस्येति द्वाभ्याम् । यस्य महामत्स्यस्योरुशृङ्ग महाशृङ्गे जगतीं पृथ्वीमेव स्वां नावमाबध्य बद्ध्वा मनुः सत्यत्रताख्यो दुर्गं सङ्कटं ततार, अष्टमस्कन्धेऽयमितिहासः स्फुटीभविष्यति, स एव वारि- चरो मत्स्य मूर्त्तिर्भगवानाश्रितान् शरणं गतानस्मान् दुरन्तादपारात्त्वाष्ट्रस्य वृत्रस्य भयान्नूनं त्राता रक्षिता भविष्यति अतस्तमेव शरणं व्रजाम इति भावः ॥ २३ ॥ तथा पुरा जगदादौ स्वयम्भूर्ब्रह्मापि संयमाम्भसि प्रलयसंबन्धिनि जले कथम्भूते उदीर्ण: प्रचण्डो यो वातः पवनस्तेन ये ऊर्मयस्तरङ्गास्तेषां खैः ध्वनिभिः कराले भयङ्करे संयमाम्भस्यरविन्दान्नाभिकमलात् पतितः पतितप्रायः एकः असहायो येन भगवता साधनभूतेन तस्माद्भयात्ततार स एव नोऽस्माकं पारः पारयतीति पार: पाल- कोऽस्तु ।। २४ ।। * किञ्च । वयं भगवता सृष्टाः पालिताश्च स इदानीमप्यस्मान्नोपेक्षिष्यत्यतस्तमेव शरणं व्रजाम इत्याहुः । य एक इति त्रिभिः । एकोऽद्वितीयः स्वसमाभ्याधिककारणान्तरानपेक्षो निजमायया आत्मीयसङ्कल्परूपज्ञानेन यः परमपुरुषो नोऽस्मान् ससर्ज येन भगवताऽनुगृहीताः सन्तो वयं विश्वं व्यष्टिवर्गं सृजामः यच्छब्दानां तमेवेति तृतीयेनान्वयः । 1 -* स्कं. ६ अ. ९ श्लो. २१-३०] अनेकव्याख्यासमलङ्कृतम् २९५ यस्य च पुरः हृदयकुहरे समीहतः अन्तरात्मतया नियमयतः लिङ्गं दिव्यावग्रहं न पश्यामः । तत्र हेतुः । पृथगीशमानिनः यतः पृथगीश्वरा इत्यभिमानिनो वयम् ॥ २५ ॥ * * यश्च सपत्नैः शत्रुभिः भृशं नितरामभ्यर्धमानान् पीडितान्नोऽस्मान पाति अरक्षत् । कथम्भूतः । नित्य एव सदा अस्मानात्मसात्कृत्वा स्वकीयत्वेन मन्यमानोऽस्मद्रक्षणाय युगे युगे प्रतियुगं स्वमायया स्वकीयसङ्कल्परूपज्ञानेनैव न तु कर्मणेति भावः । तनुभिरुपेन्द्र परशुराम मत्स्यकूर्मवराहराम कृष्णादि तनुभिर्देवादिषु कृतावतारः धृतावतारः सन् ।। २६ ।। * तमेव भक्तवत्सलमात्मनामस्माकं दैवतं प्रधानं पुरुषं कारणावस्थचिदचि- च्छरीरकमन्यं चिदचिद्विलक्षणं परमुत्कृष्टमत एव शरण्यं शरणमर्हतीति शरण्यः तं सर्वे वयं देवाः शरणं व्रजाम रक्षकत्वेनाध्य- वस्यामः । एतावदेवास्मत्कृत्यमिति भावः । तत्र शरण्यकृत्यं प्रकाशयन्तः शरणागत्यङ्गमात्मनां महाविश्वासं दर्शयन्ति । स्वाना- मिति । स्वीयत्वेन परिगृहीतानां नोऽस्माकं शं सुखं शत्रुनिरसनद्वारकं नूनं धास्यति स तु महात्मा कृतस्वभक्तरक्षादीक्षः । एवं रक्षिष्यतीति विश्वासः प्रपत्त्यङ्गभूतो दर्शितः । स नोऽस्तु पार इत्यनेन गोष्तृत्ववरणम् । आत्मदैवतं प्रधानं पुरुषं विश्वं शरणं व्रजामेत्यनेन चिदचिच्छरीरकत्वकथनाच्छरीरस्य शरीरिशेषित्वैकस्वरूपत्वादात्मनः परमात्मैकशेषत्वानुसन्धानरूपात्मनिक्षेपः । न पश्यामः लिङ्गं सपत्नैर्भृशमर्द्यमानानित्यनेन च ज्ञानशक्तिबलाद्यभावरूपमात्मनां कार्पण्यमपि प्रदर्शितम् । तं विनोपसर्प- त्यपरं हि बालिश इत्यनेनोपायान्तरनिष्ठत्वादिरूपप्रातिकूल्यवर्जनं प्रदर्शितम् । कृत्स्नचिदचिच्छरीरकत्वकथनेनैव " चराचराणि भूतानि सर्वाणि भगवद्वपुरतस्तदानुकूल्यं मे” इत्युक्तरीत्या भगवच्छरीरभूत सर्वभूतानुकूल्यमप्यात्मनां प्रदर्शितम् । न च सर्वभूता- नुकूल्यस्याभिप्रेतत्वे शत्रुनिरसनप्रार्थनानुपपत्तिः, अस्याः प्रपत्तेर्मोक्षार्थत्वाभावात् । तस्या एव हि सर्वभूतानुकूल्यरूपमङ्गमपेक्षितं अस्यास्तु शत्रुनिरसनार्थत्वात्तद्वयतिरिक्तभूतानुकूल्य सङ्कल्पमात्रमेवापेक्षितमित्युत्पश्यन्तु विचक्षणाः ।। २७ ।। * * एवं सुरैः प्रपद्यमानो भगवानाविरभूदित्याह मुनिः । इतीति । हे महाराज ! इतीत्थं सुराणां देवानामुपतिष्ठतां प्रपदनपूर्वकं स्तुवतां सतां शङ्खचक्रगदाधरो भगवान् प्रतीच्यां प्रत्यगात्मसम्बधिन्यां दिशि हृदये “हृदि ह्ययमात्मा प्रतिष्ठितः” इति श्रुतेः प्रथमं हृद्याविरभूत्ततः पुरत आविरभूदित्यर्थः । यद्वा । प्रतीच्यां पश्चिमायां दिशि इत्यर्थः । देवानां पृष्ठत इति यावत् ।। २८ ।। * * तमाविर्भूतं भगवन्तं विशिनष्टि द्वाभ्याम् । श्रीवत्सकौस्तुभौ विना आत्मना सह तुल्यैः श्रीवत्सकौस्तुभमात्ररहितैरित्यर्थः । तयोः प्रधानपुरुषतत्त्वाभिमानित्वाज्जीवेनाधार्यत्वादिति भावः । षोडशभिः सुनन्दादिभिः पर्युपासितम् । यद्वा । भगवानाविरभूच्छङ्क- चक्रगदाधरः तमाविर्भूतं प्रतीच्यां दिशि पृष्ठतः श्रीवत्सकौस्तुभमात्ररहितैरात्मतुल्यैः षोडशभिः पर्युपासितमित्यन्वयः । उन्निद्रे विकसिते शरदम्बुरुहे इवेक्षणे नेत्रे यस्य ॥ २६ ॥ तं दृष्ट्वा ईक्षणेन यः आह्लादस्तेन विक्लवाः ईषत्परवशाः सर्वे देवाः भूमौ दण्डवत्पतिताः प्रणेमुः । हे राजन् ! शनैरुत्थाय तुष्टुवुः ॥ ३० ॥ ድ विजयध्वजतीर्थकृता पदरत्नावली । वाय्वाद्यभिमानिनो ब्रह्मादयो ये त्रिलोकाः ते वयं यस्मै बलि हराम त्रिलोकी बहिष्ठं लक्ष्मीतत्त्वं तदनियतं स्वतन्त्र- मस्तीति शङ्कामाभूदित्याह । अन्तक इति । असावन्तकः मूलप्रकृतिर्दुर्गादिनामभिर्भिन्ना यस्मान्महान्तकाद्धरेर्बिभेति भीतेव तद्वशे वर्तते यतस्ततः स हरिर्नः अस्माकमरणं शरणमस्त्वित्यन्वयः । ननु ब्रह्मादयो वयं यस्मै बलिं हराम यस्माच असावन्त - aisi faadaaeमात्परमेश्वरादरणं क्षेमो भवत्विति प्रतीतार्थः कस्मादपतप्यत इति चेन्न । " कालोऽन्तकः प्रधानं च मृत्युरव्यक्तमित्यपि । उच्यते प्रकृतिः सूक्ष्मा श्रीभूदुर्गेति नामभिः । सैव ब्रह्मादिभयदा विष्णोस्तु वशवर्तिनी । अभयापि बिभेतीव तद्वशत्वादुदीर्यते ।” इति स्मृतिविरोधात् वायुश्च अम्बरं च अभिश्च आपश्च क्षितिश्चेति वाय्वम्बराग्न्यपूक्षितयः ॥ २१ ॥ एवं स्थिते शिवाद्यन्यतमस्य शरणमिच्छन् बालिश इत्याह अविस्मितमिति । यो ब्रह्माद्युपात्तपूजस्तं स्वेनैव लाभेन स्वरूपानन्दानुभवेनैव परिपूर्णकाममत एवाविस्मितं कुतूहलबुद्धिरहितं सममेकप्रकारं प्रशान्तं समुद्रवत् स्तिमितं विना योऽपरं रुद्राद्यन्यतममुपसर्पति श्वलाङ्गलेन तरीस्थानेन सिन्धुं समुद्रमतितितर्ति पारमतिक्रामति तदुचितमित्याह । हीति । बालिशो हि यस्मात्तस्मादुचितमित्यर्थः ॥ २२ ॥ * * ननु यस्य कस्यचिद्धरिशरणमुपगतस्यापदर्णव- सन्तरणं दृष्टपूर्व चेत्तमन्तरेणान्यं शरणं गच्छन् बालिशत्वेन वलाङ्गलेनापारमकूपारं तितीर्षतीति परिहास्यः स्यात् तदेव कथमिति तत्राह । यस्येति । मनुर्यस्य हरेरुरुणि शृङ्गे जगतीं महीमयीं स्वनावं स्वस्य मनोरथेन क्लृप्तां तरीं यथा यथावद्दढ- माबध्य दुर्गमन्योपायेन तर्तुमशक्यं प्रलयार्णवलक्षणं क्लेशं ततार नूनमिदानीमपि स वारिचरो मत्स्यावतारो हरिरेवाश्रितान्नि- त्यसेवारता नो दुरन्तात्त्वाष्ट्रभयात्त्रातास्त्वित्यन्वयः । यथा ततार तथा तरणायाश्रितानिति वा ॥ २३ ॥ इतोऽपि श्रीहरिप्रसादाहते एतद्भयतरणं दुःसाधनमिति भावेन स्तुवन्तीत्याह - पुरेति । पुरादिसृष्टौ संयमाम्भसि प्रलयोदके स्थितादर- विन्दात्प्रकृत्यात्मनः पद्मात्पतितः स्वयम्भूर्भयं ततार स हरिर्नस्त्वाष्ट्रभयार्णवस्य पारः पारप्रदर्शकोऽस्त्वित्यन्वयः । तत्रत्यो वायुरपि प्रकृत्यात्मा अन्यथा नेदृशं बलमन्यस्य स्यादित्यतस्तल्लयजलं विशिनष्टि - उदीर्णेति । उदीर्णेन वातेन प्रकृत्यात्मना २९६ । श्रीमद्भागवतम् he । ।। ।" । [ स्कं. ६ अ. ९ श्लो. २१-३० वायुनोन्नमितानामूर्मीणां रवैः कराले भयङ्करे पद्मादीनां प्रकृत्यात्मत्वं कस्माद्विशिष्योच्यत इति शङ्का माभूत् यत्र वायुदपद्मादि- रूपेण प्रकृतिः स्थिता । “एकस्तत्र बिभेद्ब्रह्मा विचार्य भयमत्यगात् । अन्तर्गतो हरिस्तस्य ध्यातो भयमपानुददत्” इत्युक्तेः ॥ भयनिमित्तमाह एक इति । एकाकित्वात् द्वितीयव तुनोऽनुत्पन्नत्वात् “सोऽविभेत्स द्वितीयमैच्छत्” इति श्रुतेः । ननु किमर्थं ब्रह्मणा भयमदर्शीत्यत उक्तमपीति स्वसृज्यजनानां भयादिस्वभावसम्भावनार्थम् । “जनिष्यतां जनानां तु स्वभावानां प्रसिद्धये” इत्युक्तेः । अपि सम्भावन इति च सम्भावनामन्तरेण स्वाभाविक किं न स्यादित्यस्यापीदमुत्तरमपीति अज्ञानाद्धि भयमुत्पद्यते ब्रह्मणस्तु तन्नास्ति “ज्ञानादिगुणपूर्णस्य ब्रह्मणोऽपि” इत्युक्तः । तहिं कियन्तं कालमनुवर्तत इत्यस्यापीदमुत्तरं पूर्णज्ञानस्य चिर- कालीनं भयादिकं गर्हितं “क्षणार्धगाः भयादिका भवन्तीव कथं तस्मिन् स्थिरालयाः” इत्युक्तः । स्वसृज्यजन भयस्वभाव- प्रदर्शनमन्तरेणान्यत्कि प्रयोजनमित्यस्यापीदमेवोत्तरमपीति । भयप्रदर्शनेन भगवत्प्रीतिलक्षणमन्यदपि विद्यत इत्यर्थः । “भगवत्प्रीतये नित्यं ब्रह्मणो ये भयादयः । न वृथा तस्य भावः स्यात्कश्चित्तेऽपि क्षणार्धगा तस्य भावः स्यात्कश्चित्तेऽपि क्षणार्धगाः” इत्युक्तेः । भयादिकमपि किमेकवारं बहुवारमुतेत्यस्यापीदमुत्तरं नैकवारं किन्तु बहुवारमस्तीत्यर्थः । “अज्ञानं तु चतुर्वारं द्विवारं भयमेव च । शोकोऽपि तावन्नान्यत्र कदाचिद्ब्रह्मणो भवेत्” इत्युक्तः । इदमपि हरिप्रीतिजनकत्वेनोन्नतिकारणम् । तत्रापि भगवत्प्रीत्या “उन्नत्त्यैवास्य तद्भवेत्” इत्युक्तेः ॥ २४ ॥ किश्चास्माकं स्रष्टृत्वेन सम्बन्धत्वादपि निजस्वरूपं न बुद्धयामहे किन्तु लक्षणमेव पश्यामः अतो वयं तमेव शरणं याम इत्याहुः । य एक इति । एकः केवल: ईशः ऐश्वर्यादिगुणपूर्णः यो निजमायया स्वाधीनया प्रकृत्या नः ससर्ज येन वयं प्रेरिताः विश्वमनुसृजाम यस्य पुरोऽग्रतः स्थिताः समेताः सङ्गता अपि वयं लिङ्ग लक्षणमेव पश्याम:, न तु स्वरूपं तत् स्रष्टृत्वेन तदनुगृहीत कर्तृत्वेन वा चिन्त्यवैभवमेव लक्षणं बुद्धयामहे न सच्चिदानन्दादिस्वरूपम् । अदर्शने कारणमाह । पृथगिति । पृथक् पृथगीशाभिमानित्वात् । अयं च कादाचित्क एव न तु सनातनः । तदुक्तम् " कदाचि- दभिमानस्तु देवानामपि सन्निव प्रायः । कालेषु नास्त्येव तारतम्येन सोऽपि तु इति । अनेन पृथगित्यनेनाभिमानस्य तारतम्यं ध्वनयति । हे ईश ! अभिमानिनो वयं पृथकतारतम्योपेता इति वार्थः सम्पद्यते ॥ २५ ॥ * * करचरणादिदेहवत्त्वेऽपि देवदत्तवदनित्यदेहो नास्ति अतः स्वाभिमतसिद्धये संप्रार्थनीय इति भावेनाहुः । यो न इति । तनुभिर्देवर्ण्यादिषु कृतावतारोऽपि नित्य एव निर्विकार एव न तु योनिकृतदुःखादिमान न केवलमनुयुगं रक्षति हरिः किं तु अन्यदापीत्यर्थे चशब्दः । २६ ।। यत्तच्छब्देरेवोक्तावशिष्टगुणैर्विशिष्य तं शरणं प्रार्थयन्ते । तमेवेति । अन्ययोगव्यच्छेदार्थ एवशब्दः । देवा इत्यनेन देवानां शरणं हरिरेव नान्य इत्येवशब्दार्थो विवृतः । वयमित्यनेन हरेः स्वेषां च मिथो भेदाभिमानं ध्वनयति । न केवलमिष्टदेवतात्वेन शरणं यामः अपि तु सर्वोत्तमत्वादिगुणविशिष्टत्वाच्चेति भावेनाह । पर प्रधानमिति । प्रकृतिः किं नेत्याह । पुरुषमिति । तर्हि जीवः किं नेत्याह । विश्वमिति । न प्रपञ्च इत्याह । आद्यमिति । प्रपञ्चस्यादिभूतम् " वासुदेवो वा इदमग्र आसीत्” इति श्रुतेः नृशंसः स्वभावश्चेत्कथमयमिष्टः स्यादत्राहुः । शरण्यमिति । शरणप्राप्यत्वान्नृशंसो न भवतीत्यर्थः । नास्मिन्नस्मासु विप्रतिपत्ति- रित्याह । सर्व इति । शरणं प्राप्तावपि उदासीनो न भवति किं तु वदान्यदभीष्टं ददातीत्याहुः । स्वानामिति ।। २७ ।। * * । स्तुतिफलमाह । इतीति ॥ २८ ॥ * प्रत्यक्षीभूतं तं भगवन्तं संदृश्य देवाः किं चक्रुरिति तत्राह । आत्मतुल्यैरिति । अनेन दर्शनावस्थायां किं गुणविशिष्ट इति शङ्कापर्यहारि आत्मतुल्यैः आत्मनो भूतैः अत एव आत्मतुल्यैः मूलभूतस्य हरेः सदृशैः सामर्थ्यादिगुणैरनूनैः षोडशभिर्वासुदेवादिदामोदरान्तैः पर्युपासितं तेषां मध्यस्थावृत्तिरूपेण स्थितं मूलरूपस्याप्राकृत- त्वात्प्रादुर्भावानां शुक्रशोणितसम्पर्केण जातत्वात्कथमन्योऽन्यतुल्यत्वमिति तत्राह । विनेति । श्रीवत्सकौस्तुभौ विना प्रकृति- पुरुषाभ्यां विना प्रकृतिपुरुषातीतत्वेन तदनिर्मितशरीरैरित्यर्थः । अनेन सप्तदशरूपाण्यपि गुणक्रियादिना विशेषरहितानीत्युक्तं भवति । श्रीवत्सकौस्तुभरहितैरात्मतुल्यैः षोडशभिः पार्षदमुख्यैरुपासितमित्यङ्गीकारस्तु “श्रीवत्सः प्रकृतिज्ञेया ब्रह्माख्यः कौस्तुभः पुमान् । तदतीतैः षोडशभिः स्वरूपैरप्युपास्यते” इतिप्रमाणविरोधादप्रामाणिकः । तेषां तद्वत्त्वादन्यलक्षणतुल्यं चात्रा- माणिकम् । अतः प्रकृतिपुरुषानधीनत्वेनान्योऽन्य तुल्यत्वं वासुदेवादीनामेव । तदुक्तम् “अपुं प्रकृत्यधीनत्वाद्वासुदेवादिका हरेः । तुल्याश्च केशवाद्याश्च न च भिन्नाः कथञ्चन ।” इति अनेन मूलरूपस्यावताराणां मिथो भेदराहित्यमुक्तमिति ज्ञातव्यम् । हरे: प्रकृतिपुरुषराहित्यं च न कादाचित्कं किं तु सनातनम् “श्रीवत्सकौस्तुभाभ्यां तु विना भावं प्रदर्शयेत् । पुंप्रकृत्यात्मकाभ्यां स धत्ते नित्यं जनार्दनः” इतिवाक्यात् । प्रकृतिपुरुषराहित्यं च तदतीतत्वं तदवशत्वं च । तदुक्तम् “यदस्याभ्यामतीतीत्वं यद्वशो नानयोर्हरिः” इति “श्रीवत्सकौस्तुभाभ्यां तु विनाभावः स एव च” इति इयं चोपासिका भक्तानुकम्पित्वेन हरेः परं क्रीडैव “आत्मैव सप्तदशधा स्वयं भूत्वा जनार्दनः । मध्यस्थावृत्तिरूपेण क्रीडते पुरुषोत्तमः” इत्युक्तेः “संवीतश्चतुरात्मभिः स्वसदृशैः श्री केशवाद्यैरतश्चक्राद्यैरितरैरधीश्वर मुखैर्व श्रादिभिस्तत्परम् । संसेव्यं स्वयम न्तराम्बुजमहापीठे विराजन् हरिर्भूत्यै श्रीपुरुषोत्तमो भवतु वः श्रीवल्लभः सन्ततम्” इति तन्त्रान्तरोक्तमन्त्रानुसंधेयम् ॥ २९ ॥ पूर्व हरेः प्रत्यक्षायाधुना स्वाभिप्रेतार्थ-
- सिद्धयर्थं स्तुतिरिति विशेषः ।। ३० ।। । । स्कं. ६ अ. ९ श्लो. २१-३०] अनेकव्याख्या समलङ्कृतम् जीवगोस्वामिकृतः क्रमसन्दर्भ : २९७ अविस्मितं ततोऽन्यस्यापूर्वस्य वस्तुनोऽसद्भावाद्विस्मयरहितं अतः स्वेनैव स्वीयेनैव कर्मभूतस्य क्रियाभूतेन लाभेन परिपूर्ण- कामं नान्यस्येत्यर्थः । अतः सर्वत्र समम् । अतः प्रशान्तं चित्तदोषरहितम् । तथोक्तम् " रजस्तमः प्रकृतयः समशीला भजन्ति वै” इत्यादि, अत उक्तं श्रीसत्यत्रतेन “न यत्प्रसादायुतभागलेशमन्ये न देवा गुरवो जनाः स्वयम् । कन्तु समेताः प्रभवन्ति पुंसस्त- मीश्वरं वै शरणं प्रपद्ये ।” श्रीमहाभारते च - “यस्तु विष्णुं परित्यज्य मोहादन्यमुपासते । स हेमराशिमुत्सृज्य पांशुराशि जिघृक्षति |” इति तदिदं भक्तिसन्दर्भे विशेषेण विवृतमस्ति ।। २२-२८ ।। आत्मेति युग्मकम् । ईक्षणाह्लादेति । वस्तुस्वाभाव्यात् स्वाभीष्टसिद्धिनिश्चयाच्च ॥ २६-३१ ॥ से ܀ 8 विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी । : अस्माद्वृत्रजनिताद्भयात् परमेश्वरं विना न कोऽपि रक्षितु प्रभविष्यतीति मत्वा तमेव शरणमाश्रयन्ते । वाविति । वाय्वाद्युपलक्षितानि त्रयोविंशतितत्त्वानि तथा वाय्वादिभिः निर्मितास्त्रिलोकास्तथा तेषामधिपतयो ब्रह्मादयस्तथा ततोऽर्वाचीना वयं च ये सर्वे यस्मान्मृत्योरुद्विजन्तो भीताः । असावन्तको मृत्युरपि यस्माद्विभेति ततस्तस्मात् अरणं शरणं रक्षणमस्तु ॥ २१ ॥ तदन्यस्तु सुधिया नैवाश्रयणीय इत्याहुः । अविस्मितमिति तं विना अपरं देवतान्तरं कर्मयोगं ज्ञानयोगमपरयोगं वा शरणार्थ बालिशो महामूर्ख एवोपसर्पति, न तु विज्ञः । यथा शुनः शः। बधा शुनः पुच्छेन सिन्धुमतितत्तु मिच्छति स श्वा एव सिन्धुं ततु न शक्नोति किमुत तत्पुच्छग्राहिणं स श्वा एव दृष्ट्वा प्रथमं समुद्रमध्ये क्षिपति निमज्जतीति भावः । भगवदाश्रयी तु संसारसिन्धुं यत्तरति तत् किमपि नाद्भुतमित्याह । अविस्मितमिति । न विद्यते विस्मितं किमप्यद्भुतं यत्र तं विना दुर्लब यस्यापि संसारसिन्धोस्तारेण अन्यत्रातिविस्मयोऽपि तत्र न कोऽपि विस्मयः । सद्य एव तस्य गोष्पदीकरणसामर्थ्यादिति भावः । स्वेनैव स्वस्वरूपेणैव यो लाभः सौन्दर्यादिमाधुर्य सप्तकस्य प्राप्तिस्तेन समं सह परिपूर्णाः कामाः स्वीयाह्लादिनीशक्तिदत्ताभोगा यस्य तम् । प्रशान्तमनुप्र सेवा- पराधे जातेऽपि भक्तवात्सल्यत्वात् क्षन्तारम् ॥ २२ ॥ वयन्त्वतिनिकृष्टाः सकामा अध्यस्मिन्महाभय एव शरणं यान्तोऽपि तेन रक्षणीया एव यथापूर्वम् इत्याहुः । यस्येति द्वाभ्याम् । यस्य मत्स्यरूपस्य जगतीं पृथ्वीं यथा ततारेति वयमपि । । तथा तरेमेति भावः । वारिचरोऽपि वारिण्येव चरन्नपि तत्रैव स्थित्वा जगतीस्थानस्मानीश्वरत्वाद्रक्षतु ।। २३ ।। । संयमाम्भसि प्रलयजले अरविन्दात् नाभिकमलात् पतितः पतितप्रायः येन हेतुना सः ॥ २४ ॥ वर्त्तमानोऽप्यस्माकं बहिर्मुखेन्द्रियाणामदृश्योऽपि कृपयैव दृश्यो भूत्वा रक्षत्वित्याहुः । य इति त्रिभिः । समीहमानस्य रामकृष्णादिरूपेण लीलां कुर्वतोऽपि तस्य लिङ्गं न पश्यामः । तत्र हेतुः । पृथगिति ।। २५ ।। उपेन्द्र परशुरामादिस्वरूपैः स्वस्य मायया कृपया चिच्छक्त्या वा नोऽस्मानात्मसात्कृत्य पातीत्यत एव साम्प्रतं स्वरक्षणार्थं निवे- दनेऽपि न सङ्कुचाम इति भावः । तमेवेति । विश्वं मायाशक्त्या विश्वरूपम् । स्वरूपशक्त्या अन्यं विश्वस्माद्भिन्नम् ।। २६–२७ ।। प्रतीच्यां दिशि पश्चिमसमुद्रकूले देशान्तरस्योत्तमस्य दैत्याक्रान्तत्वात् तत्र देवैः स्थातुमशक्यत्वात् । तत्रैव विवक्ते उपविश्य- स्तुतत्वात् ।। २८ । * श्रीवत्सकौस्तुभौ विना चतुर्भुजत्वादिस्वचिह्नवत्त्वादात्मतुल्यैः सुनन्दादिभिः परित उपासितम् ।। २९-३० ॥ शुकदेवकृतः सिद्धांत प्रदीपः
स खलु सर्वत्र च पुरोऽस्माकमत्र एव
- तनुभिः यस्मै अन्तकाय वाय्वाद्युपलक्षितानि लोककारणानि तत्त्वानि त्रिलोकाः ब्रह्मादयो लोकनाथाः ये वयं तत्प्रजाभूताः उद्विजन्तः सन्तो बलिं हराम : असावन्तकः कालोऽपि यस्माद्विभेति ततो हेतोः सः नोऽस्माकमरणं शरणमस्तु भवत्वित्य- न्वयः ॥ २१ ॥ 8 अथ भगवतोऽविस्मितत्वपूर्ण कामत्वादिगुणान दर्शयन्तस्तदितरं जनं निन्दन्ति । अविस्मितमिति । उपसर्पति शरणं गच्छति यः स बालिशोऽज्ञः भवार्णवात्तरणोपायं न जानातीत्यर्थः । यथा श्वलाङ्गलेन यः सिन्धुमतितितर्ति तर्तुमिच्छति स बालिशो भवति तद्वत् ।। २२ ।। * * तस्य स्वभक्तरक्षकत्वं सुप्रसिद्धं सः अस्माकमप्यापद्धयस्तारकोऽस्त्वि- त्याहुः । यस्येति द्वाभ्याम् । यस्योरुशृङ्गे महच्छृङ्गे मनुः खनावे जगतीं यथावद्बध्वा दुर्ग सङ्कटं ततार स एव वारिचरो मत्स्य- मूर्ति: त्वाष्ट्रभयात् वृत्रभयात् नूनं निश्चितं त्राता रक्षिष्यति ।। २३ ।। * * पुरा लोकरचनातः प्राकू उदीर्णवातेन ये ऊर्मयस्तरङ्गास्तेषां रखैः कराले संयमाम्भसि प्रलयजले एक एव स्वयम्भूः अरविन्दात्पतितः पतितप्रायः येन भगवता यस्माद्भयो- ३८ २९८ श्रीमद्भागवतम् [ स्कं. ६ अ. ९ श्लो. २१-३० सतार सनोऽस्माकं पारस्त्वाष्ट्रभयात्तारकोऽस्तु ॥ २४ ॥ * * येन वयं सृष्टा यश्च अस्मान्नानावतारैः पाति स एवास्मान् सुखयिष्यतीत्याहुः । य इति त्रिभिः । निजमायया निजवयुनेन य एक ईशः सर्वेश्वरः नोऽस्मान् ससर्ज येन नियुक्ताः यस्य पुनः पूर्वमेव समीहतः विश्व सृजतोऽपि तत्सृष्टमेव विश्वम् अनु पश्चात्सृजाम: यस्य लिङ्गं भगवतैव वयं सृष्टाः तेनैव सृष्टं तन्नियुक्ताः किञ्चित्करवामेति तद्गुणज्ञापकम् चिह्नमपि न पश्यामः एवम्भूता अज्ञा वयमित्यर्थः । अत एवाज्ञानेन वयं पृथगीशमानिनः ॥ २५ ॥ * यो नोऽस्मान् देवादिषु वामनजामदग्न्यमत्स्यदाशरथ्यादितनुभिः कृतावतारः सन् स्वमायया स्वकृपया आत्मसात्कृत्वा पाति च ।। २६ ।। * प्रधानं प्रकृत्याख्यशक्तिरूपं पुरुषं जीवात्मकांशरूपं विश्वं तदुभयात्मकप्रपञ्चरूपं शक्तितद्वतोः अंशांशिनोश्च स्वाभाविकभेदाभेदसम्बन्धात् “उभयव्यपदेशात्त्वहिकुण्डलवत्” इति पारमर्ष - सूत्रात् । ननु तर्हि सर्वे दोषा: ब्रह्मणि प्रसज्येरन्नत्राहुः । अन्यमिति सर्वदोषास्पृष्टस्वरूपम् । प्रकृतिपुरुषतदुभयात्मकजगद्विलक्षण- स्वरूपमित्यर्थः । यतः परं पूर्ण शरण्यं शरणागतहितकरं शरणं व्रजामः रक्षितारं जानीम इत्यर्थः । स एव नः शं सुखं धास्यति त्वाष्ट्रभयनिराकरणेनेति शेषः ॥ २७ ॥ * प्रतीच्यां दिशि तथा सुखं भजनार्थमाश्रितायां पश्चिमायामुपतिष्ठतां स्तुव- तामाविरभूत् ॥ २८ ॥ * आत्मतुल्यैः सारूप्यं प्राप्तैः पार्षदैः पर्युपासितं दृष्ट्वा अवनौ दण्डवत्पतिताः पुनः शनैरुत्थाय तुष्टुवुः स्तुतवन्त इति द्वयोरन्वयः ।। २९-३० ॥
गोस्वामिगिरिधरलालविहिता बालप्रबोधिनी स्तुतिमेव दर्शयति सप्तभिः, तत्र प्रथमं रक्षां प्रार्थयन्ते-वाय्विति । वाय्वाद्युपलक्षितानि त्रयोविंशतिस्तत्त्वानि तैर्निर्मि- तास्त्रयो लोकास्तत्रत्याः प्राणिनस्तेषामधिपतयो ब्रह्मादयश्च ततोऽर्वाचीना ये वयं ते सर्वे उद्विजन्तो भीताः सन्तो यस्मै अन्तकाय कालाय बलिं वहाम, तत्तत्कालविहितं कर्म नियमेन कुर्मः । असावपि कालो यस्माद्विभेति ततः परमेश्वरादेव नोऽस्माकमरणं शरणं रक्षणमस्त्वित्यन्वयः ।। २१ ॥ * * ततोऽन्येऽपि बहवो ब्रह्मादयो महान्तः सन्तीति तान् विहाय तत एव रक्षा- स्त्वित्यत्र को हेतुरित्यपेक्षायामाद्दुः अविस्मितमिति । तं विना विहाय योऽपरं शरणार्थमुपसर्पति गच्छति स बालिशः महामूर्ख एव न तु विज्ञः । हि यस्मात् स श्वलाङ्गलेन सिन्धुमतितिवर्ति अतितत्तुमिच्छति । समुद्र पतितस्य शुन एव तत्र मज्जनस्या - बश्यकत्वात् यथा शुनः पुच्छप्राहिणो न समुद्रतरणं भवति किन्तु तत्र मज्जनमेव तथा भगवद्वयतिरिक्ताश्रितानामपि न व्यसनार्ण- वतरणं भवति, किन्तु तत्र निमज्जनमेवेत्यर्थः । ननु कथं तस्य सर्वतो रक्षकत्वं सम्भवतीत्याशङ्कयाहुः अविस्मितमिति । न विद्यते विस्मितमाश्चर्यं यत्र तम् । अन्यत्राशक्यकारण आश्चर्ये सत्यपि सर्वाश्वर्यविश्वनिर्माणकर्त्तरि तत्र किमपि करणे नाश्चर्यमिति भावः । नतु तर्ह्येवम्भूतस्याराधनमपि धनाढ्यैरेव कत्तु शक्यम् न त्वकिञ्चनैस्तथाचान्यानामेव फलं स्यान्न अकिञ्चनानामित्या- शङ्कयाहुः –—–—सममिति, सर्वत्र समं पक्षपातरहितमित्यर्थः । तत्र हेतुमाहुः - प्रशान्तमिति, रागादिशून्यमित्यर्थः । तत्रापि हेतु- माहुः - स्वेनैवेति, स्वस्वरूपभूतपरमानन्दलाभेनैव परिपूर्णाः कामा मनोरथा यस्य तमित्यर्थः ॥ २२ ॥ * * नन्वेवं कथं निश्चीयते महाभये भगवानेव रक्षको नान्य इत्याशङ्कय तथा दृष्टत्वादिति दर्शयन्तो रक्षां प्रार्थयन्ते - यस्येति द्वाभ्याम् । यस्य मत्स्यमृर्तेरुरुशृङ्गे विस्तृतशृङ्गे जगतीं पृथ्वीरूपां स्वनावं बध्वा मनुः सत्यव्रतो नाम राजा यथा यथावदनायासेनैव दुर्गं प्रलय- कालीनं महाभयं ततार अतः स एव वारिचरः गृहीतमत्स्यमूर्तिर्नोऽस्मानपि आश्रितान् शरणागतान् दुरन्तान् त्वाष्ट्रभयान्नूनं त्राता रक्षिष्यतीत्यन्वयः ।। २३ ।। * * ब्रह्मणोऽपि भयनिवृत्तिस्तत एव जातान्यस्य तु सा ततो भवेदिति किमाश्चर्यमिति भावेनाहु: - पुरेति । सृष्टिप्रारम्भसमये उदीर्णैरुद्रतैर्य ऊर्मयस्तेषां रवैः शब्दैः कराले भयङ्करे संयमाम्भसि प्रलयोदकेऽरविन्दात् नाभिकमलात् स्वस्थानात् पतितः पतितप्रायः एकः असहायः स्वयम्भूः ब्रह्माऽपि तस्माद्भयात् येन सहायभूतेन ततार । स एव नोsस्माद्भयात्तारकोऽस्त्वित्यन्वयः ॥ २४ ॥ * * एवमन्योपकारं प्रदर्श्यदानीं स्वसृष्टानां बहुशः पालितानां शरणा- गतानां रक्षां करिष्यत्येवेत्याहु:-य एक इति त्रिभिः । य एकः असहाय एवं निजमायया स्वेच्छयैव नोऽस्मान् ससर्ज । कथमेवं स्रष्टुं शक्यते तत्राहु:– ईश इति, सर्वथा सर्व कत्तु समर्थ इत्यर्थः । ननु यूयमेव राष्ट्रत्वेन प्रसिद्धा युष्माकं तु स्रष्टा क एव स्यादित्याशङ्कयाहु: - येनानुगृहीताः सन्तो वयं विश्वं सृजाम यस्य च पुरः समीहतः अन्तर्यामितयाऽस्मदादिशरीराणि तत्तत्कार्येषु प्रेरयतोऽपि लिङ्गं चिह्नं वयं न पश्याम । तत्र हेतुमाहुः पृथगिति, ततः पृथगेवेशा वयमित्यभिमानवन्तः । न हि दैन्यं विनाऽ- भिमानेन भगवत्तत्त्वं ज्ञातुं शक्यमितिभावः । यच्छब्दानां तमेव शरणं व्रजामेति तृतीयेनान्वयः ॥ २५ ॥ यः स्व- मायया अचिन्त्यनिजशक्त्या नानातनुभिर्देवादिषु कृतावतारः सन् सपत्नैः शत्रुभिः सुरादिभिर्भृशमत्यन्तमर्द्यमानान् पीड्य - मानान्नोऽस्मान् आत्मसात्कृत्वा स्वकीयान् मत्वा युगेयुगे तत्तदवसरे पाति च तमेवेत्युत्तरेणान्वयः । तत्र देवेषु वामनः । ऋषिषु परशुरामः । तिर्यक्षु नृसिंहहयग्रीववाराहादिः । नृषु रामकृष्णादिः । तर्हि तत्तद्योनिसम्बन्धाद्विकारस्यादित्या- 9. iस्क. ६ अ. ९लो. २१-३० ] अनेकव्याख्या समलङ्कृतम् २९९ शङ्कयाहु: - नित्य एवेति, वस्तुतः सच्चिदानन्दरूप एवेत्यर्थः ॥ २६ ॥ * * एवं विशेषणवाचकानां यच्छन्दानामपेक्षितं विशेष्यवाचकं तच्छब्दं प्रयुञ्जानाः शरणं व्रजन्ति - तमिति । वयं सर्वे तमेव शरणं व्रजाम नोऽस्माकं शं सुखं स एव विधास्य- तीत्यन्वयः । सर्व इति सर्वेषामैकम त्यसूचनेन तत्र विप्रतिपत्त्यभावो ज्ञापितः । एवकारोऽन्यव्यावृत्त्यर्थः । तत्र हेतुमाहु:- शरण्यमिति, शरणार्हमित्यर्थः । तत्रापि हेतुमाहुः - आत्मदैवतमिति, आत्मनां जीवानामुपास्यमित्यर्थः । ननूपास्यत्वे फल- दातृत्वं हेतुस्तत्तस्य कथमित्यपेक्षायामाहुः - परमिति, कारणतया सर्वनियन्तृत्वेन सर्वोत्तममित्यर्थः । ननु कारणत्वं निमित्तत्वं चेत्तदोपादानसापेक्षतया सृष्टौ तस्य स्वातन्त्र्यं न स्यादित्याशङ्कयोपादनकारणतया विश्वरूपत्वमपि तस्यैवेत्यभिप्रेत्याहुः - विश्व - मिति । ननु विश्वोपादानत्वं तु प्रकृतेः प्रसिद्धं तत्कथं भगवतः स्यादित्याशङ्कय प्रकृतिरूपोऽपि स एवेत्याहुः – प्रधानमिति । नन्वेवं तस्योपादानतया विश्वरूपत्वे जडत्वेन विकारित्वं नियन्त्रधीनत्वं चैव स्यान्न स्वातन्त्र्यमित्याशङ्कय तन्नियन्तापि स एवे- त्याहुः – ततोऽन्यमिति । नन्वेवं नियन्ता तु पुरुषः प्रसिद्ध इत्याशङ्कय पुरुषरूपोऽपि स एवेत्याहु: - पुरुषमिति । ननु कथमेव- मनेकरूपो जात इत्यपेक्षायां क्रीडनस्वभावत्यादित्याशयेनाहुः – देवमिति । नन्वेवम्भूतोऽपि शं विधास्यत्येवेति कथं निश्चय इत्या- शङ्कथं कृपावशतयोदारचित्तत्वादित्याहु:- महात्मेति । ननु तस्यैवं योग्यत्वेऽपि युष्माकं कथमनुग्रहपात्रत्वमित्याशङ्कयाहु:- स्वानामिति, स्वभक्तनामित्यर्थः ।। २७ ।। भगवत्स्वरूपं सावधानतया श्रोतव्यमिति भावेन सम्बोधयति — हे महा- राजेति । स्पष्टमन्यत् ॥ २८ ॥ * श्रीवत्सकौस्तुभौ विनाऽन्यैश्चि हैरात्मतुल्यैः षोडशभिः पार्षदैः सुनन्दादिभिः । परितः सेवितं उन्निद्रशरदम्बुरुहवदीक्षणे यस्य तं दृष्वेत्युत्तरेणान्वयः ॥ २९ ॥ तं दृष्ट्वा सर्वेऽवनौ दण्डवत्पतिताः सन्तः
-
- शनैरुत्थाय तुष्टुवुरित्यन्वयः । दण्डवत्पतने शनैरुत्थाने च हेतुमाह - ईक्षणेति । तस्येक्षणेन य आह्लादः परमानन्दस्तेन विवाः विवशा इति । स्तुतिश्रवणे सावधानतार्थं सम्बोधयति हे राजन्निति ॥ २० ॥ भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी " वाय्वम्बरेति । वायुश्चाम्बरं चाभिश्चापश्च क्षितिश्च ताः, त्रिलोकाः लोकत्रयान्तर्गताः, ब्रह्मादयश्चतुर्मुखप्रभृतयः, ये च ते सर्वे, वयं यत इति शेषः । उद्विजन्तः बिभ्यतः सन्तः, यस्मै परमपुरुषाय, बलिं तच्छासनानुरूपमाराधनं, हरामः कुर्मः । असौ संप्रसिद्धः, अन्तको मृत्युरपि, यस्मात् बिभेति । ततस्तस्मात्परमपुरुषात, नोऽस्माकं, अरणं शरणं संरक्षणमित्यर्थः । अस्त्विति शेषः । अस्य लोकान्तर्गतत्वेऽक्षराधिक्यमार्षम् । अथ भगवत एव शरण्यत्वौपयिक- गुणपूर्णत्वात्तस्यैव शरण्यत्वं च वदन्तः शरणं ययुः । अविस्मितमिति । अविस्मितं स्वमहिम्नः स्वाभाविकत्वाद्विस्मयरहितं, परिपूर्णकामं समवाप्तसमस्त कामं, स्वेन स्वकीयेन स्वस्मिन् स्वाभाविकेनेति यावत् । लभ्यते इति लाभः तेन स्वानु- भवानन्देनेत्यर्थः । उपलक्षितं, समं रागादिरहितं, प्रशान्तमूर्मिषट्करहितं तं भवन्तं विना, त्वां परित्यज्येत्यर्थः । अपरमन्यं क्षुद्रमितरदेवमित्यर्थः । बालिशोऽज्ञः, यः सः उपसर्पति अनुवर्त्तते । स च श्वलाङ्गुलेन सवमानशुनः पुच्छेन साधनेन सिन्धुं समुद्रम् अतितितर्त्ति अतितत्तु मिच्छति हि । यथा श्वलाङ्गुलेन समुद्रतरणं न भवति, तथा श्रीहरीतरक्षुद्र- देवताश्रयणेन व्यसनार्णवतरणं न भवतीति भावः ।। २१ ।। यथा मनुचतुर्मुखादय आपद्भचस्त्रातारं भक्तवत्सलं भगवन्तमाश्रित्यैवापदोऽत्यवर्त्तन्त तथा वयमपि तमेवापन्निवृत्तये शरणं व्रजाम इत्याहुर्यस्येति द्वाभ्याम् । यस्येति । यस्य महामत्स्यस्य, उरुशृङ्गे उन्नते मूर्द्धजविषाणे, जगतीं पृथ्वीमेव, स्वनावं स्वकीयां नौकाम्, आबद्धय मनुः सत्यव्रताख्यः, यथा दुर्ग संकटं, ततार । अष्टमस्कन्धेऽयमितिहासः स्फुटीभविष्यति । वारिचरो मत्स्यमूर्त्तिः सः एव भगवान्, आश्रितान् शरणं astra अपि दुरन्तादपारात् त्वाष्ट्रभयात्त्वष्टुः पुत्रवृत्रासुरजाताद्भयात्, नूनं त्राता रक्षिता, भविष्यतीति शेषः । अतस्तमेव शरणं व्रजाम इति भावः ।। २२ ।। * * उदीर्णेति । तथा पुरा जगदादौ, स्वयंभूर्ब्रह्मा अपि, उदीर्णः प्रवृद्धि प्राप्तो यो बातः पवनस्तेन ये ऊर्मयो महातरङ्गास्तेषां रवा ध्वनयस्तैः, कराले भयंकरे, संयमाम्भसि प्रलयकालीनजले, एक: असहायः, अत एव अरविन्दाद्वैराजनाभिपद्मात् पतितः पतितप्रायो जातः । तु तस्मिन् समये त्वित्यर्थः । येन साधनभूतेन भगवता भयात्पतनभीतेः, ततार । स भगवान् एव, नोऽस्माकं पारः पालक:, अस्तु ॥ २३ ॥ * * किं च वयं भगवता ।। ।। सष्टाः, एतावत्कालपर्यन्तं पालिताश्च स इदानीमप्यस्मान्नोपेक्षिष्यत्यतस्तमेव शरणं व्रजाम इत्याहुः, य एक इत्यादित्रिभिः । य इति । एकोऽद्वितीयः स्वसमानाधिककारणान्तररहित इत्यर्थः । यः ईश ईश्वरः, निजमायया आत्मीयसंकल्पस्वरूपज्ञानेन, नोऽस्मान देवानित्यर्थः । ससर्ज सृष्टवान् । येनेश्वरेण, अन्वनुगृहीताः सन्तः, वयं, विश्वं सृजामः करवामः । यच्छन्दानां तमेवेति तृतीयेनान्वयः । ननु यूयमेव स्रष्टारो नान्यो युष्माकमनुग्राहकोऽस्ति तस्यादर्शनात्तत्राहुः । पुरोऽस्मत्तः पूर्वमेव, हृदयकुहरे इति गतान् , । श्रीमद्भागवतम् 8 य इति । ३०० [ स्कं ६ अ. ९ श्लो. २१-३० शेषः । समीहत:: अन्तर्यामितया समीहमानस्य, अन्तः स्थित्वाऽस्मान्नियमयत इत्यर्थः । अपि यस्य तव लिङ्गं दिव्यग्रहं न पश्यामः । तत्र हेतु:, यतः वयं पृथगीशमानिनः वयमीश्वरा इति पृथक्पृथगभिमानवन्तो भवामः ॥ २४ ॥ नित्यः निर्विकारः, यो भवान्, सपत्नः शत्रुभिः, भृशम् अर्द्यमानान्, नोऽस्मान् ज्ञात्वा स्वमायया स्वकीय संकल्परूपज्ञानेन, ● देवाश्च ऋषयश्च तिर्यञ्चश्च नरश्च तेषु, तनुभिः उपेन्द्रपरशुराममत्स्यकूर्म वराह रामकृष्णादिमूर्त्तिभिः कृतावतारः विधृतप्रादुर्भावः सन् एव, आत्मसात् कृत्वा, देवास्तु मदीया एवेति नो निजाभिमानवतः विधाय, युगे युगे च अनुयुगमपि, पाति रक्षणं करोति ।। २५ ।। *
-
- तमेवेति । दीव्यति जीवादिष्वन्तर्यामितया क्रीडतीति देवस्तम्, अत एव, आत्मदैवतमात्मना - मस्माकं देवतारूपं, प्रधानं पुरुषं, करणावस्थचिदचिच्छरीरकमित्यर्थः । विश्व कार्यावस्थचिदचिच्छरीरकम्, अन्यं चिदचितां कार्यकारणावस्थायामपि तद्विलक्षणं, अत एव परं सर्वोत्कृष्ट, तं भक्तवत्सलं भगवन्तं एव, शरण्यं शरणागतप्रतिपालकं, ज्ञात्वेति शेषः । सर्वे वयं देवाः, शरणं व्रजामः । एतावदेवास्मत्कृत्यमिति भावः । तत्र शरण्यकृत्यं प्रकाशयन्तः शरणागत्यङ्गभूतमात्मनां महाविश्वासं दर्शयन्ति । महात्मा महानुभावः, स भगवान्, स्वानां स्वीयत्वेन परिगृहीतानां, नोऽस्माकं शं सुखं, धास्यति करिष्यति ॥ २६ ॥ * * एवं सुरैः प्रापद्यमानो भगवानाविरभूदित्याह मुनिः । इतीति । हे महाराज, इतीत्थं उपतिष्ठतां प्रवदनपूर्वकं स्तुवतां तेषां सुराणां देवानां प्रतीच आत्मन इयं प्रतीची निवासस्थानभूता तस्यां दिशि, हृत्पद्म इत्यर्थः । शङ्खचक्रगदाधरः भगवान, आविरभूत् । प्रथमं हृत्पझे आविरभूत्ततरतेषां पुर आबिरभूदित्यर्थः ॥ २७ ॥ * * तमावि - र्भूतं भगवन्तं विशिनष्टि । आत्मतुल्यैरिति । श्रीवत्सकौस्तुभौ विना, आत्मतुल्यैः स्वतुल्यैः, षोडशभिः सुनन्दादिभिः पार्षदैः, पर्युपासितं परितः संसेवितं, उन्निद्रे विकसिते शरदम्बुरुहे शारदीयक्रमले इव ईक्षणे नेत्रे यस्य तम् ॥ २८ ॥ दृष्वेति । हे राजन, सर्वे देवाः, तमुक्तविधं भगवन्तं दृष्ट्वा, ईक्षणाह्रादेन भगवद्दर्शनानन्देन विल्वा विवशाः भूत्वा, अवनौ दण्डवत् पतिताः । ततः शनैः उत्थाय तुष्टुवुः इत्युभयोरेकसंबन्धः ।। २९ ।। तावत् सर्वस्रष्टारं आयुःप्रदं त्रातारं प्रणत- रक्षा विलम्बासहिष्णुं नामस्मरणमात्रतोऽपि निरस्तसमस्ताश्रितभयं स्वर्गापवर्गादिप्रदं वाङ्मनसापरिच्छेद्यस्वभावं नमस्कुर्वन्तः स्तुवन्ति द्वाभ्याम् । नमस्ते इति । यज्ञो वीर्यं सृष्टिहेतुभूत सामर्थ्यं यस्य तस्मै, ‘यज्ञाद्भवति पर्जन्य’ इत्युक्तप्रकारेण यज्ञमुखेन प्रजाः सृजते इत्यर्थः । ते तुभ्यं नमः । वयसे स्वाराधनभूतयज्ञाद्यनुष्ठानोपयुक्तायुःप्रदाय, ऊतये यज्ञादिफलदानेन अनिष्टनि- बारणेन च श्रितरक्षणाय, ‘ऊतिः स्त्री रक्षणे’ इति मेदिनी । ते नमः । आत्तचक्राय प्रणतरक्षणविलम्बा सहनेन सदा वृतसुद- शनाय, ते नमः । सुपुरुहूतये स्मरणमात्रनिरस्तमहाभयोदारनाग्ने ते नमः । नमः पदावृत्तिर्गुणभेदाभिप्राया ॥ ३० ॥ " भाषानुवादः देवताओंने भगवानसे प्रार्थना की- वायु, आकाश, अग्नि, जल और पृथ्वी-ये पाँचों भूत, इनसे बने हुए तीनों लोक, उनके अधिपति ब्रह्मादि तथा हम सब देवता जिस कालसे डरकर उसे पूजा सामग्रीकी भेंट दिया करते हैं, वही काल भगवान से भयभीत रहता है । इसलिये अब भगवान् ही हमारे रक्षक हैं ।। २१ ।। * * प्रभो ! आपके लिये कोई नयी बात न होनेके कारण कुछ भी देखकर आप विस्मित नहीं होते। आप अपने खरूपके साक्षात्कार से ही सर्वथा पूर्णकाम सम एवं शान्त हैं। जो आपको छोड़कर किसी दूसरेकी शरण लेता है, वह मूर्ख है । वह मानो कुत्तेकी पूँछ पकड़कर समुद्र पार करना चाहता है ॥ २२ ॥ वैवस्वत मनु पिछले कल्पके अन्तमें जिनके विशाल सींगमें पृथ्वीरूप नौकाको बाँधकर अनायास ही प्रलयकालीन सङ्कटसे बच गये, वे ही मत्स्य भगवान् हम शरणागतों को वृत्रासुरके द्वारा उपस्थित किये हुए दुस्तर भयसे अवश्य बचायेंगे ।। २३ ॥ * प्राचीन कालमें प्रचण्ड पवन के थपेड़ोंसे उठी हुई उत्ताल तरङ्गों की गर्जनाके कारण ब्रह्माजी भगवान् के नाभिकमलसे अत्यन्त भयानक प्रलयकालीन जलमें गिर पड़े थे । यद्यपि वे असहाय थे, तथापि जिनकी कृपासे वे उस विपत्तिसे बच सके, वे ही भगवान् हमें इस सङ्कटसे पार करें ।। २४ ।। * * उन्हीं प्रभुने अद्वितीय होनेपर भी अपनी माया में हमारी रचना की और उन्हींके अनुग्रहसे हमलोग सृष्टिकार्यका सञ्चालन करते हैं । यद्यपि वे हमारे सामने ही सब प्रकारकी चेष्टाएँ कर-करा रहे हैं, तथापि ‘हम स्वतन्त्र ईश्वर हैं’ – अपने इस अभिमानके कारण हमलोग उनके स्वरूपको देख नहीं पाते ॥ २५ ॥ * ४ वे प्रभु जब देखते हैं कि देवता अपने शत्रुओंसे बहुत पीड़ित हो रहे हैं, तब वे वास्तव में निर्विकार रहनेपर भी अपनी सायाका आश्रय लेकर देवता, पशु-पक्षी और मनुष्यादि योनियों में अवतार लेते हैं तथा युग-युग में हमें अपना समझकर हमारी रक्षा करते हैं ।। २६ ।। * * वे ही सबके आत्मा और परमाराध्य देव हैं । वे ही प्रकृति और पुरुषरूपसे विश्वके कारण हैं। वे विश्वसे पृथक भी हैं और विश्वरूप “.༦ स्कं. ६ अ. ९ श्लो. ३१-३४] अनेकव्याख्यासमलङ्कृतम् ३०१ भी हैं । हम सब उसी शरणागतवत्सल भगवान् श्रीहरिकी शरण ग्रहण करते हैं । उदारशिरोमणि प्रभु अवश्य ही अपने निजजन हम देवताओंका कल्याण करेंगे ॥ २७ ॥ * * श्रीशुकदेवजी कहते हैं- महाराज ! जब देवताओंने इस प्रकार भगवान्की स्तुति की, तब स्वयं शङ्ख-चक्र-गदा-पद्मधारी भगवान् उनके सामने पश्चिम की ओर ( अन्तर्देशमें ) प्रकट हुए ॥ २८ ॥ * * भगवान्के नेत्र शरत्कालीन कमलके समान खिले हुए थे । उनके साथ सोलह पार्षद उनकी सेवामें लगे हुए थे । वे देखने में सब प्रकारसे भगवान् के समान ही थे । केवल उनके वक्षःस्थलपर श्रीवत्सका चिह्न और गलेमें कौस्तुभमणि नहीं थी ॥ २९ ॥ परीक्षित ! भगवान्का दर्शन पाकर सभी देवता आनन्दसे विह्वल हो गये । उन लोगोंने धरतीपर लोटकर साष्टाङ्ग दण्डवत् किया और फिर धीरे-धीरे उठकर वे भगवान्की स्तुति करने लगे ॥ ३० ॥ देवा ऊचुः ३१ ॥ नमस्ते यज्ञवीर्याय वयसे उत ते नमः । नमस्ते यस्तचक्राय नमः सुपुरुहूतये ॥ यत् ते गतीनां तिसृणामीशितुः परमं पदम् । नावचीनो विसर्गस्य धातर्वेदितुमर्हति ॥ ३२ ॥ ॐ नमस्तेऽस्तु भगवन् नारायण वासुदेवादिपुरुष महापुरुष महानुभाव परममङ्गल परमकल्याण परम- कारुणिक केवलजगदाधार लोकैकनाथ सर्वेश्वर लक्ष्मीनाथ परमहंसपरिव्राजकैः परमेणात्मयोगसमाधिना परिभावित परि- स्फुटपारमहंस्यधर्मेणोद्धाटिततमः कपाटद्वारे चित्तेऽपावृत आत्मलोके स्वयमुपलब्धनिजसुखानुभवो भवान् ॥ ३३ ॥ दुखबोध इव तवायं विहारयोगो यदशरणोऽशरीर इदमनवेक्षितास्मत्समवाय आत्मनैवाविक्रियमाणेन सगुणमगुणः सृजसि पासि हरसि ॥ ३४ ॥ dssociat कृष्णप्रिया व्याख्या अन्वयः - यज्ञवीर्याय ते नमः उत वयले ते नमः हि अस्तचक्राय ते नमः तथा सुपुरुहूतये ते नमः ।। ३१ ।। * * यत् धातः तिसृणां गतीनां ईशितुः ते परमं पदं विसर्गस्य अर्वाचीनः वेदितुं न अर्हति ॥ ३२ ॥ ॐ ॐ ॐ भगवन् नारायण वासुदेव आदिपुरुष महानुभाव परममंगल परमक याण परमकारुणिक केवलजगदाधार लोकैकनाथ सर्वेश्वर लक्ष्मीनाथ परमहंसपरिव्राजकैः परमेण आत्मयोगसमाधिना परिभाबितपरिस्फुटपारमहंस्यधर्मेण उद्घाटिततमः कपाटद्वारे चित्ते अपावृते आत्मलोके स्वयं उपलब्धनिजसुखानुभवः भवान् अस्ति ॥ ३३ ॥ * * तव अयं विहारयोगः दुरवबोधः इव यत् अशरण: अशरीरः अनवेक्षितास्मत्समवायः अगुणः अविक्रियमाणेन आत्मना एव इदम् सगुणम् सृजसि पासि हरसि ॥ ३४ ॥ । श्रीधरस्वामिविरचिता भावार्थदीपिका यज्ञो वीर्यं स्वर्गादिफलजननाय सामर्थ्यं यस्य तस्मै नमः वयसे उत तत्फलपरिच्छेदककालात्मनेऽपि । तद्विघातकेषु दैत्येष्वस्तं प्रक्षिप्तं चक्रं येन । एवंभूतैः प्रभावैः सुपुरुहूतये शोभनबहुनाम्ने || ३१ ॥ * * ननु मम गुणातीतं रूपं विहाय गुणोपाधिकं यज्ञत्रीर्यत्वादि किमिति वर्ण्यते तत्राहुः । यत्त इति । यत्तव गुणत्रयस्येशितुर्नियंतुस्त्रिगुणात्मिकानां तिसृणां गतीनां परमं पदं निर्गुणस्वरूपं तद्विसर्गस्यार्वाचीन इदानींतनो हे धातर्वेदितुं नार्हति । अतः केवलं तस्मै ते नमोस्तु ॥ ३२ ॥ * * मिताक्षराणि पद्यानि न मीयंते हरेर्गुणाः । इति पद्यैरतुष्यंतः सद्यो गद्य ेन तुष्टुवुः ॥ १ ॥ भक्त्युद्रेकेण बहुधा संबोधयंतो दुर्ज्ञेयत्वं प्रपंचयंति भगवन्नित्यादिना । परमं मंगलं शुद्धो धर्मो यस्मिन् । आत्मयोगेनाष्टांगेन यः समाधिश्चित्तैकाग्र्यं तेन परिभावितः सुशीलितः परिस्फुटो यः पारमहंस्यधर्मो भगवद्भजनं तेनोद्घाटितं तमोरूपं कपाटं यस्मिंस्तस्मिन् द्वार भूते चित्ते अपावृते प्रकटे आत्मलोके प्रत्यग्रूने स्वयमेवोपलब्धमभिव्यक्तं यन्निजसुखं तदनुभवरूपो भवान् ।। ३३ ।। * * ननु केवलानुभवरूपत्वे मम सृष्टादिकर्तृत्वं कथं तत्राहुः दुखेति । दुरबबोध इव तवायं सृष्टचादिलक्षणः विहारयोगः क्रीडायोगः यद्यस्मादशरणो निराश्रयः इदं विश्वम् । अनवेक्षितोऽस्माकं समवायो मेलनं साहाय्यं येन सः ॥ ३४ ॥ ३०२ श्रीमद्भागवतम् वंशीधरकृतो भावार्थदीपिकाप्रकाशः । [ स्कं. ६ अ. ९ . ३१-३४ वयमानां संसारबंधदायिने ‘वय - बंधने’ अतोऽसुच्प्रत्ययः । श्रुतावपि वयशब्दो बंधनवाचको दृष्टः । “मा तंतुः छेदि वयतो धियं मे मात्रा मा शार्ययसः पुर ऋतोः” इति श्रुतेः । अर्थस्तु — दैवे धियं वयतो बनतो मे तंतुः संततिर्मा छेदि उत्सन्नो मा भूत् ऋतोः पुरः ज्ञानोत्पत्तेः पूर्वमयसः कर्मणो मात्रा मानं परिमाणं मा शारि । ‘शू - हिंसायाम्’ | फलदाने नष्टं मा भूत् “कर्मणा ज्ञानमातनोति” इति श्रुतेः । ज्ञानमनुत्पाद्य न नश्यत्वित्यर्थः । स्वकृतं बंधनं स्वयमेव हंतुं शक्तो नान्य इति ज्ञापनाय संधिकार्याभावः । नमस्ते स्रस्तचक्रायेहाप्यनन्यसाध्यकरणशक्त्यादिमत्वप्रकाशनाय संध्यभावः । सुष्ठु पुरवो बहवो हृतयो नामानि यस्य तस्मै । “ नामानि सर्वाणि यमाविशंति” इति श्रुतेः । यद्वा – सुपुरुभिर्बहुभिः " इंद्रायाहि” “चित्रभाना” इत्यादिवेदेहू तिराहूतिर्यस्य तस्मै । यद्वा-पुरुहुः शुद्धा ऊतिलला यस्य तस्मै । " ऊतिर्लीला समाख्याता पुरुहु: शुद्धिरुच्यते” इत्यभिधानात् ॥ ३१ ॥ * * अत्राक्षिपति – नन्विति । नश्वरतुच्छ स्वर्गपदप्राप्त्यर्थमेव स्तुध्वे न त्वनश्वर- नित्यसुखमय वैकुंठार्थमत्र को हेतुस्तत्राहुः - यत्त इति । तिसृणां देवमनुष्यतिर्यग्गतीनामीशितुः प्रापकस्य तव यत्परमं पदं बैकुंठ धाम तद्विसर्गस्य सृष्टस्यार्वाचीनोऽस्मादृशो जनो वेदितुमनुभवितुं नार्हति । न हि घासतुषादिकं विना पशुरन्यत् क्षीरादिकं वाञ्छति लभते वा कुतश्चिदिति भाव इति चक्रवर्त्ती ॥ ३२ ॥ * “अपादः पदसंतानो गद्य तच्च त्रिधा ॐ मतम् । चूर्णिकोत्कलिकाप्रायवृत्तगंधिप्रभेदतः । " इति त्रिविधभेदभिन्नेन गद्येन पुरुहूतया इत्युक्तमतो बहुभिर्नामभिः तुम इति । हे भगवन् षडैश्वर्यपरिपूर्ण परिपूर्णत्वमेवाहुः - हे नारायण त्वमेव स्वांशाधिक्यक्रमेण व्यष्टिसमष्टि- प्रकृत्यं तर्यामित्वेन क्षीरोदगर्भोदकारणार्णवशायी भवसीत्यर्थः । ततोऽपि पूर्णत्वात हे वासुदेव व्यूहानामादिभूतः । ततोपि परिपूर्णत्वात हे आदिपुरुष परव्योमनाथ । ननु कथमेवमवगम्यते तत्राहुः महापुरुषेषु तत्तद्भक्तेषु महांतोऽनुभावा अनुरूप- महाप्रभावा एव यस्य सः । ननु महाप्रलये मद्भक्तमद्धाममदाकाराणां का वा वार्त्ता तत्राहुः — मंगलानि प्राकृतानि परम- मंगलान्यप्राकृतमंगलवस्तूनि त्वद्भक्तधामादीनि तेषां परमकल्याणं कुशलित्वं यतस्तेषां कालनियम्यत्वाभावादिति भावः । ‘न मे भक्तः प्रणश्यति’ इति न्यायेनेति ज्ञेयम् । किच- अपारैश्वर्यमाधुर्यसिंधोस्तव करुणामेव बहिर्दर्शिनो वयं कालप्रस्यमाना आश्रयाम इत्याहुः । हे परमकारुणिक अंतर्दर्शिभिस्तु तवानुपलब्धनिजसुखानुभव एव भवति कदा आत्मयोगैर्यमनियमादिभिर्यः समाधिश्वित्तैकाग्र्यं तेन परि सर्वतोभावेन भावितः कृतः परिस्फुट: पारमहंस्यधर्मो भक्तियोगस्तेनोद्घाटितं तमः कपाटं द्वारं यस्य तथाभूते चित्ते चित्तमंदिर पावृतोऽपगतावरण: आत्मलोके वैकुंठधामनि वर्त्तमानः चित्तस्यैतादृशत्वे सति तन्मध्य एव सहबैकुंठलोको भवान्स्फुरतीति भावः ।। ३३ ।। * * अत्राक्षिपति —–नन्विति । इवशब्दस्याव्ययत्वेनावधारणार्थ मंगीकृत्य दुर्बोध एवेति व्याख्येयं विहारयोगः क्रीडायुक्तिः । अत्र प्राञ्चः ते किं च स्वीयवैकुंठलोके सदा विहरन्नात्मारामो गुणातीतोप प्रपंच लोकेऽस्मदादिदुर्ज्ञेयप्रकारैः सृष्टचादिभिर्विहरसीत्याहु:– दुरिति । विहारयोग: क्रीडायुक्तत्वं दुरवबोध इवेति त्वद्भक्तविज्ञैः सुबोधोप्यन्यैर्दुर्बोध इत्यर्थः । कुतः । यदशरणोऽशरीरः शारीरचेष्टारहित एवेति । सृष्टिकर्त्ता हि साकार एव “सहस्रशीर्षा " इत्यादिश्रुतेः । नावेक्षितोऽनपेक्षितोऽस्माकमिन्द्रादीनां हस्ताद्यधिष्ठातृणां समवाय: सहकारिता येन सः “संबंधे सहकारित्वे समवायः शोभनागमः” इति निरुक्तिः । आत्मनैव स्वेनैव आत्मन उपादानत्वेऽप्यविक्रियमाणेनैव । विवर्त्तवादांगीकारे त्वविक्रियमाणत्वं न चित्रं चित्रं खलु तदनंगीकारे एव, अत एव वक्ष्यति गजेंद्रोपि " नमो नमस्तेऽखिलकारणाय निष्कारणा- याद्भुतकारणाय " इति । कारणस्याद्भुतत्वं त्विदमेव यदुपादानत्वेऽपि निर्विकारत्वमेवेति । अगुणः सन्सगुणं विश्वं सृजसि कुलालादिर्हि किञ्चित्स्थानमवलंब्य स्वशरीरं च प्रवर्त्य ससहायो मृदादिवस्त्वंतरेण सगुण एव सगुणं घटादिकं सृजतीति इष्टमितीदमेकं दुर्ज्ञेयत्वं सृष्टौ ॥ ३४ ॥ अन्वितार्थप्रकाशिका नम इति । यज्ञस्य वीर्य फलजनकत्वं यस्मात्तस्मै यज्ञाधिष्ठात्रे ते तुभ्यं नमः । उत अपि वयसे कालात्मने ते नमः । अस्तं प्रक्षिप्तं चक्रमर्थादस्मद्विघातकेषु दैत्येषु येन तस्मै दैत्यविनाशकाय ते नमः । सुशोभनाः पुरवो बहवो हूतयो नामानि यस्य तस्मै नमः || ३१ ॥ यदिति । हे धातः ! गुणत्रयस्येशितुर्नियन्तुः गुणत्रयात्मकानां तिसृणां गतीनां परमं पदं निर्गुणस्वरूपम् । यद्वा । तिसृणां देवतिर्यङ्मनुष्याख्यानां गतीनामीशितुः प्रापकस्य ते तव यत्परमं पदं सर्वोत्कृष्टं रूपं तद्विसर्गस्यार्वाचीनः अस्मादृशो जनो वेदितुं ज्ञातुं नार्हति । अतः केवलं तस्मै नमोऽस्तु ॥ ३२ ॥ ॐ नम इति परमहंस परिव्राजकैः संन्यासिभिः परमेणातिदृष्टेन आत्मयोगेन परमात्मविषयकेण समाधिना चित्तैकाप्रयेण परिभाविते संशोधितेऽन्तःकरणे परिस्फुट: परिस्फुरितो यः पारमहंस्यो धर्मो भगवद्भजनं तेन उद्घाटितं तमः अज्ञानरूपं कपाटं स्कं. ६ अ. ९ लो. ३१-३४ ] अनेकव्याख्यासमलङ्कृतम् ३०३ यस्य तस्मिन् द्वारभूते चित्ते अपावृते प्रकटे आत्मलोके स्वधामनि प्रत्यभूपे स्वयमुपलब्धमाविर्भूतं निजसुखं तदनुभवरूपो भवान् । स्पष्टं शेषम् ॥ ३३ ॥ * दुखबोध इति । इवशब्दोऽवधारणे । यत्त्वमशरणो निराश्रय एवाशरीर: शरीररहितोऽपि अनपेक्षितोऽस्माकं बलाद्यधिष्ठातॄणामिन्द्रादीनां समवायो मेलनं साहाय्यं येन स तथाभूतोऽपि अगुणेऽपि सर्वोपादानत्वेऽप्यविक्रियमाणेनैवात्मनेदं सगुणं विश्वं सृजसि पासि संहरसि च । सोऽयं तव विहारयोगः क्रीडाप्रकारो दुरवबोध एव ॥ ३४ ॥ वीरराघवव्याख्या स्तुतिमेवाह । नम इत्यादिना । तावत्सर्वस्य स्रष्टारमायुः प्रदं त्रातारं प्रणतरक्षाविलम्बासहिष्णु नाममात्रस्मरण- निरस्तमहाभयं स्वर्गापवर्गादिप्रदं वाङ्मनसापरिच्छेद्यस्वभावं नमस्कुर्वन्तः स्तुवन्ति । नमस्त इत्यादिद्वाभ्याम् । यज्ञः वीर्य सृष्टि- हेतुः सामर्थ्यं यस्य “यज्ञाद्भवति पर्जन्यः” इत्युक्तप्रकारेण यज्ञमुखेन प्रजाः सृजत इत्यर्थः । यद्वा । वीर्यशब्दो ऽर्शआद्यजन्तः । यज्ञो वीर्यवान् यस्मात् यदाराधनरूपत्वे यज्ञस्य सारवत्ता अनन्तस्थिरफलसाधनता भवतीत्यर्थः । अन्यथाल्पास्थिरफलसाधनवेति भावः । वयसे स्वाराधनभूतयज्ञाद्यनुष्ठानोपयुक्तायुः प्रदाय ऊतये यज्ञादिफलदानेनानिष्टनिवारणेन च रक्षाकराय आत्तचक्राय प्रणतरक्षणविलम्बासहनेन सदा धृतसुदर्शनाय पुरुहूतये स्मरणमात्रनिरस्तमहद्भयोदारनाम्ने नमः पदावृत्तिर्गुणभेदाभिप्रायः || ३१ || तिसृणां स्वर्गापवर्गनरकाणामीशितुः निर्वाहकस्य दातुस्ते तव परमं प्रकृतिपुरुषविलक्षणमुत्कृष्टं पदं स्वरूपं विसर्गस्यार्वाचीनः सृष्टेः पाश्चात्त्यः कार्यभूतः त्वत्सृष्टस्त्वदाहितज्ञानशक्तिर्मादृशः पुमान् हे धातः ! वेदितुं ज्ञातुं नार्हति ॥ ३२ ॥ * * अथ पुरुहूतय इत्यनेनाभिप्रेतैर्भगवत्साधारणैर्नामभिस्तं सम्बोधयन्तो नार्वाचीनोऽर्हति वेदितुमित्युक्तं दुर्ज्ञेयत्वनिमित्तानाश्रयणीयत्व- शङ्कां योगपरिशुद्धमनोप्राह चत्वकथनेन निराकुर्वन्तो यज्ञवीर्यायेत्यनेनोक्तजगद्व्यापारस्य मृत्कुलालादिव्यापारवैजात्यं लीलारूपतां चाभिदधतः कारणान्तरानपेक्ष्य सृष्ट्याद्युपयुक्त गुणयोगित्वं च वदन्तस्स्तुवन्ति । ॐ नमः इत्यादिना । पासि हरसि चेत्यन्तेन गद्येन ॐ इत्यसाधारणं भगवतो ब्रह्मणो नाम “ॐ तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः” इति भगवद्गीतेः तथा भगवन्नारा- यणादयः शब्दा अपि भगवन् ! षाड्गुण्यपूर्ण ! नारायण ! नारं जीवसमूहस्तस्यायनं प्राप्यं प्रापक आधारश्च तस्य सम्बोधनं नारायणशब्दश्च योगरूढिभ्यां विष्ण्वसाधारणः न च केवलयोगेन रुद्रादिपरत्वमपि शङ्कितुं युक्तम् । रूढ्यभावेन “पूर्वपदा- त्संज्ञायामगः” इति णत्वाभावप्रसङ्गान्न च विष्णुपरत्वाङ्गीकारेण संज्ञापरत्वाभावात्त्वन्मतेऽपि न णत्वमिति वाच्यम् “भृगोऽसं- ज्ञायाम्” इति सूत्रभाष्ये यदेतत्संज्ञया विधीयते तत्र न संज्ञायामभिधेयायामित्यर्थः । किं तर्हि तत्कार्यविशिष्टेन चेत्संज्ञा गम्यत इत्यर्थः । इत्युक्तमत एव रघुनाथरामानुजादिशब्देषु न णत्वं न हि तत्र कृतणत्वेन संज्ञावगतिः । किं तर्ह्यकृतणत्वेन “किना- नादिविनियुक्तसंज्ञास्थले तु यथाविनियुक्तानामेव साधुत्वम्” इति रघुनाथादौ णत्वाभावः अध्वपरिमाणसंज्ञाभूत गव्यूतिशब्दे च न वलोपः । अन्यथा संज्ञात्वभङ्गापत्तेरित्यन्यत्र विस्तरः । वासुदेव ! सर्वभूताधार! आदिपुरुष ! जगत्कारणपुरुष ! महा- पुरुष ! पुरुषोत्तम ! महानुभाव ! अचिन्त्यप्रभाव ! परममङ्गल ! स्वयं मङ्गलरूप ! परमकल्याण ! अन्येषां मङ्गलावह ! परम- कारुणिक ! स्वार्थनिरपेक्षपरदुःखा सहिष्णो ! केवलजगदाधार ! इतरानपेक्षजगदाधार ! स्वसमानरहितलोकनाथ ! सर्वेषां ब्रह्मादीनामपीश्वरनियन्तः लक्ष्मीनाथ ! श्रियः पते ! परमहंसाः ज्ञानिनः परिव्राजकाः संन्यासधर्मनिष्ठाः ज्ञानयोगकर्मयोग- निष्ठा इत्यर्थः । तैः परमेणोत्कृष्टेनात्मसमाधियोगेन परमात्मविषयकध्यानयोगेन परिभाषितः संदीपितः अत एव परिस्फुट: प्रत्यक्षतापन्नो यः पारमहंस्यधर्मो भगवद्भक्तियोगरूपो धर्मः तेनोद्घाटितं निर्मूलितं तमः कपाटं तमः अनाद्यविद्यात्मकज्ञानं तदेव कपाटं परमात्मदर्शनविरोधि यस्य तद्द्वारं परमात्मदर्शनसाधनं चित्तं यस्मितस्मिन्नात्मलोके आत्मैव लोक: लोकनीय इति लोकः परमात्मापृथक्सिद्धत्वेन जीवस्यापि लोकनीयत्वात्तस्मिन्नात्मलोकेऽपावृतः आवरणरहितः उपलब्ध इत्यर्थः । कथमपावृतः स्वयमुत्थः स्वयमात्मनैव उत्थः नित्योदितो यो निजसुखानुभवः निजानन्दरूपोऽनुभवो ज्ञानं तद्रूपः नित्यनिरुपाधिकाविर्भूतापरिच्छिन्नज्ञानानन्दानुभवरूपत्वेनापावृत इत्यर्थः । एवंभूतोऽसि । एवम्भूतस्य भगवान् तव विहार- योग: लीलारूपो योगः जगद्वयापाररूपो योगः जगत्सङ्कल्पमात्रनिष्पाद्यत्वज्ञापनाय समाधिरूपसङ्कल्पापारपर्याययोगपदं प्रयुक्तम् । जगद्वयापारस्त्याकर्मायत्त केवललीला रूपत्वख्यापनाय विहारपदम् । स एष विहारयोगो दुःखबोध इव लोकदृष्टमृत्कुला- लादिव्यापारजातीयत्वेन बोद्धुमशक्य इव वर्त्तते इवशब्देन सर्वज्ञस्य सर्वशक्तेस्तव उपपन्न एवेति सूच्यते । दुःखबोधकत्वमेव विशदयन्ति । यस्त्वमिदं विश्वमशरणमनपेक्षितस्त्वव्यतिरिक्ताश्रयं सृजसि कुलालादेर्घटादीन् सृजतस्तु भूतलादिरूपः कश्चिदा- धारोऽपेक्षित इति भावः । त्वं तु स्वस्मिन्नेवाधारभूते सृजसीति भावः । किञ्च । स्रष्टा त्वमनपेक्षितास्मत्समवायसहाय: अत्मदा- दिसहकारिसमुदायनिरपेक्षः । कुलालादिस्तु सहकारिसमवायसापेक्ष इति भावः । किञ्चागुणः गुणत्रयरहितः कुलालादिस्तु ३०४ । s श्रीमद्भागवतम् [ स्कं. ६ अ ९ श्लो. ३१-३४ सत्त्वादिगुणयुक्त इति भावः । ननु विशिष्टस्य कारणत्वाङ्गीकारात्कथं कुलालादिवैलक्षण्यापादकमगुणत्वमुच्यत इति चेन्न । विशिष्टस्य उपादानत्वाभ्युपगमेऽपि प्रकृतिपुरुषाभ्यामुत्कृष्टस्य विशेष्यस्य ब्रह्मणो निमित्तत्वाभ्युपगमाद्विशेष्यांशे च सत्त्वादि- गुणत्रयाभावान्नैर्गुण्यं कुलालादिवैलक्षण्यापादनमेव । एवं कुलालादिनिमित्तकारणवैलक्षण्यमुक्तम् । अथ मृदाद्युपादानवैलक्षण्य- माहुः । आत्मनैवाविक्रियमाणेन सगुणमिति “तदात्मानं स्वयमकुरुत” इति श्रुत्यर्थोऽत्राभिप्रेतः । आत्मनेत्यनेन स्वयंशब्दार्थ उक्तः । सगुणमित्यनेनात्मानमित्यस्यार्थः । गुणशब्दश्चात्रापृथक्सिद्धविशेषणवाची तथाचापृथक्सिद्धविशेषणभूतचिदचिद्विशि- मात्मानं स्वेनैव सृजसि पासि रक्षसि हरसि च सूक्ष्मचिदविद्विशिष्टमात्मानमेव स्थूलचिदचिद्विशिष्टावस्थाविश्वाकारेण परिणमयसीत्यर्थः । निर्विकारश्रुतिविरोधपरिहारायात्मानं विशिषन्ति । अविक्रियमाणेनेति विकाराणां विशेषणाभूत- चिदचिद्गतत्वादविक्रियमाणेनैवात्मना सृजसीत्यर्थः । मृत्पिण्डादिकं तु स्वभिन्नेन कुलालादिना घटादिरूपेण सृज्यत इति नतो यस्य वैलक्ष्यण्यसिद्धिः । आत्मनैवात्मानं सृजसीत्यनेन विशिष्टत्वविशेष्यत्वाकाराभ्याम् उत्पादनत्वं निमित्तत्वं चैकस्यैवोक्तं भवति । अविक्रियमाण इति सप्तम्यन्तपाठे स्वत्मिन्विशेष्यभूतेऽविक्रियमाणे स्वरूप स्वभावाभ्याविक्रियमाणे सत्येव विशिष्टमात्मानं स्वेनैव सृजसीत्यर्थः । नन्वेकस्यैव पदार्थस्य निमित्तत्वमुपादानत्वं च परस्परविरुद्धमिति चेन्नैकस्योभयविधकारणत्वप्रतिक्षेपकैरपि कचित्कचिदेकस्मिन्नेव तदुभयविधकारणत्वाभ्युपगमात् यथा स्वज्ञानचिकीर्षा - प्रयत्नादिकं शास्त्राभ्यासादिभिः स्वयमेव करोति जीवः तेन तत्र कर्तृत्वेन निमित्तकारणं भवति तथापि च स्वयमेव समवायिकारणं भवति स्वज्ञानादीन्प्रति कार्य यत्र समवैति तत्समवायिकारणम् इति समवायिकारणलक्षणस्य स्फुटोप- लम्भात् । किञ्च । ईश्वरोऽपि सर्वव्याप्तस्य स्वस्य सर्वैरपि परमाण्वादिभिः संयोगं स्वयमेव सृजति सर्वकार्यहेतुत्वात्तथा च तत्र कर्तृत्वेन निमित्तकारणं भवति समवायिकारणत्वमपि तत्प्रतीतस्य दृश्यते परमाण्वादिसंयोगस्येश्वरसंयोगापे- क्षत्वेन यथा कर्तृत्वं समवायिकारणत्वं चेश्वरनिष्ठमेव भवन्मते भवति तथास्मत्सिद्धान्ते निमित्तत्वमुपादानत्यश्वैकवस्तुनिष्ठ- मिति । नन्वेवमपि न विशिष्टस्योपादानत्वं कापि दृष्टमिति चेन्न; ऊर्णनाभिप्रभृतीनामेव दृष्टान्तत्वात् । नघूर्णनाभेर्देहस्यैवावस्था- प्राप्तिर्नापि केवलात्मन्यपि तु देहविशिष्टात्मनीति लोकोपलम्भः । श्रुतिश्च “यथोर्णनाभिः सृजते गृह्णते च” इत्यूर्णनाभिदृष्टान्त- त्वेन दर्शयति ।। ३३-३४ ॥ ईमार !reer ! free पदरत्नावली विजयध्वजतीर्थकृता पदरत्नावली । REFREE स्तुतेः प्रतीकं गृह्णाति । नमस्त इति । यज्ञस्य वीर्यं रेतः स्रष्टेत्यर्थः । तस्मै यज्ञो वीर्यं यस्य सः तथाभिव्यक्तय इति शेषः । तस्मै हे यज्ञ ! वीरेषु स्थित्वा वीरत्वप्रदायेति वा । उत किं तु वयसे बन्धकशक्त्या जीवानां संसारे बन्धकाय “वय बन्धने” इति धातोः " वय सर्वस्य वयनाद्भगवान् पुरुषोत्तमः” इति वचनात् वयशब्दोऽत्र बन्धवचन: “मा तन्तुश्छेदि वयतो धियं मे मात्रा माशार्ययसः पुरा क्रतोः” इति श्रुतेश्व अतो “वयो विहङ्गो विहगो विहङ्गमः” इत्यभिधानेऽपि प्रकृतानुपयुक्तत्वान्न पक्ष्यत्र ग्राह्यः श्रुतेरयमर्थः । दैवे धियं वयतो बनतो मे तन्तुः सन्ततिर्माच्छेदि उत्सन्नो माभूत् । क्रतोः पुरा ज्ञानोत्पत्तेः पूर्व- मयसः कर्मणः मात्रा मानं परिमाणं माशारिः “शू हिंसायाम्” इति धातोः फलदानेन नष्टं माभूत् “कर्मणा ज्ञानमातनोति” इति श्रुतेः ज्ञानमनुत्पाद्य न नश्यत्वित्यर्थः । स्वकृतं बन्धनं स्वयमेव हन्तुं शक्तो नान्य इति ज्ञापनाय सन्धिकार्याभावः । चक्राय पुनः सृष्टयादिकर्त्रे करोतेर्यङन्तं शब्दरूपम् । सर्वहन्त्रे चरतेर्भक्षणार्थं रूपं वा । सर्वविपत्परिहर्तृ सुदर्शनाख्यावताराय । वा । अत्राप्यनन्यसाध्य करणशक्तत्यादिमत्त्वप्रदर्शनाय सन्ध्यभावः । पुरवो बहवो हृतयो नामानि यस्य सः तथा तस्मै “नामानि सर्वाणि यमाविशन्ते” इति श्रुतेः “इन्द्रायाहि चित्रभानो” इत्यादिबहुवे दैहूतिर्यस्य सः तथा तस्मै वा “शुचिः शुचित्रतः शुद्धः पुरुहुः शुद्धिरुच्यते" इत्यभिधानात् । पुरुहुः शुद्धा ऊतिर्यस्य सः तथा तस्मै वा ॥ ३१ ॥ ईशितुस्ते तव यत्तिसृणां ॥ * गतीनां देवलोक पितृलोकनिरयसंज्ञानां सकाशात्परममुत्कृष्टं वैष्णवं पदं वैकुण्ठादिस्थानं तद्धातुर्ब्रह्मणो विसर्गस्य विविधसृष्टेर- वचनोऽवान्तरकालीन इदानीन्तनो मनुष्यो वेदितुं लब्धुं प्राप्तुं नार्हति न योग्यो विद्वानेव योग्य इत्यन्वयः । " देवलोकात्प- तृलोकाभिरयाच्चापि यत्परन् । तिसृभ्यः परमं स्थानं वैष्णवं विदुषां गतिः ।" इति वचनात् “विद्लृ लाभ” इति धातुः “पदल गतो” इति च, अनेन वैष्णवपदप्राप्तों ज्ञानमेव प्रयोजक न कर्मादिकमिति सूचयति ।। ३२ ।। * हरेः प्रसन्नतायां गुणोत्कर्ष प्रकाशिका स्तुतिरेव प्रयोजिकेति पद्य प्रथिताः कतिपयगुणा एव प्रकाशन्त इत्यतोऽपेक्षिताशेषगुणप्रकाशनार्थं गद्यः स्तुवन्ति । नमस्त इति । भगवदादिशब्दैराविष्कृतगतये ते तुभ्यं नम इत्यन्वयः । परिव्राजकाश्चतुर्विधाः कुटीचकबहूदकहंस- निक्रिया इति तेषां मध्ये परमहंसाख्यपरित्राजकैः परमेणोत्तमेनात्मयोगेन परमात्मध्यानेन यः समाधिश्वित्तैकाग्रता तेन परि- भावितः प्रवर्धितः परिष्फुटितश्च प्रकाशितो यः पारमहंस्यनामा धर्मः ज्ञानाख्यः तेनोद्घाटितं तमःकपाटद्वारमेज्ञानाख्य- ।
स्कं. ६ अ. ९ श्लो. ३१-३४ ] अनेकव्याख्यासमलङ्कृतम् ३०५ येन सः । तथा तेनापावृते प्रकाशित आत्मलोके वैकुण्ठादिनानि स्वयमुपलब्धः अप्रयत्नेन दृष्टः यो भगवान् स्वरूप सुखानुभव- स्तस्य तव विहारयोगः जगज्जन्मलयादिहेतुभूतक्रीडोपायो दुरवबोध इव त्वदनुग्रहमन्तरेण दुर्बोध एवेत्यर्थः । कुतो दुर्ज्ञान इति तत्राह । यदशरण इति । अशरणोऽधिष्ठानरहितोऽशरीरो ज्ञानसाधनशरीररहितोऽप्राकृतत्वादनपेक्षितोऽस्मत्समवायः साहाय्य- लक्षणो येन स तथा अगुणो निर्गुणः स्वयं स त्वमविक्रियमाणेन स्वतः परतो वा विकाररहितेनात्मनैव स्वभावेनैव भोगादिप्रयो- जनमन्तरेणेदं जगत्सृजसि रक्षसि संहरसीति यद्यस्मात्तस्मात्कुलालादिविलक्षणत्वादिति भावः ॥ ३३-३४ ॥ जीवगोस्वामिकृतः क्रमसंदर्भः ननु प्रत्यक्षतोऽनुभूयमानमिदं मद्रूपं विहाय गुणोपाधिकं यज्ञवीर्यत्वादिकं किमिति वर्ण्यते तत्राहुः । यत्त इति ॥ ३२ ॥ आत्मलोके स्वस्वरूपे लोके वैकुण्ठाख्ये ॥ ३३ ॥ * तदेवं वैकुण्ठविहारो दुर्दर्शोऽपि युक्तिसिद्ध एव गुणातीतत्वादिना तब योग्यत्वात् । प्रपचविहारस्तु युक्तत्यतीतः । सगुणत्वादिना वैपरीत्यादित्याहु: । दुरवबोध इति । कुलालादिहिं सगुणः किञ्चित् स्थानं समवायान्तरं चावलम्ब्य स्वशरीरच प्रवर्त्य मृदादिवस्त्वन्तरेण सगुणं घटादिकं करोति पाति हरति त्वं त्वगुण- विक्रय एव च तत्तदवलम्बनादिकं विनैवेच्छामात्रेणात्मनैव च सगुणं प्रपञ्चमित्यर्थः । अशरण इत्यादिकं हि तदभिप्रायेणै- वोक्तम् । इवेत्यचिन्त्यशक्तित्वादेव तदपि नातियुक्तत्यगम्यमिति भावः ॥ ३४ ॥ विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी स्वेषामीश्वरमन्यतामात्रं व्यञ्जयन्तो यज्ञैरस्मदाद्युपासकानां फलप्राप्तिविघातयोर्भवानेव हेतुरित्याहुः । नम इति । यज्ञस्य वीर्य स्वर्गादिफलोत्पादनलक्षणः प्रभावो यस्मात्तस्मै स्वर्गादिफलप्रापकायेति भावः । उत पुनः बयसे कालाय स्वर्गादिफलनाशकाय च तथा अस्तचक्राय असुरेषु चक्रं क्षिप्त्वा तेषां निग्राहकाय अस्माकं पालकाय च । एवं स्वर्गादिप्रापक इति स्वर्गादिनाशक इति असुरसंहारक इति देवपालक इत्यादिनामभिः सुपुरुहूतिर्यस्य तस्मै ॥ ३१ ॥ * * ननु नश्वरतुच्छ स्वर्गपदप्राप्त्यर्थमेव स्तुवध्ये न त्वनश्वरनित्यसुखमय वैकुण्ठार्थमत्र को हेतु तत्राहुः । यत्त इति । तिसृणां देवमनुष्यतिर्यग्गतीनामीशितुः प्रापकस्य तव यत् परमं पदं वैकुण्ठधाम तत् विसर्गस्यार्वाचीनोऽस्मादृशो जनो वेदितुमनुभवितुं नार्हति । न हि घासबुषादिकं विना पशुरन्यत् क्षीरादिकं वान्छति लभते वा कुतश्चिदिति भावः ॥ ३२ ॥ पुरुहूतय इत्युक्तमतो बहुभिर्नामभिः सम्बोध्य स्तुवते । नम इति । हे भगवन् ! षडैश्वर्यपरिपूर्ण ! परिपूर्णत्वमेवाहुः । हे नारायण ! त्वमेव स्वांशाधिक्यक्रमेण व्यष्टिसमष्टिप्रकृत्यन्तर्या- मित्वेन क्षीरोदगर्भोदकारणार्णवशायी भवसीत्यर्थः । ततोऽपि पूर्णत्वात् हे वासुदेव ! व्यूहानामादिभूत ! ततोऽपि परिपूर्णत्वात् हे आदिपुरुष ! परमव्योमनाथ । ननु कथमेवमवगम्यते तत्राहुः । महापुरुषेषु तत्तद्भक्तेषु महान्तोऽनुभावा अनुरूपमहाप्रभावा एव यस्य सः । ननु महाप्रलये मद्भक्तमद्धाममदाकाराणां का वार्ता तत्राहुः । मङ्गलानि प्राकृतानि परममङ्गलानि अपाकृतमङ्गल- वस्तूनि त्वद्भक्तधामादीनि तेपां परमकल्याणं कुशलित्वं यतः । तेषां कालनियम्यत्वाभावादिति भावः । किञ्च अपारैश्वर्यमाधुर्य- सिन्धोस्तव करुणामेव बहिर्दर्शिनो वयं कालग्रस्यमाना आश्रयाम इत्याहु: । हे परमकारुणिक ! अन्तर्दर्शिभिस्तु भवानुपलब्ध- निजसुखानुभव एव भवति । कदा | आत्मयोगैर्यमनियमादिभिर्यः समाधिश्वित्तैकाग्र्यं तेन परि सर्वतोभावेन भावितः । कुतः । परिस्फुदः पारमहंस्यधर्मो भक्तियोगस्तेन उद्घाटिततमः कपाटं द्वारं यस्य तथाभूते चित्ते चित्तमन्दिरे अपावृत: अपगतावरण: आत्मलोके वैकुण्ठधामनि वर्त्तमानः चित्तस्यैतादृशत्वे सति तन्मध्ये एव सह वैकुण्ठलोको भवान् स्फुरतीति भावः ॥ ३३ ॥ * * किन । स्वीयवैकुण्ठलोके सदा विहरन्नात्मारामो गुणातीतोऽपि प्रपञ्च लोके अस्मदादिदुर्ज्ञेयप्रकारै: सृष्टचादिभिर्विहरसीत्याहुः । दुरवबोध इति । विहारयोगः क्रीडायुक्तत्वं दुखबोध इवेति त्वद्भक्तविज्ञैः सुबोधोऽप्यन्यैर्दुर्बोध इत्यर्थः । कुतः यदशरणो निराश्रय एव अशरीरः शरीरचेष्टारहित एवेति । सृष्टिकर्त्ता हि साकार एव “सहस्रशीर्षा " इत्यादिश्रुतेः । न अपेक्षितम् अस्माकम् इन्द्रादीनां हस्ताद्यधिष्ठातॄणां समवायः साहाय्यं येन सः । आत्मनैव स्वेनैव आत्मन उपादानत्वेऽप्यविक्रियमाणेनैव विवर्तवादाङ्गीकारे त्वविक्रियमाणत्वं न चित्रं चित्रं खलु तदनङ्गीकार एव । अत एव वक्ष्यते गजेन्द्रेण " नमो नमस्तेऽखिलकारणाय निष्कारणायाद्भुतकारणाय” इति कारणस्याद्भुतत्वमुपादानत्वेऽपि निर्विकारत्वमेवेति अगुणः सन् सगुणं विश्वं सृजसि कुलालादिर्हि किञ्चित स्थानमवलम्ब्य स्वशरीरं च प्रवर्त्य ससहायो मृदादिवस्त्वन्तरेण विक्रियमाणेनैव सगुण एव सगुणं घटं सृजतीति दृष्टमितीदमेकं दुर्ज्ञेयत्वं सृष्टौ ॥ ३४ ॥ .. ; शुकदेवकृत: सिद्धान्तप्रदीपः साक्षाद्भगवन्तं सर्वकर्मफलदं सर्वशक्ति सर्वनामानं दृष्ट्वा कर्मकालादिकमीश्वरनैरपेक्ष्येण सुखादिहेतुं मन्यमाना बाला इति सूचयन्तो भगवन्तं प्रणमन्ति । नम इति । यज्ञस्य वीर्य फलदाने सामर्थ्य यस्मात्तस्मै वयसे तत्फलाभिव्यञ्जक- ३९ ३०६ ● श्रीमद्भागवतम् ॥ [ स्कं. ६ अ ९ लो, ३१-३४ कालशक्तये यज्ञे तत्फले च प्रतीपेषु अस्तं क्षिप्तं चक्रं येन तस्मै सुपुरुहूतये शोभनबहुना म्ने ॥ ३१ ॥ * * ननु यज्ञवीर्याय नम इत्यादिना यज्ञफलभूतस्वर्गार्थिनो वयमिति सूचितं न तु मुक्तगम्यं मम धाम भवद्भिर्मत्तः प्रार्थितमित्यत्राहुः । तिसृणां स्वर्गापवर्गनरकगतीनामीशितुः प्रापकस्यापि तव यत्परमं पदं मुक्तगम्यं स्थानं विसर्गस्य विशेषतः सृज्यते स्वपादमूलप्राप्ति- कामेषु तुच्छीकृतैहिकामुष्मिकपदार्थेषु इति विसर्गः कृपावलोकः तस्य अर्वाचीनः पाश्चाच्यः अविषयमादृशो बुभुक्षुरित्यर्थः हे धातः ! तत्प्रेप्सायास्तु का कथा वेदितुमपि नाहतीत्यर्थः ॥ ३२ ॥ * * भगवलोकः भगवत्कृपावलो काविषयैर्दुर्ज्ञेय इत्युक्तमद्य विश्वसृष्टयादिरूपा भगवल्लीलापि तैर्दुर्ज्ञेया भगवत्कृपावलोकविषयैस्तु नित्यं हृदि निजलोकसहितो भगवान् सुज्ञेय एव विश्वसृष्टचादिलीला च सुज्ञेयेति वदन्तः नमः सुपुरुहूतये इत्यत्र सूचितानाम् बहूनां नाम्नां मध्ये कैश्विन्नामभिः सम्बोध्य स्तुवन्ति । ॐ नमस्ते इत्यादिना हरसीत्यन्तेन गद्येन । हे भगवन् ! ते तुभ्यं नमः कथम्भूताय ॐ सर्ववेदबीजभूतप्रणव- वाच्याय प्रणवस्य परब्रह्मवाचकत्वात् तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः” इति श्रीमुखवचनात् । नमोयोगाचतुर्थ्य- न्तोऽत्र प्रणवः अव्ययत्वाच्चतुर्थ्यां लोपः भगवन्नित्यादीनि भगवन्नामानि स्पष्टार्थानि तत्र तत्र यथोपयोगं व्याख्यातानि च आत्मनः स्वस्य लोके “योsस्याध्यक्षः स परमे व्योमन् । एते वै निरयास्तात ! लोकस्य परमात्मनः” इत्यादिश्रुतिस्मृति प्रसिद्धे अपावृते निरावरणे स्वयमुपलब्धः श्रुतः स चासौ निजसुखानुभवश्च स तथाभूतो यो भगवान् स एव परमहंसपरिव्राजकैः परमहंसा: बहु- जन्मकृतवर्णाश्रमोचित धर्मपूर्वकनानामोक्षसाधनविमलमतित्वेन भगवद्ध यानसमुद्रनिमग्नतया विस्मृतवदितरकृत्याः परिव्राजकाः चतुर्थाश्रमिणो हरिभक्ताः परमहंसाश्च परिव्राजकाश्च वैश्वित्ते दृष्ट इति शेषः । कथम्भूते परमेणोत्कृष्टेन आत्मनि भगवति युज्यते इति योगः स चासौ समाधिश्चित्तैकाग्र्यं च तेन परिभावितः स्वनुष्ठितः परिस्फुट: प्रशप्तः परमहंसानां योग्यः पारमहंस्यो धर्मः सर्वात्मना भगवत्प्रावण्यं तेनोद्घाटितं तमोमालिन्यरूपं कपार्ट यस्य तदेव द्वारं भगवद्दर्शनकरण तस्मिन् ॥ ३३ ॥ * अथ “यतो वा इमानि भूतानि जायन्ते स ऐक्ष्यत बहु स्यां तदात्मानं स्वयमकुरुत । अहं सर्वस्य प्रभवो मत्तः सर्व प्रवर्तते” । । प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् १।४।२४ इत्यादिश्रुति - स्मृति-सूत्रसिद्धं भगवतो जगदभिन्ननिमित्तोपादानकारणत्वमाहुः । दुरवबोध इति । तव अयं विहारयोगः विश्वसृष्टयादिलीलो योगः दुरवबोधः दुर्ज्ञेयः । इवशब्देन भगवत्प्रसादेन तु सुज्ञेय इति द्योत्यते । यद्यत आत्मनैव स्वेनैव स्वरूपेण अविक्रियमाणेन निर्विकारेण ऊर्णनाभिर्यथा निर्विकारेण स्वरूपेणैव तन्तुमयं स्वगृह सृजति तद्वदिदं सगुणं विविधविचित्रगुणयुक्तं विश्वम् “देवात्मशक्ति स्वगुणैर्निगूढां प्रधानक्षेत्रज्ञपतिर्गुणेशः" एषा परस्य शक्ति: “भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च । अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा । अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम्” ख इत्यादिश्श्रुति-स्मृतिप्रसिद्धाभ्यां प्रकृतिभ्यां सृजसि पासि हरसि कुलालकुविन्दादयो गृहादियुक्ताः कायिकव्यापारवन्तः अवेक्षितभार्यादिसमवायाः रजआदिगुणवन्तः अनात्मकेन मृत्पिण्डतन्त्यादिना घटपटादिकं सृजन्ति त्वं तु अशरणः आयतनानपेक्षः अशरीरः शारीरव्यापारानपेक्षः नावेक्षितोऽस्मत्समवायः साहचर्य्यं येन सः अगुणः रजआदिभिः निखिलैः प्राकृतेर्गुणैश्च रहितः ॥ ३४ ॥ ॥ ॥ । गोस्वामिगिरिधरलाल प्रबोधिनी Indissi म
? स्तुतिं दर्शयति-नम इति । यज्ञस्य वीर्य फलजनकत्वं यस्मात् तस्मै यज्ञाधिष्ठात्रे ते तुभ्यं नमः । ननु यज्ञस्येदा- नीमनुष्ठानानन्तरमेव नष्टत्वात्तत्फलं तु कालान्तर एव भवतीति कालाधीनत्वमेव फलस्य न भगवदधीनत्वमित्याशङ्कय तद्रूपेण तं प्रणमन्ति वयसे इति । उत अपि । कालात्मनेऽपि ते नमः । भगवता सदैवास्मत्पक्षपातः कृत इतीदानीमपि स तथैव कर्तव्य इति सूचयन्तः प्रणमन्ति– नमस्ते ह्यस्तचक्राग्रेति, अस्तं प्रक्षिप्तमर्थादस्मद्विघातकेषु दैत्येषु येन तस्मै दैत्यविनाशकाय देवरक्षकाय ते नमः । एतद्द्वयं प्रसिद्धमेवेति द्योतनाय हिशब्दः । तव नामैव सर्वपुरुषार्थसाधनम्, अस्माकं तु त्वं साक्षादेवाविर्भूतोऽसीत्य- स्मत्कार्ये कः सन्देह इति सूचयन्तः प्रणमन्ति नम इति । शोभनाः पुरषो बहवो हूतयो नामानि यस्य तस्मै नमः ॥ ३१ ॥ * * एवं नमस्कृत्याचिन्त्यानन्तशक्तिमत्त्वेन भगवतो दुखगाद्यमहिमतया सर्वगुणवर्णनस्याशक्यत्वात् स्तुतौ न्यूनत्वोपालम्भाद्भीताः स्वाज्ञानं निवेदयन्ति यदिति । तिसृणां देवतिर्यङनुष्याख्यानां गतीनामीशितुः प्रापकस्य ते तव यत् परमं पदं सर्वोत्कृष्टपुरुषो- तमरूपं तत् विसर्गस्यार्वाचीनः अस्मादृशो जनो वेदितुं ज्ञातुं नार्हति । सर्वकारणत्वेन प्राचीनत्वान्नहि कारणतत्त्वं कार्येण ज्ञातुं शक्यते इत्यभिप्रायेण सम्बोधयन्ति - हे विधातरिति, विधातुरिति पाठान्तरे तु ब्रह्मणः सर्गस्यार्वाचीन इत्यर्थः ॥ ३२ ॥ * * मिताक्षरै: पद्यैर्भगवद्गुणा वर्णयितुं न शक्यन्ते इवि मन्यमाना गद्यैः स्तुवन्ति तत्र पुरुहूतित्वं दुर्ज्ञेयत्वं च यदुक्तं तदेव भक्त्युद्रेकेण बहुभिर्नामभिः सम्बोधयन्तो नमस्यन्तश्च प्रपञ्चयन्ति — ॐ नमो नमो इत्यादिना । हे भगवंस्ते तुभ्यं नमोऽस्त्विति प्रार्थनयाऽचिन्त्यानन्तगुणपूर्णे त्वयि वयं किमपि पूजादि कत्तु न शक्ताः केवलं नमस्कारेण कृतार्थता स्यात् । तत्राप्यस्वात- स्क. ६ अ. ९ श्लो. ३१-३४ ] अनेकव्याख्यासमलङ्कृतम् ३०७ न्त्र्यात् सोऽपि त्वत्कृपया कथञ्चिदस्त्विति दर्शितम् । स्वासामर्थ्यं हेतुमाहुः - परमहंसेति । कुटीच कब हूद कहं सनिष्क्रियभेदेन परिव्राजकाश्चतुर्विधास्तत्र परमहंसाख्यैः परमविवेकिभिः परित्राजकैः संन्यासिभिः परमेणातिदृढेन आत्मयोगसमाधिना परमात्मविषयकयमनियमाद्यष्टाङ्गपूर्व कचित्तैकाग्र्येण परिभावित संशोधितेऽन्तः करणे परिस्फुटः परिस्फुरितो यः पारमहंस्यो धर्मो भगवद्भजनं तेन उद्घाटितं तमः अज्ञानरूपं कपाटं यस्य तस्मिन् द्वारभूते चित्ते अपावृते प्रकटे आत्मलोके ‘यद्गत्वा न निवर्त्तन्ते तद्धाम परमं मम’ इति वाक्यात् स्वधामनि अक्षरब्रह्मणि स्वयमुपलब्धस्य कृपयाऽऽविर्भूतस्य निजसुखस्यागणितानन्द- रूपस्यानुभवो यस्य तथाभूतो भगवान् । तथाच बहिर्मुखानामस्मादशानां त्वत्कृपां विना एवम्भूतस्य तव ज्ञानदर्शनपूजादिकं सर्व मशक्यमेवेति भावः । ननु तर्हि परमहंसवत् साधनानुष्ठानं कर्त्तव्यं तेन युष्माकमपि तथानुभवः स्यादित्याशङ्कय अन्तर्या- मिणस्तव प्रेरणा विना न कुत्रापि कस्यापि प्रवृत्तिरित्याशयेन सम्बोधयन्ति हे नारायणेति । नराणां समूहो नारस्तस्यायनं प्रवृत्तिर्यस्मात्स नारायण: । तत्र हेतुतया पुनः सम्बोधयन्ति - आदिपुरुषेति, आदिः सर्वकारणभूतः पुरुषः सर्वशरीरप्रविष्टश्चेति तथा । ननु सर्वशरीरप्रविष्टश्चेत्तदा जीववद्धर्मसम्बन्धेन विकारित्वं स्यादित्याशङ्कानिरासाय सम्बोधयन्ति - हें परममङ्गलेति, परमानन्दस्वरूपेत्यर्थः । ननु जीवस्यापि मदशत्वात् परमानन्दत्वं तुल्यमेवेत्याशङ्कानिरासाय पुनः सम्बोधयन्ति - महापुरुषेति, क्षराक्षरातीतत्वात् पुरुषोत्तमेत्यर्थः । तर्हि जीवस्य कथं मद्वैपरीत्यमित्याकाङ्क्षानिरासाय सम्बोधनान्तरमाहुः - महानुभावेति । महाननुभावः प्रभावश्चिच्छत्तिर्यस्य तथाच जीवस्याविद्यावृत स्वरूपत्वाद्वैपरीत्यमिति भावः । अत एव जीवेषु त्वमेवानुग्रहं करोषी- त्यभिप्रायेण सम्बोधयन्ति परम कल्याणेति । जीवानां परमकल्याणं यस्मात् सोऽप्यनुग्रहः । कृपावशतयैव मानपूजाद्यर्थ इत्या- शयेन सम्बोधनान्तरं परमकारुणिकेति । पूजाद्यपेक्षाभावे हेतुं सूचयन्तः पुनः सम्बोधयन्ति - लक्ष्मीनाथेति । एवं परिपूर्णस्य जनकृपायां किं कारणमित्यपेक्षापरिहाराय सम्बोधयन्ति — लोकैकनाथेति । अनन्तकोटिब्रह्माण्डनायकश्चेत् कृपां जनेषु न कुर्यात्तदा तेषां निर्वाह एव कथं स्यादिति भावः । ननु तथापि सामर्थ्यमपेक्षितमेव नहि कृपामात्रेण परकार्य सिद्धयतीति शङ्कानिरासाय सम्बोधयन्ति — सर्वेश्वर इति सर्वनियन्तृकालकर्मादेरपि नियन्तरीत्यर्थः । वासुदेवेति वसति जगतीति वासुः, दीव्यति क्रीडतीति देवः, स चेति स च स तत्सम्बोधनम् । नन्वेवमपि ममाधेयतया स्वाधारभूतजगदधीनता स्यादित्याशङ्का- निवृत्त्यर्थं सम्बोधनान्तरं— जगदाधारेति । ननु कथं जगति क्रीडन् स्वयमेव तदाधारः स्यात्तथात्वेऽपि ममाधारोऽन्य एव कञ्चित्स्यादिति शङ्कानिरासाय सम्बोधयन्ति — केवलेति । अद्वितीयत्वात् स्वयं निराधारः सर्वाधारः सर्वस्वरूपश्चेति भावः ॥ ३३ ॥ * * ननु केवलस्य निराधारस्य कथं सृष्टयादिकत्त त्वमित्यपेक्षायामाहुः दुखबोध इति । इवशब्दोऽ- वधारणे । यत्त्वमशरणो निराश्रय एव अशरीरः प्राकृतशरीररहितोऽपि अनपेक्षितोऽस्माकं समवायो मेलनं साहाय्यं येन स तथाभूतोऽपि अगुणः प्राकृतगुणरहितोऽपि सर्वोपादानत्वे ऽप्यविक्रियमाणेनैव आत्मनेद सगुणं विश्वं सृजसि पासि संहरसि च सोऽयं तव विहारयोगः क्रीडाप्रकारों दुरवबोध एवेत्यन्वयः ॥ ३४ ॥ भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी ‘यत्ते गतीनामिति । तिसृणां नरकस्वर्गापवर्गसंज्ञकानां गतीनां ईशितुस्तत्तदृधिकारिणे प्रदातुः, ते तव, यत् परमं प्रकृति- पुरुषविलक्षणत्वादुत्कृष्टं, पदं स्वरूपं विसर्गस्य अर्वाचीनः सृष्टेः पाश्चात्यः, कार्यभूतस्त्वत्सृष्टस्त्वदाहितं ज्ञानशक्तिरस्मादृशः पुमान्, है धातः, वेदितुं ज्ञातुं न अर्हति ॥ ३१ ॥ * मितवर्णेषु पद्येषु नैव मान्ति हरेर्गुणाः । अतुष्यन्तस्ततो गद्यैरे- । । । । कादशभिरस्तुवन् । भक्तयुद्रेकेण बहुधा संबोधयन्तो भगवतो दुर्ज्ञेयत्वं प्रपञ्चयन्ति । ॐ नम इति । ओमित्यसाधारणं भगवन्नाम ‘ॐ तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः’ इति भगवद्गीतेः । हे भगवन् षाड्गुण्यपूर्ण, नारं जीवसमूहस्तस्य अयनं प्राप्यः प्रापक आधारश्च तस्य संबोधनम् । हे वासुदेव सर्वान्तरात्मन्, हे आदिपुरुष, हे महापुरुष, हे महानुभाव महामहिमन्, परमं मङ्गलं शुद्धो धर्मो यस्मिंस्तत्संबोधनम् । हे परमकल्याण, हे परमकारुणिक, हे केवल स्वसमानोत्कृष्टरहित, हे जगदाधार इतरानपेक्षसकलजगदाश्रयभूत, हे लोकैकनाथ, हे सर्वेश्वर ब्रह्मादीनामपीश, हे लक्ष्मीनाथ श्रीपते, परमहंसाश्च ते परिव्राजकाच तैः, भागवतपरमहंसैः, परमेणोत्कृष्टेन, आत्मयोगसमाधिना परमात्मविषकध्यानयोगेन परिभाषितो ऽनुशीलितोऽत एव परि- स्फुट: प्रत्यक्षतापन्नो यः पारमहंस्यधर्मः, भगवद्भक्तियोगरूपो धर्मस्तेनोद्घाटितं निर्मूलितं तमः कपाटमनाद्यविद्यात्मक ज्ञानरूपं परमात्मदर्शनविरोधि यस्य तद्यत् द्वारं तस्मिन्, द्वाररूपे इत्यर्थः । आत्मलोके परमात्मदर्शनसाधने इत्यर्थः । चित्ते अपावृत आवरणरहितः, स्वयमेव उपलब्धं समभिव्यक्तं यन्निजसुखं निजानन्दस्तस्यानुभवोऽनुभवनं यस्य तथाविधः, भवान् भवतीति शेषः । यद्वा । स्वयमेव उपलब्ध उपलब्धि नीतो निजेभ्यः स्वभक्तजनेभ्यः सुखानुभवः स्वसाक्षाद्दर्शनजसुखानुभवो येन सः इत्थंभूतो भवान् भवतीत्यर्थः । ते तुभ्यं नमः, अस्तु ॥ ३२ ॥ १ ॥ अथ निरवधिकातिशयपरमकृपया स्वशरणा- | * ३०८ 1 श्रीमद्भागवतम् [ स्कं. ६ अ. ९ श्लो. ३१-३५ गतपरित्राणार्थ प्रादुर्भवन्तं भगवन्तं स्वसमानतया सर्वकर्माण्याचरन्तं संवीक्ष्य तत्र च दिव्यत्वादिव्यत्वे दृष्ट्रा संदिहानाः तत्रोहापोहमाचरन्तः स्तुवन्ति । दुरवबोधेति । हे हरे, अयं तव विहारयोगः क्रीडासंबन्धः, दुरवबोधः इव । इवशब्देन त्वदचिन्त्यशक्तितावेदिभिरप्यचिन्त्यतया सुबोधोऽपि तदन्यैर्युक्तत्येकवलैस्तार्किकैर्दुर्बोध एवेति सूचितम् । ननु कोऽसावेवंविधो मद्विहारयोग इत्यत्राहुः । त्वम् अगुणो मायिकगुणवर्जितः, अशरीरः प्रकृतिजन्यतत्त्वात्मकशरीरवर्जितः, अशरणो भूम्यादिप्राकृता- धारवर्जितः । अनपेक्षितो नापेक्षितः अस्मत्समवायोऽस्मत्साहाय्यं येन तथाभूतः सन् अधिक्रियमाणेन श्रमादिविकारवर्जितेन आत्मना एव, सगुणम् इदं विश्वं सृजसि, पासि, हरसि यत्, एष ते विहारयोगो दुरवबोध इत्यर्थः । कुलालादिः सगुणः सशरीरः धारादिशरणः शरीरचेष्टावान् दण्डचक्रादिसहायः सन् सगुणं घटादि सृजति, श्रमादिविकारं लभमानश्च दृश्यते, स्वयं भौतिकशरीरश्चाप्यस्ति, अतो यो यदात्मः स तदात्मिकान् भावान्निष्पादयतु नाम, भवांस्तु तद्विलक्षणोऽपि तल्लक्षणवत् विश्व- सर्गादि यद्विदधाति इदं त्वञ्चरितं दुराकल्पनीयमिति भावः ॥ ३३ ॥ २ ॥ * * दुर्ज्ञेयं श्रीहरेर्गुणान्तरं चाहुः । अथ २॥ ४ तत्रेति । अथ ननु, तत्रभवानिति पूज्यार्थे । हे भगवन्, भवान् देवदत्तवत् कर्मनिष्ठसंसारिजीववत्; इह लोके, गुणविसर्गपतितः कार्यरूपे प्रपञ्चे पतितः सन् पारतन्त्र्येण स्वकृतं स्वेनैव संपादितं यत् कुशलाकुशलं शुभाशुभं तस्य फलं उपाददाति स्वीकरोति भुङ्क्ते इति यावत् । किम् । आहोस्वित् किं वा आत्मारामः आत्मयाथात्म्यानुभवनिष्ठः, उपशमशीलः उपशमस्वभावः निवृत्तान्तर्बहिरिन्द्रियव्यापार इत्यर्थः । अत एव समञ्जसदर्शनः अबाधितवस्तुयाथात्म्यज्ञानशीलः, उदास्ते इतीत्थं ह वा व निश्चितमेव, न विदामः । न जानीम इत्यर्थः । तव कर्मनिष्ठचेतनतुल्यतां ज्ञाननिष्ठचेतनतुल्यतां च न विदाम इत्यर्थः ।। ३४ ।। " भाषानुवादः । देवताओंने कहा - भगवन् ! यज्ञमें स्वर्गादि देनेकी शक्ति तथा उनके फलकी सीमा निश्चित करनेवाले काल भी आप ही हैं । यज्ञमें विघ्न डालनेवाले दैत्योंको आप चक्रसे छिन्न-भिन्न कर डालते हैं । इसलिये आपके नामोंकी कोई सीमा नहीं हैं । हम आपको बार-बार नमस्कार करते हैं ॥ ३१ ॥ * विधातः सत्त्व, रज, तम—इन तीन गुणोंके अनुसार जो उत्तम, मध्यम और निकृष्ट गतियाँ प्राप्त होती हैं, उनके नियामक आप ही हैं। आपके परमपदका वास्तविक स्वरूप इस कार्यरूप जगत्का कोई आधुनिक प्राणी नहीं जान सकता || ३२ ॥ * * भगवन् ! नारायण ! वासुदेव ! आप आदिपुरुष ( जगत् के परम कारण ) और महापुरुष ( पुरुषोत्तम ) हैं । आपकी महिमा असीम है । आप परम मङ्गलमय, परम कल्याणस्वरूप और परम दयालु हैं। आप ही सारे जगत् के आधार एवं अद्वितीय हैं, केवल आप ही सारे जगत्के स्वामी हैं। आप सर्वेश्वर हैं तथा सौन्दर्य और मृदुलताकी अधिष्ठात्री देवी लक्ष्मीके परम पति हैं । प्रभो ! परमहंस परिव्राजक विरक्त महात्मा जब आत्मसंयमरूप परम समाधिसे भलीभाँति आपका चिन्तन करते हैं, तब उनके शुद्ध हृदयमें परमहंसोंके धर्म वास्तविक भगवद्भजनका उदय होता है। इससे उनके हृदयके अज्ञानरूप है। इससे उनके हृदयके अज्ञानरूप किवाड़ खुल जाते हैं और उनके आत्मलोकमें आप आत्मानन्दके रूपमें बिना किसी आवरण के प्रकट हो जाते हैं और वे आपका अनुभव करके होउ निहाल हो जाते हैं । हम आपको बार-बार नमस्कार करते हैं ।। ३३ ॥ * * भगवन्! आपकी लीलाका रहस्य जानना बड़ा ही कठिन है; क्योंकि आप बिना किसी आश्रय और प्राकृत शरीरके, हम लोगों के सहयोगकी अपेक्षा न करके, निर्गुण और निर्विकार होने पर भी स्वयं ही इस सगुण जगत् की सृष्टि, रक्षा और संहार करते हैं ।। ३४ ॥ अथ तत्र भवान् किं देवदत्तवदिह गुणविसर्गपतितः पारतन्त्र्येण स्वकृतकुशलाकुशलं फलमुपाददात्याहोखि- दात्माराम उपशमशीलः समञ्जसदर्शन उदास्त इति ह वाव न विदामः || ३५ ।। न हि विरोध उभयं भगवत्य- परिगणित गुणगणे ईश्वरेऽनवगाद्यमाहात्म्येऽर्वाचीनविकल्प वितर्कविचारप्रमाणाभास कुतर्कशास्त्रकलिलान्तःकरणाश्रयदुख- ग्रहवादिनां विवादानवसर उपरतसमस्तमायामये केवल एवात्ममायामन्तर्धाय को न्वथों दुर्घट इव भवति स्वरूपद्वया- भावात् ।। ३६ ।। समविषममतीनां मतमनुसरसि यथा रज्जुखण्डः सर्वादिधियाम् ॥ ३७ ॥ स एव हि पुनः सर्व- वस्तुनि वस्तुस्वरूपः सर्वेश्वरः सकलजगत्कारणकारणभूतः सर्वप्रत्यगात्मत्वात् सर्वगुणाभासोपलक्षित एक एव पर्यवशेषितः ॥ ३८ ॥क. ६ अ. ९ . ३५-३८] अनेकव्याख्यासमलङ्कृतम् कृष्णप्रिया व्याख्या ३०९ अन्वयः—अथ भवान् देवदत्तवत् इह गुणविसर्गपतितः तत्र पारतन्त्र्येण स्वकृतकुशलाकुशलं फलम् उपाददाति किं आहोस्वित् आत्मारामः उपशमशीलः समंजसदर्शन उदास्ते इति ह वाव न विदामः ।। ३५ ।। * * भगवति उपरिमित- गुणगणे अनवगाह्यमाहात्म्ये अर्वाचीन विकल्पवितर्कविचारप्रमाणाभासकुतर्कशास्त्रकलिला न्तःकरणाश्रयदुवमवादिनां विवा दानवसरे उपरत समस्तमायामये केवले ईश्वरे उभयं विरोधः नहि एवं स्वरूपद्वयाभावात् आत्ममायाम् अन्तर्धाय कः नु अर्थ: दुर्घटः इव भवति ॥ ३६ ॥ * * यथा रज्जुखंडः सर्पादिधियां मतम् अनुसरति तथा समविषममतीनां मतम् अनुसरसि ।। ३७ ।। * * * सः एव हि पुनः सर्ववस्तुनि वस्तुस्वरूपः सर्वेश्वरः सकलजगत्कारणकारणभूतः सर्वगुणाभासो- पक्षितः एकः एव पर्यवशेषितः ॥ ३८ ॥ अ ६ || श्रीधरस्वामिविरचिता भावार्थदीपिका
… दुर्ज्ञेयांतरमाहुः अथ तत्रेति । यथेह देवदत्तो गृहादि निर्माय तत्र स्वकृत शुभाशुभयोः फलमुपादत्ते एवं भवान् ब्रह्मस्वरूप जीवरूपेण गुणविसर्गे पतितः सन्नुपाददाति । यद्वा समंजसमप्रच्युतं दर्शनं चिच्छक्तिर्यस्य स भवानुदास्ते उदासीनः साक्षितया वर्तत इति न विदामः ॥ ३५ ॥ * * तदेवं विरोधेन दुर्ज्ञेयत्वमुक्त्वा तत्परिहारेण ज्ञानप्रकारमाहुः । न हीति । विरुध्यत इति विरोधः । उभयं न विरुद्धमित्यर्थः । न ह्यन्यदृष्टान्तेन त्वयि विकल्पो युज्यते ऽतयैश्वर्यत्वादित्याहुः । भगवतीति । अपरिमिता गुणगणा यस्य तस्मिन्नीश्वरे स्वतंत्रेऽनवगाह्यमतक्यं माहात्म्यं यस्य तस्मिन् । विकल्प एवं वा एवं वेति वितर्कः क्रिमत्र युक्तमिति विचार इत्थमेवेति निश्चयः । तत्र प्रमाणाभासास्तदनुग्राहकाः कुतर्काचार्वाचीना वस्तुस्वरूपा- संस्पर्शिनो ये विकल्पादयस्ते येषु शास्त्रेषु तैः कलिलं व्याकुलमंतःकरणमाश्रयो यस्य दुरवग्रहस्य दुराग्रहस्य तेन वादिनां विवाद- स्थानवसरेऽगोचरे । ननु श्रद्धामात्रमेतत् युक्तिरुच्यतां तत्राहुः । उपरतो मायामयः संसारो यस्मिंस्तस्मिन्केवलेऽप्यात्ममायां मध्ये निधाय को न्वर्थः कर्तृत्वादिर्न संभवति यदि वस्तुतः कर्तृत्वादि भवेत्तर्हि विरोधः स्यान्न तु तदस्तीत्याहुः । स्वरूपद्रयाभा- वादिति । वस्तुतो द्वैताभावान्न विरोध इत्यर्थः ॥ ३६ ॥ * * अनुग्रहनिग्रहादिकं तु तत्तन्मतिभेदेन त्वन्मायया त्वयि स्फुरतीत्याहुः । समा विषमा च मतिर्येषां तेषां मतमभिप्रायम् । सर्पादिविषया धीर्थेषां तेषां यथा रज्जुखंडस्तथातथा भाति । यद्वा तमेवाविरोधं पुरुषमतिभेदेन दर्शयति । समविषमेति ॥ ३७ ॥ * * तदेवं विरोधं परिहृत्य निश्चितं परमार्थमाहुः । स एव हि नानारूपेण प्रतीतः । वस्तुस्वरूपः सद्रूपः । सर्वेषां गुणानां विषयाणामाभासैः प्रकाशैरुपलक्षितः । ननु तैर्जीव एवोप- लक्ष्यते । न सर्वप्रत्यगात्मत्वात्सर्वजीवांतर्यामित्वात् । जडतादात्म्याभ्यासेन जीवस्यापि जडप्रायत्वान्न तेन बिना प्रकाश इति भावः पर्यवशेषितो “नेति नेति” इत्यादिश्रुतिभिः ॥ ३८ ॥ 1 वंशीधरकृतो भावार्थदीपिकाप्रकाशः प्र । शिष्टानां पालनं हि दुष्टानां संहारं विना न भवतीत्यंतर्भूतसंहारस्य पालयनस्यापि दुर्ज्ञेयत्वमाहुः - अथेति । देवदत्तः प्राकृतजीवो यथा गृहादिकं तत्र मित्रशत्रूदासीनादिगहने संसारे प्रविश्य स्वकृतधर्माधर्मफलं सुखदुःखं भुंक्ते तथैव तत्र भवानि - त्यादरे । त्वमपि गुणेभ्यः सत्त्वरजस्तमोभ्यो विविधः सर्गो येषां तेषु गुणविसर्गेषु देवासुरराक्षसेषु परस्परविघातिषु मध्ये पतितः उपेंद्रकृष्णरामाद्यवतारेषु शिष्टपालनदुष्टनिग्रहयोः प्रवृत्तः भौगैश्वर्यमुखं संग्रामादिश्रमदुःखं च यत्प्राप्नोषि तत्किं पारतंत्र्येण कर्माधीनत्वेन स्वकृतयोः पुण्यपापयोः कुशलाकुशलं सुखदुःखमुपाददाति स्वीकरोति आहोस्वित्किं वासमंजस दर्शनोऽप्रच्युत- चिच्छक्तिक उदास्ते साक्षित्वान्न सुखदुःखं स्वीकरोतीति न विदामस्तत्त्वं न विद्मः । स्वामिव्याख्याने आहोस्विदित्यस्य यद्वेत्यर्थः ॥ ३५ ॥ * * वादागोचरत्वमाक्षिपति - नन्विति । एतद्विवादानवसरत्वं भवतां श्रद्धामात्रं तथात्वे युक्तिरु- च्यतामिति स्वरूपद्रयाभावादिति । एकस्यैव भगवतस्तव निर्विशेषज्ञानगम्यत्वमेव ब्रह्मत्वम् । अलौकिक विशेषज्ञानगम्यत्वमेव भगवत्त्वमिति दूरवर्त्तिभिर्ज्ञानिभिरलौकिक विशेषग्रहणासमर्थैस्त्वमेव ब्रह्मसमीपवर्त्तिभिर्भक्तैरलौकिक विशेषग्रहणसमर्थैर्भगवानिति त्वमेवोच्यसे इत्यर्थः । तव कृपायाः परमाणुत्वपरममहत्त्वे एव दूरत्वसमीपत्वयोर्हेतू ज्ञेये इति विश्वनाथः । संदर्भस्तु – स्वरूप- - दयाभावात संसारिजीववद्बद्धत्वमुक्तत्वावस्थाविशेषाभावात । बद्धत्वे हि मुक्तत्वं तथा दिव्यातिदिव्यतत्तदवतारादिलक्षणको- -ऽप्यर्थो न दुर्घटो भवति यतः आत्ममायां निजेच्छाशक्तिमंतर्द्धाय मध्ये निधाय तत्र तत्र सहायत्वेन संपाद्य तिष्ठति सतीत्यर्थः । उभयत्र हेतवो भगवतीत्यादय इत्याह ॥ ३६ ॥ * * ननु स्वरूपद्वयाभावेन साम्यं चेत्तहि भक्तानुग्रहाभक्तनिग्रहौ कथं ३१० श्रीमद्भागवतम् स्क. ६ अ. ९ श्लो. ३५-३८ घटेतां तत्राह - अनुग्रहेति । पुरुषमतिभेदेनैव समेऽपि स्वयि तथातथा प्रतीयते न वस्तुत इत्यत्र दृष्टांतमाह — यथेति । यथैक- स्मिन्नैव रज्जुखंडे कस्यचिन्मंदांधकारे सर्पोऽयमपरस्य जलरेखेयं तदन्यस्य स्फुटितपृथ्वीयमित्यादिस्फुरणं भवति तद्वत्त्यय्यपि तत्तन्मत्यनुरोधेन तथा तथा स्फुरणमिति भावः । ननु विरोधाभावप्रतिपादनप्रकरणे ऽनुग्रहनिग्रहादिप्रतिपादनं प्रकृतानुपयुक्तमिति चेत्तत्राह - यद्वेति ॥ २७ ॥ * * स परमात्मैव हि उपलक्षितोऽनुमितः तदुक्तम् “गुणप्रकाशैरनुमीयते भवान्" इति । अत्राक्षिपति नन्विति । जडे शरीरेंद्रियादौ तादात्म्यस्य स्वरूपस्याभ्यासादारोपात् । तेन परमात्मना । इति भाव इति । “अजोऽनुबद्धः सगुणैरजाया गुणात्परं वेद न ते स्वरूपम्” इति न्यायेन जीवस्यापि जडत्वं निश्चीयत इति तात्पर्यम् । मायामा- यिकवस्तुमात्रनिषेधेन पर्यवशेषितः । अत्र भागवतामृतदृष्टाः “विना शारीरचेष्टत्वं विना भूम्यादिसंश्रयम् । विना सहायांस्ते कर्माविक्रियस्य सुदुर्गमम् ।” इत्याद्याः कारिका अनुसंधैयाः ॥ ३८ ॥ ॥ । यहाँ । JNTE अन्वितार्थप्रकाशिका । अथेति । अर्थान्तरे संशयान्तरमप्यस्तीत्यर्थः । देवदत्तो यथेह गृहादि निर्माय तत्र स्वकृतशुभाशुभयोः फलमुपादते तथा भवान् ब्रह्मस्वरूपो जीवरूपॆण संसारे गुणविसर्गपतितः गुणकार्ये शरीर प्रविष्टः पारतन्त्र्येण कालकर्मस्वभावाद्यधीनतया स्वकृतयोः शुभाशुभयोः कुशलाकुशलं सुखदुःखात्मकं फलमुपाददाति भुङ्क्ते । तभाष आर्ष: । यद्वा । भवानपि तंत्र गुण- । । विसर्गे पतितोऽन्तर्यामितया प्रविष्टः । या । रामकृष्णाद्यवतारेषु सुखदुःखाद्यनुभवात्तत्तद्र पेण स्थितः पारतन्त्र्येण कुशला- कुशलं फलमुपाददाति । तङभाव आर्षः । आहोखित् अथ वा आत्मारामः उपशमशील : समञ्जसमप्रच्युतं दर्शनं चिच्छक्तिर्यस्य तादृशो भवान् उदास्त उदासीनतया साक्षितया वर्त्तत इति ह वाव न विदाम इत्यपि नैव विद्मः ।। ३५ ।। * एवं विरोधेन दुर्ज्ञेयत्वमुक्त्वा तत्परिहारेण ज्ञानप्रकारमाह-न हीति । भगवति अपरिगणितगुणगणे ईश्वरे अनवगाह्यं ज्ञातुमशक्यं माहात्म्यं यस्य तत्र अर्वाचीना नव्यकल्पिताः वस्तुस्वरूपाः संस्पर्शिनी विकल्पवित्तर्कविचारप्रमाणाभासकुतर्का येषु तैः शास्त्रैः कलिलं व्याकुलं दूषितमन्तःकरणमाश्रयो यस्य दुरवग्रहस्य तेनैव वादिनां विवादस्यानवसरे अविषये तंत्र विकल्प एवं वा एवं वैत्याकारः वितर्कः किमत्र युक्तमित्यनिश्चयः विचार इत्थमेवेति निश्चयः । तत्र प्रमाणाभासास्तदनुग्राहकाः कुतर्काच उपरतो निरस्तः समस्तः मायामयः संसारो यस्मिन् केवलेऽद्वितीयेऽपि त्वयि विरुध्यत इति विरोध: कर्तृत्वाकर्तृत्वं सुखित्व- दुःखित्वादिकं चोभयं त्वयि न विरुद्धमित्यर्थः । न धन्यदृष्टान्तेन त्वयि विकल्पो युज्यते अप्रतक्यैश्वर्यात्। आत्ममायामघटित- घटनाकारिणीमन्तर्द्धाय मध्ये निधाय कोऽन्वर्थः कर्तृत्वादिदुर्घटः असङ्गत इव भवतीति यदि वस्तुतः कर्तृत्वादि भवेदपि न तु तदस्तीत्याहुः स्वरूपद्वयस्य अभावात् ॥ ३६ ॥ समेति । सममतीनां यथार्थबुद्धीनां विषममतीनां भ्रान्तबुद्धीनां च मतमभिप्रायमनुसरसि । तत्र दृष्टान्तमाहुः । यथेति । यथा रज्जुखण्ड: यथार्थबुद्धीनां रज्जुरूपेण भासमानोऽपि सर्पादिविषया । । । धीर्येषां भयंकरादिरूपेण प्रतिभाति तथा यथार्थबुद्धीनां त्वं सच्चिदानन्दपूर्णगुणस्वरूपेण भासमानोऽपि भ्रान्तानां दुःखित्वपक्ष- पातित्वादिरूपेण भासि ।। ३७ ॥ * * स इति । पुनर्विचारे कृते स एव भगवानेव सर्ववस्तुनि सर्वप्रपञ्चवस्तुस्वरूपः परमार्थभूतः सर्वेश्वरः सकलजगतो या कारणानि मदीना कारणभूतः सर्वेषां जीवानां प्रत्यगात्मत्वादन्तर्या- तेषामपि मित्वादित्यर्थः । सर्वेषां गुणानां गुणकार्यत्वेन जडानां बुद्धीन्द्रियादीनामाभासैः प्रकाशैरुपलक्षितः अन्यथा जडतादात्म्याभ्यासे जीवस्यापि जडप्रायत्वात्त्वां विना जीवस्यापि न प्रकाश इति । अतः सर्वलयाधिष्ठानतया नेति नेति इत्यादिश्रुतिभिः एको भवानेव पर्यवशेषित इति ॥ ३८ ॥ ॥
वीरराघवव्याख्या ननु सत्यमीश्वरः सृष्टचादिकर्तेत्युक्तं स किं कर्मनिष्टचेतनो यथा कुशलाकुशलमिश्रकर्माणि कृत्वा तत्फलानि सुखदुःख- मोहात्मकानि भुङ्क्ते तथा सृष्टयादिकर्माणि गुणत्रयप्रयुक्तानि कृत्वा तत्फलानि भुङ । किं वा ज्ञाननिष्ठचेतनदासीन एवास्ते । नाद्यः भोक्तृत्वेन संसारित्वापातात् । न द्वितीयः उदासीनस्य कर्तृत्वानुपपत्तेः । अथोदासीनत्वं कर्तृत्वं चोच्यत इति चेन्न । परस्परविरुद्धत्वादनयोरित्याशङ्कते —— अथेत्यादिना उदास्त इत्यन्तेन गद्येन । अथ ननु तत्र जगत्सृष्टचादि- कर्तृत्वे सति हे भगवन् ! किंशब्द आक्षेपद्योतकः । आहोस्विच्छन्दश्च । प्रश्नस्वरूपपरमपि वाक्यद्वयमाक्षेपगर्भम् । किं भवान देव- दत्तवत् कर्मनिष्ठसंसारिजीववदिह गुणविसमें त्रिगुणकार्यरूपे प्रपने पतितः स्वातन्त्र्येण कर्तृत्वेन हेतुना स्वेन कृतानि कुशला- कुशलानि सात्त्विकराजसादीनि कर्माणि तेषां फलमुपाददाति स्वीकरोति मुक्त इति यावत् । आहोस्वित्कि वा आत्माराम इवात्मयाथात्म्यानुभवनिष्ठ इव उपशमस्वभावः निवृत्तान्तर्ब्राह्मेन्द्रियव्यापारः । अत एव समञ्जसदर्शनः अबाधिततत्तद्वस्तुयाथा- स्कं. ६ अ. ९ लो. ३५-३८] । अनेकव्याख्या समलङ्कृतम् ३११ त्यज्ञान उदास्त इति परिहारं प्रतिजानीते । इतीति । इतीत्थमिह त्वयीश्वरे न विदामः न जानीमः कर्मनिष्ठचेतनतुल्यतां ज्ञान- निष्ठचेतनतुल्यतां च न विदाम इत्यर्थः । किन्तूदासितृत्वं कर्तृत्वञ्चोभयमपि त्वयि विदाम इति भावः ।। ३५ ॥ * * ननु परस्परविरुद्धमुभयमेकस्मिन् कथमुपपद्यते इत्यत्राहुः । न हि विरोध इति । न विरोधः अपि तूभयं भवति सम्भवति । कर्मभावनया ब्रह्मभावनया चान्वितानां सर्वेषां चेतनानामन्तरात्मभूते तद्विलक्षणे विविधविचित्रशक्तिमति त्वयि सर्वम- विरुद्धमित्यभिप्रायः । अविरोधापादकगुणजातेन तं विशिषन्तो वादिविप्रतिपत्त्यविषयताञ्च वदन्तोऽविरोधमुपपादयन्ति भगवतीत्यादिना । भगवतीत्यादिभिः सप्तम्यन्तैः पदैः कर्मब्रह्मोभयभावनान्वितचेतनेभ्यो वैलक्षण्यमुच्यते भगवति पूर्ण षाड्गुण्येऽ- परिगणिता असङ्ख्याता गुणानां कल्याणगुणानां गुणा यस्य ईश्वरे भावनाद्वयान्वितचेतनानामन्तरात्मन्यनवगाह्यं कर्मादि- भावनान्वितचेतन सजातीयत्वेन दुर्बोधं माहात्म्यं यस्य अर्वाचीना इदानीन्तनाः विकल्पः संशयः तन्मूलको वितर्कः एवं बा एवं वेति वितर्कः तत्र यो विचारः किं युक्तमिति विचारः तदन्यतरपक्षसाधकाः ये प्रमाणाभासाः प्रमाणवदाभासमानाः तन्मूलकं यद्वाधिततर्कात्मकं शास्त्रं तदभ्यासेन कलिलं दूषितमन्तःकरणं तेनाधिकरोतीत्यधिकरणः नन्द्यादित्वात्कर्त्तरि ल्युः प्रारंभ- माण: उत्पन्न इति यावत् । स दुरवग्रहो दुराग्रहो येषां तेषां वादिनां विवादानवसरे विवादाविषयभूते उपरताः निरस्तां समस्ता मायामयाः प्राकृतदोषा यस्मिन् । प्रलयदशायामुपसंहत कार्यवर्गेऽत एव केवले एकरूपे मायां प्रति स्वयमन्तर्द्धाय तिरोभूय स्थिते को न्वर्थो दुर्घट इव भवति कर्तुत्वकारयितृत्वसाक्षित्वानुमन्तृत्व फलित्व फलप्रदत्वोदासि तत्वादिरूपः कोऽप्यर्थो न दुर्घट इत्यर्थः । कुतः ? स्वरूपद्रयाभावात् । स्वरूपे द्वयस्य विरुद्धाकारद्वयस्याभावात् कर्तुत्वोदासितृत्वयोः परमात्मस्वरूपे विरोधा- भावादित्यर्थः । अयं भावः । तावज्जगत्सृष्टयादिव्यापारेषु स्वातन्त्र्यरूपं कर्तृत्वं प्रयोज्यकत्तु जीवस्य कारयितृत्वात्प्रेरकत्वरूपं प्रयोजक कर्तृत्वं चेश्वरस्योपपन्नम्। न च कर्तृत्वसमनियतभोक्तृत्वापत्तिः साहशकर्तृत्वस्य कर्मायत्तत्त्वात्प्रशासित्रन्तराभावाश्च सर्वस्य शासितुरीश्वरस्येश्वरान्तराभावेनानिष्टकत्तुरभावान्न च स्वानिष्टापादकं कर्म स्वयमेव करोतीति वक्तुं युक्तमुद्भान्तत्वा- पातात्तथा लोके यथा सर्वाङ्कुराणां साधारणकारणं सलिलं विशेषकारणं बीजं दृष्टमेवं सर्वेष्वपि कार्येषु समानत्वादुदासीनः । ननू- द्वासितृत्वं नाम न साधारणकारणत्वमपि तु कर्तृत्वाकर्तृत्वोभयपरिहारेण अवस्थातृत्वमिति चेन्न; जगद्विषयको दासितृत्वान- भ्युपगमात् । तत्र कर्तृत्वनेव हि साक्षादभ्युपगतमस्माभिः । तर्हि यद्विषयकमुदासितृत्वमीश्वरेऽभ्युपगतमिति चेदुच्यते साक्षा- त्सुखदुःखादिसाधनभूतपुण्यापुण्यकर्मस्वकर्तृत्वेन तत्कर्त्तृत्वपरिहारात् तेष्वेव कर्मसु प्राचीनवासनानुसारेण जीवप्रेरकत्वेनाकर्तृत्व- परिहाराच तद्विषयकमुदासितृत्वमिति । एवं सर्वावस्थायां सर्वस्य दृष्टत्वात्साक्षी कर्मसु प्रवृत्तस्य जीवस्योत्तरोत्तरं प्रवर्त्तकत्वा- दनुमन्ता सर्वस्वामित्वेन समाश्रितसंरक्षणरूपफल स्यापि स्वफलत्वात्फली फलमंत उपपत्तेः ३,२,२९, इति न्यायेन फलप्रद इति । जीवस्तु कुशकर्मादिदेयाकारत्वात्कर्मवश्यत्वान्मायामोहितत्वादविद्यया तिरोहितस्वभावत्वाच्च कुशला कुशलफलमुपादत्त इति ।। ३६ ।। 8 8 ननु विवादानवसरश्वेदहमीश्वरः तर्हि कथं विवादानामुदयस्तत्राहुः समेति । समा विषमा च मतिर्येषां तेषां मतमभिप्रायमनुसरसि वादिविप्रतिपत्तीरप्रतिषिध्य तूष्णीं भवसीत्यर्थः । अप्रतिषेधे दृष्टान्तमाहुः । यथेति । यथा सर्पादिधियां सर्पादिभ्रान्तिमतां मतं खजुखण्डोऽनुसरति न प्रतिषेधते एवं त्वं चापि नानाविधवादिविप्रतिसाक्षी तूष्णीमास्से इत्यर्थः ॥ ३७ ॥ * * एवं जगत्स्रष्टृत्वरूपनिमित्तकारणत्वे जीववत्संसारित्वादिशङ्का परिहृता अथोपादानकारणत्वे ।। ।। स्वरूपे विकाराश्रयत्वशङ्कां परिजहुः । स एवेति । योऽयं निमित्तकारणभूतः स एव त्वं सकलजगदुपादानकारणभूतोऽपि सर्ववस्तुषु देवादिपदार्थेषु स्थितोऽपि वस्तुस्वरूपः । निर्विकारस्वरूपः । यथोक्तम् " यत्तु कालान्तरेणापि नान्यसंज्ञामुपैति वै । परिणामादिसम्भूतां वद्वस्तु नृप । तच किम्" इति । कुतः ? सर्व प्रत्यगात्मत्वात्सर्वे प्रत्यगात्मानः शरीरं यस्य तस्य भावस्तत्त्वं तस्मादचेतनविशिष्टसर्व जीवशरीरकत्वाच्छरीरभूतचिदचिद्गतत्वाद्विकाराणां न स्वरूपे प्रसङ्ग इति भावः । अत एव सर्वगुणाभासः सर्वैश्विदचित्कालादिभिरपृथक्सिद्धविशेषणैरवभासत इति सर्वगुणावभासाः साक्षादवस्थाश्रयचेतनाचेतनविशिष्टत्येनोपलक्षित इति भावः । समस्तपाठे गुणैः सत्त्वादिभिरवभासन्त इति गुणावभासाः गुणकार्य देहेन्द्रियादयः तैरुपलक्षितः तद्विशिष्टत्वेनोप- लक्षितः इत्यर्थः । अतस्त्वमेक एव पर्यवशेषितः एक एवं समाभ्यधिकरहितः पर्यवशेषितः एवंविधो नान्य इति निर्णीत इति भावः ॥ ३८ ॥ विजयध्वजतीर्थकृता पदरत्नावली । । । भगवत्स्वरूपनिर्धारणार्थ पूर्वपक्षयन्ति । अथेति । सृष्टयादिकर्मणि प्रवर्तमानो भगवान् अथेह गुणविसर्गापतितः संसारान्तः पाती देवदत्तवत्परवशतया स्वकृतपुण्यापुण्यफलमुपादत्ते किमथवोदास्ते नोपादन्ते किम् । कुतः । आत्मारामः स्वम- हिम्नि स्थितः उपशमशील: पूर्णानन्दानुभवः समञ्जसदर्शनः शुद्धज्ञानः एते प्रत्येकं तवोऽनुपादाने भवन्तीति न विदामो ह वाव ३१२ श्रीमद्भागवतम् । । ." । [ स्कं. ६ अ. ९ श्लो. ३५-३८ न बुध्यामहे ह वावेत्येताभ्यामज्ञानिन एवं वदन्तीति सूचयन्ति न ज्ञानिन इति । कस्मिन् सति किं स्यादिति तत्राहुः । न हीति । कुशलाकुशलस्योपादानमनुपादानं चेत्युभयमितरत्र विरुद्धमत्र न हि विरोधः । कथं तत्राहुः । भगवतीति । भगवति को नु दुर्घट इव भवति सर्वः सुघट एवेत्यन्वयः । सौघत्र्यं बहुभिर्विशेषणैरुपपादयन्ति । अपरिगणितेति । न परिगणिताः गुणानां गणा यस्य स तथा तस्मिन् कुत इत्यत्राहुः । ईश्वर इति । अवटितघटकत्वशक्तिमत्त्वायुक्तमित्यर्थः । इतोऽपि गुणानाम् अगणितत्वं युक्तमित्याहुः । अनवगाह्येति । अपरिच्छेद्यमहिमत्वात् अयमीशः स्वस्वेतरवृत्तित्वानाक्रान्तपरिच्छिन्ननिष्ठा- धिकरणं मेयत्वाद् घटवदित्यादिमहाविद्यालक्षणवितर्केण देवदत्तवदयं कुशलाकुशलभोक्ता न वेति विकल्पेन । अत्र कर्मणः पुरुषा- र्थहेतुत्वसमर्थनादस्ति शास्त्रादिसङ्गतिरित्यादिलक्षणमीमांसया मयास्मिन् गुल्मे व्याघ्रोऽदर्शीत्यादिविद्यमानेन प्रमाणवदवभा- समानेन यदीशो दुर्गमशरीरे स्थितस्तर्हि देवदत्तवत्तद्गतदुःखभोगः प्रसज्येत इत्यादिकुतर्केण चावगाह्यमाहात्म्यत्वादिति तत्राहुः । अर्वाचीनेति । अर्वाचीना व्याप्यादिरहिताः विकल्पादयो येषु तानि तथोक्तानि तैः शास्त्रैः वैशेषिकादिभिः कलिलेन व्याकुलितेनान्तःकरणेन मनसा दुरवग्रहो येषां ते तथा ते च वादिनस्तेषां विवादानवसरे विप्रतिपत्त्यगोचरे इतोऽपि विवादाविषय इत्याहु: । उपरतसमस्तेति । केवलस्वात्ममायाम् अद्वन्द्वरूप सामर्थ्यमन्तर्धायावष्टभ्योपरत समस्तमायामये प्राकृतस्वभाववर्जिते एवंविधेऽपि पुण्यापुण्यभोक्तृत्वं वयं न विद्महे । ये वदन्ति ते मूढाः असुरप्रकृतय इत्यभिप्रेत्य स्वयमेव समा- दधते । स्वरूपेति । “एकमेवाद्वितीयं निरनिष्ठो निरवद्यः" इत्यादिश्रुतेः । सुखी दुःखीत्यादिस्वरूप द्वयानुपपत्तेः न चायं संशयः सुराणां स्वतन्त्रः परतन्त्रो वाज्ञो ज्ञो दुःखी सुखी तु किम् इत्यादिसंशयः क स्याज्ज्ञानिनां पुरुषोत्तम इति विरोधात्तर्हि ज्ञानिनः कथं वदन्ति चेदुच्यते । अनन्तगुणत्वात्पूर्णशक्तित्वाच्च स्वातन्त्र्यादिकमेव जानन्ति । तदुक्तम् । “तस्यानन्तगुणत्वाच पूर्णशक्ति- त्वतो हरेः । स्वातन्त्र्यादिकमेवास्य विदो जानन्ति निश्चयात् ।” इति निरवयवस्य जीवस्य पुण्यापुण्यभोक्तृत्वं युज्यते । “घटक- त्वाद् दुर्घटस्य दुर्ज्ञेयत्वाच्च सर्वशः । तच्छक्तरविदां जीयं परतन्त्रं वदन्त्यमुम् । एवं दुर्घटया शक्तया ज्ञोऽज्ञानां परमेश्वरः ।” इति वचनात् । यद्वा । पारतन्त्र्येण कुशलाकुशलादिकमनुभवति किम् उत स्वातन्त्र्येणोदास्त इति संशयं न विदामः किं त्वनन्त- शक्तेरनन्तगुणय हरेः पारतन्त्र्यादिकं कुतो घटत इति निश्चिनुमः अस्मिन्नर्थे च स्वतन्त्रः परतन्त्रो वाज्ञो ज्ञो दुःखी सुखी तु किम् इत्यादिमानमनुसन्धेयमितोऽपि न घटत इत्याहुः । न हीतिः । विरोधो हि यस्मात्तस्मादुभयमेकस्य न युक्तमित्यर्थः । ननु निर्गुणस्य हरेः गुणित्वम् अकिञ्चनस्येशितृत्वं स्वव्यतिरिक्तरहितस्य माहात्म्यम् अवाङ्मनसगोचरस्य विचारविषयित्वम् अकर्तुः कर्तृत्वमित्यादिसर्व दुर्घटमिति तत्राहुः । भगवतीति । तर्हि उपाधिभेदाद्दौर्घटयपरिहारोऽस्त्विति तत्राहुः । स्वरूपेति । ननु “मम निशितशरैर्विभिद्यमानत्वचि विलसत्कवचेऽस्तु कृष्ण आत्मा” इत्यादि कथं सङ्गच्छते इति चेत्तत्राहुः । समेति । सममतीनामनन्तं सच्चिदानन्दलक्षणं ब्रह्मेति यथार्थबुद्धधानुसरसि तथात्वेन प्रकाशस इत्यर्थः । विषममतीनामसुरप्रकृतीनां मतमभूतिरित्यसुरा इति मिथ्याबुद्धया दुःखी छिन्नो विद्ध इत्याद्याकारेण दृश्यस इत्यर्थः । अत्र दृष्टान्तमाहुः । यथेति । यथा रज्जुखण्ड: सर्पोऽयमिति मन्दान्धकारे मन्दितेन्द्रियस्य ज्ञानं स एव पुनरालोकादिना लोकिते स्थळे निर्दुष्टेन्द्रियस्य रज्जुखण्ड एष इति तदुक्तम् । “यथा रज्जुः सर्पधिया रज्जुबुद्ध यावगम्यते । तथा यथार्थबुद्धया वा मिथ्याबुद्धयावगम्यते । स्वेच्छयैव महाविष्णुः फलदञ्चानुसारतः ।” इति तथा स एव पुनर्भगवान् सर्ववस्तुषु वस्तुस्वरूपोऽप्रतिहत स्वरूपः “वासनाद्वासयेद्वस्तु नित्याप्रतिहतत्वतः” इत्यादेः तादात्म्यं किं न स्यादत्राहुः । सर्वेश्वर इति । प्रत्यागात्मत्वेन सर्वेश्वरत्वं हरेरेवेत्याहुः । सकलेति । ननु कुलालादिवद्ब्रह्म- कारणत्वमस्तु नान्तः परिच्छिन्नत्वापत्तेः । तथा च सबलकारणकारणत्वमयुक्तमंत्राहुः सर्व प्रत्यगिति । सर्वेषामपि प्रत्यगात्मत्वेना- न्तर्यामित्वेन तत्तद्वस्तुतत्तचेष्टादिकारणत्वेन अपरिच्छिन्नस्यापि आकाशवदुपपत्तेः तदन्तःस्थस्य तत्तद्दृष्टप्राप्यदौर्भाग्यप्राप्तिः- स्यादत्राहुः । सर्वेति । सर्वगुणानामाभासेन सम्यक्प्रकाशेनोपलक्षितो ज्ञानिभिः सम्यग्दृष्ट इतरैरनुमीयत इत्यर्थः । न च स्थान- भेदात्तस्य भेद इत्याहु: एक इति । “स वा एष आत्मा नेति नेति” इत्यादिपरिशेषलक्षणप्रमाणात् एक एवेति निश्चित इत्यर्थः । महतामनुभवापरपर्याय साक्षिप्रत्यक्ष हरेरेकत्वे निर्दोषत्वे संसारनिवर्तकमहामहिमत्वे प्रमाणमाहुः । अथेति । विप्लुषा बिन्दुना असकृल्लीढया निरन्तरसेवितया नितरां स्यन्दमानेन निरवरतेन निरन्तरेण स्वरूपसुखेन हे मधुमथन ! यस्मात्त्वं सर्वोत्तमः शर्व- गुणपूर्णः सर्वात्मना निर्दोषः सर्वान्तर्यामी अथ तस्मादेकान्तिनो हरावर्पितशरीरेन्द्रियप्राणसर्वस्वा भागवताः ये एते कथं त्वच्च- रणाम्बुजसेवां विसृजन्ति एवेत्यन्वयः । ह वाव इत्येतैर्निपातै: “परमः परार्ध्यः” इति श्रुतेः महिम्नः परमपरार्ध्यत्वं सूच्यते सर्व- भूतप्रियाः संन्यासिनोऽजातशत्रवस्तेषां सुहृत् सर्वभूतानां परेणाभीष्टकर्तृत्वात प्रियश्व सुहृच्च परेयं प्रियनामेति वचनात् निरन्तरं सन्तुष्टमनसः अविसर्जने कारणमाहुः | स्वार्थेति । यत्र त्वच्चरणाब्जसेवायां परिवर्तः परिभ्रमणं स्वाभिप्रायं विज्ञापयितुमुपोद्धात- माहुः । त्रिभुवनेति । त्रिभुवनमेवात्मभवनं यस्य स तथा त्रिभुवनस्य य उपद्रवः सोऽवश्यं परिहर्तव्य इति द्योतनायेदं विशेषण- मिति ज्ञातव्यम् । एवमेवोत्तरविशेषणानि अभिप्रायगर्भाणि त्रीणि नयनानि यस्य स तथा नृसिंह इत्यर्थ: “विष्णोर्नृसिंहनामानि त्रिनेत्रोग्रादिकानि तु” इति वचनात् नृसिंहसुदर्शनादयस्त्रिनेत्रादिनामान: त्रयो लोकास्त्रिलोकविषयाः ज्ञानलक्षणाः प्रकाशाः । । । स्कं. ६ अ. ९ लो. ३५-३८ ] अनेकव्याख्यासमलङ्कृतम् ܀ ३१३ यस्य स तथा सर्वज्ञ इत्यर्थः । त्रिलोकस्य त्रिलोकनिवासिनो जनस्य मनोहरो ऽनुभावो यस्य स तथेति वा “मायागुणव्यतिकराद्य- दुरुर्विभासि” इति वचनाद्विभूतय इत्युच्यन्ते देवादयो न तु स्वरूपत्वात् । अपिशब्दान्मत्स्यादय एव साक्षाद्विभूतय एव गम्यन्ते “विविधभावस्य पात्रत्वात्सर्वे विष्णोर्विभूतयः” इति च ये विभूतिशब्दवाच्या दितिजादयोऽभूवन् तेषामनुपक्रमसमयः क्षय- प्रारम्भकालोऽयमिति मत्वा स्वात्ममायया स्वरूपभूतेच्छया स्वमहिम्ना शुक्रशोणितसम्बन्धमन्तरेण वा सुराद्याकृतिभिरवतीर्य यथा- पराधं त्रैलोक्यापहरणादिलक्षणापराधमनुसृत्य बल्यादीनां वृतवानसीत्यन्वयः । मिश्रिताकृतिभिर्नरसिंहादिभिः सुराद्याकृति- भिरित्यनेन । विभूतित्वं विवृतमिति ज्ञातव्यम् । कि बहूक्तेनापेक्षितं वक्तव्यमिति तत्राहुः । एवमिति । यदि मन्यसे कर्तव्यं तहति शेषः । । । किं चेदं कर्त्तव्यमिति प्रार्थयन्ते । अस्माकमिति । हृदयनिगडानां हृदयाख्यशृङ्खलानां चक्रशङ्खादि- लाञ्छनानां स्पष्टतया धारणेनात्मसात्कृतानां तद्वद्भूतानामनुकम्पया रञ्जितं स्निग्धं च विशदं निर्मलं च रुचिरं चारु च शिशिरं शीतलं च यत्स्मितं तेन युक्तेनावलोकनेन निरीक्षणेन विगलितं निर्गतं च मधुरं च मधुरितं मुखरितं मन्द्रं च यद्वचस्तेनामृत- कलया युक्तेनेति शेषः । बचोलक्षणयामृतकलयेति वा बुभुक्षितबालवत्सर्वज्ञस्य तब हृदयभावातिरेकादुत्कथितमिव यद्विज्ञापन - मस्मदीयं तदस्मदज्ञाननिमित्तमित्यभिप्रेत्याहुः । अथेति । दिव्यमायया स्वरूपेच्छया विनोदो लीला यस्य स तथा निकायानां राशीनां ब्रह्मस्वरूपेण बहिः प्रत्यगात्मस्वरूपेणेति यथा देशादिक्रियाविशेषणं तेषां देशकालादीनामुपादानोपलम्भकतया कारणत्व- प्रापकत्वेदोपादानत्वेनोपालम्भकत्वेनेति वा सर्वमनुभवतः आकाशशरीरस्याकाशवत् सूक्ष्मरूपस्य “आकाशशरीरं ब्रह्म” इति श्रुतेः लिङ्गशरीरस्य व्यावृत्त्यर्थं परब्रह्मण इति मुक्तजीवस्य व्यावृत्त्यर्थं साक्षादिति । साक्षात्परब्रह्मत्वं चित्प्रकृतेरप्यस्तीत्यतः पर- मात्मन इति । हिरण्यरेतसोऽग्नेः महाप्रकाशस्य विस्फुलिङ्गादिभिरल्पप्रकाशैरग्निकणैः खद्योतैश्च यतस्त्वमस्माकं सर्वापदां परिहर्तासि अतो वयं यत्कामेन त्वष्ट्रहननलक्षणवान्छ्या तव पादकमलच्छायामुपगताः तदुपसन्नानाम् " अधीहि भगवो ब्रह्म” इति समित्पाणिशिष्यवच्छरणं गतानामस्माकं तत्कार्यमुपकल्पय समर्थयस्वेत्यन्वयः । बहुप्रार्थनयैव स्वाभीष्टफलप्राप्तिः स्यादिति दर्शयितुमेव गद्येन विज्ञापितमेव पद्यप्रबन्धेन विज्ञापयन्ति । अथो इति । तेजांसि सामर्थ्यलक्षणानि ।। ३५-४४ ॥ जीवगोस्वामिकृतः क्रमसन्दर्भ : किन्त्वदं तु निर्णेतुं न शक्नुम इति बहिर्मुखानाक्षेप्तुं सोल्लुण्ठमाहुः । अथेति । तत्र सृष्ट्यादौ कर्मणि देवदत्तवत् संसारिंजीवविशेषवदविद्यया गुणविसर्गपतितः सन् स्वकृतशुभाशुभयोः फलं देवतिर्यगाद्यवताररूपमुपादत्ते । आहोस्विदथवा तद्वदेवदत्तरूपत्येऽपि विद्ययात्मारामः सन्नित्यादि ॥ ३५ ॥ यत्र विद्या सम्भाव्यते तत्राविद्यापि सम्भाविता स्यादिति मायाशक्तिवृत्तिविद्याशक्तिमयेश्वरवादिनामुपहासार्थमिदमुक्तवन्तः । स्वमतं पुनः स्फूत्तिमभिनयन्त इवाहुः । न हीति । उभय- मपीदं विरुद्ध भगवति नैव विद्यते । तत्र हेतुः । स्वरूपद्वयाभावात् । संसारिजीववद्बद्धत्वमुक्तत्वावस्थाविशेषाभावात् । बद्धत्वे हि मुक्तत्वं तथा दिव्यातिदिव्यतत्तदवतारादिलक्षकोऽप्यर्थो दुर्घटो न भवति । यतः आत्ममायां निजेच्छाशक्तिमन्तर्द्धाय मध्ये निधाय तत्र तत्र सहायत्वेन सम्पाद्य तिष्ठति सतीत्यर्थः । उभयत्र हेतवो भगवतीत्यादयः ॥ ३६ ॥ तर्हि कथमन्यथा प्रतीतिर्बहिर्मुखानां तत्राहुः । समेति । अनिश्चितबुद्धीनामित्यर्थः । तदेव स्थापयितुं जीवन्मुक्ताद्वैलक्षण्यमाहुः । स एव हीति ।। ३७-३८ ।। विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी शिष्टानां पालनं हि दुष्टानां संहारं विना न भवतीत्यन्तर्भूतसंहारस्य पालनस्यापि दुर्ज्ञेयत्वमाहुः । अथेति । देवदत्तः प्राकृतजीवो यथा गृहादिकं निर्माय तत्र मित्रशत्रूदासीनादिगहने संसारे प्रविश्य स्वकृतधर्माधर्मफलं सुखदुःखं भुङ्क्ते तथैव तत्र भवानित्यादरे त्वमपि गुणेभ्यः सत्त्वरजस्तमोभ्यो विविधः सर्गो येषां तेषु गुणविसर्गेषु देवासुरराक्षसादिषु परस्पर- विघातिषु मध्ये पतितः उपेन्द्रकृष्णरामाद्यवतारेषु शिष्टपालनदुष्टनिग्रहयोः प्रवृत्तः भोगैश्वर्यसुखं सङ्ग्रामादिश्रमदुःखञ्च यत् प्राप्नोषि तत् किं पारतन्त्र्येण कर्माधीनत्वेन स्वकृतयोः पुण्यपापयोः कुशलाकुशलं सुखदुःखमुपाददाति स्वीकरोति आहोस्वित् किं वा समञ्जसदर्शन: अप्रच्युतचिच्छक्तिकः उदास्ते साक्षित्वान्न सुखं दुःखं स्वीकरोतीति न विदामः तत्त्वं न विद्मः ॥ ३५ ॥ विरोधमुक्त्वा भक्तानां मते तस्य परिहारमाहुः । नहीति । विरुध्यत इति विरोधः । उभयम् आत्मारामत्वमप्राकृतसुखदुःखित्वं च त्वयि बिरुद्धमित्यर्थः । नान्यदृष्टान्तेन त्वयि विकल्पो युज्यते अतयैश्वर्यत्वादित्यविरोधे हेतूनाहुः । भगवतीत्यादि । प्रथमं सुखदुःखित्वं भगवतीत्यादिपदद्वयेनाहुः । भगवतीति “ज्ञानशक्तिबलैश्वर्यवीर्यतेजांस्यशेषतः । भगवच्छब्दवाच्यानि विना हेयैर्गु- णादिभिः” इति वैष्णवोक्तेरप्राकृतज्ञानादिषडैश्वर्यवत्त्वेनाज्ञानमूलकं सर्वमेव प्राकृतं सुखदुःखं त्वयि नास्तीत्यवगतम् । ननु ३१४ श्रीमद्भागवतम् - [ स्कं. ६ अ ९ . ३५-३८ तर्ह्यन्ये सुखदुःखे मयि कुतस्त्ये तत्राहुः । अपरिगणितगुणानां प्रेमवश्यत्वभक्तवात्सल्यादीनां गणा यस्मिन् तेन ह्यसुरराक्षसा दिभ्यस्त्वद्भक्तानां प्रह्लादबिभीषणादीनां पाण्डवयादवादीनां नित्यपार्षदानां साधकभक्तानामप्यनन्तानां भक्ताभासानामस्मदा- दिदेवानाञ्च कष्टे वृत्ते सति तत्तद्दृष्टसंहारार्थं विविधप्रयासज्ञापितस्य त्वदीयदुःखस्य तथा तेषामेव तत्तद्विपदुत्तीर्णानामव- ग्रहजाज्वल्यमान सस्यानां कादम्बिनीवृष्यमाणामृत सिक्तानामिव लब्धभवद्दर्शनानां परमसुखे वृत्ते सत्यद्भुतस्य तब सुखस्य च भक्तवात्सल्यप्रेमवश्यत्यैकनिदानत्वादप्राकृते एव ते सुखदुःखे भवतः । किञ्च । सुखदुःखे, अपि ते चिन्मय सुखरूपे एव प्रेम्णवि छत्तिसारवृत्तित्वात् । किं पुनर्व्रजदेव्यादीनां वैदेह्याश्च सम्भोगविप्रलम्भजनिते सुखदुःखे, ते तु प्रेमपरम काष्ठामयत्वात् परम- सुखरूपे एव स्तः । ततश्च चित्स्वरूपस्य तव चित्स्वरूपयोः सुखदुःखयोः रममाणस्यारामत्वं सुखदुःखवत्त्वमै क्यादविरुद्धमेव प्रतिपादितम् । नन्वेवं कैरपि दार्शनिकैर्नाहं निरूप्ये तत्राहुः । ईश्वरे त्वयि ईशितव्यानां तेषां निरूपणायोग्यता युक्तैवेति भावः । यतोऽनवगाह्यम् “भक्त्याहमेकया ग्राह्यः " इति त्वद्वचनान्तेषां भक्तिहीनानामवगाहनार्हं माहात्म्यं यस्मिन् । ननु युष्मत्प्रतिन पादितानां षडैश्वर्याणां प्रेम्णश्च चिन्मयत्वे तैर्बह्वय एवानुपपत्तयः उद्गृह्यन्ते तत्राहुः । अर्वाचीना वस्तुस्वरूपासंस्पर्शिनो विकल्पान दयो येषु शास्त्रेषु तैः कलिलं व्याकुलं यदन्तःकरणमाशयः तत्र आशेरते सदैव शयित्वा तिष्ठन्ति ये दुरवग्रहाः दुराग्रहास्तैरेव वादिनां नानावादोद्याहवतां विवादस्यानवसरे अगोचरे तत्र विकल्प एवं वा एवं वेत्याकारः वितर्कः किमत्र युक्तमित्यनिश्चयः विचार इत्थमेवेति निश्चयः । तत्र प्रमाणाभासाः कुत्सिता स्तर्का इति । नन्वनुपपत्तौ सत्यां कुतो विवादाभावस्तत्राहुः । उपरताः समस्ता मायामयाः मायिकाः पदार्था यंत्र तस्मिन्निति विवादादीनां मायाशक्तिकार्यत्वात् तव तु माया मायिकपदार्थातिरिक्तव- स्तुत्वात कुतो विवादप्रसक्तिसम्भावनापीत्यर्थः । नतु तदपि यस्मत्साहाय्यार्थ समुद्रमन्थनादौ पाण्डवसाहाय्यार्थ सारथ्य- दौत्यादी यादवपालनार्थं जरासन्धाद्युपद्रवोत्थभयपलायनादौ कर्मणि प्रत्यक्षत एवं सर्वैर्दृश्यमानं मदीयदुःखं कथं चिन्मयं सुखरूपं भवेदित्यत आहुः - केवल एवेत्यादि । त्वयि मायाशक्तिविनाभूते सत्येव या आत्ममाया अचिन्त्ययोगमाया तामन्तर्द्धाय मध्ये कृत्वा को न्वर्थो दुर्घट इति त्वद्नुभवे सुखमये कः प्रवेष्टुं शक्नुयादिति नात्र प्रत्यक्षादिप्रमाणं प्रवर्त्तत इति भावः । “अचिन्त्याः खलु ये भावा न तांस्तर्केण योजयेत्” इति वचनात् । नन्वलमचिन्त्यशक्तिस्वीकारेण मम भगवत्स्वरूपेण भक्तवात्सल्योत्यसुख- दुःखादिमत्त्वञ्च ब्रह्मस्वरूपेण सर्वत्र ताटस्थ्यादात्मारामत्वमिति स्वरूपद्वयस्य क्रमेण ब्रह्मस्वरूपेण सर्वत्र धर्मद्वयमस्तु ? तत्राहुः - खरूपद्रयाभावादिति । एकस्यैव भगवतस्तव निर्विशेषज्ञानगम्यत्वमेव ब्रह्मत्वमलौकिकविशेषज्ञानगम्यत्वमेव भगवत्त्वमिति दूरवर्त्तिभिर्ज्ञानिभिरलौकिक विशेषग्रहणासमर्थस्त्वमेव ब्रह्मसमीपवत्तिभिर्भक्तैरलौकिक विशेषग्रहणसमथैर्भगवानिति त्वमेवोच्य से इत्यर्थः । तत्र कृपायाः परमाणुत्वपरममहत्त्व एव दूरत्वसमीपत्वयोर्हेतु ज्ञेयौ ॥ ३६ ॥ * * किञ्च । तदपि संसारपरम्प- रासिद्धियर्थं तेषामभक्तानां मतं नैवोच्छिनीकरोषीत्याहुः । समा ब्रह्मविषयत्वात् विषमा तत्प्रातिकूल्यवत्त्वाश्च मतिर्येषाम् । यद्वा । स्वरूपभूताभ्यां ब्रह्मत्वभगवत्त्वाभ्यां समेऽपि एकरूपेऽपि त्वयि विषमा मायातीतस्य ब्रह्मण एव माया शावल्ये सति भगवत्त्वमित्येवं वैषम्यवती मतिर्येषां तेषां मतमनुसरसि प्राप्नोषि मतमेवाहुः । सर्पादिधियां रज्जुखण्ड इव ब्रह्मण्यात्माराम- त्वमेव सत्यं भक्तवात्सल्यादीनां तु मायाप्रत्यायितत्वात्तन्मूलकं सुखदुःखादिकमलौकिकमेवेति नैवास्ति विरोध इति ॥ ३७ ॥ यस्मादेवं तस्मात् सर्वज्ञमतमपहाय त्वद्भक्तसम्मतमतमेव चयमनुसराम इत्याहुः । स एव पूर्वोक्तभगवत्त्वादिविशेषणविशिष्ट एव वस्तुस्वरूपः। वास्तववस्तुस्वरूपः सर्वेषां प्रत्यगात्मत्वादिन्द्रियागोचरत्वादप्रत्यक्षोऽपि सर्वेषां गुणानां बुद्धीन्द्रियादीना- माभासैः प्रकाशैरुप आधिक्येन लक्षितः ज्ञातः अनुमित इत्यर्थः । यदुक्तम् “गुणप्रकाशैरनुमीयते भवान्” इति । पर्यवशेषितः मायामायिकवस्तुमात्रनिषेधेन “नेति नेति" इत्यादिश्रुतिभिरिति भागवतामृतदृष्टाः “विना शारीरचेष्टत्वं विना भूम्यादिसंश्रयम् । विना सहायांस्ते कर्माविक्रियस्य सुदुर्गमम्" इत्याद्याः कारिकाः अनुसृत्य दुरवबोध इत्यादीनि गद्यानि व्याख्यातानि ॥ ३८ ॥ शुकदेवकृत: सिद्धान्तप्रदीप । । " भगवद्धामादिकं भगवत्कृपां विना न जानन्तीत्युक्तम् । अथ कुशास्त्रविमोहित जीवानुग्रहचिकीर्षया स्वोक्तविश्वहेतो भगवति सर्वात्मनि स्वभावतोऽपास्तसमस्तदोषे केचिदासक्तमन्ये ऽनासक्तं पुरुषविशेषमीश्वरमपि बाह्या मन्यन्ते तन्मतद्वयविरो धमारोप्य निराकुर्वन्ति — अथेति । तन्त्र स्वकृते विश्वस्मिन् देवदत्तवत् यथा देवदत्तः पारतन्त्र्येण विषयपारवश्यतया गृहादिक विधाय तत्र स्वकृतशुभाशुभं फलं भुङ्क्ते तद्वद्भवान गुणैर्विविधतया सृज्यन्ते इति सर्गाः देवमनुष्यादिदेहास्तेषु पतितः प्रविष्टः खकृतकुशलफलमुपाददाति तर्हि स्वतोऽवाप्त समस्त कामत्वेन विश्रुते त्वयि इदं बुभुक्षुलक्षणं विरुद्धं स्यादिति भावः । आहोस्वित् देवदत्तवदित्यत्रापि योज्यम् । यथा देवदत्तः मुमुत्तुः सन् आत्मारामः स्वरूपानन्दतृप्तः उपशमशीलोऽन्तर्दृष्टिः समञ्जसदर्शनः उदास्ते भोगादुदासीनो भवति तद्भवानस्ति तर्हि सर्वनियन्तृत्व सर्वात्मत्वमुक्तोपसृप्यत्वादिना विश्रुते त्वयि इदमात्मारामत्वो V अनैकव्याख्यासमलङ्कृतम् ३१५ क. ६ अ. ९ श्लो. ३५-३८ ] पशमशीलत्वादिकं मुमुक्षुलक्षणमपि विरुद्धं स्यादिति भावः । इतिशब्दः पूर्वपरामर्शपरः इति पूर्वोक्तं विरोधद्वयं न विदामः त्वयि न विद्मः ।। ३५ ।। * * तदेवाहुः । नहीति । ईश्वरे बुभुक्षुमुमुक्षु सर्व जीवनियन्तरि स्वकृतकुशलभोक्तृत्वेन बुभुक्षुत्वम्, आत्मारामत्वोपशमशीलत्वादिना मुमुक्षुत्वचेत्युभयं नास्ति स्वरूपद्वयाभावात् स्वरूपे ईश्वरस्वरूपे तद्द्वयस्याभावात् ईश्वरांशभूत- जीवधर्मत्वाद् बुभुक्षुत्वमुमुक्षुत्वद्वयस्येत्यर्थः । हि हेत्वर्थः । अतो हेतोर्न विरोधः इति नकारस्योभयत्र योगः । ईश्वरे बहुभिर्विशेषणैः बुभुक्षुत्वमुमुक्षुत्वभावमेवोपपादयन्ति भगवति “ज्ञानशक्तिबलैश्वर्यवीर्यतेजांस्यशेषतः । भगवच्छन्दवाच्यानि विना हेयैर्गुणैर्नृप " इति सच्छास्त्रोक्तेः । अपरिमिताः अनन्ताः स्वाभाविकाः गुणगणा यस्य तस्मिन् उप समीपे आधेयत्वनियम्यत्व कार्यत्वादिना रताः स्वस्वावस्थां प्राप्ताः समस्ताः मायामयातच्छक्तिमयाः महदादयः सृष्टिवेलायां यस्मात्तस्मिन् संहारवेलायां च आत्ममायां प्रकृतिमात्मशक्तिमंतर्धाय आकृष्य केवले कारणे को न्वर्थो भोगमोक्षादिरूपो दुर्घटः न कोऽपीत्यर्थः । स्वतोऽवाप्तसमस्तकामत्वात् । । अथर्वाचीना आधुनिकाः विकल्पादयो येषु इदमेव मुख्यं प्रमाणमित्येवं प्रमाणतया भासमानेषु कुत्सिता वेदविरुद्धाः तर्यन्ते प्रतिपाद्यन्ते इति तर्काः विषया येषां तैः शास्त्रै कलिलं मलिनं यदन्तःकरणं तदाश्रया ये दुरवग्रहा दुराग्रहास्तैरेव वादिनां विवादस्य नास्त्यवसरोऽवकाशो यस्मिन् तत्र विकल्पः ईश्वरो नास्ति अस्ति वेति वितर्को वेदविरुद्धो विविधपदार्थवादः विचारो वेदविरुद्धस्वकल्पितपदार्थचिन्तनम् ॥ ३६ ॥ * * सर्वप्रेरकोऽपि तान्सन्मार्गे न नियोजयसि प्रत्युत तदनुरूपं तानधोगती पातयितुं तन्मतमनुसरसीत्याहुः । समविषममतीनामिति । समे सर्वात्मनि सर्वकारणकारणे सर्वेश्वरे स्वस्मिन् विषममतीनां तेषामन्यशास्त्रनिष्ठानां मतं स्वपराङ्मुखत्वापादकं सिद्धान्तमनुसरसि “यमेभ्यो लोकेभ्य उन्निनीषति तं साधु कर्म कारयति यमेभ्यो लोकेभ्योऽधो निनीषति तमसाधु कर्म कारयति” इत्यादिवाक्यान्यत्रानुसन्धेयानि । तत्र दृष्टान्तमाहुः । यथा सर्पोऽय- । मिति धोर्येषां तेषां मतं सर्पतया भासमानो रज्जुखण्डः अनुसरति तद्वत् || ३७ ॥ * एवमन्यशास्त्रविमोहितविवादा- विषयत्वं भगवत उपपाद्य स्वतः प्रमाणभूतश्रुत्युक्तरीत्या भगवन्तं स्तुवन्ति । स एवेति । स एव सकलजगत्कारणभूतः सर्वस्मिन् वस्तुनि कार्यमात्रे वस्तुस्वरूप स्तत्तद्वस्त्वाकारः सर्वेषां प्रत्यवानां जीवानां स्वांशानामात्मा आश्रयः स्थितिप्रवृत्तिप्रदस्तस्य भावस्तत्त्वं तस्मात्सर्वेश्वरः सर्वे सत्त्वादयो गुणा आभासन्ते प्रतीयन्ते येषु ब्रह्मादिमत्कुणान्तेषु तैर्धार्यत्वप्रेर्यत्वादिस्वासाधारणगुणयुक्तैः सर्वाधारत्वप्रेरकत्वादिस्वासाधारणगुणयुक्तः लक्षितः ज्ञापितः । एवं सकलजगत्कारणत्वात्सर्वचेतनाचेतनपदार्थगर्भोऽपि एक: सजातीयपदार्थान्तरशून्यः एवकारेण विजातीयपदार्थान्तरशून्यः पुनर्भूयो भूयः पर्यवशेषितः परितः सर्वश्रुतिसमन्वयेन सर्व- विरोधपरिहारेण च अवशेषितः सर्वकारणत्वेन वर्णित इत्यर्थः ॥ ३८ ॥ । गोस्वामिगिरिधरलालविहिता बालप्रबोधिनी संशयान्तरमाहुः——अथैति अर्थान्तरे, संशयान्तरमध्यस्तीत्यर्थः । देवदत्तो यथेह संसारे गुणविसर्गपतितः गुणकार्ये शरीरे प्रविष्टः पारतन्त्र्येण कालकर्मस्वभावाद्यधीनतया स्वकृतयोः शुभाशुभयोः कुशलाकुशलं सुखदुःखात्मकं फलमुपाददाति भुङ्क्ते तथा किं भवानपि तत्र गुणविसर्गे पतितोऽन्तर्यामितया प्रविष्टः । यद्वा रामकृष्णाद्यवतारेषु सुखदुःखाद्यनुभवात्तत्तद्रूपेण स्थितः पारतन्त्र्येण कुशलाकुशलं फलमुपाददाति । आहोस्वित् अथवा उदास्त उदासीनतया वर्त्तत इति ह वाव न विदामः इत्यपि नैव विद्म इत्यन्वयः । उदासीनत्वे हेतुमाहुः –उपशमशील इति, शान्तस्वभाव इत्यर्थः । तत्र हेतुमाहुः - आत्माराम इति, अगणितानन्दात्मानुभवेन पूर्णकाम इत्यर्थः । ननु जीवस्यापि मदंशत्वादात्मारामत्वेनोदासीनत्वं कुतो नान्यथा ममापि तन्न स्यादित्याशङ्कयाहुः – समञ्जसदर्शन इति, समञ्जसमप्रच्युतं दर्शनं चिच्छक्तिर्यस्य स तथा । जीवस्य त्वविद्यावृतस्वरूपत्वा- नात्मारामता किन्तु विषयाविष्टचित्तत्वमिति विशेषः ।। ३५ ।। ननु जीवस्यापि मदशत्वादशांशिनोरभेदाच्च तत्र
- कर्मफलं सुखित्वदुःखित्वादिकं निश्चितं चेन्मय्यपि तत्स्यादेव, नह्येकस्मिन् दुःखित्वादिकं तदभावश्च धर्मद्वयस्थितिः सम्भवति येन संशयः स्याद्विरोधादित्याशङ्कयाहुः - न हीति । विरुध्यत इति विरोधः, विरुद्धमित्यर्थः । एवकारोऽप्यर्थे । केवले अद्विती- येsपि त्वयि दुःखित्वमदुःखित्वं चोभयं न विरुद्धमित्यन्वयः । केवलत्वे हेतुमाहुः - उपरतेति, उपरतो निरस्तः समस्तो मायामयः संसारो यस्मिंस्तस्मिन्ं । कथं नोभयं विरुद्धमित्यपेक्षायामाहुः - आत्ममायामन्तर्द्धाय मध्ये निधाय को न्वर्थो दुर्घटः असङ्गत इव भवतीति । तथा च जीवस्य त्वन्मायया मोहेन देहादावहम्ममाध्यासपूर्वककृतस्य कर्मणः फलं दुःखित्वादिकं सम्भवति तव तु मायानियन्तुस्तत्कृत मोहासम्भवेन दुःखित्वादेरप्यसम्भवाद्रामकृष्णाद्यवतारेषु तद्दर्शनाच्च तद्वास्तवमनुकरणमात्रं वेति भवति संशय इति भावः । ननु मायाया वस्त्वन्तरत्वे द्वैतापत्तिर्मम क्रीडायां तदधीनत्वं च स्यादित्याशङ्कयाहुः – स्वरूपद्रयाभावादिति, तस्याः शक्तिविशेषरूपत्वाच्छक्तिशक्तिमतोर्भेदाभावादित्यर्थः । ननु कथं मायया जीवानामपि मोहः सम्भवति तेषामपि मदंश- त्वान्मायाया मदभिन्नत्वे जीवाभिन्नत्वमप्यागतमेव, तथा च जीवं मोहयति चेन्मामपि कथं न मोहयेदित्याद्यनेकां शङ्कां हृदि 1 न ३१६ श्रीमद्भागवतम् [ स्कं. ६ अ. ९ श्लो. ३५-३८ निधाय कथं त्वमेवं विहरसीति तव माहात्म्यमस्माभिः सर्वथा न ज्ञायते एवेत्याशयेनाहु:– अनवगाह्यमाहात्म्ये इति, अनवगा- ह्यमवित माहात्म्यं यस्य तस्मिन् । एतदेव विशदयति-अर्वाचीनेति । अर्वाचीना वस्तुस्वरूपासंस्पर्शिनो ये विकल्पादयस्ते येषु शास्त्रेषु तैः कलिलं व्याकुलं दूषितमन्तःकरणमाश्रयो यस्य दुरवग्रहस्य तेनैव वादिनां विवादस्यानवसरे अविषये । तत्र विकल्प एवं वा एवं वेत्याकारः, वितर्कः किमत्र युक्तमित्यनिश्चयः, विचारः इत्थमेवेति निश्चयः । तत्र प्रमाणाभासास्तदनुप्राहकाः कुतर्काश्च । तथा माहात्म्ये हेतुमाहुः – ईश्वर इति । तल्लक्षणमाहुः भगवतीति । भगवत्त्वमेव स्पष्टयति- अपरिगणितगुणगण इति, अपरिगणिता अपरिमिता गुणगणाः ज्ञानवैराग्यैश्वर्यादयः शक्तयो यस्य तस्मिन् ॥ ३६ ॥ * * एवं दुर्विगाह्यमाहात्म्य- मुक्त्वा स्वमत्यनुसारेणास्माकं त्वेवम्प्रतिभातीत्याहु: - समेति । सममतीनां यथार्थबुद्धीनां विषममतीनां भ्रान्तबुद्धीनां च मतम- भिप्रायमनुसरसि । तत्र दृष्टान्तमाहु:-यथेति । यथा रज्जुखण्ड: यथार्थबुद्धीनां रज्जुरूपेण भासमानोऽपि सर्पादिविषया धीर्येषां तेषां भयङ्करादिरूपेण प्रतिभाति तथा यथार्थबुद्धीनां त्वं सच्चिदानन्दपूर्ण गुणस्वरूपेण भासमानोऽपि भ्रान्तानां दुःखित्यपक्षपा- तित्वादिरूपेण भासीत्यर्थः ॥ ३७ ॥ * * स्वनिश्चितं परमार्थरूपमाहुः - स एव हीति । :-स एव हीति । हिशब्दः शास्त्रप्रसिद्धमेतन्न केवलमस्मद्वितर्कितमिति सूचनार्थः । पुनश्शब्दो विचारलक्षकः । शास्त्रविचारे क्रियमाणे सति स एव पूर्णोक्ताचिन्त्यानन्त- गुणपूर्वी भवानेव सर्ववस्तुनि सर्वप्रपञ्चवस्तुस्वरूपः परमार्थभूतः । । तत्र हेतुमाहुः — सकलजगतो यानि कारणानि महदादीनि तेषामपि कारणभूत इति । कटककुण्डलादिकार्याणामुपादानकारणस्य सुवर्णादेरेव परमार्थरूपत्वस्य प्रसिद्धत्वादिति भावः । ननु जडप्रपञ्चस्योपादानत्वे जडत्वमेव स्यात् कनकादेस्तथात्वस्य दर्शनादित्याशङ्कयोपादनत्वेऽपि निमित्तकारणत्वमपि तथैव । न च चेतनस्य कथं जडोपादानत्वमिति शङ्कनीयमचिन्त्यैश्वर्ये त्वयि सर्वसम्भवादित्याशयेनाहुः – सर्वेश्वर इति सर्वेषां जडानां प्रकृत्यादीनां चेतनानां ब्रह्मादीनां च नियन्तेत्यर्थः । एवम्भूतस्य सत्त्वे किं प्रमाणमित्यपेक्षायामनुमानमाह - सर्वेति, सर्वेषां गुणागुणकार्यत्वे जडानां बुद्धीन्द्रियादीनामाभासैः प्रकाशैरुपलक्षितः अनुमित इत्यर्थः । ननु तैर्जीव एवानुमीयतामित्याशङ्क चाहुः- सर्वेति, सर्वेषां जीवानां प्रत्यगात्मत्वादन्तर्यामित्वादित्यर्थः । जडतादात्म्याभ्यासेन जीवस्यापि जडप्रायत्वात् पारतन्त्र्यदर्शनाच तत्प्रेरकप्रकाशकतया भवानेवानुमीयते इति भावः । नन्वेवं सर्वकारणत्वेऽपि ममापि कारणं किञ्चिदन्यद् स्यादित्याशङ्कयाह- एक इति । ‘यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत्प्रयन्त्यभिसंविशन्ति’ इत्यादिशास्त्रेणैको भवानेव सर्वका- रणतया सर्वलयाधिष्ठानतया च पर्यवशेषित इति न तव कारणान्तरमस्तीत्यर्थः ॥ ३८ ॥ : भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी ननु परस्परविरुद्धमुभयमेकस्मिन् कथमुपपद्यते इत्यत्राहुः । न हीति । हे हरे, विरोधः न हि । त्वयि विरुद्धवत् प्रतीयमानत्वेऽपि विरोधो नास्ति । अपि तु उभयमपि संभवति । कर्मभावनया ब्रह्मभावनया चान्वितानां सर्वेषां चेतनान्तरात्म- भूतत्वेन तद्विलक्षणे विविधविचित्रशक्तिमति त्वयि सर्वमविरुद्धमित्यभिप्रायः । अविरोधापादकगुणजातेन तं विशिषन्तो वादिविप्रतिपत्त्यविषयतां च वदन्तोऽविरोधमुपपादयन्ति भगवतीत्यादिभिः सप्तम्यन्तैः पदैः । तत्र कर्मब्रह्मोभयभावनान्वित- चेतनेभ्यो वैलक्षण्यं दर्शयन्ति । अपरिगणिता असंख्याता गुणानां कल्याणगुणानां गणा यस्य तस्मिन् ईश्वरे भावनाद्वयान्वित- चेतनानामन्तरात्मनि, अनवगाह्यं दुर्बोध्यं माहात्म्यं यस्य तस्मिन्, अर्वाचीना इदानींतनाः विकल्पाः, संशस्तन्मूलको वितर्कः एवं वा एवं वेत्यूहः, तत्र किं युक्तमिति विचारः, तदन्यतरपक्षसाधका ये प्रमाणाभासाः प्रमाणवदवभासमानाः कुतर्का विद्यन्ते यस्मिद्यच्छास्त्रं तेन तदभ्यासेन कलिलं दूषितं यदन्तःकरणं तेनाधिकरोत्युत्पद्यते इत्यधिकरण उत्पन्नो दुरवग्रहो दुराग्रहो येषां ते च ते वादिनश्च तेषां ये विवादास्तेषामनवसरोऽगोचरोऽविषयभूत इत्यर्थतस्मिन् ननु श्रद्धामात्रमेतदत्र युक्तिरुच्यतां तत्राहुः — उपरता निरस्ताः समस्ताः मायामयाः प्राकृतदोषा यस्मिंस्तस्मिन् प्रलयदशायामुपसंहृतकार्यवर्गे इत्यर्थः । अत एव केवले एकरूपे एव, आत्ममायां अन्तर्द्धाय स्थिते, ‘आत्ममाया निजेच्छा स्यात्’ इति वाक्याजगत्सर्गेच्छां विरोधाय वर्त्तमाने इत्यर्थः । यद्वा । जगत्सर्गे हेतुभूतमायाशक्तिमन्तर्द्धायेत्यर्थः । यद्वा । उभयविधताद्योतिकामिच्छाशक्ति मध्ये कृत्वेत्यर्थः । भगवति पूर्णषाङ्गुण्ये त्वयि को नु अर्थ: दुर्घट इव भवति । कर्तुत्वकारयितृत्वसाक्षित्वानुमन्तृत्वफलिकत्व फल- प्रदत्व प्रवृत्तत्वादिरूपः कोऽप्यर्थो न दुर्घट इति भावः । कुतः । स्वरूपद्वयाभावात् । स्वरूपे विरुद्धाकरद्वयस्याभावात् । कर्तृ- त्वोदासितृत्वयोः परमात्मस्वरूपे विरोधकरत्वाभावात् । परमात्मस्वरूपे कुतर्ककरणं दोषायैवेत्यर्थः ॥ ३५ ॥ ४ ॥ * * विवादानवसरत्तर्हि कथं विवादानामुदयस्तत्राहुः । समेति । समा विषमा च मतिर्येषां तेषां मतमभिप्रायं अनुसरसि वादिविप्रतिपत्तीस्प्रतिषिध्य तूष्णीं भवसि इत्यर्थः । अप्रतिषेधे दृष्टान्तमाहुः । यथा सर्पादिधियां सर्पादिभ्रान्तिमतां मतं रज्जुखण्ड, अनुसरति । न प्रतिषेधते इत्यर्थः । नाहं सर्पादिः, किं तु रज्जुरहमस्मीति प्रतिषेधमकृत्वा रज्जुः स्वरूप न कं. ६ अ. ९ श्लो. ३५-३८ ] अनेकन्याख्यासमलङ्कृतम् w! । ३१७ । निवेदयति, तथा त्वमपि एवंविधोऽहं न भवामि किं त्वेवंविधोऽहमस्मीति भ्रान्तान् प्रत्यनुक्त्वा तूष्णीमेवास्से इत्यर्थः ।। ३६ ।। परमेश्वरे निमित्तकारणत्वमुपादानकारणत्वं च व्यवस्थितमस्ति तत्र जगत्स्रष्टृत्वरूपनिमित्तकारणत्वे जीववत्संसारित्वादि- शङ्का परिहृता । अथोपादानकारणत्वे स्वरूपे विकाराश्रयत्वाशङ्कां परिहरन्त ऊचुः । स एवेति । सर्वेश्वरः सः एव, पुनः योऽयं निमित्तकारणभूतः स एव भवांस्त्वित्यर्थः । सकलजगत्कारणभूतः हि ॥ ह्नि शब्दोऽत्राप्यर्थे । सकलज- गदुपादानकारणभूतः सन्नपीत्यर्थः । सर्ववस्तुषु देवादिपदार्थेषु, स्थितः संश्चापि वस्तुस्वरूपः निर्विकारस्वरूपः एव । सर्वप्रत्यगात्मत्वात् अचेतनविशिष्ट सर्व जीवशरीरकत्वात् । विकाराणां शरीरभूतचिदचिद्गतत्वात् न स्वरूपे तत्प्रसङ्ग इति भावः । तथा चोक्तम्— ‘यत्तु कालान्तरेणापि नान्यसंज्ञामुपैति वै । परिणामादिसंभूतां तद्वस्तु नृप तच किम्’ इति सर्वैश्चिदचित्कालादिभिर्गुणैरपृथक सिद्धविशेषणैराभासतेऽवभासते इति सर्वगुणाभासः । उपलक्षितः समस्तपाठे सर्वैः गुणैः सत्त्वादिभिरेवाभासन्ते इति सर्वगुणाभासा गुणकार्यदेहेन्द्रियादयस्तैरुपलक्षितः । तद्विशिष्टत्वेनोपलक्षित इत्यर्थः । अतस्त्वमेक एव पर्यवशेषितः । समाभ्यधिकरहिततया एवंविधस्त्वमेक एव निर्णीतो नान्य इति भावः ॥ ३७ ॥ ६ ॥ * * यत एवं- भूतो भवानेवानितरसाधारण उदाहृतः योगपरिशुद्धमनोग्राहः नित्यनिरुपाधिकापरिच्छिन्ननिजानन्दानुभवरूपो जगत्सृष्टिस्थिति- संहृतिलीलः सार्वज्ञसत्यसंकल्पत्वाद्यपरिमितिगुणसागरोऽनित र साधारणविविधविचित्रशक्तिरशेषचिदचिच्छरीरकः सर्वेश्वरः सर्वसमोऽत एव त्वश्चरणारविन्द मधुररसास्वादनशीलास्त्वा मविस्मरन्तोऽनन्तं स्थिरफलं प्राप्नुवन्तीति ब्रुवाणास्त्वद्भक्तिरेव परम- पुरुषार्थ इत्याहुः । अथ हेति । अथ ह वा अत एव हीत्यर्थः । हे मधुमथन मधुनामानमसुरं मध्नातीति तथाभूत । सकृदव- लढया एकवारका स्वादितया तव महिमा एव अमृतरससमुद्रस्तस्य विप्रुट् बिन्दुमात्रं तया, स्वमनसि निष्यन्दमानमतिशयेन स्रवत् यत् अनवरतसुखं निरन्तरसुखं तेन विस्मारिता दृष्टश्रुतविषयसुखलेशाभासाः ऐहिकामुष्मिक विषयसुखलेशाभासा येषां ते, सर्वभूतप्रियसुहृदि सर्वेषां भूतानां प्रेमास्पदे सुहृद्वदतिहितकारिणि चेत्यर्थः । सर्वात्मनि सर्वभूतान्तरात्मनि, भगवति त्वयि, नितरामतिशयेन निरन्तरं निर्वृतं मनो येषां ते, स्वार्थेषु पुरुषार्थेषु कुशला निपुणा:, अत एव, आत्मा त्वमेव प्रियः सुहव येषां ते, परमभागवताः साधवः सर्वथा एव रागादिशून्याः, एते एकान्तिनः पुनः त्वदेकान्तिकभक्तास्तु, कथं उ ह वै केन प्रकारेण तु इत्यर्थः । त्वञ्चरणाम्बुजसेवां विसृजन्ति न विसृजन्त्येव हि । यत्र यस्यां चरणाम्बुजसेवायां सत्यां पुनः अयं संसारपय्र्यावर्त्तः, न । पुनः संसारे आगमनं न जायते इत्यर्थः । कचित्तु न पुनरयं परिवर्त्तते इति पाठोऽपि दृश्यते ॥ ३८ ॥ आ आप চ भाषानुवादः भगवन् ! हमलोग यह बात भी ठीक-ठीक नहीं समझ पाते कि सृष्टिकर्ममें आप देवदत्त आदि किसी व्यक्तिके समान गुणों के कार्यरूप इस जगत् में जीवरूपसे प्रकट हो जाते हैं और कर्मोंके अधीन होकर अपने किये अच्छे-बुरे कर्मों का फल भोगते हैं, अथवा आप आत्माराम, शान्तस्वभाव एवं सबसे उदासीन - साक्षिमात्र रहते हैं तथा सबको समान देखते है ।। ३५ ।। * * हम तो यह समझते हैं कि यदि आपमें ये दोनों बातें रहें तो भी कोई विरोध नहीं है । क्योंकि स्वयं भगवान हैं। आपके गुण अगणित हैं; महिमा अगाध है और आप सर्वशक्तिमान हैं। आधुनिक लोग अनेक प्रकारके विकल्प, वितर्क, विचार, झूठे प्रमाण और कुतर्कपूर्ण शास्त्रोंका अध्ययन करके अपने हृदयको दूषित कर लेते हैं और यही कारण है कि वे दुराग्रही हो जाते हैं, आपमें उनके बाद-विवाद के लिये अवसर ही नहीं है । आपका वास्तविक स्वरूप समस्त मायामय पदार्थोंसे परे केवल है। जब आप उसीमें अपनी मायाको छिपा लेते हैं तब ऐसी कौन-सी बात है जो आपमें नहीं हो सकती ? इसलिये आप साधारण पुरुषोंके समान कर्त्ता भोक्ता भी हो सकते हैं और महापुरुषोंके समान उदासीन भी । इसका कारण यह है कि न तो आपमें कर्तृव्य-भोक्तृत्व है और न उदासीनता ही। आप तो दोनोंसे विलक्षण, अनिर्वचनीय हैं ॥ ३६ ॥ जैसे एक ही रस्सीका टुकड़ा भ्रान्त पुरुषोंको सर्प, माला, धारा आदिके रूप में प्रतीत होता है, किन्तु जानकारको रस्सीके रूपमें, वैसे ही आप भी भ्रान्तबुद्धिवालोंको कर्ता, भोक्ता आदि अनेक रूपोंमें दीखते हैं ज्ञानीको शुद्ध सच्चिदानन्दके रूपमें आप सभीकी बुद्धिका अनुसरण करते हैं || ३७ ॥ * * विचारपूर्वक देखनेसे मालूम होता है कि आप ही समस्त वस्तुओं में वस्तुत्व के रूपसे विराजमान हैं, सबके स्वामी हैं और सम्पूर्ण जगत्के कारण ब्रह्मा, प्रकृति आदिके भी कारण हैं । आप सबके अन्तर्यामी अन्तरात्मा हैं; इसलिये जगत् में जितने भी गुण-दोष प्रतीत हो रहे हैं, उन सबकी प्रतीतियाँ अपने अधिष्ठानस्वरूप आपका ही सङ्केत करती हैं और श्रुतियोंने समस्त पदार्थोंका निषेध करके अन्त में निषेधकी अवधि के रूपमें केवल आपको ही शेष रक्खा है ॥ ३८ ॥
.: ३१८ श्रीमद्भागवतम् [स्क. ६ अ. ९ श्लो. ३९-४३ अथ ह वाव तव महिमामृतरससमुद्रविप्रषा सकृदवलीढया स्वमनसि निष्यन्दमा नानवरतसुखेन विस्मारित- दृष्टश्रुतविषयमुखलेशाभासाः परमभागत्रता एकान्तिनो भगवति सर्वभूतप्रियसुहृदि सर्वात्मनि नितरां निरन्तरं निर्वृत- मनसः कथमुह वा एते मधुमथन पुनः स्वार्थकुशला ह्यात्मप्रियसुहृदः साधवस्त्वचरणाम्बुजानुसेवां विसृजन्ति न यत्र पुनस्यं संसार पर्यावर्तः ॥ ३९ ॥ त्रिभुवनात्मभवन त्रिविक्रम त्रिनयन त्रिलोकमनोहरानुभाव तवैव विभूतयो दितिजदनुजादयश्चापि तेषामनुपक्रमसमयोऽयमिति खात्ममायया सुरनरमृगमिश्रितजलचराकृतिभिर्यथापराधं दण्डं दण्डधर दर्थ एवमेनमपि भगवञ्जहि त्वाष्ट्रमुत यदि मन्यसे ॥ ४० ॥ अस्माकं तावकानां तव नतानां तत ततामह तव चरणनलिन युगल ध्यानानुबद्धहृदयनिगडानां खलिङ्गविवरणेनात्मसात्कृतानामनुकम्यानुरञ्जित विशद रुचिरशिशिरस्मि- तावलोकेन विगलितमधुरमुखरसाद्यतकलया चान्तस्तापमनघार्हसि शमयितुम् ॥ ४१ ॥ अथ भगवंस्तवास्माभिरखिल- जगदुत्पत्तिस्थितिलयनिमित्तायमानदिव्यमायाविनोदस्य सकलजीवनिकायानामन्तर्हृदयेषु बहिरपि च ब्रह्मप्रत्यगात्म- स्वरूपेण प्रधानरूपेण च यथादेशकालदेहावस्थानविशेषं तदुपादानोपलम्भकतयानुभवतः सर्वप्रत्ययसाक्षिण आकाश- शरीरस्य साक्षात् परब्रह्मणः परमात्मनः कियानिक वा अर्थविशेषो विज्ञापनीयः स्याद् विस्फुलिङ्गादिभिरिव हिरण्यरेतसः || ४२ ॥ कृष्णप्रिया व्याख्या अन्वयः :- अथ ह बाव मधुमथन तव सकृत् अवलीढया महिमामृतरससमुद्रविपुषा स्वमनसि निष्यन्दमानानवरत- सुखेन विस्मारितदृष्टश्रुतविषयसुखलेशाभासाः एकान्तिनः सर्वभूतप्रियसुहृदि सर्वात्मनि भगवति नितरां निरन्तरं निर्वृतमनसः स्वार्थकुशलाः हि आत्मप्रियसुहृदः परमभागवताः एते साधवः उ ह वा त्वचरणाम्बुजानुसेवां पुनः कथं विसृजन्ति यत्र अयं संसारपर्यावर्तः न ।। ३९ ।। त्रिभुवनात्मभवन त्रिविक्रम त्रिलोकमनोहरानुभाव दितिजदनुजादयः अपि तब एव विभूतयः च अयं तेषां अनुपक्रमसमयः इति यथा दंडधर स्वात्ममायया सुरनरमृगमिश्रितजलचराकृतिभिः यथापराधं दंड दधर्भ एवं भगवन् उत यदि मन्यसे एनम् अपि त्वाष्ट्रं जहि ॥ ४० ॥ * * तत ततामह अनघ तव नतानां तव चरण- नलिनयुगलध्यानानुबद्धहृदयनिगडानां स्वलिङ्गविवरेण आत्मसात्कृतानां तावकानां अस्माकम् अनुकम्पानुरञ्जितविशदरुचिर- शिशिरस्तिावलोकेन च विगलितमधुरमुख रसामृत कलया अन्तस्तापं शमयितुम् अर्हसि ॥ ४१ ॥ * * अथ ह भगवन् अस्माभिः विस्फुलिङ्गादिभिः हिरण्यरेतसः इव अखिलजगदुत्पत्तिस्थितिलयनिमित्तायमानदिव्यमायाविनोदस्य सकलजीवनि- कायानां अन्तर्हृदयेषु च बहिः अपि ब्रह्मप्रत्यगात्मस्वरूपेण देशकालदेहावस्थानविशेषं तदुपादानोपलम्भकतया अनुभवतः सर्वप्रत्ययसाक्षिणः आकाशशरीरस्य साक्षात् परब्रह्मणः परमात्मनः तव इह क्रियान् वा अर्थविशेष: विज्ञापनीयः स्यात् ।। ४२ ।। श्रीधरस्वामिविरचिता भावार्थदीपिका अतस्त्वद्भक्तिरेव परमपुरुषार्थ इत्याहुः अथ हेत्यादि पर्यावर्त इत्यंतेन । यस्मादेवंभूतस्त्वं परमेश्वरः । अथ ह बाब अत एव हि । हे मधुमथन परमभागवता एते त्वत्पादांभोजानुसेवां कथं मुहुर्मुहुर्विसृजंतीत्यन्वयः । हि यस्मात्स्वार्थे पुरुषार्थे कुशला निपुणाः अत एव आत्मा त्वमेव प्रियः सुहच येषां ते साधवो रागादिशून्याः । तत्र हेतुः । तव महिमैवामृतरससमुद्र- स्तस्य विप्रुषा बिंदुमात्रेण सकृदवलीढया आस्वादितया स्वमनसि निष्यन्दमानमतिशयेन स्रवद्यनिरंतरं सुखं तेन विस्मारिता दृष्टश्रुतविषयाः सुखलेशाभासा येषां ते । अत एव भगवति त्वयि नितरां निरंतरं निर्वृतं च मनो येषाम् । यत्र यस्यामनुसे- वायां सत्याम् ॥ ३९ ॥ * * प्रस्तुतं विज्ञापयंति त्रिभुवनेत्यादिना यावत्समाप्ति । त्रिभुवनमात्मा स्वरूपं भवनं च यस्य १. प्रा० पा० महिममहामृत० । २. प्रा० पा० सकृल्लीढया । ३. प्रा० पा० मानेनानव० । ४. प्रा० पा० तमपि । ५. प्रा० पा०– रतानां हन्त तव ।स्कं ६ अ. 8 श्लो. ३९-४२] अनेकव्याख्या समलङ्कृतम् ३१९ त्रिभुवनस्यात्मा भवनं चेति वा । त्रयोविक्रमा यस्य । त्रीलोकान्नयतीति तथा । त्रयाणां लोकानां मनोहरो ऽनुभावो यस्य । एवं चतुर्धा संबोध्याहुः । तेषामनुपक्रमसमय उद्यमकालो न भवतीति मत्वा । हे दंडधर पूर्व यथा दंड दधर्थ ‘वृतवानस्येवमेनं त्वाष्ट्रमपि जहि यदि मन्यसे हंतुं यदीच्छसि ॥ ४० ॥ ॐ * प्रथमं तावत्त्वदीयानामस्माकमंतस्तापं शमयितुमर्हसि । तावकानामित्यत्र हेतुः । तत ततामह हे पितः हे पितामह तव चरणनलिनयुगलध्यानेनैवानुबद्धो हृदये निगड : श्रृंखला येषाम् । स्वलिंगविवरणेन निजमूर्तिप्रकटनेन स्वीकृताम् । केन । अनुकंपयाऽनुरंजितं सानुरागं च तद्विशदं रुचिरं शिशिरं च स्मितं तत्स- हितेनावलोकेन तथाऽनुकंपयैव विगलितो मधुरो मुखरसः प्रियवाक् सैवामृतकला तथा च ॥ ४१ ॥ किं च । अस्मद- भिप्रायस्त्वया ज्ञायत एव किमत्रात्माभिर्विज्ञापनीयमित्याहुः । अथ ह हे भगवंस्तवास्माभिरिह कियान्वार्थविशेषो विज्ञापनीयः स्यादित्यन्वयः । यथा हिरण्यरेतसोऽग्ने तदंशभूतैर्विस्फुलिंगादिभिः प्रकाशो न क्रियते तथा तवास्माभिः कार्यार्थप्रकाशनं न कार्यमित्यर्थः । अत्र हेतुगर्भाणि विशेषणानि । अखिलजगतामुत्पत्त्यादिषु निमित्तायमानया दिव्यमायया विनोदो यस्य । अत एव सर्वजीवनिकायानामंतर्हृदयेषु ब्रह्मस्वरूपेण प्रत्यागात्मांतर्यामी तद्रूपेण च बहिरपि प्रधानरूपेण देशकालदेहावस्थान- विशेषाननुल्लंघ्यानुभवतः । कथम् । तेषामुपादानतया निमित्तरूपतयोपलंभकतया च उपादानस्योपलंभकतयेति वा । अत एव सर्वेषां प्रत्ययानां बुद्ध्यादीनामपि साक्षिणः । साक्षित्वे हेतुः । । आकाशवदलिप्तं शरीरं स्वरूपं यस्य । अलिप्तत्वे हेतुद्वयम् । साक्षात्परब्रह्मणो निरुपाधेः परमात्मनः शुद्धसत्त्वमूर्तेश्व ॥ ४२ ॥ वंशीधरकृतो भावार्थदीपिकाप्रकाशः यतो ज्ञानादपि भक्ति: श्रेष्ठाऽतो हेतोः । अथ ह वावेत्यस्यार्थोऽत एव सर्वेश्वरस्यादेरेवेत्यर्थः । हे मधुमथनेति । प्रलये ब्रह्माणं भक्षितुमुद्यतस्य मधोर्मथनात्सर्वस्रष्टारं ब्रह्माणमपि त्वमेव रक्षितवानवत्तदुद्भूता वयमपि रक्ष्या एवेति भावः । ये त्वत्पदांबुजं न स्मरंति ते स्वार्थघातिन एवेति भावः । अतः स्वार्थकुशलत्वात् । अत्र रोगादिशून्यत्वे । अत एव विस्मारित- । । 1 । विपयत्वादेव | संसारे पर्यावर्त्तः परिभ्रमणम् ॥ ३९ ॥ * त्वद्भक्तेषु वयं सकामत्वादतिनिकृष्टा इति द्योतयितुं प्रस्तुतं प्रकृतम् । त्रिभुवनमात्मभवनं स्वगृहं यस्य त्वद्भक्तादेव मनुष्यादयो यत्र स्थित्वा त्वां सेवते तदिदमसुरक्रांतमभूदिति भावः । स्वामिव्याख्याने आत्मेति पृथक्पदं तत्र च त्वत्स्वरूपमपि दैत्येनाक्रांतं त्वं कथं न बुध्यसे इति भावः । तत्रापि त्रिभुव- नस्य जडत्वेन मामपि तत्स्वरूपत्वाज्जडं ब्रूतेति चेदाहुः – त्रिभुवनस्यात्मेति । अत्र च त्रिभुवनस्यात्मत्वात्त्वं तद्दुःखादिकं जानास्येव तथाप्यतिपीडिता वयं जानानमपि स्मारयाम इति भावः । त्रयो विक्रमा इति । भाविकर्मस्मारणेनाधुनापि त्वयाऽस्मदर्थं पुरुषार्थो विधेय इति भावः । त्रिविकमत्वे हेतुं कथयस्तत्संबोधयंति - त्रिनयनेति । नयत्यस्मभ्यं प्रापयतीत्यर्थः । विश्वनाथस्तु - त्रिभिर्विक्रमैखील्लोकान नयसीति यदेव त्रिभुवनं वामनावतारे त्रिभिरेव पादैः प्रतिगृह्य बलेः सकाशादानीया- स्मभ्यं दास्यसीति भावः । त्रिलोकमनोहरानुभावेति । संप्रत्यपि त्रिलोकस्था जनास्तवानुभावं पश्यंतु दैत्यं संहरेति भावः । ननु परहिंसां समुद्दिश्य मां स्तुवीध्ये तत्राहुः यद्यपि तथैव विभूतयस्तथापि तेषां दैत्यानामनुद्यमसमयोऽयमिति ज्ञात्वा निवेदयाम इति भावः । हे दंडधरेति । त्वमेव दुष्टदंडधर्त्ता नास्मदादय इति भावः । हे भगवन्निति । सर्वसामर्थ्यं द्योतयंत आहु- रिति ।। ४० ।। है तत पितः ततामह हे पितामहेति ब्रह्मैवाह देवेषु मुख्यत्वात्त्वमस्माकं पितैव वस्तुतः कंजमंतरी- कृत्य पितामहोऽपि यद्रादीनामिदं वाक्यं ब्रह्मरूपेण त्वं पितापि जलशायिरूपेण पितामहोऽपि त्वमेवास्माकं कश्यपादीनामिति भावः । एतेन ब्रह्मादयः सर्वे तव पाल्या एव तवैव सर्वज्येष्ठत्वादित्युक्तं ततामहेति । तद्धितोऽत्रार्ष एव, पितृशब्दादेव डामहचो विधानात् । चक्रवर्त्तिना तु ततततेत्येकैव संबुद्धिः स्वीकृता व्याख्याता च पितामहेति । विशदं स्फुटम् । शिशिरं शीत- । । लम् ॥ ४१ ॥ * * अन्यदाहुः किश्चेति । तव त्वयि । इत्यर्थ इति । अंतर्यामित्वेन प्रथममेव जानासीति भावः । अत एव दिव्यमायाविनोदित्वादेव । देशश्च कालश्च देहावस्थानविशेषा बाल्यादयश्च तानतिक्रम्य यत्र काले देशेऽवस्थायां यद्भवति तत्सर्वं तत्रतत्रानुभवतस्साक्षात्कृतवतः तेषां देवादिजीवनिकायानामुपादानतया कारणत्वेनोपलंभकतया प्रकाशकत्वेन च हृद्गत विज्ञापनीयं जानत इत्यर्थः । उपादानोपलभेत्यत्र हेतुद्वयांगीकारे गौरवं मत्वाह - उपादानस्य प्रकृतेरुपलंभकतया प्रकाशकत- येत्यर्थः । “मयाध्यक्षेण प्रकृतिः सूयते सचराचरम्” इति श्रीमुखीक्तेः । अत एवं सर्वप्रकाशकत्वादेव । निरुपाधेरुपाधिसंग- शून्यस्य । यथाकाशे वर्त्तमानानामपि पार्थिवरजोमेघवाय्वादी नामसंगत्वात्संगो भवति तद्वत्तवापीत्यर्थः ॥ ४२ ॥ अन्वितार्थप्रकाशिका अथेति । अथ ह वा अत एव हे मधुमथन ! तव महिमैवामृतरससमुद्रस्तस्य विप्रुषा बिन्दुमात्रेण सकृदवलीढया आस्वादितया भक्त्या खमनसि निष्पन्दमानमतिशयेन स्रवत् यत् अविरतं निरन्तरं सुखं तेन विस्मारिता दृष्टश्रुतविषयाः ३२० श्रीमद्भागवतम् [ स्कं. ६ अ. ९ श्लो. ३९-४२ सुखलेशाभासा येषां ते एकान्तिनः भोगाकाङ्क्षाशून्याः सर्वभूतानां प्रिये सुहृदि च सर्वात्मनि भगवति त्वयि नितरां प्रतिदिन तत्रापि निरन्तरं प्रतिक्षणं च निर्वृतं सुखेन प्रतिष्ठितं मनो येषां ते हि यस्मात् स्वार्थे पुरुषार्थे कुशला निपुणाः स्वात्मा प्रियः सुहृच्च येषाम् । यद्वा । स्वात्मनां जीवानां प्रियसुहृदः साधवः परमभागवताः एते त्वच्चरणाम्बुजानुसेवां पुनः कथमु ह वा विसृजन्ति । यत्र यस्यामनुसेवायां सत्यां सेवकस्य संसारपर्यावर्तः संसारे भ्रमणं पुनर्न भवतीत्यर्थः ॥ ३९ ॥ ननुं यूयं परहिंसामुद्दिश्य मां यजध्येऽतो नानुप्राद्या इत्याशङ्कयाहुः - त्रिभुवनेति । त्रिभुवनमात्मा भुवनं स्थानं च यस्य त्रिभुवनस्यात्मा भुवनं चेति वा त्रिषु भुवनेषु विक्रमः प्रभावो यस्य त्रिषु लोकेषु नयनं दृष्टिर्यस्य त्रिषु लोकेषु मनोहरोऽनुभावो लीला यस्येति सम्बोधनानि । हे दण्डधर ! हे भगवन् ! दितिजा दैत्याः दनुजा दानवाश्च अपिशब्दादेव मनुष्यादयश्च तवैव विभूतयः । तत्र दैत्यदानवकृत लोकोपद्रवं दृष्ट्वा तस्य प्रलयहेतुत्वात्तेषामनुपक्रमसमयोऽयमुपद्रवकालोऽयं न भवतीति मत्वा स्वात्ममायया स्वस्वरूपभूतया मायया शक्त्या सुराद्याकृतिभिर्यथापराधं तेषां दण्डं दधर्थ । एवं तथैव यदि मन्यसे हन्तुमिच्छसि तदा एनं त्वाष्ट्रं वृत्रमपि जहि । तत्र सुराकृतिर्वामनादिः नराकृती रामकृष्णादिः मृगाकृतिर्वराहादिः मिश्रिता कृतिर्हयग्रीवनृसिंहादिः जलचराकृतिर्मत्स्यकूर्मादि: ॥ ४० ॥ अस्माकमिति । तत पितः ! हे ततामह हे पितामह ! वेदे व्यवहृतौ ततततामहशब्दौ । हे अनघ ! तावकानां तव पादयोर्नवानां तव चरणकमलयुगे तद्धयानेनैवानुबद्धो हृदये निगड: शृङ्खला येषां तेषां स्वलिङ्गविवरणेन निजमूर्तिप्रकटनेन आत्मसात्कृतानां स्वकीयत्वेनाङ्गीकृतानामित्यर्थः । अस्माकमन्तः स्थितं पा वृत्रभयम् अनुकम्पय | अनुरञ्जितं सानुरागं च विशदं निर्मलं कपटादिदोषशून्यं च रुचिरं मनोहरं च शिशिरं शीतलं च यस्मिंस्तं तत्सहितेनावलोकेन यथाऽनुकम्पयैव विगलितो मुखचन्द्रान्निर्गतो यो मधुरो मोदकरो सुखरसः प्रियवाक् सैवामृतकला तया चेत्यर्थः । शमयितुमर्हसि ॥ ४१ ॥ * अथेति । हे भगवन् ! अस्माभिः अखिलजगतामुत्पत्त्यादिषु निमित्ताय- मानाच्या दिव्या अन्तरङ्गशक्त्यात्मिका माया तया विनोदो यस्य तस्य सकलजीवनिकायानामन्तर्हृदयेषु ब्रह्मस्वरूपेण उदासीनतया प्रत्यगात्मान्तर्यामी तद्रूपेण च तथा बहिरपि प्रधानस्वरूपेण च स्थितस्येति शेषः । अत एव देशकालदेहावस्थान- विशेषाननुल्लङ्घन्य तेषामुपादानतया तेषामुपलम्भकतया चानुभक्तः सर्वेषां प्रत्ययानां बुद्ध्यादीनां साक्षिणः आकाशवन्निर्विकार शरीरस्वरूपं यस्य तस्य साक्षात्परब्रह्मणः परमात्मनस्तव इह इदानीं कियान वै अर्थविशेषो विज्ञापनीयः स्यात् । यथा हिरण्य रेतसोऽग्नेस्तदंशभूतैर्विस्फुलिङ्गादिभिः प्रकाशो न क्रियते तथाऽस्माभिरपि सर्वज्ञस्य तवाग्रे कार्यार्थ प्रकाशनं न कार्यमित्यर्थः ॥ ४२ ॥ यत * वीरराघवव्याख्या यत एव भवाननितरसाधारणोदा रहूतिर्योगपरिशुद्धमनोग्राहयो नित्यनिरुपाधिका परिच्छिन्ननिजानन्दानुभवरूपों जगत्सृष्टिस्थितिसंहृतिलील: सार्व इयसत्यसङ्कल्पत्वाद्यपरिमितगुणसागरोऽनितरसाधारणविविधविचित्रशक्तिरशेषचिदचिन्छ- रीरकः सर्वेश्वरः सर्वसमोऽत एव त्वचरणारविन्दमधुरसास्वादनशीलास्त्वामविस्मरन्तोऽनन्तस्थिर फलरूपमुक्ति प्राप्नुवन्तीत्याहुः । अथेत्यादिना पर्यावर्त्तत इत्यन्तेन गद्येन अथ हवाच ननु भगवानत एव हीति वार्थः । हे मधुमथन ! परमभागवता एकान्तिनो- नन्यप्रयोजनाः त्वत्पादाम्बुजसेवां कथमु हवा विसृजन्तीत्यन्वयः । हि यस्मात्ते स्वार्थकुशलाः पुरुषार्थनिष्कर्षकुशलाः अतः कथम्भूता आत्मा त्वमेव प्रियः सुहृच्च येषां साधवः साध्नुवन्ति परेषामभीष्टमिति साधवः रागादिरहिताश्च । तत्र हेतुः । तव महिमैवामृतः रससमुद्रस्तस्य विप्रुषा बिन्दुमात्रेण कथम्भूतया सकृदवलीढयास्वादितया स्वमनसि निष्यन्दमानमतिशयेन स्त्रवन्निरन्तरं सन्ततं सुखं तेन विस्मारिताः दृष्टाः ऐहिका श्रुताः आमुष्मिकाश्च विषयाः सुखलेशाभासा येषां ते सर्वभूतानां प्रिये सुहृदि च सर्वान्त- रात्मनि भगवति त्वयि निर्वृतं सुखितं मनो येषां ते चरणाम्बुजसेवां विशिषन्ति । यत्र त्वच्चरणाम्बुजसेवायां मुक्तिपर्यन्तायां सत्यां पुनरयं संसारो न पर्यावर्त्तते न परिवृत्ति प्राप्नोति निवर्त्तत इत्यर्थः ॥ ३९ ॥ * * एवमभिष्ट्र्याथ प्रस्तुतं विज्ञापयन्ति । त्रिभुवनेत्यादिना । त्रिभुवनात्मभवन ! त्रिभुवनस्यात्मान्तः प्रविश्य नियन्ता भवनमाश्रयश्च तस्य सम्बोधनम् । एवमग्रेऽपि । त्रयोविक्रमा यस्य सर्वान्तरात्मनस्तवाविदितमन्तरं नास्ति त्रिविक्रमस्य तवासाध्यमपि नास्तीति भावः । हे त्रियनयन ! त्रय- चन्द्रसूर्यास्तयो नयनानि यस्य बाह्यमप्यविदितं नास्तीति भावः । त्रयाणां लोकानां मनोहरोऽनुभावो यस्यास्तदभिलषितमपि तव कर्त्तव्यमेवेति भावः । एवं सम्बोध्य विज्ञापयन्ति यद्यपि दितिजा दनुजाश्च तवैव विभूतयोऽतस्तेषां वधोपायचिन्तनमनुचितं तथापि तेषामनुपक्रमोऽयमित्यभ्युदयकालोऽयं न भवतीति मत्वा पूर्व यथा स्वात्ममायया आत्मसङ्कल्पेनैव उपात्ताभिः सुरादि- संमिश्रितैर्जलचराकृतिभिः सुराद्यवतारैर्मत्स्य कूर्माद्यवतारैश्चेत्यर्थः । तत्र सुराकृतिरुपेन्द्रावतारः । नराकृतिः रामकृष्णादिः । मृगा- कृतिर्वराहादिः । यथापराधमपराधानुसारेण दण्डं बिरोधिनिरसनरूपं दधर्थ कृतवानसि । एवं हे भगवन् । एनं त्वाष्ट्रं वृत्रमपि जहि द्युपमन्यसे हन्तुं यदीच्छसि ॥ ४० ॥ ४ * एवं प्रस्तुतं विज्ञाप्य स्वानुमाहकं तद्वाक्यं श्रोतुकामास्तं प्रार्थयन्ते– ३ स्कं ६ अ. ९ श्लो. ३९-४२ ] । अनेकव्याख्यासमलङ्कृतम् । । NA ३२१ अस्माकमिति । हे तत ! रक्षक ! पितामहेति वार्थः । तावकानां त्वदीयानाम् । तत्र हेतुः । स्वलिङ्गविवरणेन आत्मीयविग्रह- प्रकाशनेन आत्मसात्कृतानामात्मीयत्वेन परिगृहीतानां तव चरणयुगलध्यानेनैव अनुबद्धं वशीकृतं हृदयं तदेव निगलो येषां तेषां नः अनुकम्पास्मद्विषया कृपा तयानुरञ्जितं सानुरागं च तद्विशदं रुचिरं च स्मितं तत्सहितेनावलोकनेन तथानुकम्पयैव निग- लितो मधुरो मुखरसः प्रियवाक्सैवामृतकला तयान्तस्तापं शमयितुमर्हसि ।। ४१ ।। * अपारमहिमशालिनस्तवास्माभि- विज्ञाप्यमेतत्कियदित्याहुः । अथेत्यादिना हिरण्यरेतस इत्यन्तेन । अथ । नतु हे भगवन् ! अस्माभिर्विज्ञापनीयस्तव किया- नर्थः प्रयोजनं स्यात् । तत्र दृष्टान्तः - विस्फुलिङ्गादिभिरिव हिरण्यरेतस इति । विस्फुलिङ्गादिभिरिवाग्नेः कार्यभूतैर्हिरण्यरेतसः कारणभूतस्याग्नेरिव त्वत्कार्यभूतैरस्माभिर्विज्ञापनीयः कारणभूतस्य तव कियानर्थ इत्यर्थः । कार्यकारणभावमात्रपरोऽयं दृष्टान्तः । उभयोरप्यचेतनत्वे विज्ञप्तितदवधृत्योरसम्भवात् । यद्वा । अग्नेर्विस्फुलिङ्गादिभिः क्रियमाणः प्रकाशः कियान् । तथास्माभि- र्विज्ञाप्योऽर्थस्तव कियानित्यर्थः । यद्वास्माभिः कथम्भूतैरित्यत्र दृष्टान्तः । यथा विस्फुलिङ्गा अग्न्यायत्तसत्तास्थित्यादिमन्तस्तथा त्वदायत्तसत्तादिमद्भिरिति । कथम्भूतस्य । तवाखिलजगतामुत्पत्तिस्थितिलयेषु निमित्तायमाना विक्रयमाणा या दिव्या माया सैव विनोदः परिकरो यस्य सकलजीवसमूहानामन्तर्हृदये ब्रह्मप्रत्यगात्मस्वरूपेण प्रत्यग्जीव आत्मा शरीरं यस्य तत्स्वरूपेण ब्रह्मशब्द- वाच्येन जीवशरीरकत्वेन स्वरूपेणेत्यर्थः । बहिः प्रधानं प्रकृतिः रूपं यस्य प्रधानशरीरकत्वेन “यस्यात्मा शरीरं यस्य पृथिवीं शरीरम्” इति श्रुतेः । देशकालदेहावस्थानविशेषाननुल्लङ्घयानतिक्रम्यानुभवतः व्याप्तस्य । यद्वा । तेषामुपादानोपलम्भकतयानु- भवत इत्यन्वयः । तेषां देशकालदेहादीनामुपादानं स्वीकारः एतस्मिन् देशे काले देहे एतत्सुखदुःखादिकमुपादेयमित्येवं रूपमुपा- दानं तस्योपलम्भकतया अभिज्ञापकतया निदानेन सह सर्वज्ञानजनकतयानुभवतः व्याप्तवत इत्यर्थः । सर्वप्रत्ययसाक्षिणः सर्व- जीवानां चित्तवृत्तिसाक्षिण: आकाशशरीरस्याकाशो दहराकाशः स एव शरीरं मूर्तिर्यस्य आसमन्तात्प्रकाशते प्रकाशयति वाकाशः स्वप्रकाशं सर्वस्य प्रकाशमपरिच्छिन्नं ज्ञानं तदेव शरीरमाकारो यस्येति साक्षात्परब्रह्मणः मुख्यवृत्त्या परब्रह्मशब्दवाच्यस्य परमा- त्मनः लोकत्रयमतः प्रविश्य धारकस्य ॥ ४२ ॥ जीवगोस्वामिकृतः क्रमसन्दर्भः तदेवं बहिर्मुखानाक्षिप्य तद्भक्तान् स्तुवन्ति - अथ हेति ॥ ३६-४१ ॥ * * अथ भगवन्निति सम्बोध्य ब्रह्म- परमात्मरूपत्वेऽपि भगवद्रूपत्वस्यैव श्रेष्ठयमभिप्रेतमतः प्रधानरूपेण चेति सर्वश्रेष्ठरूपेणेति भगवदाख्येन चेत्यर्थः । आकाशशरीर- स्येति आ सर्वतः काशते विराजते यत्तत् परं ब्रह्मैव शरीरं यस्येत्यर्थः ॥ ४२-४३ ॥ विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी तदेवं बहिर्मुखानाक्षिप्य तद्भक्तान स्तुवन्ति - अथ हेति । सकृदप्यवलीढया आस्वादितया जनितेन सुखेन प्रेमानन्देन एकान्तिनः त्वत्सेवैकतानमानसत्वात् देवर्ष्यादीन् अनुपासीनाः । तदपि देवर्ष्यादयस्तेषु बहुतरमेव प्रसीदन्तीत्याहुः । सर्वेषां भूतानां प्रिये सुहृदि सर्वेषामात्मनि चेति । त्वत्सेवायां सत्यां ते सर्वेऽपि सेविता एव बभूवुरिति भावः । स्वार्थकुशला इति । तेन त्वत्सेवात्यागिनः कुयोगिप्रभृतयः स्वार्थघातिन एवेति भावः ॥ ३९ ॥ * * त्वद्भक्तेषु मध्ये सकामत्वाद्वयमेवाति- निकृष्टा इति द्योतयन्तः प्रस्तुतं विज्ञापयन्ति । त्रिभुवनमात्मभवनं यस्य त्वद्भक्ता देवमनुष्यादयो यत्र स्थित्वा त्वां सेवन्ते तदिदमसुराक्रान्तमभूदिति भावः । त्रिभिर्विक्रमैस्त्रींल्लोकान् नयसीति । यदेव त्रिभुवनं वामनावतारे त्रिभिरेव पादैः प्रतिगृह्य बलेः सकाशादानीयास्मभ्यं दास्यसीति भावः । त्रिलोकेति । सम्प्रत्यपि त्रिलोकस्था जनास्तवानुभावं पश्यन्तु । दैत्यं संहरेति भावः । ननु परहिंसां समुद्दिश्य मां यजध्वे तत्राहुः । तवैव विभूतयो यद्यपि तदपि तेषामुपक्रमसमयो नायमिति ज्ञात्वा निवेदयाम इति भावः । तस्मात् हे दण्डधर ! पूर्व यथा दण्डं दधर्थ एवमधुनापि उपसमीपकाल एव ।। ४० ।। * एवं स्तुत्वा कृपावलोकमधुरमाश्वासवागमृतं प्रार्थयन्ते । अस्माकमिति । हे तत ! तात ! ततामह ! हे पितामह ! तव चरण- नलिनयुगलमेव ध्यानानुबद्धहृदयस्य निगडः शृङ्खला येषां त्वञ्चरणारविन्दान्मनोमधुपमाक्रष्टुं न शक्नुम इत्यर्थः । स्वलिङ्ग- वरणेन निजमूर्त्तिप्रकटनेन विगलितः मुखचन्द्रान्निःसृतः मधुरो मुखरसः प्रियवाक् स एवामृतकला तया च ॥ ४१ ॥ * * तव त्वयि कियानर्थविशेषो विज्ञापनीय इत्यन्वयः । प्रत्यगात्मा अन्तर्यामी तद्रपेण बहिरपि विषयेषु प्रधानं माया इन्द्रियादिकं तद्रूपेण देशश्च कालश्च देहस्यावस्थानविशेषो बाल्यादयश्च ताननतिक्रम्य अनुभवतः । तेषां देवादिजीवनिकायानाम् उपादानतया कारणत्वेन उपलम्भकतया प्रकाशकत्वेन च हृद्गतं विज्ञापनीयं जानत इत्यर्थः । आकाशवद् गुणैरलिप्तं शरीरं यस्य हिरण्यरेतसो वर्विस्फुलिङ्गादिभिस्तत्कणभूतैरिवास्माभिः ॥ ४२ ॥ । ge ४१ ३२२ ( श्रीमद्भागवतम् शुकदेवकृतः सिद्धांतप्रदीपः
[ स्कं. ६.अ. ९ श्लो. ३९-४२ अब " कारणं तु ध्येयम्” इति श्रुतिमुपबृंहयन्तः संसारनिवृत्तये त्वद्भजनमेव कर्तव्यमिति सूचयितुं शिष्टाचारमाहुः । अथेति । हे मधुमथन ! तब महिमामृतरससमुद्रस्य विप्लुषा बिन्दुना सकृदवलीढया एकवारमप्यास्वादितया स्वमनसि निष्य- न्दमानेन प्रस्रवमाणेन अनवरतेन अश्रान्तेन सुखेन विस्मृताः दृश्रुता ऐहिकामुष्मिका विषयसुखलेशाभासा यैस्ते भगवति नितरां निरन्तरं निर्वृतं मनो येषां ते । अत एव स्वार्थकुशला: आत्मा परमेश्वरो भवान् प्रियः सुहृच येषां ते । त्वच्चरणाम्बुजा- नुसेवां कथं विसृजन्ति नैव विसृजन्तीत्यर्थः । यत्र सेवायां सत्यामयं संसारपर्यावर्तः जन्ममरणप्रवाहः पुनर्न भवति ॥ ३९ ॥ वयमर्थार्थित्वेन त्वद्भक्तेषु निकृष्टा इति सूचयन्तः प्रस्तुतं विज्ञापयन्ति — त्रिभुवनेत्यादिना । हे त्रिभुवन ! विरारूप ! आत्मनैव स्वेनैव भवनं यत्य हे तथाभूत । त्रिषु कालेषु विविधः क्रमः पराक्रमो यस्य हे तथाभूत! कालानवच्छिन्नपराक्रमः त्रिषु कालेषु मनोहरोऽनुभावो यस्य हे कालानवच्छिन्नानुभाव ! यद्यपि दितिजादयोऽपि तवैव विभूतयः तथापि यतस्तदुपक्रमस्य त्रैलोक्य- राज्योद्यमस्यायं कालो नास्ति इति हेतोः । हे दण्डधर ! यथा स्वकीयेषु भक्तेषु या आत्मनस्तव माया कृपा सुरनराधाकृतिभिर्य- थापराधं दण्डं स्वभक्तप्रतिकूलेषु वृतवानसि एवमेनं त्वाष्ट्रमपि यदि उत मन्यसे हन्तुमिच्छसि तर्हि जहि ।। ४० ।। * अतिदैन्ययुक्ताः शीघ्रं कृपां प्रार्थयन्ते । हे तत ! पितः ! हे तवामह । तव चरणनलिनयुगलध्यानमेवानुबद्धो हृदये निगडो येषां तेषाम् । स्वलिङ्गविवरणेन स्वमङ्गलमूर्त्याविष्कारेण त्वयात्मसात्कृतानामनुकम्पया रञ्जितो विशदो विपुलो रुचिरो यः स्मिता लोकः तेन विगलितया मधुरया मुखामृतरसकलया चान्ततापं हे अनघ ! प्रत्युपकारादिवासनारूपाघशून्य ! शमयितु- ! ! मर्हसि ॥ ४१ ॥ * * सर्वात्मनि सर्वज्ञे त्वयि अस्माभिः किं विज्ञापनीयमिति सदृष्टान्तमाहुः । अथेति । हे भगवन् ! यथा हिरण्यरेतसः अग्नेस्तदंशभूतैर्विस्फुलिङ्गादिभिः प्रकाशो न क्रियते तथास्माभिरंशभूतैरिह तव कियानर्थविशेषो विज्ञापनीय इत्यन्वयः । तत्र हेतुगर्भाणि विशेषणानि अखिलजगतामनन्त कोटि ब्रह्माण्डानामुत्पत्त्यादिषु निमित्तायमानया परमकारणेन त्वया महदादिभावं नीयमानया दिव्यमायया विनोदो यस्य सकलाः सपरिकराः जीवनिकाया जीवसमूहा येषु तेषामखिलानां जगता- मनन्तकोटिब्रह्माण्डानामन्तर्हृदयेषु बहिरपि ब्रह्मप्रत्यगात्मरूपेण ब्रह्म च तत्पदार्थलक्षणं प्रत्यगात्मस्वरूपं च पदार्थलक्षणं तयोः समाहारद्वन्द्वैक्यम् । ब्रह्मरूपेण स्वांशभूतजीवरूपेण स्वशक्तिरूपेण च तेषां सकलजीवनिकायानामुपादानतया उपलम्भकता प्रकाशकता तयाचे दिशादिकमनतिक्रम्येति । यथादेशकालदेहावस्थानविशेषमनुभवतः अतएव सर्वप्रत्ययसाक्षिणः आकाश- निर्मलम प्राकृतं यस्य शरीरं तस्य ॥ ४२ ॥ । ! गोस्वामिगिरिधरलालविहिता बालप्रबोधिनी । एवं ज्ञानमार्गं निरूप्य तस्य दुर्गंमत्वात् भक्तिमार्गत्य सुगमत्वात्तत्रैव महतां प्रवृत्तिबाहुल्यदर्शनाच्च स एव परम- पुरुषार्थ इत्याहुः - अथेति वावेत्यवधारणे । हेति प्रसिद्धौ । यस्मादेवम्भूतस्य तव ज्ञानमार्गो दुस्साध्यः अर्थ तस्मादेव हि हे मधु- मथन ये परमभागवतात एते त्वच्चरणाम्बुजानुसेवां पुनः कथमु ह वा विसृजन्तीत्यन्वयः, न त्यजन्त्येवेत्यर्थः । के ते परमभागवता इत्यपेक्षायामाहुः- एकान्तिन इति । एकान्तिनो यस्य न कञ्चनार्थं वाञ्छन्तीति वक्ष्यमाणत्वाद्विषयभोगाकाङ्क्षाशून्या इत्यर्थः । ननु कथं विषयाकाङ्क्षाशून्यत्वमित्यपक्षायां तत्र हेतुमाहुः तवेति । तब महिमैव अमृतरससमुद्रस्तस्य विशुषा बिन्दुमात्रेण सकूद- वलीढया आस्वादितया भक्त्या स्वमनसि निष्यन्दमानमतिशयेन स्रवत् यत् अविरतं निरन्तरं सुखं तेन विस्मारिता दृष्टश्रुतवि- घयाः सुखलेशाभासा येषां ते तथा । ननु तथापि मनसश्चञ्चलत्यात प्रबलत्वाच्च पुनर्विषयोन्मुखत्वं स्यादेवेत्याशङ्कच भगवन्मा- घुर्येणाकृष्य निबद्धत्वान्नैवमित्याहुः - भगवतीति । त्वयि नितरां प्रतिदिनं तत्रापि निरन्तरं प्रसिक्षणं च निर्वृतं सुखेन प्रतिष्ठितं मनो येषां ते तथा भगवति मनसो निर्वृतत्वे हेतुमाहुः - सर्वेति, सर्वेषां भूतानां प्रियश्चासौ सुहृत् हितकृच तस्मिन् । सर्वप्रियत्वे हेतुमाहुः सर्वात्मनीति । ननु तर्ह्येवम्भूते मयि सर्वे कुतो न प्रीति कुर्वन्तीत्याशङ्कय मूर्खत्वादित्यभिप्रायेणाहु:– स्वार्थेति । हि यस्मात् स्वार्थे पुरुषार्थे कुशलाः निपुणाः विवेकिनोऽतस्त्वयि प्रीतिं कुर्वन्तीत्यर्थः । नन्वेवं विवेकोऽपि तेषां कथमित्यपेक्षाया- माहुः - साधव इति, अनेकजन्मानुष्ठितसाधना इत्यर्थः । कानि साधनान्यनुष्ठितानीत्यपेक्षायामाहुः - आत्मप्रियसुहृद इति, आत्मनां जीवानां प्रियाश्च ते सुहृदः कृपालवश्च ते तथा । ननु तेषां यथार्थज्ञानाभावात् संसारनिवृत्तिर्न स्यादित्याशङ्कयाहु: न यत्रेति, यत्र यस्यामनुसेवायां सेवकस्य संसारपर्यावर्त्तः संसारे भ्रमणं पुनर्न भवतीत्यर्थः । न केवलं संसारनिवृत्तिमात्रम्, अपि त्वैहिकमनोरथपूर्तिरपि भवत्येवेति सूचनाय सम्बोधनं हे मधुमथनेति, मधुदैत्यमारणेन ब्रह्मणो मनोरथपूरणात् । तथाच स्वदुर्भाग्येन भगवद्विमुखाः संसारे भ्रमन्तो दुःखभागिन एवेति खेदसूचनाय ज ह वेति निपातत्रयम् ॥ ३९ ॥ * * एवं स्तुत्वा प्रस्तुतं विज्ञायन्ति — त्रिभुवनेत्यादिना । हे भगवन् दितिजा दैत्याः दनुजा दानवाश्च अपिशब्दादेवमनुष्यादयश्च तवैव
क. ६ अ. ९ लो. ३९-४२ ] । अनैकव्याख्यासमलङ्कृतम् ३२३ विभूतयः, तत्र दैत्यदानवकृतलोकोपद्रवं दृष्ट्वा तस्य प्रलयहेतुत्वात् तेषामनुपक्रमसमयोऽयमुपद्रवकालोऽयं न भवतीति मत्वा स्वात्ममायया स्वस्वरूप भूतया मायाशक्त्या सुराद्याकृतिभिर्यथा तेषां दण्डं दधर्थ एवं तथैव यदि मन्यसे हन्तुमिच्छसि तदा एवं त्वा वृत्रमपि जहीत्यन्वयः । वृत्रेण खखेदं सूचयन्ति उतेति । तत्र सुराकृतिर्वामनादिः, नराकृती रामकृष्णादिः, मृगाकृतिर्वराहादि:, मिश्रिताकृतिर्हयग्रीवनृसिंहादिः, जलचराकृतिर्मत्स्यकूर्मादिः । सर्वत्रावतारे देवपक्षपातस्य दैत्यादि- निग्रहस्य च प्रसिद्धत्वात् । नन्वेवं तर्हि शास्त्रप्रसिद्धसाम्यविरुद्धवैषम्यप्रसक्तिर्मयि । स्यादित्याशङ्कयाहु: - यथापराधमिति, तेषामपराधानुसारेणेत्यर्थः । नन्वेवं दण्डधारकत्वे ममैवेति कथमित्याशङ्कय तत्राधिकारित्वादित्याशयेन सम्बोधयन्ति — हे दण्डधर इति । ननु दण्डाधिकारे सामर्थ्यमपेक्षितम्, अन्यथा कथं तत्सिद्धचेदित्याशङ्कय सामर्थ्य समर्थयन्तः सम्बोधयन्ति - हे त्रिविक्रमेति । त्रिषु भुवनेषु विक्रमः प्रभावो यस्य तथापि मम दण्डधारणे किं फलमित्याकाङ्क्षानिराशाय सम्बोधनान्तरम् हे त्रिनयनेति, त्रिषु लोकेषु पाल्यतया नयनं दृष्टिर्यस्य । त्रिभुवनरक्षार्थं तद्विघातकेषु दण्डं धत्से इति भावः । नतु त्रिभुवनरक्षा- यामपि को हेतुरिति शङ्कानिरासाय सम्बोधयन्ति - हे त्रिभुवनात्मभवनेति त्रिभुवनमात्मा स्वरूपं भवनं स्थानं च यस्य । किमर्थमेवं जात इत्याशङ्कय क्रीडार्थमित्यभिप्रेत्य सम्बोधयन्ति-हे त्रिलोकमनोहरानुभावेति, त्रिषु लोकेषु मनोहरोऽनुभावो लीला यस्य तत्सम्बोधनम् ॥ ४० ॥ * एवं विज्ञाप्यानुप्रहण स्वाश्वासनं प्रार्थयन्ते —— अस्माकमिति । हे तत हे पितः हे ततामह है पितामह है अनघ अस्माकमन्तः स्थितं तापं वृत्रभयं शमयितुमईसीत्यन्वयः । वृत्रवधस्य प्रार्थितत्वात् ततो भयनिवृत्तिरर्थसिद्धैव पुनस्तद्भयनिवृत्तिप्रार्थनया तद्वधात् पूर्वमिदानीमेव सा कर्त्तव्या अन्यथा तद्भयादिदानीमस्माकं मरणे जाते पुनस्तद्बधेनापि किं स्यादिति सूचयन्ति । केन सा कर्त्तव्येत्यपेक्षायामाहुः । अनुकम्पया अनुरञ्जितं सानुरागं च विशद निर्मलं कापट्यादिदोषशून्यं च रुचिरं मनोहरं च शिशिरं शीतलं च यत्स्मितं तत्सहितेनावलोकेन । तथानुकम्पयैव विगलितो मुखचन्द्रान्निर्गतो यो मधुरो मोदकरो मुखरसः प्रियवाक् सैवामृतकला तया चेत्यर्थः । ननु कथं युष्मत्तापोशपमो मयैव कर्त्तव्य इत्यपेक्षायां परस्परतद्योग्यसम्बन्धादित्याहुः तावकानामिति । स्वकीयानां तापोपशमं स्वामी यदि न कुर्यात्तदा को वाऽन्यः कुर्यादिति भावः । कथं यूयमस्मदीया इत्याशङ्कानिरासाय त्वज्जन्यत्वादित्यभिप्रायेण सम्बोधनद्वयं हे तत हे ततामहेति । न केवलं त्वन्नन्यत्वादेव वयं रक्षणीयाः किन्तु त्वद्भक्तत्वादपीत्याहु:–तब नतानामिति । तदपि भक्तत्वं नो परितो नमनादिना लोक- प्रदर्शनार्थं किन्तु अन्तःकरणादपीत्याहुः — तवेति, तव चरणकमलयुगले तद्धधानेनैवानुबद्धो हृदये निगडः शृङ्खला येषां तेषाम् । एतज्ज्ञात्वैन सर्वज्ञो भवान् कृपया प्रादुर्भूतोऽन्यथैतन्न स्यादित्यभिप्रायेणाहुः स्वलिङ्गेति, स्वलिङ्गनिगरणेन निजमूर्तिप्रकटनेन आत्मसात्कृतानां स्वकीयत्वेनाङ्गीकृतानामित्यर्थः । हे अनघेति सम्बोधनं निर्दोषपूर्ण गुणस्य तवैतदुचितमेवेति सूचनाय । यद्वा न विद्यते कुतश्चिदप्यघं दुःखं भक्तानां यस्माद्रक्षकात्तत्सम्बोधनेन तवैतदुचितमेवेति सूचितम् ॥ ४१ ॥ * * किन वृत्रवधार्थं यद्विज्ञापितं तत्सर्वं स्वचित्तव्याकुलत्वादेवास्मदभिप्रायस्त्वया सर्वज्ञतया ज्ञायत एव किमत्रास्माभिर्विज्ञापनीयमित्याहु:- अथेति अर्थान्तरे, ह प्रसिद्धौ । हे भगवन अस्माभिस्तवेहेदानीं कियान् वै निश्चितोऽर्थविशेषो विज्ञापनीयः स्यादित्यन्वयः । तत्र दृष्टान्तः - विस्फुलिङ्गादिभिरिवेति यथा हिरण्यरेतसोऽग्नेस्तदंशभूतैर्विस्फुलिङ्गादिभिः प्रकाशो न क्रियते तथाऽस्माभिरपि तब कार्यार्थ प्रकाशनं न कार्यमित्यर्थः । ननु कथं मया सर्व ज्ञायते येन भवद्भिर्न किञ्चिद्विज्ञापनीयमित्याकाङ्क्षायामाहुः - सर्वेति, सर्वेषां प्रत्ययानां बुद्धयादीनां साक्षिणः । साक्षित्वमेव स्पष्टयति–सकलेति, सर्वजीवनिकायानामन्त हृदयेषु ब्रह्मस्व- रूपेण उदासीनतया प्रत्यगात्मान्तर्यामी तद्रूपेण च । तथा बहिरपि प्रधानस्वरूपेण च स्थितस्येति शेषः । अतएव देशकालदेहा- बस्थानविशेषानतुल्ल चानुभवतः । तथा स्थितौ हेतुः – तेषामुपादानतयेति । तथानुभवे हेतुमाहुः तेषामुपलम्भकतया प्रकाश- कतयेत्यर्थः । सकलपदार्थसङ्कोचे परिच्छिन्नत्वशङ्का स्यात्तद्वारणायाहु:– साक्षात् परब्रह्मण इति । नतु किमर्थं सर्वप्रपञ्चरूपों जात इत्यपेक्षायां क्रीडार्थमित्याहुः - अखिलेति । अखिलजगतामुत्पत्त्यादिषु निमित्तायमाना या दिव्या अन्तरङ्गशक्त्यात्मिका माया तया विनोदो यस्य तस्येत्यर्थः । एवं तर्हि मम विकारित्वं स्यादिति शङ्कानिरासायाहु:– आकाशशरीरस्येति, आकाशव- दलितं निर्विकार शरीरं स्वरूपं यस्य तस्य । तत्रापि हेतुमाहुः - परमात्मन इति, अचिन्त्यानन्तशक्तिमतः पुरुषोत्तम- स्येत्यर्थः ॥ ४२ ॥ भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी एवं भगवन्तमभिष्ट्र्य प्रस्तुतं विज्ञापयन्ति - त्रिभुवनेति । त्रिभुवनस्यात्मान्तः प्रविश्य नियन्ता स चासौ भवनमा - श्रयस्तस्य संबोधनम् । सर्वान्तरात्मनस्तव किंचिदविदितमन्तरं नास्तीति भावः । त्रयो विक्रमा यस्य तस्य संबोधनम् । किंचिदपि तवासाध्यं नास्तीति भावः । त्रयश्चन्द्रसूर्याप्रयो नयनानि यस्य तस्य संबोधनम् । बाह्यमपि तवाविदितं नास्तीति भावः । shri लोकानां मनोहरो ऽनुभावो महिमा यस्य तस्य संबोधनम् । तवैवं भूतत्वादस्मदभिलषितमपि त्वया कर्त्तव्यमेवेति भावः । ३३४ j श्रीमद्भागवतम् [ स्कं. ६ अ ९ . ३९-४२ एवं चतुर्द्धा संबोध्य विज्ञाप्यं विज्ञापयन्ति । हे हरे, दितिजदनुजादयः दितिजा दनुजा आदिशब्देन कालकेयादयश्चापि तव एव विभूतयः । अतस्तेषां वधोपायचिन्तनं यद्यपि तवानुचितं भवतीति शेषः । तथापि, अयं तेषाम् अनुपक्रमसमयः अभ्युदय- कालो न भवति । इति मत्वा पूर्व यथेति शेषः । स्वात्ममायया आत्मसंकल्पेनैव, उपात्ताः स्वीकृताः याः सुरनरमृगमिश्रितजल- चराकृतयस्ताभिः, तत्र सुराकृतय उपेन्द्राद्यवताराः । नराकृतयो रामकृष्णादयः । मृगाकृतयो वराहादयः । मिश्राकृतयो नृसिं- हादयः । जलचराकृतयो मत्स्यकूर्मादयः । यथापराधमपराधानुसारेण, दण्डं विरोधिनिरसनरूपं दधर्थ वृतवानसि । एवं हे । दण्डधर, एनं त्वाष्ट्रमपि त्वष्टुः सुतं वृत्रमपि, जहि । उतावधारणे । हे भगवन्, यदि मन्यसे हन्तुमिच्छसि ।। ३९ ।। ८ ।। एवं प्रस्तुतं विज्ञाप्य स्वानुग्राहकं तद्वाक्यं श्रोतुकामास्तं प्रार्थयन्ते । अस्माकमिति । हे तत हे पितः, हे ततामह हे पितामह, तव चरणे पादावेव नलिने कमले तयोर्यद्युगलं तस्य यद्वयानं तेनैवानुबद्धो हृदये निगडः शृङ्खला येषां तेषां स्वलिङ्गविवरणेन निजमूर्त्तिप्रकटनेन, आत्मसात्कृतानां तावकानाम् अस्माकम् अनुकम्पाऽस्मद्विषया या कृपा तयाऽनुरञ्जितं सानुरागं च तद्विशदं च रुचिरं च शिशिरं शीतलं च यत्स्मितं तत्सहितो योऽवलोकस्तेन, तथा विगलितो मधुरो यो मुखरसः प्रियवाक् सैव अमृतकला तया च, हे अनघ निर्दोष भगवन्, अन्तस्तापमस्मदन्तःस्थं परितापं शमयितुम् अर्हसि ॥ ४० ॥६॥ किं चास्माक- मभिप्रायो ऽपार महिमशालिना त्वया ज्ञायते एव किमत्रास्माभिर्विज्ञापनीयमित्याहुः । अथेति । अथ ननु हे भगवन्, अखिलानि च तानि जगन्ति च येषां ये उत्पत्तिस्थितिमयास्तेषु निमित्तायमाना विक्रीयमाणा या दिव्या माया सैव विनोदः परिकरो यस्य तस्य, सकलाश्च ते जीवाश्च तेषां निकायाः समूहास्तेषाम्, अन्तर्हृदयेषु, ब्रह्मरूपो यः प्रत्यगात्मा जीवस्तत्स्वरूपेण तच्छरीरकत्वेन, बहिरपि प्रधानरूपेण प्रधानशरीरकत्वेन च, यथादेशकालदेहावस्थानविशेष, देशश्च कालश्च देहावस्थानं च तेषां विशेषस्तमन- तिक्रम्य तदुपादानोपलम्भकतया एतस्मिन् देशे काले देहे च एतत् सुखदुःखादिकमनेनोपादेयमित्येवंरूपं यत्तेषामुपादानं तस्यो- पलम्भकतया जीवानां सर्वज्ञानप्रकाशकतया, अनुभवतः सर्वेषु व्याप्तवतः, अत एव सर्वप्रत्ययसाक्षिणः सर्वेषां जीवानां चित्त- वृत्तेः साक्षात् द्रष्टुः, आकाशशरीरस्य सर्वभूतस्थत्वेऽपि आकाशो यथा निर्लेपस्तथा सर्वशरीरत्वेऽपि तद्गतगुणदोषानस्पृशतः, साक्षात्परब्रह्मणः सच्चिद्रूपोऽपि जीवोऽनादिकालतोऽतीव सोपाधिः, त्वं तु अनादिकालतः सच्चिदानन्दरूपो निरुपाधिः, अतः परब्रह्मरूपस्य परमात्मनः, तव अस्माभिः विस्फुलिङ्गादिभिः, हिरण्यरेतसोऽग्नेखि, किया अर्थविशेषः । इह वा अस्मिन् समयविशेषे, विज्ञापनीयः स्यात् ॥ ४१ ॥ * अत एवेति । यत एव वयमग्नेर्विस्फुलिङ्गा इव त्वदायत्तसत्तादिमन्तः, अत एव परमगुरोः भगवतः, तव विविधानि नानाविधानि यानि वृजिनानि पापानि तैर्यः संसारो जन्ममरणभक्तं तस्य यः परिश्रमस्तस्य उपशमनी शमयित्री तां चरणावेव पलाशे कुशेशये तयोश्छाया ताम्, उपसृतानामपाश्रितानाम्, अस्माकं तत् स्वयमेव उपकल्पय किं तत् यत्कामेन यत्प्रयोजननिमित्तेन वयम् उपसादिताः त्वामिति शेषः ।। ४२ ।। एक भाषानुवादः मधुसूदन ! आपकी अमृतमयी महिमा रसका अनन्त समुद्र है। उसके नन्हें-से सीकरका भी, अधिक नहीं—एक बार भी स्वाद चख लेनेसे हृदयमें नित्य निरन्तर परमानन्दकी धारा बहने लगती है। उसके कारण अबतक जगत्में विषय-भोगोंके जितने भी लेशमात्र, प्रतीतिमात्र सुखका अनुभव हुआ है या परलोक आदिके विषय में सुना गया है, वह, सबका+ सब जिन्होंने भुला दिया है, समस्त प्राणियोंके परम प्रियतम, हितैषी, सुहृद्, और सर्वात्मा आप ऐश्वर्य-निधि परमेश्वरमें जो अपने मन को नित्य निरन्तर लगाये रखते और आपके चिन्तनका ही सुख लूटते हैं, वे आपके अनन्य प्रेमी परम भक्त पुरुष ही अपने स्वार्थ और परमार्थमें निपुण हैं। मधुसूदन ! आपके वे प्यारे और सुहृद् भक्तजन भला, आपके चरण कमलोंका सेवन कैसे त्याग सकते हैं, जिससे जन्म-मृत्युरूप संसारके चक्कर से सदा के लिये छुटकारा मिल जाता है ।। ३९ ।। प्रभो ! आप त्रिलोकीके आत्मा और आश्रय हैं । आपने अपने तीन पगोंसे सारे जगत्को नाप लिया था और आप ही तीनों लोकोंके सञ्चालक हैं । आपकी महिमा त्रिलोकीका मन हरण करनेवाली है । इसमें सन्देह नहीं कि दैत्य, दानव आदि असुर भी आपकी ही विभूतियाँ हैं । तथापि यह उनकी उन्नतिका समय नहीं है- यह सोचकर आप अपनी योग- मायासे देवता, मनुष्य, पशु, नृसिंह आदि मिश्रित और मत्स्य आदि जलचरोंके रूपमें अवतार ग्रहण करते और उनके अपराधके अनुसार उन्हें दण्ड देते हैं । दण्डधारी प्रभो ! यदि जँचे तो आप उन्हीं असुरोंके समान इस वृत्रासुरका भी नाश कर डालिये ॥ ४० ॥ * * भगवन् ! आप हमारे पिता, पितामह- - सब कुछ हम आपके निजजन हैं और निरन्तर आपके सामने सिर झुकाये रहते हैं आपके चरणकमलोंका ध्यान करते-करते हमारा हृदय उन्हींके प्रेम- बन्धनसे बँध गया है। आपने हमारे सामने अपना दिव्यगुणोंसे युक्त साकार विग्रह प्रकट करके हमें अपनाया है।
Ai स्कं. ६ अ. ९ लो. ४३-५० 1 अनेकव्याख्यासमलँङङ्कृतम् ३२५ इसलिये प्रभो ! हम आपसे प्रार्थना करते हैं कि आप अपनी दयाभरी, विशद, सुन्दर और शीतल मुस्कानयुक्त चितवन से तथा अपने मुखारविन्द से टपकते हुए मनोहर वाणीरूप सुमधुर सुधाबिन्दुसे हमारे हृदयका ताप शान्त कीजिये, हमारे अन्तरकी जलन बुझाइये ॥ ४१ ॥ * * प्रभो ! जिस प्रकार अग्निकी ही अंशभूत चिनगारियाँ आदि अग्निको प्रकाशित करनेमें असमर्थ हैं, वैसे ही हम भी आपको अपना कोई भी स्वार्थ परमार्थ निवेदन करनेमें असमर्थ हैं। आपसे भला, कहना ही क्या है ! क्योंकि आप सम्पूर्ण जगत् की उत्पत्ति, स्थिति और लय करनेवाली दिव्य मायाके साथ विनोद करते रहते हैं तथा समस्त जीवोंके अन्तःकरणमें ब्रह्म और अन्तर्यामी रूपसे विराजमान रहते हैं। केवल इतना ही नहीं, उनके बाहर भी प्रकृतिके रूपसे आप हो विराजमान हैं । जगत्में जितने भी देश, काल, शरीर और अवस्था आदि हैं, उनके उपादान और प्रकाशकके रूपमें आप ही उनका अनुभव करते रहते हैं । 3 उनका अनुभव करते रहते हैं । आप सभी वृत्तियोंके साक्षी हैं। आप आकाशके समान । सर्वगत हैं, निर्लिप्त हैं। आप स्वयं परब्रह्म परमात्मा हैं ।। ४२ ।। अत एव स्वयं तदुपकल्पयास्माकं भगवतः परमगुरोस्तव चरणशतपलाशच्छायां विविधवजिनसंसार परिश्रमो- पशमनीमुपसृतानां वयं यत्कामेनोपसादिताः ॥ ४३ ॥ 家 1 अथो ईश जहि त्वाष्ट्रं ग्रसन्तं भुवनत्रयम् । ग्रस्तानि येन नः कृष्ण तेजांस्यस्त्रायुधानि च ।। ४४ ।। हंसाय दहनिलयाय निरीक्षकाय कृष्णाय मृष्टयशसे निरुपक्रमाय । सत्संग्रहाय भवपान्थनिजाश्रमाप्तावन्ते परीष्टगतये हरये नमस्ते ॥ ४५ ॥ श्रीशुक उवाच अथैवमीडितो राजन् सादरं त्रिदशैर्हरिः । स्वमुपस्थानमाकर्ण्य प्राह तानभिनन्दितः ॥ ४६ ॥ श्रीभगवानुवाच प्रीतोऽहं वः सुरश्रेष्ठा मदुपस्थानविद्यया । आत्मैश्वर्यस्मृतिः पुंसां भक्तिश्चैव यया मयि किं दुरापं मयि प्रीते तथापि विबुधर्षभाः । मय्येकान्तमतिर्नान्यन्मन्तो वांच्छति तच्ववित् ॥ ॥ ४७ ॥ ४८ ॥ न वेद कृपणः श्रेय आत्मनो गुणवस्तुदृक् । तस्य तानिच्छतो यच्छेद् यदि सोऽपि तथाविधः ।। ४९ ।। स्वयं निःश्रेयसं विद्वान् न वक्त्यज्ञाय कर्म हि । न राति रोगिणोऽपथ्यं वाञ्छतो हि भिषक्तमः ।। ५० ।। कृष्णप्रिया व्याख्या अन्वयः - अत एव वयं यत्कामेन उपसादिताः तत् भगवतः परमगुरोः तव विविधवृजिनसंसारपरिश्रमोपशमनीं ।। ।।
- राजन् अथ त्रिदशैः सादरम् सुरश्रेष्ठाः अहं वः मदुपस्थानविद्यया चरणशतपलाशच्छायां उपसृतानाम् अस्माकं कार्य स्वयम् उपकल्पय ।। ४३ ।। * * अथो ईश कृष्ण भुवनत्रयं प्रसन्तं त्वाष्ट्रं जहि येन नः तेजांसि च अस्नायुधानि प्रस्तानि ॥ ४४ ॥ * * हंसाय दहनिलयाय निरीक्षकाय कृष्णाय मृष्टयशसे निरुपक्रमाय सत्संग्रहाय भवपान्थनिजाश्रमाप्तौ अन्ते परीष्टगतये हरये ते नमः ॥ ४५ ॥ एवम् ईडितः हरिः स्वम् उपस्थानम् आकर्ण्य अभिनन्दितः तान् प्राह ।। प्रीतः यया पुंसाम् आत्मैश्वर्यस्मृतिः च मयि भक्तिः एव भवति ॥ ४७ ॥ तत्त्ववित् मयि एकान्तमतिः मत्तः अन्यत् न वांछति ॥ ४८ ॥ इच्छतः तस्य कः सः अपि तथाविधः ॥ ४६ ॥ अपि तथाविधः ॥ ४६ ॥ वाञ्छतः रोगिणः न राति ॥ ५० ॥
४६ ।। * *
-
- विबुधर्षभाः मयि प्रीते दुरापं किं तथा अपि गुणवस्तुहक कृपणः आत्मनः श्रेयः न वेद यदि तान् * स्वयं निःश्रेयसं विद्वान अज्ञाय स्वयं निःश्रेयसं विद्वान अज्ञाय कर्म न वक्ति हि भिषक्तमः अपथ्यं ०१. प्रा० पा० मुपसंगतानां । २. प्रा० पा० तोऽपि भि० । ३२६ एक स्वस्थ कम श्रीमद्भागवतम् श्रीधरस्वामिविरचिता भावार्थदीपिका DD FRUS FIFA FEES IS دا له लोक सरकार प्रमाण [ स्कं. ६ अ ९ लो. ४३-५० अत एव सर्वज्ञत्वादेव वयं यत्कामेन यस्य कार्यस्य कामेनोपसादिताः प्रापितास्तदस्माकं कार्य स्वयमेवोपकल्पय संपादयेति । चरणमेव शतपलाशं कमलं तस्य छायां विविधैर्वृजिनैः संसारपरिश्रमस्तस्योपशम करीमुपसृतानां प्राप्ता- नाम् ॥ ४३ ॥ * * पूर्व भक्तरुत्कर्षोक्तस्तत्कामशंका मा भूदिति स्वकामं कथयति । अथो अनंतरमेव ॥ ४४ ॥ * * शीघ्रं तद्वधाय पुनः प्रणमंति । हंसाय शुद्धाय हरये आर्तिहराय ते नमः । शुद्ध हेतवः । दहनिलयाय हृदयाकाशनिकेताय । निरीक्षकाय बुद्धयादिसाक्षिणे । कृष्णाय सदानंदरूपाय । “कृषिर्भूवाचकः शब्दो णश्च निर्वृतिवाचकः । तयोरैक्यं परं ब्रह्म कृष्ण इत्यभिधीयते ।” इति निरुक्तेः । आर्तिहरत्वे हेतवः । सृष्टं रुचिकरं यशो यस्य । निरुपक्रमायादिशून्यायासद्भिः संगृह्णत इति तथा तस्मै । भवपान्थो भवरूपे पथि वर्तमानस्तस्य जनस्य स्वशरणप्राप्तौ निजाश्रमाप्तौ सत्यां संसारस्यांते परीष्टा सर्वतः पूजिता उत्तमा गतिः फलं यस्तस्मै ॥ ४५ ॥ * * अभिनंदितः संतोषितः ॥ ४६ ॥ मदीयमुपस्थानं स्तोत्रं तत्सहितया विद्यया ज्ञानेन । आत्मन ऐश्वर्यमसंसारित्वं तस्य स्मृतिर्यया । न हि विरोध उभयमित्यादिना कर्तृत्वभोक्तृत्वादेर्मा- यिकत्वोक्तः भक्तिश्च यया भवति ॥ ४७ ॥ * * अथ भगवन्नित्यादिना भक्तः सर्वोत्कर्षोक्तर्भक्तमभिनन्दति । किमिति ॥ ४८ ॥ * * यदुक्तं देवैः स्वयं तदुपकल्पयास्माकमित्यादि तत्संपादनं कृपालोर्ममानुचितमित्याशयेनाह न वेदेति द्वाभ्याम् । गुणेषु विषयेषु तत्त्वदर्शी स आत्मनः श्रेयो न वेद तस्य तान्विषयान । सोऽपि तथाविधोऽज्ञ एव ॥ ४९ ॥ कर्म न वक्ति प्रवृत्तिमार्ग न वक्ति हि । अपथ्यं यथा न राति न ददाति भिषक्तमः सद्वैद्यः ॥ ५० ॥ ॥ || वंशीधरकृतो भावार्थदीपिकाप्रकाशः गुरोरपि चरणच्छाया संसारदुःखहारिणी किं पुनः परमगुरोस्तवेति भावः ॥ ४३ ॥ परमगुरोस्तवेति भावः ॥ ४३ ॥ * * ईशेति शंभुप्रसक्ति- बारणाय । कृष्णेति । भक्तजनक्लेशकर्षणसमर्थोऽसीति भावः । चक्रवर्ती - सर्वत्रैव स्तुतिषु शुद्धभक्तेरुत्कर्षोक्तेः कदाचिद्भक्तिमेव ददाति भगवांस्तथा सति प्रेमाशुकम्पादिमंतो वयं स्वर्गीय सुखेषु वैमुख्योदयात्वथिव्यामेव पर्यटिष्यामो ऽस्मद्वैरिण एवामरावती- मध्यास्य विराजिष्यन्त इत्याशंकया गांभीर्य्याभावेन च स्पष्टं स्वकाममाहुः अथो इत्यवतरणिकामाह ॥ ४४ ॥ तब चरणयोः पतामः शीघ्रं जहीति वैकल्येन श्रीकृष्णरूपिणं तं सर्वमेव स्वाभिलषितमभिव्यंजयंतः प्रणमंति- हंसाय सारासारौ विमृश्य सारप्राहिणे । मृष्टयशसेऽस्मत्त्राणेन जातं यशस्ते लोका गायत्विति भावः । निरुपक्रमाय अस्मन्निवेदितकृत्येषूपक्रमं विनैव तत्संपादनसमर्थाय । किं च– सतां भक्तानामेव प्रयासेनापि संग्रहो न चान्यवस्तूनां यस्य तस्मै ‘नमोऽकिंचनवित्ताय’ इत्युक्तेः । भववर्त्मनि वर्तमाना ये पान्था तेषामस्मदादिदुर्जीवानां शुद्धभक्तिरहितानामपि निजाश्रमस्य प्राप्तावविद्यां तीर्त्वा स्वानंदाधिगमे सतीत्यर्थः । संसारस्यां परि सर्वतोभावेनेष्टा व्यंजिता गतिस्सायुज्यं सालोक्यं दास्यादिप्रेमा वा येन तस्मै ॥ ४५ ॥ || * हे राजन् भक्त्या देदीप्यमान । उपस्थान स्तुतिम् ॥ ४६ ॥ 83 सुरश्रेष्ठा इति । न ह्यधमानां मदुपस्थानादौ प्रीतिर्भवतीति भावः । मदुपस्थानमेव विद्येति वा ॥ ४७ ॥ A wirinews FREEMPना अहो द ॐ अहो दौर्भाग्यं मूर्खता च अन्यन्न वान्छति किन्तु भक्तिमेव युष्माकमनया विद्यया मां स्तुत्वापि भक्तिर्नार्थितेत्याह- किमिति । तत्त्वविद्वस्तुयाथार्थ्यज्ञः बान्छतीति भावः ॥ ४८ ॥ * * यद्यपि यूयं मूर्खा विषयानभिलषतः स्वभद्राभद्रं न जानीथ तदप्यहं विज्ञो युष्मभ्यं तान्कथं ददामि न हि माता स्वपुत्रेभ्यः स्वहस्तेन विषं ददातीत्याह - नेति । तस्य तस्मै । कृपणोऽज्ञः ॥ ४९ ॥ अपथ्यं यथा ज्वरात्तस्य शीतजलादि । निःश्रेयसं कल्याणकरमात्मविद्यालक्षणम् ॥ ५० ॥ अन्वितार्थप्रकाशिका || F कै कै
अत इति । अतः सर्गज्ञत्वाद्वयं यत्कामेन यस्य कार्यस्य कामनात् उपसृताना शरणागतानां त्वद्भक्तानां विविधैर्वृ- जिनैर्दु:खैर्यः संसारपरिश्रमस्तस्योपशमकरीं भगवतः परमगुरोस्तव चरणमेव शतपलाशं कमलं तस्य छायामुपसादिताः प्राप्ताः त्वयैवान्तर्यामिणा कृपया प्रापिता इति वा तदस्माकं कार्यं त्वं स्वयं विज्ञप्तिमन्तरेणैवोपकल्पय सम्पादय ॥ ४३ ॥ अथो इति । हे ईश ! हे कृष्ण ! अथो अनन्तरं शीघ्रमेव भुवनत्रयं प्रसन्तं शतार्ष:, त्वाष्ट्रं वृत्रं जहि । येन नोऽस्माकं तेजांसि अखाणि मन्त्राः आयुधानि च प्रस्तानि ॥ ४४ ॥ हंसायेति । हंसाय शुद्धाय दह दहर हृदयाकाशः स निलयो यस्य तस्मै निरीक्षकाय साक्षिणे कृष्णायानन्दरूपाय मृष्टम् उज्ज्वलं यशो यस्य निरुपक्रमायेति श्रमजनकलौकिकप्रकारमन्तरेणैव कार्यसम्पादनसमर्थायेत्यर्थः । सद्भिः संगृह्यते यस्तस्मै भवपान्थः भवरूपे पथि वर्तमानस्तस्य जनस्य निजाश्रमाप्तौ स्वशरणप्राप्तौ सत्यां संसारस्यान्ते परीष्टा सर्गतः पूजिता उत्तमा गतिः फलरूपा यस्य तस्मै हरये ते तुभ्यं नमः ॥। ४५ ।। 31 arafa 1 → अथेति । स्कं. ६ अ. ९ श्लो. ४३-५० ] अनेकव्याख्यासमलङ्कृतम् । ।। … ३२७ हे राजन् ! एवं सादरं यथा भवति यथा त्रिदशैर्देवैरीडितः स्तुतः अभिनन्दितः प्रसादितश्च हरिः स्वकीयमुपस्थानं स्तोत्रमा कर्ण्य अथानन्तरं तान् प्राह स्म ॥ ४६ ॥ * * प्रीत इति । हे सुरश्रेष्ठाः ! मदीयं यदुपस्थानं स्तोत्रं तत्सहितया विद्यया ।। ।। ज्ञानेन वः युष्माकमहं प्रीतः आत्मनो ममैश्वर्यस्यासंसारित्वादेः पूर्वोक्तस्य स्मृतिमयि भक्तिश्च पुंसां यया विद्यया भविष्यत्येव ।। ४७ ।। किमिति । हे विबुधर्षभाः । मयि प्रीते सति किं दुरापं किं दुर्लभं तथापि मयि एकान्ता एकरसा मतिर्यस्य सः तत्त्वविन्मत्तः अन्यत् किमपि न वाञ्छति ॥ ४८ ॥ यदुक्तं देवैः स्वयं तदुपकल्पयास्माक- मित्यादि तत्सम्पादनं कृपालोर्ममानुचितमित्याशयेनाह नेति । गुणेषु विषयेषु तवदर्शी अनात्मज्ञ इत्यर्थः । कृपणः पुरुषः आत्मनः श्रेयो न वेद न जानाति । तस्याज्ञस्य तान् विषयानिच्छतो यदि कश्चित्तान्विषयान् यच्छेत् दद्यात् तदा स दातापि तथाविधो ज्ञेयः अनात्मज्ञ एवेत्यर्थः ॥ ४९ ॥ * * स्वयमिति । या स्वयं निःश्रेयसं परमानन्दप्राप्तिसाधनं भगवद्भजन विद्वान जानाति सः अज्ञाय जनाय कर्म दुःखकारणविषयप्राप्तिसाधनं न हि बक्ति । तदुपदेशमपि नैव करोति तत्सम्पादनं तु दूरतः । यथा भिषक्तमः सद्वैद्यो हि अपथ्यं वाञ्छतोऽपि रोगिणो यथा तन्न राति न ददाति तद्वत् ॥ ५० ॥ । मीकि कीम को वीरराघवव्याख्या J. ि यत एवं वयमग्नेर्विस्फुलिङ्गा इव त्वदायत्तसत्तादिमन्तः अत एवास्माकं तदुपकल्पय तत्कार्यमुपकल्पय सम्पादय किन्तत् यत्कामेन यत्प्रयोजनकामेन क्यमुपसादिताः । ननु दितिजदनुजानामपि मदायत्तसत्तादिमत्त्वात्कि विशेषेण स्वकार्य साधयेत्युच्यते इत्याशङ्कां निराकुर्वन्तः स्वात्मनो विशिषन्ति । परमगुरोर्भवतश्चरणावेव शतपलाशे कुशेशये तयोश्छायामुपसृता- नामाश्रितानां प्रपन्नानामिति भावः । कथम्भूतां छायां विविधैर्वृजिनैः पापैर्यः संसारस्य परिश्रमः तस्य उपशमनीम् उपशम- यन्त्यनयेत्युपशमनी ताम् ॥ ४३ ॥ तदुकल्पयेत्येतदेव विशदयन्ति ।। अथो इति । अतः हे ईश ! भुवनत्रयं प्रसन्तं त्वाष्ट्रं वृत्रं जहि येन त्वाष्ट्रेण हे कृष्ण ! नोऽस्माकं तेजांस्यवाण्यायुधानि च प्रस्तानि ॥ ४४ ॥ तद्वधाय पुनः प्रणमन्ति हंसायेति । हंसाय निरस्तनिखिलदोषाय प्रणतार्तिहन्त्रे वा दहं हृदयपुण्डरीकं तदेव निलयं यस्य तस्मै अस्मदीयदुःखाभिज्ञायेति भावः । निरीक्षकाय चित्तवृत्तिसाक्षिणे न कापट येनास्माभिर्विज्ञापितमिति भावः । कृष्णाय भारापहरणेन भूमेः सुखकराय मृष्टयशसे विशुद्धकीर्त्तये प्रपन्नार्तिहरणेन न तवापकीर्तिरपि तु निष्कलङ्का कीर्त्तिरेवेति भावः । निरुपक्रमः निर्गतः उपक्रम: अस्मदुद्योगो यस्मात्तस्मै त्वत्प्रपत्तिव्यतिरेकेण नास्माकमुद्योगोऽस्तीति भावः । सतां स्वशासनानुवर्त्तिनां संप्रहाय स्वीयत्वेनानुग्राहकाय भवपान्थाः संसाराध्वगास्तेषां निजाश्रमाय स्वगृहभूताय यथा “पान्थः स्वशरणं यथा” इत्युक्तरीत्या स्वगृहं प्राप्य सुख्यति तथा भवपान्थानां निजाश्रमाय न केवलमैहिक सुखदाय अपि त्वामुष्मिक सुखदाय चेति भावः । शश्वत्सदा गरिष्ठा गतिः फलं तद्रूपाय निरतिशयपुरुषार्थरूपाय हरये तुभ्यं नमः प्रपन्नानावकाधिभौतिकादिदुःखहरणशीलाय तुभ्यं नमः ।। ४५ ।। * एवं देवैः संस्तुतो विज्ञापितश्च भगवानुवाचेत्याह मुनिः । हे राजन् ! त्रि त्रिदशैर्देवैः सादरमेवमीडितः स्तुतो भगवान्स्वं स्वकीय- सुपस्थानं स्तोत्रमाकर्ण्याभिनन्दितः तान्प्रत्याह ॥ ४६ ॥ * * उक्तिमेवाह प्रीत इत्यादिना यावदध्यायपरिसमाप्ति | है सुरश्रेष्ठाः !! मदुपस्थानविद्यया स्तुत्यात्मिकया विद्ययाहं वो युस्मभ्यं प्रीतः विद्यां विशिनष्टि । यया अमुया ययानया विद्यया पुंसां तावन्मद्भक्तिस्तत आत्मैश्वर्यस्मृतिर्देहातिरिक्तात्मनोपहतपाप्मत्वादिगुणाष्टकरूपात्मैश्वर्यस्मृतिश्च भवति ।। ४७ ।। यद्यपि मयि प्रीते सति है विबुधर्षभाः ! किं दुरापं किं दुर्लभं न किमस्ति सर्वमपि वाञ्छितं सुलभमेवेति भावः । तथापि मय्येकान्त- मतिरन्यप्रयोजनविषया मतिर्यस्य । अत एव तत्त्वविन्मत्तोऽन्यत्किञ्चिदपि न वान्छति मां प्रसाद्य प्रतिपक्षजयकामा यूयमत- द्विविदो मन्दबुद्धय इति भावः ॥ ४८ ॥ * * एतदेवोपपादयति — नेति । गुणेषु शब्दादिविषयेषु वस्तुहरू पुरुषार्थदृष्टि- रत एव कृपणः इन्द्रियवश्यः पुमानात्मनः स्वस्य श्रेयो निरतिशयपुरुषार्थरूपं न वेद एवं तान् शब्दादीनिच्छतः तस्य पुंसः तान् शब्दादीनीशोऽपि निरतिशय पुरुषार्थप्रदानसमर्थोऽपि यः पुमान् यच्छेद्दद्याद्यदि सोऽपि तादृश एव कृपणः कृपणेन श्रेयोऽनभिज्ञेन क्षुद्रे पुरुषार्थे प्रार्थितेऽपि स्वयं परमपुरुषार्थप्रदानसमर्थोऽपि क्षुद्रफलं प्रयच्छ कृपण एवेति भावः ॥ ४९ ॥ * * एतदेव दृष्टान्तमुखेन विशदयति —– स्वयमिति । निःश्रेयसं निरतिशयपुरुषार्थं तत्साधनं च विद्वान् स्वयमविज्ञाय परमपुरुषार्थतत्साधन- ज्ञानरहिताय केवलकर्मासक्तिदुःखिताय कर्मैव कुर्विति न बक्ति न बोधयति तथा हि भिषक श्रेष्ठः वाञ्छतः कामयमानस्यापि रोगिणः अपथ्य न राति न ददाति ।। ५० ।। विजयध्वजतीर्थ कृता पदरत्नावली | हंसवत्सारप्राहिणे दभ्रनिलयाय हृदयाकाशनिवासाय “तस्यान्ते सुषिरं सूक्ष्मं तस्मिन्सर्व प्रतिष्ठितम्” इति श्रुतेः निरी- क्षकाय चेतनकर्मसाक्षिणे कृष्णाय “कृषिभूवाचकः शब्दो णश्च निर्वृतिवाचकः” इत्यतः सन्ततपूर्णानन्दाय कृतौ पूर्णो पणौ बलन्त्राणौ ३२८ श्रीमद्भागवतम् [ एक. ६ अ. एलो. ४३-५० यस्य स तथा तमै निरुपक्रमाय श्रमजनकप्रयत्नमन्तरेण जगत्कर्त्रे निरुपक्रमो हरिर्नित्यमप्रयत्नो धुपक्रमेत्" इत्यतः सतां संग्रहो यस्य स तथा तस्मै भवपान्थाः संसारमार्गे वर्तमानाः तेषां निजाश्रयाय “निजमात्मीयनित्ययोः" इत्यभिधानं शश्वदेक- प्रकाश वरिष्ठा धर्मादेरत्युत्तमा गतिर्मुक्तिलक्षणा यस्मात्स तथा तस्मै हरये आपत्परिहरणशीलाय य ।। ४५ ।। * * स्वमुपस्थानं स्वविषयां स्तुतिम् ॥ ४६ ॥ मदुपस्थानलक्षणया विद्यया पुंसामात्मैश्वर्यस्मृतिर्माहात्म्यस्मृति: मि भक्तिश्च भवतीत्यन्वयः ॥ ४७ ॥ * * प्राप्ते प्रत्यक्ष तथापि फलप्राप्यनायासेऽपि भक्तिज्ञानप्रसादेभ्योऽन्यत् । अत्र हेतु- ॥ स्तत्त्वविदिति । अनेनायमधिकारिषु सुखाधिक्यप्राप्तियोग्य इति ज्ञायते ॥ ४८ ॥ * * तत्त्ववित्तथास्त्बभिलाषकस्य किं फलमिति तत्राह- नैति । यः कृपणः कामानभिलषन् स्वस्य मोक्षण श्रेयो न वेद । कुतः 1 गुणवस्तुहरू स्वर्गादिर्गुणानां शब्दादि विषयाणां वस्तुहक अप्रतिहतत्वदर्शी नित्यत्वज्ञानीत्यर्थः । अहमिच्छतोऽभिलाषकस्य तस्य तान् कामान् यच्छेद्दद्यां त्वां भजमानस्य तथाविधफलदातृत्वं तव कथं युक्तमिति तत्राह-यदीति । यदि स मां भजमानोऽपि तथाविधः नश्वर फलस्वीकारयोग्यः उत्तमा- धिकारी न स्यात्तर्हि तस्मै ऐहिकान् कामान् दद्यां यश्च त्रैविद्योऽत्युत्तमो न स्यात् तस्मै स्वर्गादिकामान् दद्यामिति विशेषमभिप्रे- त्याचार्यैरुत्तमो न भवति चेदिति व्याख्यातम् । यच्छेदिति पाठेऽयमर्थः । त्वद्भक्तादन्यः कथमिति तत्राह - नेति । गुणवत त्रिगुणजन्यशरीरादेर्व स्तुत्वज्ञानी दीनोऽयं मुग्धः श्रेयो मोक्षाख्यं न वेद तद्विनान्यद्वान्छेच्च तस्य सेवकस्य सेव्योऽपि तथावि- धोऽत्युत्तमो न भवति चेत्तर्हि तादृशान् कामान् यच्छेदद्यात् मत्प्रेरित इति शेषः ॥ ४९ ॥ कथमत्युत्तमो न भवतीति तत्राह - स्वयमिति । विद्वांस्तत्तद्योग्यमुक्तिविशेषं जानन्नत्युत्तमः स्वयमज्ञाय अज्ञानिने पुंसे कर्मभिर्निःश्रेयसं न वक्ति नोपदिशति किंतु " तमेवं विद्वान्” इति श्रुतेः । ज्ञानेनैव यथा पथ्यमेव अभिषिञ्चति ददाति नापथ्यमित्यल्लोपेन भिषक् भिनत्ति रोगं सिद्ध्यति आप्याययति प्राणमिति वा वैद्यः पानीय वान्छतो ज्वरादिरोगार्तस्यापथ्यं पानीयादिद्रव्यं न राति न ददाति तस्माद- नीदृश उत्तमो न भवतीत्यर्थः । ननु कृपणः कर्मणा सिद्धिकामित्वाद्धि नात्युत्तम इत्यभिप्रेतं तत्कथमुच्यते “लोकसङ्ग्रहमेवापि संपश्यन् कर्तुमर्हसि । यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः ।” इत्यादौ भगवतैव कर्मविधानादवाह–स्वयमिति । माद्दशो विद्वान् स्वयं केवलैः कर्मभिरज्ञाय अज्ञानिने निःश्रेयसं न वदति किं तु ज्ञानद्वारा शुद्धान्तः करणाय यथा भिषगपि । केवलफल- कामिन एव तादृशफलं दीयते अतः साकल्यफलस्वीकारयोग्य इति नियम्यते तर्हि किमर्थ तस्मै तादृशमपि दीयत इति चेन्न युष्मद्भक्तत्वेन फलदानस्य युष्मदिष्टत्वात्तदेव मम प्रियं युष्मत्कामाभावे तत्फलं न दद्यां भवतां च मत्प्रियकामित्वादेवदाचार्यैरुक्तम् । युष्मत्कामो मत्प्रिय एवान्यथा न दद्यामिति भावः । “विष्णोः प्रियं कामयन्ति देवा नैवाप्रियं कचित् । यद्यप्रियं कामयन्ति न रातीशो हितो यतः ।” इति । ननु यदि पुरुषेण निष्कामेण भवितव्यं तर्ह्यस्मत्कामो निष्फलो भवतोऽनिष्टत्वादिति शङ्का मा भूत् त्वाष्ट्रहननस्य ममेष्टत्वान्मदिष्टमेव युष्माभिः कामितमित्यतो वाचायैर्यैः युष्मत्काम इत्याद्युक्तम् ।। ५० ।। जीवगोस्वामिकृतः क्रमसन्दर्भः उत्कण्ठया पुनः स्फुटमेव निवेदयन्ति । अथो इति ।। ४४-४६ ।। * आत्मा जीवश्च ईश्वरश्व आत्मेश्वरौ । तयोर्भावः आत्मैश्वर्यम्, उभयपदवृद्धिः । तस्य स्मृतिर्विवेको यस्याः अथ तंत्र भवान् किं देवदत्तवदित्यादेः ।। ४७-४६ ।। स्वयमिति । तस्मान्न बुद्धिभेदं जनयेदित्यादिकम् । असमर्थोपदेष्टृविषयं ज्ञेयम् ।। ५०-५१ ।। ॥ विश्वनाथचक्रवतिकृता सारार्थदर्शिनी अत एव सर्वज्ञत्वादेव वयं यत्कामेन यस्य कामनया चरणपद्मच्छायामुपसादिताः स्वयं त्वयैt प्रापिताः । तत्कार्य स्वयमेव उपकल्पय सम्पादय । छायां कीदृशीमुपसृतानां भक्तानां परिश्रमोपशमनीम् ॥ ४३ ॥ * सर्वत्रैव स्तुतिषु शुद्धमरुत्कर्षकथनात् कदाचिद्भक्तिमेव ददाति भगवांस्तथा सति प्रेमाश्रुकम्पादिमन्तो वयं स्वर्गीयसुखेषु वैमुख्योदयात् पृथि- व्यामेव पर्यटिष्यामो ऽस्मद्वैरिण एवामरावतीमध्यास्य विराजिष्यन्त इत्याशङ्कया गाम्भीर्याभावेन च स्पष्टमेव काममाहुः । अथो इति ॥ ४४ ॥ * * तव चरणयोः पतामः शीघ्रं जहीति वैकल्येन श्रीकृष्णरूपिणं तं सर्वमेव स्वाभिलषितमभिव्य- ञ्जयन्तः प्रणमन्ति । हंसाय साससारौ विमृश्य सारग्राहिणे । दहनिलयाय अस्मद्धृदयसरोनिकेताय । निरीक्षकाय तत्रास्मद्ध- दयेषु प्रस्तुतं काममपि निरीक्षमाणाय । ततश्च मृष्टयशसे । अस्मन्महाविपत्रायकत्वलक्षणं यशस्ते लोका गायन्तीति भावः । निरुपक्रमाय अस्मन्निवेदितकृत्येषूपक्रमं विनैव तत्सम्पादनसमर्थाय । किं तु सतां भक्तानामेव प्रयासेनापि सङ्ग्रहो न चान्यव- स्तूनां यस्य तस्मै “नमोsकिचनवित्ताय" इति वचनात् । किञ्च । भववर्त्मनि ये पान्था तेषामस्मदादिदुर्जीवानां शुद्धभक्तिरहिता- नामपि निजस्याश्रमस्य प्राप्तौ अविद्यां तीर्त्वा स्वानन्दाधिगमे सतीत्यर्थः । संसारस्य अन्ते परि सर्वतो भावेनेष्टा वाञ्छिता गतिः सायुज्यं सालोक्यं दास्यादिप्रेमा वा यतस्तस्मै ॥ ४५-४६ ॥ ममोपस्थानं स्तोत्रमेव विद्या तया । आत्मैश्वर्येति । ।। 1स्कं. ६ अ. ९ श्लो. ४३-५० ] s * अनेकव्याख्यासमलङ्कृतम् ३२९ ये मामनया स्तुवन्ति तेषां मदैश्वर्यस्मृतिर्भवेत् । आत्मनैवाविक्रियमाणेन सगुणमगुणः सृजसि हरसि पासीत्यतक्यै- श्वर्योक्तेः ॥ ४७ ॥ * * अहो दौर्भाग्यं मूर्खता च युष्माकमनया विद्यया मां स्तुत्वापि भक्ति न प्रार्थयध्वे इत्याह- क्रिमिति ॥ ४८ ॥ यद्यपि यूयं मूर्खा विषयानभिलषन्तः स्वभद्राभद्रं न जानीथ तदप्यहन्तु विज्ञस्तान् कथं युष्मभ्यं ददामि । न हि माता सुतेभ्यः स्वहस्तेन विषं ददातीत्याह - नेति । गुणान् विषयानेव वस्तुपुरुषार्थं पश्यतीति सः । आत्मनः श्रेयो न वेद । तस्य तस्मै तानेव यो विज्ञोऽपि यच्छेत् सोऽपि अज्ञ एव ॥ ४९ ॥ * * कर्म न वक्ति प्रवृत्तिमार्गं नोप- दिशति । अपथ्यं यथा न राति न ददाति भिषक्तमः सद्वैद्यः ॥ ५० ॥ शुकदेवकृतः सिद्धांत प्रदीप : ॥ अतो वयं यत्कामेन यस्य प्रयोजनस्य सङ्कल्पेन तव चरणशतपत्र पलाशच्छायामुपसादिताः प्रापिताः तदस्माकमुप- सृतानां शरणागतानां स्वयमुपकल्पय सम्पादय विविधैर्वृजिनैर्यः संसारपरिश्रमस्तस्य शमनीमिति विशेषणेन धिगस्माकं कामं प्रति येन मुक्तिदां तव चरणकमलपत्रच्छायां तुच्छप्रयोजनकृते नीता वयमिति द्योत्यते ।। ४३-४४ ॥ * * दह्रो हृदया- काशः निलयो यस्य तस्मै । हृदिध्येयाय निरीक्षकाय सर्वसाक्षिणे निर्गतः उपक्रम उत्पत्तिर्यस्मात्तस्मै । नित्यसिद्धाय सद्भिः साधुभिः ऋषिभिर्मन्त्रैर्वा सङ्गृह्यते इति तथा तस्मै भवे जन्ममरणप्रवाहलक्षणे संसारे पथि वर्तमानो भवपान्थस्तस्य जन्ममरण- प्रवाहपतितस्यान्ते संसारनिवृत्तिकाले निजाश्रमाप्तौ निजधामप्राप्तौ परीष्टा परित इष्टा गम्यते अनया इति गतिर्यः स्वधामप्रापक इत्यर्थः तस्मै ॥ ४५ ॥ * त्रिदशैः सादरमीडितः स्तुतः नन्दितः सन्तोषितश्च समुपस्थानं स्तोत्रम् ॥ ४६ ॥ * * मदुपस्थानविद्यया मदीयस्तुतिरूपया आत्मैश्वर्यस्मृतिर्मदीयैश्वर्यज्ञानम् ॥ ४७ ॥ * * मयि प्रसन्ने कोऽपि पुरुषार्थो दुर्लभो नास्ति तथापि मद्भक्तेन भगवद्भजनमेव प्रार्थनीयमहमपि मद्भक्तेभ्यः प्राकृतान् विषयान् दातुं नोत्सहे तथापि भवद्भिः वेष्टसिद्धये इदमनुष्ठेयमित्याह - किं दुरापमिति चतुर्भिः ॥ ४८ ॥ गुणेषु वस्तुदृक् दृष्टिः तान् गुणानिच्छतः तानेव यच्छेत् यदि तर्हि सोऽपि गुणदानसमर्थोऽपि तथाविधोऽविवेकी ।। ४९ ॥ निःश्रेयसम् निवृत्तिमार्गम् कर्म । प्रवृत्तिमार्गम् ॥ ५० ॥ गोस्वामिगिरिधरलाल विहिता बालप्रबोधिनी फलितमाहुः - अत इति । अतः सर्वज्ञत्वाद्वयं यत्कामेन यस्य कार्यस्य कामनया तव चरणमेव शतपलाशं कमलं तस्य च्छायामुपसादिता उपसन्नाः प्राप्ताः । त्वयैवान्तर्यामिणा कृपया प्रापिता इति वा । तदस्माकं कार्य त्वं स्वयं विज्ञप्ति - मन्तरेणैवोपकल्पय सम्पादयेत्यन्वयः । न च त्वचरणकमलच्छायोपगमनमस्माकं विफलं भवितुमर्हति सर्व दुःखमूल संसारनिवर्त्त- कत्वादित्याशयेनाहुः - विविधेति, उपसृतानां शरणागतानां त्वद्भक्तानां विविधैर्वृजिनैदु:खैर्यः संसारपरिश्रमस्तयोपशमकरी- मित्यर्थः । तत्र हेतुमाहुः – भगवत इति, अचिन्त्या नन्तैश्वर्यवत्त्वेन संसारादुद्धारे समर्थस्येत्यर्थः । यदि केनचिदभिप्रायविशेषेण साक्षाद् वृजिनोद्धारं न करोषि तदापि केनचिदुपायोपदेशेन तु तत्क रोष्येवेत्याशयेनाहु: - परमगुरोरिति ॥ ४३ ॥ * * एवं स्तुतात् सम्प्रार्थितादपि भगवत आश्वासनमप्राप्य व्याकुलतया पुनः स्पष्टं वृत्रवधं प्रार्थयन्ते - अथो इति । हे ईश अथो अनन्तरं शीघ्रमेव त्वाष्ट्रं वृत्रं जहि । एतद्धननस्यावश्यकत्वं ज्ञापयन्तस्त्रिलोकीं नाशयन् त्रिलोकाधिपतेस्तवाप्यनिष्टं करोतीत्याहु:- प्रसन्तं भुवनत्रयमिति । अस्माकं त्वनिष्टं कृतवांस्तच्छृणुयेन नोऽस्माकं तेजांसि अस्त्राणि मन्त्राः आयुधानि च प्रस्तानि । ईशेति सम्बोधनं त्वयि तद्धननायोद्यते तन्मरणे न सन्देहः सामर्थ्यसत्त्वादिति सूचनाय । सदानन्दस्वरूपस्य तव तद्धननेन सर्गलोकानन्ददानमेवोचितमिति सूचनाय सम्बोधनान्तरं हे कृष्णेति “कृषिर्भूवाचकः शब्दो नश्च निर्वृतिवाचकः । तयोरैक्यं परं ब्रह्म कृष्ण इत्यभिधीयते” इति निरुक्तेः ॥ ४४ ॥ * * एवं वृत्रवधं सम्प्रार्थ्य प्रार्थनैवास्मदधीना, कार्य तु त्वदधीनमेव, तत्रापि न वयं प्रत्युपकाराय समर्थाः, केवलं नमनमेव कथञ्चित्कुर्म इति सूचयन्तस्तन्महत्त्वं च वर्णयन्तः प्रणमन्ति - हंसायेति । कृष्णाय सदानन्दरूपाय ते तुभ्यं नमः । किमर्थोऽयं नमस्कार इत्यपेक्षायां स्वार्त्तिहरायेत्याशयेनाहु: - हरये इति, भक्तक्लेश- हरणशीलायेत्यर्थः । आर्तिज्ञानमन्तरेण तद्धरणासम्भवात् कथं तद्धरणमित्याशङ्कयाहुः - निरीक्षकायेति, सर्वबुद्धयादिसाक्षिण इत्यर्थः । तत्र हेतुमाहुः - दहनिलयायेति, हृदयाकाशनिकेतायेत्यर्थः । एवं चेद्रक्तपक्षपातित्वेन वैषम्यं स्यादिति शङ्कानिरासा- याहु: - हंसायेति, विवेकित्वेन शुद्धाय यथोचितफलदातृत्वादित्यर्थः । ननु तथापि भक्तकार्यसम्पादने श्रमः स्यादिति शङ्का- निरासायाहु:– निरुपक्रमायेति, श्रमजनकलौकिकप्रकारमन्तरेणैव कार्यसम्पादनसमर्थायेत्यर्थः । न केवलमार्तिहारकत्वमेव किन्तु परम फलत्वमपीत्याहुः - भवेति । भवपान्थः भवरूपे पथि वर्त्तमानस्तस्य जनस्य निजाश्रमाप्तौ स्वशरणप्राप्तौ सत्यां संसार- ४२ तु ३३० श्रीमद्भागवतम् [ स्कं. ६ अ. ९ श्लो. ४३-५० स्यान्ते परीष्टा सर्वतः पूजिता उत्तमा गतिः फलरूपा यस्मात्तस्मा इत्यर्थः । अत एव मृष्टं रुचिकरं यशो यस्य तस्मै । अत एवं सद्भिः परमविवेकिभिरन्यत् सर्वं विहाय सङ्गृह्यते इति तथा तस्मै ॥ ४५ ॥ हो राजन् एवं सादरं यथा भवति , तथा त्रिदशैर्देवैरीडितः स्तुतः अभिनन्दितः प्रसादितश्च हरिः स्वकीयमुपस्थानं स्तोत्रमा कर्ण्य अथानन्तरं तान् प्राहेत्यन्वयः ||४६ || भगवद्वचनान्येव दर्शयति— प्रीतोऽहमिति सार्द्धर्नवभिः । हे सुरश्रेष्ठाः मदीयं यदुपस्थानं स्तोत्रं तत्सहितया विद्यया ज्ञानेन युष्माकमहं प्रीत इत्यन्वयः । ननु परिपूर्णस्य तव श्रीतौ कि कारणमित्यपेक्षायां सर्वजनोपकार एवेत्याह- आत्मनो ममैश्वर्य त्या- संसारित्वादेः पूर्वोक्तस्य स्मृतिर्मयि भक्तिश्च पुंसां यया विद्यया भविष्यत्येवेत्यन्वयः ॥ ४७ ॥ यदि भगवान् प्रीतस्त- दाऽस्मत्कार्यं सम्पादयत्विति चेदियं याच्या युष्माकमनुचितेत्याशयेनाह – किमिति । मयि प्रीते सति किं दुरापं पुंसः किं दुर्लभं सर्व सुलभमेव यद्यप्येवं तथापि मय्येकान्ता भगवानेव परमपुरुषार्थ स्तत्प्राप्ति तदेकयैव नान्यथेति पर्यवसिता मतिर्यस्य स मत्सेवनं विना मत्तोऽपि प्रीतादन्यात् फलं न वान्छति । यतस्तत्त्वविच्छास्त्ररहस्यज्ञो विवेकी । हे विबुधर्षभा देवश्रेष्ठा इति सम्बोधनेन सात्त्विकानां युष्माकमपि मत्सेवनमेवोचितं, न विषय सेवोन्मुखतया वृत्रवधादिप्रार्थनमिति सूचितम् ॥ ४८ ॥ भवतु याचकानामस्माकं तदनुचितं तेन दातुस्तव किं दूषणं तव तु तत्सम्पादनमुचितमेवेत्याशङ्कयाह-न वैदेति द्वयेन । कृपणः पुरुषः आत्मनः श्रेयो न वेद न जानाति । को वा कृपण इत्यपेक्षायां तल्लक्षणमाह-गुणेति, आत्मतत्त्वानभिज्ञत्वेन गुणेषु विषयेषु तत्त्वदर्शी । तस्याज्ञस्य तस्याज्ञस्य तान् विषयानिच्छतो यदि कश्चित्तान् विषयान् यच्छेत् दद्यात्तदा स दातापि तथाविधोऽज्ञ एवेत्यर्थः ॥ ४६ ॥ * * ॥ * * अतो यः स्वयं निश्श्रेयसं परमानन्दप्राप्तिसाधनं भगवद्भजन विद्वान जानाति स अज्ञाय कर्म- दुःखकारणविषयप्राप्तिसाधनं न हि वक्ति तदुपदेशमपि नैव करोति तत्सम्पादनं तु दूरतः । तत्र दृष्टान्तमाह-नेति, भिषक्तमः सद्वैद्यो हि अपथ्यं वाञ्छतो रोगिणी यथा तन्न राति न ददाति तद्वदित्यर्थः ॥ ५० ॥ 1 ि भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी । , मैं यदुपकल्पयेत्युक्तं तदेव विशदयन्ति — अथो इति । अयो अत:, हैं ईश भुवनत्रयं प्रसन्तं, हे कृष्ण, येन नोऽस्माकं तेजांसि अस्त्राणि च आयुधानि च तानि च प्रस्तानि तमेतं त्वाष्ट्रमस्मन्नाशाय त्वष्टुत्पादितमसुरं जहि विनाशय ॥ ४३ ॥ * शीघ्रं तद्वधं विधापथितुं पुनः प्रणमन्ति–हंसायेति । हंसाय शुद्धाय निस्स्तनिखिळदोषायेत्यर्थः । हरये प्रणतार्त्तिहन्त्रे, दहन- लयाय हृदयाकाशनिकेताय, अस्मदीयदुःखाभिज्ञायेत्यर्थः । निरीक्षकाय चित्तवृत्तिसाक्षिणे, कृष्णाय भारापहरणेन भूमेः सुखकराय, मृष्टयशसे विशुद्धकीर्त्तये, प्रपन्नार्त्तिहरणे कृते न तवापकीर्त्तिरपि तु निष्कलङ्का कीर्त्तिरेवेति भावः । निरुपक्रमाय श्रमजनक प्रयत्नमन्तरेण जगत्सर्जनास्मत्परित्राणादिकर्त्रे, यद्वा । सांप्रतमस्मद्धितचिन्तनं विना परित्यक्ततरोद्योगाय, सतां स्वशासनानुवर्त्तिनां संग्रहाय स्वीयत्वेनानुग्राहकाय, भवपान्थाः संसाराध्वगास्तेषां निजाश्रमाय स्वगृहभूताय, शश्वत् सदा, गरिष्ठ- गतये निरतिशय पुरुषार्थ रूपाय, वरिष्ठगतये इति पाठे वरिष्ठोत्तमा गतिर्मुक्तिलक्षणा यस्मात्तस्मै, परीष्टगतये इति पाठे परीष्टा सर्वतः पूजिता गतिः फलं यस्मात् तस्मै, ते तुभ्यं नमः ॥ ४४ ॥ * * एवं देवैः संस्तुतो विज्ञापितश्च भगवानुवाचेत्याह सुनि:- अथेति । हे राजन, त्रिदशैर्देवैः सादरमादरसहितं यथा तथा, एवमुक्तप्रकारेण, अथ कार्त्स्न्येन, ईडितः स्तुतः, हरिभगवान् स्वं स्वकीयं उपस्थानं स्तोत्रम्, आकर्ण्य अभिनन्दितः संतोषितः सन् तान् प्राह ॥ ४५ ॥ उक्तमेवाह
-
- प्रीत इत्यादिना यावदध्यायसमाप्ति । प्रीत इति । हे सुरश्रेष्ठाः, मदुपस्थानविद्यया मत्स्तुत्यात्मिकया, अहं वो युष्मभ्यं प्रीतः अस्मि । यथा अमुया विद्यया, पुंसां मयि भक्तिः । ततः आत्मैश्वर्यस्मृतिश्च । मद्भक्तिः प्रादुर्भूतापहतपाप्मत्वादिगुणाष्टकरूपैश्वर्य- स्मृतिश्चेत्यर्थः । भवति एव ॥ ४६ ॥ एवमुक्त्वा सकामभक्त्यपेक्षया निष्कामभक्तेर्गरीयस्त्वं तादृशसकाम भक्तस्य निष्कामभ कालचीयस्त्वं चाह किं दुरापमिति त्रिभिः । किं दुरापमिति । हे विबुधर्षभाः, यद्यपि मयि प्रीते सति, दुरापं दुर्लभं किमस्ति । सर्वमपि वान्छितं सुलभमेवास्तीति भावः । तथापि, मयि एकान्तमतिः तत्त्ववित् मनुस्वरूपयाथात्म्याभिज्ञः, मन्तः, अन्यत् न बाच्छति । मां प्रसाद्य प्रतिपक्षक्षयकामा यूयमतत्त्वविदो मन्दबुद्धय इति भावः ।। ४७ ।। * * एतदे- वोपपादयति–नेति । गुणवस्तुटक शब्दादिविषयेषु पुरुषार्थदृष्टिः, अत एव कृपणः, इन्द्रियवशवर्ती पुमान्, आत्मनः श्रेयः, न वेद । स्वकीयनिरतिशयपुरुषार्थरूपं श्रेयो न जानात्येवेत्यर्थः । तान् शब्दादिविषयान् इच्छतः तस्य पुंसः यः पुमान् यदि यच्छेत्तद्वान्छितं ज्ञात्वा दद्यात् तर्हि सोऽपि स ईशः सन्नपि तथाविधः कृपण एवेत्यर्थः । श्रेयोऽनभिज्ञेन तुद्रे पुरुषार्थे प्रार्थि- तेऽपि स्वयं पुरुषार्थप्रदानसमर्थो भूत्वा तस्मै क्षुद्रफलं प्रयच्छन् कृपण एवेति भावः ॥ ४८ ॥ एतदेव दृष्टान्तमुखेन विशदयति स्वयमिति । निःश्रेयसं निरतिशयपुरुषार्थं तत्साधनं च, विद्वान स्वयम् अज्ञाय परमपुरुषार्थतत्साधनज्ञानरहिताय केवळकर्मासक्तिदुःखिताय, कर्म न वक्ति स्वं कर्मैव कुर्विति न बोधयतीत्यर्थः । तथा हि– भिषक्तमो वैद्यश्रेष्ठः, वाञ्छतः, 1 1
स्कं. ६ अ. ९. श्लो. ५१-५५ ] अनेकव्याख्यासमलङ्कृतम् * ३३१ कामयमानस्यापि, रोगिणः, अपथ्यं न राति नैव ददाति ॥ ४६ ॥ एवं तत्त्वकथनेनानौचित्यं परिहृत्य तदभिप्रा- यमनुसरन्नाह — मघवन्निति । हे मघवन्निन्द्र, ऋषिसत्तमं दध्यचं यात यूयं गच्छत । एवमुक्ते तद्न्तर्जातनिराशतयाssस्य म्लानतामालक्ष्याह – वो युष्माकं, भद्रं सम्यगभिलषितं भविष्यतीति शेषः । तत्र गत्वाऽस्माभिः किं कर्त्तव्यमित्यत्राह - विद्या च व्रतानि च तपश्च तैः सारमतिदृढं गात्रं तच्छरीरं याचत याचयध्वम् । मा चिरं विलम्ब मा कुरुत ॥ ५० ॥ भाषानुवादः अतएव हम अपना अभिप्राय आपसे निवेदन करें - इसकी अपेक्षा न रखकर जिस अभिलाषासे हमलोग यहाँ आये हैं, इसे पूर्ण कीजिये । आप अचिन्त्य ऐश्वर्यसम्पन्न और जगत् के परमगुरु हैं। हम आपके चरणकमलोंकी छत्रछायामें आये हैं, जो विविध पापोंके फलस्वरूप जन्म - मृत्युरूप संसारमें भटकनेकी थकावटको मिटानेवाली है ॥ ४३ ॥ सर्व- शक्तिमान् श्रीकृष्ण ! वृत्रासुरने हमारे प्रभाव और अस्त्र-शस्त्रों को तो निगल ही लिया है। अब वह तीनों लोकों को भी प्रस रहा है । आप उसे मार डालिये ॥ ४४ ॥ प्रभो ! आप शुद्धस्वरूप, हृदयस्थित शुद्ध ज्योतिर्मय आकाश, सबके साक्षी, अनादि, अनन्त और उज्ज्वल कीर्तिसम्पन्न हैं । संतलोग आपका ही संग्रह करते हैं । संसारके पथिक जब घूमते-घूमते आपकी शरण में आ पहुँचते हैं, तब अन्तमें आप उन्हें परमानन्दस्वरूप अभीष्ट फल देते हैं और इस प्रकार उनके जन्म- जन्मान्तरके कष्टको हर लेते हैं । प्रभो ! हम आपको नमस्कार करते हैं ।। ४५ ।। * श्रीशुकदेवजी कहते हैं - परीक्षित् ! जब देवताओंने बड़े आदर के साथ इस प्रकार भगवानका स्तवन किया, तब वे अपनी स्तुति सुनकर बहुत प्रसन्न हुए तथा उनसे कहने लगे ॥ ४६ ॥ * श्री भगवान्ते कहा—श्रेष्ठ देवताओं! तुमलोगोंने स्तुतियुक्त ज्ञानसे मेरी उपासना की है, इससे मैं तुमलोगों पर प्रसन्न हूँ । इस स्तुति द्वारा जीवोंको अपने वास्तविक स्वरूपकी स्मृति और मेरी भक्ति प्राप्त होती है ।। ४७ ।। देवशिरोमणियो ! मेरे प्रसन्न हो जानेपर कोई भी वस्तु दुर्लभ नहीं रह जाती । तथापि मेरे अनन्यप्रेमी तत्त्ववेत्ता भक्त मुझसे मेरे अतिरिक्त और कुछ भी नहीं चाहते ॥ ४८ ॥ जो पुरुष जगत्के विषयोंको सत्य समझता है, वह नासमझ अपने वारूविक कल्याणको नहीं जानता । यही कारण है कि वह विषय चाहता है; परन्तु यदि कोई जानकर उसे उसकी इच्छित वस्तु दे देता है, तो वह भी वैसा ही नासमझ है ॥ ४६ ॥ जो पुरुष मुक्तिका स्वरूप जानता ॥ ॥ है, वह अज्ञानीको भी कर्मोंमें फँसनेका उपदेश नहीं देता - जैसे रोगीके चाहते रहनेपर भी सद्वैद्य उसे कुपथ्य नहीं देता ।। ५० ।। ४. * PITHE IMPS ….. ॥ मघवन् यात भद्रं वो दध्यश्चमृषिसत्तमम् । विद्यात्रततपःसारं गात्रं याचत मा चिरम् ॥ ५१ ॥ स वा अधिगतो दध्यङ्ङश्विभ्यां ब्रह्मनिष्कलम् । यद् वा अश्वशिरो नाम तयोरमरतां व्यधात् ॥ ५२ ॥ दध्यङ्ङाथर्वणस्त्वष्ट्रे वर्माभेद्यं मदात्मकम् । विश्वरूपाय यत् प्रादात् त्वष्टा यत् त्वमधास्ततः ॥ ५३ ॥ युष्मभ्यं याचितोऽश्विभ्यां धर्मज्ञोऽङ्गानि दास्यति । ततस्तैरायुधश्रेष्ठो विश्वकर्मविनिर्मितः । येन वृत्रशिरो हर्ता मत्तेजउपबृंहितः ॥ ५४ ॥ तस्मिन् विनिहते यूयं तेजोऽस्त्रायुधसम्पदः । भूयः प्राप्स्यथ भद्रं वो न हिंसन्ति च मत्वरान् ॥ ५५ ॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे नवमोऽध्यायः ॥ ९ ॥ rupee Th कृष्णप्रिया व्याख्या अन्वयः - मघवन् वः भद्रं ऋषिसत्तमं दध्यचं यात मा चिरं विद्याव्रततपः सारं गात्रं याचत ।। ५१ ॥ सः वा दध्यङ अश्वशिरोनाम निष्कलं ब्रह्म अधिगतः यत् वा अश्विभ्यां दत्तं तयोः अमरतां व्यधात् ॥ ५२ ॥ * आथर्वणः दध्यम् मदात्मकम् अभेद्यं वर्म त्वष्ट्रे च त्वष्टा यत् विश्वरूपाय प्रादात् यत् त्वं ततः अधाः ॥ ५३ ॥ युष्मभ्यं याचितः अंगानि दास्यति ततः तैः विश्वकर्मविनिर्मितः आयुधश्रेष्ठः भविष्यति ॥ ५४ ॥ येने वृत्रशिरः हर्ता तस्मिन् विनिहते यूयं भूयः तेजोखायुधसंपदः प्राप्स्यथ वः भद्रं च मत्परान् न हिंसन्ति ॥ ५५ ॥ ॥ इति नवमोऽध्यायः ॥ ९ ॥४ १. प्रा० पा० – निष्कृतम् | poste
- धर्मज्ञः अश्विभ्यां मत्तेजउपबृंहितः
- ३३२
- श्रीमद्भागवतम्
- श्रीधरस्वामिविरचिता भावार्थदीपिका
- [ स्कं. ६. अ. ९ लो ५१-५५
- ॥
- एवं तत्त्वकथनेनानौचित्यं परिहृत्य तदभिप्रायमनुसरन्नाह - मघवन्निति । विद्यया व्रतैस्तपसा च सारं दृढं गात्रं शरीरं याचत याचध्वम् ॥ ५१ ॥ * * तत्र तदीयं विद्यातिशयमाह-स वा इति द्वाभ्याम् । एवम् ह्यत्र प्रसिद्धा कथा
- “निशम्याथर्वणं दक्ष प्रवर्ग्यब्रह्मविद्ययोः । दध्यंचं समुपागम्य तमूचतुरथाश्विनौ ॥ भगवन्देहि नौ विद्यामिति श्रुत्वा स चाब्रवीत् । कर्मण्यवस्थितोऽद्याहं पश्चाद्वक्ष्यामि गच्छतम् ॥ तयोर्निर्गतयोरेव शक आगत्य तं मुनिम् । उवाच भिषजोर्विद्यां मा वदीरश्विनोर्मुने ॥ यदि nartaमुल्लंघ्य ब्रवीषि सहसैव ते । शिरश्छ्द्यिां न संदेह इत्युक्त्वा स ययौ हरिः ॥ इन्द्रे गते तथाऽभ्येत्य नासत्यावूचतुर्द्विजम् । तन्मुखादिद्गदितं श्रुत्वा तावूचतुः पुनः ॥ आवां तव शिरश्छित्त्वा पूर्वमश्वस्य मस्तकम् । संधास्यावस्ततो ब्रूहि तेन विद्यां च नौ द्विज । तस्मिन्निद्रेण संछिन्ने पुनः संधाय मस्तकम् । निजं ते दक्षिणां दत्त्वा गमिष्यावो यथातथम् ॥ एतच्छ्रुत्वा तथोवाच दध्यङ्ङाथर्वणस्तयोः । प्रवर्ग्य ब्रह्मविद्यां च सत्कृतोऽसत्यशंकितः ॥” इति । ततश्चायमर्थः दध्यङ निष्कलं शुद्धं ब्रह्माधिगतो ज्ञातवान् । पाठांतरे तु निष्कृतं नितरां कृतं भवति धनं येन तं प्रवम्य चाधिगतो ज्ञातवान् । ततोऽश्विभ्यां प्रादादित्युत्तरस्यानुषंगः । उपदिदेशेत्यर्थः । कथंभूतं ब्रह्म । यद्वा अश्वशिरसा प्रोक्तत्वादश्वशिरो नाम प्रसिद्धम् । तयोरमरतां जीवन्मुक्तत्वं व्यधात् । तथा च श्रुतिः - “अश्वस्य शीर्णा प्रयतीमुवाच " इति ।। ५२ ।। * * मदात्मकं वर्म श्रीनारायणकवचं चाधिगत इति पूर्वस्यानुषंगः । तत्र हेतुः । यत् यस्मात्त्वष्ट्रे प्रादात् । किं तत् । यत्त्वष्टा विश्वरूपाय पुत्राय प्रादात् । कीदृशम् । यत्त्वं ततो विश्वरूपादधाः धृतवानसि । तदेवं विद्यया सारं गात्रं याचध्वमित्यर्थः ॥ ५३ ॥ * * ननु प्रेष्ठं देहं कथं दास्यति तत्राह - युष्मभ्यमंगान्यस्थीनि याचितः सन् दास्यति यतो धर्मज्ञः विशेषतोऽश्विभ्यां शिष्यप्रीत्या दास्यति । अस्थीनीत्यनेन हेयत्वं दर्शितम् । तैरस्थिभिर्विश्वकर्मणा विनिर्मित आयुधश्रेष्ठो वज्रो भविष्यतीति शेषः ॥ ५४ ॥ येन भवान्वृत्रशिरो हर्ता हरिष्यति मम तेजसा उपबृंहितः सन् । तेजश्चास्त्राणि चायुधानि च संपदा भूयः प्राप्स्यथ । महाकायस्त्रिभुवनप्रासी स एवास्मान् हन्यादिति शंकाकुलचित्तान्प्रत्याह— मत्परांश्च केऽपि न हिंसंत्यतो युष्माकं भद्रमेवेति ।। ५५ ।। रा
- इति षष्ठस्कन्धे टीकायां नवमोऽध्यायः ॥ ९ ॥
- वंशीधरकृतो भावार्थदीपिकाप्रकाशः
- यदि हींद्रियारामत्वाद्विषयान्विना म्रियध्वे तर्हि तत्रोपायं शृणुतेत्याह- मघवन्निति । महति लाघते विषयसंभोगं, महति शताश्वमेधेनार्चति सर्वेश्वरं विषयाभिलाषेणेति वा मघवा तत्संबुद्धौ तथा । विषयाभिलाषिशिरोमणिरसीति भावः । तत्र गतान्नः शापामिना स धक्ष्यतीत्याशंकमानं प्रत्याह-भद्रं व इति । ऋषिसत्तमं क्रोधादिरहितम् । गाय ज्ञानाय त्रायते रक्ष्यत इति गात्रम् ।। ५१ ।। * * तत्र याचने । तदीयं दाध्यचम्। पाठांतरे ‘ब्रह्मनिष्कृतम्’ इति पाठे । कृतादनित्य- पदार्थान्निष्कान्तमित्यर्थः । ततः स्वयं ज्ञात्वा तदनु अश्विभ्यां ब्रह्मादादिति व्याख्येयमिति विद्यादानमुपदेश इति भावः । प्रकृष्टानि पदानि यस्यां तां विद्यामिति श्रुतिपदार्थः । श्रुत्यंतरमाह – “आथर्वणायाश्विना दधीचेऽश्वं शिरः प्रत्यैरयतं स बां मधु प्रवोचत्तायंस्त्वाष्ट्रं यदस्रावपि कक्ष्यं वाम्” इति श्रुतिं चात्रोदाहरति हेऽश्विनावाथर्वणाय दधीचेऽश्वसंबंधि शिरः प्रत्यैरयतं प्रतिसंहतमकुरुतं स दद्ध्यङ् वा मधु ब्रह्मविद्यालक्षणं प्रबोचदसिंचत हे दस्रौ त्वष्ट्रा विश्वरूपाय प्रोक्तं त्वाष्ट्रं कक्ष्यं रक्षणाय हितं नारायणकवचं च वामुवाच कीदृशः ऋतायन् यथातथं विद्यां जानन् विद्यां वक्ष्यामीति वचनं संपादयन्निति वा वैदिके निघंटों कक्ष्यपदं कवचपरमुक्तमेतेन श्रीमद्भागवतलक्षणे – “हयमीवब्रह्मविद्या यत्र वृत्रवधस्तथा” इत्युक्तत्वात्तस्यानादित्वं स्फुटितमिति च ध्येयम् ।। ५२ ।। दधाति समिति दधि ब्रह्म तदंचति प्राप्नोति जानाति वेति दध्यङ् । अथवत्त्वादाथर्वणः । तत्र वर्म ज्ञाने । ज्ञानं विनां कथं त्वष्ट्रे प्रादादिति भावः । त्वमिद्रः । इत्यर्थ इति । विद्याया धारणेन तद्गात्रमतीवाभेद्यं स्वेतराभेद्यभेदक चास्ति तदेव प्रार्थयतेति भावः ॥ ५३ ॥ * * अत्राक्षिपति – नन्विति ॥ ५४ ॥ येनायुधेन । तस्मिन्वृत्रे । न हिंसंतीति । वृत्रस्तदनुगासुराश्च मत्परान्युष्मान्न धनंति वृत्रस्य परमभक्तत्वेन मदर्थ स्वदेहमप
- । जिहा सोर्वस्तुतो युष्मासु द्वेषो नास्त्येव यथा युष्माकं तस्मिन्निति भावः ।। ५५ ।।
- *
- इति श्रीमद्भागवतभावार्थदीपिकाप्रकाशे षष्ठस्कन्धे नवमोऽध्यायः ॥ ९ ॥
- T
- स्कं. ६ अ. ९ श्लो. ५१-५५ ]
- ঝী
- अनैकव्याख्यासमलङ्कृतम्
- কअन्वितार्थप्रकाशिका
- ।
- ३३३
- एवं तत्त्वमुक्त्वा तदभिप्रायमनुसरन्नाह - मघवन्निति । हे मघवन् ! ऋषिसत्तमं दध्यचं यात एवं वो युस्माकं भद्रं भविष्यति । विद्यया व्रतैस्तपसा च सारं दृढं तस्य गात्रं शरीरं शीघ्रं याचत याचध्वम् ॥ ५१ ॥ * * स व इति । “स दध्यङ ह यन्मध्वाथर्वणो नाम अश्वस्य शीर्ष्णा प्रपदीमुवाच” इति श्रुत्यादिप्रसिद्धः दध्यङनामा ऋषिः निष्कलं शुद्धं ब्रह्माधिगतो ज्ञातवान् । निष्कृतमिति पाठे तु नितरां कृतं भवति धनं येन तं प्रवर्ग्यं चाधिगतः ततश्च स विद्याद्वयमश्विभ्यां प्रादादित्युत्तरस्यानुषङ्गः उपदिदेशेत्यर्थः । यद्वै निष्फलं ब्रह्म अश्वशिरसा प्रोक्तत्वादश्वशिरो नाम प्रसिद्धम् । एवं च तयोवैद्यतया देवैर्निराकृतामृतादिभागयोरप्यश्विनोरमरता जीवन्मुक्ततां व्यधात्सम्पादितवा- नित्यर्थः । एवं ह्यत्र प्रसिद्धा कथा ( टीकान्तरे प्रदशिता–सं० ) ॥ ५२ ॥ * * दध्यङिति । आथर्वणो दध्यङ अभेद्यं मन्त्रान्तरैरनिराकार्य मदात्मकं वर्म श्रीनारायणकवचमधिगत इति पूर्वस्यानुषङ्गः । यत् स त्वष्ट्रे प्रादात् त्वष्टा च विश्वरूपाय स्वपुत्राय प्रादात् यच्च त्वं ततो विश्वरूपादधाः धृतवानसि तदेवं विद्यासारं तद्गात्रं ततो याचध्वमिति पूर्वेणा- न्वयः ।। ५३ ।। * * युष्मभ्यमिति सार्द्धम् । युष्मास्वेव स्थिताभ्याम् अश्विभ्यां स्वशिष्याभ्यां याचितः संस्तयोः प्रीत्यर्थ धर्मज्ञः परार्तिहरणं परो धर्म इति जानन् युष्मभ्यमङ्गानि दास्यति । यद्वा । अश्विभ्यामिति दृष्टान्तः । तथा याचितः सन् स्वशिरश्छेदनमङ्गीकृत्याप्यसत्यत्वभयादश्विभ्यां विद्यां प्रादात्तथेत्यर्थः । यतो धर्मज्ञः ततो दानानन्तरमेव मम तेजस उपबृंहितः वर्धितः सन् अस्थिभिर्विश्वकर्मणा निर्मिता आयुधश्रेष्ठो वज्रो भविष्यतीति शेषः । येन भवान् वृत्रशिरो हर्ता हरिष्यति ।। ५४ ॥ तस्मिन्निति । वृत्रे निहते सति तेजश्च अस्त्राणि च आयुधानि च सम्पदश्च भूयो यूयं प्राप्स्यथ एवं वो युष्माकं भद्रमेव भविष्यति । मत्परान् मद्भक्तान् केऽपि न हिंसन्तीति निश्वेतव्यम् ।। ५५ ।।
- I ।
- इति श्रीकृष्णसेवार्थमन्वितार्थप्रकाशिकाम् । गङ्गासहायः षष्ठस्य नवमे निरमादिमाम् ॥ इति श्रीभागवते महापुराणे षष्ठस्कन्धेऽन्वितार्थप्रकाशिकायां नवमोऽध्यायः ।। ९ ।।
- वीरराघवव्याख्या
- T
- यद्यप्येवं परिपाटिस्तथापि हे मधवन्निन्द्र ! ऋषिसत्तमं दध्यचं प्रति यात यच्छत वो युष्माकं भद्रमभिलषितं भवि- यति कथमित्यत्राह । विद्यादिप्रभावेण प्रवर्ग्यकर्मणा युष्मदपेक्षितार्थदानशीलं गात्रं शरीरं याचत याचध्वं विलम्बं मा कुरुत ॥ ५१ ॥
- दधीचो गात्रस्य सारवत्त्वमेवाह- ऋ दधीचो गात्रस्य सारवत्त्वमेवाह - स वा इति । अत्रैषा प्रसिद्धा कथावगन्तव्या । अथर्वणो दध्यङनाम ऋषिः कश्चित्प्रवग्यख्यधर्मविद्याब्रह्मविद्याभ्यां समर्थोऽभूत्तं च विद्याप्रभावशालिनं निशम्याश्विनौ विद्याजिघृक्षया तमुपेत्योचतुः नौ विद्यामुपदिशेति, तेन दधीचाधुना कर्मण्यासत्तोऽहं पश्चादुपदेक्ष्यामीत्युक्तावश्विनौ ययतुः । तत इन्द्र आगत्य न कस्मैचिदपीमां विद्यामुपदिश यद्युपदिशेस्तव शिरः छिन्द्यामित्युक्त्वा ययौ । ततः पुनरश्विनावागत्योचतुः उपदिशेति । स च ताभ्यामिन्द्रोक्तमुक्तवान् । ततोऽपि पूर्वमेव तव शिरश्छित्त्वाश्वशिरः सन्धास्यावः अतो नौ उपदिशेति । स तथैव ताभ्यामभि- सन्धितेनाश्वशिरसा विद्यामुपादिशदिति । तथा चोक्तम्-
- /
- ।।
- दध्यङङ्काथर्वणो दक्षः प्रवर्ग्यब्रह्मविद्ययोः । इति ज्ञात्वाश्विनौ देवौ गत्वा तमिदमूचतुः ॥ ब्रह्मविद्यां प्रवर्ग्य च वेद त्वं साम्प्रतं द्विज । तदावाभ्यां प्रवक्तव्यमागतौ त्वां तदर्थिनौ ॥ दध्यङ्ङपि तदा प्राह तौ पश्चात्तद्रवीम्यहम् । कर्मण्यवस्थितोऽद्याहमधुना न तु साम्प्रतम् । तच्छ्रुत्वा तौ तथेत्युक्त्वा जग्मतुः स्वालयं किल । एतस्मिन्नन्तरे शको विद्यातिशयमात्मनः ॥ असहन् त्वरितो गत्वा दध्यचमिदमब्रवीत् । प्रवर्ग्य ब्रह्मविद्यां न कस्मैचिद्वक्तुमर्हसि ।। शिरश्छिन्द्यां यदि ब्रूया रागलोभादिना तव । तथा बहुतिथे काले नासत्यावुपजग्मतुः ॥ ऊचतुश्चाप्यथर्वाणं ब्रूहि पूर्वोक्तमावयोः । इन्द्रेणाहं निषिद्धोऽस्मीत्याह वै द्विजसत्तमः ॥ यदि वक्ष्ये शिरश्छिन्द्यादिन्द्रो मे नात्र संशयः । पूर्वमेव शिरश्छित्त्वा तर्ह्यश्वशिरसं तव ।। ** सन्धास्यावस्त्वमधुना ब्रूहि तेन प्रवर्ग्यकम् । तच्चेदिन्द्रश्छिनत्त्याशु स्वकीयं शिरसं ततः ॥ सन्धाय दक्षिणां चैव दास्याव इति होचतुः । एवमुक्तोऽथ दध्यङ् तु तयोस्तदुभयं जगौ || प्रवर्ग्य ब्रह्मविद्याभ्यां स तदा वीर्यवान् यतः । इति ॥
- “”".
- ।
- ३३४
- Phoश्रीमद्भागवतम्
- [ स्कं. ६ अ. ९ श्लो. ५१-५५
- स वा अधिगत इत्यादिना एषा कथा सूचिता । तत्रायमर्थः । स दध्यङ ऋषिसत्तमः निष्कलं विशुद्धं ब्रह्म अधिगतः यथावज्ज्ञातवान् । निष्कृतमिति पाठे तु नितरां कृतमनुष्ठितं प्रवयं वाधिगतः यद्वावश्यं वक्ष्यामीत्यश्विभ्यां प्रतिज्ञातमित्यर्थः । तदेव निष्कृतं ब्रह्म विशिनष्टि । यद्वा । अश्वशिरोनामेति अश्वशिरसा प्रोक्तत्वादश्वशिर इति यत्प्रसिद्धं ब्रह्मेत्यर्थः । अश्विभ्या- मित्यत्र ततोऽदादित्यस्यानुषङ्गः । ततोऽश्विभ्यामश्वशिरो ब्रह्म प्रवर्ग्य चादादुपदिदेश उपदिश्य तयोरमरतां मरणराहित्यं व्यधाद- करोदित्यर्थः ॥ ५२ ॥ * * तथाथर्वणो दध्यङ मदात्मकं मद्देवताकमत एवाभेद्यं वर्म नारायणवर्म स्वेनाधिगतं त्वष्ट्रे - दादनेन च तद्गत्रस्य सारवत्त्वं तस्यापेक्षितप्रदत्वं च दर्शितम् । किं तद्वर्म यत्त्वष्टा स्वपुत्राय विश्वरूपायादात् यत्त्वं ततः विश्वरूपावृतवानसि ।। ५३ ।। * एवं दधीचो गात्रस्य सारवत्त्वमभिधायावश्यं याचितो गात्रं स्वीयं दध्यङ् दास्य- तीत्याह—युष्मभ्यमिति । धर्मज्ञ इन्द्रादिदेवतारक्षणरूपधर्मज्ञः दध्यङचाचितः सन् युष्मभ्यमवश्यमङ्गानि दास्यति । ददातु किं तैरस्माभिः कार्यम्, तत्राह तत इति । तैर्दधीचाः । विश्वकर्मणा विनिर्मित आयुधश्रेष्ठशे भविष्यति ।। ५४ ।। * * येनायुधश्रेष्ठेन मत्तेजसोपबृंहितः आहितशक्तिरिन्द्रो वृत्रस्य शिरो हर्ता भविष्यति । तस्मिन्वृत्रे हते सति यूयं तेजांस्यस्त्राणि चायुधानि च पूर्ववद्धयः प्राप्स्यथ । त्रिभुवनप्रासी स एवास्मान् हन्यादिति शङ्काकुलचित्तान् प्राह - मत्परांश्च न केऽपि बाधितुं or IT ETE Dporn क्षमन्ते । वो युष्माक भद्रमेव भविष्यति ।। ५५ ।।
- ।
- ।
- ।
- इति श्रीमद्भागवते महापुराणे षष्ठस्कन्धे श्रीमद्वीरराघवाचार्यकृतभागवतचंद्रचंद्रिकायां टीकायां नवमोऽध्यायः ॥ ६ ॥
- विजयध्वजतीर्थकृता पदरत्नावली
- को
- " एतत्कुत इत्याशङ्कय त्वाष्ट्रहननोपायमाह - मघवन्निति । गानं ज्ञानं त्रायत इति गात्रं गतिसाधनत्वाद्वा ।। ५१ ।। जगतो धारकत्वादधि ब्रह्म तदवति गच्छतीति दध्यङ सोऽधिगतोऽधिकज्ञानवान्वै प्रख्यातः " दध्यङ् ह यन्मध्वाथर्वणो वाम- श्वस्य शीर्णा प्रयदीमुवाच” इति श्रुतिः । एतदेवाह - अश्विभ्यामिति । यस्माद्दधीचोऽश्विनीदेवताभ्यां ब्रह्मविद्यालक्षणं नितरां कृतमापादितं स्वीकृतमिति यावत्स इति । यद्वा । निष्कृतं प्रवयख्यं कर्म ब्रह्म चाश्विभ्यामुक्तवानिति शे शेषः । यद्वा । ब्रह्माश्वि- नीदेवताभ्यामुक्तवान् । किमिति । निष्कृतं सत्यप्रतिपालननिमित्तं दधीचा ब्रह्म दास्यामीति प्रतिज्ञातत्वात् तदनुपदेशेऽनृतवा- दित्वं स्यात् तन्नामाह - अश्वशिरमिति । यद्दधीचाश्विभ्यामुपदिष्टं यच्च तयोर्वैद्यावित्युक्त्वा देवैर्दुर्लभीकृतामृतयोरश्विनोरमरतां मरणराहित्यं व्यधात्तद् ब्रह्माश्वशिरं नाम । अत्रेतिहासमाचक्षते - अथर्वणो दध्य प्रवर्ग्यब्रह्मविद्ययोर्दक्ष इति तं विज्ञायात्मनो- रमरत्वं कामयमानावश्विनौ देवौ दधीचमुपागम्य त्वं प्रवर्ग्यब्रह्मविद्याविशारद इत्याकर्ण्यागताभ्यां तदर्थिभ्यामावाभ्यां ते वक्तव्ये इति विज्ञापयाञ्चक्रतुः । कर्मकाण्डोतकर्मणि प्रवृत्तेन मया तत्समाप्य कालान्तरे वक्ष्येते इति तेनोदितौ तौ निजगृहाण्या- जग्मतुः । एतस्मिन्नन्तरे आत्मनोऽन्यस्य विद्यातिशयमसहमानः सुरपतिस्तमृषिमुपसृत्य त्वया प्रवर्ग्यब्रह्मविद्ये कस्मैचिन्न वक्तव्ये रागलोभादिना वदतस्तव शिरश्छिन्द्यामिति तमनुशशास । एवं बहुतिथे कालेऽतिक्रान्ते नासत्याभ्यामागत्य पूर्वोक्तविद्ये वक्तव्ये इत्युक्तो मुनिरहमिन्द्रेण निषिद्धोऽस्मीत्यजीगदत् तत्रोपायमा कलय्य निजशिरश्छेदात्प्रागेव तव शिरश्छित्त्वान्यत्र निधाय कस्यचि- दश्वस्य शिरश्छित्त्वा गळे सन्धाय तेनैते विद्ये ब्रूहि यदीन्द्रस्तदश्वशिरश्छिनत्ति तर्हि स्वकीयशिरः पूर्ववद्गले संयोज्य तुभ्यं दक्षिणां चदास्यावः इति ताभ्यां देवचिकित्सकाभ्यामुक्तो दध्यङ्ङ श्वशिरसा ते विद्येतयोरुपदिदेश इत्यतोऽश्वशिरं नामेति प्रख्यातमभूदिति “आथर्वणायाश्विनौ दधीचेऽश्वियं शिरः प्रत्यैरयतं स वां मधु प्रवोचदृत्ताय त्वाष्ट्रं यदस्रावपि कक्ष्यं वाम्” इति श्रुतिं चात्रोदा- हरन्ति । हेऽश्विनावाथणाय दधीचेऽश्वसम्बन्धि शिरः प्रत्यैरयतं प्रतिसंहितमकुरुतं स दध्य वां मधु ब्रह्मविद्यालक्षणं प्रवोच- स्प्रावोचत् हे दस्रौ ! स्वष्ट्रा विश्वरूपाय प्रोक्तं त्वाष्ट्रं कक्ष्यं नारायणकवच च वामुवाच । कीदृशं ऋतायन् यथातथं विद्यां जानन् विद्यां वक्ष्यामीति वचनं सत्यं सम्पादयन्निति वा ॥ ५२ ॥ * * किन । नारायणकवचधारणाच दधीचोऽङ्गं वीर्यवदित्य- भिप्रेत्याह- कृत्स्नोति । मदात्मक वर्म नारायणकवचमाथगणमाथगणेन दधीचाधीतत्वात् कृत्स्नम् अङ्गोपाङ्गसाहित्येनानूनं त्वाष्ट्राय विश्वरूपाय प्रादात् यथ त्वं विश्वरूपादधाः ततस्तस्मात्त्वाष्ट्रं त्वष्टुर्विद्यमानत्वात्तन्नामत्वात्तस्य विश्वरूपस्य विद्यमा नत्वाच्च तथा ॥ ५३ ॥ * युष्माक’ याच्याभङ्गभयं माभूदित्याह - युष्मभ्यमिति । अङ्गानीत्यवयणसाहित्यविवक्षया बहुवचनं किञ्चिदपि नावशेषयतीत्यर्थः । याचितोऽश्विभ्यामिति पाठे अश्विभ्यां याचितो यथा ताभ्यां विद्यां प्रादात्तथा युष्मभ्य- मप्यङ्गानि ददातीत्यर्थः । तैरङ्गैर्विश्वकर्मणा निर्मित आयुधश्रेष्ठो भवत्विति शेषः । येनायु व ष्ठेन मत्तेजसोपबृंहितो भवान् तेजोऽ- स्वायुधसम्पदः तेन प्रस्ता इति शेषः । मत्परान हिंसन्ति केऽपीति शेषः । अत्र हर्याज्ञाकारित्वेन मुन्यादियाच्ञया न देवानां सामर्थ्यन्यूनतेति दोष: “समर्था अपि याचन्ति देवा मुन्यादिकान् कचित् । आज्ञयैव हरेस्तेषां यशोऽर्थमपि नान्यथा" इति बचनात् ।। ५४-५५ ।।
- A
- इति श्रीमद्भागवते महापुराणे षष्ठस्कंधे विजयध्वजतीर्थकृत पदरत्नावल्या नवमोऽध्यायः ॥ ९ ॥
- स्कं. ६ अ. ९ श्लो. ५१-५५ ]
- ।
- निष्कलं मायातीतम् ।। ५२-५५ ।।
- अनेकव्याख्यासमलङ्कृतम्
- जीवगोस्वामिकृतः क्रमसन्दर्भ:
- ३३५
- HT
- freite se s
- इति श्रीमद्भागवते महापुराणे षष्ठस्कन्धे श्रीमज्जीवगोस्वामिकृतक्रमसन्दर्भे नवमोऽध्यायः ॥ ६॥
- है
- विश्वनाथचक्रवर्तिकता सारार्थदर्शिनी
- गडे) क
- तदपि यदि देहारामत्वाद्विषयान् विना म्रियध्वे तर्हि तत्रोपायं शृणुतेत्याह- मघवन्निति । विद्यया प्रतैस्तपसा च सारं दृढं गात्रं शरीरं याचय याचध्वम् ॥ ५१ ॥ * * तदीयं विद्यातिशयमाह-सना इति द्वाभ्याम् । एवं प्रसिद्धा कथा | निशम्याथर्वणं दक्षं प्रवर्ग्यब्रह्मनिद्ययोः । दध्यश्चं समुपागम्यं तमूचतुरथाश्विनौ । भगवन् ! देहि नौ विद्यामिति
- । श्रुत्वा स चाब्रवीत् । कर्मण्यवस्थितोऽद्याहं पश्चाद्वक्ष्यामि गच्छतम् । तयोर्निर्गतयोरेव शक्र आगत्य तं मुनिम् । उवाच भिषजो- विद्यां मावादीरश्विनोर्मुने ! । यदि मद्वाक्यमुल्लङ्घय ब्रवीषि सहसैव ते । शिरश्छिन्द्यां न सन्देह इत्युक्त्वा स ययौ हरिः । इन्द्रे गते तथाभ्येत्य नासत्यावूचतुर्द्विजम् । तन्मुखादिन्द्रगदितं श्रुत्वा तावूचतुः पुनः । आवां तव शिरश्छित्त्वा पूर्वमश्वस्य मस्तकम् । सन्धास्यावस्ततो ब्रूहि तेन विद्याश्च नौ द्विज ! तस्मिन्निन्द्रेण संछिन्ने पुनः सन्धाय मस्तकम् । निजं ते दक्षिणां दत्त्वा गमिष्यावो यथागतम् । एतच्छ्रुत्वा तदोवाच दध्याथर्वण तयोः । प्रवर्ग्य ब्रह्मविद्याञ्च सत्कृतो ऽसत्यशङ्कितः ।। इति । ततञ्चायमर्थः । दध्य- निष्कलं शुद्धं ब्रह्म अधिगतः ज्ञातवान् । निष्कृतमिति पाठे कृतादनित्यपदार्थान्निष्कान्तम् । ततोऽश्विभ्यां प्रादादित्युत्तरस्या- नुषङ्गः । ब्रह्मा कीदृशं यद्वै अश्वशिरसा प्रोक्तत्वादश्वशिरोनाम तयोरमरतां जीवन्मुक्तत्वं व्यधात् । तथा च श्रुतिः “अश्वस्य शीर्णा प्रयतीमुवाच " इति ।। ५२ ।। मदात्मकं वर्म श्रीनारायणकवचं त्वष्ट्रे प्रादात् यत् कवचं त्वष्टा विश्वरूपाये स्वपुत्राय प्रादात् । ततो विश्वरूपात्त्वं यत् अधा धृतवानसि अत एव विद्यया सारं गात्रं याचध्वमित्यर्थः ॥ ५३ ॥ * * नन्वेवं को दाता यः स्वगात्रमपि दद्यात्तत्राह - युष्मभ्यमिति । विशेषतोऽश्विभ्यां शिष्यप्रीत्या दास्यति । अश्विभ्यां हेतुभ्यामिति वा । तैरङ्गैरस्थिभिः भविष्यतीति शेषः ॥ ५४ ॥ * * ननु सर्वग्रासिना वृत्रेण सार्द्ध योद्धुं न शक्नुमस्तस्मात्तं हन्तुं स्वयमेव यतस्वेत्यत आह-न हिंसन्तीति । वृत्रस्तद्वशीभूता असुराश्च मत्परान् युष्मान् न घ्नन्ति वृत्रस्य परमभक्तत्वेन मदर्थं स्वदेहमपि जिहासोर्वस्तुतो द्वेषों नास्त्येव यथा युष्माकं तस्मिन्निति भावः ।। ५५ ।।
- इति सारार्थदर्शिन्यां हर्षिण्यां भक्तचेतसाम् । षष्ठस्य नवमोऽध्यायः सङ्गतः सङ्गतः सताम् ॥ ६ ॥
- शुकदेवकृतः सिद्धांत प्रदीप:
- FIPPIE FEIFE my pr
- हे मघवन् ! ऋषिसत्तमं दध्यन्नं प्रति यात गच्छत । वो भद्रं वान्छितं भविष्यति । तत्र गात्रं याचत याच- ध्वम् ।। ५१ ।। * * ऋषेर्विद्यावत्त्व सत्यप्रतिज्ञत्वादीन् गुणानाह स वा इति द्वाभ्याम् । इयं ग्रन्थातरे प्रसिद्धा कथा । ( कथेयं बहुटीको धृतत्वादत्र न दीयते इति सं० ) लोकान्वयस्तु स वै दध्य यद्वै अश्वशिरसो यदिष्टत्वादश्वशिरोनाम ब्रह्म निष्कृतं नितरामनुष्ठेयं प्रवयख्यं कर्म च ब्रह्मविद्यां कर्मविद्यां प्रवर्गाख्यां च अधिगतः ज्ञातवान् । ततः अश्विभ्यां प्रादादिति क्रियापदेना- न्वयः । तथा च श्रुतिः “अश्वत्य शीर्णा प्रयतीमुवाच” इति तथा ब्रह्मविद्यया तयोरमरतां ब्रह्मज्ञतां व्यधात् ॥ ५२॥ स एव दध्यङ् यन्मदात्मकं कवचं त्वष्ट्रे प्रादात् स च त्वष्टा विश्वरूपाय प्रादात् ततस्त्वष्टुः सकाशात् यत् त्वमधाः धृतवानसि ।। ५३ ।। युष्माभिः विशेषतोऽश्विभ्यां च याचितः धर्मज्ञः अङ्गानि अस्थीनि युष्मभ्यं दास्यति । तैः अस्थिभिः आयुषश्रेष्ठो वो भविष्यति । तेन वृत्रशिरो हर्ता हरिष्यति मत्तेजसा उपबृंहित सन् तस्मिन् वृत्रे विनिहते यूयं भूयस्तेजआदिकं प्राप्स्यथ । तदनन्तरं बो युष्माकं भद्रं मङ्गलमेव भविष्यति । ये तु विशेषतो मत्परास्तांस्तु सर्वदा केऽपि न हिंसन्तीत्याशयेनाह नेति । अहं परः पूज्यो येषां तान केऽपि न हिंसन्तीति योजना ।। ५४-५५ ।।
- इति श्रीमद्भागवते महापुराणे षष्ठस्कन्धे श्रीमच्छुकदेवकृत सिद्धान्तप्रदीपे नवमाध्यायार्थप्रकाशः ॥। ९ ॥
- गोस्वामिगिरिधरलालविहिता बालप्रबोधिनी
- FREE A
- एवं तत् कथितेऽपि सत्यमेवमेव परमार्थस्तथापि वृत्रोपद्रवादस्मजीवनमेव दुर्घटमेव विवेकस्य कावकाश इति देवानामभिप्रायमालक्ष्य वृत्रवधोपायमुपदिशति - मघवन्निति सार्वैश्चतुर्भिः । हे मघवन् एवं वो युष्माकं भद्रे भविष्यति
- ३३६
- ।
- “:
- श्रीमद्भागवतम्
- ।
- [ स्कं. ६ अ. ९ श्लो. ५१-५५ विद्यया व्रतैस्तपसा च सारं दृढं गात्रं शरीरं शीघ्रं याचत याचध्वम् ॥ ५१ ॥ * * " तत्र दध्यम् ह यन्मन्वाथर्वणो
- ।। नाम अश्वस्य शीर्ष्णा प्रपदीमुवाच " इति श्रुत्यादिप्रसिद्धं तस्य विद्यातिशयं दर्शयति-स वा इति द्वाभ्याम् । एवं ात्र प्रसिद्धा कथा ( टीकान्तरे प्रदर्शिता - सं० ) । जगतो धारकत्वाद्दधि ब्रह्म तदवति गच्छतीति दध्यङ् निष्कलं शुद्धं ब्रह्माधिगतो ज्ञातवान् । निष्कृतमिति पाठे तु नितरां कृतं भवति धनं येन तं प्रवर्ग्य चाधिगतः । ततश्च स विद्याद्वयमश्विभ्यां प्रादादित्युत्तरस्यानुषङ्गः उपदिदेशेत्यर्थः । तन्नामनिरुक्त्या प्रसिद्धिं दर्शयति – यद्वै अश्वशिरसा प्रोक्तत्वादश्वशिरो नाम प्रसिद्धम् । एवं च तयोर्वैद्यतया देवैर्निराकृतामृतादिभागयोरप्यश्विनोरमरतां जीवन्मुक्ततां व्यधात् सम्पादितवानित्यर्थः ॥ ५२ ॥ * * किन आथर्वणो दव्य अभेद्यं मन्त्रान्तरैरनिराकार्य मदात्मक’ वर्म श्रीनारायणकवचमधिगत इति पूर्वस्यानुषङ्गः । एतज्ज्ञापिकां परम्परामाह- यत्स त्वष्ट्रे प्रादात् । त्वष्टा च विश्वरूपाय स्वपुत्राय प्रादात् । यच्च त्वं ततो विश्वरूपादधाः वृतवानसि । तदेवं विद्यासारं तद्गात्रं ततो याचध्वमिति पूर्वेणान्वयः ॥ ५३ ॥ नन्वेवं याचितोऽपि श्रेष्ठं देहं कथं दास्यति तत्राह - युष्मभ्यमिति । afari स्वशिष्याभ्यां याचितः संस्तयोः प्रीत्यर्थ धर्मज्ञः परार्त्तिहरणं परो धर्म इति जानन् युष्मभ्यमङ्गानि दास्यतीत्यन्वयः । अङ्गानीति अस्थिबहुत्वाभिप्रायेण बहुवचनम् । यद्वा अश्विभ्यामिति दृष्टान्तः यथा याचितः सन् स्वशिरश्छेदनमङ्गीकृत्यापि असत्यत्वभयादश्विभ्यां विद्यां प्रादात्तथेत्यर्थः । यतो धर्मज्ञः । तेन दाने कृतेऽपि तैरस्थिभिः किं कर्त्तव्यं कथमस्मज्जय इत्यपेक्षा- यामाह -तत इति, ततो दानानन्तरमेव तैरस्थिभिर्विश्वकर्मणा निर्मित आयुधश्रेष्ठो वस्त्रो भवत्विति शेषः । येन भवान् वृत्रशिरो हर्त्ता हरिष्यति । ननु मम तेजसस्तेन प्रस्तत्वात्तद्विना केवलेनायुधेन कथं तच्छिरोहरणमित्याशङ्कयाह - मम तेजसा । उपबृंहितः संवर्द्धितः सन् ॥५४ || नन्वेवं तस्मिन्निहतेऽपि यन्यस्मत्तेजआदीनि तेन प्रस्तानि तानि तु गतान्येव तत्प्राप्तिः कथं तत्राह- तस्मिन्निति । तस्मिन् वृत्रे विनिहते सति तेजश्व अस्त्राणि च आयुधानि च सम्पदश्च भूयो यूयं प्राप्स्यथ । एवं वो युष्माकं भद्रमेव भविष्यति । एवमाश्वासनेऽपि महाकायस्त्रिभुवनग्रासी स एवास्मान् हन्यादिति शङ्काकुलचित्तान् प्रत्याह-मत्परान् मद्भक्तान केऽपि न हिंसन्तीति निश्वेतव्यम् ॥ ५५ ॥
- 11
- *
- ॥
- इति श्रीवल्लभाचार्यवंश्यगोपालसूनुना । श्रीमन्मुकुन्दरायाणां पादसेवाधिकारिणा ॥ १ श्रीमदगिरिधराख्येन भजनानन्दसिद्धये । श्रीमद्भागवतस्येयं टीका बालप्रबोधिनी ॥ २ ॥ रचिता तत्र षष्ठेऽस्मिन् स्कन्धे रूपनिरूपणे । नवमो विवृतो हीन्द्रप्रसादविनिरूपकः ।। ३ ।।
भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी तत्र तदीयविद्यातिशयतया दधीचो गात्रस्य सारवत्त्वमेवाह स वा इति द्वाभ्याम् । स वा इति । स दध्यङ एतन्नामा ऋषिः, निष्कलं विशुद्धं ब्रह्म अधिगतः यथावत् ज्ञातवान् वै । निष्कृतमिति पाठे नितरां कृतमनुष्ठितम् । प्रवर्ग्य च, अधिगतः । कथंभूतं यत्, अश्वशिरो नाम अश्वशिरसा प्रोक्तत्वादश्वशिरोनाम्ना प्रसिद्धं तयोरश्विनोः, अमरतां मरणराहित्यं व्यधात् अकरोत् वै । तत्, अश्विभ्यां प्रादादित्युत्तरस्यानुषङ्गः । दध्यङङपदिदेशेत्यर्थः । अत्रैषा प्रसिद्धा कथात्रवगन्तव्या । आथर्वणो द नाम ऋषिः कश्चित् प्राग्यख्यकर्मविद्याब्रह्मविद्याभ्यां समर्थोऽभूत् । तं च विद्याप्रभावशालिनं निशम्य अश्विनौ विद्याजिघृक्षयां तमुपेत्योचतुन विद्यामुपदिशेति, तच्छ्रुत्वा दध्यङाहाहमधुना कर्मण्यास तोऽस्म्यतः पञ्चादुपदेक्ष्यामीत्युक्तवांस्तच्छ्रुत्वाऽश्विनौ ययतुः । ततस्तन्निकषा इन्द्र आगत्य न कस्मैचिदपीमां विद्यामुपदिशेर्यद्युपदिशेश्चेत्तव शिरश्छेत्स्यामीत्युक्त्वा ययौ । ततः पुनर- प्यश्विनावागत्य तमुचतुर्नावुपदिशेति स च ताभ्यामिन्द्रोक्तमुक्तवांस्ततोऽश्विनावूचतुः । हे मुने ततः पूर्वमेव वयं तव शिरश्छि- त्वाऽश्वशिरः संधास्यावस्तेन विद्यां नौ ब्रूहि क्रुधा इन्द्रेण तस्मिंश्छिन्ने पुनस्त्वदीयमिदमेव शिरः पुनः संधाय तुभ्यं दक्षिणां दत्त्वा गमिष्यावः । ताभ्यामेवमुक्तो दध्य तयोः प्रवर्ग्य ब्रह्मविद्यामित्येतदुभयं जगौ । तत् ज्ञात्वा इन्द्रेणागत्य तस्य तत् शिरश्छित्वा गते तदीयं तन्मस्तकं पुनः संधाय तौ जग्मतुरित्येषा कथाऽनेन सूचिता । तथा चोक्तं पुराणांतरे- ‘दध्याथर्वणो दक्षः प्रवर्ग्य- ब्रह्मविद्ययोः । इति गत्वाश्विनौ देवौ तं नत्वेदं समूचतुः । ब्रह्मविद्यां प्रवर्ग्य च वेद त्वं सांप्रतं द्विज । तदावाभ्यां प्रवक्तव्य- मागतौ त्वां तदर्थिनौ । दध्यङङपि तदा प्राह तौ पश्चात्तद्रवीम्यहम् । कर्मण्यवस्थितोऽद्याहं पश्चाद्वक्ष्यामि गच्छतम् । तच्छ्रुत्वा तौ तथेत्युक्त्वा जग्मतुः स्वालयं किल । एतस्मिन्नन्तरे शक्रो विद्यातिशयमात्मनः । असहस्त्वरितो गत्वा दध्यचमिदमब्रवीत् । प्रवर्ग्यं ब्रह्मविद्यां नो कस्मैचिद्वक्तुमर्हसि । शिरश्छिन्द्यां यदि ब्रूया रागलोभादिना तब । इत्युक्त्वेन्द्रे गते तूर्णं नासत्यावुपजग्मतुः । ऊचतुश्वाप्यथर्वाणं ब्रूहि पूर्वोक्तमावयोः । इन्द्रेणाहं निषिद्धोऽस्मीत्याह तौ द्विजसत्तम । यदि वक्ष्ये शिरश्छिन्द्यादिन्द्रो मे नात्र संशयः । पूर्वमेव शिरश्छित्त्वा तर्ह्यश्वशिरसं तव । संधास्यावस्त्वमधुना ब्रूहि तेन प्रवर्ग्यकम् । तचेदिन्द्रश्छिनत्त्याशु स्वकीयं शिरसं ततः । संधाय दक्षिणां चैव दास्याव इति होचतुः । एवमुक्तोऽथ दध्य तु तयोस्तदुभयं जगौ । प्रवर्ग्य ब्रह्मविद्याभ्यां तौ सवीर्यौ । अनैकव्याख्यासमलङ्कृतम् । ३३७ स्कं. ६ अ. ९ श्लो. ५१-५५] बभूवतुः’ इत्यादि ॥ ५१ ॥ * * दध्यङिति । आथर्वणः दध्यङ, मदात्मकं मद्देवतात्मकम्, अत एव अभेद्यं केनापि भेत्तुमशक्यं वर्म नारायणवर्म, त्वष्ट्रे प्रादात् । अनेनैतद्गात्रस्यापेक्षितप्रदत्वं दर्शितम् । यद्वर्म, त्वष्टा विश्वरूपाय विश्वरूपनाम्ने स्वपुत्राय, प्रादात् । यद्वर्म, त्वं ततो विश्वरूपात्, अधाः धृतवान् असि ।। ५२ ।। * * एवं दधीचो गात्रस्य सारवत्त्व- मभिधाय याचितः सोऽवश्यं स्वीयं गात्रं दास्यतीत्याह युष्मभ्यमिति । धर्मज्ञ इन्द्रादिदेवतारक्षणरूपधर्मवित्, दध्यङ् याचितः सन्, युष्मभ्यम् अङ्गानि, दास्यति । अवश्यं दाता, दध्यङित्यत्राश्विभ्यामिति पाठे, ननु प्रेष्ठं देहं कथं दास्यति तत्राह- दृध्यङिति शेषः । याचितः सन् युष्मभ्यम् अङ्गान्यस्थीनि दास्यति । यतः धर्मज्ञः विशेषतः अश्विभ्यां शिष्यप्रीत्या दास्यति इति अन्वयः । ददातु सः तैरस्माभिः किं कार्य तत्राह - ततः, तैर्दधीचोऽङ्गः, विश्वकर्मविनिर्मितः विश्वकर्मणा युक्त्या निष्पा- दितः, आयुधश्र ेष्ठः वज्रः, भविष्यतीति शेषः । येनायुधश्रेष्ठेन, मत्तेजसा उपबृंहितः आहितशक्तिरिन्द्रः, वृत्रशिरोहर्त्ता च, भविष्यति ।। ५३ ।। * तस्मिन्निति । यस्मिन् वृत्रे, विनिहते सति, यूयं तेजांसि च अस्त्राणि च आयुधानि च संपदश्च ताः भूयः पुनः प्राप्स्यथ । त्रिभुवनप्रासी स एव अस्मान् हन्यादिति । तस्मिन् शङ्काकुलचित्तान् प्राह - मत्परान् न हिंसन्ति मत्परान् केऽपि बाधितुं न क्षमन्ते । अतः, वो युष्माकं भद्रं चैव भविष्यति ।। ५४ ।। " इति श्रीधर्मधुरंधरश्रीधर्मात्मजप्रत्यक्षपुरुषोत्तमसहजानन्द स्वामिसुतश्रीरघुवीराचार्यसूनुभगवत्प्रसादाचार्यविरचितायामन्वयार्थाव- बोधिन्यां भक्तमनोरञ्जन्याख्यायां श्रीमद्भागवतटीकायां षष्ठस्कन्धे नवमोऽध्यायः ॥ ९ ॥ भाषानुवादः 1 देवराज इन्द्र ! तुमलोगोंका कल्याण हो । अब देर मत करो । ऋषिशिरोमणि दधीचिके पास जाओ और उनसे उनका शरीर — जो उपासना, व्रत तपस्या के कारण अत्यन्त दृढ़ हो गया है - माँग लो ।। ५१ ।। * * दधीचि ऋषिको शुद्ध ब्रह्मका ज्ञान है । अश्विनीकुमारों को घोड़े के शिरसे उपदेश करनेके कारण उनका एक नाम ‘अश्वशिर’ भी है। उनकी उपदेश की हुई आत्मविद्या के प्रभावसे ही दोनों अश्विनीकुमार जीवन्मुक्त हो गये ।। ५२ ।। * * अथर्ववेदी दधीचि ऋषिने ही पहले-पहल मेरे स्वरूपभूत अभेद्य नारायणकवचका त्वष्टाको उपदेश किया था । त्वष्टाने वही विश्वरूपको दिया और विश्वरूपसे तुम्हें मिला ।। ५३ ॥ * * दधीचि ऋषि धर्मके परम मर्मज्ञ हैं। वे तुमलोगोंको, अश्विनीकुमारके माँगनेपर, अपने शरीरके अङ्ग अवश्य दे देंगे। इसके बाद विश्वकर्माके द्वारा उन अङ्गोंसे एक श्र ेष्ठ आयुध तैयार करा लेना । देवराज ! । मेरी शक्तिसे युक्त होकर तुम उसी शस्त्रके द्वारा वृत्रासुरका सिर काट लोगे ॥ ५४ ॥ * * देवताओ ! वृत्रासुरके मर जानेपर तुमलोगों को फिरसे तेज, अस्त्र-शस्त्र और सम्पत्तियाँ प्राप्त हो जायँगी । तुम्हारा कल्याण अवश्यम्भावी है; क्योंकि मेरे शरणागतोंको कोई सता नहीं सकता ।। ५५ ।। इति नवमोऽध्यायः ॥ ६॥ ’ आकर १. यह कथा इस प्रकार है— दधीचि ऋषिको प्रवम्यं ( यज्ञकर्म विशेष ) और ब्रह मविद्याका उत्तम ज्ञान है - यह जानकर एक बार उनके पास अश्विनीकुमार आये और उनसे ब्रह मविद्याका उपदेश करनेके लिये प्रार्थना की। दवीचि मुनिने कहा - ’ इस समय मैं एक कार्य में लगा हूँ, इसलिये फिर किसी समय आना।’ इसपर अश्विनीकुमार चले गये । उनके जाते ही इन्द्रने कहा - ‘मुने ! अश्विनीकुमार वैद्य हैं, उन्हें तुम ब्रह मविद्याका उपदेश मत करना। यदि तुम मेरी बात न मानकर उन्हें उपदेश करोगे तो मैं तुम्हारा सिर काट डालूँगा ।’ जब ऐसा कहकर इन्द्र चले गये, तब अश्विनीकुमारोंने आकर फिर वही प्रार्थना की। मुनिने इन्द्रका सब वृत्तान्त सुनाया । इसपर अश्विनीकुमारोंने कहा - ‘हम पहले ही आपका यह सिर काटकर घोड़ेका सिर जोड़ देंगे। उससे आप हमें उपदेश करें और जब इन्द्र आपका घोड़ेका सिर काट देंगे, तब हम फिर असली सिर जोड़ देंगे ।’ मुनिने मिथ्या भाषणके भयसे उनका कथन स्वीकार कर लिया । इस प्रकार अश्वमुखसे उपदेश किये जानेके कारण ब्रह्मविद्याका नाम ‘अश्वशिरा’ पड़ा । ४३ केपी पण मी UPEE CEE अथ दशमोऽध्यायः श्रीशुक उवाच इन्द्रमेवं समादिश्य भगवान् विश्वभावनः । पश्यतामनिमेषाणां तत्रैवान्तर्दधे हरिः ॥ तथाभियाचितो देवऋषिराथर्वणो महान् । मोदमान उवाचेदं प्रहसन्निव भारत ॥ अपि वृन्दारका यूर्यं न जानीथ शरीरिणाम् । संस्थायां यस्त्वभिद्रोहो दुःसहचेतनापहः ॥ जिजीविषूणां जीवानामात्मा श्रेष्ठ इहेप्सितः । क उत्सहेत तं दातुं भिक्षमाणाय विष्णवे ॥ India देवा ऊचुः १ ॥ २ ॥ ३ ॥ ४ ॥ ५ ॥ किं नु तद् दुस्त्यजं ब्रह्मन् पुंसां भूतानुकम्पिनाम् । भवद्विधानां महतां पुण्यश्लोकेड्यकर्मणाम् ॥ ननु स्वार्थपरो लोको न वेद परसंकटम् । यदि वेद न याचेत नेति नाह यदीश्वरः ॥ ६ ॥ ऋषिरुवाच roamm धर्म वः श्रोतुकामेन यूयं मे प्रत्युदाहृताः । एष वः प्रियमात्मानं त्यजन्तं संत्यजाम्यहम् ॥ ७ ॥ योऽधुवेणात्मना नाथा न धर्म न यशः पुमान् । ईहेत भूतदयया स शोच्यः स्थावरैरपि ॥ ८ ॥ एतावानव्ययो धर्मः पुण्यश्लोकैरुपासितः । यो भूतशोकहर्षाभ्यामात्मा शोचति हृष्यति ॥ अहो दैन्यमहो कष्टं पारक्यैः क्षणभङ्गुरैः । यन्त्रोपकुर्यादखार्थेर्मर्त्यः स्वज्ञातिविग्रहैः ॥
कृष्णप्रिया व्याख्या ४॥ * * * ९ ॥ १० ॥ अन्वयः – विश्वभावनः भगवान् हरिः एवम् इंद्रं समादिश्य अनिमेषाणां पश्यतां तत्र एव अन्तर्दधे ॥ १ ॥ * * भारत महान आथर्वणः ऋषिः देवैः तथा अभियाचितः मोदमानः प्रहसन् इव इदम् उवाच ॥ २ ॥ * वृंदारकाः यः तु शरीरिणां संस्थायां चेतनापहः दुःसहः अभिद्रोह: यूयम् अपि न जानीथ ॥ ३ ॥ * * इह जिजीविषूणां जीवानां आत्मा श्रेष्ठः ईप्सितः तं भिक्षमाणाय विष्णवे अपि दातुं कः उत्सहैव ॥ ४ ॥ ॐ ब्रह्मन् भूतानुकम्पिनां पुण्यलोकेड पकर्मणां भवद्विधानां महतां पुंसां तत् किं नु दुस्त्यजम् ॥ ५ ॥ * ननु स्वार्थपरः लोकः परसंकटं न वेद यदि वेद न याचेत यदि ईश्वरः स्यात तर्हि न इति न आह ॥ ६ ॥ वः धर्म श्रोतुकामेन मे यूयं प्रत्युदाहृताः एषः अहं वः त्यजन्तं प्रियम् आत्मानं संत्यजामि ॥ ७ ॥ * * नाथाः यः पुमान अध्रुवेण आत्मना भूतदयया धर्म न ईहेत यशः न सः स्थावरैः अपि शोच्यः ॥ ८ ॥ य आत्मा भूतशोकहर्षाभ्यां शोचति हृष्यति एतावान् पुण्यश्लोकः उपासितः अव्ययः धर्मः ॥ ६॥ * * यत् मर्त्यः पारक्यैः क्षणभङ्गुरैः अस्वार्थैः स्वज्ञातिविग्रहैः न उपकुर्यात् अहो दैन्यम् अहो कष्टम् ॥ १० ॥ " * *
श्रीधरस्वामिविरचिता भावार्थदीपिका दशमे केशवादिष्टदध्यङ्ङास्थिजववृक्ा इंद्रोऽयुध्यत वृत्रेण सासुरेण सनिर्जरः ॥ १ ॥ १ ॥ मोदमान एव तन्मुखाद्धर्मं श्रोतुकामः प्रत्याचक्षाण इवोवाच अपीति द्वाभ्याम् ॥ २ ॥ * * हे वृंदारका अपि किं संस्थायां मृत्यौ योऽभिद्रोहो दुःखं तं न जानीथ ॥ ३ ॥ आत्मा देहः वयं जानीम एव किं तु श्रीविष्णुरन्मुखेन * १. प्रा० पा० - बादरायणिरुवाच । २. प्रा० पा० साधूनां । ३. प्रा० पा० नूनं । ४. प्रा० पा० - इच्छेत । ५. प्रा० पा० - भ्यां न शोचति न हृष्यति ।स्क. ६ अ. १० श्लो. १-१०] अनेकव्याख्यासमलङ्कृतम् ३३९ याचत इति चेत्तत्राह याचते विष्णवेऽपि दातुं क उत्सहते ॥ ४ ॥ * * पुण्यश्लोकैरीड्यानि कर्माणि येषाम् ॥ ५ ॥ याचको यदि वेद तर्हि न याचेत यदीश्वरो दानसमर्थश्चत्तर्हि सोऽपि नेति नाह । अतो यथा तव संकट स्वार्थपरा वयं न जानीम एवं प्रत्याचक्षाणस्त्वमस्मत्संकट न जानासीति भावः ॥ ६ ॥ * * मे मया प्रत्युदाहृताः प्रत्युक्ताः एषः अहं मां त्यजंतं त्यक्त्वा यांतमात्मानं देहम् ॥ ७ ॥ * * अध्रुवेणात्मना देहेन हे नाथाः देवाः ॥ ८ * * ॥ य आत्मा स्वयं भूतानां शोकेन शोचति हर्षेण हृष्यति तस्य यो धर्म एतावानेवान्यय इत्यर्थः ॥ ६ ॥ पारक्यैः श्वशृगालादि-
- मक्ष्यैः अस्वार्थैरात्मोपयोगशून्यैः स्वं वित्तम् । ज्ञातयः पुत्रादयः । विग्रहो देहः । तैर्नोपकुर्यादिति यत् ।। १० ।। वंशीधरकृतो भावार्थदीपिकाप्रकाशः । दधीचोsस्थीनि दध्यगस्थीनि तेभ्यो जायत इति दध्यगस्थिजं तच्च तद्वज्र’ चेति दध्यगस्थिजवज्र’ तद्धजन्ति धारयतीति तथा “वृज् - धारणे’ तौदादिकश्च वर्ग मध्यवर्णातः । केशवेनादिष्ट आज्ञप्रश्वासौ दध्यगस्थिजवज्रवृक् चेति केशवादिन ष्टदध्यगस्थिजवज्रधृक् । सासुरेणासुरसहितेन । निर्ज्जरैर्देवैः सहितः सनिर्जर: यंत्र प्रार्थितस्तत्रैव ‘सुरमत्स्यावनिमिषौ’ इत्यमरः । अनिमिषाणां सुराणाम् ॥ १ ॥ * * यथा विष्णुनोक्तं तथाऽस्थिनिमित्तं प्रार्थितः प्रहसन्निव याच्या प्रत्या- ख्यानेन तांस्तिरस्कुर्वन्निव । भारतेति । भरतो यथा भवद्वंशप्रवर्त्तको ऽर्थिनामप्रत्याख्याता ‘भरतस्य महत्कर्म’ इत्याद्युक्तन्यायेन तथायमपीति भवद्वंश्या अप्येतादृशा अभवन्निति भावः ॥ २॥ हे वृंदारका इति । दर्शने एव प्रशस्तवृंदा यूयम- न्तस्तु कठिना एव यतो ब्रह्महत्यातोपि न बिभिथ । यद्वा-वृन्दं सर्वजनसमूहमिति तत्तदिंद्रियाद्यधिष्ठातृत्वेन जानत्यप्यहो कथं न जानीथाधुना मद्देहपातदुःखमिति भावः । चेतनापह बुद्धिविभ्रंशकरः ॥ ३ ॥ * प्रेष्ठोऽतीव प्रियः ॥ ४ ॥ ब्रह्मन्निति । वेदवित्त्वात्परोपकारफलं जानास्येवेति भावः । भवद्विधानां त्वादृशानाम् ॥ ५ ॥ * अत उभयोवेल- क्षण्यात् । इति भाव इति । परसंकटाज्ञाने उभये सदृशा एवेत्याशयः । विश्वनाथस्तु — ऋषिराह - नूनमित्यादि न याचे तेत्यंतं देवाः प्रत्याहुः नूनमित्यादि पद्यमेव न याचेतेति । चतुरक्षरविनाभूतं ततश्चार्थातरन्यासस्यात्र विशेषतोऽयमर्थः याचको लोको नूनं स्वार्थपरः स्वर्गाद्यैश्वर्यभोगपरः परस्य दातुः संकटं स्वदेहास्थिप्रदाने पीडां न वेद यदि देवत्वेन विवेकवत्त्वाद्वेद तर्हि न याचेतेति । तेन युष्माकं विवेकाभावान्न देवत्वं किं तु व्याघ्रादिपशुतुल्यत्वमिति ऋषिणोक्तं श्रुत्वा देवैः प्रत्युक्तं दाता लोकोऽपि नूनं स्वार्थपरः देहेंद्रियादिषु ममले चिरजीवित्व सुखपरः परेषां याचकानां संकटं घोरशत्रूपद्रवादिदुःखं न वेद यद्यषित्वेन विवेकविज्ञानदद्यादिमत्त्वाद्वेद तर्हि नेति नाहं दास्यामीति न ब्रूयात् । यद्यस्मादीश्वर तहानसमर्थ: तेन तवापि विज्ञानाद्यमा- वान्नषित्वं प्रत्युत शोकमोहादिसङ्गावाद गवादिपशुतुल्यत्वमिति भावः ॥ ६ ॥ धर्म वः श्रोतुकामेनेति । स धर्मों युष्मत्प्रत्युत्तरेणैव श्रुतः । यद्वा-ध्वनिरयं वक्रोक्त्यैव धर्मो न श्रुतः किं तु वाक्चातुर्य श्रुतं भवतु तावत्स्वाभिप्रायं ज्ञापय इत्याह-एष इति । आत्मानं देहं त्यज॑तमचिरादेव त्यक्ष्यंतं संत्यजामीति स देहो यावन्मां न त्यजति तावद्देहमेव तं त्यजामि युष्मभ्यं ददामीत्येतावत्तु भाग्यं मम भवत्विति भावः ॥ ७ ॥ * हे नाथा इति । हे याचका उपतप्ता वा न हि याचक- रुपतप्तैर्वा परदुःखं ज्ञायते इति भावः । स्थावरैः स्तव्धैर्विवेकशून्यैरपीत्यर्थः ॥ ८ ॥ इत्यर्थ इति । परदुःखसुखाभ्यां शोकहर्षो कृतवतः पुंसः कीर्त्तिश्विरं रंतिदेवादिवत्तिष्ठतीति भावः ॥ ९ ॥ अदातारमुद्दिश्याह- अहो इति । मत्ये
इत्यनेन परोपकारे चिरं न कार्य करणनिश्चयात् । उपकारसाधनानामपि क्षणिकत्वमालक्ष्य तूर्णमेव परोपकृतौ यतेतान्यथा मक्षिकापादघर्षणन्यायेन हस्तघर्षणमेवावशिष्यत इति भावः । न स्वार्थी चैरित्यस्वार्थास्तैः स्वार्थमनुदिश्यैव धनादिभिः परोपकार कुर्यान्न स्वैहिकं किञ्चित्कार्यमुद्दिश्य तथा सत्युपकारत्वासंभवादिति भावः ॥ १० ॥ । अन्वितार्थप्रकाशिका दशमे तु दधीच्यस्थिजातवज्रधरो वृषा । वृत्रेणायुद्धयत महांस्तत्र श्लोकास्त्रिवह्नयः ( ३३ ) || ॥ ॥ अनुष्टुभः सार्द्धंपञ्चत्रिंशञ्च( ३५|| ) चत्वार्युवाच ( ४ ) ॥ १० ॥ इन्द्रमिति । अनिमिषाणां देवानां स्पष्टम् ॥ १ ॥ तथेति । हे भारत ! तथा भगवता शिक्षित तथा देवैर्याचितः महानुदारचितः महानुदारचरितः आथर्वणः दध्य मोदमानोऽपि तन्मुखाद्धर्मं श्रोतुकामः प्रत्याचक्षाण इव प्रहसन्निदमुवाच ॥ २ ॥ * * अपीति । हे अपीति । हे वृन्दारकाः देवाः देवाः ! यूयं सात्त्वि- कत्त्वेनेन्द्रियाधिष्ठातृत्वेन च प्रसिद्धा अपि संस्थायां मृत्यों यन्तु चेतनापहः मूच्छ जनकः । मूच्छाजनक: अत एव दुःसहः अभिद्रोही दुःख- लक्षणोपद्रवः शरीरिणां भवति तमपि किन्न जानीथ । यद्वा । यूयं तमभिद्रोह न जानीथेति ज्ञायतेऽन्यथा युष्माकमियं ३४० । श्रीमद्भागवतम् [ स्कं. ६ अ. १० लो. १-१० याच्या न स्यादिति शेषः ॥ २ ॥ जिजीविषूणामिति । इह प्रियेषु वस्तुषु जीवानामात्मा देहः प्रेष्ठः प्रियतमः । यतः जिजीविषूणामीप्सितः धनादि दत्त्वाऽपि रक्षणीयः । अतो भिक्षमाणाय अतिथिरूपेण याचमानाय विष्णवेऽपि तं दातुं क उत्सहेत ॥ ४ ॥ * * किमिति । हे ब्रह्मन् ! भवद्विधानां भूतानुकम्पिनां प्राणिषु दयातिशयवतां महतामुदारचित्ता- नामत एव पुण्यश्लोकैः सत्कीर्त्तिभिरपि ईड्यानि स्तुत्यानि कर्माणि येषां तेषां पुंसां यदुस्त्यजं तत्किं नु न किमपीत्यर्थः ॥ ५ ॥ नन्विति । अत्र इदं पद्यं नन्वित्यादि न याचेतेत्यन्तमृषेर्वचः तत इदमेव न याचेतेति चतुरक्षरविनाभूतं देवानां वचः । तथा हि स्वार्थपरः स्वर्गाद्यैश्वर्यभोगाभिलाषी लोको याचकादिजनः परस्य दातुः संकटं स्वदेहास्थिदानपीडां न वेद न जानाति । यदि वेद तदा च न याचेत । उपलक्षणमेतत् । यज्ञादिषु पशून्न हन्यादित्यपि ज्ञेयम् । ततो देवा ऊचुः । स्वार्थपरः जीवनेन विषयभोगाभिलाषी भवादृशो दाता लोकोऽपि परस्य याचकस्य सङ्कटं न जानाति । यदि सोऽपि वेद तदा ईश्वरो दातुं समर्थः सन्नेति नाह । प्रत्याख्यानं न कुर्यादित्यन्वयः । यद्वा । देवानामेवेदं वचः प्रोक्तप्रकारद्वयेन व्याख्येयम्, तथा च यथा वयं स्वार्थपरास्तव सङ्कटानुसन्धानं न कुर्मस्तथा त्वमपि स्वार्थपरः प्रत्याचक्षाणोऽस्मत्सङ्कटं नानुसन्धत्स इति तुल्य एवोपालम्भ इति भावः ॥ ६ ॥ * * धर्ममिति । वो युष्माकं मुखाद्धर्मं श्रोतुकामेन मे मया यूयं प्रत्युदाहृताः निराकृता इवोक्ता न वस्तुतः । अत एषोऽहं त्यजन्तं त्यक्ष्यन्तं प्रियमप्यात्मानं देह वो युष्माकमर्थे सन्त्यजामि । त्यजन्तमित्यनेन अन्ते मामयं त्यक्ष्यतीति धर्मयशोलाभाय तत्त्यागः प्रथमत एवोचित इति सूचितम् ॥ ७ ॥ * * य इति । हे नाथाः ! यः पुमान् भूतानां दयया अध्रुवेण अनित्येन आत्मना देहेन धर्म यशो वा न ईहेत न सम्पादयेत्स स्थावरैरपि शोच्यः स्थावरेभ्योऽपि जड इत्यर्थः ॥ ८ ॥ * * एतावानिति । आत्मा स्वयंभूतानां शोकेन शोचति हर्षेण च हृष्यति । तस्य यो धर्मः पुण्य- विशेषः सः पुण्यश्लोकैरुपासितः । स एतावानेवान्ययोऽक्षयः ॥ ९ ॥ अहो इति । पारक्यैः मरणान्तरं शृगाला- दिभक्ष्यैः अस्वार्थैः आत्मोपयोगशून्यैः क्षणभङ्गुरैः स्वं वित्तं ज्ञातयः पुत्रादयो विग्रहो देहस्तैर्यत् यो मर्त्यो नोपकुर्यात् परोपकारं न कुर्याद्यदि तदा तस्याहो दैन्यमहो कष्टं तस्य जीवनं केवलं दैन्येन दुःखभोगार्थमेवेत्यर्थः ॥ १० ॥ * वीरराघवव्याख्या हरिरेवमादिश्यान्तर्दधावित्याह मुनिः । इन्द्रमिति । एवमित्थमिन्द्रं समादिश्याज्ञाप्य विश्वस्य सुखकरो भगवाननिमे- पाणां देवानां पश्यतां सतां तत्रैवान्तरधीयतान्तर्हितवान् ॥ १ ॥ हे भारत ! भगवदुक्तप्रकारेण देवैरभियाचितो दध्यङ्ङाथर्वणः अथर्वणः पुत्रः मुनिः परब्रह्ममननशील : महान् " कृतकृत्याः प्रतीक्षन्ते मृत्युं प्रियमिवातिथिम्” इत्युक्तविधगुण- सम्पन्नः अत एव मोदमानः हृष्टचित्तः प्रहसन्निव परिहासं कुर्वन्निवेदं वक्ष्यमाणमुवाच ॥ २ ॥ * उक्तिमेवाह - अपी- त्यादिना विष्णव इत्यन्तेन । तावत्तेषां विवक्षितं श्रोतुकामः प्रत्यचिख्यासुरिवाह दध्यङ - अपीति । हे वृन्दारकाः ! शरीरिणां संस्थायामन्तकाले यो दुःसहः सोढुमशक्यश्चेतनापहः चैतन्यहरः अभिद्रोह: क्लेशस्तमपि किं न जानोथ ॥ ३ ॥ * * इह लोके जीवितुमिच्छूनां जीवानामात्मा देहः प्रेष्ठः प्रियतमः । अत एवेप्सितः इष्टस्तं प्रेष्ठं देहं भिक्षमाणाय विष्णवेऽपि दातुं को वा उत्सहतोत्साहं कुर्यात् । न कोऽयुत्सहेतेत्यर्थः । विष्णव इत्यनेन “अभ्यागतः स्वयं विष्णुः” इति प्रकारेण विष्णुरूपाय याच- मानायेत्यर्थ उक्तः ॥ ४ ॥ एवमुक्ता देवास्तमाहुः - किं न्विति । हे ब्रह्मन् ! पुण्यश्लोकैरीड्यानि कर्माणि चरित्राणि येषाम् । पुण्यश्लोकेति सध्बुद्धयन्तं वा अत एव महतां भूतान्यनुकम्पयन्तीति तथा तेषां भूतानुकम्पाशीलानां भवादृशानां पुंसां किं नु तदुदुस्त्यजमात्मपर्यन्तदातॄणां न किमपि दुस्त्यजमस्तीति भावः ॥ ५ ॥ * * यदुक्तमभिद्रोहं किं न जानीथ इति तत्राहु: - नूनमिति । स्वार्थपरः स्वप्रयोजनासक्तः पुमान् परस्य सङ्कटं नूनं न वेद यदि परसङ्कटं वेद तर्हि न याचेतैव यदि याच्यमान ईश्वरः दानसमर्थस्तर्हि नेति न दास्यामीति नाह न ब्रूते अतो यथा तव सङ्कटं वयं स्वार्थपराः न जानीमस्तथा प्रत्याचक्षाणस्त्वमप्यस्मत्सङ्कटं न जानासीति भावः ॥ ६ ॥ * * एवमुक्तो दध्यङ् स्वाभिप्रायमाह – धर्ममिति चतुर्भिः । वो युष्माकं धर्मं श्रोतुकामेन मया प्रकृतं प्रत्युदाहृताः प्रत्याख्याताः आत्मानं मां त्यजन्तं प्रारब्धभङ्गात्स्वयमेव त्यजन्तं तमेतं वः युष्माकं प्रियं देहमहं सन्त्यजामि सम्यगहङ्कारापोहेन त्यजामि ॥ ७ ॥ * * हे नाथाः ! यः पुमानध्रुवेणात्मना देहेन धर्म यशो वा भूतदयया नेहेत न साधयेत् स पुमान स्थावरैरपि शोच्यः । स्थावरा अपि हि स्वविनाशेनापि परैरुपयुज्यन्ते । अतोऽनुपकारकस्तेभ्यो ऽपि निकृष्ट इत्यभिप्रायः ॥ ८ ॥ इत्यभिप्रायः ॥ ८ ॥ * * अव्ययोऽक्षयिष्णुः धर्मः पुण्यश्लोकैरे तावानेव उपासितः उपार्जितः कियान् । भूतानां शोकेन शोचति हर्षेण हृष्यति यः आत्मा स्वयमिति य एतावानेव ॥ ६ ॥ * * मत्यैः कर्तृभिः पारक्यैः श्वश्शृगालादिभक्ष्यैः क्षणभङ्गुरैरस्थिरैरस्वार्थेरात्मोपयोगशून्यैः स्वज्ञातिभिर्विप्रद्दैर्देद्दैश्च साधनैर्नोपकुर्यादिति यदेत- दहो कष्टमहो दैन्यं च ॥ १० ॥ स्. ई. अ. १० . १-१०] देहदानादोनि अनैकव्याख्यासमलङ्कृतम् विजयध्वजतीर्थकृता पदरत्नावली ३४१ * शत्रुनिप्रहोऽपि भगवत्प्रीतिजनकत्वेन मुक्तिसाधनं स्यादित्यभिप्रेत्य कतिपयैरध्यायैर्वृत्रवासवयोर्युद्धं निरूप्यते । अत्रादौ सतामभीष्टमवश्यं कर्तव्यं पुरुषेणेति देवेभ्यो दधीचेः स्वाङ्गदानप्रकारं वतुमाह-इन्द्रमिति । “सुरमत्स्यावनिमिषौ” इत्यमरः ॥ १-२ ॥ * * संस्थायां चेतनापहो बुद्धिभ्रंशकरो यो द्रोहः दुःखलक्षण उपद्रवः तं वृन्दारका देवा अपि यूयं न जानीथेत्यन्वयः । सर्वप्राणिनां बुद्धिवृत्तिसाक्षित्वाद्भवतामित्यर्थः । अभिद्रोहस्य सर्वविषयज्ञाननाशकत्वात् ॥ ३ ॥ “आत्मा देहे शरीरे च संसारिणि हरौ तथा” इत्यभिधानात् इह प्रियेषु वस्तुषु देहः प्रेष्ठः प्रियतमः ईप्सिततम इति । यस्मात् कः पुमान् भिक्षमाणायातिथिरूपेण याचमानाय विष्णवेऽपि तं देहं दातुमुत्सहेत प्रयतेत ॥ ४ ॥ पुरुषै- रीड्यानि स्तुत्यानि कर्माणि देहदानादीनि येषां ते तथा तेषाम् ॥ ५॥ * * नूनं प्रायः परसङ्कटं परदुःखं दातुमशक्यं ॥ * ॐ पुण्यलोकैः पुष दातव्यं चेति वा परसङ्कटं वेद तर्हि न याचेत । सामान्यमुक्त्वा विशेषमाहुः - नेतीति । अशक्यमपि दातुं यदीश्वरः समर्थस्तहिं याचितः सन् असौ दास्यामीति नेति नाह न वक्तव्यं ते जानन्तोऽपीद्दशो याचनीय इति जानन्तो वयं दातुं समर्थ भवन्तं याचा- महे इत्यभिप्रायः । न चात्र देवानां स्वात्मनो नीचमनाथर्वणं याचमानानामपि मानलक्षणतेजः क्षतिः शङ्कनीया । कार्यगौरवविव- क्षया तदभावस्य प्रामाणिकत्वाद्धर्याज्ञाकारित्वाच्च । “आज्ञयैव महाविष्णोः कार्यार्थमपि च क्वचित् । नीचानपि तु याचन्ते स्वात्मनो गुणवत्तराः ॥ नीचवाक्यं वदेयुश्च सुरा नैतावता कचित् । तेजःक्षतिर्भवेदेषां जनकस्य यथार्भकः || ” इति वचनात् ॥६॥ प्रत्युदाहृताः निराकृता इवोक्ताः । त्यजन्तं त्यक्ष्यन्तम् ॥ ७ ॥ * अध्रुवेणात्मना अनित्येन देहेन हे नाथाः ! स्थावरैः स्तब्धैर्विवेकशून्यैरित्यर्थः ॥ ८-९ ॥ पारक्यैः परेषां श्वशृगालादीनां भक्ष्यभूतैः अस्वार्थैः परप्रयोजनैः स्वज्ञातिजनै: स्वविग्रहैः स्वदे हैश्च ॥ १० ॥ जीवगोस्वामिकृतः क्रमसन्दर्भः दशमाध्यायस्य क्रम सन्दर्भों नास्ति । विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी दधीचो याचितात् प्राप्तैरस्थिभिर्वनिर्मितिः । दशमेऽभूज्जयश्चाजौ देवानामसुरैः सह ॥ ० ॥ मोदमानोऽपि प्रहसन्निव याच्याप्रत्याख्यानेन तान् तिरस्कुर्वन्निव ॥ १-२ ॥ । संस्थायां मृत्यौ ॥ ३ ॥ आत्मा देहः वयं जानीम एव किन्तु विष्णुरेवास्मन्मुखेन याचते इति चेत्तत्राह - विष्णवेऽपि दातुं के उत्सहेत ॥। ४-५ ।। ऋषिराह - नूनमित्यादि न याचेतेत्यन्तम् । देवाः प्रत्याहु: - नूनमित्यादिपद्यमेव न याचेतेति चतुरक्षरविनाभूतम् । ततश्रार्था- ऋषिराह—नूनमित्यादि न्तरन्यासस्यात्र विशेषतोऽयमर्थः । याचको लोकः नूनं स्वार्थपरः स्वर्गाद्यैश्वर्यभोगपरः । परस्य दातुः सङ्कटं स्वदेहास्थिप्रदाने पीडां न वेद । यदि देवत्वेन विवेकवत्त्वाद्वेद तर्हि न याचेतेति । तेन युष्माकं विवेकाभावान्न देवत्वं किन्तु व्याघ्रादिपशुतुल्यत्वमिति । ऋषिणोक्तं श्रुत्वा देवैः प्रत्युक्तं दाता लोकोऽपि नूनं स्वार्थपरः देहेन्द्रियादिषु ममले चिरजीवित्वसुखपरः । परेषां याचकानां सङ्कटं घोरशत्रूपद्रवादिदुःखं न वेद । यदि ऋषित्वेन विज्ञानविवेकदयादिमत्त्वाद्वेद तर्हि नेति नाह न दास्यामीति न ब्रूयात् । यद्यस्मादीश्वरः तद्दानसमर्थ: तेन तवापि विज्ञानाद्यभावान्न ऋषित्वम् । प्रत्युत शोकमोहादिसद्भावाद्गवादिपशुतुल्यत्वमिति भावः ।। ६ ।। * * धर्म वः श्रोतुकामेनेति । स धर्मो युष्मत्प्रत्युत्तरेणैव श्रुतः । यद्वा । ध्वनिरयं वक्रोक्त्यैव धर्मो न श्रुतः किन्तु । वाक्चातुर्य श्रुतम् । भवतु तावत् स्वाभिप्रायं ज्ञापय इत्यत्राह । एष इति । आत्मानं देहं त्यजन्तं सम्यक त्यजामीति स देहो यावन्मां न त्यजति तावदहमेव तं त्यजामि युष्मभ्यं ददामीत्येतावद्भाग्यं मम भवत्विति भावः ॥ ७ ॥ नाथाः ! ॥ ८ ॥ * * आत्मा मनः ॥ ६ ॥ * * अदातारमाक्षिपति - अहो इति । पारम्यैः शृगालादिभिर्भक्ष्यैः स्वं वित्तं ज्ञातयः पुत्रादयः विग्रहा देहास्तैः ॥ १० ॥ शुकदेवकृतः सिद्धांत प्रदीपः
-
- हे इत्थं लब्धवत्रस्य सदेवस्येन्द्रस्य सासुरेण वृत्रेण सह युद्धं वर्णयति । इन्द्रमिति दशमेन । अनिमेषाणां देवानाम् ॥ १ ॥ भगवता ममास्थीनि भक्षितुमेते प्रेषिता इति कथविज्ज्ञात्वा मोदमानः धर्मं श्रोतुमिदमुवाच । स्वार्थपरा एवंविधेऽपि कर्मणि न लज्जन्ते इति तान् प्रति प्रहसन्नित्युक्तवान् ॥ २ ॥ * * अहो हे वृन्दारकाः ! संस्थायां मरणे योऽभिद्रोहो दुःखं तमपिः ३४२ किं यूयं न जानीथ ॥ ३-४ ॥ वो धर्मं श्रोतुकामेन मे मया प्रत्युदाहृताः श्रीमद्भागवतम् [ स्कै ६ अ. १० लो. १-१०
- पुण्यश्लोकैः पवित्रकीर्तिभिरपि ईड्यानि कर्माणि येषां तेषाम् ।। ५-६ ।। प्रत्याख्याता’ देवाः । अत्मना देहेन ॥ ८ ॥ * * यः आत्मा पुरुषः भूतानां प्रत्याख्याताः । मां त्यजन्तं प्रारब्धकर्मक्षयात् पतन्तं वो युष्माकं प्रियं वान्छितमा- त्मानं देहं त्यजामि ॥ ७ ॥ हे नाथाः ! ! शोकेन शोचति हर्षेण हृष्यति यत एतावानेव धर्मः अव्ययः मोक्षपर्यवसायी पुण्यश्लोकैरुपासित आदृतः ॥ ६ ॥ आत्मोपयोगरहितैः क्षणभङ्गरैरनित्यैः पारक्यैः मातृपितृनृपश्वाग्न्यादीनां ममतास्पदैः स्वज्ञातिविग्रहैः धनबन्धुशरीरैः यन्नोप- कुर्यादिति यदेतदहो दैन्यमहो कष्टं च ॥ १० ॥ : गोस्वामिगिरिधरलाल विहिता बालप्रबोधिनी दैत्यानां दशमे देवैर्युद्धे प्राप्ते पलायने । कृष्णानुग्रहतो धैर्यं वृत्रस्य विनिरूप्यते ॥ १ ॥ अस्वार्थेः अनिमेषाणां देवानाम् ॥ १ ॥ * यथा भगवता शिक्षित तथा देवैर्याचित आथर्वणः दध्यङ मोदमानोऽपि तन्मुखाद्धर्मं श्रोतुकामः प्रत्याचक्षाण इवेदमुवाचेत्यन्वयः । मोदः कथं ज्ञात इत्यपेक्षायामाह — प्रहसन्निति । मोदे किं कारण- मित्यत आह—महानिति, एते भगवत्प्रेरिता मदङ्गं याचन्ते इति तद्दाने भगवतः प्रसन्नता भविष्यतीति ज्ञानेनात्युदारचित्त इत्यर्थः । ननु भगवता परोक्षे कथितस्य ज्ञानमेव कथमित्यपेक्षायामाह ऋषिरिति । केषाञ्चिन्महतामदेयदानेऽपि प्रमोदो भवतीति भवत्कुले भारतादीनां प्रसिद्धं तद्भवता ज्ञातमेवेति सूचयन् सम्बोधयति - हे भारतेति ॥ २ ॥ * तद्वाक्यान्येव दर्शयति- अपीति । हे वृन्दारकाः देवाः यूयं सात्त्विकत्वेनेन्द्रियाधिष्ठातृत्वेन च प्रसिद्धा अपि संस्थार्या मृत्यौ यस्तु चेतनापहः मूर्च्छाजनक: अत एव दुस्सहः अभिद्रोहो दुःखलक्षणोपद्रवः शरीरिणां भवति तं न जानीथेति ज्ञायतेऽन्यथा युष्माकमियं याच्या न स्यादिति शेषः ॥ ३ ॥ * * अतो यथार्थ शृणुत । इह प्रियेषु वस्तुषु जीवानामात्मा देहः प्रेष्ठः प्रियतमः । यतो जिजी- विषूणामीप्सितः मरणसमये जिजीविषवो धनादिकं सर्वं दत्त्वाऽप्येतद्रक्षामिच्छन्तीत्यर्थः । अतो भिक्षमाणाय अतिथिरूपेण याचमानाय विष्णवेऽपि तं दातुं क उत्सहेत ? अनेन यद्यपि विष्णुप्रेरिता यूयं याचन्त इति दाने तत्प्रीतिरपि स्यादित्यहं जानामि तथाप्येतद्दानमशक्यमिति सूचितम् ॥ ४ ॥ बाधनेन सर्वज्ञतया ममापि धर्मं त्वं जानास्येवेति सूच- ब्रह्मन्निति यन्ति । भवद्विधानां भूतानुकम्पिना प्राणिषु दयातिशयवतां महतामुहारचित्तानां अत अत एव पुण्यश्लोकैः सत्कीर्तिभिरपि ईड्यानि स्तुत्यानि कर्माणि येषां तेषां पुंसां यदुस्त्यजं तत्किं नु ? न किमपीत्यर्थः ॥ ५ ॥ - * * ऋषिणा यदुक्तं मरणे यदुखं तद्ययं न जानीथेत्यज्ञा एवेति तत्र लोकप्रसिद्धव्यवहारमुखेन सामान्यत उत्तर माहुः - नूनमिति । नूनं निश्चितमेवैतल्लौकिके वैदिके च व्यवहारे अतो न केवलं वयमेवोपालम्भयोग्या इति भावः । निश्चयमेव दर्शयन्ति - स्वार्थपरः स्वर्गाद्यैश्वर्य भोगाभिलाषी लोको याचकादिनः परस्य दातुः सङ्कट पीडां न वेद न जानाति । यदि वेद तदा न याचेत । उपलक्षणमेतत्, यज्ञादिषु पशून्न हन्यादित्यपि ज्ञेयम् । एवं स्वार्थपरः जीवनेन विषयभोगाभिलाषी दाता लोकोऽपि परस्य याचकस्य सङ्कट पीडां न जानाति यदि सोऽपि वेद तदा ईश्वरो दातुं समर्थः सन्नेति नाह - प्रत्याख्यानं न कुर्यादित्यन्वयः । तथा च यथा वयं स्वार्थपरास्तव सङ्कटानुसन्धानं न कुर्मस्तथा त्वमपि स्वार्थपरः प्रत्याचक्षाणोऽस्मत्सङ्कटं नानुसन्धत्से इति तुल्य एवोपालम्भ इति भावः ॥ ६ ॥ वो युष्माकं मुखाद्धर्मं श्रोतुकामेन मे मया यूयं प्रत्युदाहृताः निराकृता इवोक्ताः, न व तुतः । अत एषोऽहं प्रियमध्यात्मानं देहं वो युष्माकमर्थे सन्त्यजामि । तस्य त्यागयोग्यतामाह-त्यजन्तं त्यक्ष्य -मिति । अते मामयं त्यक्ष्यतीति धर्मयशोलाभाय तत्त्यागः प्रथमत एवोचित इति भावः ॥ ७ ॥ * * यः पुमान् भूतानां दयया अध्रुवेण अनित्येन आत्मना देहेन धर्मं यशो वा न ईहेत न सम्पादयेत् स स्थावरैरपि शोच्यः स्थावरेभ्योऽपि जड इत्यर्थः । एवं साधारणप्राण्यर्थदेहत्यागोऽप्युचितः भवन्तस्तु त्रिलोकरक्षका अतो युष्मदर्थत्यागे तु सर्वलोकोपकारेण महाफलं भविष्यत्यतस्तत्र कः सन्देह इति सूचयन् सम्बोधयति - हे नाथा इति ॥ ८ ॥ * * आत्मा स्वयं भूतानां शोकेन शोचति हर्षेण च हृष्यति तस्य यो धर्मः पुण्यविशेषः स ।। 5 ।। एतावानेवाव्ययः अक्षय इत्यन्वयः । यतः पुण्यश्लोकैरुपासितः, एतद्धर्मसेवयैव ते सत्कीर्त्तयो जाता इत्यर्थः ॥ ६ ॥ * एवं धर्मं निर्णीय तमकर्त्तारं निन्दति - अहो इति । स्वं वित्तं ज्ञातयः पुत्रादयो विग्रहो देह तैर्यत् यो मर्त्यो नोपकुर्यात् परोपकारं न कुर्याद्यदि तदा तस्य अहो दैन्यमहो कष्टं तस्य जीवनं केवलदैन्येन दुःखभोगार्थमेवेत्यर्थः । न च धनादिषु स्वकीयत्वदुराग्रहः कर्त्तव्यो मरणान्तरं वशृगालादिभक्ष्यत्वप्रसिद्धेरित्याह - पारक्यैरिति । न च परोपकारं विना तेषामन्यत्फलमस्तीत्याह - अस्वार्थैः आत्मोपयोगशून्यैः । ननु वित्तादिमतां यथेष्टभोगदर्शनात् कथं स्वोपयोगशून्यत्वं तत्राह - क्षणभङ्गरैरिति, आशुतर- विनाशिभिरित्यर्थः । तथाच देहनिर्वाहाद्यर्थभोगस्य अदृष्टाधीनत्वात्तेनैव तत्सिद्धेः परोपकारं विना धर्मयशसोरनुदयात् वित्तादेर्न किञ्चित्फलं सिद्धयतीति भावः ॥ १० ॥ स्कं. ६. अ. १० लो. १-१० J
अनेकव्याख्यासमलङ्कृतम् भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी ह श्रीहर्यादिष्टमुन्यस्थिकृतवज्रधरो हरिः । वृत्रेण दशमेऽयुध्यत् सासुरेण सनिर्जरः ॥ १ ॥ । ३४३ हरिरिन्द्रमेवमादिश्यान्तर्दधे इत्याह मुनिः - इन्द्रमिति । विश्वं भावयति सुखयतीति विश्वभावनो जगतः सुखकर्ता भगवान सकलैश्वयैकनिधानः, हरिः इन्द्रं देवेशं एवमुक्तप्रकारेण समादिश्याज्ञाप्य, अनिमेषाणां देवानां पश्यतां निरीक्षमाणानां सतां तत्रैव यत्र प्राक् तद्द्दग्विषयोऽभवत्तस्मिन् स्थाने एवेत्यर्थः । अन्तर्दधेऽन्तर्हितवान् ॥ १ ॥ तथेति है भारत,
- भगवदुक्तप्रकारेण, देवैः सुरेन्द्रादिलेखैः, अभियाचितः आथर्वणोऽथर्वणः पुत्रः, ऋषिर्दध्यङ, महान् कृतकृत्यः । यद्वा । ‘कृतकृत्याः प्रतीक्षन्ते मृत्युं प्रियमिवातिथिम् इत्युक्तविधगुणसंपन्नः अत एव मोदमानः देवयाचितश्रुत्या दृष्टचित्तः सन्, प्रहसन्निव परिहासं कुर्वन्निव, इदं वक्ष्यमाणम् उवाच ॥ २ ॥ तन्मुखाद्धर्म श्रोतुकामः प्रत्याचक्षाण इव यदुवाच दध्यङ् तदाह- अपीति द्वाभ्याम् । अपीति । हे वृन्दारका देवाः, शरीरिणां प्राणिनां संस्थायां मरणावसरे, यः दुःसहः सोदुमशक्यः, चेतना- । । 1 पहश्चैतन्यहरः, अभिद्रोहः क्लेशः, जायते । तं तु यूयम् अपि न जानीथ । यदि जानीथ तवं याचितुं संकल्पमेव न करिष्यथेति भावः ॥ ३ ॥ * * ननु वयं जानीम एव किं तु श्रीविष्णुरस्मन्मुखेन याचते इति चेत्तत्राह - जिजीविषूणामिति । इह लोके, जिजीविषूणां जीवितुमिच्छूनां जीवानां प्राणिनाम् आत्मा देहः, श्रेष्ठः प्रियतम:, अत एव ईप्सितः भवद्भिरण्यातुमभि- वान्छितो भवतीत्यर्थः । तमेवंविधं देह, भिक्षमाणाय याचते, विष्णवे साक्षाद्भगवतेऽपि दातुं कः उत्सहेत उत्साहं कुर्यात् । ‘यदा विष्णवे दातुं नोत्सहत तदाऽन्यस्मै तद्दानस्य वाक्तैव न वक्तुं शक्येत्यर्थः ॥ ४ ॥ एवमुक्ता देवास्तमाहुः । किं * । * विति । हे ब्रह्मन् पुण्यश्लोकैः पवित्रकीर्त्तिभिर्जनैरीड्यानि स्तव्यानि कर्माणि चरित्राणि येषां तेषां पुण्यश्लोकेति संबोधनं वा । तदेड्यकर्मणामिति पृथक्पदम् । अत एव महतां भूतान्यनुकम्पयन्तीति तच्छीलानाम् । भवद्विधानां मादृशां पुंसां, किं नु किं वा, तद्देयं वस्तु, दुस्त्यजं त्यक्तुमशक्यम्, आत्मपर्यन्तं दातॄणां न किमपि दुस्त्यजं संभवतीति भावः ॥ ५ ॥ * * यदुक्तम- भिद्रोहं किं न जानीथ इति तत्राहुः । नन्विति । स्वार्थपरः स्वप्रयोजनासक्तः लोकः पुमान्, परमसंकटमन्यस्य संकटं, न वेद । ननु यदि वेद, याचकः परसंकटं विद्यादित्यर्थः । तर्हि, न याचेत । एवं यदि याच्यमानः ईश्वरः दानसमर्थश्चत्तर्हि, नेति न दास्यामीति न आह न ब्रूते । अतो यथार्थपरा वयं तव संकटं न जानीमः । तथा प्रत्याचक्षाणस्त्वमपि अस्मत्संकटं न जाना- सीति भावः ॥ ६ ॥ * * एवमुक्तो दध्यङ् स्वाभिप्रायमाह । धर्ममिति चतुर्भिः । वो युष्माकं धर्मं श्रोतुकामेन, भवदास्याद्धर्म्याणि वचनानि श्रोतुकामेनेत्यर्थः । मे मया, यूयं प्रत्युदाहृताः प्रत्याख्याताः । एषः अहं भवतां प्रत्याख्यानकर्तृ - वद्भासमानोऽहमित्यर्थः । आत्मानं मां, यजन्तं प्रारब्धभङ्गात् स्वयमेव त्यजन्तमित्यर्थः । वो युष्माकं प्रियं तमिमं देहमिति शेषः । संत्यजामि सम्यगहंकारापोहेन त्यजामीत्यर्थः ॥ ७ ॥ 8 * य इति । हे नाथा:, यः पुमान् अध्रुवेणास्थिरेण, आत्मना देहेन, धर्म न ईहेत । भूतदयया यशो वा, न ईहेत नैव संसाधयेदित्यर्थः । स पुमान्, स्थावरैः अपि, शोच्यः । स्थावराः स्वविनाशेनापि परेषां सर्वात्मनोपयोगिनो जायन्तेऽतोऽत्र योऽनुपकारकः स तेभ्योऽप्यतिनिकृष्ट इति भावः ॥ ८ ॥ एतावानिति । पुण्यश्लोकः अव्ययोऽक्षयिष्णुः धर्मः, एतावानेव उपासित उपार्जितः अक्षयत्वेन संमतोऽस्तीत्यर्थः । कियांस्त- त्राह-य: आत्मा भूतहर्षशोकाभ्यां हृष्यति च शोचति । स्वसुखदुःखाननुसंधानपूर्वमितरभूत सुखितेक्षणेन स्वस्य सुखित्वमान- नमन्यभूतदुःखितेक्षणेनात्मनो दुःखित्वमाननमित्येषः परमकृपालुभिः परमो धर्मो मानितोऽस्तीति भावः ॥ ६ ॥ * अहो इति । मत्त्र्यो मरणधर्मवान् जनः, पारक्यैरन्ते वशृगालादिभक्ष्यैः, क्षणभङ्गरैरस्थिरैः, अस्वार्थैरात्मन उपयोगशून्यैः, स्वं धनं च ज्ञातिः पुत्रादिका च विग्रहो देहश्च तैः करणैः, न उपकुर्यात् इति यत्, एतत् अहो कष्टमहो दैन्यं च ॥ १० ॥ " j भाषानुवादः 笤 देवताओं द्वारा दधीचि ऋषिकी अस्थियोंसे वज्रनिर्माण और वृत्रासुरकी सेनापर आक्रमण श्रीशुकदेवजी कहते हैं - परीक्षित्! विश्वके जीवनदाता श्रीहरि इन्द्रको इस प्रकार आदेश देकर देवताओंके सामने वहीं के वहीं अन्तर्धान हो गये ॥ १ ॥ अब देवताओंने उदारशिरोमणि अथर्ववेदी दधीचि ऋषिके पास जाकर भगवान् के आज्ञानुसार याचना की । देवताओं की याचना सुनकर दधीचि ऋषिको बड़ा आनन्द हुआ। उन्होंने हँसकर देवताओंसे कहा – ॥ २ ॥ * * ‘देवताओ ! आपलोगोंको सम्भवतः यह बात नहीं मालूम है कि मरते समय प्राणियों- को बड़ा कष्ट होता है । उन्हें जबतक चेत रहता है, बड़ी असह्य पीड़ा सहनी पड़ती है और अन्तमें वे मूर्छित हो जाते हैं ||३||
३४४ श्रीमद्भागवतम् देवताओंने [ स्कं ६ अ. १० श्लो. ११-२० जो जीव जगत् में जीवित रहना चाहते हैं, उनके लिये शरीर बहुत ही अनमोल, प्रियतम एवं अभीष्ट वस्तु है । ऐसी स्थितिमें स्वयं विष्णु भगवान् भी यदि जीवसे उसका शरीर माँगें तो कौन उसे देनेका साहस करेगा ? ॥ ४ ॥ कहा- ब्रह्मन् ! आप जैसे उदार और प्राणियोंपर दया करनेवाले महापुरुष, जिनके कर्मोंकी बड़े-बड़े यशस्वी महानुभाव भी प्रशंसा करते हैं, प्राणियोंकी भलाई के लिये कौन-सी वस्तु निछावर नहीं कर सकते ॥ ५ ॥ * * भगवन् ! इसमें सन्देह नहीं कि माँगनेवाले लोग स्वार्थी होते हैं। उनमें देनैवालोंकी कठिनाईका विचार करनेकी बुद्धि नहीं होती । यदि उनमें उतनी समझ होती तो वे माँगते ही क्यों ? इसी प्रकार दाता भी माँगनेवालेकी विपत्ति नहीं जाना । अन्यथा उसके मुँहसे कदापि नाहीं न निकलती । ( इसलिये आप हमारी विपत्ति समझकर हमारी याचना पूर्ण कीजिये । ) ॥ ६ ॥ *** दधीचि ऋषिने कहा— देवताओ ! मैंने आपलोगों के मुँहसे धर्म की बात सुननेके लिये ही आपकी माँग के प्रति उपेक्षा दिखलायी थी । यह लीजिये, मैं अपने प्यारे शरीरको आपलोगोके लिये अभी छोड़े देता हूँ। क्योंकि एक दिन यह स्वयं ही मुझे छोड़ने- वाला है ॥ ७ ॥ * * देवशिरोमणियो ! जो मनुष्य इस विनाशी शरीरसे दुःखी प्राणियोंपर दया करके मुख्यतः धर्म और गौणतः यशका सम्पादन नहीं करता, वह जड पेड़पौधोंसे भी गया-बीता है ॥ ८ ॥ 8 । बड़े-बड़े महात्माओंने इस अविनाशी धर्मकी उपासना की है। उसका स्वरूप बस, इतना ही है कि मनुष्य किसी भी प्राणीके दुःखमें दुःखका अनुभव करे और सुखमें सुखका ॥ ६ ॥ * ॐ जगत्के धन, जन और शरीर आदि पदार्थ क्षणभङ्गुर हैं। ये अपने किसी काम नहीं आते, अन्तमें दूसरोंके ही काम आयेंगे । ओह ! यह कैसी कृपणता है, कितने दुःखकी बात है कि यह मरणधर्मा मनुष्य इनके द्वारा दूसरोंका उपकार नहीं कर लेता ।। १० ।। ४ श्रीशुक उवाच * & ॥ ११ ॥ १२ ॥ १३ ॥ १४ ॥ १५ ॥ एवं कृतव्यवसितो दध्यङ्ङाथर्वणस्तनुम् । परे भगवति ब्रह्मण्यात्मानं सन्नयञ्ज ॥ यताक्षासुमनोबुद्धिस्तन्वदृग् ध्वस्तबन्धनः । आस्थितः परमं योगं न देहं बुबुधे गतम् ॥ अथेन्द्रो वज्रमुद्यम्य निर्मितं विश्वकर्मणा । मुनेः शुक्तिभिरुत्सिक्तो भगवत्तेसान्वितः ॥ वृतो देवगणैः सर्वैर्गजेन्द्रोपर्यशोभत । स्तूयमानो मुनिगणैस्त्रैलोक्यं हर्षयन्निव ॥ वृत्रमभ्यद्रवच्छेत्तुमसुरानीकयूथपैः । पर्यस्तमोजसा राजन् क्रुद्धो रुद्र इवान्तकम् ॥ ततः सुराणामसुरै रणः परमदारुणः । त्रेतामुखे नर्मदा यामभवत् प्रथमे युगे ॥ रुद्रैर्वसुभिरादित्यैरश्विभ्यां पितृवह्निभिः । मरुद्भिर्ऋभुभिः साध्यैर्विश्वेदेवैर्मरुत्पतिम् ॥ …दृष्ट्वा वज्रधरं शक्रं रोचमानं स्वया श्रिया । नामृष्यन्नसुरा राजन् मृधे वृत्रपुरःसराः ।। नमुचिः शम्बरोऽनर्वा द्विमूर्धा ऋषभोऽम्बरः । हयग्रीवः शङ्कुशिरा विप्रचित्तिरयोमुखः ॥ १९ ॥ पुलोमा वृषपर्वा च प्रहेतिर्हेतिरुत्कलः । दैतेया दानवा यक्षा रक्षांसि च सहस्रशः ।। २० ।। कृष्णप्रिया व्याख्या * १६ ॥ १७ ॥ १८ ।। अन्वयः - एवं कृतव्यवसितः आथर्वणः दध्यङ भगवति परे ब्रह्मणि आत्मानं संनयन् तनुं जहौ ॥ ११ ॥ * यताक्षासुमनोबुद्धिः तत्त्वहक ध्वस्तबन्धनः परमं योगम् आस्थितः देहं गतं न बुबुधे ॥ १२ ॥ * * अथ इंद्रः विश्वकर्मणा मुनेः शुक्तिभिः निर्मितं वज्रम् उद्यम्य भगवत्तेजसान्वितः उत्सिक्तः ॥ १३ ॥ सर्वैः देवगणैः वृतः मुनिगणैः स्तयमानः त्रैलोक्यं हर्षयन् इव गजेन्द्रोपरि अशोमत ॥ १४ ॥ * * राजन् असुरानीकयूथपैः पर्यस्तं वृत्रं क्रुद्धः रुद्रः अन्तकम् इव ओजसा छेत्तुम् अभ्यद्रवत् ॥ १५ ॥ ततः प्रथमयुगे त्रेतामुखे नर्मदायाम् असुरैः सुराणां परमदारुणः रणः अभ वत् ।। १६ ।। * ४ राजन् वृत्रपुरःसराः असुराः मृधे रुद्रैः वसुभिः आदित्यैः अश्विभ्यां पितृवह्निभिः मरुद्भिः ऋभुभिः साध्यैः विश्वदेवैः तैः युक्तं मरुत्पतिं वज्रधरं स्वया श्रिया रोचमानं शक्रं दृष्ट्वा न मृष्यन् ।। १७-१८ ॥ * * नमुचिः शंबरः अनर्वा द्विमूर्धा ऋषभ: अम्बरः हयग्रीवः शङ्कुशिराः विप्रचितिः अयोमुखः पुलोमा च वृषपर्वा प्रहेतिः हेतिः उत्कलः दैतेयाः दानवाः यक्षाः च सहस्राशः रक्षांसि ॥ १९-२० ।। ४ १. प्रा० पा०- बादरायणिरुवाच । २. प्रा० पा० - कटः । स्कं. ६ अ. १० श्लो. १९-२० ] मेरा अनेकव्याख्यासमलङ्कृतम् श्रीधरस्वामिविरचिता भावार्थदीपिका ३४५ कृतं व्यवसितं निश्वयो येन । आत्मानं क्षेत्रज्ञं सन्नयन्ने कीकुर्वस्तनुं जहौ ॥ ११ ॥ * * यता अक्षादयो येन 1 तत्त्वं पश्यतीति तथा ध्वस्तानि गतानि बंधनानि यस्य ॥ १२ ॥ * * अर्थेद्रोऽशोभतेत्युत्तरेणान्वयः । मुनेः मुक्तिभिरस्थि- भिर्निर्मितम् । उत्सिक्त ऊर्जितः । मुनेरस्थिभिरिति वा पाठः ॥ १३ ॥ * असुरानीकानां यूथपैः पर्यस्तं परिवृ- तम् ॥ १५ ॥ * * रणः संग्रामः । प्रथमे चतुर्युगे त्रेतायुगस्य मुखे आरंभे ॥ १६-१७॥ ४ * नामृष्यन्नासहते- त्युत्तरेणान्वयः ।। १८-२२ ॥ वंशीधरकृतो भावार्थदीपिकाप्रकाशः एवमुक्तरीत्या ॥ ११ ॥ परमं योगं भगवद्धयानलक्षणम् ।। १२ ।। अथ मुनेर्देहत्यागानंतरम् “शुक्ति: शंखे शंखनखे मुक्तास्फोटेऽस्थिमानयोः” इति धरणिः ॥ १३ ॥ * इवेति । यावत्तन्मरणं न भवेत्तावद्धर्षा- भावादित्यर्थः ॥ १४ ॥ * रुद्रो हि यममपि संहत्तु शक्नोतीत्यभिप्रायेण दृष्टांतः ।। १५ ।। * * ततः वज्रप्राप्त्या- धनंतरम् । ननु कस्मिन्काले कस्मिन्देशे च वृत्रवासवयोर्युद्धमभूदिति तत्राह - त्रेतामुखे इति । प्रथमे युगे वैवस्वतमन्वंतरस्य प्रथमे चतुर्युगे तत्रापि त्रेतामुखे त्रेतायुगस्यादौ । नर्मदायामिति । गंगायां घोष इति वल्लक्षणया नर्मदातीरे । प्रथमरणस्तु तत्रैव रणांतरं मृतिकालेऽविधतीरेऽपीति विशेषो ग्रंथांतरादवसेयः ॥ १६ ॥ * गणदेवानाह - " रुद्रा एकादश प्रोक्ता वसवोऽष्टौ प्रकी- र्त्तिताः । आदित्या द्वादश ज्ञेया अश्विनौ द्वौ प्रकीर्त्तितौ । पितरश्चतुर्द्धा वाता वह्नयश्चांकवेदकाः ४९ । साध्या द्वादश विख्याता विश्वेदेवा दश स्मृताः । ऋभवो बहुसंख्याता ज्ञेयास्तु तुषितास्तथा । महाराजिकनामान आभास्वरगणोपि ते । षडूिंशतिस्तु तुषिता द्वै शते विंशतिस्तथा । महाराजिकनामानश्चतुःषष्टिरभासुराः । इत्येवं गणदेवा हि प्रोक्ता विज्ञैः सदातनैः ।” इति संहितायाम् ॥ १७ ॥ * राजन्निति । युद्धरीतिं जानास्येवेति भावः ॥ १८ ॥ * * कांश्चिन्नसुरान्नामतो निर्दिशति – नमुचिरिति ।। १९-२० ।। । TE अन्वितार्थप्रकाशिका एवमिति । एवं कृतं व्यवसितं निश्चयो येन स अथर्वणो दध्यङ परे ब्रह्मणि भगवति आत्मानं मनः सन्नयन् तनुं जहौ ॥ ११ ॥ * * यतेति । यता वशीकृता यक्षा इन्द्रियाणि असवः प्राणाः मनोबुद्धिश्व येन सः तत्त्वदृकू अतो ध्वस्तबन्धनः निरस्तदेहाद्यध्यासः परमं योगं समाधिलक्षणमास्थितः सन् गतं त्यक्तं देहं न बुबुधे मरणपीडां नानु- भूतवान् । एतेन दधीचेरपि मुक्तिरभूदिति सूचितम् ॥ १२ ॥ * * अथेति युग्मम् । ॥। ४ अथ मुनेः शुक्तिभिः अस्थिभि: विश्वकर्मणा निर्मितं वज्रमुद्यम्य उत्सिक्त: उन्नद्ध: भगवत्तेजसाऽन्वितः सर्वैर्देवगणैर्वृतः गजेन्द्रस्य ऐरावतस्योपरि स्थितः मुनिगणैश्च स्तूयमानः इन्द्रः त्रैलोक्यं हर्षयन्निव अशोभत । अत्र शक्तिभिरिति सक्थिभिरस्थिभिरिति च पाठः ॥१३-१४॥ वृत्रमिति । हे राजन् ! स इन्द्रः क्रुद्धः सन् ओजसा वेगेन असुरानीकानां यूथपैः पर्यस्तं परिवृतं वृत्रं छेत्तुमभ्यद्रवत् । यथा प्रलय समये क्रुद्धो रुद्रोऽन्तकं यमं हन्तुमभिद्रवति तद्वदित्यर्थः । रुद्रो यममपि हन्तुं शक्नोतीत्यभिप्रायेण दृष्टान्तः ॥ १५ ॥ तत इति । तदा वैवस्वतमन्वन्तरस्य प्रथमे चतुर्युगे त्रेतायुगस्य मुखे प्रारम्भे नर्मदातीरे सुराणामसुरैः सह परमदारुणो रणः अभवत् ॥ १६ ॥ * * रुद्रैरिति युग्मम् । हे राजन् ! रुद्रादिभिर्देवगणैः स्वया श्रिया च रोचमानं वज्रघरं मरुत्पतिं शक्रं दृष्ट्वा वृत्रः पुरःसरः स्वामी येषां ते असुरा मृधे युद्धे नामृष्यन् नासहन्त ।। १७-१८ ॥ * * नमुचिरिति सार्द्धत्रयम् । कार्त्तस्वरपरिच्छदाः स्वर्णभूषिताः नमुचिरित्यादयः उत्कल इत्यन्ताः सहस्रशः अन्ये च दैतेयादयः सुमालि - मालिप्रमुखाश्च मृत्योरपि दुरासदं दुष्प्रवेशमपीन्द्रसेनायं सिंहनादेन भयङ्करगर्जनेन प्रतिषिध्य निवार्याभ्यार्दयन् पीडितवन्तः । अभ्यर्दयमिति ह्रस्वपाठे आडभाव आर्षः ।। २६-२०-२१ ॥ वीरराघवव्याख्या ।। एवं कृतनिश्वयो देहं तत्याज दध्यङित्याह मुनिः । एवमिति । एवम् इत्थं कृतव्यवसितः कृतव्यवसायः आथर्वणो दध्यङ परब्रह्मण्यात्मानं प्रत्यगात्मानं सन्नयन समर्पयंस्तनुं देहं जहाँ तत्याज ॥ ११ ॥ कथम्भूतस्तत्याज यता नियता अक्षा इन्द्रियाणि येन । शोभनं विषयेभ्यः प्रत्याहतं मनो बुद्धिश्च यस्य । तत्त्वं प्रत्यगात्मशरीरकपरब्रह्मयाथात्म्यं पश्यतीति तत्त्वदृक् । ध्वस्तानि बन्धनानि पुण्यपापात्मकानि यस्मात् । परमम् “स्खपाणिना पीड्य" इत्यादिना द्वितीयस्कन्धोक्तं देहो- ४४ ३४६ श्रीमद्भागवतम् ४ [ एक. ६ अ. १० श्लो. ११-२० त्क्रमणयोगमाश्रितः जहाविति पूर्वेणान्वयः । ततो गतं देहं न बुबुधे ।। १२ ।। 8 अथ मुनेर्दधीचोऽस्थिभिः शल्यैर्विश्व- कर्मणा विनिर्मित वज्रमायुधमुद्यम्य उद्धृत्य भगवत्तेजसान्वितः अत एव उत्सिक्तः ऊर्जित इन्द्रः ।। १३ ॥ * * सर्वैः देवगणैः परिवृतो गजेन्द्रस्य ऐरावतस्योपरि पर्यशोभत । ततो मुनिगणैः स्तूयमानो लोकत्रयं हर्षयन्निव शत्रोरहतत्वाद्धर्षयन्निवेति इवशब्दः प्रयुक्तः ॥ १४ ॥ असुरसैन्यानां नायकैः पर्यतं परिवेष्टितं शत्रु वृत्रमभ्यद्रवदभिमुखमगात् यथा प्रलयकाले क्रुद्धो रुद्रः अन्तगं प्रति अन्तमवसानं गच्छतीति अन्तगः प्रपञ्चः तं प्रति । अन्तक इति पाठे अन्तं करोतीत्यन्तकः “अन्येभ्योऽपि दृश्यते" इति ढः प्रत्ययः । जगद्विनाशकृदित्यर्थः । अन्तकमिति द्वितीयान्तपाठे त्वन्तकं मृत्युं प्रति वेत्यभूतोपमेयम् ।। १५ । ततोsसुरैः सह सुराणां परमदारुणो रणः संग्रामोऽभूत् । कदा क तत्राह - प्रथमे चतुर्युगे त्रेतामुखे त्रेतायुगारम्भे प्रथमेऽन्तरे इति पाठे प्रथमे कृतत्रेतयोरन्तरालकाले प्रथममन्वन्तरे वा । नर्मदायां नद्याम् ॥ १६ ॥ * हे राजन् ! मृधे युद्धे रुद्रा- दिभिः परिवृतं वज्रायुधधरं स्वया प्रभया रोचमानं मरुत्पतिमिन्द्रं दृष्ट्वा वृत्रप्रभृतयोऽसुराः नामृष्यन्नासहन्त ।। १७-१८ ।। नमुच्यादयः ।। १९-२० ॥ ॥ विजयध्वजतीर्थकृता पदरत्नावली आत्मानं मनो ब्रह्मणि सम्यङ नयन् आत्मानं देहम् ॥ ११ ॥ यत्ता इन्द्रियप्राणमनोबुद्धयो येन स तथा हरेस्तत्त्वं रूपं पश्यन् योगं मूलाधारमारभ्य द्वादशान्तपर्यन्तं प्राणोन्नयनलक्षणम् ।। १२ ।। * * उत्सिक्तः उन्नद्धः ।। १३-१४ ।। पर्यस्तं परिवृतम् ॥ १५ ॥ * * ननु कस्मिन् काले कस्मिन् देशे वृत्रवासवयोर्युद्धमभूदिति तत्राह त्रेतामुख इति । अन्तरे अस्मिन्वर्त्तमाने वैवस्वताख्यमन्वन्तरे तत्रापि प्रथमे युगे प्रथमचतुर्युगे तत्रापि त्रेतामुखे त्रेतायुगस्यादौ नर्मदायां नर्मदातीरे गङ्गायां घोष इतिवत् तत्र तत्र लक्षणोत्तया प्रथमरणस्तु नर्मदातीरे । द्वितीयरणस्तु मृतिकाले । समुद्रतीर इति विशेषो प्रन्थान्तरेण च ज्ञातव्यः ।। १६-२० ॥ ।। विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी आत्मानं मनः ॥ ११ ॥ * * शक्तिभिरिति च पाठः ।। १३-१४ ॥ * * यद्वा । सिंहः सिंहमिवेतिवदयं दृष्टान्तः ॥ १५ “स्यात् शतघ्नी चतुर्हस्ता लोहकण्टकसञ्चिता । ॥ योगं समाधिम् । गतं स्वस्माद्विच्युतम् ॥ १२ ॥ ॐ युक्तिभिरस्थिभि: पर्यस्तं परिवृतम् अन्तकमिति रुद्रोहिय पर्यस्तं परिवृतम् अन्तकमिवेति रुद्रो हि यममपि संहतु शक्नोतीत्यभिप्रायेण
-
- त्रेतामुखे त्रेतारम्भे । प्रथमे युगे वैवस्वतमन्वन्तरस्य प्रथमे चतुर्युगे भुशुण्डी सर्वतो लोहकण्टकानुक्रमोन्नता” इत्यभिधानम् ।। १६-२३ ।। शुकदेवकृतः सिद्धान्तप्रदीपः कृतव्यवसितः कृतनिश्चयो ब्रह्मणि अंशिनि तत्पदार्थे आत्मानं तदंशभूतं त्वंपदार्थ सन्नयन् अर्पयन् तनुं जहाँ तत्याज ॥ ११ ॥ * * यतान्यक्षाणीन्द्रियाणि असवः प्राणाः मनो बुद्धिश्व येन । तत्त्वे ब्रह्मणि आत्मार्पणस्थाने दृग् दृष्टि- यस्य ध्वस्तानि बन्धनानि यस्य सः । परमं योगं ब्रह्मणि चित्तैकाग्रचमास्थितः देहं गतं न बुबुधे न ज्ञातवान् ।। १२ ।। * * शुक्तिभिः अस्थिभिर्निर्मितमुद्यम्य उत्सिक्तः इन्द्रः अशोभतेत्युत्तरेण सम्बन्धः ।। १३-१४ ॥ * पर्य्यन्तं परिवृतं रुद्रः अन्तकं लोकनाशकं त्रिपुरमिव मृत्युमिवेति वा । आत्मारामत्वात् ॥ १५ ॥ * * एतन्मन्वन्तरस्य प्रथमे चतुर्युगे त्रेतायुगस्य मुखे उपक्रमे ॥ १६ ॥ * रुद्रादिभिर्युतं मरुत्पतिम् ।। १७-२३ ।। गोस्वामिगिरिधरलाल विहिता बालप्रबोधिनी एवं कृतं व्यवसितं निश्चयो येन स आथर्वणो दध्यङ परे ब्रह्मणि भगवति आत्मानं मनः सन्नयन् तनुं जहावित्यन्वयः । चतुर्मुखव्यावृत्तये पर इति । औपचारिकभगवत्ववारणाय ब्रह्मणीति ॥ ११ ॥ * * देहत्यागप्रकार माह — यतेति । यता वशीकृता अक्षा इन्द्रियाणि असवः प्राणाः मनो बुद्धिश्व येन सः तत्वहक भगवत्स्वरूपं पश्यन् परमं योगं समाधिलक्षणमास्थितः सन् गतं त्यक्तदेहं न बुबुधे, देहत्यागे महदुखं भवति तत्किञ्चिदपि नानुभूतवानित्यर्थः । तत्र हेतुः – ध्वस्तं निरस्तं बन्धनं देहाद्यध्यासलक्षणं दुःखाद्यनुभवकारणं यस्य स इति । एतेन दधीचोऽपि मुक्तिर्दर्शिता । तेन तस्य जीवनमेव तत्प्रतिबन्धकमासी- दितीन्द्रमनुगृहताऽपि भगवता प्रतिबन्धकनिवारणेन तस्याप्यनुग्रह एव कृत इति न वृथा भगवता दध्यङ् मारित इति शङ्कनी- यम् ॥ १२ ॥ * ४ अथानन्तरं मुनेः शुक्तिभिरस्थिभिर्विश्वकर्मणा निर्मितं वज्रमुद्यम्य उत्सिक्तः, उन्नद्ध इन्द्रोऽशोभते- ।। 83 } स्कं. ६ अ. १० श्लो. ११-२०] अनेकव्याख्यासमलङ्कृतम् ३४७ त्युत्तरेणान्वयः । ननु तत्तेजसो वृत्रमस्तत्वान्निस्तेजसः कथं शोभा सम्भवतीत्याशङ्कयाह- भगवत्तेजसाऽन्वित इति । अत्र शक्तिभिरिति शुक्थिभिरिति सक्थिभिरिति स्वस्थिभिरिति च बहवः पाठभेदा ज्ञेयाः ॥ १३ ॥ * * शोभायां हेत्वन्त- राणि दर्शयति-वृत इति । सर्वैर्देवगणैर्वृतः गजेन्द्रस्य ऐरावतस्योपरि स्थितः मुनिगणैश्व स्तूयमानः क्रुद्धः सन् ओजसा वेगेन असुरानीकायां यूथपैः पर्यस्तं परिवृतं वृत्र छेत्तुमभ्यद्रवदिति द्वयोरन्वयः । तत्र दृष्टान्तः - यथा प्रलयसमये क्रुद्धो रुद्रोऽन्तकं यमं हन्तुमभिद्रवति तद्वदित्यर्थः । ननु तदा प्रलयवत् प्रजानामिदानीमपि त्रासः स्यादिति शङ्कानिरासायाह- त्रैलोक्य हर्षयन्निवेति तथापि वृत्रस्यातिभयङ्करत्वात् जनानामन्तर्भयमस्त्येवेति सूचनायेवशब्दप्रयोगः । स्वस्वाम्युत्कर्षं दृष्ट्वा प्रजानां हर्षोऽपि भवत्येवेति राजत्वात्त्वया ज्ञायत एवेति सूचयन्सम्बोधयति - हे राजन्निति ।। १४-१५ ।। * ततो रणः सङ्ग्रामोऽभवत् । कदा कुत्रेत्यपेक्षायामाह - वैवस्वतमन्वन्तरस्य प्रथमे चतुर्युगे त्रेतायुगस्य मुखे प्रारम्भे नर्मदातीरे ।। १६ ।। युद्धप्रवृत्तिप्रकारमाह— रुद्रैरिति । रुद्रादिभिर्देवगणैः स्वया श्रिया च रोचमानं वज्रधरं मरुत्पतिं शक्रं दृष्ट्वा वृत्रः पुरस्सरः स्वामी येषां ते असुराः मृधे युद्धे नामृष्यन् नासहन्तेति द्वयोरन्वयः । हे राजन्निति सम्बोधनं युद्ध एतत्त्वया बहुशो ऽनुभूतमेवेति सम्मत्यर्थम् ।। १७-१८ ।। * तदा नमुच्यादय इन्द्रसेनायं प्रतिषिध्यार्थ्यर्दयन्निति चतुर्णामन्वयः ।। १६-२० ।। यस्य सः, भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी . एवमिति । एवमुक्तप्रकारेण, कृतव्यवसितः कृतनिश्चयः, आथर्वणोऽथर्वसुतः दध्य, परे सर्वकारणे ब्रह्मणि सर्वव्या- पके, भगवति परमेश्वरे, आत्मानं स्वजीवं संनयन् ध्यानेनैवैकतामापादयन, भगवन्मूर्ती स्वात्मानं संयोजयन्नित्यर्थः । तनुं देहूं जहौ तत्याज ॥ ११ ॥ * * कथंभूतस्तत्याजेत्यत्राह । यतादेति । यता नियमिता अक्षा इन्द्रियाणि असवः प्राणाः मनो मानसं बुद्धिर्धिषणा च येन सः, पाठान्तरे यता अक्षा येन सः, सुशोभनं विषयेभ्यः प्रत्याहृतं मनः तथाविधा बुद्धिश्च यस्य सः । तत्त्वं प्रत्यगात्मशरीरकपरब्रह्मयाथात्म्यं पश्यतीति तत्त्वदृक् । ध्वस्तानि विच्छिन्नानि बन्धनानि पुण्यपाप्रात्मकानि परमं योगम्, आस्थितः । ‘स्वपाणिनापीड्य गुदं ततोऽनिलम्’ इत्यादिना द्वितीयस्कन्धोक्तदेहोत्क्रमणयोगमाश्रितः सन्नित्यर्थः । तनुं जहाविति पूर्वेणान्वयः । ततो हेतोः, गतं पतितं देहं न बुबुधे ॥ १२ ॥ * अथेति । अथानन्तरं इन्द्र:, मुनेर्दधीचेः, शुक्तिभिरस्थिभिः, विश्वकर्मणा विनिर्मितं वज्र वज्राख्यमायुधम्, उद्यम्योद्धृत्य, भगवत्तेजसा अन्वितो युक्तः, अत एव उत्सिक्त ऊर्जितः ॥ १३ ॥ वृत इति । सर्वैः देवगणैः वृतः संश्च, गजेन्द्रोपर्यैरावतपृष्ठप्रदेशे, अशोभत । तदानीं मुनिगणैः स्तूयमानः अत एव त्रैलोक्यं हर्षयन् इव दृयमानः शत्रोरहतत्वाद्धर्षयन्निवेत्युक्तम् ॥ १४ ॥ * * वृत्रमिति । हे राजन्, असुराणां दैत्यानामनीकानि सैन्यानि तेषां यूथपा नायकास्तैः पर्यस्तं परिवेष्टितं, शत्रु स्वारिं वृत्रं वृत्रासुरं प्रति क्रुद्धः प्रलयकाले महाक्रोधनिभृतः, अन्तको जगदन्तकारकः, रुद्रः इव, ओजसा बलेन, अभ्यद्रवदभिमुखमगमत् । इति त्रयाणामेकसंबन्धः ।। १५ ।। * * तत इति । ततः प्रथमे युगे, प्रथमप्रवृत्तचतुर्युगे इत्यर्थः । तत्रापि, त्रेतामुखे त्रेतायुगप्रारम्भे, नर्मदायां नर्मदानदीतीरे, सुराणां देवानाम् असुरैः सह, परमदारुणः अतिभयावहः रणः, संग्रामः, अभ- वत् ॥ १६ ॥ * ** रुद्रैरिति । रुद्र:, वसुभिः, आदित्यैः, अश्विभ्यां पितरश्च वह्नयश्च तैः, मरुद्भिर्वायुभिः, ऋभुभिर्ऋभु- संज्ञिकैर्दक्षयज्ञे भृगूत्पादितैर्देवैः साध्यैः, विश्वेदेवैः परिवृतमिति शेषः । मरुत्पतिं देवेशम् ।। १७ ।। * * दृष्वेति । वज्रधरं हस्तपरिवृततेजोमयवज्र, स्वया स्वकीयया, श्रिया देवेन्द्रत्वलक्ष्म्या, रोचमानं दीप्यमानं शक्रमिन्द्र, दृष्ट्वा हे राजन्, मृधे संग्रामे, वर्त्तमाना इति शेषः । वृत्रों वृत्रासुरः पुरःसरो नासीरामचरो येषां ते असुराः, न अमृष्यन् इद्रस्यादाटोप नासह- न्तेत्यर्थः । इति द्वयोरेकसंबन्धः ॥ १८ ॥ * * ये नामृष्यंस्तान्नाम्ना निर्दिशति । नमुचिरिति । नमुचिः, शम्बरः, अनर्वा, । । द्विमूर्द्धा ऋषभः, अम्बरः, हयग्रीवः, शङ्कुशिराः, विप्रचित्तिः, अयोमुखः ॥ १९ ॥ * * पुलोमेति । पुलोमा, वृषपर्वा, प्रहेतिः, हेतिः, उत्कलश्च दैतेया दितिसुताः, दानवा दनुसुताः, यक्षा वैश्रवणादयः, रक्षांसि पौलस्त्याः सहस्रशश्चा- संख्याता अपि ।। २० ॥ भाषानुवादः श्रीशुकदेवजी कहते हैं- परीक्षित ! अथर्ववेदी महर्षि दधीचिने ऐसा निश्चय करके अपनेको परब्रह्म परमात्मा श्रीभगवान्में लीन करके अपना स्थूल शरीर त्याग दिया ।। ११ ।। ६8 उनके इन्द्रिय प्राण, मन और बुद्धि संयत थे, दृष्टि तत्त्वमयी थी, उनके सारे बन्धन कट चुके थे । अतः जब वे भगवान् से अत्यन्त युक्त होकर स्थित हो गये, तब उन्हें इस बात का पता ही न चला कि मेरा शरीर छूट गया ।। १२ ।। * भगवान् की शक्ति पाकर इन्द्रका बल-पौरुष उन्नतिकी ३४८ ’ श्रीमद्भागवतम् [स्क. ६ अ. १० श्लो. २१-३० सीमापर पहुँच गया। अब विश्वकर्माजीने दधीचि ऋषिकी हड्डियोंसे वज्र बनाकर उन्हें दिया और वे उसे हाथमें लेकर ऐरावत हाथीपर सवार हुए। उनके साथ-साथ सभी देवतालोग तैयार हो गये । बड़े-बड़े ऋषि-मुनि देवराज इन्द्रकी स्तुति करने लगे । अब उन्होंने त्रिलोकीको हर्षित करते हुए वृत्रासुरका बध करनेके लिये उसपर पूरी शक्ति लगाकर धावा बोल दिया-ठीक वैसे ही, जैसे भगवान् रुद्र क्रोधित होकर स्वयं कालपर ही आक्रमण कर रहे हों । परीक्षित्! वृत्रासुर भी दैत्य सेनापतियों को ले कर बहुत बड़ी सेनाके साथ मोर्चे पर डटा हुआ था ॥१२- १५।। जो वैवस्वत मन्वन्तर इस समय चल रहा है, इसकी पहली चतुर्युगीका त्रेतायुग अभी आरम्भ ही हुआ था । उसी समय नर्मदातटपर देवताओंका दैत्योंके साथ यह भयङ्कर संग्राम हुआ ॥ १६ ॥ उस समय देवराज इन्द्र हाथमें वज्र लेकर रुद्र, वसु, आदित्य, दोनों अश्विनीकुमार, पितृगण, अग्नि, मरुद्गण, ऋभुगण, साध्यगण और विश्वेदेव आदिके साथ अपनी कान्तिसे शोभायमान हो रहे थे । वृत्रासुर आदि दैत्य उनको अपने सामने आया देख और भी चिढ़ गये ।। १७-१८ ।। * * तब नमुचि, शम्बर, अनर्वा, द्विमूर्धा, ऋषभ, अम्बर, हयग्रीव, शङ्कुशिरा, विप्रचित्ति, अयोमुख, पुलोमा, वृषपर्वा, महेति, हेति, उत्कल ।। १९-२० ।। ।। २४ ॥ सुमालिमालिप्रमुखाः कार्तस्वरपरिच्छदाः । प्रतिषिध्येन्द्रसेनाग्रं मृत्योरपि दुरासदम् ॥ २१ ॥ अभ्यर्दयन्नसंभ्रान्ताः सिंहनादेन दुर्मदाः । गदाभिः परिधैर्वाणैः प्रासमुद्गरतोमरैः ॥ २२ ॥ ।। शूलैः परश्वधैः खड्गैः शतघ्नीभिभु शुण्डिभिः । सर्वतोऽवाकिरन् शस्त्रैरस्त्रैश्च विबुधर्षभान् ॥ २३ ॥ न तेऽदृश्यन्त संछन्नाः शरजालैः समन्ततः । पुङ्खानुपुङ्खपतितैज्योतींषीव नभोघनैः ॥ न ते शस्त्रास्त्रवर्षैौघा ह्यासेदुः सुरसैनिकान् । छिन्नाः सिद्धपथे देवैर्लघुहस्तैः सहस्रधा ॥ अथ क्षीणा शस्त्रधा गिरिशृङ्गमोपलैः । अभ्यवर्षन् सुरबलं चिच्छिदुस्तांश्च पूर्ववत् ॥ तानक्षतान् स्वस्तिमतो निशम्य शस्त्रास्त्रपूगैरथ वृत्रनाथाः । द्रुमैपदि विविधाद्रिशृङ्गैरविक्षतांस्तत्रमुरिन्द्रसैनिकान् || 20 || २७ । सर्वे प्रयासा अभवन् विमोघाः कृताः कृता देवगणेषु दैत्यैः । कृष्णानुकूलेषु यथा महत्सु क्षुद्रैः प्रयुक्ता रुशती रूक्षवाचः ॥ २८ ॥ ते स्वप्रयासं वितथं निरीच्य हरावभक्ता हतयुद्धदर्पाः पलायनायाजिमुखे त्रिसृज्य पति मनस्ते दधुरात्तसाराः ॥ २९ ॥ प्रेक्ष्य बभाष एतत् । मनसे आकवृत्रोऽसुरांस्ताननुगान् मनस्वी प्रधावतः प्रदय 21 पलायितं प्रेक्ष्य बलं च भग्नं भयेन तीव्रेण विहस्य वीरः ॥ ३० ॥ कृष्णप्रिया व्याख्या
२५ ॥ २६ ॥ अन्वयः - सुमालि मालिप्रमुखाः कार्तस्वरपरिच्छदाः असंभ्रान्ताः दुर्मदाः मृत्योः अपि दुरासदम् इंद्रसेना सिंहना- देन प्रतिषिध्य अभ्यर्दयन गदाभिः परिधैः बाणैः प्रासमुद्गर तोमरैः शूलैः परश्वधैः खड्गैः शतघ्नीभिः भुशुंडिभिः च शस्त्रैः च अस्त्रैः विबुधर्षभान सर्वतः अवाकिरन् पुंखानुपुंखपतितैः शरजालैः समन्ततः संख्भाः ते नभोजनैः ज्योतींषि नभोघनैः ज्योतींषि इब न अदृश्यन्त ॥ २४ ॥ लघुहस्तै: देवैः सिद्धपथैः सहस्त्रधा छिन्नाः शस्त्रास्त्रवर्षैधाः सुरसैनिकान् हि न आसेदुः ॥ २५ ॥ * अय क्षीणात्र- शस्त्रौघाः गिरिशृङ्गदुमोपलैः सुरबलम् अभ्यवर्षयन् च तान् पूर्ववत् चिच्छिदुः ॥ २६ ॥ * * अथ शस्त्रास्त्रपूगैः अक्षतान स्वस्तिमतः दुमैः दृषद्भिः विविधाद्रिः शृङ्गैः अविक्षतान् तान् इन्द्रसैनिकान् निशम्य वृत्रनाथाः तत्रसुः ॥ २७ ॥ * * यथा क्षुद्रैः महत्सु प्रयुक्ताः रुशतीः रुक्षवाचः दैत्यैः कृष्णानुकुलेषु देवगणेषु कृताः कृताः सर्वे प्रयासाः विमोघाः अभवन् ।। २८ ।। हरौ अभक्ताः हतयुद्धदर्पाः ते स्वप्रयासं वितथं निरीक्ष्य आत्तसाराः आजिमुखे पति विसृज्य पलायनाय मनः दधुः ॥ २६ ॥ मनस्वी वीरः वृ॒त्रः अनुगान् तान् असुरान् प्रधावतः प्रेक्ष्य च तीत्रेण भयेन भग्नं पलायितं सैन्यं प्रेक्ष्य विहस्य एतत् बभाषे ।। ३० ।। १. प्रा० पा० - प्रासतोमरमुद्गरैः ।स्कं. ६. अ. १० लो. २१-३०] अनेकव्याख्यासमलङ्कृतम् श्रीधरस्वामिविरचिता भावार्थदीपिका ३४९ * " शतघ्नी च चतुर्हस्ता लोहकंटकसंचिता । भुशुंडी सर्वतो लोहकंटकानुक्रमोन्नता ।" इत्यभिधानम् ॥ २३ ॥ पुंखो मूलदेशः एकस्य मूलदेशमनु तत्संलग्नोऽपरस्य पुंखो यथा भवति तथा नभः स्थैर्घनैज्र्ज्योतींषीवेत्यनेन तेषां तदप्राप्तिः सूचिता ॥ २४ ॥ * तामेवाह । न त इति । शस्त्राणामस्त्राणां च यानि वर्षाणि तेषामोघाः नाऽऽसेदुर्न प्रापुः । सिद्धपथे आकाशे ।। २५ ॥ * क्षीणा अस्त्राणां शस्त्राणां च ओघा येषाम् । गिरिशृंगेदुनैरुपलैश्च ॥ २६ ॥ * तानिद्रसैनिकान् शस्त्राणामस्त्राणां च पूगैः समूहैरक्षतान् क्षतशून्यान्स्वस्तिमतः सुखिनो हुमादिभिश्चाविक्षतान्निशाम्य दृष्ट्रा । वृत्रो नाथो येषां ते तत्रसुर्भीताः ॥ २७ ॥ * * कृताः कृताः पुनः पुनः कृताः । कृष्णोऽनुकूलो येषां तेषु देवगणेषु । रुशती: रुशत्यः । अकल्याण्यो रूक्षाः परुषा वाचो तथा महत्सु क्षोभकर्थ्यो न भवति तद्वत् ॥ २८ ॥ हतो युद्धे दर्पो येषां ते आत्तः परैर्गृहीतः सारो धैर्य येषां ते अतिप्रसिद्धा अपि ते दैत्याः एवं ते इत्यस्यापौनरुक्त्यम् । आजिमुखे युद्धारंभे पति विसृज्य पलायनाय मनो दधुः । यतो हरावभक्ताः ॥ २९ ॥ प्रधावतः पलायमानान्प्रेक्ष्य आदावेव तीत्रेण भयेन पलायितं भग्नं च तद्द्बलं सैन्यं तच प्रेक्ष्य एतद्वक्ष्यमाणं बभाषे ।। ३० ।। कार्त्तस्वरपरिच्छदाः दुष्प्रापम् ।। २१ ।। * * देवांगाप्राप्तिः ॥ २४ ॥ ॥ चलत्करैः ।। २५ ।। * * वंशीधरकृतो भावार्थदीपिकाप्रकाश: । स्वर्णालंकाराः । इंद्रसेनाया स्वर्णालंकाराः । इंद्रसेनाया अभ्यं भागं यद्वाऽग्रे तिष्ठतीत्यग्भ्यः सेनानीस्तम् । दुरासदं असंभ्रांता निर्भयाः ।। २२-२३ ।। * इत्यनेन दृष्टांतेन । तेषां बाणानाम् । तदप्राप्ति- तामेवाप्राप्तिमेव । ओघाः समूहाः ‘ओघो वेगेंबुन: पुजे’ इत्यभिधानात् । लघुहस्तैः क्षिप्र- । अथ शस्त्रच्छेदानंतरम् । उपलैः पाषाणैः “उपलः प्रस्तरे रत्ने शर्कराया तु योषिति" इति मेदिनी । तान् गिरिशृंगादीन् । पूर्वं यथा मार्गमध्य एव च्छिन्नास्ताद्वत् ॥ २६ ॥ * * निशाम्य दृष्ट्वा ।। २७ ।। * प्रयासाः प्रहारलक्षणाः प्रयत्नाः । अनुकूलोऽनुग्रहाभिमुखः ‘रुशू - हिंसायाम्’ रुशती: ‘यूयं शीघ्रं म्रियध्वम्’ इत्येवंलक्षणाः । अकल्याण्योऽमंगलाः । परुषा ‘रे रे अधमाः’ इत्येवंरूपाः । महत्सु दुर्वासः प्रभृतिषु । क्षुद्रैर्हसाडेंभकादिजनकल्पैः ॥ २८ ॥ पतिं वृत्रम् ।। २९ ।। * * मनस्वी धीरः ॥ ३० ॥ अन्वितार्थप्रकाशिका
। * गदाभिरिति सार्द्धम् । गदादिभिश्व विबुधर्षभान् सर्वतोऽवाकिरन् अभ्यवर्षन् । “शतघ्नी च चतुर्हस्ता लोहकण्टक- सचिता । भुशुण्डी सर्वतो लोहकण्टकानुक्रमोन्नता ।" इत्यभिधानम् ।। २२ ।। न त इति । पुङ्खः शरस्य मूलप्रदेश: एकस्य शरस्य मूलदेशमनु तत्संलग्नो परस्य पुङ्खो यथा भवति तथा पतितैः शरजालैः समन्ततः सन्नास्ते देवा नादृश्यन्त । यथा नमस्यैर्धनैः छन्नानि ज्योतींषि यथा न दृश्यन्ते तद्वत् एतेन तेषां तदप्राप्तिः सूचिता ।। २३ ।। * न त इति । शस्त्राणामस्त्राणां च यानि वर्षाणि तेषामोघाः सुरसैनिकान्न व्यासेदुः न प्रापुः । यतो लघुहस्तैः शीघ्रभेदिभिर्देवैः सिद्धपथ आकाशमार्गे स्वाप्राप्तेः पूर्वमेव सहस्रधा च्छिन्नाः ॥ २४ ॥ * * अथेति । क्षीणा अस्त्राणां शस्त्राणां च ओघा येषां ते असुराः अथानन्तरं गिरिशृङ्गैर्दुमैरुपलैः पाषाणैश्च सुरबलमभ्यवर्षन् तांश्व गिरिशृङ्गादीन् देवाः पूर्ववत् अस्त्रादिवश्चि- च्छिदुः ॥ २५ ॥ तानिति । तानिन्द्रसैनिकान शस्त्राणामस्त्राणां च पूगैः समूहैरक्षतान् क्षतशून्यान् स्वस्तिमतः सुखिनो दुमादिभिश्चाविक्षतान्निशाम्य वृत्रो नाथो येषां ते असुराः तत्रसुः भीता जाताः ॥ २६ ॥ * सर्वे इति । कृष्णोऽनुकूलो येषां तेषु देवगणेषु दैत्यैः कृताः कृताः पुनः पुनः कृताः प्रयासाः प्रहारप्रयत्नलक्षणाः सर्वे वे विमोधा : वृथा अभवन | यथ वृथा अभवन् । यथा महत्सु साधुषु क्षुद्रैर्बहिर्मुखैः पुरुषैः प्रयुक्ताः रुशतीः रुशत्यः शापरूपाः । पूर्वसवर्णदीर्घ आर्षः । रूक्षाः परुषाः निन्दापरा बाचो यथा अकल्याणकर्च्यः क्षोभकर्ण्यो वा न भवन्ति तद्वत् ॥ २७ ॥ * * त इति । हुरौ अभक्ताः हतो निवृत्तो युद्धे दर्पो गर्यो येषां ते आत्तः परैर्गृहीतः सारो येषां ते अति प्रसिद्धाः ते असुराः अत्रैकस्तच्छन्द: प्रसिद्धवाची अपरः परामर्शक इत्यपौन- रुक्त्यम् । स्वप्रयासं वितथं निरीक्ष्य आजिमुखे युद्धारम्भे पतिं वृत्रं विसृज्य पलायनाय मनो दधुः ॥ २८ ॥ ।। । विहस्य
- वृत्र इति । भग्नं परैः क्षतयुक्तं कृतमत एव तीव्रेण भयेन पलायितं च खबलं सैन्यं प्रेक्ष्य प्रधावतः पलायमानान् तान् वीरतया प्रसिद्धान् अनुगाव स्वान्तरङ्गानप्यसुरान् वीक्ष्य मनस्वी वीरः वीरः बीराणां कातर्यमनुचितमिति सूचर्यस्तेषा कालेति । पुरुषेषु प्रकृष्टो वीरः वृत्रः कालोपपन्ना तदवसरोचितां विप्रचित्त्यादयः ! मे वचः | ॥ भणुध्वम् । ता mama मुपहासं कृत्वा एतद्वक्ष्यमाणं बभाषे ।। २९ ॥ मनस्विनां रुचिरां शौर्यव्यञ्जिकां वाचमुवाच । है विप्रचित्त्यादयः ! मे वचः ३५० श्रीमद्भागवतम् वीरराघवव्याख्या [ स्कं. ६ अ. १० श्लो. २१-३०
तथा समालिप्रभृतयश्च सर्वे कार्त्तस्वरपरिच्छदाः सुवर्णमयाः परिच्छदाः परिकरा येषां ते मृत्योरपि दुरासदं दुष्प्राप- मिन्द्रसेनाग्रमिन्द्रसेनाया अप्रं पुरोभागं प्रतिषिध्यावरुध्य ॥ २१ ॥ * असम्भ्रान्ता अपरवशाः सन्तः दुर्मदा सिंह-
- नादेनाभ्यद्रवन् गदादिभिः शस्त्रैश्च विबुधर्षभान् सुरान् सर्वतोऽवाकिरन् तत्र शतघ्नी चतुर्हस्ता लोहकण्टकसंयुक्ताः ।। २२-२३ ॥ पुङ्खो मूलदेश: एकस्य पुङ्खमनु तत्संलग्नोऽपरस्य पुडो यथा भवति तथा समन्तात्पतितैः शरजालैः संछन्नास्ते देवा न दृश्यन्त यथा नभोघनैर्नभः स्थैर्मेधै राच्छन्नानि ज्योतींषि इत्यनेन तेषां तदप्राप्तिः सूचिता ।। २४ ।। तामेवाह । न त इति ते । * * । शस्त्राणामत्राणां च यानि वीर्याणि तेषामोघाः सङ्घाः सुरसैनिकान्नासेदुर्न प्रापुः किन्तु । लघुहस्तैर्हस्तलाघवशालिभिस्तैर्देवैः सह- सधा सिद्धपथे आकाशे छिन्ना बभूवुः ॥ २५ ॥ * * अथ तीक्ष्णाश्छिन्ना अस्त्रशस्त्राणामोघा येषां ते दानवा गिरिशृङ्गैर्दुमैः उपलैः पाषाणैश्च सुराणां बलमभ्यवर्षन् तान् गिरिशृङ्गादीन्पूर्ववदेवाश्चिच्छिदुश्छिन्नवन्तः ॥ २६ ॥ अथ वृत्रो नाथो येषां तेऽसुराः सर्वे स्वशस्त्राणां पूगैः सङ्घैरक्षतानताडितानत एवं स्वस्तिमतः सुखिनः तथा दुमैर्दृषद्भिः पाषाणैर्विविधैरद्रीणां शृङ्गैश्वाक्षतानिन्द्र सैनिकान्निशाम्य दृष्ट्वा सर्वेऽसुरास्तत्रसुः भीताः ॥ २७ ॥ * देवगणेषु दैत्यैर्ये ये कृताः प्रयासास्ते सर्वे
- विमोघा व्यर्था अभवन् तत्र हेतुं वदन् देवगणान्विशिनष्टि । कृष्णानुकूलेष्विति । कृष्णोऽनुकूलो येषां तेषु तत्र दृष्टान्तमाह । यथेति । क्षुद्रैः प्रयुक्ताः रुशती रुशत्योऽकल्याण्यः रूक्षाः परुषा वाचो यथा महत्सु विमोहकाः क्षोभका न भवन्ति तथेति ॥ २८ ॥ हरौ भगवत्यभक्ताः अत एवान्तः सुरैर्गृहीतः सारो बलं येषाम् अत एव हतः युद्धे दर्पो गर्यो येषां तेऽसुरा वितथं व्यर्थ स्वप्रयासं निरीक्ष्य अधुनास्माकं सर्वे प्रयासाः व्यर्था एवेत्यालोच्यतेऽतिप्रसिद्धा अपि दैत्या एवं ते इत्यस्यापौनरुक्तत्यमाजिमुखे युद्धारम्भे पतिं वृत्रं विसृज्य पलायनाय मनो दधुः चक्रुः ॥ २६ ॥ * * अथ धीरो वृत्र: प्रधावतः तीव्रेण भयेन पलायमानांस्ताननुगान् भृत्यान् प्रेक्ष्य तथा किञ्चिद्भग्नमवशिष्टं पलायितं बलं च प्रेक्ष्य विहस्येदं वक्ष्यमाणं बभाषे ।। ३० ।। कार्त्तस्वरपरिच्छदाः वर्षाकाले ॥ २४ ॥ * * विजयध्वजतीर्थकृता पदरत्नावली सुवर्णालङ्काराः ॥ २१-२२ ॥ * ४ अबरिन् ॥ ।। - लघुहस्तैः शीघ्रवेधिभिः देवैः सिद्धपथे व्योम्नि अवर्षन् ॥ २३ ॥ * * प्रावृषि ॥ लघुहस्तैः शीघ्रवेधिभिः देवैः सिद्धपथे व्योम्नि स्वप्राप्तेः पूर्व मध्यमार्ग एव छिन्नाः ।। २५-२६ ।। वृत्रो नाथो येषां ते तथा दृषद्भिः पाषाणैः ।। २७ ।। * * प्रयासाः प्रहारलक्षणा: प्रयत्नाः कृष्णोऽनुकूलोऽनुग्रहाऽभिमुखो येषां ते तथा तेषु रुशती: हिंसना : “रुशरिश हिंसायाम्" इति धातुः महत्सु दुर्वासः प्रभृतिषु यतिषु क्षुद्रैः हिंसजिम्भकादिजन- कल्पैः ॥ २८ ॥ पतिं वृत्रन् अस्तसासः निरस्तबलाः ।। २९ ।। * मनस्वी प्रशस्तमनाः ।। ३०-३१ । p विश्वनाथचक्रवतिकृता सारार्थदर्शिनी ॥ ते देवाः पुङ्खः शरस्य मूलदेशः एकस्य पुङ्खमनु पतितो यः शरस्तस्य पुङ्खमन्वेवं पतितैः । नभःस्थैर्घनैज्र्ज्योतींषीवेत्यनेन तेषां तदप्राप्तिः सूचिता ।। २४-२६ ।। * निशाम्य दृष्टा तत्रसुर्भीताः ॥ २७ ॥ * * कृताः कृताः पुनः पुनः * रुषत्यः यूयं शीघ्रं म्रियध्वमित्यकल्याण्यः । रूक्षाः परुषा वाचः रे रे अधमा ! कृताः यथा महत्सु वैष्णवेषु रुशती: * इत्याद्याः ।। २८-३१ ॥ शुकदेवकृतः सिद्धांत प्रदीपः एकस्य पु मूलदेशमनुवर्तमान इतरपुङ्खो यथा भवति तथा पतितैः नभोघनैः नभःस्थमेघैः यथा ज्योतींषि न दृश्यन्ते इत्यदर्शनमात्रे दृष्टान्तः ॥ २४ ॥ * * ते शस्त्रास्त्रवर्षौघाः यतो देवैः सिद्धपथे आकाशे संछिन्ना अतः सुरसैनिकान् आसेदुः प्रापुः ।। २५ ।। * * उपलैः पाषाणैः ।। २६ ॥ * तानिन्द्र सैनिकान् शस्त्रास्त्रपूगैरक्षतान् दुमादिभिश्चाविक्षतान् स्वस्तिमतो निशाम्य दृष्ट्वा वृत्रनाथाः तत्रसुः ।। २७ ।। * * कृताः कृताः भूयो भूयः कृताः प्रयासाः विशेषतः मोघाः निष्फला अभवन् रुषतीः रुषत्यः रोषवत्यः रूक्षवाचः रूक्षाः नीरसाः वाचः ।। २८-३१ ।। गोस्वामिगिरिधरलालविहिता बालप्रबोधिनी कार्त्तस्वरपरिच्छदाः स्वर्णालङ्कारभूषिताः । असम्भ्रान्ताः निर्भयाः । तत्र हेतुः – दुर्मदा इति दुरासदं दुष्प्रवेशमपीन्द्र- सेना सिंहनादेन भयङ्करगर्जनेन प्रतिषिध्य निवार्याभ्यर्दयन् पीडितवन्तः । गदादिभिश्व विबुधर्षभान् सर्वतोऽवाकिरन् अभ्य- स्कं. ६ अ. १० श्लो. २१-३० ] coungise अनेकव्याख्यासमलङ्कृतम् ६ ३५१ वर्षन्नित्युत्तरेणान्वयः || २१-२२ ।। * * ‘शतघ्नी च चतुर्हस्ता लोहकण्टकसञ्चिता । भुशुण्डी सर्वतो लोहकण्टकानुक्रमो- न्नता’ इत्यभिधानात् ॥ २३ ॥ पुङ्खः शरस्य मूलप्रदेश एकस्य मूलदेशमनु तत्सँल्लभो परस्य पुडो यथा भवति तथा पतितैः शरजालैस्ते देवाः समन्ततः सञ्च्छन्नाः नादृश्यन्तेत्यन्वयः । तत्र दृष्टान्तः नभस्स्थैर्घनैश्छन्नानि ज्योतींषि यथा न दृश्यन्ते तद्वत् । अनेन शस्त्रादीनां तदप्राप्तिः सूचिता ॥ २४ ॥ तामेवाह-न ते इति । शस्त्राणामस्त्राणां च यानि वर्षाणि तेषामोघाः सुरसैनिकान्न व्यत्सेदुः न प्रापुः । यतो लघुहस्तैः शीघ्रवेधिभिर्देवैः सिद्धपथ आकाशमार्गे स्वप्राप्तेः पूर्वमेव सहस्रधा च्छिन्नाः ॥ २५ ॥ ** क्षीणा अस्त्राणां मन्त्राणां शस्त्राणां च ओघा येषां ते असुराः अथानन्तरं गिरिशृङ्गैर्दुमैरुपलैः पाषाणैश्च सुरबलमभ्यवर्षन्, तांश्च गिरिशृंगादीन् देवाः पूर्ववत् अस्त्रादिवञ्चिच्छिदुः ।। २६ ।। * * तानिन्द्रसैनिकान् शस्त्राणामस्त्राणां च पूगैः समूहैरक्षतान् क्षतशून्यान् स्वस्तिमतः सुखिनो दुमादिभिश्व अविक्षतान्निशाम्य वृत्रो नाथो येषां ते असुराः तत्रसुः भीता जाता इत्यन्वयः ॥ २७ ॥ * * देवगणेषु दैत्यैः कृताः कृताः पुनः पुनः कृता प्रयासाः प्रसार- प्रयत्नलक्षणाः सर्वे विमोघाः वृथा अभवन् । तत्र भगवदनुग्रह एव हेतुरित्याह-कृष्णोऽनुकूलो येषां तेष्विति । ननु न कथमेव निश्चय इत्यपेक्षायां सर्वत्र भगवदनुगृहीतेषु तथैव दर्शनादित्याशयेन दृष्टान्तमाह-यथेति । महत्सु भगवदनुगृहीतेषु क्षुद्र विवेक- शून्यैर्बहिर्मुखैः पुरुषैः प्रयुक्ताः रुशतीः रुशत्यः शापरूपा: रूक्षाः परुषाः निन्दापरा वाचो यथा अकल्याणकर्च्यः क्षोभकत्र्य वा न भवन्ति तद्वत् ॥ २८ ॥ ततस्ते दैत्या आजिमुखे युद्धारम्भे पतिं वृत्रं विसृज्य पलायनाय मनो दधुरित्यन्वयः । तत्र हेतुमाह - हतो निवृत्तो युद्धे दर्पो गर्यो येषां ते । तत्र हेतुमाह-आत्तः परैर्गृहीतः सारो धैर्य येषां ते । तत्रापि हेतुमाह- स्वप्रयासं विपथं निरीक्ष्येति । तत्रापि हेतुमाह-हरावभक्ता इति ॥ २९ ॥ भग्नं परैः क्षतयुक्तं कृतमत एव तीत्रेण भयेन पलायितं च स्वबलं सैन्यं प्रेक्ष्य प्रधावतः पलायमानान् तान् वीरतया प्रसिद्धान् अनुगान स्वान्तरङ्गानप्यसुरान् वीक्ष्य वृत्रो विहस्य वीराणां कातर्यमनुचितमिति सूचयंस्तेषामुपहासं कृत्वा एतद्वक्ष्यमाणं बभाषे इत्यन्वयः । तस्य तु भयं न जातमित्यत्र हेतुद्रयमाह - मनस्वी धीरः वीरः पराक्रमी चेति ॥ ३० ॥ भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी सर्वतः सुमालीति । सुमालि मालिश्व तौ प्रमुखौ येषां तेऽसुराः, कार्त्तस्वरपरिच्छदाः, सुवर्णमयपरिकराः सन्तः, मृत्योः अपि दुरासदम् इन्द्रसेनायं प्रतिषिध्य अवरुध्य ॥ २१ ॥ अभ्यद्रवन्निति । असंभ्रान्ता अपरवशाः, दुर्मदाः ते सिंहनादेन सह, अभ्यद्रवन्नादौ सिंहनादान् कृत्वा देवसेनासन्मुखं दुद्रुवुरित्यर्थः । ततः गदाभिः परिधैः, बाणैः प्रासाच मुद्गरास्तोमराश्च तैः ।। २२ ।। शूलैरिति । शूलैः परश्वधैः खङ्गैः, शतघ्नीभिः, भुशुण्डिभिः, ‘शतघ्नी च चतुर्हस्ता । लोहकण्टकसंचिता । भुशुण्डी सर्वतोलोहकण्टकानुक्रमोन्नता’ इत्यभिधानम् । शस्त्रैः, अस्त्रैश्च, विबुधर्षभान् देवेषु श्रेष्ठान, अवाकिरन् । इति पञ्चानामेकसंबन्धः ॥ २३ ॥ * न ते इति । पुङ्खो मूलदेशः तमनु तत्संलग्नोऽपरस्य पुङ्खो यथा भवति तथा पतितैः समन्ततः, दृश्यमानैरिति शेषः । शरजालैः नभोघनैराकाशस्थमेवैः, आच्छन्नानि ज्योतींषि इव, संछन्नाः ते देवाः, न अदृश्यन्त । अत्रोपमानेन तेषां तदप्राप्तिः सूचिता ॥ २४ ॥ * * तामेवाह । न ते इति । उक्तविधा,
- ते शस्त्राणि च अस्त्राणि च तेषां यानि वर्षाणि तेषामोघाः संघाः सुरसैनिकान् देवसेनासंगतान्, न आसेदुर्न संप्रापुः । किं तु । लघुहस्तैर्हस्तलाघवशालिभिः, देवैः सहस्रधा सिद्धपथे आकाशे एव, छिन्नाः । बभूवुरिति शेषः ।। २५ ।। । अथेति । अथ क्षीणाः छिन्नाः, अस्त्रशस्त्राणामोघा येषां ते, दानवाः गिरिशृङ्गाणि च दुमाश्च उपला अश्मशकलाश्च तैः सुरबलं देवसैन्यं, पूर्ववत् अभ्यवर्षन् । देवाश्च तान् गिरिशृङ्गादीन् पूर्ववदेव, चिच्छिदुः ॥ २६ ॥ तानिति । अथ वृत्रो वृत्रासुरः, नाथो रक्षकः स्वामी येषां ते, असुराः, शस्त्रास्त्रपूगैः स्वकीयशस्त्रास्त्रवृन्दैः, अक्षतान ताडितान् अत एव स्वस्तिमतः सुखिनः, दुमैर्वृक्षैः, दृषद्भिः पाषाणशकलैः विविधाद्रिशृङ्गेश्व, अविक्षतान् तान् इन्द्रसैनिकान् निशाम्य दृष्ट्वा, तत्रसुर्भीता बभूवुः ॥ ।। २७ ।। ॥ ऋ सर्व इति । कृष्णोऽनुकूलो येषां तेषु, देवगणेषु दैत्यैः कृताः कृताः वारं वारं विहिताः सर्वे प्रयासाः, यथा क्षुद्रैः अल्पजनैः, प्रयुक्ताः रुशती रुशत्यः अकल्याण्यः, रूक्षवाचः परुषा वाचः, महत्सु जनेषु क्षोभकाः न भवन्ति । किं तु विमोघाः भवन्ति । तथा विमोघा विफलाः, अभवन् ॥ २८ ॥ * * त इति । हरौ भगवति, अभक्ताः अत एव आत्तः सुरैराहृतः सारो बलं येषां ते, अत एव, हतो नाशं प्राप्तो युद्धदप रणविधानगर्यो येषां ते, ते असुराः स्वप्रयासं स्वकीयं प्रयत्नं वितथं व्यर्थतां प्राप्तं निरीक्ष्य तेऽसुरा अतिप्रसिद्धाः, सन्तोऽपि, आजिमुखे नासीरसंज्ञे युद्धारम्भप्रदेशे, पतिं वृत्रं विसृज्य, पलायनाय पलायनं विधातुं मनः दधुश्चक्रुः । पलायनविधाने तेषां हर्यभक्तत्वमेव हेतुर्ज्ञेयः ॥ २९ ॥ * * वृत्र इति । मनस्वी बीरः वृत्रः, अनुगान् स्वपाष्णित्रत्वादनुगतान, तान् असुरान्, तीव्रेण भयेन, प्रधावतः पलायमानान् प्रेक्ष्य, बलं सकलं स्वसैन्यं च भग्नं भग्नप्रायं प्रेक्ष्य, विहस्य सम्यकू हासं कृत्वा, एतद्वक्ष्यमाणं बभाषे तदाह्वानं कुर्वन्नुवाच ॥ ३० ॥ ॥ ।। : ३५२ Chhaprases from free श्रीमद्भागवतम् भाषानुवादः । [ स्कं. ६ अ. १० लो. ३१-३३ सुमाली, माली आदि हजारों दैत्य-दानव एवं यक्ष-राक्षस स्वर्णके साज-सामान से सुसज्जित होकर देवराज इन्द्रकी सेनाको आगे बढ़नेसे रोकने लगे । परीक्षित् ! उस समय देवताओंकी सेना स्वयं मृत्युके लिये भी अजेय थी ।। २१ ।। वे घमंडी असुर सिंहनाद करते हुए बड़ी सावधानीसे देवसेनापुर प्रहार करने लगे । उन लोगोंने गदा, परिघ, बाण, प्रास, मुद्गर, तोमर, शूल, फरसे, तलवार, शतघ्नी ( तोप ), भुशुण्डि आदि अस्त्र-शस्त्रोंकी बौछारसे देवताओंको सब ओरसे ढक दिया ।। २२-२३ ।। * * एक-पर-एक इतने बाण चारों ओरले आ रहे थे कि उनसे ढक जानेके कारण देवता दिखलायी भी नहीं पड़ते थे-जैसे बादलोंसे ढक जानेपर आकाशके तारे नहीं दिखलायी देते ।। २४ ।। * * परीक्षित् ! वह शस्त्रों और अस्त्रोंकी वर्षा देवसैनिकोंको छूतक न सकी । उन्होंने अपने हस्तलाघवसे आकाशमें ही उनके हजार- । उन्होंने अपने हसलापबचे आकाश ही उनके हजार टुकड़े कर दिये ।। २५ ॥ जब असुरोंके अस्त्र-शस्त्र समाप्त हो गये, तब वे देवताओंकी सेनापर पर्वतोंके शिखर,
-
- वृक्ष और पत्थर बरसाने लगे । परन्तु देवताओंने उन्हें पहले की ही भाँति काट गिराया ॥ २६ ॥ * * परीक्षित् ! जब वृत्रासुरके अनुयायी असुरोंने देखा कि उनके असंख्य अस्त्र-शस्त्र भी देवसेनाका कुछ न बिगाड़ सके यहाँतक कि वृक्षों, चट्टानों और पहाड़ोंके बड़े-बड़े शिखरों से भी उनके शरीरपर खरोंचतक नहीं आयी, सब-के-सब सकुशल हैं.
- तब तो वे बहुत डर गये। दैत्यलोग देवताओंको पराजित करनेके लिये जो-जो प्रयत्न करते, वे सब-के-सब निष्फल हो जाते- ठीक वैसे ही, जैसे भगवान् श्रीकृष्णके द्वारा सुरक्षित भक्तोंपर क्षुद्र मनुष्योंके कठोर और अमङ्गलमय दुर्वचनों का कोई प्रभाव नहीं पड़ता ।। २७-२८ ।। * * भगवद्विमुख असुर अपना प्रयत्न व्यर्थ देखकर उत्साहरहित हो गये । उनका वीरताका घमंड जाता रहा। अब वे अपने सरदार वृत्रासुरको युद्ध भूमिमें ही छोड़कर भाग खड़ हुए; क्योंकि देवताओंने उनका सारा बल-पौरुष छीन लिया था ॥ २९ ॥ * * जब धीर-वीर वृत्रासुरने देखा कि मेरे अनुयायी असुर भाग रहे हैं और अत्यन्त भयभीत होकर मेरी सेना भी तहस-नहस और तितर-बितर हो रही है, तब वह हँसकर कहने लगा ॥ ३० ॥ Singe । ।। कालोपपन्नच विप्रचिते नमुचे पुलोमन् मयानर्वञ्छम्बर मे शृणुध्वम् ॥ ३१ ॥ जातस्य मृत्युर्भुवि एष सर्वतः प्रतिक्रिया यस्य न चेह ‘क्लप्सा । लोको यशवाथ ततो यदि ह्यमुं को नाम मृत्युं न वृणीत युक्तम् ॥ ३२ ॥ द्वौ संमताविह मृत्यू दुरापौ यद् ब्रह्मसंधारणया जितासुः । कलेवरं योगरतो विजयाद् यदग्रणीवरश्येऽनित्तः ॥ ३३ ॥ ॥ मनस्विनामुवाच वाचं पुरुषप्रवीरः । ॥ इति श्रीमद्भागवत महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे नारायणवर्मकथनं नाम दशमोऽध्यायः ॥ १० ॥ कृष्णप्रिया व्याख्या अन्वयः - हे विप्रचित्ते नमुचे पुलोमन् मय अनर्वन् शंबर मे शृणुध्वं पुरुषप्रवीरः कालोपपन्ना मनस्विनां रुचिराम् वाचम् उवाच ।। ३१ ॥ ** एषः मृत्युः जातस्य सर्वतः ध्रुवः च इह यस्य प्रतिक्रिया न क्लृप्ता अथ यदि ततः लोकः च यशः हि युक्तं मृत्युं कः नाम न वृणीत ॥ ३२ ॥ इह दुरापौ द्वौ मृत्यू संम
- इह दुरापौ द्वौ मृत्यू संमतौ यत् जितासुः योगरतः ब्रह्मसंधारणया कलेवरं विजह्यात् वा यत् अग्रणीः अनिवृत्तः वीरशये ॥ ३३ ॥ इति दशमोऽध्यायः ।। १० ॥ श्रीधरस्वामिविरचिता भावार्थदीपिका देव विशिनष्टि । कालोपपन्नामवसरोचितां मनस्विनां रुचिरा हे मय हे अनर्वन् मे वाचं शृणुत ॥ ३१ ॥ * * प्रतिक्रिया निवर्तनोपायः ततो मृत्योरिह यशो लोकः स्वर्गादिश्व यदि स्यात् । अथ तर्हि अमुं मृत्युं युक्तं समीचीनं प्राप्तं वा ||३२|| १, प्रा० पा० कल्प्यते । TTS TIRE PIESENO JE I PO स्कं. ६ अ. १० लो. ३१-३३ ] अनेकव्याख्यासमलङ्कृतम् ३५३. ब्रह्मसंधारणया कलेवरं जद्यादिति यत्स एको मृत्युः वीरशये रणभूमावनिवृत्तोऽपराङ्मुखः सन् जलादिति यत्स च एकः । तौ द्वाविह शास्त्रे संमतौ मृत्यू । तथा च स्मृतिः । " द्वाविमौ पुरुषौ लोके सूर्यमंडलभेदिनौ । परिब्राड् योगयुक्तच रणे चाभिमुखो हतः ।” इति ॥ ३३ ॥ इति श्रीमा० म० षष्ठस्कन्धे टीकायां दशमोऽध्यायः ।। १० ।। वंशीधरकृतो भावार्थदीपिकाप्रकाशः विप्राणामिव धैर्यहीना चित्तिश्चित्तं यस्य हे तादृश । न मुञ्चति कातर्यमिति हे तादृश । पुरो युद्धात्प्रागेव मन्यते स्वशौर्य न युद्धे भो एतादृश रलयोरैक्यम् । मयेति सैन्यदर्शनेन कातर्यमिति हे तादृश। न अर्वापि पलायते यत्सदृशो है एतादृश ।। ३१ ।। * * प्रतिक्रिया निवृत्त्युपायः यस्य मृत्योर्न रचिता । समीचीनमृत्युं पुनः साधयिष्याम इति चेत्तत्राह - उपस्थित परित्यागोऽनई इत्यभिप्रायेणाह प्राप्तं स्वत एवागतम् ॥ ३२ ॥ ॥ ३२ ॥ * मृत्युद्वयस्य संमतत्वे प्रमाणमाह-तथा चेति । सूर्यमंडलभेदिनाविति । अर्चिरादिमार्गेण ब्रह्म प्राप्नुत इत्यर्थः । योगयुक्तो ब्रह्मधारणावान् इति स्मृतिपदार्थः ।। ३३ ।। कुत्रचित् “जातस्य पुंसः प्रलयो ध्रुवश्च पलायमानस्य च युध्यतो वा । तस्माद्भवद्भिर्न पलायितव्यं योद्धव्यमेवात्र हरेः समीपे ।" इत्यधिकोऽपि पाठोस्ति स च प्राचीनानंगीकृतत्वान्न व्याख्यातः । इति श्रीमद्भागवतभावार्थदीपिकाप्रकाशे षष्ठस्कन्धे दशमोऽध्यायः ॥ १० ॥ अन्वितार्थप्रकाशिका जातस्येति । जातस्य प्राणिमात्रस्य एषः प्रसिद्धो मृत्युः सर्वतः सर्वत्र ध्रुवः कुत्रापि त्रिलोक्यां गत्वाऽप्यनिवार्यः । यतः । यस्येह संसारे प्रतिक्रिया निवृत्त्युपायो न च क्लृप्ता भगवताऽपि नैव निर्मिता ततो मृत्योर्यदि लोके ब्रह्मलोके इह यशश्व स्यात् । अथ तर्हि अमुं युक्तं समुचितं मृत्युं को नाम न वृणीत ।। ३१ ।। द्वाविति । योगरतो योगमार्गे प्रवृत्त: जितासुः वशीकृतप्राणेन्द्रियश्च सन् ब्रह्मसंधारणया भगवद्ध यानेन कलेवरं जह्यादिति यत्स एको मृत्युः अमणी: अनिवृत्त: अपराङ्मुखश्च सन् वीरशये रणभूमौ कलेवरं विजयादिति यत्स चैको मृत्युः तौ द्वौ मृत्यू इह शास्त्रे सम्मतौ अत एव दुरापौ दुर्लभौ ।। ३२ ।। इति श्रीकृष्णसेवार्थमन्वितार्थप्रकाशिकाम् । गङ्गासहाय: षष्ठस्य दशमे निरमादिमाम् ॥ इति श्रीभागवते महापुराणे षष्ठस्कन्धेऽन्वितार्थप्रकाशिकायां दशमोऽध्यायः ।। १० ।। वीरराघवव्याख्या एतद्वभाष इत्येतदेव प्रपञ्चयति । पुरुषश्रेष्ठः मनस्वी प्रशस्तमनस्कः वृत्रः कालोचितां मनस्विनां रुचिरां च वाचमु- वाच । उक्तमेवाह । हे विप्रचित्ते ! इत्यादिना यावदध्यायपरिसमाप्ति । हे मय ! हेऽनर्वन् ! में वाचं शृणुध्वम् ॥ ३१ ॥ * * सर्वतः सर्वस्य जातस्य जन्तोरेष मृत्युधु वः निश्चितः मृत्युं विशिनष्टि । यस्य मृत्योरिह लोके प्रतिक्रिया प्रतीकारः न कुप्ता नास्ति । किञ्च । शत्रुभ्यो मृत्युभयनिमित्तात्पलायनादयशस्करात्परलोकहानिकरात्तेभ्यो मृत्युरेव स्वर्गसंपादकः कीर्त्तिकरश्च श्रेयान् स- प्रामे शत्रुभ्यो मृत्युदुर्लभश्वातस्तमेव वृणीतेत्याह । लोक इति द्वाभ्याम् । अथ हे दानवाः ! ततः सङ्ग्रामे मृत्योर्यदि लोकः वीर- स्वर्गः यशश्च स्यात्तर्ह्यमुं मृत्युं युक्तं प्राप्तं को नाम न वृणोति किन्तु वृणुयादेव ।। ३२ ।। * दुरापौ दुर्लभौ द्वौ मृत्यू इह लोके शास्त्रसम्मतौ कौ तौ तावज्जिता सुर्जितान्तर्बाह्येन्द्रियप्राणो योगसक्तः ब्रह्मसन्धारणया ब्रह्मविषयकधारणायोगेन कलेवरं त्यजेदिति यत्स एकः तथा वीरशये रणभूमौ अनिवृत्तोऽपराङ्मुखः कलेवरं जङ्घादिति यत् सोऽपरो मृत्युः तथा चोक्तम् । द्वाविमौ पुरुष लोके सूर्यमण्डलभेदिनौ । परिव्राड योगयुक्तश्च रणे चाभिमुखो हतः । इति ॥ ३३ ॥
इति श्रीमद्भागवत महापुराणे षष्ठस्कन्धे श्रीमद्वीरराघवाचार्यकृतभागवतचन्द्रचन्द्रिकायां दशमोऽध्यायः ॥ १० ॥ विजयध्वजतीर्थकृता पदरत्नावली यस्य मृत्योः प्रतिक्रिया परिहार: अथ यदि (१) यस्माल्लोको यशश्च स्यातां ततस्तर्हि कः क्षत्रियादिकल्पः युक्तं युद्धमूदिन प्राप्तं मृत्युं न वृणीत नामेत्यन्वयः ॥ ३२ ॥ इतोऽपि युद्धमरणं प्रशस्त मित्याहुः । द्वाविति । योगरतो ४५ ३५४ श्रीमद्भागवतम् [ स्कं. ६ अ. १० लो. ३१-३३ जितप्राणश्च यो ब्रह्मसन्धारणया ब्रह्मध्यानेन कलेवरं बिजह्यादिति । यद्युद्धादनिवृत्तोऽप्रणीः । यो बीराणाममतो गत्वा वीरशये युद्धाङ्गणे शरीरं जहातीति । यच मरणम् । तयोर्द्रावितौ मृत्यू दुष्प्रापौ सम्मतौ शास्त्रविहितावित्यन्वयः ।। ३३ ।। इति श्रीमद्भागवते महापुराणे षष्ठस्कन्धे श्रीमद्विजयध्वजतीर्थकृतपदरत्नावल्यां दशमोऽध्यायः ।। १० ।। mate पिकनिक विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी ततो मृत्योरिह यशः स्वर्गश्च यदि स्यात् अथ तर्हि अमुं मृत्युं युक्तं समुचितम् ॥ ३२ ॥ * ॐ वीरशये सङ्ग्रामे अनिवृत्तः अभिमुखस्थः ॥ ३३ ॥ ॥ ॥ DIEF DIST Sss इति सारार्थदर्शिन्यां हर्षिण्यां भक्तचेतसाम् । षष्ठस्य दशमोऽध्यायः सङ्गतः सङ्गतः सताम् ॥ १० ॥ TRE-STER is BENE ॥ ६ ॥ ए शुकदेवकृतः सिद्धान्तप्रदीप: E- कालोपपत्रां तत्कालोचिताम् ॥ २१ ॥ * * जातस्योत्पन्नस्य मृत्यु वः आवश्यकः । यदि तत आवश्यकादपि इह यशः लोकः स्वर्गश्च स्यात् । अथ तर्हि अमुं मृत्युं युक्तं योग्यं को न वृणीत ॥ २२ ॥ इह लोके द्वौ मृत्यू सम्मतौ योग्यौ तौ च दुरापौ दुर्लभौ । यत्तासुः यत्ता असवः प्राणा इन्द्रियाणि येन । योगरतो भगवज्ज्ञानभक्तिनिष्ठः स ब्रह्मसन्धा- रणया कलेवरं जह्यात् इत्येकः । यश्चाग्रणीः सन् वीरशये सङ्ग्रामे निवृत्ती मृत इति द्वितीयः ॥ ३३ ॥ इति श्रीमद्भागवते महापुराणे षष्ठस्कन्धे श्रीमच्छुकदेवकृत सिद्धान्तप्रदीपे दशमाऽध्यायार्थप्रकाशः ॥ १० ॥ गोस्वामिगिरिधरलालविहितो बालप्रबोधिनी मितद्वाचमेव विशिनष्टि कालेति । कालोपपन्नां तदवसरोचिताम् । मनस्विनां रुचिरां शौर्यव्यञ्जिकाम् । एवं भयस्थाने एवं भाषणे स एव समर्थ इति धैर्यातिशयं सूचयन् विशिनष्टि पुरुषेषु प्रकृष्टो वीर इति । तद्वाक्यमेव दर्शयति- हे विप्रचित्ते इति सार्द्धद्वयेन ॥ ३१ ॥ ॐ एवं सम्बोधनेनासुरान् सम्मुखीकृत्याह-जातस्य प्राणिमात्रस्य एष प्रसिद्धो मृत्युः सर्वतः सर्वत्र ध्रुवः कुत्रापि त्रिलोक्यां गत्वाऽप्यनिवार्यः । तत्र हेतुमाह - यस्येह संसारे प्रतिक्रिया निवृत्त्युपायो न च क्लृप्रा नैव निर्मिता भगवतेति शेषेणान्वयः । तत्तो मृत्योर्यदि लोको ब्रह्मलोक इह यशश्च स्यात् अथ तर्हि अमु युक्तं समुचितं मृत्युं को नाम न वृणीतेत्यन्वयः । ननु युद्धे मरणात् परलोको भवतीत्यत्र प्रमाणाभावात् कथं त्वद्वचनमात्रेण मरणं युक्तमित्याशङ्कयास्ति त्र शास्त्रं प्रमाणमिति सूचयन्नाह - हीति ॥ ३२ ॥ तमेव हि द्वाविमौ पुरुषौ लोके सूर्यमण्डलभेदिनौ । परिव्राड् योगयुक्तश्च रणे चाभिमुखो हतः’ इति स्मृतिसिद्धमर्थ स्पष्टयति- द्वाविति । योगरतो योगमार्गे प्रवृत्तः जितासुः वशीकृत- प्रमाणेन्द्रियश्च सुन् ब्रह्मसन्धारणाया भगवद्धयानेन कलेवरं जह्यादिति यत्स एको अमणी: अनिवृत्त: अपराङ्मुखश्च सन् बीरशये रणभूमौ कलेवरं विजयादिति यत्स चैको मृत्युः; तौ द्वौ मृत्यु इह शास्त्र सम्मतौ अत एव दुरापौ दुर्लभौ ॥ ३३ ॥ युः, अ 1125 । fare इति श्रीवल्लभाचार्यवंश्यगोपालसूनुना । श्रीमन्मुकुन्दरायाणां पादसेवाधिकारिणा ॥ १ ॥ श्रीमद्विरिधराख्येत भजनानन्द सिद्धये । श्रीमद्भागवतस्येयं टीका बालप्रबोधिनी ॥ २ ॥ रचिता तत्र षष्ठेऽस्मिन् स्कन्धे रूपनिरूपणे । दशमो विवृतोऽध्यायों वृत्रधैर्यनिरूपकः ।। भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी
- कालेति । पुरुषेषु प्रवीरः श्रेष्ठः । हे विप्रचिते, हे नमुचे, हे पुलोमन, हे मय, से अनर्वन्, हे शम्बर, मे मम, वाचं शृणुध्वम् । इति संबुद्धय, कालोपपन्नामवसरोचितां मनस्विनां महामनसां रुचिरां प्रीत्युत्पादिकां वाचम् उवाच ॥ ३१ ॥ जातस्येति । जातस्य संसारे मातृपित्रादिवो जन्मभाजः सर्वतः सर्वस्यापि मनुजादेः, एषः मृत्युः भुवः निश्चितः । यस्य मृत्योः, इह लोके, प्रतिक्रिया प्रतीकारः, न च नैव क्लृप्ता । लोके मृत्योर्निवर्त्तनोपाय एव नास्तीत्यर्थः । अथातः, हे दानवाः, ततः संग्रामे जातान्मृत्योः सकाशात्, यदि लोकः स्वर्गः यशश्च स्यात् तर्हि युक्तम् । अमु मृत्युं क्षत्रियाणां योग्यं संग्राममरणमित्यर्थः । को नाम न वृणीत हि । किं तु वृणुयादेव ॥ ३२ ॥ * द्वाविति । इह लोके, द्वौ द्विप्रकारौ, मृत्यू । दुरापौ दुर्लभौ संमतौ । । शासकृद्भिः संमानितौ । तौ निर्दिशति । जितासुर्जितप्राणः, योगरत: योगी, ब्रह्मसंधारणया ब्रह्मविषयकधारणायोगेत, कलेवरं । स्कं. ६. अ १० श्लो. ३१-३३ ] अनेकव्याख्या समलङ्कृतम् 1 देहं विजह्यात्परित्यजेत् । यत् तथा अग्रणीः संग्रामेऽप्रचरः, अनिवृत्तोऽपराङ्मुखः सन् वीरशये रणभूमौ कलेवरं विजह्याद्यत्, एवंविधौ । तथा च स्मृतिः । ’ द्वाविमौ पुरुषौ लोके सूर्यमण्डलभेदिनौ । परिव्राड्योगयुक्तश्च रणे चाभिमुखो हतः’ इति ॥ ३३ ॥ इति श्रीधर्मधुरंधर श्रीधर्मात्मजप्रत्यक्षपुरुषोत्तम सहजानन्दस्वामिसुतश्री रघुवीराचार्यसूनुभगवत्प्रसादाचार्यविरचिता- यामन्वयार्थावबोधिन्यां भक्तमनोरञ्जन्याख्यायां श्रीमद्भागवतटीकायां षष्ठस्कन्धे दशमोऽध्यायः ।। १० ।। भाषानुवादः वीर शिरोमणि वृत्रासुरने समयानुसार वीरोचित वाणीसे विप्रचित्ति, नमुचि, पुलोमा, मय, अनर्वा, शम्बर आदि दैत्योंको सम्बोधित करके कहा—असुरो ! भागो मत, मेरी एक बात सुन लो ॥ ३१ ॥ * * इसमें सन्देह नहीं कि जो पैदा हुआ है, उसे एक-न-एक दिन अवश्य मरना पड़ेगा इस जगत् में विधाताने मृत्युसे बचनेका कोई कोई उपाय नहीं । स्वर्गादि बताया है। इसी स्थिति में यदि मृत्युके द्वारा खगोदि लोक और सुयश भी मिल रहा हो तो ऐसा कौन बुद्धिमान है, जो उ उत्तम मृत्युको ने अपनायेगा ॥ ३३ ॥ संसार में दो प्रकारकी मृत्यु परम दुर्लभ और श्रेष्ठ मानी गयी है – एक तो योगी पुरुषका अपने प्राणोंको वशमें करके ब्रह्मचिन्तन के द्वारा शरीरका परित्याग और दूसरा युद्धभूमिमें रहकर बिना पीठ दिखाये जूझ मरना (तुमलोग भला, ऐसा शुभ अवसर क्यों खो रहे हो ? ।। ३३ ।। || * %% PES F इति दशमोऽध्यायः ॥ १० ॥ E F
- सेनाके आगे
- ॥ e ॥
- sdl Shine S
- | = |
- 1 Prose FREE
- 11
- min
- के एकी
- Trans TE PÅ SINE DETH THERINE PŘE
- २
- PERSPER OP HET US FARE HERE FIE
- Pet Cape
- FRIFIC :ht
- i-sd–Wd! Naklad: 9 Agent dansdalt and soď jeho dalt del si dá sighed 1} $t
- Meaninid in
- Swalinad Babbali
- Pangal dial steadset da
- Badsalsa stiff etaM kae etest sad shed
- Badisoner Tale FREECE F
- { $s: ddd. 13 #
- 14 satata S
- अथैकादशोऽध्यायः
- श्रीशुक उवाच
- ४ ॥
- त एवं शंसतो धर्म वचः पत्युरचेतसः । नैवागृह्णन् भयत्रस्ताः पलायनपरा नृप ।। १ ।। विशीर्यमाणां पृतनामासुरीमसुरर्षभः । कालानुकूलैस्त्रिदशैः काल्यमानामनाथवत् ॥ २ ॥ दृष्ट्वातप्यत संक्रुद्ध इन्द्रशत्रुरमर्षितः । तान् निवार्यौजसा राजन् निर्भत्स्येंदमुवाच ह ॥ ३ ॥ किं व उच्चरितैर्मातुर्थावदिः पृष्ठतो हतैः । न हि भीतवधः श्लाघ्यो न स्वर्ग्यः शूरमानिनाम् ॥ यदि वः प्रधने श्रद्धा सारं वा तुल्लका हृदि । अग्रे तिष्ठत मात्र मे न चेद् ग्राम्यसुखे स्पृहा ॥ एवं सुरगणान् क्रुद्धो भीषयन् वपुषा रिपून् । व्यनदत् सुमहाप्राणो येन लोका विचेतसः ।। ६ ।। तेन देवगणाः सर्वे वृत्रविस्फोटनेन वै । निपेतुर्मूच्छिता भूमौ यथैवाशनिना हताः ॥ ७ ॥
- ममर्द पदयां सुरसैन्यमातुरं निमीलिताक्षं रणरङ्गदुर्मदः ।
- गां कम्पयन्नुद्यतशूल ओजसा नालं वनं यूथपतिर्यथोन्मदः ॥ ८ ॥ विलोक्य तं वज्रधरोऽत्यमर्षितः स्वशत्रवेऽभिद्रवते महागदाम् । चिक्षेप तामापततीं सुदुःसहां जग्राह वामेन करेण लीलया ॥ ९॥ स इन्द्रशत्रुः कुपितो भृशं तया महेन्द्रवाहं गदयोग्रविक्रमः । जघान कुम्भस्थल उन्नदन् मृधे तत्कर्म सर्वे समपूजयन्नृप ॥ १० ॥
- कृष्णप्रिया व्याख्या
- ५ ॥
- अन्वयः - नृपः भयत्रस्ताः ते अचेतसः पलायनपराः एवम् धर्मम् शंसतः पत्युः वचः न एव अगृह्णन् ॥ १ ॥ ** राजन् कालानुकूलैः त्रिदशैः अनाथवत् काल्यमानाम् विशीर्यमाणाम् आसुरीम् पृतनां दृष्ट्वा संक्रुद्धः अमर्षितः इंद्रशत्रुः असुरर्षमः अतप्यत ओजसा तान् निवार्य निर्भर्त्स्य इदं ह उवाच ।। २-३ ।। मातुः उच्चरितैः धावद्भिः पृष्ठतः हतैः किम् शूर- मानिनां वः भीतवधः श्लाध्यः न स्वर्ग्यः न ॥ ४ ॥ * * तुल्लकाः यदि वः प्रधने श्रद्धा वा हृदि सारम् ग्राम्यसुखे स्पृहा न चेत् मे अप्रे मात्रम् तिष्ठत ॥ ५ ॥ * * एवम् सुमहाप्राणः क्रुद्धः वपुषा रिपून् सुरगणान् भीषयन् व्यनदत् येन लोकाः विचेतसः ॥ ६ ॥ * * तेन वै वृत्रविस्फोटनेन सर्वे देवगणाः यथा एव अशनिना हताः मूच्छिताः भूमौ निपेतुः ॥ ७ ॥ रणरंगदुर्मदः उद्यतशूल: गाम् कंपयन् यथा उन्मदः यूथपतिः ओजसा नालम् वनम् आतुरं निमीलिताक्षम् सुरसैन्यम् पद्धयां ममर्द ॥ ८ ॥ तम् विलोक्य अत्यमर्षितः वज्रधरः अभिद्रवते स्वशत्रवे महागदां चिक्षेप आपततीम् सुदुःसहाम् तामू लीलया वामेन करेण जयाह ॥ ९ ॥ * * नृप भृशम् कुपितः उग्रविक्रमः स इंद्रशत्रुः मृधे उन्नदन् तया गदया महेंद्रवाहम् कुंभस्थले जघान सर्वे तत् कर्म समपूजयन् ॥ १० ॥
- श्रीधरस्वामिविरचिता भावार्थदीपिका
- एकादशे तु वृत्रस्य युद्धद्यमानस्य वज्रिणा । भक्तिज्ञानबलोदर्काश्चित्रा वाचोऽनुवर्णिताः ॥ १ ॥
- शंसतः कथयतः पत्युर्वचः ॥ १ ॥ * कालानुकूलैः कालानुवर्तिभिः । काल्यमानां विद्राव्यमाणाम् ॥ २ ॥ अमर्षितोऽसहमानस्तांस्त्रिदशानिवार्य निर्भस्त्र्त्य चेदं वक्ष्यमाणमुवाच ॥ ३ ॥ * * तदेवाह द्वाभ्याम् । मातुरुच्चरितैः
- ॥ ॥
- १. प्राचीने पाठे ‘तान्निवायोजसात आरभ्य क्षुल्लका हृदि’ इत्यन्तः पाठो मुले नोध्धृतः ।
- "
- ।
एक. ६ अ. ११ लो. १-१०] अनेकव्याख्यासमलङ्कृतम् ३५७ पुरीषप्रायैः । प्रथमांतपाठे देवानां संबोधनम् । पृष्ठतो इतैर्दैत्यैः वो युष्माकं किं स्यात् न किंचित् । न यशो नापि धर्मः । तदेवाह । न हीति ॥ ४ ॥ * * प्रधने संग्रामे । सारं धैर्य हृदि चेत्तर्हि हे क्षुल्लकाः क्षुद्राः मात्रं क्षणमात्रमये तिष्ठत । न चेदिह लोकभोगे स्पृहाऽस्ति ॥ ५ ॥ सुरगणान् रिपून् । सुमहान्प्राणो बलं यस्य । येन विचेतसो बभूवुः ।। ६ ।। वृत्रस्य विस्फोटनेन नादेन ॥ ७ ॥ * * उद्यतं शूलं येन गां भूमिम् । नालं वनं नलानां वनम् । उद्गतो मदो यस्य स यूथपतिर्गजो यथा मर्दयति ।। ८-१० ।।
वंशीधरकृतो भावार्थदीपिकाप्रकाशः ॐ 1 भक्तिज्ञानबलेनोदर्का उत्कृष्टा: ( १ ) धर्म्य धर्मादनपेतम् । अचेतसो निर्विचाराः । तत्र हेतुः - भयत्रस्ता इति । नृपेति । युद्धधर्मकोविदोऽसीति भावः ॥ १ ॥ विशीर्यते हिंस्यत इति विशीर्यमाणा ताम् ॥ २ ॥ * * ओजसा बलेन राजन् दीप्यन् । निर्भत्स्यें वाचा तिरस्कृत्य च ॥ ३ ॥ * पुरीषवन्मातुर्देहान्निष्क्रांतैः पुरीषं यथा स्वद्रष्टृमुखं वक्रयति स्वस्पर्शिनमशुचिं करोति तद्वदिमे कातराः स्वसमीपगं शूरमपि निजपलायनेन पलायनपरं कुर्वाणाः स्वताड- नपरमप्यपवित्रयंति पलायमानताडनपरस्यातीवापवित्रनरकवासश्रवणात्तदुक्तमपि “क्षत्रियस्योरसि क्षात्रं पृष्ठे ब्रह्म व्यवस्थितम् । तेन पृष्ठं न दातव्यं पृष्ठदो ब्रह्महा भवेत् ।” इत्यादिपुराणांतरे । तथा च पृष्ठदातॄणां ब्रह्मघ्नतुल्यत्वात्तस्पर्शो ह्यतीवापावित्र्य- हेतुस्तत एव तद्धंतॄणां स्वर्गो न भवतीत्याह-न स्वर्ग्यः स्वर्गाय हित इत्यर्थः ॥ ४ ॥ हे क्षुल्लका इति । पलायमान- ताडनं हि क्षुद्रधर्म इति भावः । तुल्लस्तुच्छे बुभुक्षिते’ इत्यभिधानात् । स्वार्थे कः ॥ ५ ॥ * विचेतसो मूच्छिता अभवन्निति शेषः ॥ ६ ॥ * ‘विस्फोटनं प्रकांडस्य ताडने निनदेऽपि च’ इति तीर्थः ॥ ७ ॥ * * नलानां
-
- कमलानां पोटगलानां वेदं नालम् “नलः पोटगले राज्ञि पितृदेवे कपीश्वरे । कमलेपि" इति मेदिनी । यूथोत्र गजसमुदायस्तस्य पतिः उन्मदः प्रमत्तः ॥ ८ ॥ ॐ ॥
-
- नृपेति । नृपालनं हि युद्धे दुष्टवधेनैव भवत्यतस्तुभ्यं युद्धकथां वदामीति भावः ॥ १० ॥ तां गदाम् ॥ ९ ॥ अन्वितार्थप्रकाशिका . ॥ 1 त इति । हे नृप ! एवं धर्म शंसतः कथ- विशीर्यमाणा- एकादशे वृत्रशकयुद्धे वृत्रो जगाद च । ज्ञानभक्तिमयीर्वाचः श्लोकास्तत्राद्रिबाहवः (२७) ।। अनुष्टुभः पचरामा (३५) उवाचद्वितयं ( २ ) तथा ॥ १ ॥ यतः पत्युर्वृत्रस्य वचः अचेतसः व्याकुलचित्ताः भयत्रस्ताः पलायनपराश्च ते असुरा नैवागृह्वन् ॥ १ ॥ मिति युग्मम् । हे राजन् ! कालोऽनुकूलो येषां तैस्त्रिदशैर्देवैः काल्यमानां विद्राव्यमाणामत एवानाथवदनाथामिव विशीर्यमाणा- मासुरीं स्वकीयां पृतनां सेनां दृष्ट्वा क्रुद्धः अमर्षितः असहनः असुरर्षभः इन्द्रशत्रुर्वृत्रः अतप्यत । ततश्व ओजसा बलात्कारेण तान् त्रिदशानिवार्य निर्भर्त्स्य चेदं वक्ष्यमाणं वचनमुवाच ।। २-३ ।। किमिति । मातुः उच्चरितैः पुरीषवदुदरान्निर्गतैः । धावद्धिः पलायमानैः पृष्ठतो हतैर्दैत्यैव युष्माकं किं फलं न यशो नापि धर्म इत्यर्थः । आत्मानं शूरं मन्यमानानां भीतस्य यो वधः स श्लाध्यो न भवति नापि स्वर्ग्यः स्वर्गहेतुः । मातुरुच्चरिता इति पाठे देवानां सम्बोधनम् ॥ ४ ॥ * * यदिति । हे क्षुल्लका: ! ममाग्रे यूयं तुच्छा एव तथापि यदि वो युष्माकं प्रधने युद्धे श्रद्धा हृदि सारं धैर्य वाऽस्ति चेत् यदि ग्राम्यसुखे विषयभोगे स्पृहा इच्छा नास्ति तदा मात्रं क्षणमात्रं मेऽग्रे तिष्ठत । तिङन्तादप्रेऽपि मात्रशब्दो बहुस्थलेषु समासावयव इव प्रयु- ज्यते । गच्छतिमात्रं चलतिमात्रं केवलं गच्छति न त्वन्यत्करोतीत्यर्थः । तथात्रापि चेत् तदाऽयमर्थः । यदि मदग्रे योद्धुं न शक्नुथ तदा केवलं तिष्ठत । नाहं भीतान् हन्मीति परन्तु नायं विवक्षितोऽर्थः ॥ ५ ॥ * * एवमिति । सुमहाप्राणो महाबलो वृत्रः क्रुद्धः सन् एवं वचसा वपुषा शरीरेण च स्वरिपून स्वशत्रून सुरगणान् भीषयन् व्यनदत् नादं चकार । येन वृत्रनादेन हेतुना लोकाः प्राणिनः सर्वे विचेतसो जाताः ॥ ६ ॥ * * तेनेति । तेन नादेन वृत्रस्य विस्फोटनेन ऊर्वोः प्रगण्डयोर्वा करतलाघातेन च मूर्छिता देवगणाः यथा अशनिना हतास्तथा भूमौ निपेतुः । वै चार्थे ॥ ७ ॥ * ममदैबि । रणरङ्गे रणभूमौ दुष्टः उत्कृष्टो मदो यस्य सः अत एव उद्यतं शूलं येन सः वृत्रः ओजसा स्वसामर्थ्येन गां पृथ्वीं कम्पयन् आतुरं भीतमतः निमीलिताक्षं सुरसैन्यं पद्धयां ममर्द । यथा नलानां समूहो नालं वनमुत्कृष्टो मदो यस्य स यूथपतिर्गजो यथा मर्दयति तद्वत् ॥ ८ ॥ * * विलोक्येति । वज्रधरः इन्द्रस्तु वृत्रं विलोक्यात्यमर्षितोऽसहमानोऽभिद्रवते स्वसम्मुखमागच्छते स्वशत्रवे तस्मै तं हन्तुं महागदां चिक्षेप । आपततीम् । नुमभावः आर्षः । सुदुःसहामपि तां वृत्रः वामेन करेण लीलया जग्राह ॥। ९ ॥ * * स इति । हे नृप ! स उग्रविक्रमः इन्द्रशत्रु वृत्रो भृशं कुपितोऽतो मृधे उन्नदन् तया गदया महेन्द्र- वाहमैरावतं कुम्भस्थले मस्तके जघान । तस्य तत्कर्म सर्वे स्वपर सैनिकाः समपूजयन् सत्कृतवन्तः ।। १० ।। । । ३५८ श्रीमद्भागवतम् वीरराघवव्याख्या IFFI PIB | BIRB FUR । [ . ६ . ११ . १-१० I FEE SIPriy BHE FEE FLP कविता ॥ एवं वृत्रेण प्रतिबोधितानपि पलायमानानसुरान वीक्ष्य स वृचस्तान्निवार्य युयुत्सुरिन्द्रं प्रत्युवाचेत्याह मुनिः । त इति । एवं हे नृप ! पत्युर्व्वत्रस्य धर्म्यं धर्मादनपेतं वचः शंसतः कथयतः सवोऽपि भीताः । अत एव पलायनासक्ताः अत एवाचेत- सोऽतिभयेन युद्धानासक्तचितास्ते असुराः नैवागृह्णन् पत्युर्वचो नाभ्यनन्दन् ॥ १ ॥ * * ततोऽसुरर्षभो वृत्रः कालोऽनु- कुलो येषां तैस्त्रिदशैर्देवैर्विशीर्यमाणां विशेषेण पीड्यमानामत एवानाथवत् काल्यमानां विद्राव्यमाणामासुरीं पृतनाम् सेनाम् ॥ २ ॥ दृष्ट्वामर्षितोऽसहमानः संक्रुद्धः नितरां क्रुद्धः हे राजन् ! तां पृतनामोजसा स्वबलेन निवार्य निर्भर्त्स्य चेदं वक्ष्यमाणं देवान् प्रत्युवाच ॥ ३ ॥ * * तदेवाह द्वाभ्याम् । मातुः स्वस्य जनन्या उच्चरितैः पुरीषप्रायैरसुरैः प्रथमान्तपाठे देवानां सम्बोधनम् । धावद्भिः पलायमानैरपि पृष्ठतो हतैर्हन्यमानैरसुरैः किं प्रयोजनम् । न तद्वधेन यशो न स्वर्ग- वेति भावः । तदेवाह । न हीति । भीतस्य वधः शूरमात्मानं मन्यमानानां न हि श्लाध्यः । नापि स्वर्ग्यः स्वर्गहेतुश्च ॥ ४ ॥ अतो हे चुल्लकाः ! अत्यल्पाः ! वो युष्माकं हृदि प्रधने युद्धे श्रद्धा सारं बलं वा यद्यस्ति विषयभोगेच्छा नो चेत्तर्हि मात्रं क्षणमात्रं ममात्रे तिष्ठत ॥ ५ ॥ * * एवं क्रुद्धो वृत्रः सुरगणान् रिपून वपुषा देहेन भीषयन् महान प्राणो बलं यस्य तादृशो व्यनदत् नादं विशिनष्टि । येन नादेन लोका जनाः विचेतस। मूच्छिता बभूवुः ।। १ ।। * तेन वृत्रस्य विस्फोटनेन नादेन सर्वे देवगणाः मूच्छिताः सन्तो भूमौ निपेतुः पतितवन्तः यथाऽशनिना हुताः जनाः पतन्ति निपतन्ति तद्वत् ॥ ७ ॥ * * आतुरं मूर्च्छितमत एव निमीलिताक्षं सुरसैन्यमोजसा बलेन पद्धयां ममई महितवान् । यथोन्मदो यूथपतिर्गजः तालं तालानां सम्बन्धि वनं मर्द्दयति । कथम्भूतो समई रणरङ्गे दुर्निवारो मदो यस्य । उद्यतं शूलं येन । क्ष्मां पृथिवीं कम्पयन् ॥ ८ ॥ * * एवं स्वसैन्यं मर्द्दयन्तं वृत्रं विलोक्य वज्रधर इन्द्रोऽप्यमर्षितोऽभिमुखं द्रवते आगच्छते शत्रवे महतीं गदां चिक्षेप प्रयुक्तवान् । स च वृत्रस्तामापतन्तीं दुःसहां दुःखेनापि सोढुमशक्या गदां वामेन करेण लीलया सुखेन जग्राह गृहीतवान् ॥ ६ ॥ * ॥६॥ तया च गृहीतया गदया भृशं नितरां क्रुद्ध इन्द्रशत्रुर्वृत्र: उन्नदन्नतीव नदन् उवो विक्रमाः पादविन्यासाः यस्य तादृशं महेन्द्र- वाहमैरावतं जघान । कमवयवं तत्राह । कुम्भस्थलं मृधे युद्धे तस्य वृत्रस्य कर्म तद्गदया तद्वाहनताडनरूपं कर्म सर्वे द्रष्टारः । । समपूजयन् बह्वमन्यन्त ॥ १० ॥ ४, क विजयध्वजतीर्थकृता पदरत्नावली नागामा अचेतसो
- ओजसा हे देवाः ! यूयं अचेतसो बुद्धिमत्प्रवृत्तिस्मरणरहिताः ॥ १ ॥ * * काल्यमानां विद्राव्यमाणाम् ॥ २ ॥ राजन् दीप्यन् स वृत्रः तां स्वपृतनां निवार्य द्रावयतो देवान्निर्भत्स्येंद: वाक्यमत्रवीत् ह किल ॥ ३ ॥ * मातुरदितेरुवरिताः अवमेहनवन्निर्गताः किम् उभयेषामपि देहान्निष्क्रान्तत्वाविशेषात् कुतोऽस्माकमत्राह । धावद्भिरिति । पृष्ठतो हतैर्धावद्भिः असुरनायकैः वः युष्माकं किं प्रयोजनम् अधर्मत्वात् अयमपि कुतोऽत्राह । न हीति । स्वर्ग्य: स्वर्गप्राप्ति- योग्यः ॥। ४ ॥। ४
- हे क्षुल्लकाः ! अल्पाः ! देवाः ! युष्माकं हृदि सारं धैर्य चास्ति मात्रं क्षणकालं ग्राम्यसुखे विषय- भोगजनितानन्दे ॥ ५ ॥ * विचेतसो मूर्च्छिताः ॥ ६ ॥ एतदेव स्पष्टयति । तेनेति । विस्फोटनं प्रकाण्ड- ताडनम् ॥ ७॥ 8-8 नालं नलसमुदायलक्षणं वनं यूथपतिर्गजः अभिद्रवते अभ्यागच्छते ॥ ६ ॥ महेन्द्रवाहमैरावतम् ॥ १० ॥ 1 FSET FIREİSE ST जीवगोस्वामिकतः क्रम सन्दर्भ 11:2TSTEE F EV Bher अस्पृष्टवहिं समदन्तीति क्रोधेनैवासम्भवोक्तिः ॥ १-२४॥ FIRE TRE HER ॥ ॥ वास विश्वनाथचक्रवतिकृता सारार्थदर्शिनी paig FE Ipeire एकादशे तु संग्राममध्ये वृत्रस्य वर्णिताः । शौर्यमण्यो गिरः काश्चित् प्रेममय्यश्च काश्चन ॥ ।। अनाथवत अनाथानिव तांस्त्रिदशान् ॥ १-३ ॥ * * प्रथमान्तपाठे सम्बोधनं हे मातुरुच्चरिताः ! पुरीषतुल्या देवाः ! पृष्ठतो हतैदैत्यैः किम् । न यशो नापि धर्मः । तृतीयान्तपाठे दैत्यानां विशेषणम् । भीतानां बधो न श्लाध्यः । कर्त्तृ कर्मणो- रुभयोरपि यशोधर्माभावव्यञ्जकत्वात् जुगुप्सित इत्यर्थः ॥ ४ ॥ * प्रधने युद्धे सारं धैर्य हे तुल्लकाः ! क्षुद्राः ! ।। ५-६ ॥ वै इति चार्थे विस्फोटितम् ऊरुप्रगण्डयोः करतलाघातस्तेन च ॥ ७ ॥ यूथपतिस्ती ॥ ८ ॥ * * अभिद्रवते सम्मुखमागच्छते ।। ६-१० ॥
- आतुरत्वादेव मुद्रितनेत्रम् । नलानां बनम् ॥स्कं. ६ अ. ११ श्लो. १-१०] अनेकव्याख्यासमलङ्कृतम् न FEEP शुकदेवकृतः सिद्धांतप्रदीपः ३५९ SEVES PER FET की me here इन्द्रेण युद्धमानस्य वृत्रस्य पूर्वजन्मगतहरिभक्तत्वसूचकानि वाक्यानि वर्णयति । त एवेत्येकादशेनाध्यायेन । धर्म युद्ध- धर्म शंसतः कथयतः ॥ १ ॥ * कालानुकूलैरसुरपराभव कालानुसारिभिः । अनाथवत्काल्यमानां विद्राव्य- माणाम् ।। २ ।। * अमर्षितः त्रिदशपराक्रममसहमानः तान् निवार्य निर्भर्त्स्य चेदं वक्ष्यमाणं सुसन प्रत्युवाच ॥ ३ ॥ वो युष्माकं मातुरुश्चरितैर्मलनिभैः देवैः पृष्टतो हतैर्दैत्यैः किं न किमपि यशोधर्मादिकम् । यतो भीतवधः शूरमानिनां लाथ्यो न भवति । हे क्षुल्लका!! जुद्राः ! यदि वः प्रधने युद्धे श्रद्धा हृदि सारं धैर्य च प्राम्यसुखे स्पृहा च न चेत्तर्हि मे अमे मात्र अग्रे क्षणमात्रं तिष्ठत । सुमहान प्राणो बलं यस्य सः । येन नादेन लोकाः विचेतस आसन् ।। ४-६ ।। * तेन नादेन विस्फोटनेन हस्ताभ्यामूरुप्रताडनेन ॥ च ॥ * * भयान्निमीलिताक्षम् । नालं नलवनम् । यूथपतिः गजराजः ।। ८-१० ।। F FE IF FK, FETELEFO गोस्वामिगिरिधरलालविहिता बालप्रबोधिनी एकादशे महाघोरे युद्धे चापीन्द्रवृत्रयोः । हर्यनुग्रहतो वृत्रे हरिभक्तिर्निरूप्यते ॥ १ ॥
हे नृपेति सम्बोधनं युद्ध एवं भवतीति सम्मत्त्यर्थम् । एवं धर्मं शंसतः कथयतः पत्युर्वृत्रत्य वचस्ते पलायनपरा असुरा नैवागृह्णन् । पलायने हेतुः —भयत्रस्ता इति । वचनाग्रहणे हेतुः - अचेतसः व्याकुलचित्ता इति ॥ १ ॥ * * कालोऽनु- कूलो येषां तैस्त्रिदशैर्देवैः काल्यमानां विद्राव्यमाणाम् अत एवानाथवदनाथानिव विशीर्यमाणामासुरी स्वकीयां पृतना सेनामसु- रर्षभो वृत्रो दृष्ट्वा अतप्यतेत्युत्तरेणान्वयः ॥ २ ॥ * * इन्द्रः शत्रुर्यत्य स वृत्रः अमर्षितः देवपराक्रममसहमान: अत एव सङक्रुद्धः सन् ओजसा बलात्कारेण तांस्त्रिदशान्निवार्य निर्भर्त्स्य चेदं वक्ष्यमाणं वचनमुवाचेत्यन्वयः । एतस्मिन् काले एवं धैर्यमा- श्वर्यमेवेति सूचयति हेति ॥ ३ ॥ * * तद्वाक्यमेव दर्शयति – किमिति मातुरुच्चरितैः पुरीषवन्निर्गतैः । एवमुत्प्रेक्षायां हेतुमाह - धावद्भिरिति । स्वपुरुषार्थहेतुं युद्धं त्यक्त्वा पलायमानैः पृष्ठतो हतैर्दैत्यैर्वा युष्माकं किं फलम् ? न किञ्चिदित्यर्थः । फलाभावमेव दर्शयति–भीतानां यो वधः स लाग्यो न भवति, कतुः कर्मणामुभयविधानां शूरमानिनामपि निन्दाहेतुत्वात् । नापि स्वर्ग्य : स्वर्गहेतुः निषिद्धत्वात् । मातुरुश्चरिता इति प्रथमान्तपाठे निषिद्धे पलायमानवधे प्रवृत्तानां देवानां निन्दापरतया सम्बोधनम् ॥४॥ * हे तुल्लकाः ममाये यूयं तुच्छा एव तथापि यदि वो युष्माकं प्रधने युद्धे श्रद्धा हृदि सारं धैर्य वाऽस्ति चेत् यदि ग्रामसुखे स्पृहा इच्छा नास्ति तदा मात्रं क्षणमात्र मेये तिष्ठतेत्यन्वयः । अनेनानायासेन शीघ्रमेव युष्मान् हनिष्याम्येव नात्र सन्देहो यदि स्थास्यथेति सूचितम् ॥ ५ ॥ * * क्रुद्धः सन् एवं वचसा वपुषा शरीरेण च स्वरिपून सुरगणान् भीषयन् व्यनदत् नादं चकार । येन वृत्रनादेन हेतुना लोकाः प्राणिनः सर्वे विचेतसो जाताः । कथमेवंविधं नादं कन्तु स शक्नोतीत्याशङ्कयाह - महाप्राण इति, नादहेतुप्राणाधिक्यादित्यर्थः ॥ ६ ॥ * * तेन नादेन वृत्रस्य विस्फोटनेन बाह करतलाघातेन च मूर्छिता देवगणाः सर्वे भूमौ निपेतुः । तत्र दृष्टान्तः — यथेति । वै चार्थे ॥ ७ ॥ * * रणरङ्गे रणभूमौ दुष्टः उत्कृष्टो मदो यस्य सः अत एव उद्यतं शूलं येन सः वृत्रः ओजसा स्वसामर्थ्येन गां पृथ्वीं कम्पयन् पद्धयां सुरसैन्यं ममर्द । ननु सुरसैन्यमप्यस्त्रशस्त्रधारि तस्य कथं पद्धयां मर्दनं सङ्गच्छते तत्राह निमीलिताक्षमिति । तत्रापि हेतुमाह-आतु- तत्राह–नि रमिति, भयाद्विवशमित्यर्थः । तथाच तस्मिन् समये तस्य शस्त्रप्रहारे सामर्थ्यं नासीदिति भावः । तत्र दृष्टान्तमाह – नालमिति, नानां समूहो नाल वनमुत्कृष्टो मंदी यस्य स यूथपतिर्गजो यथा मर्दयति तद्वत् ॥ ८ ॥ * * वज्रधरः इन्द्रस्तं वृत्रं विलोक्य अत्यमर्षितोऽसहमान: अभिद्रवते स्वसम्मुखमागच्छते स्वशत्रवे तस्मै तें हन्तुं महागदां चिक्षेप । तां दुःसहामपि स जग्राह ॥ ६ ॥ * * स उग्रविक्रम इन्द्रशत्रुर्वृत्रो भृशं कुपितोऽतो मृधे उन्नदन् तथा गदया महेन्द्रवाह’ कुम्भस्थले मस्तके जघानेत्यन्वयः । तस्य तत्कर्म सर्वे स्वपरसैनिकाः समपूजयन् सत्कृतवन्तः । युद्धकौतुकं तु स्वया बहुशो ऽनुभूतमिति सङ्क्षेपत एव वर्ण्यते इति सूचयन् सम्बोधयति है नृपेति ॥ १० ॥ .. ر کیے اور भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी वज्रिणा युध्यमानस्य वृत्रस्यैकादशे स्फुटाः । वाचोऽनुवर्णिताश्चित्रा भक्तिज्ञानबलाधिकाः ॥ १ ॥ एवं प्रतिबोधितानपि पलायमानानसुरान् वीक्ष्य वृत्रस्ततन्निवार्य युयुत्सुः सन्निन्द्रं प्रत्युवाचेत्याह मुनिः । त इति । हे नृप, धर्मं शंसतः कथयतः, पत्युर्वृत्रस्य वचः, भयत्रस्ताः अत एव, अचेतसः अतिभयेन युद्धानासक्तचित्ताः, ते असुराः, पलाय- नपराः सन्तः, नैब अगृह्णन पत्युरपि वचो नाभ्यनन्दन्नित्यर्थः ॥ १ ॥ * * विशीर्येति । दृष्वेति । ततः असुरर्षभः वृत्रः, :: ३६० T श्रीमद्भागवतम् । [ स्कं. ६ अ. ११ श्लो. १-१० कालः अनुकूलो येषां तैः, त्रिदशैर्देवैः, विशीर्यमाणां विशेषेण पीडचमानाम्, अत एव अनाथवत् काल्यमानां विद्राव्यमाणाम् आसुरीमसुरसंबन्धिनीं पृतानां सेनां दृष्ट्वा अतप्यत । अमर्षितः असहमान:, संक्रुद्धः इन्द्रशत्रुर्वृत्र:, हे राजन्, ओजसा स्वबलेन तान् पलायमानानसुरान् निवार्य, निर्भर्त्स्य च, इदं वक्ष्यमाणवाक्यं ह स्फुटं यथा तथा उवाच, देवान् प्रति कथयामास । इति द्वयोरेकान्वयः ।। २-३ ।। * तदेवाह किमिति द्वाभ्याम् । किमिति । मातुः स्वजनन्याः, उच्चरितैः पुरीषप्रायैः । पाठान्तरे देवसंबोधनम् । धावद्भिः पलायमानैः सद्भिरपि, पृष्ठतः हतैः असुरै:, वः युष्माकं किं न किंचित्प्रयोजनम् । तद्वधे न यशो न स्वर्गश्चेति भावः । कुतः । शूरमानिनां शूरमात्मानं मन्यमानानां भीतवधः न हि श्लाध्यः नापि स्वर्ग्यः स्वर्गप्राप्ति- हेतुश्च ॥ ४ ॥ यदीति । अतः हे क्षुल्लका अत्यल्पाः देवाः, वो युष्माकं हृदि प्रधने युद्धे, श्रद्धा सारं वा बलं चं यदि अस्ति, प्राम्यसुखे विषयभोगे, स्पृहा इच्छा न अस्ति चेत्, तर्हि तु मात्र क्षणकालपर्यन्तं मे मम, अग्रे पुरः प्रदेशे, तिष्ठत ॥ ५ ॥ एवमिति । एवं क्रुद्धः सम्यक कोपं प्राप्तः, रिपून स्वशत्रुभूतान्, सुरगणान् वपुषा देहेन भीषयन्, सुमहान् प्राणो बलं यस्य सः, एवंभूतो वृत्रः, येन नादेन लोका जनाः, विचेतसः मूच्छिताः, बभूवुः । तथा व्यनदत् ॥ ६ ॥ तेनेति । तेन वृत्रविस्फोटनेन वृत्रकृतसिंहनादेन, सर्वे देवगणाः, मूर्च्छिताः सन्तः, अशनिना वज्र ेण हतास्ताडिताः, जनाः यथैव पतन्ति, तद्वत् भूमौ निपेतुः पतितवन्तः वै ॥ ७ ॥ * * ममर्हेति । रणरङ्गदुर्मदः संग्रामे दुर्निवार्यमदः, उद्यतं शूलं येन सः वृत्रः, ओजसा बलेन, गां भुवं कम्पयन् सन्, उन्मदः यूथपतिर्गजः, नालं वनं यथा आतुरं मूर्च्छितम् अत एव निमीलिताक्षं निमीलितनेत्रं सुरसैन्यं देवानां सेनां पद्भ्यां ममई मर्हितवान् ॥ ८ ॥ * * विलोक्येति । तं स्वसैन्यमुक्तप्रकारेण प्रमर्द्दयन्तं वृत्रं विलोक्य, वज्रधर इन्द्रोऽपि, अत्यमर्षितः सुतरां संक्रुद्धः सन, अभिद्रवते स्वसन्मुखमाधावते, स्वशत्रवे वृत्राय, शत्रु हन्तुमित्यर्थः । महागदां महतीं गदां चिक्षेप संप्रयुक्तवान् । स वृत्रोऽपि, आपतन्तीमागच्छन्तीं दुःसहां सोढुमशक्यां, । तामिन्द्रमुक्तां गदां वामेन करेण लीलया सुखेन, जग्राह गृहीतवान् ॥ ९ ॥ स इति । भृशं कुपितः, उरुविक्रमः ९॥ महापराक्रमः, मृधे भृशम् उन्नदन् इन्द्रशत्रुः, स वृत्रः तयेन्द्रमुक्तया स्वगृहीतया गदया एव, महेन्द्रवाहमैरावतं कुम्भस्थले, जघान । तस्य तत् कर्म, हे नृप सर्वे स्वपरसैनिकाः, समपूजयन् बह्वमन्यन्त ॥ १० ॥ के * भाषानुवाद:otect वृत्रासुरकी वीरवाणी और भगवत्प्राप्ति श्रीशुकदेवजी कहते हैं- परीक्षित्! असुरसेना भयभीत होकर भाग रही थी । उसके सैनिक इतने अचेत हो रहे थे कि उन्होंने अपने स्वामीके धर्मानुकूल वचनोंपर भी ध्यान न दिया ॥ १ ॥ - * वृत्रासुरने देखा कि समयकी अनुकूल- ताके कारण देवता लोग असुरोंकी सेनाको खदेड़ रहे हैं और वह इस प्रकार छिन्न-भिन्न हो रही है, मानो बिना नायककी हो ॥ २ ॥ * * राजन् ! यह देखकर वृत्रासुर असहिष्णुता और क्रोधके मारे तिलमिला उठा । उसने बलपूर्वक देव- सेनाको आगे बढ़नेसे रोक दिया और उन्हें डाँटकर ललकारते हुए कहा || ३ |’ * * ‘क्षुद्र देवताओ ! रणभूमिमें पीठ दिखानेवाले कायर असुरोंपर पीछेसे प्रहार करनेमें क्या लाभ है। ये लोग तो अपने मा बापके मल-मूत्र हैं । परन्तु अपनेको शूरवीर माननेवाले तुम्हारे जैसे पुरुषोंके लिये भी तो डरपोकों को मारना कोई प्रशंसाकी बात नहीं है और न इससे तुम्हें स्वर्ग ही मिल सकता है ॥ ४ ॥ * यदि तुम्हारे मनमें युद्ध करनेकी शक्ति और उत्साह है तथा अब जीवित रहकर विषय-सुख भोगनेकी लालसा नहीं है, तो क्षणभर मेरे सामने डट जाओ और युद्धका मजा चख लो ॥ ५ ॥ * * परीक्षित ! वृत्रासुर बड़ा बली था । वह अपने डील-डौलसे ही शत्रु देवताओंको भयभीत करने लगा । उसने क्रोधमें भरकर इतने जोरका सिंहनाद किया कि बहुत से लोग तो उसे सुनकर ही अचेत हो गये ॥ ६ ॥ * * वृत्रासुरकी भयानक गर्जनासे सब-के-सब देवता मूर्च्छित होकर पृथ्वीपर गिर पड़े, मानो उनपर बिजली गिर गयी हो ॥ ७ ॥ * अब जैसे मदोन्मत्त गजराज नरकटका वन रौंद डालता है, वैसे ही रणबांकुरा वृत्रासुर हाथमें त्रिशूल लेकर भयसे नेत्र बंद किये पड़ी हुई देवसेनाको पैरोंसे कुचलने लगा। उसके वेगसे धरती डगमगाने लगी ॥ ८ ॥ * * वज्रपाणि देवराज इन्द्र उसकी यह करतूत सह न सके। जब वह उनकी ओर झपटा, तब उन्होंने और भी चिढ़कर अपने शत्रुपर एक बहुत बड़ी गदा चलायी । अभी वह असह्य गदा वृत्रासुरके पास पहुँची भी न थी कि उसने खेल ही खेलमें बायें हाथ से उसे पकड़ लिया ।। ९ ।। * * राजन् ! परम पराक्रमी वृत्रासुरने क्रोधसे आग-बबूला होकर उसी गदासे इन्द्रके वाहन ऐरावतके सिरपर बड़े जोरसे गरजते हुए प्रहार किया। उसके इस कार्यकी सभी लोग बड़ी प्रशंसा करने लगे ॥ १० ॥ कं. ६ अ. ११ . ११-२०] 1 ि अनेकन्याख्या समलङ्कृतम् ऐशवतो वृत्रगदाभिसृष्टये विघूमितोऽद्रिः कुलिशाहतो प्रथा । अवासरद् भिन्नमुखः सहेन्द्रो मुञ्चनकू सप्तधनुर्भृशार्तः ॥ ११ ॥ स सन्नवाहाय विषण्णचेतसे प्रायुङ्क्त भूयः सगदां महात्मा । । इन्द्रोऽमृतस्यन्दिकराभिमर्शवितव्यथक्षतवा होऽवतस्थे ॥ १२ ॥ फिस नृपेन्द्राहकाम्यया रिपुं वज्रायुधं भ्रातृणं विलोक्य स्मश्च तत्कर्म नृशंसमहः शोकेन मोहेन हसञ्जगाद ॥ १३ ॥ …. के म ल THE PRIESTER TRE गण पत्र उवाच आदिष्टया भवान् में समवस्थितो रिपुयों ब्रह्महा गुरुहा भ्रातृ । दिष्टयानृपोऽयाहमसत्तम त्वया मच्छूलनिभिन्न पद्द्राचिरात् ॥ १४ ॥ यो नोऽग्रजस्यात्मविदो द्विजातेर्गुरोरपापस्य च दीक्षितस्य । यी विश्रभ्य लोग शिरांस्वनुश्चत् पशोरिवाकरुणः खर्गकामः ॥ १५ ॥ हीश्रीयाकीतिभिरुज्झितं त्वां स्वकर्मणा पुरुषादेव गम् । कच्छे मच्छूलविभिन्नदेहमस्पृष्टवद्धिं समन्ताः ॥ १६ ॥ कृच्छ्रेण ।। ।। अन्येऽनु ये त्वेह नृशंसमज्ञा ये ह्युद्यतास्त्राः प्रहरन्ति माम् । तैर्भूतनाथान् सगणान् निशात त्रिशूलनिर्भिन्नु गलैर्यजामि ॥ १७ ॥ अथो हरे में कुलिशेन वीर हर्ता प्रमथ्यैव शिरो यदीह । तत्रानृणो भूतबलि विधाय मनस्विनां पादरजः प्रवत्स्यै ॥ १८ ॥ - सुरेश कस्मान्न हिनोषि वज्रं पुरः स्थिते वैरिणि म्रय्यमसोघम् । मा संशयिष्ठान गदेव बज्रं स्पान्निष्फलं रूपणार्थेव याच्या ॥ १९ ॥ नन्वेष वज्रस्तव शक तेजसा हरेर्दधीचेस्तपसा च तेजितः तेनैव शत्रुं जहि विष्णुयन्त्रितो यत्ती हरिर्विजयः श्रीर्गुणास्ततः ॥ २० ॥ · * कृष्णप्रिया व्याख्या * ३६१ अन्वयः - वृत्रगदाभिसृष्टः यथा कुलिशाहतः अद्रिः विघूर्णितः भिन्नमुखः अटक मुंबन भृशार्तः ऐरावतः सहेंद्र: सप्तधनु अवासरत् ॥ ११ ॥ महात्मा सः सन्नवाहाय विषण्णचेतसे सगदां भूयः न प्रयुक्तः अमृतस्यन्दिकराभि- मर्शवीतव्यथक्षतवाहः इन्द्रः अवतस्थे ॥ १२ ॥ * सः नृपेन्द्राहवकाम्यया वायुवम् आगृहणम् तम् रिपुम् विलोक्य च तत् नृशंसम् अंहः कर्म स्मरने शोकेन मोहन हसत जगाद ॥ १३ ॥ * ४ असत्तम वः ब्रह्महा गुरुहा च भ्राटहा भवान् रिपुः दिष्टया से समवस्थितः अद्य मच्छूलनिर्भिनदषधवृद्धा स्वया दिष्टया अचिरात् अनृणः ॥ १४ ॥ यःनः अग्रजस्य आत्मविदः द्विजातेः गुरोः अपापस्य च दीक्षितस्य शिरांसि विश्रभ्य स्वर्गकामः अकरुणः पशोः इव खङ्गेन अवृ- श्चत् ।। १५ ।। * * ह्रीश्रीदयाकीर्तिभिः उज्झितम् च स्वकर्मणा पुरुषादैः गर्ह्यम् कृच्छ्रेण मच्छूलविभिन्नदेहम् त्वाम् अस्पृष्टवहिं गृध्राः समदन्ति ॥ १६ ॥ इह ये अन्ये नृशंसम् त्वा अनु ये हि अज्ञाः उद्यताखाः मह्यम् प्रहरन्ति निशात- त्रिशूलनिर्भिन्नगलैः तैः सगणान् भूतनाथान् अजामि ॥ १७ ॥ * * अयो बीर हरे यदि इह भवान् कुलशेन प्रमथ्य एव rathase मे शिरः हर्ता तत्र अनृण: भूतबलिम् विधाय मनस्विनाम् पादरजः अपत्स्यें ॥ १८ ॥ * सुरेश वैरिणि मयि पुरः स्थिते FREE शिfter he TE IFPEher १.०० ४६ ॥ मशीषथः प० । २० पा०-होभितस्थे । ३. प्रा० पा क्ष० ३६२ श्रीमद्भागवतम् [ स्कं. ६ अ. ११. लो. ११-२० अमोधम् वज्रम् कस्मात् न हिनोषि गदा इव मा संशयिष्ठाः कृपणार्थी याच्या इव निष्फलम् न स्यात् ॥ १६ ॥ * * शक्र ननु एषः तव वज्रः हरेः तेजसा च दधीचेः तपसा तेजितः विष्णुयंत्रितः तेन एवं शत्रुम् जहि यतः हरिः ततः विजयः श्रीः गुणाः ।। २० ।। WEDE TAM W SPIR HARIPÉ PISIPPE Y श्रीधरस्वामिविरचिता भावार्थदीपिका सप्तधनुः प्रमाणं देशम् ॥ ११ ॥ सन्नोऽवसन्नो वाहो यस्य तस्मै न प्रायुक्त अमृतस्यंदी अमृतस्रावी यः स्वकरस्तेनाभिमर्शः स्पर्शस्तेन बीतव्यथो गतदुःखः क्षतो बाहो यस्येंद्रस्य स तथाभूतो योद्धुमवतस्थे ।। १२ ।। * * स वृत्रः । हे नृपेंद्र । आहवकाम्यया युद्धेच्छयाऽवस्थितम् । भातृहणं भ्राता विश्वरूपस्तस्य हंतारम् । नृशंसं क्रूरं तदेवांहः पापं तस्य कर्म स्मरन् ॥ १३ ॥ * * यो ब्रह्म ब्राह्मणं हतवान्विशेषतः स्वगुरुं मम च भ्रातरं स भवानप्रतः समवस्थितः एतद्दिष्टया भद्रं जातम् । दिष्टयेत्यव्ययमानंदार्थे । हे असत्तम मम शूलेन निर्भिन्नं दृषत्तुल्यं हृत् हृदयं यस्य तेन त्वया निमित्तभूतेनाद्याचिरादेव भ्रातुरनूणोऽहं स्यामेतच दिष्टया ॥ १४ ॥ - * स्वर्गकामो यो भवानवृश्चत् । स्वर्गकामो याज्ञिकः पशोरिवेति न वा ॥ १५॥ * तं त्वामस्पृष्टवह्निमदग्धदेहं समदति । वर्तमानसामीप्ये वर्तमानव- निर्देशः ।। १६ ।। * अन्येऽपि ये अज्ञा इह त्वा त्वां नृशंसमनु मामुद्यतास्त्राः संतो यदि प्रहरंति तैर्भूतनाथान्भैरवा- दीन्यक्ष्यामि । कथंभूतैः । निशात तीक्ष्णीकृतं यन्मम त्रिशूलं तेन निर्भिन्नो गलो येषां तेन निर्भिन्नो गो येषां तैः ॥ १७ ॥ अथ अथ वा । हरे भो इंद्र । यदि भवानेव मम शिसे हर्ता हरिष्यति तत्र तथा सत्यनृणो विमुक्तकर्मबंधः सन्भूतेभ्यो बलिं देहेन विधाय मन- स्विनां पादरजः प्रपत्स्ये धीराणां पदं प्राप्स्यामि ॥ १८ ॥ * * जीवितादपि मृत्युरेव ममाभिमत इत्याशयेनाह । सुरे- शेति । न हिनोषि न हि क्षिपसि । गदेव विफलो यास्यतीति संशयं मा कार्षीः । कृपणादर्थः प्रयोजनं यस्याः सा याच्या यथा निष्फला तथा न स्यात् ॥ १९ ॥ * * अमोघत्वे हेतुं वदस्तं प्रोत्साहयति नन्विति । तेजितस्तीक्ष्णीकृतः । शत्रु ं मां जहि । विष्णुना यंत्रित: प्रेरितः ॥ २० ॥ ॥ PA वंशीधरकृतो भावार्थदीपिकाप्रकाशः 1 शिट्टी PRIME Frbie B
। अभिमृष्टस्ताडितः । कुलिशाहतो, बज्राभिहतः । अपासरन्त्तिर्यक् पृष्ठतो वा गतः । सप्तधनुरष्टाविंशतिहस्त- प्रमाणम् ॥ ११ ॥ * * महात्मा धर्मयुद्धकर्ता ।। १२ ।। * * नृपेंद्रेति । यथा त्वं नृपेंद्रः संमुखागतं शत्रु न सहसे तथा सोप्यसुरेंद्रः कथं तादृशारि सहतेति भावः । शोकेन शोकरूपेण मोहेनाज्ञानेन । यद्वा-शोकानामिनः स्वामी यो मोहोऽज्ञानं तेन ॥ १३ ॥ * * असत्तमेति । ब्रह्महत्यादि दोषैरतीव दुष्टोऽस्यतस्तव राज्ञोऽपि ववे मे न दोषो भविष्यतीति भावः । दृषत्तुल्यं कठिनमनार्द्रमित्यर्थः । अनृणः तत्प्रक्रिया करणेनापवादरहितो भविष्यामीत्यर्थः ॥ १४ ॥ प्रथमं तु ब्रह्मवध एव महापापस्तत्राप्यात्मविदस्तत्रापि निजगुरोस्तत्राप्यपापस्य तत्रापि दीक्षितस्य कृतयज्ञदीक्ष स्याहो स्वादृशपापिष्ठतमो लोके नान्योस्तीति । शिरांसीति बहुत्वेनानेक ब्रह्महत्यासूचि । न हि स्वर्गकामेन ब्रह्महत्या क्रियतेऽहो अत्यनु- चितं ते कर्मेत्यर्थः । “स्वर्गकामो यजेत” इति श्रुतिप्रसिद्धो यजमानो वात्र दृष्टांत इत्याह–याज्ञिक इति ॥ १५ ॥ * अस्पृष्टवह्निमित्यशेषनाशोऽसूचि निःशेषं ते शरीरं चूर्णयिष्यामीति भावः ॥ १६ ॥ * * नृशंसं क्रूरम् ‘नृशंसो घातुकः क्रूर: ’ इत्यमरः । आदिना रुद्रादिप्रहः ॥ १७ ॥ हे हरे इति । दिव्यहरितेजोखवत्त्वात्त्वमेव मां हरिष्यसीति भावः । धीराणां शूरवीराणां लोकं प्राप्स्याम्येवेति भावः । त्वं तु मृतोऽपि ब्रह्मघ्नत्वाद दुर्गतिमेव यास्यसीति भावः ॥ १८ ॥ * सुरेशेति । मामहत्वा तव सुरेशता न स्थास्यतीति भावः । प्रार्थितो हि कृपणो गालीप्रदानं बिना प्रार्थितं न ददाति किं तु गालीरेव तत्र यथा याच्या वृथा भवति तथा वजू’ न वृथा भविष्यतीत्यर्थः । तत्र हेतु: अमोघमिति । भगवत्तेजोयुक्तास्थिनिर्मित- त्वात्सफलमित्यर्थः ॥ १९ ॥ * * ननु निश्चये । हे शक्रेति । विष्णुसहायेन मां हन्तुं शक्तोसीति भावः । य एष तब वज्रस्तेन यतो यत्र यत्पार्श्वे इत्यर्थः । एवं तत इति ॥ २० ॥ अन्वितार्थप्रकाशिका ऐरावत इति । वृत्रगदयाऽभिमृष्टः अभिहतः भिन्नमुखः विदीर्णवक्त्रः भृशार्त्तः अतिपीडितः सहेन्द्रः इन्द्र वहन- त्यर्थः । ऐरावतः असृङ् मुञ्चन् निघूर्णितः सन् सप्तधनुः प्रमाणमष्टाविंशतिहस्तमात्रं देशमपासरत् तिर्यक् पृष्ठतो वा गतः। यथा कुलिशेनाहतोऽद्रिस्तथेति ॥ ११ ॥ नेति । सन्नोऽवसन्नो वाहो वाहनं यस्य तस्मै अत एव विषण्णं विषादेन व्याकुलं चेतो यस्य तस्मै इन्द्राय महात्मा धर्मात्मा स वृत्रो भूयो गदां न प्रायुक्त न विक्षेप । इन्द्रस्तु अमृतस्यन्दी अमृतस्रावी * कं. ६. अ. ११ . ११-२०] 8 अनेकव्याख्यासमलैंड कृतम् ३६३ यः स्वकरस्तेनाभिमर्शः स्पर्शस्तेन वीता गता व्यथा पीडा यस्य तथाभूतः क्षतो वाहो हस्ती यत्य स तथाभूतोऽक्तस्थे ॥ १२ ॥ स इति । हे नृपेन्द्र ! आहवकाम्यया युद्वेच्छया बज्रायुधं वज्रं गृहीत्वाऽवस्थितं रिपुं भ्रातृणं विश्वरूपं हतवन्तं तमिन्द्रं विलोक्य नृशंसं क्रूरं तत्कृतमंहः पापरूपं कर्म च स्मरन् शोकेन मोहेन भ्रातृस्नेहेन च संतप्तः हसन् जगाद । रिपोरवज्ञार्थ क्रोधजोऽयं हासः ॥ १३ ॥ * * दिष्टचेति । हे असत्तम ! यो ब्रह्मा ब्राह्मणं हतवान् एवं स्वगुरुहा च मम भ्रागृहाच रिपुर्भवानद्य मे ममाग्रतः समवस्थितः एतद्दिष्टया भद्रं जातमित्यर्थः । मम शूलेन निर्भिन्नं दृषत्तुल्यं पाषाणसदृशं हृत् हृदयं यस्य तेन त्वया निमित्तेन अद्य अचिरादेवाहं भ्रातुरनृणः स्यामेतद्दिष्टचच भद्रमेव ॥ १४ ॥ ४ य इति । यः स्वर्गकामो भवानात्मविदः द्विजातेर्ब्राह्मणस्य स्वगुरोः नारायणकवचोपदेष्टुः अपापस्य दीक्षितस्य यज्ञे दीक्षावतः नोऽस्माकममजस्य विश्वरूपस्य विश्रभ्य उपाध्यायतया वरणेन विश्वासं दत्त्वा खङ्गेन शिरांसि अवृश्चत् । स्वर्गकामो याज्ञिकः पुरुषः अकरुणः दयाशून्यः सन् यथा पशोः शिरः छिनत्ति तद्वदित्यर्थः ॥ १५ ॥ * हीति । एवंभूतविश्वरूपवधादेव ह्रीश्रीदयाकीर्तिभिः सद्गुणैरुज्झितं त्यक्तं रहितं पुरुषान अदन्तीति पुरुषादाः राक्षसास्तेऽपि गुरुतया स्वीकृतं सेवन्त एव न तु तद्धननं कुर्वन्ति । तत्करणात्तेन गुप्ता स्वकृतेन कर्मणा तैरपि गह्यं निन्द्यं मच्छूलेन विभिन्नो देहो यस्य तम् अत एव कृच्छ्रेण मृतम् अतो महाघोरे युद्धे मृतस्य मदमतो दाहार्थनयनस्याशक्यत्वादस्पृष्टवह्निमदग्धदेहं समदन्तीति वर्तमानसामीप्ये वर्तमानवनिर्देशे नात्र विलम्बः संदेहश्व नास्ति ।। १६ ।। * अन्य इति । अन्ये तु येऽज्ञा मत्प्रभावानभिज्ञास्तु त्वा त्वां नृशंसं क्रूरमनुवर्तमानाः यदि उद्यतास्त्राः सन्त इह संग्रामे मां मां प्रहरन्ति प्रहरिष्यन्ति तदा निशातेन तीक्ष्णीकृतेन शूलेन भिन्नो गलो येषां तैः सगणान् भूतप्रेतादिगण- सहितान् भूतनाथान् भैरवादीन् यजामि यक्ष्यामीत्यर्थः । वर्त्तमानत्वनिर्देशः प्राग्वत् ॥ १७ ॥ * * अथो इति । हे वीर ! हे हरे इन्द्र ! अथो अथ वा इह संग्राम मे यदि प्रमध्य मम सेनां विलोडच कुलिशेन वज्र ेण मम शिरो भवानेव हर्त्ता हरिष्यति तत्र तर्हि मृतेन स्वशरीरेण भूतेभ्यो बलिं विधाय तेभ्योऽनृणः सन् मनखिनां धीराणां नारदादीनां पादरजः प्रपत्स्ये । यत्र ते गच्छन्ति तद्भगवत्स्वरूपं प्राप्स्यामीत्यर्थः ॥ १८ ॥ - सुरेशेति । हे सुरेश ! पुरः स्थिते वैरिणि मयि अमोघं वज्र’ कस्माद्धेतोर्न हिनोषि न क्षिपसि । गदेव वजमपि निष्फलं भविष्यतीति मा संशयिष्ठाः संशयं मा कार्षीः । कृपणादर्थः प्रयोजनं यस्याः सा याच्या यथा निष्फला भवति तथा वजू न स्यात् ॥ १६ ॥ नन्विति । निश्चितमेतत् । हे शक्र ! एष तब वजो हरेस्तेजसा दधीचेस्तपोजनिततेजसा च तेजितस्तीक्ष्णीकृतोऽतो विष्णुना यन्त्रित: प्रेरितः त्वं तेनैव वज्रेण शत्रु मां जहि । यतः यत्र पक्षे हरिस्ततस्तस्मिन् पते विजयः श्रीर्गुणाश्च दयासन्तोष सौशील्यादयो भवन्तीत्यर्थः ॥ २० ॥ * ॥ ॥ वीरराघवव्याख्या ।। * prope 1 एवमैरावतो वृत्रस्य गदयातीव विद्धस्ताडितो वज्रायुधाहतोऽद्रिरिव विघूर्णितो भ्राम्यमाणः भिन्नं मुखं यस्य सः । नितरामार्त्तः असृरक्तं मुञ्चन् सहेन्द्रः सप्तधनुः प्रमाणमपासरत्पश्चाद्गच्छत् ॥ ११ ॥ स वृत्रो महात्मा युद्धधर्मा- भिज्ञः । अतः एव सन्नवाहाय सन्नः अवसन्नः दुःखितो वाहो यस्य तस्मै दुःखितचित्तायेन्द्राय पुनर्गदां न प्रायुक्क्त । तत इन्द्रः अमृतस्त्राविस्कराभिमर्शेन विगता व्यथा यस्य । तथात्वेन कृतो वाहो यस्य । तथाभूतोऽभितष्ठौ क्षतवाह इति पाठे पूर्व क्षतो वृत्रेण ताडितो यो वाहो गजः येनेन्द्रेणामृतस्यन्दिकराभिमर्शेन वीतव्यथः गतव्यथः अमृतस्यन्दिकराभिमर्शवीतव्यथः । क्षतो बाहो यस्येत्यर्थः । अभितष्ठौ अभिमुखं स्थितः ॥ १२ ॥ * * हे नृपेन्द्र ! स वृत्र आहवकाम्यया युद्धेच्छया अवस्थितं वज्रम् आयुधं यस्य तम् । भातृणं भ्रातरं विश्वरूपं छतवन्तं रिपुमिन्द्रं विलोक्य तस्येन्द्रस्य कर्म भ्रातृहननरूपं नृशंसं क्रूरमंह: पापं शोकेन हेतुना स्मरन्पश्चान्मोहेन हसन् जगादेन्द्रं प्रत्युवाच ॥ १३ ॥ * * -गदितमेवाह । दिष्टयेत्यादिना योवद- ध्यायसमाप्ति। यो भवान रिपुः दिष्टया दैववशान्ममामतः समवस्थितः प्राप्तः कथंभूतः यस्त्वं ब्रह्मा ब्राह्मणं हतबान् । तत्रापि स्वगुरुं मम च भ्रातरं हतवान् । असत्तम मच्बूलेन निर्भिन्नं दृषत्तुल्यं हृदयं यस्य तेन त्वया निमित्तभूतेनाद्याचिरान्मम भ्रातु- विश्वरूपस्यानृर्णोऽहं दिष्टया भविष्यामि ॥ १४ ॥ * * करुणारहितः यो भवान्नोऽस्माकमप्रजस्य द्विजातेस्तत्रापि ब्रह्मविदः गुरोरपापस्य पुनर्दीक्षितस्य यज्ञीयदीक्षायामवस्थितस्य विश्वरूपस्य शिरांसि खनेनावृश्चश्चिच्छेद यथा स्वर्गकामो याज्ञिकः पशोः शिरश्छिनत्ति तद्वत् । द्विजातित्वादीनि विशेषणान्यवध्यत्वसूचकानि ॥ १५ ॥ * * अतो हिया लज्जया श्रिया सम्पदा दयया कीर्तिभिर्यशोभिश्वोज्झितं परित्यक्तं निकृष्टेन स्वकर्मणा पुरुषादैः पिशाचैरपि गर्ह्य निन्द्यं त्वामद्य मच्छूलेन विभिन्नो देहो यस्य । अस्पृष्टवह्निमदग्धदेहमित्यर्थः । गृधाः सम्यगदन्यत्स्यन्ति “ वर्त्तमानसामीप्ये वर्त्तमानवद्वा" इति लट् ।। १६ ।। अपि अपि च नृशंसं त्वामनुसृत्य ये देवा अज्ञाः मूढाः सन्तः इह युद्धे उद्यतास्त्राः मह्यं यदि प्रहरन्ति । तर्हि तैनिशातेन तीक्ष्णेन त्रिशूलेन निर्भिन्नाः गलाः कण्ठा येषां तैः सगणान् भूतनाथान् यजामि यक्ष्यामि ॥ १७ ॥ * एवं स्वपौरुषानुरूप- मुक्त्वाथ युद्धे स्वं देहं जिहासुर्मा जहीति शक्रं प्रार्थयते । अथो इति । अथवा हें हरे ! इन्द्र । हे वीर ! भवानेव इह युद्धे कुलि- ३६४- मद्भागवतम् स्क. १ अ. ११ लो. ११-२० शेन वज ेण यदि मम शिरो हर्ता हरिष्यति तत्र तथा सति मद्देन भूतेभ्यो बलि विधायानृणः विमुक्तकर्मबन्धस्सन मनखिनां पादरजः प्रपत्स्ये पादरजः सहचरितं मार्ग प्रपत्स्ये ज्ञानिनां गति प्राप्स्यामीत्ययः ॥ १ ॥ हे सुरेश ! इन्द्र ! अग्रतः स्थिते वैरिणि तव शत्रौ मय्यमोधमप्रतिहत वज्रः कस्माद्धेतोर्न हिनोषि न मुञ्चसि न प्रयुक्ते इत्यर्थः । मदावन्निष्फलो भविष्यती- त्याशङ्कया न प्रहिणोमीत्यत्राह । गदेव गदावत्कृपणाय कृपणपुरुषादर्थः प्रयोजन यस्थानी साः याचमेव च वजो न निष्फलः स्यादतो मा संशयिष्टाः संशयं मा कुरु किन्तु प्रहिण्वित्यर्थः ॥ १९ ॥ अनिष्फलले हेतु बदन तं प्रोत्साहयति । ननु इति । है शक्र ! तव वजू: हरेर्भगवत तेजसा दधीचों मुनेस्तपसा च तेजितस्तीक्ष्णीकृतः । अतः कारणात्तेनैव वज्रेण विष्णुना यन्त्रित आदिष्टो मां शत्रु जहि मारय । हरिभगवान् यतो यसिन् पते ततस्तस्मिन् पत्तेः श्रीः राज्यसम्पद्विजयः गुणाः प्रभुत्वा- दयो गुणाश्च भवन्ति ॥ २० ॥ ! विजयध्वजतीर्थकृता पदरत्नावली वृत्रगदाभिमृष्टोऽभिहतोऽपासरन् । तिर्यक पृष्ठतो वा गतः ॥ ११ ॥ ॥ श सन्नवाहाय विचलितवाहनाय पुनः गदां न प्रायुक्त अमृतसाविणा करेण कृतेन अभिमशेन स्पर्शलक्षणेन बीतव्यथः वीतां गता व्यथा यस्य सः । क्षतः वाहों यस्य स तथा ॥ १२ ॥ भ्रातृणं विश्वरूपस्य हन्तारसंहः पापरूपं मोहेन अज्ञानेन ॥ १३ ॥ * * ब्रह्महत्यादिक- मेकं विश्वरूपमपेक्ष्योच्यते । अमृणो भ्रातृमरणप्राप्तर्णेन ही वृदा पाषाणवत्कठिनहृदयेन ॥ १४ ॥ यजमानः विस्रभ्य विश्वत्य ॥ १५ ॥ * स्वर्गकामो ही श्रीदया कीर्तिभिरुज्झित रहितं समदन्तु भक्षयन्तु । अस्पृष्टवह्निमित्यनेन हरे ! इन्द्र ! इह युद्धे तत्र तर्हि इहास्मिन् जन्म- हिनोषि मुखसि मा निःशेषनाशं सूचयति ॥ १६ ॥ * * त्वानु त्वामनु ॥ १७ ॥ न्येव मनखिनां पूर्व वीरस्वर्गगतानां पादरजः प्रपत्स्यें तेषां लोक गमिष्यामीत्यर्थः ॥ १८ ॥ संशयिष्ठाः संशयं माकार्षीः । भगानों भाग्यानां सम्पदा देवनाथदात अहल्याजारिति निन्दां वा सूचयति । प्रयुक्तं वजू नितरां फलतीति निष्फल प्रयोजनवत् स्यात् । किन्तु । कृपणणार्यां दरिद्रविषया याच्या व्यर्थी भवति यथा तथा न स्यादित्यर्थः ॥ १६ ॥ हे शक ! य एवं तव वजूः हरेस्तेजसा दधीचेस्तपसा च तेजितो निशितः तेनैव शत्रु’ माँ जहीत्यन्वयः । विष्णुयन्त्रितो विष्णुवशो यतो यत्र हरिस्ततस्तत्रापि जयादिगुणा: ॥ ॥ ।। २० ।। विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी काह ‘’: भिन्नमुखः विदीर्णवक्त्रः सप्तधनुरष्टाविंशतिहस्तमात्रम् ॥ ११ ॥ * सन्नोऽवसन्नो वाहो यस्य तस्मै । अमृत- स्यन्दी अमृतस्रावी यः स्वकरस्तस्याभिमर्शन स्पर्शेन गतव्यथः ॥ १२ ॥ नृशंसं क्रूरम् ।। १३ ।। * * मच्छूलेन निर्भिन्नं तुल्यं यस्य तथाभूतेन सता अग्राहमनृणो ऽभूवम् ॥ १४ ॥ * स्वर्गकामों याज्ञिको भवांश्व ॥ १५ ॥ समदन्तीति “वर्त्तमानसामीप्ये वर्तमानवद्व।” इति लट् ॥ १६ ॥ * * अन्ये ये त्वा त्वामनुगताः तैर्यजामि यक्ष्यामि । असुर- द्वारैव तेन चासुरान् असुरेष्टदेवान् भूतनाथश्च प्रीणयामीत्यर्थः ॥ १७ ॥ ** अथो अथवा । भूतेभ्यः शृगलादिभ्यो बलि स्वदेहेनातिस्थूलेन विधाय दत्त्वा अनृणः शोधितऋणः सन् मनस्विनां श्रीनारदादिभक्तानां पादरजः प्राप्स्यामि ।। १८ ।। * * त्वं यथा जीवित्वा स्वर्गीयविषयभोगमभिलषसि तथैवाह मृत्वा बैकुण्ठे भगवतः साक्षाचरणसेवामभिलषामीति तव च मम चाभिष्ट सिध्यतु किमिति मधे विलम्ब से इत्याह । सुरेशेति । वज्रक्षेपस्यैवम्भूतं लक्ष्यं कदा प्राप्स्यसीत्याह । पुर एव केवलं स्थिते । । न तु कमपि प्रतीकार कुर्वतीत्यर्थः । ननु महासत्त्वे त्वयि कदाचिद्वजदेवों निष्फलः स्यादिति शङ्के तत्राह । अमोघमव्यर्थम् । ननु गदा यथा मदीयैव त्वत्पाणिगता मम पीडाकरी साक्षादेवाभूत् तथैव च यदि वजोऽपि स्यात्तदाह किं करिष्यामीत्यत आह । मेति । कृपणादर्थं प्रयोजनं यस्याः सा याचना यथा निष्फला तथा वजू निष्फलं न स्यात् ॥ १९ साथ ॥ ॥ * अमोघत्वे हेतु वंदन प्रोत्साहयति साहयति । नन्विति । हरे मंगवतस्तेजसा दधीचैस्तपसा च तेजितस्तीक्ष्णीकृतः। विष्णुना यन्त्रितः प्रेरितः यतो यत्र पक्षे ॥ २० ॥ N
- शुकदेवकृतः सिद्धांतप्रदीपः । । ● गदया अभिमृष्टः ताडितः भिन्नमुखो विदीर्णवक्त्रः सप्तधनुः परिमितं देशम् ।। ११ ।। * * स महात्मा महामनाः सन्नोऽवसन्नो वाहो यस्य तस्मै । विषण्णचेतसे भूयो गदां न प्रयुक्त । अमृतस्यन्दी पीयूषस्रावी यः करस्तेनाभिमर्शः स्पर्शस्तेन बीता व्यथा क्षतं च यस्य से वाही यस्य सः इन्द्रः अवतस्थे ॥ १२ ॥ * * तस्येन्द्रस्य नृशंस कर कर्म तदेवांहः पापम् ।। १३ ।। * * यो में रहा अतो रिपुः ब्रह्महा गुरुहा च अत: है असत्तम ! भवान् दिष्टया भई ! . ६. अ. ११ . ११-२०] अनेकव्याख्यासमलङ्कृतम् ३६५ समवस्थितः । विष्टया अद्य मच्छूलेन भिन्नं रषदा पाषाणेन सदृशं हृत् यस्य तेन त्वयाहमचिरादनृणः भविष्यामि भ्रातुरिति शेषः १४-१५ ।।
- अस्पृष्टवन्हिमलब्धदाहक्रियम् । समदन्तीति वर्तमानसामीप्ये वर्तमानवत्” इति लट् ॥ १६ ॥ येऽन्ये अज्ञाः मृशंसं क्रूरं त्वामनु ययुद्यतात्राः मह्यं मां प्रति प्रहरन्ति तदा तीक्ष्णीकृतेन त्रिशूलेन भिन्नो गो येषां तैः । सगणान् भूतनाथान् यजामि ॥ १७ ॥ * * अथो अथवा ॥ हें हरे ! इन्द्र ! यदि भवानिह कुलिशेन प्रमध्य मै शिरो हर्ता हरिष्यति तत्र तदा अनृणः यदर्थमुत्पादितः पित्रा तत्कृते मृतस्य ऋणित्वाभावात् देहेन स्वकीयेन भूतबलिं क्रव्यादानां भोजनं विधाय मनखिनां पादरजस्तैः प्राप्तां गतिं प्रपत्स्ये प्राप्स्यामि ॥ १८ ॥ मा संशयिष्ठाः संशय मा कार्षीः ॥ १४ ॥ दधीचेस्तपसा हरेस्तेजसा च तेजितः तेन शत्रु मां विष्णुना यन्त्रितः प्रवर्तितो जहि । यतो यस्मिन् पक्ष हरिस्ततस्तस्मिन् पत् विजयः श्रीः गुणाः सर्वादरणीयत्वादयश्च स्युः || २० ।। गोस्वामिगिरिधरलालविहिता बालप्रबोधिनी वृत्रगदयाऽभिमृष्टोऽभिहतोऽतो विघूर्णितः सन् सप्तधनुः प्रमाणं देशमपासरत् तिर्यक पृष्ठतो वा गतः ! विघूर्णे दृष्टान्तः- कुलिशाहतोऽद्रिर्यथेति । अपसरणे हेतुः भृशार्तः अतिपीडितः । तत्र हेतुः - असृक् मुञ्चन्निति । तत्र हेतुः - भिन्नं विदीर्ण मुखं यस्येति ॥ ११ ॥ सन्नोऽवसन्नो बाहो यस्यातस्मै अत एव विषण्णं विषादेन व्याकुलं चेतो यस्य तस्मै इन्द्राय स वृत्रो भूयो गढ़ा न प्रायुक्त न चिक्षेष । यतो महात्मा एवम्भूतायां दशायां रिपुर्न हन्तव्य इति महति धर्मे आत्मा मनो यस्य सः । इन्द्रस्तु अमृतस्यन्दी अमृतस्रावी यः स्वकरस्तेनाभिमर्श: स्पर्शस्तेन वीता मता व्यथा पीडा यस्य तथाभूतः क्षतो वाहो हस्ती यस्य स तथाभूतोऽवतस्थे ॥ १२ ॥ * * हे नृपेन्द्रेति सम्बोधनं वृत्रवाक्यानाम् उभयलोकोपकारकत्वात्तानि प्रदर्श्यमानानि त्वया सावधानतया श्रोतव्यानीति सूचनार्थम् । स वृत्रस्तमिन्द्रं विलोक्य शोकेन सन्तप्तो हसन् जगादेत्यन्वयः । तदर्शनस्य शोकहेतुत्वं स्पष्टयस्तं विशिनष्टि-रिपुं शत्रुमिति । तत्र हेतुमाह - भ्रातृहणमिति, भ्रातरं विश्वरूपं हतवन्तमित्यर्थः । तथापि आहवकाम्यया युद्धेच्छ्या बज्रायुधे गृहीत्वाऽवस्थितमिति । नृशंसं क्रूरस्वभावम् । यदि तत्कृतं पूर्व कर्म विस्मृतं स्यात्तदा तं दृष्ट्वाऽपि शोको न स्यादत आह-तत्कृतमहः पापरूपं कर्म च स्मरन्निति । तथापि विवेकिनः शोको नैव सम्भवति गर्वेण हासश्च कथं स्यादिति शङ्कानिराकरणायाह— मोहेनेति, अज्ञानात् सर्व सम्भवतीत्यर्थः ॥ १३ ॥ वृत्रवाक्यान्येव दर्शयति– । दिष्टचेति चतुर्दशभिः । भवानय मे ममायतः समवस्थित एतद्दिष्ट्या भद्र जातमित्यर्थः । दिष्ट्येत्यव्ययमानन्दायें । एवं सम- वस्थानेऽपि तब भद्रं कथमिति बधयोग्यस्य तव वधादित्याशयेन सम्बोधयति - हे असत्तमेति । कथमसत्तमत्वं तत्राह - मम रिपुरिति । तत्र हेतुमाह - मे भ्रातृहति । किञ्च ब्रह्मा ब्रह्माणं हतवान् । तत्रापि विशेषतः स्वगुरुहा चेति । एवम्भूतस्य मम desपि तव भद्रं कथं स्यात्तत्राह - दिष्ट्येति । मम शूलेन निर्भिन्नं दृषतुल्य पाषाणसदृशं हृत् हृदयं यस्य तेन त्वया निमित्तेन अथ अचिरादेवाहं भ्रातुरनृणः स्याम् एतद्दिष्टया भद्रमेव ॥ १४ ॥ * * उक्तमेवार्थ स्पष्टयन् किञ्चिद्विशेषमाह-य इति द्वयेन । यः स्वर्गकामो भवान् द्विजातेर्ब्राह्मणस्य तत्रापि आत्मविदो भगवद्भक्तस्य तत्रापि स्वगुरोः श्रीनारायणकवचात्ममहा- मन्त्रप्रदस्य अपापस्य भगवद्भक्तया पापशून्यस्य दीक्षितस्य यज्ञे दीक्षावतश्च विश्रभ्य उपाध्यायतया वरणेन विश्वासं दत्त्वा खन शिरांसि अवृवत् । तं त्वा गृध्राः समदन्ति सम्यक निष्प्रतिबन्धकतया सुखेन भक्षयन्तीत्युत्तरेणान्वयः । शिरश्छेदे दृष्टान्तमाह- पशोरिवेति, स्वर्गकामों याज्ञिकः पुरुषोऽकरुणः दयाशून्यः सन् यथा पशोः शिरांसि छिनत्ति तद्वदित्यर्थः ॥ १५ ॥ * * एवम्भूतविश्वरूपवथादेव ही श्रीदया कीर्तिभिः सद्गुणैरुज्झितं त्यक्तं रहितमिति यावत । पुरुषान् अदन्तीति पुरुषादाः राक्षसा स्तेऽपि गुरुतया स्वीकृत सेवन्त एवं, न तु तद्धननं कुर्वन्ति तत्करणात्तेन स्वकृतेन कर्मणा तैरपि गद्य निन्द्यम् । मच्छूलेन विभिन्नो देहो यस्य तम् । अत अत एव कुच्छण मृतम् । अतो महाघोरे युद्धे मृतस्य मदमतो दाहार्थनयनस्य अशक्यत्वात् अस्पृष्टवह्नि- मदग्धदेहम् । समदन्तीति वर्त्तमानसामीप्ये वर्त्तमानवभिर्देशनात्र विलम्बः सन्देहश्व नाहीति सूचयति ॥ १६ ॥ नन्वेवं मयि मृतेऽपि त्वं सुखी कथं स्थास्यसि मदनुयायिनस्त्वां हनिष्यन्त्येवेत्याशङ्कयाह - अन्ये त्विति । अन्ये तु येऽज्ञा मत्प्रभा- वाभिज्ञा: त्वा त्वf नृशंस करमनुवर्त्तमाना यदि उद्यताखाः सन्त इह सङ्ग्रामे मह्यं मां प्रहरन्ति प्रहरिष्यन्ति तदा निशातेन तीक्ष्णीकृतेन शूलेन भिन्नो गली येषां तैः सगणान् भूतप्रेतादिगणसहितान् भूतनाथान् भैरवादीन् यजामि यक्ष्या- मीत्यर्थः । वर्त्तमानत्वनिर्देशस्तु विलम्बाभावसन्देहाभावसूचनाय ॥ १७ ॥ * जयपराजययोः कालकर्माधीनत्वा- 游 སྨཱ པ 1, ननु देवं स्वविजयनिश्चयं कुर्वस्त्वमपि मूर्ख एवेत्याशङ्कय पक्षान्तरमाह-अथो इति । वीरत्वात्तवापि विजय: सम्भवतीत्याशयेन सम्बोधयति है वीरैति वीरत्वे हेतु सूचयन सम्बोधनान्तरमाह - हैं हरे भो इन्द्र अथो अथवा इह सङ्ग्रामे यदि प्रमध्य मम सेनां विलोड्य कुलिशेन बजण मम शिरो भवान् हर्ता हरिष्यति तत्र तर्हि मृतेन स्वशरीरेण भूतेभ्यो बलि विधाय तेभ्योऽनृणः सन् मनस्विनी धीराणां विवेकिनां पुत्रवित्ताद्येषणात्रयशून्यानां पादरजः प्रपत्स्ये, यत्र ते गच्छन्ति तद्भगवत्स्वरूप : ૬૬ श्रीमद्भागवतम् [ स्के. ६.अ. ११ . ११-२० प्राप्स्यामीत्यर्थः ॥ १८ ॥ * एवं मम तु विजयादपि मरणमत्यभीष्टसाधनमेव अतो न भयशङ्कालेशोऽपि त्वं कुतः शङ्कीतोऽसीति पृच्छति - सुरेशेति । त्वय्येवं शङ्काविष्टत्वे सति देवानां महत्यापत्तिरापतेदिति तब शङ्कानुचितेति सूचयन् सम्बो- धयति – हे सुरेशेति । पुरः स्थिते वैरिणि मयि वजू कस्माद्धेतोर्न हिनोषि न प्रक्षिपसि । महाबलपराक्रमे त्वयि वजूमपि गदेव निष्फलं स्यादिति शङ्कया तन्न हिनोमीति चेन्नैतद्युक्तमित्याह -गदेव वजमपि निष्फलं भविष्यतीति मा संशयिष्ठाः संशयं मा कार्षीः । वज्रस्य सफलत्वायय दृष्टान्तरमाह- कृपणेति । कृपणादर्थः प्रयोजनं यस्याः सा याच्या यथा निष्फला भवति तथा वजू ं न स्यात् । कुत एवं निश्चय इति चेत्परमोदारेण भगवता प्रसन्नतया दत्तत्वादित्याशयेनाह - अमोषमिति ॥ १९ ॥ * ॐ सङ्केत उक्तमेव स्पष्टयति—नन्विति । निश्चितमेतत्, हे शक्र एष तव वज्रो हरेस्तेजसा दधीचेस्तपोजनिततेजसा च तेजितस्तीक्ष्णीकृतोऽतो विष्णुना यन्त्रितः प्रेरितः त्वं तेनैव वजण शत्रु’ मा जहि । त्वया स्वविजयादौ सन्देहो न कर्त्तव्यो यतस्तव पक्षे सहायभूतो हरि- रस्तीत्याशयेनाह—यत इति, यस्मिन् पत्ते हरिस्ततस्तस्मिन् पक्षे विजयः श्रीर्गुणाश्च दयासन्तोषसौशील्यादयो भवन्तीत्यर्थः । तेनैवे- त्येवकारेण शस्त्रान्तरेण मम वधो नैव भविष्यति तेषां प्रथमत एवं प्रस्तत्वादिति सूचयति ।। २० ।। i
- भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी ॥ । ि ऐरावत इति । वृत्रस्य गदद्याभिमृष्टस्ताडितः, ऐरावतः कुलिशाहतः वज्रायुधवजाहतः, अत एव विघूर्णितः भ्राम्यमाणः अद्रिः पर्वतः यथा, तथा विघूर्णितः, भिन्नं मुखं यस्य सः, भृशार्त्तः नितरामार्त्तियुक्तः, असृक्तं, मुञ्चन्, सहेन्द्र इन्द्रसहितः सन्नेव सप्तधनुः अष्टाविशतिप्रत्यपादक्रमम् अपासरत् पश्चादगच्छत् । ‘चतुर्हस्तं धनुः प्रोक्तं द्विहस्त इषुरुच्यते’ इति, कोशान्तरम् ।। ११ ।। * * नेति । महात्मा युद्धधर्माभिज्ञः, स वृत्रः, सन्नवाहाय दुःखितवाहनाय, विषण्णचेतसे दुःखितचित्ताय महेन्द्राय, भूयः गदां न प्रायुक्क्त । ततः इन्द्रः, अमृतस्यन्दी सुधास्रावी यः स्वकरो निजपाणिस्तेन अभिमर्शः संस्पर्शः तेन विगता व्यथा यस्य तथाभूतः क्षतबाहो यस्य तथाभूतः सन्, अभितस्थौ वृत्रस्य पुरतोऽवतस्थे ॥ १२ ॥ स तमिति । हे नृपेन्द्रः, स वृत्रः, आहवकाम्यया युद्धेच्छया, अवस्थितं, वज्रमायुधं यस्य तं रिपुं भ्रातृणं विश्वरूपाख्यस्वभ्रातुनि- हन्तारं, तमिन्द्र, विलोक्य, नृशंसमतिक्रूरम अंहः पापरूपं तत् कर्मेन्द्रकृतं कर्म, शोकेन हेतुना सारन् सन्, पश्चात् मोहेन हेतुना हसन् संश्व, जगादेन्द्र ं प्रति कथयामास ।। १३ ।। * * गदितमेवाह दिष्टयेत्यादिना यावदध्यायसमाप्ति दिष्टचेति । यः भवान्, ब्रह्मा ब्राह्मणं हतवान्, तत्रापि गुरुहा स्वगुरुं हतवान् । आहा मम भ्रातरं च हतवान् । अतः रिपुः मम शत्रुः त्वं मे सम पुरः समवस्थितः दैववशात् मदमत एत्यैवावस्थितः इदं दिष्टया । भद्रमेव जातमित्यर्थः । हे असत्तम, अचिरात् मम शूलं तेन निर्भिन्नं दृपत्तुल्यं हृद् हृदयं यस्य तेन त्वया निमित्तभूतेन, अद्य अनृणः मम भ्रातुर्ऋणरहितः अहं भविष्यामि । एतदपि दिष्टया ॥ १४ ॥ * य इति । यः अकरुणः स्वर्गकामः भवान्, नोऽस्माकम् अग्रजस्य द्विजातेः, आत्मविदः ब्रह्मविदः गुरोः, अपापस्य दीक्षितस्य च यज्ञीयदीक्षायामवस्थितत्वादुक्तविशेषणविशिष्टत्वाद्धननायोग्यस्येत्यर्थः । विश्रभ्य विश्वास्य, अकरुणः स्वर्गकामः याज्ञिकः खङ्गेन पशोः शिरः इव, शिरांसि विश्वरूपमस्तकानि खङ्गेन अवृश्वत् चिच्छेद ।। १५ ।। * * हीति । हीर्लजा च श्री: संपच दया करुणा च कीर्त्तिर्यशश्च ताभिः, उज्झितं परित्यक्तं ह्रीप्रभृतिभिर्वर्जितमित्यर्थः । स्वकर्मणा गुरुहननादिनिजकृतकर्मणा पुरुषादैश्च पिशाचैरपि, गर्ह्य निन्द्यं त्वां मम शूलेन विभिन्नो देहो यस्य तम् अस्पृष्टवह्निमदग्धदेहं ज्ञात्वा गृधाः कृच्छ्रेण, समदन्ति सम्यगत्स्यन्ति । वर्त्तमानसामीप्ये वर्त्तमानवनिर्देशः । अतिपापिनो मांसं मांसाशिगृध्रादीना- मध्यपिकृच्छ्रत एवाशनार्हमिति भावः ।। १६ ।। * * अन्येऽत्विति । किं च, इह नृशंस करें, त्वा त्वाम्, अनु पश्चाद्वर्त्त- माना:- ये अन्ये देवाः, स्वयम् अज्ञाः उद्यताखाः सन्तः, मां मां प्रहरन्ति यदि तर्हि, निशातं तीक्ष्णं यत् त्रिशूलं तेन निर्भिन्ना गलाः, कण्ठा येषां तैः तैर्देवैः सगणांस्तत्तद्रणसहितान्, भूतनाथान् भैरवादीन् यजामि यक्ष्यामि ।। १७ ।। * * एवं स्वपौरुषानुरूपमुक्तत्वाऽथ युद्धे स्वं देहं जिहासुर्मां जहीति शक्रं प्रार्थयते । अथो इति । अथो अथा वा, हे हरे इन्द्र, हे वीर, इह युद्धे, भवान् एवं, कुलिशेन वज ेण, मे मम, शिरः यदि हर्त्ता हरिष्यसि । तत्र तदा, तथा सति वा, मद्देहेनेति शेषः । भूतबलिं विधाय, मदेहमेव भूतबलिरूपं कृत्वेत्यर्थः । अनृणः विमुक्त कर्मबन्धः सन, मनस्विनां धीराणां पादजः प्रपत्स्ये । धीराणां पहुं प्राप्स्यामीत्यर्थः । तीव्रज्ञानिनां गतिं प्राप्स्यामीति भावः ॥ १८ ॥ * * जीवितादपि मृत्युरेव ममाभिमत इत्याशयेनाह । ॥ ४ सुरेशेति । हे सुरेश इन्द्र, पुरःस्थिते तवाग्रतोऽवस्थिते, वैरिणि त्वच्छत्रौ मयि, अमोघमप्रतिहतं, वजू कस्माद्धेतोः न हिनोषि न प्रतिमुखसि । गदावन्निष्फलं भविष्यतीति आशङ्कातो न प्रहिणोमि इत्यत्राह । गदेव गदावत्, कृपणादर्थः प्रयोजनं यस्याः सा याच्या इव, कृपणाद्याच्या यथा विफला स्यादित्यर्थः । तथा, वज निष्फलं न स्यात् । अतः मा संशयिष्ठाः गदावद्वजनिष्फल- तासंशयो न विधेय इत्यर्थः । यदि संशयिष्ठास्तर्हि येन तुभ्यमेतत् सर्वमुपदिष्टं तद्विश्वासोऽपि नास्तीत्येवंभूतोऽपि भवितेति भावः । अतो निःसंशयं बजू प्रहिणु इति तात्पर्यार्थः ॥ १९ ॥ * * वज्रस्यामोघत्वे हेतु वदस्तं प्रोत्साहयति । नन्विति । हे शक Sww 1 । कं. ६. अ. ११ लो. २१-२७] अनेकव्याख्या समलङ्कृतम् ३६७ इन्द्र तव एष: वज्रः, हरेर्भगवतः तेजसा, दधीचीमुनेः, तपसा च तेजितस्तीक्ष्णीकृतः भवति । ननु विष्णुयन्त्रितः साक्षाद्भगवता समादिष्टः त्वमादिष्टः त्वमसि । ततः तेनैव भगवदादिष्टनानेन वज्रणैव शत्रु मां जहि मारय । यतः यत्र पक्षे हरिः, ततस्तत्र पक्षे विजयः श्री, संपत्, प्रभुत्वादयः, भवन्ति । अतोऽनेन वज ेण मां हत्वा सुखेन विजयादीननुभवेत्यर्थः ॥ २० ॥ भाषानुवाद:लिए
वृत्रासुरकी गदाके आघात से ऐरावत हाथी वजहत पर्वतके समान तिलमिला उठा । सिर फट जाने से वह अत्यन्त व्याकुल हो गया और खून उगलता हुआ इन्द्रको लिये हुए ही अठ्ठाईस हाथ पीछे हट गया ॥ ११ ॥ देवराज इन्द्र अपने वाहन ऐरावत के मूच्छित हो जानेसे स्वयं भी विषादग्रस्त हो गये । यह देखकर युद्धधर्मके मर्मज्ञ वृत्रासुरने उनके ऊपर फिर से गढ़ा नहीं चलायी । तबतक इन्द्रने अपने अमृतस्त्रावी हाथके स्पर्शसे घायल ऐरावतकी व्यथा मिटा दी और वे फिर रणभूमि में आ डटे || १२ ॥ * * परीक्षित्! जब वृत्रासुरने देखा कि मेरे भाई विश्वरूपका वध करनेवाला शत्रु इन्द्र युद्धके लिये हाथमें वजू लेकर फिर सामने आ गया है, तब उसे उनके उस क्रूर पापकर्मका स्मरण हो आया और वह शोक और मोहसे युक्त हो हँसता हुआ उनसे कहने लगा ॥ १३ ॥ * * वृत्रासुर बोला- आज मेरे लिये बड़े सौभाग्यका दिन है कि तुम्हारे जैसा शत्रु - जिसने विश्वरूपके रूपमें ब्राह्मण, अपने गुरु एवं मेरे भाईकी हत्या की है— मेरे सामने खड़ा | अरे दुष्ट ! अब शीघ्र से शीघ्र मैं तेरे पत्थर के समान कठोर हृदयको अपने शूलमे विदीर्ण करके भाईसे उऋण होऊँगा अहा ! यह मेरे लिये कैसे आनन्दकी बात होगी ॥ १४ ॥ ॥ * * इन्द्र ! तूने मेरे आत्मवेत्ता और निष्पाप बड़े भाईके, जो ब्राह्मण होने के साथ ही यज्ञमें दीक्षित और तुम्हारा गुरु था, विश्वास दिलाकर ही तलवारसे तीनों सिर उतार लिये- ठीक वैसे ही जैसे स्वर्गकामी निर्दय मनुष्य यज्ञमें पशुका सिर काट डालता है ॥ १५ ॥ * * दया, लज्जा, लक्ष्मी और कीर्ति तुझे छोड़ चुकी हैं। तूने ऐसे-ऐसे नीच कर्म किये हैं, जिनकी निन्दा मनुष्यों की तो बात ही क्या - राक्षसतक करते हैं । आज मेरे त्रिशूलसे तेरा शरीर टूक-टूक हो जायगा। बड़े कष्टसे तेरी मृत्यु होगी । तेरे जैसे पापीको आग भी नहीं जलायेगी, ये अज्ञानी देवता तेरे-जैसे नीच और क्रूरके अनुयायी बनकर मुझपर तुझे तो गीध नोंच-नोचकर खायेंगे ॥ १६ ॥ शस्त्रों से प्रहार कर रहे हैं। मैं अपने तीखे * 1 भूतनाथोंको बलि चढ़ाऊँगा ।। १७ ।। * स उनकी गरदन काट डालूँगा और उनके द्वारा गणोंके सहित भैरवादि .* 8 * इन्द्र यह सम्भव है कि तू मेरी सेनाको छिन्न-भिन्न करके अपने वजूसे मेरा सिर काट ले। तब तो मैं अपने शरीर की बलि पशुपक्षियोंको समर्पित करके कर्मबन्धनसे मुक्त हो महापुरुषोंकी चरण-रजका आश्रय ग्रहण करूँगा - जिस लोकमें महापुरुष जाते हैं, वहाँ पहुँच जाऊँगा ॥ १८ ॥ देवराज ! मैं तेरे सामने खड़ा हूँ, तेरा शत्रु हूँ; अब तू मुझपर अपना अमोघ वजू क्यों नहीं छोड़ता ? तू यह सन्देह न कर कि जैसे तेरी गदा निष्फल हो गयी, कृपण पुरुषसे की हुई याचनाके समान यह वजू भी वैसे ही निष्फल हो जायगा ।। १९ ।। * * इन्द्र ! तेरा यह वजू श्रीहरिके तेज और दधीचि ऋषिकी तपस्यासे शक्तिमान् हो रहा है। विष्णुभगवान् ने मुझे मारनेके लिये तुझे आज्ञा भी दी है । इसलिये अब तू उसी वजूसे मुझे मार डाल, क्योंकि जिस पक्षमें भगवान् श्रीहरि हैं, उधर ही विजय, लक्ष्मी और सारे गुण निवास करते हैं ।। २० ॥ की आप भी अहं अहं समाधाय मनो स्वद्वज्जर होलुलितग्राम्यपाशो यथाऽऽह सङ्कर्षणस्तच्चरणारविन्दे । गति मुनेर्याम्यपविद्धलोकः ॥ २१ ॥ पुंसां किलैकान्तधियां स्वकानां याः सम्पदो दिवि भूमौ रसायाम् । न राति यद् द्वेष उद्वेग आधिर्मदः कलिर्व्यसनं संप्रयासः ।। २२ ।। त्रैवर्गिकायासविघातमस्मत् पतिबिंधत्ते पुरुषस्य शक्रम ‘ततोऽनुमेयो भगवत्प्रसादो यो दुर्लभोऽकिञ्च नगोचरोऽन्यैः ॥ २३ ॥ अहं हरे तव पादैकमूलदासानुदासो भवितास्मि भूयः । मनः स्मरेतासुपतेर्गुणांस्ते गृणीत वाक् कर्म करोतु कायः ॥ २४ ॥ १. प्रा० पा० अतो । A ॥ / ३६८ नाकपृष्टं न च परमेष्ठ STE न योगसिद्धीरपुनर्भत्र वा अजातपक्षा इव मातरं खगाः श्रीमद्भागवतम् सार्वभौम नराधिपत्यम् [ स्कं. ६ अ. ११ . २१-२७ समञ्जस त्वा विरहय्य काङक्षे || २५ || स्तन्यं यथा वत्सतराः क्षुधातोः । प्रियं प्रियेव व्युषितं विषण्णा मनोऽरविन्दाक्ष दिदृक्षुते त्वाम् || २६ ।। ममोत्तम श्लोकजनेषु सख्यं संसारचक्रे भ्रमतः स्वकर्मभिः । त्वम्माययाऽऽत्मात्मजदारगेहेष्वासक्तचि तस्य न नाथ भूयात् ॥ २७ ॥ PHPAL F इति श्रीमद्भागवत महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे वृत्रस्येन्द्रोपदेशो नामैकादशोऽध्यायः ॥ ११ ॥ एक कृष्णप्रिया व्याख्या ६ अन्वयः - संकर्षणः तथा आह अहं तच्चरणारविंदे मनः समाधाय त्वद्वजुरहोलुलितप्राम्यपाशः अपविद्धलोकः मुनेः गति यामि ॥ २१ ॥ * * किल एकांतधियां स्वकानां पुंसां ४ * किल एकांतधियां स्वकानां पुंसां दिवि भूमौ रसायाम् याः संपदः सन्ति न राति यत् द्वेषः उद्वेग: आधिः मदः कलिः व्यसनं संप्रयासः ॥ २२ ॥ * * शक्रः अस्मत्पतिः पुरुषस्य त्रैवर्गिकायासविघातम् विधत्ते ततः अनुमेयः अकिंचनगोचरः भगवत्प्रसादः अन्यैः दुर्लभः ॥ २३ ॥ * * हरे अहं तव पादैकमूलदासानुदासः भूयः भवितास्मि मनः असुपतेः ते गुणान् स्मरेत वाकू गृणीत कायः कर्म करोतु ।। २४ ।। * * समंजस त्वा विरहय्य नाकपृष्ठं न काङक्षे पारमेष्ठथं न सार्वभौमं न रसाधिपत्यम् न योगसिद्धीः न वा अपुनर्भवं न ।। २५ ।। * * अजातपक्षाः खगाः मातरम् इव यथा क्षुधार्ताः वत्सतराः स्तन्यं यथा विषण्णा प्रिया व्युषितं प्रियम् इव अरविंदाक्ष मनः त्वाम् दिदृक्षते ।। २६ । नाथ स्वकर्मभिः संसारचक्र े भ्रमतः मम सख्यम् उत्तमश्लोकजनेषु भूयात् आसक्तचित्तस्य त्वन्मायया आत्मात्मजदारगेहेषु न भूयात् ॥ २७ ॥ कर टेक shrooms she f लीवि च R ES FS FOTY इत्येकादशोऽध्यायः ॥। ११ ॥ या कि प्री pe
- श्रीधरस्वामिविरचिता भावार्थदीपिका { नेन मम पीडा स्यादित्यपि मा संशयिष्ठा इत्याह । अहमिति । संकर्षणो मत्पत्तिर्यथा समाधियोगमाह तथा तदीयचरणारविंदे मनः समाधाय मुनेयोगिनो गतिमहं यास्यामि । तव वजस्य रहसा लुलितरिछन्नो ग्राम्यपाशो विषयभोग- लक्षणो यस्य । अपविद्धलोकस्त्यतदेहः ॥ २१ ॥ तर्हि भगवान्संकर्षणः स्वभृत्याय मामेव स्वर्गादिसंपदो दास्यतीत्यषि
-
- मा संशयिष्ठा इत्याह । पुंसामिति । स्वर्गे भूमौ रसातले च याः संपदस्ताः किलः निश्चितं न राति न ददाति । तत्र हेतुः । यद्याभ्यो द्वेषादयो भवति ।। २२ ।। तर्हि स्वभक्तस्य किं विधत्ते तत्राह । त्रैवर्गिको धर्मार्थकामविषयो य आयास- स्तस्य विघातं विधत्ते तत आयासोपरमादनुमेयो न स्वैश्वर्यादिना । अतः सम्यग्भगवत्प्रसादाभावात्तव संपदो भविष्यतीति भावः ॥ २३ ॥ * * एवमिंद्राय स्वाभिप्रायं निवेद्य भगवंतं प्रार्थयते अहमिति । तव पादावेव एक मूलमाश्रयो येषां तेषां दासानामनुदासो भूयो भविताऽस्मि भविष्यामि भवेयम् । असुपतेः प्राणनाथस्य तव गुणान्मम मनः स्मरतु । वागपि तानेव कीर्तयतु । कायस्तवैव कर्म करोतु ।। २४ ।। । ॥ । । ननु किं दास्येन तुभ्यं महाफलानि दास्यामि तत्राह । नाकपृष्ठं ध्रुवपदं ब्रह्मलोकादिकं च हे समंजस निखिलसौभाग्यनिधे त्वा त्वां विरहय्य पृथकृत्य न कांक्ष नेच्छामि ॥ २५ ॥ * 88 तर्हि किमिच्छसि तदाह । अजातपक्षाः खगा घूकादिभिः पीडिता यथा मातरं यथा च दाना बद्धा बाला वत्साः स्तन्यं पयः यथा च व्युषितं दूरदेशगतं प्रियं कामेन विषण्णा प्रिया तथा मे मनस्तापत्रयपीडितं कर्मभिर्बद्धं च कामादिभिर्विषण्णं च त्वां दिदृक्षते द्रष्टुमिच्छतीत्यर्थः || २६ || उत्तम श्लोकस्य तव जनेषु भक्तेष्वेव मम सख्यं भूयात् । त्वन्मायया देहादिष्वासक्तचित्तस्य भूयोऽपि तेष्वासक्तिर्न भूयात् ।। २७ ।। ॥ ॥ इति षष्ठस्क टीकायामेकादशोऽयायः ॥११॥ वंशीधरकृतो भावार्थदीपिकाप्रकाश ॥ यथा संकर्षणो मां पूर्वजन्मनि आह- अहं वै सर्वभूतात्मा भूतभावनभावनः’ इत्यादिना तथेत्यर्थः ॥ २१ ॥ * * अहो अयमनंतदासोऽस्मा एव स इंद्रैश्वर्य कदाचिन्न दद्यादिति शोचमानं प्रत्याह-तहति । याभ्यः संपद्भ्य उद्वेगखासः १. प्रा० पा० - चित्तेषु ।स्कं. ६ अ. ११ श्लो. २१-२७] अनेकव्याख्या समलङ्कृतम्- । । ३६९ ससंपदं तद्धीना द्विषंति ससंपदस्सदा तन्नाशादिदृष्टया त्रासो मनसि पीडा त्वद्वृद्धद्याद्यर्थं मदोऽभिमानोऽहमेवोत्कृष्ट इति कलिः कलहोऽपि याचकादिना व्यसनं स्त्रीमद्यादिसेवनलक्षणम् । संप्रयासोऽतीव प्रयत्नस्तद्रक्षणाद्यर्थम् ।। २२ ।। * * यतस्तवैश्वर्येच्छा वर्त्ततेऽतो हेतोः । इति भाव इति । “यस्याहमनुगृह्णामि हरिष्ये तद्धनं शनैः” इति श्रीमुखोत्तरयमाशयः । शक्रेति । विपरीतलक्षणया त्वं विषयानुरागित्वाद्भगवत्प्रसादनेऽसमर्थोऽसीति भावः ॥ २३ ॥ * * हे हरे इति । हे भक्तक्लेशनाशिन् । यद्वा-स्वाभीष्टप्रापक । यद्वा- नामोच्चारकस्वीकर्त्तरिति । “हे श्रीकृष्णेति वचनं वदतं नंदनंदनः । स्वीकरोति ममैवायं ततो हरिरिति स्मृतः ।” इत्यादिपुराणोक्तेः । भूयः पुनः पुनः भवितास्मीति स्वस्तनार्थशंका निवृत्तये भविष्या- मीत्युक्तं न स्वस्तन एवं किन्तु यदा कदाचिद्भविष्यामीत्यत्राप्यतोषात्प्रार्थनार्थे लिर्थे लुडयमिति बोधनायाह - भवेयमिति । गुणानामिति । " अधीगर्थदयेशां कर्मणि” इति कर्मणि षष्ठी । मे इति शेषः ।। २४ ।। * * अत्राक्षिपति । नन्विति । सार्वभौमादिव्यत्ययेन योज्यं सार्वभौमं प्रियत्रतादीनामिव । रसाधिपत्यं पातालादिस्वाम्यम् । अपुनर्भवं मोक्षमपि । अत्र नाकादिचतुष्टयस्यानुक्रमत्वं न्यूनत्वविवक्षया ततश्चोत्तरकैमुत्यमपि ध्रुवपदस्य श्रैष्ठयं विष्णुपदसन्निहितत्वात् योगसिद्धयादिद्वयं तु सार्वत्रिकमपि पश्चाद्विन्यस्तमनयोस्तूत्तरश्रैष्ठयम् ॥ २५ ॥ घूक उलूकः । आदिना श्येनादिग्रहः । इत्यर्थं इति ।
- । कामाद्यार्त्तस्याप्यातिस्तव कृपयैव भवतीति भावः । अत्र संदर्भ :- अत्राजातपक्षा इत्यनेनान्यश्रयत्वं तदनुगमनासमर्थत्वं च तथा तत्सहितेन मातरमित्यनेनानन्य स्वाभाविकदयालुत्वं तदीयदयाधिक्यं च व्यंजितं तेन च मातरि तेषामपि प्रीत्यतिशयो दर्शितः । ततस्तत्साम्येऽपि तद्वदात्मनोऽपि भगवति प्रीत्याधिक्यहेतुका दिदृक्षा व्यंजिता । तथापि तन्मात्रा यद्वस्त्वंतरमुपहियते तदेव तेषामुपजीव्यमास्वाद्यं चेति । केवलतन्निष्कृत्यभावादपरितोषेण दृष्टांतांतरमाह - स्तन्यमिति । अत्र दिदृक्षायां योजनार्थं मातर - मित्येवानुवर्त्तयितव्ये स्तन्यमित्युक्तिस्तस्यास्तैस्तदंशप्राचुर्यभावनया वस्तुतस्तस्य तदीयशरीरशतया च तदभेदविवक्षार्था ततस्तन्यं स्तन्यस्वरूपं तदंशमयीं मातरमित्येव लब्धे तादृशी मातैव तैरुपजीव्यते आस्वाद्यते चेति पूर्वतः श्रेष्ठयं दर्शितं तथा वत्सतरा अत्यंत बालवत्सास्तत एव स्वामिबद्धया तदनुगतावसमर्था इति साधारण्येऽपि बहु समायाति क्रमात् क्षुधार्त्ता इत्यनेन पूर्वतो वैशिष्टयं तथा गोजातेः स्नेहातिशयस्वाभाव्येन च तदनुसंधेयम् । अथाप्युत्तरदृष्टांते स्तन्यगवोः कार्यकारणभावेन भेदं वितर्क्स दृष्टांतद्वयेऽप्यजातपक्षत्वादिविशेषणैरायत्यां तादृशप्रीतेरस्थिस्तां चालोक्य दृष्टांतांतरमाह – प्रियमिति । सत्स्वपि वाचकांतरे- षूभयोः प्रियशब्देनैव निर्देशात्स्वाभावि काव्यभिचारिप्रीतिमन्तावेव गृहीतौ यत्र वार्द्धके बाल्येपि सह मरणादिकं दृश्यते ततस्तादृशी कापि प्रिया तादृशं यथा व्युषितं दूरप्रोषितं संतमन्योपजीवित्वेन विषण्णा सती दिदृक्षते लोचनद्वारा तदास्वादाय भृशमुत्कंठते तथा मम मनोपि त्वामित्यर्थः । अत्र दाष्टतिकेऽपि स्वकर्तृ कत्वमनुक्त्वा मनः कर्त्तृ कत्वोल्लेखेन बुद्धिपूर्वकप्रवृत्तिप्राप्तौ प्रीतेः स्वाभाविकत्वेनाव्यभिचारित्वं व्यक्तं तथारविंदाक्षेति । मनसो भ्रमतुल्यतासूचनेन भगवतः परममधुरिमोल्लेखेन च तस्यैवोप- जीव्यत्वमास्वाद्यत्वं च दर्शितमिति ।। २६ ।। स्वस्य भगवद्दर्शनासंभवं मन्वानः सबाष्पमिदमाह — ममेति । हे नाथेति । स्वामिना भृत्यप्रार्थितं देयमेवेति भावः ।। २७ ।। इति श्रीमद्भागवतभावार्थदीपिकाप्रकाशे षष्टस्कन्धे एकादशोऽध्यायः ॥ ११ ॥ अन्वितार्थप्रकाशिका अहमिति । अहं तु तव वज्रस्य रंहसा वेगेन विलुलितः छिनो प्राम्यपाशः संसारबन्धनभूतो देहो यस्य सः अपविद्धा- स्त्यक्ताः लोकास्तत्तल्लोकविषयभोगवासना येन तथाभूतः सन् भगवान् संकर्षणो यथा मामाह तथा तस्य भगवतश्चरणारविन्दे मनः समाधाय स्थिरीकृत्य मुनेर्मननशीलस्य भगवद्भक्तस्य गतिं भगवन्तमहं यामि यास्यामि ।। २१ ।। * संकर्षणो मत्स्वाम्यपि मह्यं स्वर्गराज्यं न दास्यतीत्याह – पुंसामिति । एकान्तधियां विवेकिनां स्वकानां स्वकीयत्वेनाङ्गीकृतानां पुंसां याः सम्पदो दिवि स्वर्गे इत्युपलक्षणमन्तरिक्षलोकस्य महर्लोकादिचतुर्णां च तेषु च याश्च भूमौ याश्व रसायां भूमेरधः सप्तसु लोकेषु ताः का अपि भगवान्न राति नैव ददाति । यत् याभ्यः सम्पद्भयः द्वेषोऽन्योन्यवैरम् उद्वेगो मनचाञ्चल्यम् आधिर्मानससन्तापः मदों गर्वः कलिः कलहः व्यसनं तन्नाशे ह्रासे वा दुःखं प्रयासः संवर्द्धनसंरक्षणादिप्रयत्नेन श्रमः एते भवन्ति ॥ २२ ॥ त्रैवर्गिकेति । हे शक्र ! अस्माकं पतिर्भगवान् पुरुषस्य त्रैवर्गिको धर्मार्थकामविषयो य आयासस्तस्य विघातं विधत्ते करोति । ततत्रैवर्गिकायासविघातात् भगवत्प्रसादोऽनुमेयः यः प्रसादः अकिंचनगोचर एकान्तभक्तिलभ्य इत्यन्वये हेतुः । यश्चान्यैर्विषया- क्रान्तचित्तैर्दुलभः तथा चानुमानप्रयोगः अहं भगवत्प्रसादवान् त्रैवर्गिकायासरहितत्वात् एवं त एवं यथैकान्तभक्ता नारदादयः येनैवं तेनैवं यथा विषयाक्रान्तचित्ता युष्मदादय इति अतो भगवत्प्रसादाभावात्तव सम्पदो भविष्यन्तीति भावः ।। २३ ।। * * अथेन्द्र ं शिक्षयन् भगवन्तं प्रार्थयते - अहमिति । हे हरे ! तव पादावेब एकं मूलमाश्रयो येषां तेषां दासानामनुदासोऽहं भूयः ४७
: ३७० श्रीमद्भागवतम् । । स्क. ६ अ ११ लो. २१-२७ पुनर्भविताऽस्मि भविष्यामि भवेयम् । असुपतेः प्राणनाथस्य तव गुणान मम मनः स्मरेत चिन्तयेत् । तार्षः । वाकू च तानेव । गुणान् गृणीत कीर्त्तयेत् । तङार्षः । कायस्तस्यैव कर्म सेवां करोतु ॥ २४ ॥ नेति । हे समञ्जस निखिलसौभाग्य- । निधे ! त्वा त्वां विरहय्य त्यक्त्वा नाकपदं स्वर्गपदं न कांक्षे नेच्छामि । तङार्षः । एवं पारमेष्ठ यादीन्न काङक्षे । परमेष्ठी ब्रह्मा for caf तत्स्थानं पारमेष्ठ्यं सार्वभौमं सर्वभूमेरैश्वर्यं रसाधिपत्यं भूमेरधोलोकानां राज्यं योगसिद्धी रणिमादिकाः किं बहुना अपुनर्भव मोक्षमपि न काई ।। २५ ।। * * अजातेति । हे अरविन्दाक्ष ! यथा अजातपक्षाः पक्षिणः घूकाद्यैः पीडिताः मातरं द्रष्टुमिच्छन्ति तद्वत् यथा वत्सतरा अतिबालकाः वत्साः दाम्ना बद्धा तुधा पीडिताः कदा कन्यं दुग्धं प्राप्स्याम इति तदिछन्ति तथेत्यर्थः । व्युषितं प्रवासिनं प्रियं पतिं यथा विषण्णं तद्विरहेण विषादं प्राप्ता प्रिया द्रष्टुमिच्छति तद्वत् तापत्रयपीडितं कर्मभि- बद्ध कामादिभिर्विषण्णं च मम मनस्त्वां दिदृक्षते द्रष्टुमिच्छति ॥ २६ ॥ * * ममेति हैं नाथ स्वामिन् ! स्वकर्मभिः संसारचक्रे भ्रमतोऽपि मम उत्तमश्लोकस्य तव जनेषु भक्तेषु सख्यं भूयात् । । त्वन्मायया अत्मात्मजदार गेहेष्वासक्तं चित्तं यस्य त्वन् तस्य मम तेषु आत्मात्मजादिषु सख्यमासक्तिर्न भूयात् ।। २७ ।। "" इति श्रीकृष्ण सेवार्थमन्वितार्थप्रकाशिकाम् । गङ्गासहाय: षष्ठस्यैकादशे निरमादिमाम् | इति श्रीभागवत महापुराणे षष्ठस्कन्धेऽन्वितार्थप्रकाशिकायामेकादशोऽध्यायः ।। ११ ।। वीरराघवव्याख्या नतु “आसुरी योनिमापन्ना मूढा जन्मनि जन्मनि । मामप्राप्यैव कौन्तेय ! ततो यान्त्यधमां गतिम् ॥” इत्युक्तरीत्या नरकोदर्कस्वमरणार्थं किं मां प्रार्थयते तत्राह । अहमिति । अहमसुरोऽपि नरकं न यास्यामि किंत्वस्मद्दैवतं गुरुश्च सङ्कर्षणो भगवान् यथाह उपदिदेश । मच्चरणारविन्दे मनो निश्चलं निधेयमिति । तथा तच्चरणारविन्दे मनो निधाय तव वज्रस्य वेगेन लुलितः छिन्नः प्राम्येषु विषयेषु रागरूपः पाशो यस्य । देहलवनद्वारा ग्राम्यपाशोऽपि लुलितो भवतीति भावः । अपविद्धः त्यक्तः लोकः स्वर्गादिलोको येन तादृशः मुनेर्गेति मुनीनां गतिं मोक्षं यामि यास्यामि असुरोऽप्यहं भगवत्सङ्कर्षणोपदिष्टतत्त्वो मुक्तिमेव यास्यामि न त्वर्वाचीन लोकानिति भावः । यथाह सङ्कर्षण इत्यनेन वृत्रः सङ्कर्षणोपदिष्टतत्त्व इत्यवगम्यते ।। २१ ।। **
- ।
- किञ्च भगवाननन्यभावेनात्मानं भजतां स्वीयामेव गति नूनं दास्यति न त्वर्वाचीनामित्याह । पुंसामिति सार्द्धेन । एकान्तधियां प्रयोजनात्तररहित मतीनामनन्यप्रयोजनानामित्यर्थः । स्वकानां स्वभक्तानां पुंसामस्मत्पतिर्भगवान् सङ्कर्षणः दिवि स्वर्गादौ भूमौ रसायामतलादिलोके च याः सम्पदो विभवाः ताः न ददाति कुतः यतः तासु सम्पत्सु द्वेषः परस्परमसहिष्णुत्वम् उद्वेगो विनाशभयं तत्प्रयुक्त आधिर्मनः पीडा मदः विषयभोगनिमित्तो मदः तत्त्वज्ञानोदयप्रतिबन्धकः कलिः विषयभोगविरोधिभिः सह कलहः व्यसनमभिमतविषयालाभनिमित्तं दुःखं प्रयासः क्षुद्रसुखाय प्रकशे यत्नश्चैव भवन्ति । यतः परमकृपालुर्भगवानात्म- भक्तानां मुक्तिमेव दास्यतीत्यर्थः ॥ २२ ॥ * * तर्हि स्वकानां किं विधत्ते तत्राह । त्रैवर्गिकेति । हे शक्र ! त्रैवर्गिको धर्मार्थ- कामविषयो य आयासस्तस्य विघातं विधत्ते अल्पास्थिरत्रिवर्गकर्मायासपरिहारेणानन्तस्थिर फलरूपमुक्तिं दास्यतीत्यर्थः । ननु । प्रसन्नो भगवानस्माकमपि स्वकानां त्रैवर्गिकायासविधातमेव विधत्ते नेत्याह । तत इति । यो भगवत्प्रसादो यत अकिञ्चनगोचरः निष्कामस्वभक्तविषय: अकिञ्चनानामेव नितरां भगवान् प्रसन्नो भवतीत्यर्थः । ततोऽन्यैविषयभोगपरायणै तदर्थमेव भजद्भि- र्भवादृशैः स भगवत्प्रसादोऽनुमेयः अभिलषितार्थविषयकत्वेनानुमेयः । यद्वा । योऽकिज्जनगोचरो भगवत्प्रसादः सोऽन्यैर्भवादृशै- स्ततोऽनन्यप्रयोजनभजनादनुमेयः । वयमप्यनन्यप्रयोजना यदि भजेम त किञ्चनगोचरो भगवत्प्रसादोऽस्मद्विषयको भविष्यती- त्येवं भवादृशैरनुमेय एव न तु सिद्ध: । इदानीं विषयभोगपरायणत्वादिति भावः । तथैव ह्य् क्तं भगवता “मय्ये कान्तमतिर्नान्य- न्मत्तो वान्छति तत्त्ववित्" इत्यादिनेति चेतिभावः ॥ २३ ॥ अथ मनसानुसंहितं वजाये दृष्टं तदनु प्रविष्टं भग-
- ।। ।।
- ॥ * वन्तमभिमुखीकृत्याह । अहमिति । हे हरे ! भगवन् ! तव पादावेवैकं मूलमाश्रयो येषां दासानामनुदासोऽहं भूयो भवितास्मि । मदीयं मनोऽसुवतेर्मत्प्राणनार्थस्य तव गुणानेवानुस्मरतु । वागपि तानेव गुणान् गृणातु कीर्त्तयतु । कायो देहस्त्वाराधनरूपं कर्मैव करोतु ॥ २४ ॥ ननु किं मद्दास्येन तुभ्यं महदैश्वर्यमैहिकमामुष्मिकं च दास्यामीत्यत्र त्वद्दास्यं विनान्यन्न काङ्क्षामीत्याह । नेति द्वाभ्याम् । नाकपृष्ट वैकुण्ठं न काङ्ग्रे तथा पारमेष्ठयं चतुर्मुखैश्वर्य न सार्वभौमं कृत्स्नभूम्याधिपत्यं न रसा- धिपत्यं पातालादिलोकाधिपत्यं योगसिद्धीरणिमादीनपुनर्भवं कैवल्यं च न हि हे समञ्जस ! सकल सौभाग्यनिधे ! त्वां विरहय्य पृथक्कृत्य विनेत्यर्थः । न काने न वाच्छामि ॥ २५ ॥ किं तु हे अरविन्दाक्ष ! अजातपक्षाः खगाः पक्षिशावकाः मातरमिव था आर्ताः पीडिताः वत्सतराः स्तन्यं दुग्धमिव व्युझितं विप्रोषितं दूरदेशगतं प्रियं विषण्णा दुःखिता प्रियेव मनस्त्वां
- न्
- हुन्छ
- *
- स्क. ६ अ. ११ . २१-२७]
- अनेकव्याख्यासमलङ्कृतम्
- ३७१
- दिदृक्षते द्रष्टुमिच्छति ।। २६ ।। अत एव ममानुगृहाणेत्याह । ममेति । उत्तमश्लोकस्य तव जनेषु दासेषु एव मम सख्यं भूयात् । त्वन्मायया आत्मादिष्वासक्तचित्तस्य स्वकर्मभिः संसारचक्रे भ्रमतो मम पुनः तेष्वात्मादिष्वासक्तिर्न भूयादेवमनु- गृहाणेति । भावः । तत्रात्मा देहः ।। २७ ।।
- इति श्रीमद्भागवते महापुराणे षष्ठस्कन्धे श्रीमद्वीरराघवाचार्यकृत भागवतचंद्र चंद्रिकायां टीकायाम् एकादशोऽध्यायः ॥ ११ ॥
- विजयध्वजतीर्थकृता पदरत्नावली
- वृत्रे सात्त्विकचेतनांशस्वभावं दर्शयितुमाह । अहमिति । सङ्कर्षणो भगवांस्तन्मनः समाधानं यथाह । तथा मनस्तस्य सङ्कर्षणस्य चरणारविन्दे समाधाय तव वज्रवेगेन लुलितः छिनो ग्राम्यपाशी विषयभोगलक्षणः पाशो यस्य स तथा। अपविद्धः परित्यक्तो लोको देहो येन स तथा “अस्माल्लोकात्प्रेत्य" इति श्रुतेः परिभ्रष्टेतल्लोकस्थितिरिति वा अहं मुनेर्ज्ञानिनो गति लोक वैकुण्ठादिलक्षणं यामीत्यन्वयः । संन्यासलक्षणं वा ।। २१ ।। * * ननु परत्र सुखं वा दुःखं वा न निश्चितम् । तवात्र
- ardhara । चाखण्डैश्वर्यं दरीदृश्यते एतल्लोकत्यागे तदपि त्यक्तं स्यात्तस्मात्तव शोको न स्यात्किमित्याशङ्कय सर्वस्येश्वराचीनत्वेन तदत्तमेव स्थिर- तरं नान्यत् । किञ्च । स्वभक्तेभ्यः स्वर्गादिकमपि न ददाति किमुत ऐहिकम् अतो न शोको ममेत्याशयेनाह । पुंसामिति । स लोकनाथः स्वर्गादौ याः सम्पदः सन्ति ताः स्वकानां पुंसां न राति किल तासां सकाशाद्भयादिकमुत्पद्यत इति यस्मात्तस्मा दिति शेषः ।। २२ ।। * इतो नु हरेर्भक्तानुकम्पित्वं पश्येत्याशयेनाह । त्रैवर्गिकेति । अस्मत्पतिर्भगवान् पुरुषस्य भक्तस्य तेन धर्मार्थकामपरिश्रमनाशेन “यस्यानुग्रहमिच्छामि हरिष्ये तद्धनं शनैः” इत्यादेः ॥ २३ ॥ ऋ * अधुना समाधाय मनः” इत्यत्र कथितमनः समाधानप्रकारं निरूपयति । अहमिति । मनः आत्मपतेः आत्मपति स्मरेत् " अधीगर्थदयेशां
- कर्मणि" इति षष्ठी । नो वाक् तद्गुणान् गृणीत कायः कर्म प्रणामादि करोतु ॥ २४ ॥ * मम वीरस्वर्गोऽपि वैकुण्ठा- दिरित्याशयेनाह । नाकपृष्ठमिति । सार्वभौममित्यनेन भूमौ चक्रवर्तिपदमाह । योगसिद्धी : अणिमादिलक्षणाः अपुनर्भवं पुनरुत्प- त्तिमात्रशून्यत्वेन सुखपूर्त्यभावलक्षणं मोक्षं समंजसं वैषम्यनैर्घृण्यबुद्धिशून्यं विरहय्य विहाय ।। २५ ।। * स्तन्यं स्तनच्युतं पयः वत्सतराः अतिशयेन बालाः स्तनंधयाः प्रिया नवोढा भार्यां अभ्युषितं प्रोषितमन्यतः स्थितमित्यर्थः ॥ २६ ॥ श्रीहरिदर्शन साधनमाह । ममेति । न भूयात्सख्यमिति शेषः ॥ २७ ॥ 1 t इति श्रीमद्भागवत महापुराणे षष्ठस्कंधे विजयध्वजतीर्थकृत पदरत्नावल्याम् एकादशोऽध्यायः ॥ ११ ॥ । जीवगोस्वामिकृतः क्रमसन्दर्भः J “अहं सार्वभौमं स्त्रीप्रियव्रतादीनामिव महाराज्यम् । रसाधिपत्यं पातालादिस्वाम्यमपुनर्भवं मोक्षमपि अत्र नाकपृष्ठादि - चतुष्टयस्यानुक्रमश्च न्यूनत्वविवक्षया । ततश्चोत्तमेत्तरं कैमुत्यमपि । ध्रुवपदस्य श्रैष्ठयं विष्णुपदसन्निहितत्वात् । योगसिद्धयादिद्वयं तु सार्वत्रिकमिति पञ्चाद्विन्यस्तम् । अनयोस्तूत्तरश्रैष्ठयम् ।। २५ ।। * अजातपक्षा इत्यनेनान्याश्रयत्वं तदनुगतासमर्थत्वं तथा तत्सहितेन मातरमित्यनेनान्यस्वाभाविकदयालुत्वं तदीयदयाधिक्य व्यञ्जितम् । तेन च मातरि तेषामपि प्रीत्यतिशयो दर्शितः । ततस्तत्साम्येऽपि तदात्मनोऽपि भगवति प्रीत्याधिक्यहेतुका दिक्षा व्यञ्जिता । तथापि तन्मात्रा यद्वस्त्वन्तरमुप- हियते तदेव तेषामुपजीव्यमास्वाद्यं चेति केवलतन्निष्ठत्वाभावादपरितोषेण दृष्टान्तरमाह । स्तन्यमिति । अत्र दिदृक्षायोजनार्थ मातरमित्येवानुवर्त्तयितव्ये स्तन्यमित्युक्तिस्तस्यास्तैस्तदंशप्राचुर्य भावनया वस्तुतस्तस्य तदीयशरीरांशतया च तदभेदविवक्षार्थी- मतः स्तन्यं स्तन्यरूपतदंशमयीं मातरमित्येव लब्धे तादृशी मातैव तैरुपजीव्यते आस्वाद्यते चेति पूर्वतः श्रेष्ठ्यं दर्शितम् । तथा वत्सतरा अत्यन्तबालवत्सास्तत एव स्वामिबद्धतया तदनुगतावसमर्था इति साधारण्येऽपि बहुसमयातिक्रमात् क्षुधार्त्ता इत्यनेन पूर्वतो वैशिष्टयम् । तथा गोजाते: स्नेहातिशयस्वाभाव्येन च तदनुसन्धेयम् । अथाप्युत्तरदृष्टान्ते स्तन्यगवोः कार्यकारणभावे भेदं वितदृष्टान्तद्वयेऽप्यजातपक्षत्वादिविशेषणैरायत्यां तादृशप्रीतेरस्थिरतां चालोक्य दृष्टान्तरमाह । प्रियमिति । सत्स्वपि वाचकान्तरेषुभयोः प्रियशब्देनैव निर्देशात् स्वाभाविकाव्यभिचारिप्रीतिमन्तावेव तौ गृहीतौ । यत्र वार्द्धके बाल्येपि सह विहा- रादिकं दृश्यते ततस्तादृशी कापि प्रिया यथा तादृशं प्रियं व्युषितं विदूरप्रोषितं सन्तमनन्योपजीवित्वेन विषण्णा सती दिदृक्षते । लोचनद्वारा तदास्वादाय भृशमुत्कण्ठते तथा मम मनोऽपि त्वामित्यर्थः । अत्र दाष्टन्तिकेऽपि स्वकर्तृकत्वमनुक्त्वा मनः कर्तृ- कोल्लेखनाद्बुद्धिपूर्वकप्रवृत्तिप्राप्तौ प्रीतेः स्वाभाविकत्वेनाव्यभिचारित्वं व्यक्तम् । तथारविन्दाक्षेति मनसो भ्रमरतुल्यता सूचनेन ३७२ श्रीमद्भागवतम् भगवतः परममधुरिमोल्लेखेन च तस्यैवोपजीव्यत्वमास्वाद्यत्वञ्च दर्शितम् ॥ २६ ॥ ॥ [ स्कं. ६ अ. ११ श्लो. २१-२७ अथ तद्दर्शनभाग्यं स्वस्या- सम्भावयन्निदमपि मम स्यादिति सबाष्पमाह । ममोत्तमेति । तदेतच्छुद्धप्रेमोद्गारमयत्वेनैव श्रीमद्वृत्रवधोऽसौ विलक्षणत्वाच्छ्री- मद्भागवतलक्षणेषु पुराणान्तरे गण्यते । “वृत्रासुरवधोपेतं तद्भागवतमिष्यते” इति ।। २७ ।। इति श्रीमद्भागवत महापुराणे षष्ठस्कन्धे श्रीमज्जीवगोस्वामिकृतक्रम सन्दर्भे एकादशोऽध्यायः ॥ १० ॥ विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी अयमेवं मां प्रलोभ्य पुनः पराक्रमाविष्कारेण वजञ्च निष्फलय्य पुनरपि मां हनिष्यतीति मा संस्थाः । अहं यत् करोमि तदेकाग्रमनाः शृण्वित्याह । अहमिति । सङ्कर्षणो नोऽस्माकं प्रभुः यथा तथा तच्चरणारविन्दे मनः समाधाय मुनेर्योगिनो गतिमहं यास्यामि । त्वद्वजस्य रंहसा लुलितः खण्डितः ग्राम्यपाशाकार एतद्देहो यस्य सः । अपविद्धलोकः त्यक्तत्रिलोकैश्वर्यः ||२१|| तर्हि त्वद्भक्तितोषितः सङ्कर्षणस्तुभ्यमेव स्वर्गाद्यैश्वर्य दास्यतीति मा वादीः शृणु रे शक्र ! मत्प्रभोस्त्वञ्च भक्तोऽहं च भक्तस्तत्र तुभ्यमेव भोगैश्वर्य ददाति न तु मयमित्यत्र कारणं मत्प्रभोः स्वभावमेव शृण्वित्याह । पुंसामिति । या: सम्पदः ता एकान्तधीभ्यः पुंभ्यो न राति न ददाति कुतः यद्यतः सम्पद्धयो द्वेषादयो भक्तिसुखे विक्षेपका भवन्तीत्यतः ।। २२ ।। * * मां स्वपार्श्व शीघ्रमेव नेतुं वज्र ेण मद्वधोपायमुक्त्वा यत्तुभ्यं मत्प्रभुर्भोगसम्पदं ददाति एतेनैव त्वमात्मनि तस्यानुग्रहा भावं मन्यस्वेत्याह । त्रैवर्गिको धर्मार्थकामविषयो य आयासस्तस्य विघातं विधत्ते पुरुषस्य स्वान्तरङ्गभक्तस्य तत आयासोपरमादेव भगवत्प्रसादः अनुमेयः । नन्वेवमस्मद्नुभवे तु न भाति तत्राह । स अकिंचनगोचर एवं अन्यैर्युष्माभिस्तु दुर्लभो युष्मद्गोचर एवेत्यतस्त्वयि तस्य सम्यक् प्रसादाभावात् तव सम्पदो भविष्यन्तीति विश्वस्तो भूत्वा शीघ्रं वज्रं निक्षिपेति भावः ॥ २३ ॥ * * तदपि वज्रमनिक्षिपन्तमिन्द्रं दृष्ट्वा हन्त हन्त वराकमिमं शक्र बहिर्दर्शिनं किमिति ब्रवीमि स्वप्रभोश्चरणारविन्द एव किं न निवेदयामीति ध्यानाविर्भूतं भगवन्तमवलोक्याह । अहमिति । तव पादावेव एकं मूलमाश्रयो येषां तेषां दासानामनुदासो भूयः पुनरपि भवितास्मि भविष्यामि किं तत्र कियान् विलम्बो वर्त्तते तं कृपया कथय । उत्कण्ठया जर्जरीभूतोऽस्मीति भावः । नन्वविलम्बेनैव त्वामहमेष एवात्मसात् करोमि स्वाभीष्टान् वरान् वृण्वित्यत आह मनो मम असुपतेः प्राणनाथस्य तव प्राण- नाथं त्वां स्मरतु वाकू गुणान् कीर्त्तयतु कायः कर्मत्वात्पाद सम्वाहनव्यजन ताम्बूलप्रदानादिकं करोति कायवाङ्मनसां मे प्रार्थना ॥ २४ ॥ ननु तुभ्यं स्वर्गापवर्गादीनि सर्वाण्येव फलानि ददामि गृहाणेति तत्र सशिरोधूननं न नेत्याह । नेति । नाकपृष्ठं स्वर्गपदं त्वा त्वां विरहय्य त्यक्त्वा त्वद्विरहेण मम प्राणा उज्वलन्ति । स्वर्गादयः किं मे सुखयिष्यन्तीति ध्वनिः । त्वत्संयोगे मम पूर्वश्लोकोक्तं वरत्रयं भवेत्तदा तदेव में स्वर्गापवर्गादिसर्व सुखतमम् । किमेतैर्गृहीतैरित्यनुध्वनिः ।। २५ ।। * * किन । अत्युत्कण्ठावतोऽपि ममत्वाप्तिस्त्वदधीनैव । न च तत्र मे स्वतः कापि शक्तिरस्तीत्यत्र दृष्टान्तत्रयमाह । अजातपक्षाः खगाः खगबालकाः घूकादित्रस्ताः चुत्पीडिताच मातरं कदा प्राप्स्याम इति प्रतिक्षणं दिक्षमाणाः पत्रेऽपि संचलति आयाता मम मातेति बुद्धया कोमलं कलं कूजन्तश्चञ्चून प्रसारयन्ति । ननु तर्हि तन्माता यथा आगत्य घूकादिभ्यो रक्षन्ती स्वत: पृथग्भूतैरानीतैः क्षुद्रकीटस्तच्च चुमध्ये निहितैस्तेषां दुधामुपशमयति तथैवाहमपि त्रिविधतापेभ्य इन्द्रादिशत्रुभ्यश्च त्वां रक्षन् स्वर्ग पारमेष्टयादिभोगैर्दत्तैस्त्वदभीष्टं पूरयाणीति । तत्र त्वन्माधूर्य विना मम नान्यत् किमप्यभीष्टमिति तथा त्वत्प्राप्तिप्रतिकूलं वृत्राख्यस्थूलसूक्ष्मदेहद्वयबन्धनं विना मम नान्यत् किमपि तापत्रयमित्यतस्ततो दृष्टान्तान्तरमाह । स्तन्यं वाञ्छन्तीति शेषः । वत्सतरा अत्यल्पवयस्का वत्सा गृहस्थगृहे दामबद्धाः क्षुधाया मातुरेव दुग्धपानैकतानमनस्कत्वादार्त्ताः । अत्रापि वत्सतरा मातु- दुग्धादेव स्वसुखमभिलषन्तोऽपि मातुः कामपि सेवां न लिप्समाना इत्यपरितुष्य दृष्टान्तान्तरमाह । प्रियं प्रीतिमन्तं पतिं व्युषितं सुदूरदेशस्थं प्रिया प्रेमवती विषण्णा तद्विरहजर्जरिता दिदृक्षते सा यथा स्वीयसर्वेन्द्रियव्यापारैः सेवमाना प्रियं सुखयितुं प्रियस्यैव सौन्दर्यसौस्वर्यादिभिर्गुणलीला वैदग्ध्यादिभिश्च स्वसर्वेन्द्रियाणि सुखयितुमिच्छति तथैवाहमपि त्वां सेवेयेत्यत एव मनः स्मरेतासुपतेर्गुणानां गृणीत वाकू कर्म करोतु कायः” इति वरत्रयमवाञ्छमिति भावः । किन्तु सा दास्य सख्यशृङ्गारैः प्रियं सुखयेदहन्तु केवलेनैव दास्येन त्वां सुखयेयमित्येतावानेव भेदः ।। २६ ।। * * अथ तत्क्षण एवातिदैन्यभावोदयेन हन्त ममाधम स्त्य कथमेतावत् सौभाग्यं सम्भवेदत एतदस्त्विति प्रार्थयते । मम उत्तमश्लोकजनेषु त्वद्भक्तेषु सख्यं भूयात् किन्तु त्वन्मायया आत्मात्मजादिष्वासक्तस्य जनस्य कस्यापि मयि सख्यं न भूयात् यथैतज्जन्मनि असुराणां मयि सख्यमभूत् मम च त्वद्भक्तेषु सख्यं नाभूदित्यपारं दुःखमन्वभूवमिति भावः ।। २७ ।। इति सारार्थदर्शिन्यां हर्षिण्यां भक्त चेतसाम् । षष्ठे एकादशोऽध्यायः सङ्गतः सङ्गतः सताम् ॥ ११ ॥ स्क. ६ अ. ११ लो. २१-२७] अनैकव्याख्यासमलङ्कृतम् शुकदेवकृतः सिद्धांतप्रदीपः ३७३ त्वद्वजूरंहसा लुलितश्छिन्नः प्राम्यपाशः भोगानुरागो यस्य सः अपविद्वस्त्यक्तः लोको बद्धजीवलोको येन सः । मुनेः मननशीलस्य भगवद्वयाननिष्ठस्य गतिं गम्यते इति गतिर्भगवांस्तम् ॥ २१ ॥ * * अस्मत्पतिर्भगवान् पुरुषस्य त्रैवर्गिकार्थे य आयासस्तद्विघातं विधत्ते ततो विघातात् अकिञ्चनगोचरः भगवदनन्यजनविषयः अन्यैर्दुर्लभो भगवत्प्रसादोऽनुमेयः ।। २३ ।। इन्द्रं प्रति स्वहार्दमुक्त्वाथ भगवन्तं प्रार्थयते । अहमिति । हे हरे ! तब पादावेवैकं मुख्यं मूलमाश्रयो येषां तेषां दासानुदासः भविता भवेयम् । असवः प्राणाः इन्द्रियाणि तत्पतेः हृषीकेश य तव गुणान् मम मनः स्मरेत वागपि तान् गृणीत किं बहुना सकलकरणयुक्तः कायस्तत्करणानुरूपं कर्म पूजनादिकं करोतु ॥ २४ ॥ * * हे समञ्जस ! सर्वसौभाग्य सम्पन्न ! त्वा त्वां विरहय्य विहाय नाकपृष्ठं ध्रुबलोकं पारमेष्टयं चतुराननलोकं सार्वभौमं सर्वभूमिराज्यं रसाधिपत्यं बिलस्वर्गसुखं योगसिद्धीरणिमादिरूपाः अपुनर्भवं जीवस्वरूपप्राप्तिलक्षणं मोक्षं परवैकुण्ठप्राप्तिरूपां मुक्ति वा न काङ्के नेच्छामि ॥ २५ ॥ तर्हि किमिच्छसि तदाह । अजातपक्षा इति । स्तन्यं दुग्धम् । विषण्णा दुःखिता
- । ।। दिदृक्षते द्रष्टुमिच्छति ।। २६ ।। दर्शनाधिकारस्तु सत्सङ्गाद्भवति अतः सत्सङ्गं मम भूयादित्याह । ममेति । * । । उत्तमकीर्त्तेस्तव जनेषु दासेषु सख्यं भूयात् त्वन्मायया आसक्तचित्तस्य अत एव संसारचक्रे स्वकर्मभिः भ्रमतः आत्मा देहस्तदादिषु सख्यं न भूयात् ॥ २७ ॥ इति श्रीमद्भागवत महापुराणे षष्ठस्कन्धे श्रीमच्छुकदेवकृतसिद्धान्तप्रदीपे एकादशाध्यायार्थप्रकाशः ॥ ११ ॥ गोस्वामिगिरिधरलाल विहिता बालप्रबोधिनी एवमिन्द्रफलनिश्चयं प्रदर्श्य स्वकर्त्तव्यं सफलमाह - अहमिति । भगवान् सङ्कर्षणो यथा मामाह तथा तस्य भगवतश्चरणारविन्दे स्वमनः समाधाय स्थिरीकृत्यस्य मुनेर्मननशीलस्य भगवद्भक्तस्य गतिं भगवन्तमहं यामि यास्यामीत्यन्वयः । वर्तमानत्वं तु विलम्बाभावसूचनार्थम् । संसारे पतितस्य दैत्यस्य तव कथं भगवत्प्राप्तिः सम्भवतीत्याशङ्कयाह - त्वदिति । तब वज्रस्य रंहसा वेगेन विलुलितः छीन्नो ग्राम्यपाशः संसारबन्धनभूतो देहो यस्य सः । नन्वेवं देहनाशेऽपि संसारहेतुभूत- तल्लोकविषयभोगवासनासत्त्वे कथं संसारनिवृत्तिः कथं वा भगवत्प्राप्तिरित्याशङ्कयाह- अपविद्धलोक इति । अपविद्धास्त्यक्ता लोकात्तल्लोकविषयभोगवासना येन स तथाभूतोऽहम् । तथा च देहमात्रस्यैव प्रतिबन्धकत्वात्तन्नाशेन संसारनिवृत्तिर्भग- वत्प्राप्तिश्च मम निश्चितवानिति भावः ।। २१ ।। * * तर्हि भगवान् स्वभक्ताय तुभ्यमेव स्वर्गादिसम्पदो दास्यतीत्यपि मा संशयिष्ठा इत्याह– पुंसामिति । किलेति निश्वये स्वकानां स्वकीयत्वेनाङ्गीकृतानां पुंसां या: सम्पदो दिवि स्वर्गे इत्युपलक्षण- मन्तरिक्षलोकस्य महर्लोकादिचतुर्णां च तेषु च याश्च भूमौ याश्व रसायां भूमेरधः सप्तसु लोकेषु ताः का अपि भगवान्न राति न ददात्येवेत्यन्वयः । ननु तद्दाने को दोष इत्यपेक्षायामाह - यदिति, यत् याभ्यः सम्पद्धयो द्वेषादयो भवन्ति । ततश्चातिकिटो भवतीति भावः । द्वेषोऽन्योन्यं वैरम् । उद्वेगो मनश्चाञ्चल्यम् आधिर्मानससन्तापः । मदो गर्वः । कलिः कलहः । व्यसनं तन्नाशे ह्रासे वा दुःखम् । सम्प्रयासः संवर्धन संरक्षणादिप्रयत्नेन श्रमः । ननु कथम्भूतान् स्वकीयता गृह्णाति यानेवं सर्वदुःखसागराद्रक्षतीत्या- शङ्कायामाह - एकान्तधियामिति, विवेकतया दुःखकारण सर्व विषयभोगाभिलाषं त्यक्त्वा स्वैकपर्यवसितबुद्धीनामित्यर्थः । तथा च मैकान्तत्वात्तव च भोगपरत्वात्तुभ्यमेव स्वर्गैश्वर्य दास्यति न मर्त्यमिति भावः ||२२|| तर्हि स्वभक्तस्य किं विधत्ते तत्राह- afiaति । त्रैवगिको धर्मार्थकामविषयो य आयासस्तस्य विघातमस्मत्पतिः अस्माकं भक्तानां स्वामी भगवान् विधत्ते करोति । तव त्विन्द्रत्वाभिमानेन स्वर्गैश्वर्य भोगाभिलाषस्य विद्यमानत्वात् सम्यग्भगवत्प्रसादो नाति अत एव विजयोपायमेवोपदिष्टवान् तथा च तवैव सम्पदो भविष्यतीति सूचयन् सम्बोधयति - हे शक्रेति । तर्हि त्वयि भगवत्प्रसादोऽस्तीति कथं ज्ञेयमित्यपेक्षाया- माह -तत इति, ततस्त्रैवर्गिकायासविघातात् भगवत्प्रसादोऽनुमेयः । अयं च हेतुरन्वयव्यतिरेकी । तत्रान्वयं दर्शयति - यः प्रसादोऽकिञ्च नगोचर एकान्तभक्तलभ्य इत्यर्थः । व्यतिरेकमाह - योऽन्यैर्विषयाक्रान्तचित्तैर्दुर्लभ इति । तथा च प्रयोगः अहं भगवत्प्रसादवान् त्रिवर्गिकायासरहितत्वात् य एवं त एवं यथैकान्तमक्ता नारदादयः येनैवं तेनैवं तथा विषयाक्रान्तचित्ता युष्मदादय इति ॥ २३ ॥ * * ननु धर्मादयश्वत्वार एव पुरुषार्थास्तत्र त्रिवर्गविघातं भगवानेव करोति मोक्षस्तु तवान- पेक्षित एव तदाकाङ्क्षायामेकान्तित्वमेव भजेतेति भक्तिमार्गे तब न कोऽपि पुरुषार्थः सिद्धयेदित्याशङ्कय पुष्टिभक्तिमार्गीयं तचतुष्टयं भिन्नमेव तदपि भगवत्कृपासाध्यमिति भगवत एव प्रार्थनीयमितीन्द्र शिक्षयन् भगवन्तं प्रार्थयते - अहमिति । तव पादावेव एकमूलमाश्रयो येषां दासानां तेषामनुदासोऽहं भूयः पुनर्भवितास्मि भविष्यामि भवेयम् । ननु सर्वस्यापि दुःखात्यन्ता- ૩૯૪ श्रीमद्भागवतम् [ स्कं. ६.अ. ११ . २१-२७ भावोऽपेक्षितः स च मोक्षं विना न भवतीति किं दास्येनेत्यतः सम्बोधयति हे हरे इति । दास्ये हि त्वमेव दासानां त्रिविध- मपि दुःखं स्वयमेवापनयसि, मोक्षे तु ज्ञानं तच्च तव धर्मस्तेन धर्मापेक्षया धर्म्याश्रयणमेव युक्तमिति भावः । साक्षात्प्रभुदास्ये स्वस्य सर्वोत्तमत्त्वाभिमानेन भक्तान्तरतिरस्कारसम्भवात् प्रभुदास्यादिभ्रंशो भवेत् तच चित्रकेतुदशायां शिवतिरस्कारेणानु- भूतमेवेति दैन्यसिद्धयर्थ परम्परादासत्वप्रार्थनं भूय इति । पूर्वं चित्रकेतुजन्मन्यहं दास एवं स्थितस्तथा पुनरपि त्वत्कृपया तथाभवेयमिति सूचितम् । तथाच तव दैत्यस्य सत्सङ्गमन्तरेण कथमयं भावो जात इत्यपि शङ्का निराकृता । एवमधिकारं सम्प्रार्थ्य धर्म प्रार्थयते । -मन इति । असुपतेरिति कर्मणि षष्ठी । असुपतिं प्राणनाथं त्वां मम मनः स्मरेत चिन्तयेत् । स्मरणस्य आत्मसुखैकसाधनत्वादात्मनेपदप्रयोगः । वाक् यस्यैव गुणान् गृणीत कीर्त्तयेत् । कीर्त्तनस्यापि मुख्यः स्वार्थ एव परार्थस्त्वानुषङ्गिक इत्यात्मनेपदप्रयोगः । कायस्तस्यैव कर्म सेवां करोतु । सेवा तु यथा प्रभोः सुखं भवति तथा क्रियते न तु तत्राणुमात्रमपि स्वार्थपरत्वमतः परस्मैपदप्रयोगः ॥ २४ ॥ * * एवं मनोवाक्कायभेदेन त्रिविधमपि धर्मं सम्प्रायर्थं प्रार्थयते तत्र प्रवृत्तिमार्गसाध्यत्वात्रिविधोऽर्थो लौकिकः, निवृत्तिमार्गसाध्यत्वात्रिविधोऽर्थो वैदिकः, तस्य षड्विधस्यापि यत्फलं तस्य षङ्गुणपूर्णे भगवति विद्यमानत्वात् पुष्टिमार्गे भगवानेवार्थ इति लौकिक वैदिकार्थनिराकरणपूर्वकं भगवन्तमेवाङ्गीकरोति, आदौ लौकिक सात्त्विकमर्थं निराकरोति — न नाकपृष्ठमिति । नाकः स्वर्गस्तस्य पृष्ठ राज्यासनमिन्द्रासनम् । तच कालान्तरे । नश्यति त्वयि चाखण्डैश्वर्यस्य विद्यमानत्वात्त्वा त्वां विरहय्य त्यक्त्वा तन का नेच्छामीत्यन्वयः । वैदिक राजसं निरा- करोति — न पारमेष्ठयमिति । परमेष्ठी ब्रह्मा तत्र रजोऽवतारत्वात् तत्स्थानमपि राजसं तत्र च ‘ब्रह्मणा सह मुच्यन्त इति वाक्यात् पारतन्त्र्येण फलसिद्ध था स्वबीर्यहानिरेव । त्वयि चाखण्डितवीर्यस्य विद्यमानत्वा विरहय्य तदपि न का ॥ ।।
- एवमर्थ निरूाय
इत्यन्वयः । लौकिकराजसमर्थ निराकरोति-न सार्वभौममिति । सर्वभूमेरीश्वरत्वे हि सर्वत्र लोके यशो भवति तच दानादि - सापेक्ष्यत्वात् औपाधिकं सावधिकं च । ‘यद्वायसं तीर्थ’ इति वाक्यात् स्वरूपतः ‘राज्यान्ते नरकं ध्रुवं’ इति वचनादवसानतश्च दुष्टमेव । त्वयि चानवद्ययशसो विद्यमानत्वात् त्वां विरहस्य तदपि न काडूने इत्यन्वयः । लौकिकतामसमर्थ निराकरोति - न रसाधिपत्यमिति, रसेत्युपलक्षणं भूमेरधः सर्वलोकाधिपत्यमित्यर्थः । तत्र च भूम्यपेक्षया सुखभोगोधिकः स च श्रिया भवति सा च त्वया बलेरपहृता दत्ता च, त्वयि चानपायिन्याः श्रियो नित्यं विद्यमानत्वात्त्वां विरहय्य तदपि न काङ्क्ष इति । वैदिकं तामसमर्थ निराकरोति-न योगसिद्धिरिति । अपकयोगिनो हि सिद्धिबलेनापेक्षितविषयान् संसृज्य भोगं कुर्वन्तीति तेन योगादपि भ्रष्टा भवन्तीति येषां ज्ञानं भ्रान्तमेव त्वयि च नित्यखण्डितज्ञानस्य विद्यमानत्वात्च्त्वां विरहय्य ता अपि न काङक्षे इति । वैदिकसात्विकत्वमर्थं निराकरोति - अपुनर्भवमिति । सत्त्वात्सञ्जायते ज्ञानी इति वचनात् ज्ञानस्य सात्त्विकत्वेन तत्साध्यस्य मोक्षस्यापि सात्त्विकत्वमुच्यते, स च गणितानन्दत्वेन गणितवैराग्य एव स्यात् त्वयि तु पूर्णानन्देऽखण्डितवैरागस्य विद्यमानत्वात् त्वां विरहय्य तमपि न काङ्क्ष इति । यद्यपि मर्यादामार्गे मोक्षस्तुरीयपुरुषार्थ तथापि तत्र जन्माभावातिरिक्त- विशेषाभावात् पुष्टिमार्गे तस्य हेयत्वेनार्थमध्ये गणनमित्यनादरद्योतनार्थो वाशब्दः, यत्र मोक्षस्यापि अनादरस्तत्रान्येषां किं. वाच्यमिति त्वां विरहय्येत्यनेन त्वामेव काङ्क्ष इति यदर्थादुक्तं तत्र हेतुं सूचयन सम्बोधयति - हे समञ्जसेति, पूर्णानन्दत्वेन परमपुरुषार्थरूपेत्यर्थः ।। २५ ॥ * कामं निरूपयति - अजातेति । हे अरविन्दाक्ष मनस्त्वां दिदृते इत्यन्वयः । दिदृक्षाहेतुभूतं स्वरूपसौन्दर्य सम्बोधनेन सूचितम् । नेत्रयोरम्बुजत्वेन तद्दिदृक्षया मनसो मधुपत्वं बोधितम् । तथा च यथारविन्दे विकसित एव मधुपस्य कामः सिद्धयति नान्यथा तथा त्वत्कृपादृष्टयैव मम मनसः सन्तोषी नान्यथेति विचार्य मयि कृपादृष्टि सम्पादयेति प्रार्थितम् । किञ्च दिक्षा हि दृशो धर्मः स चात्र मनसो निरूप्यते तेन मनसः सर्वेन्द्रियसङ्कर्षणात् सर्वेन्द्रियाणां कामो निरूपितों भवति । अन्यथा भजनानन्दानुभवस्य पूर्णत्वं न स्यादिति सूचितम् । प्रभोः पूर्णकामत्वेन क्रियाफलस्यात्मगामित्वादिदृक्षते इत्यात्मनेपदप्रयोगः । मनसश्चञ्चलत्वात् । मधुपत्वबोधनेन च कामान्तरं सम्भवतीति तदभावाय दृष्टान्तमाह-अजातपक्षा इव मातरं खगा इति यथा अजातपक्षाः पक्षिणः कदा किमानीय मह्यं दास्यतीति मातरं द्रष्टुमिच्छन्ति तद्वदित्यर्थः । अत्र च क्षुधार्त्तानां नियतभक्ष्याभावात् अनियतविषयत्वम् अजातपक्षा इत्युक्त्या जातपक्षाणां तथा दिक्षाभावस्य सूचितत्वादनियतकालत्वम् । क्षुदुपाधिकृतत्वं च इति दूषणत्रयं सम्भाव्य द्वितीयं दृष्टान्तमाह- स्तन्यं यथा वत्सतराः क्षुधार्त्ता इति, यथा वत्सतरा अतिबालका वत्साः क्षुधा पीडिताः कदा स्तन्यं दुग्धं प्राप्याम इति तदिच्छन्ति तथेत्यर्थः । तेषां स्तन्यमात्रैककामत्वादत्र तदेवोक्तम् । मातुरभावे तद्बुद्धया परस्या अपि स्तन्यपानप्रवृत्तिदर्शना- न्माता नोक्तेति ज्ञेयम् । अत्रापि नियतविषयत्वेऽपि वत्सतरपदादनियतकालत्वं क्षुदुपाधिकृतत्वं चेति दूषणद्वयं सम्भाव्य तृतीयं दृष्टान्तमाह-प्रियं प्रियेव व्युषितं विषण्णेति । उभयत्र प्रियपदप्रयोगान्निरुपाधिकः स्नेहो निरूपितः व्युषितं प्रवासिनं प्रियं पतिं यथा विषण्णा तद्विरहेण विषादं प्राप्ता प्रिया द्रष्टुमिच्छति तद्वदित्यर्थः । विषण्णेत्यनेन नियतत्वविषयत्वं दर्शितम् अन्यथा विषादासम्भवात् । न च विदेशादागमनानन्तरं दिक्षाया निवृत्तिदर्शनात्तस्यापि अनियतकालत्वमस्त्येवेति शङ्कनीयं स्कं ६ अ. ११ श्लो. २१-२७] अनेकव्याख्यासमलङ्कृतम् ३७५ दर्शनदशाया दिक्षाभावस्यादूषणत्वादित्ययमेव दृष्टान्तो युक्तः ।। २६ ।। * एवं कामं निरूप्य मोक्षं प्रार्थयति- ममेति । भक्तिमार्गे भवदीयत्वेनैव परिसमाप्तार्था इति वचनात् भगवदीयत्वेन भगवल्लीलानुभव एव मोक्षः । स च भगवदीय- सङ्गात् भगवद्विमुखविषयासक्तसङ्गाभावपूर्व काद्भवतीतिवत्प्रार्थयते - हे नाथ स्वामिन् स्वकर्मभिः संसारचक्रे भ्रमतोऽपि मम उत्तम श्लोकस्य तत्र जनेषु भक्तेषु सख्यं भूयात् त्वन्मायामोहेन आत्मादिष्वासक्तं चित्तं यस्य तस्य सख्यं न भूयादित्यन्वयः । आत्मा देहः । आत्मजाः पुत्राः । दाराः स्त्री । गेहं गृहम् । उद्गच्छति तमोऽविद्या यस्मात् स उत्तमाः उत्तमः श्लोको यशो यस्य स उत्तमश्लोकः इत्यनेन भगवद्भक्तसङ्गेन भगवद्यशोगानेनैव सर्व कर्म मूलाविद्यानिवृत्त्या संसारनिवृत्तिरनायासेनैव भवतीति सूचितम् । संसारचक्रे भ्रमत इत्यपि सम्भावनामात्रेणोक्तम् । अनन्तरमेव सायुज्यस्य वक्ष्यमाणत्वात् ‘मनस्विनां पादरजः प्रपत्स्ये’ इत्युक्तत्वाच्च ॥ २७ ॥ इति श्रीवल्लभाचार्यश्यगोपालसूनुना । श्रीमन्मुकुन्दरायाणां पादसेवाधिकारिणा ॥ १ ॥ श्रीमद्गिरिधराख्येन भजनानन्दसिद्धये । श्रीमद्भागवतस्येयं टीका बालप्रबोधिनी ॥ २ ॥ रचिता तत्र षष्ठेऽस्मिन् स्कन्धे रूपनिरूपणे । एकादशो गतो वृत्तिं वृत्रभक्तिनिरूपकः ॥ ३ ॥ भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी । संश्च ननु ‘आसुरी योनिमापन्ना मूढा जन्मनि जन्मनि, मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम्’ इत्युक्तरीत्या नरकोदर्कस्वमरणार्थ किं मां प्रार्थयसे तत्राह । अहमिति । हे इन्द्र, अमासुरः सन्नपि नरक न यास्यामि त्वत्कृतवजहननेन मम पीडापि न भविष्यति इति शेषः । यतः, संकर्षणः ममेष्टदेवः गुरुश्च स्वयं संकर्षणो भगवान् यथा आहोपदिदेश । मम चरणारविन्दे मनो निश्चलं विधेयमित्यादि मां यथाऽऽदिष्टवानित्यर्थः । तथा, तञ्चरणारविन्दे मनः समाधाय, तब वजस्य रंहसा वेगेन लुलितरिछन: ग्राम्यः विषयरागरूपः पाशो यस्य सः, देहलवनद्वारा ग्राम्यपाशोऽपि लुलितो भवतीति भावः । अपविद्धस्त्यक्तः लोकः स्वर्गादिलोको येन त्यक्तो लोको देहो वा येन, तथाभूतः सन् मुनेः गतिं सात्त्विकस्य भगवद्गुणमनन- शीलस्य साधोः प्राप्तिमित्यर्थः । यामि यास्यामि । असुरोऽप्यहं मदिष्टसंकर्षणभगवदुपदिष्टतत्त्वोऽविदितदेहहननदुःखः मुक्तिमेव यास्यामि न त्वर्वाचीन लोकानिति भावः ।। २१ ।। भगवान् संकर्षण: मां स्वभृत्यं ज्ञात्वा मह्यमेव वर्गादिसंपदो दास्यतीत्यपि मा संशयिष्ठाः मम स्वामी भगवानात्मानं भजतां स्वीयामेव गतिं ददाति न त्वर्वाचीनामित्याह पुंसामिति सार्द्धेन । पुंसामिति । एकान्तधियां प्रयोजनान्तररहितमतीनां अनन्यप्रयोजनानामित्यर्थः । स्वकानां स्वभक्तानां पुंसाम् अस्मत्पतिरिति शेषः । अस्माक स्वामी संकर्षणो भगवानित्यर्थः । दिवि स्वर्गादौ, भूमौ रसायामतलादिलोके च याः संपदो विभवाः, ताः न राति न ददाति किल । कुतः । यतः यद्यासु संपत्सु, द्वेषः परस्परमसहिष्णुत्वम, उद्वेगो विनाशभयम्, आधिस्तत्प्रयुक्ता मनोव्यथा, मदो विषयभोगनिमित्तो मदः, स च तत्त्वज्ञानोदयप्रतिबन्धक इति भावः । कलिः विषयभोग- विरोधिभिः सह कलहः, व्यसनमभिमतविषयालाभनिमित्तं दुःखं, संप्रयासः क्षुद्रसुखाय प्रकृष्टों यत्नश्चेत्यादयः भवन्तीति शेषः । अतः परमकृपालुर्भगवान् स्वैकान्तिकभक्तानां नो, मुक्तिमेव दास्यतीति भावः ।। २२ ।। तर्हि स्वभक्तस्यात्र यद्विधत्ते तत् किं तत्राह । त्रैवर्गिकेति । हे शक्र, अस्मत्पतिः पुरुषस्य स्वैकान्तिकभक्तस्य, त्रैवर्गिकः धर्मार्थकामविषयः यः आयासस्तस्य विघातस्तं विधत्ते । तत आयासोपरमात्, भगवत्प्रसादः अनुमेयः । न त्वैश्वर्यप्रदानादिना । अतः अकिंचनगोचरः, अयं प्रसादस्तु अकिंचनानामेवानन्दैकनिलयः, न तु सकामानां भवादृशामित्यर्थः । तत यः, अयं प्रसादः, सः, अन्यैः सकामभक्तैः दुर्लभः । एकान्तिकभक्तेष्वस्मास्विव भवत्सुभक्तत्वेऽपि भगवत्प्रसादाभावात्तव संपद एव भविष्यन्तीति भावः ॥ २३ ॥ एवमिन्द्राय स्वाभिप्रायं निवेद्याथ मनसाऽनुसंहितं वज्रमनुप्रविष्टं वजाग्रे च स्वस्य दृश्यमानं भगवन्तमभिमुखीकृत्याह । अह- मिति । हे हरे भगवन्, अहं तव, पादावेवैक मूलमाश्रयों येषां तथाविधा ये दासास्तेषामनुदासो दासदासः, भूयः भवितास्मि भविष्यामि । भवेयमित्यर्थः । असुपतेर्मत्प्राणनाथस्य ते तव गुणान् एव मनो मम मानसं स्मरेत् अनुस्मरत्वित्यर्थः । वागपि, तानेव गृहीत कीर्त्तयतु । कायो देहः, कर्म त्वदाराधनरूपां क्रियामित्यर्थः । करोतु ॥ २४ ॥ * ननु किं दास्येन तुभ्यमहमैहिकमा मुष्मिक च महदैश्वर्य दास्यामीति चेत्त्वद्दास्यं विनाऽहं तु नान्यत् किमपि का इत्याह नेति द्वाभ्याम् । न नाकेति । हे समञ्जस निखिलसौभाग्यनिधे, त्वा त्वां विरहय्य पृथक कृत्य, नाकपृष्ठं वैकुण्ठं ध्रुवपदमित्यर्थः । न कालो च तथा पारमेष्ठयं ब्रह्मलोकादिक न काते । सार्वभौमं कृत्स्नभूम्याधिपत्यं न । रसाधिपत्यं पातालादिलोकाधिपत्यं न । योगसिद्धीरणिमाद्या अपि न । किं बहुना । अपुनर्भवं कैवल्यमपि न काङक्षे । केवलं त्वामेवेच्छामीत्यर्थः ॥ २५ ॥ , * * अजातेति । हे अरविन्दाक्ष कमलनयन हे हरे, अजातपक्षाः अनुत्पन्नगरुतः, खगाः पक्षिशावकाः, मातरम् इव, घूकादिभिः पीडिताः सन्तः, स्वमातरं यथेत्यर्थः । तुवा आर्त्ताः चुत्पीडिताः, बुभुझापीडावन्त इत्यर्थः । वत्सतरा दाना बद्धा बालवत्साः, ३७६ श्रीमद्भागवतम् [ स्कं. ६ अ. ११ श्लो. २१-२७ स्तन्यं स्वमातुः पयः यथा व्युषितं प्रोषितं दूरदेशं गतमिति यावत् । प्रियं स्वपतिं विषण्णा दुःखिता, प्रिया पतिव्रताङ्गना इव मे मम मनः केवलं त्वां दिदृक्षते द्रष्टुमिच्छति ॥ २६ ॥ ममेति । उत्तमश्लोकस्य तब ये जनास्तेषु, तबैकान्तिक- भक्तजनेष्वित्यर्थः । मम सख्यं भूयात् । हे नाथ, स्वकर्मभिः संसारचक्रे भ्रमतः मम त्वन्मायया आत्मा देहश्व आत्मजाः पुत्राश्च दाराः स्त्रियश्च गेहं गृहं च तेषु, आसक्तचित्तस्य मतोऽपि, भूयः तेषु आत्मादिषु, आसक्तिरिति शेषः । न भूयात् । एवं मामनुगृहाणेति शेषः ॥ २७ ॥ इति श्रीधर्मधुरंधर श्रीधर्मात्मजप्रत्यक्ष पुरुषोत्तम श्री सहजानन्दस्वामिसुत श्री रघुवीराचार्यसूनुभगवत्प्रसादाचार्यविरचिता- यामन्वयार्थावबोधिन्यां श्रीमद्भागवटीकायां षष्ठस्कन्धे एकादशोऽध्यायः ।। ११ ।। * भाषानुवादः देवराज ! भगवान् सङ्कर्षण के आज्ञानुसार मैं अपने मनको उनके चरणकमलोंमें लीन कर दूँगा । तेरे वज्रका वेग मुझे नहीं, मेरे विषयभोगरूप फंदेको काट डालेगा और मैं शरीर त्याग कर मुनिजनोचित गति प्राप्त करूँगा ॥ २१ ॥ जो पुरुष भगवान् से अनन्य प्रेम करते हैं— उनके निज जन हैं—उन्हें वे स्वर्ग, पृथ्वी अथवा रसातलकी सम्पत्तियाँ नहीं देते | क्योंकि उनसे परमानन्दकी उपलब्धि तो होती ही नहीं; उल्टे द्वेष, उद्वेग, अभिमान, मानसिक पीड़ा, कलह, दुःख और परिश्रम ही हाथ लगते हैं ॥ २२ ॥ इन्द्र ! हमारे स्वामी अपने भक्तके अर्थ, धर्म एवं कामसम्बन्धी प्रयासको व्यर्थ कर दिया करते हैं और सच पूछो तो इसीसे भगवान की कृपाका अनुमान होता है। क्योंकि उनका ऐसा कृपा-प्रसाद अकिञ्चन भक्तोंके लिये ही अनुभवगम्य है, दूसरोंके लिये तो अत्यन्त दुर्लभ ही है ॥ २३ ॥ ( भगवानको प्रत्यक्ष अनुभव करते हुए वृत्रासुरने प्रार्थना की - ) ‘प्रभो ! आप मुझपर ऐसी कृपा कीजिये कि अनन्यभावसे आपके चरणकमलोंके आश्रित सेवकों की सेवा करनेका अवसर मुझे अगले जन्म में भी प्राप्त हो ! प्राणवल्लभ ! मेरा मन आपके मङ्गलमय गुणोंका स्मरण करता रहे, मेरी वाणी उन्हींका गान करे और शरीर आपकी सेवामें ही संलग्न रहे ।। २४ ।। सर्वसौभाग्य- निधे ! मैं आपको छोड़कर स्वर्ग, ब्रह्मलोक, भूमण्डलका साम्राज्य, रसातलका एकछत्र राज्य, योगकी सिद्धियाँ - यहाँतक कि मोक्ष भी नहीं चाहता ।। २५ ।। जैसे पक्षियोंके पंखहीन बच्चे अपनी माकी बाट जोहते रहते हैं । जैसे भूखे बछड़े अपनी माका दूध पीनेके लिये आतुर रहते हैं और जैसे वियोगिनी पत्नी अपने प्रवासी प्रियतमसे मिलनेके लिये उत्कण्ठित रहती है— वैसे ही कमलनयन ! मेरा मन आपके दर्शन के लिये छटपटा रहा है ।। २६ ।। * प्रभो ! मैं मुक्ति नहीं चाहता । मेरे कर्मों के फलस्वरूप मुझे बार-बार जन्म-मृत्यु के चक्कर में भटकना पड़े, इसकी परवा नहीं। परन्तु मैं जहाँ-जहाँ जाऊँ, जिस-जिस योनि में जन्मूँ, वहाँ-वहाँ भगवान् के प्यारे भक्तजनोंसे मेरी प्रेम-मैत्री बनी रहे । स्वामिन्! मैं केवल यही चाहता हूँ कि जो लोग आपकी मायासे देह-गेह और पुत्र आदिमें आसक्त हो रहे हैं, उनके साथ मेरा कभी किसी प्रकारका भी सम्बन्ध न हो’ ॥ २७ ॥ इत्येकादशोऽध्यायः ॥। ११ ॥ Ma अथ द्वादशोऽध्यायः क् ऋषिरुवाच तरसासुरेन्द्रः । १ ॥ एवं जिहासुर्नृप देहमाजौ मृत्युं वरं विजयान्मन्यमानः । शूलं प्रगृह्याभ्यपतत् सुरेन्द्र यथा महापुरुषं कैटभोऽप्यसु ॥ ततो युगान्ताग्निकठोरजिह्वमाविध्य शूलं क्षिप्त्वा महेन्द्राय विनद्य वीरो हतोऽसि पापेति रुषा जगाद ॥ २ ॥ ख आपतत्तद् विचलद् ग्रहोल्कवन्निरीक्ष्य दुष्प्रेक्ष्यमजातविक्लवः । वज्र वज्री शतपर्वणाच्छिनद् भुजं च तस्योरगराजभोगम् ॥ ।। ३ । छिन्नैकबाहुः परिघेण वृत्रः संरब्धः आसाद्य गृहीतवज्रम् | हनौ तताडेन्द्रमथामरे ’ वज्रं च हस्तान्त्यपतन्मघोनः ॥ ४ ॥ कर्मा तिमहाद्भुतं तत् सुरासुराश्वारणसिद्धसङ्घाः । वृत्रस्य अपूजयंस्तत् पुरुहूतसंकटं निरीक्ष्य हा हेति विचुकुशुर्भृशम् ।। ५ ।। इन्द्रो न वज्रं जगृहे विलञ्जितश्च्युतं स्वहस्तादरिसन्निधौ पुनः । तमाह वृत्रो हर आत्तवजो जहि स्वशत्रुं न विषादकालः ॥ ६॥ युयुत्सतां कुत्रचिदाततायिनां जयः सदैकत्र न वै विनैकमुत्पत्तिलयस्थितीश्वरं परात्मनाम् । सर्वज्ञमाद्यं पुरुषं सनातनम् ॥ ७ लोकाः सपाला यस्येमे श्वसन्ति विवशा वशे । द्विजा इव शिचा बद्धाः स काल इह कारणम् ॥ ओजः सहो बल प्राणममृतं मृत्युमेव च । तमज्ञाय जनो हेतुमात्मानं यथा दारुमयी नारी यथा यन्त्रमयो मृगः । एवं भूतानि कृष्णप्रिया व्याख्या ८ ॥ हेतुमात्मानं मन्यते जडम् ।। ९ ।। मघवन्नीशतन्त्राणि विद्धि भोः ॥ १० ॥ ।। अन्वयः - नृप एवम् आजौ देहं जिहासुः विजयात् मृत्युं वरं मन्यमानः यथा कैटभः अप्सु महापुरुषं शूलं प्रगृथ सुरेन्द्रम् अभ्यपतत् ॥ १ ॥ * * ततः वीरः असुरेन्द्रः युगान्तानिकठोरजिह्यं शूलम् आविद्धय तरसा महेन्द्राय क्षिप्ला विनद्य पापः हतः असि इति रुषा जगाद ॥ २ ॥ * *
-
- अजातविकुवः वज्री खे आपतत् विचलत् ग्रहोल्कवत् दुष्प्रेक्ष्यं तत् निरीक्ष्य शतपर्वणा वज्र ेण आच्छिनत् च उरगराजभोगं तस्य भुजम् ॥ ३ ॥ * * छिन्नैकबाहुः वृत्रः संरब्धः परिघेण गृहीतवत्रम् इंद्रम् आसाद्य हनौ अथ अमरेभं तताड च मघोनः हस्तात् वज्रं न्यपतत् ॥ ४ ॥ * * सुरासुराः चारण- सिद्धसंघाः अतिमहाद्भुतं तत् वृत्रस्य कर्म अपूजयन् पुरुहूतसंकट निरीक्ष्य हा हा इति भृशं विचुकुशुः ॥ ५ ॥ इंद्र: विलज्जित: अरिसन्निधौ स्वहस्तात् च्युतं वज’ न जगृहे वृत्रः पुनः तम् आह हरे आत्तवजूः स्वशत्रु’ जहि विषादकालः न ॥ ६ ॥ एकम् उत्पत्तिलयस्थितीश्वरं सर्वज्ञम् आद्यं सनातनं पुरुषं विना कुत्रचित् परात्मनाम् आततायिनां युयुत्सतां वै तदा जयः न १. प्रा० पा०- - रेशं वज्रश्व हस्तादपत० ॥ ४८ ३७८ श्रीमद्भागवतम् [ स्कं. ६ अ. १२ श्लो. ११-२० भवति एकत्र ॥ ७ ॥ कारणम् ॥ ८ ॥
-
- इमे सपालाः लोकाः शिचा बद्धाः द्विजाः इव यस्य वशे विवशाः श्वसन्ति सः कालः इह जनः ओजः सहः बलं प्राणम् अमृतं च मृत्युम् इव तम् अज्ञाय जडम् आत्मानं हेतुं मन्यते ॥ ९ ॥ भोः मघवन् यथा दारुमयी नारी यथा यंत्रमयः मृगः एवं भूतानि ईशतंत्राणि विद्धि ॥ १० ॥ श्रीधरस्वामिविरचिता भावार्थदीपिका द्वादशेऽतिविषण्णेन स्वयमुत्साहितेन तु | महेंद्रेण महायुद्धे वृत्रस्य वध ईर्यते ॥ १ ॥ ||
हनौ कपोलप्रांते । अमरेभमैरावतं च ॥ ४ ॥ महापुरुषं श्रीविष्णुम् । अप्सु प्रलयोदके ॥ १ ॥ * * युगांताग्निवत्कठोरा जिह्वा शिखा यस्य तत् | आविध्य भ्रामयित्वा ।। २ ।। * * तत्खे आपतदागच्छत् । विचलत्परिभ्रमत् । ग्रहश्चोल्का च महोल्कं तद्वद् दुष्प्रेक्ष्यम् । शतं पर्वाणि यस्य तेन । उरगराजो वासुकिस्तस्य भोगो देहस्तदाकारम् ॥ ३ ॥ पुरुहूतस्य इंद्रस्य संकटम् ॥ ५ ॥ पुनश्च तमाह वृत्रः । हे हरे इंद्र ॥ ६ ॥ कुत्रचिज्जय एकत्र कुत्रचित्कदाचिन्नैव । यद्वा कुत्रचिदपि युयुत्सतां सदा जयो आत्मा येषां पराधीनात्मनामिति वा । आद्यमनादिम् । सनातनं नित्यम् ॥ सप्तभिः । यस्य वशे स्थिताः स्वयं विवशाः संतः श्वसंति चेष्टंते । द्विजाः पक्षिणः । शिचा जालेन । कालः कलयतीति भगवान् इह जयादौ कारणम्॥८ ॥ * * ओजआदिरूपं कालं तं हेतुमज्ञायाविज्ञाय जडं संतमात्मानं देहं हेतुं मन्यते ।। ९-१० ॥ ॥ ६ ॥ * सदा जयो नैव किं तु नैव किं त्वेकत्र व । कदाचिदेवेत्यर्थः । परो देह ७ ॥ * * पराधीनतामेवाह । लोका इति वंशीधरकृतो भावार्थदीपिकाप्रकाशः T अतिविषण्णेनात्याकुलेन ( १ ) नृपेति । नृपाणां युद्धे देहत्यागो यथेप्सितस्तथा तस्यापि नृपत्वात्तथात्वमीप्सितं तस्य नृपत्वं वाल्मीकीयोत्तरकांडांते वर्णितम् । संग्राममरणस्य महाफलत्वाद्वरं श्रेष्ठं मृत्युम् । अभ्यपतत् संमुखमागच्छत् ॥ १ ॥ ततोऽभ्यागमनोत्तरम् । कठोरा दीप्ता । ‘कठोरो दीप्तिपूर्णयोः इत्यभिधानात् । पापेति । पापमेव त्वद्धननं करिष्यत्यहं तु निमित्त- मात्रमिति भावः ॥ २ ॥ * * शतं पर्वाणि प्रथयः ‘पर्व ग्रंथौ महे’ इत्यभिधानात् । तदाकारं तद्वत्पुष्टम् । " भोगो विषयसेवायामहिवर्ष्मणि पालने । वत्तु ले स्थूलतायां च जन्मन्यास्वादनेऽपि च ।" इति वररुचिः ॥ ३ ॥ * * परिघेणेंद्रं हनौ चिबुकप्रांते । अथ इन्द्रताडनोत्तरम् ॥ ४ ॥ * * तद्वज्रपातनरूपम् । अपूजयन् प्राशंसन् । तत् स्वकरतः शस्त्रपतन- रूपम् ॥ ५ ॥ * हे हरे इति । मत्प्राणहरणोद्यतेति भाव्यमित्यभिप्रायेणाह । विषादश्चेतसो भंगस्तस्य कालोऽवसरः ॥ १६ ॥ एकत्रेति पदस्य कुत्रचिदित्यर्थासंभवादाह – यद्वेति । इत्यर्थं इति । एकस्मिन्काले एकत्र ति व्युत्पादनात्स्वत एव कदाचिदर्थतैकत्र पदस्य भवतीति भावः । देहस्य जडत्वेनात्मता न संभवतीति स्वयं विमृश्याह - पराधीनात्मनामिति । परस्यायत आत्मा येषा- मिति मध्यमपदलोपी समासः । उत्पत्त्यनंतरं लयोपादानं प्रतिक्षणं लीयमानत्वाभिप्रायम् ॥ ७ ॥ * * कलयति सत्तत्समयं विचारयतीति कालः ॥ ८ ॥ * “स वै बलं बलिनां चापरेषाम्" इत्युक्तन्यायेन तस्यैवौज आदिरूपत्वं नान्यस्येत्यर्थः । जनः पामर : अज्ञपुरुष इत्यर्थ: “जनो लोके महर्लोकात्परलोके च पामरे’ इति मेदिनी ॥ ९ ॥ पराधीनत्वं स्फोटयति- पुत्तलिका यथा तंत्री परावर्त्तनकर्तुर्वशे । यंत्रमयों दारुनिर्मितः । मघवन्निति । ‘मघो द्वीपांतरे ज्ञाने’ इत्यभिधानात् । त्वं ज्ञानी भूत्वाऽपि न जानासीति तस्य मौढ्यं व्यनक्ति भो इत्यनेन तुच्छतां चाह - ईशतंत्राणि परमेश्वराधीनानि ॥ १० ॥ 1 अन्वितार्थप्रकाशिका द्वादशे तु महायुद्धे शिरो वृत्रस्य वासवः । वज्रेण चिच्छेद तत्र श्लोकाः सार्द्धाः शरामयः ( ३५|| ) । * चत्वार्युवाचेति साङ्घ्रिनन्दरामा ( ३६ ) अनुष्टुभः ॥ १२ ॥ एवमिति । हे नृप ! आजौ युद्धे मोक्षप्रतिबन्धकं देहं जिहासुः त्यक्तुमिच्छुः अतः विजयादपि मृत्युमेव वरं मन्यमानो वृत्रः शूलं प्रगृह्य सुरेन्द्रमभ्यपतत् । यथा अप्सु प्रलयोदके महापुरुषं विष्णुं कैटभाख्यो दैत्योऽभ्यपतत्तद्वत् ॥ १ ॥ तत इति । ततः वीरः असुरेन्द्रो वृत्रो युगान्तामिवत्कठोरा जिह्वा शिखा यस्य तत् शूलमाविष्य भ्रामयित्वा महेन्द्राय तरसा वेगेन क्षिप्त्वा विनय हे पाप ! त्वं मया हतोऽसीति रुषा जगाद ॥ २ ॥ * * ख इति । तच्छूलं खे आकाशे आपतत् आगच्छत् विचलत् विभ्रमत् ग्रहश्च उल्का च ग्रहोल्कं तद्वद्दुष्प्रेक्ष्यमपि निरीक्ष्य अजातविवो भयशून्य एव वजी इन्द्रः शतं पर्वाणि यस्य तेन वजू णाच्छिनत् तथा उरगराजो :स्कं. ६ अ. १२ श्लो. १-१०] अनेकव्याख्या समलङ्कृतम् C ३७९ वासुकिस्तस्य भोगो देहस्तदाकारं तस्य वृत्रस्य भुजं चाच्छिनत् ॥ ३ ॥ * * छिन्नेति । छिन्न एको बाहुर्यस्य स तथाभूतोऽपि वृत्रः संरब्धः क्रुद्धः सन् गृहीतो वजो येन स तमिन्द्रमासाद्य प्राप्य परिषेण लोहदण्डविशेषेण हनौ कपोलप्रान्ते तता । अथानन्तरमेवामरेभम् ऐरावतं च तताड । “अनित्यण्यन्ताश्चुरादयः” इति न णिच् आर्षत्वाद्वा । मघोनः इन्द्रस्य हस्ताद्व च न्यपतत् ॥ ४ ॥ * * वृत्रस्येति । तदतिमहोद्भुतं वृत्रस्य कर्म सुरादयः सर्वेऽपूजयन् सत्कृतवन्तः । पुरुहूतस्येन्द्रस्य तत्सङ्कटं निरीक्ष्य सुरादयो हा हेति भृशं विचुक्रुशुश्च ॥ ५ ॥ * * इन्द्र इति । अरेः सन्निधौ स्वहस्तात् च्युतं वज्रं चिलज्जितः इन्द्रः पुनर्न जगृहे तदा च वृत्रस्तमिन्द्रमाह स्म । हरे इन्द्र ! आत्तवजूः संस्त्वं शत्रुं मां जहि । अयं विषादस्य कालो न भवति ।। ६ ।। * * युयुत्सतामिति । उत्पत्तिलयस्थितीनामीश्वरं सर्वज्ञमाद्यमनादि सनातनं नित्यं पुरुषं भगवन्तं विना तस्य तु सर्वत्र जय इति भावः । परो देह एवात्मा येषां पराधीनात्मनामिति वा युयुत्सतां योद्धुमिच्छताम् । शता आर्ष: । आततायिनां गृहीतशस्त्राणामेकत्र स्वपक्ष एव सदा जय इति नियमो न किंतु कुत्रचिदेव जयः एकत्र कुत्रचित् नैव । यद्वा । कुत्रचिदपि सदा जयो नैव किं तु एकत्रैव कदाचिदेव तेन कुत्रचित्पराजयोऽपि भवत्येव ॥ ७ ॥ * पराधीन- तामाह-लोका । तामाह — लोका इति । इमे सपाला लोकाः यस्य वशे स्थिताः स्वयं विवशाः सन्तः श्वसन्ति चेष्टन्ते शिचा जालेन बद्धा द्विजाः पक्षिणो यथा चेष्टन्ते तद्वत् । अतः स कलयतीति कालो भगवानेवेह जयपराजयादौ कारणम् ॥ ८ ॥ * * ओज इति । ओजा आदिरूपेण स्थितं तं भगवन्तमेव हेतुमज्ञाय अविज्ञाय । ल्यबार्षः । जनो महात् जनमस्वतन्त्रमात्मानं देहमेव हेतुं । ६॥ * मन्यते । ओजः सहो बलं क्रमादिन्द्रियमनोदेहशक्तयः स्पष्टमन्यत् ॥ ६ ॥ यथेति । स्पष्टम् ॥ १० ॥
- । वीरराघवव्याख्या
俱 एवमभिलषितभगवदेकदास्यो निरयौपमाभिमानविषयैश्वर्यकैवल्यौ जिहासितस्वकलेवरौ वृत्रौ युयुधे इत्याह मुनिः । एव- मिति । हे नृप ! स्वकलेबरं हातुमिच्छतुरत एवाजौ युद्धे जयान्मृत्युमेव वरं श्रेष्ठं मन्यमानः शुलं गृहीत्वा सुरेन्द्रं मघवन्तं प्रति अभ्यपतत्तदभिमुखमगात् । यथा महापुरुषं भगवन्तं प्रत्यप्सु प्रलयोदके कैटभाख्योऽसुरस्तद्वत् ।। १ ॥ * * ततोऽसुरेन्द्रो वीरो वृत्रः प्रलयकालवह्निवत्कठोरा दुःसहा जिह्वा शिखा यस्य तच्छूलमाविष्य भ्रामयित्वा क्रोधेन महेन्द्राय क्षिप्त्वा विनद्य सिंहनादं कृत्वा हे पाप ! हतोऽसीति जगाद ॥ २ ॥ ६ * ततो वज्री इन्द्रः खे आकाशे आपतदा- गच्छद्विचलत्प्ररिभ्रमश्च ग्रहोल्कवत् दुष्प्रेक्ष्यं दुर्निरीक्ष्यं च यच्छूलं ग्रहश्च उल्काश्चेति द्वन्द्वाद्वतिः ग्रहः सूर्यः उल्का अङ्गाराः तच्छूलं तथा तस्य वृत्रस्य उरगराजभोगं वासुकिदेहाकारं भुजं चाजातविषः अनुदिताधैर्यः सन् शतं पर्वाणि यस्य तेन वज्रणा- च्छिनत अद्भुतं यथा भवति तथेति क्रियाविशेषणं शूलविशेषणं भुजविशेषणं वा ॥ ३ ॥ ततो वृत्रः छिन्नः एकः बाहुर्यस्य सः अत एव संरब्धः नितरां क्रुद्धः गृहीतवजमिन्द्रमासाद्य समीपमागत्य परिघेणायुधविशेषेण तताड । अथामरेभमैरावतं च तताड । एवं ताडितस्य तस्य मघोन इन्द्रस्य हस्ताद्वमायुधं न्यपतद्विगलितमभूत् ॥ ४ ॥ तद्वृत्रस्य महदद्भुतं च कर्म निरीक्ष्य सर्वे सुरादयः अपूजयन्नहो एतस्य पराक्रम इति वह्नमन्यन्त । तथा पुरुहूतस्येन्द्रस्य सङ्कटं निरीक्ष्य भृशं हाहेति विचुक्र - शुर्भृशमिति सङ्कट विशेषणं वा ॥ ५ ॥ * तत इन्द्रः स्वहस्ताच्छत्र सन्निधौ च्युतं बज्रायुधमत एव लज्जितो व पुनर्न जगृहे न गृहीतवान् । तमगृहीतवज मिन्द्र वृत्र आह बभाषे । उक्तिमेवाह । हर इत्यादिना अमुष्य पराजय इत्यन्तेन । हे हरे ! इन्द्र ! पुनर्गृहीतवजस्त्वं स्वशत्रु मां जहि अयं विषादकाल : शोककालो न भवति ॥ ६ ॥ ननु पराजयेन लज्जि- तोsहं यो नोत्सहे तत्राह । युयुत्सतामिति । आततायिनां जिघांसतां योद्धुमिच्छूनां पुंसां सदा सर्वत्र च जयो न वै न भवति । किन्तु कुत्रचिदेव कस्मिंश्चिदेशे काले एव जयो भवतीत्यर्थः । तत्र हेतुं वदन् पुंसो विशिनष्टि । परात्मनामिति । परः परमपुरुष आत्मान्तः प्रविश्य तत्तत्कर्मानुसारेण नियन्ता येषां कर्मवश्यत्वात् परमपुरुषनियाम्यत्वाश्च तत्तद्देशकालकर्मानुरूप- सुखदुःखादिकालानुभवाय जयापजयावीश्वरकारिताविति न तत्र लज्जाशोकौ कर्तव्यौ इति भावः । सर्वस्य नियन्तुरकर्मवश्यस्य परमपुरुषस्य तु सर्वत्र सर्वदा जय एव भवतीत्याह । विनेति । एकं परमपुरुषं विनान्येषां पुंसां सर्वदा जय एव न भवति परम- पुरुषस्य तु भवतीत्यन्वयः । तत्र हेतु वदस्तं विशिनष्टि । जगदुत्पत्तिस्थितिलयानामीश्वरं कर्त्तारं तदुपयुक्तो गुण उच्यते । सर्वश- मिति । अनेन कर्मसङ्कुचितज्ञान जीवव्यावृत्तिः अनेनाकर्मवश्यत्वमप्युक्तं भवति । तत्तज्जीवकर्मानुसारेणोत्पत्त्यादिकर्त्रा न्तरविरहा- दकर्मवश्यत्वाच्च तस्य देशकालनिमित्तकर्मायत्तकर्त्रन्तरप्रयुक्तजयापजयौ न स्तः । किन्तु सर्वदा सर्वत्र जय एवेति भावः । यदि जगदुत्पत्त्यादिकर्त्ता परमपुरुषस्तहिं किमुपादानकारणं जगतस्तत्राह । आद्यमिति । आदौ भवमाद्यं कारणत्वेनावस्थितमुपादान- कारणमपि स एवेति भावः । लोके पटाद्युपादानकारणस्य तन्त्वादेरपि कारणान्तरदर्शनात्कारणस्यापि तस्य कारणान्तरं सम्भाव्ये- तेत्याशङ्कां निराकुर्वन्विशिनष्टि । सनातनमिति नित्यमित्यर्थ: । कार्यं नित्यं स तु नित्यः कारणान्तररहित इत्यर्थः ॥ ७ ॥ * * । 4 | श्रीमद्भागवतम् ३५० [ स्कं. ६ अ. १२ श्लो. १-१०० तस्या कर्मवश्यत्वेन यत्स्वातन्त्र्यमुक्तं तदेवोदाहरणमुखेन प्रपञ्चयति । लोका इति । सपालाः पालकैर्ब्रह्मादिभिः सहिताः सर्वे लोकाः विवशाः परमपुरुषवशं गता यस्य परमपुरुषस्य वशे वश इच्छा: “वश कान्ती” इति धातुपाठात् वशे इच्छायां निमित्त भूतायां श्वसन्ति स्वतन्त्रतस्तदिच्छा निमित्तजीवना इत्यर्थः । तथा च श्रुतिः “को वान्यात् कः प्राण्याद्यदेष आकाश आनन्दो न स्यात्” इति यथा शिचा पाशेन बद्धा द्विजाः पक्षिणः बन्धयितुर्वशे श्वसन्ति तद्वत्स एव कालरूप ईश्वरः इह जयापजयादिषु कारणं हेतुभूतः ॥ ८ ॥ * न केवलं जयापजययोरेव हेतुरपि त्वोजआदीनामपि निर्वाहक इत्याह । ओज इति । ओजः प्रवृत्तिसामर्थ्यं सहो वेगः बलं धारणसामर्थ्यं प्राणों जीवनममृतं मोक्षः मृत्युः संसारः ओजआदीन्प्रति तं परमात्मानं हेतुमज्ञायाविज्ञाय आर्षत्वात्प्रयोगस्यान पूर्व इति न प्रतिषेधः अतो ल्यप् । परमात्मानमेव ओजआदीनां कारणमज्ञात्वा ओजः केवलं परमात्मा स्वात्मानमेव कारणं मन्यतेऽतो यं जडः अज्ञो जन इत्यर्थः । जडमिति पाठे जडमज्ञः स्वात्मानम् एव कारणं मन्यतेऽयं जन इत्यर्थः ॥ ९ ॥ एवं परमात्मनो जयापजयाद्यभावे हेतुतया सर्वस्य वशित्वं कारणत्वम् ईशितृत्वं चोक्तमथ जीवस्य तद्विपर्ययमाह । यथेति सार्द्धद्वयेन । हे मघवन्प्रभो ! इन्द्र ! विभो ! परमात्मदृष्टयेदं सम्बोधनं दारुमयी दारुणो विकारभूता नारी यन्त्रमयः यन्त्रबलादागतः यन्त्रेण गृहीतो मृग इत्यर्थः । यथा पुरुषतन्त्रः आद्यमप्राणिदृष्टान्ताभिप्रायकम् । द्वितीयं तु प्राणिदृष्टान्ताभिप्रायकमिति वेदितव्यम् । एवं सर्वाणि भूतानीश्वरतन्त्राणीवेश्वरयन्त्राण्येवेश्वरवश्यान्येवेत्यर्थः । वदित्य - व्ययमित्रकारार्थकं चादेराकृतिगणत्वात् । एवं जीवस्य पारतन्त्र्यमुक्तम् ।। १० विजयध्वजतीर्थकृता पदरत्नावली वृत्रवासव संवादच्छलेन हरेर्जीवेनाभेदज्ञानं तमः साधनमित्येतन्निरूप्यतेऽस्मिन्नध्याये तत्रादौ वृत्रवासवयोर्युद्धशेषं वक्ति एवं जिहासुरिति विजयं विजयात्मकं परं मुख्यं मन्यमानः ॥ १-२ ॥ ४ ४ भोगवत् भोगः पुष्टिर्यस्य स तथा तं “भोगः सुखे खयादिभृतौ पीनसर्पशरीरयोः” इत्यभिधानात् । भोगो विषयसेवायामिव वर्ष्मणि पालने । वर्तुले स्थूलतायाच जन्मन्यास्तादने तथेति वररुचिः ॥ ३ ॥ * इन इन्द्रः परिवृढः पतिरध्यक्षवल्लभावित्यतः स्वामिमात्रेपीन्द्रशब्दप्रयोगा- ततो विशिष्योत्तममरेशमिति ॥ ४-५ ॥ * * हरे ! स्वशत्रु मामिति शेषः ॥ ६ ॥ * * ननु हनने तव पराजय ।। ६ इत्याशङ्कय पराजयापराजयौ न नियतौ किन्तु दैवकृतावित्याह-युयुत्सतामिति । युयुत्सतां युद्धशीलानां मध्ये कुत्रचिद्युद्धे देव- प्रकृतेरेकस्य सदा जय इतरस्य सदा पराजय इति तत्राभिभविनस्तव स्थितावपि देहवियोगलक्षणो लयः प्रतिक्षणमस्तीति दर्श- यितुम् उत्पत्त्यनन्तरं लयपदोपादानम् ॥ ७ ॥ * हेरेरेव सदा जय इत्ययं नियमः कुत इति तत्राह । लोका इति । यस्य वशे स्थिताः श्वसन्ति श्वस प्राणन इति धातुः सत्तापि तदधीनेति विज्ञायते शिचा जाललक्षणतन्त्या द्विजाः पक्षिणः खगा इत्युक्ति विना विदुषामपि वाक्तन्त्या नियतत्वमस्तीति द्योतनाय द्विजा इत्युक्तम् इह जीवराशौ स्थितयोर्जयपराजययोः कारणम् ॥ ८ ॥ ओज आद्याधिक्यानाधिक्ये उभयोर्हेतुत्वेन सिद्धे हरेरधीनत्वं कुतः सङ्गच्छतः इति तत्राह । ओज इति । जडो जनः ओजत्वादिगुणमूर्तिमन्तं भगवन्तमज्ञात्वा तयोर्हेतुमात्मानं स्वं मन्यत इत्यन्वयः । स वै बलं बलिनां चापरेषामिति स्वोक्तः ओज आदिषु स्थित्वौजस्त्वादिगुणप्रवर्तको ऽयमित्यजानन् जनो जड इत्युच्यते ओजस्त्वादिहेतुमिति वा ।। ६-१० ।। विश्वनाथचक्रवर्तितकृता सारार्थदर्शिनी यत् शौर्येण गतोत्साहः शक्तोभूद्येन बोधितः । तं संस्तूय महायुद्धेऽहन्निति द्वादशे कथा ॥ । । मामयमिति कर्त्तव्यमूढो न हन्ति तदहमेव स्वशौर्य दर्शयन्निममुत्साहयानि कोपयानि च यतो मामयं शीघ्रं निहन्या- दित्याशयेन पुनबद्ध प्रवृत्त इत्याह । शूलमिति । अप्सु प्रलयोदके ॥ १ ॥ * * जिह्वा शिखा आविध्य भ्रमयित्वा ॥ २ ॥ आयतत् आगच्छत् ॥ ३ ॥ * हनौ कपोलप्रान्ते ॥ ४ ॥ पुरुहूत इन्द्रः ।। ५-६ ।। आततायिनां शस्त्रवतां " शत्रुषु सदा जयः एकत्र शत्रौ न जयश्च । यथा युष्माकम् असुरेषु सदा जयः । मयि तु न जय इत्यर्थः । यतः परः अनात्मात्मीयः कुत्रचित् अस्वाधीन आत्मा परमेश्वरो येषां परमेश्वरस्य तु सदैव जय इत्याह । विनैकमिति । तेन स्वाधीनीकृतपरमेश्वराणामर्जु- नादीनामिव न युष्माकं सदा जय इति भावः ॥ ७ ॥ * * तस्मात् युष्माकं कर्माधीनानां तु शुभाशुभादृष्टानुकूलः काल एव जयपराजययोः कारणमित्याह । लोका इति । यस्य वशे स्थिताः श्वसन्ति चेष्टन्ते द्विजाः पक्षिणः शिचा जालेन ॥ ८ ॥ ओज आदि रूपं तं कालं हेतुमज्ञाय अविज्ञाय जड सन्तमात्मानं देहं हेतुं मन्यते ॥ ९ ॥ * * किन तस्य कालस्यापि वशयिता यः पुरुषः सोपि यस्य वशे स स्वयं भगवानेव सर्व्वकारणकारणमिति सद्दष्टान्तमाह । यथेति द्वाभ्याम् । ईशतन्त्राणि तस्येश्वरस्याधीनानि ॥ १० ॥ स्कं. ६ अ. १२ श्लो. १-१०] अनेकव्याख्या समलङ्कृतम् शुकदेवकृतः सिद्धांत प्रदीप : ३ इन्द्रः वृत्रभयात्प्रथमं गतोत्साहः पुनवृत्रेणोत्साहितस्तं वृत्रं संस्तुत्य युद्धे हतवानिति द्वादशेनाध्यायेन वर्णयति । एव- मिति । आजौ रणे देहं जिहासुः विजये विष्णुप्राप्तौ विलम्बो भवेदतस्तस्मान्मृत्युं वरं श्रेष्ठं मन्यमानः अप्सु प्रलयोदकेषु कैटभो महापुरुषं विष्णुमिव ॥ १ ॥ * * तदनन्तरं युगान्ताग्निवत् कठोरो जिह्वाप्रभागो यस्य तत् आविध्य भ्रामयित्वा महेन्द्राय क्षिप्त्वा विनद्य हे पाप ! गुरुन्न ! हतोसीति जगाद ॥ २ ॥ * * तच्छूलं ग्रहश्वोल्का च महोल्कं तद्वद्विचलतू काच परिभ्रमत् खे आपतत् आगच्छत् दुष्प्रेक्ष्यं दुर्निरीक्ष्यमपि निरीक्ष्य शतं पर्वाणि यस्य तेन वज्रेणाऽऽच्छिनत् उरगराजभोगं वासुकिदेहसदृशं भुजञ्च चिच्छेद ॥ ३ ॥ * विषादस्य शोकस्यायं कालो नास्ति ॥ ६ ॥
- संरब्धः क्रुद्धः हनौ कपोलप्र कपोलप्रान्ते ॥ ४ ॥ * * पुरुहूतस्येन्द्रस्य सङ्कटं निरीक्ष्य हा हेति विचुकुशुः ॥ ५ ॥ * * हरे ! हे इन्द्र ! ॥ आततायिनां शस्त्रपाणिनां परात्मना परे उत्कृष्ट पदार्थो आत्मा मनो येषाम् अत एव तदर्थं युयुत्सतां सदा जये कुत्रचिदपि न भवति किन्तु एकत्र कदाचिदेव आद्यं विश्वबीजं विना तत्र हेतुगर्भ विशेषणमेकं स्वसदृशप्रतिभदशून्यं सनातनं नित्यम् ॥ ७ ॥ स एवैकः अन्येषां जयपराजययोर्हेतुरित्याह । लोका इति । शिचा जालेन कालः सर्वक्षोभहेतुर्भगवान् “ज्ञः कालकालः” इति श्रुतेः । इह जयादौ ॥ ८ ॥ * * ओजआदिरूपश्च स एवैक इत्याह । ओज इति । जडमसमर्थम् आत्मानं हेतुं जयादि- हेतुं मन्यते जानाति ॥ ९-१० ॥ । गोस्वामिगिरिधरलालविहिता बालप्रबोधिनी दैत्ययोनिं गतस्यापि वृत्रस्य हरिभक्तितः । हर्यनुग्रहतो मोक्षो द्वादशे विनिरूप्यते ॥ १ ॥ sarai वृत्रस्य मोक्षं निरूपयिष्यं तच्छ्रवणे सावधानत्वार्थ सम्बोधयति - हे नृप एवं प्रोत्साहितोऽपीन्द्रो यदा युद्धे न प्रवृत्तस्तदा वृत्रः स्वयमेव शूलं प्रगृह्य सुरेन्द्रमभ्यपतदभिजगामेत्यन्वयः । एवं वेगेनापतितोऽपि स्वयमेव मरिष्यतीति सूचयन् दृष्टान्तमाह — यथेति, यथा अप्सु प्रलयोदके महापुरुषं विष्णुं कैटभाख्यो दैत्योऽभ्यपतत्तद्वत् । तर्हि किमित्येवमापतदित्याकाङ्क्षा- यामाह - आजौ युद्धे देहं जिहासुरिति । देहजिहासैव तस्य कुत इति चेत् देहस्य मोक्षप्रतिबन्धकत्वाद्विजयान्मृत्युमेव वरं श्रेष्ठं मन्यमान इति ॥ १ ॥ * * तत तदनन्तरमसुरेन्द्रो वृत्रो युगान्ताग्निवत् कठोरा जिह्वा शिवा यस्य तत् शूलमाविष्य भ्रामयित्वा महेन्द्राय तरसा वेगेन क्षिप्त्वा विनद्य हे पाप त्वं मया हतोऽसीति रुषा जगादेत्यन्वयः । तत्र हेतु:- वीर इति ॥ २ ॥ * तच्छूलं खे आकाशे आपतत् आगच्छत् विचलत् विभ्रमत् ग्रहश्व उल्का च ग्रहोल्कं तद्वद्दुः- । प्रेक्ष्यमपि निरीक्ष्य अजातविक्लवो भयशून्य एव वज्री इन्द्रः शतं पर्वाणि यस्य तेन वज्रणाच्छिनत् । यथा उरगराजो वासु- किस्तस्य भोगो देहस्तदाकारं तस्य वृत्रस्य भुजं चाच्छिनदित्यन्वयः ॥ ३ ॥ * * छिन्नः एको बाहुर्यस्य स तथाभूतोऽपि वृत्रः संरब्धः क्रुद्धः सन् गृहीतो वज्रो येन स तमिन्द्रमासाद्य प्राप्य परिघेण लोहदण्डविशेषेण हनौ कपोलप्रान्ते तताड, अथा- नन्तरमेवामरेभम् ऐरावतं च तताड, मघोनः इन्द्रस्य हस्तात् वज्रं च न्यपतदित्यन्वयः ॥ ४ ॥ * * तदतिमहाद्भुतं वृत्रस्य कर्म सुरादयः सर्वेऽपूजयन् सत्कृतवन्तः । पुरुहूतस्येन्द्रस्य तत्सङ्कटं निरीक्ष्य सुरादयो हाहेति भृशं चुकुशुश्चेत्यन्वयः ॥ ५ ॥ तदा इन्द्रः पुनर्वज’ न जगृहे तत्र हेतुमाह-विलज्जित इति । लज्जायां हेतुमाह– च्युतमिति, यतोऽरिसन्निधौ स्वहस्ताद्वजश्च्यु- तोऽतस्तस्य लज्जा जातेत्यर्थः । तदा च पुनस्तमिन्द्रं वृत्र आह— वृत्रवाक्यान्येव दर्शयति– हरे इति । सप्तदशाक्षराधिकैरे वादशभिः श्लोकैः सर्वदेवाधिपतेस्तवैवं मोहोऽनुचित एवेति सूचयन् सम्बोधयति-हें हरे इन्द्र आत्तवजूः संस्त्वं शत्रुं मां जहि । अयं विषादस्य कालो न भवतीत्यन्वयः || ६ || जयस्य स्वपक्षेऽनियतत्वे कदाचित् पराजयस्य भावनया विषादो घटेतापि जीवेषु तस्यानियतस्वभावात् कथं विषाद उचितः स्यादित्याह – युयुत्सतामिति । युयुत्सतां योद्धुमिच्छताम् आततायिनां गृहीत- शस्त्राणामेकत्र स्वपक्ष एव सदा जय इति नियमो न, किन्तु कुत्रचिदेव जयः कुत्रचित् पराजयोऽपि भवत्येव । अत्र प्रसिद्धि स्मारयति - वा इति । तत्र हेतुमाह - परात्मनामिति, परमेश्वराधीन देहानामित्यर्थः । भगवतस्तु सर्वदैव विजय इत्याह- - विनौक- मिति, जगत उत्पत्तौ लये उपसंहारे स्थितौ पालने च य ईश्वरस्तमेकं बिना तस्य तु सदैव जयः स्वतन्त्रत्वादित्यर्थः । एवं जगदीश्वरत्वेन राजादिवन्निमित्तत्वमात्रं स्यानोपादानत्वमिति शङ्कानिरासायोपादानत्वमप्याह– आद्यमिति । तस्य स्वतन्त्रत्वे ततस् हेतुमाह - सर्वज्ञमिति, ज्ञानैश्वर्यादिशक्तिपूर्णमित्यर्थः । तथापि तस्य परिच्छिन्नत्वशङ्कावारणायाह-पुरुषमिति । अन्तर्यामितया पुरीषु कार्यकारणसङ्घातेषु शेते इति तथा तम् । तथापि तस्य कारणमन्यदेव स्यादिति शङ्कावारणायाह - सनातनमिति, नित्यमित्यर्थः ॥ ७ ॥ * * भगवद्गुणापेक्षया जीवगुणानां वैपरीत्यात्तेषां भगवदधीनतामेवाह-लोका इति षड्भिः । W । ३८र श्रीमद्भागवतम् [ स्कं ६ अ. १२ श्लो. १-१०- इमे चतुर्दशसङ्घ चाकाः सपाला लोका यस्य वशे स्थिताः स्वयं विवशाः सन्तः श्वसन्ति चेष्टन्ते सः । कलयतीति कालो भगवाने- वेह जयपराजयादौ कारणमित्यन्वयः । विवशे चेष्टायां दृष्टान्तमाह — द्विजा इति, शिचा जालेन बद्धा द्विजाः पक्षिणो यथा चेष्टन्ते तद्वदित्यर्थः ॥ ८ ॥ * * ननु जयकारणमोजः, ओजआदिकारणः प्राणस्तस्यैव स्थितिर्जीवनं प्राणवियोगश्च मृत्युरिति प्रसिद्धेः कथं जयादिकारणं भगवानेवेत्याशङ्कयाह-ओज इति । ओजआदिरूपेण स्थितं तं भगवन्तमेव हेतुमज्ञाय अविज्ञाय जनो मोहात् जडमस्वतन्त्रमात्मानं देहमेव हेतु मन्यते इत्यन्वयः । ओजः इन्द्रियशक्तिः । सहः मनसः शक्तिः । बल शरीरशक्तिः । अन्यत् स्पष्टम् ॥ ९ ॥ * * एवं सिद्धं जीवानां भगवद्वशवर्त्तित्वं दृष्टान्तेन स्पष्टयति यथेति ॥ १० ॥ भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी द्वादशेऽतीव खिन्नेन वृत्रेणोत्साहितेन तु । महेन्द्रेण कृतो युद्धे वृत्रस्य वध ईरितः ॥ १ ॥ ན་ " । एवमिति । एवमुक्तप्रकारेण, हे नृप, देहं स्वकलेवर, जिहासुर्हातुमिच्छुः, अत एव आजौ संग्रामे विजयात् मृत्युमेव, वरं श्रेष्ठं मन्यमानः, शूलं त्रिशिख, प्रगृह्य स्वपाणौ गृहीत्वा, अप्सु प्रलयोदके, कैटभः एतन्नामाऽसुरः, महापुरुषं श्रीविष्णुं प्रति, यथा, तथा सुरेन्द्रमिन्द्रं प्रति, अभ्यपतदभिमुखं गतवान् ॥ १ ॥ ॐ * तत इति । ततः, वीरः महावीर्यवान्, असुरेन्द्रों वृत्रः, युगान्ताग्निः प्रलयकालीनोऽभिस्तद्वत्कठोरा दुःसहा जिह्वा शिखा यस्य तत्, शूलम् आविद्धय भ्रामयित्वा महेन्द्राय महेन्द्र इन्तुं, तरसा बलेन, क्षिप्त्वा, विनय सिंहनादं कृत्वा, हे पाप हतोऽसि इति, रुपा क्रोधेन, जगाद ॥ २ ॥ * * ख इति । ततः, वजी इन्द्रः, खे आकाशे, आपतत् आगच्छत् विचलत् परिभ्रमत्, ग्रहः सूर्यश्व उल्का अङ्गाराश्च एतेषां समाहारः ग्रहोल्कं तद्वत्, दुष्प्रेक्ष्यं, तत् शूलं, निरीक्ष्य अजातविक्लवः सन् शतं पर्वाणि ग्रन्थयो यस्य तेन वज्रेण तत् शूलम्, उरगराजो वासु- किरू स्य भोगो देहस्तदाकार, तस्य वृत्रस्य, भुजं च, अच्छिनत् ॥ ३ ॥ * * छिन्नैकेति । ततः, छिन्नः एकः बाहुर्यस्य सः, वृत्रः संरब्धो नितरां क्रुद्धः सन् गृहीतवजम् इन्द्रम् आसाद्य इन्द्रसमीपमागत्य, परिघेणायुधविशेषेण, इन्द्रम् अथ अमरेभमैरावतं च, हनौ कपोलप्रान्ते तताङ । तदा, मघोन इन्द्रस्य, हस्तात् वज्रं चापि न्यपतत् अधः पपात ॥ ४ ॥ * * वृत्रस्येति । वृत्रस्य अतिमहच्च तदद्भुतं च तत् कर्म निरीक्ष्य, सुरासुरा देवा दैत्याश्व, तथा चारणानां सिद्धानां संघाश्व, अपूजयन्न हो एतस्य पराक्रम इति बह्वमन्यन्तेत्यर्थः । तद्धस्ततो वज्रपतनरूपं पुरुहूतसंकटमिन्द्रप्राप्तसंकट च, निरीक्ष्य, सर्वे देवपक्षपातिनः, हाहा इति भृशं विचुकुशुः । भृशमिति संकटविशेषणं वा ॥ ५ ॥ * * इन्द्र इति । ततः इन्द्रः अरिसंनिधौ शत्रुसंनिधाने, स्वहस्तात् च्युतं पतितं, वजू विलज्जितः संजातलज्जः सन् यदा न जगृहे न गृहीतवान्, तदा, वृत्रः पुनः तमिन्द्रम् आह । हे हरे, आत्त- वज्रः वाहादवतीर्य स्वपाणिना परिगृहीतवजूः सन्, स्वशत्रुं तव शत्रुभूतं मां जहि । अमोघेनानेन वज्रेण त्वदरिं मां व्यापाद- येत्यर्थः । विषादकालः अयं शोककालः न, न भवति ॥ ६ ॥ * * युयुत्सतामिति । युयुत्सतां योधुमिच्छताम् आतता- यिनां गृहीतायुधतया परस्पर प्राणजिहीर्षया युध्यतां, परात्मनां पराधीनानां, सदा एकत्र जयः कुत्रचित् कदाचिदपि न वै । द्वयोर्युध्यतोर्मध्ये कदाचिदनिर्धारिततयाऽन्योन्यस्य जयपराजयौ, न नियतौ इति भावः । सर्वत्र सर्वकालं जयस्त्वेकस्य हरेरेवे- । । त्याह । एकं समाभ्यधिकरहिततयानन्यम् । अद्वितीयमित्यर्थः । उत्पत्तिश्च लयश्च स्थितिश्च तासामीश्वरस्तं सर्वज्ञं भूतभविष्यद्वर्त्त- मानज्ञानवन्तम् आद्यं सनातनं पुरुषं सदा पुरुषाकृतिभाजं भगवन्तं विना, भगवतस्तु सर्वदैव जय इति भावः ॥ ७ ॥ * ।। ।। कर्मपरवशत्य जीवस्यास्वातन्त्र्यमीश्वरस्य च यदतथात्वं संप्रोक्तं तदेवोदाहरणमुखेन प्रपञ्चयति । लोका इति । सपालाः पालकै- ब्रह्मादिभिः सहिता, इमे लोकाः विवशाः सन्तः, यस्य परमपुरुषस्य, वशे इच्छायामाज्ञायामित्यर्थः । ‘वश कान्तौ’ इति धातुः । कान्तिरिच्छा । वर्त्तमानाः, श्वसन्ति । स्वतन्त्र भगवदिच्छानिमित्तजीवना इत्यर्थः । शिचा पाशेन बद्धाः पक्षिणः इव, शिम्बद्धा द्विजाः बन्धयितुर्वशे वर्त्तमानाः सन्तो यथा श्वसन्ति तद्वदित्यर्थः । कालः कालरूपः, स ईश्वरः एव इह जयापजयादिषु कारणं हेतुभूतः अस्तीति शेषः ॥ ८ ॥ कालशरीरक ईश्वरः न केवलं जयापजययोरेव हेतुरपि तु शरीरिणामोज आदीनामपि निर्वाहक इत्याह । ओज इति । ओजः प्रवृत्तिसामर्थ्य सहो वेगः, बलं धारणसामर्थ्यं प्राणं जीवनम् अमृतं मोक्ष’ मृत्युं संसारंच ओजआदीन् प्रतीत्यर्थः । तं कालात्मपरमात्मानं हेतुं कारणम् अज्ञाय अविदित्वा प्रयोगस्यास्यार्षत्वात् - ‘अनन्पूर्व’ इति न प्रतिषेधस्ततो ल्यपू । परमात्मानमेवमोजआदीनां कारणमज्ञात्वेत्यर्थः । जनः जडम्, आत्मानं देहं हेतु, मन्यते एव । पाठान्तरे जडो जनः, अज्ञानिलोक इत्यर्थः ॥ ९ ॥ एवं परमात्मनो जयापजयादा हेतुतया सर्वस्य वशित्वं कारणत्वं चोक्तमथ जीवस्य तद्विपर्ययत्वमाह । यथेति । भोः हे मघवन, दारुमयी दारुणो विकारभूता, नारी यथा यन्त्रमयः यन्त्रबलाद्गमनाग- मनक्रियायुक्तः, मृगः यथा, एवममुना प्रकारेण भूतानि सकलभूतजातमित्यर्थः । ईशतन्त्राणि एकस्य परमेश्वरस्यैवाधीनानि, विद्धि । अनेनैवं जीवानां परमेश्वरपारतन्त्र्यमुक्तम् ॥ १० ॥ | कं. ६ अ. १२ लो. ११-२०] अनेकव्याख्यासमलङ्कृतम् भाषानुवादः वृत्रासुरका वध अतहर क ३८३ श्रीशुकदेवजी कहते हैं–राजन् ! वृत्रासुर रण-भूमिमें अपना शरीर छोड़ना चाहता था, क्योंकि उसके विचारसे इन्द्रपर विजय प्राप्त करके स्वर्ग पानेकी अपेक्षा मरकर भगवान्को प्राप्त करना श्रेष्ठ था । इसलिये जैसे प्रलयकालीन जलमें कैटभासुर भगवान् विष्णुपर चोट करनेके लिये दौड़ा था, वैसे ही वह भी त्रिशूल उठाकर इन्द्रपर टूट पड़ा ।। १॥ * * बीर वृत्रासुरने प्रलयकालीन अग्निकी लपटोंके समान तीखी नोकोंवाले त्रिशूलको घुमाकर बड़े वेगसे इन्द्रपर चलाया और अत्यन्त क्रोध से सिंहनाद करके बोला-‘पापी इन्द्र ! अब तू बच नहीं सकता’ ॥ २ ॥ * * इन्द्रने यह देखकर कि वह भयङ्कर त्रिशूल ग्रह और उल्काके समान चक्कर काटता हुआ आकाशमें आ रहा है, किसी प्रकारकी अधीरता नहीं प्रकट की और उस त्रिशुलके साथ ही वासुकी नागके समान वृत्रासुरकी विशाल भुजा अपने सौ गाँठोंवाले वजूसे काट डाली ॥ ३ ॥ * * एक बाँह कट जानेपर वृत्रासुरको बहुत क्रोध हुआ । उसने वजधारी इन्द्रके पास जाकर उनकी ठोड़ीमें और गजराज ऐरावतपर परिध से ऐसा प्रहार किया कि उनके हाथसे वह बजू गिर पड़ा ॥ ४ ॥ * * वृत्रासुर के इस अत्यन्त अलौकिक कार्यको देखकर देवता, असुर, चारण, सिद्धगण आदि सभी प्रशंसा करने लगे । परन्तु इन्द्रका सङ्कट देखकर वे ही लोग बार-बार ‘हाय-हाय !’ कहकर चिल्लाने लगे ॥ ५॥ 8 । परीक्षित्! वह वज इन्द्रके हाथसे छूटकर वृत्रासुरके पास ही जा पड़ा था। इसलिये लज्जित होकर इन्द्रने उसे फिर नहीं उठाया । तब वृत्रासुरने कहा - ‘इन्द्र ! तुम वजू उठाकर अपने शत्रुको मार डालो। यह विषाद करनेका समय नहीं है ।। ६ ।। * ( देखो - ) सर्वज्ञ, सनातन, आदि पुरुष भगवान् ही जगत्की उत्पत्ति, स्थिति और प्रलय करने में समर्थ हैं । उनके अतिरिक्त देहाभिमानी और युद्धके लिये उत्सुक आततायियों को सर्वदा जय ही नहीं मिलती। वे कभी जीतते हैं तो कभी हारते हैं ॥ ७ ॥ * * ये सब लोक और लोकपाल जानमें फँसे हुए पक्षियों की भाँति जिसकी अधीनता में विवश होकर चेष्टा करते हैं, वह काल ही सबकी जय-पराजयका कारण है ॥ ८ ॥ ॥ ८ ॥ * * वही काल मनुष्य के मनोबल, इन्द्रियबल, शरीरबल, प्राण, जीवन और मृत्यु के रूपमें स्थित है । मनुष्य उसे न जानकर जडशरीर को ही जय-पराजयका कारण समझता है ॥ ६ ॥ इन्द्र ! जैसे काठकी पुतली और यन्त्रका हरिण नचानेवालेके हाथमें होते हैं, वैसे ही तुम समस्त प्राणियोंको भगवान् के अधीन समझो ।। १० ।। न विना ॥ ११ ॥ तानि तैः विना यदनुग्रहात् ॥ तानि तैः स्वयम् ॥ १२ ॥ यथानिच्छोर्विपर्ययाः ॥ १३ ॥ पुरुषः प्रकृतिर्व्यक्तमात्मा’ भूतेन्द्रियाशयाः । शक्नुवन्त्यस्य सर्गादौ अविद्वानेवमात्मानं मन्यतेऽनीशमीश्वरम् । भूतैः सृजति भूतानि ग्रसते आयुः श्रीः कीतिरैश्वर्यमाशिषः पुरुषस्य याः । भवन्त्येव हि तत्काले तस्मादकीर्तियशसोर्जयापजययोरपि । समः स्यात् सुखदुःखाभ्यां सत्वं रजस्तम इति प्रकृतेर्नात्मनो गुणाः । तत्र साक्षिणमात्मानं यो वेद न स बध्यते ।। १५ ।। पश्य मां निर्जितं शक्र वृक्णायुधभुजं मृधे । घटमानं यथाशक्ति तव प्राणजिहीर्षया ।। १६ ।। प्राणग्लहोऽयं समर इष्वक्षो वाहनासनः । अत्र न ज्ञायतेऽमुष्य जयोऽमुष्य पराजयः ॥ मृत्युजीवितयोस्तथा ॥ १४॥ १७ ॥ श्रीशुक उवाच इन्द्रो वृत्रवचः श्रुत्वा गतालीकमपूजयत् । । इन्द्र उवाच गृहीतवज्रः प्रहसंस्तमाह गतविस्मयः ॥ १८ ॥ अहो दानव सिद्धोऽसि यस्य ते मतिरीदृशी । भक्तः सर्वात्मनाऽऽत्मानं सुहृदं जगदीश्वरम् ॥ १९ ॥ भवानतार्षी न्मायां वै वैष्णवीं जनमोहिनीम् । यद् विहायासुरं भावं महापुरुषतां गतः ॥ २० ॥ १. प्रा० पा०त्मभू० । २. प्रा० पा० १० । ३० प्रा० पा० षद्यन्मायां वैष्णवीं । ३८४ श्रीमद्भागवतम् कृष्णप्रिया व्याख्या ॥ ॥ ॥ ॥ [ स्कं. ६ अ. १२ श्लो. ११-२० सर्गादौ न शक्नुवन्ति ॥ ११ ॥ १२ ॥ १२ ॥ * * तत्काले यथा ।। * अन्वयः - पुरुषः प्रकृतिः व्यक्तम् आत्मा भूतेंन्द्रियाशयाः यदनुग्रहात् विना अस्य एवम् अविद्वान् अनीशम् आत्मानम् ईश्वरं मन्यते भूतैः भूतानि सृजति तैः स्वयं वानि प्रसते पुरुषस्य याः आयुः श्रीः कीर्तिः ऐश्वर्यम् आशिषः हि भवन्ति एवं अनिच्छो: विपर्ययाः ।। १३
-
- तस्मात् अकीति- यशसोः जयापजययोः सुखदुःखाभ्यां यथा मृत्यु जीवितयोः समः स्यात् ॥ १४ ॥ * * सत्त्वं रजः तमः इति प्रकृतेः गुणाः आत्मनः न यः तत्र आत्मानं साक्षिणं वेद सः न बद्ध चते ।। १५ ।। * * शक्र मृधे तव प्राणजिहीर्षया यथाशक्ति घटमानं वृक्णायुधभुजं मां निर्जितं पश्य ।। १६ ।। अयं समरः प्राणग्लहः इष्वक्षः वाहनासनः अत्र अमुष्य जयः अमुष्य पराजयः न ज्ञायते ॥ १७ ॥ * इंद्रः वृत्रवचः श्रुत्वा गतालीकम् अपूजयत् गृहीतवजः गतविस्मयः प्रहसन् तम् आह ॥ १८ ॥ * * दानव यस्य ते ईदृशी मतिः सिद्धः असि अहो सुहृदं जगदीश्वरम् आत्मानं सर्वात्मना भक्त: ॥१६॥ भवान् वै जनमोहिनीं वैष्वणी मायाम् अतार्षीत् यत् आसुरं भावं विहाय महापुरुषतां गतः ।। २० ॥ श्रीधरस्वामिविरचिता भावार्थदीपिका A fas athe ॐ
ननु स्वारंभकप्रधानपुरुषादितं त्राणीति युक्तं तत्राह । पुरुष इति । व्यक्तं महत्तत्त्वम् । आत्माऽहंकारः ॥ ११ ॥ ननु स्वकर्मद्वारा जीव एव सृष्टयादिहेतुरिति मीमांसका मन्यते तत्राह । एवमविद्वाननीशमेवात्मानमीश्वरं स्वतन्त्रं मन्यते । ननु पित्रादयः स्रष्टारो दृश्यंते व्याघ्रादयस्तु हंतारस्तत्राह । भूतैरिति । स्वयमीश्वरः ॥ १२ ॥ ननु त्वया पराजितस्य मम जयादिशंकैव नास्ति किमिति मां बलाद्युद्धे प्रवर्तयसि तत्राह । आयुरिति । तत्काले जयादिकाले । विपर्यया अकीर्त्यादयः ।। १३ ।। * * यस्मादेवं सर्वमीश्वराधीनं तस्मात्समः स्याद्धर्षविषादहीनो भवेत् ॥ १४ ॥ * * समदृष्टावुपायमाह । सत्त्वमिति । हर्षादिभिर्न बद्ध्यते ॥ १५ ॥ * * हर्षविषादनिवृत्यै तवाहमेव गुरुरित्याह । पश्येति । वृक्णमायुधं भुजश्च यस्य ॥ १६ ॥ अनियतत्वं द्यूतरूपकेणोपसंहरति । प्राण एव ग्लहः पणो यस्मिन् । इषव एवाक्षाः पाशका यस्मिन् । वाहनान्येवेत स्वतश्चाल्यमानान्यासनानि फलका यस्मिन् ।। १७ ।। * * गतालोकं निष्कपटम् ॥ १८ ॥ * भक्तः सर्वात्मना जगदीश्वरं सेवितवानसि ।। १९-२१ ॥ 11 ॥ । वंशीधरकृतो भावार्थदीपिकाप्रकाशः চ अत्राक्षिपति - नन्विति । यस्येशस्यानुग्रहात् । “कालः कर्म च प्रकृतिः स्वभावो जीव एव च । यदनुग्रहतः संति न संति यदुपेक्षया ॥” इत्युक्तेः ॥ ११ ॥ 8 * पुनराक्षिपति नन्विति । एवमविद्वान् ईशस्वातंत्र्यं जीवपारतंत्र्यं चाविद्वान् । पुनः प्रतिद्वंद्याक्षिपति - नन्विति । आदिना पितामहादयः । द्वितीयादिना सर्पादिग्रहः । भूतैरिति । पित्रादिभि- र्व्याघ्रादिभिश्च । “जनं जनेन जनयन्मारयन्मृत्युनांतकम्” अपीति श्रीकपिलोक्तेः ।। १२ ।। * * पुनराक्षिपति - नन्विति । आयुः तद्द्वृद्धिः कांतिर्धनादि वा । या अन्या आशिषः स्त्रीपुत्रादिविषया मनोरथाः । अनिच्छो: पराजयादिकम- मनिच्छतोऽपि ॥ १३ ॥ * * सुखदुःखाभ्यामिति सप्तम्यर्थे तृतीया ॥ १४ ॥ * * तत्र प्रकृतिगुणे सत्त्वादौ तत्कार्ये सुखादौ च सुस्वादयः प्रकृतिगुणसत्त्वादिधर्मा न ममेति विचारवतो बंधनं न भवतीति भावः ।। १५ ।। * * शक्रेति । श्रीविष्णुसहायवत्वात्समर्थेति भावः । घटमानं यतमानम् ॥ १६ ॥ “ग्लहो ग्राह्यपणे स्मृतः’ इति । अत्र 1 4 । * द्यूतलक्षणे समरे ॥ १७ ॥ * * तं वृत्रम् ॥ १८ ॥ * * दानवेति । सुकुलोद्भूत दनुपुत्रत्वात्त्वयि नैतदाश्चर्यम् । यद्वोऽहो दानवोऽपि भूत्वा विष्णुभक्तोऽसीत्यद्भुतमिति भावः ॥ र ।। * * आसुरं भावं देवद्विजश्रुतिविरोधलक्षणम- हंकारादिलक्षणं वा । महापुरुषतां भक्तिज्ञानादिगुणसंपन्नत्वेन महत्त्वम् || २०-२१ ।। अन्वितार्थप्रकाशिका पुरुष इति । पुरुषः प्रकृत्यधिष्ठाता प्रकृतिः प्रधानं व्यक्त महत्तत्त्वमात्मा अहङ्कारः भूतानि आकाशादीनि इन्द्रियाणि चक्षुरादीनि आशया मनो बुद्धिश्चित्तं च एते यस्य भगवतोऽनुग्रहाद्विना अस्य विश्वस्य सर्गादौ न शक्नुवन्ति समर्था न भवन्ति ॥ ११ ॥ ननु स्वकर्मद्वारा जीव एव सृष्टयादिहेतुरिति मीमांसका मन्यन्ते तत्राह-अविद्वानिति । एवमीश्वरं स्वतंत्रं सर्वनियन्तारमविद्वन् अजानन्ननीशं पराधीनतया असमर्थमात्मानं जीवमीश्वरं स्वतन्त्रं मन्यते । ननु स्कं. ६ अ १२ श्लो. ११-२०] अनेकव्याख्यासमलङ्कृतम् ३८५ पित्रादयः सृष्टारों व्याघ्रादयो हन्तारः प्रसिद्धास्तत्राह । वस्तुतः स्वयं भगवानेव भूतैभूतानि सृजति तैरेव तानि ग्रसते ॥ १२ ॥ * आयुरिति । या: पुरुषस्य आयुः श्रीः कीर्तिरैश्वर्यं चेत्याशिषः काम्यमानाः सन्ति ता अपि तत्काले आयुराद्युचिते काले भगवत एव भवन्ति । अनिच्छोरपि विपर्यया अपकीर्त्यादयो यथा प्रयत्नं विनैव भवन्ति तथेत्यर्थः । अतस्तव जयकालत्वात्त्वमेव जेष्यसीत्यर्थः ॥ १३ ॥ तस्मादिति । तस्मात्सर्वेश्वराधीनत्वात् अकीर्तिर्यशसो ४ * जयापजययोः अपि तथा मृत्युजीवितयोश्चेत्येतेषां कार्यभूताभ्यां सुखदुःखाभ्यां समः स्यात् ॥ १४ ॥ * * सत्त्वमिति । सत्त्वादयः प्रकृतेर्गुणा भवन्ति आत्मनो गुणा न भवन्ति । तत्र कार्यकारणसङ्घातात्मके देहे स्थितमात्मानं यः साक्षिमात्र तदध्यासरहितं वेद जानाति स हर्षविषादादिभिर्न बव्यते न लिप्यत इत्यर्थः ॥ १५ ॥ ॐ अत्रार्थेऽहमेव ते गुरुरित्याह पश्येति । हे शक्र ! वृक्णं च्छिन्नमायुधं भुजश्च यस्य तमत एव त्वया निर्जितं तथापि तव प्राणजिहीर्षया यथाशक्ति मृधे । घटमानं मां पश्य । अतस्त्वमपि ॥ अहमिव विवादरहितो भव ॥ १६ ॥ * * प्राणेति । अयं समर एव द्यूतं प्राणा । एवं ग्लह्ः पणो यस्मिन् सः इषव एवाक्षाः पाशकाः यस्मिन् सः वाहनानि हस्त्यश्वादीन्येव ततस्ततश्चाल्यमानानि आसनानि फलका यस्मिन् तथा च यथा द्यूतें जयपराजयौ पूर्व ज्ञातुमशक्यौ तथाऽत्र समरे अमुष्य जयोऽमुष्य पराजय इति न ज्ञायते ॥ १७ ॥ इन्द्रः गतालीकं निष्कपटं वृत्रवचः श्रुत्वा गृहीतवत्रः सन् तमपूजयत् वचसा सत्कृतवान् । ततश्च भगवद्भक्तस्य वृत्रस्य धैर्यवत्त्वे गतविस्मयः प्रहसन् सन् तं वृत्रमाह स्म ॥ १८ ॥ अहो इति । हे दानव ! यस्य ते तवास्मिन् सङ्कटस्थानेऽपि ईदृशी विवेकधैर्यभक्त्यादियुक्तात्यलौकिकी मतिरस्ति अतस्त्वं सिद्धः कृतार्थः असि । सर्वेषामात्मानं सुहृदं मित्रं च जगदीश्वरं भगवन्तं सर्वात्मना अनन्यभावेन मनसा त्वं भक्तः सेवितवानसि । प्रथमं कर्माविवक्षया कर्त्तरि क्तः ततः कर्मयोगः ॥ १६ ॥ भवानिति । भगवान् जनमोहिनीं वैष्णवीं मायाम् अतार्षीत् अजैषीत् । इडभाव आर्षः । यद्यस्मादासुरं भावं क्रौर्यमौव्यादिकं विहाय महापुरुषतां ज्ञानवैराग्यभक्त्यादिभक्तलक्षणं गतः प्राप्त इत्यर्थः ॥ २० ॥ वीरराघवव्याख्या पुरुषः जीवः प्रकृतिः प्रधानं चित्समष्टि संसृष्टमचेतनं व्यक्तं महत्तत्त्वमात्माहङ्कारः भूतान्याकाशादीनि इन्द्रियाणि ज्ञानकर्मोभयात्मकानि दशेंद्रियाण्याशयतःकरणम् एते यस्य भगवतोऽनुग्रहाद्विना तदनुप्रवेशरूपानुग्रहमन्तरेणास्य विश्वस्य सर्गादौ उत्पत्तिस्थितिलयेषु न शक्नुवन्ति न प्रभवन्ति एषां परमपुरुषकार्यत्वादिति भावः । प्रकृत्यादिग्रहणं दृष्टान्तार्थं यथा प्रकृत्यादयोऽस्य सर्गादौ न शक्नुवन्ति तथा पुरुषश्रतुमुखादिजीवोपि तदनुग्रहं विनास्य सर्गादौ न शक्नोति तत्कार्यत्वा- दित्यर्थः ॥ ११ ॥ * एवं कार्यत्वमुक्तमथानीशत्वमाह । अविद्वानिति । इमं परमपुरुषायत्तोत्पत्त्यादिमन्तं तत्परतन्त्रमत एवानीश्वरमात्मानमविद्वानजानन्नीश्वरं मन्यते स्वात्मानमीश्वरं मन्यते जन इति शेष: “पुरुषः प्रकृतिर्व्यक्तम्” इति व्यष्टिसृष्टचादौ परमपुरुषस्य प्रयोजकत्वं प्रकृत्यादीनां तत्कार्याणां प्रयोज्यकर्तृत्वं चोक्तं तदेव प्रपञ्चयति । भूतैरित्यर्द्धेन । स्वयमात्मना प्रयोजकक स्वेनेत्यर्थः । भूतैः पृथिव्यादिभिः स्वानुग्रहीतैः भूतगृहीतैः भूतग्रहणं प्रकृत्यादीनामप्युपलक्षणं प्रकृत्यादिभिः स्वानुप्रवेशाहितशक्तिभिः भूतानि देवमनुष्यादिव्यष्टिभूतानि सृजति तथा तैरेव भूतानि प्रसते च व्यष्टिसृष्टेः सद्वारकत्वकथनेन समष्टिसृष्टेरद्वारकर्तेति सूचितम् " अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरोत्” इति श्रुत्यर्थोत्रानुसन्धेयः ॥ १२ ॥ * * अस्त्वेवं तथापि पराजितोहं पुनरात्मनो न जयं सम्भावयामीत्यत्राह । आयुरिति । हि यस्मादीश्वरायत्ता स्वस्वकर्मानुगुणदेव मनुष्यादिसृष्टिस्त- स्मादायुरादयोपि तदायत्तानि यतः देशकालपरिणामकर्मानुगुणाः पुरुषस्य या आशिषस्ता सर्वास्तत्काले उचितकाले तत्तत्कर्मफला- नुभवदशायामित्यर्थः । भवन्त्येव तत्र दृष्टान्तः । यथेति यथाऽनिच्छो: मरणदारिद्रयादिकमनिच्छोरपि पुंसः तद्विपर्ययाः आयुरादि- विपर्ययाः मरणदारिद्रचापकीर्तिप्रभृतयोपि भवन्ति तथा आयुरादयोपीत्यर्थः । तत्रायुर्जीवनं श्रीः सम्पत् ऐश्वर्य प्रभुत्वं यद्वैश्वर्य सम्पत् श्रीस्तेजः भगवत्सहायस्य तेऽधुना आयुरादयो भवेयुरेवेति भावः ॥ ३ ॥ * * यत एव सर्वमीश्वरायत्तं कर्मानुगुणं चात एव न विक्रियेत विवेकीत्याह । तस्मादिति । यस्मात्सर्वमायुरादिकम् ईश्वरायत्तं कर्मानुगुणं विपर्ययवद्भवति तस्माद्विवेकी कीर्त्य की त्योंर्जयपराजययोस्तथामरणजीवनयोश्च निमित्तयोर्ये सुखदुःखे ताभ्यां कीर्त्यादिनिमित्तसुखादिना विकारं न प्राप्नुयादित्यर्थः ॥ १४ ॥ * * किञ्च भगवदुक्तरीत्या मदुक्तरीत्या च मुक्तेरेव निरतिशयपुरुषार्थत्वादनभिसंहित फलसङ्गकर्तृकस्य युद्धादिकर्मण आयुराद्यानुषङ्गिकफलप्रापणद्वारा तत्साधनत्वाच्वोक्तविधयुद्धकर्म कुर्वन् देहावसाने मुक्तोपि भवतीत्याह । सत्वमिति । सत्वादयो गुणाः नात्मनः जीवस्य किन्तु प्रकृतेरेव गुणा इति निर्विवादं तत्र सत्वादिगुणपरिणामरूपे देहे स्थिमात्मानं यः- पुमान्साक्षिणं दृष्टारं मन्यते तत्कर्तृत्वं देहगतं मत्वा आत्मानं कर्त्तारं मन्यत इत्यर्थः । स तु न बध्यते किन्तु संसारबन्धान्मुच्यत इति भावः ॥ १५ ॥ * अस्मिन्नर्थे मामेव दृष्टान्तभूतं पश्येत्याह । पश्येति । हे शक्र ! मृधे युधे वृक्णं छिन्नमायुधं ४९ ३८६ श्रीमद्भागवतम् [ स्कं. ६ अ. १२ . ११-२० त्रिशूलं भुजश्च यस्य तं निर्जितं पराजितमपि पुनस्तव प्राणान्हर्तुमिच्छया यथाशक्ति घटमानं यतमानं युयुत्सुं मां पश्य ।। १६ ।। यदि नूनं मम जयो भवेत्तर्हि योत्स्यामीत्याशङ्कमानं प्रवदन्समरं द्यूतत्वेन रूपयति । प्राणग्लह इति । गृह्यत इति ग्लह: जितेन गृह्यमाणः पणः प्राण एवं ग्लहो यस्मिन् वाहनानि हस्त्यश्वरथादीन्येवासनानि अस्यन्ते क्षिप्यन्ते इतस्ततश्चाल्यंत इत्यासनानि फलका यस्मिन्निषवः शरा एवाक्षाः देवनाक्षा यस्मिन्सोयं द्यूतसदृशः संग्रामः अत्र द्यूततुल्ये संग्रामे कस्य जयः कस्य वा पराजय इति न ज्ञायते द्यूत इव जयपराजयौ तावद्दुर्ज्ञेयौ इत्यर्थः । इत्थं तु लोकदृष्टयोक्तं मयो नूनं भगवत्सहायस्य तव जय एव निश्चित इति भावः ।। १७ ।। * * एवं तत्त्वकथनेन युद्धाय प्रोत्साहितः उपात्तवत्रः शक्रः तमाहेत्याह मुनिः । इन्द्र इति । गतालीकं निष्कपटं वृत्रस्य वचः श्रुत्वाऽपूजयद्बह्वमन्यत स्वीकृतवज्रायुधः शक्रो विगतस्मयः ज्ञानिनामियं रीतिरित्याश्चर्यरहितः प्रहसन् सावधानं स्ववचः समाकर्णनाय प्रहसंस्तं वृत्रमुवाच ॥ १८ ॥ * * उक्तमेवाह । अहो इत्यादिना खात को दकै- रित्यन्तेन । हे दानव, त्वं सिद्धोसि कृतकृत्योसि सिद्धोहम् इति कथं त्वया ज्ञातस्तत्राह । यस्य ते तव ईदृशी मतिर्वर्त्तते किन सिद्धत्वापादिकानन्या भगवद्भक्तिरेव सा च तवास्तीत्याह । भक्त इति । त्वं सर्वात्मनोपायोपेयादिभावेन जगदीश्वरमन्तरात्मा- नमत एव सुहृदं निरतिशयप्रियं भगवन्तं भक्त आर्षत्वात्कत्तरि क्तः सेवितवान् ॥ १६ ॥ किन जनान्मोहयतीति तथा तां वैष्णवीं मायां भवानतार्षीः कुतः यद्यस्माद्भवानासुरं भावं तामसत्वं विहाय महापुरुषतां श्रेष्ठपुरुषतां सत्वोत्तरपुरुषताम् इति यावत् गतः प्राप्तवानसि ।। २० ।। विजयध्वजतीर्थकृता पदरत्नावली " हिरण्यगर्भादीनामोज आदिगुणसृष्टिहेतुत्वेन सत्त्वाज्जयपराजययोरपि तन्नियतत्वमपि किमपराधमिति तत्राह - पुरुष इति “हिरण्यगर्भः पुरुष आत्मा वायुरुदाहृतः शेषोव्यक्तस्तथैवेंद्र आशयः समुदाहृतः” इत्यतः पुरुषादिशब्देन न संसार्यादि- सामान्यानि वस्तूनि गृह्यन्ते किन्तु विशिष्ट एव चेतन इत्येवं शास्त्रनिर्णये सति हिरण्यगर्भादयो यदनुग्रहं विनाऽस्य जगतः सर्गादौ न शक्नुवन्ति तमात्मानमन्तः स्थित्या दानादिकर्तारं श्रीहरिमनीशं जीवं मन्यते व्याहतमिदमित्याह - ईश्वरमिति । कोसाविति तत्राह अविद्वानेवेति । अज्ञानादेवं मन्वानस्य निरय एवावस्थानं नान्यत्रेत्यस्मिन्नर्थे एव शब्द: “अनीशं जीवरूपेण परमात्मान- मीश्वरम् । ये मन्यंते तान्समीक्ष्य स्नेहान्निरयभाग्भवेत्” इति वचनात् ॥ ११ ॥ ननु तत्स्रष्टृत्वे ब्रह्मा स्रष्टेत्यादिरूढिः तदधीनावित्याह । आयुरिति । पुरुष- ।। कथमिति । तत्राह-भूतैरिति ॥ १२ ॥ * * दैनं दिनसृष्टिसंहारावपि स्योत्पन्नस्य या आयुराद्याशिषो भवन्ति ते भावाः काले कालात्मनो हरेराराधनोपयोगाय भवन्ति हि यस्मात्तस्मादकीर्त्यादेः समः स्यादित्यन्वयः । यथा दुःखाद्यनुभवेच्छारहितस्यापि विपर्ययाः दुःखादिलक्षणा दृश्यंते तथेति शेषः । अनेन सर्वे भावाः नारायणाधीना इति निरणायि ।। १३-१४ ॥ * दुःखाद्यागमे प्रकृतिपुरुषविवेकाज्ञानं कारणमित्याह । सत्त्वमिति । आत्मनो जीवस्त्यात्मानं परमात्मानम् ।। १५ ।। * * श्रीहर्यधीनत्वेन जयादिकं तवापि प्रत्यक्षमित्याह । पश्येति ॥ १६ ॥ प्राण एव ग्लहः पणो यस्य स तथा इषवः शरा एवं अक्षा यस्य स तथा हस्त्यादिवाहनान्यासनं फलकलक्षणं यस्य स तथा द्यूतकल्पः संग्रामः अत्र द्यूतलक्षणे समरें ।। १७ । अत्र गतालीकं निर्व्याजम् ।। १८ ।। * * “जीवन्मुक्ते जातिभेदे सिद्धः स्यात्साधितेपि च” इति आत्मानं श्रीहरिं • अजमानः ।। १९ ॥ महापुरुषतां प्रति गतः । भक्तिज्ञानादिगुणसंपन्नत्वेन अर्हत्त्वम् ।। २०-२१ ।। जीवगोस्वामिकृतः क्रमसंदर्भः सिद्धः जीवन्मुक्तः * ग्रामं गत इतिवत् वाहनानि हस्त्यादिन्येव आसनानि ( सारि ) स्थानीयानां योघृणामाधारभूताः फलका यस्मिन् ॥ १५ ॥ * * गतविस्मयः प्राप्तविस्मयः ।। १६-३० ।। विश्वनाथचक्रवतिकृता सारार्थदर्शिनी । पुरुषो महत्स्रष्टा स्वांशोपि किमुत प्रकृत्यादय इत्यर्थः । व्यक्तं महत्तत्त्वमात्मा अहङ्कारः । एते यस्यानुग्रहाद्विना सर्गादौ न शक्नुवन्ति । न च पुरुषस्य स एव कथं तदनुग्राह्य इति वाच्यम् । परब्रह्मणोऽपि तदनुग्राह्यत्व श्रवणात् यथा “मदीयं महिमानञ्च । परब्रह्मेति शब्दितम् । वेत्स्यस्यनुगृहीतं मे संप्रश्नैर्विवृतं हृदि” इति ॥ ११ ॥ ननु स्वकर्मद्वारा जीव एव सृष्टयादिहेतुरिति ❀ मीमांसका मन्यन्ते तत्राह एवमविद्वान् । अनीशमेवात्मानं जीवम् ईशं मन्यते । ननु पित्रादयः स्रष्टारो दृश्यन्ते व्याघ्रादयस्तु हन्तारस्तत्राह भूतैरिति ।। १२ ।। ननु त्वया पराजितस्य मम जयादिशंकैव नास्ति किमिति बलान्मां युद्धे प्रवर्त्तयसीति तत्राह आयुरिति । तत्काले आयुराद्यनुकूले काले अतस्तवायं जयकालस्त्वं जेष्यसीति भावः । विपर्य्ययाः मृत्युदारिद्रादयः ॥ १३॥ स्कं. ६ अ. १२ . ११-२० ] अनेकव्याख्या समलङ्कृतम् ३८७ समः समभावनावान् स्यात् सुखदुःखयोः ॥ १४ ॥ जयपराजयाद्याः गुणकार्य्या एव आत्मा तु गुणव्यतिरिक्त एवेति विवेकेन हर्षविषादौ न कायवित्याह । सत्त्वमिति । न बध्यते संसारबन्धं न प्राप्नोति ॥ १५ ॥ अत्रार्थे अहमेव ते गुरुरित्याह । पश्येति ।। १६ ।। युद्धमिदं द्यूतं क्रीडनमेव । दोषबुद्धधारागिभिरपि त्यक्तुमशक्य-
- । मित्याह प्राण एव ग्लहः पणो यत्र । इषव एवाक्षाः पाशका यस्मिन् । वाहनानि हस्त्यश्वादीन्येव आसनानि फलका यस्मिन ।। १७ ।। * ॐ गतविस्मय इति हन्त हन्त कथमसुरस्याप्येतावन्ति भक्तिज्ञानवैराग्याणीति प्रथमं विस्मित हास्यरहित एषाssसीत् ततः प्रह्लादबलिप्रभृतिस्मृत्या भक्तिरस्मादृशेभ्योऽपि कोटिगुणिता खल्वसुरेष्वपि संभवेदेवेति विस्मयापाये तस्य प्रहर्षहेतुको हासश्चाभूदित्यर्थः ॥ १८ ॥ 8 8 भक्तः सेवितवानसि ।। १६-२० ॥ ४ महदाश्चर्य्यमिति । पुनरपि विस्मयोदयः । रजः स्वभावस्य तव कथं दृढा भक्तिः प्रह्लादादौ तु नारदादिमहदनुग्रहेणैव रजः स्वभावापगमात्तत्रोचितैव भक्तिरिति भावः सत्त्वात्मनि शुद्धसत्त्वमूर्ती ॥ २१ ॥ तव स्वर्गादिभोगोपेक्षा युक्तैवेत्याह-यस्येति । खातकोदकैः गर्त्तादि- जलोपमैः स्वर्गादिभिः किम् अस्माकन्तु भक्तयभावादेतैरेव निर्वृत्तिरिति भावः ।। २२-२३ ।। Gx ༧ शुकदेवकृतः सिद्धांत प्रदीपः पुरुषो जीवः व्यक्तं महतत्त्वम् आत्माहङ्कारः भूतानि च इन्द्रियाणि आशयोन्तःकरणञ्च ते तथा यदनुग्रहाद्विना सर्गादौ न शक्नुवन्ति यत्प्रवेशरूपमनुग्रहं विना सर्गादिकं कर्तु न प्रभवन्तीत्यर्थः ॥ ११ ॥ * * अनीशं स्वातन्त्र्येण किमपि कर्तुमसमर्थमीश्वरमिदं मयैव कृतमिति समर्थ मन्यते यतो यः स्वयं भूवैर्भूतानि सृजति तैस्तानि संहरति च ॥ १२ ॥ यथा पुरुषस्यानिच्छोरेव विपर्य्ययाः आयुराद्यभावाः भवन्त्येव तथा आयुरादयोपि भवन्त्येव ॥ १३ ॥
-
- सुख- दुःखाभ्यां सुखदुःखयोश्च समः स्यात् ॥ १४ ॥ * * समत्वसाधनं गुणसाक्षिभूतात्मज्ञानमित्याह - सत्त्वमिति ।। १५ ।। वृक्णं छिन्नमायुधं भुजश्च यस्य तम् ॥ १६ ॥ जयपराजययोरनियतत्वं द्यूतरूपकेण दर्शयति- अयं समरः प्राणः ग्लह: हः पण यस्मिन् तथाभूतः द्यूत एव इषूपलक्षतान्यायुधान्येव अक्षाः पाशाः यस्मिन् वाहनानि आस्यन्ते क्षिप्यन्ते इत्यास्यानि ● फलका यस्मिन् ।। १७ ।। ४ ४ गतमलीकं मिथ्याभाषणं यस्मात्तद्वचः श्रुत्वा ॥ १८ ॥ * * आत्मानं परमात्मानं प्रति भक्तोसि ॥ १९ ॥ * महापुरुषाः भागवतास्तत्ताम् ।। २०-२१ ॥ गोस्वामिगिरिधरलाल विहिता बालप्रबोधिनी ननु भूतानां स्वारम्भकप्रधानपुरुषाद्यधीनत्वं युक्तं तत्कथं भगवदधीनत्वमुच्यते इत्याशङ्कय प्रधानादीनामपि भगवदधी- नत्वात् तदारब्धानां भूतशब्दवाच्यानां देहानां तदधीनत्वे किं वक्तव्यमित्याशयेनाह - पुरुष इति । पुरुषः प्रकृत्यधिष्ठाता, प्रकृति: प्रधानं, व्यक्तं महत्तत्त्वम् आत्मा अहङ्कारः, भूतानि आकाशादीनि इन्द्रियाणि चक्षुरादीनि आशया मनो बुद्धिश्चित्तं च एते यस्यानुग्रहाद्विना अस्य विश्वस्य सर्गादौ न शक्नुवन्ति समर्था न भवन्ति ॥ ११ ॥ नन्वेवं सर्व भगवदधीनमेव चेत्तदा
-
- जीव एव स्वतन्त्रः स्वकर्मद्वारा विश्वसृष्टयादिहेतुरिति कथं वैदिकोऽपि मीमांसको मन्यते इत्याशङ्कयाह- अविद्वानिति । एव- मीश्वरं स्वतन्त्रं सर्वनियन्तारमविद्वान् अजानन्ननीशं पराधीनतया असमर्थमात्मानं जीवमीश्वरं स्वतन्त्रं मन्यते । ननु पित्रादयः स्रष्टा व्याम चौरादयश्च हन्तारः स्वतन्त्रा दृश्यन्ते इत्याशङ्कय तेऽपि न स्वतन्त्राः किन्तु भगवदधीना एव । तद्वारा स्वतन्त्रो भगवानेव तत्तत्कार्य करोतीत्याह भूतैरिति । स्वयं भगवान ॥ १२ ॥ * कथं पित्रादीनां भगवदधीनत्वमित्याशङ्कय ते ॥१२ हि आयुरादिमन्त एव स्वकार्ये समर्था नान्यथेत्यविवादम् । आयुरादयश्च हि यस्मात् तत्काले आयुराद्युचिते काले भगवत एव भवन्तीति सर्वे भगवदधीना एव । यदि जीवाः स्वतन्त्राः स्युस्तर्हि तेषामनिष्टं न स्यादित्याशयेन व्यतिरेकिदृष्टान्तमाह-यथेति । अनिच्छोरपि विपर्यया अपकीर्त्त्यादयो यथा प्रयत्नं विनैव भवन्ति तथेत्यर्थः ॥ १३ ॥ * * यस्मादेवं सर्वमीश्वराधीनं तस्मादपकी यदिषु समः स्यात् हर्षविषादहीनो भवेत् । सुखदुःखाभ्यां सुखदुःखयोः ॥ १४ ॥ * * ननु समदृष्टिरेव दुर्लभा सैव कथं स्यादित्याशङ्कय प्रकृतिगुणकार्यदेहापत्यादौ अहम्ममाध्यासादेव हर्षविषादादयो विषमा धर्मा भवन्ति तदध्यास- निवृत्तौ निवर्त्तेरन् । तदा समः स्यादित्याह - सत्त्वमिति । सत्त्वादयः प्रकृतेर्गुणा भवन्ति आत्मनो जीवस्य गुणा न भवन्ति । तत्र कार्यकारणसङ्घातात्मके देहे स्थिमात्मानं यः साक्षिमात्रं तदध्यासरहितं वेद जानाति स हर्षविपादादिभिर्न बध्यते न लिप्यते इत्यर्थः ।। १५ ।। हर्षविषादरादित्येऽहमेव दृष्टान्त इत्याह- पश्येति । हे शक्रेति सम्बोधनेन देवाधिपतेस्तवापि विवेकधैर्यादिकमेव युक्तं, न व्याकुलत्वमिति सूचयति । वृक्णं छिन्नमायुधं भुजश्च यस्य तमत एव त्वया निर्जितं तथापि तव प्राणजिहीर्षया यथाशक्ति मृधे घटमानं पश्येत्यन्वयः । विषादादिमत्त्वेऽस्यामवस्थायामेवं प्रवृत्तिर्न स्यादिति भावः ॥ १६ ॥ उक्तं जयादेरनियतत्वद्यूतरूपकेण उपसंहरति–अयं ससरलक्ष: द्यूतः प्राणा एव ग्लह प्रणो यस्मिन् सः इषत्र एवाक्षा यस्मिन्,
: ३८८ श्रीमद्भागवतम् [ स्कं. ६ अ. १२ श्लो. ११-२० सः, वाहनानि हस्त्यश्वादीन्येव ततस्ततश्चाल्यमानानि आसनानि फलका यस्मिन् । तथाच यथा द्यूते जयपराजययो रक्षानुकूल्य- प्रातिकूल्याधीनत्वात् तत्पतनात् पूर्वमस्य जयोऽस्य पराजय इति निश्चयोऽशक्यः तथात्र समरेऽपि जयपराजययोर्बाणानुकूल्य- प्रातिकूल्यपतनाधीनत्वात् तत्पतनात्प्राकू अमुष्य जयोऽमुष्य पराजय इति न ज्ञायते इत्यर्थः ॥ १७ ॥ ॐ ॐ गतालीकं निष्कपटं वृत्रवचः श्रुत्वा गृहीतवत्रः सन् तमपूजयत् वचसा सत्कृतवान् । उक्तमेव विशदयति - तमाहेति । वृत्रोक्तयुक्त्या स्वविजयनिश्चयाद्धर्षेण प्रहारुः । असुरयोनिं गतस्य कथं हरिभक्तिरिति यो विस्मयः स प्रह्लादबलिप्रभृतिषु तद्भक्तिस्मरणागतो यस्य सः ॥ १८॥ इन्द्रवाक्यान्येव दर्शयति - अहो इति चतुर्भिः । अहो इत्याश्चर्ये । हे दानवेति सम्बोधनं निकृष्ट- त्वेन अनधिकारित्वद्योतनार्थम् । जन्मना निकृष्टोऽपि त्वं सिद्धः कृतार्थोऽसीत्याश्चर्यमेवेत्यर्थः । ननु कथं मम कृतार्थतेत्यपेक्षाया- माह-यस्येति, यस्य ते तवास्मिन् सङ्कटस्थानेऽपि ईदृशी विवेकधैर्यभक्त्यादियुक्ताऽलौकिकी मतिरस्तीत्यर्थः । तत्र भगवदनुग्रहं विनाऽत्रैतदसम्भवात् अनुग्रहे च सर्वत्र सेवैव नियामिकेति प्रसिद्धितः सेवा निश्चीयते इत्याह- भक्त इति, सर्वोपादानत्वात् जगदात्मानमत एव जगतां सुहृदं मित्र जगदीश्वरं सर्वनियन्तारं भगवन्तं सर्वात्मना अनन्यभावेन मनसा त्वं भक्तः सेवित- वानसीत्यर्थः ॥ १६ ॥ * * ननु कथं भगवदनुग्रहमन्तरेणायं भावः सुदुर्लभः साधनान्तरैरेव स कुतो न स्यादित्याशङ्कय ‘मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते’ इति वचनात् । भगवदेकशरणमन्तरेण मायातरणासम्भवेनायं सुदुर्लभ एवेत्याशये- नाह - भवानिति । वै निश्चये । कथमेवं निश्वयस्तत्राह - यदिति, यस्मादासुरं भा कथमेवं निश्वयस्तत्राह - यदिति, यस्मादासुरं भावं क्रौर्यमौढ्यादिकं विहाय महापुरुषतां ज्ञानवैराग्यभक्त्यादिभक्तलक्षणं गतः प्राप्त इत्यर्थः ॥ २० ॥ । भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी पुरुष इति । पुरुषः, प्रकृतिः व्यक्तं महत्तत्वम् आत्माहंकारश्च भूतान्याकाशादीनि च इन्द्रियाणि ज्ञानकर्मोभयात्मकानि च आशयोऽन्तःकरणं च ते यदनुग्रहाद्विना यस्यानुप्रवेशरूपानुग्रहमन्तरेण, यस्य विश्वस्य सर्गादौ विश्वोत्पत्तिस्थितिलयादिषु, न शक्नुवन्ति समर्थाः न भवन्तीत्यर्थः ॥ ११ ॥ एवं परमेश्वरस्य कारणत्वात्तदितरस्य तत्कार्यत्वमुक्तमथानीशत्वमाह । अविद्वानिति । अविद्वान् अजानन्नरः, इमं परमपुरुषपरतन्त्रम्, अत एव, अनीशमीशतारहितम्, आत्मानम् ईश्वरं मन्यते । स्वयं परमेश्वरस्तु तैः स्वेन व्याकृतैः भूतैः स्वानुग्रहीतपृथिव्यादिभूतैः भूताति सृजति । स्वयं प्रयोजकः सन् प्रयोज्यैर्ब्रह्मादिभिः सर्व कारयतीत्यर्थः । तानि प्रसते च रुद्रादीन् प्रेरयन् प्रलयकाले तद्द्वारा विश्व संहरतीत्यर्थः । इदं विष्णुद्वारा विश्वपालनस्यापि स्थिति - काले उपलक्षणम् ।। १२ ।। अस्त्वेवं तथापि त्वत्पराजितोऽहं पुनरात्मनो जयं न संभावयामीत्यत्राह । आयुरिति । हि यस्मादीश्वरायत्ता स्वकर्मानुगुणा देवमनुष्यादिसृष्टिस्तस्मात्, आयुः बहुजीवनं, श्रीलक्ष्मी:, कीर्त्तिर्यशः, ऐश्वर्यं प्रभुत्वं याः पुरुषस्य आशिषः, तत्काले जयादिकाले भवन्त्येव । कथमपि अनिच्छाः अपि यथा विपर्यया अकीर्त्यादयः, तत्तत्फलप्रदात्री श्वरेच्छानुगुणतया यथाऽकाण्डं दरिद्रस्य राज्याप्तिराव्यस्य दारिद्र्यं तथायुरादिकमपि ततोऽनुकूलपरमेश्वरेण त्वया सांप्रतं जयाभावो न संभाव- नीय इति भावः ॥ १३ ॥ * * यत एवमीश्वरायत्तं कर्मानुगुणं चात एव विवेकी न विक्रीयेतेत्याह । तस्मादिति । यस्मात् सर्वमायुरादिकमीश्वरायत्तं कर्मानुगुणं विपर्ययवद्भवति तस्मात्, विवेकीति शेषः । अकीर्तियशसोः, जयापजययोः, तथा मृत्युजीवितयोः, सुखदुःखाभ्याम् अपि, तैर्जातयोः सुखदुःखयोरपीत्यर्थः । अधिकरणाविवक्षया तृतीया । समः स्यात् । सुखदुःखविकारं न प्राप्नुयादित्यर्थः ॥ १४ ॥ * * किं च भगवदुक्तरीत्या मदुक्तरीत्या च मुक्तेरेव निरतिशयपुरुषार्थत्वा- दनभिसंहितफलसङ्गं यथा तथा कृतस्य युद्धादिकर्मण: आयुराद्यानुषङ्गिकफलप्रापणद्वारापि तत्साधनत्वाचोक्तविधं युद्धकर्म कुर्वन् पुमान् देहावसाने मुक्तोऽपि भवतीत्याह । सत्त्वमिति । सत्त्वं रजः तमः, इत्येते गुणाः, आत्मनः जीवस्य न भवन्ति । किं तु प्रकृतेरेव । एतन्निविवादमिति शेषः । तत्र सत्त्वादिगुणपरिणामरूपदेहे, स्थितम् आत्मानं, यः पुमान् साक्षिणं द्रष्टारं वेद मन्यते । कर्तृत्वं देहगतं मत्वा आत्मानमकत्तारं मन्यते इत्यर्थः । स पुमान्, न बध्यते । किं तु संसारबन्धात् मुच्यते इति भावः ।। १५ ।। अस्मिन्नर्थे मामेव दृष्टान्तीभूतं पश्येत्याह । पश्येति । हे शक्र, मृधेऽस्मिन् युद्धे, वृक्णं छिन्नम् आयुधं त्रिशूलं भुजश्च यस्य तं निर्जित त्वया पराजितमपि, मां पुनः तव प्राणजिहीर्षया त्वत्प्राणान् हत्तुमिच्छ्या, यथाशक्ति घटमानं यतमानं युयुत्सुमिति यावत् । पश्य ।। १६ ।। * * जयानियतत्वमाशङ्कमान तं प्रति समरं द्यूतत्वेन निरूपयति । प्राणग्लह इति । प्राणः एव ग्लहः पणो यस्मिन् जितेन गृह्यमाणः अर्थः पणः, इषवो बाणाः अक्षाः पाशका यस्मिन् सः, वाहनानि हस्त्यश्वादीनि आसनानि फलका यस्मिन् सः, एवंविधः अयं समरः भवति । अत्र द्यूततुल्येऽस्मिन् संग्रामे, अमुष्य जयः, अमुष्य पराजयः स्यात् इति न ज्ञायते । द्यूते इव युद्ध े जयपराजयौ तावदुदुर्ज्ञेयावित्यर्थः । इदं तु मया लोकदृष्टचोक्तं भगवत्सहायस्य तब त्वत्र नूनमेव जयोऽस्तीति भावः ॥ १७ ॥ * * । 1 इति । गतालीकं निष्कपट, वृत्रचचः एवं तत्त्वकथनेन युद्धाय प्रोत्साहितोऽत उपात्तवस्त्रः शक्रस्तमाहेत्याह मुनिः । इन्द्र वृत्रासुरस्य वचनं श्रुत्वा इन्द्रः शक्रः, अपूजयद्बह्नमन्यत । ततः गृहीतवस्त्रः उपात्तनिजवज्रा-स्क. ६ अ. १२ एल. २१-३० ] अनेकन्याख्यांसमक्कृतम् युधः, गतविस्मयः विगतस्मयः, ज्ञानिनामियं रीतिरित्याश्चर्यरहित इत्यर्थः । प्रहसन् सन् तं वृत्रम् आह ॥ १८ ॥ * * || || ६ उक्तमेवाहाहो इत्यादिना खातकोदकैरित्यन्तेन अहो इति । अहो आश्चर्यमिदं, हे दानव, त्वं सिद्ध: असि । कृतकृत्यो भवसी- त्यर्थः । सिद्धोऽहमिति कथं त्वया ज्ञातस्तत्राह । यस्य ते तव, ईदृशी मतिः । वर्त्तते । किं च सिद्धत्वापादका ऽनन्या भगवद्भक्ति- रेव सा च तवास्तीत्याह भक्त इति । त्वं सर्वात्मना उपायोपेयादिभावेन, जगदीश्वरं जगदेकनाथम्, आत्मानं सर्वान्तर्यामिणम्, अत एव सुहृदं निरतिशयप्रियं भगवन्तं भक्तः सेवितवानसि । अत्र " आदिकर्मणि क्तः कर्त्तरि च’ इति कर्त्तरि क्तः । आदिकर्म- चात्र भगवद्भजनमेव तस्य भूतत्वाभावात् ॥ १९ ॥ * * भवानिति । हे दानव, भवान् जनमोहिनीं वैष्णवीं मायाम् अतार्षीत् वै । कुतः यद्यस्मात्, भवान् आसुरं भावं राजसत्वं विहाय, महापुरुषतां भक्तिज्ञानादिगुणसंपन्नत्वजन्यसर्वोत्तरपुरुषतामित्यर्थः । गतः प्राप्तवानसि ॥ २० ॥ भाषानुवादः … ४ भगवान के कृपा प्रसादके बिना पुरुष, प्रकृति, महत्तत्त्व, अहङ्कार, पञ्चभूत, इन्द्रियाँ और अन्तःकरणचतुष्टय- ये कोई भी इस विश्वकी उत्पत्ति आदि करनेमें समर्थ नहीं हो सकते ॥ ११ ॥ * * जिसे इस बातका पता नहीं है कि भगवान् ही सबका नियन्त्रण करते हैं, वही इस परतन्त्र जीवको स्वतन्त्र कर्त्ता -भोक्ता मान बैठता है । वस्तुतः स्वयं भगवान् ही प्राणियोंके द्वारा प्राणियोंकी रचना और उन्हींके द्वारा उनका संहार करते हैं ॥ १२ ॥ * * जिस प्रकार इच्छा न होने पर भी समय विपरीत होनेसे मनुष्यको मृत्यु और अपयश आदि प्राप्त होते हैं—वैसे ही समयकी अनुकूलता होनेपर इच्छा न होनेपर भी उसे आयु, लक्ष्मी, यश और ऐश्वर्य आदि भोग भी मिल जाते हैं ॥ १३ ॥ इसलिये यश-अपयश, जय-पराजय, सुख-दुःख, जीवन-मरण- इनमेंसे किसी एककी इच्छा अनिच्छा न रखकर सभी परिस्थितियों में समभाव से रहना चाहिये - हर्ष - शोकके वशीभूत नहीं होना चाहिये ॥ १४ ॥ * * सत्त्व, रज और तम - ये तीनों गुण प्रकृति के हैं, आत्मा नहीं; अतः जो पुरुष आत्माको उनका साक्षीमात्र जानता है, वह उनके गुण-दोष से लिप्त नहीं होता ।। १५ ।। ऋ देवराज इन्द्र ! मुझे भी तो देखो; तुमने मेरा हाथ और शस्त्र काटकर एक प्रकारसे मुझे परास्त कर दिया है, फिर भी मैं तुम्हारे प्राण लेनेके लिये यथाशक्ति प्रयत्न कर ही रहा हूँ ॥ १६ ॥ - यह युद्ध क्या है, एक जुएका खेल । इसमें प्राणकी बाजी लगती है, और बाणोंके पासे डाले जाते हैं और वाहन ही चौसर हैं । इसमें पहले से यह बात नहीं मालूम होती कि कौन जीतेगा और कौन हारेगा ॥ १७ ॥ श्रीशुकदेवजी कहते हैं—परीक्षित्! वृत्रासुर के ये सत्य एवं निष्कपट वचन सुनकर इन्द्रने उनका आदर किया और अपना वज्र उठा लिया। इसके बाद बिना किसी प्रकारका आश्चर्य किये मुस्कराते हुए वे कहने लगे ॥ ।। १८ ॥ * * देवराज इन्द्र ने कहा - अहो दानवराज ! सच- मुच तुम सिद्ध पुरुष हो । तभी तो तुम्हारा धैर्य, निश्चय और भगवद्भाव इतना विलक्षण है । तुमने समस्त प्राणियों के सुहृद् आत्मस्वरूप जगदीश्वरकी अनन्य भावसे भक्ति की है ॥ १९ ॥ * * अवश्य ही तुम लोगों को मोहित करनेवाली भगवान् की मायाको पार कर गये हो। तभी तो तुम असुरोचित भाव छोड़ कर महापुरुष हो गये हो ।। २० ॥ खल्विदं महदाश्रयं यद् रजः प्रकृतेस्तव । वासुदेवे भगवति सत्त्वात्मनि दृढा मतिः ।। २१ ।। यस्य भक्तिर्भगवति हरौ निःश्रेयसेश्वरे । विक्रीडतोऽमृताम्भोधौ कि क्षुद्रैः खातकोदकैः ।। २२ ।। श्रीशुक उवाच इति ब्रुवाणावन्योन्यं धर्मजिज्ञासया नृप । युयुधाते महावीर्याविन्द्रवृत्रौ युधांम्पती ।। २३ ।। आविध्य परिघं वृत्रः काष्र्णायसमरिन्दमः । इन्द्राय प्राहिणोद् घोरं वामहस्तेन मारिष ।। २४ ॥ स तु वृत्रस्य परिघं करं च करभोपमम् । चिच्छेद युगपद् देवो वज्रेण शतपर्वणा ।। २५ ।। दोर्भ्यामुत्कृत्तमूलाभ्यां बभौ रक्तस्रवोऽसुरः । छिन्नपक्षो यथा गोत्रः खाद् भ्रष्टो वज्रिणा हतः ।। २६ ।। कृत्वाधरां हनुं भूमौ दैत्यो दिव्युत्तरां हनुम् । नभोगम्भीरवक्त्रेण लेलिहोल्बणजिह्वया ॥ २७ ॥ १. प्रा० पा०– वादरायणिरुवाच ।
३९० श्रीमद्भागवतम् [ स्कं. ६ अ. १२ श्लो. २१-३० दंष्ट्राभिः कालकल्पाभिर्ग्रसन्निव जगत्त्रयम् । अतिमात्रमहाकाय आक्षिपस्तरसा गिरीन् ॥ २८ ॥ गिरिराट् पादचारीव पद्भ्यां निर्जरयन् महीम् । जग्रास स समासाद्य वज्रिण सहवाहनम् ॥ २९ ॥ * महाप्राणो महावीयों महासर्प इव द्विपम् । वृत्रग्रस्तं तमालक्ष्य सप्रजापतयः सुराः । हा कष्टमिति निर्विण्णाश्चुकुशुः समहर्षयः ॥ ३० ॥ | कृष्णप्रिया व्याख्या अन्वयः—यत् रजःप्रकृतेः तव मतिः सत्त्वात्मनि भगवति वासुदेवे दृढा इदं खलु महदाश्चर्यम् ॥ २१ ॥ ** निःश्रेयसेश्वरे भगवति हरौ यस्य भक्तिः अमृतांभोधौ विक्रीडतः क्षुद्रैः खातकोदकैः युयुधाते ॥ २३ ॥ * * युयुधाते ॥ २३ ॥ * * * * सः देवः तु 11 किम् ॥ २२ ॥ * * नृप इति धर्म- ।। मारिष मारिष अरिंदमः वृत्रः घोरम् काष्र्णायसम् वृत्रस्य परिघम् च करभोपमम् करम् जिज्ञासया अन्योन्यं ब्रुवाणौ महावीय युधांपती इंद्रवृत्रौ परिघम् आविध्य वामहस्तेन इंद्राय प्राहिणोत् ॥ २४ ॥ शतपर्वणा वज्रेण युगपद् चिच्छेद ॥ २५ ॥ * * वज्रिणा ह्तः छिन्नपक्षः खाद् भ्रष्टः गोत्रः यथा उत्कृत्तमूलाभ्यां दोभ्य रक्तस्रवः असुरः बमौ ॥२६॥ * दैत्यः अधरां हनुम् भूमौ उत्तरां दिवि कृत्वा नभोगम्भीरवक्त्रेण लेलिहोल्बणजिह्वया काल- कल्पाभिः दंष्ट्राभिः जगत्त्रयम् प्रसन् इव अतिमात्र महाकाय तरसा गिरीन आक्षिपन् पादचारी गिरिराट् इव पद्भ्यां निर्जरयन सः सहवाहनम् वज्रिणं समासाद्य जनास ॥ २७–२९ ॥ * * महाप्राणः महावीर्यः महासर्पः द्विपम् इव ।। ।। वृत्रमस्तं तम् आलक्ष्य सप्रजापतयः समहर्षयः सुराः हा कष्टम् इति निर्विण्णाः चुक्रुशुः ॥ ३० ॥ श्रीधरस्वामिविरचिता भावार्थदीपिका ।। * तस्य तव खातकोदकैर्गर्तादिजलोपमैः स्वर्गादिभिः किम् ॥ २२ ॥ युधां संप्रामाणां तौ मुख्यौ ॥ २३ ॥ हे मारिष श्रेष्ठ राजन् ।। २४-२५ ॥ * * उत्कृत्तं मूलं ययोस्ताभ्यां रक्तं स्रवतीति तथा गोत्रः पर्वतः ।। २६ ।। * कृत्वाधरामित्यादेर्जप्रासेति तृतीयेनान्वयः । नभोवद् गंभीरेण वक्त्रेण । लेलिहः सर्पस्तद्वदुल्बणया जिह्वया ।। २७ ।। कालकल्पाभिः कालतुल्याभिर्दंष्ट्राभिसन्निव । आक्षिपन् चालयन् ॥ २८ ॥ * * निर्जरयन चूर्णयन् ।। २९ ।। महाप्राणो महाबलः । महावीर्यो महाप्रभावः महासर्पोऽजगरो द्विपं गजम् ॥ ३० ॥ । वंशीधरकृतो भावार्थदीपिकाप्रकाशः
योद्धृयुद्धौ आदिना पारमेष्ठयादिग्रहः । अखनिषतेति खाताः कूपादयस्त एव खातकाः ।। २२ ।। युधौ तेषां तेषां च पती । धर्मजिज्ञासया धर्मविचारेण । नृपेति । राज्ञां धर्मविचार एव सर्वदा कार्य इति भावः ॥ २३ ॥ हे मारिषेति । अयमेव पूज्यपुरुषाणां धर्मो यतेऽपि दैन्याभावप्रकटनं यथा तव ब्रह्मशापे सत्यपि " द्विजोपसृष्टः कुहकस्तक्षको वा दशत्बल, गायत विष्णुगाथाः” इत्याद्युक्तेरिति भावः ॥ २४ ॥ * “कनिष्ठिकाधः करभः करिपोते च तत्करे” इत्यभिधानात् । करभोपमं गजशुंडोपमम् ॥ २५ ॥ लेलिह : ‘सर्पव्याघ्रौ तु लेलिहौ’ इति निरुक्तिः ।। २७ ।। जमास निजगाल ॥। २९-३० ।। ॥ 8 途
- खादाकाशात् ॥ २६ ॥ दिवि मेघाधिष्ठित मार्गे । अतिमात्रमहाकायोऽतीत्रोच्चस्थूलशरीरः । तरसा बलेन ।। २८ ।। काक अन्वितार्थप्रकाशिका खल्विति । रजः प्रकृतेस्तव सत्त्वात्मनि वासुदेवे भगवति दृढा निश्वला मतिः भक्तिरिति यत्तदिदं खलु महदाश्चर्यम् || २१ || यस्येति । निश्रेयसं मोक्षस्तस्येश्वरे दातरि हरौ भगवति यस्य भक्तिरप्ति तस्य अमृताम्भोधौ विक्रीडतः तब क्षुद्रैः खातकोदकैः गर्त्तादिजलोपमैः स्वर्गादिभिः किं न किंचित्प्रयोजनम् । अस्माकं तु भक्त्यभावादेतैरेव निर्वृतिरिति भावः ।। २२ ।। * * इतीति । हे नृप ! अन्योऽन्यं धर्मजिज्ञासया इत्येवं धर्मं ब्रुवाणौ महावीर्यौ युधां युद्धानां युध्यन्त इति युधो योद्धारस्तेषां वा पती मुख्यौ इन्द्रवृत्रौ युयुधाते ॥ २३ ॥ * * आविध्येति । हे मारिष मान्य ! अरिन्दमः १. प्रा० पा०- - समालक्ष्य । 1 स्क. ६ अ १२ लो. २१-३०] अनेकव्याख्यासमलङ्कृतम् वृत्रः काष्र्णायसं लोहरचितं घोरं परिघं वामहस्तेन आविध्य भ्रामयित्वा इन्द्राय प्राहिणोत् प्रक्षिप्तवान् ॥ २४ ॥ ३९१ स इति । स तु देव इन्द्रः वृत्रस्य परिघं करभोपमं हस्तिशावकशुण्डाकारं करं च शतपर्वणा वज्रेण युगपच्चिच्छेद ॥ २५ ॥ * * दोभ्यमिति । उत्कृत्तं मूलं ययोस्ताभ्यां दोर्भ्यां भुजाभ्यां रक्तं रुधिरं स्रवतीति तथाभूतोऽसुरः वृत्रो यथा वज्रिणा हतः चिच्छन्नपक्षः खात् अत्युच्चप्रदेशात् भ्रष्टः पतितो गोत्रः पर्वतो भाति तथा बभौ ॥ २६ ॥ कृत्वेति सार्द्धत्रयम् । दैत्यो वृत्र: अधरां हनुं भूमौ कृत्वा उत्तरां हनुं दिवि स्वर्गे कृत्वा नभोवद्गम्भीरेण वक्त्रेण लेलिहः सर्पस्तद्वदुल्बणया भयङ्करया जिह्वया कालकल्पाभिः मृत्युतुल्याभिर्दंष्ट्राभिश्च जगत्त्रयं प्रसन्निव । शतार्ष: । अतिमात्रोऽत्युच्छ्रितो महान् कायो यस्य सः महाप्राणः महावीर्यश्च अतस्तरसा वेगेन गिरीन् आक्षिपन चोलयन पद्धयां मेहीं निर्जरयन संचूर्णयन पादचारी गिरिराडिव वज्रिणं वज्रधरमिन्द्रं समासाद्य झटिति प्राप्य सवाहन मैरावतसहितं महासर्पोऽजगरः द्विपमिव जमास । तभाव आर्षः ।। २७-३० ।। PIES 1903
- वीरराघवव्याख्या
- *
- किश्चेदं महदाश्चर्य खलु किं तत् यद्रजः प्रकृतेः राजसस्वभावस्य तव सर्वात्मनि षाण्यपूर्णे वासुदेवे निश्चयमतिरिव- स्थितेति यत् ।। २१ ।।
- अत एव न तवैश्वर्य कैवल्यादिषु मतिरित्याह-यस्येति । निःश्रेयसेश्वरे मोक्षाधिपती आश्रि- तानां संसृतिबन्धहारिणि भगवति यस्य पुंसो भक्तितस्य अमृताम्भोधौ ब्रह्मानन्दसमुद्रे विक्रीडतः विहरतः पुंसः क्षुद्रैरल्पैः खातकोदकैर्गर्तोदकतुल्यैरैश्वर्यकैवल्यादिसुखैः किं तानि तव तुच्छानीति भावः ॥ २२ ॥ एवं परस्परं ब्रुवाणौ इन्द्रवृत्रौ युयुधाते इत्याह मुनिः इतीति । इतीत्थं धर्मजिज्ञासया भगवद्धर्मविचारेण तत्पूर्वमित्यर्थः । एवं ब्रुवाणौ भाषमाणौ युधां योधणां पती मुख्यौ अपारवीय इन्द्रवृत्रौ हे नृप ! युयुधाते युद्धङकृतवन्तौ ।। २३ ।। * * तदेवाह आविध्येति । अरिन्दमो वृत्रः काष्र्णायसं कृष्णलोहमयं घोरं परिघं वामहस्तेनाविध्य भ्रामयित्वा इन्द्राय प्राहिणोत् प्रचिक्षेप हे मारिष श्रेष्ठ राजन् ! ॥२४॥ स देवः इन्द्रस्तु वृत्रस्य परिघं करभोपमं दिग्गजशुण्डातुल्यं करं वामहस्तं च युगपदेव शतपर्वणा वज्र ेण चिच्छेद छिन्नवान् ।। २५ ।। * * उत्कृत्तं छिन्नं मूलं ययोस्ताभ्यां बाहुभ्यां रक्तं स्रवतीति रक्तस्रवोऽसुरो वृत्रः बभौ रराज यथा मोत्रो गिरिर्वत्रिणेन्द्रेण छिन्नौ पक्षौ यस्य तादृशः खादाकाशाद्भष्टो गलितो हतस्सन् भाति तद्वत् ।। २६ ।।
- स दैत्यो
- 1
- वृत्र. अवश
- भूमौ उत्तरां हनुं दिवि कृत्वा निधाय नभोवद्गम्भीरेण वक्त्रेण लेलिहस्सर्पः पुनः पुनरतिशये न वा लेढि लेलिह: यङ्लुगन्तात्पचाद्यच् तद्वदुल्बणया क्रूरया जिह्वया सवाहनमैरावतसहितं वज्रिणं इन्द्रमासाद्य प्राप्य जग्रास निगीर्णवान् कथं- भूतस्सन्- कालकल्पाभिर्मृत्युतुल्याभिर्द्रष्टाभिर्जगत्त्रयं प्रसन्निवातिमात्रोच्छ्रितो महादेहो यस्थात एव तरसा बलेन गिरीनाक्षिपन् इतस्ततश्चालयन पादचारी पर्वतराडिव पद्भ्यां महीं निर्दरयंश्चूर्णयन् पद्भ्यां गिरीनाक्षिपन्महीं निर्दरयंश्चेति वान्वयः महाप्राणो महाबलः महावीर्योतिप्रभावस्सर्पो द्विपं गजमिव जमासेति दृष्टान्तीभूतः ।। २७-२९ ।। वृत्रेण ग्रस्तं तमिन्द्र- मालक्ष्य दृष्ट्वा ब्रह्मादिभिर्महर्षिभिश्च सहिताः सर्वे सुराः हा अद्येन्द्रस्य कष्टं प्राप्तम् इति निर्विण्णाश्चिन्ताक्रान्ताश्चुकुशुः असुरेन्द्रेण वृत्रेण निगीर्णोपीन्द्रो न ममार न मृतः किन्तूदरं प्रविष्टो महापुरुषेण भगवता सन्नद्धो रक्षितः महापुरुषेण नारायणकवचात्मकेन सन्नद्धो दंशितो वा भगवन्मायाबलेन योगमायाबलोपबृंहितेनेत्यर्थः ।। ३०-३१ ॥
- विजयध्वजतीर्थकृता पदरत्नावली
खातकोदकैः कूपतड़ागादिजलैः । तत्प्रायैः : स्वर्गादिभिः ।। २२ ।। धर्मजिज्ञासया धर्मविचारेण युक्तौ युध्य- तीति युधो योधाः तेषां पती युधसंप्रहार इति धातुः अनपुंसकाद्युपपदे किपू प्रत्ययः शब्दवत् ।। २३-२४ ॥ 8 “कनिष्ठिकाधः करभः करिपोतेऽपि तत्कर” इत्यभिधानात् अत्र करभशब्दस्य युक्तोर्थो माह्यः ॥ २५ ॥ * * भ्रष्टो भ्रंशितः ।। २६ ।। * * लिलेंह नभ इति शेषः ॥ २७ ॥ * कालकल्पाभिः यमसदृशीभिः ॥ २८-३० ॥ विश्वनाथचक्रवतिकृता सारार्थदर्शिनी ।। ।। आविध्य भ्रामयित्वा मारिष हे मान्य ! ।। २४-२५ ।। ४ ४ गोत्रः पर्व्वतः || २६ ॥ वद्गम्भीरेण वक्त्रेण लेलिहः सर्पस्तद्वदुल्बणया जिह्वया निर्जरयन् चीर्णीकुर्व्वनु तरसा जमासेत्यन्वयः ।। २७-२३ ॥ शुकदेवकृतः सिद्धांतप्रदीपः ** नभो- यस्य निःश्रेयसेश्वरे मुक्तिप्रदे हरौ भक्तिः स्यात्तस्य क्षुद्रैः स्वर्गादिसुखैः किं प्रयोजनम् ? यथाऽमृताम्भोधौ क्षीराब्धौ हे मारिष श्रेष्ठ ! ।। २४-२५ ।। यथा वज्रिणा हतः खाद्धष्टः
विक्रीडतः खातकोदकैः किम् ।। २२ - २३॥ ३९२ श्रीमद्भागवतम् [ स्कं. ६ अ. १२ श्लो. २१-३० पतितच्छिन्नपक्षो गोत्रो गिरिस्तद्वत् । असुरः उत्कृत्तं मूलं ययोस्ताभ्यां रक्तं स्रवतीति तथा बभौ ।। २६ ॥ * * दैत्यः दैत्य- पातित्वात् न तु दित्यपत्यत्वात् । अधरां हनुं भूमावुत्तरां हनुं दिवि च कृत्वा नभ इव गंभीरवक्त्रेण उल्बणजिह्वया च लेलिहस्सर्प इव प्रतीयमानः । वज्रिणं जमासेति तृतीयेनान्वयः ॥ २७ ॥ * * कालकल्पाभिः कालतुल्याभिः जगत्त्रयं प्रसन्निव अति- मात्रः अतिप्रमाणः महान्कायो यस्य स तरसा वेगेन गिरीन् आक्षिपन् धर्षयन् ॥ २८ ॥ निर्जरयन जर्जरीकुर्वन् ।। २९ ।। महाप्राणो विपुलबल: महावीर्यो विपुलपराक्रमः सर्पो द्विपं गजमिव ॥ ३० ॥ गोस्वामिगिरिधरलालविहिता बालप्रबोधिनी खल्वित्यवधारणे । इदं महदाश्चर्यमेव । इदमिति किमित्यपेक्षायामाह - यदिति, तव वासुदेवे भगवति दृढा निश्चला मतिः भक्तिरिति यत्तदित्यर्थः । ननु तत्रापि दृढा भक्तिर्भवत्येव तेन कथमाश्चर्यमित्याशङ्कय ‘समशीला भजन्ति वै’ इति वचना- नुसारेण भक्तेरुपास्यसमशील हे तुकत्वप्रसिद्धेस्तव चासुरत्वे रज:स्वभावत्वात् शुद्धसत्त्वमूर्ती कथं भक्तिर्जातेित्याश्चर्यमेवेत्याशयेन विशेषणद्वयं रजः प्रकृतेरिति, सत्त्वात्मनीति च ॥ २१ ॥ 3 अतस्तव स्वर्गादिभोगोपेक्षा युक्तैवेत्याह–यस्येति । निश्श्रेयसं मोक्षस्तस्येश्वरे दातरि - उपलक्षणमेतत्-धर्मादिचतुर्विधपुरुषार्थदातरि हरौ आधिदैविकादित्रिविधदुःखहर्त्तरि भगवति यस्य भक्तिरस्ति तस्य तव स्वर्गादिसुखेन किमिति शेषः । तत्र दृष्टान्तमाह-विक्रीडत इति, यथाऽमृताम्भोधौ विक्रीडतः खात- कोदकैः गर्त्तजलैर्न किञ्चित्प्रयोजनं तद्वदित्यर्थः । अस्माकं तु भक्त्यभावात् स्वर्गसुख एवाग्रह इति सूचितम् ।। २२ ।। * * ततश्च युद्धमभूदित्याह — इतीति । युद्धवृत्तश्रवणाय सावधानीकरोति — हे नृपेति । तयोर्वचनमपि न युद्धसंरम्भेन निरर्थकं किन्तु धर्मनिर्णायकमित्याह - धर्मजिज्ञासयेति । युधां युध्यन्त इति युधो योद्धारस्तेषां पती मुख्यौ ॥ २३ ॥ * * आविध्य भ्रामयित्वा प्राहिणोत् प्रक्षिप्तवान् । हे मारिष हे मान्य इति सम्बोधनं स्नेहसूचकम् ॥ २४ ॥ । करभोपमं हस्तिशुण्डाकारम् ।। २५ ।। उत्कृत्तं मूलं ययोस्ताभ्यां दोर्भ्यां भुजाभ्यां रक्तं रुधिरं स्रवतीति तथाभूतोऽ- सुरः वृत्रो यथा वज्रिणा हतः छिन्नपक्षः खात् अत्युच्च प्रदेशाभ्रष्टः पतितो गोत्रः पर्वतो भाति तथा बभावित्यन्वयः ॥ २६ ॥ कृत्वा धरामित्यादेर्जग्रासेति तृतीयेनान्वयः । दैत्यो वृत्र: अधरां हनुं भूमौ कृत्वा उत्तरां हनुं दिवि स्वर्गे कृत्वा नभोवद्गम्भीरेण वक्त्रेण लेलिहः सर्पस्तद्वदुल्बणया भयङ्करया जिह्वया ॥ २७ ॥ * कालकल्पाभिः मृत्युतुल्याभिश्च दंष्ट्राभिर्जगत्रयं प्रसन्निव अतिमात्रोऽत्युच्छ्रितो महाकायो यस्य सः । अतस्तरसा वेगेन गिरीन् आक्षिपन् चालयन् ॥ २८ ॥ * * पद्भयां महीं निर्जरयन सञ्चूर्णयन पादचारी गिरिराडिव वज्रिणं वज्रधरमिन्द्रं समासाद्य झटिति प्राप्य सवाहनमैरावतसहितं जग्रास ॥ २९ ॥ * * ननु शरीरेण महत्त्वेऽपि सामर्थ्य विना कथं सवज्रस्य सवाहनस्येन्द्रस्य प्रासः सम्भवतीति शङ्का- निरासायाह - महाप्राणो महाबलः । महावीर्यो महाप्रभावः । प्रासे दृष्टान्तमाह — महासर्पः अजगरो यथा द्विपं हस्तिनं प्रसेत तथेत्यर्थः ॥ ३० ॥ …
भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी 7 8 स इन्द्रः खल्विति । किं च इदं महत् आश्चर्यं खलु । किं तत्तदेवाह । यत् रजः प्रकृतेः राजसस्वभावस्य तव सर्वात्मनि सर्वान्तर्यामिणि भगवति, षाड्गुण्यपूर्णे, वासुदेवे दृढा निश्चला, मतिः अस्ति । अवस्थिता भवति ।। २१ ।। * * सर्वात्मना तव भगवदेकान्तिकभक्तत्वादैश्वर्यकैवल्यादिषु मतिर्नास्तीत्याह । यस्येति । निःश्रेयसेश्वरे मोक्षाधिपतौ, हरौ स्वाश्रितानां संसृतिबन्धहारिणि, भगवति, यस्य पुंसः, भक्तिः भवति । अमृताम्भोधौ ब्रह्मानन्दसमुद्रे, विक्रीडतः विहरतः, तस्य पुंसः, क्षुद्रैरल्पैस्तुच्छ रिति यावत् । रवातकोदकैर्गर्त्तादिजलोपमैः, स्वर्गादिरित्यर्थः । किम् । ऐश्वर्यकैवल्यादीनगणयत स्वातुच्छ स्वर्गादौ मतिः कथं प्रसरेदिति भावः ॥ २२ ॥ इतीति । हे नृप, इतीत्थं, धर्मजिज्ञासया अन्योन्यं परस्परं ब्रुवाणौ युधां योद्धृणां, पती मुख्यौ, महावीर्यौ अपारसामर्थ्यो, इन्द्रवृत्रौ युयुधाते युद्धं कृतवन्तौ ॥ २३ ॥ * * आविद्धचेति । हे मारिष श्रेष्ठराजन्, अरिंदमः शत्रुदमनः संबोधन: वा, वृत्रः काष्र्णायसं कृष्णलोहमयं घोरमतिभयंकरं परिघमायुधविशेषं वामहस्तेन आविद्धच भ्रामयित्वा इन्द्राय इन्द्रं हन्तुं प्राहिणोत् प्रचिक्षेप ॥ २४ ॥ शतपर्वणा वज्रेण, वृत्रस्य परिघम् । करभोपमम् करं च युगपत् । चिच्छेद ।। २५ ।। मूलं ययोस्ताभ्याम् । दोर्भ्यां बाहुभ्यां रक्तं स्रवतीति रक्तस्रवः, असुरो वृत्रः, वज्रिणेन्द्रेण हतः ताडितः, छिन्नौ पक्षौ यस्य सः, खादाकाशात् भ्रष्टोऽधः पतितः, गोत्रः पर्वतः यथा तादृशः, बभौ ॥ २६ ॥ कृत्वेति । कृत्वाधरामित्यादिश्लोक- त्रयस्य जमासेत्यनेनान्वयः । दैत्य उक्तविधः स वृत्रः, अधरां हनुं भूमौ कृत्वा, उत्तरामुपरितनां हनुं दिवि कृत्वा, नभोवत् * त्विति । देवः स इन्द्रस्तु, दोर्भ्यामिति । उत्कृत्तं छिनं स्कं. ६ अ. १२ लो, ३१-३५] अनेकव्याख्यासमलङ्कृतम् । ३९३ स्ववद्गम्भीरं यद्वक्त्र तेन, लेलिहः सर्पस्तद्दुल्बणा क्रूरा’ या जिह्वा तया उपलक्षितः ।। २७ ।। * * दंष्ट्राभिरिति । कालकल्पासि: जगद्रक्षककालसमानाभिः दंष्ट्राभिः, जगन्नयं त्रिलोकीं, मसन्निव वर्त्तमानः, अतिमात्रमत्यन्तं महान् कायो देहो यस्य सः, तरसा गमनवेगेन, गिरीन्मागतपर्वतान, आक्षिपंश्चादयत् ।। २८ ।। * * गिरिसडिति । पादचारी रणभूमौ पादाभ्यां विचरन्, गिरिराट् पर्वतः इव, पद्भ्यां पादाभ्यां महीं भुवं निर्जरयन, चूर्णयन् सः वृत्रः, सहवाहनं वाहनसहित- मैरावतसहितमिति यावत् । वज्रिणमिन्द्रं समासाद्य जग्रास गिलितवान् ।। २९ ।। महेति । महाप्राणो महाबलः, महावीर्यो महापराक्रमः, महासर्पोऽजगरः, द्विपं इस्तिनमिव, जमासेति पूर्वेण संबन्धः । ततः सप्रजापतयः प्रजापतिभिः सह वर्त्तमानाः, सुरा देवाः, वृत्रेण ग्रस्तो गिलितस्तं तमिन्द्रम्, आलक्ष्य विलोक्य, हा इति खेदे । कष्टं शक्रस्य महाकष्टं प्राप्तम्, इत्येवं निर्विण्णा निर्वेद प्राप्ताः, समहर्षयो महर्षिभिः सहिताः सन्तः, चुक्रुशुराक्रोश शक्रस्य चुक्रुशराक्रोश चक्रुः ॥ ३० ॥
। मीणा 1 क भाषानुवाद: * * । । अवश्य ही यह बड़े आश्चर्य की बात है कि तुम रजोगुणी प्रकृति हो तो भी विशुद्ध सत्त्वस्वरूप भगवान् वासुदेवमें तुम्हारी बुद्धि दृढ़ता से लगी हुई है । २१ ॥ * * जो परम कल्याणके स्वामी भगवान् श्री हरिके चरणोंमें प्रेममय भक्तिभाव रखता है, उसे जगत् के भोगोंकी क्या आवश्यकता है ? कता है ? जो अमृतके समुद्र में विहार कर रहा है, उसे क्षुद्र गढ़ोंके जलसे प्रयोजन ही क्या हो सकता है ।। २२ ।। * श्रोशुकदेवजी कहते हैं- परीक्षित् ! इस प्रकार योद्धाओं में श्रेष्ठ महापराक्रमी देवराज इन्द्र और वृत्रासुर धर्मका तत्त्व जाननेकी अभिलाषाले एक दूसरे के साथ बातचीत करते हुए आपसमें युद्ध करने लगे ॥ २३ ॥ * - * राजन् ! अब शत्रुसूदन वृत्रासुरने बायें यें हाथसे १ फौलादका बना हुआ एक बहुत भयावना परिघ उठाकर आकाशमें घुमाया और उससे इन्द्र पर प्रहार किया ।। २४ ।। किन्तु देवराज इन्द्रने वृत्रासुरका वह परिधि तथा हाथीकी सूँडके समान लंबी भुजा अपने सौ गाँठोवाले बज्रसे एक साथ ही काट गिरायी ।। २५ । * * जड़से दोनों ।। 8 1 भुजाओंके कट जानेपर वृत्रासुरके बायें और दायें दोनों कंधोंसे खूनकी धारा बहने लगी। उस समय वह ऐसा जान पड़ा, मानी इन्द्रके वज्रकी चोटसे पंख कट जाने पर कोई पर्वत ही आकाशसे गिरा हो । २६ ॥ * * अब पैरोंसे चलने-फिरनेवाले पर्वतराजके समान अत्यन्त दीर्घकाय वृत्रासुरने अपनी ठोड़ीको धरतीसे और ऊपरके होठको स्वर्गसे लगाया तथा आकाशके समान गहरे मुँह, साँपके समान भयावनी जीभ एवं मृत्यु के समान कराल दादोसे मानो त्रीलोकीको निगलता, अपने पैरोंकी चोटसे पृथ्वीको रौंदता और प्रबल वेगसे पर्वतों को उलटता - पलटता वह इन्द्रके पास आया और उन्हें उनके वाहन ऐरावत हाथी के सहित इस प्रकार नील गया जैसे कोई परम पराक्रमी और अत्यन्त बलवान् अजगर हाथीको निगल जाय । प्रजापतियों और महर्षियोंके साथ देवताओंने जब देखा कि वृत्रासुर इन्द्रको निगल गया तब तो वे अत्यन्त दुःखी हो गये, तथा ‘हाय-हाय ! बड़ा अनर्थ हो गया ।’ यों कहकर विलाप करने लगे ।। २७–३२ ।। निमीणोंऽप्यसुरेन्द्रेण न ममारोदरं गतः । महापुरुषसन्नद्धो योगमायाबलेन च ॥ ३१ ॥ मित्रत्वा वज्रण तत्कुक्षि निष्क्रम्य बलभिद् विश्वः । उच्चकर्त शिर शत्रुोगिरिभृङ्गमिवौजसा ॥ ३ बज्रस्तु तत्कन्धरमाशु वेगः कृन्तन् समन्तात् परिवर्तमानः । न्यपातयत् तावदहर्गणैन यो ज्योतिषामयने वार्त्रहत्ये ॥ ३३ ॥ तदा च खे दुन्दुभयो विनेदुर्गन्धर्वसिद्धाः समहर्षिसङ्घाः । वार्त्रघ्नलिङ्गैस्तमभिष्टुवानामन्त्रैर्मुदा मन्दाकुसुमैरभ्यवर्षन् ॥ ३४ ॥ वृत्रस्य देहान्निष्क्रान्तमात्मज्योतिररिन्दम । पश्यतां सर्वलोकानामलोकं समपद्यत ॥ ३५ ॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे वृत्रबधो नाम द्वादशोऽध्यायः ॥ अन्वयः – T कृष्णप्रिया व्याख्या १२ ॥
- असुरेन्द्रेण निगीर्णः अपि उदरम् गतः च महापुरुषसन्नद्धः योगमायाबलेन न ममार ॥ ३१ ॥ * * विभुः बलभित् वज्रण तत्कुक्षिं भित्त्वा निष्क्रम्य ओजसा गिरिशृङ्गम् इव शत्रोः शिरः उचकर्त ॥ ३२ ॥ तत्कंधरम् ५० ३९४ श्रीमद्भागवतम्
[ स्कं. ६ अ. १२ श्रो. ३१-३५ कृन्दन् समंतात् परिवर्तमानः आशुवेगः वज्रः तु यः ज्योतिषाम् अयने अहर्गणेन वार्त्रहत्ये न्यपातयत् ॥ ३३ ॥ तदा च समहर्षिसंघाः गंधर्वसिद्धाः खे दुंदुभयः विनेदुः मुदा वार्त्रघ्नलिङ्गः मंत्रः तम् अभिष्टुवानाः कुसुमैः अभ्यवर्षन् ॥ ३४ ॥ अरिंदम वृत्रस्य देहात् निष्क्रान्तम् आत्मज्योतिः सर्वलोकानाम् पश्यताम् अलोकम् समपद्यत ।। ३५ ।। इति द्वादशोऽध्यायः ॥ १२ ॥ श्रीधरस्वामिविरचिता भावार्थदीपिका
महापुरुषेण कवचरूपेण श्रीनारायणेन सन्नद्धो दंशितः । योगबलेन मायाबलेन च ॥ ३१ ॥ बलभिदिंद्रः । उच्चकर्त चिच्छेद ।। ३२ ।। * * तदेवाह । तस्य कंधरं कंधराम् । आशुवेगोऽतिवेगवान् ज्योतिषां सूर्यादीनाम् अयने दक्षिणोत्तरगतिरूपे संवत्सरे योऽहर्गणः षष्टचतुरशतत्रयात्मकस्ताचताऽहर्गणेन वार्त्रहत्ये वृत्रहत्यायोग्ये काले न्यपातयत् । यहा स्वार्थे तद्धितः । वृत्रहत्यायां वृत्रहननार्थ परिवर्तमान इत्यर्थः ॥ ३३ ॥ * * “वार्त्रघ्नलिंगैर्वृत्रहं तुर्वीर्यप्रकाशकैः । वात्र- हत्याय शबसे पृतनाषाह्याय च” इत्याद्यैस्तमिद्रमभिष्टुबाना अभिष्टुतः ॥ ३४ ॥ * अलोकं लोकातीतं भगवंतम् ॥ ३५ ॥ इति षष्ठस्कन्धे टीकायां द्वादशोऽध्यायः ॥ १२ ॥ वंशीधरकृतो भावार्थदीपिकाप्रकाशः नारायणकवचरूपेण मंत्रमूर्त्तिनेत्यर्थ: । ‘मंत्रमूत्तिममूर्त्तिकम्’ इत्युक्तेः । योग एव माया तस्या बलेनैश्वय्र्येण ।। ३१-३२ ।। वृत्रहत्यायोग्ये काल इत्यर्थंगीकारे काल एव तद्धननं करिष्यति किं वज्रप्रहारेण । यद्वेति । वृत्रहत्यैव वार्त्रहत्यं तस्मिंस्तथा । इत्यर्थ इति । नैमित्तिकाधारसप्तमीयमिति भावः । अयने अहर्गण इत्यत्र भवतीति क्रिया बोध्या न तु भवत इति तदुक्तमपि “प्रकृतेर्विकृतेर्वापि ह्येकदा प्रतिपादने । प्रकृतेर्वाचकः संख्यां गृह्णाति विकृतेर्न तु ।” इति । यथा सुवर्ण खदिरांगारसदृशे कुंडले भवतीत्यादि । इहापि ज्योतिरयनयोर्विकृतित्वमहर्गणस्य प्रकृतित्वमहर्गणस्यैव ज्योतिरयनत्वसंभवादिति । यद्वा - ज्योतिषामयने नेत्रदृष्टीनामाश्रये भगवत्पदौ तौ यावत्ते न वीक्ष्येते तावत्तस्य शिरोऽच्छिनत् । हे अहर्गणेन अहानि गण्यंते येषां तेऽहर्गेणा नरास्तेषां स्वामिन् । अत्र य इति वज्रेणान्वेति । तेन वीक्ष्येते इति शेषः । यावत्तावतोर्नित्यसंबंधादेव यावदिति ॥ ३३ ॥ * बार्त्रहत्याय शवसे पृतनाषाह्याय च” इत्याद्यैरिति । अस्यार्थ :- ‘इंद्र त्वा वर्त्तयामति’ इति मंत्रशेषः । वार्त्रहत्याय वृत्रो येन शवसा बलेन हन्यते तद्वात्र हत्यं शवस्तस्मै वार्त्रहत्याय शवसे । पृतनाषाह्याय च पृतनाः संग्रामस्थाः सेना येन शवसाऽभिभूयंते तत्पृतनाषायं बलं तस्मै पृतनाषाह्याय सहतिरभिभवार्थः । हे इंद्र त्वामावर्त्तयामः सदेत्यर्थः । वार्त्रघ्नलिंगैरिति बहुवचनात् । “अहनहिं पर्वते शिश्रियाणां त्वष्टास्मै वज्रं स्वयं ततक्ष वास्रा इव धेनवः स्पंदमाना अंज: समुद्रमवजग्मुराप इति । वृत्रो ह वा इदं सर्वं वृत्त्वा शिष्ये यदिदमंतरेण द्यावापृथिवी स यदिदं सर्व वृत्त्वा शिश्ये तस्माद्वृत्रो नामेति । तमिंद्रो जघान स इतः पूतिः सर्वत एवापोभिस्राव सर्वत इव ह्ययं समुद्रस्तस्माद हैका आपो बीभत्सांचक्रिरे । ता उपर्युपर्य्यतिपुपुविरे त इमे दर्भास्ता है ता अनापूरिता आपोस्ति वा इतरासु संसृष्टमिव यदेनावृत्रः पूतिरभिप्रास्रवत्तदेवासामेताभ्यां पवित्राभ्यामपत्यथ रेवाद्भिः प्रोक्षति तस्माद्वा एताभ्यामुत्पुनाति” इति शतपथश्रुतयो ब्राह्याः । स्पष्टार्था एव । तदा वृत्रशिरः पतनावसरे ॥ ३४ ॥ * * अरिंदमेति । त्वमप्यविद्यारात्र दमनसमर्थो भूत्वा तादृशीं गतिं प्राप्स्यसीति भावः । लोकातीतं प्रपंचातीतम् ।। ३५ ।। इति श्रीमद्भागवतभावार्थदीपिकाप्रकाशे षष्ठस्कन्धे द्वादशोऽध्यायः ।। १२ ॥ अन्वितार्थप्रकाशिका वृत्रेति । वृत्रप्रस्तमिन्द्रं समालक्ष्य दृष्ट्वा सप्रजापतयः सुरादयो निर्विण्णाः सन्तो हा कष्टमिति चुकुशुः ॥ ३१ ॥ ** निगीर्ण इति । महापुरुषेण श्रीनारायणकवचरूपेण सन्नद्धो दंशितः योगमायाबलेन चेति योगबलेन स्वमायाबलेन च सन्नद्धः तत्र योगोऽष्टाङ्गः माया अन्तर्द्धाय पवनादिरूपेण स्थितः इन्द्रः असुरेन्द्रेण निगीर्णः अतः उदरं गतोऽपि न ममार ॥ ३२ ॥ भित्त्वेति । बलभित् इन्द्रः विभुः भगवदनुग्रहेण समर्थः वज्र ेण तस्य कुक्षिं भित्त्वा बहिर्निष्क्रम्य ओजसा बलेन शत्रोर्वृत्रस्य शिरः गिरिशृङ्गमिव वणोश्चकर्त चिच्छेद । अत्र वृत्रेणेन्द्रे प्रस्ते मम हन्ताऽन्यो नास्मीति मत्वा वृत्रो योगेन देहं त्यक्तुं समाधिं चकार । तेन निश्चेष्टस्य तस्य कुक्षिं भित्त्वा इन्द्रः सुखेन तच्छिरश्चकर्त्त इति गिरिशृङ्गमिव वज्र ेणेति दृष्टान्तेन लभ्यते ॥ ३३ ॥ वज्रस्त्विति । आशुवेगः अतिवेगवानपि वज्रस्तस्य वृत्रस्य कन्धरं कन्धरां कृन्तन् तस्य समन्तात्सर्वदिक्षु परिवर्तमानोऽपि स्कं. ६ अ. १२ लो. ३१-३५ ] अनेकव्याख्यासमलङ्कृतम् २९५ ज्योतिषां सूर्यादीनामयने दक्षिणोत्तर गतिरूपे संवत्सरे योऽहर्गणः षष्ठयुत्तरशतत्रयात्मको भवेत् तावताऽहर्गणेन वार्त्रहत्ये वृत्रहत्यायोग्ये काले शिरो न्यपातयत् । यद्वा । स्वार्थे तद्धितः । वृत्रहत्यायां वृत्रहननार्थ परिवर्तमान इत्यर्थः । यद्वा । आशुवेगोऽपि समन्तात् परिवर्त्तमानः कन्धरायाः सर्वतो दिक्षु भ्रमन्नेव कृन्तन् न त्वेकतो दिशः तत्रापि वर्षमितेन कालेन कन्धराया महा- सारत्वात् यद्वा वार्त्रहत्ये इति अयनविशेषणम् । दण्डादियप्रत्ययान्तात्स्वार्थिकेन तत्र भवार्थेन वा अणा रूपम् ॥ ३४ ॥ * तदेति । तदा च खे स्वर्गे दुन्दुभयो विनेदुः गन्धर्वसिद्धादयश्च वार्त्रघ्नलिङ्गैर्वृत्रहन्तुर्वीर्यप्रकाशकैर्मन्त्रैवर्त्रहत्याय शवसे पृतना- पाढाय चेत्याद्यैस्तमिन्द्रमभिष्टुवाना अभिष्टुतवन्तः मुदा कुसुमैरभ्यवर्षन् ॥ ३५ ॥ * * वृत्रस्येति । हे अरिन्दम ! वृत्रस्य देहान्निष्क्रान्तम् आत्मज्योतिः जीवाख्यं तेजः सर्वलोकानां पश्यतां सताम् अलोक लोकातीतं भगवन्तं समपद्यत सम्यकू पुनरावृत्तिव यथा तथा प्राप ।। ३६ ।। ि || इति श्रीकृष्णसेवार्थमन्वितार्थप्रकाशिकाम् । गङ्गासहायः षष्ठस्य द्वादशे निरमादिमाम् ॥ इति श्रीभागवते महापुराणे षष्ठस्कन्धेऽन्वितार्थप्रकाशिकायां द्वादशोऽध्यायः ।। १२ ।। वीरराघवव्याख्या वज्र ेण तस्य वृत्रस्य कुक्षिं भित्वा विभुः बलभिदिन्द्रः कुतेः बहिर्निर्गत्य शत्रोर्वृत्रस्य शिरः पर्वतस्य शृङ्गमिव उच्च कर्त चिच्छेद ।। ३२ ।। * * अतिविपुलां वृत्रस्य कन्धरां कियता कालेन चिच्छेदेत्यत्राह वज्रस्त्विति आशुवेग- स्तीक्ष्णधारो वज्र वज्रायुधं तस्य वृत्रस्य कन्धरं कण्ठं पुंस्त्वमार्ष समन्तात्कन्धरायाः अभितः परिवर्त्तमानः कृन्तन् छिन्दन् वार्त्रहत्ये वृत्रहत्या सम्बन्धिनि ज्योतिषामयने संवत्सरे योऽन्हां षष्ठयुत्तरत्रिशतसंख्याकानां गणः तेन तावता कालेनेत्यर्थः । न्यपातयच्चिरो भूमौ पातितवानित्यर्थः । ज्योतिष सूर्यादीनामयनं दक्षिणोत्तरगतिः तदात्मके संवत्सर इत्यर्थः । वार्त्रहत्ये इत्यनेन कार्त्स्न्येन संवत्सरसम्बधित्वं वृत्रहत्यायाः सूचितम् ॥ ३३ ॥ * * तदा वृत्रशिरश्छेदनानन्तरं खे दिवि देवदुन्दुभयो दध्वनुः महर्षीणां सङ्घः सहिता गन्धर्वास्सिद्धाश्च वार्त्रघ्नलिङ्गैः वृत्रहं तुरिन्द्रस्य प्रकाशकैर्मन्त्रैस्तं इद्रमभिष्टु- वन्तः मुदा हर्षेण कुसुमैरभ्यवर्षन् ॥ ३४ ॥ * * हेऽरिन्दम ! वृन्त्रस्य देहान्निर्गतमात्मज्योतिः ज्योतिरूपः स्वप्रकाशरूप आत्मा सर्वलोकानां पश्यतां सताम् अलोकं प्राकृतलोकविलक्षणं श्रीवैकुण्ठं समपद्यत स्वं लोकमिति पाठे मुक्तानां स्वतः प्राप्तं स्थानमित्यर्थः ॥ ३५ ॥ W इति श्रीमद्भागवत महापुराणे षष्ठस्कन्धे श्रीमद्वीरराघवाचार्य्यकृतभागवतचन्द्रचन्द्रिकायां द्वादशोऽध्यायः ॥ १२ ॥ विजयध्वजतीर्थकृता पदरत्नावली: * महापुरुषेण भगवता सन्नद्धः सहितो रक्षित इति यावत् नारायणकवचाख्यविद्यया समुद्धतो वा योगमायाबलेन अणिमादिमहिमबलेन उपायलक्षणमायाबलेन वा ।। ३१-३२ ॥ अकृत्रिमो योगो यस्य स तथा योऽयमहर्गण आदित्यादिज्योतिषामयने दक्षिणोत्तरायणसंज्ञे संवत्सरे संभवति तावताहर्गणेन षट्युत्तरशतत्रयलक्षणेन वार्त्रहत्ये वृत्रहननसम्बन्धिनि समरे काले वा तावत्कालं समन्तात्कृन्तन् परिवर्तमानो भ्रमन्वास्तं न्यपातयदित्यन्वयः । अत्रेतिहासं पठति । प्रथमं युद्धं नर्मदातीरे द्वितीयं तु समुद्रतीरे तत्र वृत्रेण केनचित्संकेतेन संधित इन्द्रः सख्यं प्राप्तस्य तस्य स्निग्धतया करं प्रगृह्य फेनेनास्य वधं कर्तुं विचरन्फेनेन मां जहीति विनोदवचनं वृत्रेण वादयित्वा तेन पाद- स्पर्शलक्षणं ताडनं कृत्वा युद्धाय सन्नद्धः एकसंवत्सरकालं युद्धं कृत्वा विष्णुशक्तियुक्तं वज्रः फेने निवेश्य तस्मै विसृज्य श्रीनारायणं ध्यायतस्तस्य शिरः प्रजहार “सन्धितः समयेनेन्द्रो वृत्रेणाथो करग्रहः । समुद्रतीरे विचरन फेनेन वधमस्य तु । नर्मणा जहि फेनेन वाचयित्वा सुरेश्वरः । पादस्पर्श विवादं च कृत्वा युद्धाय दंशितः । फेने वज्र समावेश्य विष्णुयुक्तं व्यसर्जयत् । अपानुदच्छि रस्तस्य ध्यायतो वत्सरेण सः” इति वाक्यमत्र मानं करं गृह्णातीति करग्रहः ।। ३३ ।। * * वृतन्नस्येन्द्रस्य संबंधीनि लिङ्गानि लक्षणानि स्तम्भितजलनिर्गमनादीनि तानि येषु मन्त्रेषूच्यन्ते ते वार्त्रघ्नलिंगास्तैर्मत्रैः “दासपत्नीरहिगोपा अतिष्ठन्निरुद्धा आपः पणिनेव गाव: अपां बिलमपिहितं यदासोत्र जघन्वान् । अपतद्ववार" इत्यादिलक्षणैः ॥ ३४ ॥ * * आत्मज्योतिर्जीवाख्यं तेजः स्वलोकं स्वेनाधिकृतं विद्याधरलोकम् ॥ ३५ ॥ • इति श्रीमद्भागवत महापुराणे षष्ठस्कन्धे श्रीमद्विजयध्वजतीर्थकृत पदरत्नावल्यां द्वादशोऽध्यायः ।। १२ । ३९६ श्रीमद्भागवतम् जीवगोस्वामिकृतः क्रमसन्दर्भ: 小 [ . ६ आ १२ श्लो. ३१-३५ नि न ममारेत्यत्र हेतुमाह - महापुरुषेण विश्वरूपोपदिष्टनारायणवर्म्मणा सन्नद्धः । ननु गुरुबधेपि सा विद्याऽस्फुरदिति शास्त्रविदामसम्मतं तत्राह-योगेति । सम्प्रतिलब्धेन भगवच्छक्तिबलेनेत्यर्थः । चकारात्तद्बलेन पूर्व्वशक्तेरप्युद्भवो गमितः ।। ३१-३४ ॥ * * वृत्रस्येति आत्मज्योतिराविर्भूत पार्षददेहात्मकम् । अलोकं भगवल्लोकम् ।। ३५ ।। इति श्रीमद्भागवत महापुराणे षष्ठस्कन्धे श्रीमज्जीवगोस्वामिकृतक्रमसन्दर्भे द्वादशोऽध्यायः ।। १२ ।। FHE FIRE me FEBR विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी ॥ER FIE SEATED महापुरुषेण श्रीनारायणकवचेन सन्नद्धो दंशितः योगबलेन स्वमायाबलेन च तत्र योगोऽष्टाङ्गः । माया अन्तर्द्धाय पवनादिरूपेण स्थितिः ॥ ३१ ॥ ॐ उच्चकर्त चिच्छेद ॥ ३२ ॥ * ॐ आशुवेगोपि समन्तात् परिवर्त्तमानः कन्धरायाः सर्वतो दिक्षु भ्रमन्नेव कृन्तन् न त्वेकतो दिशः । कन्धराया महासारत्वादिति भावः । तावता अहर्गणेन कर्त्तित्वा भूमौ न्यपातयत् योऽहर्गणः ज्योतिषां सूर्य्यादीनां सम्बन्धिनी अयने द्वे दक्षिणोत्तरे अभिव्याप्य भवेदित्यर्थः । अयने कीदृशे वार्त्रहत्ये वृत्रहत्यायोग्ये दण्डादियप्रत्ययान्तात् स्वार्थिके नाना तत्र भावार्थे नाना वा रूपम् ॥ २३ ॥ ४ * वार्त्रघ्नलिङ्गैः “वार्त्रहत्याय शवसे पृतनाषाह्याय च” इत्याद्यैर्मन्त्रैस्तमिन्द्रमभिष्टुवानाः ॥ ३४ ॥ * * अत्र यदैव वृत्रः सवाहनमिन्द्रं जमास तदैव मम इन्ता अन्यः कोपि नास्तीति निश्चित्य योगबलेनैव देहं त्यक्त्वा कथं न शीघ्रं भगवत्पार्श्व यामीति विभाव्य समाधिवकार तदैवेन्द्रोऽचेतनस्य वृत्रदेहस्य कुक्षिं विदार्य निःसृत्य शिरश्छेदे प्रवृत्त इति गिरिशृङ्गमिव चकर्त्तेति दृष्टान्तात् ज्ञेयम् । आत्मज्योतिः पार्षददेहात्मकः प्रकाशः वृत्रदेहात पृथग्भूतः । अलोकं लोकातीतं श्रीसङ्कर्षणवैकुण्ठम् || ३५ ॥ इति सारार्थदर्शिन्यां हर्षिण्यां भक्तचेतसाम् । षष्ठस्य द्वादशोऽध्यायः सङ्गतः सङ्गतः सताम् ।। १२ ।। । शुकदेवकृत: सिद्धान्तप्रदीपः ।। FIR FISE FIER IFPR I महापुरुषेण वर्मरूपेण श्रीनारायणेन सन्नद्धः दंशितः इन्द्ररक्षार्थ भगवत्प्रयुक्तमायाबलेन च न ममार ॥ ३१ ॥ * बलभिदिन्द्रः तस्य कुक्षिं भित्वा विदार्य ततो निष्क्रम्य निर्गत्य शत्रोः वृत्रस्य शिरः उच्चकर्त अच्छिनत् ॥ ३२ ॥ * आशुवेगः शीघ्रगतिर्वणः कन्धरायास्समन्तात् । परिवर्तमानः परिभ्रममाणः तस्य कन्धर पुस्त्वमार्ष कन्धरां कृन्तन् छिन्दन् वार्त्रहत्ये वृत्रहत्यायोग्ये ज्योतिषां सूर्यादीनामयनं दक्षिणोत्तरगतिस्तदात्मके संवत्सरे योऽहर्गणः षष्ठयधिकशतत्रयदिवससमूह- स्तावता अहर्गणेन न्यपातयत् ॥ ३३ ॥ * * वार्गनलिंगैः बृहन्तुरिन्द्रस्य वीर्यप्रकाशकैः । “ वार्त्रहत्याय शवसेवृतना- । षाह्याय च इन्द्रत्वावर्तयामसि” इत्याद्यैर्मन्त्रैः । तमिन्द्रमभिष्टुवानाः । कुसुमैरभ्यवर्षन् ॥ ३४ ॥ ४ * आत्मज्योतिः जीवाख्यज्योतिः । अलोकम् अकारार्थस्य वासुदेवस्य लोकं वैकुण्ठ समपद्यत ।। ३५ ।। इति श्रीमद्भागवत महापुराणे षष्ठस्कन्धे श्रीमच्छुकदेवकृतसिद्धान्तप्रदीपे द्वादशोऽध्यायः ।। १२ ।। SID PE गोस्वामिगिरिधरलाल विहिता बालप्रबोधिनी कुक्षिभित्त्वा एवं वृत्रयस्तमिन्द्रं समालक्ष्य दृष्ट्वा सुरादयो निर्विण्णाः सन्तो हा कष्टमिति चुकुशुरित्यन्वयः ।। ३१ ।। निर्गीर्णे प्राप्तां मरणशङ्कां वारयति - निगीर्णोऽपीति । तत्र हेतुद्वयमाह महापुरुषेति, महापुरुषेण श्रीनारायण कवचरूपेण सन्नद्धो दंशित: । योगमायाबलेन चेति योगः उपायः तद्रपा वा स्वमाया तस्था बलेन चेत्यर्थः ॥ ३२ ॥ ततश्च बलभित् इन्द्रः विभुः भगवदनुग्रहेण समर्थः वज्रेण तस्य कुक्षि भित्त्वा बहिर्निष्क्रम्य ओजसा बलेन शत्रोवृत्रस्य शिरो वज्रो चकर्त्त चिच्छेदेत्यन्वयः । तस्यातिमहत्त्वेन तद्योग्यं दृष्टान्तमाह-गिरिशृङ्गमिवेति ।। ३३ ।। * * एवं सङक्षेपोक्त्या तच्छिरश्वेदस्य सुकरत्वप्रतीतेस्तद् भ्रमनिरासायाह-वज्रस्त्विति । आशुवेगः अतिवेगवानपि वज्रस्तस्य वृत्रस्य कन्धर कन्धरां कृन्तन् तस्याः समन्तात् सर्वदिनु परिवर्तमानोऽपि ज्योतिषां सूर्यादीनामयने दक्षिणोत्तरगतिरूपे संवत्सरे योऽहर्गणः षष्ठयुक्त- रशतत्रयात्मकस्तावता हर्गणेन वार्त्रहत्ये वृत्रहत्यायोग्ये काले शिरों न्यपातयदित्यन्वयः । यद्वा स्वार्थे तद्धितः वृत्रहत्यायाँ वृत्र- हननार्थ परिवर्तमान इत्यर्थः ॥ २४ ॥ * * तदा च खे खर्गे दुन्दुभयो विनेदुः । गन्धर्वसिद्धादयश्च वार्त्रनलिङ्गैर्वृत्रहन्तु- ।। स्कं. ६ अ. १२ श्लो. ३१-३५ ] अनैकव्याख्यासमलङ्कृतम् ३९७ वीर्यप्रकाशकैर्मन्त्रैस्तमिन्द्रमभिष्टुवाना अभिष्टुवन्तः । मुदा कुसुमैरभ्यवर्षन्नित्यन्वयः ॥ ३५ ॥ * आत्मज्योतिः जीवाख्यं तेजः अलोकं लोकातीतं भगवन्तं समपद्यत सम्यक् पुनरावृत्तिवर्ज यथा तथा प्राप । हे अरिन्दमेति सम्बोधनेन त्वमपि कामक्रोधाद्यरीन् वशीकृतवानसीति तवापि भगवत्प्राप्तौ न सन्देह इति सूचयति ॥ ३६ ॥ ।। इति श्रीवल्लभाचार्यवंश्यगोपालसूनुना । श्रीमन्मुकुन्दरायाणां पादसेवाधिकारिणा ॥ १ ॥ श्रीमदगिरिधराख्येन भजनानन्दसिद्धये । श्रीमद्भागवतस्येयं टीका बालप्रबोधिनी ॥ २ ॥ रचिता तत्र षष्ठेऽस्मिन् स्कन्धे रूपनिरूपणे । द्वादशो विवृतिं यातो वृत्रमोक्षनिरूपकः ॥ ३॥ ་འ ས་ ॥ १ ॥ भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जन निगीर्ण इति । महापुरुषेण कवचरूपेण श्रीनारायणेन संनद्धो दंशितः, अत एव योगमायाबलेन योगशक्त्या बलेन चेत्यर्थः । युक्तः शक्रः असुरेन्द्रेण वृत्रेण निगीर्णः गिलितः । अतः उदरं वृत्रजठरं गतः प्राप्तः अपि न ममार चोऽव- धारणे ॥ ३१ ॥ * * भित्त्वेति । विभुर्महासमर्थः, बलभिद्बलाख्यासुरहन्ता शक्रः, वजेण तत् कुक्षिं वृत्रकुक्षिप्रदेशं, भित्त्वा विदार्य, निष्क्रम्य तद्द्वारेण स्वनिष्क्रमणं विधाय, शत्रोर्वृत्रस्य शिरः कंधरामित्यर्थः । ओजसाऽतिबलेन, गिरिशृङ्ग पर्वतशिखरम् इव उच्चकर्त्त चिच्छेद || ३२ ॥ कियता कालेन चिच्छेदेत्यत्राह । वज्र इति । वृत्रहत्या वृत्रासुरहननमेव वात्र हत्यं तस्मिन् । स्वार्थे तद्धितः । वृत्रहननार्थमित्यर्थः । तत्कंधर पुस्त्वमार्षम् । तस्य कंधरामित्यर्थः । समन्तादभितः, परिवर्त्तमानः परिभ्रमन, आशु शीघ्रतोपेतो वेगो यस्य सः, कृन्तन्नहर्निशं छिन्दन्, यः वस्तु, ज्योतिषां सूर्यादीनां अयने दक्षिणोत्तरगत्यात्मके काले, वर्त्तमानेन अहर्गणेन यावान् कालः स्यात् तावत्तावताहर्गणेनेत्यर्थः । न्यपातयत् । तच्छिरो भूमौ पातितवा- नित्यर्थः ॥ ३३ ॥ * तदेति । तदा वृत्रशिरश्छेदनानन्तरमित्यर्थः । खे दिवि दुन्दुभयो देवानामानकाः, नेदुर्दध्वनुः । समहर्षिसंघा महर्षीणां संधैः सहिताः, गन्धर्वसिद्धाः गन्धर्वाः सिद्धाश्चेत्यर्थः । वार्त्रघ्नलिङ्गः वृत्रहन्तुर्वीर्यप्रकाशकैः मन्त्रः ‘वार्त्रहत्याय शव से पृतनाषाढाय च’ इत्याद्यैर्मनुभिः, तमिन्द्रं अभिष्टुवाना अभिस्तुवन्तः सन्तः, मुदा ह हर्षेण, कुसुमैः अभ्यवर्षन् || ३४ || वृत्रस्येति । है अरिंदम राजन, वृत्रस्य देहात, निष्क्रान्तं निर्गतम् आत्मज्योतिः स्वप्रकाशरूप- स्तदात्मा इत्यर्थः । सर्वलोकानां पश्यतां सताम्, अलोकं प्राकृतलोकविलक्षणं भगवद्धाम, समपद्यत हि ।। ३५ ।। चतुर्णां पूर्वपुत्रो योऽकिञ्चनानां द्वितीयकः । माये तृतीयदाता मे तुर्य दत्वा तनोतु शम् ॥ इति श्रीधर्मधुरंधरश्रीधर्मात्मजप्रत्यक्ष पुरुषोत्तम सहजानन्द स्वामि सुतश्रीरघुवीराचार्यसूनुभगवत्प्रसादाचार्यविरचितायामन्वयार्थाव- बोधिन्यां भक्तमनोरञ्जन्याख्यायां श्रीमद्भागवतटीकायां षष्ठस्कन्धे द्वादशोऽध्यायः ।। १२ ।। भाषानुवादः C बल दैत्यका संहार करनेवाले देवराज इन्द्रने महापुरुष-विद्या (नारायणकवच ) से अपनेको सुरक्षित कर रक्खा था और उनके पास योगमायाका बल था ही । इसलिये वृत्रासुरके निगल लेनेपर उसके पेटमें पहुँचकर भी वे मरे नहीं ||३१|| उन्होंने अपने वज्रसे उसकी कोख फाड़ डाली और उसके पेट से निकलकर बड़े वेग से उसका पर्वत शिखरके समान ऊँचा सिर काट डाला ।। ३२ ।। * * सूर्यादि ग्रहोंकी उत्तरायण दक्षिणायनरूप गतिमें जितना समय लगता है, उतने दिनोंमें अर्थात एक वर्ष में वृत्र वथका योग उपस्थित होनेपर घूमते हुए उस तीव्र वेगशाली वज्रने उसकी गर्दनको सब ओरसे काटकर भूमिपर गिरा दिया || ३३ ॥ * * उस समय आकाशमें दुन्दुभियाँ बजने लगीं । महर्षियोंके साथ गन्धर्व, सिद्ध आदि वृत्रघाती इन्द्रका पराक्रम सूचित करनेवाले मन्त्रोंसे उनकी स्तुति करके बड़े आनन्दके साथ उनपर पुष्पोंकी वर्षा करने लगे ॥ ३४ ॥ * * शत्रुदमन परीक्षित् ! उस समय वृत्रासुरके शरीरसे उसकी आत्मज्योति बाहर निकली और उसकी आत्मज्योति इन्द्र आदि सब लोगों के देखते-देखते सर्वलोकातीत भगवानके स्वरूपमें लीन हो गयी || ३५ ॥ इति द्वादशोऽध्यायः ।। १२ ।। प्र 1. ’ अथ त्रयोदशोऽध्यायः श्रीशुक उवाच वृत्रे हते त्रयो लोका विना शक्रेण भूरिद। सपाला भवन् सद्यो विज्वरा निर्वृतेन्द्रियाः ॥ १ ॥ देवर्षिपितृभूतानि दैत्या देवानुगाः स्वयम् । प्रतिजग्मुः स्वाधिष्ण्यानि ब्रह्मेशेन्द्रादयस्ततः ॥ २ ॥ राजोवाच इन्द्रस्यानिर्वृतेर्हेतुं श्रोतुमिच्छामि भो सुने। येनासन् सुखिनो देवा हरेर्दुःखं कुतोऽभवत् ॥ ३ ॥ श्रीशुक उवाच वृत्रविक्रमसंविप्राः सर्वे देवाः सहर्षिभिः । तद्वधायार्थयन्निन्द्र नैच्छद् भीतो वृहद्वधात् ॥ ४ इन्द्र उवाच स्त्रीभूजलद्रुमैरेनो विश्वरूपवधोद्भवम् । विभक्तमनुगृहद्भिर्व्वत्रहत्या क] मार्थ्यहम् ॥ ५ ॥ श्रीशुक उवाच ऋषयस्तदुपाकर्ण्य महेन्द्रमिदमब्रुवन् । याजयिष्याम भद्रं ते ॥ हयमेधेन मा स्म भैः ॥ ६ ॥ हयमेधेन पुरुषं परमात्मानमीश्वरम् । इष्ट्वा नारायणं देवं मोक्ष्यसेऽपि जगद्वधात् ॥ । ७ ॥ ब्रह्महा पितृहा गोनो मातृहाऽऽचार्यहाघवान् । श्वादः पुल्कसको वापि शुद्धये रन् यस्य कीर्तनात् ॥ ८ कृष्णप्रिया व्याख्या अन्वयः - भूरिद वृत्रे इते सद्यः शक्रेण विना सपालाः त्रयः लोका विज्वराः निर्वृतेन्द्रियाः हि अभवन् ।। १ ।। ** ततः देवर्षिपितृभूतानि ब्रह्मेशेन्द्रादयः देवानुगाः दैत्याः स्वयं स्वधिष्ण्यानि प्रतिजग्मुः ॥ २ ॥ * भो मुने इंद्रस्य अनिर्वृतेः हेतुम् श्रोतुम् इच्छामि देवाः येन सुखिनः आसन् हरेः दुःखम् कुतः अभवत् ॥ ३ ॥ * * वृत्रविक्रमसंविप्राः ऋषिभिः सह सर्वे देवाः तद्वधाय इंद्रम् आर्थयन बृहद्वधात भीतः न ऐच्छत् ॥ ४ ॥ * * अनुगृह्णद्भिः स्त्रीभूतजलदुमैः विश्वरूपवधोद्भवम् एनः विभक्तम् अहम् वृत्रहत्याम् क मार्जिम ॥ ५ ॥ * * ऋषयः तत् उपाकर्ण्य महेन्द्रम् इन्द्रम् अब्रुवन् ते भद्रम् हयमेधेन याजयिष्याम मा भैः स्म ॥ ६ ॥ हयमेधेन पुरुषम् परमात्मानम् ईश्वरम् नारायणम् देवम् इष्ट्वा जगद्वधात् अपि मोक्ष्यसे ॥ ७ ॥ ॐ ॐ ब्रह्महा पितृहा गोन्नः मातृहा आचार्यहा अघवान् श्वादः वा पुल्कसकः अपि यस्य कीर्त्तनात् शुद्धचेरन् ॥ ८ ॥ श्रीधरस्वामिविरचिता भावार्थदीपिका त्रयोदशे तु वृत्रस्य ब्रह्महत्या महाभयात् । चिरं नष्टोऽवितः शक्रो विष्णुनेति निरूप्यते ।। १ ।। १ ।। अनिर्वृतं शक्रमष्पृष्ट्रा स्वयमेव प्रतिजग्मुः ॥ २ ॥ * हरेरिंद्रस्य ॥ ३ ॥ * * तस्य दुःखहेतुं वक्तुं प्रस्तावकथामाह । वृत्रविक्रमेत्यादिना । आर्थयन्प्रार्थयत । बृहद्वधाद्ब्राह्मणवधाद्भीतः सन् ॥ ४ ॥
-
- एनः पापं विभक्तं विभज्य गृहीतम् । माज्मि शोधयामि ।। ५-९ ॥ १. प्रा० पा०– बादरायणिरुवाच । २. प्रा० पा० नुगाश्च ये । ३. प्रा० । उत्तरार्थोऽयं मया - “गृहीतं मे महाभागाः कथं श्रेयोऽधुना भवेत्” । पा० - बादरायणिरुवाच । ४. प्राचीने पाठेस्कं. ६ अ. . १३ . १-८] अनेकन्याख्यासमलङ्कृतम् वंशीधरकृतो भावार्थदीपिका प्रकाशः ३९९ चिरं नष्टो बहुकालमदृष्ट: ( १ ) अहो इंद्रस्य महत्वं यो लोकस्य वर्षणेनासुरहननेन च बहुसखप्रदोऽस्तीति विमृशं तं राजानं श्रीमहामुनिराह - त्वमपि भूरिदोऽसीति भावः । भूरिभ्यो बहुभ्यः प्रजारक्षणेन सुखं ददाति । यद्वा – प्रार्थितादप्य- धिकं ददाति सुवर्ण वा ददाति । भूरीन्दुष्टजनान् यति खंडयति वा भूरिदस्तत्संबुद्धौ तथा यद्वा-त्वमिंद्रादप्यधिकोऽसि यतः स्वयमेव श्रीकृष्णेन गर्भे रक्षितोऽसि दयते पालयतीति द: ‘देड - पालने’ अतो डः । भूरिः श्रीकृष्णो दः पालको यस्य स भूरिदस्तत्संबुद्धौ तथा ‘जुगोप कुक्षिं गत आत्तचक्र:’ इत्यादिवक्ष्यमाणत्वात् । “भूरिर्ना वासुदेवे च हरे च परमेष्ठिनि । नपुंसकं सुवर्णे च प्राज्ये स्याद्वाच्यलिंगकः । " इति मेदिनी । निर्वृतमिंद्रियं मनो निवृ तानि सुस्थितानि वेंद्रियाणि चक्षुरादीनि येषां ते तथा “निर्वृतिः सुस्थितावस्तंगमने च सुखे स्त्रियाम्” इति मेदिनी ॥ १ ॥ देवर्षयो नारदाद्याः । देवानुगा गंधर्वाद्याः । ततो युद्धस्थलात् ॥ २ ॥ ** भो मुन इति । सर्वज्ञत्त्वात्तत्व सर्व विदितमिति भावः । येन वृत्रवधेन । हरेरिन्द्रस्य । “अर्कमर्कमंडूकविष्णुवासववायवः । तुरंगसिंहशीतांशुयमाश्च हरयो दश ।” इत्यभिधानात् ॥ ३ ॥ * * आर्थयन्निति । अर्थप्रातिपदिकात्कृतात् “तत्करोति" इति णिचि कृते रूपं साधु । वृत्रस्य ब्राह्मणत्वमग्निसंभवत्वादपि “अग्निर्वै ब्राह्मणः” इति श्रुतेः । आदित्यानामपि वस्तुतो ब्राह्मणत्वेन त्वष्टुरात्मजत्वादपि तथात्वमेवेति ॥ ४ ॥ * * यथा बृहस्पत्यवज्ञात्मकं पापं विश्वरूपवधात्मकपापांतरस्य जनकं जातं तथा तच लोकदृष्टया विभक्तमपि वृत्रवधात्मक- पापान्तरस्य जनकत्वेनावशिष्टं दृष्टमित्यमिन्द्रः स्वयमेव तदशेषमनुभूयांतर्भीत एव हि तान्प्रत्याचक्षाण उवाचेत्यभिप्रायेणाह - इंद्र उवाचेति । विभक्तं विभज्य स्वीकृतं तत्र हेतुः - अनुगृह्णद्धिरिति ॥ ५ ॥ ऋषयस्तु जगत्स्वास्थ्याय तस्याप्यासुर- भावनाशाय श्रीभगवदाज्ञाबलेन प्रयोजितवन्त इत्यभिप्रेत्याह — ऋषय इति ॥ ६ ॥ * * तत्र वीर्यातिशयाधानज्ञाप- नार्थमाहुर्नारायणमिष्ठेति ॥ ७ ॥ कैमुत्यार्थमाह-ब्रह्महेति । कीर्त्तनमात्रात्किं पुनरसकृन्नामोच्चारणमयतद्यजनादित्यर्थः ।
- । ॥ ब्राह्मणाच्छूद्रायां जातः सुतो निषादः शूद्रायां निषादाज्जातः पुल्कसः क्षत्रियाच्छूद्रकन्यायां जाता कन्योमी शूद्रात् क्षत्रियायां जातः क्षत्ता क्षत्तु रुभ्यां जातः श्वाद इति मन्वादयः । अपि नाऽन्येप्यंत्यजादयः ॥ ८ ॥ 1 अन्वितार्थप्रकाशिका त्रयोदशे वृत्रहत्या भयान्नष्टश्विरं वृषा । रक्षितो विष्णुना तत्र श्लोका दहनबाहवः ( २३ ) ॥
वाचेति पादोना षडविंशतिरनुष्टुभः ( २५ ।। ) ॥ १३ ॥ वृत्रे इति । हे भूरिद ! वृडो हते सति शक्रेण विना सपालाः यो लोकाः भयङ्करवृत्रमरणात् विज्वराः सन्तापरहिताः स्वर्गादिस्वस्वस्थानभोगसम्पत्त्या च निर्वृतेन्द्रियाः आनन्दित- मनसश्चाभवन् ॥ १ ॥ देवेति । ततः स्थानाद्देवादयो ब्रह्मेशादयश्च स्वयं स्वधिष्ण्यानि प्रतिजग्मुः । देवानुगाः सेनापतयः। गन्धर्वादयश्च अत्र अनिर्वृतं शक्रमष्पृष्ट्रा स्वयमेव प्रतिजग्मुरिति स्वामिपादाः । इतोऽत्र वृत्रवधानन्तरमेव इन्द्रस्य स्वधिष्ण्यगमनं नोपपद्यते वृत्रवधक्षण एव वृत्रहत्योपद्रवप्राप्तेः तस्मादन्येषु वृत्रवधानन्तरं गतेष्वपि इन्द्रस्तु मानससरोवरा- दागत्य प्रवर्तितादश्वमेधात्परतो गत इति बोद्धयम् । ब्रहोशेन्द्रादय इत्यत्रेन्द्रग्रहणं तु न समकालत्वाय किन्तु क्रियान्वय- मात्राय ।। २ ।। * * इन्द्रस्येति । भो मुने ! येन वृत्रवर्धन हरेरिन्द्रस्य स्पष्टं शेषम् ॥ ३ ॥ * * वृत्रेति । वृत्रस्य विक्रमेण संविग्नाः भीताः ऋषिभिः सह सर्वे देवाः तस्य वृत्रस्य वधाय इन्द्रं प्रार्थयन् प्रार्थयन्त । इन्द्रश्च बृहद्वधात् ब्राह्मणवधात् भीतः सन् वृत्रवधं नैच्छत् ॥ ४ ॥ स्त्रीति । अनुगृहद्भिर्मय्यनुग्रहं कुर्वद्भिः स्त्र्यादिभिर्विश्वरूपवधोद्भवमेनः पापं विभक्त विभज्य गृहीतमतोऽहं ततो विमुक्त इति शेषः । वृत्रहत्यामहं के मार्जिम कस्यै दत्त्वात्मानं शोधयिष्यामि ॥ ५ ॥ ऋषय इति । पूर्वार्द्धं स्पष्टम् । हयमेधेन वयं त्वा याजयिष्याम । सलोप आर्षः । तथा च ते भद्र ं भविष्यति । पापाद्विनिर्मुक्तो भविष्यसि अतो मा स्म भैः भयं मा कुरु । सिज्लुगार्षः ॥ ६ ॥ * * हयमेधेनेति । हयमेधेन पुरुषं परमात्मानमीश्वरं देवं नारायणम् इष्ट्वा पूजयित्वा तत्प्रसादात् जगद्वधात् जगद्बधजनितात् पापादपि विमोक्ष्यसे किमेकया वृत्रहत्यया विमोक्ष्यस इत्यत्राश्चर्यमिति शेषः ॥ ७ ॥ ब्रह्मेति । ब्रह्महादयो पातकिनोऽपि यस्य नारायणस्य नामकीर्तनमात्रात् शुद्धयेरन् । तार्षः ॥ ८ ॥ वीरराघवव्याख्या V एवं वृत्रबधेन सर्वे निवृत्तास्खस्वलोकान् जग्मुरित्याह मुनिः वृत्र इति द्वाभ्याम् ! हे भूरिद ! एवं वृत्रे हते सति शक्रं विना सर्वे लोकपालैः सहिताः लोकाः सद्य एव विज्वराः विगताधयः अत एव निर्वृतानि सुखितानि इन्द्रियाणि अन्तर्बाह्यानि ४०० ጞ श्रीमद्भागवतम् Free । [ रुकं. ६ अ १३ को, १-८ येषां तादृशाः अभवन् बभूवुः ॥ १ ॥ * * ततो देवाश्च ऋषयश्च पितरख भूतानि च तथा दैत्याः देवाश्च तदनुगाश्च तथा ब्रह्मा चतुर्मुखश्च ईशो रुद्रश्च इन्द्रश्व आदिशब्दादन्ये च स्वस्वस्थानानि प्रति स्वयं जग्मुः ।। २ ।। * यदुक्तं यच्छक्रेण विना सर्वे लोका विज्वरा निर्वृतेन्द्रियाः अभवन्निति तत्रैन्द्रस्यानिवृतौ देवानां निर्वृतौ च कारणं पृच्छति राजा इन्द्र- स्येति । हे महामुने ! इन्द्रस्यानिर्वृतौ हेतुं कारणं श्रोतुमिच्छामि वृत्रवध एवेति चेत्तर्हि तेनैव देवानामप्यनिर्वृतिर्भवेदिदं तु कुतः देवानां निर्वृतिरिन्द्रस्य दुःखमिति पृच्छति येवेति । येन वृत्रवधरूपेण हेतुना देवाः सुखिनः आसन् तस्मादेव हेतोरिन्द्र णापि सुखिना भवितव्यं कुतः कस्माद्धेतोर्हरेरिन्द्रस्य दुःखमभूदित्यर्थः ॥ ३ ।। * * एवं पृष्टो मुनिरिन्द्रस्यानिर्वृतौ देवानां निर्वृतौ च हेतुं वकुन्तावद्वत्रवधोद्योगकालिकं देवानां वृत्तान्तमाह मुनिः । वृत्रेत्यादिना यावदध्यायसमाप्ति । वृत्रस्य पराक्रमेण भीताः सर्वे देवा ऋषिभिस्सह वृत्रवधार्थम् इन्द्रमार्थयन प्रार्थयन्त परस्मैपदमार्षम् एवं प्रार्थितोपीन्द्रो बृहद्वधाद्ब्रह्मवधात्पूर्वं कृताद्विश्वरूपवधात्करिष्यमाणवृत्रवधाद्वा भीतः सन्नैच्छत् ॥ ४ ॥ * एतदिन्द्रोक्तिमुखेन विशदयति स्त्रीति । विश्वरूप- वधोद्भवमेनः पापं मामनुगृह्णद्भिः स्त्रीभूमिजलदुमैश्चतुर्भिर्विभक्तं विभज्य गृहीतमधुना वृत्रहत्यां के कुत्र मार्जिम संशोधयेयं वृत्रहत्यो- द्भयं पापं कावस्थाप्याहं शुद्धो भवेयं न काप्यतस्तं न हन्यामित्यर्थः ॥ ५ ॥ * * एवमिन्द्र गोक्ता ऋषयस्तं प्रत्यूचुरि- त्याह मुनिः । तदिन्द्रस्य वच उपाकर्ण्य ऋषयो महेन्द्र प्रतीदं वक्ष्यमाणं वाक्यमब्रुवन् ऋषीणामुक्तिमेवाह याजयिष्याम इत्यादिना खलनिग्रहेणेत्यंतेन । हयमेधेनाश्वमेधेन यागेन करणेन त्वया कर्त्रा वयं याजयिष्यामः भगवन्तमिति शेषः । त्वं मास्म- भैर्भयं माकार्षीः ते तव भद्रमेव भविष्यति ॥ ६ ॥ नन्वश्वमेधमात्रेण मत्पापं कथं निवर्तिष्यत इति शङ्कमानं प्रत्याहु:-हयमेधेनेति । परमात्मानं लोकत्रयमन्तः प्रविश्य भर्तारमीश्वरं सर्वस्य प्रशासितारं स्वतेजसा दीप्यमानं परम- पुरुष नारायण हयमेधेनेवा आराध्य कृत्स्नजगद्वधनिमित्तादपि पापान्मोक्ष्यसे किमुत वृत्रवधनिमित्तत्पापान्मोक्ष्यस इतीत्यर्थः । “नाम्नोस्य यावती शक्तिः पापनिर्दहने हरेः । तावत्कत्तु न शक्नोति पापकं पातकी नरः ।” इत्युक्तरीत्या स्मरणमात्रमहापातक- निवर्त्तनशीलत्वादिरूपमहामहिमशाल्यनन्तनाम्नो भगवतः साक्षादाराधनेन धर्मप्रतिपक्षवृत्रवधमात्रनिमित्तं पापं न निवर्त्तते किमित्यभिप्रायेण पुरुषं परमात्मानमित्याद्यनेकनाम्नामुपादानम् ॥ ७ ॥ * एतदेव विशदमाहुः । ब्रह्मेतिद्वाभ्याम् । यस्य भगवतो नाम्नः कीर्त्तनादेवाब्रह्मन्त्रादयः शुध्येरन श्वादः श्वपाकः पुल्कसः पापजातिः ॥ ८ ॥ || विजयध्वजतीर्थंकृता पदरत्नावली अश्वमेधादिकर्मज्ञानप्रतिबन्धदुष्कर्मपरिहारत्वेन तत्साधनमित्येतदस्मिन्नध्याये प्रतिपाद्यते । भूरिद बहुप्रद ! स्वर्ण - ॥ प्रदेति वा “स्वर्ण भूरिहिरण्यच पुरढं निष्कहेमनि" इत्यभिधानाद्धिरण्यादिद्रव्यप्रद ॥ १ ॥ * ततः समुद्रतीरात् ॥२॥ हरेरिन्द्रस्य " अर्क मर्कट मण्डूकविष्णुवा सववायवः तुरङ्गसिंहशीतांशुयमाश्च हरयो दश" इत्यभिधानम् ॥ ३ ॥ * * आर्थयन्नि- त्युभयपदी अर्थप्रातिपदिकात् कृदन्तात्तत्करोतीति णिचि कृते रूपं साधु बृहद्वधात् ब्राह्मणवधात् ॥ ४ ॥ * * एनो ब्रह्म- हत्यापापं मार्जिम संशोध्य परिहरामि ॥ ५ ॥ मास्म मै भयं मा कार्षीः स्म ॥ ६-७ ॥ * * यन्नामसङ्कीर्तना- देवे शुद्धा भवन्ति किं वक्तव्यं तद्यजनेनेति भावेनाह-ब्रह्महेति ।। ८ ।। जीवगोस्वामिकृतः क्रमसन्दर्भः वृत्रविक्रमेत्यादि वृत्रवाक्यश्रवणानन्तरमेव ज्ञेयम् ॥ १-४ ॥ * * अथ यथा बृहस्पत्यवज्ञात्मकं पापं विश्वरूप- वधात्मकपापान्तरस्य जनकं जातम् । तथा च तच्च लोकमात्रदृष्ट्या विभक्तमपि वृत्रवधात्मकपापान्तरजनकत्वेनावशिष्टमेव दृष्ट इन्द्रः स्वयमपि तदवशेषमनुभूयान्तर्भीत एवं बहिस्तान् प्रत्याचक्षाणस्तमपि पूर्ववल्लोक संग्रहार्थमपलपति - स्त्रीति ॥ ५ ॥ ऋषयस्तु जगत्स्वास्थ्याय तस्याप्यासुरभावनाशाय श्रीभगवदाज्ञाबलेन संप्रयोजितवन्त इत्यभिप्रेत्याह – ऋषय इति ॥ ६ ॥ अतो दोषाभासत्वात् प्रायश्चित्ताभासमप्युद्भावयन्ति – ह्येति । तत्र वीर्य्यातिशयाधानज्ञापनार्थमाहुः नारायणमिति । कैम- त्यार्थमाह ब्रह्मति । आचार्यो वेदगुरुः । कीर्त्तनमात्रात् । किं पुनरसकृन्नामोच्चारणमयतद्यजनादित्यर्थः । तत्र स्वभावमपि दर्श- यन्ति अस्माभिरिति । तत्र भगवत इव स्वाभिप्रायमपि व्यञ्जयन्ति खलेति । जगतस्तस्य च भद्रीभावान्नात्र दोष इति ॥ ५-६ ॥ p विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी म * ब्रह्मेन्द्रादय इति इन्द्रस्य स्वधिष्ण्यगमनं नोपपद्यते वृत्रवधक्षण एव ब्रह्महत्योपद्रवप्राप्तेः । तस्मात्तत इत्यनेन मानस- सरोवरादागत्य प्रवर्त्तितादश्वमेधात् परत इति व्याख्येयम् ॥ १-२ ॥ * * हरेरिन्द्रस्य ॥ ३ ॥ * * तस्य वृत्रस्य बधाय आर्थयन प्रार्थयन्त स चेन्द्रो हन्तु नैच्छत् । वृद्धात् ब्राह्मणवधाद्भीतः सन् ॥ ४ ॥
- एनः पापं मार्जिम शोधयामि ॥ ५ ॥ मास्म भै मामैषीः ।। ६-९ ॥
स्कं. ६. अ. १३ लो. १-८] अनेकव्याख्यासमलङ्कृतम् ! शुकदेवकृतः सिद्धांतप्रदीप : ४०१ वृत्रहत्याभिभूतस्येन्द्रस्य विष्णुना रक्षा- कृतेतित्रयोदशेनाध्यायेन वर्णयति-वृत्रे हते इति ॥ १ ॥ * * स्वयमिति तमिन्द्रमपृष्ठैव देवादयः स्वयं स्वधिष्ण्यादि प्रति जग्मुः ॥ २ ॥ * * येन वृत्रवधेन देवाः सुखिन आसन हरेरिन्द्रस्य दुःखं कुतोऽभूत ॥ ३ ॥ * * तस्य वृत्रस्य वधायार्थयन् प्रार्थितवन्तः प्रार्थितोपि सः बृहद्वधाद्राह्मणवधाद्भीतः सन् नैच्छत् ||४|| विश्वरूपवधोद्भवमेनः पापं स्त्र्यादिभिरनुगृहद्भिर्विभक्तं विभज्य स्वीकृतं वृत्रहत्यां क मार्जिम प्रक्षालये ॥ ५ ॥ * * मास्म भैः भयं मा कुरु ॥ ६ ॥ * * जगद्वधादपि विमोक्ष्यसे किं पुनः वृत्रवधात् ॥ ७ ॥ ॐ
-
- यस्य नारायणस्य ॥ ८ ॥ गोस्वामिगिरिधरलालविहिता बालप्रबोधिनी त्रयोदशे महापापभयादिन्द्रो जले वसन । हरिणा रक्षितस्तस्मात् कृपयेति निरूप्यते ॥ १ ॥ वृत्रे हते सति एकमिद्रं विहाय सर्वे सुखिनो जाता इत्याह-वृत्रे हत इति । हे भूरिदेति राजानं सम्बोधयन् यथा भवता भूरिदानेन सर्व अनान्दिता भवन्ति तथेति सूचयति । भयङ्करवृत्र मरणाद्विज्वराः सन्तापरहिता स्वर्गादिस्व- स्वस्थानभोगसम्पत्त्या च निर्वृतेन्द्रियाः आनन्दितमनसश्चाभवन् ॥ १ ॥ * * ततः स्थानात् देवानुगाः सेनापतयः गन्धर्वादयश्च स्वयमनिर्वृतं शक्रमपृष्ठैव स्वधिष्ण्यानि प्रतिजग्मुः सामर्थ्ययोतनार्थम् । येन वृत्रवर्धन | हयात प्रतिः ॥ २ ॥ हे मुने इति सम्बोधनं सर्वज्ञत्वेनोतरदानं । । हरेरिन्द्रस्य ॥३॥ ̈ * दुःखहेतुं वक्तुं प्रस्तावकथामाह - वृत्रेति । तस्य वृत्रस्य वधाय आर्थयन् प्रार्थयन्तः, इन्द्रश्च तन्नैच्छत् यतो बृहद्वधाद्राह्मणबधाद्भीतः ॥ ४ ॥ * * प्रार्थित इन्द्रो यदुत्तरं दत्तवांस्तदर्शयति–स्त्रीति । अनुगृहद्भिर्मय्यनुग्रहं कुर्वद्भिः स्त्र्यादिभिर्विश्वरूपवधोद्भवमेनः पापं विभक्तं विभज्य गृहीतमतोऽहं ततो विमुक्त इति शेषः । वृत्रहत्यामहं क मामि कस्मै दत्त्वाऽऽत्मानं शोधयिष्यामीत्यर्थः ॥ ५ ॥ 1 हयमेधेन वयं त्वां याजयिष्याम तथा च ते भद्रं भविष्यति पापाद्विनिर्मुक्तो भविष्यसि अतो मा स्म भैः भयं सा कुर्विति ऋषयो महेन्द्रमनु- बन्नित्यन्वयः ॥ ६ ॥ भोगमन्तरेणाश्वमेधमात्रेण कथं पापाद्विनिर्मुक्तिरित्याशङ्कय यज्ञाराधितभगवत्प्रसादादित्याहु:- हयमेधेनेति । हयमेधेन नारायणं सर्वनियन्तारं भगवन्तमिष्टा पूजयित्वा तत्प्रसादात् जगद्वधात् जगद्वधजनितात् पापादपि विमोक्ष्यसे किमेकया वृत्रहत्यया विमोक्ष्यसे इत्यत्राश्चर्यमिति शेषः । तस्य परिच्छिन्नत्वशङ्कानिरासायाहु: - पुरुषमिति, पूरणमित्यर्थः । तथापि जीवदोषप्रसङ्गशङ्कानिरासायाहुः - परमात्मानमिति । तथापि रक्षासमर्थेनैव भाव्येति सामर्थ्यमाहुः - ईश्वरमिति । यो हि विश्वरक्षां करोति तस्य तव रक्षायां कः प्रयास इति भावः । तथापि स रक्षां करिष्यत्येवेति कथं निश्चयस्त्राहुः - देवमिति । देवगणमुख्यत्वात् तत्करणेन सन्देह इति भावः ॥ ७ ॥ * उक्तमेवार्थ कैमुत्यन्यायेन द्रढयन्ति ब्रह्महेतिद्वयेन । ब्रह्महादयो महापातकिनोऽपि यस्य नामकीर्त्तनमात्रात् शुध्येरंस्तमश्वमेधेनेष्ट्वा चराचरं सर्वं जगद्वत्वाऽपि तत्पापेन यहि न लिप्यसे तर्हि खलस्य वृत्रस्य निग्रहजनितेन न लिप्यसे इति किं वक्तव्यमिति द्वयोरन्त्रयः ॥ ८ ॥ भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी वृत्रस्य ब्रह्महत्याया भयाच्छक्रश्चिरं गतः । अदर्शनं परित्रातो विष्णुनेति त्रयोदशे ॥ १ ॥ ¡ । । एवं वृत्रवधेन निर्वृत्ताः सर्वे स्वस्वलोकान् प्रति जग्मुरित्याह मुनिः वृत्र इति द्वाभ्याम् । वृत्र इति । हे भूरिद एवं वृत्रे शक्रेण हते सति, विना एकं शक्रमृते, सपालाः सर्वैर्लोकपालैः सहिताः, त्रयः लोकाः, सद्यः एव, विज्वरा दुःखरहिताः, निर्वृते- न्द्रियाः सुखितेन्द्रियाः, अभवन् हि ॥ ९ ॥ * देवर्षीति । देवाश्च ऋषयश्च पितरश्च भूतानि भूतसंज्ञका देवाश्व दैत्याः देवानुगाः, स्वयं स्वत एव, अनिर्वृतं शक्रमदृष्टवाऽष्टृष्ट्वा चेत्यर्थः । स्वधिष्ण्यानि प्रतिजग्मुः । रणस्थानादिति शेषः । ततोऽ- पृष्टवैव सर्वगमनानन्तरं ब्रह्मा च ईशः शिवश्च इन्द्रश्च ते आदिर्येषां तेऽपि स्वयं स्वत एव स्वधिष्ण्यानि ततः स्थानादिति शेषः । प्रतिजग्मुः ॥ २ ॥ * * यदुक्तं यदुक्तं शक्रेण विना सर्वे लोका विज्वरा निवृतेन्द्रिया अभवन्निति तन्त्रेन्द्रानिर्वृतौ कारणं पृच्छति राजा । इन्द्रस्येति । भो मुने हे महर्षे, इन्द्रस्य अनिर्वृतेः हेतुम् इन्द्रस्यानिर्वृतौ कारणमित्यर्थः । श्रोतुम् इच्छामि । येन वृत्रवधरूपेण हेतुना, देवाः सुखिनः आसन् । हरेरिन्द्रयस्य, दुःखं कुतः अभवत् । संनियोगशिष्टन्यायेनोभयेषामपि सुखदुःखयोः सहैव प्रवृत्ति- निवृत्त्योर्युक्तत्वादिति भावः ॥ ३ ॥ * * एवं राज्ञा पृष्ठे मुनिरिन्द्रस्यानिर्वृतौ देवानां निर्वृतौ च कारणं वक्तुं तावद्वत्रस्य वधोद्योगकालिकं देवानां वृत्तान्तमाह । वृत्रेत्यादिना यावदध्यायसमाप्ति । वृत्रेति । वृत्रस्य विक्रमः पराक्रमस्तेन संविना भीताः, । । सर्वे देवाः, ऋषिभिः सह तद्वधाय वृत्रवधार्थम्, इन्द्रम् आर्थयन् प्रार्थयामासुः । एवं सर्वैः संप्रार्थितोऽपीन्द्र इति शेषः । बृहद्व- धातू ब्राह्मणवधात् सन्, भीतः तत् न ऐच्छत् ॥ ४॥ एतदेवेन्द्रोक्तिमुखेन विशदयति । स्त्रीति । विश्वरूपवधोद्भवं एनः पापं | । ५१ । ४०२ श्रीमद्भागवतम् www. [ रुकं. ६ अ. १३ लो. ९-१६ अनुगृह्णद्भिः ममानुग्रहं कर्त्तुमिच्छद्भिः, स्त्रीभूजलदुमैः, विभक्तं विभज्य गृहीतम् । अधुना वृत्रहत्यां वृत्रहत्योद्भवं पापं क कुत्र, अहं मार्जिम शोधयेयम् । अत एनं न हनिष्यामीत्यर्थः ॥ ५ ॥ एवमिन्द्रेणोक्ता ऋषयस्तं प्रत्यूचुरित्याह मुनि:- ऋषय इति । तदुक्तप्रकारमिन्द्रवचः, उपाकर्ण्य श्रुत्वा, ऋषयः महेन्द्रम् इन्द्र वक्ष्यमाणवाक्यम् अब्रुवन् । ऋषीणामुक्तिमाह याज- यिष्याम इत्यादिना खलनिग्रहेणेत्यन्तेन । हे इन्द्र, वयं ते त्वया कर्त्रा, हयमेधेनाश्वमेधेन करणेन, याजयिष्याम । भगवन्तमिति शेषः । त्वं, मा स्म भैः । भद्रं तव मङ्गलमेव, भविष्यति ॥ ६ ॥ * * नन्वश्वमेधमात्रेण मत्पापं कथं निवर्त्तिष्यते इति शङ्कमानं प्रत्याहुः । हयमेधेनेति । परमात्मानं लोकत्रयान्तः प्रवेशनपूर्वं तद्भर्त्तारम् ईश्वरं सर्वस्य प्रशासितारं देवं स्वतेजसा दीप्यमानं, पुरुषं परमपुरुषं नारायणं हयमेधेनाश्वमेधेन, इष्ट्रा समाराध्य, जगद्वधात् जगद्वधनिमित्तादपि पापात्, मोक्ष्यसे । किमुत वृत्रवधनिमित्तात् पापात् मोक्ष्यसे इति ॥ ७ ॥ * * एतदेव विशदमाहुः ब्रह्महेति द्वाभ्याम् । ब्रह्महेति । यस्य भगवन्नाम्नः, कीर्त्तनात् ब्रह्मा ब्राह्मणघातकः, पितृहा स्वपितृघातकः गोघ्नः गोघातकः, मातृहा स्वजननीघातकः, आचार्यहा निजाचार्यघातकः, अघवानेवंविधेतरपातकयुक्तः श्वादः श्वपाकः, पुल्कसकः तत्सम इतरः पापजातिः, शुध्येरन् निष्पापा जायन्ते इत्यर्थः ॥ ८ ॥ भाषानुवादः इन्द्र पर ब्रह्महत्याका आक्रमण श्रीशुकदेवजी कहते है-महादानी परीक्षित् ! वृत्रासुरकी मृत्युसे इन्द्रके अतिरिक्त तीनों लोक और लोकपाल तत्क्षण परम प्रसन्न हो गये । उनका भय, उनकी चिन्ता जाती रही ॥ १ ॥ * * युद्ध समाप्त होनेपर देवता, ऋषि, पितर, भूत, दैत्य और देवताओं के अनुचर गन्धर्व आदि इन्द्रसे बिना पूछे ही अपने-अपने लोकको लौट गये । इसके पश्चात् ब्रह्मा, शङ्कर और इन्द्र आदि भी चले गये ॥ २ ॥ राजा परीक्षितने पूछा— भगवन् ! मैं देवराज इन्द्रकी अप्रसन्नताका कारण * सुनना चाहता हूँ । जब वृत्रासुर के वध से सभी देवता सुखी हुए, तब इन्द्रको दुःख होनेका क्या कारण था ? ॥ ३ ॥ * * श्रीशुकदेवजीने कहा- परीक्षित्! जब वृत्रासुरके पराक्रमसे सभी देवता और ऋषि महर्षि अत्यन्त भयभीत हो गये, तब उन लोगोंने उसके बधके लिये इन्द्रसे प्रार्थना की, परन्तु वे ब्रह्महत्याके भयसे उसे मारना नहीं चाहते थे ॥ ४ ॥ * * देवराज इन्द्रने उन लोगोंसे कहा- देवताओ और ऋषियो ! मुझे विश्वरूपके वधसे जो ब्रह्महत्या लगी थी, उसे तो स्त्री, पृथ्वी, जल और वृक्षोंने कृपा करके बाँट लिया । अब यदि मैं वृत्रका वध करूँ तो उसकी हत्या से मेरा छुटकारा कैसे होगा ? ॥ ५ ॥ * श्रीशुकदेवजी कहते हैं— देवराज इन्द्रकी बात सुनकर ऋषियोंने उनसे कहा - ‘देवराज ! तुम्हारा कल्याण हो, तुम तनिक भी भय मत करो। क्योंकि हम अश्वमेध यज्ञ कराकर तुम्हें सारे पापोंसे मुक्त कर देंगे ॥ ६ ॥ * * अश्वमेध यज्ञके द्वारा सबके अन्तर्यामी सर्वशक्तिमान् परमात्मा नारायणदेवकी आराधना करके तुम सम्पूर्ण जगत्का वध करनेके पापसे भी मुक्त हो सकोगे; फिर वृत्रासुरके वधकी तो बात ही क्या है ॥ ७ ॥ देवराज ! भगवान् के नाम - कीर्तनमात्र से ही ब्राह्मण, पिता, गौ, माता, आचार्य आदिकी हत्या करनेवाले महापापी, कुत्तेका मांस खानेवाले चाण्डाल और कसाई भी शुद्ध हो जाते हैं ॥ ८ ॥ ..: तमश्वमेधेन महामखेन श्रद्धान्वितोऽस्माभिरनुष्ठितेन । हत्वापि सब्रह्म चराचरं त्वं न लिप्यसे कि खलनिग्रहेण ॥ ९ ॥ श्रीशुक उवाच एवं सञ्चोदितो विप्रैर्मरुत्वानहनद्रिपुम् । ब्रह्महत्या हते तस्मिन्नाससाद वृषाकपिम् ॥ ‘तयेन्द्रः स्मासहत् तापं निर्वृतिर्नामुमाविशत् । हीमन्तं वाच्यतां प्राप्तं सुखयन्त्यपि नो गुणाः तां ददर्शानुधावन्तीं चाण्डालीमिव रूपिणीम् । जरया वेपमानाङ्गीं यक्ष्मग्रस्तामसृक्पाम् ॥ विकीर्य पलितान् केशांस्तिष्ठ तिष्ठेति भाषिणीम् । मीनगन्ध्यसुगन्धेन कुर्वतीं मार्गदूषणम् ॥ नभो गतो दिशः सर्वाः सहस्राक्षो विशाम्पते । प्रागुदीचीं दिशं तूर्णं प्रविष्टो नृप मानसम् ॥ ॥ १० ॥ ११ ॥ १२ ॥ १३ ॥ १४ ॥ १. प्रा० पा० अथेन्द्र: । स्क्र. ६. अ. १३ लो. ९-१६] अनेकव्याख्यासमलङ्कृतम् स आवसत्पुष्करनालतन्तूनलब्धभोगो यदिहामिदूतः | वर्षाणि साहस्रमलक्षितोऽन्तः स चिन्तयन् ब्रह्मवधाद् विमोक्षम् ।। १५ ।। तावत्रि णार्क नहुषः शशास विद्यातपोयोगबलानुभावः स सम्पदैश्वर्यमदान्धबुद्धिर्नीतस्तिरां गतिमिन्द्रपत्न्या ॥ १६ ॥ कृष्णप्रिया व्याख्या ४०३
अन्वयः - तम् अस्माभिः अनुष्ठितेन अश्वमेधेन महामखेन श्रद्धान्वितः त्वम् सब्रह्मचराचरम् हत्वा अपि न लिप्यसे `खलनिग्रहेण किम् ।। ९ ।। * एव विप्रः संचोदितः मरुत्वान् रिपुम् अहनत् तस्मिन् हते ब्रह्महत्या वृषाकपिम् आससाद ।। १० ।। इंद्र: तया तापम् असहत् स्म अमुम् निर्वृतिः न आविशत् गुणाः अपि हीमन्तम् वाच्यताम् प्राप्तम् नो सुखयन्ति ॥ ११ ॥ अनुधावन्तीम् चांडालीम् इव रूपिणीम् जरया वेपमानाङ्गीम् यक्ष्मप्रस्ताम् असृक्पटाम् ताम् ददर्श ।। १२ ।। पलितान् केशान् विकीर्य तिष्ठ तिष्ठ इति भाषिणीम् मीनगन्ध्यसुगन्धेन मार्गदूषणम् कुर्वतीम् ताम् ददर्श ।। १३ ।। विशांपते नृप सहस्राक्षः नभः सर्वाः दिशः गतः प्रागुदीचीम् दिशम् तूर्णं प्रविष्टः मानसम् ॥ १४ ॥ स अलब्धभोगः पुष्करनालतन्तून आवसत् वर्षाणि साहस्रम ब्रह्मवधात विमोक्षम् चिन्तयन् सः तावत् विद्यातपोयोगबलानुभाव: नहुष: त्रिणाकम् शशास संपदैश्वर्यमदान्धबुद्धिः स इन्द्रपत्न्या तिरश्चाम् श्रीधरस्वामिविरचिता भावार्थदीपिका 8 *
-
-
- यत् इह अग्निदूतः अन्तः अलक्षितः ।। १५ ।। गतिम् नीतः ।। १६ ।। वृषाकपिमिद्रम् ॥ १० ॥ तया देवादिभिः कारितया । स्मेत्यवधारणे । इंद्र एव तापमसहत नान्यः । अमुमिन्द्रं निर्वृतिर्नाविशत् । ननु धैर्यादिगुणयुक्तस्य कुतोऽनिर्वृस्तित्राह । ह्रीमंतं लज्जावंतम् । वाच्यतां निंद्यताम् ॥ ११ ॥ यक्ष्मग्रस्तां क्षयरोगव्याप्ताम् ।। १२ ।। * मीनस्येव गंधो यस्य स मीनगंधिः स चासावसुश्च श्वासवायुस्तस्य गंधेन ॥ १३ ॥ प्रागुदीचीं दिशं गतः संस्तूर्ण मानसं सरः ॥ १४ ॥ स इंद्रः सहस्रं वर्षाणि पुष्करनालस्य तंतून् प्रति आवसत् । कथंभूतः । न लब्धो भोगो येन सः । कुतः । यद्यस्मादिह जले बसन्नभिदूतश्च स्वयम् । अग्नेश्च स्वदूतस्य हविर्भागानेतुर्जले : प्रवेशासंभवादलब्धभोग इत्यर्थः । पाठांतरे न लब्धो यज्ञभागो येन सः ॥ १५ ॥ त्रिणाकं न अकं दुःखं यस्मिन्निति नाकः पुण्यलोकः । तृतीयं नाकं स्वर्गम् । ननु मनुष्यस्य कुतः स्वर्गराज्यं तत्राह । विद्यादिभिरनुभावः स्वर्गपालनसामर्थ्य यस्य सः । तर्हि तस्मिन्सति कथमिंद्रस्य पुनः स्वर्गप्राप्तिस्तत्राह । स नहुषः संपदैश्वर्याभ्यां यो मदस्तेनांधा बुद्धिर्यस्य स इंद्रपल्या शच्या तिरश्चां गतिं सर्पयोनिं नीत उपायेन प्रापितः । एवं ह्याख्यायते । नहुषः किल कदाचिदिंद्राणीमुवाच इंद्रस्तावदह- मतस्त्वं मां भजेति तया चावेदितवृत्तांतो बृहस्पतिस्तामुवाच ब्राह्मणवाह्यशिविकायामारुह्यागतं त्वां भजिष्यामीति ब्रूहि ततोऽसौ ब्रह्मशापात्पतिष्यतीति तया च तथोक्तो नहुषोऽगस्त्यादीन् शिबिकां वाहयामास । तदा शीघ्रं सर्प सर्पेत्यगस्त्यं पदा पस्पर्श तेन कुपितेन सर्पो भवेति शप्तो महासर्पोऽजगरोऽभूदिति ।। १६ ।। वंशीधरकृतो भावार्थदीपिकाप्रकाश: ।
-
महामखेन सर्वयागमुख्येन । तत्र स्वभावं दर्शयति अस्माभिरिति । तत्र भगवत द्रव स्वाभिप्रायमपि व्यंजयंति खलेति । जगतस्तस्य च भद्रीभावान्नात्र दोष इति भावः । अष्ट ेति शेषः । ब्रह्महननस्याधिक्यसूचनाय चराद्रह्मेति पृथगुक्तम्॥९॥ * * एवं तस्य पापस्यात्मनि नात्युपपत्तावपि साभिमाना तदधिष्ठात्री तु तमभिभवितुमुद्यतेत्याह- ब्रह्महत्येति । “वृषाकपिहरे शक्रे कृष्णे च जातवेदसि” इत्यभिधानात् ॥ १० ॥ निर्वृतिः सुखम् । अत्राक्षिपति- नन्विति । यद्यपि शत्रुवधसूचकशौर्यादिगुणाः सुखहेतवस्तथापि ते ब्रह्महत्यया तप्तस्य नो सुखयंति लज्जाकरत्वान्निंदा- करत्वाच्च ॥ ११ ॥ * * असृक्पटरजस्वलामिव रक्तरंजितवस्त्राम् ॥ १२ ॥ * * “पलितं जरसा शौक्ल्यम्” इत्यमरः ॥ १३ ॥ * * नभः सर्वा दिशश्च गतः सहस्राक्षः प्रागुदीचीं प्राच्या उदीच्याश्च मध्ये या दिक तामीशानी- मित्यर्थः । गत इत्यावृत्यायोज्यम् । नृपेति विशांपते इति चेंद्रस्य त्रिलोकीपतेर्यदीयमवस्था ब्रह्महत्यया जाता तर्हि केवलनृपते- ।। १. प्रा० पा० - तोऽनिशं । २. प्रा० पा० - त्रिलोकं । ४०४ श्रीमद्भागवतम् tra । [ स्कं. ६.अ. १३ लो. ९-१६ रितरसामान्यप्रजापालकानां कथं न सा स्यादतो ब्रह्महत्याया भेतव्यमिति भावः ॥ १४ ॥ * * पुष्करनालस्य कमल- नालस्य तंतूनिति सप्तम्यर्थे द्वितीया “उपान्यध्यावसः” इत्युक्तः । इत्यर्थ इति । भोगानवाप्त्या ऽतीव कृशोऽभूदिति भावः । पाठांतरेऽलब्धभाग इति पाठे । विगतो मोक्षो यतोऽन्यत्रेति विमोक्षो विष्णुस्तम् " वरं वृणीष्व राजर्षे ऋते कैवल्यमद्य नः । एक एवेश्वरस्तस्य भगवान्विष्णुरव्ययः ।” इति मुचुकुंदं प्रति देवगणोक्तेः । ब्रह्मवधातोर्विष्णुं चितयन्नित्यर्थः । ऋतंभरव्यानेत्यादि- वक्ष्यमाणत्वात् ।। १५ ।। * * मनुष्ये स्वर्गराज्यासंभवमाशंकते नन्विति । नहुषः शशासेति वृत्रवधवृत्तं सप्तम मन्वं- तरगतं लक्ष्यते । तथापि षष्ठमन्वंतरहतानां नमुच्यादीनां कीर्त्तनं तत्प्रतिनिधिरूपत्वेन तन्नाम्नां केषांचिदपेक्षयेति ज्ञेयम् । आख्यायिकार्थस्य स्पष्टत्वमेव ।। १६ ।। परी । 1S RIPDPIPRE PE अन्वितार्थप्रकाशिका तमिति । श्रद्धान्वितस्त्वम् अस्माभिरनुष्ठितेन महामखेनाश्वमेधेन तं भगवन्तमिष्टा स ब्रह्मब्राह्मणसहितं चराचरं सर्व जगद्वत्वाऽपि तत्पापेन यहि न लिप्यसे तर्हि खलस्य वृत्रस्य निग्रहजनितेन न लिप्यस इति किं वक्तव्यम् ॥ ६ ॥ * * एवमिति । एवं विप्रैः संचोदितः प्रेरितो मरुत्वान् इन्द्रः रिपुं शत्रुं वृत्रमहनत् । शब्लुगभाव आर्षः । तस्मिन् वृत्रे हते सति “वृषाकपिमिन्द्र वृषाकपिहरे शक्रे हरीतक्यां जनार्दने” इत्यभिधानात् ब्रह्महत्या आससाद । अत्र प्रायश्चित्तबलेन पापाचरणात् पूर्वतोऽपीयमपि प्रबलदुःखभोगं विना केवलेन प्रायश्चित्तेन न शाम्येदित्यत एव तदानीमेव तमश्वमेधेन न । याजयामासुरिति ज्ञयम् । ऋषयोऽपि प्रायश्चित्तबलेन पापप्रवर्त्तनजन्यपाप फलभूतं दुःखं नहुषेणेन्द्रपदारूढेन प्रापिताः ॥ १० ॥ * * तयेति । स्मेत्यवधारणे । तथा देवादिभिः कारितया हत्यया इन्द्रस्तापमेवासहत् असहत । अतोऽमुमिन्द्रं निर्वृतिः सुखं नाविशत् । यतः हीमन्तं वाच्यतां स्वर्गमुखलोभेनायं ब्राह्मणं हतवानिति निन्द्यतां प्राप्तमैश्वर्यादयो गुणा अपि नो सुखयन्ति ॥ ११ ॥ तामिति युग्मम् । चाण्डालीमिव रूपिणीं जरया वेपमानम् अङ्गं यस्यास्तां क्षयरोगव्याप्ताम् असृक रुधिरं तद्वयाप्तः पटो यस्यास्तां पलितान् लम्बमानान् श्वेतान् केशान् विकीर्य स्थिताम् इन्द्र प्रति तिष्ठ तिष्ठेति भाषिणीं मीनस्यैव गन्धो यस्य स मीनमन्धिः स चासावसुश्च श्वासवायुस्तस्य गन्धेन मार्गदूषणं कुर्वतीं हत्यामनुधावन्तीमिन्द्रो ददर्श ।। १२-१३ ॥ * नभ इति । हे विशाम्पते ! हे नृप ! सहस्राक्षः इन्द्रः प्रथमं नभः आकाशं गतस्तत्रापि सर्वादिगत ततोऽत्र सर्वत्र तां दृष्ट्वा प्रागुदीचीमैशानीं दिशं गतः संस्तूर्णं मानसं सरः प्रविष्टः ॥ १४ ॥ स इति । स इन्द्रः यत् यस्मात् इह जलेऽवसत् स्वयं चाग्निदूतः भागनेता यस्य सः तथा चाग्नेर्ज प्रवेशासम्भवात् न लब्धो भागो येन सः । भोग इत्यपि पाठः । अन्तः मनसि ब्रह्मवधात् ब्रह्महत्या तो विमोक्षं सञ्चिन्तयन्न लक्षितः सर्वैरज्ञात एवं साहस्रं सहस्रं वर्षाणि पुष्करनालक्ष्य तन्तून् अत्यन्तसूक्ष्मत्वादलक्ष्यान् आवसत् । यद्यप्यग्निना जलं न दुष्प्रवेशं तदन्तःस्थिताय वरुणायापि हविर्वहनात् तथापि मानसजलं दुष्प्रवेशमेवासीत् रुद्रानुचरै रक्ष्यमाणत्वात् । अत एव सर्वत्र गामिनी ब्रह्महत्याऽपि तत्र गन्तुं न शशाकेति ।। १५ ।। तावदिति । न अकं दुःखं यस्मिन्निति नाकः पुण्यलोकः तृतीयो नाकः त्रिणाकः स्वर्गस्तं तावत् विद्यातपोयोगबलैरनुभावः स्वर्गपालनसामर्थ्यं यस्य सः नहुषो नाम राजा शशास । सम्पवैश्वर्याभ्यां यो मदस्तेनान्धा विवेकरहिता बुद्धिर्यस्य स नहुषः इन्द्रपत्त्या शच्या तिरश्चां गतिं सर्पयोनिं नीतः उपायेन प्रापित: एवं ह्याख्यायते । नहुषः किल कदाचिदिन्द्राणीमुवाच - इन्द्रस्तावदहमतस्त्वं मां भजेति । तया चावेदितवृत्तान्तो बृहस्पतिस्ताम् उवाच । ब्राह्मणवाद्य शिबिकामारुह्यागतं त्वां भजेयमिति तं ब्रूहि । ततोऽसौ ब्राह्मणशापात्पतिष्यतीति तथा च तथोक्ती नहुषोऽगस्त्यादीर शिबिका वाहयामास । तदा च शीघ्र सर्प सर्पेति ब्रुवन्नगस्त्यं पदा पस्पर्श । तेन कुपितेन सर्पो अवेति शप्तो महान् सर्पोऽजगरोऽभूदिति ॥ १६ ॥ । वीरराघवव्याख्या तं महामहिमशाल्यनंतनामानं भगवन्तमस्माभिरनुष्ठितेनानुष्ठापितेन अश्वमेधाख्यमहायागेनास्मद्वाक्यमात्रविस्रं- भयुक्तस्त्वं ब्रह्मणः शरीरभूतं चराचरात्मकं जराद्धत्वापि पापेन न लिप्यसे किं खलस्य दुरात्मनो वृत्रस्य निग्रहेण बधप्रयुक्तेन पापेन लिप्यसे किं न लिप्यस एवेत्यर्थः ॥ ९ ॥ एवं विप्रैः सचोदितः शक्रस्ततो वृत्रं जघान स च तद्वधनिमित्तेन पापेन दुःखितश्चाभूदित्याह मुनिः । एवमिति । एवं विप्रैः ऋषिभिः सञ्चोदितः प्रेरितः सम्बोधित इति पाठे सम्यग्बोधितः मरुत्वानिन्द्रो रिपुं वृत्रमहनद्धतवान् तस्मिन्वृत्रे हते सति ब्रह्महत्या वृत्रस्य ब्राह्मणत्वाद्ब्रह्महत्येत्युक्तं वृषाकपिमिन्द्रमाससाद अन्ववर्त्तत ॥ १० ॥ * * तया देवादिभिः कारितया ब्रह्महत्यया स्मेत्यवधारणे इन्द्र एव तापमसहदसहत नान्यस्तत अमुम् इन्द्रं निर्वृतिः सुखं नाविशदिन्द्रः सुखी नाभूत्किन्तु दुःखमेव प्रापेत्यर्थः ननु, धैर्यादिगुणयुक्तस्य कुतो न निर्वृतिस्तत्राहु- स्कं. ६ अ. १३ श्लो. ९-१६ ] अनैकव्याख्यासमलङ्कृतम् ४०५
हीमन्तं लज्जावन्तं वाच्यतां निन्द्यतां प्राप्तं गुणा धैर्यादयो न सुखयन्ति हि । हि शब्देन लोकपरिपाटिः प्रदर्श्यते ॥ ११ ॥ एवमिन्द्रस्यानिर्वृतिकारणमभिधायाथ तत्पापनिस्तारप्रकारं वक्ष्यमाण तत्पापनिमित्तदुःखानुभवप्रकारमाह - तामिति । ततस्तां हत्याम् इन्द्रो ददर्श कथंभूतामनुसृत्य पृष्ठतो धावन्तीं चाण्डालीमिव तद्वदवस्थितां रूपिणीं मूर्तिभूतां जरया वेपमानानि कम्प- मानानि शिरः पाण्याद्यङ्गानि यस्यास्ती यक्ष्मग्रस्तां क्षयरोगव्याप्तामसृक्पटां रजोरक्तवस्त्राम् ॥ १२ ॥ * * पलितान्केशा- विकीर्य क गच्छसि तिष्ठ तिष्ठेति भाषमाणां मीन त्य मत्स्यस्येव गन्धो यस्य स मीनगन्धिः स चासावसुश्च प्राणवायुः तस्य गन्धेन मार्गदूषणं कुर्वन्तीम् ॥ १३ ॥ * * ततः सहस्राक्षः इन्द्रः नमः सर्वा दिशश्व गतः भ्रमन कापि विश्रान्तिमलभमान इत्यर्थः । प्रागुदीचीम् ऐशानीं दिशं प्राप्य तत्रापि मानसं सरः प्रविष्टः ॥ १४ ॥ * स इन्द्रः पुष्करनाल तन्तून्मानस- सरोवरस्थकमलनालतंतूनावसत्सूक्ष्मरूपेणाश्रित्योवासेत्यर्थः । कथम्भूतः अलब्धो भागो यज्ञीयभागी येन तादृशः कुतः यद्यस्मा - त्स्वयमग्निदूत अग्निरेव दूतः हविर्भागप्रापको यस्य तादृशः स्वदूतस्याग्नेर्हविर्भागप्रापकस्य जले प्रवेशाभावादलब्धभाग इत्यर्थः । अन्तः पद्मनालस्यान्तः अलक्षितः ब्रह्महत्ययाऽलक्षित अदृष्टः ब्रह्मवधनिमित्तात्पापान्मोक्षं मोक्षोपायं विचिन्तयन् सहस्रं वर्षाण्यवसदित्यन्वयः ।। १५ ॥ * * यावदिन्द्रः पद्मनालन्तूनावसत्तावन्नहुषो राजा विद्यातपोयोगैर्महाननुभावः इन्द्राधि- पत्यप्रापकं सामर्थ्यं तादृशस्त्रिनाकं स्वर्ग शशासेन्द्रलोकाधिपत्यं कृतवानित्यर्थः । अकं दुःखं न विद्यते यस्मित्स नाकः भोगदेश: भौमपातालान्तरिक्षभेदेन त्रिविधाः सुखानुभवदेशाः तत्र तृतीयो नाकः स्वर्लोकः तर्हि तस्मिन्सति कथमिन्द्रस्य पुनः स्वर्गप्राप्ति - स्तत्राह स नहुष: सम्पदैश्वर्याभ्यां भोग्यभोगोपकरणादिसमृद्धीन्द्राधिपत्याभ्यां यो मदस्तेनान्धा विवेकशून्या बुद्धिर्मतिर्यस्य तादृशः इन्द्रपत्न्या शच्या हेतुभूतया तिरश्चां गतिं सर्पयोनिं नीतः प्रापितः अत्रेदमाख्यानमवगन्तव्यं स्वर्गाधिपत्यं कुर्वन्नहुषः कदाचिदिन्द्रा- णीमुवाच इन्द्रस्तावदहमतस्त्वं मां भजेति । ततस्तयावेदितवृत्तन्तो बृहस्पतिस्तामुवाच इन्द्रवदृषिवाद्यशिविकामारुह्य मद्गृहा- नागच्छसि चेत्तर्हि त्वां भजिष्यामीति ब्रूहि ततोसौ ब्रह्मशापात्पतिष्यतीति । ततः सा तं तथौवोवाच ततः स नहुषोऽगस्त्यादि- ऋषीन् बलादानीय खेनारूढां शिविकां तैर्वाहयामास तदा स शीघ्रं सर्प सर्पेत्यगस्त्यं पदा पस्पर्श तेन च सर्पो भवेति शप्तो नहुषो महासर्पोऽजगरोभूदिति ॥ १६ ॥ विजयध्वजतीर्थकृता पदरत्नावली ह्मेति चराचरात्पृथग्रहणं ब्रह्महननदोषाधिक्यसूचनाय ॥ ९ ॥ * * वृषाकपिरिन्द्रः वृषाकपिहरे शक्रे हरीतक्यां जनार्दने" इत्यभिधानम् ॥ १० ॥ * स्महेत्येतौ ब्रह्मवधस्य लोके जुगुप्सितत्वेन स्मृतावपि नात्र तथा इतीममर्थं सूचयतः सर्वस्य सुखस्य हेतुत्वात् तर्हि किमर्थमस्य निर्वृतिर्नाभूत् सुखहेतूनां शौर्यादिगुणानामुन्मीलितत्वाच्छत्रुहननेति तत्राह - हीमन्तमिति । यद्यपि शत्रुवधसूचकशौर्यादिगुणा सुखहेतवस्तथापि ते ब्रह्महत्यया तप्तस्य नो सुखयन्ति कुतः लज्जाकरत्वात् इन्द्रादिदेवानां तदानीन्तनं कर्म प्रारब्धकर्मणा प्राप्तदुःखस्य सूचकम् “प्रारब्धकर्मणैवेषां क्लृप्रदुःखस्य सूचकम् । तदानीन्तनकर्म स्याद् व्रणहेतुर्यथा रणः । देवादीनां स्थितप्रज्ञभावान्नैवान्यथा भवेत् । प्रारब्धमपि तु कापि किञ्चिद्विघटितं भवेत्” इति ॥ ११ ॥ असृकूपटां रक्तरञ्जितपटां रजस्वलामिव ।। १२ ।। * * मीनगन्धिनः क्षीणमीनधारिणश्चण्डाला दाशादयो ये तेषां यो दुर्गन्धः तादृशेनासुगन्धेन सुरभिणा ॥ १३ ॥ * * ततः सहस्राक्षस्तां परिहर्तुं सर्वा दिशो गत्वा विहायसा नभो गतः समर्थयेक्षया प्रागुदीचीं दिशं दृष्ट्रा तां प्रविष्टो मानसं नाम सरः प्रापत्यन्वयः ।। १६ ।। * ॐ तन्तूनावसदित्युपान्व- व्यावस इति सप्तम्यर्थे द्वितीया अग्निदूतो यस्य सोग्निदूतः यावदिन्द्रः सरसि पुष्करनालतन्तुष्ववसत्तावन्नहुषस्त्रिणाकं स्वर्ग भूम्यन्तरिक्षं स्वर्गस्थानं वा शशासेत्यन्वयः । अत एव त्रैलोक्यपालनलब्ध सर्वैश्वर्यभोगरहितः ब्रह्मवधादुत्पन्नदोषमोक्षं तावच नाकमिति केचित्पठन्ति अत्र च शब्द एवार्थे नहुष इत्यनेन सम्बद्धयते अन्ययोगव्यवच्छेदार्थः तिरश्चाङ्गतिम् आजगरीं स्थितिम् ।। १५-१६ ॥ जीवगोस्वामिकृतः क्रमसन्दर्भ : एवं तस्यात्मनि पापस्य नात्युपपत्तावपि साभिमाना तदधिष्ठात्री तु तमभिभवितुमुद्यतेत्याह - ब्रह्महत्येति ।। १० ।। ** ततश्च तथा सन्निहितया हेतुभूतया यस्तापस्तदपीन्द्रोऽसहत् तेन पराभवं न प्राप्तवान् । तदेवमपि निर्वृतिस्त्वमुं नाविशत् । तत्र हेतुः ह्रीमन्तमिति ।। ११-१३ ॥ ततस्तत् सङ्गताज्ञाय नभ आकाशं गतः । सर्वाश्च दिशो गतः । तूर्णं तदनुद्रवविदूरं यथा स्यात् ॥ १४ ॥ * * अभिदूतस्तत् सहायोऽयम् । तस्मात् जले न तिष्ठेदित्यलक्षितस्तया सर्वैरन्यैश्च अतस्तदस्तित्वा- सम्भावनया तमुद्दिश्य हविर्भागादानादलब्धभोगश्चेत्यर्थः । ब्रह्मबधात्तदधिष्ठात्र्यास्तस्याः सकाशद्विमोक्षं तदुपायं श्रीभगवन्तं - मित्यर्थः । ऋतम्भरध्यानेति वक्ष्यमाणात् ॥ १५ ॥ * * नहुषः शशासेति वृत्रवधवृत्तं सप्तममन्वन्तरगतमिति लक्ष्यते । तथापि षष्ठमन्वन्तरहृतानां नमुच्यादीनां कीर्त्तनं तत्प्रतिनिधिरूपत्वेन तन्नाम्ना केषाञ्चिदपेक्षयेति ज्ञेयम् ।। १६ ।। ४ W ४०६ ॥ * श्रीमद्भागवतम् विश्वनाथचक्रवतिकृता सारार्थदर्शिनी [ स्कं. ६ अ. १३ श्लो. ९-१६ ॥ r. तस्मिन् वृत्रे हते सति वृषाकपिमिन्द्रम् । अत्र प्रायश्चित्तबलेन पापाचरणात् पूर्वतोऽपीयमतिप्रबला दुःखभोगेन विना केवलेन प्रायश्चित्तेन न शाम्येदित्यत एव ते तदानीमश्वमेधेन तं नैव याजयामासुरिति ज्ञेयम् । ते ऋष्यादयोपि प्रायश्चित्तबलेन पापप्रवर्त्तनाज्जन्यस्यापराधस्य फलं चिरकालव्यापिनीं दुरवस्थामिन्द्रपदारूढेन नहुषेण तदानीमेव प्रापिता इति च ज्ञेयम् ॥ १०॥ असहत् असहत निर्वृतिरानन्दः अमुम् इन्द्रम् । ननु, धैर्यादिगुणयुक्तस्य तस्य कुतोऽनिर्वृतिस्तत्राह - ह्रीमन्तं जनं वाच्यताम् । ब्रह्म- घातीति प्रवादम् ॥ ११ ॥ यक्ष्मा महारोगः ।। १२ ।। * * मीनस्येव गन्धो यस्य स मीनगन्धिः स चासा- वसुः श्वासवायुस्तस्य गन्धेन ॥ १३ ॥ * * प्रथमं नभ आकाशं गतः तत्रापि तामनुधावन्तीं दृष्ट्वा सर्वा दिशो गतः । तत्र तत्रापि तथा दृष्ट्वा प्रागुदीचीम ऐशानीं गतः सन् तत्र तूर्णं मानसं सरः प्रविष्टः ॥ १४ ॥ * * पुष्करस्य कमलस्य नाले ये तन्तवः तत्र अत्यलक्षितमित्यर्थः । अलब्धभोगः यद्यतोऽग्निदूतः । अग्नेः स्वदूतस्य हविर्भागानेतुर्जले प्रवेशासम्भवादिति भावः । यद्यप्यग्निना जलं न दुष्प्रवेशं तदन्तः स्थिताय वरुणायापि हविर्वहनात् तदपि तदीयं जलं दुष्प्रवेशमेव रुद्रानुचरै रक्ष्यमाणत्वात् । अत एव सर्वत्राभिगामिनी ब्रह्महत्यापि तत्र गन्तुं न शशाकेति ज्ञेयम् । साहस्रं सहस्रवर्षाणि व्याप्य अलक्षितः सर्वैरदृष्टः ||१५|| त्रिनाकं तृतीयं नाकं स्वर्गम । ननु, मनुष्यस्य कुतः स्वर्गराज्यं तत्राह - विद्यादिभिरनुभावः सर्व्वते जोहरणसामर्थ्य स्वर्गपालन- सामर्थ्यञ्च यस्य सः तस्मिन् सति पुनरिन्द्रस्य कुतः स्वर्गप्राप्तिस्तत्राह - स नहुषः सम्पदैश्वय्र्याभ्यां यो मदस्तेनान्धा बुद्धिर्यस्य स इन्द्रपत्न्या तिरश्वाङ्गति सर्पयोनिं नीतः उपायेन प्रापितः एवं ह्य् पाख्यते नहुषः कदाचिदिन्द्राणीमुवाच इन्द्रस्तावदह- मतस्त्वं मां भजेति । तया चावेदितवृत्तान्तो बृहस्पतिस्तामुवाच । ब्राह्मणवाद्यशिविकामारुह्यागतं त्वामहं भजिष्यामीति ब्रूहि । ततोऽसौ ब्रह्मशापात्पतिष्यतीति । तथा च तथैवोक्तः नहुषः अगस्त्यादीन् शिविकां वाहयामास तदा च शीघ्रं सर्प सर्पेत्यगस्त्यं पदा पस्पर्श । तेन च कुपितेन शप्तोऽजगरो बभूवेति ॥ १६ ॥ शुकदेवकृत: सिद्धान्त प्रदीप: ४ तं नारायणम् ॥ ९ ॥ * * तस्मिन् वृत्रे हते याजकैर्बाह्माणैर्य उत्पादितः तस्य वृत्रस्य ब्राह्मणत्वात्तदूधजा ब्रह्म- हत्या वृषाकपिमिन्द्रमाससाद अन्वर्तत ॥ १० ॥ ॐ इन्द्रस्तया ब्रह्महत्यया तापमसहत्स्म अतोऽमुमिन्द्र ं निर्वृति- नाविशत् स सुखितो नैवाभूत् । ननु, बहुगुणयुक्त एकेन दोषेण कुतः सुखितो नाऽभूद्वाह - हीमन्तं वाच्यतां निन्द्यतां प्राप्तं गुणा न सुखयन्ति ॥ ११ ॥ यक्ष्मणा क्षयरोगेण प्रस्ताम् असृक्पटां रक्तवसनाम् ॥ १२ ॥ पलितान् शुकान मीनस्येव गन्धो यस्य स मीनगन्धिः स चासावसुनिश्वासवातश्च तस्य गन्धेन मार्गदूषणं कुर्वन्तीम् ॥ १३ ॥ * * तदर्शनानन्तरं नभः सर्वा दिशश्व गतः प्रागुदीचीं गतस्तत्रापि मानसं सरः प्रविष्टः ॥ १४ ॥ * * तत्र तु स इन्द्रः पुष्कर- नालतन्तून सहस्रमेव साहस्रं वर्षाणि आवसत् सूक्ष्मरूपेण तत्तन्तून् आश्रित्योवास कथम्भूतः अलक्षितः अग्निदूत : अग्निसहाय- स्तथापि अलब्धभोगः विष्णुध्यानोपयोगितपोनिष्ठत्वात्यक्तभोग इत्यर्थः । यद्यतो ब्रह्मवधान्मोक्षं स्यात्तमृतम्भर चिन्तयन् ध्यायन् ।। १५ ।। * यावदिन्द्रः कं सुखं तद्विपरीतमकं दुःखं नास्त्यकमत्रेति नाकः तभ्राडादिवन्नलोपाभावस्तृतीयो कनिकस्तं त्रिनाकं नालभत् तावद्विद्यादिभिरनुभावः स्वर्गपालनसामर्थ्यं यस्य स नहुषः शशास तदा सम्पदैश्वर्याभ्यां यो मद अहमेवेन्द्र इति गर्वस्तेनान्धा लुप्तविवेका इन्द्राणी मां भजतु इत्येवं दोषवती बुद्धिर्यस्य स इन्द्रपत्न्या तन्नाशोपायज्ञ- याssगस्त्यशापद्वारा तिरश्वाङ्गतिं सर्पभावं नीतः ।। १६ ।। गोस्वामिगिरिधरलाल विहिता बालप्रबोधिनी । * अश्वमेधस्यायमेव महिमेत्याशयेनाहुः - महामखेनेति । अनुष्ठाने त्वस्माकं सन्देह एव नास्तीति विनशङ्का तु नैव कर्त्तव्येत्याशयेनाहु: - अस्माभिरिति । तव तु श्रद्धामात्रमेवापेक्षितमित्याहुः - श्रद्धेति । चराचरग्रहणेनैव तदन्तः- पातिब्रह्मणोऽपि ग्रहणात् पृथक् तद्ग्रहणं तद्वधस्य दोषाधिक्येन तदवशेषशङ्कानिरासार्थम् ॥ ६॥ ॐ ॐ एवं विप्रैः सञ्चोदितः प्रेरितो मरुत्वान् इन्द्रः रिपु शत्रुं वृत्रमहनत् । तस्मिन् वृत्रे हते सति वृषाकपिहरे शक्रे हरीतक्यां जनार्दन इत्यभिधानात् - इन्द्र ब्रह्महत्या आससादेत्यन्वयः ॥ १० ॥ * स्मेत्यवधारणे । तया देवादिभिः कारितया हत्यया इन्द्रस्तापमेवासहत्, अतोऽमुमिन्द्रं निर्वृतिः सुखं नाविशत् — ननु धैर्यादिगुणयुक्तस्य प्राप्तस्वर्गाद्यैश्वर्यस्य कुतो निवृतिस्त- वाह - हीमन्तमिति । लज्जावन्तं वाच्यतां स्वर्गसुखलोभेनायं ब्राह्मणं हतवानिति निन्द्यतां प्राप्तमैश्वर्यादयो गुणा अपि नो सुखयन्तीत्यन्वयः ॥ ११ ॥ * * तां हत्यामनुधावन्तीमिन्द्रो ददर्श दृष्ट्वा च पलायित इति शेषः । तत्र हेतुत्वेन तां वर्णयति - चाण्डालीमिव रूपिणीमिति जरया वेपमानमङ्ग यस्यास्ताम् | यक्ष्मप्रस्तां क्षयरोगव्याप्ताम् | असृक । स्कं ६ अ. १३ लो. ९-१६] अनेकव्याख्यासमलङ्कृतम् ४०७ रुधिरं तद्वयाप्तः पटो यस्यास्ताम् ॥ १२ ॥ * * पलितान् लम्बमानान् मीनस्य व गन्धो यस्य स चासावसुश्च श्वासवायुस्तस्य गन्धेन मार्गदूषणं कुर्वतीम् ॥ १३ ॥ * * युद्धे पलायितस्यापीयं दशा त्वया बहुशो ऽनुभूतेति नात्रासम्भावितं किञ्चिदिति सूचयन् सम्बोधयति - हे विशाम्पते इति । प्रथमं नभः आकाशं गतस्तत्रापि तां दृष्ट्वा सर्वा दिशो गतस्तत्र सर्वत्र तां दृष्ट्वा प्रागुदीचीमैशानीं दिशं गतः संस्तूर्ण मानसं सरः प्रविष्टः । इदमथाश्चर्यं सावन धानतया श्रोतव्यमिति भावेन सम्बोधयति - हे नृपेति ॥ १४ ॥ * * स इन्द्रः न लब्धो भोगो येन सः अन्तः मनसिं ब्रह्मात् ब्रह्महत्या तो विमोक्षं सञ्चिन्तयन् अलक्षितः सर्वैरज्ञात एव साहस्रं सहस्रं वर्षाणि पुष्करनालस्य तन्तूनावसदित्यन्वयः । भोगालाभे हेतुमाह - यदिति, यस्मात् इह जलेऽवसत् । स्वयं चाग्निर्दूतः भागनेता यस्य सः । हेतुमाह-यदिति, तथाचान जलप्रवेशासम्भवादलब्धभोग इति भावः ॥ १५ ॥ * * ननु यावदिन्द्रो मानसेऽलक्षितोऽवसत्तावत् स्वर्ग केन पालितमित्यपेक्षाया माह- तावदिति । न अकं दुःखं यस्मिन्निति नाकः पुण्यलोकः तृतीयो नाकः त्रिणाकः स्वर्गस्तं तावन्नहुषो नाम राजा शशास । ननु मनुष्यस्य कुतः स्वर्गराज्यं सम्भवति तत्राह - विद्येति । विद्या राजनीतिः । तपः व्रतोपवासादि । योगः बुद्धेः सूक्ष्मविचारसामर्थ्यम् । बलं शारीरम् । विद्यादिभिरनुभावः । स्वर्गपालन सामर्थ्यं यस्य सः । तर्हि तस्मिन् सति कथं पुनरिन्द्रस्य स्वर्गप्राप्तिस्तत्राह - स इति, सम्पदैश्वर्याभ्यां यो मदस्तेनान्धा विवेकरहिता बुद्धिर्यस्य स नहुषः, इन्द्रपत्न्या शच्या तिरश्चां गतिं सर्पयोनिं नीतः उपायेन प्रापित इत्यर्थः । एवं ह्याख्यायते - नहुष : किल कदाचिदिन्द्राणीमुवाच, इन्द्रस्तावदहमतस्त्वं मां भजेति, तया चावेदितवृत्तान्तो बृहस्पतिस्तामुवाच ब्राह्मणवाद्य शिबिकामारु- लागतं त्वां भजिष्यामीति ब्रूहि, ततोऽसौ ब्राह्मणशापात् पतिष्यतीति, तया च तथोक्तो नहुषोऽगस्यादीन् शिबिकां बाहयामास तदा च शीघ्र सर्पसर्पेति ब्रुवन्नगस्त्यं पदा प्रस्पर्श, तेन कुपितेन सर्पो भवेति शप्तो महान् सर्पोऽजगरोऽ भूदिति ॥ १६ ॥ भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी तमिति । तमुक्तविधनाममात्रमहिमानं भगवन्तम्, अस्माभिः अनुष्ठितेनानुष्ठापितेन, महामखेन महायागेन, अश्वमेधेन इष्ट्वा, श्रद्धान्वितः अस्मद्वाक्यमात्रविश्रम्भयुक्तः, त्वं सब्रह्मचराचरं ब्रह्मणः शरीरभूतं चराचरात्मकं जगदित्यर्थः । हत्वापि, न लिप्यसे । पापेनेति शेषः । खलनिग्रहेण पापरूपासुरहनने, लिप्यसे किम् । वृत्रहननपापेन न लिप्यस एवेत्यर्थः ॥ ॥ * * एवं विप्रैः संनोदितः शक्रस्ततो वृत्रं जघान स च तद्वधनिमित्तेन पापेन दुःखितश्चाभूदित्याह मुनिः । एवमिति । एवं विप्रैर्ऋ- षिभिः, संचोदितः संप्रेरितः, पाठान्तरे सम्यक् बोधितः, मरुत्वानिन्द्रः, रिपुं वृत्रम् अहनद्धतवान् । तस्मिन् वृत्रे हते, ब्रह्महत्या वृषाकपिमिन्द्रम् आससादान्ववर्त्तत ॥ १० ॥ * तयेति । तया देवादिभिः कारितया ब्रह्महत्यया, स्मेत्यवधारणे । इन्द्रः स्म इन्द्र एवेत्यर्थः । तापम् असहदसहत नान्यः । अमुमिन्द्र निर्वृतिः सुखं न आविशत् । इन्द्रः सुखी नाभूत् । किं तु दुःखमेव प्रापेत्यर्थः । ननु धैर्यादिमहागुणयुक्तस्य कुतो न निर्वृतिस्तत्राह । हीमन्तं लज्जावन्तं वाच्यतां निन्द्यतां प्राप्तं, गुणाः धैर्यशौर्यवीर्या- दयः अपि, नो सुखयन्ति अपि । वाच्यतायुक्तस्य लज्जावतोऽनेकेऽपि सत्गुणाः सुखकरा नैव भवन्तीत्यर्थः ॥ ११ ॥ * * एवमिन्द्रस्यानिवृतिकारणमभिधायाथ तत्पापनि स्तारप्रकारं वक्ष्यमाणस्तत्पापनिमित्तदुःखानुभवप्रकारमाह । तामिति ततः, इन्द्रः, अनुधावन्तीमनुसृत्य पृष्ठत एव धावन्तीं रूपिणीं मूर्त्तिमतीं, चाण्डालीमिव स्थितां जरया वेपमानानि कम्पमानानि शिरः पाण्यादीनि यस्यास्तां यक्ष्मप्रस्तां यक्ष्मरोगव्याप्तां, असृकपटां रजोरक्तवस्त्रां तां ददर्श ।। १३ ॥ * * अस्याः संसर्गानर्हत्वाय पुनरपि तां विशिनष्टि । विकीर्येति । पलितान् किंचित्पीतताविशिष्टशुक्कुगुणोपेतानित्यर्थः । केशान् शिरोरुहान्, विकीर्य, तिष्ठ तिष्ठ क गच्छसीदानीम् इत्येवं भाषिणीं भाषमाणां मीनस्येव गन्धो यस्य स मीनगन्धिः स चासावसुः प्राणवायुश्च तस्य यो गन्धस्तेन, मार्गदूषणं कुर्वन्ती, तां ददर्शेति पूर्वेण संबन्धः ॥ १३ ॥ * नभ इति । ततः, हे विशांपते हे नृप, सहस्राक्ष इन्द्रः, नभः सर्वाः दिशश्च गतः । नभआदिषु भ्रमन् कापि विश्रान्तिमलभमान इत्यर्थः । प्रागुदीचीमैशानीं दिशं गतः सन्, तूर्णं मानसं सरः प्रविष्ठः ॥ १४ ॥ * * स इति । स इन्द्रः, यद्यतः अग्निदूत: अग्नेरेव हविर्भागप्रापकत्वा- । द्रूतत्वम् । तस्य च जले प्रवेशाभावात् । इह स्थाने, अलब्धभागः, अन्तः पद्मनालस्यान्तः प्रदेशे अलक्षितः ब्रह्महत्याया दर्शना- । विषयः, ब्रह्मवधात् ब्रह्मवधनिमित्तात्पापादित्यर्थः । विमोक्षं विमोक्षोपायं संचिन्तयन् सन्, साहस्रं वर्षाणि पुष्करनालतन्तून् मानससरोवरस्थ कमलनालान्तस्थतन्तून्, आवसत् । सूक्ष्मरूपेण पद्मतन्तूनाश्रित्योवासेत्यर्थः ॥ १५ ॥ * * तावदिति । यावदिन्द्रः कमलनालतन्तूनावसत् तावत् विद्योपासना च तपः कामानशनं च योगो ध्यानयोगश्च तैर्महाननुभावो यस्य सः, नहुष: त्रिणाकं न विद्यतेऽकं दुःखं यस्मिन्निति नाकः पुण्यलोकः तृतीयो नाकस्तं स्वर्गमित्यर्थः । शशास । इन्द्रलोकाधिपत्यं कृतवानित्यर्थः । तहि नहुषे विद्यमाने सति कथमिन्द्रस्य पुनः स्वर्गप्राप्तिस्तत्राह । स नहुषः, संपदैश्वर्याभ्यां यो मदस्तेनान्धा बुद्धिर्यस्य सः, भोग्यभोगोपकरणादिसमृद्धये न्द्रसंबन्धिनाधिपत्येन च संजातो यो मदस्तेन विवेकशून्यमतियुतत्वत इत्यर्थः । ४०८ 1 श्रीमद्भागवतम् [ स्कं. ६ अ. १३ श्लो. १७-२३ इन्द्रपल्या शच्या, तिरश्चां गति सर्पयोनि नीतः । उपायेन सर्पत्वं प्रापित इत्यर्थः । अत्रार्थी इदमाख्यानं पुराणविद्धि: ख्यायते । स्वर्गाधिपत्यं कुर्वन्नहुषः कदाचिदिन्द्राणीमुवाच । सांप्रतमिन्द्रस्तावदहमतस्वं मां भजेति । तच्छ्रुत्वा तयावेदितवृत्तान्तो बृहस्पतिस्तामुवाच । ब्राह्मणवाद्यशिबिकामारुह्य मद्गृहानागच्छसि चेत्तर्हि तथागतं त्वां भजिष्यामीति ब्रूहि । ततोऽसौ ब्रह्मशापात्पतिष्यतीति । ततः सा तं तथैवोवाच । ततः स नहुषोऽगत्स्यादिमहर्षीन् बलादानीय स्वेनाधिरूढां शिविकां तैर्वाहयामास । तदा स शीघ्रयानार्थं तान् सर्प सर्पेति ब्रुवाणोऽगस्त्यं पदा पस्पर्श । कुपितेन तेन सर्पो भवेति शप्तः महा- सर्पोऽजगरः अभूदिति ॥ १६ ॥ भाषानुवादः हमलोग, ‘अश्वमेध’ नामक महायज्ञका अनुष्ठान करेंगे। उसके द्वारा श्रद्धापूर्वक भगवान्की आराधना करके तुम ब्रह्मापर्यन्त समस्त चराचर जगत् की हत्याके भी पापसे लिप्त नहीं होंगे। फिर इस दुष्टको दण्ड देनेके पापसे छूटने की तो बात ही क्या है ? ॥ ६ ॥ || & || $
-
श्रीशुकदेवजी कहते हैं—परीक्षित् ! इस प्रकार ब्राह्मणों से प्रेरणा प्राप्त करके देवराज इन्द्रने वृत्रासुरका वध किया था । अब उसके मारे जाने पर ब्रह्महत्या इन्द्रके पास आयी ।। १० ।। उसके कारण इन्द्रको उड़ा क्लेश, बड़ी जलन सहनी पड़ी। उन्हें एक क्षणके लिये भी चैन नहीं पड़ता था । सच है, जब किसी सङ्कोची सज्जनपर कलङ्क लग जाता है, तब उसके धैर्य आदि गुण भी उसे सुखी नहीं कर पाते ॥ ११ ॥ देवराज
-
- इन्द्रने देखा कि ब्रह्महत्या साक्षात् चाण्डालीके समान उनके पीछे-पीछे दौड़ी आ रही है। बुढ़ापेके कारण उसके सारे अङ्ग काँप रहे हैं और क्षयरोग उसे सता रहा है। उसके सारे वस्त्र खून से लथपथ हो रहे हैं ।। १२ ।। वह अपने सफेद-सफेद बालोंको बिखेरे ‘ठहर जा! ठहर जा !!’ इस प्रकार चिल्लाती आ रही है। उसके श्वासके साथ मछलीकी- सी दुर्गन्ध आ रही है, जिसके कारण मार्ग भी दूषित होता जा रहा है ॥ जा रहा है ॥ १३ ॥ * * राजन् ! देवराज इन्द्र २९ ॥ उसके भय से दिशाओं, और आकाशमें भागते फिरे । अन्तमें कहीं भी शरण न मिलनेके कारण उन्होंने पूर्व और उत्तरके कोने में स्थित मानसरोवरमें शीघ्रतासे प्रवेश किया ॥ १४ ॥ देवराज इन्द्र मानसरोवर के कमलनालके तन्तुओंमें एक हजार वर्षोंतक छिपकर निवास करते रहे और सोचते रहे कि ब्रह्महत्या से मेरा छुटकारा कैसे होगा । इतने दिनोंतक उन्हें भोजनके लिये किसी प्रकारकी सामग्री न मिल सकी। क्योंकि वे अभिदेवताके मुखसे भोजन करते हैं। और अग्निदेवता जलके भीतर कमल-तन्तुओंमें जा नहीं सकते थे ।। १५ ।। * * जबतक देवराज इन्द्र कमलतन्तुओंमें रहे, तबतक अपनी विद्या, तपस्या और योगबलके प्रभावसे राजा नहुष स्वर्गका शासन करते रहे । परंतु जब उन्होंने सम्पत्ति और ऐश्वर्य के मदमें अंधे होकर इन्द्रपत्नी शचीके साथ अनाचार करना चाहा, तब शचीने उनसे ऋषियोंका अपराध करवाकर उन्हें शाप दिला दिया जिससे वे साँप हो गये ॥ १६ ॥ ततो गतो ब्रह्मगिरोपहूत : ऋतम्भरध्याननिवारिताघः । पापस्तु दिग्देवतया हतौजास्तं नाभ्यभूदवितं विष्णुपत्न्या ॥ १७ ॥ तं च ब्रह्मर्षयोऽभ्येत्य हयमेधेन भारत । यथावद्दीक्षयाञ्चक्रुः पुरुषाराधनेन ह । अथेज्यमाने पुरुषे पुरुषे सर्वदेवमयात्मनि । अश्वमेधे महेन्द्रेण वितते ब्रह्मवादिभिः ॥ सवै त्वष्ट्रवधो भूयानपि पापचयो नृप । नीतस्तेनैव शून्याय नीहार इव भानुना ।। स वाजिमेधेन यथोदितेन वितायमानेन मरीचिमिश्रः । इष्ट्वाधियज्ञं पुरुषं पुराणमिन्द्रो महानास विधूतपापः ।। २१ ।। इदं महाख्यानमशेषपाप्मनां प्रक्षालनं तीर्थपदानुकीर्तनम् । । भक्त्युच्छ्रयं भक्तजनानु वर्णनं महेन्द्रमोक्षं विजयं मरुत्वतः ॥ २२ ॥ भक्तजनानुवर्णनं पठेयुराख्यानमिदं सदा बुधाः शृण्वन्त्यथो पर्वणि पर्वणीन्द्रियम् । 3 धन्यं यशस्य निखिलाघ मोचनं रिपुञ्जयं स्वस्त्ययनं तथाऽऽयुषम् || २३ || ८ ॥ १९ ॥ २० ।। इति श्रीमद्भागवत महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे इन्द्रविजयो नाम त्रयोदशोऽध्यायः ॥ १३ ॥ १. प्रा० पा० - पापः क्षयं नृपः । २. प्रा० पा०णि ते तु धन्याः । ३. प्रा० पा०—घनाशनं ।स्कं. ६ अ. १३ श्लो. १७-२३ ] अनेकव्याख्यासमलङ्कृतम् कृष्णप्रिया व्याख्या ४०९ विष्णुपा अन्वयः – ततः ब्रह्मगिरा उपहूतः ऋतंभरध्याननिवारिताघः सः गतः पापः तु दिग्देवतया हतौजाः अवितं तं न अभ्यभूत् ॥ १७ ॥ * * भारत ब्रह्मर्षयः तं च अभ्येत्य पुरुषाराधनेन हयमेधेन यथावत् दीक्षयांचक्रे ।। १८ ।। अथ ब्रह्मवादिभिः faad अश्वमेधे महेन्द्रेण सर्वदेवमयात्मनि पुरुषे ईज्यमाने ॥ २६ ॥ * * नृप भूयान् अपि सः स्वाष्ट्रबधः पापचयः तेन एव भानुना नीहारः इव वै शून्याय नीतः ॥२०॥ ॐ ४ सः महान् इंद्र: मरीचिमिश्रः वितायमानेन यथोदितेन वाजिमेधेन अधियज्ञं पुराणं पुरुषम् इष्ट्वा विधूतपापः आस ॥ २१ ॥ * * अशेषपाप्मनां प्रक्षालनं तीर्थपदानुकीर्तनम् भक्त्युच्छ्रयं भक्तजनानुवर्णनं महेन्द्रमोक्षम् मरुत्वतः विजयम् इदम् महाख्यानम् ।। २२ ।। * * बुधाः सदा पर्वणि पर्वणि धन्यम् यशस्यम् निखिलाघमोचनम् रिपुंजयम् स्वस्त्ययनम् तथा आयुषम् इदम् आख्यानम् पठेयुः अथो शृण्वन्ति ।। २३ ॥ 1 इति त्रयोदशोऽध्यायः ॥ १३ ॥ श्रीधरस्वामिविरचिता भावार्थदीपिका स्वर्गं गतः प्राप्तः । कथंभूतः । ब्रह्मगिरा, ब्राह्मणवाक्येनोपहूतः सन् । ऋतंभरः सत्यपालको हरिस्तस्य ध्यानेन निवारितमघं येन । प्रागपि तु पापो ब्रह्मवधस्तमिंद्रं नाभ्यभूत्तस्याभिभवं नाकरोत् । कुतः । दिग्देवतया प्रागुदीच्यां दिशि स्थितया श्रीरुद्रेण अवितं रक्षितं संतम् ॥ १७ ॥ * * पुरुषस्य हरेराराधनं यस्मिंस्तेन ॥ १८ ॥ * सर्वदेव-
-
मय आत्मा मूर्तिर्यस्य तस्मिन् । सर्ववेदमयात्मनीति वा पाठः । ब्रह्मवादिभिर्वितते ऽनुष्ठितेऽश्वमेधे महेंद्रेणेज्यमाने पुरुषे सति ॥ १९ ॥ * तेनैव पुरुषेणैव शून्याय नीतः निःशेषनाशित इत्यर्थः ॥ २० ॥ * अधिकृता यज्ञा येन तम् ।। २१ ।। * * पाठादिविधातुमाख्यानं स्तौति । इदमिति । प्रक्षाल्यतेऽनेनेति प्रक्षालनम् | तीर्थपदस्यानुकीर्तनं यस्मिन् भक्तेरुच्छ्रयो यस्मिन् । भक्तजनानामनुवर्णनं यस्मिन् महेंद्रस्य मोक्षो यस्मिन् । मरुत्वतो विशेषेण जयो यस्मिन् ।। २२ ।। इंद्रियं तत्पाटवकरमिद्रसंबंधीति वा आयुषमायुष्यम् ॥ २३ ॥ इति श्रीमा० म० षष्ठस्कन्धे टीकायां त्रयोदशोऽध्यायः ।। १३ ।। वंशीधरकृतो भावार्थदीपिकाप्रकाशः ततो नहुषपातोत्तरम् । ब्राह्मणवाक्येन बृहस्पतिवाक्येनामिवाक्येन ब्रह्मवाक्येन वा । यद्यपि ‘पापं किल्बिषकल्मषम् इत्यमरोक्तेः पापशब्दस्य नियतक्लीबत्वमस्ति तथाप्यत्र पुंस्त्वं तदभिमानिजीवापेक्षयास्तीति ज्ञ ेयं व्याख्यातं तथा विजयध्वजेन । पापो ब्रह्महत्यालक्षणो जीवः विष्णुपत्न्या मानससरस्थित कमलवासिन्या लक्ष्म्याऽवितमिंद्र रुद्र ेण हतौजाः पापो न तिरश्व- कारेत्यर्थः ।। १७॥ * * लोकापवादरूपो यः शेषः पापप्रचारः सोऽपि ब्रह्मर्षिभिर्नाशित इति तं चेति । त्रिभिराह तमिंद्रम् | पुरुषो विष्णुः “सहस्रशीर्षा पुरुषः” इत्यादिश्रुतेः । भारतेति “दौष्यंतिरिव यज्वनाम्" इत्युक्तेस्त्वं त्वतीव यज्ञकर्तृ- प्रधानभरतकुलजा तत्वादिद्रयागो महानिति विस्मयं मा कुर्विति भावः ॥ १८ ॥ * * अथ यज्ञदीक्षानंतरम् ॥ १६ ॥ नृपेति । नृपालनेन यथा त्वं शुद्धोऽसि तथा स्वःपालनार्थमिद्रोऽपि यागेन शुद्धो बभूवेति भाव: । इत्यर्थ इति । नाशस्यापि शून्यपदार्थत्वादिति भावः । “शून्यं स्यान्निर्जने नाशेंकासने रहितेऽपि च" इति धरणिः ॥ २० ॥ * * विधूतपापः सन्महानास पूज्यो बभूवेत्यर्थः ।। २१-२२ ।। इंद्रियपदेन तत्पाटवार्थः क्लिष्टकल्पनया लभ्योऽत आह-इंद्रसंबंधीति वृद्धद्यभाव आर्षः ।। २३ ॥ इति श्रीमद्भागवतभावार्थदीपिकाप्रकाशे षष्ठस्कन्धे त्रयोदशोऽध्यायः ॥ १३ ॥ अन्वितार्थप्रकाशिका तत इति । ततो नहुषभ्रंशानन्तरम् ऋतंभरः सत्यसङ्कल्पो हरिस्तस्य ध्यानेन निवारितमघं प्रायश्चित्तबलेन पापाचर- रूपोऽपराधः येन सः ब्रह्मणो ब्राह्मणानां वा गिरा वाक्येनोपहूतः सन्निन्द्रः स्वर्गं गतः दिग्देवतया ईशानदिशि स्थितया श्रीरुद्रेणेन्द्ररक्षकेण हतमोजो यस्य स हत्याजनितः पापस्तु । पुंस्त्वमार्षम् । विष्णुपत्न्या मानससरः कमलवनस्थितया लक्ष्म्या अवितमिन्द्र नाभ्यभूत् तस्याभिभवं नाकरोदित्यर्थः ॥ १७ ॥ तमिति । हे भारत ! ब्रह्मर्षयः तमिन्द्रमभ्येत्य ५२ ४१० श्रीमद्भागवतम् ४ [ एकं ६ अ. १३ श्लो. १७-२३ पुरुषस्य भगवत आराधनं यस्मिंस्तेन हयमेधेन यथावद्दीक्षयां चक्रुः ॥ १८ ॥ अथेति युग्मम् । ब्रह्मवादिभिः । वेदवादिभिः ऋषिभिर्वितते अनुष्ठिते अश्वमेधे महेन्द्रेण सर्वदेवमय आत्मा यस्य तस्मिन् । सर्ववेदमयात्मनीति वा पाठः । पुरुषे सर्वान्तर्यामिण भगवति इज्यमाने सति अथानन्तरमेव स पूर्वोक्तः त्वाष्ट्रवध वृत्रवधानात पापं स्वतो भूयान् तत्रापि ज्ञानपूर्वक त्वात्तस्य भक्तत्वाश्च पापचयो जातः । सोऽपि तेन पूजितेन भगवतैव भानुना नीहार इव शुन्याय नीतः निरवशेषो विनाशितः ।। १९-२० ।। स इति । स इन्द्रः मरीचिमुख्यैर्मुनिभिर्वितायमानेन यथोदितेन यथाविध्यनुष्ठितेन तेन वाजिमेधेन अश्वमेधेन अधिकृता यज्ञा येन तमधियज्ञं पुरुषं सर्वान्तर्यामिणं पुराणं सर्वकारणकारणमिष्वा विधूतपापः महान् सर्वपूज्यः आस दिदीपे ॥ २१ ॥ इदमिति युग्मम् । इदं स्वरूपतो गुणतश्च महाख्यानम् अशेषाणां निरवशेषाणां पाप्मनां प्रक्षाल्यतेऽनेनेति प्रक्षालनं निवर्त्तकमित्यर्थः । तीर्थानि पादयोर्यस्य स तीर्थपदः भगवान् तस्यानुकीर्त्तनं माहात्म्यवर्णनं यस्मिंस्तत् भक्तेरुच्छ्रय उत्कर्षो यस्मिन् तत् भक्तजनानां वृत्रेन्द्रादीनामनुवर्णनं यस्मिंस्तत् महेन्द्रस्य पापान्मोक्षो यस्मिंत् मरुत्वतः इन्द्रस्य विशेषेण जयो यस्मिंस्तत् इन्द्रियमिन्द्रियपाटवकरम् इन्द्रजुष्टं वा धन्यं धनप्रदं यशस्यं यशोवर्द्धकं निखिलाघ- मोचकं सर्वदुःखनिवर्त्तकं रिपुंजयं शत्रुजयप्रदं स्वस्त्ययनं पुत्रपौत्रादिमङ्गलकारणं तथा आयुषमायुर्वर्द्धकमस्ति । अत्रायुः शब्दो लक्षणया आयुर्वर्धकार्थः । ततः स्वार्थिकोऽण् । अथो अत इदमाख्यानं बुधाः सदा पठेयुः सदा सावकाशाभावे तु पर्वणि पर्वणि एकादश्यादिविहितपवित्रकालेऽवश्यं शृण्वन्ति श्रृणुयुः ।। २२-२३ ।। madh ॥ इति श्रीभागवते महापुराणे षष्ठस्कन्धे ऽन्वितार्थप्रकाशिकायां त्रयोदशोऽध्यायः ॥ १३ ॥ वीरराघवव्याख्या ag इन्द्रः स्वर्ग गतः प्राप्तः कथम्भूतः ब्रह्मगिरा ब्राह्मणवाक्येन उपहूतः सन् ऋतम्भरः सत्यस्य भर्त्ता श्रीमन्नारायणः तस्य ध्यानेन निवारितमघं ब्रह्महत्यारूपं यस्य तादृशः तमागच्छन्तं दिग्देवतया प्रागुदक्स्थितमानसरोवरस्थपद्मस्थया देवतया विष्णुपत्न्या श्रीमहालक्ष्म्यावितं रक्षितं पद्मतन्तुषु वसन्तम् इन्द्रमत एव हतमोजो बलं यस्य तादृशः पापो ब्रह्मबधः नाभ्यभूत्प- अस्था लक्ष्मीर्भगवद्ध्यानपरत्वादिन्द्रं पापाद्ररक्षेत्यर्थः ॥ १७ ॥ अथ हत्यानि तारप्रकार माह- तमित्यादिना विधूतपाप इत्यन्तेन । तमागतम् इन्द्रमृषयोभ्येत्यागत्य हे भारत ! पुरुषाराधनेन परमपुरुषाराधनरूपेण हयमेधेन यथाविधि दीक्षयाञ्चक्रुः हयमेधं कर्तुन्दीक्षितं कृतवन्त इत्यर्थ: । हेतिहर्षे खेदे चाहो इन्द्रस्येवंविधावस्थेति ॥ १८ ॥ अथ ब्रह्मवादिभिर्वेदवादिभि- ऋषिभिरात्र्त्विज्यङ्गतैर्वितते विस्तृते यथावत् क्रियमाणेऽश्वमेधे इन्द्रेण यजमानेन सर्वदेवतानामन्तरात्मभूते सर्वस्य प्रशासितरि परमपुरुषे इज्यमाने आराध्यमाने सति ॥ १९ ॥ भूयानपि स त्वाष्ट्रवधः वृत्रवधनिमित्तः पापः हे परन्तप ! तेनैवाश्वमेधेन शून्याय नीतः प्रापितः शून्यतां प्राप्त इत्यर्थः । यथा भानुना सूर्येण नीहारः शून्यतां प्राप्यते तद्वत् ॥ २० ॥ मरीचिमिश्रैः मरीचिसहितैः तत्प्रभृतिभिरित्यर्थः । वितायमानेन अनुष्ठीयमानेन यथोक्तेन हयमेधेनाऽधियज्ञं यज्ञेषु प्रधानतया वर्त्तमानं पुराणं पुरुषम् इष्ट्वाराध्य स वै इन्द्रः विधूतं निरस्तं वृत्रहत्या रूपं येन तादृश: महान्निष्प्रतिपक्षः अवाप्तराज्य- सम्पञ्चासीत् ॥ २१ ॥ * * उक्तं वृत्रवधाख्यानपठनश्रवणादिफलं वदन् तद्विशिनष्टि - इदमिति द्वाभ्याम् । महेन्द्रस्य मोक्षः ब्रह्मवधनिमित्तात्पापान्मोक्षप्रतिपादनं यस्मिन्मरुत्वत इन्द्रस्य विशेषेण जयः तत्प्रतिपादनं यस्मिन् तादृशं तदिदं महाख्यानं गुणवत्तरं तदेवाह अशेषाणां पापानां प्रक्षालन शोधकं निवर्त्तकं तत्र हेतुस्तीर्थ पदस्यानुकीर्त्तनं यस्मितादृशं किश्च भक्त्युच्छ्रयं भगवद्भक्तेरुच्छ्रयोऽभिवृद्धिर्यस्मात्तथाभूतं तत्र हेतुः भक्तजनानां भगवद्भक्तजनानामनुवर्णनं यस्मिन् तत् ॥ २२ ॥ * किश्चेन्द्रियम् इन्द्रस्य लिङ्गमिन्द्रियम् इन्द्रः प्रत्यगात्मा तस्य लिङ्गं ज्ञापकं तद्याथात्म्यप्रतिपादनयुक्तत्वादस्येति भावः । यद्वा इन्द्र- स्येदमिन्द्रियं इन्द्रियमिन्द्रलिङ्गमिति सूत्रे इति करणादर्थांतरेऽपि तन्निपातनाभ्युपगमात् यद्वा इन्द्रियशब्दस्तद्बलसम्पादके उपचाराद्वर्त्तते इन्द्रियवृद्धिकरमित्यर्थः । यद्वा इन्द्रः परमेश्वरः इदि परमैश्वर्ये इति धातुपाठात् तेन जुष्टं प्रीतिविषयत्वेन परिगृहीतं श्रवणादिद्वारा भगवत्प्रीत्यापादकमित्यर्थः । धन्यं धनप्राप्तिसाधनं यशस्करं निखिलानामघानां मोचनं यस्मात्तथाऽशेषपापानां प्रक्षालनमित्यनेन पापविनाशकत्वमुक्तम् अखिलाघमोचनमित्यनेन तु पापाश्लेषकरत्वमुक्तमित्यतो न पौनरूत्तथं स्वस्त्ययनं मङ्गलावहं तथा आयुष्करं सर्वाण्येतानि फलानि अस्याख्यानस्य श्रवणपठनादिना भवन्ति न स्वरूपेणेत्यतोवश्यमुक्तिफलार्थि- भिरेतदाख्यानपठनादिकं कार्यमित्युक्तं पठेयुरित्यर्द्धेन यस इदमुक्तफलमथोऽतो बुधाः सदा पठेयुः पर्वणि पर्वणि प्रतिपर्व शृण्वन्तु शृणुयुरित्यर्थः ॥ २३ ॥ । इति श्रीमद्भागवत महापुराणे षष्ठस्कन्धे श्रीमद्वीरराघवाचार्यकृतभागवतचन्द्रचन्द्रिकायां त्रयोदशोऽध्यायः ॥ १३ ॥ स्कं. ६ अ. १३. लो. १७-२३] अनेकव्याख्यासमलङ्कृतम् विजयध्वजतीर्थकृता पदरत्नावली ४११ उपहूत ऋतम्भरेति ब्रह्मगिरा विरिचिवाक्येनोपहृतः बृहस्पतिवाक्येन वा अग्म्याख्यदूतमुखेनेत्यर्थः । ततः मानससरसः ऋतम्भरस्य सत्यपालकस्य नृसिंहस्य ध्यानेन निवारितमहो येन स तथा सर्वगतः श्रीनारायण इति प्रह्लादोक्तवचनं सत्यं कन्तु स्तम्भादाविरभूदिति यदतो हरिऋतम्भर इति वेदवादिभिरुपहूतत्वाद्धरेस्तन्नाम नन्विदानीमृतम्भरध्यानेन निरस्तं गच्छेत् पूर्व तेनाभिभूत इन्द्रः किं तत्राह - पापश्चेति । पापो ब्रह्महत्यालक्षणों जीवश्च तमिन्द्रं नाभूदभिभूतं नाकरोदित्यन्वयः । अत्र हेतुगर्भ- विशेषणमाह-दिग्देवतयेति । इन्द्रहितकारिण्या दिग्देवतया हतमोजो बलं यस्य इन्द्रमन्विष्य सर्वदिक्षु भ्रमतः स तथा कस्मात् गङ्गाजलपरिप्लुतमानससरसि प्रविष्टत्वेन विष्णुपद्याऽवितं रक्षितं तस्माच्चेति ॥ १७ ॥ * * ऋतम्भरध्यानादिनाभि- भवाभावे तदभिभवः स्यात्स्वरूपतो नाशाभावादिति तत्राह तमिति । भगवदविषयेणाश्वमेधेन स्वरूपनाशश्च कथं स्यादित्यत उक्त पुरुषेति । अत्र पुरुषशब्देन विष्णुरुच्यते सहस्रशीर्षा पुरुष" इति श्रुतेः हेत्यनेन श्रीहरिमाहात्म्यज्ञानपूर्वकं तत्करणाभावेन तत्फलं स्यादिति विपक्षे बाधकं सूचयति “अहं हि सर्वयज्ञानां भोक्ता च" इति स्मृतेः ॥ १८ ॥ * * यत एवं साङ्गो यज्ञः अथ तस्मान्महानपि त्वाष्ट्रवधस्तेन यज्ञेन शून्याय नीव एव सर्वात्मना नष्टोभूत्क्रियाया विशिष्टत्वादित्यन्वयः । कथं विशिष्ठत्वमित्य- तस्तात्पर्यादुक्तमेव विशिनष्टि - इज्यमान इति । ब्रह्मवादिभिर्वितते विस्तृते अश्वमेधे यज्ञे इन्द्रेण सर्वभूतानां प्रधानाश्वान्तर्यामी च सर्वभूतमयात्मा तस्मिन्यज्ञपुरुषे इज्यमाने । सर्वदेवमयात्मनीति पाठे स एवार्थः वा इत्यनेन “ज्ञानाग्निः सर्वकर्माणि” इति वचनाद्भगवतः ज्ञानेन सर्वात्मना पापस्य नाशेप्यश्वमेधेनेन्द्रस्य महत्त्वातिशयो भवतीति सूचयति ।। १६-२० ॥ तत्कुतोऽवगम्यत इत्याह-वाजीति । मरीचिमिश्रैर्मरीचिमुख्यैः । ज्ञानाद्विधूतपापोपि इष्ट्वा महानासेत्यर्थः ॥ २१ ॥ * * नेदमिन्द्रेण स्वार्थतयाऽनुष्ठितं किं तु लोकोपकारकत्त्वेन । यतोस्येन्द्रस्य पापं नष्टं तच्चरितस्य श्रवणादिना सर्वाभीष्टानि सिद्धयं- तीति । तत्स्तौति — इदमिति । तीर्थपदस्य हरेरनुकीर्तनं यस्मिंस्तत्तथा भक्तरुच्छ्रयो यस्मात्तत्तथा भक्तजनस्यानुवर्णनं यस्मिन् तत्तथा महेन्द्रस्य पापान्मोक्षो यत्र तत्तथा मरुत्वतो विशिष्टजयो यस्मिंस्तत्तथा ॥ २२ ॥ * इन्द्रियमिन्द्रियाणां शक्तिप्रदं किं विषयमाख्यानमित्यतो इन्द्रियं इन्द्रसम्बन्धि वेत्युक्तम् ॥ २३ ॥ । इति श्रीमद्भागवते महापुराणे षष्ठस्कन्धे श्रीमद्विजयध्वजतीर्थ कृतपदरत्नावल्यां त्रयोदशोऽध्यायः ॥ १३ ॥ जीवगोस्वामिकृतः क्रमसन्दर्भ : । पापस्तदधिष्ठातृरूपस्तु तद्दिग्देवताहतौजाः न पुनस्तदनुद्रवा समर्था बभूव । तत्र हेतुः । विष्णुः पतिरभीष्टदेवो यस्य ईशानरूपायास्तादृश्येति । कृतभगवदाश्रयोयं कथमनेनाभिभाव्येते विमथा कथमनेनाभिभाव्येतेतिभावः ।। १७ ।। 8 * ततो लोकापवादावशेषो यस्तत्पापप्रचारः सोऽपि ब्रह्मर्षिभिर्नाशित इत्याह ते चेति त्रिभिः ॥ १८ ॥ * * तत्र यथेति युग्मकम् ।। १९ - २३ ।। इति श्रीमद्भागवते महापुराणे षष्ठस्कन्धे श्रीमज्जीव गोस्वामिकृतक्रम सन्दर्भस्य त्रयोदशोऽध्यायः ॥ १३ ॥ विश्वनाथचक्रवतिकृता सारार्थदर्शिनी ब्रह्मणो ब्राह्मणानाच गिरा त्वामश्वमेधेन याजयिष्याम इति वाक्येनोपहूतः सन् ततो मानसात्, सरसः सकाशात् स्वर्ग गतः ऋतम्भरः सत्यपालको विष्णुः । अर्थ प्रायश्चित्तबलेन पापाचरणलक्षणोऽपराधः । पापः ब्रह्महत्या लक्षणं पापं पुंस्त्वमार्ष ईशानदिग्देवतया श्रीरुद्रण विष्णुपत्न्या मानससरसः कमलवनस्थितया लक्ष्म्या ।। १७-२१ ॥
-
- भक्त्युच्छ्रयं भक्त्यु- त्कर्षयुक्तम् । मरुत्वत इन्द्रस्य विशेषेण जयो यत्र तत् इन्द्रियं इन्द्रियपाटवकरं आयुषमायुष्करम् ।। २२-२३ ।। इति सारार्थदर्शिन्यां हर्षिण्यां भक्तचेतसाम् । षष्ठे त्रयोदशोऽध्यायः सङ्गतः सङ्गतः सताम् ।। १३ ।। शुकदेवकृतः सिद्धांतप्रदीपः विष्णुपत्न्या दिग्देवतया विष्णुभक्तेन दिक्पालेन श्रीरुद्रेणावितं तमिन्द्र हतौजाः सन् पापो नाभ्यभूत् ध्यानानर्ह न कृतवान् ततस्तदनन्तरम् ऋतम्भरस्य विष्णोर्ध्यानेन निवारितमघं ब्रह्मवधरूपं पापं येन सः ब्रह्मगिरा ब्राह्मणवाक्येन अभिप्राविते- नोपहूतो गतः स्वर्ग प्राप्तः ॥ १७ ॥ एवं विष्णुध्यानेन निष्पापोपीन्द्रः कर्मानुष्ठानेन प्रत्यक्षप्रायश्चित्तेन लोकसंग्रहार्थ मुनिभिर्निष्पापः कृत इत्याशयेनाह - तमित्यादि । पुरुषस्य विष्णोराराधनं यस्मिन् तेन ॥ १८ ॥ ॐ सर्वदेवमय आत्मा 30 ४१२ श्रीमद्भागवतम् [स्क. ६ अ. १३ श्लो. १७-२३ यस्य तस्मिन् सर्वदेवान्तर्य्यामिनीत्यर्थः ॥ १६ ॥ नीतः ॥ २० ॥ * * अधियज्ञं यज्ञेषु भोक्तृतया वरदत्वेन च वर्तमानम् ॥ २१ ॥ * * प्रक्षाल्यतेऽनेनेति प्रक्षालनं तीर्थपदस्य हरेरनुकीर्तने यस्मिन् भक्तरुच्छ्रयो यस्मिन् भक्तजनानामनुवर्णनं यस्मिन् महेन्द्रस्य मोक्षो यस्मिन् मरुत्वतो विशेषेण जयो यस्मिन् एवंभूतमिदं महाख्यानम् ॥ २२ ॥ * बुधाः सदा पठेयुः शृण्वन्ति शृण्वन्तु अथो नित्यमवकाशाभावे पर्वणि पर्वणि पठेयुः शृण्वंतु च कथंभूतमिन्द्रियमिन्द्रसम्बन्धि इन्द्रपोषणविषयमित्यर्थः । आयुषमायुष्यम् ।। २३ ।
-
त्वाष्ट्रवधः अपि अन्योंपि भूयान् पापचयः तेनैव पुरुषेणैव शून्याय "” इति श्रीमद्भागवते महापुराणे षष्ठस्कन्धे श्रीमच्छुकदेवकृतसिद्धान्तप्रदीपे त्रयोदशोऽध्यायार्थप्रकाशः ॥ १३ ॥ ॐ गोस्वामिगिरिधरलालविहिता बालप्रबोधिनी । ततः नहुषभ्रंशानन्तरं ब्रह्मणो ब्राह्मणानां वा गिरा वाक्येनोपहूतः सन्निन्द्रः स्वर्ग गतः । ननुः हत्यायाः का गतिरित्या - काङ्क्षायामाह ऋतमिति । ऋतम्भरः सत्यसङ्कल्पो हरिस्तस्य ध्यानेन निवारितमघं येन सः । नन्वेवं ध्यानेन तन्निवृत्तेः पूर्वं तस्य ततः कथं निर्वाहो जात इत्याकाङ्क्षायामाह - पाप इति । दिग्देवतया ईशानदिशि स्थितया श्रीरुद्रेणेन्द्ररक्षकेण हतमोजो यस्य स पापस्तु विष्णुपत्न्या मानससरः कमलवनस्थितया लक्ष्म्या अवितमिन्द्र नाभ्यभूत्, तस्याभिभवं नाकरोदित्यर्थः । पाप इति पुंस्त्वमार्षम् ॥ १७ ॥ * * पुरुषस्य भगवत आराधनं यस्मिंस्तेन हयमेधेन तमिन्द्रं ब्रह्मर्षयो दीक्षयाञ्चकुरित्यन्वयः । ।। ।। अश्वमेधस्य ब्रह्महत्यानिवर्त्तकत्वं श्रुतिप्रसिद्धमित्याह - हेति । अत एव युष्मद् द्धा भरतादयस्तत्कृतवन्त इति सूचयंस्तन्नामग्रहणेन सम्बोधयति - हे भारतेति ॥ १८ ॥ ब्रह्मवादिभिः वेदवादिभिः ऋषिभिर्वितते अनुष्ठिते अश्वमेधे महेन्द्रेण सर्वदेवमय आत्मा मूर्तिर्यस्य तस्मिन् सर्ववेदमयात्मनीति वा पाठ:- पुरुषे सर्वान्तर्यामिणि भगवति इज्यमाने सति अथानन्तरमेव ॥ १६ ॥ * * स पूर्वोक्तः स्वाष्ट्रवधो वृत्रवधाज्जातः ब्रह्महत्यारूपत्वात् स्वतो भूयान् तत्रापि ज्ञानपूर्वक - कृतत्वात्तस्य भक्तत्वाच्च पापचयो जातः सोऽपि तेन पूजितेन भगवतैव शून्याय नीतः निरवशेषौ विनाशित इति द्वयोरन्वयः । तत्र दृष्टान्तमाह-नीहार इव भानुनेति । भगवता न किञ्चित् कत्तु मशक्यमिति तु तव विदितमेव तदचिन्त्यप्रभावस्य मातुरुदर एव दृष्टत्वादित्याशयेन सम्बोधयति - हे नृपेति ॥ २० ॥ उपसंहरति स इति । स इन्द्रः वाजिमेधेन अश्वमेधेन अधिकृता यज्ञां येन तमधियज्ञं पुरुषं सर्वान्तर्यामिणं पुराणं सर्वकारणकारणमिष्ट्रा महान् आस, पूर्ववत्सर्वपूज्यो बभूवेत्यर्थः । तत्र हेतुमाह - विधूतपाप इति । यज्ञ े च वैगुण्यं न जातमित्याह — यथोदितेनेति । तत्र हेतु : – मरीच्यादिभिर्वितायमाने- नेति ॥ २१ ॥ * वृत्राख्यानस्य समाप्तत्वात्तत्फलकथनपूर्वक पाठादि विधत्ते - इदमिति द्वयेन । इदमाख्यानं स्वरूपतो गुणतश्च महदित्यर्थः । के ते गुणा इत्यपेक्षायामाह – अशेषेति, अशेषाणां पाप्मनां प्रक्षाल्यतेऽनेनेति प्रक्षालनं निवर्त्तकमित्यर्थः । कथमस्य पापनिवर्त्तकत्वमित्याकाङ्क्षायामाह — भक्त्यु च्छ्रयमिति, भक्त रुच्छ्रय उत्कर्षो यस्मिस्तत् । भक्तिवृद्धिद्वारेति भावः । कुतोऽस्य भक्तिवर्द्धकत्वं तीर्थेति । तीर्थानि पादयोर्यस्य स तीर्थपदः भगवान् तस्यानुकीर्त्तनं माहात्म्यवर्णनं यस्मिंस्तत् । भक्तजनानां वृत्रेन्द्रादीनामनुवर्णनं यस्मिंस्तत् । महेन्द्रस्य पापान्मोक्षो अस्मिस्तत् । मरुत्त्वतः इन्द्रस्य विशेषेण जयो यस्मिंस्तत् ॥ २२ ॥ * * इन्द्रियमिन्द्रियपाटवकरम् । धन्यं धनप्रदम् । यशस्यं यशोवर्द्धकम् । निखिलाघमोचनं सकलदुःखनिवर्त्तकम् । रिपुञ्जयं शत्रुजयप्रदम् । स्वस्त्ययनं पुत्रपौत्रादिमङ्गलकारणम् । तथा आयुषमायुर्वर्द्धकम् अथो अत इदमाख्यानं बुधाः सदा पठेयुः । सदा सावकाशाभावे तु पर्वणि पर्वणि एकादश्यादिविहितपवित्रकालेऽवश्यं शृण्वन्ति शृणुयुः ।। २३ ॥ । …
। - इति श्रीवल्लभाचार्यवंश्यगोपालसूनुना । श्रीमन्मुकुन्दरायाणां पादसेवाधिकारिणा ।। १ ।। श्रीमद्गिरिधराख्येन भजनानन्दसिद्धये । श्रीमद्भागवतस्येयं टीका बालप्रबोधिनी ॥ २ ॥ रचिता तत्र षष्ठेऽस्मिन् स्कन्धे रूपनिरूपणे । त्रयोदशो गतो वृत्तिमिन्द्रमोक्षनिरूपकः ।। ३ ।। भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी तत इति । ततः इन्द्रः, ब्रह्मगिरा ब्राह्मणवाक्येन, उपहूतः गतः स्वर्गं संप्राप्तःः । ऋतंभरः सत्यभर्त्ता श्रीमन्नाराय- णस्तस्य ध्यानेन निवारितमघं ब्रह्महत्यापापं येन सः, ततः प्रागपि, दिग्देवतया प्रागुदग्दिकूस्थितमानससरोवरस्थपद्मस्थया, विष्णुपल्या श्रीमहालक्ष्म्या, अवितं रक्षितं तमिन्द्र’, हतमोजो बल यस्य तादृशः, पापो ब्रह्मवधस्तु न अभ्यभूत् । पद्मस्था लक्ष्मी: स्वपत्युर्भगवतो ध्यानपरं तमाकलय्य तं तस्माद्ररक्षेत्यर्थः ॥ १७ ॥ अथ हत्यानिस्तारप्रकारमाह । यातायत ॥ २७॥ क 8 तमित्यादिना विधूतपाप इत्यन्तेन । तमिति । हें भारत, तमागतमिन्द्रं ब्रह्मर्षयः अभ्येत्य संप्राप्य, पुरुषाराधनेन परमपुरुषारा- धनरूपेण, हयमेधेन ह स्फुटं यथा तथा, यथावद्यथाविधि, दीक्षयांचकुः । हयमेधं कत्तु दीक्षितं कृतवन्त इत्यर्थः । चकार । स्कं. ६ अ. १३ श्लो. १७-२३] अनेकव्याख्यासमलङ्कृतम् । प 2 ४१३ । इन्द्रस्यैवंविधावस्थानर्हत्वद्योतनार्थः ॥ १८ ॥ * * अथेति । अथ ब्रह्मवादिभिर्वेदवादिभिः मुनिभिः, आर्त्विज्यं गतैर्ब्रह्मर्षिभिरित्यर्थः । वितते विस्तृते क्रियमाणे इति यावत् । अश्वमेधे महेन्द्र ेण शक्रेण सर्वदेवमयात्मनि सर्वेषां देवानामन्त- रात्मभूते देवादिसर्व प्रशासितरीति यावत् । पुरुषे परमपुरुषे, इज्यमाने आराध्यमाने सति ॥ १६ ॥ * स वै इति । भूयानतिश्यितोऽपि त्वाष्ट्रबधः वृत्रवधनिमित्तः । सः पापचयः पापसमूह:, हे नृप भानुना सूर्येण, नीहारः इव तेनाश्वमेधा- राधितपुरुषेण, शून्याय नीतः शून्यतां गमित इत्यर्थः । वै एवेत्यवधारणद्वयं पुनः प्रादुर्भावनिवृत्त्यर्थम् । उभयोरेक- संबन्धः ।। २० ।। * स इति । मरीचिमिश्रः मरीचिसहितैः मरीचिप्रभृतिभिरिति यावत् । वितायमानेनानुष्ठीयमानेन, यथोदितेन यथोक्तेन, वाजिमेधेन हयमेधेन, अधियज्ञं यज्ञेषु प्रधानतया वर्त्तमानं पुराणं पुरातनं, पुरुषम् इष्ट्वाऽऽराध्य, स इन्द्रः, विधूतं निरस्तं पापं येन सः, महान्निष्प्रतिपक्ष:, आस आसीत् । संप्राप्तनिः सपत्नस्वाराज्यसंपदासीत् वै ॥ २१ ॥ * उक्तवृत्रवधाख्यानपठनश्रवणादिफलं वदंस्तद्विशिनष्टि द्वाभ्याम् । इदमिति । महेन्द्रस्य मोक्षो ब्रह्महत्यापापतो विमोक्षणं यस्मिंस्तत्, मरुत्वत इन्द्रस्य, विशेषेण जयो यस्मिं तत्, एवंविधम् अशेषपाप्मनां, प्रक्षालनं निवर्त्तकं तीर्थपदो भगवांस्तस्यानुकीर्त्तनं यस्मिंस्तत्, भक्तेरुच्छ्रयो वृद्धिर्यस्मात्तत्, भक्तजनानामनुवर्णनं यस्मिंस्तत्, एवंविधं चापि, इदं महाख्यानं भवतीति शेषः ।। २२ ।। * पठेयुरिति । इन्द्रः परमेश्वरस्तेन स्वप्रीतिविषयत्वेन स्वीकृतमितीन्द्रियं श्रवणादिद्वारा भगवत्प्रीत्यापादकमित्यर्थः । धन्यं धन- प्राप्तिसाधनं यशस्यं यशस्करं निखिलानामघानां मोचनं यस्मात् पूर्वमशेषपाप्मनां प्रक्षालनमित्यनेन पापविनाशकत्वमुक्तमिह निखिलाघमोचनमित्यनेन पापाश्लेषकरत्वमुक्तमस्त्यतो न पौनरुक्त्यम् । स्वस्त्ययनं मङ्गलावह, तथा आयुषम् आयुष्करं रिपुंजयं स्वशत्रुपराजयकरम् इदम् आख्यानं ये बुधाः, सदा अथवा पर्वणि पर्वणि, पठेयुः पठिष्यन्तीत्यर्थः । अथो अथवा, शृण्वन्ति श्रवणं करिष्यन्तीत्यर्थः । तेषां सर्वेषामिति शेषः । स्वस्त्ययनमुक्तानुक्तसकलार्थप्रदमित्यर्थः । भविष्यतीति शेषः । किं बहुना मुक्ति- फलार्थिभिरप्येतदेवावश्यं पठनश्रवणादिविषयतां नेयमिति भावः ।। २३ ॥ वे " स्वामिनारायणः साक्षात् प्रत्यक्षः पुरुषोत्तमः । यत्नेनानेन मश्चित्ते सदास्तादिति चार्थये ।। इति श्रीधर्मधुरंधरश्रीधर्मात्मजप्रत्यक्ष पुरुषोत्तम सहजानन्दस्वामि सुतश्री रघुवीराचार्यसूनु भगवत्प्रसादाचार्यविरचिता- यामन्वयार्थावबोधिन्यां भक्तमनोरञ्जन्याख्यायां श्रीमद्भागवतटीकायां षष्ठस्कन्धे त्रयोदशोऽध्यायः ॥ १३ ॥ 1 भाषानुवादः तदनन्तर जब सत्यके परमपोषक भगवान् का ध्यान करनेसे इन्द्र के पाप नष्टप्राय हो गये, तब ब्राह्मणोंके बुलवानेपर पुनः स्वर्गलोकमें गये । कमलवनविहारिणी विष्णुपत्नी लक्ष्मीजी इन्द्रकी रक्षा कर रही थीं और पूर्वोत्तर दिशाके अधिपति रुद्रने पापको पहले ही निस्तेज कर दिया था, जिससे वह इन्द्रपर आक्रमण नहीं कर सका ।। १७ ।। * * परीक्षित् ! इन्द्रके स्वर्गमें आ जानेपर ब्रह्मर्षियोंने वहाँ आकर भगवान की आराधना के लिये इन्द्रको अश्वमेध यज्ञकी दीक्षा दी, उनसे अश्वमेध यज्ञ कराया ॥ १८ ॥ * * जब वेदवादी ऋषियोंने उनसे अश्वमेध यज्ञ कराया तथा देवराज इन्द्र ने उस यज्ञके द्वारा सर्वदेवस्वरूप पुरुषोत्तम भगवान की आराधना की, तब भगवान्की आराधना के प्रभावसे वृत्रासुरके वधकी वह बहुत बड़ी पापराशि इस प्रकार भस्म हो गयी, जैसे सूर्योदयसे कुहरेका नाश हो जाता है ।। १६-२० ।। * * जब मरीचि आदि मुनीश्वरोंने उनसे विधिपूर्वक अश्वमेध यज्ञ कराया, तब उसके द्वारा सनातन पुरुष यज्ञपति भगवान्की आराधना करके इन्द्र सब तापोंसे छूट गये और पूर्ववत् फिर पूजनीय हो गये ।। २१ ।। ।। * * परीक्षित् ! इस श्रेष्ठ आख्यानमें इन्द्रकी विजय, उनकी पापोंसे मुक्ति और भगवान् के प्यारे भक्त वृत्रासुरका वर्णन हुआ है। इसमें तीर्थों को भी तीर्थ बनानेवाले भगवान् के अनुग्रह आदि गुणोंका सङ्कीर्तन है । यह सारे पापोंको धो बहाता हैं और भक्तिको बढ़ाता है ।। २२ ।। * बुद्धिमान् पुरुषों को चाहिये कि वे इस इन्द्रसम्बन्धी आख्यानको सदा-सर्वदा पढें और सुनें । विशेषतः पर्वोंके अवसरपर तो अवश्य ही सेवन करें। यह धन और यशको बढ़ाता है, सारे पापोंसे छुड़ाता है, शत्रुपर विजय प्राप्त कराता है तथा आयु और मङ्गलकी अभिवृद्धि करता है ।। २३ ॥ इति त्रयोदशोऽध्यायः ॥ १३ ॥ अथ चतुर्दशोऽध्यायः परीक्षिदुवाच रजस्तमः स्वभावस्य ब्रह्मन् वृ॒त्रस्य पाप्मनः । नारायणे भगवति कथमासीद् दृढा मतिः ॥ १ ॥ देवानां शुद्धसत्त्वानामृषीणां चामलात्मनाम् । भक्तिर्मुकुन्दचरणे न प्रायेणोपजायते ॥ २ ॥ रजोभिः समसंख्याताः पार्थिवैरिह जन्तवः । तेषां ये केचनेहन्ते श्रेयो वै मनुजादयः ॥ । ३ ॥ प्रायो मुमुक्षवस्तेषां केचनैव द्विजोत्तम । मुमुक्षूणां सहस्रेषु कश्चिन्मुच्येत सिध्यति ॥ ४ ॥ मुक्तानामपि सिद्धानां नारायणपरायणः । सुदुर्लभः प्रशान्तात्मा कोटिष्वपि महामुने ॥ वृत्रस्तु स कथं पापः सर्वलोकोपतापनः । इत्थं दृढमतिः कृष्ण आसीत् संग्राम उल्बणे ॥ ६ ॥ अत्र ‘नः संशयो भूयाञ्छ्रोतुं कौतूहलं प्रभो । यः पौरुषेण समरे सहस्राक्षमतोषयत् ॥ ७ ॥ सूत उवाच परीक्षितोऽथ संप्रश्नं भगवान् बादरायणिः । निशम्य श्रदधानस्य प्रतिनन्द्य वचोऽब्रवीत् ॥ ८ ॥ कृष्णप्रिया व्याख्या ….
अन्वयः - ब्रह्मन् रजस्तमः स्वभावस्य पाप्मन: वृत्रस्य भगवति नारायणे दृढा मतिः कथम् ॥ १ ॥ * शुद्धसत्त्वानाम् देवानाम् च अमलात्मनाम् ऋषीणाम् मुकुंददचरणे भक्तिः प्रायेण न उपजायते ॥ २ ॥ इह पार्थिवैः रजोभिः समसंख्याता: जन्तवः तेषां ये केचन मनुजादयः श्रेयः वै ईहन्ते ॥ ३ ॥ * * तेषाम् केचन एव द्विजोत्तम प्रायः मुमुक्षवः मुमुक्षूणाम् सहस्रेषु कश्चित् मुच्येत सिद्धयति ॥ ४ ॥ * महामुने मुक्तानाम् सिद्धानाम् अपि कोटिषु नारायणपरायणः प्रशातात्मा सुदुर्लभः ॥ ५ ॥ * * सर्वलोकोपतापनः पापः सः वृत्रः उल्बणे संग्रामे इत्थम् कृष्णे दृढमतिः कथम् आसीत् ॥ ६ ॥ प्रभो अत्र नः भूयान् संशयः श्रोतुम् कौतूहलम् यः समरे पौरुषेण सहस्राक्षम् अतोषयत् ।। ७ ।। * * भगवान् वादरायणिः अथ श्रदधानस्य परीक्षितः संप्रश्नम् निशम्य प्रतिनंद्य वचः अब्रवीत् ॥ ८ ॥
श्रीधरस्वामिविरचिता भावार्थदीपिका वृत्रस्य ज्ञानभक्त्यादि श्रुत्वा पृष्टः परीक्षिता । हेतुमाह चतुर्भिस्तत्प्राग्जन्मचरितोक्तिभिः ॥ १ ॥ चतुर्दशे तु सहसा कुच्छलब्धे सुते मृते । चित्रकेतोरतिस्नेहादतिशोको निरूप्यते ॥ २ ॥ * रजश्च तमश्च स्वभावो यस्य ॥ १-२ ॥ * * भक्तदुर्लभत्वं प्रपंचयति रजोभिरिति त्रिभिः । पार्थिवैरजोभिः परमाणुभिः समाः संख्याता अनंता इत्यर्थः । जंतवो जीवास्तेषां मध्ये ये केचन कतिपये श्रेयो धर्ममीते कुर्वति ॥ ३ ॥ * । मुच्येत गृहादिसंगाद्विमुच्यते । सिद्धयति तत्त्वं जानाति ॥। ४-६ ॥ न चेंद्रभिया कृष्णं शरणं गत इत्याह । यः पौरुषेणेति ।। ७-८ ॥ वंशीधरकृतो भावार्थदीपिकाप्रकाशः आदिना वैराग्यग्रह: (१) सहसा झटिति मृते सति ( २ ) ॥ १ ॥ * * देवानामपि श्रीकांतांघ्रिभक्तिदुर्लभा किमुतासुरप्रकृतेरित्यभिप्रेत्याह - देवानामिति ॥ २ ॥ इत्यर्थ इति । “परमाणुप्रदेशेऽपि ह्यनंता: प्राणिराशय” इति १. प्रा० पा० मे ।
स्कं. ६ . १४ . १-८] अनेकव्याख्यासमलङ्कृतम् ४१५ श्रवणादिति भावः । आदिना दैत्यादिग्रहः ॥ ३ ॥ * तेषां धर्ममीहमानानां मध्ये मुमुक्षवो मोक्षेच्छातः द्विजोत्त- मेति । ब्राह्मणस्यैव त्वादृशस्य मुमुक्षुत्वमुचितम् “परीत्य लोकान्कर्मचितान्ब्राह्मणो निर्वेदमायात्” इति श्रुतेः । अत्र ब्राह्मणपदस्य ब्राह्मणत्वजातिविशिष्ट एवार्थोऽत्रान्यार्थकल्पना त्वशोभनैवाधुनिकत्वात् । " प्रसिद्धार्थ परित्यागो ह्यतीवागतिके कचित् । सर्वथा तत्परित्यागः शास्त्रविमवताकरः” इत्यभियुक्तोक्तेः ॥ ४ ॥ हे महामुन इति । त्वमेव जीवन्मुक्तत्वेऽपि नारायण- परायणत्वान्महामुनिरसि “प्रायेण मुनयो राजन्निवृता विधिषेधतः । नैर्गुण्यस्था रमंते स्म गुणानुकथने हरेः । " इति मां प्रत्येव त्वदुक्तेरिति भावः । “मननान्मुनिरित्युक्तस्तत्र भक्त्या महामुनिः” इति संहितोक्तेः ॥ ५ ॥ * * पापत्वे हेतुः – सर्व- लोकोपतापन इति ॥ ६ ॥ * * अत्र रजस्तमः स्वभावलेऽपि पुनः कृष्णभक्तत्वे । हे प्रभो इति । त्वं सर्वथा वक्तुं समर्थोऽ- सीति भावः ॥ ७ ॥ * * अथ कार्त्स्न्येन संप्रभम् ॥ ८ ॥ अन्वितार्थप्रकाशिका चतुर्दशे कृच्छ्रलब्धे चित्रकेतोः सुते मृते । अतिशोकोऽभवन्तत्र श्लोकाः षष्टिस्तथार्द्धकः ( ६० ।। ) । * 7
अनुष्टुभः सप्तषष्टिरुवाचेति (६७) च सप्तकम् ( ७ ) || १४ || रज इति । हे ब्रह्मन् ! रजः तमश्च स्वभावो यस्य तस्य पाप्मनः पापाचारस्य वृत्रस्य नारायणे भगवति दृढा मतिः निश्चला भक्तिः कथमासीत् ।। १ ।। देवानामिति । शुद्धसत्त्वानां शुद्धसत्त्वगुणोपाधीनाम् अत एवामलात्मनां शुद्धान्तःकरणानां देवानामृषीणां चापि प्रायेण मुकुन्दचरणे भक्तिर्नो- पजायते । अन्तःकरणशुद्धौ यथा ज्ञानं स्वत: स्यात्तथा न भक्तिः । तस्याः साधुसङ्ग विना असंभवात् ॥ २ ॥ * रजोभिरिति । जन्तवो जीवा पार्थिवैः रजोभिः परमाणुभिः समाः सङ्ख्याताः अनन्ताः उक्तास्तेषां मध्ये ये केचन कतिपय एव मनुजादयः श्रेयो धर्ममीहन्ते कुर्वन्ति ॥ ३ ॥ प्राय इति । हे द्विजोत्तम ! तेषां धर्मानुष्ठातृणामपि मध्ये केचन वै मुमुक्षवो भवन्ति । मुमुक्षूणामपि सहस्रेषु कश्विदेव गृहाभिसङ्गाद् मुच्येत । तेष्वपि कश्चिदेव सिद्धयति तत्त्वं जानाति ॥ ४ ॥ मुक्तानामिति । हे महामुने ! मुक्तानां निवृत्ताभ्यासानां ज्ञानिनामपि कोटिष्वपि प्रशान्तात्मा भोगवासनारहितान्तःकरण: नारायणपरायणः सुदुर्लभः अत्रास्थातिवैरल्येन दौर्लभ्यात् प्रक्रान्नसहस्रशब्दमप्रयुज्य कोटिष्वपीत्युक्तम् ॥ ५ ॥ * * वृत्र इति । स प्रसिद्धः पापः असुरदेहः अत एव सर्वलोकान् उपतापयतीति तथाभूतो वृत्रः सङ्ग्रामे उल्बणे भयङ्करस्थानेऽपि कृष्णे इत्थं वर्णितप्रकारा दृढा निश्चला मतिर्भक्तिर्यस्य स तथाभूतः कथमासीत् ॥ ६ ॥ * * अत्रेति । हे प्रभो ! यो वृत्रः समरे पौरुषेण शौर्यादिना सहस्राक्षम् अतोषयन् न तु भयेन कृष्णं शरणं गतः तस्य वृत्रस्य अत्र भक्त्यादिमत्त्वे नोऽस्माकं श्रोतॄणां सर्वेषां भूयान् संशयो भवति । अतस्तत्कारणं श्रोतुं महत्कोहलमुत्साहो वर्त्तते ॥ ७ ॥ * * परीक्षित इति । श्रद्दधानस्य परीक्षितः सम्यक् प्रश्नं निशम्य भगवान् बादरायणिः अथानन्तरमेव प्रतिनन्द्य वचोऽब्रवीत् ॥ ८ ॥ वीरराघवव्याख्या अहं समाधाय मनो यथाह सङ्कर्षणस्तच्चरणारविन्दे” इत्यनेन वृत्रवाक्येन तस्य सङ्घर्षणोपदेशावगतस्वात्मपरमात्मा- दियाथात्म्यवत्त्वमुक्तं तदेव विस्तरेण शुश्रूषुः पृच्छति राजा-रज इत्यादिना सहस्राक्षमतोषयदित्यन्तेन । हे ब्रह्मन् ! रजश्च तमश्च स्वभावो यस्यात एव पाप्मनः पापकारिणः असुरत्वादिति भावः । भगवति नारायणे दृढा निश्चला सिद्धिपर्यन्ता मतिर्भक्तिः हे महामुने ! कथमासीत्सदुपदेशेप्या सुरस्वभावस्य सिद्धिपर्यन्ता भगवद्भक्तिर्दुलेभेति भावः ॥ १ ॥ * * भक्तदौर्लभ्यमेव प्रपञ्चयति - शुद्धसत्वानां केवलसत्वप्रचुराणां देवानां तादृशाममल चित्तानामृषीणामेव प्रायशो मुकुन्दचरणे भक्तिर्न जायते तेषामपि दुर्लभा कथमस्य सञ्जातेति भावः ॥ २ ॥ * * “मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये । यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः " ॥ इत्युक्तरीत्या तावत्पृथिव्या रजोभीरेणुभिः सह समसंख्याकाः जन्तवः तद्वदसंख्याकाः जन्तवः तेषां जन्तूनां ये केचन मनुष्यादद्य एव शास्त्रोक्तधर्माधिकारिणस्तावन्मनुष्यादिजन्मदुर्लभ- मेवेति भावः ॥ ३ ॥ * * तेषामपि केचित्प्रायशस्त्रिवर्गरूपश्रेयः प्रवणा मुक्तये न यतन्ते तावन्मुमुक्षुतैव दुर्लभेति भावः । दैवान्मुमुक्षतां केषांचित्सहस्रेषु कश्विन्मुच्येत रागादिदोषैर्मुच्येत सिध्यति लब्धयोगो भवति ॥ ४ ॥ * * मुक्तानामपि सिद्धानां कोटिष्वपि हे महामुने ! नारायणपरायणः प्रशान्तात्मा रागाद्यकलुषितचित्तः सुतरां दुर्लभः ॥ ५ ॥ * * प्रश्नार्थ- मुपसंहरन तस्योत्तरदानाय मुनिं प्रेरयति वृत्रस्त्वितिद्वाभ्याम् । तु शब्देनोक्तविपरीतम सत्त्वप्रधानत्वं द्योत्यते रजस्तमःप्रचुरो वृत्रः सर्वलोकोपतापनः सर्वलोकदुःखकारी अत एव पापः इत्थमुक्तप्रकारेण कृष्णे भगवति दृढा मतिर्यस्य तादृशः कथमासीत्कथं वा उल्बणे दुःसहे ग्राम्ये शब्दादिविषये दृढमतिः नासीदिति यत् ॥ ६ ॥ अस्मिन्नर्थे नोऽस्माकं भूयान्संशयो बर्त्तते भो मुने, संशयं विशिनष्टि - हि यस्मात् संशयाच्छ्रोतुम् उत्तरं श्रोतुं कौतुहलमस्माकम् अस्ति नन्विन्द्रभयाद्वत्रः कृष्णं शरणङ्गतः * ४१६ श्रीमद्भागवतम् [ स्कं. ६ अ. १४ श्लो. १-८ इत्यत्राह यः पौरुषेणेत्यर्धेन । यो वृत्रः पौरुषेण सहस्राक्षमिन्द्रमतोषयन्नतस्तस्य इन्द्राद्भयमस्तीति भावः ॥ ७ ॥ * * एवं राज्ञा पृष्टो मुनिरित्याहेत्याह सूतः - परीक्षित इति । अथ राज्ञः प्रश्नानन्तरम् अथ ननु हे शौनकादयः ! इति वार्थः परीक्षितः समीचीनं प्रश्रमाकर्ण्य प्रतिनन्द्याहो साधुष्पृष्टमित्यभिनन्द्य कथं भूतस्य परीक्षितः श्रद्दधानस्य उत्तरश्रवणविषयकत्वरायुक्तस्य उत्तरें विसृम्भयुक्तस्य वा इदं वक्ष्यमाणमत्रवीत् ॥ ८ ॥ विजयध्वजतीर्थकृता पदरत्नावली अत्र चित्रकेतुविषयेतिहासश्रवणादिना संसारविरक्तिभूयिष्ठतया श्रीनारायणचरणारविन्दे भक्तिर्जायते इति तदर्थं परीक्षित्प्रश्नपूर्वकं पूर्वकथाशेषत्वेन निरूपयितुमाह-रज इति । दृढा रतिर्निरतिशयभक्तिरित्यर्थः ॥ १ ॥ * * देवादीना- मपि श्रीकान्ताङ्घ्रिभक्तिर्दुर्लभा किमुतासुरप्रकृतेरिति । भावेन वक्ति – देवानामिति । शुद्धसत्त्वगुणनिर्मितशरीरत्वेन शुद्धान्तः- करणानाम् अमलात्मनां तपोभिर्निर्धूतमनोमलानां न प्रायेणोपजायत इत्यस्यायमर्थः । निरन्तरभक्तिकरणयोग्यैरसुरावेशात्क्रिय- माणस्य द्वेषस्य कादाचित्कत्वेनाल्पत्वेपि महत्त्वोपचारोऽन्यथा शुद्धसत्त्वानामित्यादिविशेषणविशिष्टानां देवानां गुणलिङ्गानाम् इत्यादिनोच्यमानमात्यन्तिकभक्तिलक्षणञ्चासङ्गतं स्यादतः प्रायशब्दस्य बाहुल्यार्थत्वेप्यत्रात्प एवार्थाङ्गीकर्तव्यः प्रकृतप्रमाणानु- रोधाद्भक्तिकरणं दुर्लभमित्यतो वा तथोक्तं न तु तेषां तदभावात् । भक्तबाहुल्यस्यादृष्टत्वात् भक्तेस्तारतम्यप्रदर्शनाय वा ॥ २ ॥ एतदेवाह । रजोभिरिति । इह कर्मभूमौ जन्तवः पार्थिवैः रजोभिः समसंख्याता यावन्ति भूमेः रजांसि सन्ति तावन्त: शरी- रिणो जीवाः सन्ति अन्येपि निःशरीरा अनन्ताः सन्ति परमाणुप्रदेशेपि ह्यनन्ताः प्राणराशय” इति श्रुतेः । न तेषामिहमानं क्रियते किन्तु गृहीतदेहानामेव तेषां मध्ये ये केचन मनुजादयः श्रेयः स्वर्गादिलक्षणमुद्दिश्य प्रवर्तन्ते वा इत्यनेन मनुष्याणां सहस्रे - ष्वित्यादिवाक्यं सूचयति ईहमानेष्वपि विशेषं वा ॥ ३ ॥ * * स्वर्गादीनां क्षणभङ्गुर सुखपरत्वं सन्दिश्य चेष्टमानानां मध्ये केचिदेव मुमुक्षवः मोक्षेच्छवः तेषां मुमुक्षूणां मध्ये केचिदेव प्रयतन्ते तेषु प्रयतमानेषु सहस्रेषु कश्चिदधिकारिराशिषु मुच्येत संसारान्मुक्तो भवति तत्रापि संसारान्मुक्तेष्वपि संसाराद्यप्राप्तिज्ञानादिपूर्तिशून्यमुत्तराशौ कश्चिदेव पूर्णज्ञानी सिद्धयति आनन्दादिपूर्णो भवति ॥ ४ ॥ * * सिद्धानामानन्दादिपूर्णानां मुक्तानां मध्ये नारायणायनो दुर्लभः नारायणायनानां कोटिवष्वपि प्रशान्तात्मा प्रकृष्टभगवन्निष्ठायुक्तमनाः प्रकृष्टानन्दरूपो वा नारायणपरायणः सुदुर्लभः ब्रह्माणमेकमन्तरेणात्यन्त- दुर्लभ इत्यर्थः । अधिकारिणां तारतम्यविवक्षयैतद्वचनम् ॥ ५ ॥ ॐ * ततः किं प्रकृतमिति तत्राह वृत्रस्त्विति । तु शब्देना- त्यन्तानुपपत्तिं सूचयति ।। ६ ।। पौरुषेण परमात्मविषयस्नेहेन अहो दानवसिद्धोसीत्युक्तत्वात् ।। ७-१० ।। * ‘जीवगोस्वामिकृतः क्रमसन्दर्भः । देवानामित्यादि । यद्यपि “सत्त्वात् सञ्जायते ज्ञानम्” इत्यादिना “कैवल्यं सात्त्विकं ज्ञानम्” “सत्त्वं यद्ब्रह्मदर्शनम् ” इत्यादिना च सत्त्वस्य ज्ञानकारणत्वमुक्तं तथापि देवानां शुद्धसत्त्वानामित्युक्तचा मुक्तानामपि सिद्धानामित्युक्त्या सद्भावेपि भगवज् ज्ञानस्याप्यभावात् । रजस्तमः स्वभावस्येत्याद्युक्तथा तदभावेपि सद्भावात् न सत्वस्य तत् कारणत्वम् । किन्तु तदुत्तरत्वेन तस्य पूर्वजन्मनि श्रीनारदादिसङ्गवर्णनया “नैषां मतिस्तावदुरुक्रमाहिं स्पृशेत्यनर्थावगमो यदर्थः । महीयसां पादरजोऽभिषेकं निष्किञ्चनानां न वृणीत यावत्” इत्युक्तया च भगवत्कृपापरिमलपात्र भूतस्य श्रीमतो महतः सङ्ग एव कारणम् । तत्सङ्गश्च तुल- याम लवेनापि न स्वर्ग नापुनर्भवम् भगवत्सङ्गिसङ्गस्य मर्त्यानां किमुताशिषः । इत्युक्तचा निर्गुणावस्थातोप्यधिकत्वात् । परम- निर्गुण एव सप्तमे च । समः प्रियः सुहृद्वह्मन्नित्यादौ सगुणे देवादौ तस्य कृपा वास्तवी न भवति । किन्तु श्रीमत्प्रह्लादादिध्वेवेति प्रतिपादनान्महतां निर्गुणत्वाभिव्यक्तत्या तत्सङ्गस्यापि निर्गुणत्वं व्यक्तम् ।। १-३ ॥ मुच्येत जीवन्मुक्तो भवेत् ततश्च सिद्धयति " येऽन्येऽरविन्दाक्ष विमुक्तमानिनः” इत्यादिव्याख्यानरीत्या जीवन्मुक्तानामपि पातश्रवणात् । तत्रापि कश्चिदेव निर्विघ्नतां प्राप्नोतीत्यर्थः । मुक्तानां प्राकृतशरीरवत्वेपि तदभिमानशून्यानां सिद्धानां प्राप्तसालोक्यादीनाञ्च कोटिष्वपि मध्ये नारायणसेवामात्र काङ्क्षी सुदुर्लभः प्रशान्तात्मा सर्वोपद्रवरहितः ।। ४-२० ।। विश्वनाथचक्रवतिकृता सारार्थदर्शिनी चतुर्द्दशे चित्रकेतोर्विविक्ते कृपया सताम् । सुखञ्च दुःखख सुतस्योत्पत्या मृत्युनाभवत् ॥ शुद्धसत्त्वानां शुद्धान्तःकरणानां प्रायेणेति अन्तःकरणशुद्धौ ज्ञानं यथा स्वतः स्यात्तथा न भक्तिः तस्याः साधुसङ्गा- विनाभावित्वात् ।। १-२ ॥ येषां मध्ये ये केचनैव मनुजदेवगन्धर्वादयो भवन्ति न तु सर्वे । तेषामपि मध्ये ये * * मुच्येत जीवन्मुक्तो भवेत् ॥ ४ ॥ * * मुक्तानामपि मध्ये कश्विदेव केचनैव श्रेयो धम्र्मादि ॥ ३ ॥ स्कं. ६ अ. १४ श्लो. १८] अनेकव्याख्यासमलङ्कृतम् ४१७ सिद्धयतीति तत्रैतदुक्तं भवति मोक्षसाधनवन्तोपि बहवो मुक्ता न भवन्ति किन्तु केचिदेव | मुक्ता अपि सर्वे सिद्धा न भवन्ति किन्तु केचिदेव | “जीवन्मुक्ता अपि पुनर्बन्धनं यान्ति कर्मभिः । यद्यचिन्त्यमहाशक्तौ भगवत्यपराधिनः” इत्याद्युक्तेः ते च सिद्धाः । सन्निहितसायुज्या एवोच्यन्ते तेषां मध्ये नारायणपरायण इति निर्द्धारणानुपपत्तेः षष्ठीयं पञ्चम्यर्थ एव ततश्च मुक्तेभ्यः सिद्धेभ्यश्च सकाशात् नारायणपरायणः श्रेष्ठ्यात् सुदुर्लभः । यद्वा अयमत्र विवेकः ज्ञानं हि द्विविधं केवलं भक्ति- सहितञ्च । तत्र केवलज्ञानेन स्थूलतुषाव घातिन इव मुमुक्षवोपि न मुच्यन्ते भक्तिसहितं ज्ञानञ्च द्विविधं भगवदाकारे मायाबुद्धया अनादरेपि तद्भक्तिसहितया विनैव तदादरे सति वद्भक्तिसहितञ्च । तत्राद्ये खलु मुक्ता न भवन्ति किन्तु मुक्ताभिमानिन एव । तादृश्या भक्त्या अविद्यां सम्यङ्निरस्य विद्योदयश्च सम्यक् सम्पाद्य सद्य एवान्तर्द्धानात् तया बिना च तत्पदार्थज्ञाना- भावान्न ब्रह्मणि लीयन्ते । तत्र येऽन्येऽरविन्दाक्षेत्यादौ अनाहतयुष्मद्धय इति प्रमाणं भगवद्गीता च “अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् । परं भावमजानन्तो मम भूतमहेश्वरम् । मोघाशा मोघकर्माणो मोघज्ञानाविचेतसः । राक्षसीमासुरीञ्चैव प्रकृति मोहिनीं श्रिताः” अनयोरर्थः । मानुषीं तनुमाश्रितं मां मूढा अवजानन्ति सार्वत्रिक्या मानुष्यास्तनोर्मायिकत्वदर्शनात् मदियाया अपि मानुष्या स्तनोर्मायिकत्वकल्पनमेव ममावज्ञा मम मानुषीं तनुं कीदृशीं परं भावं श्रेष्ठं सत्त्वं विशुद्धं सत्त्व- मित्यर्थः । कीदृशं भूतमहेश्वरम् । भूतानां ब्रह्मादितृणान्तजीवानां महेश्वरं परमकारणं मम मानुषी तनुरेव स्वीकृता प्राकृतसर्व्व- वस्तुका रणमित्यर्थः । मोघाशा इति यदि ते मद्भक्ताः स्युस्तदा ते मोघाशा मत्प्राप्याशा तेषां व्यर्था स्यात् यदि ते कर्मिणस्तदा ते मोघकम्र्माणः स्युस्तेषां स्वर्गो न स्यात् । यदि ते ज्ञानिनस्तदा मोघज्ञानास्तेषां मोक्षो न स्यात् । तर्हि तेषां किं स्यादित्यत आह-राक्षसीमिति । राक्षस्यादियोनौ जन्म स्यादित्यर्थः । द्वितीये तु अविद्याविद्ययोरुपरामेप्यनुपरतया ज्ञानशाबल्यरहितया भक्त्या तत् पदार्थ ज्ञात्वा ब्रह्मसायुज्यं प्राप्नुवन्ति । यदुक्तं “ब्रह्मभूतः प्रसन्नात्मा न शोचति न कांक्षति । समः सर्वेषु भूतेषु मद्भक्ति लभते पराम् । भक्त्या मामभिजानाति यावान् यश्चास्मि तत्त्वतः । ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम्” इति । किञ्च तेषां सिद्धानां मध्ये कोपि भक्त्या - तत्पदार्थानुभवारम्भसमये यदि कस्यचिच्छुद्धभक्तस्य कृपया पूर्णां शुद्धां भक्तिं प्राप्नोति तदा तन्माधुर्यलाभात् सायुज्यमरोचयित्वा नारायणपरायणः स्यादिति निर्द्धारणषष्ठयपि व्याख्येया । तत्रानुग्राहक- भक्तस्य शान्तत्वे शान्तभक्त इति दासादित्वे दासादिरिति । अस्यातिषैरल्येन दौर्लभ्यात् प्रक्रान्तसहस्रशब्दमप्रयुज्य कोटिब्ब- पीत्याह स्म ॥ ५ ॥ * * एवं परमदुर्लभा त्रिगुणातीता, भक्तिस्त्रिगुणान्धे असुरे वृत्रे कथमवर्त्ततेति पृच्छति- वृत्रस्त्विति ।। ६–१० ।। । ," । शुकदेव कृत: सिद्धांत प्रदीप: एवमिन्द्रपोषणमुक्त्वाथ नारदादिमूर्तिभिर्भगवता यथा चित्रकेतुपोषणं कृतं तदुच्यते - चतुर्भिरध्यायैः । तत्र वृत्रस्य पूर्वजन्मनि चित्रकेतुरूपस्य पुत्रार्थं क्लिश्यतः पुत्रप्राप्तिस्तस्मिन्पुत्रे मृते सति शोकश्च वर्ण्यते– रजस्तम इति चतुर्दशेनाध्यायेन । वृत्रस्य भगवद्भक्तिः केन हेतुनासीदिति पृच्छति-रज इति । पाप्मनः देवद्रोहरूपपापयुक्तस्य रजस्तमश्च स्वभावो यस्य तस्य ॥ १ ॥ भक्तदुर्लभत्वं संस्मृत्य दर्शयति– देवानामिति चतुर्भिः ॥ २ ॥ जन्तवो जीवाः पार्थिवै रजोभिः समसंख्याताः असं- ख्येयाः इत्यर्थः । तेषां मध्ये ये केचनैव श्रेयो धर्मादित्रिवर्गम् ईहन्ते कुर्वन्ति ॥ ३ ॥ * मुमुक्षवः अपवर्गेच्छवः तेषां सहस्रेषु कश्विदेव मुच्येत मुमुक्षाघातकात् गृहादिसङ्गात् तेषां गृहादिसङ्गान्मुक्तानामपि मध्ये कश्चिदेव सिद्धयति आत्मानात्मपरमात्म- विवेकरूपां सिद्धिं प्राप्नोति ॥ ४ ॥ * मुक्तानां मध्ये ये सिद्धास्तेषां कोटिषु नारायणः परमयनमाश्रयो भजनीयो यस्य सः ॥ ५-७ ॥ * * वचोऽब्रवीदुत्तरमब्रवीत् ॥ ८ ॥ गोस्वामिगिरिधरलाल विहिता बालप्रबोधिनी विवेकधैर्यभक्त्यादिवृत्रस्य विनिरूपितम् । तच्छ्रुत्वाविस्मितो राजा कारणं तत्र पृष्टवान् ॥ १ ॥ चतुर्भिः कारणं तस्य प्राग्जन्मचरितोक्तिभिः । अध्यायैः श्रीमुनीन्द्रेण विस्तरेण निरूप्यते ॥ २ ॥ कृच्छ्रलब्धे मृते पुत्रे चित्रकेतोश्चतुर्दशे । वैराग्यकारणं शोको जातस्तद्विनिरूप्यते ॥ ३ ॥ एवं वृत्रस्य भगवति निश्वलां भक्तिं श्रुत्वा सभासदो विस्मिताना लक्ष्य स्वयं विस्मितो भक्तिकारणप्रसिद्धया सर्वजगदुपकारं मन्यमानस्तत्र कारणं पृच्छति - रज इति । सर्वज्ञस्य तव न किञ्चिदविदितमस्तीति कृपया ऽस्मत्सन्देहो निवारणीय इति सूचयन् सम्बोधयति - हे ब्रह्मन्निति । वृत्रस्य नारायणे भगवति दृढा मतिः निश्चला भक्तिः कथमासीदित्यन्वयः । भक्त्यसम्भवे हेतुमाह- पाप्मन इति, पापाचारयोग्यगृहीतासुरदेहस्य अत एव रजस्तमःस्वभावस्येति ॥ १ ॥ * * शुद्धसत्वानां शुद्धसत्त्वगुणो- ५३ श्रीमद्भागवतम् ४१८ ६ अ. १४ श्रो. १-८ पाधीनाम् । अतएवामलात्मना शुद्धान्तःकरणानाम् ॥ २ ॥ ॐ भक्तेदुर्लभत्वं प्रपञ्चयति — रज इति त्रिभिः । जन्तवो जीवाः पार्थिव: रजोभिः परमाणुभिः समाः सङ्ख्याताः अमला भक्तास्तेषा मध्ये ये केचन कतिपय एवं मनुजादयः श्रेयो भगवदर्पितधर्मीहन्ते कुर्वन्तीत्यन्वयः । ‘मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये । यततामपि सिद्धाना कश्चिन्मां वेत्ति तत्त्वत:’ इत्यादिशास्त्रप्रसिद्धि स्मारयति वा इति ॥ ३ ॥ * * तेषां धर्मानुष्ठातृणामपि मध्ये केचन वै मुमुक्षवो भवन्ति मुमुक्षैव दुर्लभेति ज्ञापनाय प्रायग्रहणम् । मुमुक्षूणामपि सहस्रेषु कश्चिदेव मुच्येत देहायभ्यासराहित्येन जीवन्मुक्तो भवति तत्र हेतुमाह- सिद्ध पतीति । कश्विदेवात्मतत्त्वं जानाति । अभ्यासनिवर्त्तकात्मतत्त्वसाक्षात्कारस्यैव दुर्लभत्वादित्यर्थः । नवाग्रेऽह किं वक्तुं शक्तः सर्वज्ञत्वेन सर्वं विदितमेवेति सूचयन् सम्बोधयति द्विजोत्तमेति ॥४॥ मुक्तानां निवृत्ताध्यासानां सिद्धानां ज्ञानिना- सम्बोधयति-द्विजोत्तमेति ६
-
- मपि कोटिष्वपि प्रशान्तात्मा भोगवासनारहितान्तःकरणः नारायणपरायणः निरुपाधिकभगवत्स्नेहवान् सुदुर्लभ इत्यन्वयः । तव तु तथात्वमस्येवेति सूचयन सम्बोधयति - हे महामुने इति ॥ ५ ॥ ॐ ॐ तुशब्दोऽनधिकारसूचकः । स प्रसिद्धः पापः असुरदेहः अतएव सर्वलोकान उपतापयतीति तथाभूतो वृत्रः सङ्ग्रामे उल्बणे भयङ्करस्थानेऽपि कृष्णे इत्थं वर्णितप्रकारा ear निश्चला मतिर्भक्तिर्यस्य स तथाभूतः कथमासीदित्यन्वयः ॥ ६ ॥ न चेन्द्रभयात् कृष्णं शरणं गत इत्याह–यः पौरुषेणेति । यद्वा स्वपौरुषेण स्वविवेकधैर्यादिना । अत्र वृत्रस्य भक्यादिमत्त्वेनोऽस्माकं श्रोतॄणां सर्वेषां भूयान् संशयों भवति । अतस्तत्कारणं श्रोतुं महत्कौतूहलमुत्साही वर्त्तते । तत्कारणोपदेशेन संशयनिवारणे समर्थस्त्वमिति कृपया निवारयेति सूचयन् सम्बोधयति है प्रभो इति ॥ ७ ॥ परीक्षितः सम्यक भक्तिप्रचार हेतुत्वात् समीचीनं प्रश्नं निशम्य श्रुत्वा भगवान् सर्वशत्वेनोत्तरदाने समर्थ:, यतो बादरायणः श्रीवेदव्यासपुत्रः अथानन्तरमेव प्रतिनन्द्य वचोऽब्रवीत् उत्तरं दत्तवान् । तत्प्रश्नप्रतिनन्दने हेतुमाह — श्रद्दधानस्येति ॥ ८ ॥ दृढा क আ ॥
की के 10 Bir ms st aising Finger+भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जन DIE TEMPOPADH FIR कृच्छ्रलब्धे सुतेऽकस्मान्मृते पुत्रे चतुर्दशे । अतिस्नेहाद्बहुः शोकश्चित्रकेतोनिरूप्यते ॥ १ ॥ * । । ‘अहं समाधाय मनो यथाह संकर्षणस्तञ्चरणारविन्दे पण तवरणारविन्द, एवंभूतश्रुतवृत्रवाक्येन तस्य संकर्षणोपदेशावगतपरमा- त्मादियाथात्म्यवत्वं बुद्धं तदेव विस्तरेण शुश्रूषुः पृच्छति राजा रज इत्यादिना सहस्राक्षमतोषयदित्यन्तेन । रज इति है ब्रह्मन्, रजश्च तमश्च स्वभावो यस्य तस्य, अत एव पाप्मनः पापकारिणः, असुरत्वादिति भावः । वृत्रस्य भगवति नारायणो दृढा निश्चला सिद्धिपर्यन्ता इत्यर्थः । मतिर्भगवदेकान्तिकभक्तिरूपा धीः, कथम् आसीत् । असुरस्वभावस्य सिद्धिपर्यन्ता भक्ति- दुर्लभेति भावः ॥ १ ॥ भक्तेदोलेन्यं प्रपनयति । देवानामिति । शुद्धसत्त्वाना केवलसत्वराणां देवानां अर्मलात्मनीममलचित्तानां ऋषीणां चापि, प्रायेण मुकुन्द्रचरणे भक्तिः न उपजायते । तेषामपि दुर्लभा भक्तिः कथमस्य संजातैति मैषिः॥२॥ ॐ ॐ ‘मनुष्याणां सहस्रेषु कश्चिद्यतति’ सिद्धये । यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वत:’ इति भगवदुक्तरीत्या तावत् तद्दुर्लभता स्मरन् वक्ति । रजोभिरिति । इह लोके, पार्थिवैः रजोभिः पृथिव्या रेणुभिः परमाणुभिरिति । । यावत् । समसंख्याताः समानतया संख्यावन्तः। वस्तुतस्त्वनन्ता एवेत्यर्थः । जन्तवो जीवाः सन्ति । तेषां जन्तूनां मध्ये, ये केचन मनुजादयः त एव, श्रेयः ईहन्ते श्रेयोरूपसतशास्त्रीयाचारे प्रवर्त्तन्ते । वै प्रसिद्धमेतत् । मनुजादय एव शास्त्रोक्तत्यधिकारिण- मनुष्यादिजन्म प्रथमतस्तु दुर्लभमेवेति भावः ॥ ३ ॥ * प्राय इति । हे द्विजोत्तम, तेषां श्रेयः प्रवणमनुष्याणां मध्येऽपि, प्रायः मुमुक्षवः केचनैव केचिदेव, श्रेयः प्रवणेष्वपि मुमुक्षवो दुर्लभा इति भावः । किं च। मुमुक्षूणामपि, सहस्रेषु, लब्धयोगश्चापि भवति ॥ ४ ॥ * मुक्तानामिति । मुक्तानां सिद्धानामपि, | योगसिद्धि महामुने, । कश्चिदेव मुच्येत सिद्धयति है रायणानामिति शेषः । कोटिष्वपि, प्राप्तानां मुक्तानां मध्येऽपीत्यर्थः । नारायणपरायणः सुदुर्लभः । प्रशान्तात्मा रागाद्यकलुषितचितः सन् केवलनारायणैकपरायणः सुदुर्लभः सुतरां दुर्लभः ॥ ५ ॥ * प्रश्नार्थमुपसंहरं- स्तस्योत्तरदानाय मुर्तिं प्रेरयति वृत्रस्त्विति द्वाभ्याम् । वृत्र इति । पापः रजस्तमःप्रचुरतया पापरूपः, सर्वलोकोपतापनः सर्वलोक- । । दुःखकारी स उक्तपराक्रमः वृत्रस्तु उल्बणे दुःसहे, संग्रामे युद्धे, इत्थमुक्तप्रकारेण, कृष्णे भगवति, दृढा मतिर्यस्य सः, कथम् आसीत् ॥ ६ ॥ * अत्रेति । भो मुने, अत्रास्मिन्नर्थे, नोऽस्माकं भूयान् महान, संशयः वर्त्तते । श्रोतुमेतदुत्तरमा- कर्णितुं कौतूहलं च अस्ति । नन्विन्द्रभयाद्वृत्रः कृष्णं शरणं गतः तत्राह । यो वृत्रः समरे संग्रामे, पौरुषेण स्वपराक्रमेण, सहस्रा- क्षमिन्द्रम् अतोषयत् । न त्वस्येन्द्रादल्पमात्रमपि भयमभवदिति भावः ।। ७ ।। * * एवं नृपप्रभं श्रुत्वा तदुत्तरं मुनि- राहेत्याह सूतः । परीक्षित इति । हे शौनकेति शेषः । भगवान् बादरायणः श्रद्दधानस्य परीक्षितः, संप्रश्नम् अथ कार्त्स्न्येन, निशम्य प्रतिनन्द्य अहो साधु पृष्टमित्यभिनन्द्य, इदं वक्ष्यमाणम् अब्रवीत् ॥ ८ ॥स्क्र. ६ अ. १४ श्लो. ९-१६] अनेकव्याख्या समलङ्कृतम् ४१९ भाषानुवाद: वृत्रासुरका पूर्वचरित्र HAS IS FRADES Blop Bre viefres पहुचा- राजा परीक्षितने कहा–भगवन् ! वृत्रासुरका स्वभाव तो बड़ा रजोगुणी- तमोगुणी था । वह देवताओंको कष्ट —— रजोगुणी-तमोगुणी । कर पाप भी करता ही था । ऐसी स्थितिमें भगवान् नारायणके चरणोंमें उसकी सुदृढ़ भक्ति कैसे हुई ? ॥ १ ॥ * * हम देखते हैं कि प्रायः शुद्ध सत्त्वमय देवता और पवित्रहृदय ऋषि भी भगवानकी परम प्रेममयी अनन्य भक्तिसे चित ही रह जाते हैं । सचमुच भगवान्की भक्ति बड़ी दुर्लभ है ॥ २ ॥ भगवन् ! इस जगत् के प्राणी पृथ्वीके धूलिकणोंके समान ही असंख्य हैं । उनमें से कुछ मनुष्य आदि श्रेष्ठ जीव ही जीव ही अपने कल्याणकी चेष्टा करते हैं ॥ ३ ॥ * * ब्रह्मन् ! उनमें भी संसार से मुक्ति चाहनेवाले तो बिरले ही होते हैं और मोक्ष चाहनेवाले हजारोंमें मुक्ति या सिद्धि-लाभ तो कोइ सा कर पाता है ॥ ४ ॥ * * महामुने ! करोड़ो सिद्ध एवं मुक्त पुरुषोंमें भी वेसे शान्तचित्त महापुरुषका मिलना तो बहुत ही कठिन है, जो एकमात्र भगवान् के ही परायण हो ॥ ५ ॥ * * ऐसी अवस्था में वह वृत्रासुर, जो सब लोगोको सताता था और बड़ा पापी था, उस भयङ्कर युद्धके अवसरपर भगवान् श्रीकृष्ण में अपनी वृत्तियोंको इस प्रकार दृढ़ता से लगा सका—इसका क्या कारण है ? ॥ ६ ॥ * * प्रभो ! इस विषय में हमें बहुत ॥ * प्रभो ! इस विषयमें हमें बहुत अधिक सन्देह है और सुननेका बड़ा कौतूहल भी । अहो, वृत्रासुरका बल.पौरुष कितना महान था कि उसने रणभूमिमें देवराज इन्द्र को भी सन्तुष्ट कर दिया ।। ७ ।। सूतजी कहते है - शौनकादि ऋषियो ! भगवान् शुकदेवजीने परम श्रद्धालु राजर्षि परीक्षित्का यह भष्ठ प्रश्न सुनकर उनका अभिनन्दन करते हुए यह बात कही || 5 ॥ seight: 29:5 ड -RISE TRP श्रीशुक उवाच । श्रतं द्वैपायनमुखान्नारदाद्देवलादपि ॥ 8 ॥ ॥ ११ ॥ १२ ॥ शृणुष्वावहितो राजन्नितिहासमिमं यथा । श्रुत आसीद्राजा सार्वभौमः शूरसेनेषु वै नृप । चित्रकेतुरिति ख्यातो यस्यासीत् कामधुमही ॥ १० ॥ तस्य भार्यासहस्राणां सहस्राणि दशाभवन् । सान्तानिक्रश्चापि नृपो न लेभे तासु सन्ततिम् रूपौदार्यव योजन्मविद्यैश्वर्यश्रियादिभिः । सम्पन्नस्य गुणैः सवैश्विन्ता वन्ध्यापतेरभूत् ॥ न तस्य संपदः सर्वा महिष्यो वामलोचनाः । सार्वभौमस्य भू श्रेयमभवन् प्रीतिहेतवः ॥ तस्यैकदा तु भवनमङ्गिरा भगवानृषिः । लोकाननुचरन्नेतानुपागच्छयदृच्छया ॥ १४ ॥ पूजयित्वा विधिवत्प्रत्युत्थानार्हणादिभिः । कृतातिथ्यमुपासीदत्सुखासीनं समाहितः ।। १५ ।। महर्षिस्तमुपासीनं प्रश्रयावनतं क्षितौ । प्रतिपूज्य महाराज समाभाष्येदमब्रवीत् ॥ १६ THE कृष्णप्रिया व्याख्या १३ ॥ अन्वयः–राजन् अवहितः यथा द्वैपायनमुखान् नारदात् देवलात् अपि हृतम इमम इतिहासं शृणुष्व ॥ ९ ॥ * * ॐ तस्य भार्यासह - रुपौदार्यवयोजन्मविद्यै- नृपः शूरसेनेषु वै चित्रकेतुः इति ख्यातः सार्वभौमः राजा आसीत् मही यस्य कामधुक् ॥ १० ॥ त्राणां दश सहस्राणि अभवन् वै नृपः सान्तानिकः अपि तासु संततिम् न लेभे ॥ ११ ॥ * श्वर्यश्रियादिभिः सर्वैः गुणैः संपन्नस्य बंध्यापतेः चिता अभूत् ॥ १२ ॥ ॐ संपदः सर्वाः ब्रामलोचना: महिष्यः एवं भूः तस्य सार्वभौमस्य प्रीतिहेतवः न अभवन् ।। १३ ।। एकदा तु भगवान् अंगिराः ऋषिः एतान् लोकान् अनुचरन् प्रत्युत्थानार्हणदिभिः विधिवत् पूजयित्वा कृतातिथ्यम् सुखासीनं * महाराज महर्षिः क्षितौ प्रभयावनतं तं प्रतिपूज्य समाभाष्य इदम् ग्रहच्छया तस्य भवनम् उपाराच्छत् ॥ १४ ॥ ४ तं समाहितः उपासीदत् ॥ १५ ॥ अब्रवीत् ।। १६ ।। * ETED PORN १. प्रा० पा० भूरचेयं नाभवत् । २. प्रा०पा०सीनं सु० । ४२० श्रीमद्भागवतम् श्रीधरस्वामिविरचिता भावार्थदीपिका [ स्कं. ६ अ. १४ श्लो. ९-१६ यथा यथावत शृणु ।। ९-१० ॥ * ४ भार्यासहस्राणां दशसहस्राणि कोटिरित्यर्थः । सांतानिकः स्वयं संताना- न लेभे । सर्वास्ता वंध्या एवं दैवयोगेन मिलिता इति भावः ॥ ११ ॥ * * osपि पुत्रोत्पादन समर्थोऽपि तदेवाह । वध्यारित सु संतति न लेभ उपासीदत्तस्य समीपमुपविवेश । समाहितः संयतः ।। १५-१६ । ।। १२-१४ ।। ४ * । वंशीधरकृतो भावार्थदीपिकाप्रकाशः राजनिति । राज्ञामावहित्यासंभवत्वमाह - द्वैपायनादित्रयकीर्त्तने नास्याख्यानस्यानादित्वं विज्ञप्रसिद्धत्वं च सूचितम् ॥ ६ ॥ * * नृपेति । त्वत्सदृशनृपालनतत्पर इति भावः ।। १० ।। * इत्यर्थ इति । दशसहस्त्रगुणितं सहस्रकोटिमितं स्यादिति भावः । संततिं पुत्रं पुत्रीं वा संतन्यते विस्तार्यते कुलमनयेति संततिरिति व्युत्पत्तेः पुत्र्या अपि दौहित्रा- दिरूपेण वंशविस्तृतिहेतुत्वात्सन्ततित्वम् । इति भाव इति । दैवयोगेन प्राक्तनकर्मणेत्याशयः । वर्षाकालिका रक्तवर्ण बहुपाद- चित्रितोद्देहाः पुंजीभूय चलनवन्तः कीटविशेषा केनचिद्रजेन खपादेनैकदैव मर्द्दितास्ते च कीटाञ्चित्रकेतुवनिताभावं प्राप्ताः स गजस्तत्पुत्रतां प्रापेति । ताः स्वपूर्वजन्मवैरेण तं मारयामासुरित्यैतिह्यमप्यत्र केचिद्वदति । तासां बंध्यात्वकारकं कर्म तु पुराणांतरान्निश्वेयम् ॥ ११ ॥ ॐ आदिना शीलादिग्रहः । सर्वथा प्रसूतिरहिता स्त्री वंध्या । चिंता पुत्राप्राप्ति - जनिता ।। १२-१३ ॥
-
- भगवान्सर्वथा समर्थः ॥ १४ ॥ तमंगिरसम् ॥ १५ ॥ * * तं चित्रकेतुम् । अहो [चित्रकेतुर्महावाजासीद्यद्गृहे साक्षाद्ब्रह्मपुत्रोंगिरामुनिरागत इत्यामृशंतं परीक्षितं महामुनिरामंत्रयति हे महाराजेति । त्वं तु ततोप्यधिको महाराजोऽसि यतोऽहं त्यक्तसर्वपरिग्रहोऽपि त्वदुद्धृतये समागतो विनैवाह्वानं मत्तोप्यधिकाः श्रीनारद- बादरायणादयश्च समागताः इति ॥ १६ ॥
-
- । अन्वितार्थप्रकाशिका शृणुष्वेति । हे राजन् ! अवहितः साबधानस्त्वं द्वैपायनमुखात् नारदाद्देवलादपि श्रुतम् इमम् इतिहासं यथा यथाव- च्छृणुष्व तार्षः ॥ ९ ॥ * आसीदिति । हे राजन् ! शूरसेनेषु देशेषु सार्वभौमः चित्रकेतुरिति ख्यातः राजा आसीत् । यस्य मही कामधुगासीत् ॥ १० ॥ ॐ तस्येति । तस्य भार्यासहस्राणां दश सहस्राणि कोटिर्भार्या अभवन्नित्यर्थः । सान्तानिकः स्वयं सन्तानाऽपि पुत्रोत्पादनसमर्थोऽपि स नृपः तासु सन्ततिं पुत्रं न लेभे । दैवयोगेन ताः सर्वाः बन्ध्या एव मिलिताः इति भावः ।। ११ ।। * रूपेति । रूपादिभिः सर्वैर्गुणै: भूत् ॥ १२ ॥ नाभवन् ॥ १३ ॥ । तस्येति । षः । सम्पन्नस्यापि तस्य वन्ध्यापतेः पुत्रं विना चिन्ताऽ नेति । सार्वभौमस्यापि तस्य सर्वाः सम्पदः वामलोचना: मनोहरनेत्रा महिष्यः इयं भूख प्रीतिहेतवो तस्येति । भगवानङ्गिरा ऋषिरेतान् लोकाननुचरन् यदृच्छया भगवत्प्रेरणया एकदा तस्य चित्रकेतोर्भवनमुपागच्छत् ॥ १४ ॥ ॐ तमिति । तमङ्गिरसं प्रत्युत्थानादिभिर्विधिवत्पूजयित्वा कृतातिथ्यं सुखमासीनं स्वयमपि राजा समाहितः संयतः उपासीदत् तस्य समीपमुपविवेश ॥ १५ ॥ ॐ ॐ महर्षिरिति । हे महाराज ! महर्षिः प्रश्रयावनतं क्षितौं उपासीनं तं प्रतिपूज्य सत्कृत्य समाभाष्य सम्बोध्य इदं वक्ष्यमाणमब्रवीत् ॥ १६ ॥ वीरराघवव्याख्या
तदेवाह मुनिः शृणुष्वेत्यादिनाऽध्यायश्रयेण । तावद्वत्रस्य भगवद्भक्तिर्न तज्जन्मना लब्धा किन्तु पूर्वजन्मनैवेति वक्तुं तावत् तस्य पूर्वजन्मवृत्तान्तं वक्ष्यन् तच्छ्रवणाय राजानमाज्ञापयति शृणुष्वेति ! हे राजन् ! इमं वक्ष्यमाणमितिहासं अवहित- स्समाहितचित्तो यथा यथावच्छृणु कथंभूतं द्वैपायनमुखादस्मत्पितुस्सकाशान्नारदादेवलाच श्रुतं मयेति शेषः । यथा द्वैपायना- दिभ्यः श्रुतं तथा कथयतो मत्तः शृण्विति वान्वयः । श्रुतं द्वैपायनादित्यादिनाऽस्येतिहासस्याप्तप्रणीतत्वसूचनात्केवलास्मद्बुद्धि- परिकल्पिततत्त्वशंकामूलकोऽस्मिन्नानादरः कार्य इत्युक्तं भवति ॥ ६ ॥ * तदेवेतिहासमाह आसीदित्यादिना । हे नृप ! इन्द्रेण हतो यो वृत्रः स पूर्वस्मिन् जन्मनि चित्रकेतुरिति प्रसिद्धः सार्वभौमः कृत्स्नभूमेरधिपतिः शूरसेनेषु जनपदेष्वासीत् तं विशिनष्टि-यस्य चित्रकेतोरियं मही कामधुक् काम्यन्त इति कामा इष्टार्थास्तान दोग्धि प्रपूरयतीति तथासीत् ॥ १० ॥ * * तस्य चित्रकेतोर्भासहस्राणां दश सहस्राण्यभवन् कोटिसंख्याका भार्या अभवन्नित्यर्थः । स च नृपश्चित्रकेतुः सान्तानिकः सन्ता- नापि तासु भार्यासु सन्ततिं प्रजां न लेभे न प्राप्तवान् यद्वा सान्तानिकः स्वयं सन्तानार्दोपि पुत्रोत्पादनशक्तिमानपि तासु सन्ततिं न लेभे सर्वास्ता बन्ध्या एव दैवयोगेनोद्वाहिता इति भावः ।। ११ ।। रूपेति । रूपादिभिः सर्वगुणैर्द्धमैः स्कं. ६.अ. १४ लो. ९-१६ ] अनेकव्याख्यासमलङ्कृतम् ४२१ संपन्नस्य युक्तस्यापि तस्य वन्ध्यानां सन्तानरहितानां भार्याणां पत्युरत एवं चिन्ता पुचालाभप्रयुक्ता अभूत् तत्र रूपं लावण्यमौदार्य सत्पात्रे द्रव्यविनियोगशीलत्वं वयो यौवनं जन्म सत्कुलप्रसूतत्त्वं विद्या शास्त्रजन्यं ज्ञानं ऐश्वर्य सार्वभौमत्वं श्रीभग्यभोगो- पकरणादिसम्पद् एते चिन्तारहितप्रीतिहेतवः अथाप्यपुत्रत्वमेकं सदा चिन्ताहेतुरासीदिति भावः ।। १२ ।। * * तदेवाह नेति । तस्यापुत्रत्वप्रयुक्त चिन्ताक्रान्तस्य सार्वभौमस्य चित्रकेतोः सर्वाः सम्पदः वामलोचनाः सुन्दरलोचनाः लोचनग्रहणमन्येषा- मध्यवयवानामप्युपलक्षणं महिष्यश्वेयं कृत्स्ना भूमिश्च प्रीतिहेतवो नाभवन् ॥ १३ ॥ एवं सर्वसम्पत्सु प्रीतिरहितस्य केवलं पुत्रार्थमेव चिन्तयतस्तस्य चित्रकेतोर्भवनं गृहं प्रति भगवानङ्गिरा ऋषिः सिद्धः ज्ञानकाष्ठां प्राप्तः अत एव यदृच्छया लोकाननुचरन् कदाचिदुपागतः प्राप्तः ॥ १४ ॥ * * तमागतमङ्गिरसं यथाविधि प्रत्युत्थानार्ध्यपाद्यादिभिः संपूज्या - तिथ्यं कृत्वा भोजनादिभिः सत्कृत्येत्यर्थः । सुखासनोपविष्टमङ्गिरसमुपासीदत् तस्य समीप उपविष्टवान् कथंभूतस्सन समाहितः संयतचित्तः सन् ॥ १५ ॥ * उपासीनमुपविष्टं क्षितौ प्रश्रयेणावनतं नम्रं तं चित्रकेतुं प्रतिपूज्य अहो तब विनयादि- सम्पत्तिरिति बहुसंमान्य समाभाप्य सम्भाषणाभिमुखं कृत्वा महर्षिरंगिरा इदं वक्ष्यमाणमत्रवीत् ।। १६ ।। विजयध्वजतीर्थकृता पदरत्नावली सान्तानिकः सन्तानार्थी । कस्यामपीति शेषः ॥ ११-१५ ॥ क्षितावुपासीनम् ।। १६ ।। विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी भार्यासहस्राणां दश सहस्राणि कोटिरित्यर्थः । सान्तानिकः सन्तानप्रयोजनकः न केवल विषयभोगार्थमेव तावत्यो भाय्य इति भावः ॥ ११ ॥ 3. वन्ध्यापतेरिति सर्व्वास्ता वन्ध्यापतेरिति सर्व्वारिता वन्ध्या एवं दैवयोगेन मिलिता इति भावः ।। १२-१६ ।। शुकदेवकृतः सिद्धांत प्रदीपः * मया यथा द्वैपायनादिभ्यः श्रुतं तथा मत्तस्त्वं शृणुष्व ॥ ६ ॥ * सार्वभौमः सर्वभूमिपतिः कामधुक् सर्व- कामदः ।। १० ।। * तस्य चित्रकेतोः भार्यांसहस्राणां दश सहस्राणि अभवन् कोटिसङ्ख्याकाः भार्या आसन्नित्यर्थः । स नृपः सान्तानिकः सन्तानोत्पादनापि सन्ततिं न लेभे ।। ११-१४ ।। * * तं पूजयित्वा समाहितः संयतः उपासीदत् उपविवेश ।। १५ ।। * * क्षितौ उपासीनम् ॥ १६ ॥ गोस्वामिगिरिधरलालविहिता बालप्रबोधिनी ; H हे राजनिति सम्बोधनं स्वस्नेहसूचकम् । अविहितः सावधानचित्तस्त्वमिमं वक्ष्यमाणमितिहासं यथा यथावच्छृणुष्व शृण्वित्यन्वयः । । न चेमं स्वयं कल्पयित्वा वदामि किन्तु व्यासादिमुखेन निर्द्धारितत्वादित्याह श्रुतमिति ।। ९ ।। * शूरसेनदेशेषु । वै प्रसिद्धः । नृपेति सम्बोधनेन नृपत्वान्नृपकथाश्रवणप्रसङ्गेन त्वयापि श्रुतो भविष्यतीति सूचयति ॥ १० ॥ भार्यासहस्राणां दशसहस्राणि एककोटिभार्या अभवन्नित्यर्थः । सान्तानिकः स्वयं सन्तानार्होऽपि पुत्रोत्पादनसमर्थोऽपि तासु सन्ततिं पुत्रं न लेभे । दैवयोगेन ताः सर्वा वन्ध्या एव मिलिता इति भावः ॥ ११ ॥ रूपादिभिः सर्वैर्गुणैः सम्पन्नस्यापि तस्य वन्ध्यापतेः पुत्रं विना चिन्ता अभूदित्यन्वयः ॥ १२ ॥ * सार्वभौमस्य प्राप्तसकलभूमिराज्यस्यापि तस्य सर्वाः सम्पदः वामलोचनाः मनोहरनेत्रा महिष्यः इयं भूश्च प्रीतिहेतवो नाभवन्नित्यन्वयः ।। १२ ।। भगवान् शापानुमहादौ समर्थोङ्गिरा ऋषिरेतान् लोकाननुचरन् यदृच्छया भगवत्प्रेरणया एकदा तस्य चित्रकेतोर्भवनमुपागच्छदित्यन्वयः ॥ १४ ॥ तमङ्गिरसं प्रत्युत्थानादिभिर्विधिवत् पूजयित्वा कृतातिथ्यं भुक्तवन्तं सुखमासीनं स्वयमपि राजा समाहितः संयतः उपासीदत् तस्य समीपमुपविवेशेत्यन्वयः ॥ १५ ॥ * * महर्षिस्तं प्रतिपूज्य सत्कृत्य समाभाष्य सम्बोध्य इदं वक्ष्यमाणमब्रवीदित्य- न्वयः । हे महाराजेति सम्बोधनं स्नेहसूचकम् ॥ १६ ॥ भगवत्प्रसादाचार्यविरचिता भक्त मनोरञ्जनी * तदेवाह मुनिः शृणुष्वेत्यादिनाऽध्यायत्रयेण । तावद्वृत्रस्य भगवद्भक्तिर्न तज्जन्मलब्धा किं तु पूर्वजन्मनैव लब्धेति वक्तुं तस्य पूर्वजन्मवृत्तान्तं वक्ष्यन् तच्छ्रवणाय राजानमाज्ञापयति । शृणुष्वेति । हे राजन, इमं वक्ष्यमाणम् इतिहासम् अवद्दितः सावधानः एकाग्रचित्तः सन्निति यावत् । यथा यथावत् शृणुष्व । प्रामाण्यार्थमितिहासं विशिनष्टि । द्वैपायनमुखा श्रीमद्भागवतम् [ स्कं. ६ अ. १४ श्लो. १७-२४ र्मुखान, तथा नारदान्, तथा देवलादेवलमुनेः सकाशादपि मया श्रुतं द्वैपायनादिभ्यो मया यथाश्रुतं तथाविधमेवं कथयतो मत्तः शृण्वत्यर्थः । द्वैपायनादित्यनेनास्याप्तवाक्यत्वं सूचितं, तेन चायं केवलास्मद्बुद्धिकल्पितत्वशङ्कामूलको नास्मिन्न- नादरः कार्य इत्यपि ज्ञापितमिति बोध्यम् ॥ ९ ॥ ४ तमेवेतिहासमाह । आसीदित्यादिना । हे नृप, इन्द्रेण हतों यो सृत्रः स पूर्वजन्मनीति शेषः । शूरसेनेषु देशविशेषेषु चित्रकेतुः इति ख्यातः चित्रकेतुनाम्ना जगत्प्रसिद्धः, सार्वभौमः सर्वस्या भुवः, राजा आसीत् वै । यस्य चित्रचेतोः, मही सकलापि पृथ्वी, काम्यन्ते इति कामा दृष्टार्थास्तान दोग्धि प्रपूरयतीति कामधुक् आसीत् ॥ ११ ॥ तस्येति तस्य चित्रकेतोः, भार्या सहस्राणां दश सहस्राणि, अभवन् । सहस्रस्य दश- सहस्रेण गुणेन कृते एककोटिः स्यादतः कोटिसंख्याका भार्या अभवन् इत्यर्थः । नृपः स चित्रकेतुर्भूपतिश्च सांतानिकः संतानार्थः सन्नपि, , तासु संतति न लेभे । दैववशात् सर्वास्ता वन्ध्या एवैकत्र संगता आसन्निति भावः ॥ ११ ॥ * रूपेति । रूपं लावण्यं च औदार्य सत्पान्ने द्रव्यविनियोगशीलता च वयो यौवनं च जन्म सतकुलप्रसूतत्वं च विद्या शाखजन्यं ज्ञानं च ऐिश्वर्य सार्वभौमता च श्रीभग्यभोगोपकरणादिमहासंपच ता आदयो येषां तैः श्यादिभिरिति वक्तव्ये । गुणैः, संपन्नस्यापि तस्य, वन्ध्यापतेः सतः, चिन्ता चन्ता अभूत् । । पुत्राप्राप्तिप्रयुक्ता चिन्ता अभवदित्यर्थः ॥ १२ ॥ * * एतदेव स्पष्ट- भिरिति छान्दसम् । सर्वः माह । नेति । तस्यापुत्रत्वप्रयुक्तचिन्तैका चित्रकेतोर्नृपस्य सर्वाः संपदः वामलोचनाः सुन्दरेक्षणाः, लोचन- ॥
- । । । सुन्दरताग्रहणमन्येषामवयवानां सुन्दरताया अप्युपलक्षणम् । सर्वा: महिष्यः, इयं भूः कृत्ला भूमिश्र, एताः प्रीतिहेतवः, प्रसन्नता- कारणभूताः, न अभवन् ॥ १३ ॥ तस्येति । तस्य सर्वसंपदादिषु प्रीतिरहितस्य केवलं पुत्रार्थमेव चिन्तयतश्चित्र- केतोरित्यर्थः । भवनं गृहं प्रति, एकदा तु, भगवान् महेश्वर्यसंपन्न:, अङ्गिराः ऋषिः, सिद्धज्ञानकाष्ठां प्राप्तो मुनिः, एतान् लोकान् अनुचरन् सन्, यदृच्छया दैवेच्छावशतः, उपागच्छत् उपायात् ॥ १४ ॥ तमिति । तं स्वगृहागतमङ्गिरसं मुनिं विधिवद्यथाविधि, प्रत्युत्थायाभ्युत्थानादिना संमान्य, अर्हणादिभिः अर्घ्यपाद्यादिपूजाविधिभिः, पूजयित्वा संपूज्य, आतिथ्यं भोजनादिना अतिथिसतक्रियां कृत्वा, सुखासीनं सुखोपविष्टमङ्गिरसं समाहितः संयतचित्तः सन् उपासीदत् तस्य समीपे उपविष्टवानित्यर्थः । प्रत्युत्थानार्हणादिभिः कृताविभ्यमिति पाठे, प्रत्युत्थानार्हणादिभिः तं विधिवत् पूजयित्वा कृतातिथ्यं तमिति योजना ।। १५ ।। * * महर्षिरिति । हे महाराज, महर्षिरङ्गिराः, क्षितौ भूमौ, उपासीनं स्वसमीपे समुपविष्टं, प्रश्रयाबनतं विनयेनावनताङ्ग, तं चित्रकेतुं प्रतिपूज्य अभिनन्द्य, संबोध्य, इदं वक्ष्यमाणम्, अब्रवीत् ॥ १६ ॥ श्रम के भाषानुवादः श्रीशुकदेवजी ने कहा- परीक्षित्! तुम सावधान होकर यह इतिहास सुनो। मैंने इसे अपने पिता व्यासजी, देवनि प्राचीन कालकी बात है, शूरसेन देशमें चक्रवर्ती स्वयं ही प्रजाकी इच्छा अनुसार अन्न- रस दे दिया नारद और महर्षि देवलके मुँह से भी विधिपूर्वक सुना है ॥ ६ ॥ सम्राट् महाराज चित्रकेतु राज्य करते थे । उनके राज्यमें पृथ्वी स्वयं ही ॥ करती थी ॥ १० ॥ * * उनके एक करोड़ रानियाँ थी और ये स्वयं सन्तान उत्पन्न करने में समर्थ भी थे । परन्तु उन्हे उनमें से किसीके भी गर्भसे कोई सन्तान न हुई ॥ ११ ॥ ॐ यों महाराज चित्रकेतुको कोई बातकी कमी न थी । सुन्दरता, उदारता, युवावस्था, कुलीनता, विद्या, ऐश्वर्य और सम्पत्ति आदि सभी गुणोंसे वे सम्पन्न थे। फिर भी उनकी पनियाँ बाँझ थीं, इसलिये उन्हें बड़ी चिन्ता रहती थी ॥ १२ ॥ वे सारी पृथ्वीके एकछत्र सम्राट् थे, बहुत-सी सुन्दरी रानियाँ थीं तथा सारी पृथ्वी उनके वशमें थी। सब प्रकारकी सम्पत्तियाँ उनकी सेवामें उपस्थित थीं, परन्तु वे सब वस्तुएँ उन्हें सुखी न कर सकीं ॥ १३ ॥ * * एक दिन शाप और वरदान देनेमें समर्थ अङ्गिरा ऋषि स्वच्छन्दरूपसे ।। ।। ६ विभिन्न लोकोंमें विचरते हुए राजा चित्रकेतुके महल में पहुँच गये ॥ १४ ॥ * * राजाने प्रत्युत्थान और अर्ध्य आदिसे उनकी विधिपूर्वक पूजा की आतिथ्य सत्कार हो जानेके बाद जब अङ्गिरा ऋषि सुखपूर्वक आसनपर विराज गये, तब सजा चित्रकेतु भी शान्त भावसे उनके पास ही बैठ गये ।। १५ ।। महाराज ! महर्षि अङ्गिराने देखा कि यह राजा बहुत विनयी है और मेरे पास पृथ्वीपर बैठकर मेरी भक्ति कर रहा है। तब उन्होंने चित्रकेतुको सम्बोधित करके उसे आदर देते हुए यह बात कही ।। १६ ॥ अङ्गिरा उवाच अपि तेऽनामयं स्वस्ति प्रकृतीनां तथाऽऽत्मनः । यथा प्रकृतिभिर्गुप्तः पुमान् ‘राजापि सप्तभिः ।। १७ ।। आत्मानं प्रकृतिष्वद्धा निधाय श्रेय आप्नुयात् । राज्ञा तथा प्रकृतयो नरदेवाहिताधयः ।। १८ ।। १. प्रा० पा० राजा च । । अनेकव्याख्यासमलङ्कृतम् स्. ६ अ. १४ श्लो. १७-२४ ] ** अपि दाराः प्रजामात्या भृत्याः श्रेण्योऽथ मन्त्रिणः । पौरा जानपदा भूषा आत्मजा वशवर्तिनः ।। १९ ।। यस्यात्मानुवशश्चेत्स्यात्सर्वे तद्वशगा इमे । लोकाः सपाला यच्छन्ति सर्वे बलिमतन्द्रिताः ।। २० । आत्मनः प्रीयते नात्मा परतः स्वत एव वा । लक्षयेऽलब्धकामं त्वां चिन्तया शबलं सुखम् ॥ २१ ॥ एवं विकल्पितो राजन् विदुषा सुनिनापि सः । प्रश्रयावनतोऽभ्याह प्रजाकाम स्ततो मुनिम् ।। २२ ।। e 3 स चित्रकेतुरुवाचा । भगवन् किं न विदितं तपोज्ञानसमाधिभिः । योगिनां ध्वस्तपापानां बहिरन्तः शरीरिषु ।। बहिरन्तःशरीरिषु ॥ २३ ॥ ॥ तथापि पृच्छतो ब्रूयां ब्रह्मन्नात्मनि चिन्तितम् । भवतो विदुषश्वापि चोदितस्त्वदनुज्ञया ॥ २४ ॥ भिमा की कष्णप्रिया व्याम को मिटाक अन्वयः एकीक
४२३ अनामयम् अपि प्रकृतीनाम् तथा आत्मनः स्वस्ति पुमान् यथा सप्तभिः प्रकृतिभिः गुप्तः राजा अपि ॥ १७ ॥ *
- प्रकृतिषु आत्मानम् अद्धा श्रेयः आप्नुयात् तथा नरदेव राज्ञा आहिताधयः प्रकृतयः ।। १८ ।। दाराः प्रजामात्याः भृत्याः श्रेण्यः अथ मंत्रिणः पौराः जानपदाः भूपा: आत्मजाः वशवर्तिनः अपि ॥ १६ ॥ * * यस्य ॥ आत्मा अनुवशः स्यात् चेत् इमे सर्वे तद्वशगाः सपालाः सर्वे लोकाः अतन्द्रिताः बलिं यच्छन्ति ॥ २० ॥ आत्मना न प्रीयते परतः वो स्वतः एव अलब्धकामम् त्वाम् लक्षये मुखम् चितया शबलम् ॥ २१ ॥ एवम् विदुषा मुनिंना अपि विकल्पितः प्रश्रयावनतः प्रजाकामः स मुनिम् अभ्याह ॥ २२ ॥ समाधिभिः ध्वस्तपापानाम् योगिनां शरीरिषु अन्तः बहिः न विदितम् किम् ॥ २३ ॥ तथा अपि पृच्छतः भवतः विदुषः च अपि आत्मनि चिन्तितम् ब्रूयाम् ।। २४ ।। || || श्रीधरस्वामिविरचिता भावार्थदीपिका आत्मा राजन् ततः भगवन् तपोज्ञान- ब्रह्मन् त्वदनुज्ञया चोदितः अपि किम् । अनामयमारोग्यम् तथात्मनः तव प्रकृतीनां स्वस्ति शुभं किम् । प्रकृत्यधीनमेव हि राज्यमिति सदृष्टांतमाह । यथा महदाद्याभिः सप्तभिः प्रकृतिभिः पुमान् जीवो नित्यं गुप्तो भवति न तु तद्व्यतिरेकेण क्षणमपि तिष्ठति तथा राजाऽपि सप्तप्रकृतिभिः “स्वाम्यमात्यो जनपदा दुर्गद्रविणसंचयाः । दंडो मित्रं च तस्यैताः सप्त प्रकृतयो मताः । " इत्युक्तलक्षणाभिर्नित्यं गुप्तः सन् श्र ेय आप्नुयात् इत्युत्तरेणान्वयः । तत्र स्वामी गुरुः स्वयं वा ।। १७ ।। * * आत्मानं प्रकृतिष्वद्धा साक्षान्निधाय तदनुवर्तिनं कृत्वा श्रेयो राज्यसुखं प्राप्नुयादित्यर्थः । प्रकृतीनां च सुखं राजाधीनमेवेत्याह । हे नरदेव तथा प्रकृतयोऽपि राज्ञा आहिताधयो निहितनिक्षेपा धनैः समृद्धा भवंति । पाठांतरे आ समंततो हताध्यो निरस्तमनोदुःखा भवंतीत्यर्थः ।। १८ ।। * * प्रजाश्च अमात्याश्च श्र ेण्यश्च समयविशेषेण संघशो वर्तमाना वणिक्प्रभृतयः । पौराः पुरवासिनः । जानपदास्तत्तद्देशाधिकारिणः मंत्रसहायो मंत्री कर्मसहायोऽमात्य इति भेदः ॥ १९ ॥ तव मनः स्ववशे वा न वेत्यर्थात्पृच्छति । यस्यात्मा मनोऽनुवशोऽनुवर्ती अधीनः स्यात्तस्य वशगा दारादय इमे सर्वे भवंति । किं च लोकाश्च तस्य बलिं यच्छंति ॥ २० ॥ ४ आत्मा भवान् आत्मना न प्रीयते न तुष्यति तत्किम् । परतो वा स्वतो वाऽलब्धकामं त्वां लक्षये ।। २ ।। * * विदुषा
-
- विदुषा सर्वज्ञेनापि ॥ २२ ॥ सर्वज्ञेनापि ॥ २२ ॥ * * अलब्धकामत्वं कथयन्पुत्रं याचते भगवन्निति चतुर्भिः ।। २३-२४ ।। R .. वंशीधरकृतो भावार्थदीपिकाप्रकाशः पाक 1 शुभं मंगलम्। सप्तभिर्महदहंकारपञ्चतन्मात्राभिः। तद्वद्यतिरेकेण सप्त प्रकृतीर्विहायेत्यर्थः । गुरोः स्वस्योपास्यत्वा- त्प्रकृतिषु गणना नोचिताऽत आह—स्वयं वा राजैवेत्यर्थः । वस्तुतो राज्ञोऽन्यो न रक्षकस्तस्य स्वयमेव स्वरक्षासमर्थत्वात् “न चान्यतस्तस्य शरीररक्षा स्ववीर्यगुप्ता हि मनोः प्रसूतिः” इति रघुवंशोक्तन्यायेन ॥ १७ ॥ इति । इति प्रकृत्याननुकूल्ये राज्ञो महद्दुःखं भवतीति भावः । हे नरदेवेति । विना प्रकृत्यानुकूल्यं सर्वत्र स्वयं । प्रा० पछि पौरजानपदा । २. प्रा० पी० राजा । ३. प्रा० पा० - मस्तु तं मु० ।
- ४२४
- श्रीमद्भागवतम्
- [ स्कं. ६ अ. १४ लो. १७-२४ व्यप्रत्वान्नरदेवक्त्वमेव न सिध्यतीति भावः । पाठांतरे आहताधय इति पाठे । इत्यर्थ इति व्याख्या ।। १८ - १६ ।। * * पालैरिंद्रादिभिः सहिता लोकाः ‘मनोवशेऽन्ये ह्यभवन्स्म देवाः’ इत्यारभ्य ‘युंज्याद्वशे तं स हि देवदेवः’ इत्यंतेन श्रीकृष्णो वक्ष्यति मनोजेतुस्सर्वदेवोत्तमत्वमेकादशे । किं च । स्वमनसो वशवर्तित्वे भृत्यादयोऽपि स्ववशगा भवंति अन्यथा कोपलोभाद्यधीनस्य तव क्रोधादिना विमनस्कीकृता भृत्यादय उक्तकारिणो न भवतीति भावः ।। २० ।। आत्मना मनसा चिंतया मुखं शबलं पीतं च लक्षये ॥ २१ ॥ ॐ ॐ विकल्पितः पूर्वोक्तविकल्पपूर्वकं पृष्टः ॥ २३ ॥ हे भगवन्निति । योगै- श्वर्यसंपन्नत्वाद्भवान्सर्वं वेत्तीति भावः । तपोज्ञानसमाधिभिस्स्वधर्मस्थितिशास्त्रविचारचित्तैकाग्र्यैर्ध्वस्तपापानां योगिनां युष्मा- दृशाम् शरीरिष्वस्मादृशेषु यद्बहिरंतश्चितितं तत्किन्न विदितमपि तु सर्व विदितमेवेत्यर्थः ॥ २३ ॥
- यद्यपि त्वं सर्व जानास्येव तथापि पृच्छतो भवतः ब्रह्मन्नित्यनेन मदिष्टसंपादनसमर्थोसीति सूचितम् ॥ २४ ॥
- अन्वितार्थप्रकाशिका
1 अपीति । अपि किं ते तवात्मनः शरीरस्यानामयमारोग्यमस्ति स्वस्ति शुभमस्ति तथा प्रकृतीनामपि अनामयं स्वस्त्यस्ति किम् । तथा सप्तभिः प्रकृतिभिः महदहङ्कारपञ्चसूक्ष्मभूतरूपैर्गुप्तः पुमान् जीवः नित्यं गुप्तो भवति न तु ता विना क्षणमपि तिष्ठति तथा राजापि सप्तभिः । “स्वाम्यमात्यजनपदा दुर्गद्रविणसंचयाः । दण्डो मित्रं च यस्यैताः सप्त प्रकृतयो मताः ।” इत्युक्तलक्षणाभिर्गुप्त एव सुखमनुभवति नान्यथा स्वामी स्वयम् ॥ १७ ॥ * * आत्मानमिति । हे नरदेव ! आत्मानं प्रकृतिषु अद्धा साक्षान्निधाय तदनुवर्तिनं कृत्वा राजा श्रेयो राज्यसुखमाप्नुयात् तथा प्रकृतयोऽपि राज्ञा आहिताधयः निहितनिक्षेपाः धनतुरगहस्त्यादिभिः समृद्धा भवन्ति । आहताधय इति पाठे आ समन्ततो हताधयो निरस्तमनोदुःखा भवन्ति ॥ १८ ॥ * अपीति । दाराः प्रजाश्च अमात्याश्च भृत्याः श्रेण्यः समयविशेषेण सङ्घशो वर्त्तमाना स्तैलिकताम्बू- ठिकादयः वणिग्विशेषाः पौराः पुरवासिनः जानपदाः तत्तद्देशाधिकारिणो भूपाः खण्डमण्डलपतयः आत्मजाः पुत्राश्चापि किन्ते वशवर्तिनः सन्ति ॥ १९ ॥ तव मनः स्ववशेऽस्ति न वेत्याशयेनाह —-यस्येति । यस्य आत्मा मनः अनुवश: अनुवर्त्ती स्वाधीनःश्चत् स्यात्तदा इमे सर्वे दारापत्यादयस्तद्वशगाः तद्वशवर्त्तिनो भवन्ति । किं च सपाला लोकाः अतन्द्रिता निरलसाच सन्तो बलि पूजां यच्छन्ति भृत्यादीनां का वार्त्ता ॥ २० ॥ तदाऽप्यब्रुवाणं राजानं पुनराह - आत्मन इति । * * । आत्मनस्तवात्मा मनः न प्रीयते न तुष्यति । तत्किमर्थमिति शेषः । परतो वा स्वतो वा न लब्धः कामो मनोरथो येन तथा- भूतमेव त्वामहं लक्षये जानामि । अत एव तव मुखं चिन्तया शबलं व्याप्तं लक्षये ॥ २१ ॥ * * एवमिति । हे राजन् ! विदुषा सर्वज्ञेनापि मुनिना त्वन्मुखात्तद्वृत्तं श्रोतुमेवं विकल्पितः विविधप्रश्नविषयीकृतः स प्रजाकामः चित्रकेतुः प्रश्रयेणावनतः सन् मुनिमभ्याह स्म ।। २२ ।। भगवन्निति । हे भगवन् सर्वज्ञ ! तपोज्ञानसमाधिभिर्ध्वस्तं निरस्तं पापमन्तः करणा- वरकं कालुष्यं येषां तेषां योगिनां भवतां शरीरिषु अस्मदादिषु बहिरन्तर्यदवस्थितं तत्कि न विदितं सर्व विदितमेवेत्यर्थः ॥ २३॥ तथापीति । हे ब्रह्मन् ! यद्यपि तवाविदितं किंचिन्नास्ति अथाप्यात्मनि मनसि चिन्तितं संकल्पितं ब्रूयाम् । भवत इति षष्ठी तृतीयार्थे । यतो विदुषापि पृच्छता भवता त्वयाऽहं प्रश्नेन चोदितोऽतस्त्वदनुज्ञया वक्तव्यमेवेति शेषः । यद्वा भवतोऽ- हमाज्ञाकारी ।। २४ । 201
॥ वीरराघव व्याख्या ار بدید तदेवाह - अपीति । अपिशब्दः कुशलप्रश्नद्योतकः ते तवानामयमारोग्यमप्यस्ति किलेति प्रश्न: आत्मनां स्वसम्बन्धिनीनां प्रकृतीनां स्वाम्यमात्यसुहृत्कोशराष्ट्रदुर्गबलात्मकानां सप्तानामपि स्वस्ति ननु ? सर्वस्मिन्सति विशेषेण प्रकृतीनां स्वस्ति कथं पृच्छतीत्यत्राह यथेति सप्तभिः । प्रकृतिभिर्महदहङ्कारतन्मात्रैर्यथा पुमान् जीवः गुप्तः रक्षितो भवति प्रकृत्यायत्तस्सुखी भवति ॥ १७ ॥ * तथा राजापि स्वाम्यादिषु सप्तसु प्रतिष्ठाप्याऽऽत्मानं साक्षान्निधायात्मानं प्रकृत्यधीनं कृत्वे- त्यर्थः । श्रेयः सुखं प्राप्नुयात् राज्यभारं प्रकृतिषु निधाय निर्भर: सुखान्यनुभूयादित्यर्थः । अतः प्रकृतीनामेव तावत्स्वस्ति पृच्छा- मीति भावः । एवं राज्ञः श्रेयः प्रकृत्यधीनमित्युक्तम् अथ प्रकृतीनां श्रेयो राजाधीनमित्याह राज्ञेति । हे नरदेव, तया प्रकृतयोपि राज्ञा हेतुना हितादयः हितमिष्टमादिशब्दादनिष्टपरिहारश्च येषां तादृशा भवन्ति आहताधय इति पाठे आ समन्ताद्धता आधयः येषां निरस्तमनोदुःखा भवन्तीत्यर्थः ॥ १८ ॥ * * एवं राज्ञः प्रकृतीनां चान्योन्यश्रेयः प्रापकत्वमुक्तम् । ननु, यदि, राज्ञः श्रेयः प्रकृत्यधीनं तर्हि राज्ञः स्वातन्त्र्यभङ्गस्तत्राह अपीति । यस्य राज्ञो दाराः भार्याः प्रजाः अमात्याः कर्मसहायाः श्रेण्यः ताम्बूलिकादयः मन्त्रिणः मन्त्रेषु सहायभूताः मित्राणि पौराः पुरवासिन: जानपदा देशान्तराधिपतयो भूपा आत्मजाश्च वशवर्तिनः वशङ्गताः स एव प्रकृतिष्वात्मानं निधाय श्रेयः आप्नुयादित्यर्थः ॥ १६ ॥ * * कस्यैते वशवर्त्तिनः स्युस्तत्राह एकं. ६ अ. १४ लो. १७-२४] अनेकव्याख्या समलङ्कृतम् ४२५ यस्येति । यस्य राज्ञः आत्मा मनोऽनुवशः: विशङ्गतः न तु विषयपरस्स्याजितेन्दियस्येति भावः । तस्यैव वशङ्गताः सर्वे इमे पूर्वोक्ता दारादय: पालकैस्सहिताः सर्वे लोकाश्चातन्द्रिताः जागरूका सन्तो बलि हरन्ति । यद्वा यस्यात्मानुवश प्तस्यैवेमे सर्वे दारादयो वशङ्गताः यस्येमे दासदयो वशङ्गतास्तस्यैव सर्वे लोकाः सपाला बलिं हरन्तीतिवान्त्रयः । उपायनसमर्पणद्वारा सेवन्त इत्यर्थः ।। २० ।। * * त्वदुक्तरीत्या जितेन्द्रियस्य मम सर्व वशे वर्त्तत इति चेत्तर्ह्य सन्तोषस्तव कुत इत्याह-आत्मन इति । आत्मनः स्वस्य तवात्मा मनः न प्रीयते न तुष्यति तत्कि परतो वा स्वतो वा हेतोः कथमसन्तोषो ज्ञायते ममेत्यत्राह- अलब्धकाममप्राप्ताभिलषितं त्वां लक्षयेऽनुपश्यामि तत्कुतः यतश्चिन्तया तव मुखं शबलं विच्छायमनाल्हादमुपलक्ष्यते ।। २१ ।। एवमङ्गिरसा पृष्टश्चित्रकेतुः स्वमनीषितं विज्ञापितवानित्याह मुनिः - एवमिति । विदुषा चित्रकेतोरभिप्रेतब्जान- । तापि मुनिना एवम् इत्थं विकल्पितः स्वतः परतो वा तवासन्तोष इत्येव विकल्पपूर्वकं पृष्टः चित्रकेतुः प्रजाकामः पुत्रं कामयमानः तावत्प्रश्रयेण विनयेन नम्रः मुनिमङ्गिरसमाह ।। २२ ।। * * तदेवाह – भगवन्नित्यादिना, तद्विधेहि न इत्यन्तेन । हे भगवन्, तपोज्ञानसमाधिभिः कर्मयोगज्ञानयोगभगवद्भक्तियोगैः ध्वस्तं निरस्तं पापं ज्ञानावरकं पुण्यपापात्मकं कर्म यैस्तेषां भवादृशानां योगिनां देहिष्वन्तर्बहिश्चाविदितं किन्वस्ति शरीरिणामन्तर्बाह्यगतं च भवद्भिः सर्व विदितमेवेत्यर्थः ।। २३ ।। तथापि सर्वज्ञस्य ज्ञातत्वैपि हे ब्रह्मन्, आत्मनि मदन्तःकरणे चिन्तिमर्थं पृच्छतस्तव नयां कथयामि कथंभूतः विदुषा चापि मदभिप्रेतं जानताऽपि भवता चोदितोऽभिप्रेतकथनाय प्रेरितः त्वदनुज्ञया ब्रूयां यद्यनुज्ञापयसि तर्हि ब्रूयामिति स्वस्य विनयादि- सम्पत्तिस्सूचिता ।। २४ ॥ ते विजयध्वजतीर्थकृता पदरत्नावली का मंत्राह-यवानामयमपि दुःखं नास्ति हि तथात्मनस्तव प्रकृतीनां स्वस्ति किमित्यन्वयः । प्रकृतिविषयकुशलप्रश्नेन किं प्रयोजन- । यथा सप्तभिः प्रकृतिभिः महदहङ्काराभ्यां पृथिव्यादिभिः पञ्चभिर्भूतैर्गुप्तः पुमान् जीवः ॥ १७ ॥ * * प्रकृतिषु देहहेतुषु आत्मानमद्धा निधाय श्रेयः प्राप्नोति तथा रोजा च प्रकृतिशब्दवाच्यै राजजनैः रक्षितः तेषु राज्यभारं निधाय विहितं श्रेय आप्नुयादित्यन्वयः । तथा प्रकृत्यादयो यस्य राज्ञो वशवर्तिनः स्युः आत्मा मनश्चानुवशश्वत्तर्हि ते सर्वे लोकास्तस्य राज्ञो वशगाः तस्मै बलिं यच्छन्तीत्यन्वयः । आत्मा स्वयं प्रकृत्यादेर्वशवर्ती चेत् प्रकृत्यादेरात्मवशत्वाभावेन अनर्थस्य कारणभूता भवन्तीत्याह- अहितादय इति । अतो वशीकर्तव्या इत्यर्थः । आहितादय इति वा आदित एव हितकर्तृत्वेन निहिताः अनेन प्रकृत्यादीनां गुणो दर्शितः । “स्वाम्यमात्यो जनपदो दुर्गं द्रविणसञ्चयः । दण्डो मंत्री च सप्तैतास्तस्य प्रकृतयः स्मृताः इति । बुद्धिसहायो मंत्री कर्मसहायोऽमात्यः यथा प्रकृतिगुप्तो राजा सुखमश्नुते तथा राज्ञा सन्तोषिताः प्रकृतयः राज्ञः सन्तोषहेतवो भवन्ति अन्यथाऽहितादयः अहितस्यासन्तोषस्य आदयः कारणभूता भवन्तीति योगविभागो वा ॥ १८ ॥ * हे राजन् ! दारसुतादयश्च तव वशवर्तिनोपि अनुकूलतया वर्तन्ते कि ? आत्मा मनश्च वशवर्ति किम् ।। १९ ।। मनसो वश-
- बर्तित्वे किं फलमत्राह-यस्येति । मनसः स्ववशवर्तित्व मृत्यादयोपि स्ववशा । मनसः स्ववशवर्तित्वे मृत्यादयोपि स्ववशा भवन्ति अन्यथा कोपलोभाद्यधीनस्य तव क्रोधादिना विमनसीकृता भृत्यादय उक्तकारिणो न भवन्ति अतो मनसश्च वशवर्तित्वं क्रोधाद्यभावफलं क्रोधाद्यकरणे भृत्यादिवशी- करणम् ॥ २० ॥ * * किञ्च प्रपञ्चापि भवदायत्त इत्याह-आत्मन इति । आत्मा प्रपञ्चोपि आत्मनस्तव प्रीतये स्यादि- त्यन्वयः । अस्त्वेवमिदं सर्व भवन्मनसि किं प्रतीयत इति तत्राह परत इति । अहं त्वां स्वतः परतो वाऽलब्धकाम मप्राप्तकामं त्वां लक्षये पश्यामि केन लिङ्गेनेत्यत उक्त चिन्तयेति शबलमलक्षणम् ॥ २१ ॥ * * एवं विकल्पितः सन्ततिनिमित्तं दुःखं विदुषा प्रश्रयलक्षणगुणेनावनतः प्रह्नः ।। २२-२३॥ आत्मनि मनसि ॥ २४ ॥ ik जीवगोस्वामिकृतः क्रमसंदर्भः यतस्तव मुखं चिन्तया शबलं लक्ष्यते ॥ २१ ॥
- विकल्पितो विविधकर्म्मणा विषयीकृतः ।। २२-२३ ॥ ।। यतश्चोदितो नोदितस्ततस्त्वंदनुज्ञया ब्रूयाम् ।। २४-२६॥ विश्वनाथचक्रवतिकृता सारार्थदर्शिनी अपि किमनामयमारोग्यं स्वस्ति शुभं प्रकृतीनाममात्यादीनां राज्ञः सुखममात्यादिसुखाधीनमेव अमात्यादिसुखमपि राजसुखाधीनमिति सदृष्टान्तमाह-यथा महदादिभिः प्रकृतिभिः सप्तभिः पुमान् जीवो नित्यं गुप्तो भवति न तु तद्वयतिरेकेण क्षणमपि तिष्ठति तथा राजापि सप्तभि: स्वाम्यमात्यसुहृत् कोश राष्ट्रदुर्गबलैः स्वाम्यत्र गुरुः ॥ १७ ॥ * राजा आत्मानं स्वप्रकृतिषु निधाय आत्मसर्व्वभावं निक्षिप्य इत्यर्थः । श्रेयः राज्यसुखम् नरदेवे राजन्येव आहितः अर्पितः आधिः धनतुरग- ५४ ४२६ श्रीमद्भागवतम् [ स्कं. ६ अ. १३ श्लो. १७-२४ हस्त्यादितृष्णामूला मनःपीडा यैस्तै राज्ञा गुप्ता आहताधय इति पाठे नरदेवेन नाशितमनोदुःखाः श्रेय आप्नुयुः ॥ १८ ॥ ** किञ्च राज्ञोपि यद्याज्ञाकारिणः सर्वजनाः स्युस्तदेव सुखमित्याह- अपीति । श्रेण्यस्तैलिकताम्बूलिकादयः ।। १६ ।। * * तव मनः स्ववशं न वेत्यर्थात् पृच्छति - वस्येति । अनुवश: अनुवर्त्ती अधीनः ।। २० ।। * तदप्यब्रुवाणं राजानं पुनराह -तब आत्मनो देहस्यात्मा स्वत एव वा परत एव हेतोर्वा न प्रीयते सुखमेवास्मीति चेन्नहीत्याह लक्षय इति ।। २१ ।। विकल्पितः विविधविकल्पविषयीकृतः विदुषा सर्व्वज्ञेनापि तन्मुखादेव तद्दुःखं श्रोतुमिति भावः ।। २२ ।। शरीरिष्वस्मद्विधेषु ॥ २३ ॥ * * पृच्छतो भगवतोऽहमाज्ञाकारीत्यर्थः । आत्मनि मनसि चिन्तितं चिन्ताम् ॥ २४ ॥
शुकदेवकृतः सिद्धांतप्रदीपः अपि किं तवात्मन: प्रकृतीनां चानामयमारोग्यमस्ति यथा पुमान् जीवः महदहङ्कारतन्मात्ररूपाभिः देहादिरूपेण परिणताभिः सप्तभिः प्रकृतिभिर्गुप्तः स्वस्ति सुखं प्राप्नोतीति शेषः । तथा राजा च “स्वाम्यमात्यो जनपदा दुर्गद्रविणसञ्चयाः । दण्डो मित्रं च तस्येमाः सप्त प्रकृतयो मताः” इति सप्तप्रकृतिभिर्गुप्तः स्वस्ति प्राप्नोतीत्यन्वयः ॥ १७ ॥ आत्मानं प्रकृतिषु अद्धा साक्षान्निधाय श्रेयः राज्यमुखादिकं स्वष्टमाप्नुयात् तथा प्रकृतयोपि राज्ञा आहताधयो बाधितमनोव्यथास्सत्यः श्रेयः प्राप्नुवन्ति ॥ १८ ॥ अपि किं दारादयो वशवर्तिनस्तवेति शेषः ॥ १६ ॥ यस्य आत्मा मनोऽनु- वोऽनुगच्छेत्स्यात् तस्य सर्वे इमे पूर्वोक्ता वशगा भवन्ति सपाला : लोकास्तस्मै बलिं यच्छन्ति भवदीयं मनो वशे वर्तते न वेति भावः ।। २० ।। * आत्मनस्तव आत्मा चित्तं यन्न प्रीयते न तुष्यति तकि स्वतः परतो वा यतस्त्वाम् अलब्धकाम- मप्राप्तमनोरथं लक्षये तत्र हेतुः तव मुखं शबलं निष्प्रभमस्ति ।। २१ ।। * * विदुषा तद्वृत्तज्ञेनापि एवं विकल्पितः तन्मुखेन तद्वृत्तोद्घाटनार्थम् । प्रजाकामः पुत्रकामः ।। २२ ।। यच्छरीरिणां बहिरन्तस्तद्योगिनां भवतां किं न विदितं सर्व विदितमेवेत्यर्थः ॥ २३ ॥ * आत्मनि मनसि ॥ २४ ॥ गोस्वामिगिरिधरलाल विहिता बालप्रबोधिनी ॥ अपि किं ते तवात्मनः शरीररस्यानामयमारोग्यमस्ति ? स्वस्ति शुभमस्ति ? तथा प्रकृतीनामपि अनामयं स्वस्त्यस्ति किम् ? राज्ञां राज्यं प्रकृग्रवीनमेवेति दृष्टान्तमाह-यथेति । यथा सप्तभिः प्रकृतिभिर्महदहङ्कारपञ्चभूतरूपैर्गुप्तः पुमान् जीव: सुखमनुभवति तद्व्यतिरेकेण केवलस्य तदनुभवाभावात् । तथा राजापि सप्तभिः ‘स्वाम्यमात्यजनपदा दुर्गद्रविणसञ्चयाः । दण्डो मित्रं च तस्यैताः सप्त प्रकृतयो मता’ इत्युक्तलक्षणाभिर्गुप्त एव सुखमनुभवति नान्यथेत्यन्वयः । स्वामी गुरुः । मन्त्रसहायो मित्रम् । कर्मसहायोऽमात्य इति भेदः ॥ १७ ॥ उक्तमेव स्पष्टयति- आत्मानमिति । आत्मानं प्रकृतिषु अद्धा साक्षान्निधाय * * । तदनुवर्तिनं कृत्वा राजा श्रेयो राज्ये सुखमाप्नुयात । प्रकृतीनामपि सुखं राजाधीनमेवेति तैरपि राजाधीनतयैव वर्तितव्यमि - त्याशयेनाह - तथा प्रकृतयोऽपि राज्ञा आहिताधयः निहितनिक्षेपाः धनतुरगहस्त्यादिभिः समृद्धा भवन्ति । आहताधय इति पाठे आ समन्ततो हताधयो निरस्तमनोदुःखा भवन्तीत्यर्थः । तवापि राजत्वाद्विदितमेवैतदिति सूचयन् सम्बोधयति — हे नरदेवेति ॥ १८ ॥ * * यदि दारादयो वशवर्त्तिन तदैव सुखं भवति नान्यथेति तत्पृच्छति - अपीति । दाराः प्रजाश्च अमात्याश्च भृत्याः श्र ेण्यः समयविशेषेण सङ्घशो वर्त्तमाना वणिग्विशेषाः पौराः पुरवासिनः जानपदाः तत्तद्देशाधिकारिणः भूपाः खण्डमण्डलपतयः आत्मजाः पुत्राश्चापि किं ते वशवर्तिनो भवन्ति ? न वेत्यर्थः ॥ १९ ॥ * * तव मनः स्ववशेऽस्ति न वेति सामान्यतोऽर्थात् पृच्छति-यस्येति । यस्य आत्मा मनः अनुवश: अनुवर्ती स्वाधीनश्चेत् स्यात्तदा इमे सर्वे दारापत्यादयस्तद्वशगाः तस्य वशवर्तिनो भवन्ति । किञ्च सपाला लोका अतन्द्रिता निरलसाच सन्तो बलि पूजां यच्छन्ति ? भृत्यादीनां का वार्तेति शेषेणान्वयः ॥ २० ॥ एवं प्रभेऽप्यब्रुवाणं प्रत्याह – आत्मनः तवात्मा मनः न प्रीयते न तुष्यति तत्किमर्थमिति शेषः । परतो स्वतो वा न लब्धः कामो मनोरथो येन तथाभूतमेव त्वामहं लक्षये जानामि । केन लिङ्गेनैवं जानासीति काङ्क्षायामाह – चिन्तयेति, चिन्तया शबलं व्याप्तं मुखं तव लक्षये ।। २१ ।। * हे राजन् विदुषा सर्वज्ञेनापि मुनिना तन्मुखात्तद्वृत्तं श्रोतुमेवं विकल्पितः विविधप्रश्नविषयीकृतः स प्रजाकामश्वित्रकेतुः प्रश्रयेणावनतः सन् मुनिमभ्याहेत्यन्वयः ।। २२ ।। हे भगवन् सर्वज्ञ तपोज्ञानसमाधिभिर्ध्वस्तं निरस्तं पापमन्तःकरणावरकं कालुष्यं येषां तेषां योगिनां भवतां शरीरिषु अस्मदादिषु बहिरन्तर्यदवस्थितं तत्किं न विदितमित्यन्वयः । सर्व विदितमेवेत्यर्थः ॥ २३ ॥ यद्यपि तवाविदितं किञ्चिन्नास्ति तथाप्यात्मनि मनसि चिन्तितं सङ्कल्पितं पृच्छतो भवतो ब्रूयामित्यन्वयः । जानतोऽपि भवतोऽग्रे मया वक्तव्यमित्यत्र हेतुमाह - भवत इति षष्ठी तृतीयार्थे यतो विदुषापि भवता त्वयाऽहं प्रश्नेन चोदितोऽतस्त्व- दनुज्ञया वक्तव्यमेवेति शेषः । त्वदाज्ञापालनमेव अस्माकं परमो धर्म इति सूचयन् सम्बोधयति - हे ब्रह्मन्निति ॥ २४ ॥
: … स्कं. ६ अ. १४ श्लो. १७-२४] अनेकव्याख्यासमलङ्कृतम्- भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी ४२७ तदेवाह । अपीति । अपिशब्दः, कुशलाताप्रश्नद्योतकः । हे नृप, ते तव, अनामयमारोग्यम् अपि । अस्ति किल इति प्रश्नः । तथा आत्मनस्तव प्रकृतीनां स्वाम्यमात्य सुहृत्कोशराष्ट्रदुर्ग बलात्मकानां सप्तानामपि, स्वस्ति शुभमपि, प्रकृतयः स्वस्तिमत्यः सन्ति किम् । ननु सर्वस्मिन् सति विशेषेण प्रकृतीनां स्वस्ति कथं पृच्छसीत्यत्राह । यथेति । यथा प्रकृतिभिः महदहंकारपश्च- तन्मात्रात्मकाभिः सप्तभिः पुमान् जीवः, नित्यं गुप्तो रक्षितः भवति । न तु तद्वयतिरेकेण क्षणमपि तिष्ठति । तथा राजाऽपि प्रकृतिभिः स्वाम्यादिभिः सप्तभिः, गुप्तः सन् सुखी भवति ॥ १७ ॥ * * एतदेव स्पष्टमाह । आत्मानमिति । राजा आत्मानं प्रकृतिषु, अद्धा साक्षात्, निधाय तदनुवर्त्तिनं कृत्वा, श्रेयो राज्यसुखम् आप्नुयात् । अतः प्रकृतीनामेव तावत् स्वस्ति पृच्छामि इति भावः । एवं राज्ञः, श्रयः प्रकृत्यधीनमित्युक्तमथ प्रकृतीनां श्रयोऽपि राजाधीनमित्याह । राज्ञेति । हे नरदेव, तथा प्रकृतयः अपि राज्ञा आहताः समन्ततो हताः आथयो यासां ताः भवन्ति । राज्ञैव निरस्तमनोदुःखा भवन्तीत्यर्थः । हितादय इति पाठे राज्ञैव, हितम् आदि यासां ताः यासाम् इष्टप्राप्तिरनिष्टपरिहारश्च राजाधीनस्तथाभूता इत्यर्थ: । आहितार्द्धय इति पाठे निहित निक्षेपा धनैः समृद्धा भवन्ति इति ॥ १८ ॥ * * एवं राज्ञः प्रकृतीनां चान्योऽन्यं श्रेयः प्रापकत्वमुक्तम् । ननु यदि । राज्ञः श्रेयः प्रकृत्यधीनं तर्हि राज्ञः स्वातन्त्र्यभङ्गस्तत्राह । अपीति द्वाभ्याम् । अपीति । अपि किं च, दाराः स्त्रियः, प्रजा अमात्याश्वेत्यर्थः । तत्र कर्मसहाया अमात्याः, भृत्या भृतिर्मूल्यं तद्ग्रहणेन कार्यकर्त्तारः । श्रेण्यस्ताम्बूलिकादयः, समयविशेषेण संघशो वर्त्तमाना वणिकप्रभृतय इत्यन्ये । अथ, मन्त्रिणः मन्त्रेषु सहायभूताः पौराः पुरवासिनः, जानपदास्तत्तद्देशा- धिकारिण:, भूपा देशान्तराधिपतयः आत्मजाः पुत्राः, यस्य वशवर्त्तिनो वशं गताः ।। १९ ।। * * यस्येति । यस्य आत्मा निजं मनः अनुवंश: वशं गत एवं चेत्, स्यान्न तु विषयपरः । तदा इमे सर्वे पूर्वोक्ता दारादयः सर्वे इत्यर्थः । तद्वशगाः जितेन्द्रि- यस्य तस्य वशवर्त्तिनः स्युरित्यर्थः । सपालाः पालकैः सह वर्त्तमानाः सर्वे लोकाः, अतन्द्रिताः सन्तः, बलिं यच्छन्ति । तस्य करार्पणं कुर्वन्ति । उपायनकरार्पणादिद्वारोक्तविधनृपमेव सेवन्ते इत्यर्थः । द्वयोरेकसंबन्धः ।। २० ।। * * त्वदुक्तरीत्या जितेन्द्रियस्य मम सर्व वशे वर्त्तते इति चेत्तर्ह्य संतोषस्तव कुत इत्याह । आत्मन इति । आत्मनः स्वस्य तव, आत्मा मनः, न प्रीयते न तुष्यति । तत् किं परतो हेतोः स्वतो हेतोः एव वा । कथं ममासंतोषस्त्वया ज्ञात इत्यत्राह । हे राजन् त्वम् अलब्ध- काममप्राप्ताभिलषितं, लक्षयेऽनुपश्यामि । तत् कुतः । यतः चिन्तया तव मुखं शबलं विच्छायमनाह्लादमिति यावत् । लक्ष्ये ।। २१ ।। * * एवमङ्गिरसा पृष्टश्चित्रकेतुः स्वमनीषितं ज्ञापितवानित्याह मुनिः । एवमिति । विदुषा चित्रकेतो- रभिप्रेतं जानतापि मुनिना, एवमुक्तप्रकारेण, विकल्पितः स्वतः परतो वा तवासंतोष इत्येवं विकल्पपूर्वकं पृष्टुं, सः, राजा चित्रकेतु:, प्रजाकामः पुत्रं कामयमानः सन् ततो मुनिवचनश्रवणानन्तरं, प्रश्रयावनतो विनयेनावनम्रः संश्च मुनिमङ्गिरसं प्रति, अभ्याह ॥ २२ ॥ * * तदेवाह भगवन्नित्यादिना तद्विधेहि न इत्यन्तेन । भगवन्निति । हे भगवन् तपश्च ज्ञानं च समाधिश्व तैः कर्मयोगज्ञानयोगभक्तियोगैरित्यर्थः । ध्वस्तं पापं ज्ञानविज्ञानावरकपुण्यपापात्मकं कर्म यैस्ते तेषाम् । योगिनां भवादृशानां योगवतां शरीरिषु देहिषु, अन्तोऽन्तर्गतं, बहिर्बाह्यगतं च किं न विदितं शरीरिणां बहिरन्तर्गतं यत्तद्भवद्भिः सर्व ज्ञातमस्त्येवेत्यर्थः ॥ २३ ॥ * * तथापीति । हे ब्रह्मन्, आत्मनि मन्मनसि, चिन्तितं स्मृतं मन्मनोगतमित्यर्थः । विदुषः जानतः, तथापि पृच्छतः, भवतः चोदितः, विजानतापि पृच्छता भवताऽभिप्रेतकथनाय प्रेरितोऽहमित्यर्थः । त्वदनुज्ञया भवत आज्ञया, ब्रूयाम् । अतोऽनुज्ञापयसि ततो ब्रूयामिति विनयादिसंपत्तिः सूचिता । चापीति प्रभोत्तरानुक्तौ दोषमपि सूचयति ॥ २४ ॥ भाषानुवादः । , अङ्गिरा ऋषिने कहा— राजन् ! तुम अपनी प्रकृतियों— गुरु, मन्त्री, राष्ट्र, दुर्ग, कोष, सेना और मित्रके साथ सकुशल तो हो न ? जैसे जीव महत्तत्त्वादि सात आवरणोंसे घिरा रहता है, वैसे ही राजा भी इन सात प्रकृतियोंसे घिरा रहता है । उनके कुशल से ही राजाकी कुशल है ।। १७ ।। नरेन्द्र ! जिस प्रकार राजा अपनी उपर्युक्त प्रकृतियोंके अनुकूल रहनेपर ही राज्यसुख भोग सकता है, वैसे ही प्रकृतियाँ भी अपनी रक्षाका भार राजापर छोड़कर सुख और समृद्धि लाभ कर सकती हैं ।। १८ ।। * राजन् तुम्हारी रानियाँ, प्रजा, मन्त्री ( सलाहकार ), सेवक, व्यापारी, अमात्य ( दिवान ), ‘नागरिक, देशवासी, मण्डलेश्वर राजा और पुत्र तुम्हारे बशमें तो हैं न ? ।। १९ ।। * * सच्ची बात तो यह है कि जिसका मन अपने वशमें है, उसके ये सभी वशमें होते हैं। इतना ही नहीं, सभी लोक और लोकपाल बड़ी सावधानी से उसे भेंट देकर उसकी प्रसन्नता चाहते हैं ॥ २० ॥
- परन्तु मैं देख रहा हूँ कि तुम स्वयं सन्तुष्ट नहीं हो । तुम्हारी कोई कामना अपूर्ण है । तुम्हारे मुँहपर किसी आन्तरिक चिन्ताके चिह्न झलक रहे हैं। तुम्हारे इस असन्तोषका कारण
} ४२८ ॥ श्रीमद्भागवतम् * * कोई और है या स्वयं तुम्हीं हो ॥२९॥ परीक्षित् । महर्षि अङ्गिरा बातकी चिन्ता है। फिर भी उन्होंने उनसे चिन्ताके सम्बन्ध में अनेकों प्रश्न पूछे अतः महर्षिके पूछनेपर उन्होंने विनयसे झुककर निवेदन किया ।। २२ ।। योगियोंके तपस्या, ज्ञान, धारणा, ध्यान और समाधिके द्वारा सारे पाप नष्ट हो भीतर की ऐसी कौन सी बात है, जिसे वे न जानते हों ॥ २३ ॥ । [ स्कं. ६ अ. १४ श्लो. २५-३२ यह जानते थे कि राजाके मन में किस चैत्रकेतु को सन्तानकी कामना थी । सम्राट् चित्रकेतुने कहा- भगवन् ! जिन चुके हैं— उनके लिये प्राणियोंके बाहर या * ऐसा होनेपर भी जब आप सब कुछ जान- बूझकर मुझसे मेरे मनकी चिन्ता पूछ रहे हैं, तब मैं आपकी आज्ञा और प्रेरणा से अपनी चिन्ता आपके चरणों में निवेदन करता हूँ ।। २४ ।। श्री & लोकपालैरपि प्रार्थ्याः साम्राज्यैश्वर्यसम्पदः । न नन्दयन्त्यप्रजं मां क्षुत्तृट्काममिवापरे ।। २५ ।। यथा तरेम दुस्तारं प्रजया तद् विधेहि नः ।। २६ ।। ततः पाहि महाभाग पूर्वैः सह गतं तमः । Irosiyarne E THE OR श्रीशुक उवाच ।। इत्यर्थितः स भगवान् कृपालुब्रह्मणः सुतः । श्रपयिष्वा चरुं त्वाष्ट्रं त्वष्टारमयजद् विभुः ॥ ज्येष्ठा श्रष्ठा च या राज्ञो महिषीणां च भारत । नाम्ना कृतद्युतिस्तस्यै यज्ञोच्छिष्टमदाद् द्विजः ॥ अथाह नृपतिं राजन् भवितैकस्तवात्मजः । हर्षशोकप्रस्तुभ्यमिति ब्रह्मसुतो ययौ ॥ सापि तत्प्राशनादेव चित्रकेतोरधारयत् । गर्भं कृतद्युतिर्देवी कृत्तिकाशेरिवात्मजम् ॥ अनुदिनं गर्भः शुक्लपक्ष इवोडुपः । ववृधे शूरसेनेशतेजसा शनकैर्नृप ॥ अथ काल उपावृत्ते कुमारः समजायत । जनयन् शूरसेनानां शृण्वतां परमां कृष्णप्रिया व्याख्या ॥ ॥ ॥ २७ ॥ २८ ॥ २९ ॥ ३० ॥ ३१ ॥ म मुदम् ।। ३२ ।। * अन्वयः - लोकपालैः प्रायः अपि साम्राज्यैश्वर्यसम्पदः अप्रजं मां तृट्कामम् अपरे इव न नन्दयन्ति ॥ २५ ॥ महाभाग ततः पाहि पूर्वैः सह गत दुस्तारं प्रजया यथा तरेम तत् नः विवेहि ॥ २६ ॥ * इति अर्थितः कृपालुः ब्रह्मणः सुतः विभुः भगवान् सः त्वाष्ट्रं चरुं श्रपयित्वा त्वष्टारम् अयजत् ॥ २८ ॥ * भारत या राज्ञः महिषीणाम् ज्येष्ठा च श्रेष्ठा च नाना कृतद्युतिः तस्यै द्विजः यज्ञोच्छिष्टम् अदात् ॥ २८ ॥ * अथ ब्रह्मसुतः नृपतिम् आह राजन् तुभ्यं हर्षशोकप्रदः तव एकः आत्मजः भविता इति ब्रह्मसुतः ययौ ॥ २९ ॥ तत्प्राशनात् एव सा देवी कृतद्युतिः अपि चित्रकेतोः कृत्तिका अग्नेः आत्मजम् इव गर्भम् अधारयत् ॥ ३० ॥ * नृप शूरसेनेशतेजसा तस्याः गर्भः शुकपक्षे उडुपः इव अनुदिनम् शनकैः ववृधे ॥ ३१ ॥ ॐ ॐ अथ काले उपावृत्ते शृण्वतां शूरसेनानां परमां मुदं जनयन् कुमारः ।। ।। 8 * समजायत ।। ३२ ।। ॐ श्रीधरस्वामिविरचिता भावार्थदीपिका अप्रजमपुत्रम् | क्षुत्तृभ्यामन्नपान काममपरे सक्चंदनादयो यथा न सुखयंति ॥ २५ ॥ * पूर्वः पित्रादिभिः सह गतं प्राप्तं तमो नरकं प्रजया यथा तरेम तत्तथा विधेहि ॥ २६-२७ ।। * * यज्ञोच्छिष्टं यज्ञशेषम् ||२८|| जन्मना हर्ष मरणेन च शोकं प्रददातीति तथा । इत्येवमुक्त्वा ययौ ॥ २६-३० ॥ ॐ शूरसेनानामीशस्य तेजसा वीर्येण यो गर्भः स ववृवे ।। ३१-३२ ।। HER । वंशीधरकतो भावार्थदीपिकाप्रकाशः * साम्राज्यैश्वर्यस्य संपदो लोकपालैरन्यैर्नरेन्द्रः । शूरसेन देशेषु व्रजस्याप्यंतर्गतत्वात्तत्र वासार्थ लोकपालैर्ब्रह्मादिभिरपि प्रार्ध्या एवेति भावः । भूः केवलैव साम्राज्यं विनापि देवैर्वासार्थं महाफलदात्रीत्वेनार्थ्यते किं पुनस्तत्साम्राज्यमिति भावः । अहो देवप्राय मां स्वतः प्राप्ता अपि न नंदयंति तत्र हेतुः - अप्रजमिति । कदाचित्कस्यचिन्नृपस्य कन्योद्वाहे कौतुका विष्टच्छा त्रैरर्थित १. प्रा० पा० त्वन्नः पाहि । २. प्रा० पा० तस्याश्वानुकीस्कं ६ अ. १४ श्लो. २५-३२] अनेकव्याख्या समलङ्कृतम्- ४२९ एकोऽविद्वांस्तैस्समं तमीक्षितुं गच्छन्मार्गे सुवृक्षस्थं सुपर्णमपराह्ने वीक्ष्य छात्रेभ्यो भोः छात्रा एतत्समये वृक्षस्थं गरुडं यः प्रद्- क्षिणी कुर्यात्तस्य सप्तदिनादवगेव सुकन्याप्तिरर्थाप्तिश्च स्यात्सत्यमहं वसन्तराजशाकुनादिशकुनशास्त्रतो ब्रवीमीति श्रुत्वैकरछात्रो यदा प्रदक्षिणीकर्तुमुद्यतस्तदा स गरुडस्तत उड्डीय वृक्षांतरमितः छात्रोऽपि तमनुजगाम ततः सोन्यत्र गत इत्थं गरुडमनुधावतश्छा- त्रस्य रविरस्ताचलं गतः प्रदोषो जातरुदा रात्र्यंधवशतस्तार्क्ष्य एकस्मिन्वृते निलीय तस्थे “वयांसि प्रबलाद्दोषाद्दोषान्धाः कौशि- कादृतेः ।” इति पुराणात् । स च तं प्रदक्षिणीकृत्य यावत्पुरं निकषा प्राप तावत्पुरं पिहितकपाटमभूत् । तत्र प्रवेशमलभमानः पुरस्य नातिदूरे नरान्तरशून्य मंबिकामन्दिरमेत्य चुत्तृडर्दितः श्रान्तः सुष्वाप । मंदिरपुरोगजगन्मोहनसुप्ते तस्मिन्नंबिका मेलनार्थ- मागतैर्लोकपैः कोऽयं सुप्त इत्यनुयुक्ता भगवती ब्राह्मणात्मजोऽयमतिक्षुधितः श्रांतश्च तदेनमद्योद्वाहितराजन्याशयने निधाय तत्रत्यं तद्वरं राजकुमारमेतत्स्थाने निधाय गंतव्यम् । पुनरागच्छद्भिरयमत्र नृपात्मजश्च तंत्र पूर्ववत्क्रियताम् । प्रमाणमित्युक्त्वा छात्रं राजकन्यापार्श्वे निधाय राजकुमारं देवीमंदिरमानाय्य देव्याज्ञया लोकलीलावलोकनाय ययुः । ततो राजकन्यया स विलासार्थ - मुद्बोधितः । स च तदोचे “शय्या वस्त्रं चंदनं चारुहास्यं वीणावाणी चंदनं चारुहास्यं वीणावाणी दर्शनीया च नारी । न भ्राजन्ते क्षुत्पिपासातुराणां सर्वारम्भास्तण्डुलप्रस्थमूलाः।” इत्याकर्ण्य तथा क्षुधितो विज्ञाय बहुविधान्नैरतीवरम्यैः सोऽभोजि । ततः स पुनर्निद्रामाप । पुनरागत्य देवैर्देव्याज्ञया छात्रो देव्यालये राजकुमारश्च नृपकन्याशयने न्यधायि । मुहुर्त्त सुप्त्वा जागरितोऽभूत्कन्यापि नृपस्य जागरित्या पूर्वोक्त श्लोकस्य पूर्वार्द्ध पपाठ तदुत्तरार्द्धज्ञानार्थं सा तमूचेस्व। मिन्नस्योत्तरार्द्ध पठ । तदाकर्ण्य स नृपकुमारस्तामाह मया नेदं वृत्तमपाठि न जानाम्यहमेतद्वृत्तमेतदाकर्ण्य नृपसुता शयनादुत्थाय तं निजपतीतरं ज्ञात्वा स्वमात्रेऽवदन्मातर्मम शयने कश्चिन्मंत्रादिबलेन नृपात्मजवेषं कृत्वा मत्पतिमन्यत्र प्रापितवान्सत्यमहं ब्रवाणि नैनमहं स्वीकरिष्ये किञ्चाहं तं समागतं समाजमध्यतो ग्रहीष्यामि यदि सर्वेषु पदांतरितपीठगो मत्प्रश्नोत्तरं दास्यति स मे पतिर्ज्ञेयः इति । तया च राज्ञे कन्यावृत्तं कन्योक्तं समश्रावि । राज्ञापि तथैव कृतम् । तथाहि - तदग्रिमदिने पटान्तरितं पीठ निधाय समाजे उद्घोषितं केनचिच्छद्मना मंत्रादिबलेन वा राजकन्यावरवेषं विधाय वरोऽन्यत्र प्रापितः स च यदि समाजगो भवेत्तदा तं सा स्वयमेव ज्ञास्यति प्रश्नोत्तरलाभादिति श्रुत्वा क्रमतः सर्वे पटांतरितपीठं प्राप्य तत्प्रश्नं श्रुत्वा यदोत्तरं न ददुस्तदा स छात्रोऽपि पीठ प्राप । सा च “शय्या वस्त्रं चंदनं चारु हास्यं वीणावाणी दर्शनीया च नारी” इति पठित्वास्योत्तरं पठचतामित्याह यदा तदा स छात्रस्तां प्राह अस्योत्तरार्द्ध शृणु – “न भ्राजन्ते क्षुत्पिपासातुराणां सर्वारम्भास्तण्डुलप्रस्थमूला: " इति श्रुत्वा पटमपसार्य तत्पादावग्रहीदाह च समायं पतिस्तदा राज्ञा सा तस्मै छात्राय दत्ता राज्यखण्डञ्च दत्तम् । स च स्वाध्यापकाय ग्राममेकं दत्त्वा स्वपार्श्वमेव रक्षित- वान्प्रार्थनयेति बृहदितिहाससागरतोऽव सेयमिदम् ।। २५ ।। ४ यतोऽहमित्थं शोकसागरे मनस्ततो हेतोः । हे महाभागेति । यथा त्वमहं भगवदाराधनलक्षणमुत्सवमासमंताद्भुजसे तथा मामपि मह्यं पुत्रजन्मोत्सवमा शीघ्रं भजामि तथा कुरुष्वेति भावः ।। २६ ।। * * पुत्रदानमिषेण वैराग्योत्पादनद्वारा भगवदभिमुखीकरणेच्छुत्वात्कृपालुरिति । तथा च वक्ष्यति ‘तदैव ते परं ज्ञानम्’ इत्यादि त्वाष्ट्रं त्वष्टृदैवतम् ॥ २७ ॥ * * भारतेति । भरतवंशोद्भूतत्वात्त्वं जानास्येव ज्येष्ठैव मान्या तत्रापि श्रेष्ठा चेदिति यथा दुष्यंतेन राज्ञा सत्यामप्यन्यस्यां ज्येष्ठायां राज्यां श्रेष्ठत्वाद्भरतमातैव शकुंतला भरताय राज्यप्रदानेन मानितैवमत्रापीति भावः । द्विजोऽगिराः ॥ २८ ॥ अथ हुतशेषदानानंतरम् । राजन्निति । राजत्वात्त्वत्प्रार्थना न प्रत्याख्यातेति भावः । “गुरुपितृनृपाणां हि प्रत्याख्येयं न वै वचः” इत्युक्तः ।। २९-३० ।। नृपेति । यथा तब पालन- तेजसा नरो वर्ण्यन्ते तथा शूरसेनेशतेजसा गर्भ इति भावः ॥ ३१ ॥ अथ गर्भपूर्त्यनन्तरम् ॥ ३२-३३ ।। ।। ।। * ।। ।। अन्वितार्थप्रकाशिका tr ।। *
। लोकेति । यथा क्षुत्तृभ्यामन्नपान कामं पुरुषम् अपरे स्रक्चन्दनादयों न सुखयन्ति तथा प्रजाकामम् अप्रजं पुत्ररहितं माम् । असिजभाव आर्षः । लोकपालैरपि प्रायः साम्राज्यैश्वर्यसम्पदो न नन्दयन्ति ॥ २५ ॥ तत इति । महा- भाग ! ततः पुत्राभावात् पूर्वैः पित्रादिभिः सह तमोगतं नरकं प्राप्तां मां पाहि रक्ष । यथा प्रजया हेतुभूतया वयं दुस्तरं नरकम् । स्वार्थणिजन्तात्तरतेः खलू । तरेम न गच्छाम तथा तदुपायं नो विधेहि उपदिश । “पुन्नास्नो नरकाद्यस्मात् पितरं त्रायते सुतः । तस्मात्पुत्र इति प्रोक्तः स्वयमेव स्वयम्भुवा ।” इत्युक्तेः ॥ २६ ॥ * * इतीति । इत्येवं भगवान् कृपालु - ब्रह्मणः सुतः स द्विजो ब्राह्मणोऽङ्गिरा अर्थितः राज्ञा प्रार्थितः त्वाष्ट्रं त्वष्टृदेवताकं चरुं हविर्विशेषं श्रपयित्वा सिद्धं कृत्वा पुत्रलाभाय त्वष्टारमयजेत् ॥ २७ ॥ * * ज्येष्ठेति । हे भारत ! राज्ञो महिषीणां मध्ये या प्रथमविवाहितत्वेन ज्येष्ठा सौशील्यादिगुणविशिष्टतया श्रष्ठा च नाम्ना कृतयुतिरिति प्रसिद्धा तस्यै यज्ञोच्छिष्टं यज्ञशेषं द्विजोऽङ्गिरा अदात् ॥ २८ ॥ अथेति । अथ तद्धविःशेषदानान्तरं हे राजन् ! तुभ्यं हर्षशोकप्रद स्तवात्मनः पुत्र एको भविता भविष्यतीति नृपतिं प्राह स्मेत्य- यः । इत्युक्त्वा च ब्रह्मसुतोऽसि ययौ । हर्षशोकप्रद इति जन्मना हर्षो मरणेन शोक इति सूचितवानपि अप्रियत्वात् स्पष्ट ।। ! * श्रीमद्भगवतम् [ स्कं. ६ अ १४ श्लो. २५-३२ नोवाच । राजा तु पुत्रो मे बहुगुणान्वितो भविष्यतीति हर्षदः । ऐश्वर्यवशात्सगर्वो भविष्यतीति शोकद इत्याशयं प्रकल्प्य प्रसन्न एवाभूत् इति ज्ञेयम् ।। २९ ॥ सेति । सा बन्ध्याऽपि कृतद्युतिस्तस्य हविःशेषस्य प्राशनाद्भक्षणादेव हेतोः चित्रकेतोः सकाशात् गर्भमधारयत् । यथा अग्नेः सकाशात् कृत्तिका देवी आत्मजं स्कन्दमधारयत् तद्वदित्यर्थः ॥ ३० ॥ * * तस्या इति । हे नृप ! शूरसेनानामीशस्य चित्रकेतोस्तेजसा वीर्येण धृतो यो गर्भः स तस्याः कृतद्युतेः शनकैरनुदिनं ववृधे । शुक्ल पत्ते था उडुपचन्द्र शनकैर्वर्धते तद्वत् ॥ ३१ ॥ अथेति । अथ काले प्रसूतिसमय उपावृत्ते प्राप्ते सति शूरसेनानां ‘शूरसेन देशनिवासिनां प्राणिनां शृण्वतां परमां मुर्दा जनयन् कुमारः समजायत ।। ३२ ।। वीरराघवव्याख्या 1 तावत् स्वस्य पुत्रलाभप्रयुक्तायाश्चिन्ताया नितरामनिवृत्तिहेतुत्वं वदश्चिन्तितमाह — लोकपालैरिति । लोकपालैरपि प्रार्थ्यास्तेषामपि दुर्लभा इति भावः । साम्राज्यं सार्वभौमत्वं तद्रूपं यदैश्वर्यं तत्प्रयुक्ताः सम्पदः भोग्यभोगोपकरणादिसमृद्धयः अप्रजमपुत्रं मां न नन्दयन्ति न सुखयन्ति यथा क्षुत्तृङ्भ्यामन्नपानादिकं कामयमानमितरे स्रक्चन्दनवनितादयो न सुखयन्ति तद्वत् ॥ २५ ॥ * * तत्तस्मात् हे महाभाग ! पूर्वरस्मत्पित्रादिभिः सह मया गतं प्राप्तं दुस्तारं तमो नरकं यथा प्रजया पुत्रेण हेतुना यथा तरेम तथा विधेहि । तथाऽनुग्रहाणेत्यर्थः “अपुत्रस्य गतिर्नास्ति” इति किंवदन्तीमनुसृत्य पूर्वैः सह गतं तम इत्युक्तं “प्रजया पितृभ्यः” इति श्रुत्युक्तरीत्या प्रजया अभावे पितृऋणानिवृत्तेरप्रजस्य तमः प्रातिं सिद्धवत्कृत्वा गतमित्युक्तम् ||२६|| एवमुक्तोऽङ्गिरास्तमनुगृह्णन्पुत्रकामेष्टया याजयित्वा यज्ञोच्छिष्टं हविर्भार्यायै प्रदाप्य ययावित्याह मुनिः - इतीति । इतीत्थं चित्रकेतुनाऽभ्यर्थितो याचितस्स भगवान् ब्रह्मणः चतुर्मुखस्य सुतो विभुरङ्गिराः कृपालुरत एव त्वाष्ट्रं त्वष्टृदेवताकं चरुं श्रपयित्वा पाचयित्वा तेन चरुणा त्वष्टारमजयत् अयाजयत् स्वयमार्त्विज्यकरणेनेष्टवान्वा ततो हे भारत, राज्ञश्वित्रकेतोर्भार्याणां मध्ये या ज्येष्ठा श्रेष्ठा च नाना कृतद्युतिरिति प्रसिद्धा भार्या तस्यै यज्ञोच्छिष्टं यज्ञशिष्टं हविः विप्रोऽङ्गिरा अदाद्दत्तवान् ।।२७-२८।। अथाङ्गिरा नृपतिं चित्रकेतुमाह-उवाच तदेवाह हे राजन् चित्रकेतो, तव पुत्रो भविता जनिष्यते कथम्भूतः तुभ्यं हर्षशोक- प्रदः जन्मना हर्ष मरणेन शोकं च प्रददातीति तथा इत्येवमुक्त्वा ब्रह्मणः सुतोऽङ्गिरा ययौ गतः ॥ २६ ॥ * * ततः सा कृतद्युतिश्चित्रकेतोर्भार्या तस्य यज्ञावशिष्टस्य प्राशनाद्भक्षणादेव हेतोश्चित्रकेतोः सकाशात्पुत्ररूपं गर्भमधारयद्धृतवती यथा कृत्तिकाग्नेः सकाशाद्दर्भ कुमाररूपं दधार तद्वत् ।। ३० ।। * * तस्यां कृतद्युतावनुदिनं शुक्लपक्षे उडुपश्चन्द्र इव शूरसेनानाम् ईशस्य चित्रकेतोस्तेजसा वीर्येण गर्भः शनैर्ववृधे एधामास ॥ ३१ ॥ * * अथ काले दशमासात्मके काले उपावृत्ते गते सति कुमारः पुत्रः समजायत कथम्भूतस्सन् राज्ञः पुत्रोत्पत्तिं शृण्वतां शूरसेन देशस्थानां जनानां परमां मुदं हर्ष जनयन्तु- त्पादयन् सन् ।। ३२ । विजयध्वजतीर्थकृता पदरत्नावली । अपरे स्रक्चन्दनवनितादयः ॥ २५ ॥ * पालनप्रकार माह – पूर्वैरिति । पूर्वैः पूर्वजैः सह गतं प्राप्तं तमो नरकं यथा यया प्रजया तरेम तत्तादृशं प्रजालक्षणं वस्तु यद्वा यथा येनोपायेन तरेम तन्नोऽस्माकं विधेहि स क उपाय इति चिन्ता माभूदित्याह -प्रजयेति ॥ २६ ॥ * * त्वाष्ट्रं त्वष्टृदैवतम् ।। २७-२६ ।। * प्राशनात्स्वीकारात् ॥ ३० ॥ * ।। शूरसेनानां विषयाणाम् ।। ३२-३४ ॥ शूरसेनस्य चित्रकेतोः ॥ ३१ ॥ * * ।। * जीवगोस्वामिकृतः क्रमसन्दर्भः पुत्रदानमिषेण वैरोग्योत्पादनद्वारा भगवदभिमुखीकरणेच्छुत्वात् कृपालुः तथा च वक्ष्यते स्वयमेव । " तदैव ते परं ज्ञानं ददाभि गृहमागतः । ज्ञात्वान्याभिनिवेशन्ते पुत्रमेव ददाम्यहम्” इति ।। २७-२८ ।। निजदोषप्रत्याख्यानार्थ शोकप्रद इत्युक्तम् ।। २९-३० ।। विश्वनाथचक्रवतिकृता सारार्थदर्शिनी क्षुतृभ्यामन्नजलयोः कामो यस्य तम् अपरे स्रक्चन्दनादयः ॥ २५ ॥ * पूर्वैः पित्रादिभिः सह गतं प्राप्त तमः नरकं प्रजया यथा तरेम तथा विधेहि ॥ २६ ॥ त्वाष्ट्रं त्वष्टृदेवताकम् ॥ २७ ॥ * * प्रथमव्यूढत्वेन व्येष्टा सौभाग्यातिशयेन च श्रष्ठा यज्ञोच्छिष्टं यज्ञशेषं चरुम् ॥ २८ ॥ हर्षशोकप्रद इति केन प्रकारेण हर्ष प्रदः केन हर्षप्रदः प्रकारेण शोकद इति सम्प्रत्यहं किं ब्रवीमि जन्ममृत्युभ्यां राजैवायत्यां ज्ञास्यति किश्लेयमप्रियोक्तिरपि सम्प्रत्यवश्यवाच्यैवा ॥ स्कं. ६ अ. १४ लो. २५-३२ ] अनेकव्याख्यासमलङ्कृतम् ४३१ राज्ञा दास्यमानस्योपालम्भनस्य प्रत्युत्तरार्थमिति मनसि विमृश्य तत्त्वं स्पष्टमनुक्त्वा ययौ । पुत्रो मे बहुगुणान्वितो भविष्य- तीति हर्षदस्तदपि ऐश्वर्य्याधिक्यान्न मे वचस्करो भविष्यतीति शोकद इति भवतु तद्दुःखं मया सोढव्यमिति मनसि विचार्य्य राजा त्वाननन्दैवेति ज्ञेयम् ॥ २९ ॥ अग्नेः सकाशात् कृत्तिका स्वात्मजमिवेत्यर्थः ।। ३०-३४ ।। ।। ।। शुकदेवकृतः सिद्धांतप्रदीप : || || * * क्षुत्तृभ्यां कामः अन्नोदकाभिलाषा यस्य तमितरे स्रक्चन्दनादयो यथा न नन्दयन्ति न सुखयन्ति तथा अप्रजमन- पत्यं मां साम्राज्यैश्वर्य सम्पदो न नन्दयन्ति ॥ २५ ॥ ततस्तेनाप्रजत्वेन तमो नरकभयं पूर्वैः सह गतं प्राप्तं मां पाहि । हे महाभाग ! दुतारं तमः प्रजया यथा तरेम तद्विधेहि कुरु ।। २६ ।। * त्वाष्ट्रन्त्वष्टृदेवताकं चरुं श्रपयित्वा त्वष्टार- मजयत् ।। २७ ।। * * ज्येष्ठा सर्वाभ्यः प्रापरिगृहीता श्रेष्ठा गुणाधिका यज्ञोच्छिष्टं यज्ञशेषम् ॥ २८ ॥ राजन् ! तब एक आत्मजः भविता स च तुभ्यं हर्षशोकप्रद इति तदनन्तरं ययौ ।। २९ ।। शूरसेनेशस्य चित्रकेतोस्तेजसा वीर्येण यो गर्भः स शुकपक्षे उडुप इव ववृधे ।। ३१ ।। अथ ब्रह्मसुत: अङ्गिरा नृपतिमाह-हे प्राशनाद्भोजनात् ॥ ३० ॥ * * उपावृते प्राप्ते ।। ३२ ।। गोस्वामिगिरिधरलाल विहिता बालप्रबोधिनी अप्रजं पुत्ररहितं मां न नन्दयन्ति । तत्र दृष्टान्तमाह—नुत्तृङ्भ्यामन्नपान कामं पुरुषं यथा अपरे स्रक्चन्दनादयो न सुखयन्ति तथा प्रजाकामं मां सम्पदो न सुखयन्तीत्यर्थः ॥ २५ ॥ * * प्रजयैव परम्परया स्वस्य पितॄणां च संसारा- दुद्धारो भवति अन्यथा नरकप्राप्तिरेवेत्यभिमानेनाह - तत इति । ततः पुत्राभावात् पूर्वैः पित्रादिभिः सह तमोगतं नरकं प्राप्तं मां पाहि रक्ष इत्यन्वयः । तपआदिभिस्त्वं रक्षायां समर्थोऽसीति सूचयन् सम्बोधयति - हे महाभागेति । मया त्वं कथं रक्षणीय इत्यपेक्षायामाह - यथेति, प्रजया हेतुभूतया यथा वयं दुस्तारं नरकं तरेम न गच्छाम तथा तदुपायं नो विधेहि उपदिशेत्यर्थः ।। २६ ।। * इत्येवं स द्विजो ब्राह्मणोऽङ्गिरा अर्थितः राज्ञा प्रार्थितः त्वाष्ट्रं चरुं हविर्विशेषं श्रपयित्वा सिद्धं कृत्वा राज्ञः पुत्रलाभाय त्वष्टारमयजदित्यन्वयः । तथा पुत्रसम्पादने तस्य सामर्थ्यमाह - भगवानिति । सामर्थ्येऽपि कृपां विना परोपकारे प्रवृत्तिरेव न भवति कथं कार्यसिद्धिरिति शङ्कानिरासायाह - कृपालुरिति । उभयत्र हेतुमाह - ब्रह्मणः सुत इति ॥ २७ ॥ * * राज्ञो महिषीणां मध्ये या प्रथम विवाहितत्वेन ज्येष्ठा सौशील्यादिगुणविशिष्टतया श्रेष्ठा च नाम्ना कृतद्युतिरिति प्रसिद्धा तस्यै यज्ञोच्छिष्टं यज्ञशेषं द्विजोऽङ्गिराः अदादित्यन्वयः । हे भारतेति सम्बोधनं तस्यै तद्दानमुचितमित्यत्र ा सम्मत्त्यर्थम् ।। २८ ।। * * अथ तद्धविश्शेषदानानन्तरं हे राजन् तुभ्यं हर्षशोकप्रदस्तवात्मजः पुत्र एको भविता भविष्य- तीति नृपतिं प्राहेत्यन्वयः । इत्युक्त्वा च ब्रह्मसुतोऽङ्गिरा ययौ । हर्षशोकप्रद इति जन्मना हर्षो मरणेन शोक इति सूचितम् ।। २९ ।। * सा वन्ध्यापि कृतद्युतिस्तस्य हविश्शेषस्य प्राशनात् भक्षणादेव हेतोः चित्रकेतोः सकाशात् गर्भम- धारयदित्यन्वयः । तंत्र दृष्टान्तमाह- देवीति, अग्नेः सकाशात् यथा कृत्तिका देवी आत्मजं स्कन्दमधारयत्तद्वदित्यर्थः ।। ३० ।। शूरसेनानामीशस्य चित्रकेतोस्तेजसा वीर्येण धृतो यो गर्भः स तस्याः कृतद्युतेः शनकैरनुदिनं ववृधे इत्यन्वयः । तत्र दृष्टान्तः— शुक्लपक्षे यथा उडुपश्चन्द्रः शनकैर्वर्द्धते तद्वत् ॥ ३१ ॥ * काले प्रसूतिसमये उपावृत्ते प्राप्ते सति । शूरसेनानां शूर- सेन देशनिवासिनां प्राणिनाम् ॥ ३२ ॥ भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी १. * तावत् स्वस्य पुत्रालाभप्रयुक्तायाश्चिन्ताया नितरामनिर्वृत्तिहेतुत्वं वदंश्चिन्तितमाह । लोकपालैरिति । लोकपालैरपि, प्रार्थ्याः लोकपालानामपि दुर्लभा इति भावः । साम्राज्यं सार्वभौमत्वं तद्रूपं यदैश्वर्य तत्प्रयुक्ताः संपदः, भोग्यभोगोपकरणा- दिसमृद्धय इत्यर्थः । अप्रजमपुत्रं मां न नन्दयन्ति । न सुखयन्तीत्यर्थः । कथमिव । क्षुत्तृटुकाममन्नपानादिकं कामयमानम् अपरे इतरे स्रक्चन्दनवनितादयः इव, क्षुत्तृटुकामस्य स्रक्चन्दनवनितादयों यथा न सुखयन्ति तद्वदित्यर्थः ॥ २५ ॥ तत इति । ततस्तस्माद्धेतोः, हे महाभाग पूर्वैः सह अस्मत् पित्रादिभिः साकमित्यर्थः । दुस्तारमतिदुस्तरं तमो नरकं गतं प्राप्तं मां पाहि । नरकपतनतो मद्रक्षणं कुर्वित्यर्थः । एतत् स्फुटमाह । यथा प्रजया हेतुना, तन्नरकं तरेम, नोऽस्माकं तथा विधेहि । हितमिति शेषः । पुत्रोत्पत्त्या यथास्माकं हितं स्यात्तथाऽनुगृहाणेत्यर्थ: । ‘अपुत्रस्य गतिर्नास्ति’ इति वदतां वाक्यमनुस्मृत्य पूर्वैः सह गतं तम इत्युक्तम् ‘प्रजया पितृभ्य’ इति श्रुत्युक्तरीत्या प्रजाया अभावे पितृऋणानिवृत्तेः । अप्रजस्य तमःप्राप्तिं सिद्धवत् कृत्वा तमो गतमित्युक्तम् ।। २६ ।। * * इतीति । इत्येवम् अर्थितः संप्रार्थितः, भगवान् महैश्वर्यः, कृपालुः परमकारुणिकः ब्रह्मणः ४३२ श्रीमद्भागवतम् were ॥ [स्क. ६ अ. अ. १४ श्लो. ३३-४० सुतः, विभुः सोऽङ्गिरा मुनिः, त्वा त्वष्टृदेवताक चरुं श्रपयित्वा त्वष्टारम् अयजत् ॥ २७ ॥ ॐ ज्येष्ठेति । ततः, हे भारत, राज्ञश्चित्रकेतोः, महिषीणां भार्याणां मध्ये, या ज्येष्ठा, प्रथमपरिणीता । श्रष्ठा गुणैर्गरिष्ठा च, नाम्ना कृतद्युतिः, इति प्रसिद्धा च या भार्या, तस्यै द्विजोऽगिराः, यज्ञोच्छिष्टं चरुशेषं हविः, अदात् विश्राणितवान् ॥ २८ ॥ हे …….” + अथेति । अथ ब्रह्मसुतोऽङ्गिराः, नृपतिं चित्रकेतुम् आहोवाच । हे तथाविध इत्यर्थः । एकः आत्मजः, पुत्रः तव मा राजन तुभ्यं दुर्षशोकप्रदः जन्मना हर्षं मरणेन शोकं च प्रकर्षेण ददाति । पुत्रः तव भविता । त्वत्पत्नी पुत्रं जनितेत्यर्थः । इति उक्त्वा, ययौ ॥ २९ ॥ * * सेति । ततः, देवी दीप्यमाना, सा कृतद्युतिः अपि तत्प्राशनात् विरुशेषहविरशनं विधायेत्यर्थः। चित्रकेतोः सकाशात् एव कृत्तिका, अग्नेः सकाशात् इव, आत्मजं गर्भ पुत्रात्मकं गर्भमित्यर्थः । अधारयत् धृतवती ॥ २० ॥ तस्या इति । हे नृप, शूरसेनेशतेजसा शूरसेनपत्युचित्रकेतोर्वीर्येण संपन्न इत्यर्थः । तस्याः कृतद्युतेः, गर्भः, शुक्लपक्षे उडुपश्चन्द्रः इव शनकैः अनुदिनं ववृधे एधामास ॥ ३१ ॥ अथेति । अथ काले दशम मासात्मके समये उपावृत्ते संप्राप्ते सति शृण्वतां श्रमणं कुर्वाणानां शूरसेनानां शूरसेन देशस्थजनानां परमामतिशयितां मुदं हर्ष जनयन्नुत्पादयन्, कुमीरः समजायत ।। ३२ ।। FREE भाषानुवादः श्रीशुकदेवजी कहते हैं- मुझे पृथ्वीका साम्राज्य, ऐश्वर्य और सम्पतियाँ, जिनके लिये लोकपाल भी लालायित रहते हैं, प्राप्त हैं। परन्तु सन्तान न होनेके कारण मुझे इन सुखभोगोंसे उसी प्रकार तनिक भी शान्ति नहीं मिल रही है, जैसे भूखे-प्यासे प्राणीको अन्न-जलके सिवा दूसरे भोगोंसे ॥ २५॥ महाभाग्यवान् महर्षे ! मैं तो दुःखी हूँ ही, पिण्डदान न मिलनेकी आशङ्कासे मेरे पितर भी दुःखी हो रहें हैं। अब आप हमें सन्तान-दान करके परलोक में प्राप्त होनेवाले घोर नरकसे उबारिये और ऐसी व्यवस्था कीजिये कि ॥ ॥ मैं लोक-परलोकके सब दुःखोंसे छुटकारा पा लूँ || २६ ॥ परीक्षित्! जब राजा चित्रकेतुने इस प्रकार प्रार्थना की, तब सर्व समर्थ एवं देवताकै योग्य चरु निर्माण करके उससे उनका यजन किया || २७ ॥ सबसे बड़ी और सद्गुणवती महारानी कृतद्युति थी । और राजा चित्रकेतुसे कहा- राजन् ! तुम्हारी पत्नीके यों कहकर अङ्गिरा ऋषि चले गये ॥ २९ ॥ 8 चित्रकेतु के द्वारा गर्भ धारण किया, जैसे कृत्तिकाने अपने गर्भ में अग्निकुमारको धारण किया था ॥ ३० ॥ * ची परम कृपालु ब्रह्मपुत्र भगवान अङ्गिराने त्वष्टा परीक्षित्! राजा चित्रकेतुकी रानियों में महर्षि अङ्गिराने उन्हींको यज्ञका अवशेष प्रसाद दिया ।। २८ ।। * गर्भ से एक पुत्र होगा, जो तुम्हें हर्ष और शोक दोनों ही देगा ।’ । उस यज्ञावशेष प्रसाद के खाने से Hair खानेसे ही महारानी कृतयुतिने महाराज * राजन् ! शूरसेन देशके राजा चित्रकेतुके तेजसे कृतिद्युतिका गर्भ शुक्लपक्षके चन्द्रमाके समान दिनोंदिन क्रमशः बढ़ने लगा ।। ३१ ।। तदनन्तर समय आनेपर महारानी कृतद्युतिके गर्भसे एक सुन्दर पुत्रका जन्म हुआ। उसके जन्मका समाचार पाकर शूरसेन देशकी प्रजा बहुत ही आनन्दित हुई ॥ ३२ ॥ स एक सुन्दर पुत्रका जन्म हुआ ३५ ॥ हृष्टो राजा कुमारस्य स्नातः शुचिरलंकृतः । वाचवित्वाऽऽशिषो विप्रैः कारयामास जातकम् ।। ३३ । तेभ्यो हिरण्यं रजतं वासांस्याभरणानि च । ग्रामान् हयान् गजान् प्रादाद् धेनूनामर्बुदानि षट् ॥ ३४ ॥ वर्ष काममन्येषां पर्जन्य इव देहिनाम् । धन्यं यशस्यमायुष्यं कुमारस्य महामनाः || ३ कृच्छ्रलब्धेऽथ राजर्षेस्तनयेऽनुदिनं पितुः । यथा निःस्वस्य कृच्छ्राप्ते धने स्नेहोऽन्ववर्धत || ३६ ॥ मातुस्त्वतितरां पुत्रे स्नेहो मोहसमुद्भवः । कृतद्युतेः सपत्नीनां प्रजाकामज्वरोऽभवत् ॥ ३७ ॥ चित्रके तोरतिप्रीतिर्यथा द्वारे प्रजावति । न तथान्येषु सञ्जज्ञे बालं लालयतोऽन्वहम् ॥ ३८ ॥ ताः पर्यतप्यन्नात्मानं गर्हयन्त्योऽभ्यसूयया । आनपत्येन दुःखेन राज्ञोऽनादरेण च ।। ३९ ।। घिगप्रजां स्त्रियं पाप पत्युश्चागृहसम्मताम् । सुप्रजाभिः सपत्नीभिर्दासीमिव तिरस्कृताम् ।। ४० ।। । ।। कृष्णप्रिया व्याख्या अन्वयः –— हृष्टः स्नातः शुचिः अलंकृतः राजा विप्रैः आशिषः वाचयित्वा कुमारस्य जातकं कारयामास ।। ३३ ॥ हिरण्यं रजतम् वासांसि च आभरणानि ग्रामान् हयान् गजान् धेनूनां पट अर्बुदानि तेभ्यः प्रादात् ॥ ३४ ॥ * * १. प्रा० पा० – हि रजतं प्रादाद वास । २. प्रा० पा० हो विवर्धते । ३. प्रा० पा०- ।
- राजश्वानादरेण च । स्कं. ६ अ १४ लो. ३३-४० ]] अनेकव्याख्यासमलङ्कृतम्- ४३३ महामनाः कुमारस्य आयुष्यं यशस्यं धन्यं पर्जन्यः इव अन्येषां देहिनाम् कामं ववर्ष ॥ ३५ ॥ * अथ राजर्षेः पितुः कृच्छ्रलब्धे तनये स्नेहः यथा निःखस्य कृच्छ्राप्ते धने अनुदिनम् अन्ववर्धतं ॥ ३६ ॥ कृतद्युतेः मातुः पुत्रे मोहसमुद्भवः स्नेहः अतितरां सपत्नीनां प्रजाकामज्वरः अभवत् ॥ २७ ॥ अन्वहं बालं लालयतः चित्रकेतोः अपि प्रीतिः यथा प्रजावति दारे संजज्ञे तथा अन्येषु न ॥ ३८ ॥ ताः आनपत्येन दुःखेन च राज्ञः अनादरणेन अभ्यसूयया आत्मानं गईयन्त्यः पर्यतप्यन् ॥ ३९ ॥ * अप्रजां च पत्युः अग्रहसंमतां सुप्रजाभिः सपत्नीभिः दासीम् इव तिरस्कृताम् पापां स्त्रियम् धिक् ॥ ४० ॥ नो
श्रीधरस्वामिविरचिता भावार्थदीपिका
- । जातकं जातकर्म ॥ प्रयुतानंतरं निर्देशात् ॥ ३४ ॥ ३३ ॥ मोहस्य समुद्भवो यस्मिन् । ॐ धर्म्यं प्रजाकामरूपों । 8 ॥ अर्बुद दश कोटयः । वेदे तु कोटिरेवार्बुदम् । नियुतं च प्रयुतं चार्बुदं चेति धनकरम् । आयुष्यमायुष्करम् । महामना अत्युदारः ॥ ३५-३६ ॥ * * ज्वरस्तापः ॥ ३७ ॥ * दार इित्येकवचनमार्षम् ॥ ३८ ॥ आनपत्येनापुत्रत्वनिमित्तेन ॥ ३६ ॥ * न गृहे संमतां न बहुमताम् । यद्वा । गृहा दाराः “दारेष्वपि गृहाः” इत्यमरः । गृहिण्येव गृहं न भार्येति संमतामित्यर्थः ॥ ४० ॥ 1106-2011 का
वंशीधरकृतो भावार्थदीपिकाप्रकाश: अत्र केरलमतेन अर्बुदानि पडित्यत्र १५-२० पंचषष्टिसहस्राणि त्रिंशदधिकाष्टशतानीति संख्या समायाति तदानयन- प्रकारो हि लीलाकल्पद्रुमाख्याद्यश्लोकव्याख्यायां नवमस्कंधार्थनिरूपणे रंतिदेवोपाख्याने वर्णितोऽस्माभिरिति “संख्याया विंशको शो ग्रहीतव्यः सदा बुधैः । इतिहासपुराणादावित्येव नीलकंठवाक” इति भारतदीपिकायाम् । तथा च कोटित्रयं धेनूनां लभ्यते धेनुशब्देन द्रव्यधेनुग्रहणे तु न काप्यनुपपत्तिः एवमन्यत्रापि यत्रा संभवत्वं संख्यायां प्रतीयेत तत्र समाधेयमिति । यद्वा- वसुदेववत्तदा संकल्प्य पुनः शनैः शनैर्ददाविति ज्ञेयं समस्तानां तात्कालिकसमर्पणासंभवादिति ॥ ३४ ॥ * अन्येषां ब्राह्मणेतरेषामपि नटनर्तकादीनाम् । कामान्वांच्छितान् । कुमारस्य धन्यमित्यादित्रयं क्रियाविशेषणम् ॥ ३५ ॥ * * कृच्छ्रलब्धे यत्नेन प्राप्ते । निःस्वस्य निर्धनस्य ।। ३६-३७ ।। * * अन्येषु दारेषु ॥ ३८ ॥
- अन्येषु दारेषु ॥ ३८ ॥ ॐ अभ्यसूयया स्वीय-
- सौन्दर्यादावपि कुरूपाद्यारोपणेन ॥ ३६ ॥ इत्यर्थ इति । ‘गृहीण्येव गृहम्’ इत्युक्तस्तत्र भार्यादृष्टिर्न भवतीत्यथः ॥ ४० ॥ अन्वितार्थप्रकाशिका www. हृष्ट इति । तच्छ्रुत्वा हृष्टो राजा स्नातः शुचिरलंकृतश्च सन् विप्रैः कुमारस्याशिषो वाचथित्वा जातकं जातकर्म कारयामास ॥ ३३ ॥ * * तेभ्य इति । तेभ्यो विप्रेभ्यः हिरण्यादिकान् गजान्तान् प्रादात् तथा धेनूनां षट् अर्बुदानि प्रादात् । अर्बुदं दशकोटयः वेदे तु कोटिरेवार्बुदं नियुतं प्रयुतं चार्बुदं चेति प्रयुतान्तरनिर्देशात् ॥ ३४ ॥ * * वषर्षेति । महामनाः स नृपः कुमारस्य धन्यं धनकरं यशस्यं यशस्करम् आयुष्यम् आयुष्करं यथा तथा अन्येषामपि देहिनां कामान् मनोरथान् पर्जन्य इव ववर्ष यथोचितं पूरयामास । एके तु धन्यमुत्तमं कामं ववर्षेति व्याचख्युः ॥ ३५ ॥ । कृच्छ्रेति । यथा निस्वस्य दरिद्रस्य कृच्छ्राप्ते धनेऽनुदिनं स्नेहोऽनुबर्द्धते तथा कुमारपितुः राजर्षेः चित्रकेतोरथापि कृच्छ्रलब्धे तनयेऽनुदिनं स्नेहोऽन्ववर्द्धत ॥ ३६ ॥ मातुरिति । मातुस्तु मोहादज्ञानात् समुद्भवो यस्य स पुत्रे स्नेहोऽतितरा- मन्त्रवर्द्धतेत्यनुषङ्गः । कृतद्युतेः सपत्नीनां तु प्रजाकामरूपो ज्वरस्तापोऽभवत् ॥ ३७ ॥ * 8 चित्रेति । बालमन्वहं लालयतचित्रकेतोः यथा प्रजावति दारे कृतद्युतौ । एकत्वमार्षम् । अतिप्रीतिः संजज्ञे तथाऽन्येषु प्रजारहितेषु दारेषु न संजज्ञे ॥ ३८ ॥ ता इति । ताः प्रजारहिताः आत्मानं गईयन्त्यः अभ्यसूयया सपल्यां दोषारोपेण अनपत्येन अपुत्रत्वनिमित्तेन राज्ञः । कर्त्तरि षष्ठी । अनादरणेन च पर्यतप्यन् ॥ ३९ ॥ * * गर्हणं दर्शयति- धिगिति । पत्युरपि अगृहसंमतां न गृहे बहुमताम् । यहा अगृहं गृहभिनं वनं तत्रैव संमतां पत्युरपि वनवासदानाहमित्यर्थः । सप्रजाभिः सपत्नीभिः दासीमिव तिरस्कृतां पापामप्रजां स्त्रियं धिक् । असिजभाव आर्षः ॥ ४० ॥
वीरराघवव्याख्या ततः हृष्टो हर्षयुक्तो राजा चित्रकेतुः सथ एवं खात्वा शुचिरुदारमनाः वस्त्रादिभिरलंकृतश्च कुमारस्य विप्रैराशिषो वाचयित्वा जातकं जातकर्म कारयामास ॥ ३३ ॥ * * ततस्तेभ्यो विप्रेभ्यो हिरण्यादीन् धेनूनां पडर्बुदानि च प्रादात् ५५ ४३४ श्रीमद्भागवतम् he [ स्कं. ६ अ. १४ लो. ३३-४० प्रदत्तवान तत्र हया · अश्वा अर्बुदं दश कोटयः शतकोटिर्वाऽर्बुदं “प्रयुतं चार्बुदं च” इति प्रयुतानन्तरं निर्देशात तथान्येभ्योपि बन्धुभृत्यादिभ्यः कामानिष्टार्थान्पर्जन्य इव ववर्ष धनकरं यशस्करं पुत्रस्यायुष्करच यथा भवति तथा ववर्षेति क्रियाविशेषणा- न्येतानि ।। ३४-२५ ।। * * अथ कृच्छ्रलब्धे बहुप्रयासलब्धे तनये पितराजर्षेश्वित्रकेतोः स्नेहोऽन्ववर्द्धत अन्वैधत यथा निःस्वस्य निर्द्धनस्य पुंसः कृच्छ्राप्ते कष्टलब्धे धने स्नेहोऽन्ववर्द्धते तद्वत् ॥ ३६ ॥ * * तथा मातुरपि कृतद्युते- स्तनये ऽतितरां नितरां मोहसमुद्भवः स्नेह अन्ववर्द्धत मोहात्समुद्भवो यस्य मोहसमुद्भवः मोहस्य समुद्भवों यस्मादिति वा तदा कृतद्युतेः सपत्नीनां प्रजाकामज्वरः पुत्राभिलाषरूप सन्तापोऽभवत् ।। ३७ ।। * तदाऽनुदिनं पुत्रं लालयतश्चित्र- केतोः प्रजावति पुत्रवत्यां दारे भार्यायां कृतद्युतौ यथाऽतिप्रीतिस्तथेतरेषु दारेषु प्रीतिर्नासीत् ॥ ३८ ॥ * ततस्तावत् सपत्न्यः आत्मसु राज्ञोऽनादरेणानपत्येन अपुत्रत्वनिमित्तेन दुःखेन च पुत्रवत्यां सपत्न्यां कृतद्युतावभ्यसूयया आत्मानं निन्दयन्त्यः पर्यतप्यन् परितप्ता बभूवुः ।। ३९ ।। * * गहपूर्वकपरितापं तासां दर्शयति – धिगिति द्वाभ्याम् । अप्रजाम- पुत्रवतीमत एव पापां मादृशीं स्त्रियं धिक मादृशी स्त्री निन्द्येत्यर्थः । निन्द्यत्वे हेतूत्वदन्त्यः स्त्रियं विशिषन्ति पत्युश्चागृहसम्मतां गृहे सम्मतेष्टा गृहसम्मता तथा न भवतीत्यगृहसम्मता पत्युर्गृहेऽसम्मताम् इत्यर्थः किञ्च सुप्रजाभिः शोभनापत्यवतीभिः सपत्नी- भिर्दासीमिव तिरस्कृतां तुच्छीकृताम् ॥ ४० ॥ । विजयध्वजतीर्थकृता पदरत्नावली ॥ * कीदृशं कर्माकरोदत्राह । धन्यमिति । धन्यं स्वधनादिसम्पत्करम् ।। ३५ ।। - * * निःस्वस्य दरिद्रस्य ।।३६-३७।। प्रजावति पुत्रवति ॥ ३८-४० ॥ विश्वनाथचक्रवतिकृता सारार्थदर्शिनी धन्यमुत्तमं कामं ववर्षं । न त्वधन्यं महामनाः अत्युदारः ॥ ३५-३६ ।। * * प्रजाकामरुपोज्वरस्तापः ।। ३७-३९ ।। अगृहं गृहभिन्नं वनं तत्रैव सम्मतां पत्युरपि वनवासदानाहमित्यर्थः ॥ ४० ॥ शुकदेवकृतः सिद्धान्तप्रदीपः कुमारस्य आशिषो वाचयित्वा जातक जातकर्म कारयामास ।। ३३ ॥ 8 * षडर्बुदानि षष्टिकोटयः ॥ ३४ ॥ कुमारस्य धन्य धनकर रं यशस्यं यशोवर्द्धनम् आयुष्यमायुष्करम् यथा स्यात्तथा देहिनां यथा कामं पर्जन्य एव ववर्ष ।। ३५ ।। निःस्वस्य निर्धनस्य || ३६ ॥ * * मातुश्च मोहस्य अहं पुत्रवती अयं मे पुत्र इत्येवं भूतस्य संसारपदस्य समुद्भवो यस्मात्स स्नेहोऽतितरामन्त्रवर्द्धतेति पूर्वेणान्वयः । कृतद्युतेः सपत्नीनां तु प्रजाकामरूपो ज्वरस्तापोऽभवत् ॥ ३७ ॥ * * प्रजावति दारे भार्यायां यथा चित्रकेतोरतिप्रीतिस्तथाऽन्येषु दारेषु न सञ्जज्ञे ॥ ३८ ॥ * ता आत्मानं गर्हयन्त्य अनपत्येन अपुत्रत्वनिमित्तेन दुःखेन राज्ञोऽनादरेण च अभ्यसूयया सर्वत्र दोषार्पणेन च पर्यतप्यन् परितप्ताः आसन् ॥ ३६ ॥ पत्युः अगृहसम्मतां न वृत्तिहानान्निः सारयितुं योग्यामित्यर्थः । मादृशीमप्रजां धिक् ॥ ४० ॥ गोस्वामिगिरिधरलाल विहिता बालप्रबोधिनी * तच्छ्रुत्वा दृष्टो राजा स्नातः शुचिरलङ्कृतः सन् विप्रैः कुमारस्याशिषो वाचयित्वा जातकं जातकर्म कारयामासे- त्यन्वयः ॥ ३३ ॥ * तेभ्यो विप्रेभ्यो हिरण्यादि प्रादादित्यन्वयः । अर्बुदं दश कोटयः । वेदे तु कोटिरेवार्बुदम् । नियुतं च प्रयुतं चार्बुदं चेति प्रयुतानन्तरनिर्देशात् ॥ ३४ ॥ अन्येषामपि देहिनां कामान् मनोरथान् पर्जन्य इव बवर्ष यथोचितं पूरयामासेत्यन्वयः । एवं दाने तस्योदारतामाह–महामना इति । एवं दाने राज्ञेोऽभिप्रायमाह - कुमारस्य धन्यं धनकरम्, यशस्यं यशस्करम्, आयुष्यमायुष्करमिति ॥ ३५ ॥ यथा निस्स्वस्य दरिद्रस्य कृच्छ्राप्ते धनेऽनुदिनं स्नेहोऽनुबर्द्धते तथा राजर्षेः चित्रकेतोरथापि कृच्छ्रलब्धे तनयेऽनुदिनं स्नेहोऽन्ववर्द्धतेत्यन्वयः । कोटिभार्यास्वेक: पुत्रो जातोऽ- तस्तत्र स्नेहो भवेदेवेति सूचयितुमाह - पितुरिति ॥ ३६ ॥ मोहादज्ञानात् समुद्रवो यस्य स स्नेहोऽतितरामन्व- वर्द्धतेत्यनुषङ्गः । प्रजाकामरूपो ज्वरस्तापोऽभवत् ॥ ३७ ॥ ॐ दार इत्येकवचनमार्षम् । यथा प्रजावत्सु दारेष्वतिप्रीतिः सञ्जज्ञे तथाऽन्येषु प्रजारहितेषु दारेषु नेत्यन्वयः । तत्र हेतुमाह - बालमिति ॥ ३८ ॥ * * ताः प्रजारहिता आत्मानं गर्हयन्त्यः पर्यतप्यन्नित्यन्वयः । गर्हणे हेतुमाह - अभ्यसूययेति, सपत्न्यां दोषारोपणेनेत्यर्थः । तत्र हेतुः - आनपत्येन अपुत्रत्व- निमित्तेन दुःखेन । तत्र हेतुः - राज्ञ इति ॥ ३६ ॥ गर्हणमेव दर्शयति — धिगिति द्वयेन । वन्ध्यात्वे कारणमाहुः - । ॥ पापामिति । अगृहसम्मतामिति न गृहे सम्मतां न बहुमतामित्यर्थः । भार्यापरिग्रहस्य पुत्रोत्पत्तेरेव मुख्यप्रयोजनत्वादिति भावः । अतस्तिरस्कारोऽपि भवतीत्याहु:- सुप्रजाभिरिति ॥ ४० ॥ *
- । कं. ६ अ. १४ लो. ४१-५०] बैंक अनेकव्याख्यासमलङ्कृतम् भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी
४३५ । हृष्ट इति । ततः हृष्टः पुत्रजन्मश्रवणसमकालमतिशयितहर्ष संप्राप्तः । राजा चित्रकेतु:, स्रातः विहितसचैलस्नानः, शुचिषेचनबलात्तात् कालिकशुद्धतायुक्तः । अलंकृतः परिहतोत्तमवसनादिः, एवंभूतः सन् विप्रैः कुमारस्य आशिषः वाचयित्वा, मङ्गलं मङ्गलरूपं जातकर्मेत्यर्थः । कारयामास ॥ ३३ ॥ तेभ्य इति । ततः, तेभ्यो विप्रेभ्यः, हिरण्यं सुवर्ण, रजतं । ।। रूप्यं, वासांसि नानाविधवस्त्राणि, आभरणानि कटकादीनलंकारान् ग्रामान् संवसथान्, हयानश्वान् गजान्, धेनूनां गवां च षट् अर्बुदानि सः प्रादात् । अर्बुद देश कोटयः । वेदे तु कोटिरेवार्बुदम् । ‘नियुतं च प्रयुतं चार्बुदं च’ इति प्रयुतानन्तर- निर्देशात् ॥ ३४ ॥ * बवर्षेति । देहिनां शरीरिणां, कामानिष्टार्थान्, पर्जन्यो मेघः इव, अन्येषां स्वबन्धुभृत्यादीनां कामान् ववर्ष । बन्ध्वादिभ्योऽभिलषितार्थान् ददावित्यर्थः । किमर्थमेवं तददावित्यत्राह । तदानीं कृतदानमिति शेषः । महात्मनः कुमारस्य धन्यं धनकरं, यशस्यं यशस्करं आयुष्यमायुष्करं ज्ञात्वा ददावित्यर्थः । धन्यादीनि क्रियाविशेषणानि वा ॥ ३५ ॥ * * कृच्छ्रति । अथ पितुः, कुमारजनकस्य, राजर्षेश्वित्रकेतोः, कुच्छलब्धे, बहुप्रयाससंप्राप्ते, तनये निःस्वस्य निर्द्धनस्य, कृच्छ्राप्ते बहुकृच्छ्रलब्धे, धने वित्ते, यथा तथा स्नेहः अनुदिनम् अन्ववर्द्धत ।। ३६ ।। मातुरिति । मातुः कुमारजनन्याः, कृतद्युतेः तु, मोहस्य समुद्भवो यस्मिन, मोहात् समुद्भवो यस्येति वा । एवंविधः पुत्रे स्नेहः, अतितराम् अन्ववर्द्धतेति अनुषञ्जनीयम् । तदा कृतयुतेः सपत्नीनां प्रजाकामज्वरः प्रजाकामरूपस्तापः, अभवत् ॥ ३७ ॥ * * चित्रकेतोरिति । अन्वहं प्रतिदिनं, बाल कुमार लालयतः खेलयतः चित्रकेतोः, प्रजावति पुत्रवति, दारे भार्यायां दार इत्येक- वचनमार्षम् । यथा अतिप्रीतिः आसीत्, तथा अन्येषु दारेषु, न संजज्ञे । नैवासीदित्यर्थः ॥ ३८ ॥ * * ता इति । ततः कृतद्युतौ, अभ्यसूयया आनपत्येन अपुत्रत्वनिमित्तेन दुःखेन राज्ञः अनादरणेन आत्मसु नृपानादरतश्च, आत्मानं स्वं गर्हयन्त्यः निन्दयन्त्यः, ताः पर्यतप्यन् परितप्ता बभूवुः ॥ ३९ ॥ ॐ * स्वगर्हापूर्वकं कृतयुतिसपत्नीनां जातं परितापं ।। दर्शयति । धिगिति द्वाभ्याम् । धिगिति । अप्रजामपुत्रवतीम् अत एव पापां स्त्रियं मादृशीमिति शेषः । धिक् । मादृशी स्त्री निन्द्या इत्यर्थः । निन्द्यत्वहेतून्वदन्त्यः स्त्रियं विशिषन्ति । पत्युः चापि, गृहिण्येव गृहं ‘न गृहं गृहमित्याहुर्गृहिणी गृहमुच्यते’ इति स्मृतेः । न गृहमगृहमिति संमतां ताम्, इयं मदीया भायैव न भवतीत्येवं संमानितामित्यर्थः । गृहिणीत्वेन मानितासु स्त्रीषु मध्ये, पत्याऽतथात्वेन मानितामिति भावः । सुप्रजाभिः शोभनापत्यवतीभिः सपत्नीभिः, दासीमिव स्वगृहदासीवत्, तिरस्कृतां तुच्छीकृताम् ॥ ४० ॥ i भाषानुवादः j
सम्राट् चित्रकेतुके आनन्दका तो कहना ही क्या था । वे स्नान करके पवित्र हुए। फिर उन्होंने वस्त्राभूषणों से सुसज्जित हो, ब्राह्मणोंसे स्वस्तिवाचन कराकर और आशीर्वाद लेकर पुत्रका जातकर्म संस्कार करवाया ।। ३३ ।। * * उन्होंने उन ब्राह्मणोंको सोना, चाँदी, वस्त्र, आभूषण, गाँव, घोड़े, हाथी और छ: अर्बुद गौएँ दान कीं ॥ ३४ ॥ उदारशिरोमणि राजा चित्रकेतुने पुत्रके धन, यश, आयुकी वृद्धिके लिये दूसरे लोगों को भी मुँहमाँगी वस्तुएँ दीं — ठीक उसी प्रकार जैसे मेघ सभी जीवोंका मनोरथ पूर्ण करता है ।। ३५ ।। * * परीक्षित! जैसे यदि किसी कंगालको बड़ी कठिनाईसे कुछ धन मिल जाता है तो उसमें उसकी आसक्ति हो जाती है, वैसे ही बहुत कठिनाईसे प्राप्त हुए उस पुत्रमें राजर्षि चित्रकेतुका स्नेहबन्धन दिनोंदिन दृढ़ होने लगा ।। ३६ ।। * * माता कृतद्युतिको भी अपने पुत्रपर मोहके कारण बहुत ही स्नेह था । परन्तु उनकी सौत रानियोंके मनमें पुत्रकी कामनासे और भी जलन होने लगी ।। ३७ ॥ प्रतिदिन बालकका लाड़-प्यार करते रहनेके कारण सम्राट् चित्रकेतुका जितना प्रेम बच्चेकी मा कृतद्युतिमें था, उतना दूसरी रानियोंमें न रहा ॥ ३८ ॥ * * इस प्रकार तो वे रानियाँ सन्तान न होनेके कारण ही दुःखी थीं, दूसरे राजा चित्रकेतुने उनकी उपेक्षा कर दी । अतः वे बाहसे अपनेको धिक्कारने और मन-ही-मन जलने लगीं ॥ ३६ ॥ * * वे आपस में कहने लगीं - ’ अरी बहिनो ! पुत्रहीन स्त्री बहुत ही अभागिनी होती है पुत्रवाली सौतें तो दासीके समान उसका तिरस्कार करती हैं। और तो और, स्वयं पतिदेव ही उसे पत्नी करके नहीं मानते । सच-मुच पुत्रहीन बी धिक्कारके योग्य है ।। ४० ।। दासीनां को नु सन्तापः स्वामिनः परिचर्यया । अभीक्ष्णं लब्धमानानां दास्या दासीव दुर्भगाः एवं सन्दह्यमानानां सपत्न्याः पुत्रसम्पदा । राज्ञोऽसम्मतवृत्तीनां विद्वेषो ॥ ४१ ॥ बलवानभूत् ॥ ४२ ॥ ४३६ विद्वेषनष्टमतयः स्त्रियो श्रीमद्भागवतम् दारुणचेतसः । गरं ददुः कुमाराय दुर्मर्षा महत् । सुप्तसञ्चन्त्य निरीक्ष्य कृतद्युतिरजानन्ती सपत्नीनामघं [ स्कं. ६ अ. १४ श्लो. ४१-५० नृपतिं प्रति ॥ ४३ ॥ व्यचरद् गृहे ॥ ४४ ॥ शयानं सुचिरं बालमुपधार्य मनीषिणी । पुत्रमानय मे भद्रे इति धात्रीमचोदयत् ।। ४५ ।। सा शयानमु पवज्य दृष्ट्वा चोतारलोचनम् । प्राणेन्द्रियात्मभिस्त्यक्तं हतास्मीत्यपतद्भुवि ॥ ४६ ॥ तस्यास्तदाऽऽकर्ण्य भृशातुरं स्वरं घ्नन्त्याः कराभ्यामुर उच्चकैरपि । प्रविश्य राज्ञी त्वरयाऽऽत्मजान्तिकं ददर्श बाल सहसा मृतं सुतम् ॥ ४७ ॥ पपात भूमौ परिवृद्धया शुचा मुमोह विभ्रष्टशिरोरुहाम्बरा ॥ ४८ ॥ ततो नृपान्तःपुरवर्तिनो जना नरा नार्यश्च निशम्य रोदनम् । आगत्य तुल्यव्यसनाः सुदुःखितास्ताश्च व्यलीकं रुरुदुः कृतागसः ।। ४९ ।। श्रुत्वा मृतं पुत्रमलक्षितान्तकं विनष्टदृष्टिः प्रपतन् स्खलन पथि । स्नेहानुबन्धैधितया शुचा भृशं विमूच्छितोऽनुप्रकृतिद्विजैर्वृतः ॥ ५० ॥ कृष्णप्रिया व्याख्या * ॥ bet, FIMENT ORPO FÍSPRIK TERVE अन्वयः स्वामिनः परिचर्यया अभीक्ष्णम् लब्धमानानाम् दासीनाम् कः नु संतापः दास्याः दासी इव दुर्भगाः ॥ ४१ ॥ * एवं सपत्न्याः पुत्रसंपदा संदह्यमानानाम् राज्ञः असंमतवृत्तीनाम् विद्वेषः बलवान् अभूत् ।। ४२ ।। विद्वेषनष्टमतयः दारुणचेतसः स्त्रियः नृपतिम् प्रति दुर्मर्षाः कुमाराय गरम् ददुः ॥ ४३ ॥ * * कृतद्युतिः सपत्नीनाम् महत् अघम् अजानती सुप्तः एव इति निरीक्ष्य गृहे व्यचरत् ॥ ४४ ॥ ॥ ४४ ॥ मनीषिणी बालम् सुचिरम् शयानम् उपधार्य भद्रे मे पुत्रम् आनय ॥ इति धात्रीम् अचोदयत् ।। ४५ ।। सा शयानम् उपव्रज्य च उत्तारलोचनम् प्राणेन्द्रियात्मभिः त्यक्तं दृष्ट्वा हता अस्मि इति भुवि अपतत् ॥ ४६ ॥ * * तदा राज्ञी कराभ्याम् उच्चकैः अपि उरः प्रन्त्याः तस्याः भृशा- तुरं स्वरम् आकर्ण्य त्वरया आत्मजान्तिकम् प्रविश्य सहसा मृतम् बालम् सुतम् ददर्श ॥ ४७ ॥ * * विभ्रष्टशिरो- रुहाम्बरा भूमौ पपात परिवृद्धया शुचा मुमोह ॥ ४८ ॥ ततः नृपान्तःपुरवर्तिनः जनाः च नराः च नार्यः रोदनम् निशम्य आगत्य तुल्यव्यसनाः सुदुःखिताः रुरुदुः कृतागसः ताः च व्यलीकम् ॥ ४६ ॥ * * अलक्षितान्तकम् मृतम् पुत्रम् श्रुत्वा विनदृष्टिः प्रपतन् स्खलन स्नेहानुबंधैधितया भृशम् शुचा अनुप्रकृतिः द्विजैः वृतः विमूर्च्छितः ।। ५० ।। श्रीधरस्वामिविरचिता भावार्थदीपिका दास्या दासी यथा तथा वयं दुर्भगाः ॥ ४१ ॥ * न संमता वृत्तिर्जीवनं यासाम् ॥ ४२ ॥ मतिर्विवेको यासां ताः । गरं विषम् । दुर्मर्षा असहमानाः ॥ ४३-४४ ॥ । ।। ॥ * धात्रीं विद्वेषेण नष्टा माता यिनीम् ।। ४५ ।। ६
-
- उगवे तारके कनीनिके ययोस्ते लोचने यस्य तम् ।। ४६-४७।। * ॐ विभ्रष्टाः शिरोरुहा अंबरं च यस्याः सा ॥ ४८ ॥ * * ताश्च सपत्नयोऽपि ॥ ४९ ॥ * * अलक्षितोंतको मृत्युहेतुर्यस्य तम् । अनुगताः प्रकृतयोऽमात्यादयो यस्य सोऽनुप्रकृतिः ।। ५० ।। वंशीधरकृतो भावार्थदीपिकाप्रकाशः ॐ दुर्भगा: संततिनिस्सरणरहितस्मरमंदिराः ॥ ४१ ॥ नृपति प्रति दुर्मर्षाः राज्ञो वृत्तमसद- मानाः ॥ ४३-४४ ॥ * * हे भद्रे इति । निजपुत्रभद्रकारिणीत्वेन । यद्वा-२ ।। हे भद्रे इति । निजपुत्रभद्रकारिणीत्वेन । यद्वा - भद्रेतिनाम्नी साऽतस्तन्नाम्नैव तामनोदय- दिति भावः ।। ४५ ।। * * हतास्मीत्युक्त्वापतत् ।। ४६ ।। तस्या धात्र्याः । भृशमत्यर्थम् । आतुरं । । ॥ ४९ तथा वात्र्याः । भृशमत्यर्थम् । आतुरं दुःखजनकम् । खरं । FIREFER १. प्रा० पा० - विद्वेषान्नृप० । २. प्रा० पा० - पुपा० । २. प्रा० पा० तातलो० Free एक. ६ अ. १४ श्लो. ४१-५०] अनेकव्याख्यांसमलङ्कृतम् रोदनशब्दम् । सहसाऽवितर्कितं रोगाद्यभावात् मृतम् ॥ ४७ ॥ * * विभ्रष्टा इतस्ततस्खलिताः केशा ऊर्ध्वा- । धोवखे च ॥ ४८ ॥ * * ततो राज्ञीरोदनस्वरादिश्रवणोत्तरम् । तुल्यव्यसनाः सुदुःखिता इत्यंतःपुरवर्त्तिस पत्नीतरनर- नारीविशेषणम् । याभिर्मारितस्ताश्च विशेषेणालीकं मृषैव रुरुदुः ॥ ४९ ॥ * * मृत्युहेतुर्ज्वरादिरित्यर्थः ।। ५०-५१ ।। &t अन्वितार्थप्रकाशिका दासीनामिति । स्वामिनः परिचर्यया अभीक्ष्णं लब्धो मानः सम्मानो याभिस्तासां दासीनां कोऽनुसंतापो भवेत् न. कोऽपीत्यर्थः । दुर्भगाः वयं तु यथा दास्याः दासी भवति तथा नादरपात्राणि । यद्वा । दास्या दासीव कस्याश्च दुर्भगाया दास्या दास्या इव वयं दुर्भगाः ॥ ४१ ॥ * * । एवं सपत्न्याः पुत्रसम्पदा 1 वृत्तिर्जीवनं यासां तासां पत्नीनां बलवान् विद्वेषः अवमानानां राज्ञो न सम्मता ।। ४२ । 8 ॥ ॥ । 83 विद्वेषेति । विद्वेषेण नष्टा मतिविवेको यासां ताः दारुणचेतसः नृपतिं प्रति दुर्मर्षाः तदनादरमसहमानाः स्त्रियः कुमाराय विषं ददुः ॥ ४३ ॥ * * कृतेति । कृतद्युतिश्व सपत्नीनां महत् अघं विषदानरूपमपराधम् अजानन्ती । नुमाषः । बालः सुप्त एवेति संचिन्त्य सुप्तवन्निरीक्ष्य गृहे व्यचरत् ॥ ४४ ॥ * * शयानमिति । मनीषिणी धीमती कृतद्युतिः बाल सुचिरं शयानम् उपचार्य संचिन्त्य हे भद्रे ! मे पुत्रमानयेति धात्री स्तनदात्रीमचोदयत् ।। ४५ ।। * * सेति । सा धात्री शयानं बालमुपत्रज्य उगते तारके कनीनिके ययोस्ते लोचने यस्य तथाभूतं प्राणादिभिस्त्यक्तं रहितं च दृष्ट्वा हताऽस्मीति ब्रुवाणा भुवि अपतत् ।। ४६ ।। * * तस्या इति । कराभ्यामुरो घ्नन्त्यास्तस्याः । नुमार्ष: । धात्र्यास्तद्भृशातुरमतिव्याकुलमुञ्चकैः स्वरमाकर्ण्य राज्ञी त्वरयाऽऽत्मजान्तिकं प्रविश्य सहसा आकस्मिकेन बाल सुतं मृतं ददर्श ।। ४७ ।। * * पपातेत्यर्द्धम् । दृष्ट्वा च भूमौ पपात तथा विभ्रष्टाः विकीर्णाः शिरोरुहा अम्बरे च यस्याः सा परिवृद्धया शुचा शोकेन मुमूर्च्छ ॥ ४८ ॥ * तत इति । ततश्च हे नृप अन्तःपुरवर्त्तिनो नरा नार्यश्च सर्वेपि जना रोदनं निशम्य तुल्यं व्यसनं येषां ते तत्रागत्य रुरुदुः तथा कृतमागः विषदानं याभिस्ताश्च सपत्न्योऽपि व्यलीकं मिथ्यैव सुदुःखितास्तत्रागत्य रुरुदुः ।। ४९ ॥ * मृत्युहेतुर्यस्य तं पुत्रं श्रुत्वा विनष्टा दृष्टिर्यस्य सः स्नेहस्य योऽनुबन्धः निरन्तरानुवृत्तिस्तेन स्खलन च स चित्रकेतुस्तत्रागत्य विमूर्च्छितः सन् अनुगताः प्रकृतयोऽमात्यादयो यस्य स श्वसंश्च मृतस्य बालस्य पादमूले पपात । अमात्यादयः ब्राह्मणादयश्चापि पेतुरित्यर्थः । ततश्च मूर्च्छागमेऽपि बाष्पकलाभिरश्रुबिन्दु- । भिरुपरोधतः संवृतत्वेन निरुद्धः कण्ठो यस्य सः किंचिद्भाषितुं न शशाक ।। ५०-५१ ।। वीरराघवव्याख्या श्रुत्वेति युग्मम् । अलक्षितोऽन्तको एधितया शुचा पथि भृशं प्रपतन् द्विजैर्वृत्तश्च विस्रस्तशिरोरुहाम्बरः दीर्घं किञ्च दास्यपेक्षयाप्यपुत्रा नारी निंद्येत्यात्मनो गर्हयन्ते - दासीनामिति । दासिनां को नुसन्तापः न कोपि सन्ता- पोऽस्ति तत्र हेतुः परिचर्यया सेवया स्वामिनः सकाशादभीक्ष्णं पुनः पुनः लब्धः काम इष्टार्थो याभिस्तासां स्वामिनः लब्धकामानामिति वान्वयः । अतो वयं दास्याः दासीव दुर्भगाः ॥ ४१ ॥ * * एवं सपत्न्याः कृतद्युतेः पुत्रसम्पदा नितरां ‘वर्यया दह्यमानचित्तानां राज्ञश्चित्रकेतोर्न सम्मता वृत्तिर्जीवनं यासां तासां बलवान् विद्वेषोऽभूत् ।। ४२ ।। * * ततो नृपतिं चित्रकेतुं दुर्मर्षा असहमानास्तद्विद्वेषेण नष्टविवेकाः क्रूरचित्ताः स्त्रियः कुमाराय गरं विषं ददुः ॥ ४३ ॥ सपत्नीनां महदचं गरदानरूपमजानती कृतद्युतिः केवलं कुमारं वीक्ष्य सुप्त एवेति मत्वा गृहे व्यचरत्सञ्चचार । ४४ ॥ * * कुमारं सुचिरतरं सुप्तमुपधार्य विज्ञाय मनीषिणी पुत्रलालनविषयक बुद्धिमती कृतद्युतिः हे भद्रे ! मे पुत्रमानयेति धात्री स्तन्यदायिनी- मचोदयत् ॥ ४५ ॥ * * सा धात्री शयानं सुप्तं तम् उपव्रज्य कुमारसमीपङ्गत्वा उत्तारे उगते तारके कनीनिके ययोस्ते ।। ।। लोचने यस्य तादृशं प्राणैरिन्द्रियैरात्मना जीवेन च व्यक्तं दृष्ट्वा हा हतास्मीति क्रोशन्ती भुव्यपतत् ।। ४६ ।। * * कराभ्या- मुचैरतितरां उरो घ्नन्त्यास्ताडयन्त्या स्तस्या धात्र्याः नितरामातुरं दुःखयुक्तं दीनं स्वरमाकर्ण्य राज्ञी कृतद्युतिः त्वरया आत्मज- स्वान्तिकं प्रविश्य सहसा सर्वथा मृतमेव बाल सुतं ददर्श ॥ ४७ ॥ * * ततः भूमौ पपात तथा परिवृद्धया एधमानया शुचा शोकेन मुमोह विचित्ताऽभूत् । मोहमेव दर्शयितुं तां विशिनष्टि - विभ्रष्टशिरोरुहाम्बरा विभ्रष्टाः विलुलिताः शिरोरुहाः केशा अंबरे च यस्याः सा ॥ ४८ ॥ * * ततः नृपस्यान्तः पुरवासिनो जनाः हे नृपेति सम्बोधनं वा जनानेवाह नराना- र्यश्चेति । नरा नार्यश्च सर्वे जना रोदनमाकर्ण्य कुमारसमीपमागत्य राज्ञा सह तुल्यदुःखाः सुदुःखिता बभूवुः । तदा कृतागसः गरदानेन कृतापराधा अपि ताः सपल्यः समागत्य व्यलीकं निष्कपटमिव यद्वा सकपटं यथा तथा मिथ्या वा रुरुदुः स्वाऽपराधं प्रच्छादयितुमिति भावः ॥ ४६ ॥ * * न लक्षितः मृत्युहेतुर्यस्य तं मृतं सुतं श्रुत्वा स चित्रकेतुः दुखितो भूदिति शेषः । ॥ :: — ४३८ श्रीमद्भागवतम् [ स्कं. ६ अ. १४ श्लो. ४१-५० तदेवाह - विनष्टदृष्टिरिति । पुत्रे स्नेहानुबन्धः तेनानुबद्धस्तेन हेतुना एधितया वर्द्धितया शुचा शोकेनातीव पीडितः अत एव विनष्ट- दृष्टिर्यस्याsत एवं पथि कचित्प्रपतन् कचिश्च स्खलन कचिद्विमूर्च्छितः स राजराजः चित्रकेतुरनुसृत्य गच्छद्भिः प्रकृतिभिरमात्यादिभिः द्विजैश्च परिवृतः ॥ ५० ॥ विजयध्वजतीर्थकृता पदरत्नावली स्वामिनः स्नेहाभावे दासीत्वमप्रयोजकमित्याह । दासीनामिति ।। ४१-४२ ।। धात्री स्तनदात्रीम् ॥ ४५ ॥ ४ * उत्तारलोचनम् उन्नततारायुक्तनेत्रम् ।। ४६-४९ ।। सप्रकृतिजनः ।। ५०-५२ ।। विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी गरं विषम् ॥ ४३-४४ ॥
- 8 अनुप्रकृतिः दास्या दासीव कस्याश्चिद्दुर्भगाया दास्या इव वयं दुर्भगा इत्यर्थः ॥ ४१ ॥ * राज्ञोऽसम्मता वृत्तिश्चरित्रं यासाम् ॥ ४२ ॥ * * दुर्म्मर्षा असहमानाः ।। ४३-४६ ।। * * बालमेव सुतं तं मृतं ददर्शेत्यन्वयः ।। ४७-४८ ॥ ताश्च सपत्न्योऽपि ॥ ४९ ॥ * * अलक्षितोऽन्तको मृत्युर्थस्य तम् अनुप्रकृतिः अनुगतामात्यसुहृदादिकः द्विजैर्वृतः पपातेति अमात्यादयो ब्राह्मणादयश्च पेतुरित्यर्थः ।। ५०-५१ ।। शुकदेवकृत: सिद्धान्तप्रदीपः ४२ ।।
-
४४ ॥ ** दास्या दासीव दुर्भगा वयमिति शेषः ।। ४१ ।। राज्ञो न सम्मता वृतिर्जीवनं यासाम ।। विद्वेषेण नष्टा मतिर्यासां ताः नृपतिं प्रति दुर्मर्षा क्रुद्धाः ॥ ४३ ॥ * * महदघं विषदानरूपं पापम् ॥ धात्री स्तनदायिनीमचोदयत् ।। ४५ ।। * उगते तारे कनीनिके ययोस्ते लोचने यस्य तम् । प्राणेन इन्द्रियैः आत्मना जीवेन च त्यक्तं मृतं दृष्ट्वा ।। ४६ ।। * * कराभ्यामुञ्चकैरुर: घ्नन्त्या भृशातुरं स्वरमाकर्ण्य सहसा बालमेव सुतं मृतं ददर्श ॥४७॥ विभ्रष्टाः शिरोरुहाः अंबरे च यस्याः सा पपात मुमोह च ॥ ४८ ॥ तदनन्तरं नृपान्तपुरवर्त्तिनो जनाः तुल्यव्यसनाः अत एव सुदुःखिताः रुरुदुः ताश्च कृतागसः सपत्न्यो व्यलीकं मृषैव रुरुदुः ।। ४९ ॥ * * न लक्षितोऽन्तको मृत्यु- हेतुर्यस्य तम् मृतं श्रुत्वा विनष्टा दृष्टिर्यस्य स स्नेहानुबन्धेनैधितया वर्द्धितया शुचा शोकेन भृशं विमूर्च्छितः अनु अनुगताः प्रकृत- योऽमात्यादयो यस्य सः ।। ५० ।। * गोस्वामिगिरिधरलालविहिता बालप्रबोधिनी * सन्तापाभावे हेतुमाहुः - स्वामिनः परिचर्यया अभीक्ष्णं लब्धो मानः सन्मानो याभिस्तासामित्यर्थः । वयं त्वनादर- पात्रत्वात् यथा दास्या दासी तथा दुर्भगाः ॥ ४१ ॥ * * राज्ञो न सम्मता वृत्तिर्जीवनं यासां तासाम् ॥ ४२ ॥ * * विद्वेषेण नष्टा मतिर्विवेको यासां ताः । द्वेषे हेतुः - नृपतिं प्रति दुर्मर्षाः तदनादरमसहमानाः । तत्रापि हेतुः - दारुणचेतस इति । तत्रापि हेतुः - स्त्रिय इति । कुमाराय गरं विषं ददुः ॥ ४३ ॥ * अघं विषदानरूपमपराधं निरीक्ष्य सुप्तमिति शेषः ॥ ४४ ॥ * * धात्री स्तनदायिनीम् ॥ ४५ ॥ सा धात्री शयानं बालमुपव्रज्य उगते तारके कनीनिके ययोस्ते लोचने यस्य तथाभूतं प्राणादिभिस्त्यक्तं रहितं च दृष्ट्वा हताऽस्मीति ब्रुवाणा भुवि अपतदित्यन्वयः ॥ ४६ ॥ ॐ कराभ्यामुरो नन्त्यास्तस्याः धात्र्याः तद्भृशातुरमतिव्याकुलमुच्चकैः स्वरमाकर्ण्य राज्ञी त्वरयाऽत्मजान्तिकं प्रविश्य सहसा आकस्मिकेन बालं सुतं मृतमपि ददर्शेत्यन्वयः ॥ ४७ ॥ दृष्ट्वा च भूमौ पपात । पतने हेतुः - परिवृद्धया शुचा शोकेन मुमोह | मोहे चिह्नमाह - विभ्रष्टाः विकीर्णाः शिरोरुहा अम्बरे च यस्याः सा । ततश्च हे नृप अन्तःपुरवर्त्तिनो नरा नार्यश्च सर्वेऽपि जना रोदनं निशम्य तुल्यं व्यसनं येषां ते तत्रागत्य रुरुदुरित्यन्वयः । कृतमागः विषदानं याभिस्ताश्च सपत्न्योऽपि व्यलीकं मिथ्यैव सुदुःखितास्तत्रागत्य रुरुदुरित्यन्वयः ॥ ४८ ॥ * * अलक्षितोऽन्तको मृत्युहेतुर्यस्य तं पुत्रं ।। ।। मृतं श्रुत्वा विनष्टा दृष्टिर्यस्य सः अनुगताः प्रकृतयोऽमात्यादयो यस्य सः चित्रकेतुः तत्रागत्य मृतस्य बालस्य पादमूले पपातेत्यु- श्तरेणान्वयः ॥ ४९ ॥ * * बाष्पकलाभिरश्रुबिन्दुभिरुपरोधतः संमृतत्वेन निरुद्धः कण्ठो यस्य सः किञ्चिद्भाषितुं न शशाकेत्यन्वयः || ५० ॥ भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी किं च दास्यपेक्षयाप्यपुत्रा नारी निन्द्येत्यात्मानं गर्हयन्ते । दासीनामिति । परिचर्यया हेतुना, सम्यकू सेवाचरण- निमित्तेनेत्यर्थः । स्वामिनः सकाशात्, अभीक्ष्णं पुनः पुनः लब्धो मानः कामो याभिस्तासां संपरिचर्या लब्धाभीष्टार्थानमित्यर्थः ।स्कं ६ अ. १४ लो. ४१-५० ] अनेकव्याख्यासमलंकृतम् ४३९ एव इति संचिन्त्य मत्वा, गृहे व्यचरत कृतद्युतिः, बालं सुचिरं शयानम् उपधार्य, * सेति । सा धात्री, शयानं कृतशयनम् इन्द्रियाणि च आत्मा जीवश्च तैः त्यक्तं, दासीनां कोऽनु को वा संतापः । न कोऽपि । अतो वयं तु दास्याः दासी इव दुर्भगाः अतितुच्छाः ॥ ४१ ॥ * * एवमिति । एवं सपत्न्याः कृतद्युतेः पुत्रसंपदा संदह्यमानानां नितरां दह्यमानचित्तानां राज्ञश्चित्रकेतोः, न संमता वृत्तिर्जीवनं यासां तासां चित्रकेतुनाऽसमर्पितवृत्तीनामित्यर्थः । स्त्रीणां बलवान विद्वेषः अभूत् ।। ४२ । * * विद्वेषेति । ततः नृपतिं चित्रकेतुं प्रति दुर्मर्षाः चित्रकेतुकृतानादरमसहमाना इत्यर्थः । विद्वेषेण नष्टा मतिर्यासां ताः, विद्वेषविनष्टविवेका इत्यर्थः । दारुणचेतसः क्रूरचित्ताः, स्त्रियः कुमाराय गरं विषं ददुः ॥ ४३ ॥ * कृतद्युतिरिति । सपत्नीनां महत् अघं गरप्रदानरूपम् अजानन्ती कृतद्युतिः, निरीक्ष्य केवलं कुमारं वीक्ष्येत्यर्थः । सुप्तः संचचार ॥ ४४ ॥ * * शयानमिति । मनीषिणी पुत्रलालनविषयक बुद्धिमती हे भद्रे, मे मम पुत्रन आनय । इत्येवं धात्रीम् अचोदयत् प्रेरयामास ।। ४५ ।। उपव्रज्य सुप्तकुमारसमीपं गत्वा, उत्तारे उगतकनीनिके लोचने यस्य स तं प्राणश्च दृष्ट्वा च हतास्मीति क्रोशन्ती, भुवि अपतत् ॥ ४६ ॥ * * तत्या इति । कराभ्याम् उच्चैरतितरां उरो वक्षः, घ्नन्त्याः, ताडयन्त्याः, भृशातुरं नितरामातुरतोपेतं स्वरम् आकर्ण्य तदा तत्क्षणमेव राज्ञी कृतद्युतिः, त्वरया आत्मजान्तिकं स्वपुत्रान्ति- कप्रदेशं प्रविश्य, सहसा मृतं बालं सुतं ददर्श । ततः भूमौ पपात । परिवृद्धया एधमानया, शुचा शोकेन, विभ्रष्टा विलुलिता: शिरोरुहाः केशाः अम्बरे वस्त्रे च यस्याः सा, एवंभूता सती, मुमोह विचित्ता बभूव ॥ ४७ ॥ तत इति । ततः नृपान्तःपुरवर्त्तिनः, नृपेति संबोधनं वा । जनाः नराः, नार्यश्च रोदनं निशम्याकर्ण्य, आगत्य कुमारसमीपमेत्य तुल्यव्यसना राज्ञ्या सह समानदुःखाः, अत एव, सुदुःखिताश्च बभूवुः । कृतागसो गरदानेन कृतापराधा: चापि, ताः सपत्न्यः व्यलीकं सकपटं यथा तथा, रुरुदुः । स्वापराधं प्रच्छादयितुं भृशं रोदनं चक्रुः ॥ ४८ ॥ * श्रुत्वेति । अलक्षितः लक्ष्यविषयं न प्राप्तः अन्तको मृत्युहेतुर्यस्य तं मृतं पुत्रं श्रुत्वा स चित्रकेतुः, नष्टा दृष्टिर्ज्ञानं यस्य सः, अत एव पथि स्खलन् कचित् प्रपतन् स्नेहानुबन्धः पुत्रे प्रीत्याधिक्यं तेन एधिता वृद्धिं प्राप्ता तया, शुचा शोकेन, भृशं विभूच्छितश्च सन्, अन्वनुसृत्यागच्छद्भिः प्रकृतिद्विजैः अमात्यादिप्रकृतिभिः ब्राह्मणैश्च वृतः । कुमारान्तिके आययाविति शेषः ॥ ४९ ॥ पपातेति । स नृपः, मृतस्य ।। बालस्य, पादमूले, पपात । विस्रता शिरोरुहा अम्बराणि वस्त्राणि च यस्य सः, दीर्घ श्वसन बाष्पकलोपरोधतः निरुद्ध कण्ठः, बाष्पस्य द्वेधा गतिः नेत्रद्वारा बहिर्निःसरणं गलान्तःप्रवेशो वा । तत्र बहिर्निःसरणे नेत्रोपरोधः, गलान्तःप्रवेशे निरुद्धकण्ठता गद्गदाक्षरभाषणं च । बाष्प कलोपरोधजातकण्ठावरोधः सन्नित्यर्थः । भाषितुं कुमारमुद्दिश्य किंचिदपि वक्तुं न शशाक ॥ ५० ॥ भाषानुवादः ।। । भला, दासियों को क्या दुःख है ? वे तो अपने स्वामीकी सेवा करके निरन्तर सम्मान पाती रहती हैं । परन्तु हम अभागिनी तो इस समय उनसे भी गयी-बीती हो रही हैं और दासियोंकी दासीके समान बार-बार तिरस्कार पा रही हैं ॥ ४१ ॥ * * परीक्षित ! इस प्रकार वे रानियाँ अपनी सौतकी गोद भरी देखकर जलती रहती थीं और राजा भी उनकी ओरसे उदासीन हो गये थे । फलतः उनके मनमें कृतद्युतिके प्रति बहुत अधिक द्वेष हो गया ॥ ४२ ॥ * * दूषके कारण रानियोंकी बुद्धि मारी गयी । उनके चित्तमें क्रूरता छा गयी। उन्हें अपने पति चित्रकेतुका पुत्रस्नेह सहन न हुआ । इसलिये उन्होंने चिढ़कर नन्हे-से राजकुमारको विष दे दिया ।। ४३ ॥ * महारानी कृतद्युतिको सौतोंकी इस घोर पापमयी करतूतका कुछ भी पता न था । उन्होंने दूरसे देखकर समझ लिया कि बच्चा सो रहा है । इसलिये वे महलमें इधर-उधर डोलती रहीं ॥ ४४ ॥ * * बुद्धिमती रानीने यह देखकर कि बच्चा बहुत देरसे सो रहा है, धायसे कहा- ‘कल्याणी ! मेरे लालको ले आ’ ॥ ४५ ॥ * धायने सोते हुए बालकके पास जाकर देखा कि उसके नेत्रोंकी पुतलियाँ उलट गयी हैं । प्राण, इन्द्रिय और जीवात्माने भी उसके शरीर से विदा ले ली है । यह देखते ही ‘हाय रे ! मैं मारी गयी ।’ इस प्रकार कहकर वह धरतीपर गिर पड़ी ।। ४६ ।। * * धाय अपने दोनों हाथोंसे छाती पीट-पीटकर बड़े आर्त स्वरमें जोर-जोर से रोने लगी । उसका रोना सुनकर महारानी कृतद्युति जल्दी-जल्दी अपने पुत्रके शयनगृहमें पहुँचीं और उन्होंने देखा कि मेरा छोटा-सा बच्चा अकस्मात् मर गया है ! ।। ४७ ।। ।। ४७ ।। * * तब वे अत्यन्त शोकके कारण मूर्छित होकर पृथ्वीपर गिर पड़ी। उनके सिरके बाल बिखर गये और शरीरपरके वस्त्र अस्त-व्यस्त हो गये ।। ४८ ।। * * तदनन्तर महारानीका रुदन सुनकर रनिवासके सभी स्त्री-पुरुष वहाँ दोड़ आये और सहानुभूतिवश अत्यन्त दुःखी होकर रोने लगे । वे हत्यारी रानियाँ भी वहाँ आकर झूठ-मूठ रोनेका ढोंग करने लगीं ।। ४९ ।। * * जब राजा चित्रकेतुको पता लगा कि.. मेरे पुत्रकी अकारण ही मृत्यु हो गयी है, तब अत्यन्त स्नेहके कारण शोकके आवेगसे उनकी आँखोंके सामने अँधेरा छा गया। वे धीरे-धीरे अपने मन्त्रियों और ब्राह्मणों के साथ मार्ग में गिरते पड़ते मृत बालकके पास पहुँचे और मूर्छित होकर उसके पैरोंके पास गिर पड़े । ।। ५० ।। ४४० श्रीमद्भागवतम् te [स्कं. ६ अ. १४ लो. ५१-५८ ।। 8 ।। पपात बालस्य स पादमूले मृतस्य विस्रस्तशिरोरुहाम्बरः । दीर्घ श्वसन बाष्पकलो परोधतो निरुद्धकण्ठो न शशाक भाषितुम् ।। ५१ बाष्पकोपरोधतो ॥ कोर्स क पति निरीक्ष्योरुशुचार्पितं तदा मृतं च बालं सुतमेकसन्ततिम् । २५ जनस्य राज्ञी प्रकृतेश्व हृद्रुजं सती दधाना विललाप चित्रधा ॥ ५२ ॥ स्तनद्वयं कुङ्कुमगन्धमण्डितं निषिश्चती साञ्जनवाष्पविन्दुभिः । विकीर्य केशान् विगलत्स्रजः सुतं शुशोच चित्रं कुररीव सुस्वरम् ।। ५३ ।। अहो विधातस्त्वमतीव बालिशो यस्त्वात्मसृष्ट्यप्रतिरूपमीहसे । परेऽनुजीवत्यपरस्य या मृतिर्विपर्ययश्चेत्त्वमसि ध्रुवः परः ॥ ५४ ॥ न हि क्रमश्चेदिह मृत्युजन्मनोः शरीरिणामस्तु तदाऽऽत्मकर्मभिः । यः स्नेहपाशी निजसर्गवृद्धये स्वयं कृतस्ते तमिमं विश्वसि ।। ५५ ।। त्वं तात नार्हसि च मां कृपणामनाथां त्यक्तुं विचक्ष्व पितरं तव शोकतप्तम् । अञ्जस्तरेम भवताप्रजदुस्तरं यद् ध्वान्तं न याह्यकरुणेन यमेन दूरम् ।। ५६ ।। bar उत्तिष्ठ तात त इमे शिशवो वयस्यास्त्वामाह्वयन्ति नृपनन्दन संविहर्तुम् । सुप्तश्विरं शनया च भवान् परीतो भुङ्क्ष्व स्तनं पिव शुचो हर नः स्वकानाम् ॥ नाहं तनुज दद्दशे हतमङ्गला ते मुग्धस्मितं मुदितवीक्षणमाननाब्जम् । किं वा गतोऽस्यपुनरन्वयमन्यलोकं नीतोऽघृणेन न शृणोमि कला गिरस्ते ॥ ५८ ॥ १४ from कृष्णप्रिया व्याख्या अन्वयः — विस्रस्तशिरोरुहाम्बरः सः मृतस्य बालस्य पादमूले पपात दीर्घ श्वसन बाष्पकलोपरोधतः निरुद्ध कण्ठः भाषितुं न शशाक ।। ५१ ।। * * तदा राज्ञी एकसंततिम् उरुशुचार्पितम् पतिं च मृतं बालं सुतं निरीक्ष्य जनस्य च प्रकृतेः हृद्रुजं दधाना सती चित्रधा विललाप ॥ ५२ ॥ * कुंकुमगन्धमण्डितं स्तनद्वयं साञ्जनबाष्पबिन्दुभिः निषिञ्चती विगल- त्स्रजः केशान विकीर्य कुररी इव सुस्वरम् सुतम् चित्रम् शुशोच ॥ ५३ ॥ * * अहो विधातः त्वम् अतीव बालिशः यः तु आत्मसृष्ट पप्रतिरूपम् ईहसे परे अनुजीवति अपरस्य या मृतिः विपर्ययः चेत् त्वम् ध्रुवः परः असि ।। ५४ ।। ** इह मृत्युजन्मनोः हि क्रमः न चेत् तद् शरीरिणाम् आत्मकर्मभिः अस्तु निजसर्गवृद्धये यः स्नेहपाशः ते कृतः तम् इमम् स्वयम् विवृश्चसि ।। ५५ ।। * * तात त्वम् कृपणाम् अनाथाम् माम् त्यक्तुं न अर्हसि च तव तप्तम् पितरम् विचक्ष्व यत् भवता अप्रजदुस्तरम् ध्वांतम् अंज: तरेम अकरुणेन यमेन दूरम् न याहि नृपनंदन तात उत्तिष्ठ ते इमे वयस्याः शिशवः संविहर्तुम् त्वाम् आह्वयन्ति च हि चिरम् सुप्तः च भवान् अशनया परीतः भुंक्ष्व स्तनम् पिब स्वकानाम् नः शुचः हर तनूज हतमङ्गला अहम् मुग्धस्मितम् मुदितवीक्षणम् ते आननाब्जम् न ददृशे किंवा अघृणेन नीतः अ पुनरन्वयम् अन्यलोकम् गतः असि ते कला: गिरः न शृणोमि ॥ ५८ ॥ श्रीधरस्वामिविरचिता भावार्थप्रदीपिका बाष्पकलाभिरश्रुबिन्दुभिरुपरोधतः संवृतत्वेन निरुद्धः कंठो यस्य ।। ५१ । *** उरुचार्पितं बहुशोकेन व्याप्तम् । एकमेव संततिरूपम् ॥ ५२ ॥ * * विगलंत्यः स्रजो येभ्यस्तान् केशान् ॥ ५३ ॥ * आत्मसृष्टेर- प्रतिरूपमननुरूपं चेष्टसे । तदेवाह । नु अहो परे वृद्धे जीवत्यपरस्य बालस्य या मृतिस्तत् । तदा हि वृद्धस्य सृष्टिसामर्थ्याभावे बाले च मृते सति तव सृष्टिर्नष्ठा स्यादित्यर्थः । ननु सांप्रतं स्वसृष्टेर्विपरीतोऽस्मीति चेत्तत्राह । विपर्ययो विपरीतोऽसि चेन्तर्हि एवं प्राणिनामतिदुःखकारित्वात् ध्रुवो नित्यः परः शत्रुरसि । न तु कृपालु रित्यर्थः ॥ ५४ ॥ ननु जीवकर्मानुसारेण १. प्रा० पा० ✪ -ऽस्य परमन्व• I स्कं. ६अ. १४ लो. ५१-५८ ] अनेकव्याख्यासमलङ्कृतम् ४४१ जन्मादि कुर्वतो मम कोऽपराधस्तत्राह । न हीति । पुत्रे जीवत्येव पिता म्रियते पितरि जीवत्येव पुत्रो जायत इति च क्रमो नास्ति, कर्माधीनत्वादिति चेत्तर्यात्मकर्मभिरेव तज्जन्मादिकमस्तु किं त्वया कृत्यम् । ननु मयेश्वरेण विना जडैः कर्मभिरिद कथं सिध्येत् । भवतु नाम तथाऽपि निजस वृद्धये तेः त्वया स्नेहपाशः कृतस्तमिमं स्वयमेव विवृश्चसि छिनत्सीत्यादि क्रोशति न ह्येवंविधं दुःखं दृष्ट्वा कश्चिदपि पुत्रादिषु स्नेहं करिष्यतीति भावः ॥ ५५ ॥ - ६ अमजदुस्तरमप्रजानां दुस्तरम् । ध्वांतं तमिस्रम् अंजः अनायासेन तरेम । अकरुणेन सह ॥। ५६ ।। अशनया क्षुधा ॥ ५७ ॥ ४ तनूज हे पुत्र नाहं प्रथमं स्वत्पार्श्वमागता सती तब मुग्धस्मितं वक्त्रं ददृशे दृष्टवत्यस्मि । इदानीमपि गिरो न शृणोमि ॥ ५८ ॥ । वंशीधरकृतो भावार्थदीपिकाप्रकाशः । * पतिम् एका सैव संततिर्यस्य तम् । हृहुजं हृदि क्लेशम् । चित्रधाऽनेकधा तत्क्रीडा विनोदस्मरणपूर्वकम् ॥ ५२ ॥ कुंकुमपंकेत्यपि पाठः । कुररीवोल्कौंचीव “उत्क्रौंचकुररौ समौ” इत्यमरः । सुखरं स्फुटखरम् ॥ ५३ ॥ अननुरूपकः मननुकूलम् । तदेवाननुरूपत्वमेव । इत्यर्थ इति । बाला एव युवानो भूत्वा सृष्टिसंपादनसमर्था भवंति न तु वृद्धा इति भावः । अत्राक्षिपति- नन्विति । पूर्व त्वहमनुकूल एवासं सांप्रतमधुनैव । इत्यर्थ इति । न ह्येतत्कर्मकरणशीलाः केनापि कृपालव: कथ्यते इति भावः ॥ ५४॥ पुनराक्षिपति-नन्विति । त्वया किं कृत्यं अजागलस्तनबद्वद्यर्थत्वात् । तत्र पुनराक्षिपति- नन्विति । तुष्यतु दुर्जनः’ इति न्यायमाश्रित्याह भवतु नाम त्वमेवोत्पादको भव नात्रास्माकं किञ्चिद्धानिस्तथापि तत्रापि । इति भाव इति । पुत्रादिषु स्नेहाभावे सृष्टिवर्द्धनमेव न भविष्यतीत्याशयः ।। ५५ ।। तातेति । प्रियत्वात्त्वमेव न याहि वयं ते प्रियास्त्वमस्माकं प्रियोऽतस्त्वमकरुणेन निर्दयेन साकं मा याहीत्यर्थः । अप्रजसां प्रजाहीनानां ध्वांतं नारकं तमः “पुत्रेणैव जय्योऽयं लोकः" इति श्रुतेः । अत्र सलोपस्त्वार्थः । समासांतविधेरनित्यत्वाद्वा सिजभावः ॥ ५६ ॥ * नृपनंदनेति । त्वां बिना नृपो न नंदतीति भावः ।। ५७ ॥ * * तनूजेति । शरीरसंभवत्वात्तव वियोगो दुःसह इति भाव: । ननु तनूजो रोगोऽप्यस्ति तद्वियोगे तथा सुखं तत्तुल्योऽहमप्यतो व्याख्यांतरमाह– तनूं जयत्युत्कर्ष मापयति । यद्वाऽदृश्यत्वात्तनु रधर्मफलं नरकस्तम निश्वयेन जयत्यनेनेति तनूजस्तत्संबुद्धौ तथा । कला मधुरा स्फुटाः ॥ ५८ ॥ । कक् अन्वितार्थप्रकाशिका $$$ * पतिमिति । ऊरुशुचार्पितं बहुशोकेन व्याप्तं पति निरीक्ष्य एकमेव सन्ततिरूपं बालं सुतं च मृतं निरीक्ष्य तदा राज्ञी अन्तःपुरजनस्य प्रकृतेश्चामात्याद्यादेर्हद्रुजं शोकं दधाना पुष्यन्ती सती चित्रधा विललाप । धा आर्षः ।। ५२ ।। स्तनेति । विगलन्त्यः स्रजो येभ्यस्तान् केशान् विकीर्य साञ्जनैः बाष्पबिन्दुभिः कुङ्कुमगन्धमण्डितं स्तनद्वयं निषिचती सुखर चित्रं च यथा भवति तथा कुररी पक्षिणीव रुदती च सती सुतं शुशोच ॥ ५३ ॥ * * अहो इति । हे विधातः ! नु अहो यस्तु त्वं परे वृद्धे पितरि जीवति सत्यपि अपरस्य बालस्य या मृतिरित्येवंरूपमात्मसृष्टेरप्रतिरूपं प्रतिकूलं यथा स्यात्तथा ईहसे चेष्टसे । अतः सर्ववृद्धोऽपि अतीव बालिशो महामूर्ख एवासि । तदा हि वृद्धस्य सृष्टिसामर्थ्याभावे बाले च मृते तव सृष्टेर्लोप एव स्यात् । यदि च विपर्ययश्चेत् संप्रति स्वसृष्टेर्विपरीतोऽस्मीति मन्यसे चेत्तर्हि त्वमेव ध्रुवो निश्चितः परः शत्रुरसि न तु कृपालुः । स्वविरुद्धं कृत्वापि अस्माकं कष्टदानात ॥ ५४ ॥ * * ननु जीवकर्मानुसारेण जन्मादि कुर्वतो मम नो दोष इत्याशङ्ख पाहुः– न हीति । प्रथमं पुत्रो जायते ततः पिता म्रियते ततः पुत्रो म्रियते इति क्रमो नास्ति कर्माधीनत्वात् इति चेत्तर्ह्यात्कर्मभिरेव शरीरिणां तज्जन्मादिकमस्तु त्वया किं कृत्यमस्तीति शेषः । तनु मां विना जडैः कर्मभिः किं सिद्धयेदिति चेत्सत्यं त्वयैव सिद्ध चन्तु तथापि निजसर्गवृद्धये त्वया यः स्नेहपाशः कृतस्तमिमं स्वयमेव पुत्रादिमारणेन विवृश्चसि छिनत्सि स्नेहे एतादृशं दुःखं दृष्ट्वा पुत्रादिषु कोऽपि स्नेहं न करिष्यति स्नेहाकारणे पुत्रादयः कथं जीविष्यन्तीति सृष्टिलोपात् त्वं मूर्ख एवासि । यद्वा । लोडर्थे लट् छिन्धीत्यर्थः । स्नेह एव सुखदुःखयोर्हेतुः । स्नेहाभावे पुत्रो जायतां म्रियतां वा सुखदुःखे तु नैव स्याताम् इति भावः । अतस्त्वं मूर्ख एव ॥ ५५ ॥ त्वमिति । हे तात! कृपणां दीनां त्वच्छोकेन राज्ञि मृते रक्षक - हीनां मां त्यक्तुं नार्हसि । तव शोकेन तप्तं स्वपितरं च विचक्ष्व पश्येति तमपि त्यक्तुं नाईसीत्यनुषङ्गः । भवता निमित्तेन अप्रजदुस्तरमेप्रजानां दुस्तरम् । असिजभाष आर्षः । यत् ध्वान्तं नरकदुःखं तदखः अनायासेनैव वयं तरेम । अतः अकरुणेन निर्दयेन यमेन सह दूरं न याहि मा गच्छ ॥ ५६ ॥ * * उत्तिष्ठति । हे तात! हे नृपनन्दन ! त्वं चिरं बहुकाल सुप्त इदानीमुत्तिष्ठ ते वयस्या इमे शिशवो बालाः त्वां विहर्तुमाह्वयन्ति आकारयन्ति हि यस्माचिरं सुप्तोऽतो भवांश्चापि अशनया दुधा परीतोऽशं भुङ्क्ष्व संनं च पिब । स्वकानां त्वत्संबन्धिनां नोऽस्माकं शुचः शोकान् हर अपनय अशनायाः शब्दस्थानेऽशनाशब्द ५६ ४४२ श्रीमागवतम् [स्कं. ६. अ. १४ लो. ५१-५८ ६.अ. ! आर्षः । भावे किपि अल्लोपयलोपाभ्यां वा कथंचित्साध्यम् ॥ ५७॥ नाहमिति । हे | तनुज हे पुत्र ! हतमेङ्गला नष्टपुण्याऽहं प्रथमं त्वत्पार्श्वमागता सती मुग्धमल्पं स्मितं यस्मिंस्तत् मुदितं वीक्षणं यस्मिंस्तत् ते तवाननाब्जं मुखकमलमेहं न ददृशे न दृष्टवत्यस्मि । तार्ष: । इदानीमपि कला मधुरास्ते गिरो न शृणोमीति अतः अधूणेन निर्दयेन यमेन नीतस्त्वम- पुनरन्वयं पुनरागमनं यथा न भवति तथाऽन्यलोकं यमलोकं गतोऽसि किं वा इति पादपूरणे । यद्वा । अहं तवाननाज न ददृशे यत्त्वं न जागर्षि तेन कि बाऽन्यलोक गतोसि तव को दोषः । यतः अघृणेन यमेन नीतः अत एव ते कला गिरा ॥ f h न शृणोमि ॥ ५८ ॥ का HEE INK IFTERNOF वीरेराघवव्याख्या प्र * मृतस्य बालस्य पादमूले पपात कथम्भूतः विभ्रष्टा शिरोरुहा अंबरे च यस्य दीर्घ यथा तथा श्वसन श्वासं मुञ्चन् बाष्पकलाभिरनुविन्दुभिरुपरोधत: सम्भृतत्वेन निरुद्धः कण्ठो यस्य तादृशः भाषितु किंचिदपि वक्तुं न शशाक नाशक्नोत् ॥५१॥ तदोरुचा महता शोकेनार्पितं व्याप्तं पतिं तथैकमेव सन्ततिरूपं मृतं बालं पुत्रे च निरीक्ष्य जनस्य राज्ञः प्रकृतेरमात्यादेश्व हृहुजम् मनः पीडां दधाना पुष्ण की सती कृतद्युतिः राज्ञीति पाठे सती राज्ञीजनस्य प्रकृतेश्व हदुजं दधाना सती चित्रेधाऽनेक- प्रकारं विललाप ॥ ५२ ॥ * * चित्रधा विलापमेव प्रपञ्चयति चित्रधा विलापमेव प्रपञ्चयति स्तनद्वयमित्यादिना, कलागिरस्ते इत्यन्तेन तावत्कुंकुम गंधेन कुङ्कुममिश्रहरिचन्दनेन मण्डितं भूषितं स्तनद्वय मञ्जनयुक्तैर्वाष्पबिंदुभिरनुविन्दुभिर्निषिञ्चन्ती विगलन्ती सक् येभ्यस्ता- केशान्विकीर्य कुररीष पुत्रं प्रति सुखरं चित्रं यथा तथा शुशोच ॥ ५३ ॥ हे विधातस्त्वमहो बालिशः मूर्खः निष्कृपो वाः कुतः यस्त्वमात्मसृष्टेः स्वकर्तृकसृष्टेः पित्रादिक्रमनिबद्धाया अप्रतिरूपम् अननुरूपम् ईहते चेष्टसे तदेवाह परे प्राकालजावे पित्रादौ अनुजीवति सत्यपरस्य पश्चात्कालजातस्य पुत्रादेर्या मृतिर्मरणमिति तदेतदप्रतिरूपमित्यर्थः । विपर्ययश्चेद्ययुक्तविपर्यय एव स्यात्पुत्रादौ जीवति पित्रादेरेव मृतिः स्यादित्यर्थः । तर्हि त्वं ध्रुवं नूनं परः सर्वोत्कृष्ये भवेः नियमेन तदभावात्त्वं बालिश एवेति भावः । यद्वा ननु सृष्टिस्तु पित्रादिक्रमेणैव मृतिस्त्वनियतेति चेत्तर्हि त्वं ध्रुवं नूनं पर: सर्वोत्कृष्टोऽसीत्यधिक्षेपः । ध्रुव इति प्रथमान्तपाठे तु त्वं नित्यः शत्रुरंसीत्यर्थः ॥ ५४ ॥ ननु तत्तत्कर्मानुसारेण उत्पत्तिमरणे स्तः न चात्र क्रमोऽस्ति न वा ममात्रापराधोस्तीत्यत्राह - न हीति । इह प्रकृतिमण्डलशरीरिणां मृत्युजन्मनोः उत्पत्तिमरणयोः क्रमो नास्ति चेत् पश्चा- जाते पुत्रे जीवत्येव पिता पूर्व जातो म्रियत इत्येवंविधक्रमो नास्ति चेदित्यर्थः । उत्पत्तिक्रमेणैव मृतिक्रमो नास्ति चेत्यर्थः । जन्म- ग्रहणं दृष्टान्तार्थम् । यथा जन्मनि क्रमोऽस्ति तथा मृतौ क्रमो नास्तीति चेत्तर्द्धात्मकर्मभिः स्वस्वकर्मभिरेव तत्तदुत्पत्तिमृत्यादिकं सर्वमस्तु किमीश्वरेण त्वया कृत्यमस्ति ? कर्मानुसारिण फलप्रापकोऽहमिति चेत्तत्राह - य इति । निजसर्गवृद्धये ते त्वया यः । स्नेहपाशः पुत्रादिषु स्नेहरूपः पाशः कृतस्तमिमं स्वयमेव विवृश्चसि आर्षत्वात्प्रार्थनायां लट छिन्दीत्यर्थः ॥ ५५ ॥ * * एवं देवं प्रत्याक्रोश्याथ मृतं बालकं प्रति विललाप - त्वमिति । हे तात पुत्र ! मामनाथामेतदुःखसागराद्रक्षकरहितां दीनां दुःखितां त्यक्तुन्त्वं नाईसि तव शोकेन तप्तं पितरं चित्रकेतुं विचक्ष्व पश्य यद्यस्मात्त्वत्कर्तृकादवलोकनादप्रजदुस्तरमनपत्यत्व- प्रयुक्तादपि क्लेशात दुस्तरम् अप्रजत्वक्ले शस्तु यथाकथंचित्सोढुं शक्यः अयं तु नितरां सोढुमशक्यं इति भावः । ध्वान्तं शोकं तरेम यदि न पश्यसि तो करुणेन निर्घृणेन यमेन करणभूतेन मामपि दूरं नय मामपि यमसमीपं नयेत्यर्थः ॥ ५६ ॥ * * तात पुत्र ! त्वमुतिष्ठ इमे वयस्यास्त्वत्समानवयसः शिशवो बालाः हे नृपनन्दन ! त्वया सह संविहतु त्वामाह्वयन्ति कि त्वविरं सुप्तः अशनया क्षुधा च परीतो व्याप्तः अतः स्तन्यं दुग्धं पिब स्वकानां नोऽस्माकं शुचो हरापनुद ॥ ५७ ॥ * * पुत्रक ! ते तवाननाब्जं मुखकमलमहं न दद्दशे न दृष्टवती । कथम्भूतं मुग्धं सुन्दरं स्मितं यस्मिन् मृदितवीक्षणं मृदिते चलत्पक्ष्मणी नेत्रे यस्मिन् तादृशम् अत एव हतमङ्गला हतं मङ्गलं यस्याः साऽहमिदानीमपि तव कला मधुरा गिरः न शृणोमि नाश्रौषं तर्हि किमपुनरन्वयं पुनरागमनरहितमन्यलोकं लोकान्तरं प्रत्यघृणेन निष्करुणेन देवेन नीतः प्रापितः गतोऽसि किं वेत्यर्थः ॥ ५॥ कटकट carzatics, Mayiktor on JE. BERRY samuyau mygiai é विजयध्वजतीर्थकृता पदरत्नावली भार एप्रन ple he mithe श्रोतॄणां चित्रवाचा वदन्ती शुशोचेति ।। ५२-५३॥ * * शोकलक्षणं वाक्यं दर्शयति– अहो इति । अतीक बालिशः जडाज्जडः कथं मम जाड्यमापाद्यत इति तत्राह — यस्त्विति । यस्त्वमात्मसृष्टेरप्रतिरूपं प्रतिकूलं विरुद्धमीहसे तु एव “तुःस्याद्वेदेवधारणे" इत्यभिधानात् कथमियं विरुद्धचेष्टाऽभूदत्राह पर इति । परे पूर्वतने पितरि मातरि वा जीवस्य परस्य पश्चादुत्पन्नस्व पुत्रस्य या मृतिः सा त्वयाऽऽपायते यस्मात्तस्मादिति शेषः । यद्यपि संहारेऽयं क्रमस्तथापि कं. ६ . १४ . २१-५८] अनेकव्याख्यासमलङ्कृतम् ४४३ स्थितावनुपपन्नोऽयमिति सूचयति तुनेति वा कथं तर्हि जाड्यपरिहार इति तत्राह विपर्यय इति । उक्ताद्विपर्य- योऽन्यथा पूर्वतनस्य पूर्व मृतिः पात्तनस्य पश्चान्मृति यदि तर्हि ध्रुवं निश्चितं त्वं परोसि जडादन्यः प्राज्ञोसि स्वषेनुसारिषेष्ठत्वादित्यर्थः ॥ ५४ ॥ * : सत्तापक्रोधरागादिष्वनर्थज्ञवचः कचिदितिवचनात्सन्तापा- दनन्वितमित्याह + नहीति । शरीरिणां मृत्युजन्मनोः क्रमो नास्ति चेत्तदा तर्हि आत्मकर्ममिः स्वकर्मानुकूल्येनास्तु ते त्वया स्वयं निजसदृद्धये यः स्नेहपाशी मोहपाश मम पुत्रोषमिति बेहानुबन्धः कृस्वमिमं ब्रहमाशं विवृश्चसि भिनल्सीवि सम्यक्करोषि ।। ५५ ।। * त्वमकरुणेन यमेन दूरं न याहीत्यन्वयः । इदं क्रोधं कटाक्षीकृत्योक्तमिति ज्ञातव्यम् ।। ५६ ।। अशनयाऽशनेच्छया भवानित्यर्थज्ञवचः स्पष्टं प्रतीयते ॥ ५७ ॥ * * इदमपि रागनिमित्तमिति भावेनाह - नाहमिति । मुदिते प्रसन्ने वीक्षणे यस्य तत्तथोक्तं क्रोधे ध्वनयन्ती शोचति । किवैति अपुनरन्वयं पुनः सम्बन्धशून्यं अघुणेन यमेनेति शेषः ॥ ५८ ॥ F F S attice F कन्ही के || १४ || विश्वनाथचक्रवतिकृता सारार्थदर्शिनी अस्माकमेतादृशस्य दुःखस्य एवासौ सन्ततिवेशरूपश्च तं हृदुजं दधाना पुष्यन्ती सती ।। ५२-५३ ॥ कारणं विधातैन । यस्य च कारणत्वं तदीयमूर्खत्वादेवेति निश्चित्य स न पुनरेवं कापि करोत्विति हितैषित्वेन तमेव प्रबोध- यन्त्याह- अहो इति । बालिशत्वमेवाह यस्त्वम् आत्मनः सृष्टेः अप्रतिरूपं असदृशमनुचितं यथा स्यात्तथा इत्यर्थः । ननु, किमनौचित्यं तत्राह परे वृद्धे जीवति अपरस्य बालस्य या मृतिस्तत् तदा हि वृद्धस्य सृष्टिसामर्थ्याभावे बाले च मृते सति तब सृष्टिलोप एव स्यादित्यर्थः । विपर्ययश्चेत् संप्रति स्वसृष्टेर्विपरीतोस्मीति मन्यसे चेदित्यर्थः । तर्हि त्वमेवास्माकं परः शत्रुषो निश्चित एव । स्वस्यापकारमपि कृत्वा अस्मान् दुःखयन शत्रुत्वमेव व्यक्तीक रोषीत्यर्थः ॥ ५४ ॥ ननु जीवस्य कर्मानुसारेण जन्मादि कुर्वतो मम कोऽपराधस्तत्राह न हीति । पुत्रे जीवत्येव पिता म्रियते पितरि मृते एव पुत्रो म्रियते इति कमो नास्ति कर्माधीनत्वादिति चेत् तर्हि आत्मकर्म्मभिरेव तज्जन्मादिकमस्तु किं त्वया कृत्यं ननु मयेश्वरेण विना जडैः कर्म- भिरिदं कथं सिद्धयेत् सत्यं त्वयैव सिद्धः चतु तदपि निजसर्गवृद्धये यः स्नेहपाशस्ते त्वया स्वयमेव कृतरूमिमं विवृश्चसि छिनत्सि sari दुःखं दृष्ट्रा पुत्रादिषु कोपि स्नेहं न करिष्यति स्नेहाकारणे पुत्रादयः कथं जीविष्यन्तीति सृष्टिलोपात् त्वं मूर्ख एवेति भावः । यद्वा लोडर्थे उटू छिन्षीत्यर्थः । स्नेह एव सुखदुःखयोर्हेतुः । स्नेहाभावे पुत्रो जायतां म्रियतां वा नैव स्यातां सुख- दुःखे इति भावः ॥ ५५ ॥ * * बालिशेन विधात्रा सह किमित्यहं संलपामि स्वपुत्रमेव दिवकृत्ये किमिति नावधापया- मीति विमृश्याह त्वमिति हे तात ! भवता पुत्रेण अप्रजानामपुत्राणां दुस्तरं यत् ध्वान्तं नरकं तत्तरेम । ननु यमो मां खपुरं नयति अहं किं करोमि तत्राह न याहि अकरुणेन सह ॥ ५६ ॥ * * पुत्रं सुप्तं मत्वाह– उत्तिष्ठेति । अशनया दुधा ।। ५७ ।। हे तनूज ! तब मुग्धस्वितं मुखपद्मं नाहं दहशे न दृष्टवत्यस्मि यत्त्वं न जागर्षि तेन किंवा अन्यलोकं परलोकं गतोसि । अपुन- रन्वयं पुनरागमनशून्यं तब को दोषः यतोऽघृणेन निष्करुणेन यमेन नीतः । अतः एव कला मधुरा स्फुटा गिरस्ते न शृणोमि ॥ ५८ ॥ Poshter E US कोfore-flore P ॥ ॥ शुकदेवकतः सिद्धांत प्रदीप: सिद्धांतप्रदीपः TOP TOCHT HE IPE & CHIESE BE SIE JE DIE 8 तस्य पावसूले प्रपात बाष्पकलाभिरभुविन्दुभिर्य उपरोधस्तेन निरुद्धः कण्ठो यस्य सः भाषितुं न शशाक ॥ ५१ ॥ * बालमेव सुतं मृतं निरीक्ष्य एकां सन्ततिं व निरीक्ष्य जनस्य प्रकृतेच हतुजं दधाना सती राज्ञी चित्रधा विललाप ।। ५२ । विगलन्त्यः खजो येभ्यस्तान् केशान् विकीर्य सुतं प्रति सुखरं यथा स्यात्तया शुशोच ।। ५३ ।। * * अहो विधातस्त्वं तु निश्चितम् अतीव बालिशोऽसि कुतः आत्मनः सृष्टेः सृज्यत इति सृष्टि: अस्मदा- दिजनता तस्याः अप्रतिरूपमननुरूपमीहसे स्वयं जानतां सृष्टा तद्विनाशं करोषि । ननु, विनाशाभाचे जनताया नित्यं बर्द्ध- मानायाः क स्थितिस्त्यादुत्राह-परे पितरि मातरि च जीवति अपरस्यापत्यस्य या मृतिः सा तद्बालिशत्व सूचिकेति भावः । ननु, बालिशः इमां विचित्रां सृष्टि कथं कुर्यादतो नास्मि बालिश इत्यत्राह विपर्ययश्चेत् बालिशो नास्ति किन्तु विचक्षणश्चेत् तर्हि त्वं ध्रुवो निश्चितः परः शत्रुरेवास्ति । अयमर्थः बाल्यादप्रियं कुर्वन् स्वबन्धुः परो न भवति ज्ञानवान् अप्रियं कुर्वन् तु सर्वथा शत्रुरेवेति ॥ ५४ ॥ * किन अपत्ये जीवत्येव पिता म्रियते पितरि जीवत्येवापत्यं जायत इति शरीरिणां मृत्युजन्मनोः क्रमः इहेश्वरसद्भावे न हि चेत् तर्हि आत्मनो जीवस्य कर्मभिरेव तज्जन्मादिकमस्तु किमीश्वरप्रयोजनम् ? ननु, सर्वत्र स्वतन्त्रस्य जोवस्य कर्मानुष्ठाने तत्फलभोगादौ च स्वातन्त्र्येण प्रवृत्तिर्निवृत्तिश्च नैव जायतेऽतो मयैव तत्तत्कर्मानुसारेण ततज्जन्मादिक- मनादितः प्रवर्तितम् । नैव पितृपुत्रादिसम्बन्धो नित्यः किन्तु सृष्टिवृद्ध पर्थ कमत्कृत स्नेहपाशनिबद्धा जना विमुझन्तीत्यत्राह व 1 ५५४
- इति विवृश्चसि छिनत्सीत्यर्थः ॥ ५५ ॥ श्रीमद्भागवतम् [ स्कं ६ अ. १४ लो. ५१-५८ अप्रजानां दुस्तरं यत् ध्वान्तं तमस्तद्भवता वयमञ्जोऽनायासेन तरेमातोऽ- करुणेन यमेन सह दूरं न याहि ॥ ५६ ॥ * अशनया क्षुधा परीतः अभिभूतः ॥ ५७ ॥ हे तनूज पुत्र,
- अहं हतानि मङ्गलानि यस्याः सा प्रथमं त्वत्समीपमागता सती तव मुग्धस्मितं मुदितवीक्षणमाननाब्जं न दृष्टवत्यस्मि अधुना च ते कला मधुरा गिरो न शृणोमि अपुनरन्वयं पुनरागमनं यथा न भवति तथा अघृणेन निर्दयेन यमेन अत्र विशेषणेन विशेष्याध्याहारः एवं तृणावृतमहाशनैरित्यत्र महाशनशब्देन कथमेघासुरशब्दाध्याहार इति शङ्का निरस्ता नीतः अन्यलोकं गतोसि ।। ५८-५९ ॥ आशा क क …..गोस्वामिगिरिधरलालविहिता बालप्रबोधिनी } उरुशुचार्पितं बहुशोकेन व्याप्तं पतिं निरीक्ष्य एकमेव सन्ततिरूपं बालं सुतं च मृतं निरीक्ष्य तदा राज्ञी अन्त: पुरजनस्य प्रकृतेश्चामात्यादेर्हृद्रुजं शोकं विदधाना सती चित्रधा विललापेत्यन्वयः ।। ५१ ।। * * विगलन्त्यः खजो येभ्यस्तान् केशान् विकीर्य सा जनैर्बाष्पबिन्दुभिः कुङ्कुमगन्धमण्डितं स्तनद्वयं निश्चिती सुखरं चित्रं च यथा भवति तथा कुररी पक्षिणीव रुदन्ती च सती सुतं शुशोचेत्यन्वयः ॥ ५२ ॥ अस्माकमेतादृशन्य दुःखस्य कारणं विधातु- ६ * मूर्खत्वमेवेति निश्चित्य तमेव प्रबोधयन्त्याह- अहो इति द्वयेन । अहो आश्चर्यम्, हे विधातस्त्वं सर्ववृद्धोऽपि अतीव बालिशो महामूर्ख एव, यस्तु त्वमात्मसृष्टेरप्रतिरूप प्रतिकूलमीहसे चेष्टसे । किं तदित्यपेक्षायामाह —तु अहो परे वृद्धे पितरि जीवति अपरस्य बालकस्य या मृतिस्त्। तथाच वृद्धस्य सृष्टिसामर्थ्याभावादु बालस्य च मृतत्वात्तव सृष्टिरेव विनष्टा स्यादिति भावः । नन्वेवं स्वसृष्टेरेव विपरितोऽस्मि तेन तव किमिति चेत्तत्राह विपर्यय इति । एवं विपर्ययो विपरीतोऽसि चेत् तर्हि त्वमेव प्राणिनामतिदुःखकारित्वात् ध्रुवो निश्चितः परः शत्रुरसि न तु कृपालुरित्यर्थः ॥ ५३ ॥ * ननु जीवकर्मा- नुसारेण जन्ममरणादि कुर्वतो मम कोऽपराध इत्याशङ्कयाह-न हीति । पुत्रे जीवत्येव पिता म्रियते पितरि जीवत्येव पुत्रो जायते इति क्रमो नास्त्येव जन्ममरणयोः कर्माधीनत्वात् यावज्जीवनादृष्टं तावदेव जीवति तत्समाप्तौ च म्रियते इति चेतर्ह्यात्मकर्मभिरेव शरीरिणां तज्जन्मादिकमस्तु त्वया कि कृत्यमस्तीति शेषः । ननु मयेश्वरेण विना जडैः कर्मभिः कथमिदं सिद्धयेदिति चेत्, सत्यं, तथापि निजसर्गवृद्धये त्वया यः स्नेहपाशः कृतस्तमिमं स्वयमेव विवृश्वसि छिनत्सि । न ह्येवं- विधं दुःखं दृष्ट्वा कश्चिदपि पुत्रादिषु स्नेहं करिष्यतीति स्वकृतविघातकत्वान्मूर्ख एव त्वमिति भावः ॥ ५४ ॥ एवं विधातारमुपालभ्य पुत्रमेव प्रबोधयति-त्वमिति त्रिभिः । हे तातेति सम्बोधनेन यथाऽहं त्वयि त्रहवती तथा त्वमपि स्नेहं । । कुर्विति सूचयति हे तात त्वं च मां त्यक्तुं नाईसीत्यन्वयः । तत्र हेतुः कृपणां दीनाम् । तत्रापि हेतुमाह-अनाथामिति, राज्ञो मरणानन्तरं रक्षकहीनामपत्यान्तराभावादित्यर्थः । तव शोकेन तप्तं स्वपितरं च विचक्ष्व पश्येति तमपि त्यक्तुं नाईसीत्यनुषङ्गः । मयि सति भवतां किं प्रयोजनं सिद्धयेदित्यपेक्षायामाह -अञ्ज इति । भवता पुत्रेण निमित्तेन अप्रजदुस्तरं अप्रजानां दुस्तरं यत ध्वान्तं नरकदुःखं तदञ्जः अनायासेनैव वयं तरेमेत्यन्वयः । ननु यमो मां स्वपुरं नयति तत्राह किं करोमीत्याशङ्कचाह - नेति । यमेन सह न याहि मा गच्छ । तत्र गमने दोषं सूचयति – अकरुणेनेति, नीत्वा तत्र नरकादिदुःखं दास्यति तस्य करुणाभावादेत- दर्थमेव जनान्नयतीत्यर्थः । न च तत्र त्वां मोचयितुं वयं शक्ताः न च तवो भवानागन्तुं शक्तस्तत्र हेतुमाह - दूरमिति ॥ ५५ ॥ सुप्तं मत्वाऽऽह - उत्तिष्ठेति । स्नेहेन सम्बोधयति - हे तात त्वं चिरं बहुकालं सुप्त इदानीमुत्तिष्ठ, ते वयस्या इमे शिशवो बाला है नृपनन्दनेति त्वां विहतु माहयन्ति आकारयन्ति । हि यस्माचिरं सुप्तोऽतो भवांश्चापि अशनया सुधा परीतो व्याप्तः अतोऽनं भुंक्ष्व स्तनं च पिब नोsस्माकं शुचः शोकान् हर अपनय । तवोचितमेवैतदित्याह – स्वकानामिति, यतस्त्वत्सम्बन्धिनो वयमित्यर्थः ॥ ५६ ॥ * नाथं सुप्तः किन्तु मृत एवेति निश्चित्याह नाहमिति । हे तनूज हे पुत्र अघृणेन निर्दयेन यमेन नीतस्त्वमपुनरन्वयं पुनरागमनं यथा न भवति तथा किंवाऽन्यलोकं गतोऽसीत्यन्वयः । तत्र हेतुमाह-प्रथमं त्वत्पार्श्वमागता सती मुग्धमल्प स्मितं यस्मि तत् मुदितं वीक्षणं यस्मिस्तत् ते तवाननाब्जं मुखकमलमहं न ददृशे न दृष्टवत्यस्मि, इदानीमपि कला मधुरास्ते गिरो न शृणोमीति । तत्र हेतुं कल्पयति- हतमङ्गलेति ॥ ५७ ॥ इत्येवं चित्रं विलपन्त्याः in ४ * सत्यास्तच्छ्रुत्वा चित्रकेतुर्भृशमत्यन्तं तप्तोऽतो मुक्तकण्ठ: सन् रुरोदेत्यन्वयः । हेतिः एवंप्रकारस्य लोकप्रसिद्धत्वद्योत- नार्थः ॥ ५८ ॥ क । । FE भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी । |
पतिमिति । तथा उरुशुचा महता शोकेन, अर्पितं व्याप्तं पतिं तथा एकसंततिमेकसंततिरूपं मृतं बाल सुतं च निरीक्ष्य, तदा सती साध्वी, राशी कृतयुतिः, जनस्य प्रकृतेरमात्यादेः चकाराद्राज्ञोऽपि, हजं दधाना मनःपीडां कृतवती एकं. ६ अ. १४ श्लो. ५१-५८ ] अनेकव्याख्यासमलङ्कृतम् ४४५ सती, चित्रधा नैकप्रकारेण विललाप ।। ५१ ।। * विलापमेव प्रपञ्चयति स्तनद्वयमित्यादिना कला गिर इत्यन्तेन । स्तनद्वय- मिति । कुङ्कुमगन्धमण्डितं कुङ्कुममिश्रहरिचन्दनभूषितमित्यर्थः । स्तनद्वयं साञ्जनबाष्पबिन्दुभिः अञ्जनयुक्तैर्नयनाश्रुबिन्दुभिः, निश्चिती, विगलन्ती सम्येभ्यस्तान् केशान् विकीर्य कुररी इव सुतं पुत्रं चित्रं सुखरं च यथा तथा, शुशोच ॥ ५२ ॥ * * अहो इति । अहो हे विधातः, त्वम् अतीव अत्यन्तं बालिशः मूर्खः, निष्कृपो वा असि । कुतः । यस्त्वं तु, आत्मसृष्टयप्रतिरूपं त्वत्कर्तृकपित्रादिकमखिलधर्ममर्यादाया अननुरूपम् ईहसे चेष्टसे । नतु का वा ममाननुरूपा चेष्टा तत्राह । परे प्राकालजाते पित्रादौ, अनुजीवति सति, अपरस्य तत्पश्चात्कालजातस्य पुत्रादेः, या मृतिः पितरि जीवति पुत्रस्य मरणमिति यत्तदेव प्रतिरूप- मित्यर्थः । विपर्ययः चेत्, पुत्रादौ जीवति पित्रादेरेव मृतिः स्याच्चेदित्यर्थः । तर्हि तु, त्वं ध्रुवं नूनं परः सर्वोत्कृष्टः भवेः । नियमेन तदभावात्त्वं बालिश एवेति भावः । यद्वा । नु अहो परे वृद्धे, जीवति अपरस्य बालस्य या मृतिः, तदननुरूपं तदा वृद्धस्य सृष्टिसामर्थ्याभावे बाले च मृते सति, तव सृष्टिर्न स्यादित्यर्थः । ननु सांप्रतं स्वसृष्टविपरीतोऽस्मीति चेत्तत्राह । विपर्ययः विपरीतोऽसि चेत्, तर्हि त्वं प्राणिनामतिदुःखकारित्वात् ध्रुवो नित्यः परः शत्रुरसि । न तु कृपालुरित्यर्थः ॥ ५३ ॥ ननु जीवकर्मानुसारेणोत्पत्तिमरणे स्तः न तत्र क्रमोऽस्ति, एवं सति तथा जन्मादिकुर्वतो मम कोऽपराधस्तत्राह । न हीति । । ॥ इह प्रकृतिगुणोत्थ संसारे, शरीरिर्णा मृत्युजन्मनोः क्रमोऽनुक्रमः, न हि चेत् पुत्रे जीवत्येव पिता म्रियते पितरि जीवत्येव पुत्रो म्रियते इति क्रमो नास्ति कर्माधीनत्वादिति चेदित्यर्थः । तर्हि तज्जन्मादिकम् आत्मकर्मभिः एव अस्तु । किं त्वया कृत्यम् । ननु ईश्वरेण मया विना, जडैः कर्मभिरिदं कथं सिद्धयेदतः कर्मानुसारेण फलप्रापकोऽहमस्मीति चेत्तथा भवतु नाम तथा सत्यपि, निजसर्गवृद्धये ते त्वया, यः स्नेहपाशः कृतः, तम् इमं स्नेहपाशं स्वयमेव विवृश्वसि छिनत्सीत्याक्रोशति । न ह्येवंविधं दुःखं दृष्ट्वा । कश्चिदपि पुत्रादिषु स्नेहं करिष्यति तदभावे तव सर्गवृद्धिरपि न भवितेति भावः ॥ ५४ ॥ 8
- एवं दैवं प्रत्याक्रुश्याथ मृतं बालमुद्दिश्य विललाप । त्वमिति । नाथमेतद्दुःखसागराद्रक्षकरहितां कृपणां दीनां मां त्यक्तुं न अर्हसि चैव । शोकतप्तं त्वज्जीवनादर्शन जशोकोत्थपरितापोपेतं, तव पितरं विचक्ष्व पश्य । यद्यस्मात्त्वत्कर्त्तृ कादवलोकनात् अप्रजदुस्तर मनपत्यत्वप्रयुक्तक्लेशा दुस्तरम् । अप्रजत्वक्लेशस्तु यथाकथंचित् सोढुं शक्यः, अयं तु नितरां सोढुमशक्य इति भावः । ध्वान्तं शोकात्मकं तमः, भवता कृत्वा, वयम् अलोऽनायासेन, तरेम । ततः त्वम् अकरुणेन निर्घृणेन, यमेन सह दूरं न याहि मा गच्छेत्यर्थः । पाठान्तरे यदि ।। हे तात पुत्र त्वम्, म्, उत्तिष्ठेति । हें तात पुत्र, त्वम् उत्तिष्ठ । ते तव इमे वयस्याः, त्वत्समानवयसः शिशवो बालाः, विधातुं त्वाम् आह्वयन्ति । कि च भवान् चिरं सुप्तः । अशनया क्षुधा च परीतः ‘त्व अकरुणेन यमेन सह दूरं गच्छसि तर्हि मामपि सह नयेति योजना कार्या ॥ ५५ ॥ ॐ ॐ ॥" ॥ बालाः, हे नृपनन्दन संविहतु खेलं व्याप्तः हि । अतः भुङ्क्ष्व किंचित् घृतशर्क - रादिभोजनं कुरु । स्तनं पिब । स्वकानां नोऽस्माकं, शुचः हर अपनुद ॥ ५६ ॥ नाहमिति । हे तनूज पुत्र, हतानि मङ्गलानि यस्याः सा, अहम् इदानीमपि, मुग्धं सुन्दरं स्मितं यस्मिंस्तत्, मुदिते आनन्दपूर्णे वीक्षणे यस्मिंस्तत्, ते तव आननाब्जं मुखकमलं न ददृशे न दृष्टवती । ते तव, कला मधुराः गिरः न शृणोमि नाश्रौषम् । तर्हि किं वा अपुनरन्वयं पुनरागमनरहितं, अन्यलोकं लोकान्तरं प्रति, अघृणेन दैवेन नीतः प्रापितः सन्, गतः असि ॥ ५७ ॥ * * प्रलपन्त्या इति । मृतं पुत्रं । प्रति, इत्युक्तप्रकारेण, चित्रविलापनैः प्रलपन्त्याः कृतद्युत्या विलपन्त्याः सत्याः, भृशं तप्तः चित्रकेतुः अपि, मुक्तकण्ठः उच्चस्वरयु- क्तकण्ठ: सन, ह स्फुटं यथा तथा रुरोद || FUTE F भाषानुवादः ।। ।। - उनके केश और वस्त्र इधर-उधर बिखर गये। वे लंबी-लंबी साँस लेने लगे। आँसुओंकी अधिकता से उनका गला रुँध गया और वे कुछ भी बोल न सके ॥ ५१ ॥ * * पतिप्राणा रानी कृतद्युति अपने पति चित्रकेतु को अत्यन्त शोकाकुल और इकलौते नन्हे से बच्चेको मरा हुआ देख भाँति-भाँति से विलाप करने लगीं। उनका यह दुःख देखकर मन्त्री आदि सभी उपस्थित मनुष्य शोकप्रस्त हो गये ।। ५२ ।। * महारानीके नेत्रोंसे इतने आँसू बह रहे थे कि वे उनकी आँखोंका अंजन लेकर केसर और चन्दनसे चर्चित वक्षःस्थलको भिगोने लगे। उनके बाल बिखर रहे थे तथा उनमें गुँथे हुए फूल गिर रहे थे । इस प्रकार वे पुत्रके लिये कुररी पक्षीके समान उच्चस्वर में विविध प्रकार से विलाप कर रही थीं ।। ५३ ।। वे कहने लगीं– ‘अरे विधाता ! सचमुच तू बड़ा मूर्ख है, जो अपनी सृष्टिके प्रतिकूल चेष्टा करता है । बड़े आश्चर्यकी बात है कि बूढे-बूढ़े तो जीते रहें और बालक मर जायँ । यदि वास्तवमें तेरे स्वभावमें ऐसी ही विपरीतता है, तब तो तू जीवोंका अमर शत्रु है ॥ ५४ ॥ * * यदि संसार में प्राणियों के जीवन-मरणका कोई क्रम न रहे, तो वे अपने प्रारब्धके अनुसार जन्मते- मरते रहेंगे। फिर तेरी आवश्यकता ही क्या है । तूने सम्बन्धियोंमें स्नेह-बन्धन तो इसीलिये डाल रक्खा है न कि वे तेरी सृष्टिको बढ़ायें ? परन्तु तू इस प्रकार बच्चों को मारकर अपने किये - करायेपर अपने हाथों पानी फेर रहा है ।। ५५ ।। * * ४४६ श्रीमद्भागवतम् [स्क. ६ अ १४ श्लो. ५९-६१ फिर वे अपने मृत पुत्रकी ओर देखकर कहने लगी- “बेटा ! मैं तुम्हारे बिना अनार्थ और दीन हो रही हूँ । मुझे छोड़कर इस प्रकार चले जाना तुम्हारे लिये उचित नहीं है। तनिक आँख खोलकर देखो तो सही, तुम्हारे पिताजी तुम्हारे वियोग में कितने शोक सन्तप्त हो रहे हैं। बेटा ! जिस घोर नरकको निःसन्तान पुरुष बड़ी कठिनाईसे पार कर पाते हैं, उसे हम तुम्हारे सहारे अनायास ही पार कर लेंगे। अरे बेटा तुम इस यमराजके साथ दूर मत जाओ। यह तो बड़ा ही निर्दयी है ।। ५६ ।। * * मेरे प्यारे लल्ला ! ओ राजकुमार ! उठो, बेटा ! देखो, तुम्हारे साथी बालक तुम्हें खेलनेके लिये बुला रहे हैं। तुम्हें सोते-सोते बहुत देर हो गयी, अब भूख लगी होगी । उठो, कुछ खा लो । और कुछ नहीं तो मेरा दूध ही पी लो और अपने स्वजन-सम्बन्धी हमलोगोंका शोक दूर करो ।। ५७॥ प्यारे लाल ! आज मैं तुम्हारे मुखारविन्दपर वह भोली-भाली मुसकराहट और आनन्द भरी चितवन नहीं देख रही हूँ। मैं बड़ी अभागिनी हूँ । हाय- हाय ! अब भी मुझे तुम्हारी सुमधुर तोतली बोली नहीं सुनायी दे रही है । क्या सचमुच निठुर यमराज तुम्हें उस परलोकमें गया, जहाँसे फिर कोई लौटकर नहीं आता मी DPELA PE Trivate simple 1 की Piss एक: श्रीशक उवाच
- FE HIT DA mitig
- Si
- 2.
- pla
- प्रदः ।। ६१ ।।
- विलपन्त्या मृतं पुत्रमिति चित्रविलापनैः । चित्रकेतुर्भृशं तो मी मुक्तकण्ठो रुरोद ह ॥ ५९ ॥ तयोविलपतोः सर्व दम्पत्योस्तदनुव्रताः । रुरुदुः स्म नरा नार्यः सर्वमासीदचेतनम् ॥ ६० ॥ एवं कश्मलमापनं नष्टसंज्ञ मनायकम् । ज्ञात्वाङ्गिरा नाम मुनिराजमाम, सनारदः || ६ इति श्रीमद्भागवत महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे चित्रकेतुविलापो नाम चतुर्दशोऽध्यायः ॥ १४ ॥ ETH BLE PEIPSIS DETE PROFFE SIP FETISIE FISABETIC PUREDIENT FREKUENT श्री
- : कृष्णप्रिया व्याख्याfier Pe Jee Temal अन्वयः - -इति चित्रविलापनैः मृतं भृशं तप्तः मुक्तकण्ठः रुरोद ह ।। ५९ ।। पुत्र विलपन्या चित्रकेतुः ॥ ॥ * ‘HPEETHES क्योः दम्पत्योः विलपतोः तदनुव्रताः सर्वे नराः नार्यः रुरुदुः स्म सर्वम् अचेतनम् आसीत् ॥ ६० ॥ आपन्नं नष्टसंज्ञं तम् अनायकं ज्ञात्वा अंगिराः नाम मुनिः सनारदः आजगाम ।। ६१ Is it इति चतुर्दशोऽध्यायः ॥ १४ ॥
- एवं कश्मलम् mins BJP प pe
- श्रीधरस्वामिविरचिता भावार्थदीपिका Films तहिं किमु पुनरन्वयं पुनरागमनं यथा न भविष्यति तथा परलोकं अघुणेन यमेन नीतः किं वा गतोऽसि ।। ५६-६१ ।। इति श्रीमद्भागवते षष्ठस्कंधे टीकायां चतुर्दशोऽध्यायः ॥ १४ ॥ IFFITIH वंशीधरकृतो भावार्थदीपिकाप्रकाशः Male Sinashree frieshe is a विलपत्या सह मुक्तकंठोऽत्युचैः ॥ ५६ ॥ अचेतनमश्मवत्प्रवृत्तिशून्यम् ॥ ६० ॥ * अनायकं Life T शोकनिवर्त्तकशून्यं राजानमिति शेषः ।। ६१ । क इति श्रीमद्भागवतभावार्थदीपिका प्रकाशे षष्ठस्कन्धे चतुर्दशोऽध्यायः ॥ १४ ॥ अन्वितार्थप्रकाशिका विलपन्त्या इति । इत्येवं चित्रविलापनैः मृतपुत्रं विलपन्त्यां सत्यां तच्छ्रुत्वा चित्रकेतुभृशं तप्तोऽतो मुक्तकण्ठः सन रुरोद | यद्वा । विलपन्या तथा सहति तृतीयान्तम् ॥ ५९ ॥ तयोरिति । तयोर्दम्पत्योरेवं विलपतोः सतोस्तदनुव्रताः ।। ।। । HOME FERE LIFE F FEST राहुलीत राहदा १. प्रा० पा० – चित्रकेतुचरिते TELIFE
- चतु० । TREE BF F apers fine Par rate tags TER PR स्कं. ६.अ. १४ लो. ५९-६१] अनेकव्याख्यासमलक्कृतम् ४४७ अमात्यादयोऽपि सर्वे नरा नार्यश्च रुरुदुः । तदा चित्रकेतोर्मृततुल्यत्वात्सर्वमेव नगरमचेतनं नष्टसंज्ञमराजकमिवासीत् ॥ ६० ॥ एवमिति । एवं सर्वमेव जनं कश्मलं मोहमापत्रं प्राप्तमत एव नष्टसंज्ञ देहाद्यनुसन्धानरहितमनायकं प्रतिबोधकरहितं ज्ञात्वा सनारदः नारदेन सहितोऽङ्गिरा नाम मुनिराजगाम ॥ ६१ ॥ ●PHIR REPE: PHIR PHPइति श्रीभागवत महापुराणे इति श्रीभागवत महापुराणे षष्ठस्कन्धे ऽन्वितार्थप्रकाशिकायां चतुर्दशोऽध्यायः ॥ १४ ॥ की PIE DAIKTAI 5315FPIFFE VIFE वीरराघवव्याख्या || FIRST प्रकाशि RIDETR FSIM EP TREE एवं दम्पत्योरन्येषु च भृशं शोकाविष्टेषु सनारदः पुनरङ्गिरास्तत्रायया इत्याह मुनिः विलपन्या इति । मृतं पुत्रं प्रति चित्रविलापनैः प्रलपन्त्यास्सत्याश्चित्रकेतुरपि नितरां शोकेन तप्तोऽत एव मुक्त उच्चैः स्वरयुक्तकण्ठो रुरोद हेति ।। ५९ ।। तयोर्दम्पत्योरेवं विलपतोस्सतोस्तदनुव्रताः सर्वे नरा नार्यश्च रुरुदुः इतरत्सर्वजन जातमचेतनप्रायमासीचित्रितप्रतिमा इव बभूवुरित्यर्थः ॥ ६० ॥ * * एवं कश्मलं महद्दुःखमापक्रमत एव नष्टसंज्ञं विवेकरहितम् अनायकं तत्त्वोपदेष्टृरहितं समुदायं ज्ञात्वा श्रीनारदेन देवर्षिसहितो ऽङ्गिरानीममुनिराजगाम गतवान् ॥ ६१ ॥
TREE FR
- इति श्रीमद्भागवत महापुराणे षष्ठस्कन्धे श्रीमद्वीरराघवाचार्यकृतभागवत चंद्रचंद्रिकायां टीकायां चतुर्दशोऽध्यायः ।। १४ ।। FRE IFF : pag- चिष: विजयध्वजतीर्थकृता पदावली ! की इयमेकैव विलपन्त्यभूमान्य इत्यतः पूर्वोक्तविलाप स्पष्टयति-विलपन्त्यामिति ॥ ५६ ॥ बुद्धिशून्यम् अश्मवत्प्रवृत्तिशून्यं पुरं वा ॥ ६१ ॥ ज्ञात्वेति । अनेन ऋषिस्त्रिकालदर्शीति स्पष्टितम् ॥ ६१ ॥
-
- अचेतन अनायक बोधकरहितं अस्मिन्नवसरे सुहृदोंगिरस आगतिं वक्ति- इति श्रीमद्भागवते महापुराणे षष्ठस्कंधे विजयध्वजतीर्थकृतपदरत्नावल्यां चतुर्दशोऽध्यायः || १४ || जीवगोस्वामिकृतः क्रमसन्दर्भ : अनायकं शोकनिवर्तकशून्यं राजानमिति शेषः ।। ६१ ।। इति श्रीमद्भागवते महापुराणे षष्ठस्कन्धे श्रीमज्जीवगोस्वामिकृतक्रमसन्दर्भे चतुर्दशोऽध्यायः ॥ १४ ॥ विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी विलपन्त्या सह ।। ५६-६० ॥ एवं सर्वनगरम् अचेतनमेव नष्टसंज्ञं ज्ञात्वा चित्रकेतोश्च मृततुल्यत्वा- दनायकम् ॥ ६१ ॥ इति सारार्थदर्शिन्यां हर्षिण्यां भक्तचेतसाम् । षष्ठे चतुर्दशोऽध्यायः सङ्गतः सङ्गतः सताम् ॥ १४ ॥ शुकदेवकृतः सिद्धांतप्रदीपः
सर्वं तत्रत्यप्राणिजातम् अचेतनं नष्टसंज्ञम् ॥ ६० ॥ सनारद: नारमज्ञानं द्यति खण्डयतीति नारं ज्ञानं वा ददातीति नारदस्तेन सह ॥ ६१ ॥ इति श्रीमद्भागवते महापुराणे षष्ठस्कन्धे श्रीमच्छुकदेवकृतसिद्धान्तप्रदीपे चतुर्दशोऽध्यायः ॥ १४ ॥ । गोस्वामिगिरिधरलालविहिता बालप्रबोधिनी तयोर्दम्पत्योरेवं विलपतोः सतोस्तदनुव्रताः अमात्यादयोऽपि सर्वे नरा नार्यश्च रुरुदुरित्यन्वयः । सर्वमेव नगरमचे- तनं मूर्हिछतमासीदित्यन्त्रयः । भगवन्मायामोहस्य प्राबल्यं सूचयति - स्मेति ॥ ५६ ॥ * * एवं सर्वमेव जनं कश्मलं मोहमापनं प्राप्तमत एव नष्टस देहाद्यनुसन्धानरहितमनायकं प्रतिबोधकरहितं ज्ञात्वा सनारदः नारदेन सहितोऽङ्गिरा नाम मुनिराजगामेत्यन्वयः ॥ ६० ॥ इति श्रीवल्लभाचार्यवंश्यगोपालसूनुना । श्रीमन्मुकुन्दरायाणां पादसेवाधिकारिणा ॥ १ ॥ श्रीमगिरिधराख्येन भजनानन्दसिद्धये । श्रीमद्भागवतस्येयं टीका बालप्रबोधिनी ॥ २ ॥ रचिता तत्र षष्ठेऽस्मिन् स्कन्धे रूपनिरूपणे । चतुर्दशो गतो वृत्तिं पुत्रशोकनिरूपकः ॥ ३ ॥ ४४म श्रीमद्भागवतम् [ स्कं. ६ अ. १४ श्लो. ५९-६१ भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनील SEE PRINT. Septe RE तयोरिति । तयोः दपत्योः, विलपतोः सतोः, तदनुव्रताः सर्वे नराः नार्यः, रुरुदुः स्म । सर्वमितरत्सर्वजन जातम् अचेतनम् आसीत् । चित्रितप्रतिमावद्बभूवेत्यर्थः ॥ ५६ ॥ * * एवमिति । एवं कश्मलं महद्दुःखम् आपनं प्राप्तम्, अत एव, नष्टा संज्ञा यस्य तं, विवेकरहितम् अनायकं तत्त्वोपदेष्टृ रहितं ज्ञात्वा, अङ्गिराः नाम अङ्गिरा इति नाम्ना प्रसिद्ध:, सनारदः नारदेन सहितः, आजगाम आगतवान् ॥ ६० ॥ इति श्रीधर्मधुरंधरश्रीधर्मात्मजप्रत्यक्ष पुरुषोत्तम सहजानन्दखामि सुतश्रीरघुवीराचार्यसूनु भगवत्प्रसादाचार्यविरचितायामन्वयार्थाव- बोधिन्यां भक्तमनोरञ्जन्याख्यायां श्रीमद्भागवतटीकायां षष्ठस्कन्धे चतुर्दशोऽध्यायः ॥ १४ ॥ भाषानुवादः श्रीशुकदेवजी कहते हैं - परीक्षित! जब सम्राट् चित्रकेतुने देखा कि मेरी रानी अपने मृत पुत्रके लिये इस प्रकार भाँति-भाँति से विलाप कर रही है,
इस प्रकार विलाप कहा है, तब वे शोकसे अत्यन्त सन्तप्त हो फूट-फूटकर रोने लगे || ५६ ॥ राजा-रानी के इस प्रकार विलाप करनेपर उनके अनुगामी स्त्री-पुरुष भी दुःखित होकर रोने लगे। इस प्रकार सारा नगर ही शोकसे अचेत- सा हो गया || ६० ॥ * * राजन् ! महर्षि अङ्गिरा और देवर्षि नारदने देखा कि राजा चित्रकेतु पुत्रशोकके कारण चेतनाहीन हो रहे हैं, यहाँतक कि उन्हें समझानेवाला भी कोई नहीं है । तब वे दोनों वहाँ आये ।। ६१ ।। Refh इति षष्ठस्कन्धे चतुर्दशोऽध्यायः ॥ १४ ॥ ३ ॥ ॥ श्री सिफ 134 Te street Fi fog | कानेअथ पञ्चदशोऽध्यायः श्रीशुक उवाच १ ॥ २ ॥ ३ ॥ ४ ॥ ऊचतुर्मृतकोपान्ते पतितं मृतकोपमम् । शोकाभिभूतं राजानं बोधयन्तौ सदुक्तिभिः ॥ कोऽयं स्यात् तव राजेन्द्र भवान् यमनुशोचति । त्वं चास्य कतमः सृष्टौ पुरेदानीमतः परम् ॥ यथा प्रयान्ति संयान्ति स्रोतोवेगेन वालुकाः । संयुज्यन्ते वियुज्यन्ते तथा कालेन देहिनः ॥ यथा धानासु वै धाना भवन्ति न भवन्ति च । एवं भूतेषु भूतानि चोदितानीशमायया ॥ वयं च त्वं च ये चेमे तुल्यकालाश्चराचराः । जन्ममृत्योर्यथा पश्चात् प्राङ्नैवमधुनापि भोः ॥ भूतैभूतानि भूतेशः सृजत्यवति हन्त्यजः । आत्मसृष्टैरस्वतन्त्रैरनपेक्षोऽपि बालवत् ॥ देहेन देहिनो राजन् देहाद्देहोऽभिजायते । बीजादेव यथा बीजं देार्थ इव शाश्वतः ॥ देहदेहिविभागोऽयमविवेककृतः पुरा । जातिव्यक्तिविभागोऽयं यथा वस्तुनि कल्पितः ॥ ८ ॥ कृष्णप्रिया व्याख्या ५ ॥ ६ ॥ ७ ॥ अन्वयः - मृतकोपान्ते मृतकोपमम् पतितं शोकाभिभूतं राजानं सदुक्तिभिः बोधयन्तौ ऊचतुः ॥ १ ॥ * राजेंद्र भवान् अनुशोचति अयं तव पुरा इदानीम् अतः परम् कः अस्य सृष्टौ त्वं कतमः ॥ २ ॥ * * यथा वालुकाः स्रोतोवेगेन संयान्ति प्रयान्ति तथा देहिनः कालेन संयुज्यन्ते वियुज्यन्ते ॥ ३ ॥ यथा धानासु धानाः भवन्ति वै न भवन्ति एवं च ईशमायया चोदितानि भूतानि भूतेषु ॥ ४ ॥ * भोः वयं ये इमे तुल्यकालाः चराचराः यथा जन्ममृत्योः प्राक् च पश्चात् न एवम् अधुना अपि ॥ ५ ॥ भूतैः भूतानि सृजति अवति हन्ति ॥ ६ ॥ देही अर्थः इव शाश्वतः एव ॥ ७ ॥ * * देहदेहिविभागः ॥ ८ ॥
भूतेशः अजः अनपेक्षः अपि बालवत् आत्मसृष्टैः अस्वतन्त्रैः राजन् यथा बीजात् बीजं देहिनः देहेन देहात् देहः अभिजायते यथा वस्तुनि कल्पितः अयं जातिव्यक्तिविभागः तथा पुरा अविवेककृतः अयं श्रीधरस्वामिविरचिता भावार्थदीपिका ततः पंचदशे चित्रकेतोः शोकापनोदनम् । कृतं तत्त्वोपदेशेन नारदेनांगिरोयुजा ॥ १ ॥ कश्मलं शोकं प्राप्तं सर्वमनाथं ज्ञात्वा सनारदः नारदेन सह मृतकोपांते शवसमीपे ॥ १ ॥ * * त्वं चास्य बंधूनां मध्ये कतमः सृष्टौ प्रजारूपायाम् । अयं पुत्रोऽहं चास्य पितेति चेत्तत्राहतुः । पुरेति । ये पूर्वजन्मनि पित्रादिरूपेण संयुक्ता: आसंस्त एव मरणेन वियुक्ताः संतो वर्तमानजन्मनि कदाचित्तस्यैवान्यस्य वा पुत्रादयो भवंति ते जन्मांतरे तस्यैवान्यस्य वा कलत्रादयः शत्रुमित्रादयो वा भवत्यतो नायं नियम इति भावः ॥ २ ॥ तमेवाभिप्रायं प्रकटयति । यथेति । स्रोतसः प्रवाहस्य वेगेन यथा प्रयांति वियुज्यंते संयांति संयुज्यंते तथा कालवेगेन देहिनो जीवा अपि ॥ ३ ॥ * * तथाऽप्येतावतं कालं मम पुत्रो नाभूद्रार्धके जातो मृत इति दुःखमिति चेत्तत्राहतुः । यथा धानासु बीजेषु धाना बीजांतराणि भवंति कासुचित्कदाचिन्न भवंति नोत्पद्यते नश्यंति च न तु भवत्येव तिष्ठत्येवेति वा नियमः । एवमेव भूतानि पुत्रादिरूपाणि भूतेषु पित्रादिषु । अतो धानानां जन्यजनकत्वेऽपि यथा पितृपुत्रादिभावो नास्त्येवमत्रापीति न शोकः कार्य इति भावः । ईशमायाप्रेरितानामेव भवनमभवनं न वस्तुतः ॥ ४ ॥ * * तस्य च सर्वसाधारणत्वान्न शोचनीय इत्याहतुः । १. प्रा० पा०– भगती तावृषी तदा । २, प्रा० पा०- हन्ति च ।.. ५७ + पत्र एव ४५० श्रीमद्भागवतम् । [ स्कं. ६ अ. १५ श्लो. १-८ वयं चेति । तुल्यकाला वर्तमानकालीनाः । जन्मनः प्राक् मृत्योः पश्चाश्च यथा न संत्येवमधुनापि न संति । भो राजन् । आद्यंतयोरसत्त्वात्स्वप्रवदित्यर्थः ॥ ५ ॥ * * असत्त्वे कथं प्रतीतिः कथं वाऽहमस्य जनक इत्याद्यभिमानस्तत्राहतुः । भूतैरिति । ईश्वरेण मायया सृष्टत्वात्प्रतीतिर्निमित्तमात्रत्वेनैव च भूतानामयमभिमान इति भावः । नन्वीश्वरस्य सृष्टयादिभिः साध्यमस्ति चेत्तर्ह्य पूर्णकामता प्राप्ता नास्ति चेत्कुतः प्रवृत्तिस्तत्राहतुः अनपेक्षोऽपि बालवल्लीलया करोतीति ॥ ६ ॥ * * अयं च जन्मादिव्यवहारो देहानामेव न त्वात्मन इत्याहतुः । देहिनः पितुर्देर्देन देहिनः पुत्रस्य देहो मातुर्देहिनो देहादभिजायते यथा बीजादेव बीजं जायते देही तु शाश्वत एव । अर्थो भूम्यादिर्यथा तद्वत् ॥ ७ ॥ ननु नरदेहप्रतियोगित्वाद्देद्यपि न शाश्वतः स्यात्तत्राहतुः । देहदेहिनोरथं परस्परप्रतियोगिविभागः । पुराऽनादिरविवेककृतोऽज्ञानकल्पितः । जातिः सामान्यं व्यक्तिर्विशेषस्तयोर्विभागो यथा वस्तुनि सन्मात्रे कल्पितः । परस्परापेक्षासिद्धत्वेनानिरूप्यत्वात्तद्वत् ॥ ८ ॥ वंशीधरकृतो भावार्थदीपिकाप्रकाशः रु ततो बालमरणोत्तरम् । अंगिरसा युनक्तीत्यंगिरोयुक् तेन तथा ( १ ) अत्र संसारो नित्यस्तदुच्छेदो ज्ञानेनैव तदपि निरंतरोपासितश्रीनारायणानुग्रहादुत्पद्यते तदेतत्सर्वमस्मिन्नध्याये निरूप्यते । मृतकोपमं मृततुल्यम् ॥ १ ॥ * * इति भाव इति । यमनुशोचसि तवायं कः कीदृशो बंधुः स्यादिदानीं पुरेति भ्रांतिश्चत्तर्हि विरिंचसृष्टौ पुरातीतकाले त्वमस्य बालस्य बंधूनां मध्ये कतमो बंधुः पिता मातुलो वा सहोदरोवाऽतः परमेष्यति कालो च कतमो बंधुः । अथ यदि पूर्वोत्तरकाले युवयोर्न कोपि संबंधस्तथेदानीमपि भ्रांतिमंतरेण न कोपि संबंधोऽतः शोको न कार्य इत्याशयः ।। २-३ ।। * * यद्यपि संयोगवियोगी कालाधीनौ तथापीति । यतो नियमाभावोऽतो हेतोः । इति भाव इति । जन्यजनकत्वेन शोकहेतुत्वे यूकादाव- तिप्रसंगो दुर्वारः स्यादित्याशयः ॥ ४ ॥ * * तस्य च भवनाभवस्य च जन्मना सहितो मृत्युर्जन्ममृत्युस्तस्य । यद्वा जन्म च मृत्युश्चानयोः समाहारो जन्ममृत्युस्तस्य तथा समाहारे नपुंसकमित्यस्यानित्यत्वात् । योग्यत्वाद्वयुत्क्रमेणोभयोः संबंधः । भो इत्यनेन राजन्नित्याक्षिप्यते । इत्यर्थ इति । एतत्कालीनजीवा भवनाभवनवंत आद्यंतयोरसत्त्वात्स्वप्नवदित्यनुमानादिति भावः ।। ५ ।। * * अत्राक्षिपति - नन्विति । इति भाव इति । वस्तुतः पित्रादीनां जनकत्वम् ‘जनं जनेन जनयन्’ इत्याद्युक्तेरीश्वरस्यैव जनकत्वमित्याशयः । पुनस्त्राक्षिपति - नन्विति । बालस्य यथा क्रीडनकैः क्रीडने न किंचित्साध्यमस्ति तथापि क्रीडत्येव तथेशोपीति भावः । “लोकवन्तु लीला कैवल्यम् ||६|| * * शाश्वतो नित्य एव ‘देही नित्यमवध्योऽयं देहे सर्वस्य भारत” इति श्रीमुखोक्तेः । अर्थो भूम्यादिरिहादिना हिरण्यादिग्रहः । यथा पृथिव्या अनेके घटशरावादयः संति तथाऽपि सादृश्येव सत्या पृथक्प्रतीयते ‘मृत्तिकेत्येव सत्यम्’ इति श्रुतेः ॥ ७ ॥ पुनरत्राक्षिपति नन्विति । नश्वरदेहः प्रतियोगि निरूपको यस्य तस्य भावस्तत्त्वं तस्मात् । देहनिरूपितमेव देहित्वमिति सार्वजनीनं देहोऽस्यास्तीति देहीति निरुक्तेः परस्परयोः प्रतियोगिविभागः प्रतियोग्यनुयोगिविभाग इत्यर्थः । एकसंबंधिज्ञानस्यापर संबंधिस्मारकत्वनियमात् सन्मात्रे पृथिव्यादौ कणादादिभिः कल्पित एव न तु सत्यः परस्परापेक्षा सिद्धत्वेन व्यक्तिसत्त्वे जातिसत्त्वे व्यक्तिसत्त्वमेकतराभावे द्वयोरसिद्धेः स्फुटत्वात् ॥ ८ ॥ । अन्वितार्थप्रकाशिका पञ्चदशे चित्रकेतोर्नारदेनाङ्गिरोयुजा । शोकशान्तिः कृता तत्र श्लोका विंशतिरष्ट्र ( २८ ) च ॥ पोवाचेति पादोना ऊनत्रिंशदनुष्टुभः (२८|| ) ॥ १५ ॥ * * ऊचतुरिति । शोकेनाभिभूतमचेतनीकृत- मत एव मृतकोपमं मृतकस्य शवस्य उपान्ते समीपे पतितं राजानं सदुक्तिभिः यथार्थहितप्रियवाक्यैर्बोधयन्तौ नारदाङ्गिरसावू- चतुः ॥ १ ॥
-
- कोऽयमिति । हे राजन् ! भवान् यमनुशोचति सोऽयं सृष्टौ पुरा पूर्वजन्मनि इदानीमत्र जन्मनि अतः परं भविष्यज्जन्मनि च क्रः किंसंबन्धवान् स्यात् एवं पूर्वजन्मादिषु त्वं चास्य कतमोऽसि । अयं भावः । यः पुरा जन्मनि पिता सोऽत्र जन्मन्यपि पितैवेति नियमो नास्त्येव । अतः कदाचिदयं पिता त्वं पुत्रः कदाचिदन्यथापीति तवायं कस्त्वं चास्य कः इत्यनिश्चितमेव ॥ २ ॥ यथेति । यथा स्रोतसः प्रवाहस्य वेगेन बालुकाः प्रयान्ति वियुज्यन्ते । तथैव कालवेगेन देहिनो जीवा अपि संयुज्यन्ते वियुज्यन्ते च ॥ ३ ॥ * * यथेति । यथा धानासु यवादिबीजेषु धानाः यवादि- बीजान्तराणि कचित् कदाचिद् भवन्ति कचित्कदाचिन्न भवन्ति च नोत्पद्यन्ते च उत्पन्ना अपि नश्यन्ति च न तु भवन्त्येव तिष्ठन्त्ये- वेति वा नियमः । एवमीशस्य मायया इच्छया चोदितानि प्रेरितानि भूतानि पुत्रादिरूपाणि भूतेषु पित्रादिषु भवन्ति न भवन्ति भूतान्यपि नश्यन्ति अतः शोको न कार्यः । अत्र श्लेषेण यथा धानासु भ्रष्टयवेषु धाना न भवन्ति तथा पुत्रजनकादृष्टरहितेषु त्वादृशेषु भूतान्यपत्यानि न भवन्ति किन्तु ईश हे राजन् ! मायया प्रेरिता भवन्ति चेत्यहमङ्गिरा एव त्वत्प्रबोधार्थ मायया
स्क. ६ अ. १५.१८] अनैकव्याख्यासमलङ्कृतम् ४५१ त्वत्पुत्रोऽभूवमिति भावः ॥ ४ ॥ ॐ ॐ वयमिति ॥ भो राजन् ! तुल्यकालाः वर्त्तमानकालभवाः वयं च त्वं च ये चेमेऽ न्ये चराचरास्ते यथा जन्मनः प्राक् मृत्योः पश्चाच न सन्ति एवमधुना वर्त्तमानकालेऽपि न सन्ति । आद्यन्तयोरसत्त्वात्स्वप्न- वत् ॥ ५ ॥ * ४ असत्त्वे कथं प्रतीतिः कथं वाऽहमस्य जनक इत्यभिमानस्तत्राहतुः – भूतैरिति । अनपेक्षः प्रयोजनरहि- तोऽपि अजः अनादिः भूतेश: जगदीश्वरः बालवल्लीलया आत्मसृष्टैरत एवास्वतन्त्रैः स्ववशीभूतैः पित्रादिभिर्भूतानि पुत्रादीन सृजति राजाद्यैः सर्पाद्यैः हन्ति च ईश्वरेण मायया सृष्टत्वात् प्रतीतिनिमित्तमात्रत्वेनैव भूतानामयमभिमानः ईश्वरस्य च सृष्ट- चादेः प्रयोजनाभावेऽपि स्वभावात् बालवल्लीलया स करोति इति भावः ॥ ६ ॥ देहेनेति । हे राजन् ! पितुर्देहेन संयुक्तान्मातुर्देहात् देहिनः पुत्रस्य देहोऽभिजायते प्रादुर्भवति । तत्र दृष्टान्तः । यथा बीजादेव बीजान्तरं जायते तथा देही जीवस्तु अर्थ इत्र भूम्यादिरिव शाश्वत एव अतो जन्मादिव्यवहारोऽपि देहानामेव न त्वात्मनः ॥ ७ ॥ * * देहेति ॥ अयं देहदेहिनोर्विभागो भेदः पुरा पुरातनः अनादिरित्यर्थः । अविवेककृतोऽज्ञानकल्पितः । तत्र दृष्टान्तमाह । जातिर्गोत्वादि- सामान्य व्यक्तिर्गवादिपिण्डविशेषस्तयोर्विभागो यथा वस्तुनि सन्मात्रे कल्पितः परस्परापेक्षसिद्धत्वेन भेदेन निरूपयितुम- शक्यत्वात् ॥ ८॥ वीरराघवव्याख्या * एवं तत्रागतावङ्गिरोनारदौ शोकापनयनाय तमूचतुरित्याह मुनिः – ऊचतुरिति । मृतकोपान्ते शवसमीपे पतितं मृतकोपमं शवसदृशं तत्र हेतुः शोकेनाभिभूतं तिरस्कृतविवेकं राजानं चित्रकेतुं सदूक्तिभिः प्रकृतिपुरुषेश्वरयाथात्म्यवेदिनीभिरुक्ति- भिर्बोधयन्तौ विवेकमुत्पादयन्तावूचतुः ॥ १ ॥ * * सदुक्तिभिर्बोधनप्रकारमेवाहक इत्यादिना बस्तुनि कल्पित इत्यन्तेन । तावज्जीवानां परस्परं निरुपाधिकसम्बन्धाभावादपाधिकसम्बन्धप्रयुक्तशोकमोहभयादेर्निमित्तसम्बन्धस्यैव निवृत्तेर्न शोकहेतुरस्तीत्यूचतुः - कोयमिति - हे राजेन्द्र, यं प्रति भवाननुशोचति सोऽयं प्रवाहरूपायां सृष्टौ पुरा भूतकाले इदानीं वर्त - मानकाले इतः परं भविष्यत्काले वा तव कः स्यात् त्वमप्यस्य शोच्यमानस्य कतमः ? यदि जीवात्मानं प्रति शोचसि तर्हि शोच्यस्य जीवस्य तव च कस्सम्बन्धः ? कालत्रयेपि नानेन तव सम्बन्ध इत्यर्थः ॥ २ ॥ देहद्वारकपितृपुत्र- सम्बन्धेनानुशोचामीत्यत्रोचतुः - यथेति । स्रोतोवेगेन प्रवाहवेगेन यथा वालुकाः सिकताः कदाचित्संयान्ति संयुक्ता भवन्ति कदाचिच प्रयान्ति विप्रयुक्ताश्च भवन्ति तथा कालेन निमित्तेन देहिनोप्यन्यैर्देहिभिः सह संयुज्यते वियुज्यते च देहिनां परस्परं काल- कर्मायत्त देहद्वारकसम्धस्योपाधिकत्वादुपाधिविलये तत्प्रयुक्तसम्बन्धस्यापि विलयाद्विलीनसम्बन्धप्रयुक्तः शोको न कार्य इति भावः ॥ ३ ॥ ननु, पितृपुत्रत्वादिसम्बन्धो न केवलमात्मगतः नापि देहमात्रगतः अपि तु विशिष्टगतः अतो विशिष्टं प्रत्येवाहं विशिष्टरूपः शोचामीति चेदेवमपि न शोकः कार्य इत्याहतुः - यथेति । यथा धानासु बीजेषु जातिगुणादि- विशेषणविशिष्टेषु तादृश्यो धाना बीजान्तराणि ईश्वरसङ्कल्पेन भवन्त्युत्पद्यन्ते अपादानस्यैवाधिकरणत्वविवक्षया सप्तमी न भवन्ति नश्यन्ति च तथाभूतेभ्यः भूतान्तराण्यपी श्वरमाययोत्पद्यन्ते नश्यन्ति च । अप्राणिभ्योऽप्राणिनामिव प्राणिभ्यः प्राणिनाम- प्युत्यत्तेर्मृतेश्वेश्वरसङ्कल्पायत्तत्वात्त्तद्वत्प्राणिभिरपीश्वरमायावैभवमनुसन्दधानात्स्तूष्णीमेव स्थेयं न तु शोकः कार्यः किञ्च विशिष्टे ॥ ४ ॥ * * ननु, गच्छतु विशेष्यांशो जीवः साक्षात्सम्बन्धा- पादकमवस्थितं देहं प्रत्यनुशोचामीत्यत्राहतुः वयश्चेति । वयं त्वं चान्यम् इमे चराचराश्च सर्वे तुल्यकालाः वर्त्तमानकालीना यथा जन्ममृत्योः प्राकूपञ्चाच्च न सन्ति जन्मनः प्राकू नासन्मृत्योः पश्चान्न भविष्यन्ति भो राजन्, अधुनाऽयमप्येवमेव नास्ति विशरणा- यारब्धमिमं देहमप्यसन्तं पश्येत्यर्थः ॥ ५ ॥ * * यदीशमायया भूतेभ्यो भूतानि भवन्ति न भवन्ति तर्हि तस्य स्वातन्त्र्य- रूपमीश्वरत्वमेव न स्यात्तज्जीवविशेषापेक्षया सुखदुःखप्रदत्वेन वैषम्यनैर्घृण्यप्रसङ्गात्तयोश्च कर्मवश्यजीवधर्मत्वाज्जीववत्कर्मवश्य- त्वप्रसङ्गादित्यत्रोचतुः — भूतैरिति । भूतेशः समष्टिव्यष्ट्रयात्मनावस्थितानां सर्वेषां भूतानामीशः अन्तः प्रविश्य तत्तज्जीव- कर्मानुसारेण प्रशास्ता आत्मना स्वेन सृष्टैरत एवास्वतन्त्रैः सृजतीत्यनेन तस्य स्रष्टुस्सकलेतरविलक्षणत्वं, सर्वार्थशक्तियुक्तत्वम्, अज इत्यनेन कर्मफलानुभवाय तदायत्तोत्पत्त्यादिराहित्योत्तथा ऽवाप्तसमस्त कामत्वमत्युक्तं भवति । नन्वेवंभूतः सृजत्वथापि जगत्सृष्टयादिः केनचित्प्रयोजनेन भवितव्यं निष्प्रयोजनस्य प्रवृत्यसम्भवात् तत्र बुद्धिपूर्वकारिणामारम्भे हि द्विविधं प्रयोजनं स्वार्थः परार्थो वा ? न हि परस्य ब्रह्मणः स्वभावत एवावाप्तसमस्तकामस्य जगत्सर्गेण किञ्चन प्रयोजनमनवाप्तमवाप्यते नापि परार्थः अवाप्तसमस्तकामस्य परार्थता हि परानुग्रहेण भवति न चेदृशगर्भजन्मजरामरणनरकादिनानाविधानन्तदुःखबहुलं जगत्करुणावान् सृजतीत्याशङ्कमानं प्रत्याहतुः- निरपेक्षोपि बालवदिति । प्रयोजननिरपेक्षोपि बालवत्सृजतीत्यर्थः । दृष्टान्त- स्वारस्येन जगत्सृष्टचादेस्तल्लीलैक प्रयोजनत्वमुक्तं निरपेक्षोपीत्यनेन लीलाव्यतिरिक्तप्रयोजनान्तरनिरपेक्षत्वं चोक्तम् अतोऽनात- कामत्वभङ्गः नापि प्रवृत्यसम्भवः केवललीलैकप्रयोजनानां कंदुकाद्यारम्भाणां बालमहाराजादिषु दर्शनात् नन्वेवमपीश्वरस्य विशेष्यांशस्य जीवस्य गतत्वाच्च न शोकः कार्य इति भावः ॥ ४ ॥ ति भावः इसे चराचर ४५२ श्रीमद्भागवतम् [ स्क. ६ अ. १५ श्लो. १-८ देवतिर्यङ्यनुष्यस्थावरात्मनोत्कृष्टमध्यमापकृष्टसृष्टया पक्षपातः प्रसज्येत अतिघोरदुःखयोगकरणान्नैर्घृण्यं चावर्जनीयमिति शंकमानं प्रत्युक्तं भूतेश इति । अयं भावः । एवं स्रष्टुरपि न वैषम्यादिदोषप्रसक्तिः सर्वभूतानां तत्तत्कर्मानुसारेण नियन्तृत्वाद्विषमसृष्टेः सुखदुःखादेश्च देवादिक्षेत्रज्ञकर्मसापेक्षत्वादिति भावः । तथा च श्रुतिः “साधुकारी साधुर्भवति पापकारी पापो भवति पुण्यः पुण्येन कर्मणा भवति पापः पापेन कर्मणा” इति तथाचोक्तं भगवता पराशरेणापि देवादिवैचित्र्ये हेतुः सृज्यानां क्षेत्रज्ञानां प्राचीन- कर्मशक्तिरेवेति - “निमित्तमात्रमेवासौ सृज्यानां सर्गकर्मणि । प्रधानकरणीभूता यतो वै सृज्यशक्तयः । निमित्तमात्रमुक्त्यैव नान्यत्किचिदपेक्षते । नीयते तपतां श्रेष्ठ स्वशक्त्या वस्तुवस्तुताम्” इति । स्वशक्त्या स्वकर्मणैव वस्तु क्षेत्रज्ञवस्तु वस्तुतां देवादिवस्तुतां प्राप्यत इत्यर्थः ॥ ६ ॥ किञ्च देहस्य जन्ममरणादिस्वभावत्वादपुरुषार्थस्वरूपत्वादात्मनस्तु तद्विपरीत- स्वभावत्वाच्च न देहसम्बन्धप्रयुक्तशोकः कार्य इत्याहतुः - देहेनेति । हे राजन् ! देहिनो जीवस्य देहः देहेन पितृशरीरेण देहान्मातृशरीरादभिजायते यथा बीजादेव भूमौ निहिताद्वीजान्तरं जायते तद्वत् ‘दिह उपचये’ इति धातुपाठादुपचयार्थ काहिह- धातोर्निष्पन्नो देहशब्द उपचयापचयादिषडभावविकारवद्वाचकः प्रयुक्तः तस्य तत्स्वाभाव्यसूचनाय एवं चाग्नेरौष्ण्यं प्रतीव जलस्य शैत्यं प्रतीव देहस्य मृतिं प्रति शोको मुधेति भावः । आत्मनो देहविपरीताकारत्वमुक्तं देह्यर्थ इव शाश्वत इति देही जीवः शाश्वतः नित्यः सततैकरूपश्चात एवार्थः पुरुषार्थ: आनन्दरूपः आनन्दो हि पुरुषार्थः । इतिशब्द एवकारार्थः निपातानाम- नेकार्थत्वात् पुरुषार्थरूप एवेत्यर्थः । नित्यत्वस ततैकरूपत्वानन्दरूपत्वादिस्वभावात्मानुदर्शनं विहाय तद्विपरीतं देहं प्रत्यनुशोको व्यर्थ इति भावः ॥ ७ ॥ देहिनो देहो जायते देह्यर्थः इव शाश्वत इति च नित्यसम्बन्धार्थ कमत्वर्थेनि प्रत्य- यान्तेन जीवो निर्दिष्टः तत्र यद्यनन्तदुःखाकर देहसम्बन्धो जीवस्य नित्यश्वेदपु रुषार्थनित्यसम्बन्धिनोप्यपुरुषार्थरूपतैव स्यान तु पुरुषार्थरूपत्वमितिशङ्कां निराकुर्वन्तावाहतुः - देहीति । पुरा योयमविवेकः अनादिसिद्धो देहात्मभ्रमस्वतन्त्रात्मभ्रमरूपः परमार्थकर्ममूलकस्तेन कृतो देहदेहिविभागः न स्वरूपतः अयं देहोऽयं देहीति विभागरहिते आत्मनि देवमनुष्यादिदेहं प्रति सम्बन्ध्ययमात्मा तदात्मप्रतिसम्बन्ध्यं देह इति विभागः केवलदेहात्मादिभ्रममूलकः सञ्जात इत्यर्थः । यथाऽवस्तुनि रजतत्व- जात्याश्रय रजतव्यक्तिभिन्ने शुक्तत्यादिवस्तुनि इदं रजतमिति रजतत्त्वतदाश्रयव्यत्तयोर्विभागः परमार्थसादृश्यादिदोषमूलकेन भ्रमेण कल्पितस्तद्वत् यद्यपि दृष्टान्ते रजतत्वतदाश्रयरूपजातिव्यक्त्युभयभिन्ने शुक्तयादौ जातिव्यक्तिविभागः कल्पितः स च विभागः प्रतीतिमात्रविषयः न तु प्रमितिविषयः अत एव नेदं रजतमिति तत्र बाधप्रवृत्तिः दाष्टन्तिके तु देहं प्रत्याश्रयभूत एवात्मरूपे वस्तुनि देहदेहिविभागः स च प्रमितिविषयश्च अतएव हि तत्र नायं देहः नायं देहीति पाश्चात्यबाधनादर्शनं चेति दृष्टान्तदाष्टन्तिकयोर्वैषम्यं तथाप्युभयत्र जातिव्यक्तिविभागदेह देहिविभागयोर्भ्रममूलकत्वस्य भ्रमकारणयोः सादृश्यकर्मणोः पारमार्थिकत्वस्य च साम्यादृष्टान्तदाष्टन्तिकभाव उत्पन्नः न हि दृष्टान्तदाष्टन्तिकभावे सर्वसाधर्म्यमपेक्षितम् अन्यथा तयो - स्तादात्म्यापत्या दृष्टान्तदाष्टन्तिकभावस्यैव क्वाप्यसङ्गतत्वापत्तेः अविवेककृत इत्यनेनाविवेकं प्रति निमित्तभूते पुण्यपापात्मके कर्मणि परमात्मोपासनेन निःशेषं निरस्ते सति तन्निमित्तदेहात्मभ्रमादेरपि निवृत्ताववपुरुषार्थ सम्बन्ध्यात्मस्वरूपमनुभूतं भवतीति सूचितं यथा दृष्टान्ते सादृश्यस्य दोषत्वनिश्चयेन निवृत्ते भ्रमे जातिव्यक्तिविभागानर्हशुक्तवादियाथात्म्यमनुभूतं भवति तद्वत् देहीति इति प्रत्ययो न नित्ययोगेऽपि तु सम्बन्धमात्र इति भावः ॥ ८ ॥ विजयध्वजतीर्थकृता पदरत्नावली अत्र संसारो नित्यस्तदुच्छेदो ज्ञानेनैव तदपि निरंतरोपासितश्रीनारायणानुग्रहादुत्पद्यत इति एतत्सर्व निरूप्यते ऽस्मि - न्नध्याये । तत्राङ्गिरोनारदावागत्य किं चक्रतुरित्याशङ्कायामाह श्रीशुक इति । मृतकोपान्ते शवसमीपे ॥ १ ॥ ॐ ॐ यमनु शोचति अयं तच कः स्यात्कीदृशो बन्धुः स्यादिदानीं पुत्र इति भ्रान्तित्तर्हि विरिविसृष्टौ पुराऽतीतकाले त्वमस्य बन्धूनां मध्ये कतमो बन्धुः पिता मातुलो वा सहोदरो वा अतः परम् एष्यति काले च कतमो बन्धुरिति शेषः । अयश्च पूर्वापरकालयोस्तव कतम इति योज्यं यथा पूर्वोत्तरकाले युवयोर्न कोपि सम्बन्धस्तथेदानीमपि भ्रान्तिमन्तरेणेत्यतः शोको न कार्य इति भावः ॥ २ ॥ ननु, तहदं सर्वं मायाकल्पितमस्त्विति तत्राह — यथेति । यथा वालुकाः सिकताः स्रोतोवेगेन नदीप्रवाहवेगेन प्रयान्ति संया- न्त्येकत्र संयुज्य राशीभवन्ति तथा ‘कल ज्ञाने’ इति धातोः कालेन ज्ञानमूर्तिना देहिनः संयुज्यन्ते सम्बद्धयन्ते ‘कल द्रावणे’ इति धातोः कालेन संहारमूर्तिना वियुज्यन्ते ॥ ३ ॥ * * ननु, त्यक्तदेहाः पुनर्देहान्तरमाप्नुवन्ति उत शून्यताम् आहो- स्विदनिवृत्तिलक्षणामवस्थामिति तत्राह - यथेति । धानासु बीजेषु अङ्कुरादिसमृद्धया परिपकेषु सत्सु ततो धानान्तराणि बीजानि कचित् भवन्ति कचित् प्रतिबन्धान्न भवन्ति यथा, तथाभूतेष्वपि ईशमायया नारायणेच्छया चोदितानि प्रेरितानि पुत्रादि- व्यवहारयोग्यतयोत्पद्यन्ते । कचिद्भर्जनादिलक्षणकर्मप्रतिबन्धानि बीजानि अङ्कुरादिकार्य न जनयन्ति यथा, तथा ज्ञानामिभर्जित- संसारबीजानि भूतानि पुनरावृत्तिशून्यावस्थां मुक्तिलक्षणामाप्तानि नोत्पद्यन्त इतीमं विशेषं वा इत्यनेन दर्शयति ॥ ४ ॥ …. स्कं. ६ अ. १५ श्लो. १-८] अनेकव्याख्यासमलङ्कृतम् .. ४५३ इतोपि पुत्राद्यात्मना सम्बन्धः एवमित्याह - वयमिति । अस्मिन् क्षण एव तुल्यकालत्वम् अन्ययोः क्षणयोः यथा नास्ति । देहनाशात् । तथा प्रकृतेरपीति भावः । ननु, देहनाशानाशाभ्यां सदा तुल्यकालत्वाभावश्चेत्यहिं सर्वदा तुल्यकालत्वं कस्येति तत्राह- जन्ममृत्योरिति । जन्ममृत्योः पूर्वापरकालयोर्यथा सृष्टयादिकं करोति तथाऽधुनाप्येवमेवेति, अनेन हरेरेव देहेन सदातनत्व- मुपवर्णितम् अस्य चैतन्यसदातनत्वेपि देहस्य नास्तीति विशेष इत्यभिप्राय: “देहस्य सर्वथा नाशादनाशाश्चेतनस्य तु” इति स्मृतेः ||५|| केनोद्भूतैर्भूतैरिति तत्राह — आत्मेति । भूतानि स्वयमेव सृजन्तीति किं न स्यादिति तत्राह - अस्वतन्त्रैरिति । न चार्थार्थी सृजत्ययम् अनपेक्ष इति अथास्मात्सर्जनात्प्रयोजनापेक्षा न स्यात्कथं तहींद सर्जनं प्रयोजनमन्तरेण प्रवृत्त्यदर्शनादित्यत्राह - बालवदिति । यथा बालः क्रीडनं क्रीडति तथा “लोकवत्तु लीलाकैवल्यम्” इति सूत्रात् ॥ ६ ॥ * * भूतैरुपकरणैरीश्वरः कथं सृजतीत्यतस्तं प्रकारं दर्शयति-देहेनेति । पितुर्हेहेन संयुक्तान्मातुर्देहादेहिन उत्पत्स्यमानस्य पुत्रलक्षणजीवस्य देहोऽभि- जायते न तु चेतनः तस्य नित्यत्वात् ‘दिह उपचये’ इति धातोः देहशब्दोपलक्षितपूर्वकर्मणा फलदानायेश्वरप्रेरितेन देहिनः पितृमातृशब्दवाच्यस्य देहादुपादानभूतादेहः पुत्रस्येति शेष इति वा अभीत्युपसर्गेणानेकमुखपरम्परासृष्टिमुपलक्षयति अत्र दृष्टान्तमाह - बीजादिति, बीजात्पनसादिलक्षणाज्जलतेजआदिसाधनसामग्रीसंवृतादङ्कराख्यं वृक्षजीवशरीरं तेन सह जायते तस्माद्युक्तजलाद्याप्त सारात्पनसादिवीजान्तरमुत्पद्यते तस्माच्चेति यथा कार्यपरम्परा न चैवमनवस्था मूलकार्यस्य प्रकृत्यात्मकत्वात् तथा पितृमातृविकारशुक्रशोणितसम्बन्धात्कलिलादिलक्षणं कार्यमभिमानिजीवेन सह जायते तस्मात्परिणतावयवात्स्त्रीपुरुष- भूताद्रेत आदिक्रमेण कार्यान्तरं जायत इत्यनेन क्रमेण भगवान् भूतैः सृष्टि करोतीति स्थितिसंहारयोरेवमूह्यं तददृष्टेश्वरेच्छा- वशादिति ग्राह्यं “अथातो रेतसस्सृष्टिः” इति श्रुतेः तस्मात्सर्वाणि कार्याणि कानिचिदाहत्यात्मना नारायणायनानि कानिचि- त्परम्परया तदधीनानि तत्रापि विशेषस्तु प्रमाणादवमन्तव्यः तदुक्तश्न- " नारायणायना देवा ऋष्याद्यास्तत्परायणाः । ब्रह्माद्याः केचनैव स्युः सिद्धो योग्यं सुखं लभेत्” । अत्रापि कियन्त इतीयमाशङ्का च । “नव कोट्यस्तु देवानामृषीणां शतकोटयः । नारायणायनाः सर्वे ये केचित्तत्परायणाः” इति । एतद्वाक्यद्वयं सर्वस्य नारायणाश्रयेण वक्तव्यत्वात् " मुक्तानामपि सिद्धानां नारायणपरायण: " ( १ ) इत्यादौ नोदाहृतम् उभयत्रापीदमेव प्रमाणमिति सन्तोष्टव्यम् । ननु, देहनाशवदेहिनाशे पुरुषार्थानुप- पत्तिरत्राह - देहीति, देहदेहिनोर्मध्ये देही शाश्वतः अभिमानमन्तरेण जन्मनाशरहिततया कालत्रयेप्येकप्रकारः कथमिव अर्थ इव मोक्षलक्षण पुरुषार्थं इव शब्दार्थ इव वा तर्हि ब्रह्मसाम्यमायातमित्यस्याप्येतदेवोत्तरम् । देह्यर्थः जीवाख्यः पदार्थः शाश्वत इव नित्य इव " द्रव्यं कर्म च कालश्च” इत्यादे: जीवनित्यत्वस्य श्रीनारायणाधीनत्वेनोपचरितत्वाद्धरेरेव निरुपचरितनित्यत्वमतस्तयोर्न साम्यमित्यर्थः । केचिदेवं व्याचक्षते अर्थः नरत्वादिजातिमात्रमिव यथा जातेर्नित्यत्वं तथा जीवस्यापीत्येतचिन्त्यं “कुतो भस्मत्व- माप्तस्य नरत्वं पुनरिष्यते” इति वचनात् तत्तन्नरत्वादेतत्तन्नाशेन नाशसम्भवान्नित्यत्वानुपपत्तेः ॥ ७ ॥ * * कृशोहं स्थूलोहमित्यभेदानुभवाद्देहिनो नित्यत्वं देहस्यानित्यत्वमित्ययं विशेष: कथं घटत इति तत्राह - देहेति । अविवेककृतोऽज्ञान- निर्मितः न चायमाधुनिकः शुक्तिरजतवदित्यत उक्तं पुरेति । पुरा पुरातनः अनादिमानित्यर्थः । अनेन ज्ञानेनाज्ञाने नष्टे उक्तविशेषो घटत इत्युक्तं भवति अत्र दृष्टान्तमाह-जातीति यथा गवादिवस्तुनि गोत्वगवादिपिण्डानां विभागो भेद: कणादादीनामज्ञानेन कल्पितः न तु वास्तवः अज्ञानकृतत्वमात्रे दृष्टान्तोयं तस्माद्भेदाभेदत्वे अप्रयोजके इति कणादादीनामपि तमोयोग्यत्वप्रकटनाय तन्मतोदाहरणं वस्तुनि हरौ गोपालत्वादिजातिव्यक्तिविभागो यथा कल्पितः आरोपितस्तथेति वा ॥ ८ ॥ जीवगोस्वामिकृतः क्रमसन्दर्भ : * शुद्धात्मनो वस्तुतो देहित्वं नास्ति ततो न च तस्य देह इत्येवम् । तत्र दृष्टान्तः यथा न वस्तुनि सर्व्वकारणे परमात्मनि जातिव्यक्तिविभाग इति ॥ १-९ ।। विश्वनाथचक्रवतिकृता सारार्थदर्शिनी अथ पञ्चदशे भूपमुद्दधार मुनिद्वयम् । शोकान्मन्त्रन्तूपदेष्टुं नारदः किञ्चिदब्रवीत् ॥ १ ॥ अयं तव को भवेत् पुत्र इति चेत् सत्यं त्वमप्यस्य कतमः पितेति चेत् तत्राह पुरा सृष्टौ पूर्वजन्मनि किंवा इदानीं किंवा अतः परं भाविनि जन्मनीत्यर्थः । ये पूर्वजन्मनि पुत्रादिरूपेण संयुक्ता आसन् त एव मरणे ततो वियुक्ताः सन्तः वर्त्तमानजन्मनि कदाचित् तस्यैवान्यस्य वा पुत्रादयो भवन्ति ते जन्मान्तरे तस्यैवान्यस्य वा कलत्रादयः शत्रुमित्रादयो वा भवन्तीति भावः ||२|| तमेवार्थं प्रकटयति-यथेति । स्रोतसः प्रवाहस्य वेगेन बालुका यथा प्रयान्ति वियुज्यन्ते संयान्ति संयुज्यन्ते तथा कालवेगेन देहिनो जीवा अपि ॥ ३ ॥ नन्वहमस्य पिता वा पुत्रो वा एतस्मिन् जन्मनि अन्यस्मिन् जन्मनि भवामि न भवामि वेत्यादिजिज्ञासया संप्रत्यलमेव किन्त्वस्य परमप्रेमास्पदस्य विच्छेददुःखमहं केनापराधेनानुभवामि तदब्रुवमिति चेन्नात्र .. श्रीमद्भागवतम् [ स्कं. ६ अ. १५ लो. १-८ astrपराधः किन्त्वत्र काल एव कारणमित्याहतुः यथेति, तदित्येतावन्तं कालं मम पुत्रोनाभूत बार्द्धके जातो मृत इति महदू- दुःखमिति चेत्तत्राहतुः धानासु यचेषु धाना यवान्तराणि भवन्ति कदाचिन्न भवन्ति नश्यन्ति च एवम्भूतानि पुत्रादीनि भूतेषु पित्रादिषु । अतो यवानां जन्यजनकत्येपि यथा पितृपुत्रादिभावो नास्ति एवमत्रापि न शोकः कार्य्य इति भावः ‘धाना भ्रष्टयवे स्त्रियः’ इत्यभिधानात् । श्लेषेण यथा धानासु भ्रष्टयवेषु धाना न भवन्ति, एवम्भूतेषु ईदृशेषु भवद्विधेषु अपत्यजनका दृष्टरहितेषु भूतानि अपत्यानि न भवन्ति किन्तु हे ईश ! राजन् ! मायया प्रेरितानि भवन्ति चेत्यहमङ्गिरा एव त्वत्प्रबोधार्थ मायया त्वत्पुत्रोऽभूवमिति भावः ॥ ४ ॥ * * शोचनीयश्चेत् न केवलं मृतः पुत्र एवं अपि तु दारामात्यस्वजनादयः सर्व्वे वर्त्तमाना अति शोच्या एवेत्याहतुः - वयञ्चेति । तुल्यकाला एककालस्थिता जन्मनः प्राकू मृत्योः पश्चाश्च यथा न सन्ति एबमधुनापि न सन्ति न ह्यत्रैककालिकं वस्तु वास्तवमुच्यते न ह्यवास्तवं वस्तु भन्यैर्गणनायामुपादीयते इत्यतस्तत् सत्यमप्यसत्या - यमानमेवेति भावः ॥ ५ ॥
-
- न च मयायं पुत्रो जनितः केनाप्यलक्षितेन दारुणेनायं नाशित इति स्वस्मिन् जनकत्व- लक्षणों गुणः परस्मिंस्तु नाशकत्वलक्षणो दोषः प्रसञ्जनीय इत्याहतुः । भूतैः पित्रादिभिः सृजति - राजादिभिरवति, सर्पादिभिर्हन्ति आत्मसृष्टरिति पित्रादीनामीश्वरसृष्टत्वादीश्वराधीनत्वाश्चेत्यर्थः । ननु, पूर्णकामस्येश्वरस्य किं सृष्टचादिभिस्तत्राह - अनपेक्षोऽपि बाललीलया करोतीति ॥ ६ ॥ ॐ सत्यमुक्तमीश्वरसृष्टेन पित्रा मया जनितः पुत्रोऽयं मृत इत्यतः शोचामीति तत्राहतुः - देहेन पितुर्देहेन देहिनः पुत्रस्य देहो मातुर्देहादभिजायते यथा बीजादेव बीजं जायते अतस्त्वया जनितस्य पुत्रदेहस्य तवाय एव वर्त्तमानत्वात् त्वं कथमधुना शोचसीति भावः । नन्वत्र संप्रति देही जीवात्मा नास्तीति शोचामीति तत्राहतुः, देही जीवो नाम अर्थस्तु शाश्वत एव न स त्वया जनित इति तेन सह न कोपि ते सम्बन्धोऽस्तीति भावः ॥ ७ ॥ * * ननु, नश्वरदेहप्रतियोगित्वात् देापि न शाश्वतः स्यात्तत्राहतुः । देहदेहिनोस्यं परस्परप्रतियोगिविभागः पुरा अनादिः अविवेक- कृतः तः अज्ञानकल्पितः जातिः सामान्यं व्यक्तिविशेषः तयोर्विभागो यथा वस्तुनि सम्मात्रे कल्पितः परस्परापेक्षसिद्धित्वेना- निरूप्यत्वात् ॥ ८-९ ॥ ॥
शुकदेवकृत: सिद्धांत प्रदीपः श्रीनारदाङ्गिरोभ्यां यथोपदेशों राजानं प्रतिकृतरूथोच्यते - ऊचतुरिति पञ्चदशेन ॥ १ ॥ * * भवान् यमनुशोचति सोयम् पुरा सृष्टौ पूर्वजन्मनि इदानीं वर्त्तमाने जन्मनि अतः परं भविष्ये जन्मनि च तव कः स्यात्त्वञ्चास्य कतमः नायं तव कोपि न त्वं चास्य कतमो पीत्यर्थः । पितृपुत्रादिसम्बन्ध स्थानियतत्वादस्थिरत्वाच्च ॥ २ ॥ यथा स्रोतसः प्रवाहस्य वेगेन बालुकाः प्रयान्ति वियुज्यन्ते संयान्ति संयुज्यन्ते तथा देहिनः पितृपुत्रादयः कालेन कर्मफलदभगवच्छक्ति- भूतकालवेगेन वियुज्यन्ते संयुज्यन्ते च ॥ ३ ॥ * * धानासूपादानभूतेष्वन्नबीजेषु यथा तत्तज्जातिगुणादियुक्ता धाना अन्नानि भवन्ति च तथेशस्य मायया वयुनेन सङ्कल्पेन तत्तज्जीवकर्मानुसारिणा भूतेषु पित्रादिषु भूतान्यपत्यानि भवन्ति न भवन्ति च पितृपुत्रादिसम्बन्धी नित्यो नास्त्यतो मम पुत्रो मृत इति शोकोऽयुक्त इति भावः ॥ ४ ॥ किञ्च सर्वभूतेषु शरीरस्यानित्यत्वेपि प्रकृतिरूपेणानित्यत्वं जीवस्य तु सर्वथा नित्यत्वमेवेति वस्तुनाशाभावाच्छोकोऽयुक्त इत्याहतुः वयं च त्वं चेमे तुल्यकालाश्चराचराः सर्वे यथा अधुना सद्रपाः भवन्ति एवं जन्मनः प्राक् नासन अपि तु आसन्नेव मृत्योः पश्चान भविष्यन्त्यपि तु भविष्यन्त्येवेत्यन्वयः “सदेव सौम्येदमग्र आसीत् " । " न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः । न चैव न “न भविष्यामः सर्वे वयमतः परम्” । इत्यादिश्रुतिस्मृतयोप्यत्रानुसन्धेयाः ॥ ५ ॥ पाञ्चभौतिकेभ्यो भूतेभ्यो चरा- चरेभ्यो भूतानि चराचराणि भगवान् सृजति अवति हन्ति च बालवत् निरहङ्कारः ॥ ६ ॥ देहिनः पुत्रदेहगतस्य जीवस्य देहेन पितृदेहेन देहान्मातृदेहात् देह एव जायते देही जीवस्तु शाश्वतो ध्रुवः अर्थ इव सर्वशास्त्रार्थ भूतपरमात्मैव ॥ ७ ॥ नन्वेवंभूतो देहिदेहविभागबोधः “ तरति शोकमात्मवित्” इत्यादिश्रुतिप्रामाण्यात् शोकसागरनिस्तारको मम कुतो न प्रागासी- दत्राहतुः - पुरा उपदेशनात् देहिदेहविभागबोधात् पूर्वमयं देहिदेहविभागः अविवेकेनाऽबोधेन कृतः छिन्नः ‘कृति छेदने’ यथा वस्तुनि पदार्थे मनुष्यादौ कल्पितः प्रजापतिना रचितः सत्योऽपि जातिव्यक्तः मनुष्यत्वतदाश्रयव्यक्तयोर्विभागोयं पुरा मनुष्य- त्वतदाश्रयव्यत्तयोर्बोधात्पूर्वम् अविवेनाबोधेन छिनो भवति तद्वदित्यर्थः ॥ ८ ॥
गोस्वामिगिरिधरलाल विहिता बालप्रबोधिनी अथ पञ्चदशे राज्ञः कृतं शोकापनोदनम् । तत्त्वज्ञानोपदेशेनाङ्गिरसेति निरूप्यते ॥ १ ॥ शोकाभिभूतं शोकेनाचेतनीकृतमतएव मृतकोपमं मृतकस्य शवस्य उपान्ते समीपे पतितं राजानं सदुक्तिभिः यथार्थहित- प्रियवाक्यैर्बोधयन्तौ नारदाङ्गिरसावूचतुरित्यन्वयः ॥ १ ॥ तद्वाक्यान्येव दर्शयति- कोऽयमिति सप्तभिः । हे स्कं. ६ अ. १५ श्लो. १८] 15] अनेकव्याख्यासमलङ्कृतम् ४५५ राजेन्द्रेति सम्बोधनेन जनोत्तमस्य तव विवेकपूर्वक प्रवृत्तिरेवोचिताऽन्यथा तवाविवेकेन शोकव्याकुलतया वसुधातलमेव व्याकुलं पश्येति सूचयति । भवान् यमनुशोचति सोऽयं सृष्टौ ब्रह्मकृतप्रजारूपायां तव कः स्यात् ? त्वं वास्य कतमोऽसीत्यन्वयः । अयं मम पुत्रः अहं चास्य पितेति चेत्तत्राह - पुरेति । ये पूर्वजन्मनि पित्रादिरूपेण संयुक्ता आसंत एव मरणेन ततो वियुक्ताः सन्तो वर्त्तमानजन्मनि कदाचित्तस्यैवान्यस्य वा पुत्राद्यो भवन्ति ते च भाविजन्मान्तरे तस्यैवान्यस्य वा कलत्रादयः शत्रुमित्रादयो वा भवन्तीति नायं नियमो यो यस्य पुत्रः स तस्य पुत्र एव यो यस्य पिता स तस्य पितैवेति ॥ २ ॥ * उक्तमेव दृष्टान्तेन स्पष्टयतः - यथा स्रोतसः प्रवाहस्य वेगेन वालुकाः प्रयान्ति वियुज्यन्ते संयान्ति संयुज्यन्ते तथा कालवेगे देहिनो जीवा अपि संयुज्यन्ते वियुज्यन्ते चेत्यन्त्रयः ॥ ३ ॥ ननु सत्यमेवं तथाप्येतावन्तं कालं मम पुत्रो नाभूद्वार्द्धके जातो मृतश्चेति दुःखमित्याशङ्कयाहतुः - यथेति । यथा धानासु यवादिबीजेषु धानाः यवादिवीजान्तराणि कचित्कदाचिद्भवन्ति कचित्कदाचिन्न भवन्ति नोत्पद्यन्ते च उत्पन्ना अपि नश्यन्ति च न तु भवन्त्येव जाता अपि तिष्ठन्त्येवेति वा नियमः । एवमीशस्य मायया इच्छ्या चोदितानि प्रेरितानि भूतानि पुत्रादिरूपाणि भूतेषु पित्रादिषु भवन्ति न भवन्ति भूतान्यपि नश्यन्ति च । तथाच यथा धानानां जन्यजनकत्वेऽपि पितृपुत्रादिभावेन शोकादि नास्ति तथाऽत्रापि शोकादिर्न कार्य इति भावः || ४ || ननु तर्हि कथं सन्तोष्टव्य- मित्यपेक्षाया माहतुः – वयमिति । तुल्यकाला वर्त्तमानकालीना वयं च त्वं च ये चेमेऽन्ये चराचरास्ते यथा जन्मनः प्राक् मृत्योः पश्चाच न सन्ति जीवस्य नित्यत्वेन देहानां तिरोहिततया स्थितत्वेऽप्याविर्भावाभावात् स्वसम्बन्धितया व्यवहारयोग्या न भवन्ति एवमधुना वर्त्तमानकालेऽपि आशुतरतिरोधानशीलत्वात कालकर्माद्यधीनत्वाच्च न सन्ति स्वकीयत्वेन व्यवहारयोग्या न भवन्तीति मन्तव्यम् । भो हे प्रभो तव भगवद्भक्तस्यैव विवेकेन विरक्तिरेव युक्तेति सूचयतः ॥ ५ ॥ पारतन्त्र्यमेव स्पष्ट्रयतः- भूतैरिति । आत्मसृष्टैरतएव अस्वतन्त्रैः स्ववशोभूतैः भूतैः पञ्चमहाभूतकार्यैः पित्रादिभिर्भूतानि पुत्रादीन् भूतेश: जगदी- श्वर: सृजति अवति हन्ति च । तथापि तस्य जनकः कश्चिदन्य एव स्यादित्याशङ्कयाहतुः - अज इति । नन्वीश्वरस्त्य सृष्टया- दिभिः प्रयोजनमस्ति चेदपूर्णकामता प्राप्ता नास्ति चेत्कुतस्तत्र प्रवृत्तिरित्याशङ्कयाहतुः – अनपेक्ष: प्रयोजनरहितोऽपि बालवल्लीलया करोतीति ॥ ६ ॥ * इदं च जन्मादि देहानामेव न त्वात्मन इत्याहतुः - देहेनेति । पितुर्देहेन संयुक्तान्मातुर्देहादेहिनः पुत्रस्य देहोभिजायते प्रादुर्भवति । तत्र दृष्टान्तः - यथा बीजादेव बीजान्तरं जायते तथा । देही जीवस्तु अर्थ इव भूम्यादिवत शाश्वत एव ।। ७ ।। ननु सर्वस्य मूलकारणे परमार्थतो भगवानेव तदाऽयं देह देहिभेद एव कथं सम्भवतीत्याशङ्कयाहतुः – अयं देह देहिनोर्विभागो भेदः पुरा चिरन्तनोऽविवेककृतोऽज्ञानकल्पितः । तत्र दृष्टान्तमाहतुः – जातिर्गोत्वादिसामान्यं व्यक्ति- र्गवादिपिण्डविशेषस्तयोर्विभागो वस्तुनि सन्मात्रे कल्पितः, परस्परापेक्षसिद्धत्वेन भेदेन निरूपयितुमशक्यत्वात्तद्वदित्यर्थः ॥ ८ ॥ * । भगवत्प्रसादाचार्यविरचिता भक्त मनोरञ्जनी । शोकापनोदनं चित्रकेतोः पञ्चदशे ततः । नारदेन कृतं तत्त्वोपदेशेनाङ्गिरोयुजा ॥ १ ॥ । एवं तत्रागतावङ्गिरोनारदौ शोकापनयनाय तमूचतुरित्याह मुनिः । ऊचतुरिति । मृतकोपान्ते शवसमीपे पतितं शोकाभिभूतम्, अत एव मृतकोपमं शवसदृशं राजानं चित्रकेतुं, सदुक्तिभि: प्रकृतिपुरुषेश्वरयाथात्म्यवेदिनीभिरुक्तिभिः, बोधयन्तौ विवेकमुत्पादयन्तौ तौ ऊचतुः ॥ १ ॥ * * सदुक्तिबोधनप्रकारमेवाह क इत्यादिना वस्तुनि कल्पित इत्यन्तेन । तत्र तावज्जीवानां परस्परं यः संबन्धः स त्वौपाधिक एवास्ति तं निमित्तीकृत्य परस्परस्य शोकमोहभयादिभाक्तं, एवं चौपाधिक संबन्धनिभृत्तौ न शोकहेतुत्वमस्तीत्यूचतुः । क इति । हे राजेन्द्र, यं प्रति भवान्, अनुशोचति, सः अयं सृष्टाव- नादिप्रवाहरूपायामस्यां सृष्टौ पुरा भूतकाले, इदानीं वर्त्तमानकाले, अतः परं भविष्यत् काले च तव कः स्यात् । त्वं च अस्य शोच्यमानस्य, कतमः स्याः । अनादिकालतो वर्त्तमानायामस्यां विरिविसृष्टौ जन्मोपाधिकः पितृमातुलसहोदरादि- संबन्धस्तत्र वर्त्तमानकालेऽयं तव पुत्रः सन्नपि पुरा बन्धूनामयं कतमो बन्धुः । एष्यति काले च कतमो बन्धुः । एवं विचारिते यथा पूर्वोत्तरकाले युवयोर्न कोऽपि संबन्धस्तथेदानीमपि भ्रान्तिमन्तरेण न कोऽपि संबन्धोऽवभासतेऽतः, अयं मम पुत्रः, अहं चास्य पितेति केवलं मोहः पुत्रादिसंबन्धस्यानियतत्वात् । पूर्वजन्मनि ये पित्रादिरूपेण संयुक्ता आसंस्त एव मरणेन वियुक्ताः सन्तो वर्त्तमानजन्मनि तस्यैवान्यस्य वा पुत्रादयो भवन्ति त एव भाविनि जन्मान्तरे तस्यैवान्यस्य कलत्रादयः शत्रुमित्रादयो वा भवन्ति । ततो नायं पुत्रादिनियम इति भावः ॥ २ ॥ सांप्रतकालजात देहद्वारकपितृपुत्र संबन्धे- नानुशोचामीत्यत्रोचतुः । यथेति । स्रोतोवेगेन प्रवाहवेगेन यथा बालुकाः सिकताः, संयान्ति कदाचित्कुत्रचित्संयुक्ता भवन्ति । प्रयान्ति कदाचिद्विप्रयुक्ताश्च भवन्ति । तथा कालेन निमित्तेन, देहिनः अन्यैर्देहिभिः सहेति शेषः । संयुज्यन्ते । वियुज्यन्ते च ॥ ३ ॥ * * ननु पितृपुत्रादिसंबन्धो न केवलमात्मगतो नापि देहमात्रगतः, किं तूभयविशिष्टतागतोऽतो विशिष्टं प्रत्येवाहं विशिष्टरूपः शोचामीति चेत्तत्राहतुः । यथेति । यथा धानासु बीजेषु, जातिगुणादिविशेषणविशिष्टेषु बीजेष्वित्यर्थः । धानाः जातिगुणविशिष्टानि तादृशानि बीजान्तराणीत्यर्थः । भवन्ति ईश्वरसंकल्पेन न भवन्ति तत्संकल्पेन उत्पद्यन्ते नोत्पद्यन्ते । ४५६ श्रीमद्भागवतम् + [ स्कं. ६ अ. १५ श्लो. १-८ च वै एवं तथाभूतेषु, भूतेभ्यः अपादानस्यैवाधिकरणत्वविवक्षया सप्तमी भूतानि ईशमायया चोदितानि सन्ति, उत्पद्यन्ते नोत्पद्यन्ते च । स्थावरेभ्यः स्थावराणामिव जङ्गमेभ्यो जङ्गमानामप्युत्पत्तेरीश्वरसं कल्पायत्तत्वाद्विशिष्ठे विशेष्यांशस्य जीवस्य गतत्वाच्च न शोकः कार्य इति भावः ॥ ४ ॥ * * ननु गच्छतु विशेष्यांशो जीवः साक्षात्संबन्धापादकमवस्थितदेहं प्रत्यनुशोचामीत्यत्राहतुः । वयं चेति । भो राजन् वयं त्वं च इमे चराचराश्च, तुल्यकालाः वर्त्तमानकालीनाः, ये ते चापि, जन्ममृत्योः प्राक् पश्चाच यथा न भवन्ति तथा अधुना अपि न एव भवन्ति । जन्मनः प्राक् मृत्योः पश्चाच्च यथाऽस्मदादयो नासन्नेवमधुनापि, न भवाम एवेत्यर्थः । विशीर्णस्वभावमिममारब्धदेहमसन्तं पश्य । आद्यन्तयोरसत्त्वात् स्वप्नवदिति भावः ॥ ५ ॥ * ननु स्वप्नबदसत्त्वे कथं प्रतीतिः कथं वाहमस्य जनक इत्याद्यभिमानस्तत्राहतुः । भूतैरिति । भूतेशः भूतानामन्तः प्रविश्य तत्तत्कर्मानुसारेण शास्ता, अजः परमेश्वरः, आत्मसृष्टैः स्वतन्त्रेण स्वेन सृष्टैः अस्वतन्त्रैः सृज्यस्य स्रष्टुः पुरोऽस्वतन्त्रत्वात् स्रष्टृनिदेशमन्तरा किंचिदपि कत्तु न स्वतन्त्रैः भूतैः, भूतानि सृजति, अबति, हन्ति । स्वेच्छात्मकमायाशक्त्या ईश्वरेण सृष्ट- त्वात् प्रतीतिः, तन्निमित्तमात्रेण भूतानामयमभिमान इति भावः । ननु भूतेशस्याजस्येश्वरस्य सृष्टयादिभिः साध्यं तु किंचिन्न दृश्यते पूर्णकामत्वात्तत्त्वे तु कुतः सृष्ट्यादावस्य प्रवृत्तिस्तत्राहतुः । अनपेक्षः सन्नपि, बालवत लीलया करोतीति शेषः । ‘लोकवत्तु लीलाकैवल्यम्’ इति न्यायात् । नात्रेत्यभावे ईश्वरस्य नैघृण्यतादिदोषप्रसक्तिः “साधुकारी साधुर्भवति’ इत्यादिश्रुतेः ॥ ६ ॥ किं च देहस्यैव जन्ममरणादिस्वभाववत्त्वादात्मनस्तु तद्विपरीतस्वभाववत्त्वाश्चायं जन्मादि- व्यवहारो देहानामेव न त्वात्मनोऽतः देहसंबन्धप्रयुक्तः शोको न कार्य इत्याहतुः - देहेनेति है । राजन्, देहिनो जीवस्य, देहः शरीरं देहेन पितुः शरीरेण, देहात् मातृशरीरात्, अभिजायते । यथा बीजाद्भूमौ निहिताद्बीजात् एव, बीजं बीजान्तरम्, अभिजायते तद्वत् । देही जीवः शाश्वतः नित्यः सर्वदैकरूपः । अत एव अर्थ इव पुरुषार्थरूपः एव, नित्यत्व सततैकरूपत्वानन्द- रूपत्वाद्यात्मस्वभावानुदर्शनं विहाय तद्विपरीतं देहं प्रति अनुशोको व्यर्थ इति भावः ॥ ७ ॥ * * ननु नश्वर देह- प्रतियोगित्वाद्देह्यपि न शाश्वतः स्वात्तत्राहतुः । देहेति । अयं देहदेहिविभागः परस्परप्रतियोगिविभागः, पुरा अनादिकालत एव, अविवेककृत्तः उभयस्वरूपाज्ञानकल्पितः । यथा अयं जातिव्यक्तिविभागः वस्तुनि कल्पितः तद्वत् । तत्र जातिः सामान्यं, व्यक्तिर्विशेषः । यथा गोः पिण्डे सास्नादिमत्त्वं जातिः, तत्पिण्डो व्यक्तिः । अयं चेतनावति पञ्चभूतजगोपिण्डे विभागः कल्पितस्तद्वदयमपीति भावः ॥ ८६ ॥ ४ । भाषानुवादः चित्रकेतुको अङ्गिरा और नारदजीका उपदेश
- राजेन्द्र ! उन्होंने कहा- भी जैसे जलके वेगसे बालूके मिलन और बिछोह और श्रीशुकदेवजी कहते हैं- परीक्षित ! राजा चित्रकेतु शोकग्रस्त होकर मुर्देक समान अपने मृत पुत्रके पास ही पड़े हुए थे । अब महर्षि अङ्गिरा और देवर्षि नारद उन्हे सुन्दर-सुन्दर उक्तियोंसे समझाने लगे ॥ १ ॥ जिसके लिये तुम इतना शोक कर रहे हो, वह बालक इस जन्म और पहलेके जन्मोंमें तुम्हारा कौन था ? उसके तुम कौन थे ? और अगले जन्मोंमें भी उसके साथ तुम्हारा क्या सम्बन्ध रहेगा ? ॥ २ ॥ ॥ ॥ कण ग एक दूसरेसे जुड़ते और बिछुड़ते रहते हैं, वैसे ही समय के प्रवाह में प्राणियोंका होता रहता है ॥ ३ ॥ राजन् ! जैसे कुछ बीजोंसे दूसरे बीज उत्पन्न होते नष्ट हो जाते हैं वैसे ही भगवानकी मायासे प्रेरित होकर प्राणियोंसे अन्य प्राणी उत्पन्न होते और नष्ट हो जाते हैं ॥ ४ ॥ ** राजन् ! हम, तुम और हमलोगों के साथ इस जगत् में जितने भी चराचर प्राणी वर्तमान हैं - वे सब अपने जन्मके पहले नहीं थे और मृत्युके पश्चात् नहीं रहेंगे । इससे सिद्ध उनका अस्तित्व नहीं है । क्योंकि सत्य वस्तु तो सब समय एक- ९ कि इस समय भी सी रहती है ॥ ५ ॥ * * भगवान् ही समस्त प्राणियोंके अभिपति हैं । उनमें जन्म-मृत्यु आदि विकार बिल्कुल नहीं । उन्हें न किसीकी इच्छा है और न अपेक्षा | वे अपने आप परतन्त्र प्राणियोंकी सृष्टि कर लेते हैं और उनके द्वारा अन्य प्राणियोंकी रचना, पालन तथा संहार करते हैं-ठीक वैसे ही जैसे बच्चे घर-घरौंदे, खेल-खिलौने बना-बनाकर बिगाड़ते रहते हैं ॥ ६ ॥ * * परीक्षित् ! जैसे एक बीजसे दूसरा बीज उत्पन्न होता है, वैसे ही पिताकी देहद्वारा माताकी देहसे पुत्रकी देह उत्पन्न होती है । पिता-माता और पुत्र जीवके रूपमें देही हैं और बाह्यदृष्टिसे केवल शरीर । उनमें देहि जीव घट आदि कार्यों में पृथ्वी के समान नित्य है ||७|| * राजन् ! जैसे एक ही मृत्तिकारूप वस्तु में घटत्व आदि जाति और घट आदि व्यक्तियोंका विभाग केवल कल्पनामात्र हैं, उसी प्रकार यह देही और देहका विभाग भी अनादि एवं अविद्याकल्पित है ॥ ८ ॥ १. अनित्य होनेके कारण शरीर असत्य है और शरीर असत्य होनेके कारण उनके भिन्न-भिन्न अभिमानी भी असत्य ही हैं । त्रिकाला- बाधित सत्य तो एकमात्र परमात्मा ही हैं । अत: शोक करना किसी प्रकार उचित नहीं है । स्कं. ६ अ. १५ श्लो. ९-१६] अनेकव्याख्यासमलङ्कृतम् श्रीशुक उवाच एवमाश्वासितो राजा चित्रकेतु द्विजोक्तिभिः । प्रमृज्य पाणिना वक्त्रमाधिम्लानमभाषत ॥ ९॥ राजोवाच कौ युवां ज्ञानसम्पन्नौ महिष्ठौ च महीयसाम् । अवधूतेन वेषेण गूढाबिह समागतौ ॥ १० ॥ चरन्ति यवनौ कामं ब्राह्मणा भगवत्प्रियाः । मादृशां ग्राम्यबुद्धीनां बोधायोन्मत्तलिङ्गिनः ॥ ११ ॥ कुमारो नारद ऋभुरङ्गिरा देवलोऽसितः । अपान्तरतमो व्यासो मार्कण्डेयोऽथ गौतमः ॥ १२ ॥ वसिष्ठो भगवान् रामः कपिलो बादरायणः । दुर्वासा याज्ञवल्क्यश्च जातूकर्ण्यस्तथाऽऽरुणिः ॥ १३ ॥ ! रोमशश्च्यवनो दत्त आसुरिः सपतञ्जलिः । ऋषिर्वेदशिरा बोध्यो मुनिः पञ्चशिरास्तथा ॥ हिरण्यनाभः कौसल्यः श्रुतदेव ऋतध्वजः । एते परे च सिद्धेशाश्चरन्ति ज्ञानहेतवः ।। तस्माद्युवां ग्राम्यपशोर्मम मूढधियः प्रभू । अन्धे तमसि मग्नस्य ज्ञानदीप उदीर्यताम् ॥ १६ ॥ । कृष्णप्रिया व्याख्या V १० ॥ १४ ॥
१५ ।। ४५७ उन्मत्तलिङ्गिनः
-
- कुमारः नारदः ऋभुः वसिष्ठः भगवान् रामः कपिल: अन्वयः - एवं द्विजोक्तिभिः आश्वासितः चित्रकेतुः राजा आधिम्लानं वक्त्रं पाणिना प्रमृज्य अभाषत ॥ ९ ॥ * ज्ञानसंपन्नौ च महीयसाम् महिष्ठौ अवधूतेन वेषेण गूढौ इह समागतौ युवां कौ ॥ भगवत्प्रियाः ब्राह्मणाः मादृशां प्राम्यबुद्धीनां बोधाय हि अवनौ कामं चरन्ति ॥ ११ ॥ अंगिराः देवलः अमितः अपांतरतमः व्यासः मार्कण्डेयः अथ गौतमः ॥ १२ ॥ बादरायणः दुर्वासाः च याज्ञवल्क्यः जातूकर्ण्यः तथा अरुणिः ॥ १३ ॥ * रोमशः च्यवनः दत्तः सपतंजलिः आसुरि: वेदशिराः ऋषिः बोध्यः मुनिः तथा पंचशिराः ॥ १४ ॥ * * हिरण्यनाभः कौसल्यः श्रुतदेवः ऋतध्वजः एते च परे सिद्धेशाः ज्ञानहेतवः चरन्ति ॥ १५ ॥ * * तस्मात् युवाम् अन्धे तमसि मग्नस्य ग्राम्यपशोः मम प्रभू स्थः ज्ञानदीप: उदीर्यताम् ॥ १६ ॥ भ श्रीधरस्वामिविरचिता भावार्थदीपिका आधिना शोकेन म्लानं वक्त्रम् ॥ ६-१० ॥ उन्मत्तस्येव लिंगं येषां ते ।। ११-१५ ।। * * मम प्रभू रक्षकौ बोधे समर्थाविति वा । अतो युवाभ्यां ज्ञानदीपः प्रवर्त्यताम् ।। १६-१७ ।। वंशीधरकृतो भावार्थदीपिकाप्रकाशः आश्वासितः किञ्चित्स्वस्थतां प्रापितः ॥ ९ ॥ * महीयसां पूज्यानां महिष्ठौ पूज्यतमौ ॥ १० ॥ * * ग्राम्यबुद्धीनां विषयाविष्टचेतसाम् ॥ ११-१४ ॥ * * ज्ञानहेतवो ज्ञानकर्त्तारो लोकानामिति ॥ १५ ॥ * * ग्राम्यपशोः प्राम्यपशवस्तु भीष्मपर्वणि वर्णिताः “गौरजाविमनुष्याश्च अश्वाश्वतरगर्दभाः । एते प्राम्याः समाख्याताः पशवः सप्त साधुभिः ।” इति यतो यूयं ज्ञानहेतवस्तस्माद्धेतोः । युवां युवाभ्याम् । उदीर्य्यतां प्रकाश्यताम् ।। १६ ।। अन्वितार्थप्रकाशिका एवमिति । एवं द्विजोक्तिभिः आश्वासितो राजा चित्रकेतुः आधिना ग्लानं बक्त्रं पाणिना प्रमृज्य अभाषत ॥ ९ ॥ काविति । स्पष्टम् ॥ १० ॥ चरन्तीति । माम्ये विषयसुखे इष्टबुद्धिर्येषां तेषां मादृशां मूर्खाणां बोधाय भगवत्प्रियाः उन्मत्तस्येव लिङ्गं येषां ते ब्राह्मणाः ब्रह्मविदोऽवनौ पृथिव्यां कामं यथेष्टं चरन्ति ॥ ११ ॥ * * कुमार इति । चतुष्कम् । स्पष्टम् ।। १२–१५ ।। * * तस्मादिति । युवां प्रभू प्रबोधे समर्थौ स्तः । अतो प्राम्यपशोरिव मूढधियः अन्धे तमसि महामोहे मग्नस्य मम तत् उद्धारार्थ ज्ञानरूपः प्रदीप उदीर्यतां युवाभ्यां प्रवर्त्यताम् ।। १६ ।। १. प्रा० पा० - तुद्विजातिभिः | २. प्रा० पा० – धीम्या । ३. प्रा० पा० शिखस्तथा । ५८ ४५८ श्रीमद्भागवतम् वीरराघव व्याख्या । [ स्कं. ६ १५ श्लो. ९-१६ एवमृषिभ्यां बोधितश्चित्रकेतुर्जात विवेकस्तानुवाचेत्याह मुनिः । एवमिति । द्विजयोरङ्गिरोनारदयोरुतिभिरेवेमाश्वा- सितः परिसान्त्वितो राजा चित्रकेतुराधिना पुत्रशोकेन म्लानं ग्लानं वक्त्रं पाणिना प्रमृज्य विशोध्याभाषतोवाच ॥६॥ ॐ * तदेवाह — कौ इत्यादिना, ज्ञानदीप उदीर्यतामित्यन्तेन । तावदस्पृष्टवेषौ तौ युवां कौ इति पृच्छति - काविति, ज्ञानसम्पन्नौ अत एव पूज्यानामपि पूज्यौ युवां तावत्को ? पश्यन्नपि किं पृच्छसीत्यत्राह अवधूतेन क्षुद्रण वेषेण गूढौ तिरोधापितस्ववेषौ इह समागतौ युवामन्यथा क्षुद्रस्यैतादृशज्ञानसम्पत्तिर्दुर्ज्ञेभेति भावः ॥ १० ॥ * * “विष्णोर्भूतानि लोकानां मङ्गलाय चरन्ति हि” इत्युक्तरीत्या लोकानुग्रहायैवमेवावधूतवेषा ज्ञानिनश्चरन्तीत्याह —चरन्तीति । ब्राह्मणा भगवद्भक्ता उन्मत्तस्यैव लिङ्गं येषां तादृशाः सन्तो ग्राम्यबुद्धीनां विषयासक्तानां संसारिणां मादृशानां बोधाय ज्ञानोत्पादनायावनी भूमौ कार्म यथेच्छं चरन्ति हि यस्मा- द्भगवत्प्रिया उत्मत्तलिङ्गिन एवं मादृशां बोधाय चरन्त्यतो युवां को इति वान्वयः ॥। ११ ॥ ब्राह्मणान् भगवत्प्रिया- नुन्मत्तलिङ्गेन चरत एव दर्शयति कुमार इति चतुर्भिः । कुमारः सनत्कुमारः ॥ १२ ॥ * राम्रो भार्गवः ॥ १३ ॥ दत्तो दत्तात्रेयः स प्रसिद्धः पतञ्जलिर्महामुनिर्भरद्वाजः मुनिरुचभ्यः वेदशिरोचथ्य इत्यत्र सान्धिरार्षः वेदशिरो बौध्य इति पाठे बोधस्य गोत्रापत्यं बौध्यः आङ्गिरसः ‘कपिबोधादाङ्गिरसे" इति यन् ॥ १४ ॥ एतै कुमारादयः तथाऽपरे च ज्ञानमेव सम्पद्येषां ते सिद्धेयाश्चरन्ति ।। १५ ।। * / युवा यो कौचिद्वा भवेतं तावद्यद्यस्माद्युव प्रभू मादृशस्य बोधोत्पादने दक्षौ तस्माद्युवाभ्यां मम ज्ञानमेव दीपः स उदीर्यतां दीयतामित्यर्थः । कथंभूतः अन्धे तमस्यज्ञानरूपे ममस्यात एव मूर्खधियः अत ग्राम्यपशोः ग्रामे भवो ग्राम्यो नरः स एव पशुस्तस्य ॥ १६ ॥ विजयध्वजतीर्थकृता पदरत्नावली श्र
देह देह्यविभागप्रतीतेरनुभवात्कथं नानात्वादिप्रतीतिभ्रान्तिरित्यत आह-नानात्वमिति । अतद्धर्मा यो जीवस्तस्मा- दन्यस्य देहस्य धर्माः सुरो नरोहमित्यादिनानात्वादयो द्रष्टुर्जीवस्य विद्यमाना इति भ्रान्तिः क्रियाफलमिति हेतुगर्भविशेषण कर्मफलत्वात् अग्निना दाह्यस्येन्धनस्य विक्रियाः वृद्धिक्षयादिविकारा अग्नेरिति भ्रान्तिः भ्रान्त्येन्धनसमृद्धौ समृद्धोऽभिस्तत्धा से क्षीण इत्यादयो द्रष्टुर्ज्ञानिनो हरेरतद्धर्मा इत्येव भान्ति “नहि द्रष्टुटेर्विपरिलोपो विद्यते इति श्रुतेर्ते दन्दर्शनम्भ्रान्तमनेन देहिदेहभेदे प्रमाणमुक्तं भवतीति वा ॥ ६ ॥ इदमेव विवृणोति । त इम इति । ये ये प्रत्यक्षादिप्रमाणसिद्धा जन्मनाशादयस्त इमे जीवस्य देहसंयोगादात्मनि जीवे मनसि वा भान्ति कुतोऽसद्ग्रहादे होहमित्यभिमानात् अत्रोदाहरणमाह- स्वप्न इति । जाग्रद्दष्टसर्प व्याघ्रादिसंस्कारवशात्स्वप्नेपि यथा तद्दर्शनात्सर्व भयमित्याद्यनर्थजातं भवति तथाऽनादिकालीना- मिथ्याभिमानादनर्थकरः संसारः स्यादिति यद्यस्मात्तस्मात्तन्निवृत्त्युपायमाह - नान्यदिति, अन्यदनर्थकारणं न ध्यायेदित्यन्वयः । ननु, * । शुक्तिकाधिष्ठाने रजतं यथा प्रतीयते तथा जन्मादिकं किमधिष्ठानमित्येतां मन्दाशङ्कां वा परिहरति-त इति आत्माधिष्ठानं शुक्तिरजतवज्जन्मादिकं मिथ्याभूतं भवेदित्यतः स्वप्नपदार्थानामर्थक्रियाकारित्याद्यथासत्यत्वमंगीकर्तव्यं तथा जन्मादीनामित्य- भिप्रेत्याह - स्वप्न इति, अन्यद्देहात्मत्वम् ॥ १० ॥ * अनन्यध्यानफलं सदृष्टान्तमुपपादयति — प्रसुप्प्रेति । प्रकर्षेण सुप्तस्य प्रकर्षेण सुप्तेर्मरणापरपर्यायत्वात्तन्निवृत्यर्थं जीवतोपीति धृतप्राणस्यापि ज्ञानपूर्व बाह्य प्रवृत्तिशून्यस्य पुरुषस्यानहम्मानाद्दे- हत्वादिभ्रान्तिज्ञान राहित्याद्यथा घोरा संसृतिर्न भाति तद्वत्तथा विमुक्तस्य सा न भाति । कुतः ? विमुक्ताहम्भावबुद्धित्वादने- नानन्यध्यानेन कैवल्यप्राप्तिः सूचिता भवतीति ॥ ११ ॥ ॐ ॐ फलितमाह तस्मादिति । यतोऽहम्मानिनो घोर- संसारहानिरन्यस्य तद्भावश्च तस्मादन्यत्पुत्रादिकं मनोमात्रं मनोगत रागद्वेषजनितपुण्यपापनिमित्तम् एतदुक्तं भवति अहम्मानेन मनसो रागद्वेषौ स्यातां तयोः पुण्यपापे भवतः ताभ्यां च पुत्रादिकमुत्पद्यते “मनसो द्वेषरागाभ्यां पुण्यपापसमुद्भवः । पुत्रादिपुण्यपापाभ्यां तस्मात्सर्वम्मनो भवम्” इति वचनात् अनेन पुत्राददीर्घायुष्यादिकं पुण्यपापानिमित्तं भवतीति सूचितमिति ननु, तदस्तु ततः किं प्रकृत इति तत्राह - जहीति । तद्धननोपायमाह - वासुदेव इति । आत्मनि बिम्बभूते देहस्थितत्वेपि तद्देहगत दु : खाद्यस्पर्शे समर्थ इति द्योतनायेश्वर इति इति मनोधारणयोत्पन्नतत्प्रसादोद्भूतज्ञानासिना तमोऽहम्मम तालक्षणे निर्मूलयैत्यर्थः ॥ १२॥ * * आधिना म्लानम् || १३ || अवघतेन वेषेण पि धूलिरूषिताकारेण ॥ १४ ॥ * * उन्मत्तस्य लिंगमेषामस्तीति तथा ।। १५ ।। * * मार्कण्डेयगौतमयोमध्ये ऽन्यो नास्तीति द्योतनायाथशब्दः ॥ १६ ॥ ॥ * * जीवगोस्वामिकृतः क्रमसन्दर्भः ॥ * ।। अवधूतेन वेषेणेति निजाच्छादनार्थ तदाकृतत्वात् ॥ १० ॥ भगवतो विशेषतो भक्तवत्सलस्य सामान्यतोपि ब्रह्मण्यदेवस्य प्रियाः ॥ ११ ॥ * कुमार इति चतुष्कम् । व्यासबादरायण्यादीनां तदानीमनाविभूतानामपि गणना शास्त्रदृष्टै पवेति ।। १२-१७॥कं. ६ अ. १५ श्लो. ९-१६] अनेकव्याख्यासमलङ्कृतम् विश्वनाथचक्रवतिकृता सारार्थदर्शिनी अवधूतेन वेषेणेति स्वगोपनार्थं ताभ्यां तथा कृतत्वात् ।। १०–१७ ।। 1113 शुकदेवकृत: सिद्धांतप्रदीपः ४५९ आश्वासितः प्रतिबोधितः आधिम्लानं वक्त्रां पाणिना प्रसृज्याभाषत ॥ ९॥ ॐ ॐ महिष्ठावति महान्तौ ।। १० ।। उन्मत्तस्येव लिङ्गं भाषणचिह्नं येषां ते कामं यथेष्टम् ॥ ११-१५ ।। मम प्रभू ज्ञानोपदेशेन संसाराद्रक्षकौ अतो युवाभ्यां ज्ञानमेव दीप: अज्ञाननाशक उदीर्यतामुद्दीप्यताम् ।। १६-१७ ।। ।। * गोस्वामिगिरिधरलालविहिता बालप्रबोधिनी } आश्वासितः प्रतिबोधितः । आधिनाम्लानं वक्त्रं प्रमृज्य ॥ ९॥ 8 राज्ञो वाक्यान्येव दर्शयति- कौ युवामिति ॥ १० ॥ * * ननु महत्तमानां विचरणे किम्प्रयोजनमित्याशङ्कयाह- चरन्तीति । माद्देशा मूर्खाणाम् अतएव प्राम्यबुद्धीनां विषयसुखाविष्टमनसां बोधाय ब्राह्मणा ब्रह्मविदोऽवनौ पृथिव्यां कामं यथेष्टं चरन्तीत्यन्वयः । ननु कथं ते प्रबोधयितुं शक्ताः किं वा तेषां परबोधनेन प्रयोजनमित्याकाङ्गायामाह - भगवत्प्रिया इति । भगवान् प्रियो येषां ते भगव- स्प्रीत्यर्थं भगवत्प्रेरितास्तत्प्रभावेणैव तद्भक्ति: संस्कारवतः प्रबोधयन्तीत्यर्थः । ननु तर्हि परमोपकारित्वात्सर्वस्यैव जनस्य संसारदुःखनिवृत्तये तत्त्वजिज्ञासुत्वाश्च ते सर्वैरेव प्रावृताः स्युरित्याशङ्कयाह - उन्मत्तेति । उन्मत्तस्येव लिङ्गं येषां ते । तथाच
- उन्मत्तति । उन्मत्तस्येव यं प्रति कृपया ऽत्मप्रभावं ज्ञापयन्ति स एव जानाति न सर्वोऽपीति भावः । हिशब्दः शास्त्रप्रसिद्धियोतकः ॥ ११ ॥ * * एवम्भूताः परमोपकारिणः क इत्यपेक्षायां तान्दर्शयति कुमार इत्यादिचतुर्भिः ।। १२-१५ ।। ॥ * * युवां प्रभू प्रबोधे समर्थौ अन्धे तमसि महामोहे मनस्य मम तत उद्धारार्थ ज्ञानरूपः प्रदीप उदीर्यतां युवाभ्यां प्रवर्त्यतामित्यन्वयः । तत उद्धारे स्वयं तु नाई सक्त इत्याह-प्राम्यपशुवदिति । विषयासक्तस्य तत्र हेतुः — मूढधिय इति ।। १६ ।। भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी एवमृषिभ्यां बोधितश्चित्रकेतुः किंचित्संप्राप्तविवेकस्तो प्रत्युवाचेत्याह मुनिः । एवमिति । द्विजयोरङ्गिरोनारदयोरु- क्तयस्ताभिः, एवमुक्तप्रकारेण, आश्वासितः परिसान्त्वितः राजा, चित्रकेतुः, आधिना पुत्रशोकेन म्लानं ग्लानं वक्त्रं पाणिना हस्तेन, प्रमृज्य विशोध्य अभाषत उवाच ॥ ९ ॥ तदेवाह कौ युवामित्यादिना ज्ञानदीप उदीर्यतामित्यन्तेन । तत्र तावदस्पष्टवेषौ तौ इति पृच्छति । काविति । अवधूतेन तुद्रेण वेषेण गूढौ तिरोधायितस्ववेषौ सन्तौ इह समागतौ । . ज्ञानसंपन्नौ महीयसां पूज्यानामपि, महिष्ठौ पूज्यौ च, युवां स्तः । अतः कौ युवां क्षुद्रस्यैतादृशज्ञानसंपत्तेर्दुर्लभत्वात् वां पृच्छामीति भावः ।। १० ।। * * ‘विष्णोर्भूतानि लोकानां पावनाय चरन्ति हि’ इत्युक्तरीत्या लोकानुग्रहायैवावधूतवेषा ज्ञानिनश्चरन्तीत्याह । चरन्तीति । भगवत्प्रिया भगवद्भक्ताः, उन्मत्तस्येव लिङ्गं येषां तादृशाः, ब्राह्मणाः, ग्राम्यबुद्धीनां विषया- सक्तानां, मादृशां संसारिणां बोधाय ज्ञानोपदेशाय, अवनी भूमी, कामं यथेच्छं चरन्ति हि । यस्माद्भवादृशा जनबोधाय चरन्त्यतो भवद्वाचा वां तथाविधौ ज्ञात्वा पृच्छामीति भावः ॥ ११ ॥ तांस्तन्नामप्रदर्शनपूर्वं कथयति । कुमार इति । कुमारः सनत्कुमारः, नारदः, ऋभुः, अङ्गिराः, देवलः, असितः, अपांतरतमः, व्यासो द्वैपायनः, मार्कण्डेयः, अथ गौतमः ॥ १२ ॥ वसिष्ठ इति । वसिष्ठः, भगवान् रामो भार्गवः, कपिलः, बादरायणिः, शुकः, दुर्वासाः, याज्ञवल्क्यः, जातूकर्ण्यश्च तथा आरुणिः ॥ १३ ॥ रोमशः, च्यवनः, दन्तो दत्तात्रेयः आसुरिः, सः प्रसिद्धः पतञ्जलिः, ऋषिर्भरद्वाजः, वेदशिराः, बोध्यः, मुनिरुतथ्यः, तथा पञ्चशिराः ॥ १४ ॥ ॐ हिरण्यनाभ इति । हिरण्यनाभः, कौशल्यः, श्रुतदेवः, ऋतध्वजः एते, कुमारादयः, ज्ञानमेव संपद्येषां ते अपरे सिद्धेशाश्च चरन्ति ॥ १५ ॥ * तस्मादिति । तस्मात् युवां प्रभू मम रक्षकौ बोधे समर्थाविति वा । अतः ग्राम्यपशोर्नरपशोः, मूढधियः अन्धे तमसि अज्ञानरूपे ध्वान्ते, मनस्य मम, ज्ञानदीप:, युवाभ्याम् उदीर्यतां प्रवर्त्ततां दीयतामित्यर्थः ॥ १६ ॥ 18 ক- ।
…. ‘(नानात्वजन्मनाशश्च क्षयो वृद्धिः क्रियाफलम् । द्रष्टुव भान्त्यतद्धर्मा यथा दविक्रियाः ॥ १ ॥ त इमे देहसंयोगादात्मन्याभान्त्यसद्ग्रहात् । स्वप्नं यथा तथा नान्यद्धयायेत्सर्वम्भयञ्च यत् ॥ २ ॥ प्रसुप्तस्यानहम्मानासाघीरा भाति संसृतिः । जीक्तोपियथा तद्वद्विमुक्तस्यानहम्मतेः ॥ ३ ॥ ३ ॥ तस्मादन्यन्मतोमात्र हम्ममतातमः । वासुदेवे भगवति मनो ह्यात्मनीश्वरे ॥ ४ ॥ ) ‘एते चत्वारः श्लोका विजयध्वजरीत्या अधिकतया विद्यन्ते ते ४६२ पृष्ठे विजयध्वजटीकायां व्याख्याताः सं० ) । ४६० श्रीमद्भागवतम् [ स्कं. ६ अ. १५ श्लो. १७-२४ भाषानुवादः हैं—–राजन् – श्रीशुकदेवजी कहते हैं — राजन् ! जब महर्षि अङ्गिरा और देवर्षि नारदने इस प्रकार राजा चित्रकेतुको समझाया- बुझाया, तब उन्होंने कुछ धीरज धारण करके शोकसे मुरझाये हुए मुखको हाथसे पोंछा और उनसे कहा- ॥ ९ ॥ * * राजा चित्रकेतु बोले आप दोनों परम ज्ञानवान और महानसे भी महान जान पड़ते हैं तथा अपनेको अवधूतवेष में छिपाकर यहाँ आये हैं । कृपा करके बतलाइये, आपलोग हैं कौन ? ॥ १० ॥ मैं जानता हूँ कि बहुतसे भगवान्- के प्यारे ब्रह्मवेत्ता मेरे जैसे विषयासक्त प्राणियोंको उपदेश करनेके लिये उन्मत्तका-सा वेष बनाकर पृथ्वीपर स्वच्छन्द विचरण करते हैं ॥ ११ ॥ सनत्कुमार, नारद, ऋभु, अङ्गिरा, देवल, असित, अपान्तर तम व्यास, मार्कण्डेय, गौतम, वसिष्ठ, भगवान् परशुराम, कपिलदेव, शुकदेव, दुर्वासा, याज्ञवल्क्य, जातूकर्ण्य, आरुणि, रोमश, च्यवन, दत्तात्रेय, आसुरि, पतञ्जलि, वेदशिरा, बोध्यमुनि, पञ्चसिरा, हिरण्यनाभ, कौसल्य, श्रुतदेव और ऋतध्वज - ये सब तथा दूसरे सिद्धेश्वर ऋषि- मुनि ज्ञानदान करनेके लिये पृथ्वीपर विचरते रहते हैं ।। १२-१५ ।। * स्वामियो ! मैं विषयभोगों में फँसा हुआ, मूढबुद्धि प्राम्य पशु हूँ और अज्ञानके घोर अन्धकारमें डूब रहाहूँ । आपलोग मुझे ज्ञानकी ज्योतिसे प्रकाशके केन्द्र में लाइये ।। १६ ।। अङ्गिरा उवाच १७ ।। १८ ॥ १९ ॥ ॥ अहं ते पुत्रकामस्य पुत्रदोऽस्म्यङ्गिरा नृप । एष ब्रह्मसुतः साक्षान्नारदो भगवानृषिः ।। इत्थं त्वां पुत्रशोकेन मग्नं तमसि दुस्तरे । अतदर्द्धमनुस्मृत्य महापुरुषगोचरम् ॥ अनुग्रहाय भवतः प्राप्तावावामिह प्रभो । ब्रह्मण्यो भगवद्भक्तो नावसीदतुमर्हति ॥ । ॥ तदैव ते परं ज्ञानं ददामि गृहमागतः । ज्ञात्वान्याभिनिवेशं ते पुत्रमेव ददावहम् || २० ॥ अधुना पुत्रिणां तापो भवतैवानुभूयते । एवं दारागृहा द्वारा गृहा रायो विविधैश्वर्यसम्पदः ॥ २१ ॥ शब्दादयश्च विषयाञ्चला राज्यविभूतयः । म ही राज्यं बलं कोशो भृत्यामात्याः सुहृञ्जनाः ।। २२ ।। सर्वेऽपि शूरसेनेमे शोकमोहभयातिदाः । गन्धर्वनगर प्रख्याः स्वप्नमायामनोरथाः ॥ २३ ॥ दृश्यमाना विनार्थेन न दृश्यन्ते मनोभवाः । कर्मभिर्थ्यायतो नानाकर्माणि मनसोऽभवन् ॥ २४ ॥ कृष्णप्रिया व्याख्या अन्वयः - नृप अहं पुत्रकामस्य ते पुत्रदः अंगिराः अस्मि एषः साक्षात् ब्रह्मसुतः भगवान् नारदः ऋषिः ॥ १७ ॥ इत्थं पुत्रशोकेन दुस्तरे तमसि मग्नम् अतदई महापुरुषगोचरम् त्वाम् अनुस्मृत्य प्रभो इह भवतः अनुग्रहाय आवाम् प्राप्तौ ब्रह्मण्यः भगवद्भक्तः अवसीदितुम् न अर्हति ॥ १८-१६ ।। गृहम् आगतः तदा एव ते परं ज्ञानं ददामि ते अन्याभिनिवेशं ज्ञात्वा अहम् पुत्रम् एव ददौ ॥ २० ॥ विविधैश्वर्यसंपदः दुःखदाः सन्ति ।। २१ ।। भृत्यामात्याः सुहृज्जनाः चलाः ॥ २२ ॥ मनोरथाः सन्ति ॥ २३ ॥ अभवन् ।। २४ ॥
-
- अधुना भवता पुत्रिणां तापः एव अनुभूयते एवं दाराः गृहाः रायः, * * शब्दादयः विषयाः च राज्यविभूतयः च मही राज्यं बलं कोश:- * * शूरसेन इमे सर्वे अपि शोकमोहभयार्तिदाः गन्धर्वनगर प्रख्याः स्वप्नमाया अर्थेन विना दृश्यमानाः मनोभवाः न दृश्यन्ते कर्मभिः ध्यायतः मनसः नानाकर्माणि श्रीधरस्वामिविरचिता भावार्थदीपिका
-
- रायः महापुरुषगोचरं हरिभक्तं त्वाम् ॥ १८-१६ ॥ * * तदैव यदा पूर्वमागतोऽस्मि ।। २० ।। अर्थाः ॥ २१ ॥ चला अनित्याः । किं च महीति ॥ २२ ॥ * हे शूरसेन । इमे सर्वेऽपि शोकादिप्रदाः ।
- । ।। ।। किं च । आगमापायित्वेन गंधर्वनगरतुल्याः गन्धर्वनगरं कस्मादेव कचिदायात्यपयाति चेति प्रसिद्धम् । तदेवमनित्यत्वं १. प्रा० पा० तव । २. प्रा० पा० - ज्ञात्वात्माभि० । ३. प्रा० पा० रामा । ४. प्रा० पा० राज्यं मही बलं । ५. प्रा० पा० - सुखदा नेमे । स्कं. ६ अ. १५ मो. १७-२४ ] । अनेकव्याख्या समलङ्कृतम् चागमापायित्वं शोकादिहेतुत्वं चोक्तम् । मिध्यात्वमप्याह । स्वप्नश्च माया च मनोरथश्च यथा तद्वत् ॥ २३ ॥ * मनोभवा मनोमात्रविजृ भिताः । अत्र हेतुः । अर्थेन तात्त्विकस्वरूपेण विनैव दृश्यमानाः । तत्कुतः । यस्मात्क्षणांतरे न दृश्यंते तात्त्विकत्वे हि क्षणांतरे बाधो न स्यात् । अतो मनोमात्रविजू भितत्वेन स्वप्नादिवन्मिथ्याभूता इत्यर्थः । नन्वेते पुण्या- पुण्यकृता इति मीमांसकाः प्राहुस्तत्कुतो मनोभवत्वं तत्राह । कर्मभिः कर्मवासनाभिरर्थान्ध्यायतः पुंसो मनस एव निमित्तात्कर्मा- ण्यभवन् । पाठांतरे कर्म ईप्सिततममभिध्यायत इत्यर्थः । कर्मणोऽपि मनोभवत्वात्तत्साध्या अर्था अपि मनोभवा एवेति भावः ।। २४ ।। वंशीधरकृतो भावार्थदीपिकाप्रकाशः
-
न । 55 नृपेति । नृपाणां हठस्वभावत्वादेव पुत्रमदामिति भावः । साक्षाद्वह्मसुतः ॥ १७ ॥ अतदहं तमोमज्जना- नम् । तत्र महापुरुषो हरिगोचरो विषयो ध्येयत्वेन यस्य तम ॥ १८ ॥ * * प्रभो इति ज्ञानाधिकारितामाह ॥ १९ ॥ ददामि अददामित्यर्थः । लुङर्थे लट् । अन्याभिनिवेशं ज्ञानापेक्षयाऽन्यः पुत्रस्तदभिनिवेशं पुत्राविष्टचेतस्त्वम् ।। २० ।। * एवं पुत्रवत् ॥ २१ ॥ राज्यविभूतीराह - राज्यमित्यादि ॥ २२ ॥ * * न केवलमेते एव चला अपि तु सर्वे एवेत्याह-सर्वेपीति । शूरसेनेति । केवलं सेनयैव शूरो न तु विचारेणेति भावः । सेनया शूरः शूरसेनः । राजदन्तादिव - त्समासः । क्वचित्स्वाम्येनाति स्वामित्वं लक्षिते, इति न्यायेन । हे शूरसेनेशेति । शूराणां सर्व जेतुं समर्थानामिंद्रियाणां याः सेना वृत्तयस्ता अपि नियंतुं समर्थत्वात्त्वमीशोऽसीति भावः । अनित्यत्वादेषामित्याह – किश्चेति । कचिदाकाशे ॥ २३ ॥ * * अत्र मनोमात्रविज भितत्वे । तत्तात्त्विकस्वरूपेण विना दर्शनं कुतोऽवगतमिति चेदाह - यस्मादिति । इत्यर्थ इति । स्वाप्निकादि- पदार्था यथा मनोमात्रविनिर्मितास्तथैतैपीति भावः । अत्राक्षिपति नन्विति । एते दारादयो रोगादयश्च " यन्मनसा मनुते तत्कुरुते” इति श्रुतेः । पाठांतरे ‘कर्मभिर्ध्यायत’ इति पाठे । इत्यर्थ इति । कर्त्तु रीप्सिततमस्यैव कर्मत्वादिति भावः । इति भाव इति । पृथिव्या विनाशत्वे तत्साध्या घटादयः सुतरां विनाशिन इति तात्पर्य्यम् ॥ २४ ॥ । अन्वितार्थप्रकाशिका : अहमिति । स्पष्टम् ।। १७ ।। * * इत्थमिति युग्मम् । हे प्रभो ! इत्थम् अतदहं दुःखानुभवायोग्यं महापुरुष- गोचरं भगवद्भक्तं पुत्रशोकेन दुस्तरे तमसि मग्नं त्वामनुस्मृत्य ज्ञात्वा ब्रह्मण्यो भगवद्भक्तः अवसीदितुं दुःखमनुभवितुम् । सीदभाव आर्ष: । नार्हति इति विचार्य भवतोऽनुग्रहाय आवामिह प्राप्तौ ॥ १८ ॥ १९ ॥ * * तदैवेति । यदाहं पूर्व तव गृहमाग- तस्तदैव ते तुभ्यं परमुत्कृष्टं बन्धविमोचकं ज्ञानं ददामि अदास्य परं तु तदा तवान्याभिनिवेशं पुत्राग्रहं ज्ञात्वा पुत्रमेव ददामि अददाम्। उभयत्र कालव्यत्ययाल्लट् । कापि ददाम्यहमित्यत्र ददावहमित्यपि पाठः ॥ २० ॥ अधुनेत्यर्धम् । अधुना । भवता एव पुत्रिणां तापः अनुभूयते ।। २१ ।। * एवमिति त्रयम् । हे शूरसेनेश ! एवं दारादयः सर्वेऽपि शोकमोहादि -. प्रदाः आगमापायित्वेन गन्धर्वनगर प्रख्या गन्धर्वनगरं ह्यकस्मादेव क्वचिदायाति याति च । स्वप्नश्च माया च मनोरथश्व तैस्तुल्याः मिथ्याभूताः अत एव मनोभवाः मनः कल्पिता अर्थेन परमार्थतया विनापि तथात्वेन दृश्यमानाः अत एव क्षणान्तरे न दृश्यन्ते अतो मिथ्याभूताः ।। २२-२४ ।। । ।। ।। वीरराघवव्याख्या ! एवमुभावपि पृष्टौ तत्र तावदङ्गिरा आत्मानौ स्वागमनप्रयोजनञ्च वश्चित्रकेतोर्वैराग्यमुत्पादयति- अहन्त इत्यादि- नोपशममाविशेत्यन्तेन । हे नृप ! पूर्वं पुत्रं कामयमानस्य तव पुत्रदो योऽङ्गिराः सोहमस्मि एष द्वितीयस्त्वयं साक्षाद्ब्रह्मणः सुतो भगवान्नारद ऋषिः ॥ १७ ॥ * * किमर्थमागतावित्यन्नाह - इत्थमिति । पुत्रशोकेनेत्थं दुस्तरे तमस्यज्ञाने मनमतद शोकानर्ह महापुरुषगोचरं उत्कृष्टपुरुषैरनुप्राह्यं त्वामनुस्मृत्य प्रत्यभिज्ञाय भवतोऽनुग्रहाय भवन्तमनुगृहीतुमिह आवां प्राप्ती हे प्रभो ! ब्रह्मण्यः ब्रह्मणि ब्रह्मकुले साधुर्ब्रह्मण्यः तत्रापि भगवद्भक्तः त्वादृशोऽवसीदितु दुःखितुं नार्हति ॥ १८-१९।। * यथा पूर्वभाग- तस्तथा त्वद्गृहं प्रत्यागतोऽहं ते तुभ्यं परं ज्ञानं ददामि भगवद्भक्तः इत्यत्रादिकर्मणि क्तः आरब्धभगवद्भक्तियोगः भक्तियोगा- रम्भभूतायाः सत्सङ्गतेः कृतत्वादिति भावः । तर्हि पूर्वमेव ज्ञानं किं नाददास्तत्राह - ज्ञात्वेति, अन्याभिनिवेशं पुत्राभिलाषं ज्ञात्वा ते तुभ्यं पुत्रमेवाहं ददौ दत्तवानासम् ॥ २० ॥ ननु, ममान्याभिनिवेशे सत्यपि तस्य दुःखोदर्कतां ज्ञापयित्वा ज्ञानमेव किं न दत्तवानित्यपेक्षायामभिलषितपुत्रप्रदानमन्तरेण दत्तमपि ज्ञानं न सुप्रतिष्ठितं भवति पुत्रोत्पत्तिविपत्तिभ्यामनु- भूतसुखदुःखस्य तद्दृष्टान्तेनेतरेषामपि वैषयिकसुखानां सुखोदर्कतामनुमन्यमानस्य सञ्जातवैराग्यस्य तु दत्तं ज्ञानं सुप्रतिष्ठितं ४६२ श्रीमद्भागवतम् [ स्कं. ६ अ. १५ श्लो. १७-२४ भवतीत्यालोच्य न दत्तवानस्मीत्यभिप्रायतः । पुत्रदृष्टान्तेनेतरेषामप्यन्ततो दुःखहेतुतानिदर्शयति अधुनेति । यथैव भवता पुत्रिणां तापोऽधुनानुभूयते एवं दारादयोपि सर्वे हे शूरसेनेश ! शोकमोहभयार्तिदास्सन्त एवानुभविष्यन्ते भवतैव भवतेवेति पाठे अधुना भवतेव त्वयेव सर्वेषामेव पुत्रिणां तापोऽनुभूयते सर्वैरपि पुत्रिभिस्तापोनुभूयत इत्यर्थः । यथा पुत्रः शोकमोहादिप्रदः तथा दारादयोपीत्यन्वयः । तत्र आरामा विहारवनानि विविधा ऐश्वर्यसम्पदः प्रशास्तृत्वप्रयुक्ताभोगोपकरणादिसमृद्धयः ॥ २१ ॥ तथा हे राजन्, भोगाः शब्दादयो विषयाश्च विभूतयोऽणिमादयः मही राज्यं राज्ञः कर्मभावो वा राज्यं स्वामित्वं मह्या राज्यं महराज्यं सार्वभौमत्वमित्यर्थः । बलं चतुरङ्गयुक्तं कोशो धनसञ्जयः ॥ २२ ॥ * * सर्वे चैते गन्धर्व नगरप्रख्याः गन्धर्व- नगरेण तुल्यं प्रख्यायन्ते प्रसिध्यन्ते इति तथा गन्धर्वनगरोपमत्वेन प्रसिद्धाः गन्धर्वाणां हि नगरमावासस्थानं न नियतं तद्वदेतेप्यनियताश्चञ्चलाः अनित्या इति यावत् प्रसिद्धं दृष्टान्तान्तरमाह - स्वप्नमायामनोरथा इति, स्वप्ने ये मायामनोरथाः मायाशब्द आश्चर्यवाची, आश्वर्यरूपा मनोरथाः सङ्कल्पविकल्पात्मकमनोविषयाः देशान्तरगमनराज्याभिषेकशिरच्छेदादयः ते चाश्चर्यभूता एव तत्तत्पुरुषानुभाव्यत्वेन चाल्पकालानुभाव्यपुण्यपापात्मककर्मफलत्वेन चेश्वरसृष्टानां जागृदवस्थानुभाव्यपरार्थेभ्यो विलक्षणत्वात्स्वप्नमाया मनोरथवदनित्या इत्यर्थः । ईयांस्तु विशेषः । स्वप्नमायामनोरथाः तत्कालमात्रावस्थायिनः एते तु तदपेक्षया किञ्चिचिरकालावस्थायिन इत्यनित्यत्वं तत्त्वं तत्तज्जीवकर्मानुसारेण सृष्टत्वं मनः प्रभवत्वं सुखमात्रा हेतुत्वं चोभयत्राप्यवशिष्टम् ||२३|| तदेवाह - दृश्यमाना इति । अर्थेन परमपुरुषार्थेन निरतिशयानन्द बिना दृश्यमानाः न दृश्यन्ते कालान्तरेष्वपि न दृश्यन्ते जाप्रत्स्वप्नावस्थाद्वयानुभाव्याः पदार्थाः मनोभवाश्च ननु, स्वाप्नपदार्था मनोभवा इति तु प्रयुक्तं तेषां यथास्य स्वप्नदृष्टुः क्ष कर्मानुसारेण मनः सङ्कल्पविकल्पौ करोति तदनुसारेणेश्वरसृष्टत्वेन मनोनिमित्तकत्वाज्जाप्रदवस्थानुभाव्यानां तु पुत्रदारादीनां कथं मनः प्रभवत्वं ? तत्राह — कर्मभिरिति । कर्मभिरनादिवासनारूपैः कर्मभिरर्थान्विषयान्मनसा ध्यायतः पुंसस्तावत्कर्माणि मनसा अभवन् अनादिकर्मवासनावासितमनस्संयुक्तैरिन्द्रियैर्विषयान ध्यायंस्तावत्कर्माणि करोतीत्यर्थः ॥ २४ ॥ । विजयध्वजतीर्थकृता पदरत्नावली * दुर्वासयाज्ञवल्क्योर्विशेषद्योतकश्च शब्दः ॥ १६ ॥ क । यो महाभाष्यकर्ता स पतंजलिनाम्ना बोध्यः ॥ १६ ॥ * * ख । ज्ञानहेतवो लोकानामिति शेष: “ब्राह्मणा भगवत्प्रियाः” । “सिद्धेशा ज्ञानहेतवः” इत्येतैर्विशेषणैर्विशिष्टत्वस्य प्रतिपाद्यमान- त्वान्नैतेषां सर्वेषां साम्यं “ नारायणपरा देवा मनुष्यास्तत्परायणाः” इत्यादिस्मृत्या अवान्तरविशेषस्य ज्ञायमानत्वात् । नारायण- परा देवा इत्यादिवाक्यं मुक्तानामपि सिद्धानां नारायणपरायण इत्यत्र ब्राह्मणा भगवत्प्रिया इत्यत्र च प्रमाणार्थमस्मिन्नध्याये उदाहृतम् । ब्रह्म अणंति अयंते आश्रयंते ब्रह्मणैवेति ब्राह्मणाः इति व्युत्पत्या देवद्वारा नारायणायनत्वं लब्धं, योग्यमुखत्वचेत्यु- भयं सिद्धं, ते च कियंत इत्याशंकोन्नवकोट्यस्तु देवानां ऋषयः शतकोटयः, इत्यादिकया परिहर्तव्या ।। १६ ।। ग. घ. । युवां युवाभ्याम् ।। १७ ।। * * महापुरुषगोचरं
- महापुरुषगोचरं भक्तिस्मरणादिमत्त्वेन भक्तिस्मरणादिमत्त्वेन श्रीविष्णुविषयम् ॥ १८ ॥ * नावसीदतु- मर्हति पुत्रनिमित्तशोकेन नष्टो माभूदिति ॥ १९ ॥ तर्हि तदानीं पुत्रः किमिति दत्त इति तत्राह - तदेति । तदा पूर्वागमनकाले ज्ञानमेव ददामीति गृहमागतोहं तवान्याभिनिवेशं पुत्रविषयाग्रहं ज्ञात्वा ते पुत्रं तुभ्यं पुत्रमेवाददामिदानीं ज्ञानं ददामीति शेषः ॥ २० ॥ * * इदानीं दातुमवसर इत्याह- अधुनेति । न केवलं पुत्रवतामेव तापः किन्तु दारादि- मतामप्यविनाभूतोयमित्याह - एवमिति ।। २१-२२ ॥ स्वप्नमायामनोरथवदनित्यत्वेन दृश्यमानाः प्रतीयमानाः अर्थेन पुरुषार्थाख्यप्रयोजनेन विना दृश्यन्त इति यो नियमः स नास्तीत्यध्याहृत्यान्वेतव्यं तथाहि, योग्यतानुसारेण कदा- चित्पुरुषार्थहेतुत्वेन दृष्टत्वात्कदाचिन्नेति नियमात्कुतो मनोभवाः मनसो भव उत्पत्तिर्येषां ते तथा तेन कल्पितत्वात् । एतदेव विवृणोति कर्मेति । निरन्तरं कर्म चिन्तयतः पुंसो मनसो मनःक्षोभान्नानाकर्माणि निरयमानुषस्वर्गमुक्तियोग्यानि कर्माण्यभवन् भवतीति यस्मात्तस्मात्तदनुसारेण दारादिसंभवात्सदा पुरुषार्थहेतुत्वादिनियमो नास्तीति भावः ॥ २३-२४ ॥
।। जीवगोस्वामिकृतः क्रमसंदर्भ: इत्थमिति युग्मकम् । महापुरुषो गोचरोऽनुभवविषयो यस्य तम् । भगवद्भक्त इति पुर्व्वमेव तत्सङ्गप्रभावेन भक्ति- बीजोदयात् ।। १८-१९ ॥ * * ददामि अदास्यमित्यर्थः । पुनश्च ददामि अददामित्थः । तिजातिको भवन्तीति छान्दसोऽत्र लट ।। २०-२६ ॥ विश्वनाथचक्रवतिकृता सारार्थदर्शिनी महापुरुषाः परमर्षयो भगवद्भक्ताश्च गोचराः मनोनेत्रादिविषयाः यस्य तम् अत एव ब्राह्मणवैष्णवसेवित्वाद् ब्राह्मणो भगवद्भक्तश्वोक्तः न तु वस्तुतस्तद्भक्त इत्यर्थः ॥ १८-९९ ॥ ददामि अदास्यं पुनश्च ददामीत्यस्य अददामित्यर्थः . ६.अ. १५ लो. १७-२४] 1 अनेकव्याख्या समलङ्कृतम् * ४६३ तिमं तिङो भवन्ति इति लक्षणेन ॥। २०-२२ ॥ ४४ तदेषं दारादीनामनित्यत्वमवास्तववस्तुत्वं शोकादिहेतुत्वमाग- मापायित्वञ्चोक्तम् । ये तु दारादिभ्यः अन्येऽपि शोकमोहभयार्तिदाः अर्थाः स्वप्नादुत्थितास्ते तु मिथ्याभूता एवेत्याह । गन्धर्वेति । स्वप्नश्च मायाया इन्द्रजालं च मनोरथश्च ते तदुत्थाः पदार्थाः ॥ २३ ॥ अर्थेन व्याघ्रसर्पादिना विनैव दृश्यमानाः स्वप्नादिभङ्गे सति न दृश्यन्ते तदेवं दारादयोऽवास्तववस्तुभूताः स्वप्नादयोऽवस्तुभूताश्च सर्वे मनोभवाः मनोवासनाजन्यत्वा- न्मनोभवाः मनोभवत्वमेवाह कर्मभिः, कर्म्मवासनाभिरर्थान् ध्यायतः पुसो मनस एव निमित्तत्वात् कर्माण्यभवन् कर्म्मभिर्थ्यायत इति पाठे कर्म्म ईप्सिततममभिध्यायत इत्यर्थः । कर्मणोऽपि मनोभवत्वात्तत्साध्या अपि मनोभवा एवेति भावः ॥ २४ ॥ शुकदेव कृतः सिद्धांत प्रदीपः
race शोकानहं महापुरुषगोचरं विष्णुकृपादृष्टिविषयं पात्रमित्यर्थः ।। १८-१९ ॥ पूर्वमपि ज्ञानमेव अतदहं दातुमागतस्तव निर्बन्धं दृष्ट्रा पुत्रं दत्तवानित्याह– तदैवेति । परं ज्ञानं ददामि अदास्यं पुत्रं ददामि दत्तवान् ।। २०-२२ ।। हे शूरसेन ! इमे सर्वेपि शोकादिप्रदा गन्धर्वनगर प्रख्याः गन्धर्वनगरवत् प्रख्यायन्ते इति तथा गन्धर्वनगरं गन्धर्वेच्छयैव कचिदायाति अपयाति च न दृष्टजनेच्छामनुसरति तद्वदिमे ईश्वरेच्छामनुसरन्ति न दृष्टजनेच्छामित्यर्थः । किञ्च स्वप्ने या मायाः सूक्ष्मरूपाः विभूतयः मनोरथाश्व कर्मविशेषफलदानाय भगवतैव सृष्टाः शोकादिप्रदाः गन्धर्व नगरप्रख्याश्वेत्यन्वयः ॥ २३ ॥ कि जागरेपि मनोभवाः पुत्रकलत्रादिपदार्थाः अकस्मादेव मनसि हर्षकाले शोकदाः रोदितव्ये हर्षदाः प्रसिद्ध पुत्रकलत्रादि- विलक्षणाः स्वप्नमायामनोरथविलक्षणाश्च श्वरेण प्रवर्तिताः ते च केचिदनिष्टा अर्थेन प्रयोजनेन विनैव दृश्यमानाः मनसि प्रस्फुरमाणाः केचिदिष्टाः नैव दृश्यन्ते अतस्तेपि शोकादिप्रदा गन्धर्वनगर प्रख्याश्चेति पूर्वेणान्वयः । किञ्च मनसा कर्मभिर्थ्यायतः एवं स्वहितमेव करिष्यामीति चिन्तयतः नानाहितानि अहितानि मिश्राणि च कर्माण्यभवन् तान्यपि शोकादिप्रदान्येव जाना- मीत्यर्थः । मनसा इति पाठे मनसो निमित्तभूतान् अभवन्नित्यन्वयः ॥ २४ ॥ गोस्वामिगिरिधरलालविहिता बालप्रबोधिनी एवं पृष्ट आत्मानं कथयति—अहमिति ॥ १७ ॥ * इत्थं पुत्रशोकेन दुस्तरे तमसि दुःखे मन त्वामनुस्मृत्य ज्ञात्वा तन्निवर्त्तनेन भवतोऽनुग्रहाथायामिह प्राप्ताविति द्वयोरन्वयः । अनुग्रहे हेतुमाह-अतदर्हमिति, दुःखानुभवायो ग्यमित्यर्थः । तत्र हेतुमाह - महापुरुषगोचरमिति, भगवद्भक्तमित्यर्थः । उक्तमेव स्पष्टयति- ब्रह्मण्य इति । अतस्त्वमप्युपदिष्टार्थावधारणे समर्थोऽसीति सूचयन् सम्बोधयति - हे प्रभो इति ॥ १८ ॥ १९ ॥ ननु यद्येवं तर्हि भवांस्तु सर्वज्ञः पूर्वमेव तत्त्वं कुतो नोपदिष्टवान् कुतो वा शोककारणं पुत्रमेव दत्तवानित्याशङ्कय तदानीं तव पुत्राभिनिवेशेन तत्त्वज्ञानानधिकारित्वादित्याह- तदैवेति । यदाऽहं पूर्वं तब गृहमागतस्तदैव ते तुभ्यं परमुत्कृष्टं बन्धविमोचकं ज्ञानं ददामि दद्यां परन्तु तदा ते तवान्या - भिनिवेशं पुत्रामहं ज्ञात्वा पुत्रमेव ददामि अददामित्यन्वयः ॥ २० ॥
अधुना तु पुत्रादितापानुभवेन तत्राभिनिवेशस्य निवृत्तत्वात् तत्त्वोपदेशाधिकारित्वमित्याशयेनाह - अधुनेति । न केवलं पुत्र एव सन्तापहेतुः किन्तु दारादयः सर्वऽपीत्याह एवमिति । रायः अर्थाः ॥ २१ ॥ चलाः अनित्याः ।। २२ ।। हे शूरसेनेशेति सम्बोधनेन स्वामित्वात्तव मोहेन सर्वे मोहिताः सन्ति तव विवेकेन सर्वे विवेकिनः सुखिनश्च भवेयुरिति तदेवोचितमिति रूचयति — नष्टे शोकः । विद्यमाने मोहः । नाशे भयम् । उपार्जने आर्त्तिदैन्यं च । तत्रापि यदि ते किञ्चित्कालं स्थिरतया सुखदा भवेयुस्तदा तदर्थं शोकादिकमपि सोढव्यं तदपि नास्ति, गन्धर्वनगरादिवत्, आशुतरविनाशित्वादित्याह - गन्धर्व नगरप्रख्या इति ॥ २३ ॥ * ॥ * आशुतरविनाशित्वे हेतुमाह - दृश्यमाना इति । सर्वेषां भगवत्कर्तृकत्वेन तदीयत्वादर्थेन स्वकीयत्वेन विनाऽपि तथात्वेन दृश्यमाना अतएव भगवदधीनत्वात्तदिच्या क्षणान्तरे न दृश्यन्ते न तिष्ठन्ति । यदि स्वकीयाः स्युस्तदा स्वेच्छया सदैव तिष्ठेयुरिति भावः । ननु कथमेवमन्यथा दृश्यन्ते इत्यपेक्षायां भ्रान्त्यैवेत्याह-मन इति, मनसैव तथात्वेन कल्पिताः, न तु वस्तुतस्ते तथेत्यर्थः । ननु स्वकृतकर्मजन्यत्वस्य शास्त्रप्रसिद्धत्वात् कथं भगवदीयत्वमित्याशङ्कयाह - कर्मभिरिति, प्राचीनकर्म- वासनाभिः विषयान् ध्यायतः पुंसो मनस एव निमित्तात् नाना कर्माणि अभवन् । तथाच अविद्यया देहादावहम्ममाध्यासेन स्वकृततत्तत्कर्मानुसारेण भगवानेव सर्वान् विषयान् सम्पादयति, योगेन कर्मक्षयाच्च तान् स एव नाशयतीति सर्वथा पारव- श्यात्तत्र शोकोऽनुचित एवेति भावः ॥ २४ ॥ ४६४ 1 श्रीमद्भागवतम् भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी [ स्कं. ६ अ १५ श्लो. १७-२ A एवमुभावपि पृष्टौ । तत्र तावदङ्गिराः स्वस्य नारदस्यं चागमनप्रयोजनं वदंश्चित्रकेतोवैराग्यमुत्पादयति अहमित्यादिनोप- शममाविशेत्यन्तेन । अहमिति । हे नृप, पुत्रकामस्य पुत्रं कामयमानस्य, ते तव पुत्रदः अहम् अङ्गिराः अस्मि । एष द्वितीयः, ब्रह्मसुतो ब्रह्मणः पुत्रः, भगवान् महैश्वर्यः, साक्षात् नारदः ऋषिः ॥ १७ ॥ * * किमर्थमत्रं युवामागतौ इत्यत्राह । इत्थमिति । पुत्रशोकेन, इत्थं दुस्तरे तमस्यज्ञाने, मग्नम् अतदमित्थंभूतशोकानर्ह, महापुरुषगोचरमुत्कृष्टपुरुषैरनुग्राह्यं हरिभक्तं वा त्वाम् अनुस्मृत्य प्रत्यभिज्ञाय ॥ १८ ॥ * * अनुग्रहायेति । हे प्रभो राजन्, भवतः अनुग्रहाय भवन्तमनुप्रहीतुम्, आवाम् इह प्राप्तौ । ब्रह्मणि ब्रह्मकुले साधुर्ब्रह्मण्यः, तत्रापि भगवद्भक्तः त्वादृशः, अवसीदतुमित्थंभूतावसादं प्राप्तु, न अर्हति । इति विचार्यागतौ भवावः । इति द्वयोरेकसंबन्धः ॥ १६ ॥ तर्हि पूर्वमेव ज्ञानं किं न ददाथ तत्राह । तदैवेति । तदैव पूर्वमेव, ते तव, गृहम् आगतः । अहं ते तुभ्यं परं ज्ञानं ददामि दद्याम् । परं तु ते तव, अन्याभिनिवेशं पुत्राभिलाषं ज्ञात्वा, ते तुभ्यं पुत्रम् एव ददौ दत्तवान् ॥ २० ॥ * * ननु ममान्याभिनिवेशे सत्यपि तस्य दुःखोदर्कतां ज्ञापयित्वा ज्ञानमेव किं न दत्तवान् इत्यपेक्षायामभिलषितपुत्रप्रदानमन्तरेण दत्तमपि ज्ञानं न सुप्रतिष्ठितं भवति पुत्रोत्पत्तिविपत्तिभ्या- मनुभूतसुखदुःखस्य तद्दृष्टान्तेनेतरेषामपि वैषयिक सुखानाम सुखोदर्क तामनुमन्यमानस्य संजातवैराग्यस्य तु दत्तं ज्ञानं सुप्रतिष्ठितं भवतीत्यालोच्य न दत्तवानस्मीत्यभिप्रायतः पुत्रदृष्टान्तेनेतरेषामप्यन्ततो दुःखहेतुतां निदर्शयति । अधुनेति । हे राजन, यथैव यथैव अधुना, भवता पुत्रिणां तापः अनुभूयते ज्ञायते । एवं दाराः स्त्रियः, गृहाः रायः, विविधैश्वर्यसंपदः, नानैश्वर्याणि नानासंपदश्चेत्यर्थः ।। २१ ।। * शब्दादय इति । शब्दादयः विषयाः, चलाः क्षणिकाः । राज्यविभूतयश्च, मही, राज्यं, बलं सैन्यं शारीरं सामर्थ्यं वा । कोशोऽथावः भृत्याः, अमात्याः, संधिरार्षः । सुहृज्जनाः ॥ २२ ॥
- । * सर्वेऽपीति । शूरसेन चित्रकेतो, शूरसेनेशेति कचित् पाठः । इमे सर्वेऽपि शोकश्च मोहश्च भयं च आर्त्तिः पीडा च ताः ददतीति तथाविधाः । गन्धर्वनगर प्रख्याः गन्धर्वनगरतुल्यत्वेन प्रसिद्धाः । गन्धर्वाणां नगरं हि न नियतं तद्वदेतेऽप्यनियता इत्यर्थः । स्वप्नमाया - मनोरथाः स्वप्नवन्मायावत् मनोरथवदनित्यत्वेन दृश्यमाना इत्यर्थः । इति त्रयाणामेकसंबन्धः ॥ २३ ॥ * * दृश्यमाना इति । अर्थेन परमपुरुषार्थेन निरतिशयानन्देनेति यावत् । विना, अतात्त्विकस्वरूपेणेत्यर्थः । दृश्यमानाः एते, मनोभवा मनोमात्रविजृम्भिताः ततः न दृश्यन्ते क्षणान्तरे नयनविषया बाधो न स्यादतो मनोमात्रविजृम्भितत्वेन इत्यर्थः । नन्वेते पुण्यापुण्यकृता इति मीमांसकाः प्राहुस्तत् कुतो मनःप्रभवत्वमेतेषां तत्राह । कर्मभिरनादिवासनारूपैः, विषयानिति शेषः । ध्यायतः मनसा स्मरतः, पाठांतरे कर्म ईप्सिततममभिध्यायत इत्यर्थः । पुंसः, मनसो निमित्तभूतात्, पाठान्तरे मनसा निमित्तेन, नानाविधानि कर्माणि, अभवन् । अनादिकर्मवासनावासित मनः संयुक्तैरिन्द्रियैर्विषयान् ध्यायंस्तावत् कर्माणि करोति इत्यर्थः । एवं सति कर्मणोऽपि मनोभवत्वात्तत्साध्या अर्था अपि मनोभवा एवेति भावः ॥ २४ ॥ स्वप्नादिवन्मिथ्याभूता न भवन्ति । तात्त्विकत्वे हि क्षणान्तरे भाषानुवादः ایریک महर्षि अगिराने कहा — राजन् ! जिस समय तुम पुत्रके लिये बहुत लालायीत थे, तब मैंने ही तुम्हें पुत्र दिया था । मैं अङ्गिरा हूँ । ये जो तुम्हारे सामने खड़े हैं, स्वयं ब्रह्माजी के पुत्र सर्वसमर्थ देवर्षि नारद हैं ॥ १७ ॥ * * जब हमलोगोंने देखा कि तुम पुत्रशोकके कारण बहुत ही घने अज्ञानान्धकारमें डूब रहे हो, तब सोचा कि तुम भगवानके भक्त हो, शोक करने योग्य नहीं हो। अत: तुमपर अनुग्रह करनेके लिये ही हम दोनों यहाँ आये हैं। राजन् ! सच्ची बात तो यह हैं कि जो भगवान् और ब्राह्मणोंका भक्त है, उसे किसी अवस्थामें शोक नहीं करना चाहिये ।। १८-१९ ॥ जिस समय पहले- पहल मैं तुम्हारे घर आया था, उसी समय मैं तुम्हे परम ज्ञानका उपदेश देता; परन्तु मैंने देखा कि अभी तो तुम्हारे हृदय में पुत्रकी उत्कट लालसा है, इसलिये उस समय तुम्हें ज्ञान न देकर मैंने पुत्र ही दिया ॥ २० ॥ * अब तुम, स्वयं अनुभव कर रहे हो हि पुत्रवानोंको कितना दुःख होता है। यही बात स्त्री, घर, धन, विविध प्रकारके ऐश्वर्य, सम्पत्तियाँ, शब्द- रूप-रस आदि विषय, राज्यवैभव, पृथ्वी, राज्य, सेना, खजाना, सेवक, अमात्य, सगे-सम्बन्धी, इष्ट-मित्र सबके लिये हैं; क्योंकि ये सबके सब अनित्य हैं ।। २१-२२ ॥ * * शूरसेन ! अतएव ये सभी शोक, मोह, भय और दुःखके कारण हैं, मनके खेल-खिलौने हैं, सर्वथा कल्पित और मिथ्या हैं; क्योंकि ये न होनेपर भी दिखायी पड़ रहे हैं। यही कारण है कि ये एक क्षण दीखनेपर भी दूसरे क्षण लुप्त हो जाते हैं। ये गन्धर्वनगर, स्वप्न, जादू और मनोरथकी वस्तुओंके समान सर्वथा असत्य हैं । जो लोग कर्म-वासनाओंसे प्रेरित होकर विषयोंका चिन्तन करते रहते हैं, उन्हींका मन अनेक प्रकारके कमकी सृष्टि करता है ।। २३-२४ ॥ । । स्कं. ६ अ. १५ श्लो. २५-२८ ] अनेकव्याख्या समलङ्कृतम् अयं हि देहिनो देहो द्रव्यज्ञानक्रियात्मकः । देहिनो विविधक्लेशसन्तापकृदुदाहृतः ।। २५ ।। तस्मात् स्वस्थेन मनसा विमृश्य गतिमात्मनः । द्वैते ध्रुत्रार्थविश्रम्भं त्यजोपशममाविश ।। २६ ।। नारद उवाच एतां मन्त्रोपनिषदं प्रतीच्छ प्रयतो मम । यां धारयन् सप्तरात्राद् द्रष्टा सङ्कर्षणं प्रभुम् ।। २७ ।। यत्पादमूलमुपसृत्य नरेन्द्र पूर्वे शर्वादयो भ्रममिमं द्वितयं विसृज्य । सद्यस्तदीयमतुलानधिक महित्वं प्रापुर्भवानपि परं नचिरादुपैति ॥ २८ ॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे चित्रकेतु’ सान्त्वनं नाम पञ्चदशोऽध्यायः ।। १५ ।। कृष्णप्रिया व्याख्या ४६५ अन्वयः - द्रव्यज्ञानक्रियात्मकः अयं देहिनः देह देहिनः विविधक्लेशसंतापकृत् हि उदाहृतः ॥ २५ ॥ * * तस्मात् स्वस्थेन मनसा आत्मनः गतिं विमृश्य द्वैते ध्रुवार्थविश्रम्भं त्यज उपशमम् आविश ।। २६ ।। * * प्रयतः एतां मंत्रोपनिषदं मम प्रतीच्छ यां धारयन् सप्तरात्रात् संकर्षणं प्रभुं द्रष्टा ॥ २७ ॥ * नरेन्द्र पूर्वे शर्वादयः यत्पादमूलम् उपसृत्य इमं द्वितयं भ्रमं विसृज्य सद्यः अतुलानधिकं तदीयं महित्वं प्रापुः भवान् अपि नचिरात् परम् उपैति ॥ २८ ॥ इति षष्ठे पञ्चदशोऽध्यायः ।। १५ ।। श्रीधरस्वामिविरचिता भावार्थप्रदीपिका तदेवं ममतास्पदानां दुःखादिहेतुत्वमुक्तं तत्र देहसंबंधो मूलमित्याह । अयं हीति । हीत्यवधारणे । अयं द्रव्यज्ञान- क्रियात्मकोऽधिभूताधिदैवाध्यात्मरूपो देह एव देहिनो देहोऽहमिति मन्यमानस्य देहिनो जीवस्य विविधान्क्लेशान् सन्तापांच करोतीति तथा ।। २५ ।। * स्वस्थेनाव्यग्रेण । गतिं तत्त्वम् । ध्रुवोऽयमर्थ इति विश्रंभं विश्वासं प्रणयं वा त्यज ततश्च- अंगिरसोपदिष्टं तत्त्वं परमेश्वरप्रसादं विना न प्राप्यत इति तत्प्रसादाय मंत्रविद्यां नारद उपदिशति । एतामिति । उपनिषण्णं परं श्रेयोऽस्यामित्युपनिषन्मंत्र एवोपनिषत्तां प्रतीच्छ गृहाण । द्रष्टा द्रक्ष्यति भवान् ।। २७ ।। * * अतुलं च तदनधिकं च समानाधिकशून्यं परं महिमानं प्रापुः । उपैत्युपैष्यति ॥ २८ ॥ पशममाविशाश्रय || २६ ॥ इति श्रीमद्भा० षष्ठस्कन्धे टीकायां पंचदशोऽध्यायः ।। १५ ।। वंशीधरकृतो भावार्थदीपिकाप्रकाशः
तंत्र दुःखादिहेतुत्वे ममतास्पदत्वे च ।। २५ ।। यतो देहादिप्रपंचः क्लेशहेतुस्तस्माद्धेतोः । द्वैते देहादौ नैतावता पूर्यते किन्तूपशमभुपरामम् । ततो द्वैतध्रुवत्वत्यागोत्तरमाश्रय ।। २६ ।। * एतां पूर्वैरुक्ताम् अग्रे वक्ष्यमाणामित्यर्थः । ॥ ६ सप्तरात्रात्सप्तरात्रमतिक्रम्य दिनकतिपयानंतरमित्यर्थः ॥ २७ ॥ * । तथोपदेशे वैशिष्टयमाह - यत्पादेति । नरेन्द्रेति । शर्वादयोऽतिसमर्थास्तदापुः कथमहं दीन इति मा भैस्त्वमपि नराणां शर्वादीनामिवेंद्रः समर्थोऽसि “चतुर्वर्गेषु तन्नास्ति मनुष्यो यन्न साधयेत् । गुरूक्तमार्ग उद्युक्तः” इत्यादि संहितोत्तेरिति भावः ॥ २८ ॥ इति श्रीमद्भागवतभावार्थदीपिकाप्रकाशे षष्ठस्कन्धे पञ्चदशोऽध्यायः ।। १५ ।। अन्वितार्थप्रकाशिका नन्त्रेते कर्मभिः कृता इति मीमांसका मन्यन्ते तत्राह - कर्मभिरित्यर्धम् । कर्मभिः प्राचीनकर्मवासनाभिः विषयान् ध्यायतः पुंसो मनस एव निमित्तात् नानाकर्माणि अभवन् । कर्मभिर्थ्यायत इति पाठे कर्म ईप्सिततममभिध्यायत इत्यर्थः । १. प्रा० पा०शोकापनोदो । … ५९ ४६६ श्रीमद्भागवतम् [ स्कं. ६ अ. १५ श्लो. २५-२५ कर्मणो मनोभवत्वात्तत्साध्या अर्था अपि तथेति भावः । अयमिति । हीत्यवधारणे । अयं द्रव्याणि महाभूतानि ज्ञानानि ज्ञानेन्द्रि याणि क्रियाः कर्मेन्द्रियाणि तदात्मकः अधिभूताधिदैवाध्यात्मरूपो देह एवं देहिनां देहेऽहमित्यभिमानवतो देहिनो जीवस्य विविधान् क्लेशान् संतापांश्च करोतीति तथा उदाहृतः तत्त्वदर्शिभिर्निरूपितः ।। २५-२६ ॥ 8 * तस्मादिति । तस्मात्स्व- च्छेनाव्यप्रेण सावधानेन । स्वस्थेनेत्यपि पाठः । मनसा आत्मनो गतिं तत्त्वं विमृश्य द्वैते प्रप ध्रुवोऽयमर्थ इति विश्रम्भं विश्वासं प्रणयं वा त्यज ततश्चोपशममुपरतिमाविश आश्रय ॥। २७ ॥ * * तत्त्वमुपदिश्य अङ्गिरस निवृत्… निवृत्ते परमेश्वर- प्रसादं विना तत्त्वं न प्राप्यत इति तत्प्रसादाय मन्त्रविद्यां नारदो दिशति - एतामिति । तां ॐ नमस्तुभ्यमित्यादिपरमपर- मेष्ठिन्नित्यन्तां वक्ष्यमाणां मन्त्ररूपामुपनिषदम् उपनिषीदति परं श्रेयोऽस्यां ताम् मे मत्तः प्रयत: मृतकक्रियां समाप्य विशुद्धः सावधानश्च सन् प्रतीच्छ गृहाण । यां विद्यां धारयन् भवान् सप्तरात्रात् सङ्कर्षणं प्रभुं द्रष्टा द्रक्ष्यति ।। २८ ।। * * यत्पादेति । हे नरेन्द्र ! यस्य भगवतः सङ्कर्षणस्य पादमूलमुपसृत्य प्राप्य पूर्वे शर्वादयो महादेवादय इमं द्वितयं द्वैतात्मकं भ्रमं विसृज्य त्यक्त्वा सद्यः अतुलं च तदनधिकं च समानाधिकशून्यमत एव परं सर्वोत्कृष्टं तदीयं महत्त्वं महिमानं प्रापुः । भवानपि परं तत्फलं नचिरात् शीघ्रमेव उपैति उपैष्यति ॥ २९ ॥ me madh इति श्रीभागवते महापुराणे षष्ठस्कन्धेऽन्वितार्थप्रकाशिकायां पञ्चदशोऽध्यायः ।। १५ ।। SPDF वीरराघवव्याख्या nehere s कीए ततस्तत्कर्मफलानुभवायास्य देहिनः द्रव्यज्ञानक्रियात्मकः द्रव्यं भूतपञ्चकं ज्ञानानि ज्ञानेन्द्रियाणि क्रियाः कर्मेन्द्रयाणि एतदात्मकः एतत्सङ्घातरूपः अयं देहोऽस्य देहिनः विविधक्लेशरूप सन्तापं करोतीति तथा क्लेशसन्तापशब्दौ वैषयिक सुखदुःखपरौ वा वैषयिकसुखस्यान्ततः क्लेशात्मकत्वात्तौ करोतीति विविधक्ल शसन्तापकृदुदाहृतः प्राप्त इति कथित इत्यर्थः । प्रथममनादि- वासनावासितेन मनसा विषयचिन्तना तयाच विषयलाभोपयुक्तानि पुण्यपापात्मकानि कर्माणि कर्मभ्यः कुशसंतापकृत्तद्देहः तेन च पूर्वजन्मकृतकर्मफलशब्दादिविषयमनुभवतः पुनर्विषयचिन्तना पुनस्तया कर्मणीत्येवमियं परिवृत्तिः वासनावासितमनो- मूलिकेति सर्वे मनःप्रभवा इति भावः ॥ २५ ॥ तस्मात्पुत्रदारादीनां सर्वेषां स्वाप्न कल्पत्वात्स्वस्थेन विक्षेपरहितेन मनसा आत्मनः प्रत्यगात्मनो गतिं स्वरूपं विमृश्य बुद्धीन्द्रियमनः प्राणादिभिन्नत्वेन ज्ञानानन्दादिस्वरूपस्वभावत्वेन परमात्म- शरीरत्वेन च विमृश्य द्वैते उक्त विधप्रत्यागात्मगतदेवमनुष्यादिभेदभिन्नेऽस्थिरे शरीरे ध्रुवार्थविस्त्रभं धुवार्थ आत्मा तद्विस्रम्भ- मात्माभिमानं त्यज उपशमं वैराग्यमाविश विरक्तो भवेत्यर्थः ॥ २६ ॥ एवमङ्गिरसोत्पादितविवेकाय चित्रकेतवे भगवान्नारदो मन्त्रविद्यामुपदिदिक्षुस्तावत् तत् प्रभावमाह एतामिति । एतामुपदेक्ष्यमाणां मन्त्रोपनिषदं मन्त्ररूपामुपनिषदं प्रयतः समाहितचित्तस्त्वं मम उपदेक्ष्यतो मत्तः प्रतीच्छ स्वीकुरु यां मन्त्रोपनिषदं धारयमाणो भवान् सप्तरात्रादूर्ध्वं भगवन्तं सङ्घर्षणं द्रष्टा द्रक्ष्यति ।। २७ ।। * * सङ्कर्षणं विशिषस्तस्य तत्साक्षात्कारफलमाह-यदिति । हे नरेन्द्र ! यस्य भगवतः सङ्कर्षणस्य पादमूलमुपसृत्याश्रित्य पूर्वे रुद्रादयः द्वितयं द्वाववयवौ यत्य द्वितयं द्विदलात्मकं भ्रममाब्रह्मात्मकत्व स्वतन्त्रात्मकत्वरूपदल- द्वयात्मकं भ्रमं विसृज्यातुलानधिकं निःसमाभ्यधिकं तदीयं सङ्कर्षणसम्बन्धिमहत्त्वं माहात्म्यं प्रापुः तथा भवानप्यचिरादाशु परं महामाहात्म्यमुपैष्यति ॥ २८ ॥ इति श्रीमद्भागवत महापुराणे षष्ठस्कन्धे श्रीमद्वीरराघवाचार्य्यकृतभागवतचन्द्रचन्द्रिकायां पञ्चदशोऽध्यायः ।। १५ ।। विजयध्वजतीर्थकृता पदरत्नावली PER देहादेरर्थक्रियाकारित्वान्न मिध्यात्वं वक्तुमुचितं गन्धर्वनगरादिवदतो नश्वरत्व एव दृष्टांत इत्यभिप्रेत्याह-अयं हीति । देहिनोऽयं देहो देहिनो जीवस्य विविधक्लेशसंतापकृदुदाहृत इत्यन्वयः । हिशब्दों हेतौ अभिमानाश्चेतनस्य सुखादिभोगः न तु देहस्येति द्योतनाय देहिन इति पुनर्वचनम् अयमित्युक्तत्या स्थूलदेहसिद्धावपि स्पष्टत्वायाह–द्रव्येति । द्रव्यात्मकः पञ्चभूतात्मकः स्थूलदेह: गंडशैलादीनां स्थूलत्वेपि भोगायतनत्वाभावात्कथमेतदिति तत्राह - ज्ञानेति । ज्ञानेत्यनेन श्रोत्रादिपञ्चकम् एकं मनश्च गृह्यते क्रियापदेनापि वागादिपञ्चकं कर्म च लक्ष्यते ज्ञानेन्द्रियकर्मेन्द्रियमन आत्मकत्वेन वैलक्षण्याद्भोगायतनत्वमुपपद्यते इन्द्रियकार्यज्ञान क्रियाशब्दाभ्याम् इन्द्रियोतिः कार्यकारणयोरे कशब्दव्यवहृतिर्भवेदित्यतो युज्यते “असन्नपि क्लेशद आस देह” इत्यादौ सिद्धत्वादुदाहृत उत्युक्तम् अनेनासदुपासनं क्लेशकरं देहवदित्ययमर्थोपि ध्वनित इति ज्ञातव्यम् ।। २५ ।। यत एवं नानाक्लेशदो देहस्तहि कथंकारं तं निवर्तत इति तत्राह - तस्मादिति । तस्माद्देहत्य क्लेशकरत्वात् द्वैते देहे ध्रुवार्थ- विस्रंभं त्यजेत्यन्वयः । अन्यापेक्षारहितत्वाद्धरिरद्वैतम् अदृष्टाद्यन्यापेक्षाप्राप्तत्वात् द्वैतं देहादि तत्रैते पदार्था ध्रुवत्वान्नित्या इति स्कं. ६ अ. १५ श्लो. २५-२८] । अनैकव्याख्यासमलङ्कृतम् ४६७ विश्वासं त्यज “अनन्यापेक्षतस्त्वेको हरिरन्यद्वयं स्मृतम् । अन्यापेक्षत्वतस्तेन प्राप्तत्वाद्वैतमुच्यते” इतिवचनात् देहिनो यत्किं चित्साधने द्वितीयत्वेन प्राप्तत्वाद्वैतशब्दवाच्यो देह इत्यर्थः । नैतावता पूर्यत इत्याह-उपशममिति, अहंकर्तेत्यभिमानोपशममा- विवेशेत्यन्वयः । किं च हरौ निरन्तर निष्ठालक्षणमुपशमम् उक्तार्थदायाह विमृश्येति । आत्मनो हरेर्गतिं स्वातंत्र्यादिलक्षणमात्मनो जीवस्यास्वातंत्र्यादिलक्षणश्चेति । केनेत्यत उक्त मनसेति । तस्य प्रागपि सद्भावात् कुत इदृशविचाराभाव इति तत्राह— स्वस्थेनेति ॥ २६ ॥ * * शास्त्रश्रवणमननशाणलीढेन भक्त्यादिसाधनसामग्रीसम्पादनेन गृहादिसंगत्यागः प्रथमसाधन- मित्यत्रेतिहासमाह—भोजो नामेति । शत्रुणा प्रस्तं कवलितं यदनं तदेव भोजनं यस्य स तथा शत्रूच्छिष्टान्नभक्षण इत्यर्थः ॥ ० ॥ पूर्व पुरातनं वैरं गृह्णातीति पूर्ववैरप्राहास्तैः कर्मभिः पूर्वैर्वैराख्यग्रहैः ॥ ० ॥ दुरंतदुःखानामोघो यस्मिन्स तथा तस्मात्स्वप्ना- तत्स्वप्नानुभूतं तावत्तदानीमेव ॥ ० ॥ आत्मानम् उन्मत्तादिवद्दर्शयन्नात्मना मनसा आत्मानं दर्शयन्नालोचयन्निति वा निर्वाणम् अशरीरेणाजन्यानन्दपूर्ण ब्रह्मश्रीनारायणाख्यं प्रविष्टो मनसेति शेषः । यस्मिन्कुलाये देहे स्थितः तं कुलायं नाविदन्न बुबुधे च शब्दो हेत्वर्थ: । असंप्रज्ञातसमाधिस्थत्वाद्वा ॥ ० ॥ ममाप्येवंविधोपायावस्थामाप्तुं के उपाय इति तत्राह - इमामिति । मन्त्राख्योप- । निषचिरकालेन साध्यसाधिका च तत्किमनयेत्यश्रद्धां माकार्षीरित्याह-यामिति, “रुद्राद्याः शेषदेहस्थं विष्णुं संकर्षणाभिधम् । शेषान्तर्यामिणं ज्ञात्वा स्वपदं प्रापुरञ्जसा” इति वचनान्न शेष: संकर्षणोत्र गृह्यते किंतु तदंतर्यामी द्वितीयमूर्तिरन्यस्य बंधनिर्मूल- नादिसामर्थ्याभावात् इति ॥ २७ ॥ ॐ संकर्षणं शेषस्यासंभावितैर्विशिनष्टि-यत्पादेति । पूर्वे शर्वादयो यत्पादमूलमुपसृत्यो- पास्य महित्वं प्रापुरित्यन्वयः । महित्वं नाम कीदृशं ? येन हरिप्रसादप्राप्तं स्यादित्यत उक्तम् अतुलेति । अतुलं च तदनधिकं चेति तथोक्तं सान्याधिवर्जितमित्यर्थः । ननु, तहीं भगवन्माहात्म्यविनाभूतं स्यादिति तत्राह तदीयमिति, तेषां रुद्रादीनां योग्यं ननु, स्वकीयप्राप्तौ क्लेशसाध्यायाः किमन्योपासनायाः प्रयोजनं ? स्वतः सिद्धत्वात्तस्येत्यस्याप्येतदेवोत्तरं तत्प्रसादलभ्यत्वात्त- । । दीयमिति । तदीयं तस्य हरेरधीनम् । तदुक्तम् । “तेषां तेषां पदान्येव वैष्णवानि पदानि तु । तेषां महित्वं च तथा हरेस्तद्वशगं यतः” इति । भगवन्महित्वादन्य महित्वस्य साम्याधिक्यस्य वर्जनं कथं घटत ? इत्यस्यापीदमुत्तरं तस्मादिन्द्रादिपदादुद्रादिप्राप्य- शेषादिपदस्य साम्याधिक्यवर्जनं युक्तं किंच शेषादिप्राप्यशेषादिपदस्य भौक्तिकस्य संस, रे शेषादिपदमपेक्ष्या तुल्यान्याधिक्यं च युक्ति- मत् “अतुल्यानधिकं चैव तस्य तस्यैव मुक्तिगम् । तस्यैव पूर्वमाहात्म्यमपेक्ष्य” इति वचनात् ननु “परमं साम्यमुपैति” इति श्रुतेः हरेरेवातुल्यानधिकमहित्वं प्रापुरित्यर्थः । किं न स्यादत्रापीदमेव प्रतिवचनं तस्य विद्यमानं पदमापुर्नहरेर्विद्यमानं निजमहित्वं तदुक्तश्च । “न हरेः कचित् माहात्म्यमन्यप्राप्यं स्यान्न ते विष्णोः” इति श्रुतेरिति । रुद्रादिप्राप्यं न चेत् ब्रह्मादिप्राप्यं किं न स्यादितिचेन्न " ब्रह्मेशानादिभिर्देवैर्यत्प्राप्तुं नैव शक्यते तद्यत्स्वभावः कैवल्यं स भवान्केवलो हरिः” इति प्रमाणविरोधात् । अत्रोपा स्तावित्थंभावमाह भ्रममिति । इमं देहाद्यहं ममाभिमानलक्षणं भ्रमं विहाय आचार्यैरप्येतदुक्तम् ‘देहादावहं ममाभिमानो भ्रमः इति बंधस्य त्यागमन्तरेण तत्प्राप्तिः कथं युक्तिमती तत्राह - तद्वितीयमिति, कार्यकारणयोरे कशब्दव्यवह तिर्भवेदिति- म्यायात्कारणेन कार्य - लक्ष्यते द्वितीयेनान्यथाज्ञानेन निर्मितं बन्धं पुत्रादिस्नेहलक्षणं विसृज्य सम्यकू त्यक्त्वा तदुक्तम् " द्वैतेन बन्धसंत्यागाद्वैतत्यागी भवत्युत" इति द्वैतेनोत्पन्नबन्धसंत्यागादित्यर्थः । अनेन मुक्तावपि शेषादिप्राप्यं पदमिति ध्वनितमिति ज्ञातव्यं साधनसामग्रयां कालक्षेपो नास्तीत्याह -सद्य इति, ‘तस्य तावदेव चिरं यावन्न विमोक्ष्येथ संपत्स्यत’ इति श्रुतेः । अनेन चित्रकेतोः किमागतमत्राह - भवानपीति । भवानपि तमनन्तमुपास्य दृष्ट्वा तत्प्रसादेन नाचिरात्स्वकर्मनिर्मितचर मशरीरपाता- नन्तरं तत्प्रसादलक्ष्यत्वात्तदीयमपि तेन पूर्वमहिम्ना तुल्यमनधिकं च परमन्यद्रुद्रादिमहित्वविलक्षणं निर्दुःखानन्दानुभवलक्षणं स्वयोग्यमाहात्म्यमुपैतीत्यन्वयः “यद्येषोपरता देवा माया वैशारदी मतिः । सम्पन्न एवैति विदुर्महिम्नि स्वे महीयते" । इति स्मृतिवचनात् ॥ २८ ॥ / । । इति श्रीमद्भागवत महापुराणे षष्ठस्कन्धे श्रीमद्विजयध्वज तीर्थ कृतपदरत्नावल्यां पञ्चदशोऽध्यायः ॥ १५ ॥ जीवगोस्वामिकृतः क्रमसन्दर्भः तदेवं यदङ्गिरसोपदिष्टं तत्रापरितुष्टः श्रीनारद उवाच । सप्तरात्रमतिक्रम्य दिनकतिपयानन्तरमित्यर्थः ।। २७ ।। अथोपदेशे वैशिष्टयमाह यदिति ॥ २८ ॥ इति श्रीमद्भागवते महापुराणे षष्ठस्कन्धे श्रीमज्जीवगोस्वामिकृतक्रमसन्दर्भस्य पञ्चदशोऽध्यायः ॥ १५ ॥ विश्वनाथचक्रवतिकृता सारार्थदर्शिनी तदेवं ममतास्पदानां दुःखहेतुत्वमुक्त्वा अहन्तास्पदस्यापि देहस्याह- अयमिति । द्रव्यज्ञानक्रियात्मकः अधिभूताधि- देवाध्यात्मकः देहिनः देहोहमिति मन्यमानस्य जीवस्य ॥ २५ ॥ स्वस्थेनाऽव्यमेण गतिं तत्त्वम् । द्वैते अहंतास्प- ४६८ श्रीमद्भागवतम् [ स्कं. ६ अ. १५ श्लो. २५-२८ दममतास्पद बहुले इदन्तास्पदे जगति ध्रुवो वास्तववस्तुभूतोऽयमर्थ इति विस्रम्भं विश्वासं प्रणयं वा त्यज तस्य वस्त्ववस्तु- मयत्वात् " शाश्वतस्तु ध्रुवो नित्यसदातनसनातनाः" इत्यमरः । ततश्चोपशममाविश आश्रय ॥ २६ ॥ ध्रुवोऽर्थ एव कः ? तमेव मह्यं कृपया कथयेत्यपेक्षायामङ्गिरसा प्रेरितो महाभागवतत्वान्नारद एवाह - एतामिति । मन्त्ररूपाम् उपनिषद प्रतीच्छ गृहाण ॥ २७ ॥ * * भ्रमयति भवन्तमिति भ्रमन्तं द्वितयं द्वैतम् उपैति उपैष्यति ॥ २८ ॥ इति सारार्थदर्शिन्यां हर्षिण्यां भक्तचेतसाम् । षष्ठे पञ्चदशोऽध्यायः सङ्गतः सङ्गतः सताम् ।। १५ ।। 1 । शुकदेवकृतः सिद्धान्तप्रदीपः ननु तर्हि किच द्रव्यज्ञानक्रियात्मकः भूतोभयेन्द्रियादिरूपो देहोपि विविधक्लेशसन्तापकदुदाहृतः न तु केवलसुख- कृदुदाहृतः ॥ २५ ॥ यस्मादेवं तस्मात् स्वस्थेन निश्चलेन मनसा आत्मनो जीवस्य गतिं भगवत्पादपद्मं विमृश्य द्वैते पूर्वोक्त पुत्रकलत्रादौ दैहिके देहे च ध्रुवार्थविस्रम्भम् एते देहदैहिकाः अर्थाः ध्रुवा नित्या इति विश्वासं त्यज उपशममाविश आश्रय ।। २६ ।। * * एतां वक्ष्यमाणां मंत्ररूपामुपनिषद’ मम मत्तः प्रतीच्छ स्वीकुरु ।। २७ ।। * * यस्य सङ्कर्षणस्य पादमूलमुपसृत्याश्रित्य पूर्वे शर्वादय: शिवादयः द्वितयं देहदैहिकादिद्वैतं तत्र भ्रमं ध्रुवत्वभ्रान्तिम् देहे अहमिति दैहिकेषु ममैवैते इति च भ्रान्ति विसृज्य सद्यस्तदीयं महित्वं तत्साधर्म्यमवापुः भवानपि परं तत्साधर्म्यमुपैत्युपैष्यति ॥ २८ ॥ इति श्रीमद्भागवते महापुराणे षष्ठस्कन्धे श्रीमच्छुकदेवकृत सिद्धान्तप्रदीपे पञ्चदशाऽध्यायार्थप्रकाशः ।। १५ ।। गोस्वामिगिरिधरलाल विहिता बालप्रबोधिनी तदेव ममतास्पदानां दुःखादिहेतुत्वमुक्तं तत्र देहसम्बन्ध एव मूलमित्याह - अयमिति । हीत्यवधारणे । अयं द्रव्याणि महाभूतानि ज्ञानेन्द्रियाणि क्रियाः कर्मेन्द्रियाणि तदात्मको देह एव देहिनां देहेऽहमित्यभिमानवतो देहिनो जीवस्य विविधान् क्लेशान् सन्तापांच करोतीति तथा उदाहृतः तत्त्वदर्शिभिर्निरूपितः ।। २५ ।। * * यस्मादविवेकिनो भगवद्विमुखस्यैव सर्वतो दुःखं तस्मात् स्वस्थेन सावधानेन मनसा आत्मनो भगवतो गतिं विमृश्य सर्व तदधीनमिति लीलां ज्ञात्वा द्वैते प्रप ध्रुवोऽयमर्थ इति विश्रम्भं विश्वासं त्यज ततश्चोपशमं उपरतिमाविश आश्रय ॥ २६ ॥ * अङ्गिरसोपदिष्टं तत्त्वं भगवदनुग्रहं विना न प्राप्यते इति तत्प्रसादाय मन्त्रविद्योपदेशं नारदः प्रतिजानीते - एतामिति । एतां वक्ष्यमाणामुपनिषदं परं श्रेयोऽस्यामित्युपनिषत् मन्त्र एवोपनिषत्तां मम मत्तः प्रयतः मृतकक्रियां समाप्य विशुद्धः सावधानश्च सन् प्रतीच्छ गृहाण । न चेयं चिरकालेन साध्यसाधिका येनोपेक्षणीया स्यादित्याह — यामिति । द्रष्टा द्रक्ष्यति भवान् ।। २७ ।। सङ्कर्षण-
-
- दर्शनस्य किं फलमित्यपेक्षायामाह - यत्पादेति । यस्य भगवतः सङ्कर्षणस्य पादमूलमुपसृत्य प्राप्य पूर्वे शर्वादयो महादेवादय इमं द्वितयमहन्ता ममतात्मकं भ्रमं विसृज्य त्यक्त्वा सद्यः अतुलं च तदनधिकं च समानाधिकशून्यम् अतएव परं सर्वोत्कृष्टं तदीयं महत्त्वं महिमानं प्रापुरित्यन्वयः । ननु शर्वादीनामिद फलं प्राप्तं चेत्तर्हि तत्फलप्राप्तिर्मम कथं स्यात् तदपेक्षयाऽतितुच्छत्वादित्या- शङ्कयाह - भवानपीति । भवानपि तत्फलं न चिरात् शीघ्रमेव उपैति उपैष्यति । न हि परिपूर्णतमस्य तस्य फलदाने उत्तमाधम- व्यपेक्षाऽस्तीति भावः । तवापि नरोत्तमत्वात्तदर्थ प्रयत्न एवोचित इति सूचयन् सम्बोधयति — नरेन्द्रति ॥ २८ ॥ । इति श्रीवल्लभाचार्यवंश्यगोपालसूनुना । श्रीमन्मुकुन्दरायाणां पादसेवाधिकारिणा ।। १ ।। ॥ श्रीमद्गरिधराख्येन भजनानन्दसिद्धये । श्रीमद्भागवतस्येयं टीका बालप्रबोधिनी ॥ २ ॥ रचिता तत्र षष्ठेऽस्मिन् स्कन्धे रूपनिरूपणे । गतः पञ्चदशो वृत्तिं तत्त्वज्ञाननिरूपकः ॥ ३ ॥ भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी :: तदेवं ममतास्पदानां दुःखादिहेतुत्वमुक्तं तत्र देहसंबन्धो मूलमित्याह । अयं हीति । हीत्यवधारणे । ततः तत्तत्कर्म- फलानुभवायेति शेषः । देहिनः देहोऽहमिति मन्यमानस्य, देहिनोऽस्य जीवस्य द्रव्यं भूतपञ्चकं च ज्ञानानि ज्ञानेन्द्रियाणि च क्रियाः कर्मेन्द्रियाणि च तान्यात्मा यस्य सः, द्रव्यादिसंघातरूपः अयं देहः, विविधान् क्लेशान् संतापांच करोतीति तथाभूतः उदाहृतः । अस्यायमाशयः ! प्रथममनादिवासनावासितेन मनसा विषयचिन्तनं विषयचिन्तया तल्ला भोपयुक्तानि पुण्यपापात्मकानि कर्माणि, कर्मभ्यः क्लेशसंतापकृद्देहः, तेन पूर्वजन्मकृत् कर्म फलरूपशब्दादिविषयाननुभवतः पुनर्विषय- चिन्तना, तया पुनः कर्माणीत्येवमियं परिवृत्तिर्वासनावासितमनोमूलिकेति सर्वे मनःप्रभवा इति ।। २५ ।।रु. ६ अ. १५ श्लो. २५-२८ ] अनैकव्याख्यासमलङ्कृतम् ४६९ तस्मादिति । तस्मात् पुत्रदारादीनां सर्वेषां स्वाप्न कल्पत्वादित्यर्थः । स्वस्थेन विक्षेपरहितेन मनसा आत्मनः प्रत्यागात्मनः, गतिं स्वरूपं विमृश्य, बुद्धीन्द्रियमनःप्राणादिभिन्नत्वेन ज्ञानानन्दादिस्वरूपस्वभावत्वेन परमात्मशरीरत्वेन च विचार्येत्यर्थः । द्वैते उक्तविधप्रत्यगात्मगतदेवमनुष्यादिभेदभिन्नेऽस्थिरे शरीरे इत्यर्थः । ध्रुवार्थविश्रम्भमात्माभिमानं त्यज । उपशमं वैराग्यम् आविश आश्रय | विरक्तो भवेत्यर्थः ॥ २६ ॥ एवमङ्गिरसोत्पादितविवेकाय चित्रकेतवे भगवान्नारदो मन्त्रविद्यामुपदिदि- क्षुस्तावत्तत्प्रभावमाह । एतामिति । एतामुपदेक्ष्यमाणां मन्त्रोपनिषदम्, उप समीपे निषन्निषण्णं परं श्रेयोऽस्यामित्युपनिषत् मन्त्र एवोपनिषत्ता, प्रयतः समाहितचित्तः सन् मम उपदेक्ष्यमाणात् मत्त इत्यर्थः । प्रतीच्छ स्वीकुरु । यां मन्त्रोपनिषदं धारयन् संधारयमाणो भवान्, सप्तरात्रात् ऊर्ध्वमिति शेषः । संकर्षणं प्रभुं भगवन्तं द्रष्टा द्रक्ष्यति ।। २७ ।। * * संकर्षणं विशिषंस्तस्य तत्साक्षात्कारमूलमाह । यदिति । हे नरेन्द्र, यस्य भगवतः संकर्षणस्य, पादमूलं तत्, उपसृत्याश्रित्य पूर्वे पूर्व- कालीनाः, शर्वादयो रुद्रादयः, द्वाववयवौ यस्य तत् द्वितयं द्विदलात्मकम्, अब्रह्मात्मक स्वतन्त्रात्मकत्वरूपदलद्वयात्मकमित्यर्थः । इमं भ्रमं विसृज्य, सद्यः अतुलानधिकं निःसमाभ्यधिकं तदीयं संकर्षणसंबन्धि, महित्वं माहात्म्यं प्रापुः । तथा भवानपि नचिरादाशु, परं माहात्म्यम् उपैति उपैष्यति ।। २८ ।। , इति श्रीधर्मधुरंधर श्रीधर्मात्मजप्रत्यक्ष पुरुषोत्तम सहजानन्दस्वामि सुतश्रीरघुवीराचार्यसूनुभगवत्प्रसादाचार्यविरचिता- यामन्वयार्थावबोधिन्यां भक्तमनोरञ्जन्याख्यायां श्रीमद्भागवतटीकायां षष्ठस्कन्धे पञ्चदशोऽध्यायः ॥ १३ ॥
भाषानुवादः जीवात्मा की यह देह - जो पञ्चभूत, ज्ञानेन्द्रिय और कर्मेन्द्रियोंका संघात है— जीवको विविध प्रकारके क्लेश और सन्ताप देनेवाली कही जाती है ॥ २५ ॥ इसलिये तुम अपने मनको विषयोंमें भटकनेसे रोककर शान्त करो, स्वस्थ करो और फिर उस मनके द्वारा अपने वास्तविक स्वरूप का विचार करो तथा इस द्वैतभ्रममें नित्यत्वकी बुद्धि छोड़कर परम शान्तिस्वरूप परमात्मामें स्थित हो जाओ || २६ ॥ देवर्षि नारदने कहा- राजन् ! तुम एकाग्रचित्तसे मुझसे यह मन्त्रोपनिषद् ग्रहण करो। इसे धारण करनेसे सात रात में ही तुम्हें भगवान् सङ्कर्षणका दर्शन होगा ॥ २७ ॥ * नरेन्द्र ! प्राचीन कालमें भगवान् शङ्कर आदिने श्रीसङ्कर्षणदेवके ही चरणकमलों का आश्रय लिया था । इससे उन्होंने द्वैतभ्रमका परित्याग कर दिया और उनकी उस महिमाको प्राप्त हुए, जिससे बढ़कर तो कोई है ही नहीं, समान भी नहीं है। तुम भी बहुत शीघ्र ही भगवान् के उसी परमपदको प्राप्त कर लोगे ॥ २८ ॥ इति षष्ठे पञ्चदशोऽध्यायः ।। १५ ।। Troom re अथ षोडशोऽध्यायः श्रीशुक उवाच अथ देवऋषी राजन् सम्परेतं नृपात्मजम् । दर्शयित्वेति होवाच ज्ञातीनामनुशोचताम् ॥ १ ॥ नारद उवाच म्या जीवात्मन् पश्य भद्रं ते मातरं पितरं च ते । सुहृदो बान्धवास्तप्ताः शुचा त्वत्कृतया भृशम् || २ || कलेवरं स्वमाविश्य शेषमायुः सुहृद्घृतः । भुङ्क्ष्व भोगान् पितृप्रत्तानधितिष्ठ नृपासनम् || ३ || जीव उवाच ४ ॥ ५ ॥ कस्मिञ्जन्मन्यमी मह्यं पितरो मातरोऽभवन् । कर्मभिर्भ्राम्यमाणस्य देवतिर्यनृयोनिषु ॥ बन्धुज्ञात्यरिमध्यस्थ मित्रोदासीनविद्विषः । सर्व एव हि सर्वेषां भवन्ति क्रमशो मिथः ॥ यथा वस्तूनि पण्यानि हेमादीनि ततस्ततः । पर्यटन्ति नरेष्वेवं जीवो योनिषु कर्तृषु ।। ६ ।। नित्यस्यार्थस्य सम्बन्धो ह्यनित्यो दृश्यते नृषु । यावद्यस्य हि सम्बन्धो ममत्वं तावदेव हि ॥ ७ ॥ एवं योनिगतो जीवः स नित्यो निरहङ्कृतः । यावद्यत्रोपलभ्येत तावत्खत्वं हि तस्य तत् ॥ ८ ॥ कृष्णप्रिया व्याख्या अन्वयः - राजन् अथ देवऋषिः संपरेतं नृपात्मजम् दर्शयित्वा ज्ञातीनाम् अनुशोचताम् इति ह उवाच ॥ १ ॥ मीत्रात्मन् ते भद्रं ते मातरम् च पितरं त्वत्कृतया शुचा भृशम् तप्तान् सुहृदः बान्धवान् पश्य ॥ २ ॥ * * स्वम् कलेवरम् आविश्य सुहृदवृतः शेषम् आयुः पितृप्रत्तान् भोगान भुंक्ष्व नृपासनम् अधितिष्ठ ॥ ३ ॥ * * अमी कर्मभिः देवतिर्यङनृयोनिषु भ्राम्यमाणस्य मह्यं पितरः कस्मिन् जन्मनि अभवन् ॥ ४ ॥ * * हि सर्वे एव सर्वेषां वन्धुज्ञात्य- रिमध्यस्थ मित्रोदासीनविद्विषः मिथः क्रमशः भवन्ति ॥ ५ ॥ * * यथा हेमादीनि पण्यानि वस्तूनि ततस्ततः कर्तृषु नरेषु पर्यटन्ति एवं जीव: योनिषु ॥ ६ ॥ * * नित्यस्य अर्थस्य नृषु संबन्धः हि अनित्यः दृश्यते हि यस्य यावत् संबन्धः तावत् एव हि ममत्वम् ॥ ७ ॥ * * एवं योनिगतः नित्यः निरहङ्कृतः सः जीवः यत्र यावत् उपलभ्येत तावत् तस्य हि तत् स्वत्वम् ॥ ८ ॥ श्रीधरस्वामिविरचिता भावार्थदीपिका षोडशे तत्सुतोक्त्यैव विशोकीकृत्य तं नृपम् । आदिदेश महाविद्यां नारदः शेषतोषणीम् ॥ १ ॥ आदौ तावत् तत्पुत्रमुखेनैव पितृपुत्रादिसंबंधो मिथ्येति दर्शयितुं योगबलेन तमेव ज्ञातीनां दर्शयित्वा जीवात्म- नित्याद्युवाच ।। १-२ ।। * * शेषमवशिष्टमायुरस्ति । अपमृत्युना मृतत्वादित्यर्थः ॥ ३ ॥ * * तदेव कलेवरं प्रविश्योत्थितो जीव उवाच । यद्वा । अंतराले प्रेतशरीरे स्थित्वेति ज्ञेयम् ॥ ४ ॥ * * मयि मृते पुत्रदृष्टया शोकश्चेच्छ- ष्टा हर्षः किं न क्रियत इत्याशयेन संबन्धस्यानियतत्वमाह । बंधवो विवाहादिभिः संबंधिनः । ज्ञातयः सपिंडाः । अरयो घातकाः । मित्राणि रक्षकाः । मध्यस्था उभयव्यतिरिक्ताः साधारणाः । विद्विषो द्रव्यादिनिमित्तेन द्वेषिणः । उदासीनास्तद्वय- १. प्रा० पा० तु | । वर्क. ६ अ. १६ श्लो. १-८] अनेकव्याख्या समलङ्कृतम् ४५१ तिरिक्ता इति भेदः ॥ ५ ॥ कर्मभिर्भ्राम्यमाणत्वे दृष्टांत: । यथा पण्यानि क्रयविक्रयाद्यर्हाणि कर्तृषु व्यवहर्तृषु परिभ्रमति एवं जीवोऽपि योनिषु जनकेषु ॥ ६ ॥ * * एकस्मिन्नपि जन्मनि संबंधस्यानियतत्वं सदृष्टांतमाह द्वाभ्याम् । नित्यस्य जीवतोऽपि अर्थस्य पश्वादेः अनित्य: अनियतः । विक्रयादिना संबंधनिवृत्तेः दृष्टत्वात् ॥ ७ ॥ * एवं योनिगतः पित्रादिसंबंधं प्राप्तोऽपि स जीवो नित्यः । देहजन्मादिना तस्य जन्माद्यभावात् । अत एव वस्तुतो निरहंकृतोऽहमस्य पुत्र इत्यभिमानशून्यः । यत्र पित्रादौ संबंधिनि यावदुपलभ्येत कर्मवशेन वर्तेत तावदेव तस्य पित्रादेस्तत्तस्मिन् स्वत्वं न तु विक्रयादुत्तरकालमपि । अथ वैवं संबंधः । यदुक्तं ‘कलेवरं स्वमाविश्य’ इति तत्र यस्मिन् कलेवरे ममेदानीं स्वत्वं निवृत्तमिति । । सदृष्टांतमाह । नित्यस्य चिरकालावस्थायिनः सुवर्णादे: । योनिगतो देहं प्रविष्टः यत्र देहे तस्य जीवस्य तत्तस्मिन् देहे स्वत्वम् । न तु मरणोत्तरकालमपीत्यर्थः । शेषं समानम् ॥ ८ ॥ 1 वंशीधरकृतो भावार्थदीपिकाप्रकाशः तस्य चित्रकेतोः सुतस्योक्त्या वाक्येन ( १ ) योगिनः प्रसादाज्जातस्तमेव । अथांगिरोबोधनानंतरम् । देवऋषिरिह हृस्वविधानसामर्थ्यात्संध्यभावः । राजन्निति । संपरेतोपी शप्रसादाज्जीवेदेव यथा त्वमीशेनाजीवितः । पुनरित्युक्तेरिति भावः । श्रीनारदोऽपि भगवदवतारत्वादीश एवेति ।। १ ।। ईशस्य सर्वव्यापित्वेन मृतशरीरेपि स्थितिरस्त्येव ज्ञानं विना
- तत्साक्षात्काराभावादत आह- हे जीवात्मन्निति ॥ २ ॥ * * अपमृत्युना हि सत्त्वेप्यायुः शेषे मृतो भवति तच्च जन्मांतरे भुज्यते यथा तैलवर्त्तियुते प्रबलवायु निर्वापिते दीपेऽवशिष्टतैलादि पुनरन्येद्युः प्रवर्त्तितदीपेन भुज्यते तद्वदिति ज्ञेयम् । अकाल- मृत्योरस्वीकारे ‘अकालमृत्युहणम्’ इति मंत्रस्यानाप्तता स्यादिति । “नाकालमृत्युस्तत्रास्ति यत्र राजा युधिष्ठिरः" इति महाभारते विरापर्वणि भीष्मोक्तिश्च व्याकुप्येतेति भावेनैव स्वामिचरणैर्व्याख्यातं शेषमवशिष्टमायुरस्त्यपमृत्युना मृतत्वादिति । पित्रा प्रत्तान्दत्तान् स्वरांतोपसर्गाद्ददातेकारादेशे रूपम् ।। ३-४ ॥ * तस्मिंस्तदरौ वा मिलिता वा मध्यस्थाः उदासीना- स्तयोरपि न मिलंत इति ॥ ५ ॥ * * जनेषु पित्रादिषु । यथा स्वपार्श्वतश्चिरं स्थित्वा गतं दीनारादि पुन: कालांतरे- णायाति तत्र यथा न ज्ञायते तदेवेदं दीनारादीति ॥ ६ ॥ * * ननु तर्हि हाटकादिवदनित्यत्वमापतितं जीवस्येत्याशंक्य संबंधस्यैवानित्यत्वं न तु जीवात्मन इत्याह- नित्यस्येति । यथा संबंधस्यानित्यत्वं तथा मम पुत्रोऽयमित्यादि ममत्वमप्यनि- त्यमित्याह — यावदस्येति । हिशब्दाभ्यां प्रत्यक्षसिद्धत्वं दर्शयति । एवकारेणायोगव्यवच्छेदं करोति ॥ ७ ॥ * अत
- एव जीवस्य जन्माद्यभावादेव । स्वत्वं स्वकीयत्वं प्रकारांतरेण योजयति — अथेति । इत्यर्थ इति । स्वत्वस्य संबंधहेतु- कत्वादिति भावः ॥ ८॥ । अन्वितार्थप्रकाशिका षोडशे नारदश्चित्रकेतवे शेषतोषिणीम् । महाविद्यामदात्तत्र श्लोकाः सार्द्धास्तु पचषट् (५६ | | ) उवाच नवकं सार्द्धाश्चतुः शैला ( ७४॥ ) अनुष्टुभः ॥ १६ ॥
- अनुष्टुभः ॥ १६ ॥ * * अथेति । हे राजन् ! अथ तदा तत्पुत्रमुखेनैव पितृपुत्रादिसंबन्धो मिथ्येति दर्शयितुं देवर्षिर्नारदः सम्परेतं मृतमपि नृपात्मजमनुशोचतां ज्ञातीनां द्वितीयार्थे षष्ठयौ । योगबलेन दर्शयित्वा जीवात्मनित्याद्युवाच ॥ १ ॥ जीवेति । हे जीवात्मन् ! त्वत्कृतया शुचा शोकेन भृशं व्याप्तांस्ते पित्रादीन् पश्य ते भद्रं भवतु ॥ २ ॥ * * कलेवरमिति । अपमृत्युना मृतत्वाच्छेषमवशिष्टमायुरस्ति चेत्तदा स्वं कलेवरमाविश्य सुहृद्वृतः सन् पित्रा प्रत्तान् दत्तान् भोगान् भुङ्क्ष्व जीवतैव पित्रा प्रत्तं नृपासनं चाधितिष्ठ । वस्तुतस्तस्यायुर्नास्त्येव मायिकत्वात् ॥ ३ ॥ * * जीव उवाचेति । तदेव कलेवरं योगबलेन प्रविष्ट ऋषिर्जीवशिव जीव इत्यर्थ: । कस्मिन्निति । स्वकर्मभिर्देवतिर्यङनृयोनिषु भ्राम्यमाणस्य । मित्त्वेऽपि हस्वाभावः आर्षः । मह्यं मम कस्मिन् जन्मनि अमी पितरो मातरोऽभवन् ॥ ४ ॥ * * मयि मृते पुत्रदृष्टया शोकश्वेत्शत्रुदृष्टया हर्षः किं न क्रियते इत्याशयेन संबन्धस्यानिय- तत्वमाह-बन्ध्विति । हि यतः बन्धवो विवाहादिभिः सम्बन्धिनः ज्ञातयः सपिण्डाः अरयो घातका मित्राणि उपकारकाः मध्यस्था व्यवहारसंबन्धिनोऽपि पक्षपातरहिताः विद्विषः द्रव्यादिहरणेन उत्कर्षासहनेन वा विकृतचित्ताः उदासीना उपेक्षकाः सर्व एव प्राणिनः सर्वेषामेव मिथः परस्परं क्रमशः क्रमेण भवन्ति ॥ ५ ॥ यथेति । पण्यानि क्रयविक्रयाद्यर्हाणि हेमादीनि वस्तूनि यथा ततस्ततः सर्वत्र नरेषु व्यवहर्त्तृषु पर्यटन्ति एवं जीवोऽपि कर्तृषु पितृषु योनिषु मातृषु भ्रमति ।। ६ ।। एकस्मिन्नपि जन्मनि सम्बन्धस्यानित्यत्वमाह - नित्यस्येति । नित्यस्य अविनष्टस्याप्यर्थस्य वस्तुनः संबन्धो नृषु अनित्यो दृश्यते । हि यस्मात् यावत्कालं यस्य वस्तुनो यस्मिन्पुरुषे संबन्धो भवति तावत्कालमेव तस्य पुरुषस्य तत्र वस्तुनि ममत्वं भवति । विक्रयाद्यनन्तरं तत्र ममत्वाभावात्संबन्धोऽपि निवृत्त इति निश्चय इत्यर्थः ॥ ७ ॥ * * एवमिति । एवं योनिगतः
४७० श्रीमद्भागवतम् [ स्कं. ६ अ. १६ लो, १८ पित्रादिसंबन्धं प्राप्तो जीवोऽपि नित्यः निरहङ्कृतः देहादिष्वहंभावायोग्यश्च स यावत्कालं यत्र पित्रादौ संबन्धिन्युपलभ्येत कर्मवशेन वर्त्तेत । तावदेव तस्य पित्रादेस्ततसिन् पुत्रादौ स्वत्यं न तु मरणाद्युत्तरकालमपि तथा चेदानीं संबन्धस्य निवृत्तत्वा- दनुचित एव मदर्थोऽयं शोकः ॥ ८ ॥ वीरराघवव्याख्या
एवमुपदेक्ष्यमाणमंत्रोपनिषद्ग्रहणे तस्य रुचिमुत्पाद्याङ्गिरसो दिष्टेषु वैराग्यापादकेष्वर्थेषु चित्रकेतुप्रभृतीनां विस्रंभ- द्योतनाय मृतके पुनर्जीवं स्वयोगमहिम्नाऽऽवेश्य तन्मुखेनाङ्गिरसोपदिष्टानर्थानवीवदद्भगवान्नारद इत्याह मुनिः — अथेति । हे राजन् स देवर्षिर्नारदः सम्परेतं मृतं नृपात्मजमनुशोचतां ज्ञातीनां चित्रकेत्त्वादीनां दर्शयित्वा योगप्रभावेनाविष्टजीवं प्रदर्श्य इति वक्ष्यमाणम् उवाच हेत्याश्वर्ये अहो भगवतो नारदस्य प्रभावो यन्मृतमपि पुनरजीवयदिति ॥ १ ॥ * * उक्तमेवाह- जीवात्मन्निति द्वाभ्याम् । हे जीवात्मन् ! भद्रं प्रविष्टशरीरस्य ते तव मातरं पितरं सुहृदो बान्धवांश्च त्वन्निमित्तया शुचा भृशन्त- प्तान्पश्य बान्धवास्तप्ता इति प्रथमान्तपाठे मातरं पितरं च पश्य बान्धवाः सुहृदश्च त्वत्कृपया शुचा भृशं तप्ताः अतस्तानपि पश्येत्यन्वयः ॥ २ ॥ * * शेषमवशिष्टमायुर्जीवनं यत्य तत्कलेवरं समाविश्य, अपमृत्युना मृतत्वाच्छेषमायुरित्युक्तं सुहृद्भिः परिवृतत्वं नृपासनमधितिष्ठन् पितृप्रत्तान् पित्रा दत्तान् भोगान् भुङ्क्ष्व ॥ ३ ॥ * * भुङ्क्ष्वेत्युक्तो जीवस्तत्कलेव - रमाविश्यावददित्याह-कस्मिन्नित्यादिना दृगीश्वर इत्यन्तेन, तावत्पितृपुत्रत्वादिसम्बन्धस्यानियतत्वमाह — कस्मिन्निति । देव- तिर्यङ्मनुष्ययोनिषु कर्मभिः पुण्यपापरूपैः भ्राम्यमाणस्य जायमानस्य अत एव तत्र तत्र तत्तत्पुरुषविशेषान्प्रति तत्तन्निरूपित बन्ध्या- दिभावं प्राप्तस्य मह्यं मम विभक्तिव्यत्यय आर्ष: । अमी चित्रकेत्वादयः कस्मिन् जन्मनि पितरः मातरश्चाभवन् ? न सर्वेषु जन्म स्वभवन, किन्त्वेतस्मिन्नेव अतः पितृपुत्रत्वादिसम्बन्धौ न नियत इति भावः । यद्वा कस्मिन् जन्मन्यमी पितरो मातर- श्वाऽभवन् ॥ ४ ॥ ननु, सर्वेष्वपि जन्मस्वभवन्नित्यत्राह - बन्ध्विति । सर्वे जीवाः सर्वेषां जीवानां क्रमशः जन्म- परम्पराभिः मिथः अन्योन्य बन्ध्वादयो भवन्तीत्यन्वयः । तत्र बन्धवो विवाहादिभिः सम्बन्धिनः ज्ञातयः सपिण्डाः अरयो धातुकाः मित्राणि रक्षकाः मध्यस्था उभयव्यतिरिक्ताः विद्विषो द्रव्यादिनिमित्तेन द्वेषिणः उदासीनास्तद्वयतिरिक्ता इति भेदः ||५|| कर्मभिर्भ्राम्यमाणत्वे दृष्टान्तमाह-यथेति । यथा पण्यानि क्रयाद्यहाणि हेमादीनि हेमविकाररूपादीनि कटकाङ्गुलीयकादीनि वस्तूनि कर्तृषु व्यवहर्तृषु नरेष्वितस्ततः पर्यटन्ति एवं जीवा अपि देवतिर्यङ्मनुष्ययोनिषु भ्रमन्ति संसरन्ति ।। ६ ।। है कै एकस्मिन्नपि जन्मनि सम्बन्धस्यानियतत्त्वं सदृष्टान्तमाह – नित्यस्येतिद्वाभ्याम् । नित्यस्याविप्लुतस्य जीवत इति यावत् तस्य पश्वादेरर्थस्य अनित्य: अनियतः सम्बन्धो नृषु दृष्टः विक्रयादिना पूर्वस्वामिसम्बन्धस्य निवृत्तेरुत्तरस्वामिसम्बन्धदर्शनादेक- स्मिन्नपि जन्मनि सम्बन्धो न नियत इति भावः । तदेवोपपादयति—यावदिति, यस्य पुंसो येन पश्वादिना यावत्सम्बन्धः क्रयादिनिमित्तसम्बन्धोस्ति तस्य ममत्वं स्वामित्वादिसम्बन्धस्तावदेव हीत्यनेन लोकप्रसिद्धिं द्योतयति ॥ ७ ॥ * एवं दृष्टान्ते उपपादितमर्थ दान्तिके दर्शयति- एवमिति । स प्रसिद्धो निरहंकृतिः वस्तुतो देहात्माभिमानरहितोपि जीवः कर्मणा योनिगतदेवादिशरीरेष्वनुप्रविष्टस्सन यत्र देवादिशरीरे नित्योऽपरित्यक्तदेहो यावदुपलभ्यते तावदेव तस्य स्वत्वं स्वीयत्वं, तावदेव हि तस्य पित्रादयः स्वीया भवन्ति, तावदेव तस्येतरैः पितृपुत्रत्वादिसम्बन्ध इति यावत् तत्तस्मात्तत्रोपलभ्यमानत्वादि- त्यर्थः । यद्वा यत्र शरीरे यावदुपलभ्येत तस्य शरीरस्य तावन्तं कालं जीवात्मानं प्रति स्वत्वं तत्तस्मात्तत्रोपलभ्य- मानत्वादित्यर्थः । अनुपलम्भे तु आत्मनिरूपित स्वत्वस्यैव शरीरेऽभावाच्छरीरनिरूपित पितृपुत्रत्वादिसम्बन्धो दूरादपेत इति भावः ॥ ८ ॥ ।। , । विजयध्वजतीर्थकृता पदरत्नावली संसारस्य पुत्रमित्रादिलक्षणनियतत्वं संसारिचेतनस्य हरिनियतनित्यत्वं परमचेतनस्य परमनित्यत्वं तज्ज्ञानमेव पुरुषार्थसाधनमित्यादिकमस्मिन्नध्याये निरूप्यते, अत्र नारदो योगमाहात्म्यं विद्योतयन् राजकुमारमुत्थाप्येदं वक्तीत्याह- श्रीशुक इति ॥ १-३ ॥ * एवं जीवात्मना किमवादि ? इत्यत्राह, कस्मिन्निति ॥ ४-५ ॥ * * पण्यानि विक्रेयाणि नरेषु विक्रेतृषु रेतस्सेककर्तृषु पित्रादिषु योनिषु मातृषु कर्तृष्विति वा ॥ ६ ॥ ननु तर्हि हाटकादिवद- नित्यत्वमापतितं जीवस्येत्याशङ्कच सम्बन्धस्यानित्यत्वं न तु जीवात्मन इत्याह- नित्यस्येति, यथा सम्बन्धस्यानित्यत्वं तथा मम पुत्रोयमिति ममत्वमप्यनित्यमित्याह यावदिति, हि शब्दाभ्यां प्रत्यक्षादिप्रमाणसिद्धत्वं दर्शयति एव शब्देनायोगव्यवच्छेदी करोति ।। ७ ।। * निरहंकृत इति स्वभावाख्यानं यत्र योनिषु स्वत्वं स्वकीयत्वम् ॥ ८ ॥ स्कं. ६ अ. १६ श्लो. १८] अनैकव्याख्यासमलंकृतम् जीवगोस्वामिकृतः क्रमसन्दर्भः ४०३. संपरेतमतिवाहिकदेहं प्राप्तं दर्शयित्वा योगवलेनाविर्भाव्य ।। १-२ ।। टीकायामपमृत्युनेति तत्कारण- कोचितपापविशेषो भवति । यत एव पूर्णमायुर्द्धास्यतीति । कलेवरं खमाविश्येति विरोधात् पक्षान्तरमाह यद्वेति । ३-४ ॥ मध्यस्थाः तस्मिन् तादृशे च मिल-त्तः । उदासीना तयोरपि न मिलन्तः । टीकायामथ वैवंसम्बन्ध इत्यत्र श्लोकद्वयस्येति शेषः ।। ५-६ ।। विश्वनाथचक्रवतिकृता सारार्थदर्शिनी ল षोडशे मृतपुत्रोक्ता प्रबुद्धो नारदान्मनुम् । प्राप्य संस्तूय शेषन्तन्मुखाज्ज्ञानं नृपोऽभ्यगात् ॥ १ ॥ * ज्ञातीनामिति द्वितीयार्थे षष्ठी ॥ १ ॥ तदपि शोकमोहयोः शेषं दुर्व्वारमभिलक्ष्य मृतपुत्रमुखेनैव तं प्रबोधयितुमाह-जीवेति शुचा शोकेन ॥ २ ॥ शेषमवशिष्टमायुर्व्याप्येत्यपमृत्युना मरणं राजानमूहयति । वस्तुतस्तु तस्य नास्त्येवायुर्मायिकत्वात् पितृप्रत्तात् पित्रा दत्तान् || ३ || * * जीव उवाचेति तदेव कलेवरं प्रविष्टो ऋषिर्जीवन्निव जीव इत्यर्थः मह्यं मम ॥ ४ ॥ * * मयि मृते पुत्रदृष्टया शोकश्चेत् क्रियते, शत्रुदृष्टया हर्षः किं न क्रियते ? इत्याशयेन सम्बन्धस्याऽनियतत्वमाह-बन्धवो विवाहादिसम्बन्धिनः ज्ञातयः सपिण्डा अरयो घातकाः मित्राणि हितैषिणः, मध्यस्था: बहिरन्तमैत्रीवैरवन्तः । उदासीना मैत्रीवैरशून्याः । विद्विष उत्कर्षासहिनः । क्रमश इति जन्मान्तरे शत्रुरप्यस्मिन् जन्मनि पुत्रो भवतीत्यर्थः । यस्तु पुत्रः सद्गुणो भूत्वा म्रियते स तु दुःखाधिक्यप्रदत्वाच्च्छत्रुरेवेति लोकोक्तिः ॥ ५ ॥ * ननु, यदि शत्रुरपि पुत्रः स्यात्तर्हि तन्त्रात्मीयत्वेन स्नेहः कथं ? स्यात्तत्र दृष्टान्तेन समादधाति यथेति । पण्यानि क्रयविक्रयाद्यर्हाणि हेमादीनि हेममुद्रिकादीनि यैव हेममुद्रा शत्रुगृहस्थिता स्ववधप्रयोजिका सैव दैवादात्मगृहमागता प्रेमास्पदीभूता भोगप्रयोजिका च भवति । एवमेव जीवयोनिषु मनुष्यगोगर्दभादिषु ये कर्त्तार उत्पादकाः पितरो मातरश्च तेषु प्रविशन्ति ॥ ६ ॥ * * मम जीवस्य चित्रकेतुपुत्रत्वमेतावन्तं कालमासीत्तावदसौ स्नेहमकरोदेव अतः परमन्यपुत्रत्वं प्राप्स्यामि स एव स्नेहं करिष्यतीत्यर्थान्तरन्यासेनाह नित्यस्यार्थस्य स्वर्णमुद्राया एकस्या अपि क्रयविक्रयादिव्यवहारेणैकस्मिन्नपि दिने अन्य जनहस्तगतया ममेयं ममेयं नान्यस्येति सम्बन्धो ह्यनित्यः तत्र च यावदितिस्पष्टम् ॥ ७ ॥ * * वस्तुतो निरहङ्कृत एव यत्र पित्रादौ तस्य पित्रादेः । यद्वा निरहङकुत एव जीवो यावद्यत्र देहे उपलभ्येत तावदेव तस्य तस्मिन् जीवस्य देहे स्वत्वं नान्यदा अतोऽस्मिन् देहे सम्प्रति मम स्वत्वाभावात् कथमत्राहङ्कारं करोमीति तस्मात् कलेवरं समाविश्येति तत्प्रार्थितं न घटत एवेति भावः ॥ ८ ॥ शुकदेवकृतः सिद्धांतप्रदीपः * मंत्रोपनिषदि अत्यन्ततो विशोकस्याधिकारस्तदर्थमुक्तोपदेशेन विशोकस्यापि राज्ञः पुनरत्यन्ततो विशोकत्वसिद्धये तत्पुत्रमुखेनापि पितृपुत्रादिसम्बन्धस्यानित्यता तदनन्तर मन्त्रोपनिषच्च वर्ण्यते— षोडशेनाध्यायेन अथेति । सम्परेतं नृपात्मजं योगबलेन ज्ञातीनां दर्शयित्वा जीवात्मन्नित्याद्युवाच ॥ १ ॥ हे जीवात्मन् ! ते भद्रं भवतु ते मातरं पितरं तथा त्वत्कृतया त्वदर्थकृतया शुचा शोकेन भृशं तप्तान् सुहृदो बान्धवांश्च पश्य ॥ २ ॥ * ते शेषमवशिष्टमायुरस्ति अपमृत्युना मृतत्वात् अतः कलेवरमाविश्य नृपासनमधितिष्ठ पितृप्रत्तान् पित्रा दत्तान् भोगान् भुङ्क्ष्व ॥ ३ ॥ * * अमी चित्रकेत्वादयः पितरो ममैव नियमेन कस्मिन् जन्मनि अभवन् पितृपुत्रादिसम्बन्धोऽनित्य इत्यर्थः ॥ ४ ॥ * * तदनित्यतामेवाह - बन्ध्विति । सर्वे एव सर्वेषां क्रमशो बन्ध्वादयो भवन्ति ॥ ५ ॥ * पण्यानि क्रयविक्रयार्हाणि हेमादीनि यथा कर्तृषु व्यवहर्तृषु इतस्ततः पर्यटन्ति एवं जीवो योनिषु देवमनुष्यादिषु पर्यटवि ॥ ६ ॥ नित्यस्य प्रत्यहं व्यवहारार्हस्य ग्रामभृत्यादेरेकस्य नृषु एकस्मिन् दिने यज्ञदत्तस्य भृत्यस्तेनैवान्नादिना क्रीतत्वात् एवमन्यस्मिन्नन्यस्यापरस्मि- नपरस्येति अनित्यः सम्बन्धो दृश्यते यस्य यावत्सम्बन्धः, स्वामित्वं तावदेव तस्य ममत्वं मदीयोयं भृत्यादिरिति धीः ॥ ७ ॥ एवं यो नित्यः शाश्वतो निरहंकृतः जाते ज्ञाने पुत्रत्वाद्यहंकाररहितोपि यद्वा पितृपुत्रादिसम्बन्धानुपलभे अहं पितायं पुत्र इत्याद्यहंकाररहितोपि सः योनिगतः पुनः पुनर्जन्मस्थानं गतः संसारे प्रविष्ट इत्यर्थः । यावत् यत्र पित्रादौ पुत्रादिरूपेण उपलभ्येत तावदेव तत् तस्मिन् पुत्रादौ तस्य पित्रादेः स्वत्वं स्वकीयत्वम् ॥ ८ ॥ गोस्वामिगिरिधरलाल विहिता बालप्रबोधिनी चित्रकेतोः सुतोक्तया च नारदस्योपदेशतः । हरेर्भक्तिः प्रसादश्व षोडशे विनिरूप्यते ॥ १ ॥ एवं प्रतिबोधितेऽपि यदा सम्यक् प्रतिबोधो न जातः अथ तदा देवर्षिर्नारदस्तत्पुत्रमुखेनैव पितृपुत्रादिसम्बन्धो मिथ्येति प्रदर्शयितुं सम्परेतं मृतमपि नृपात्मजं योगबलेन अनुशोचतां ज्ञातीनां दर्शयित्वा जीवात्मन्नित्याद्युवाचेत्यन्वयः । देति ६० श्रीमद्भागवतम् ए [ स्कं. ६ अ. १६ श्रो, १-५ हे स्फुटम् । हे राजन्निति सम्बोधनं नारदप्रभावस्य त्वया बहुधा दृष्टश्रुतत्वात्तत्र न कश्चित्सन्देह इति सूचनाय ॥ १ ॥ जीवात्मन् त्वत्कृतया शुचा शोकेन भृशं व्याप्तांस्ते पित्रादीन पश्य ते भद्रं भवत्वित्यन्वयः ॥ २ ॥ * * अपमृत्युंना मृत्त्वाच्छे- षमवशिष्टं | आयुरस्ति चेत्तदा स्वं कलेवरमाविश्य नृपासनमधितिष्ठेत्यन्वयः । ननु पितरि विद्यमाने सति कथं मम राजासन- प्राप्तिरित्याशङ्कय राज्ञोऽपत्यान्तराभावात्तुभ्यमिदानीमेव राजासनं स दास्यतीत्यभिप्रायेणाह - सुहृद्वृतः पितृप्रत्तान पितृदत्तान् भोगान् भुंक्ष्वेत्यन्वयः ॥ ३ ॥ एवं श्रीनारदेन प्रेरितो जीवः स्वकलेवरं प्रविश्यौत्थितोऽन्तराले प्रेतशरीरेण स्थितो वोवाचेति तद्वाक्यानि दर्शयति — कस्मिन्नित्यष्टभिः । स्वकर्मभिर्देवतिर्यङनृयोनिषु भ्राम्यमाणस्य मह्यं मम कस्मिन् जन्मनि अमी पितरो मातरोऽभवन्नित्यन्वयः । नहि य एकत्र पित्रादयो भवन्ति य एकत्र पित्रादयो भवन्ति त एव सर्वत्र पित्रादयो भवन्तीति नियमः । कर्मवशेन तत्र तत्र जातस्य भिन्नभिन्नपित्रादेः प्रत्यक्षसिद्धत्वादिति भावः ॥ ४ ॥ * * अहमस्मिन् जन्मनि तव पुत्रो जातः कर्मवशान्मृतश्चातो यथा पुत्रदृष्टया शोकः क्रियते तथा जन्मान्तरे तव शब्वादिरूपोऽप्यहमासमेव । इदानीमपि दुःखस्य मन्निमित्तत्वाल्लोकव्यवहारादप्यहं शत्रुरेवेति तदृष्टया हर्षः किं न क्रियते इति सूचयन् पूर्वसूचितसम्बन्धस्यानियतत्वमेव स्पष्टयति—बन्ध्विति । बन्धवो विवाहादिभिः सम्बन्धिनः, ज्ञातयः सपिण्डाः, अरयो घातकाः, मित्राणि उपकारकाः, मध्यस्था व्यवहारसम्बन्धिनोऽपि पक्षपातरहिताः, विद्विषः द्रव्यादिहरणेन उत्कर्षासहनेन वाविकृतचित्ताः, उदासीनाः उपेक्षकाः, सर्व एव प्राणिनः सर्वेषामेव मिथः परस्परं बन्ध्वादयो भवन्तीत्यन्वयः । ननु कथमेकदा शत्रुत्वमित्रत्वादिविरुद्धधर्माश्रयत्वं घटते इत्याशङ्कयाह—क्रमश इति-जन्मान्तरे शत्रुरपि जन्मान्तरे मित्रपुत्रादिरूपों भवतीत्यर्थः ॥ ५ ॥ * * कर्मभिर्भ्रमणे दृष्टान्तमाह—यथेति । पण्यानि क्रयविक्रयाद्यर्हाणि हेमादीनि वस्तूनि यथा ततस्ततः सर्वत्र नरेषु पर्यटन्ति एवं जीवोऽपि कर्तृषु पितृषु योनिषु मातृषु भ्रमतीत्यन्वयः ॥ ६ ॥ ननु भवतु जन्मान्तरे सम्बन्धस्यानियतत्वं एकस्मिंस्तु जन्मनि तस्य नियतत्वं स्यादित्याशङ्कय एकस्मिन्नपि जन्मनि सम्बन्धस्यानित्वं दृष्टान्तेन स्पष्टयति नित्यस्येति द्वयेन । नित्यस्य अविनष्टस्याप्यर्थस्य वसुनः मणिसुवर्णादेः सम्बन्धो नृषु अनित्यो दृश्यते । अतो नात्र सन्देह इति हिशब्देन सूचयति । कथं दृश्यते इत्यपेक्षायां तत्स्पष्टयति- हि यस्मात् । यावत्कालं यस्य वस्तुनो यक्तिन् पुरुषे सम्बन्धो भवति तावत्कालमेव तस्य पुरुषस्य तत्र वस्तुनि ममत्वं भवति विक्रयाद्यनन्तरं तत्र ममत्वाभावात्सम्बन्धोऽपि निवृत्त इति निश्चय इत्यर्थः । अत्य व्यबहारस्य प्रसिद्धत्वान्नात्र विवाद इति सूचयन्नाह - हीति ॥ ७ ॥ * * एवं दृष्टान्तं प्रदर्शय दाष्टन्तिकैन तत्समर्थयति- एवमिति । एवं योनिगतः पित्रादिसम्बन्धं प्राप्तो जीवोऽपि नित्यः देहजन्मादिना तस्य जन्माद्यभावात् —स यावत्कालं यत्र पित्रादौ सम्बन्धिन्युपलभ्येत कर्मवशेन वर्त्तेत तावदेव तस्य पित्रादेस्तत्तस्मिन् पुत्रादौ स्वत्वं, न तु मरणाद्युत्तरकालमपि । तथाचेदानीं सम्बन्धस्य निवृत्तत्वादनुचित एव मदर्थोऽयं शोकोऽन्यथाऽन्यस्यापि मृतस्य शोकः कुतो न क्रियते इत्याशयः । ननु जीवस्य कथं नित्यतेत्याशङ्कय निरहङ्कारमगवदंशत्वादित्याशयेन तदभेदविवक्षया SSE - निरहङ्कृत इति ॥ ८ ॥ भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी E S तत्सुतोत्त्यैव राजानं विशोकीकृत्य षोडशे । आदिदेशाथ देवर्षिर्विद्यां शेषप्रतोषणीम् ॥ १ ॥ एवमुपदेक्ष्यमाणमन्त्रोपनिषद्ग्रहणे तस्य रुचिमुत्पाद्याङ्गिरसोपदिष्टेषु वैराग्यापादकेष्वर्थेषु चित्रकेतुप्रभृतीनां विश्रम्भ- द्योतनाय तस्मृतपुत्रके पुनर्जीवं स्वयोगमहिम्नावेश्य तन्मुखेनाङ्गिरसोपदिष्टानर्थानवीवदन्नारद इत्याह मुनिः । अथेति । राजन्, अथ देवर्षिर्नारदः, संपरेतं मृतं नृपात्मजम् अनुशोचतां ज्ञातीनां चित्रकेत्वादीनां दर्शयित्वा योगप्रभावेनाविष्ट जीव प्रदर्श्य, इति वक्ष्यमाणम्, उवाच । हेत्याश्चर्ये । तच्चाहो नारदप्रभावो यन्मृतमपि पुनरजीवयदिति ॥ १ ॥ * * तदैवाह द्वाभ्याम् । जीवात्मन्निति । रे जीवात्मन, ते तव, भद्रं मङ्गलं सर्वप्रकारेण तव हितमेवास्तु । ते तव, मातरं पितरं च, सुहृदः बान्धवाञ्च त्वत्कृतया शुचा, भृशं तप्तान् पश्य ॥ २ ॥ * * कलेवरमिति । त्वं कलेवरम् आविश्य शेषमवशिष्टम् आयुर्जीवन सुहृतः सन्, भुङ्क्ष्व । नृपासनम् अधितिष्ठ पितृप्रत्तान त्वत्पित्रा दत्तान् भोगान् भुङ्क्ष्व | आयुषोऽवशिष्टत्वो- तिरपमृत्युना मृतत्वतो बोध्या ॥ ३ ॥ * * इत्युक्तो जीवस्तत्कलेवर माविश्योत्थायोवाच । कस्मिन्नित्यादिना हगीश्वर इत्यन्तेन तत्राप्यादौ पितृपुत्रत्वादिसंबन्धस्यानियतत्वमाह द्वाभ्याम् । कस्मिन्निति । देवाश्च तिर्यश्वश्च नरो मनुष्याश्च तेषां योनयस्तासु, कर्मभिः पुण्यपापरूपैः, भ्राम्यमाणस्य जायमानस्य, तंत्र तत्र तत्तद्देहनिरूपितबन्ध्वादिभाव प्राप्तस्येत्यर्थः । मह्यं मम, विभक्तिव्यत्यय आर्षः । अमी चित्रत्वादयः कस्मिन् जन्मनि, पितरः, मातरच अभवन् ॥ ४ ॥ * * ननु सर्वेष्वपि जन्मसु पित्रादयोऽभवन्नेव तत्राह । बन्ध्विति । बन्ववश्व ज्ञातयश्च अरयश्च मध्यस्थाश्च मित्राणि च उदासीनाश्च विद्विषश्च ते । तत्र बन्धवो विवाहादिभिः संबन्धिनः ज्ञातयः सपिण्डाः, अरयो घातकाः मित्राणि रक्षकाः, मध्यस्था उभयव्यतिरिक्ताः साधारणाः, विद्विषो द्रव्यादिनिमित्तेन द्वेषिणः, उदासीनास्तद्वद्यतिरिक्ताः इति भेदः । एवं सर्वे जीवाः, सर्वेषां जीवानां क्रमशः, कं. ६.अ. १६ श्लो. ९-१६] अनेकव्याख्यासमलङ्कृतम् जन्मपरंपराभिरित्यर्थः । मिथोऽन्योन्यं भवन्ति हि । अतः मयि मृतेऽस्य पुत्रदृष्टया शोकः जातच्छबुदृष्टयाऽनेन हर्षः किं न क्रियते संबन्धस्यानियतत्वादिति भावः ॥ ५ ॥ कर्मभिभ्राम्यमाणत्वे दृष्टान्तमाह । यथेति । * यथा पण्यानि क्रयाद्यणि हेमादीनि विकाररूपाणि कटकाङ्गुलीयादीनि, वस्तूनि कर्तृषु व्यवहर्त्तृषु नरेषु ततस्ततः इतस्ततः, पर्यटन्ति । एवं जीवाः अपि, योनिषु देवतिर्यगादिषु संसरन्ति ॥ ६ ॥ एकस्मिन्नपि जन्मनि संबन्धस्यानियतत्वं सदृष्टान्तमाह नित्यस्येति द्वाभ्याम् । नित्यस्येति । नित्यस्य अविप्लुतस्य जीवत इति यावत् । अर्थस्य पश्वादेः संबन्ध:, नृषु अनित्यः दृश्यते । हि यस्मात् यावत् यस्य, संबन्धः, तावत् एव तस्मिन् ममत्वं हि । विक्रियादिना पश्वादिसंबन्धनिवृत्तेः ॥ ७ ॥ * * एव- मिति । एवं योनिगतः पुत्रादिसंबन्धप्राप्तोऽपि स जीवः, नित्यः ध्रुत्रः । देहजन्मादिना तस्यः जन्माद्यभावात् । अत एव, निरहंकृतः स्वभावतोऽहमस्य पुत्र इत्यभिमानशून्योऽपि, यत्र पित्रादौ संबन्धिनि, यावत् उपलभ्येत अनादिकर्मवशतया वर्त्तेत । तावदेव तस्य पित्राद:, तत्तस्मिन् स्वत्वं हि । न तु मरणविक्रयादेरुत्तरकालमिति भावः ॥ ८ ॥ ༢ ि far भाषानुवादः ि argha क चित्रकेतुका वैराग्य तथा सङ्कर्षणदेव के दर्शन को श्रीशुकदेवजी कहते हैं —-परीक्षित् ! तदन्तर देवर्षि नारदने मृत राजकुमारके जीवात्माको शोकाकुल स्वजनों के सामने प्रत्यक्ष बुलाकर कहा || १ ॥ ** देवर्षि नारदने कहा- जीवात्मन् ! तुम्हारा कल्याण हो । देखो, तुम्हारे माता-पिता, सुहृद्-सम्बन्धी तुम्हारे वियोगसे अत्यन्त शोकाकुल हो रहे ॥ २ ॥ ऋ इसलिये तुम अपने शरीरमें आ जाओ और शेष आयु अपने सगे-सम्बन्धियोंके साथ ही रहकर व्यतीत करो अपने पिताके दिये हुए भोगोंको ओगी और राज- सिहासनपर बैठो ॥ ३ ॥ जीवात्माने कहा- देवर्षिजी ! मैं अपने कर्मों के अनुसार ‘देवता, मनुष्य, पशु-पक्षी आदि योनियोंमें न जाने कितने जन्मोंसे भटक रहा हूँ । उनमें से ये लोग किस जन्ममें मेरे माता-पिता हुए ! ॥ ४ ॥ * * ? विभिन्न जन्मोंमें सभी एक-दूसरेके भाई-बन्धु, नाती-गोतीं, शत्रु-मित्र, मध्यस्थ, उदासीन और द्वेषी होते रहते हैं ।। ५ ।। जैसे सुवर्ण आदि क्रय-विक्रयकी वस्तुएँ एक व्यापारीसे दूसरेके पास जाती - आती रहती हैं, वैसे ही जीव भिन्न-भिन्न योनियों में उत्पन्न होता रहता है ॥ ६ ॥ * इस प्रकार विचार करनेसे पता लगता है कि मनुष्योंकी अपेक्षा अधिक दिन म्बन्ध भी मनुष्योंके साथ स्थायी नहीं, क्षणिक ही होता है, और जबतक जिसका जिस वस्तुसे सम्बन्ध रहता है, तभीतक उसकी उस वस्तुसे ममता भी रहती है ॥ ७ ॥ * * जीव नित्य और अहङ्काररहित है वह गर्भमें आकर जब तक जिस शरीरमें रहता है, तभीतक उस शरीरको अपना समझता है ॥ ८ ॥ ठहरनेवाले सुवर्ण आदि पदार्थोंका सम्बन्ध । एष नित्योऽव्ययः सूक्ष्म एष सर्वाश्रयः खडक । आत्मसायागुणैर्विश्वमात्मानं सृजति प्रभुः ॥ ९ ॥ न ह्यस्यातिप्रियः कश्चिन्नाप्रियः खः परोऽपि वा । एकः सर्वधियां द्रष्टा कृत णां गुणदोषयोः ॥ १० ॥ । कर्तृणां नादत्त आत्मा हि गुणं न दोष न क्रियाफलम् । उदासीनव दासीनः परावरडगीश्वरः ॥ ११ ॥ फटी श्रीशुक उवाच tire pic s इत्युदीर्य गतो जीवो ज्ञातयस्तस्य ते तदा । विस्मिता मुमुचुः शोकं छत्वात्मस्नेहभृङ्खलाम् ॥ १२ ॥ निर्हत्य ज्ञातयो ‘ज्ञातेदेहं कृत्वोचिताः क्रियाः । तत्यजुर्दुस्त्यजं स्नेहं शोकमोहभयातिदम् ।। १३ ।। बालघ्न्यो व्रीडितास्तत्र बालहत्याहतप्रभाः । बालहत्याव्रतं चेरुर्ब्राह्मणैर्यन्निरूपितम् । यमुनायां महाराज स्मरन्त्यो द्विजभाषितम् ॥ स इत्थं प्रतिबुद्धात्मा चित्रकेतुर्द्विजोक्तिभिः । गृहान्धकूपान्निष्क्रान्तः सरः पङ्कादिव द्विपः ॥ कालिन्द्यां विधिवत् स्नात्वा कृतपुण्यजलक्रियः । मौनेन संयतप्राणो ब्रह्मपुत्राववन्दत ॥ केही १४ ॥ १५ ॥ १६ ॥ की १० प्रा० पा० सुकृत् । २. प्र० पा० इवासीनः । ३. प्राचीने पाठे ‘श्रीशुक उवाच पाठोनः ४. प्रा० प्रा० जन्तोदें । ४७६ श्रीमद्भागवतम् कृष्णप्रिया व्याख्या [ र ६ अ. १६ श्लो. ९-१६ ने अन्वयः – एषः नित्यः अव्ययः सूक्ष्मः एषः सर्वाश्रयः स्वहक् प्रभुः आत्ममायागुणैः आत्मानं विश्वं सृजति ॥ ९ ॥ कश्चित् अस्य अतिप्रियः न हि अप्रियः वा स्वः परः अपि न एक: गुणदोषयोः कतॄणां सर्वधियां द्रष्टा ॥ १० ॥ ॐ हि आत्मा गुणं न आदत्ते दोषं न क्रियाफलं न उदासीनवत् आसीनः परावरदृक् ईश्वरः ॥ ११ ॥ * * इति उदीर्य जीवः गत तदा तस्य ते ज्ञातयः आत्मस्नेहशृङ्खलाम् छित्त्वा विस्मिताः शोकं मुमुचुः ॥ १२ ॥ ॐ ॐ ज्ञातयः देहं निर्हत्य तथा उचिताः क्रियाः कृत्वा शोकमोहभयार्तिदम् दुस्त्यजं स्नेहं तत्यजुः ॥ १३ ॥ महाराज तत्र त्रीडिताः बालघ्न्यः बालहत्याहतप्रभाः द्विजभाषितं स्मरन्त्यः ब्राह्मणैः यत् निरूपितं बालहत्यात्रतं यमुनायां चेरुः ॥ १४ ॥ ॐ द्विजोक्तिभि: इत्थं प्रतिबुद्धात्मा सः चित्रकेतुः द्विपः सरः पङ्कात् इव गृहान्धकूपात् निष्क्रान्तः ॥ १५ ॥ कालिन्द्यां विधिवत् स्नात्वा कृतपुण्यजलक्रियः मौनेन संतयप्राणः ब्रह्मपुत्रौ अवन्दत ॥ १६ ॥ श्रीधरस्वामिविरचिता भावार्थदीपिका * जीवस्य नित्यत्वं साधयति । एष नित्यः । तत्र हेतुः अव्ययोऽपक्षयशून्यः । तत्कुतः । सूक्ष्मः जन्मादिशून्यः । तच कुतः सर्वाश्रयः जन्मादिमतो देहादेराश्रयः न तु देहादिरूपः । स्वहम् यतः स्वप्रकाशः सर्वाश्रयत्वमुपपादयति आत्मनो मायाया गुणैरात्मानमेव विश्व विश्वात्मकं सृजति " तदात्मान स्वयमकुरुत" इति श्रुतेः । उपादानकारणत्वात्सर्वाश्रय इत्यर्थः । जीवस्य वस्तुतो ब्रह्मत्वाद्ब्रह्मण एव चिच्छक्तिविशिष्टस्येश्वरत्वेन स्रष्टृत्वाज्जीवः सृजतीति वाचोयुक्तिः । यद्वा स्वकर्मद्वारा सृष्टि- निमित्तत्वेन स्रष्टृत्वं भोग्यस्य च सर्वस्य भोक्ताश्रयत्वात्सर्वाश्रयत्वं चोक्तमिति द्रष्टव्यम् ॥ ९ ॥ * * यदुक्तं ‘सुहृद्वृतः ’ ‘सुहृदो बांधवांस्तप्तान्’ इति च तत्राप्याह । न ह्यस्येति । तत्र हेतुः । एकः सुहृदादिसंगरहितः । तत्कुतः गुणदोषयोर्हिता- हितयोः कर्तॄणां मित्रादीनां याः सर्वा धियो विचित्रा बुद्धयस्तासां द्रष्टा साक्षी ॥ १० ॥ * * यच्चोक्तं ‘भुंक्ष्व भोगान् ’ इत्यादि तत्राप्याह नादत्त इति गुणं सुखं दोषं दुःखं क्रियाफलं च राज्यादिकम् । उदासीनत्वे हेतुः । परावरदृक् कारणस्य कार्यस्य च साक्षी न तु भोक्ता यतः ईश्वरः देहादिपारतंत्र्यशून्यः । अत एवंभूतस्य मम च युष्माकं च संबंधाभावाच्छोकं मा कुरुतेति वाक्यार्थः ।। ११-१३ ॥ * * द्विजभाषितमंगिरसा प्रोक्तं पुत्रादीनां दुःखहेतुत्वं स्मरंत्यः । पुत्रकामनाशून्या निर्मत्सराः सत्य इति भावः ॥ १४ ॥ * * निबिडपंकतुल्यं गृहं विहाय निष्क्रमणमतिधीरस्य तस्यैव योग्यं नान्यस्येति सदृष्टांतमाह । स इत्थमिति । सरसः पंकात् द्विपो गज इव ॥ १५ ॥ * * कृताः पुण्यजलक्रियाः पितृतर्पणाद्या येन । संयतप्राणो नियतेंद्रियः ।। १६-१७ ॥ वंशीधरकृतो भावार्थदीपिकाप्रकाशः एष प्रत्यक्षः श्रुतियुक्तिसिद्धः । पुनरुक्तिर्निर्द्धारणार्था । तंत्र नित्यत्वे तदपक्षयशून्यत्वम् । कुतो यतः सूक्ष्मः । तच जन्मादिशून्यत्वं च । आत्मानं स्वयं तज्जगद्रूपमकुरुतेति श्रुतिपदार्थः । इत्यर्थ इति । यतो वा इमानि भूतानि जायंते " इत्यादिश्रुतेरुपादानत्वं ब्रह्मण एव ‘तत्त्वमसि’ इत्यादिश्रुतेर्वस्तुतो जीवस्यापि ब्रह्मत्वात् । वाचोयुक्तिरिति कथनप्रकारः । ननु ब्रह्मणो “निरीहं निष्कलं शांतम्" इत्यादिश्रुतेर्निरीहत्वात्स्रष्टृत्वादिकं न संगच्छते इति चेत्तत्राह - यद्वेति ॥ ९ ॥ * * अस्यात्मानः । तत्रातिप्रियत्वाद्यभावे “एको देवः सर्वभूतेषु गूढः । एक एव हि भूतात्मा भूतेभूते व्यवस्थितः" इत्यादिश्रुतेद्वि- तीयाभावादेव सुहृदादयो न संपनीपर्यंत इत्यर्थः । तत् सुहृदादिसंगशून्यत्वं न हि साक्षी साक्ष्यो भवतीति भावः ।। १० ।। ** एवंभूतस्य नित्यादिरूपस्य ।। ११ ।। ज्ञातयस्तस्मिन् जन्मनि सपिंडाः । आत्मनां स्वेषाम् । तस्मिन्पुत्रे स्नेहरूपां शृंखलाम् । बिस्मता अहो अनेन सत्यमुक्तमित्येवं प्राप्ताः ॥ १२ ॥ * * ज्ञातयो ज्ञातेः सर्पिस्य तस् । ज्ञातयो ज्ञातेः सपिंडस्य तस्य बालस्य । निर्हृत्य दग्ध्वा । उचिताः क्रियाः श्राद्धादिलक्षणाः ॥ १३ ॥ * * तत्र तदा । इति भाव इति । अहो अस्माभिर्महत्पापं कृतं मात्सर्येण मात्सर्यमपि निरयहेतुरतः पुनर्नैतादृशं कर्म कार्यमित्थं विचार्य प्रायश्चित्तं चक्रुरित्याशयः ।। १४-१५ ।। * ऋ ब्रह्मपुत्रौ नारदांगिरसौ ॥ १६ ॥ अन्वितार्थप्रकाशिका एष इति । एष आत्मा नित्यः अव्ययः अपक्षयशून्यः सूक्ष्मः अव्यक्तः एष च सर्वस्य देहादेराश्रयः स्वदृक् स्वप्रकाशः प्रभुः आत्मनो मायाया गुणैः सत्त्वादिभिरात्मानमेव विश्वात्मकं सृजते सृजति । तार्ष: । “तदात्मानं स्वयमकुरुत” इति एक. ६ अ. १६ श्लो. ९-१६] अनैकव्याख्यासमलङ्कृतम् 3 श्रुतेः । उपादानं कारणत्वात्सर्वाश्रयः जीवस्य वस्तुतो ब्रह्मत्वात् ब्रह्मण एवं चिच्छक्तिविशिष्टस्येश्वरत्वेन स्रष्टृत्वात् जीवः सृजतीत्युक्तम् । यद्वा । स्वकर्मद्वारा सृष्टिनिमित्तत्वेन स्रवत्वं भोग्यस्य च सर्वभोक्त्राश्रयत्वं चोक्तम् ॥ ९ ॥ * * सुहृद्रवृत इत्युक्तं तत्राह - न हीति । अस्य कश्चिदप्यतिप्रियो न भवति नाप्यस्य कश्चिदप्रियः एवमस्य स्वः खीयः परो वा नास्ति । अयमेक । एवं सुहृदादिसङ्गरहितः गुणदोषयोर्धर्माधर्मयोर्हितयोर्वा कर्तॄणां मित्रादीनां याः सर्वा धियः विचित्रा बुद्धयस्तासां द्रष्टा साक्षी ॥ १० ॥ * * भुङ्क्ष्व भोगानित्युक्तं तत्राह - नादत्त इति । आत्मा स्वकर्मणाऽपि गुणं दोषं पुण्यं पापं च नादत्ते नच क्रियाफलं सुखदुःखादिकमादत्ते । परावरे कारणकार्ये पश्यति तथाविध ईश्वरः स्वतन्त्रोऽयम् उदासीनवदासीनः खरूपस्थ एव भवति । एवंभूतस्य मम युष्माकं च संबन्धाभावाच्छोको न कार्य इति भावः ॥ ११ ॥ इतीति । इत्येवमुदीर्य । उक्त्वा जीवो यदा गतस्तदा ते पूर्वोक्ताः चित्रकेत्वादयस्तस्य बालस्य ज्ञातयस्तद्वचनेन विस्मिताः सन्त आत्मनः स्वस्य स्नेहरूपां शृङ्खला छित्त्वा शोक मुमुचुः । निह्न त्येति । ज्ञातयः सपिण्डाः चित्रकेत्वादयः ज्ञातेः सपिण्डस्य मृतस्य बालस्य देहं निर्हत्य दुग्ध्वा तदुचिताः क्रियाः श्राद्धतर्पणादिरूपाश्च कृत्वा शोकमोहभयार्त्तिद दुस्त्यजमपि स्नेहं तत्यजुः ॥ १२ ॥। १३ ।। बालेति सार्द्धम् । हे महाराज ! बालहत्यया हतप्रभाः स्वदुष्टकर्मणा ब्रीडिताच द्विजेनाङ्गिरसा भाषितं पुत्रादीनां दुःखहेतुत्वं स्मरन्त्यः बालभ्यो विषदात्र्योऽपि ब्राह्मणैरङ्गिरआदिभिर्येन्निरूपितं निर्णीयोक्तं तत् बालहत्याया व्रतं प्रायश्चित्तं यमुनायां चेरुः कृतवत्यः ॥ १४॥ * * स इति । इत्थं द्विजोक्तिभिः नारदाङ्गिरोवाक्यैः प्रतिबुद्धो ज्ञातः आत्मा येन स अतिधीरः चित्रकेतुर्गृहान्धकूपान्निष्क्रान्तः निर्गतः यथा निबिडतमात् सरः पङ्कात् द्विपो हस्ती निःसरेत्तद्वदिति ॥ १५ ॥ * * कालि- न्धामिति । विधिवत कालिन्द्यां यमुनायां स्नात्वा कृताः पुण्याः दुरितनिवर्त्तिकाः जलक्रियाः देवर्षिपितृतर्पणाद्याः येन स मौनेन सह संयत्तप्राणो वशीकृतेन्द्रियः चित्रकेतुर्ब्रह्मपुत्रौ नारदाङ्गिरसाववन्दत विद्याग्रहणाय प्रणनाम ॥ १६ ॥ । वीरराघवव्याख्या तर्हि कीदृशं तस्य स्वरूपं ? यत्स्वरूपगतो न भवत्यनियतः पितृपुत्रत्वादिसम्बन्ध इत्यत्राह एष इति । एष जीवो नित्त्यः आद्यन्तरहितः कुतः ? अव्ययः नाशरहितः तत्कुतः ? सूक्ष्मः निरतिशयसूक्ष्मः विनाशकैरव्याप्यः निरतिशयसूक्ष्मत्वात् । विना काहिजलाग्निविषशस्त्रादयो विनाश्यं व्याप्य विनाशयन्ति अस्य तु निरतिशयसूक्ष्मतया सर्वान्तःप्रवेशन स्वभावत्वेनाव्या- प्यत्वादयव्ययः एकः ज्ञानैकाकारः “एको व्रीहिः सुसम्पन्नः” इतिवज्जात्यभिप्रायकत्वकथनं न तु जीवस्वरूपैकत्वाभिप्रायक तत्स्वरूपनानात्वस्य बहुप्रमाणप्रतिपन्नत्वात् सर्वाश्रयः सर्वेषां बुद्धीन्द्रियमनः प्राणादीनामाश्रयो धारकः स्वमात्मानं पश्यतीति स्वदृक् प्रत्यग्रूपः यद्वा स्वेनैव दृश्यत इति स्वदृक् स्वयंप्रकाशः अस्त्वीदृशं तस्य स्वरूपं किमयं स्वानर्थावहं देवमनुष्यादिशरीरं स्वयमेव सृष्ट्वा तत्र प्रविष्टोऽनर्थमनुभवति उत स्वकीयकर्मणा सृष्ठे प्रविष्टोऽनुभवतीत्यत्राह- आत्मेति, न स्वानर्थावहं शरीरं स्वयं सृजति नापि केवलं कर्म, अपि तु परः परमपुरुषः आत्मनः स्वस्य मायया तस्य गुणैः सत्त्वादिभिरात्मानं प्रत्यगात्मानं विश्व देवमनुष्यादिविश्वाकारं सृजति ॥ ९ ॥ * ननु, कौसौ परः पुरुषः यदि कश्चित्सिध्यति तर्हि सोपीदृशदेवादि- विषमसृष्टिं गर्भजन्मजरामरणाद्यनंतदुःखगर्भा कुर्वन्वैषम्यनैर्घृण्ययुक्तः संसृष्टजीवान्नातिरिच्येत ? तत्राह -नहीति । अस्य परम- पुरुषस्य कश्चिदतीव प्रीतिविषय कश्विचाप्रियः स्वीयः परकीयो वा नास्ति किंतु सर्वेषु समदृष्टिरिति भावः । तर्हि कथं विषमं सृजति ? तत्राह एक इति, गुणादोषयोः पुण्यपापयोः कर्तृणां जीवानां सर्वबुद्धिवृत्तीनां एक एव सन् द्रष्टा भवति । तस्य सामान्येन स्रष्टृत्त्वेपि देवादिवैषम्यतत्तज्जीवसंबन्धिपुण्यपापमूलकत्त्वान्न तस्य वैषम्यादिदोषप्रसक्तिरिति भावः । सर्वधियां द्रष्टेत्यनेन तस्या सर्वज्ञत्वं पुण्यपापकर्तृत्त्वं तत्फलभोक्तृत्वं चाभिप्रेतम् ॥ १० ॥ तदेवाह - नादत्त इति । आत्मा परमपुरुषो गुणदोषौ नादत्ते न स्वीकरोति गुणदोषकर्तृत्त्वमात्मनि न मन्यते अत एव क्रियाफलं सुखदुःखादिकं नादन्ते किन्तूदासीनवदासीनः उदासीनवजीवान्तरात्मतया स्थितः वत्करणेनात्यन्तोदासीनत्वमपि नास्तीत्यावेदितं गुणदोषयोस्तस्य प्रयोजक कर्तृत्त्वात्साक्षात्कर्तृत्वाभावादुदासीनत्वं तत्तत्पूर्वक कर्मवासनानुसारेण प्रयोजयितृत्वाच्चानुदासितृत्वमपि विषयभेदा- दुभयोरेकस्मिन्न विरोध इति भावः । ननु, जीवस्यापि न गुणदोषयोः साक्षात्कर्तृत्वं तस्य निष्क्रियत्वाद्देहस्यैव साक्षात्कर्तृत्वात् किन्तु देहेन्द्रियादिनियमनरूपमेव तस्य कर्तृत्वम् एव प्रयोजयितृत्वं जीवपरयोरुभयोरप्यवशिष्टमिति कथमन्यतरस्य क्रियाफलोपादानमन्यतरस्य नेति विभागस्तत्राह परावरहगीश्वर इति स्वयमीश्वरो जीवप्रभृति देहेन्द्रियमनःप्राणपर्यन्तानां नियन्ता सन् परावरदृक् परं प्रकृतिपुरुषाभ्यां विलक्षणं स्वस्वरूपमपरं जीवस्वरूपं प्रकृतिस्वरूपं च एतत्त्रितयं यथावत्पश्यतीति परावर जीवस्तु कर्मणा तिरोहितस्वभावः प्रकृतिमेवात्मानं मत्वा तद्गतं कर्तृत्वं साक्षात्स्वस्मिन्मनुत इति स क्रियाफलभोक्ता भवति परमात्मा तु नित्यासङ्कुचिता परिच्छिन्नानुभूत्या स्वपरयाथात्म्यवित्वाद्देहात्मभ्रमाभावेन क्रियाफलभोक्तेतिभावः । नहीत्या- दिलोकद्वयं जीव परतयापि वर्णयितुं शक्यं तथा हि, पूर्वप्रस्तुतं जीवस्वरूपमेव विशोधयति-नहीति, अस्य जीवस्य स्वतः प्रियाप्रियों ॥ * हैं श्रीमद्भागवतम् [ स्कं. ६ अ. १६ श्लो. ९-१६ न भवतः अपि तु कर्मकृतावित्यर्थः तथा स्वपरविभागोपि न । एकः एकरूपः ज्ञानैकाकारः देहगतविकारैरस्पृष्टत्वेन सवैकरूप इति वा गुणदोषयोः कर्तॄणां हेतुभूतानां सर्वधियां दृष्ट्रा आश्रयः नादत्त इति विवेकज्ञानवान् आत्मा गुणदोषान्वयं नाभिमन्यत इत्यर्थः । ईश्वरः देहादिनियमनपरः परावरद्दकू स्वस्वरूपप्रकृतिस्वरूपयोर्द्रष्टेत्युक्तवानाविष्टो जीवः ॥ ११ ॥ * तत उपरितनं वृत्तान्तमाह मुनिः - इतीति । इतीत्यमुदीर्योक्त्वा पुनर्जीव कलेवराद्विनिष्क्रम्य गतः तस्य मृतस्य ये ज्ञातयः ते तथा विस्मृतास्सन्तः आत्मनां स्वेषां यः पुत्रादिविषयकः स्नेहः स एव शृङ्खला तां छित्वाऽपोहा शोकं मुमुचुः ॥ १२ ॥ * ततो ज्ञातयः तं शवममौ निर्हृत्य दग्ध्वा उचिताः मृतोद्देशेन कर्तव्याः क्रियाः कृत्वा शोकमोहादिप्रदं दुस्त्यजं स्नेहमनुरागं तत्यजुः ॥ १३ ॥ * ततो बालघ्न्यः याः गरलदानेन बाळं इतवत्यः तास्सर्वाः द्विजेनाङ्गिरसा भाषितं स्मरन्त्यो व्रीडिताः लज्जिताः बालहत्यया हताः प्रभाः यासां ताः, यद्बालहत्याव्रतं बालहत्यापनोदकं व्रतं ब्राह्मणैर्निरूपितं कर्त्तव्यत्वेन चोदितं तद्यमुनायां हे महाराज, चेरुरनुष्ठितवत्यः ॥ १४ ॥ * * ततः स चित्रकेतुः इत्थं द्विजोक्तिभिरङ्गिरस उक्तिभिः जीवेन संवादिताभिर्नारदोक्तिभिश्च प्रतिबुद्धः उदितः आत्मविवेको यस्य तादृशः सरसः पङ्कागज इव गृहमेवान्धकूपस्तस्माद्वि- निष्क्रान्तः निर्गतः ॥ १५ ॥ * * कालिन्द्यां यमुनायां विध्युक्तप्रकारेण स्नात्वा कृताः पुण्याः जलक्रियाः पितृतर्पणादयो येन तादृशः मौनेन परमात्मस्वरूपसंशीलनेन हेत्वर्थे तृतीया मौनार्थ संयवप्राणः नियमितान्तर्बाह्येन्द्रियः इतरैः सम्भाषण- राहित्यरूपेण मौनेन वाः ब्रह्मपुत्रौ नारदाङ्गिरसौ अबन्दत दण्डवन्ननाम || १६॥ ॥ ॥ ४ ॥ विजयध्वजतीर्थकृता पदरत्नावली ॥ Na ननु, तर्हि क्रेन सहास्य नित्यसम्बन्ध: ? इति तत्राह - एष इति । य आत्ममायागुणैः स्वाधीनप्रकृतिगुणैर्विश्वं परावरं जगत्सृजति, आत्मानं चावताररूपेण व्यनक्ति स एष सर्वाश्रयः सर्वैर्नित्यसम्बद्ध इत्यन्वयः । अनित्यत्वात्कथं घटत इत्यत उक्तं नित्य इति, कोऽर्थ इत्यतो व्यय इति अनेन नित्यशब्दो व्याख्यातः अनुपलब्धौ हेतुमाह-सूक्ष्म इति, न चायं जीववद्बहुत्व- संख्योपेत इत्याह-एक इति । मुख्यत एकत्वसंख्या विशिष्ट इत्यर्थः । सृष्टौ प्रवर्त्तमानस्य सृज्यसम्बन्धेन ज्ञानलोपो नासीत्याह- स्वदृगिति, स्वरूपभूतज्ञानस्यापि प्रबलप्रतिबन्धकेनाभिभवः कि न स्यादित्यत आह- प्रभुरिति, अनेन हरिणा नित्यसम्बन्धः पित्रादिभिरनित्य इति ज्ञापितम् “अनित्यसम्बन्धयुताः पित्राद्या नित्ययुग्धरिः” इति वचनात् ॥ ९ ॥ * * एवंविधस्य हरेर्योग्यतातिरेकेण न कावपि प्रियाप्रियोस्त इत्याह-न हीवि । कुतोऽतिप्रियाद्यभावः ? इति तत्राह सर्वेति, गुणदोषयोः कर्तॄणां पुरुषाणां स्त्रीणाञ्च सर्वासां धियां कुशलाकुशलसाक्षित्वेन तद्नुसारेण फलदातृत्वादतिप्रियाद्यभाव इत्यर्थः । द्वितीय सद्भावे तद्भया- त्कस्मिंश्चिदतिप्रियत्वादि संभवति न हि हरेस्तादृशोस्तीत्यभिप्रेत्याह एक इति ॥ १० ॥ * साक्षित्वं स्पष्टयति-नेति । आत्मा परमात्मा कथं गुणानादानं हरेः “पाइगिक जिति षड्गुणेश” इत्युक्तेरत उक्तं हीति । हि शब्दों हेतौ गुणोपभोगेन लोकववृद्धयभावो गुणानादानस्यार्थो न तु सर्वात्मनाऽभोक्तृत्वं तथात्वे “भोक्ता सद्गुणभोक्तृत्वान्न भोक्ता तदवृद्धितः । अचिन्त्यशक्तितस्तच युज्यते परमेशितुः” इति स्मृतिविरोधः स्फुट: उदासीन इव सर्वस्मादुत्तमत्वेन स्थित, एवं भोक्तृत्वाभोत्ले लोकविरुद्धे हरेः कथं घटेते इत्यत उक्तमीश्वर इति परावरक्त्वमृषीणामप्यस्तीत्यत उक्तमुदासीन इति । तद्वस्तुषु बाह्याभ्यन्तर- वृत्त्या तिष्ठन्नेव परावरदृगित्यर्थः ॥ ११ ॥ * ** ज्ञातयस्तस्मिन् जन्मनि सपिण्डाः आत्मनां स्वेषां तस्मिन्पुत्रे स्नेहाख्य- श्रृंखलां छित्वा ॥ १२ ॥ * * ज्ञातेः सपिण्डस्य तस्य देहं निर्हृत्य दुवोचिताः क्रियाः श्राद्धादिलक्षणाः ।। १३-१४ ॥ तत्र चित्रकेतुः किं चकारेति तत्राह । स स इत्थमिति ।। १५ ।। वा: पुण्यजलैः क्रियास्तर्पणादिलक्षणाः येन स तथा ॥ १६ ॥ जीवगोस्वामिकृतः क्रमसन्दर्भ: clips STATE TIRESEISTELE ISTEIOVESE DRY TREADD-IFIES PRIar तदेवं जीवस्य पारतन्त्रधमुक्त्वा तत्सिद्धपर्थ परमपि दर्शयति– एष इति त्रिभिः, एष प्रत्यक्ष एव श्रुतियुक्तिसिद्धः परमेश्वरः पुनरुक्तिर्निर्द्धारणार्या सूक्ष्मो दुर्ज्ञेयः ॥ ९-१० 11 कै कै आत्मा परमात्मा ॥ ११-१३ ॥ बालन् इति सार्द्धकम् ।। १४-१५॥ ER FE भ विश्वनाथत्वकवतिकृता सारार्थदर्शिनी Prelimpseries क एवं जीवस्य पारतन्त्र्यादनैश्वर्याच्च ततोऽन्यः कश्चित् स्वतन्त्रः ईश्वरोऽस्तीति प्रतीयते से एष क्रीश इत्यपेक्षायामाइ एष इति । जीवस्य मायया आवरणादपरोक्षस्यापि परोक्षायमाणत्वात् बच्छन्दस्यत्वमुकम्। ईश्वरस्य मायया अनावरणात प्रयोक्तुरङ्गिरसोपि जीवन्मुक्तत्वेना विद्यावर पाराहित्यादपरोक्षत्वेनैतद्रवाच्या मुख्यतः पुत्रः इति, तत्र नित्यत्वमभ्यय६ अ. १६ लो. ९-१६] अनेकव्याख्या समलङ्कृतम् ४७९ सूक्ष्मत्वमिति साधारणधर्मत्रयमीश्वरस्य, पारतन्त्र्यमनैश्वर्यमिति स्वसाधारणधर्मद्वयं जीवस्य पूर्वमेव व्यञ्जितम् ईश्वरस्याप्यसा- धारणान सर्वाश्रयत्वादीन् धर्मान् वक्तु पुनरत्येतच्छब्दमुपन्यस्यति एवं इति । आत्मशक्तिमयत्वादात्मानम् ॥ ९ ॥ * जीवस्य बन्धुज्ञात्यरिमध्यस्थादयः अज्ञाननिबन्धा न त्वीश्वरस्येत्याह न ह्यस्येति । यत्तु भक्तोऽतिप्रियः स्वश्व भक्तद्वेषी अप्रियः परः शत्रुश्च इति तच “समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः । ये भजन्ति च मां भक्तथा मयि ते तेषु चाप्यहम्” इति । “तानहं द्विषतः क्रूरान् संसारेषु नराधमान्” इति गीतो तेवै तवत्सलत्य भूषणमेव न तु दूषणं किञ्च जीवा बहवः ईश्वरस्त्वेक एवं गुणदोषयोर्हिताहितयोः कर्तॄणां मित्रादीनां याः सर्वधियः विचित्रा बुद्धयस्तासां द्रष्टा साक्षी ॥ १० ॥ जीवो हि मित्रामित्रयोर्गुणदोषौ गृह्णाति यतः क्रियाफल सुख दुःखख भुक्त ईश्वरस्तु नैवेत्याह–नादत्त इति । अत एव उदासीनवत् सर्वान्तर्यामित्वेनासीनः परावरे भद्राभद्रे साक्षित्वेन पश्यतीति सः उदासीन इवेत्यरिमित्रादिप्रतियोग्युदासीनस्तु नैवेत्यर्थः । अत ईश्वरमायानिबद्धानामेषां चित्रकेत्वादीनां महदनुमहमूलामीश्वरप्रपत्ति विना शोकमोहादिमयोऽयं संसारो दुस्तरे एवेति किं मया बहुवक्तव्यमिति प्रकरणार्थ: ।। ११-१३ । * बालहत्याहतप्रभा इति हतप्रभत्वेनैव लक्षणेन बालदयः एता एवेति यदा सर्वे विदिततत्त्वास्तदा त्रीडितास्ताः सत्यं वयमेव पामर्यो बालमहम्मेति वचसा निष्कपटोभूयाङ्गिरःप्रभृति ब्राह्मणोपदिष्टं प्रायश्चित्तमाचेरुः ।। १४-२६ ॥ कु T ELE शुकदेवकृतः सिद्धांतप्रदीप: ननु, योनिशब्द निर्दिष्टः संसारः केन सृष्टः यत्र प्रविष्टो जीवः पण्यवत् पुनःपुनः पारवश्यं प्राप्नोतीत्यत्र परमात्मा- नमाह - एष इति त्रिभि सर्वाचेतनपदार्थांश्रयः आत्ममायागुणैः स्वप्रकृतिगुणैः आत्मानमेव आत्मशक्तिपरिणामात् विश्व सृजति " तदात्मानं स्वयमकुरुत इतिश्रुतेः ॥ ९ ॥ सर्वेषां ब्रह्मादिमत्कुणान्तानां जीवानां धियां गुणदोषयोश्च द्रष्टा ।। १७-११ ।। 8 विस्मिताः सन्तः आत्मनः सेहश्रृंखलां छित्वा शोकं मुमुचुः ॥ १२ ॥ || स्नेहं तत्यजुः ॥ १३ ॥ गीच दुस्त्यजमपि ॐ द्विजभाषितं पुत्रादीनां दुःखहेतुत्वमङ्गिरसा प्रोक्तं स्मरन्त्यः ब्रीडितास्सत्य: यमुनायां यमुनातीरे बालहत्यायाः व्रतं प्रायश्चितं चेरुः इति सार्द्धश्लोकान्वयः ॥ १४ ॥ सरःपंकात्सरसः कर्दमात् द्विपो गज इव ।। १५ ।। * * कृताः पुण्यजले पुण्यप्रदे कालिन्दीजले किया आचमनतर्पणाद्या येन सः संयता वशीकृताः प्राणा इन्द्रियाणि येन सः ॥ १६ ॥ FIE THE BIFIFIER गोस्वामिगिरिधरलालविहिता बालप्रबोधिनी हकीकी ने क प्रफ यस्यायमंशः स कीदृश इत्यपेक्षायामाह - एष इति । एष भगवान् नित्यः । तत्र हेतुमाह-अव्यय इति स्वरूपतों ज्ञानादिगुणतश्वापक्षयशून्य इत्यर्थः । न च तच्छरणप्रपत्ति विना संसारदुःखनिवृत्तिः सर्वाधारत्वादित्याशयेनाह - एष सर्वाश्रय इति । तत्र हेतुमाह आत्मेति । स्वशक्तिरूपमायागुणैः सत्त्वादिभिरात्मानमेव विश्वात्मकं सृजते सृजति । तर्हि स कुतो न दृश्यते तत्राह—सूक्ष्म इति । ननु तस्य सर्वजगदुपादानत्वे जडत्वापत्तिरित्याशङ्कयाह – स्वद्दगिति, स्वयं प्रकाश इत्यर्थः । नन्विदमपि कथं सम्भवति जडोपादानस्य जडत्वनियम दर्शनादित्याशङ्कयाह – प्रभुरिति । अचिन्त्यानन्तशक्तिमत्त्वेन सर्वथा समर्थत्वात्, अतएव संसारदुःखनिवर्त्तकत्वमपि तस्यैवेत्यर्थः ॥ ९॥ * * ननु सर्वसमर्थोऽपि यः स्वस्याति- प्रियस्तस्यैवानुमहणेन दुःखनिवारणं कुर्यादित्याशङ्कयाह-न हीति । अस्य भगवतः कश्चिदप्यतिप्रियो न ह्यस्ति । अतिशब्दः ‘समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः । ये भजन्ति च मां भक्त्या मयि ते तेषु चाप्यह’ इत्यादिवाक्यात् कल्पतरुस्वभाव- तया यद्यपि भजनानुसारेण भक्ता एव प्रिया भवन्ति तथाप्यस्य न वैषम्यमिति सूचनार्थः । नाप्यस्य कश्चिदप्रियः । तत्र हेतुमाह- स्वः परोऽपि वेति, लोके हि यः स्वकीयत्वेनाभिमतो भवति स प्रियो भवति यश्च परः शत्रुरित्यभिमतो भवति सोऽप्रियो द्वेष्यो भवति, भगवतश्च स्वपरयोरभावात्प्रियाप्रियौ न स्त इत्यर्थः । तत्रापि हेतुमाह - एक इति । सर्वकारणतया सर्वात्मा । नह्येवम्भूतस्य स्वपरव्यवहारः सम्भवतीति भावः । नन्वेवम्भूतस्यापि भगवतस्ततत्पुरुषभजनादिक्रियाज्ञानमेव कथं येन तत्तत्फलदातृत्वं स्यादित्याशङ्कचाह—– सर्वेति । गुणदोषयोर्धर्माधर्मयोः कर्त्तृणां याः सर्वा धियो विचित्रा बुद्धयस्तासां द्रष्टा साक्षीत्यर्थः ॥ १० ॥ ननु तर्हि ‘अब्रुवन्विब्रुवन्नज्ञो नरः किल्बिषमश्नुते’ इति वाक्याद्धर्मादिसाक्षिणोऽपि धर्मादिप्रसङ्गः स्वादित्याशङ्कयाह- नादत्त इति । हीत्यवधारणे। आत्मा सर्वसाक्षी भगवान् स्वकर्मणापि गुणं पुण्यं दोषं पापं च नादत्ते, नच क्रियाफलं सुखदुःखादिकमादत्ते । परकर्मसाक्षित्वमात्रेण तस्य गुणदोषप्रसङ्गस्तु दुरापास्त इत्यर्थः । तर्हि जीवस्य तत्प्रसङ्गः कुतस्तत्राह – उदासीनवदासीन इति, जीवस्याविद्यया देहादी अहम्ममाभ्यासवत्त्वाद्धर्मादिप्रसङ्गः भगवतस्त्वविद्यासम्बन्धाभावेन अभ्यासाभावादुदासीनस्य न तत्प्रसङ्ग इत्यर्थः ॥ तत्र हेतुमाह - पराचरहमिति । परं कारणमवरं कार्यं तत्पश्यतीति तथा । ४५० ॥ : श्रीमद्भागवतम् * [ स्कं.: ६ अ. १६ लो. ९-१६ सर्वज्ञस्याज्ञानाभावादिति भावः । अतएव ईश्वरः इत्यर्थः ॥ ११ ॥ इत्येवमुदीर्य उक्त्वा जीवो यदा गतस्तदा ते पूर्वोक्ताश्चित्रकेत्वादयस्तस्य बालस्य ज्ञातयस्तद्वचनेन विस्मिताः सन्त आत्मनः स्वस्य स्नेहरूपां शृङ्खलां छित्त्वा शोकं मुमुचुरित्यन्वयः ॥ १२ ॥ * * ज्ञातयः सपिण्डाः चित्रकेत्वादय ज्ञातेः सपिण्डस्य मृतस्य बालस्य देहं निर्हृत्य दग्ध्वा तदुचिताः क्रियाः श्राद्धतर्पणादिरूपाश्च कृत्वा शोकादिप्रदं दुस्त्यजमपि तत्स्नेहं तत्यजुरित्यन्वयः । शोकोऽनुतापः । मोहो मूर्च्छा कर्त्तव्याकर्त्तव्यानुसन्धानेन भ्रमो वा । भयं प्रसिद्धम् । आर्तिः दैन्यम् । स्नेहे सत्येव लोके शोकादयो भवन्ति यत्र स्नेहो नास्ति तत्र तेऽपि न भवन्तीति प्रसिद्धेः स्नेहस्य शोकादिहेतुत्वं ज्ञेयम् ॥ १३ ॥ * * हे महाराज तत्र तदा बालघ्न्यो विष- । ॥ प्रदायोऽपि ब्राह्मणैरनिराआदिभिर्यन्निरूपितं निर्णीयोक्तं तत् बालहत्त्याया व्रतं प्रायश्चित्तं यमुनायां चेरुः कृतवत्य इत्यन्वयः । एताभिरेव विषदानं कृतमिति ज्ञानं कथं जातं तत्राह - बालहत्याहतप्रभाः स्वदुष्टकर्मणा व्रीडिताश्चेति । निर्लज्जानां दुष्टानां लज्जापि कथं जाता । हतप्रभत्वादिना बालमारकत्वेन ज्ञाता अपि कथं तदङ्गीकृत्य प्रायश्चित्तं कृतवत्य इत्याकाङ्क्षायामाह - स्मरन्त्यो द्विजभाषितमिति । द्विजेन अङ्गिरसा पुत्रादीनां यद्दुःखहेतुत्वं भाषितं तत्स्मरणेन पुत्रकामनामत्सरादेर्निवृत्तत्वा- लज्जिताः परलोके यमयातनादिदुः खाद्भीताश्च उभयलोकविशुद्ध चर्थ प्रायश्चित्तं कृतवत्य इत्यर्थः । सम्बोधनं तु यथा भवान् द्विजापराधाद्भीतो विशुद्ध द्यर्थमत्रागतोऽसीति सूचनार्थम् ॥ १४ ॥ * ततश्च चित्रकेतुः किं कृतवानित्यपेक्षायामाह - स इति । स चित्रकेतुर्गृहान्धकूपान्निष्क्रान्तः निर्गत इत्यन्वयः । कूपस्यान्धत्वं जलशून्यत्वम् । यथान्धकूपे पतितस्य शिरस्स्फोट- नादिना दुःखानुभवः एव, न तु जललाभोऽपि तथा गृहे पतितस्य प्रतिक्षणं दुःखानुभव एव सुखं त्वाभासमात्रमिति सूचनाय गृहस्यान्धकूपत्वमुक्तम् । ततो निस्सरणस्य दुर्घटत्वं कूपोक्तत्या सूचितमपि तत्र सावधानतया प्रयत्नाधिक्ययाऽतिदुर्घटत्वं दर्शयन् दृष्टान्तान्तरमाह - सरः पङ्कात् द्विपो हस्ती यथा निस्सरेत् तद्वदिति । ततो निस्सरणं तु महदनुग्रहेणैव नान्यथेत्याह- इत्थं द्विजोक्तिभिः नारदाङ्गिरोवाक्यैः प्रतिबुद्धः ज्ञातः आत्मा जीवः स्वरूपं भगवत्स्वरूपं च येन सः ।। १५ ।। * * विधिवद्दन्तधावनप्रणाम मृदालेपादिपूर्वकं कालिन्द्यां श्रीयमुनायां स्नात्वा कृताः पुण्याः दुरितनिवर्तिकाः जलक्रियाः देवर्षिपितृ- तर्पणाचा येन सः । मौनेन सह संयतप्राणो वशीकृतेन्द्रियः चित्रकेतुर्ब्रह्मपुत्रौ नारदाङ्गिरसाववन्दत विद्याग्रहणाय प्रणनामेत्यन्वयः ।। १६ ॥ * भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी । * 惊 ง जीवस्वरूपं निरूपयंस्तस्य नित्यत्वं साधयति । एष इति । एष जीवः नित्य आद्यन्तरहितः । कुतः । अव्ययः नाश- रहितः, तत् कुतः । सूक्ष्मः विनाशकैरव्याप्यः, निरतिशयसूक्ष्मत्वात् । विनाशका हि जलाग्निविषशस्त्रादयो विनाश्यं व्याप्य विनाशयन्त्यस्य तु निरतिशयसूक्ष्मतया सर्वान्तःप्रवेशनस्वभावत्वेन युक्तत्वादव्यय इति भावः । एकः ज्ञानैकाकारः, ‘एको व्रीहिः सुसंपन्न’ इतिवज्जात्यभिप्रायमेकत्वकथनं न तु जीवस्वरूपैकत्वाभिप्रायकं तदीयस्वरूपनानात्वस्य बहुप्रमाणप्रतिपन्नत्वात् । सर्वाश्रयः सर्वेषां बुद्धीन्द्रियमनःप्राणादीनां धारकः । स्वमात्मानं पश्यतीति स्वदृक् प्रत्यग्रूपः । यद्वा स्वेनैव दृश्यत इति खटकू स्वदृक् स्वयं प्रकाशः । अस्त्वीदृशं तस्य स्वरूपं किमयं स्वानर्थावहं देवमनुष्यादिशरीरं स्वयमेव सृष्ट्वा तत्र प्रविष्टोऽनर्थमनुभवति । उत स्वकीय कर्मणा सृष्टं तत्प्रविष्टोऽनुभवति इत्यत्राहात्मेति । परः परमपुरुषः, आत्ममायागुणैः स्वस्य मायायाः सत्त्वादिभिर्गुणः, आत्मानं प्रत्यगात्मानं प्रति, विश्वं देवमनुष्यादिविश्वाकारं सृजति । न स्वानर्थावहं शरीरं स्वयम् आत्मा सृजति, नापि केवलं कर्म अपि तु परमात्मा एव सृजतीत्यर्थः ॥ ९ ॥ ननु कोऽसौ परः पुरुषः यदि कश्चित् कथंचित् स सिद्धयति तर्हि सोऽपि जन्ममरणाद्यनन्तदुःखगर्भामीदृशीं देवादिविषमसृष्टि सृजन वैषम्यनैर्घृण्ययुक्तः संसृष्टजीवान्नातिरिच्येत तत्राह । न हीति । अस्य परमपुरुषस्य कश्चित् अतिप्रियः अतीव प्रीतिविषयः, अप्रियश्व, न, स्वः, स्वीयः परः परकीयः वाऽपि न हि अस्ति । किंतु स सर्वेषु समदृष्टिरस्तीति भावः । तर्हि कथं विषमं सृजतीत्यत्राह । एक इति । गुणदोषयोः पुण्यपापयोः कर्त्तृणां । । जीवानां सर्वधियां सर्वबुद्धिवृत्तीनाम्, एकः एव सन्, द्रष्टा भवति । तस्य सामान्येन स्रष्टृत्वेऽपि देवादिवैषम्यस्य तत्तज्जीवसंबन्धि- पुण्यपापमूलकत्वान्न तस्य वैषम्यादिदोषप्रसक्तिरिति भावः ।। १० ।। * ननु ‘एष ह्येव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषते एष वाऽसाधु कर्म कारयति तं यमधो निनीषत’ इति श्रुतेः । स एव पुण्यपापकर्म कारयिता तत् तत्फल- भोगप्रदाता च, तत् कथं नैर्घेण्यादिवर्जित इत्युच्यते तत्राह । नेति । आत्मा परमपुरुषः, गुणं न आदत्ते । दोषं न आदते । । । क्रियाफलं नादत्ते । किं तु सः उदासीनवत्, आसीनः उदासीनवज्जीवान्तरात्मतयाऽऽसीनः । परावरदृक जीवकृतशुभा- शुभफलयोः साक्षी सन, प्रदाता अस्ति । हि यतः ईश्वर:, ईश्वरतया तत्कर्मफलं जीवमनुभावयन्, स्वयं निर्लेपत्वाद्दोषवर्जित एव भवति । कथं तर्हि श्रुतितात्पर्यार्थ इति चेत् यथा राज्ञा तद्वयावहारिकज्ञानानुकूलार्पिताधिकारो जनः, सदसज्जनसेवना- नुगुणं तत्प्रसन्नताम प्रसन्नतां च प्राप्नोति, तथा नारायणेन तत्तत्कर्मानुगुणदत्तकरणकलेवरो जीवात्मा सदस देशकाल - ॐ । एकं ६ अ. १६ श्लो. १७-२४ ] अनेकव्याख्यासमलंकृतम् ४५१ संसेवनानुगुणमिह परत्र च सुखदुःखादिकमुञ्चावचगतिं च प्राप्नोति । तस्य राजदत्ताधिकारत्वात्तत्कृतं कर्म राजकृतमिति लोका वदन्ति । तथा जीववर्गस्य नारायणार्पितकरणकलेवरत्वादेशकालानुगुणं तत्कृतं कर्म नारायणकृतमिति शास्त्राणि वदन्ति । इत्थंभूतायामुक्तौ सत्यामपि येन यत् कर्म कृतं तत्फलं तस्यैवास्ति न तु तत्स्वामिनः इति श्रुतितात्पर्यार्थः । न हीत्यादिश्लोक- द्वयं जीauraarपि वर्णयितुं शक्यमेवास्ति । तथा हि । न हीति । अस्य जीवस्य, कश्चित् अतिप्रियः न हि । अप्रियश्व, न, स्वः परो वा न, एक: ज्ञानकाकारः देहगतविकारैरस्पृष्टत्वेन सदैकरूप इति वा । गुणदोषयोः कर्तृणां हेतुभूतानां सर्वधियां द्रष्टा आश्रयः नादत्त इति । आत्मा हि गुणं न आदत्ते । दोषं नादत्ते । क्रियाफलं नादत्ते । विवेकी आत्मा गुणदोषान्वयं नाभि- मन्यते इत्यर्थः । ईश्वरः देहादिनियमनपरः, उदासीनवत् आसीनः सन्न्रपि, …
- Sugins ॥ ११ ॥ * * तस्तिनं वृत्तान्त कू स्वस्वरूपप्रकृतिस्वरूपयोर्द्रष्टा, इत्येवं कुमारशरीराविष्टो जीव उक्तवानिति शेषः ॥ ११ ॥ तदुपरितनं वृत्तान्तमाह मुनिः । इतीति । इतीत्थं, उदीर्योक्तत्वा, जीवः गतः कलेवरात् निष्क्रम्य प्रयातः । ततः परं तस्य मृतबालस्य, ये ज्ञातयः, ते तदा विस्मिताः सन्तः, आत्मनां स्वेषां यः स्नेहः पुत्रादिविषयक : प्रेमा, स एव शृङ्खला निगडस्तां, छित्त्वा अपोह्य, शोकं मुमुचुः ॥ २ ॥ * निर्हृत्येति । ततः ज्ञातयः, देहं शवं, निर्हृत्य अग्नौ दग्ध्वा ज्ञातेः उचिताः मृतोद्देशेन कर्त्तव्याः क्रियाः कृत्वा, शोकमोहभयार्त्तिदं दुस्त्यजं स्नेहमनुरागं तत्यजुः ॥ १३ ॥ * * अथ बालघ्नीभिः कृतद्युतेः सपत्नीभिर्यत् कृतं तदाह । बालघ्न्य इति । ततः तत्र तासु स्त्रीषु मध्ये, बालदन्यः या गरदानेन बाल हतवत्यस्ताः सर्वाः द्विजभाषितमङ्गिरसा कथितं पुत्रादीनां दुःखहेतुत्वं, स्मरन्त्यः त्रीडिता लज्जिताः, बालहत्यया हता प्रभा यासां ताः, एवंविधाः सत्यः, ब्राह्मणैः निरूपितं कर्त्तव्यत्वेन बोधितं यत् बालहत्या- व्रतं तत् यमुनाया है महाराज, चेरुः । सम्यगनुष्ठितवत्यः ॥ १४ ॥ इदानीं चित्रकेतोर्गृहादिभ्यो वैराग्यं भगवतो नारदाद्विद्याप्राप्ति चाह स इत्याद्येकादशभिः । स इति । ततः सः चित्रकेतुः इत्थमुक्तप्रकारेण, द्विजोक्तिभिः अङ्गिरस उक्तिभि- र्नारदोक्तिभिः, नारदसंवादितजीवोक्तिभिश्चेत्यर्थः । प्रतिबुद्ध उदित आत्मा आत्मविवेको यस्य स तादृशः सन् सरः पङ्कात् महासरोवरमध्यगतकर्द्दमात्, द्विपः गजः इव, गृह एवान्धकूपस्तस्मात् विनिष्क्रान्तः निर्गतः ।। १५ ।। * कालिन्द्या- मिति । कालिन्द्यां यमुनायां विधिवद्यथाविधि, स्नात्वा आप्लुत्य, कृताः पुण्याः जलक्रियाः पितृतर्पणादयो येन तादृशः सन्, मौनेन परमात्मस्वरूप संशीलनेन हेतुना, इतरैः संभाषणरहितत्वरूपेण वा, संयतप्राणः नियमिताऽन्तर्बाह्येन्द्रियः सन् ब्रह्मपुत्रौ नारदाङ्गिरसौ, अवन्दत दण्डवन्ननाम ॥ १६ ॥ A ४ * " भाषानुवादः *% ॐ 14 यह जीव नित्य, अविनाशी, सूक्ष्म ( जन्मादिरहित), सबका आश्रय और स्वयंप्रकाश है। इसमें स्वरूपतः जन्म-मृत्यु आदि कुछ भी नहीं है। फिर भी यह ईश्वररूप होनेके कारण अपनी मायाके गुणोंसे ही अपने-आपको विश्वके रूपमें प्रकट कर देता है ॥ ६ ॥ इसका न तो कोई अत्यन्त प्रिय है और न अप्रिय, न अपना और न पराया । क्योंकि गुण दोष ( हित-अहित ) करनेवाले मित्र शत्रु आदिकी भिन्न-भिन्न बुद्धि वृत्तियों का यह अकेला ही साक्षी है; वास्तवमें यह अद्वितीय है ।। १० ।। यह आत्मा कार्य-कारणका साक्षी और स्वतन्त्र है। इसलिये यह शरीर आदिके गुण-दोष अथवा कर्मफलको ग्रहण नहीं करता, सदा उदासीनभावसे स्थित रहता है ।। ११ । श्रीशुकदेवजी कहते हैं- वह जीवात्मा इस प्रकार कहकर चला गया। उसके सगे-सम्बन्धी उसकी बात सुनकर अत्यन्त विस्मित हुए । उनका स्नेह- बन्धन कट गया और उसके मरनेका शोक भी जाता रहा ।। १२ ।। * * इसके बाद जातिवालोंने बालककी मृत देहको ले जाकर तत्कालोचित संस्कार और और्ध्वदेहिक क्रियाएँ पूर्ण कीं और उस दुस्त्यज स्नेहको छोड़ दिया, जिसके कारण शोक, मोह, भय और दुःख की प्राप्ति होती है ॥ १३ ॥ * * परीक्षित्! जिन रानियोंने बच्चेको विष दिया था, वे बालहत्या के कारण श्रीहीन हो गयी थीं और लज्जाके मारे आँखतक नहीं उठा सकती थीं । उन्होंने अङ्गिरा ऋषिके उपदेशको याद करके ( मात्सर्यहीन हो ) यमुनाजीके तटपर ब्राह्मणों के आदेशानुसार बालहत्याका प्रायश्चित्त किया ॥ १४ ॥ * * परीक्षित ! इस प्रकार अङ्गिरा और नारदजीके उपदेशसे विवेकबुद्धि जाग्रत् हो जानेके कारण राजा चित्रकेतु घर-गृहस्थीके अँधेरे कुएँसे उसी प्रकार बाहर निकल पड़े, जैसे कोई हाथी तालाबके कीचड़से निकल आये ॥ १५ ॥ उन्होंने यमुनाजी में विधिपूर्वक स्नान करके तर्पण आदि धार्मिक क्रियाएँ कीं । तदनन्तर संयतेन्द्रिय और मौन होकर उन्होंने देवर्षि नारद और महर्षि अङ्गिरा के चरणों की वन्दना की ॥ १६ ॥
T अथ तस्मै प्रपन्नाय भक्ताय प्रयतात्मने । भगवान्नारदः प्रीतो विद्यामेतामुवाच ह ॥ १७ ॥ ॐ नमस्तुभ्यं भगवते वासुदेवाय धीमहि । प्रद्युम्नायानिरुद्धाय नमः सङ्कर्षणाय च ॥ १८ ॥ ६१ ४८२ श्रीमद्भागवतम् fe १९ ॥ [ स्कं. ६ अ. १६. लो. १७-२४ नमो विज्ञानमात्राय परमानन्दमूर्तये । आत्मारामाय शान्ताय निवृत्तद्वैतदृष्टये ॥ आत्मानन्दानुभूत्यैव न्यस्तशक्त्यूर्मये नमः । हृषीकेशाय महते नमस्ते विश्वमूर्तये ॥ २० ॥ वचस्युपरतेऽप्राप्य य एको मनसा सह । अनामरूपश्चिन्मात्रः सोऽव्यान्नः सदसत्परः ।। २१ ।। यस्मिन्निदं यतचेदं तिष्ठत्यप्येति जायते । मृण्मयेष्विव मृजातिस्तस्मै ते ब्रह्मणे नमः ॥ २२ ॥ ॥ यन्न स्पृशन्ति न विदुर्मनोबुद्धीन्द्रियासवः । अन्तर्बहिश्च विततं व्योमवतन्त्रतोऽस्म्यहम् ॥ २३ ॥ देहेन्द्रियप्राणमनोधियोऽमी यदंशविद्धाः प्रचरन्ति कर्मसु । अन्वयः — । नैवान्यदा लोहमिवाप्रतप्तं स्थानेषु तद् द्रष्टुपदेशमेति ॥ २४ ॥ शामें कृष्णप्रिया व्याख्या- Cote me f अथ भगवान् नारदः प्रीतः प्रपन्नाय प्रयतात्मने तस्मै भक्ताय एतां विद्याम् उवाच ६ ॥ १७ ॥ * * ह ॐ भगवते तुभ्यं नमः वासुदेवाय प्रद्युम्नाय अनिरुद्धाय च संकर्षणाय नमः धीमहि ॥ १८ ॥ * * विज्ञानमात्राय परमानंदमूर्तये आत्मारामाय शांताय निवृत्तद्वैतदृष्टये नमः ॥ १९ ॥ आत्मानन्दानुभूत्या एव न्यस्तशक्त्यूर्मये नमः विश्वमूर्तये महते हृषीकेशाय ते नमः ।। २० ।। * यः एकः मनसा सह वचसि अप्राप्य उपरते अनामरूपः चिन्मात्रः सदसत्परः सः नः अव्यात् ॥ २१ ॥ मृन्मयेषु मृञ्जातिः इव यस्मिन् इदं तिष्ठति च अप्येति इदं यतः जायते तस्मै ब्रह्मणे ते नमः ॥ २२ ॥ * * मनोबुद्धीन्द्रियासवः यत् न स्पृशन्ति च न विदुः व्योमबत् अंतः बहिः विततं तं अहं नतः अस्मि ॥ २३ ॥ * * अभी देहेन्द्रियप्राणमनोधियः यदशविद्धाः कर्मसु प्रचरन्ति अन्यदा अप्रतप्तं लोहम् इव न एव तत् स्थानेषु द्रष्टपदेशम् एति ॥ २४ ॥ T
श्रीधरस्वामिविरचिता भावार्थदीपिका नमो धीमहि ध्यायेम मनसा नमस्याम इत्यर्थः ॥ १८ ॥ * * निवृत्ता द्वैतदृष्टिर्यस्मात् ॥ १६ ॥ * न्यस्ता निरस्ताः शक्त्यूर्मयो मायानिमित्ता रागद्वेषादयो येन ।। २० ।। * * मनसा सह वचस्यप्राप्योपरते सति य एक एव प्रकाशते । वचसीति सर्वेद्रियोपलक्षणम् । सोऽस्मानव्यात्सदसत्परः कार्यकारणयोः कारणम् ।। २१ ।। * * तदेवाह । यस्मिन्निति । यस्मिन्निदं कार्यकारणं तिष्ठति अप्येति प्रलीयते च यतश्च जायते मृन्मयेषु घटादिषु मृज्जातिर्मृन्मात्रमिव सर्वानुस्यूतं यत्तस्मै ।। २२ ।। * * ननु सर्वांनुस्यूतं चेन्मृज्ज्ञातिवत्प्रतीयेत कथं मनोवचसोरप्राप्तिस्तत्राह । यद्ब्रह्म व्योमवद्विततमपि असवः प्राणाः क्रियाशक्त्या न स्पृशंति मनआदीनि च ज्ञानशक्त्या न विदुः तद्ब्रह्म नतोऽस्मि ।। २३ ।। * * तेषां तदज्ञाने हेतुमाह देहेंद्रियादयोऽमी विकाराः यदशविद्धा यश्चैतन्यांशेनाविष्टाः संतः कर्मसु स्वस्वविषयेषु प्रचरंति जाग्रत्स्वप्नयो- रन्यदा सुषुप्तिमूर्च्छाद नैव प्रचरंति यथा अप्रतप्तं लोहं न दहति । अतो यथा लोहमनिशक्त्यैव दाहकं सदग्निं विना न दहति एवं ब्रह्मगतज्ञानक्रियाशक्तिभ्यां प्रवर्तमाना देहादयस्तन्न स्पृशंति न विदुश्चेति भावः । जीवस्तर्हि द्रष्टृत्वात् जानातु नेत्याह । स्थानेषु जाप्रदादिषु द्रष्टपदेशं द्रष्टसंज्ञां तदेवैति प्राप्नोति । नान्यो जीवो नामास्ति । “नान्योऽतोऽस्ति द्रष्टा” इत्यादिश्रुतेः । यद्वा द्रष्टपदेशं द्रष्टृसंज्ञं जीवमपि तदेवैति जानाति । न तु जीवस्तज्जानातीत्यर्थः । तदुक्तं हंसगुह्य तोत्रे । “देहोऽसवोऽक्षा " इत्यादि ।। २४ ।। वंशीधरकृतो भावार्थदीपिकाप्रकाशः
1 एतां वक्ष्यमाणाम् ॥ १७ ॥ इत्यर्थ इति । मनसा नतिरेव ध्यानमिति भावः । संकर्षणस्यांत पाठस्तू- पास्यत्वेन तत्रैव विश्रांतेः ॥ १८ ॥ विज्ञानमेव विज्ञानमात्रं तस्मै विज्ञानरूपाय यस्मिन्दृष्टे नान्यन्न दृष्टिः संभवतीति भावः । द्वैते दृष्टिर्येषां ते द्वैतदृष्टयो निवृत्ता द्वैतदृष्टयो यस्मात्तस्मै । अद्वैतनिष्ठैः प्राप्यायेति वा । यद्वा-निवृत्तद्वैतानां दृष्टिर्य- स्मिंस्तस्मै निवृत्तद्वैतेषु दृष्टिर्यस्य तस्मै वा “यदा पुमांस्त्यक्तसमस्तकर्मा निवेदितात्मा विचिकीर्षितो मे” इत्येकादशे श्रीमुखोक्तेः । निवृत्तद्वैता दृष्टिर्यस्य तस्मादिति वा ‘समोहं सर्वभूतेषु’
-
- यद्वा न्यस्ता शक्तिर्माया “यतो वाचो निवर्त्तते तदेव सर्वकारणत्वमेव । तीर्थस्तु - “जातिः कर्मयोऽशनादयो वा “योऽशनायापिपासे सवभूतषु’ इति श्रीगीतोक्तेः ॥ १९ ॥ शोक जरां मृत्युमत्येति” इति श्रुतेः ॥ २० ॥ ॥ ॥ ।। ।। । अप्राप्य मनसा सह” इति श्रुतिमर्थतः पठति वचसीति ॥ २१ ॥ स्कं, ६ अ. १६ श्लो. १७-२४ ] अनेकव्याख्यासमलङ्कृतम्
४८३ सामान्यजन्मनोः” इत्यभिधानात् मृदो जातिर्जन्म यस्य वृक्षादेस्स तथा यथा वृक्षादिराशिमृण्मयेषु मृद्विकारेषु पृथिवीपर्वतादिषु तिष्ठत्यप्येति तेभ्यो जायते तथेत्याह ॥ २१ ॥ अत्राक्षिपति - नन्विति ॥ २३ ॥ * तेषां मन आदीनाम् । तदज्ञाने ब्रह्माज्ञाने । आविष्टा लब्धसामर्थ्याः । दृष्टांतमाह-यथेति । इति स्व-इति भाव इति । स्वस्य ज्ञानेन परो ज्ञायते न परस्य ज्ञानेन परो ज्ञायते यथा ब्रह्मगतमेव ज्ञानं स्वावेशादिंद्रियादीन्प्रकाशयति न तु जड़ा इंद्रियादयस्तत्प्रकाशका इत्याशयः । अत्राशंकते - जीवस्तति । तदेव ब्रह्मैव । अत्र जीवस्य ब्रह्मभिन्नस्यासत्त्वे प्रमाणमाह- नान्य इति । अतो ब्रह्मणोऽन्यो भिन्नो जीवो द्रष्टा नास्तीति श्रुत्यर्थ: । जीवस्य जडपक्षपातित्वात्तज्ज्ञानं न संभवतीत्याह – यद्वेति । इत्यर्थ इति । जीवस्याविद्याकार्य- बुद्धिप्रतिबिंबत्वेन जडत्वतज्ज्ञानासंभव इति भावः । अत्र प्रमाणमाह-तद्भक्तमिति ॥ २४ ॥ ॥ * 7 अन्वितार्थप्रकाशिका । अथेति । अथ प्रीतों भगवान् नारदः प्रपन्नाय भक्ताय प्रयतात्मने । बशीकृतचित्ताय तस्मै एतामुच्यमानां विद्यामुवाच ॥ १७ ॥ नम इति । नमो धीमहि नमस्कुर्मो ध्यायेम च वासुदेवादीनां चित्तबुद्धिमनोऽहङ्कारेषु उपास्यत्वम् । स्पष्टं शेषम् ॥ १८ ॥ * * नम इति । निवृत्ता द्वैतदृष्टिर्यस्मात्तस्मै । स्पष्टं शेषम् ॥ १९ ॥ * * * आत्मेति । आत्मनः स्वस्य स्वरूपभूतानन्दस्यानुभवेनैव न्यस्ताः निरस्ताः शक्त्यूर्मयः मायानिमित्ता रागद्वेषादयो येन तस्मै नमः । स्पष्टं शेषम् ।। २० ।। वचसीति । मनसा सह वचसि वचआदीन्द्रियेषु उपरतेषु सत्सु यः अनामरूपः चिन्मात्रः सदसतः कार्यकारणयोः कारणम् । एकः यः प्राप्यो भवति स नोऽस्मान् अव्यात् संसारभयाद्रक्षतु ।। २१ ।। * यस्मिन्निति । इदं कार्यकारणात्मकं विश्वं यतो जायते जातं च यस्मिन् तिष्ठति अप्येति लीयते च मृन्मयेषु घटादिषु मृज्जाति- मृन्मात्रमिव यत्सर्वानुस्यूतं तस्मै ते ब्रह्मणे नमः ॥ २२ ॥ यदिति । यद्ब्रह्म व्योमवन्निर्लेपतया अन्तर्बहिश्च विततं व्याप्तमपि असवः प्राणाः कर्मेन्द्रियाणि क्रियाशक्त्या न स्पृशन्ति मनोबुद्धिः ज्ञानेन्द्रियाणि च ज्ञानशक्तत्या विदुस्तदहं नतोऽस्मि ॥ २३ ॥ * देहेति । अमी देहादयो यदशविद्धाः यस्य चैतन्यांशेनाविष्टाः सन्तः जाग्रति स्वप्ने च कर्मसु स्वस्वविषयेषु प्रचरन्ति अन्यदा सुषुप्तिमूर्च्छादौ तु तदंशभेदाभावात्तथा नैव प्रचरन्ति यथा अप्रतप्तं लोहं न दहति । अतो यथा लोह मित्तयैव दाहकं सदमिं विना न दहति एवं ब्रह्मगतज्ञानक्रियाशक्तिभ्यां प्रवर्त्तमाना देहादयस्तन्न स्पृशन्ति न विदुश्चेति भावः । जीवस्तर्हि द्रष्टृत्वाज्जानातु नेत्याह । स्थानेषु जाग्रदादिषु द्रष्ट्रप्रदेशं द्रष्टृसंज्ञां तदैवैति प्राप्नोति । " नान्यो जीवो । नामास्ति नान्योऽतोऽस्ति द्रष्टा” इत्यादिश्रुतेः । द्रष्ट्रप्रदेशं द्रष्टृसंज्ञं जीवमपि तदेव एति जानाति न तु जीवस्तज्जा- नातीत्यर्थः ॥ २४ ॥ वीरराघवव्याख्या ततस्तस्मै प्रपन्नाय यथाविधि गुरूपसत्तिं कृत्वा स्थिताय भक्ताय गुरुभक्तियुक्ताय प्रयतात्मने श्रवणादियुक्तप्रयत- * मनस्काय भगवान्नारदः प्रीतः शिष्यलक्षणैर्हर्षितः एतां वक्ष्यमाणां विद्यां मन्त्रोपनिषदमुवाचोपदिदेश ॥ १७ ॥ * * नारदेनोपदिष्टां विद्यामेवाह - नम इत्यादिना, परमेष्ठिनमस्त इत्यन्तेन । तावत्सकलेतरविलक्षणं परमात्मानं विशोध्य प्रणमति वासुदेवादिचतुर्व्यूहात्मनावस्थिताय तस्मै तुभ्यं भगवते नमः एवंभूतं त्वां धीमहि ध्यायेमहि ॥ १८ ॥ * विज्ञान- मात्राय कचिदपि जाड्यरहिताय निरतिशयानन्दस्वरूपाय आत्मारामायात्मन्येव रममाणाय सुखान्तरनिरपेक्षायेत्यर्थः । शान्ताय रागादिरहिताय निवृत्तद्वैतसृष्टये सृष्टिरुदयः निवृत्ता द्वैतसृष्टिः जात्यादिकल्पना यस्य तस्मै जात्यादि कल्पनारहितायेत्यर्थः । निवृत्तद्वैतदृष्ट्य इति पाठे निवृत्ता द्वैतदृष्टिः स्थूलत्वाणुत्वादिभेददर्शनं यस्मिन् तथा च श्रूयते “अस्थूलमनण्वह्रस्वम दीर्घमगोत्र- मचतुःश्रोत्रं तदपाणिपादम्” इत्यादि। एवंभूताय भगवते षड्गुणपूर्णाय नम इत्यर्थः ॥ १९ ॥ स्वात्मानन्दानुभवेनैव न्यस्ताः शक्त्या खबलेन ऊर्मयः अशनायापिपासाशोकमोहजरामरणरूपाः षडूर्मयो यस्य तस्मै हृषीकाणामिन्द्रियाणां तदधिपतेश्व ईशाय नियन्त्रे करणाधिपायेत्यर्थः । महते स्वरूपेण गुणैश्च निरतिशयबृहते विविधविचित्रानन्तशक्तये तुभ्यं नमः ।। २० ।। एवं नमनं विधायाथ तस्मात्स्वरक्षां प्रार्थयते - वचसीति । मनसा सह वचसि उपरते निवृत्ते सत्यवधेरभावाद्वाङ्मनसयोर्निवृत्त- यस्तोः यः प्राप्यः अपरिच्छिन्नतया अनुसन्धेयः अतएवैकः निःसमाभ्यधिकः प्राप्येत्यविभक्तिकपाठे अप्राप्येति छेदः तदा मनसा सहाप्राप्यावधिं वचस्युपरते सति यः अपरिच्छिन्नानन्दरूप इति शेषः । वाङ्मनसापरिच्छेद्यापरिच्छिन्नानन्दरूप इत्यर्थः । चिन्मात्रः ज्ञानैकाकार; अत एवैकः निःसमाभ्यधिकः कर्मकृतनामरूपरहितः सदसत्परः चेतनाचेतनाभ्यां विलक्षणः सः प्रसिद्धः भगवान्नोऽस्मान् रक्षतु अत्र प्रतिपदमुपनिषदर्था अभिप्रेताः विज्ञानमात्राय परमानन्दमूर्त्तय इत्यनेन “विज्ञानमानन्द ब्रह्म” इति श्रुत्यर्थः । आत्मारामा मेत्यनेन “सर्वेश्वर्यसम्पन्नः शम्भुराकाशमध्यगः” इति निवृत्तद्वैतदृष्ट्ये इत्यनेन अनामरूपश्वेत्यनेन ४८४ श्रीमद्भागवतम्
7 [[ स्कं. ६ अ. १६ हो. १७-२४ च “अस्थूलमनगु” इति आत्मानन्देत्यादिना “योऽशनाया पिपासे शोकमोहौ जरामृत्यू अत्येति” इति हृषीकेशायेत्यनेन “सकारणं करणाधिपाधिपः” इति महत इत्यनेन “सत्यं ज्ञानमनन्तं ब्रह्म” इति अनन्तशक्तय इत्यनेन “परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च” इति वचस्युपरत इत्यादिना “यतो वाचो निवर्त्तन्ते अप्राप्य मनसा सह आनन्दं ब्रह्मण:" इति एक इत्यनेन “न तस्य कार्य करणं च विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते” इति सदसत्पर इत्यनेन “भोक्ता भोग्यं प्रेरितारं च मत्वा, क्षरात्मा नावीशते देव एकः, योव्यक्तमन्तरे सञ्चरन्यस्याव्यक्तं शरीर, योक्षरमन्तरे सञ्चरन्यस्याक्षरं शरीरम्” इति श्रुत्यर्था अभिप्रेताः ॥ २१ ॥ एवं सकलेतरविलक्षणमौपनिषदं ब्रह्म विशोध्य प्रणम्य ततः स्वानिष्टनिवृत्तिं प्रार्थ्य अथ तदेव ब्रह्म जगज्जन्मादिकारणत्वेनोपलक्ष्य प्रणमति यस्मिन्निति । सदसत्पर इत्यस्योदाहृतश्रुत्यर्थप्रत्यभिज्ञापकतया उक्त- विधस्वरूपस्य परस्य ब्रह्मणश्चिदचिच्छरीरकत्वप्रत्यभिज्ञापितोपनिषद्भिरेव प्रतिपन्नमित्यभिप्रेत्य चिदचिद्विशिष्टस्य जगत्कारणत्व- लक्षणमत्रोच्यते, इदं स्थूलचिदचिदात्मकं जगत् यतः सूक्ष्मचिदचिद्विशिष्टाद्ब्रह्मणो जायते यस्मिन्नप्येति लीयते यस्मिन्नुक्तविधे ब्रह्मस्वरूपे तिष्ठति आधेयतया वर्त्तते “ब्रह्म बनं ब्रह्म सवृक्ष आसीद्यतो द्यावापृथिवीनिष्टत्तनुः” इति श्रुत्युक्तरीत्या आधारोपि ब्रह्मैवेति भावः । तत्र दृष्टान्तः मृणमयेष्विव मृज्जातिरिति मृजातिशब्दो मृज्जातीयपरः यथा मृण्मयेषु मृज्जातीयघटशरावादिकारण- भूतेषु मृद्विकाररूपमृत्पिण्डेषु सृजातीयो घटादिर्जायते अपादानस्याधिकरणत्वविवक्षया सप्तमी मृण्मयेभ्यो यथा मृज्जातिर्जायत `इत्यर्थः । यद्वा मृण्मयेष्विति निमित्तसप्तमी निमित्तमत्रोपादानकारणं तथा च मृण्मयेभ्यो मृत्पिण्डेभ्य उपादानभूतेभ्यो मृज्जातीय- घटादिर्जायत इत्यर्थः, अथवा मृण्मयेष्विति पदमेव मृद्विकारघटादिपरं मृज्जातिर्मृत्पिण्डः मृण्मयेषु घटादिषु कारणतयाऽनुस्यूतः अथवा यस्मिन्नधितिष्ठतीत्यत्रैव दृष्टान्तः मृण्मयेषु घटादिषु मृज्जाति मृत्त्वमधितिष्ठति अपृथक्सिद्धप्रकारतया वर्त्तते तद्वदिदं विश्वं चिदचिदात्मकमपृथक सिद्धप्रकारतया यस्मिन्वर्त्तते तस्मै ब्रह्मणे नमः अत्रापि “यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत्प्रयान्ति” इत्यादिश्रुत्यर्थोऽनुसन्धेयः ॥ २२ ॥ एवं प्रतिपदमौपनिषदर्थ प्रत्यभिज्ञापनेन उप- निषदैकगम्यं परं ब्रह्मेति सूचितं तदेव दृढीकन्तु तदिवरप्रमाणाविषयत्वं वदन्प्रणमति - यमिति । " अन्तर्बहिश्च तत्सर्व व्याप्य नारायणः स्थितः” इति श्रुत्युक्तरीत्या कृत्स्नं जगदन्तर्बहिश्च विततं व्याप्य स्थितमपि व्योम व्योमशरीरकम् “आकाशशरीरं ब्रह्म” इति श्रुतेः यं मनोबुद्धीन्द्रियासवो न स्पृशन्ति न विदुः तत्र कर्मेन्द्रियाण्यसवः प्राणाश्च क्रियाशक्तिप्रधाना न स्पृशन्ति न विषयीकुर्वन्ति मनश्च बुद्धिश्च चक्षुरादीनि ज्ञानेन्द्रियाणि च यं न विदुरित्यन्त्रयः । बुद्धीन्द्रियाद्यविषयत्वेन तन्मूलकप्रत्यक्षादि- प्रमाणाविषयमिति भावः । अतीन्द्रियत्वे हेतुः व्योमेति । व्योमशरीरकत्वेन तदन्तः प्रवेशयोग्यतया ततोषि सूक्ष्मत्वादिन्द्रियाविषय- मिति भावः । तद्ब्रह्म त्वामहं नतोऽस्मि ||२३|| * * किन मन आदयः तदाहितज्ञानक्क्रियादिशक्तिमत्वेन तीन विषयीकुर्वन्तीति सदृष्टान्तमाह – देहेति । अमी देहेन्द्रियादयः यदंशविद्धाः यस्य “परास्य शक्तिर्विविधैव श्रूयते स्वाभाविका ज्ञानबलक्रिया च” इत्युक्तज्ञानक्रियादिशक्तिमतो ब्रह्मणोऽशेन ज्ञानक्रियादिशक्तिलेशेन अनुविद्धाः व्याप्ताः कर्मसु स्वस्वव्यापारेषु प्रचरन्ति प्रवर्तन्ते अन्यथा यदंशेनानुविद्धास्तु न प्रचरन्ति तेषामचेतनपरिणामरूपत्वेन वस्तुतो ज्ञानशक्तिविरहादिति भावः तत्र दृष्टान्तः लोहमिति । यथा प्रतप्तं लोहं दहति दाहकशक्तिनामिनानुविद्धमेव लोहमितरहहदण्यनि दहति अभिनानुविद्धन्तु इतरदपि न दहति * तद्वत्परमात्मनि आहितज्ञानक्रियाशक्कयो देहेन्द्रियादयः स्वस्वविषयेषु प्रचरन्ति न परमात्मनि अनाहितशक्तयस्तु स्वस्वकर्मस्वपि न प्रचरन्तीत्यर्थः । नन्विन्द्रियाणि स्वतो ज्ञानशक्तिविरहात्तं मा विषयीकुर्वन्तु जीवस्तु स्वभावतो ज्ञानशक्तिमत्त्वात्तं विद्यादि- · यत्राह स्थानेष्विति, तत्तेन जीवोपि स्थानेषु द्रष्टृपदेशमेति दृष्टृत्वव्यपदेशमेति गच्छति ईश्वरसङ्कल्पादेव जीवस्य ज्ञानविकास इत्यर्थः ॥ २४ ॥ 1 विजयध्वजतीर्थकृता पदरत्नावली * यथा ལྕ अथ तयोर्ब्रह्मपुत्रयोर्मध्ये नारदः हेत्यनेनाधिकारगुणसम्पन्नस्य विद्योतफलं साकल्येन फलतीति ध्वनयति ।। १७ ।। चित्तसन्निहितं सम्बोध्य तुभ्यं नम इति वक्ति भगवत इत्यादिविशेषणानि गुणसामग्रीद्योतकानि सम्भवमूद्यानि ॥ १६ ॥ ।। ।। ॥ नित्यं निवृत्ता द्वैतदृष्टिः स्वावतारादौ भेददर्शनं येन स तथा तस्मै निवृत्तद्वैतवृत्तये इति पाठे निवृत्तेन द्वैतेनान्यथाज्ञानेन वृत्तिर्वर्तनं यस्य स तथा तस्मै नित्यनिवृत्तदेहाद्यहं ममाभिमानायेत्यर्थः ।। १९ ।। सम्यक् त्यक्ताः बडूर्मयो यस्येति तस्मै । यद्वा अशनायादिषडूर्मिरहिताय “योशनाया पिपासे शोक मोह जरा मृत्युमत्येति” इति श्रुतेः ॥ २०॥ मन्त्रमुपदिशन्ध्यानप्रकारमाह । वचसीति, बाह्यमनसा सह वचस्युपरते नष्टे चिन्मात्रमनसा सह प्राप्यः सदसत्परः स्थूलसूक्ष्म- प्रपञ्चविलक्षणः ।। २१ ।। अलौकिकवस्तुनो लक्षणमन्तरेण तज्ज्ञानं दुःसाध्यमिति तल्लक्षणमाह यस्मिन्निति । इदं जगद्यस्मिंस्तिष्ठत्यप्येति च यतश्च जायते अत्र दृष्टान्तमाह- मृण्मयेष्विति “जाति: सामान्यजन्मनोः” इत्यभिधानात् । मृदो जातिर्जन्म वृक्षादेः स तथा यथा वृक्षादिराशिर्मृण्मयेषुः मृद्विकारेषु पृथिवीपर्वतादिषु तिष्ठत्यप्येति तेभ्यो जायते च तदा स्कं. ६ अ १६ लो. १७-२४ १७-२४] अनैकव्याख्यासमलङ्कृतम् मृज्जातिर्मृत्त्वं मृण्मयेषु घटादिष्विवानुगतमित्यर्थो ब्रह्मणो बहुत्वाभावात् “एकमेवाद्वितीयम्” इति श्रुतेः “पृथिवी पर्वताव मृण्मयाः समुदीरिताः । तेषु मृज्जातयः सर्वे जायन्ते स्थावरादयः” । इत्यनेन विरुद्धत्वाच्चानुपपन्नः ॥ २२ ॥ * ।। ।। मनोबुद्धीन्द्रियासवः मनआदिशब्दवाच्याः रुद्रादयो देवाः || २३ || भगवदनुग्रह भावाभावौ तद्विषयकज्ञानाज्ञानकारण- मित्युक्तं तत्स्पष्टमाह — देहेति । यस्य हरेरंशैर्विद्धाः प्रेरिता देहेन्द्रियाद्यभिमानिनो देवा ज्ञानादिकर्मसु प्रचरन्ति प्रवर्तन्ते अन्यदा यदशप्रेरणाभावे नैव प्रवर्तन्त इत्यन्वयः । कथमिव प्रतप्तमन्तर्निहितवह्निसामर्थ्याल्लोहं दाहकारणं प्रवर्तते अप्रतप्तं न हि अहं तद्ब्रह्म शरणमेमि कीदृशं ? देहेन्द्रियादिस्थानेषु स्थितं द्रष्टृपदेशं साक्षिनाम ।। २४-२८ ।। H PHIS PRTIE PITRES जीवगोस्वामिकृतः क्रमसन्दभः तत्र श्रीभगवत्वेन नमस्यति—भगवत इति । तद्व्यूहत्वेन वासुदेवायेति सङ्कर्षणस्यान्ते पाठः स्वोपास्यत्वेन तत्रैव विश्रान्तेः ।। १८ ।। * * ब्रह्मत्वेन नमस्यति - विज्ञानमात्रायेति । अत्र मूर्तिः स्वरूपं निवृत्तद्वैतदृष्टय इति यस्मिन दृष्टे अन्यत्र दृष्टिर्न भवतीत्यर्थः । तच्चानिवृत्तद्वैतवादतो विशिष्य दर्शयति, आत्मानन्देति । स्वरूपानन्दस्यानुभवेनान्यस्ताः नानुसंहिताः शक्तचन्तरपरम्परा येन तस्मै अनुभवस्य नभवस्य स्वरूपाभिन्नत्वेपि तृतीयार्थाधिक्यात् स्वरूपशक्तिरेव सिध्यति, परमात्मत्वेन नमस्यति - हृषीकेशायेति, विश्वकारणत्वेन महत इति, विश्वत्वेनानन्तमूर्त्तय इति ।। १९-२० ।। * * पुनर्भगवन्तं ब्रह्मस्वरूपत्वेन विशेषतः स्तौति - वचसीति द्वाभ्याम् ।। २१-२२ ।। परमात्मत्वेन स्तौति - यन्नेति द्वाभ्याम् ॥ २३ ॥ * * देहेन्द्रिय इति । अत्राद्वैतशारीरकेऽपि सांख्यमाक्षिप्योक्तं यथा, अथ पुनः साक्षिनिमित्त- मीक्षितृत्वं प्रधानस्य कल्पेत यथाग्निनिमित्तमयःपिण्डादेर्दग्वृत्वं, तथा सति यन्निमित्तमीक्षितृत्वं प्रधानस्य तदेव सर्व्वज्ञ मुख्यं जगतः कारणमिति । श्रुतिश्चात्र " तदेव भान्तमनुभाति सर्व्वम् । कोह्येवान्यात् कः प्राण्यात् यदेष आकाश आनन्दो न स्यात् । चक्षुषश्चक्षुरुत श्रोत्रस्य श्रोत्रम्” इत्याद्या इति । टीकोत्थापितश्रुतौ च जीवो नामतो नान्यः स्वयं सिद्धो नास्ति परन्तु तदात्मक एवेत्यर्थः । तथातोऽन्यो द्रष्टा नास्ति सर्व्वद्रष्टुस्तस्यापरो द्रष्टा नास्तीत्यर्थः इति व्याख्येयम् ॥ २४ ॥ विश्वनाथचक्रवतिकृता सारार्थदर्शिनी RESENT RA । एतां तु नमस्तुभ्यमित्यादि परमपरमेष्ठिन्नमस्त इत्यन्ताम् । तुभ्यं धीमहि त्वां प्रसादयितुं ध्यायेम ।। १७-१८ ।। * परमात्मत्वेन जीववैलक्षण्यमाह–नवभिर्विशेषणैः । विज्ञानं चिच्छक्तिरेव मात्रापरिच्छदो यस्य तस्मै जीवस्त्वविद्यापरिच्छद इत्यर्थः । “मात्रा कर्णविभूषायां वित्ते माने परिच्छदे” इति मेदिनी परमानन्दमयी मूर्तिर्यस्य जीवस्तु पाञ्चभौतिक मूर्तिः । आत्मानन्द एव रममाणाय । जीवस्तु विषयानन्दे रमते । निवृत्तद्वैते मायिकप्रपचे दृष्टिरासक्तिमयी यस्य जीवस्तु मायिक- प्रपश्चे आसज्जते ॥ १६ ॥ * * न्यस्ताः नितरामस्ताः शक्त्यूर्मयो मायानिमित्ता रागद्वेषादयो यत्र जीवस्तु प्राप्तराग- द्वेषादितरङ्गः । हृषीकेशाय सर्वेन्द्रियनियन्त्रे जीवस्तु इन्द्रियनियम्यः महते जीवस्तु क्षुद्रः अनन्ता अविनाश्या मूर्त्तयो यस्य जीवस्तु विनाश्यशरीरः ॥ २० ॥ निर्विशेषब्रह्मत्वेन प्रणमति वचसीति ॥ २१ ॥ * * जगत्कारणत्वेन यस्मिन्निदं जगत्तिष्ठति यतो जायते यस्मिन्नप्येति लीयते । मृण्मयेषु घटादिषु मृज्जातिः यथा कारणमित्यर्थः ।। २२ ।। * * इन्द्रियाद्यगम्यत्वेन प्रणमति - यदिति । क्रियाशक्त्या न स्पृशन्ति ज्ञानशक्त्या न विदुः । तस्य विदूरवर्तित्वादिति चेत्तत्राह, अन्तर्देहादीनामन्तरपि बहिरपि च ॥ २३ ॥ * * तेषां तदज्ञाने हेतुमाह – देहेन्द्रियेति । यदशविद्धाः यच्चैतन्यां- शेनाविष्टाः सन्तः कर्मसु स्वस्वविषयेषु चरन्ति जामत्स्वप्नयोः अन्यदा सुषुप्तिः मूर्च्छादौ नैव प्रचरन्ति यथा अग्नितप्तं लौह न दहति अतो यथा लोहमग्निशक्त चैव दाहकं सदग्निं न दहति । एवमेव ब्रह्मशक्त्यैव स्वस्वविषयेषु प्रवर्त्तमाना देहादयो ब्रह्म न स्पृशन्ति नापि जानन्तीति भावः । जीवस्तर्हि द्रष्टत्वाजानातु तत्राह-स्थानेषु, जामदादिषु द्रष्टुपदेशं द्रष्टृसंज्ञं जीवस्य द्रष्टृत्व- सिद्धयर्थं स्वीयः किञ्चिचैतन्यप्रापणेन स्वयमेव तं प्राप्नोतीत्यर्थः । मन आदय इव जीवा अपि जरा इति च केल्याचक्षते । यद्वा तद्ब्रह्मैव तम् एति जानाति न तु जीवो ब्रह्म जानातीत्यर्थः । यदुक्तं हंसगुह्य त्वे “देहोऽसवोक्षाः” इत्यादि ।। २४ ।। शुकदेवकृत: सिद्धान्तप्रदीपः । प्रयतः एकाग्रतां नीत आत्मा मनो येन तस्मै ॥ १७ ॥ * * भगवते तुभ्यं नमो धीमहि मनसा नमस्कुर्मः । वासुदेवादिमूर्तिभेदाय चे ते तुभ्यं नमः ॥ १६ ॥ * * “विज्ञानं यज्ञं तनुते" इत्यादिश्रुतिप्रसिद्धो विज्ञा नमात्राय विशिष्टं ज्ञानमेव विज्ञानमात्रं ब्रह्म तस्मै मयूरविंसकादित्वात्समासः विज्ञानैकस्वरूपाय परमानन्दमूर्तये | परमानन्दविग्रहाय ४८६ श्रीमद्भागवतम् *
[ स्कं. ६ अ. १६ श्लो. १७-२४ निवृत्ता द्वैतदृष्टिः अवदात्मकपदार्थदृष्टिर्यस्मात्तस्मै सर्वात्मने नमः ॥ १६ ॥ आत्मानन्दस्य परमात्मानन्दस्या- नुभूत्या न्यस्ताः नितरामस्ताः शक्त्यूर्मयः शक्तिभूतस्योपासकस्य जन्ममृत्युशोकमोहनुत्तुलक्षणा ऊर्मयो यस्मात्तस्मै ॥ २० ॥ इयत्तानवच्छिन्नत्वं प्राकृतनामरूपशून्यत्वञ्च भगवतो वदन् भगवान् अस्मान् अव्यादिति प्रार्थयते - वचसीति । मनसा सह वचसि अप्राप्य यस्य स्वरूपगुणादीयत्तामलब्धा उपरते यः एक एव निःसमातिशयः ध्यातृहृदि प्रकाशते इति शेषः । स नः अव्यात् कथंभूतः अनामरूप: । ‘नामरूपे व्याकरवाणि’ इति स्वविरचिते प्राकृते नामरूपे न विद्येते यस्य सः चिश्चेतनो जीवः मात्रा अंशो यस्य सचिन्मात्रश्चेतनस्वरूपमात्रो वा न तु तार्किकाद्यभिमतजडस्वरूप इत्यर्थः । सदसत्परः स्थूलसूक्ष्माभ्यां देहे देहि- स्वरूपाभ्यां परः विलक्षणः “यस्मात्क्षरमतीतोहमक्षरादपि चोत्तमः । अतोस्मि लोके वेदे च प्रथितः पुरुषोत्तमः” इति श्रीमुखगानात् ॥ २१ ॥ * * विश्वाधारत्वादिभगवद्गुणवर्णनपूर्वकं प्रणमति – यस्मिन्निति । यस्मिन्सर्वाधारे इदं विश्वं तिष्ठति यतोऽनन्तशक्तिमतः सर्वोपादानरूपात् इदं जायते । यस्त्रिप्येति लीयते एवं सर्वत्र मृण्मयेषु घटादिषु आधारतयाऽपा- दानतया प्रवेशस्थानतया मृज्जात्तिर्भूमिरिव यदस्ति तस्मै ते ब्रह्मणे नमः ।। २२ ।। * * सर्वाधारत्वादिमत्वेपि सर्व- दोषास्पष्टुं ब्रह्मेति वदन् प्रणमति-यत्र स्पृशन्तीति ॥ २३ ॥ 8 ननु, सत्यां प्राप्तौ निषेधो भवत्यतोऽचेतनान् मनआदीन् प्रति न विदुरिति निषेधः कथं संगच्छते इत्यत्र जीवज्ञानसंसर्गान्मनआद्यचेतनगणः द्रष्टृपदेशमेतीत्याह - देहेन्द्रियेति । अभी देहादयः यस्य ब्रह्मणः अंशेन एव परस्यांश: “ममैवांशो जीवलोके जीवभूतः सनातनः” इतिश्रुतिस्मृतिप्रसिद्धेन जीवेन विद्धाः आविष्टास्संतः कर्मसु स्वविषयेषु प्रचरंति चेष्टां कुर्वन्ति अन्यदा जीवसंसर्गाभावे तु न प्रचरंति तं नतोस्मीति पूर्वेणान्वयः । तत्र दृष्टान्तः यथा लोहमप्रतप्तमभिसंसर्गरहितं न दहति तद्वत् एवं हि तदचेतनं मनआदिकं वस्तुस्थानेषु विषयेषु द्रष्टृपदेशमेति प्राप्नोति एवं प्राप्तौ सत्यां न विदुरिति निषेधः सङ्गच्छते मनआदयस्त्वं स्वं विषयं जानन्ति भगवन्तं तु तत्कृपां विना न जानन्तीति भावः ॥ २४ ॥ गोस्वामिगिरिधरलाल विहिता बालप्रबोधिनी * T । अथानन्तरं प्रीतो नारदः तस्मै एतामुच्यमानां विद्यामुवाचेत्यन्वयः । विद्यादाने दानस्य फलत्वे च गुरोर्योग्यतारूपं हेतुमाह - भगवानिति, भगवदनुग्रहेण ज्ञानैश्वर्यादिमानित्यर्थः । तस्य गुरोः प्रीतौ शिष्यस्य नम्रतारूपं हेतुमाह - प्रपन्नायेति, शरणागतायेत्यर्थः । विद्याग्रहणसामर्थ्य हेतुमाह - प्रयतात्मने इति वशीकृतान्तःकरणादिसङ्घातायेत्यर्थः । विद्याग्रहणस्य फलत्वे हेतुमाह-भक्तायेति, भगवद्भक्ताय गुरुभक्ताय चेत्यर्थः । ‘यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । तस्यैते कथिता ह्यर्थाः प्रकाशन्ते ‘महात्मन’ इति वचनात् । एवं विषयासक्तस्य कोटिभार्यापतेर्मोहे निमग्नस्यापि भगवदनुग्रहेण भक्तिवैराग्यादि जातमित्याश्चर्य सूचयति - हेति ।। १७ ।। * * श्रीनारदोक्तां विद्यामेव दर्शयति-नम इत्यष्टभिः । तत्र प्रथममन्तःकरणचतुष्टयविशुद्धये चतुष्टय उपास्यं मूर्तिचतुष्टयं भगवन्तं नमस्यति - भगवते ज्ञानादिगुणपूर्णाय वासुदेवाय चित्ते उपास्याय तुभ्यं नमो धीमहि ध्यायेत्यन्वयः । एवमपि पदत्रयेऽन्वयो बोध्यः । प्रद्युम्नाय बुद्धौ उपास्याय । अनिरुद्वाय मनसि उपास्याय । सङ्कर्षणाय अहङ्कारे उपास्याय ॥ १८ ॥ ननु मम नमस्कारमात्रेण कथं तवाभीष्टसिद्धिरित्याशङक्याह - नम इति । शान्ताय ॥ । रागलोभाद्यूमिरहिताय नमः । नम इत्यस्य सर्वत्र सम्बन्धः । अन्ये तु रागादिमन्तोऽतो न तेभ्योऽभीष्टसिद्धिरिति भावः । शान्तत्वे हेतुमाह - परमानन्दमूर्त्तये इति । तथात्वेपि विषयापेक्षा चेत्कथं तदा शान्तत्वं तत्राह - आत्मारामायेति । तत्रापि हेतुमाह - निवृत्तेति । निवृत्ता द्वैते दृष्टिरहम्ममाध्यासलक्षणा यस्मात् तस्मै । तत्रापि हेतुमाह - विज्ञानमात्रायेति । अज्ञाना- बृतस्यैव द्वैताध्यासो भवति स चानावृतचैतन्यस्वरूपस्य कथं स्यादिति भावः ॥ १६ ॥ * * उक्तमेव स्पष्टयति- ।। ।। आत्मेति । आत्मनः स्वस्य स्वरूपभूतानन्दस्यानुभवेनैव न्यस्ताः शक्त्यूर्मयः मायानिमित्ता रागद्वे पादयो येन तस्मै नमः । न केवलं परमानन्दमूर्तित्वेनैव पुरुषार्थप्रापकत्वं किन्तु सर्वप्रवर्त्तकत्वेनापीत्याशयेनाह - हृषीकेशायेति । हृषीकाणीन्द्रियाणि तेषामीशाय प्रवर्त्तकायान्तर्यामिणे नमः । एवमपि देशपरिच्छिन्नत्वशङ्कानिरासायाह - महते नम इति । तथा वस्तुपरिच्छेदः स्यादिति शङ्कानिरासायाह - विश्वमूर्तये नम इति ।। २० ।। ननु यदि भगवतः सश्चिदात्मकं विश्वात्मकं स्वरूपद्वयं तदायभा विश्वं प्रतीयते तथा सच्चिदानन्दात्मकं स्वरूपं कुतो न प्रतीयते इत्याशङ्कय ‘यतो वाचो निवर्त्तन्ते अप्राप्य मनसा सह’ इत्यादि- वाक्यानुरोधेन प्राकृतमनइन्द्रियाविषयत्वेऽपि न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा । दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् ।’ ‘मनसैवानुद्रष्टव्यः’ ‘दृश्यते त्वप्रया बुद्धया’ इत्यादिवाक्यानुरोधात् स्वभक्तानां स्वकृपया सम्पादि- तदिव्येन्द्रियमनोभिः प्रतीयते एवेति तथाविधो नास्तीति नाशङ्कनीयमिति निरूपयंस्तं प्रार्थयते - बचसीति । सर्वेन्द्रियोपलक्षणं मनसा सह सर्वेन्द्रियेषु अप्राप्य उपरतेषु निवृत्तेषु सत्स्वपि यश्चिन्मात्रः उपलक्षणमेतत् - सच्चिदानन्दविग्रहः सर्वविकाररहितः कृपया प्रतीयते इति शेषः । स नोऽस्मान् अव्यात् संसारभवाद्रक्षत्वित्यन्वयः । प्राकृतेन्द्रियादिनाऽप्रतीतौ हेतुमाह-अनामरूप एकं. ६. अ. .१६ श्लो. १७-२४ ] अनेकव्याख्यासमल कृतम् इति, प्राकृतनामरूपरहित इत्यर्थः । तत्र हेतुमाह - सदसतः प्राकृतस्थूलसूक्ष्मरूपात् प्रपञ्चात् परो भिन्न इत्यर्थः । ननु कथं तस्यैव विश्वरूपत्वं तद्भिन्नत्वं च सम्भवतीति दृष्टान्तेन साधनीयं तत्राह - एक इति, द्वितीयस्य तादृशस्याभावात् को वा दृष्टान्तः स्यादित्यर्थः ॥ २१ ॥ * * इदानीं सर्वकारणत्वादिरूपेण प्रणमति यस्मिन्निति । इदं कार्यकारणात्मकं विश्वं यतो जायते, जातं च यस्मिन् तिष्ठति अप्येति लीयते च । एवं निमित्तकारणमात्रत्वं स्यादिति शङ्कानिरासाय दृष्टान्तेनोपादानत्वम- प्याह – मृन्मयेषु घटादिषु मृज्जातिर्मृन्मात्रमिव यत्सर्वानुस्यूतं तस्मै ते ब्रह्मणे वेदप्रतिपादिताय नम इत्यन्वयः ॥ २२ ॥ प्राकृतमनआद्यविषयत्वमेव स्पष्टयन्नमस्यति - यदिति । यद्ब्रह्म व्योमवन्निर्लेपतया अन्तर्बहिश्च विततं व्याप्तमपि असवः प्राणाः कर्मेन्द्रियाणि क्रियाशक्त्या न स्पृशन्ति, मनो बुद्धिः ज्ञानेन्द्रियाणि च ज्ञानशक्त्या न विदुस्तदहं नतोऽस्मीत्यन्वयः ॥ २३ ॥ तेषां तदज्ञाने को हेतुरित्याशङ्कय तत्सम्पादितसामर्थ्येन स्वस्वव्यापारे प्रवर्त्तमानानामपि तद्विषयकव्यापारे स्वतः सामर्थ्या- भावादित्याशयेनाह - देहेति । अमी देहादयो यदशविद्धाः यस्य चैतन्यांशेनाविष्टाः सन्तः जाग्रत्स्वप्नयोः कर्मसु स्वस्वविषयेषु प्रचरन्ति । अन्यदा सुषुप्तिमूर्च्छादौ तु तदंशवेधाभावात्तथा नैव प्रचरन्ति । तत्र दृष्टान्तमाह – लोहमिवेति, यथा अप्रतप्तं लोह न दहति तथेत्यर्थः । तथाच यथाऽग्निशक्त्यैव लोहं दाहक सदमिं विना न दहति तथा भगवद्दतज्ञानक्रियाशक्तिभ्यामेव प्रवर्त्तमाना देहादयस्तदुपेक्षायां तावत्वविषयानपि न स्पृशन्ति न विदुस्तत्कृपां विना तत्स्पर्शज्ञानयोस्तु सम्भावना दूरस्थितैवेति भावः । ननु देहादयो जडत्वान्न जानन्तीति युक्तं, जीवस्तु चेतनत्वात्तज्जानीयादित्याशङ्कानिरासायाह -स्थानेष्विति । जाप्रदा- दिषु स्थानेषु द्रष्टृपदेशं द्रष्टृसंज्ञं जीवमपि तदेवैति जानाति न तु जीवोऽपि तत्कृपां विना तज्ज्ञातुं शक्नोति तद्दत्तसामर्थ्य - त्वादित्यर्थः ।। २४ ।। । भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी अथेति । अथ प्रपन्नाय यथाविधि गुरूपसत्तिं कृत्वा स्थिताय, भक्ताय गुरुभक्तियुक्ताय, प्रयतात्मने भगवद्गुण- श्रवणादिषु प्रयतमनस्काय, तस्मै चित्रकेतवे, भगवान् नारदः, प्रीतः शिष्यसल्लक्षणेक्षयाऽतिहर्षितः सन् एतां वक्ष्यमाणां विद्यां मन्त्रोपनिषदं ह स्फुटं यथा तथा उवाचोपदिदेश ॥ १७ ॥ * * नारदोपदिष्टां विद्यामाह । नम इत्यादिना परमेष्ठिन्नमस्त इत्यन्तेन । नम इति । तावत् सकलेतरविलक्षणपरमात्मानं विशोध्य प्रणमति । वासुदेवाय भगवते तस्मै, तुभ्यं नमः । संकर्षणाय, प्रद्युम्नाय, अनिरुद्धाय च नमः । एवं वासुदेवादिचतुर्व्यूहात्मनाऽवस्थिताय तुभ्यं भूयो भूयो नमस्कृत्वेत्यर्थः । धीमहि उक्तविधं त्वां ध्यायेमहीत्यर्थः ॥ १८ ॥ * * नम इति । विज्ञानमात्राय स्वस्मिन् सर्वथा जाड्यरहिताय, परमानन्द- मूर्तये निरतिशयानन्दस्वरूपाय, आत्मारामाय स्वात्मन्येव रममाणाय, सुखान्तरनिरपेक्षायेत्यर्थः । शान्ताय रागादिरहिताय निवृत्ता द्वैतदृष्टिः स्थूलत्वाणुत्वादिभेददर्शनं यस्मिंस्तस्मै, ‘अस्थूलमनणु’ इत्यादिश्रुतेः । पाठान्तरे निवृत्ता द्वैतसृष्टिर्जात्यादि कल्पना यस्य तस्मै, जात्यादिकल्पनारहितायेत्यर्थः । तुभ्यं नमः ।। १९ ।। आत्मेति । आत्मनो य आनन्द स्तस्यानुभूतिरनुभवस्तया स्वात्मानन्दानुभवेनैवेत्यर्थः । न्यस्ता निरस्ताः शक्त्या मायाया ऊर्मयोऽशनापिपासाशोकमोहजरामरणरूपाः यस्य तस्मै, ते तुभ्यं नमः । न्यस्ता निरस्ताः शक्त्यूर्मयो मायानिमित्ता रागद्वेषादयो येन तस्मा इति वा । हृषीकाणामिन्द्रियाणां तदधिपदेवानाम- पीशतस्मै, ‘करणाधिपाधिप’ इति श्रुतेः । महते स्वरूपेण गुणैश्च निरतिशयबृहते, अनन्ताः शक्तयो यस्य तस्मै च नमः ॥ २० ॥ एवं नमनं विधायाथ तस्मात् स्वरक्षां प्रार्थयते । वचसीति । मनसा सह, वचसि उपरते निवृत्ते सति, अवधेरभावात् वाङ्मन- सयोर्निवृत्तयोः सतोरित्यर्थः । प्राप्यः अपरिच्छिन्नतयाऽनुसंधेयः । अत एव एकः निःसमाभ्यधिकः, अनामरूपः कर्मकृतनाम- रूपरहितः, चिन्मात्रो ज्ञानैकाकारः, सदसत्परः चेतनाचेतनाभ्यां विलक्षणः यः, भगवान्, सः नोऽस्मान् अव्यात् रक्षतु ।। २१ ।। * एवं सकलेतरविलक्षणमौपनिषदं ब्रह्म विशोध्य प्रणम्य ततः स्वानिष्टनिवृत्तिं प्रार्थ्याथ तदेव ब्रह्म जगज्जन्मादिकारणत्वेनोपलक्ष्य प्रणमति । यस्मिन्निति । इदं स्थूलचिदचिदात्मकं जगत् यतः सूक्ष्मचिदचिद्विशिष्टाद्ब्रह्मणः, । । जायते । इदं यस्मिन्नुक्तविधे ब्रह्मणि, तिष्ठति आधेयतया वर्त्तते । अप्येति लीयते च । अत्र दृष्टान्तः । मृन्मयेषु मृज्जातिः इव । अपादानस्याधिकरणत्वविवक्षया सप्तमी । मृत्पिण्डेभ्यो यथा घटशरावादिरूपा मृज्जातिर्जायते तथेत्यर्थः । यद्वा । मृन्मयेषु घटादिषु, मृज्जातिरिव मृज्जातिमत्त्वं यथाऽधितिष्ठति अपृथसिद्धप्रकारतया वर्त्तते, तद्वश्चिदचिदात्मकमिदं विश्वमपृथसिद्ध- विशेषणतया यस्मिन् वर्त्तते । ब्रह्मणे ब्रह्मरूपाय तस्मै श्रुतिप्रसिद्धाय, ते तुभ्यं नमः ‘यतो वा इमानि भूतानि’ इति श्रुत्यर्थोऽनेन बोधितः ।। २२ ।। * एवमुपनिषदैकगम्यं परं ब्रह्मेति यत् सूचितं तदेव दृढीकन्तु तदितरप्रमाणाविषयत्वं वदन् प्रणमति । यमिति । अन्तर्बहिश्च तत् सर्व व्याप्य नारायणः स्थितः’ इति श्रुत्युक्तरीत्या, ब्रह्म कृत्स्नं जगदिति शेषः । अन्तः बहिश्च विततं व्याप्यावस्थितमपि, व्योमवत् आकाशवन्निर्लेपमेव, अस्ति । अत एव यं ब्रह्मरूपं भगवन्तं मनोबुद्धीन्द्रियासब:, न स्पृशन्ति । न विदुश्च । तत्र कर्मेन्द्रियाण्यसवश्च क्रियाशक्तिप्रधानाः सन्तोऽपि यं न विषयीकुर्वन्ति । मनोबुद्धिज्ञानेन्द्रियाणि I .: ४ श्रीमद्भागवतम् [ स्कं. ६ अ. १६ लो. २५-३२ चयं न विदुरित्यर्थः । बुद्धीन्द्रियाद्यविषयत्वेन तन्मूलकप्रत्यक्षप्रमाणाविषयमिति भावः । त्वामेवंभूतब्रह्मस्वरूपं भवन्तमित्यर्थः । अहं नतः अस्मि ॥ २३ ॥ किं च मनआदिनां तदर्पितज्ञानक्रियादिशक्तिमत्वेन तं न विषयीकुर्वन्तीति सदृष्टा न्तमाह । देहेति । अमी देहश्च इन्द्रियाणि च प्राणश्च मनश्च धीश्च ताः, यद शविद्धाः यदीयशक्तिव्याप्ताः सत्यः कर्मसु स्वस्वव्यापारेषु, प्रचरन्ति प्रवर्त्तन्ते । अन्यदा अन्यथा, यद शाननुविद्धाः सत्यस्त्वित्यर्थः । नैव न प्रचरन्त्येव । तेषामचेतनपरि- णामरूपत्वेन वस्तुतो ज्ञानशक्तिविरहादिति भावः । तत्र दृष्टान्तः । अप्रतप्तं लोहम् इव, यथा दाहकशक्तिमताऽग्निनाऽनुविद्धमेव लोहमितरं दहदप्यग्निं न दहति । अग्निनाऽननुविद्धं तु इतरदपि न दहति तद्वत्परमात्माहित ज्ञान क्रियाशक्तयो देहेन्द्रियादयः स्वस्वविषयेषु प्रचरन्ति परमात्मनाऽनाहितशक्तयस्तु स्वस्वकर्मस्वपि न प्रचरन्ति इत्यर्थः । नन्विन्द्रियाणां स्वतो ज्ञानशक्तिरहि- तत्त्रान्तं मा विषयीकुर्वन्तु जीवस्तु स्वभावतो ज्ञानशक्तिमत्त्वात्तं विद्यात्तत्राह स्थानेष्विति । तत् स जीवोऽपीत्यर्थः । स्थानेषु जाप्रदादिषु द्रष्ट्रपदेशं द्रष्टृत्वव्यपदेशम् एति । ईश्वरसंकल्पादेव जीवस्यापि ज्ञानविकास इत्यर्थः ॥ २४ ॥
- एक 1 र 1 भगवान् नारदने देखा कि चित्रकेतु ४ फ) भाषानुवादः … जितेन्द्रिय, भगवद्भक्त और शरणागत हैं । अतः उन्होंने बहुत प्रसन्न होकर उन्हें इस विद्याका उपदेश किया ॥ १७ ॥ ( देवर्षि नारदने यो उपदेश किया) कारस्वरूप भगवन् ! आप वासुदेव, प्रद्युम्न, अनिरुद्ध और सङ्कर्षणके रूपमें क्रमशः चित्त, बुद्धि, मन और अहङ्कारके अधिष्ठाता हैं। मैं आपके इस चतुर्व्यूहरूपका बार-बार नमस्कारपूर्वक ध्यान करता हूँ ॥ १८ ॥ * आप विशुद्ध विज्ञानस्वरूप हैं। आपकी ।। ।। * मूर्ति परमानन्दमयी है । आप अपने स्वरूपभूत आनन्द में ही मन और परम शान्त हैं । द्वैतदृष्टि आपको छू तक नहीं सकती। मैं आपको नमस्कार करता हूँ ॥ १६ ॥ * * अपने स्वरूपभूत आनन्दकी अनुभूति से ही आपने मायाजनित राग-द्वेष आदि दोषोंका तिरस्कार कर रक्खा है । मैं आपको नमस्कार करता हूँ । आप सबकी समस्त इन्द्रियोंके प्रेरक, परम महान और विराट्स्वरूप हैं। मैं आपको नमस्कार करता हूँ ॥ २० ॥ * * मन सहित वाणी आपतक न पहुँचकर बीचसे ही लौट आती है । उसके उपरत हो जानेपर जो अद्वितीय, नाम-रूपरहित, चेतनमात्र और कार्य-कारणसे परेकी वस्तु रह जाती है-वह हमारी रक्षा करे ॥ २१ ॥ यह कार्य - कारणरूप जगत् जिनसे उत्पन्न होता है, जिनमें स्थित है और जिनमें लीन होता है तथा जो मिट्टिकी वस्तुओंमें व्याप्त मृत्तिकाके समान सबमें ओत-प्रोत है-उन परब्रह्मस्वरूप आपको मैं नमस्कार करता हूँ। ॥ २२ ॥ यद्यपि आप आकाशके समान बाहर भीतर एकरस व्याप्त हैं, तथापि आपको मन, बुद्धि और ज्ञानेन्द्रियाँ अपनी ज्ञान शक्तिसे नहीं जान सकतीं और प्राण तथा कर्मेन्द्रियाँ अपनी क्रियारूप शक्तिसे स्पर्श भी नहीं कर सकतीं। मैं आपको नमस्कार करता हूँ ॥ २३ ॥ * ॐ शरीर, इन्द्रिय, प्राण, मन और बुद्धि जाग्रत् तथा स्वमअवस्थाओंमें आपके चैतन्यांशसे युक्त होकर ही अपना-अपना काम करते हैं तथा सुषुप्ति और मूच्र्छाकी अवस्थाओं में आपके चैतन्यांशसे युक्त न होनेके कारण अपना-अपना काम करनेमें असमर्थ हो जाते हैं- ठीक वैसे ही जैसे लोहा अभिसे तप्त होने पर जला सकता है, अन्यथा नहीं । जिसे ‘द्रष्टा’ कहते हैं, वह भी आपका ही एक नाम है; जाग्रत आदि अवस्थाओंमें आप उसे स्वीकार कर लेते हैं। वास्तवमें आपसे पृथक उनका कोई अस्तित्व नहीं है ।। २४ ।। 11032 " ॐ नमो भगवते महापुरुषाय महानुभावाय महाविभूतिपतये सकलसात्वतपरिवृढनिकरक रकमलकु’ डम- लोपलालितचरणारविन्दयुगल परम परमेष्ठिन्नमस्ते ।। २५ ।। free श्रीशुक उवाच २६ ॥ २७ ॥ भक्तायैतां प्रपन्नाय विद्यामादिश्य नारदः । ययावङ्गिरसा साकं धार्म स्वायम्भुवं प्रभो ॥ चित्रकेतुस्तु विद्यां तां यथा नारदभाषिताम् । धारयामास सप्ताहमन्भक्षः सुसमाहितः ॥ तत सप्तरात्रान्ते Train विद्यया धार्यमाणया । विद्याधराधिपत्यं स लेभेऽप्रतिहतं नृपः ॥ २८ ॥ ततः कतिपयाहोभिर्विद्ययेद्वमनोगतिः । जगाम देवदेवस्य शेषस्य चरणान्तिकम् ॥ २९ ॥ १. प्रा० पा० - मुकुलो । २. प्राचीने पाठे श्रीशुक उवाच’ पाठो न ३. प्रा० पा०तां विद्यां पठन् नार० । ४. प्रा० पा० ततः स 1em;स्कं. ६ अ. १६ श्लो. २५-३२ ] अनेकव्याख्यासमलङ्कृतम् मृणालगौरं शितिवाससे स्फुरकिरीटकेयूरकटित्र कङ्कणम् । प्रसन्नवक्त्रारुणलोचनंं वृतं ददर्श सिद्धेश्वरमण्डलैः प्रभुम् ॥ ३० ॥ तदर्शन ध्वस्तसमस्त किल्विषः खच्छाम लान्तः करणोऽभ्ययान्मुनिः । प्रवृद्धभक्त्या प्रणयाश्रुलोचनः प्रहृष्टरोमानमदादिपूरुषम् ॥ ३१ ॥ स उत्तमश्लोकपदाब्जविष्टरं प्रेमाश्रुलेशैरुपमेह यन्मुहुः । प्रेमोपरुद्धाखिलवर्णनिर्गमो नैवाशकत्तं प्रसमीडितुं चिरम् ॥ ३२ ॥ ४८९
कृष्णप्रिया व्याख्या अन्वयः - सकलसात्वतपरिवृढनि कर करकमलकुड्मलोपलालितचरणारविन्दयुगल परम परमेष्ठिन् ॐ भगवते महापुरुषाय महानुभावाय महाविभूतिपतये ते नमः नमः ॥ २५ ॥ प्रभो नारदः प्रपन्नाय भक्ताय एताम् विद्याम् आदिश्य अंगिरसा साकम् स्वायंभुवम् धाम ययौ ॥ २६ ॥ * * चित्रकेतुः तु अन्भक्षः सुसमाहितः यथा नारदभाषिताम् ताम् विद्याम् सप्ताहम् धारयामास ॥ २७ ॥ * नृपः ततः सः धार्यमाणया विद्यया सप्तरात्रांते अप्रतिहतम् विद्याधरा- धिपत्यं लेभे ।। २८ ।। ततः कतिपयाहोभिः विद्यया इंद्धमनोगतिः देवदेवस्य शेषस्य चरणान्तिकम् जगाम ।। २९ ।। * * मृणालगौरम् शितिवाससम् स्फुरत्किरीटकेयुरकटित्रकङ्कणम् प्रसन्नवक्त्रारुणलोचनम् सिद्धेश्वरमण्डलैः वृतम् प्रभुम् ददर्श ॥ ३० ॥ तद्दर्शनध्वस्तसमस्तकिल्बिषः स्वच्छामलान्तःकरणः प्रबुद्धभक्त्या प्रणयाश्रुलोचनः प्रहृष्टरोमा मुनिः आदिपुरुषम् अभ्ययात् अनमत् प्रेमाश्रुलेशैः उत्तमश्लोकपदाब्जविष्टरम् मुहुः उपमेहयन् प्रेमोपरुद्धाखिलवर्णनिगमः सः तम् चिरम् प्रसमीडितुम् न एव अशकत् ॥ ३२ ॥ श्रीधरस्वामिवि रचिता भावार्थदीपिका Sear सकला ये सात्वतपरिवृढास्तेषां निकरः समूहस्तस्य करकमलानां कुड्मलैर्मुकुलैरुपलालितं चरणारविंदयुगलं यस्य तस्य संबोधनम् । परम उत्कृष्ट परमेष्ठिन् सर्वेश्वर ॥ २५ ॥ * पूर्व सनारदोंगिरा आजगामेत्यंगिराः प्राधान्येनोक्तः । चित्रकेतोः पुत्रप्रदत्वेन तस्य पृथगुक्तत्वात् । इह तु नारदोंगिरसा साकं ययाविति नारदस्य प्राधान्यनिर्देशः । तदुपदेशेन तस्य वैराग्योत्पत्तेः प्रभो हे समर्थ ॥ २६ ॥ * 8 यथा यथावद्धारयामास ।। २७ ।। * * विद्याधराधिपत्यं दीप्तेन मनसा गतिर्यस्य ॥ २९ ॥ मृणालबद्गौरं शितिवाससं नीलांबरम् । स्फुरति किरीटादीनि यस्य । कटिन्नं कटिसूत्रम् । प्रसन्नानि वक्त्राणि यस्य अरुणानि लोचनानि यस्य तं च ॥ ३० ॥ * * दृष्ट्वा च तमादिपूरुषमभ्ययाच्छरणं गतः। अनमन्ननाम। कथंभूतः। तस्य दर्शनेन ध्वस्तं समस्तं किल्बिषं यस्य स्वच्छममलं चांतःकरणं यस्य प्रणयेनाश्रुयुक्ते लोचने यस्य प्रहृष्टानि रोमाणि यस्य सः ॥ ३१ ॥ * * तं प्रसमीडितुं स्तोतुं चिरं नैवाशकन्न शशाक । तत्र हेतुः । उत्तमश्लोकस्य पादाब्जयोर्विष्टरमासन- मुपमेहयन् अभिषिंचन् प्रेम्णा उपरुद्धः अखिलानां वर्णानां निर्गम उच्चारणं यस्य सः ॥ ३२ ॥ चावान्तरफलं लेभे अप्रतिहतमस्खलितम् ॥ २८ ॥ * * कतिपयैरहोभिः विद्ययेन 8 वंशीधरकृतो भावार्थदीपिकाप्रकाश: सात्वतपरिवृढा भक्ताधिपाः सनकादयः । मुकुलैरिति । सर्वावयवोपेतैर्टहस्तैरित्यर्थः । एतेन जीवन्मुक्तोपास्यत्वं ध्वनितम् । तत्र हेतुगर्भितमामंत्रणमाह — परमेति । परमत्वं ब्रह्मादेरप्यस्तीति चेत्तत्राह - परमेष्ठिन्निति । परमे सर्वोत्कृष्टे बैकुंठे तिष्ठति । यद्वा-परमे स्वस्वरूपे तिष्ठतीति परमेष्ठी तत्संबुद्धौ । " स वै पतिः स्यादकुतोभयः स्वयं समंततः पाति भयातुरं जनम् । स एक एवेतस्था मिथो भयं नैवात्मलाभादधिमन्यते परम् ।" इत्युक्तेः सर्वेश्वरत्वं श्रीविष्णोरेव । अन्येषां तु ‘ब्रह्मणोऽपि भयं मत्तः’ इत्याद्युक्तन्यायेन निर्भयत्वाभावान्न परमेष्ठित्वं ब्रह्मणि परमेष्ठिपदप्रयोगो हि सृज्यप्रपञ्चान्तर्गत सर्वोत्कृष्टसत्यलोक- वासित्वादेव भाक्त एवेति ध्येयम् ।। २५ ।। * * अहो चित्रकेतोः सामर्थ्य येन नारदोक्ता विद्या गृहीतेति विमृशंत १. प्रा० पा० - मुहुः । २. प्रा० पा० - सेवय० । ६२ ४९० श्रीमझगवतम् [ स्कं. ६ अ. १६. २५-३२ नृपमाह - प्रभो इति । त्वमपि मदुक्तप्रहणे समर्थोसि त्यक्तसर्व परिप्रहत्वादिति भावः । एतां नमस्तुभ्यमित्यारभ्य परमेष्ठिनमस्त इत्यंताम् ॥ २६ ॥ * * सप्ताहं यथा स्यात्तथा ।। २७ ।। * ततो विद्याग्रहणोत्तरम् । स चित्रकेतुः । धार्यमाणया दृढविश्वासेन जप्तया । है नृपेति । त्वमपि तादृश एव नृप इति भावः ॥ २८ ॥ ततो विद्याधराधिपत्यलाभोत्तरम् ॥२६॥ “शितिः स्यात्तीक्ष्णनीलयोः” इति धरणिः ॥ ३० ॥ * * मुनिगृहीतमौनः ॥ ३१ ॥ * * तंत्र स्तवनासामर्थ्ये ॥ ३२ ॥ ॥ ॐ ॥ || । veginsigges अन्वितार्थप्रकाशिका ओमिति । महाविभूतिर्लक्ष्मीः तत्प्रतये सकलेत्यादिसंबोधनं सकलाना ये सात्वतपरिवृदाः भक्तश्रेष्ठास्तेषां निकरस्य समूहस्य करकमलानां कुड्मलैर्मुकुलैरुपलालितं सेवितं चरणारविन्दयुगलं यस्येति परमश्रेष्ठ परमेष्ठिन् सर्वेश्वर स्पष्टं शेषम् || २५ || भक्तायेति । हे प्रभो ! भगवद्भक्ताय प्रपन्नाय स्वशरणागताय चित्रकेतव एतां पूर्वदर्शितां विद्यामादिश्य नारदोऽङ्गिरसा सार्क स्वयंभुवं धाम ब्रह्मलोकं ययौ । पूर्व सनारदोऽङ्गिरा आजगामेति अङ्गिरसः प्राधान्यं तदा पुत्रेच्छो: राज्ञः पुत्रप्रदत्वात् अधुना तु नारदोऽङ्गिरसा साकमिति नारदस्य प्राधान्यम् । ज्ञानेच्छोरुपदेशकत्वात् ॥ २६ ॥ ॐ चित्रेति चित्रकेतुस्तु अब्भक्षः सुसमाहितः सावधानचित्तश्च संस्तां नारदभाषितां विद्यां यथा- यथावत्स्वस्वर्णादिविपर्ययराहित्येन सप्ताहं धारयामास जजाप ॥ २७ ॥ * * तत इति । हे नृप ! ततश्च धार्यमाणया अभ्यस्यमानया विद्ययैव हेतुभूतया समरात्रान्ते अप्रतिहत- मनुल्लंघितशासनं विद्याधराणामाधिपत्यमवान्तरफलं लेभे ॥ २८ ॥ * तत इति । कतिपयैरहोभिः विद्यया इद्धेन दीप्तेन मनसा गतिर्यस्य सः । स्पष्टं शेषम् ॥ २६ ॥ * * मृणालेति । मृणालं कमलकन्दस्तद्वद्वौरं शितिवाससं नीलाम्बरं स्फुरन्ति किरीटादीनि यस्य तं किरीटं शिरोभूषणं केयूरं बाहुभूषणं कटित्रं कटिसूत्रं कङ्कणं हस्तभूषणं प्रसन्नानि वक्त्राणि यस्य अरुणानि लोचनानि यस्य तं च सिद्धेश्वराः सनत्कुमारादयस्तेषां मण्डलैर्वृतं प्रभुं सङ्कर्षणं ददर्श ॥ ३० ॥ * * तदिति । तस्य दर्शनेन ध्वस्तं समस्तं किल्बिषं यस्य सः अत एव स्वच्छममलं चान्तःकरणं यस्य स मुनिः गृहीतमौनः प्रणयेन प्रेम्णाऽयुक्ते लोचने यस्य सः प्रहृष्टानि रोमाणि यस्य सः प्रवृद्धया भक्त्या आदिपुरुषं सङ्कर्षणमभ्ययात् अभिमुखमगच्छत् अभ्येत्य चानमत् ननाम ॥ ३१ ॥ स इति । प्रेमाश्रुलेशैः उत्तमश्लोकस्य शेषस्य पादाब्जयोर्विष्टरमासनं मुहुरुप मेहयन् अभिषिञ्चन् प्रेम्णा उपरुद्धः अखिलानां वर्णानां निगम उच्चारणं यस्य सः चित्रकेतुः तं सङ्कर्षणं प्रसमीडितुं स्तोतुं चिरं नैवाशकत् न शशाक ।। ३२ ॥ FT TRIS वीरराघवव्याख्या भगवते पूर्णषाड्गुण्याय पुरुषाय पुरुषसूक्तप्रतिपाद्यमहापुरुषाय अत एव महानुभावाय महाविभूत्योर्नित्यलीलाविभूत्यो- रधिपतये तुभ्यं नमः । सकलाः ये सात्वतपरिवृढा भागवतश्रेष्ठास्तेषां समूहस्तेषां करकमलानां कुड्मलैर्मुकुलैरुपलालितं चरणा- रविन्दयुगलं यस्य तस्य सम्बोधनं परम निःसमाभ्यधिक, परमेष्ठिन् परमे स्थाने स्थित, ते तुभ्यं नमः ।। २५ ।। * हे प्रभो राजन्, भक्ताय प्रपन्नाय चित्रकेतवे एवमेतां विद्यामुपदिश्याङ्गिरसा सह नारदः स्वायम्भुवं धाम सत्यलोकं ययौ । पूर्व नारदेन सहाङ्गिरा आजगामेति प्राधान्येनो कोङ्गिराः चित्रकेतोः पुत्रदत्वेन तस्य प्रथमं वैराग्यजननद्वारोपकारकत्वादिह नारदोङ्गिरसा साकं ययौ इति नारदः प्राधान्येन निर्दिष्टः विद्योपदेशेन तस्य महोपकारकत्वात् ।। २६ ।। * एवमुप- दिष्टश्वित्रकेतुस्तां नारदेन भाषितां उपदिष्टां विद्यां यथाविधि सुसमाहितचित्तोऽप एव भक्षयन् सप्त दिवसान् धारयामास जजाप ॥ २७ ॥ * * ततः सप्तरात्रान्ते धार्यमाणया विद्यया तत्प्रभावेनेत्यर्थः । नृपश्चित्रकेतुः अविभक्तिकपाठे हे नृप ! विद्याधराणामाधिपत्यश्च लेभे चशब्दोऽन्वाचयपरः आनुषङ्गिकं विद्याधराधिपत्यं फलं लब्धवानित्यर्थः ॥ २८ ॥ * * प्रधानं फलमाह - तत इति । ततः कतिपयैरहोभिर्विद्यया इद्धेन दीप्तेन मनसा गतिर्यस्य विद्याप्रभावेन यथेष्टगतिरित्यर्थः । देवदेवस्य शेषस्य सङ्कर्षणस्य चरणसमीपं जगाम पाताललोकादधः स्थितसङ्कर्षणसमीपं गतवानित्यर्थः ॥ २६ ॥ * * सङ्कर्षणं वर्णयन् तं ददर्शेत्याह- मृणालेति । मृणालवत्पद्मतन्तुवद्वौरं शुद्धं शितिवाससं नीलाम्बरं स्फुरन्ति किरीटादीनि यस्य कदित्रं कटिसूत्रं प्रसन्नानि वक्त्राणि यस्य अरुणानि लोचनानि यस्य तं सिद्धेश्वराणां समूहैर्वृतं परिवेष्टितं विभुं सङ्कर्षण ददर्श ।। २० ।। * * ततस्तस्य संङ्कर्षणस्य दर्शनेन ध्वस्तं किल्बिषं यस्य अत एव स्वच्छ मन्तःकरणं यस्यात एव प्रवृद्धया भक्तथा प्रणयाशु आनन्दबाष्पं लोचनयोर्यस्य प्रवृष्टठान्युदेश्वितानि रोमाणि च यस्य तादृशः आदिपूरुषं पुराणपुरुषं सङ्कर्षण- मभ्ययादभिमुखं जगाम आनमत्प्रणतवान् ॥ ३१ ॥ * * ततः स चित्रकेतुरुत्तमश्लोकस्य संकर्षणस्य पदाब्जविष्टरं पादपीठ प्रेमाश्रुलेशैरानन्दबाष्पकणैः मुहुर्मुहुरुपसेचयन्प्रमोदेन प्रेम्णा उपरुद्धः अखिलानां वर्णानामक्षराणां निर्गमम् उच्चारणं यस्यात एव भगवन्तं तं प्रसमीडितुं चिरं नैवाशकन्न शक्नोत् ॥ ३२ ॥ 成 कं. ६. अ. १६ को २५-३२] 1। 1 aperties ok को प्रणाली अनेकव्याख्यासमलङ्कृतम् विजयध्वजतीर्थंकृता पदरत्नावली 1- म ४९१ ननु, विष्णूपासनया शेषसमीपगमनं कथं सङ्गच्छते 3 इति चेदुच्यते । तत्तदेवान्तर्यामि विष्णुविषयोपासनया तत्तदेव- समीपप्राप्युपपत्तेः “अन्यान्तर्यामिणं विष्णुमुपायान्यसमीपगः । भवेद्योग्यतया तस्य पदं वा चाप्नुयान्नरः ।” इत्युक्ते अनेन तत्तत्पदप्राप्तियोग्यवेत्सुतरां तत्तद्देवसमीपं गत इत्युक्तं भवति तस्मादत्र चित्रकेतोरनेन प्रत्यक्षविधानेन मुहुर्मुहुः शेषस्य सकाश- मभ्ययादिति युज्यते चित्रकेतुना शेषान्तर्यामिविष्णुरुपासित इति कुत इति चेत्- “शेषान्तर्यामिणं विष्णुं चित्रकेतुरुपास्य तु । शेषाविष्टहरेश्चापि वरान् प्राप्यापतद्भुतिम् ।” इति वचनबलात् ॥ २९ ॥ * * शितिवाससं नील कटका “कटिसूत्रं सारसनं कटित्रं कटिभूषणम्” इत्यभिधानम् ॥ ३० ॥ * * अनलस्य वायोरादिः कारणं पुरुषं पौरुषं यस्मिन्स तथा तम् ।। ३१ ।। * * उत्तमश्लोकस्य शेषान्तर्यामिणो हरेः पादपद्मयोर्विष्टरं पीठं उपरुद्धोऽखिलानां वर्णानां शब्दोपलक्षणानां निर्गमो द्वारं यस्य सः ॥ ३२ ॥ SPE ही नोएड जीवगोस्वामिकृतः क्रमसन्दर्भः ॥ साक्षाद्भगवत्वेन स्तौति ॐ नम इति । तदेवं सङ्कर्षणोपासनापि द्वारमेव । तस्य सात्वतशास्त्रविग्रहत्वेन वक्ष्य- । । माणत्वात् परमं फलन्तु श्रीभगवानित्यभिप्रेतम् ।। २५-३४ ।। ।। विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी 8 महामन्त्रस्य ज्ञानप्रकाशकत्वमुक्त्वा भक्तिरसपरिपूर्णत्वमाह ओमिति । सकलसात्वतपरिवृढाः सर्वभक्तश्रेष्ठास्तेषां निकरस्य करकमलानां कुड्मलेन उपलालितं लघुसंवाहनवैदग्ध्या प्रीणित चरणारविन्दयुगलं यस्य । तथाभूतेति मा स्वपादसंवाहनसेवायां स्थापयेत्यभिलाषो ध्वनितः ननु त्वामतिनिकृष्ट तस्यामत्युत्कृष्टसेवायां कथं नियुजे इत्यत आह हे परम- परमेष्ठिन् परमपरमेश्वरः कर्तुमन्यथा कर्तुं च समर्थः ॥ २५ ॥ एतामित्यनेकवाक्यगर्भामेकामेव विद्यां महतीम् अत्र चित्रकेतवे पुत्रप्रदत्त्वेनाङ्गिरसः प्राधान्यं मन्त्रप्रदत्वेन न तु नारदस्य अत एव पूर्वमङ्गिराः सनारद आजगामेत्युक्तं सम्प्रति ययावङ्गिरसा नारद इत्युच्यते हे प्रभो ! एतदाद्यभिप्रायज्ञाने परम समर्थः ।। २६-२७ ।। प्रथममवान्तरफलमाह -
-
- विद्याधराधिपत्यमिति ॥ २८ ॥ मुख्यं फलमाह– जगामेति ॥ २६ ॥ * * शितिवाससं नीलाम्बरं कटित्रं कटिसूत्रम् ॥ ३० ॥ * तद्दर्शनेति । किल्बिषमन्त्र भगवत्प्राप्त्यसम्भावनामयं दुःखं ज्ञेयं दृष्ट्वा च अभ्ययात् अभिमुखो- गच्छत् । अभ्येत्य चाऽऽनमत् ॥ ३१ ॥ * * नत्वा च तुष्टावेत्याह-स इति । विष्टरमासनम् उपमेहयन् अभिषिचन ||३२|| शुकदेवकृतः सिद्धांतप्रदीपः , सकलसात्वतानां ये परिवृढाः श्रेष्ठास्तेषां निकरस्य समूहस्य कमलानां कुड्मलैर्मुकुलैरुपलालितं प्रीणितं चरणा- रविन्दयुगलं यस्य हे तथाभूतपरा मा यस्य है परम, है परमेष्ठिन् परमधामवासिन महाविभूत्योः नित्यविभूतिलीलाविभूत्योः पतये तँ नमो नमः ॥ २५ ॥ * * प्रभो हे उपदिष्टार्थधारणसमर्थ ॥ २६ ॥ यथा यथावद्धारयामास ॥ २८ ॥ विद्याधराधिपत्यमवान्तरफलम् ।। २८ ।। * * मुख्य फलञ्च लब्धवानित्याह- ततः कतिपयाहोभिरिति । विद्यया इद्वा दीप्ता मनोभिलषिता गतिर्यस्य सः शेषस्य चरणान्तिकं जगाम ॥ २९ ॥ तपस्य ॥ ॥ *मृणालवत्पद्मतन्तुवदौर शितिवासस नीलवसनं स्फुरन्ति किरीटादीनि यस्य कटित्रं कटिसूत्र सिद्धेश्वराणां मण्डलैर्वृतं ददर्श ॥ ३० ॥ तस्य दर्शनेन ध्वस्तं समस्तं किल्बिषं यस्य स्वच्छमुज्वलममलं निर्मलं चान्तःकरणं यस्य मुनिर्मननशीलः प्रवृद्धया भक्तथा प्रणयाश्रणि लोचन- योर्यस्य प्रहृष्टरोमा आदिपुरुषमनमत् ननाम अभ्यगच्छत् शरणङ्गतः ॥ ३१ ॥ * * स चित्रकेतुः उत्तमश्लोकस्य पवित्रकीतेंः पदाब्जयोर्विष्टरमासनं प्रेमाश्रणां लेशैबिंदुभिरुपमे हयन् सिञ्चन् प्रेम्णोपरुद्धः अखिलवर्णनिर्गममार्गः कण्ठो यस्य सः चिरं समीडितुं नैवाशकत् ।। ३२ ।। भ गोस्वामिगिरिधरलाल विहिता बालप्रबोधिनी एवं स्तोत्रं निरूप्य जपमन्त्रमाह– ओमिति । परमेष्ठिशब्दस्य ब्रह्मणि रूढत्वाद्भगवदादिपदानां गौण्यात्तत्र प्रयोग- दर्शनाथ तत्रातिप्रसङ्गवारणाय परमेति विशेषणम् । हे परमेष्ठिन् ब्रह्मादिसर्व नियन्तस्ते तुभ्यं नम इत्यन्वयः । तत्र हेतुमाह- महानुभावायेति, महान अनुभवः जगदुद्भवपालनोपसंहारकर्तृ स्वलक्षणप्रभावो यस्य तस्मै । तत्रापि हेतुमाह - भगवत इति, ४९२ " श्रीमद्भागवतम् ।। [ स्कं. ६ अ. १६. २५-३२ अचिन्त्यानन्तगुणपूर्णायेत्यर्थः । त्रिवर्गदातृत्वं सूचयन्नाह - महाविभूतिपतये इति । महाविभूतिः श्रीः लक्ष्मीस्तत्पतये इत्यर्थः । परमपुरुषार्थमोक्षरूपत्वमाह - महापुरुषायेति । अतएव परमविवेकिनो भक्तत्या तं सेवन्त इति सूचयन् सम्बोधयति - सकलाः ये सात्त्वतपरिवृढाः भक्तश्रेष्ठास्तेषां निकरस्य समूहस्य करकमलानां कुड्मलैर्मुकुलैरुपलालितं सेवितं चरणारविन्दयुगलं यस्य तस्य सम्बोधनम् ॥ २५ ॥ भगवद्भक्ताय प्रपन्नाय स्वशरणागताय चित्रकेतवे एतां पूर्वदर्शितां विद्यामादिश्य नारदोऽङ्गिरसा साकं स्वायम्भुवं धाम ब्रह्मलोकं ययावित्यन्वयः । पूर्व सनारदोऽङ्गिरा आजगामेति चित्रकेतोः पुत्रप्रदत्वेन अङ्गिरसः प्राधान्येन निर्देश:, अत्र त्वङ्गिरसा साकं नारदो ययाविति तस्य विद्याप्रदत्वेन नारदस्य प्राधान्येन निर्देशः कृत इति ज्ञेयम् । हे प्रभो इति सम्बोधनं तवाप्येतद्विद्याधारणे सामर्थ्यमस्तीति सूचनार्थम् ॥ २६ ॥ चित्रकेतुस्तु अन्मक्षः सुसमाहितः सावधानचित्तश्च संस्तां नारदभाषितां विद्यां तथा यथावत् स्वरवर्णादिविपर्ययराहित्येन सप्ताहं धारया- मास जजापेत्यर्थः ॥ २७ ॥ * * ततश्च धार्यमाणया अभ्यस्यमानया विद्ययैव हेतुभूतया सप्तरात्रान्ते अप्रतिहतमनुल्ल- वितशासनं विद्याधराणामाधिपत्यम् अवान्तरफलं लेभे इत्यन्वयः । हे नृपेति सम्बोधनेन यथा त्वं भगवदनुग्रहेणानुल्लङ्घितशासनः कलिमपि निगृहीतवानिति सूचयति ॥ २८ ॥ * * श्रीनारदोक्तं च फलं प्राप्तवानित्याह —- तत इति । कतिपयैरहोभिः विद्यया इद्धेन दीप्तेन मनसा गतिर्यस्य सः ॥ २९ ॥ * तेन दृष्टं सङ्कर्षणं वर्णयति - मृणालेति । मृणालं कमलकन्दस्त- द्वद्गौरम् | शितिवाससं नीलाम्बरं स्फुरन्ति किरीटादीनि यस्य तम् । किरीटं शिरोभूषणम्, केयूरं बाहुभूषणम्, कटित्रं कटिसूत्रम्, कङ्कणं हस्तभूषणम् । प्रसन्नानि वक्त्राणि यस्य अरुणानि लोचनानि यस्य तं च सिद्धेश्वराः सनत्कुमारादयस्तेषां मण्डलैर्वृतं प्रभुं सङ्कर्षणं ददर्शेत्यन्वयः ॥ ३० ॥ * * तस्य दर्शनेन ध्वस्तं समस्तं किल्बिषं यस्य सः, अतएव स्वच्छममलं च अन्तःकरणं यस्य सः, मुनिः गृहीतमौनः, प्रणयेनाश्रुयुक्त लोचने यस्य सः, प्रहृष्टानि रोमाणि यस्य सः, प्रवृद्धया भक्त्या आदिपुरुषं सङ्कर्षणमभ्ययात् अभिमुखमगच्छत् । अभ्येत्य चानमत् ननामेत्यन्वयः ॥ ३१ ॥ नत्वा च तं प्रसमीडितुं स्तोतुं चिरं नैवाशकत् न शशाक । तत्र हेतुमाह - प्रेमाश्रुलेशैः उत्तम श्लोकस्य शेषस्य पादाब्जयोर्विष्टरमासनं मुहुरुप मेहयन् अभिषिश्वन् । प्रेम्णा उपरुद्धः अखिलानां वर्णानां निर्गमः उच्चारणं यस्य सः ॥ ३२ ॥ भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी
ॐ नम इति । भगवते पूर्णषाड्गुण्याय, महापुरुषाय पुरुषसूक्तप्रतिपाद्याय, महते पुरुषाय, अत एव महानुभावाय महामहिम्ने, महाविभूत्योर्नित्यलीलाविभूत्योरपि पतये, तुभ्यं ॐ नमः । सकला ये सात्त्वतपरिवृढा भागवतश्रेष्ठास्तेषां निकराः समूहास्तेषां करा एव कमलानि तेषां कुड्मलैर्मुकुलैरुपलालितं चरणारविन्दयुगलं यस्य तस्य संबोधनम् । हे परमेष्ठिन परमस्थानस्थित, ते तुभ्यं नमः ॥ २५ ॥ भक्तायेति । हे प्रभो राजन् प्रपन्नाय स्वशरणं प्राप्ताय, भक्ताय चित्र- केतवे, एतां विद्याम् आदिश्योपदिश्य, अङ्गिरसा साकं नारदः स्वायंभुवं धाम सत्यलोकं ययौ । पूर्वं सनारदः अङ्गिरा आजगा- मेत्यङ्गिराः प्राधान्येनोक्तः, चित्रकेतोः पुत्रदत्वेन तस्य पृथगुपादानात् । इह तु नारदः अङ्गिरसा साकं ययाविति नारदस्य प्राधान्येन निर्देशः तदुपदेशेन तस्य वैराग्योत्पत्तेः । विद्योपदेशेन तस्य महोपकारकत्वाच्च ।। २६ ।। * * चित्रकेतुरिति । चित्रकेतुः तु, नारदभाषितां तां विद्यां सुसमाहित एकाग्रचित्तः, अब्भक्षः केवलजलमात्राशनः सन् सप्ताहं सप्तदिनपर्यन्तं यथा यथावत्, धारयामास जजाप ॥ २७ ॥ ॐ तत इति । ततः, हे नृप, स नृपश्चित्रकेतुरपि, चकारोऽप्यर्थः । सप्तरात्रान्ते,
- । धार्यमाणया सम्यक जपितया विद्यया हेतुना, अप्रतिहतमस्खलितं, विद्याधराधिपत्यं लेभे । चकारस्यान्वाचयार्थत्वे आनुषङ्गिकं विद्याधराधिपत्यं लब्धवानित्यर्थः ॥ २८ ॥ * * प्रधानं फलमाह । तत इति । ततः कतिपयाहोभिः कतिपयैरहोभिः, विद्यया इद्धेन दीप्तेन मनसा गतिर्यस्य सः, विद्याप्रभावेन यथेष्टगतिरित्यर्थः । एवंभूतः स इत्यर्थः । देवदेवस्य शेषस्य, चरणा- न्तिकं जगाम । पाताललोकाधः स्थितसंकर्षणसमीपं गतवानित्यर्थः ॥ २९ ॥ * संकर्षणं वर्णयंस्तं ददर्शेत्याह । मृणालेति । मृणालवत्पद्यतन्तुवदौरो धवलरतं शिति नीलं वासोऽम्बरं यस्य तं किरीटं च केयूरे च कटित्रं च कङ्कणे च तानि स्फुरन्ति किरीटादीनि यस्य तं प्रसन्नानि वक्त्राणि यस्य अरुणानि लोचनानि यस्य स चासौ स च तं सिद्धेश्वरमण्डलैः सिद्ध- परिवृढसमूह, वृतं परिवेष्टितं प्रभुं संकर्षणं ददर्श । चित्रकेतुरिति शेषः ।। ३० ।। तदिति । ततः तस्य संकर्षणस्य दर्शनं तेन ध्वस्तं समस्तं किल्बिषं यस्य सः, अत एव स्वच्छं रागाद्यकलुषितमत एवामलमन्तःकरणं यस्य सः, अत एव, प्रवृद्धा चासौ भक्तिश्व तया, प्रणयाश्रु आनन्दबाष्पं लोचनयोर्यस्य सः, प्रहृष्टान्युदचितानि रोमाणि यस्य सः । मुनिस्तन्मूर्त्तिमनन- श्चित्रकेतुः, आदिपूरुषं अभ्यायादभिमुखं जगाम । अनमत्प्रणतव ॥ ३१ ॥ ॐ * स इति । ततः सः, चित्रकेतुः उत्तमश्लोकस्य संकर्षणस्य पादाब्जविष्टरं पादपद्मपीठं, प्रेमाश्रुलेशैः आनन्दाश्रुकणैः, मुहुर्वारं वारं, उपमेहयन्नुपसे चयन, प्रेम्मणा उपरुद्धः अखिलानां वर्णानामक्षराणां निर्गम उच्चारकं यस्य सः अत एव तं संकर्षणं भगवन्तं प्रसमीडितुं स्तोतुं चिरं बहुवेलं नैव, अशकत् ॥ ३२ ॥ ।
स्क. ६ अ. १६ श्लो. ३३-४०j अनैकव्याख्यासमलङ्कृतम् भाषानुवादः ४९३ ॐकारस्वरूप महाप्रभावशाली महाविभूतिपति भगवान महापुरुषको नमस्कार है। श्रेष्ठ भक्तोका समुदाय अपने करकमलोंकी कलियोंसे आपके युगल चरणकमलोंकी सेवामें संलग्न रहता है । प्रभो ! आप ही सर्वश्रेष्ठ हैं। मैं आपको बार-बार नमस्कार करता हूँ’ ॥ २५ ॥ * श्रीशुकदेवजी कहते हैं—परीक्षित ! देवर्षि नारद अपने शरणागत भक्त चित्रकेतुको इस विद्याका उपदेश करके महर्षि अङ्गिराके साथ ब्रह्मलोकको चले गये ।। २६ ।। * राजा चित्रकेतुने देवर्षि नारद के द्वारा उपदिष्ट विद्याका उनके आज्ञानुसार सात दिनतक केवल जल पीकर बड़ी एकाग्रता के साथ अनुष्ठान किया ।। २७ ।। तदनन्तर उस विद्याके अनुष्ठान से सात रातके पश्चात् राजा चित्रकेतुको विद्याधरोंका अखण्ड आधिपत्य प्राप्त हुआ । २८ ॥ इसके 5. बाद कुछ ही दिनोंमें इस विद्याके प्रभावसे उनका मन और भी शुद्ध हो गया। अब वे देवाधिदेव भगवान् शेषजीके चरणोंके समीप पहुँच गये ॥ २९ ॥ * * उन्होंने देखा कि भगवान् शेषजी सिद्धेश्वरों के मण्डल में विराजमान हैं उनका शरीर कमलनालके समान गौरवर्ण है । उसपर नीले रंगका बस्न फहरा रहा है। सिरपर किरीट, बाँहों में बाजूबंद, कमर में करधनी और कलाईमें कंगन आदि आभूषण चमक रहे हैं। नेत्र रतनारे हैं और मुखपर प्रसन्नता छा रही है ॥ ३० ॥ भगवान् शेषका दर्शन करते ही राजर्षि चित्रकेतुके सारे पाप नष्ट हो गये । उनका अन्तःकरण स्वच्छ और निर्मल हो गया । हृदय में भक्तिभावकी बाढ़ आ गयी । नेत्रों में प्रेमके आँसू छलक आये । शरीरका एक-एक रोम खिल उठा । उन्होंने ऐसी ही स्थिति में आदिपुरुष भगवान् शेषको नमस्कार किया ॥ ३१ ॥ * उनके नेत्रोंसे प्रेमके आँसू टप टप गिरते जा रहे थे । इससे भगवान् शेषके चरण रखनेकी चौकी भीग गयी । प्रेमोद्रेकके कारण उनके मुँहसे एक अक्षर भी नहीं निकल सका । .. बे बहुत देर तक शेषभगवान् की कुछ भी स्तुति न कर सके ।। ३२ ।। । * ततः समाधाय मनो मनीषया बभाष नियम्य सर्वेन्द्रियबाह्यवर्तनं जगद्गुरुं एतत्प्रतिलब्धवागसौ । सात्वतशास्त्र विग्रहम् ॥ ३३ ॥ चित्रकेतुरुवाच ॥ अजित जितः सममतिभिः साधुभिर्भवान् जितात्मभिर्भवता विजितास्तेऽपि च भजतामकामात्मनां य आत्मदोऽतिकरुणः ॥ ३४ ॥ तव विभवः खलु भगवन् जगदुदयस्थितिल यादीनि । विश्वसृजस्तेऽशांशांस्तत्र भूषा स्पर्धन्ते परमाणु परममहतोस्त्वमाद्यन्तान्तरवर्ती पृथगभिमत्या ।। ३५ ।। त्रयविधुरः । आदावन्तेऽपि च सत्त्वानां यद् ध्रुवं तदेवान्तरालेऽपि ।। ३६ ।। क्षित्यादिभिरेष किलावत: सप्तभिर्दशगुणोत्तरैराण्डकोशः । यत्र पतत्यणुकल्पः सहाण्डकोटिकोटिभिस्तदनन्तः ॥ ३७ ॥ विषयतृषो नरपशवो य उपासते विभूतीनं परं त्वाम् | तेषामाशिष ईश तद्नु कामधियस्त्वयि रचिता न विनश्यन्ति यथा राजकुलम् ॥ ३८ ॥ परम रोहन्ति यथा करम्भबीजानि । ज्ञानात्मन्यगुणमये गुणगणतोऽस्य जितमजित तदा भवता यदाऽऽह भागवतं निष्किञ्चना ये मुनय आत्मारामा १. प्रा० पा० - लायवानादीनि । द्वन्द्वजालानि ॥ ३९ ॥ धर्ममनवद्यम् । यमुपासतेऽपवर्गाय ॥ ४० ॥ ।। ४९४ श्रीमद्भागवतम् कृष्णप्रिया व्याख्या [स्क. ६ अ. १६ श्लो. ३३-४० FE T अन्वयः – ततः प्रतिलब्धवाक असौ मनीषया मनः समाधाय सर्वेन्द्रियबाह्यवर्तनम् नियम्य सात्वतशास्त्रविग्रहम् जगद्गुरुम् एतत् बभाषे ।। ३३ ॥ STE
- अजित सममतिभिः जितात्मभिः साधुभिः भवान् जितः च ते अपि भवता
- विजिताः यः अकामात्मनाम् भजताम् अतिकरुणः आत्मदः ॥ ३४ ॥
- भगवन् जगदुदयस्थितिलयादीनि तव विभवः खलु विश्वसृजः ते अंशांशाः तत्र पृथग अभिमत्या मृषा स्पर्धन्ते || ३५ ॥ * परमाणुपरममहतोः आद्यन्तान्त- रवर्ती त्वम् त्रयविधुरः च यत् सत्त्वानाम् आदौ अन्ते अपि ध्रुवम् तत् एव अंतराले अपि ॥ ३६ ॥ * * एष किल दशगुणोत्तरैः सप्तभिः क्षित्यादिभिः आवृतः आण्डकोशः आण्डकोटिभिः सह यत्र अणुकल्पः पतति तत् अनन्तः ॥ ३७ ॥ * * ईश ये विषयतृषः नरपशवः विभूती: उपासते परम् त्वाम् न तेषाम् आशीषः तदनु विनश्यति यथा राजकूलम् ॥ ३८ ॥ परम कामधियः अपि ज्ञानात्मनि अगुणमये त्वयि रचिता; यथा करंभबीजानि न रोहन्ति अस्य गुणगणतः इन्द्रजालानि ॥ ३९ ॥ * * अजित यदा अनवद्यम् भागवतम् धर्मम् आह तदा ये निष्किश्चनाः आत्मारामाः मुनयः अपवर्गाय यम उपासते ॥ ४० ॥
- এ
- श्रीधरस्वामिविरचिता भावार्थदीपिका
- *
- ।। मनीषया बुद्धथा मनः समाधायैतद्वक्ष्यमाणं बभाषे । प्रतिलब्धा बाग्येन सात्वतशास्त्रोक्तो विप्रो यस् तम् ॥ ३३ ॥ ॥ * * “अन्योऽन्यप्रेमजानंद बिभृतान्स्वामिसेवकान् । अभिनंदन्मुदा स्तौति दशभिः पंचभिर्विभुम्” ॥ १ ॥ हे अजित अन्यैरजितोऽपि भवान्साधुभिर्भक्तैर्जितः स्वाधीन एव कृतः । यतो भवानतिकरुणः । तेऽपि च निष्कामा अपि भवता विजिताः । यो भवानकामात्मनामात्मानमेव ददाति ॥ ३४ ॥ ननु भक्तैरेव जित इति कथं स्पर्धमानैरपि सृष्टयादिकर्तृभिरन्यैरीश्वरैर्जयसंभवात्तत्राह । तवेति । जगत उदद्यादीनि तवैव विभवो विभवनं महिमा लीलेति यावत् । आदिशब्देन प्रवेशनियमनादीनि । विश्वसृजस्तु ब्रह्मादयो नेश्वराः किं तु ते तवांशो यः पुरुषस्तस्यांशाः । तत्र एवं स्थितेऽपि पृथक्पृथगीश्वरा वयमित्यभिमानेन वृथैव स्पर्धते ॥ ३५ ॥ त्वमेव सृष्टयादिकर्तेत्येतदुपपादयति । परमाणुः सूक्ष्म- मूलकारणं परममहदंतिमं कार्य तयोस्त्वमेवाद्यतांतरवर्ती । आदावते चांतरे मध्ये च वर्तितुं शीलं यस्य सः । अत एव त्रयविधुर आयंत मध्यशून्यो ध्रुवः । ते च त्वया सृज्यंते न तु ध्रुवाः । कुत इत्यत आह । सत्त्वानां सत्त्वेन प्रतीतानां कार्याणामादावंतेऽपि यद्ध्रुवमनपाय्यंतरालेऽपि च तदेव ध्रुवं सुवर्णादिवत् ॥ ३६ ॥ एवं ध्रुवत्वेन कालतः परिच्छेदो नास्तीत्युक्तम् । देशतोऽप्यपरिच्छेदमाह । क्षित्यादिभिरिति । पूर्वस्मात्पूर्वस्माद्दशगुणमुत्तरोत्तरैरधिकैरावृतो यत्र त्वय्यणुकल्पोऽणुतुल्यः पतति परिभ्रमति तत्तस्मादनंतस्त्वम् ।। ३७ ।। * * यस्मादेवं परमेश्वरस्त्वमेवान्ये देवास्तव विभूतयोऽतस्त्वां विहाय विषय- कामनयाsन्योपासका अतिमंदा इत्याह । विषयेषु तृष्ट तृष्णा येषां ते नराकाराः पशवः । कुतः । ये विभूतीरिंद्राद्या उपासते न तु परं त्वाम् । ततः किं तत्राह । तेषामिति । तदनु उपास्यनाशानंतरम् । यथा राजकुलमनु राजकुलनाशानंतरम् । तत्सेव- कानामाशिषो नश्यति तद्वत् । अयं च परमोऽवधिर्मध्येऽपि नश्यत्येव ॥ ३८ ॥ विषयकामेनापि कृता त्वत्सेवा मोक्षफलैवेत्याह । कामधियो विषयकामना अपि हे परम त्वयि रचिताः कृताश्वेन रोहति देहांतरोत्पत्तये न भवंति करंभ- बीजानि भर्जितबीजानि यथा यतोऽस्य जीवस्य गुणगणादेव द्वं द्वसमूहा भवंति अतः कामेनापि निर्गुणस्य तव भजनाच्छनैर्नैर्गुण्यं भवतीत्यर्थः ॥ ३६ ॥ * * फलकामनयापि त्वदाराधनं यदा मोक्षहेतुस्तदा किं वक्तव्यं भगवद्धर्ममाहात्म्यमिति वक्तुं तत्संप्रदायप्रवर्तकत्वेन च भगवंतं स्तौति । जितमिति । यदा भगवान् भागवत धर्ममाह तदा हे भगवंस्त्वया जितं सर्वोत्कर्षेण स्थितम् । तत्र हेतुः । ये निष्किचनाः सनत्कुमारादयो मुनयस्ते यं भवंतमपवर्गाय सेवते तेन भवता जितम् । यं धर्ममिति वा ॥ ४० ॥ HEA
- I
- 1
- है
- 1 वंशीधरकृतो भावार्थदीपिकाप्रकाश:
- ततः प्रेमवैवश्यनिवृत्त्युत्तरम् । असौ चित्रकेतुः । सात्वतशास्त्रे पंचरात्रे उक्तो विग्रहः स्वरूपं यस्य तम् । मध्यमपदलोपी समासः । सात्वतशास्त्रं श्रीमद्भागवत्तमेव विग्रहो देहो यस्य तम् । “लोकस्याजानतो विद्वांश्चक्रे सात्वतसंहिताम्” इत्युक्तेः । “तेनेयं वाङ्मयी मूर्तिः कृष्णस्य परमात्मनः” इति पाद्माश्च । शेषस्य साक्षान्नारायणत्वमेव तदवतारेषु " रामकृष्णाविति भुवो भगवानहरद्वरम्" इति प्रथमस्कंधे एकस्यैव द्विरूपतोक्तिर्नासत्यवन्न विरुद्धेति वा ध्येयम् ॥ ३३ ॥ * * विभृतानिश्चिछात् ( १ ) सकामानां कामनामात्रं प्रायो ददाति निष्कामानां त्वात्मानमेव ददातीत्यर्थः ॥ ३४ ॥ * * अत्राक्षिपति -
- क. ६ अ. १६ नो. ३३-४०]
- अनेकव्याख्या समलङ्कृतम्
- ।
- ४९५
- नम्विति । भगवन्निति । त्वमेव भगवान्नान्य इति भावः । “सेशं पुनात्यन्यतमो मुकुन्दात्को नाम लोके भगवत्पदार्थः" इत्युक्तेः । तत्र भगवत्त्वे एवं स्थितेपि ॥ ३५ ॥ अंतिमं कार्य सर्व विश्वम् । अत एवादिमध्यांतवर्त्तित्वादेव | “अहमेवास- मेवात्रे नान्यद्यत्सदसत्परम् । पश्चादहं यदेतच योऽवशिष्येत सोस्म्यहम्” इति ब्रह्माणं प्रति चतुः श्लोक्युपदेशावसरे श्रीमुखोक्ते - बत्वमिति ।। ३६-३७ ।। * * अतः परमेश्वरत्वात् । पशुत्वे हेतुमाशंकते - कुत इति । ततो विभूत्युपासनातः । कि कोनर्थः । तेषामिंद्राद्युपासकानाम् । अयन तदंततदन्ताशीस्थितिलक्षणोऽवधिः मध्येऽपि कदाचित्तत्कोपादिना नाशसंभवादिति भावः " तद्धास्यां ततः क्षीयत एव” इति श्रुतेः ॥ ३८ ॥ * हे परमेति । परान रागद्वेषादीन्निजसेवकानां मिनाति हिनस्तीति परमः रागद्वेषस्यैव मोक्षपरिपंथित्वेन तद्विनाशात्करकलित एव मोक्षो भवतीति भावः । “इंद्रियस्येंद्रियस्यार्थे रागद्वेषौ व्यवस्थितौ । तयोर्न वशमागच्छेत्तौ ह्यस्य परिपंथिनौ ।” इति श्रीगीतोतेः । यतो हेतोः । इत्यर्थ इति । “हित्वा स्वभावजं कर्म शनैर्निर्गुणतामियात्” इत्युक्तेरिति भावः ॥ ३९ ॥ * * हे अजितेति । भक्त्या बिना न केनापि जीयते इत्यजित इति भागवतधर्मस्यैव परमोत्कर्षोऽपि धर्मांतरेभ्य इति भावः । “वशीकुर्वति मां भक्त्या सत्त्रियः सत्पतिं यथा" इति । ‘भक्त्याहमेकया लभ्यः’ इत्याद्युक्तेश्च । तत्र सर्वोत्कर्षस्थित मां तु सङ्क्रामा अपि भजंत्येव न केवलं त एवेति चेत्तत्राह-यं धर्ममिति । वेति ॥ ४० ॥
- ॥
- अन्वितार्थप्रकाशिका
- ।
- तत इति । ततो मनीषया बुद्धया मनः समाधाय वशीकृत्य तथा सर्वेन्द्रियाणां बाह्यवर्तनं विषयाभिमुखंधावनं नियम्य निरुध्य प्रतिलब्धा वाग्येन सोऽसौ चित्रकेतुः सात्वतशास्त्रं भक्तिप्रतिपादकं पञ्चरात्रादि तदुक्तः सच्चिदानन्दात्मको विप्रहो यस्य तं जगद्गुरुं सर्वपूज्यं प्रति एतद्वक्ष्यमाणं बभाषे तं तुष्टाव ॥ ३३ ॥ * * अजितेति । हे अजित ! भवान् शूरैर्देवादिभिचाजितोऽपि सममतिभिर्जितचित्तैः साधुभिस्तु जितः स्वाधीनीकृत एवासितेऽपि निष्कामाः प्रबलैरिन्द्रिया- दिभिरजिता एव यतो यो भवान् तेषामकामात्मनामपि भजतामात्मनोऽतिकरुणश्चासि आर्याचतुर्दशकम् । तत्र स्थूलं लक्षणमपि न सङ्गच्छते नितरां सूक्ष्मं तचार्षत्वात्सोढव्यम् ॥ ३४ ॥ * * तवेति । हे भगवन् जगतः उदद्यस्थितिलयप्रवेशनियम- नादीनि तवैव विभवः लीलाऽस्ति । विश्वसृजो ब्रह्मादयस्तु तवांशस्य पुरुषस्याप्यंशा एव तत्र लोके वयं पृथगीश्वरा इत्यभिमत्याs- भिमानेन ते मृषैव स्पर्धन्ते इत्यन्वयः || ३५ ॥ परमेति । परमाणुः सूक्ष्मं मूलं कारणं परममहत् अन्तिमं कार्य तयोस्त्वमेवाद्यन्तान्तरवर्ती आदावन्ते च अन्तरे मध्ये च वर्त्तितुं शीलं यस्य सः अत एव त्रयविधुरः आद्यन्तमध्यशून्यो नित्यः ते च त्वया सृज्यन्त इति न नित्याः । तत्र हेतुमाह । सत्त्वानां सत्त्वेन प्रतीयमानानां कार्याणामादावन्ते च यद् ध्रुवं स्थिर- मन्तरालेऽपि तदेव ध्रुवं सुवर्णादिवत् ॥ ३६ ॥ * * कालतः परिच्छेदाभावमुक्त्वा देशतोऽप्याह- क्षितीति । पूर्वस्मा- त्पूर्वस्माद्दशगुणमुत्तरैरधिकैः क्षित्यादिभिः सप्तभिर्बहिरावृत एषोऽण्डकोशः ब्रह्माण्ड : अन्यैर्ब्रह्माण्डकोटिभिः सह यत्र त्वयि अणुकल्पः अणुतुल्यः पतति परिभ्रमति तस्माद्भवाननन्त इति शास्त्रे प्रसिद्धः ॥ ३७ ॥ विषयेति । हे ईश ! विषयेषु तृ तृष्णा येषां ते अविवेकित्वान्नराकाराः पशव एव अतो विषयकामनया ते विभूतीः तक विभूतिरूपानिन्द्रादीनुपासते नतु परं सर्वोत्तमं त्वामुपासते तेषामुपासकानामाशिषस्तद्दत्तभोगास्तदनु उपास्यदेवनाशानन्तरमेव विनश्यन्ति । यथा राजकुलनाशा- नन्तरमेव तद्दत्तास्तत्सेवकानां भोगा विनश्यन्ति तद्वदित्यर्थः । अयं च परमोऽवधिर्मध्येऽपि पुण्यक्षये स्वर्गादिभोगनाशस्य प्रसिद्धत्वात् ॥ ३८ ॥ * * कामेति । हे परम ! कामाः राज्याद्या विषयास्तदर्थमपि धियो मतयः ज्ञानात्मनि अगुणमये निर्गुणे त्वयि रचिताः कृताश्चेत्तहिं न रोहन्ति देहान्तरोत्पत्तये न भवन्ति । यथा करम्भबीजानि भर्जितबीजानि अङ्कुरोत्पत्तये न भवन्ति तद्वदित्यर्थः । यतोऽस्य जीवस्य गुणगणत एव द्वन्द्वजालानि संसारकारणानि अहन्ताममवादीनि भवन्ति । अत:
- । कामेनापि तव भजनाच्छनैनैर्गुण्यं भवतीत्यर्थः ॥ ३९ ॥ * * जितमिति । हे अजित ! यदा भवान् भागवतं स्वप्राप्ति-
- । साधनभूतमनवद्यं निर्दोषं धर्ममाह तदैव भवता जितं सर्वोत्कर्षेण स्थितं निष्किञ्चनाः लोकैषणावित्तैषणासुतैषणारहिताः यतो मुनयः मननशीलाः आत्मारामाः आत्मज्ञतया वन्निष्ठा ये तेऽपि अपवर्गाय संसारविमोकेन त्वत्प्राप्तये यं धर्ममुपासते यं भवन्तमिति वा ॥ ४० ॥
- "
- वीरराघवव्याख्या
- ततो मनीषया बुद्धधा मनः समाधाय स्ववशीकृत्य प्रतिलब्धा वाग्येनासौ चित्रकेतुः प्रतिलब्धवाग्रस इति पाठान्तरं तत्र प्रतिलब्धवागमृतः सर्वेन्द्रियाणां बाह्यवर्त्तनं बाह्यव्यापारं नियम्य अपोह्येत्यर्थः । सात्वतशास्त्रं पञ्चरात्रशास्त्रं (१) तत्प्रतिपाद्यो विग्रहो यस्य तं जगद्गुरुं सात्वततन्त्रोपदेष्टारं सङ्कर्षणं प्रति एतद्रक्ष्यमाणं बभाषे वक्ष्यमाणां स्तुतिमकरोदित्यर्थः ।। ३३ ।। * *
- ४९६
- श्रीमद्भागवतम्
- ।
- [ स्कं. ६ अ. १६ लो. ३३-४०
- तामेवाह - अजितेत्यादिना, सहस्रमूर्ध्न इत्यन्तेन, तावदाश्रयण सौकर्यापादक सौलभ्यवात्सल्यम हौदार्यगुणविशिष्टं स्तौति -अजि- तेति । हे अजित ! इतरैः स्वाधीन कर्तुमशक्य हे दुर्लभेत्यर्थः । तथापि साधुभिर्जितः भवान् सुलभ इत्यर्थः । कथम्भूतैः साधु- भिर्विजितः आत्मा मनो यैस्सममतिभिः कृत्स्नं जगद्ब्रह्मात्मकत्वेन पश्यद्भिः कथमेतत्साधुभिर्विजितोऽहमिति तत्राह–यो भवान् भजतामकामात्मनाम् अनन्यप्रयोजनेन भजतामात्मानं स्वं स्वरूपं ददातीत्यात्मदः स्वपर्यन्तदातेत्यर्थः । एवं सौलभ्यमुक्तम् आत्मद इत्यनेन महौदार्यन; अथ वात्सल्यमाह-भवता त्वया ते साधवो विजिताः कुतः ? यतस्त्वमतिकरुण आश्रितवात्सल्य- विवशः अत्यन्तवात्सल्येन त्वया साधवोऽपि वशीकृता इत्यर्थः ॥ ३४ ॥ ननु, परत्वे सत्युक्तं गुणत्रयमाश्रयणसौकर्या- पादकमन्यथा तृणस्येव सौलभ्यं दरिद्रस्येवौदार्य पित्रादेखि कारुण्यमकिञ्चित्करं स्यादित्यत्र परत्वविशिष्टं स्तौति तवेति । हे भगवन् ! जगतः उत्पत्तिस्थितिलयादीनि आदिशब्देन महानन्दरूपमोक्षान्तर्नियमनादिविवक्षितः तव विभवः ऐश्वर्यम् अतस्त्वत्तः परो नास्तीत्यर्थः । एवं परत्वं तत एव निरुपाधिकस्वामित्वञ्चोक्तं ननु, जगदुत्पत्त्यादीनि ब्रह्मरुद्रादीनां विभवो न ममेत्यत्राह विश्वसृज इति । विश्वसृजो ब्रह्मादयः ते तवांशांशाः अग्नेर्विस्फुलिङ्गा इव त्वदशांशभूतत्वान्न तेषां विभवो जगदुत्पत्त्या- दिरित्यर्थः । त्वन्नियोगेन ते जगदुत्पत्त्यादिकर्त्तार इति भावः । ननु, तेपि वयं विश्वस्य स्रष्टयादिकर्त्तार इति स्पर्द्धन्ते तत्राह - तत्रेति । तत्र तेषां त्वदंशांशत्वे सति तावन्मात्रेणैव वयमपि पृथगीश्वरा इत्यभिमानेन मद्दतमीशितृत्वं परमपुरुषायत्तम् इत्यज्ञात्वा मुधा व्यर्थमेव स्पर्द्धन्ते तेषां स्पर्द्धामात्रमवशिष्यते न त्वीशत्वं सिद्धयतीति भावः ॥ ३५ ॥ जगदुत्पत्त्यादेस्तदेक- विभवत्वं दृष्टान्तमुखेन विशदयन्तौति परमाण्विति । परमाणुपरम महतोरल्पीयसो विपुलस्य च वस्तुनो याऽन्याद्यन्तान्तराणि सृष्टिसंहारस्थित्यवस्था इत्यर्थः । तेषु वर्त्तत इतिवर्त्ती अन्तरात्मतया व्याप्य स्थितः त्रयविधुरः आद्यन्तमध्यरहितः त्वमेव कार्यस्य वस्तुनः कारणात्मतया यदादाववतिष्ठतेऽन्ते च यदवशिष्यते तद्विभवत्वमेव हि कार्यस्य वस्तुनो दृष्टं यथा मृत्सुवर्णात्मकघट- कटकादाविति दृष्टान्तोऽभिप्रेतः । एवं समष्टिव्यष्ट्रयात्मकस्य कृत्स्नस्य कार्यजातस्यादौ कारणत्वेनावस्थानादन्ते चावशेषात्त्वद्विभव एव जगदुत्पत्यादिः न तु मध्यस्थचतुर्मुखादेरिति भावः । कार्य वस्तु मध्यस्थस्य विभवो नेति किं वक्तव्यमित्याह - आदाविति । सत्त्वानां कार्यत्वेनावस्थितानां पदार्थानामादावन्ते च यत् ध्रुवं स्थिरम् आदौ कार्यत्वेनावस्थितम् अन्ते चावशिष्टमित्यर्थः । अन्तरालेपि तदेव अन्तरालावस्था तद्विभव एव आद्यन्तयोर्यदस्ति तस्य मध्यस्थविभवकत्वं किं पुनर्न्यायसिद्धमिति भावः । एवं कालत्रयवर्ती त्वमेवेति भावः । अनेन कालतोऽपरिच्छिन्नत्वमप्युक्तम् अथ सर्वदा सर्वत्रान्तरात्मतया व्याप्य स्थितिकथनेन सर्ववस्तुसामानाधिकरण्यरूपवस्त्वपरिच्छेदोप्युक्तः सर्ववस्तुसामानाधिकरण्यमेव हि वस्त्वपरिच्छेदः यद्वा स्वापेक्षयोत्कृष्टगुण- वत्वन्तरराहित्यं वस्त्वपरिच्छेदः स हि जगत्कारणत्वतदुपयुक्त सार्वज्ञ्य सत्यसङ्कल्पत्वाद्याक्षिप्तगुणजातस्य कथनेनाभिहितप्राय एव ॥ ३६ ॥ एवं द्विविधपरिच्छेदराहित्यमुक्तमथ देशपरिच्छेदरहितत्वं वदन्नेतत्त्रिविधपरिच्छेदराहित्यमेव त्वय्यनन्त- शब्दस्य प्रवृत्तौ निमित्तमित्याह - क्षित्यादिभिरिति । पूर्वस्मात्पूर्वस्माद्दशगुणमुत्तरैरधिकैः क्षित्यादिभिः पृथिव्यग्निवाय्वा- काशाहङ्कारमहद्भिः सप्तभिरावृतः एष परिदृश्यमानोऽण्डकोशः ईदृशीभिरण्डकोटिभिः सह सहितो यतस्त्वं ततोऽनन्त ! विभूत्यानन्त्यादनन्तत्वात्त्वमनन्तशब्दवाच्य इत्यर्थः । एतमण्डकोशं विशिनष्टि यत्र एतस्मिन्नण्डकोशे ऽणुकल्पः जीवः पतति संसरति यद्वा यस्मादीदृशीभिरण्डकोटिभिः सह एषोऽण्डकोशः यत्र यस्मिन् त्वयि अणुकल्पः पतति परिभ्रमति ततस्त्वमनन्तः सर्वस्य चेतनाचेतनात्मकाण्डकोशरूपदेशस्य त्वद्वद्याप्यत्वादिदमत्र नास्तीत्येवंरूपदेशपरिच्छेद र हितस्त्वमिति देशाऽपरिच्छेद उक्तः एतत्त्रिविधपरिच्छेदराहित्यमपि परत्वापादकं भवतीत्यर्थः ॥ ३७ ॥ एवं तस्य समाश्रयणीयोपयुक्त गुणवस्तुत्वादेव- तान्तरस्य तदभावं वदन् तमेव स्तोति - विषयतृष इति, ये विषयेषु शब्दादिषु तृट् तृष्णाभिलाषो येषां ते फलकामा नरा एव पशवः ते विभूतीः त्वद्विभूतिभूतान् रुद्रादीनुपासते न तु परं सर्वोत्कृष्टं विभूतिपतिमुपासते हे ईश ! तेषां विषयतृषां विभूती- रुपासीनानामाशिषस्त्वद्विभूतिभिर्दत्ता अर्वाचीनाः स्वर्गादिफलरूपाः पुरुषार्थाः तदनु विभूतिविनाशमनु नश्यन्ति यथा राजकुलं यथा राजकुलविनाशमनु तत्सेवकानामाशिषो नश्यन्ति तद्वत् उक्तं च त्वयैव । “यो यां यां तनुं भक्तः” इत्यारभ्य ‘लभते च ततः कामान्मयैव विहितान हि तान् । अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम्" इत्यन्तेनेति भावः । त्वद्विभूतीनां परत्वादि- गुणपूर्त्यभावादिति तात्पर्यम् ॥ ३८ ॥ त्वदेकप्रयोजनत्वेन कृतास्त्वत्सेवास्तु निरतिशयनित्यफलजनकत्वान नश्यन्ती- त्याह – कामधिय इति । त्वयि विषयभूते रचिताः कृताः याः कामधियः त्वदेवकप्रयोजनास्त्वद्विषया उपासनाः
- परम, पुनर्न रोहन्ति न बन्धाय भवन्ति नित्यनिरतिशयत्वादनुभवरूपानन्दापादका एव भवन्ति न पुनर्जन्ममरणादिरूपबन्धाय भवन्तीत्यर्थः । पुनररोहे दृष्टान्तः यथा करम्भबीजानीति यथा भर्जितबीजानि पुर्नन रोहन्ति नारीभवन्ति तद्वत् पुनररोहे हेतुं वदंस्तं विशिनष्टि - ज्ञानात्मनीति, गुणमयः सत्त्वादिप्रकृतिगुणविकारः स न विद्यते यस्य सोऽगुणमयस्तथाभूते नित्यासंकुचिता- परिच्छिन्नज्ञानस्वरूपे त्वयि गुणमूलककर्मावश्यत्वात्तन्मूलकसङ्कुचितज्ञानत्वा कर्मसाध्यमोक्षाधिपत्यप्रणतजनानिष्टपरिहार- कत्वात्तदिष्टप्राणसमर्थत्वादिगुणयुक्तत्वात्त्वयि रचिताः कामधियों न पुनरनर्थरूपबन्धाय भवन्ति देवतान्तराणान्तु क्तविपरीत-
- स्कं. ६ अ. १६ श्लो. ३३-४०]
- अनैकव्याख्यासमलङ्कृतम्
- ४९७
- गुणत्वात्तेषु रचिताः स्वर्गादिकामधियो नश्यन्तीति भावः । तदेवाह - गुणगणत इति, अस्य विरश्चिप्रभृत्यकिश्ञ्चनपर्यन्तस्य जीववर्गस्य गुणानां सत्त्वादिप्रकृतिगुणानां ये गणां विकाररूपाः सङ्घाः तेभ्यः गुणगणत: द्वन्द्वजालानि सुखदुःखादीनि इन्द्र- जालानि भवन्ति उपास्यदेवतान्तरस्यापि उपासकवत्कर्म वश्यत्वादियुक्तत्वात्तत्सेवा शृङ्खलितस्य पुंसस्तादृशसेवावदनिष्टपरिहारे- ष्टप्रापणक्षमा न भवतीति भावः । एवं ज्ञानशक्तत्याद्याश्रितकार्यापादकगुणपूर्त्तिरप्युक्ता । एवं समाश्रयणीयत्वोपयुक्तपरत्वादि- गुणपूर्णत्वेन देवतान्तरेभ्यो वैलक्षण्यं तस्यैव समाश्रयणीयत्वं चोक्तं भवति ॥ ३९ ॥
- अथ यत एव भवानितरेभ्यः
- परः अत एव त्वदाराधनात्मकस्त्वदभिहितो धर्मः तदनुष्ठातारचे तरदेवताराधनरूपधर्मतदनुष्ठातृभ्यो विलक्षणा इत्याह- जितमिति त्रिभिः, हे अजित, अजितशब्दप्रवृत्तिनिमित्ताश्रयं, भवता यथा जितं सर्व स्ववशीकृत्य तस्मात्परत्वेनावस्थितम् एतदेवाजित- शब्दप्रवृत्तिनिमित्तमित्यपि सूचितं तथा धर्मेणेति शेषः । त्वदाराधनभूतधर्मेणापि जितमित्यर्थः । सोऽपि सर्वोत्कृष्ट इत्यर्थः । कौसौ धर्म: ? तत्राह-यं भागवतं भगवतस्तवाराधनरूपमनवद्यं निर्दुष्टं धर्म भवानाह पञ्चरात्रगीतादिमुखेनोक्तवान् यश्च धर्म निष्किञ्चना : अनन्यप्रयोजनाः आत्मारामाः ब्रह्मगुणानुभवपरा ये मुनयः अपवर्गाय मुक्तय उपासतेऽनुतिष्ठन्ति ॥ ४० ॥
- विजयध्वजतीर्थकृता पदरत्नावली
- 1
- मनीषा धृतिरूपया प्रज्ञया प्रतिलब्धः सम्यक्प्राप्तो वासो वचनवीर्य येन स तथा सात्वतानां शास्ता विप्रहस्तत्त्वो- पदेशविशेषो यस्य स तथा तं सर्वेद्रियाणां बाह्येषु विषयेषु वर्तमानं व्यापारम् ॥ ३३ ॥ हे अजित ! अतिकरुणो यस्त्वमकामानां भजतां साधूनामात्मदो यस्मादतस्ते साधवोपि भवता विजिताः किञ्च जितमनस्कैः समबुद्धिभिः साधुभिर्मवा- नपि जितो वशीकृतः चशब्दो नियतत्वं सूचयति ॥ ३४ ॥ ॐ तत्सत्त्वे प्रमाणमाह- तवेति । जगदुत्पत्त्यादीनि तब विभवः स्वरूपलक्षणानि खलु यस्मात्ततस्तत्र तस्यामवस्थायां शास्त्रेण स्थितायां ते भिन्नांशाः विश्वसृजोऽहं जगदीश्वरो जगत्स्रष्टेति पृथक जगदीश्वरत्वाभिमानेन मृषा निष्प्रयोजनं स्पर्धन्तीति व्यत्यासेन हरेर्माहात्म्यस्यानन्तत्वं दर्शयति ॥ ३५ ॥ तव विभव इत्यादिना गुणानन्त्यमुक्तमधुनाकालदेशानन्त्ये आह - परमाण्विति । त्वं त्रयविधुरः अणुमहन्मध्यपरिमाणरहितोपि स्वतः प्राकृतपरिमाणाभावात् परमाणुपरममहतोरादावन्तेऽन्तरे च वर्तितुं शीलमस्यास्तीति आद्यन्तान्तर्वर्ती परमाणुलक्षण- कालावयवस्य परममहत्कालावयवस्य च मध्यकालावयवस्य च वर्तते इति सत्त्वानामित्युपलक्षणं घटादीनामप्यादावुत्पत्तेः पूर्वमन्ते प्रध्वंसादूर्ध्व यत्ते स्वरूपं ध्रुवम् अव्यभिचारि तदेवान्तरकाले मध्यकालेपि वर्तत इति शेषः ॥ ३६ ॥ य आण्डकोशो दशगुणोत्तरैः सप्तभिः क्षित्यादिभिरावृतः स एषोण्डकोटिभिः सह यत्र भगवति अणुभ्योऽणुकल्पः सूक्ष्मात्सूक्ष्मतरो वर्तते तद्धरेः स्वरूपमनन्तमिति हेतुगर्भविशेषणम् अपरिच्छिन्नत्वादुचितमिति भावः ॥ ३७ ॥ * * एवं स्वरूपमुक्त्वाऽ- न्वयव्यतिरेकाभ्यां तज्ज्ञानफलमाह - विषयेति । विषयतृषः शब्दादिविषयतृष्णावन्तः अत एव नरपशवः विभूतीर्ब्रह्मादिशब्द- वाच्याः परं तेषां पातारं ज्ञानादिपूर्तिप्रदातारं तेभ्योप्युत्तमं तदनु प्राप्तिसमनन्तरं किञ्चित्कालं फलानुभवानन्तरं वा " तद्धास्यां ततः क्षीयत एव" इति श्रुतेः अराजकुलं पालकेन राज्ञा शून्यो जनसमुदायो धर्मविरुद्धानां राज्ञां कुलं वा ॥ ३८ ॥ * कामधियः शब्दादिगुणविषयज्ञाना अगुणभये प्रकृतिगृणविकृतदेहादिशून्ये ज्ञानात्मनि रचिताः यदि स्युस्तर्हि पुनर्नारोहन्ति नोत्पद्यंते करम्भबीजानि भर्जितधानाः गुणगणतो विषयसमूहादस्य जगतो द्वन्द्वजालानि सुखदुःखादीनि भवन्तीति शेषः ॥ ३९ ॥ ** दुःखात्मकसंसारनिवृत्तिः केन स्यादित्याशङ्कय भागवतधर्मानुष्ठानेन तन्निवृत्तिः स्यादित्याशयवानाह- जितमिति । हे अजित, भवान्यदापवर्गाय मुनयो यं धर्ममुपासते तं भागवतधर्ममाह । तदा भवता संसारस्वरूपं जितं भागवत - धर्ममाह । तदा भवता संसारस्वरूपं जितं भागवतधर्मकथनेन भक्तानां संसारजयोपायो दर्शित इत्यर्थः ॥ ४० ॥
- जीवगोस्वामिकृतः क्रमसन्दर्भ :
- विश्वसृजः ब्रह्मरुद्रन्द्राद्याः अंशांशा: अत्यल्पांशा इत्यर्थः ।। ३६-३६ ॥
- *
- दशगुणा उत्तरोत्तरा येषां तैरित्यर्थः ।। ३७-३९ ॥ 8 * जितमिति निजोत्कर्ष आविष्कृतः । भगवन्निति पाठ: स्वामिसम्मतः भवतेति प्रायः सर्वत्र ॥ ४० ॥
- विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी
- प्रतिलब्धवाक तत्कृपयैवेत्यर्थः । सात्वतशास्त्रोक्तः सच्चिदानन्दमयो विग्रहो देहो यस्येत्यनेन ज्ञानशास्त्रोक्तस्य माया- मयविग्रहत्वस्य प्रामाण्यं वारितम् ॥ ३३ ॥ * “परस्परवशीभावलभ्यानन्दरसाम्बुधौ । मज्जेतां भगवद्भक्तौ भक्त्यै- वेत्याह"- संस्तुवन् । हे अजित ! ज्ञानियोगिप्रभृतिभिस्त्वमजित एव साधुभिर्भक्तैस्तु भवान् जितः अधीनीकृतः सममतिभिः
- ६३
- i
- ४९५
- श्रीमज्ञागवतम्
- [ स्कं. ६ अ. १६. ३३-४०
- खकीयपरकीयसुखदुःख समबुद्धिभिर्जितात्मभिर्जितमनस्कत्वेन मनोधर्मस्य कामस्यापि जितत्वात् निष्कामैः तेषां तदुपासमे निष्कामत्वमेव स्वज्जये कारणमिति भावः । ते साधवोपि भवता विजिताः यतो भजतामकामात्मनां भजइयो निष्कामेभ्यः यो भवानात्मदः आत्मानमेव ददाति । यदि यूयं मां परिचर्य किमप्यपवर्गादिकमपि मत्तो नैव वृणुध्वे तर्हि यथेष्टं रात्रिदिनं मामेव परिचरथ माम् ऋणीकुरुथेत्यात्मानं तेभ्योदददेव बलादात्मनः सौन्दर्य सौस्वर्यं सौरभ्यादीनि तन्नयनश्रवणादीन्द्रियभोगार्थमर्पय- वीत्यर्थः । तेन तद्विजये भवतोप्यात्मदत्यमेव कारणमिति भावः । अत्र साधुभिरिति ज्ञानिभिरपीति न व्याख्येयम् । उत्तरार्द्धे भजतामकामात्मनामिति विशेषणद्वयस्य तद्वयावर्त्तकत्वात् ज्ञानिनां भजनन्तु मोक्षसिद्धयर्थं साधनदशायामेव । अत्र तु भजतामिति वर्त्तमाननिर्देशः । निष्कामत्वं त्वात्यन्तिकदुःखनिवृत्तिकामत्वात्तेषां नास्त्येव ॥ ३४ ॥ एवं प्रभुभक्तयोः परस्परवशीभावमाख्याय, प्रभोः प्रभावमाह - तवेति त्रिभिः । विभवो महिमा ननु ब्रह्मादयो जगदुदयादिहेतवो दृश्यन्ते तत्राह - विश्वेति । ननु, ब्रह्मरुद्रादिभक्ताः स्वस्वसेव्यानामेव जगदीश्वरत्वं प्रतिपादयन्तो मिथः स्पर्द्धन्ते इत्यत आह-तत्र मृषेति । पृथगभिमत्या वयं हैरण्यगर्भाः शैवाः सौरा इत्याद्यभिमानवन्तः ।। ३५ ।। * त्वमेव सृष्टयादिकर्ता वास्तववस्तुरूप इत्युप- पादयति परमाणुः सूक्ष्ममूलकारणं परममहत् अन्तिमं कार्य तयोस्त्वमेवाद्यन्तान्तरवर्ती आदावन्ते अन्तरे मध्ये च वर्त्तितुं शीलं यस्य सः । अत एव त्रयविधुर आद्यन्तमध्यशून्यो नित्यः यतः सत्वानां कार्यव स्तनाम् आदौ अन्ते च यत् ध्रुवं कारणत्वेन स्थिरं तदेव अन्तरालेपि सुवर्णादिवत् अतस्त्वमेव सर्वकारणं वास्तवं वस्तु अन्यत् सर्व कार्यजातमवास्तवं वस्त्वित्यर्थः ॥ ३६ ॥ एवं कालतः परिच्छेदाभावमुक्त्वा देशतोप्यपरिच्छेदमाह क्षित्यादिभिः । क्षितिजलतेजआकाशाहङ्कारमहत्तत्त्वप्रकृतिभिः सप्तभि: पूर्वस्मात् पूर्वस्मात् दशगुणाधिकैरावृतः यत्र त्वयि अणुकल्पः पतति परिभ्रमति तत्तस्मादनन्तस्त्वम् ॥ ३७ ॥ * * एवं प्रभोः सर्वोत्कर्षमाख्याय भक्तस्यापि तमभक्तनिन्दया प्रथमं व्यतिरेकेणाह - विषयेति । विभूतीरिन्द्राद्याः न तु त्वां तदनु उपास्य नाशानन्तरम्, यथा राजकुलनाशानन्तरं तत्सेवकानामाशिषो नश्यन्ति ॥ ३८ ॥ * * भक्तस्योत्कर्ष कैमुत्तिकन्या- येनान्वयेनाह - कामा राज्याद्यास्तदर्थ धियो मतयस्त्वयि रचिताः कृताश्चेत् न रोहन्ति देहान्तरोत्पत्तये न भवन्ति, यथा, करम्भबीजानि भ्रष्टयवबीजानि तथैव, यद्यपि कामधियोऽन्यत्र रोहन्त्यो दृष्टाः, भ्रष्टबीजतुल्या न भवन्ति । तदपि विषयसाद्गु- ण्याद्भवन्तीत्याह, ज्ञानात्मनि चिन्मये अगुणमये गुणमयात् पदार्थाद्भिन्ने अतो रसकूपपतितं वस्तु यथा रस एव भवेदेवं त्वयि प्रविष्टाः कामधियोऽपि चिन्मय्यो भवन्तीति कथं तासां संसारहेतुत्वं स्यादित्यर्थः । यतो गुणगणत एव द्वन्द्वजालानि संसार- कारणानि भवन्ति ॥ ३९ ॥ यद्येवं स्वमहिम्ना सकामाया अपि भक्तेः श्रैष्ठयं तदा किमुत निष्कामाया: किन भक्तेर्निष्कामत्वञ्च त्वत्प्रवर्तितमतो निष्कामभक्तेर्यत्तव जयः पूर्व प्रतिपादितस्तत्रापि परमकृपालुः स्वभक्तवशीभावेप्सुस्त्वमेव कारणम् इत्यतो वस्तुतस्तवैव विशेषतो जय इत्याह - जितमिति । हे अजित, भागवतं धर्मम् अनवद्यं निष्कामं यदैव भवानाह तदेव जितं भवतैव भक्ता ऋणीकृताः येनैव निष्कामभक्तियोगेन भक्तैर्भवान् जीयते तस्य त्वयैवोक्तत्वात्त्वद्गुणं त्वमेव स्वभक्ताधीनत्वाभिलाषसाधकं कृपाविशेषमास्वादयन्तः प्रत्युत एवं भक्ता स्वयमेव ऋणीभूय स्थिताः भवन्तीति भावः । ये निष्किञ्चना प्रथमत एव शुद्धभक्ताः तथा तत्सङ्गतस्य त्यक्तस्वनिष्ठा मुनयस्तापसा आत्मारामाः जीवन्मुक्ताश्च केचन यमेव धर्ममुमासते यद्वा, निष्किञ्चना इत्यस्यैव विशेषणद्वयं मुनयस्त्वन्मननशीला आत्मारामास्त्वय्येव रममाणा इत्यर्थः । अपवर्गीय अपकृष्टा वर्गाश्चत्वारोपि यतस्तस्मै प्रेम्णे अपवर्गश्च भवति । योसावित्यादि पञ्चमस्कन्धीयगद्योक्तलक्षणाय भक्तियोगायेति ॥ ४० ॥
- शुकदेवकृत: सिद्धांत प्रदीप:
- …
- सात्वतशास्त्रे प्रतिपाद्यतया विग्रहो प्राकृतो देहो यस्य तं यद्वा सात्वतशास्त्रं विप्रवत्प्रियं यस्य तम् ॥ ३३ ॥ * * जितः आत्मा मनो यैस्तैः अकामः ऐहिकामुष्मिकभोगवासनाशून्यः आत्मा मनो येषां तेषाम् ॥ ३४ ॥
- जगदुद्- यादीनि तवैव विभवः ऐश्वर्यं विश्वसृजो ब्रह्मरुद्रेन्द्रादयः तवांशांशाः पृथगभिमत्य पृथक् पृथक् ईश्वरत्वबुद्धया तत्र जगदुदयादिषु मृषा स्पर्द्धति त्वां सर्वात्मानं सर्वकर्त्तारं विस्मृत्येति शेषः ॥ ३५ ॥ परमाणुः अतिसूक्ष्मः परममहान्समष्टिकार्यरूपः पदार्थः तयोरादौ स्रष्टृतया अन्ते संहर्तृतया अन्तरे मध्ये नियन्तृतया वर्त्तमानस्त्वमसि स्वयं तु त्वं त्रयविधुरः स्रष्टृसंहर्तृ- नियन्तृरहितः अत एव सत्त्वानां ब्रह्मादिस्तंबपर्यन्तानामादावन्तेऽपि यद्ध्रुवं तदेवान्तरालेपि यद्ध्रुवं तत्त्वमेवासि सर्वरूपो - सीत्यर्थः ॥ ३६ ॥ * दशगुणोत्तरैः पूर्वस्मात्पूर्वस्माद्दशगुणमुत्तरैरधिकैः क्षित्यादिभिः सप्तभिरेष किलावृतो ऽण्डकोशः सहाण्डकोटिभिर्यत्राणुकल्प अणुतुल्यः पतति भ्रमत्यतः स त्वमनन्तोसि ॥ ३७ ॥ एवंभूतं परं पूर्णं त्वां मुक्तिदं ये नोपासते ते नरपशवः नराकारपशवः यतो विषयतृषो विषयेषु इन्द्रियार्थेषु तृट् येषां ते इन्द्रियार्थप्राप्तये विभूतीः भवद्विभूति - भूतान इन्द्रादीन् उपासते तेषां नरपशूनाम् आशिषः इन्द्रादिदत्ताः सम्पदः तदनु इन्द्रादिनाशानन्तरं यथा राजकुलनाशानन्तरंस्क. ६ अ. १६ श्लो. ३३- ४०]
- अनेकव्याख्यासमलङ्कृतम्
- तद्दत्ता: तत्सेवकाशिषो विनश्यन्ति तद्वद्विनश्यन्ति, अन्यदेव भक्ता अकृतार्था एवेति भावः ॥ ३८ ॥ * * त्वद्भक्तेषु तु ये सकामत्वेन निकृष्टाः तेऽपि कृतार्था भवन्तीत्याह - कामधिय इति । गुणाः विषयास्तेवां गणतः बुद्धिस्थविषयवासनासमूहतः अस्य जीवस्य द्वन्द्वानां जन्ममरणादीनां जालानि भवन्ति एवंभूता ये जन्ममरणजा लक्षणसंसारप्रापकाः काम्यन्त इति कामाः, विषयगणास्तदर्शधियः बुद्धयः हे परम सर्वोतम, ज्ञानानां जीवानामात्मनि आश्रये प्रिये च गुणमयः संसारस्तद्भिने मुक्तिप्रदे मुक्तौ प्राप्ये च त्वयि रचिताः कृताः न रोहन्ति जन्ममरणफलगा न भवन्ति किन्तु ध्रुवादीनामिव कामान् दत्वा मुक्तिप्रापका मवन्तीत्यर्थः ॥ ३६ ॥ * * सकामा अपि भगवद्भक्ता मुक्ता भवन्तीति भगवद्भजनमाहात्म्यमुक्त्वाऽथ निष्कामानां भगवद्भक्तानां श्रेष्ठयं निष्कामभजनस्य च भगवत्प्रोक्तत्वेन सर्वभूतहितत्त्वादिना च परमं श्रेष्ठ मध्ये काम्यकर्मणोः दुष्टत्वच वर्णयन् भगवन्तं स्तौति - जितमिति चतुर्भिः । हे अजित हे भगवन्, त्वया तदैव जितं सर्वोत्कर्षेण स्थितः यदा ये निष्किञ्चना मुनयः त्वन्मननशीलाः आत्मनि त्वय्येवारामो येषां ते मुमुक्षवः अपवर्गाय यमुपासते तमनवद्यं निष्कामं भागवतं धर्ममाह ॥ ४० ॥
- ।
- गोस्वामिगिरिधरलाल विहिता बालप्रबोधिनी
- ततो मनीषया बुद्धधा मनः समाधाय वशीकृत्य तथा सर्वेन्द्रियाणां बाह्यवर्तनं विषयाभिमुखधावनं नियम्य निरुध्य प्रतिलब्धा वाग्येन सोऽसौ चित्रकेतुः सात्त्वतशास्त्रं भक्तिप्रतिपादकं पञ्चरात्रादि तदुक्तः सच्चिदानन्दात्मको विग्रहो यस्य तं जगद्गुरुं सर्वपूज्यं प्रति एतद्वक्ष्यमाणं बभाषे तं तुष्टावेत्यर्थः ॥ ३३ ॥ * स्तुतिमेव दर्शयति- अजितेति पञ्चदशभिः । हे अजित भवान् शूरैर्देवादिभिश्चाजितोऽपि साधुभिर्भक्तैस्तु जितः स्वाधीन एव कृतः तत्र हेतुमाह - सममतिभिरिति, सर्वत्र स्थावरजङ्गमेषु समं त्वां पश्यद्भिरित्यर्थः । ननु विषयाकृष्टचित्तानां कथं सर्वत्र मम दर्शनं सम्भवति तत्राह - जितेति, जित आत्मा देहेन्द्रियान्तःकरणसङ्घातो यैस्तैरित्यर्थः । तेऽतिप्रबलैरिन्द्रियादिशत्रुभिरजिता अपि भवताऽपि विजिता वशीकृता एव । चकारो ऽवधारणे । यतो यो भवांस्तेषामकामात्मनामपि भजतामात्मदो भवति । तर्हि किं बलात्कारेण तैरहं वशीक्रियते इत्याशङ्कयातिकरुणत्वात् कृपया स्वयमेव तद्वशीभवतीत्याह- अतीति ॥ ३४ ॥ * * एवं स्वामिसेवकयोः परस्परवशी- भावमाख्याय प्रभोः प्रभावमाह - तवेति त्रिभिः । हे भगवन् ऐश्वर्यादिगुणपूर्णजगत उदद्यादीनि तवैव विभवः विभवनं महिमा लीलेति यावत् । आदिशब्देन प्रवेशनियमनादीनां ग्रहणम् । खल्वित्यवधारणे । ननु जगदुदयादिकर्त्तारो ब्रह्मादयः प्रसिद्धा एव कथमहं तत्कर्तेत्याशङ्कयाह - विश्वेति । विश्वसृजो ब्रह्मादयस्तु न त्वत्तः पृथगीश्वराः किन्तु ते तवांशो यः पुरुषस्तस्यांशा एव ननु तर्हि कथं तेषां परस्परं स्पर्धेत्याशङ्कयाह-तत्रेति । तत्र विश्वस्मिन् वयं पृथक् पृथगीश्वरा इत्यभिमानेन ते मृषैष स्पर्द्धन्तीत्यन्वयः ।। ३५ ।। * * वस्तुतस्तु परमार्थसद्रूपत्वात्त्वमेव सृष्टयादिकर्त्तेत्युपपादयति– परमाण्विति । परमाणुः सूक्ष्मं मूलं कारणं परमं महत् अन्तिमं कार्य तयोस्त्वमेवाद्यन्तरवर्ती आदावन्ते च अन्तरे मध्ये च वर्तितुं शीलं यस्य सः । अतएव विधुरः आद्यन्तमध्यशून्यो नित्यः ते च त्वया सृज्यन्त इति न नित्याः । तत्र हेतुमाह-सत्त्वानां सत्त्वेन प्रतीयमानानां कार्याणामादावन्ते च यद्ध्रुवं स्थिरमन्तरालेऽपि तदेव ध्रुवं सुवर्णादिवत् ॥ ३६ ॥ * एवं नित्यत्वेन कालतः परिच्छे- दाभाव उक्तो देशतोऽप्यपरिच्छेदमाह– क्षित्यादिभिरिति । पूर्वस्मात् पूर्वस्माद्दशगुणमुत्तरैरधिकैः क्षित्यादिभिः सप्तभिर्बहिरावृत एषोsusकोश: ब्रह्माण्ड: यत्र त्वयि अणुकल्पः अणुतुल्यः पतति परिभ्रमति । तदपि नैकेन किन्त्वन्यैश्च ब्रह्माण्डकोटिभिः सह तस्माद्भवाननन्त इति शास्त्रे प्रसिद्धः । किलेति शाखप्रसिद्धिस्मरणार्थः ॥ ३७ ॥ * एवम्भूतं सर्वेश्वरं त्वां विहायान्यो- treat अतिमन्दा इत्याह-विषयेति । विषयेषु तृष्ट तृष्णा येषां ते अविवेकित्वान्नराकाराः पशव एव अतो विषयकामनया पासका ते विभूतीः तव विभूतिरूपानिन्द्रादीनुपासते । न तु परं सर्वोत्तमं त्वाम् । अतस्तेषां चिन्तित विपर्ययो भवतीत्याह– तेषामिति, तेषामुपासकानाम् आशिषस्तद्दत्तभोगाः तदनु उपास्यदेवनाशानन्तरमेव विनश्यन्ति । तत्र दृष्टान्तमाह-यथेति यथा राजकुलनाशानन्तरमेव तदत्तास्मत्सेवकानां भोगा विनश्यन्ति तद्वदित्यर्थः । अयं च परमोऽवधिर्मध्येऽपि पुण्यक्षये स्वर्गादि- भोगनाशस्य प्रसिद्धत्वात् । एतत्सर्वं शास्त्रप्रसिद्धं ज्ञात्वाऽपि जनो मुह्यत्यहो तब मायाप्राबल्यमित्याश्चर्येण सम्बोधयति हे ईशेति ॥ ३८ ॥ * विषयकामनयाऽपि कृता त्वत्सेवा मोक्षफला किं पुनर्निष्कामनया कृता सा मोक्षफलेति त्वमेव सेव्यो नान्य इत्याह— कामेति । हे परम पुरुषोत्तम कामा: राज्याचा विषयास्तदर्थमपि धियो मतयस्त्वयि रचिताः कृतान्तर्हि न रोहन्ति देहान्तरोत्पत्तये न भवन्ति । तत्र दृष्टान्तमाह यथेति, करम्भबीजानि भर्जितबीजानि यथा अङ्कुरोत्पत्तये न भवन्ति तद्वदित्यर्थः । नन्वन्यत्र कामधियों रोहन्त्यो दृष्टाः मयि कथं न तथा स्युरित्याशङ्कयाह - ज्ञानेति । यतोऽस्य जीवस्य गुणगणत एव द्वन्द्वजालानि संसारकारणानि अहन्ताममतादीनि भवन्ति । अतः कामेनापि ज्ञानात्मनि सचिदानन्दविग्रह अगुणमये प्राकृत- गुणकार्यभिन्ने त्वयि बुद्धिपर्यवसानाच्छनैनैर्गुण्येन मोक्ष इत्यर्थः ॥ ३९ ॥ * एवं भगवद्भजनस्त्रोत्कर्षं निरूप्य तत्सम्प्रदाय-
- 1
- श्रीमद्भागवतम्
- [ स्कं. ६ अ. १६ श्लो. ३३-४०
- प्रवर्त्तकत्वेन भगवन्तं स्तौति - जितमिति । हे अजित यदा भवान् भागवतं स्वप्राप्तिसाधनभूतम् अनवद्यं निर्दोषमाह तदैव भवता जितं सर्वोत्कर्षेण स्थितम् । तद्योग्यमेवेति सूचयन् पुनः सम्बोधयति — हे भगवन्निति । अनवद्यत्वे परमफलकत्वे च सदाचार- लक्षणं गमकमाह - निष्किञ्चनेति, निष्किञ्चनाः लोकैषणावि त्तैषणा सुतैषणा रहिताः यतो मुनयः मननशीलाः आत्मारामाः आत्म- ज्ञतया तन्निष्ठाः ये तेऽपि अपवर्गाय संसारविमोकेन त्वत्प्राप्तये धर्ममुपासते ।। ४० ।।
- भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी
- *
- तत इति । ततः असौ चित्रकेतुः, मनीषया स्वबुद्धया, मनः समाधाय स्ववशीकृत्य, प्रतिलब्धा वाग्येन तथाभूतः सन्, सर्वेन्द्रियबाह्यवर्त्तनं नियम्य अपोह्य, सात्त्वतशास्त्रं तत्प्रतिपाद्यो विग्रहो देहो यस्य तं जगद्गुरुं सात्त्वततन्त्रोपदेष्टारं संकर्षणं प्रति, एतद्वक्ष्यमाणं बभाषे । वक्ष्यमाणां स्तुतिमकरोदित्यर्थः ॥ ३३ ॥ * अजितेत्यादिना सहस्रमूर्द्ध इत्यन्तेन चित्रकेतुकृतां स्तुतिमाह । तत्र तावदाश्रयणसौकर्यापादक सौलभ्यवात्सल्यम हौदार्यादिगुणविशिष्टं स्तौति । अजितेति । हे अजित ! इतरैः स्वाधीनं कर्तुमशक्य, भवान् अन्यैरजितोऽपि त्वं, जित आत्मा मनो यैस्तैः सममतिभिः कृत्स्नं जगद्बह्मा- त्मकत्वेन पश्यद्भिः साधुभिः जितः । त्वद्भक्तैः साधुभिस्तु त्वं वशीकृत एव भवसीत्यर्थः । कथमहं साधुभिर्विजित इति तत्राह । यो भवान्, अकामात्मनाम् भजताम् आत्मदः । निष्कामभावेन भजतां स्वस्वरूपं ददातीत्यर्थः । अन्येषां दुर्दमोऽपि भवान् साधूनां सुलभ एव भवतीति भावः । ते उक्तविधाः साधवः अपि भवता च, विजिताः । कुतः । यतः, यस्त्वम् अतिकरुणः आश्रितवात्सल्यविवशः, अत्यन्तवात्सल्येन त्वया साधवोऽपि वशीकृता इत्यर्थः । एवमत्रात्मद इत्यनेन सौलभ्यमुक्तं तथौदार्य च अतिकरुणम् इत्यनेन वात्सल्यं च भगवत्युक्तम् ॥ ३४ ॥ ननु परत्वे सति तूक्तं गुणत्रयं सौकर्यापादकं भवत्यदन्य- थात्वे तु तृणस्येव सौलभ्यं दरिद्रस्येवौदार्य पित्रादेरिव कारुण्यं सर्वथाऽकिंचित्करं स्यादतः परत्वविशिष्टत्वेन स्तौति । तवेति । हे भगवन्, जगदुद्भवस्थितिलयादीनि आदिशब्देन मोक्षप्रदत्वादिकं तव विभवः ऐश्वर्यं खलु । अतस्त्वत्तः परो नास्तीत्यर्थः । एवं तबैव सर्वपरत्वान्निरुपाधिकस्वामी त्वमेवेति भावः । ननु जगदुत्पत्त्यादीनि तु ब्रह्मरुद्रादीनां विभवो न ममेत्यत्राह । विश्वसृज इति । विश्वसृजो ब्रह्मादयः, ते तब, अंशांशाः तवांशः पुरुषस्तस्याप्यंशाः, त्वदंशांशभूतत्वाज्जगदुत्पत्त्यादिर्न तेषां विभव इत्यर्थः । त्वन्नियोगेन ते जगदुत्पत्त्यादिकर्त्तार इति भावः । ननु तेऽपि वयं विश्वसृष्टयादिकर्त्तार इति स्पर्द्धन्ते तत्राह तत्रेति । तत्र तेषां त्वदंशांशत्वे सति, पृथगभिमत्या वयमपीश्वरा इति पृथक पृथगीश्वरत्वाभिमानेन मृषा स्पर्द्धन्ते । मद्दतमीशितृत्वं परमपुरुषायत्तमित्यज्ञात्वा केवलं मुधैत्र स्पर्द्धां कुर्वन्तीत्यर्थः । तेषां ततः स्पर्द्धामात्रमवशिष्यते न त्वीशत्वं सिद्धयतीति भावः ।। ३५ ।। * * जगदुत्पत्त्यादिविभवत्वं दृष्टान्तमुखेन विशदयन् स्तौति । परमाण्विति । परमाणुः सूक्ष्मं मूलकारणं परममहदन्तमं कार्यं तयोः, अल्पीयसोः विपुलस्य च वस्तुन इत्यर्थः । आद्यन्तान्तराणि सृष्टिसंहारस्थित्यवस्थास्तेषु वर्त्त इति आद्यन्तान्तरवर्त्ती अन्तरात्मतया व्याप्य स्थित इत्यर्थः । त्वमेव त्रयविधुरः आद्यन्तमध्यरहितश्चापि त्वमेव भवसि । सत्त्वानां कार्यत्वेनाऽवस्थितानां पदार्थानाम् आदौ, अन्ते चापि यत् ध्रुवं स्थिरम्, अन्तरालेऽपि तदेव । एवं कालतः वस्तुतश्चा- परिच्छेद उक्तः ॥ ३६ ॥ * * एवं द्विविधपरिच्छेदराहित्यमुक्त्वा सांप्रतं देशपरिच्छेदरहितत्वं वदन्नेत त्रिविधपरिच्छेद- राहित्यं यत्तदेवानन्तशब्दस्य प्रवृत्तौ निमित्तमित्याह । क्षित्यादिभिरिति । दशगुणोत्तरैः पूर्वस्मात्पूर्वस्माद्दशगुणमुत्तरोत्तराधिकैः, क्षित्यादिभिः पृथिव्यबनिवाय्वाकाशाहंकारमहद्भिः सप्तभिः, आवृतः, एष परिदृश्यमानः, अयम् अण्डकोशः, ईदृशीभिरिति शेषः । अण्डकोटिभिः सह यत्र यस्मिंस्त्वयि अणुकल्पः अणोरपीषन्न्यूनः सन् पतति परिभ्रमति किल । तत्तस्मात् त्वम् अनन्तः असि । सर्वस्य चेतनाऽचेतनात्मकाण्डकोशस्य त्वद्वयाप्यत्वादिदमत्र नास्तीत्येवं देशपरिच्छेदराहित्यमपि तव परत्वापादकं भवतीत्यर्थः ॥ ३७ ॥ * * एवं तस्य समाश्रयणीयत्वोपयुक्त गुणवत्त्वाद्देवतान्तरस्य तदभावत्वं वदंस्तमेव स्तौति । विषयतृष इति । ये, विषयेषु शब्दादिषु तृट् तृष्णा येषां ते विषयाभिलाषिण इत्यर्थः । नरपशवः नराकारत्वेऽपि पशुसमानधर्माः, ते विभूतीस्त्वद्विभूतीभूतान् रुद्रादीनित्यर्थः । उपासते । परं सर्वोत्कृष्टं त्वां न, अतो मन्दा इति शेषः । यतः परमेश्वरस्त्वमेव सर्व कारणमन्ये त्वद्विभूतयस्ततस्त्वां विहाय विषयकामनयाऽन्योपासका मूढा एवेति भावः । हे ईश, तेषां विषयतृषां विभूती- रुपासीनानाम् आशिषः, त्वद्विभूतिभिर्दत्ता अर्वाचीना नानास्वर्गादिफलरूपाः, पुरुषार्था इत्यर्थः । तदनु विभूतिविनाशानन्तरं राजकुलम् अनु राजकुलविनाशात्पश्चात्, तत्सेवकानामाशिषः, यथा नश्यन्ति तद्वद्विनश्यन्ति । त्वद्विभूतीनामन्येषां देवानां परत्वादिगुणपूर्त्त्यभावादिति तात्पर्यम् ॥ ३८ ॥ * * त्वदेकप्रयोजनत्वेन कृता त्वत्सेवा तु निरतिशयनित्यफलजनकैव कामेनाऽपि कृता त्वत्सेवा ध्रुवादेरिव मोक्षफलापीत्याह । कामधिय इति । कामधियो विषयैकप्रयोजना उपासनाः अपि, हे परम अगुणमये प्राकृतगुणवर्जिते, ज्ञानात्मनि नित्यासंकुचितापरिच्छिन्नज्ञानस्वरूपे त्वयि परमेश्वरे, रचिताः कृता, यदा स्युः, तदा न रोहन्ति । कथमिव । करम्भबीजानि भर्जितबीजानि यथा । यथा भर्जितबीजानि पुनर्नारोहन्ति, एवं त्वयि
- 1
- |
- स्कं. ६ अ. १६ श्लो. ४१-४८]
- अनैकव्याख्यासमलँङङ्कृतम्
- *
- ५०१
- कृताः कामधियोऽपि देहान्तरोत्पत्तये न भवन्तीत्यर्थः । यतः अस्य जीवस्य, गुणगणतः प्राकृतगुणगणवतः, स्वस्य प्राकृतगुण- गणयुक्तदेवतान्तरोपासनत इत्यर्थः । द्वन्द्वजालानि सुखदुःखादिसमूहाः, भवन्ति । अतः कामेनापि मायिकगुणवर्जितस्य तव भजनाच्छनैर्माकिगुणरहितत्वमेव भवतीत्यर्थः ॥ ३६ ॥ फलसंप्राप्तिकामनयाऽपि तवाराधनं यदा मोक्ष हेतु रूदा भगवद्धर्ममहिमा तु किं वक्तव्य इति कथयितुं भागवत संप्रदायप्रवर्त्तकत्वेन भगवन्तं स्तौति । जितमिति । हे अजित, यदा भवान्, भागवतं भगवतस्तवाराधनरूपम् अनवद्यं निर्दोषं धर्मम् आह, पञ्चरात्रगीतादिमुखेनोक्तवान् । तदा हे भगवन्,
- । भवता त्वया, जितं सर्वोत्कर्षेणैव स्थितम् । धर्मं विशिनष्टि । यं भागवतं धर्म निष्किचना अकिंचनाः, आत्मारामाः, ये मुनयः सनत्- कुमारादयः, ते अपवर्गाय मुक्तये, उपासते ऽनुतिष्ठन्ति ॥ ४० ॥
- भाषानुवादः
- *
- थोड़ी देर बाद उन्हें बोलनेकी कुछ-कुछ शक्ति प्राप्त हुई। उन्होंने विवेकबुद्धिसे मनको समाहित किया और सम्पूर्ण इन्द्रियोकी बाह्यवृत्तिको रोका। फिर उन जगद्गुरुकी, जिनके स्वरूपका पाश्चरात्र आदि भक्तिशास्त्रो में वर्णन किया गया है, इस प्रकार स्तुति की ॥ ३३ ॥ * * चित्रकेतुने कहा - अजित ! जितेन्द्रिय एवं समदर्शी साधुओने आपको जीत लिया है । आपने भी अपने सौन्दर्य, माधुर्य, कारुण्य आदि गुणोंसे उनको अपने बसमें कर लिया है । अहो, आप धन्य हैं । क्योंकि जो निष्कामभावसे आपका भजन करते हैं, उन्हें आप करुणापरवश होकर अपने आपको भी दे डालते हैं ।। ३४॥ भगवन् जगत् की उत्पत्ति, स्थिति और प्रलय आपके लीला-विलास हैं । विश्वनिर्माता ब्रह्मा आदि आपके अंशके भी अंश हैं । फिर भी वे पृथक्-पृथक् अपनेको जगत्कर्त्ता मानकर झूठ-मूठ एक-दूसरे से स्पर्धा करते हैं ॥ ३५ ॥ नन्हें-से-नन्हें परमाणुसे लेकर बड़े-से-बड़े महत्तत्त्वपर्यन्त सम्पूर्ण वस्तुओंके आदि, अन्त और मध्यमें आपही विराजमान हैं तथा स्वयं आप आदि, अन्त और मध्यसे रहित हैं। क्योंकि किसी भी पदार्थ के आदि और अन्त में जो वस्तु रहती है, वही मध्य में भी रहती है ॥ ३६ ॥ * * यह ब्रह्माण्डकोष, जो पृथ्वी आदि एक-से-एक दसगुने सात आवरणोंसे घिरा हुआ है, अपने ही समान दूसरे करोड़ों ब्रह्माण्डोंके सहित आपमें एक परमाणुके समान घूमता रहता है और फिर भी उसे आपकी सीमाका पता नहीं है । इसलिये आप अनन्त हैं ॥ ३७ ॥ * जो नरपशु केवल विषयभोग ही चाहते हैं, वे आपका भजन न करके आपके विभूतिस्वरूप इन्द्रादि देवताओंकी उपासना करते हैं । प्रभो ! जैसे राजकुलका नाश होनेके पश्चात् उसके अनुयायियोंकी जीविका भी जाती रहती है, वैसे ही क्षुद्र उपास्यदेवोंका ह्रास होनेपर उनके दिये हुए भोग भी नष्ट हो जाते हैं ॥ ३८ ॥ * * परमात्मन् ! आप ज्ञानस्वरूप और निर्गुण हैं । इसलिये आपके प्रति की हुई सकाम भावना भी अन्याय कर्मोंके समान जन्म-मृत्युरूप फल देनेवाली नहीं होती, जैसे भुने हुए बीजोंसे अङ्कुर नहीं उगते । क्योंकि जीवको जो सुख - दुःख आदि द्वन्द्व प्राप्त होते हैं, वे सत्त्वादि गुणोंसे ही होते हैं, निर्गुणसे नहीं ।। ३९ ।। * * हे अजित ! जिस समय आपने विशुद्ध भागवतधर्मका उपदेश किया था; उसी समय आपने सबको जीत लिया। क्योंकि अपने पास कुछ भी संग्रह परिग्रह न रखनेवाले, किसी भी वस्तुमें अहंता - ममता न करनेवाले आत्माराम सनकादि परमर्षि
- परम साम्य और मोक्ष प्राप्त करनेके लिये उसी भागवतधर्मका आश्रय लेते हैं ।। ४० ।।
- विषममतिर्न यत्र नृणां त्वमहमिति मम तवेति च यदन्यत्र ।
- विषमधिया रचितो यः स ह्यविशुद्धः कः क्षेमो निजपरयोः कियानर्थः स्वद्रोहात्तव कोपः परसम्पीडया न व्यभिचरति तवेक्षा यया ह्याभिहितो स्थिरचरसच्च कदम्वेष्वपृथग्धियो न हि भगवन्नघटितमिदं यन्नामसकृच्छ्रवणात् पुल्कसकोऽपि
- १. प्रा० पा० - त्वद्दर्शिनानृ० ।
- क्षयिष्णुरधर्मबहुलः ॥ ४१ ॥
- स्वपरद्रुहा धर्मेण ।
- च
- तथाधर्मः ॥ ४२ ॥ भागवतो धर्मः । यमुपासते त्वार्याः ॥ ४३ ॥ ‘त्वदर्शनान्नृणामखिलपापक्षयः ।
- विमुच्यते संसारात् ॥ ४४ ॥
५०२ श्रीमद्भागवतम् [ स्कं. ६ अ. १६ लो. ४१-४८ अथ भगवन् वयमधुना त्वदवलोकपरिमृष्टाशयमलाः । सुरऋषिणा यदुदितं तावकेन कथमन्यथा भवति ।। ४५ ।। विदितमनन्त समस्तं तब जगदात्मनो जनैरिहाचरितम् । विज्ञाप्यं परमगुरोः कियदिव सवितुवि खद्योतैः ॥ ४६ ॥ सकलजगत्स्थितिलयोदयेशाय । नमस्तुभ्यं भगवते दुखसितात्मगतये कुयोगिनां भिदा परमहंसाय ॥ ४७ ॥ यं वै श्वसन्तमनु विश्वसृजः श्वसन्ति यं चेकितानमनु चित्तय उच्चकन्ति । भूमण्डलं सर्षपायति यस्य मूर्ध्नि तस्मै नमो भगवतेऽस्तु सहस्रमूर्ध्न ॥ ४८ ॥ अविशुद्धः क्षयिष्णुः अधर्मबहुलः ॥ ४१ ॥ है कृष्णप्रिया व्याख्या भगवन् अथ वयम अन्वयः - यत्र विषममतिः न यत् नृणां त्वम् अहम् इति च मम तब इति य: विषमधिया रचितः सः हिं स्वपरद्रुहा धर्मेण निजपरयोः क्षेमः कः कियान् अर्थः स्वद्रोहात् तक कोपः च परसंपीडया तथा अधर्मः ॥ ४२ ॥ * * तव ईक्षा न व्यभिचरति हि यया भागवतः धर्मः अभिहितः स्थिरचर सत्त्वकदम्बेषु अपृथग्धियः आर्याः तु यम् उपासते ॥ ४३ ॥ * * भगवन् त्वद्दर्शनात् नृणाम् अखिलपापक्षयः इदम् अघटितम् न हि यन्नामसकृच्छ्रवणात् पुल्कसकः अपि संसारात् विमुच्यते ॥ ४४ ॥ अधुना त्वदवलोकपरिमृष्टाशयमलाः यत् तावकेन सुरऋषिणा उदितम् अन्यथा कथम् भवति ।। ४५ ।। जगदात्मनः तब इह जनैः आचरितम् समस्तं विदितं खद्योतः सवितुः इव परमगुरोः कियत् इव विज्ञाप्यम् ॥ ४६ ॥ भगवते सकलजगत्स्थितिलयोदयेशाय कुयोगिनाम् भिदा दुरवसितात्मगतये परमहंसाय तुभ्यं नमः ॥ ४७ ॥ विश्वसृजः यम् श्वसन्तम् अनु वै श्वसन्ति चित्तयः यम् चेकितानम् अनु उच्चकन्ति भूण्डलं यस्य मूर्ध्नि सर्षपायति तस्मै सहस्र- मूर्ते भगवते नमः अस्तु ॥ ४८ ॥ श्रीधरस्वामिविरचिता भावार्थदीपिका अनंत * अनवद्यतामेवाह । विषमा मतिर्यत्र यस्मिन्भागवते धर्मे नास्ति यदन्यत्र यथाऽन्यस्मिन्काम्ये धर्मे । ननु सोऽपि वेदोक्तत्वादनवद्य एव तत्राह । विषमधिया शत्रुमरणादिकामनया रचितो विहितो यः स ह्यविशुद्धः रागद्वेषादिमत्त्वात् । क्षयिष्णुश्च नश्वर फलत्वात् । अधर्मबहुलश्च हिंसादिबाहुल्यात् । तदुक्तं शबरस्वामिभिः “ उभयमिह चोदनायां लक्ष्यतेऽर्थोऽनर्थश्च" इत्यादि ॥ ४१ ॥ * * एतत्प्रपंचयति । कः क्षेमः किं कुशलं न किंचित् । निजपरयोः स्वस्य परस्य च । स्वपरतुहा स्वस्मै परस्मै च द्रुह्यतीति स्वपरध्रुक् तेन यतः स्वद्रोहादत्यंत कायक्लेशात्तव कोप: पीडा संभवति । तदुक्तं गीतासु । “कर्षयंतः शरीरस्थं भूतग्राममचेतसः । मां चैवांतःशरीरस्थं तान्विद्ध्यासुरनिश्चयान् ।” इति । तथा परसंपीडयाऽधर्मः । चशब्दात्तव कोपश्च । अतस्त्वया रागांधमपि कथंचिद्वेदमार्गे प्रवर्तयितुं काम्यधर्मोऽभिहितो न तत्त्वदृष्टया ॥ ४२ ॥ भागवत - धर्मेण तु न द्रोह इत्याह । नेति । न व्यभिचरति न परमार्थ जहाति । तवेक्षा दृष्टि: । अव्यभिचारे हेतुः । स्थिरेति । स्थावर- जंगमप्राणिसमूहेषु समबुद्धयो भगवता यं धर्मं सेवते ॥ ४३ ॥ * * एवंभूतस्य भागवतधर्मप्रवर्तकस्य तव दर्शनात्सर्व- पापक्षयो भवतीति किं चित्रमित्याह । न हीति ॥ ४४ ॥ अतोऽहं कृतार्थोऽस्मीत्याह । अथेति । अथ अतो हेतोः । तवावलोकनेन परिमृष्टा निरस्ता आशये चित्ते मला येषां ते । त्वद्दर्शनं च मम नारदोपदेशेन जातमित्याह । सुरर्षिणेति ।। ४५ ।। * यथा चाहं पूर्वमतिमूढ आसं यथा च नारदेनानुगृहीतोऽस्मि तत्सर्वांतर्यामिणस्तव मया किं प्रकाशनीयमित्याह । विदितमिति । विशेषेण ज्ञाप्यं प्रकाशनीयं कियदिव न किमपीत्यर्थः । सवितुर्यथा खद्योतैः प्रकाशनीयं नास्ति तद्वत् ॥ ४६ ॥ * * उक्तलक्षणं भगवंतं प्रणमति नम इति द्वाभ्याम् । सकलस्य जगतः स्थित्यादीनामीशाय समर्थाय । दुरवसिताऽविज्ञाताऽऽत्मगतिर्निजतत्त्वं यस्य तस्मै । केषां कुयोगिनाम् । केन भिदा भेददृष्टया ॥ ४७ ॥ * श्वसंति चेष्टंते । चेकितानं पश्यंतमनु चित्तयो ज्ञानेंद्रियाण्युञ्चकंति स्वारूढं पश्यंति तस्मै नमोऽस्तु ।। ४८-४९ ।। १. प्रा० पा० तत्केन । । कं. ६ अ. १६ लो. ४१-४८ ] ४१-४८]
। अनेकव्याख्यासमलङ्कृतम् वंशीधरकृतो भावार्थदीपिकाप्रकाशः । ५०३ अत्राक्षिपति - नन्विति । " श्येनेनाभिचरन्यजेत " " स्वर्गकामो यजेत" इत्याद्युक्ते रागद्वेषौ प्रतीयेते । क्षयिष्णुश्च " एवमेवामुत्र पुण्यचितो लोकः क्षीयते" इति श्रुतेः । आदिना श्रमादिग्रहः । अधर्मबहुलत्वं तु श्येन याजिनः प्रायश्चित्त- विधानात् । एतद विचारयिष्यामः । वेदविहितौ धर्माधमौ द्वावेव स्त इत्यत्र प्रमाणमाह-तदुक्तमिति । इह वेदविहिते विधावित्यर्थः । अर्थः स्वर्गादिफलको धर्मोऽनर्थो नरकादिफलको ऽधर्मश्चेत्युभयमेवेत्यर्थः ॥ ४१ ॥ * 8 एतत् अर्थानर्थद्वयम् । तत् कामक्लेशेन पीडनम् । भूतग्रामं पञ्चभूतसमुदायम् । कर्षयंत ः मां च कर्षयंत इति यत इत्यनेनात इति योज्यम् । रागांधं विषयानुरागिणम् । सत्त्वदृष्ट्या परमार्थदृष्टया ।। ४३-४३ ।। * एवंभूतस्य सर्वेश्वरस्य । भगवन्निति सर्वथा समर्थत्वमाह – अघटितमनुपपन्नम् । “जातो निषादाच्छूद्रायां जात्या भवति पुल्कसः" इति ब्राह्मणाच्छूद्रकन्यायां जातो निषाद इति ॥ ४४ ॥ * * तावकेन त्वद्भक्तशिरोमणिना यदुदितम् । “यां धारयन्सप्तरात्राद्रष्टा संकर्षणं प्रभुम् " इत्येवं यत्प्रोक्तम् ॥ ४५ ॥ * * इत्यर्थ इति । अनंतत्वात्सर्वदेशकालवस्तुपरिच्छेदरहितत्वात्तव सर्व ज्ञातमेवेति भावः ॥ ४६ ॥ परमहंसाय परेषां महः तेजः सनोति ददातीति परमहंसस्तस्मै खश टिलोपश्चाष । “यत्तेजसेद्ध: सूर्यस्तपति" इत्यादिश्रुतेः । सर्वप्रकाशकाय केवलं नमस्करोम्येवेति भावः ।। ४७ ।। कित धातुर्दर्शनेपि यङन्ताच्छानचि रूपम् । उदुपसर्गवशाच्चकतृप्तावित्यस्यार्थान्तरम् । ‘धात्वर्थं बाधते कश्चित्’ इत्युक्तेः । सर्षपायति सर्षपवद्वर्त्तते ॥ ४८ ॥ अन्वितार्थप्रकाशिका 1 I विषमेति । यत्र भागवते धर्मे नृणामुपासकानां त्वमहमिति मम तवेति च विषममतिर्नास्ति । तत्र वैधर्म्यदृष्टान्त- माह । यदन्यत्रेति । यत् यथान्यत्र काम्यधर्मे विषममतिर्भवति यथा यत्र नास्तीत्यर्थः । ननु सोऽपि वेदोक्त इत्यत आह । विषमधिया शत्रुमरणस्वर्गप्राप्त्यादिकामनया रचितो विहितो यः धर्मः स ह्यविशुद्धो रागद्वेषादिप्रयुक्तत्वात् क्षयिष्णुश्च नश्वर- फलकत्वात् अधर्मबहुलश्च हिंसादिबाहुल्यात् ॥ ४१ ॥ क इति । खपरदुहा स्वस्मै परस्मै च द्रुह्यतीति स्वपर क् तेन धर्मेण निजपरयोरहन्तास्पदस्य आत्मनः ममतास्पदस्य पुत्रादेश्व कः क्षेमः किं कुशलं कियान अर्थो लोभश्च न किंचिदित्य- न्वयः । यतः स्वद्रोहात् अत्यन्तकायक्लेशात्तव कोपः । यथोक्तं गीतासु । “कर्षयन्तः शरीरस्थं भूतग्राममचेतसः । मां चैवान्तः- शरीरस्थं तान् विद्ध्यासुरनिश्चयान् ।” इति । तथा परस्य पश्वादेः सम्पीडया अधर्मः चकारात्तव कोपश्च अतस्त्वया रागान्धमपि कथंचित् वेदमार्गे प्रवर्त्तयितुं काम्यधमोऽभिहितो न तत्त्वदृष्टया ॥ ४२ ॥ नेति । यया ईक्षया भवता भागवतो धर्मोऽभिहितः निरूपितः सा तवेक्षा मद्भक्त्या जीवाः कृतार्थाः भवन्त्विति परामर्शो न व्यभिचरति काम्यधर्म- वद्वैगुण्याभावात् । अत एव स्थिरचरसत्त्वकदम्बेषु स्थावरजङ्गमप्राणिसमूहेषु अपृथग्धियः एकं त्वामेव पश्यन्तः आर्याः श्रेष्ठाः यं धर्ममुपासते ॥ ४३ ॥ * * न हीति । हें भगवन् ? त्वद्दर्शनान्नृणामखिलपापक्षयो भवतीति इदमघटितम संभावितं न भवति । हि यस्मात् यस्य तव नाम्नः एकस्यापि सकृदपि श्रवणादेव पुल्कसको ऽत्यन्तनिकृष्टोऽपि संसारात् विमुच्यते ॥ ४४ ॥ अथेति । अथ तस्माद्धेतोर्हे भगवन् ! त्वदवलोकनेन परिमृष्टा निरस्ता आशयमला अन्तःकरणदोषाः पापानि तत्कार्यभूता रागलोभादयश्च येषां ते तथाभूता वयमधुना जाता इति शेषः । यतः तावकेन त्वद्भक्तेन सुरर्षिणा नारदेन यत् उदितं तदन्यथा कथं भवति ।। ४५ ।। विदितमिति । हे अनन्त ! इह संसारे जनैर्यदाचरितं तत्सर्वं जगदात्मनस्तव विदितमेव । अतः परमगुरो सर्वप्रकाशकस्य तवा । निर्विसर्गपाठे सम्बोधनम् । अन्येन विशेषतो ज्ञाप्यं प्रकाशनीयं कियदिव न किमपीत्यर्थः । यथा सवितुरने खद्योतैर्न किंचित्प्रकाशनीयमस्ति तद्वदित्यर्थः ।। ४६ ।। * * मन इति । सकलस्य जगतः स्थित्यादीना- मीशाय कर्त्रे तथापि भिदा भेददर्शननिमित्तेन कुयोगिनां विषयाविष्टचित्तानां दुरवसिता अविज्ञाता आत्मगतिर्निजं तत्त्वं यस्य तस्मै परमहंसाय भगवते तुभ्यं नमः ॥ ४७ ॥ * * यमिति । यं श्वसन्तं चेष्टमानमनु विश्वसृजो ब्रह्मादयो देवास्तदधीनानि कर्मेन्द्रियाणि च श्वसन्ति चेष्टन्ते । यं चेकितानं पश्यन्तं प्रकाशयन्तम् । कितधातोर्यङ्लुकि ताच्छील्ये चानशू । अनु पश्चात् चित्तयः सूर्यादयो देवाः ज्ञानेन्द्रियाणि च उच्चकन्ति स्वस्वविषयं प्रकाशयन्तीत्यर्थः । उत्पूर्वाञ्चकतेर्लट् तङभाव आर्षः । यस्य मूर्ध्नि भूमण्डलं सर्षपायति सर्षपवदतिलघुत्वेनानुसन्धेयतया वर्त्तते । तङभाव आर्षः । तस्मै सहस्रमूर्ध्न भगवते तुभ्यं नमः ॥ ४८ ॥ वीरराघवव्याख्या यत्र च धर्मे त्वमहं तब ममेति च या नृणामन्यत्रान्यस्मिन् धर्मे विषमा मतिः अहङ्कारममकाररूपा सा नास्ति स इत्यर्थः । सर्वज्ञेन भ्रमविप्रलिप्सादिदोषरहितेन परमकारुणिकेन भगवताऽविहितत्वादहङ्कारममकारप्रयुक्तहिंसादिगर्भत्वा- ५०४ श्रीमद्भागवतम् e [ स्कं. ६ अ. १६ श्लो. ४१-४८ भावात्सर्वस्य ब्रह्मात्मकत्वानुसन्धान गर्भत्वान्निरतिशयानन्दहेतुत्वाच्च त्वदाराधनरूपो धर्मः सर्वोत्कृष्टः तथा तदनुष्ठातारोपि शब्दादिविषयसुखार्थदम्भमात्सर्यहिंसादि स्वभावत्वाभावात्सर्वभूतसुहृत्त्वादिगुणयुक्तत्वाच्च उत्कृष्टा इतरधर्म तदनुष्ठातारस्तूत- विपरिता इति भावः । तदेवाह - विषमधियेति, अहं ममेत्याद्यहं ममाभिमानेन रचितो यो देवतान्तराराधनरूपः स ह्यविशुद्धः रागद्वेषादिगर्भत्वाद्धर्मप्रचुरः शत्रुमरणादिकामनागर्भत्वात् क्षयिष्णुरस्थिरफलश्च ॥ ४१ ॥ ॥ * * विषयधिया रचित धर्ममेव निन्दति - इति । स्वपरद्रुहो स्वं कर्तारं परन दुह्यतीति स्वपरधुक् अत्यन्तशरीरायास कारित्वादन्ततः संसृतिरूपानर्थ - हेतुत्वाच्च स्वधक् शत्रुहिंसादिकामनागर्भत्वात्परनुक्तेन धर्मेण देवतान्तराराधनरूपेण निजपरयोः कः क्षेमः किं दुःखं न किञ्चिदपीत्यर्थः । परग्रहणं दृष्टान्तार्थं यथाऽभिचारादिकर्मणा मुमूर्षोर्न क्षेमस्तथा तत्कर्तुरपीत्यर्थः । अस्तु वा कर्तु स्तादात्विकः कश्चित्क्षेमस्तथापि स कियानर्थः पुरुषार्थ: अतितुच्छ इत्यर्थः । क्षयिष्णुत्वादिति भावः । एवं पुरुषार्थहेतुर्भवतीत्युक्तं प्रत्युतानर्थ- हेतुश्चेत्याह – स्वद्रोहादिति, स्वद्रोहात्स्वस्यैवाहितकरणाद्ध तोस्तवेश्वरस्य कोपः निग्रहः स्यादयं स्वस्यैवाहितमाचरति किमुत परस्येत्यतोऽयमतीव निप्राह्य इत्येवं तव कोप: स्यात् -
“आत्मसम्भाविताः स्तब्धा धनमानमदान्विताः । यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् । अहङ्कारं बलं दर्प कामं क्रोधञ्च संश्रिताः । मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः । तानहं द्विषतः क्रूरान्संसारेषु नराधमान् । क्षिपाम्यज- त्रम शुभानासुरीष्वेव योनिषु ।” इत्यादिना प्रतिज्ञातो निग्रहः स्यादिति भावः । तव कोपः स्यान्न वा अवश्यं परसम्पीडया परस्य द्रोहाद्धेतोरधर्मस्तथा स्यादेव स्वकृतेन धर्मेण परस्य यादृशी पीडा भवेत्तादृशी पीडा हेतुरधर्मोपि स्वानुष्ठितधर्ममनु स्यादित्यर्थः ॥ ४२ ॥ * एवं धर्मान्तरस्य न केवलमपुरुषार्थहेतुत्वं प्रत्युतानर्थहेतुत्वञ्चोक्तं त्वदाराधनरूपधर्मस्य त्वनिष्टपरिहारेष्टप्राप्तिहेतुत्वमन्यभि- चरितमित्याह - नेति । तव " सत्यकामः सत्यसङ्कल्पः" इति श्रुत्युक्तसत्यसङ्कल्पस्य तवेक्षा- “ये तु सर्वाणि कर्माणि मयि सन्न्यस्य मत्पराः । अनन्येनैव योगेन मां ध्यायन्त उपासते । तेषामहं समुद्धर्ता मृत्युसंसारसागरात् । भवामि न चिरात्पार्थ मय्यावेशितचेतसाम् ।” * इति कृतः सङ्कल्प इत्यर्थः । न व्यभिचरत्ययथार्था न भवति । यथा हेतुभूतयेक्षया भागवतस्तव सम्बन्धी त्वदाराधन- रूपो धर्मोऽभिहितः प्रोक्तः पञ्चरात्रादिमुखेनेति शेषः । भागवतधर्माभिधाने उक्तविधे ईक्षैव हेतुरन्यथा त्वद्धर्मानभिज्ञतया केवलविषयासक्ते सति सर्वस्मिन् लोके समुद्धर्त्तव्याभावादीक्षा निर्विषयादिति भावः । एवञ्च क्षायाः सत्यत्वात्तद्विषयत्वापादक- भागवतधर्मोप्यनिष्टपरिहारेष्टप्राप्तिहेतुत्वं न व्यभिचरतीति तात्पर्य यत एवमत एव आर्याः त्वदीक्षाभिज्ञास्तद्विषयापादिकया चराचरात्मकभूतसमूहेष्वपृथग्धिया त्वदात्मकबुद्धयाऽमृतत्वाय मुक्तये उपासते धर्ममितिविभक्तिपरिणामेनानुषङ्गः अनुतिष्ठ- न्तीत्यर्थः । त्वामिति वा शेषः ।। ४३ ।। * एवं समाश्रयणोपयुक्तसमाश्रितकार्यापादकगुणपूर्ति कथनमुखेन तदाराधन- रूपधर्मस्यैव निरतिशयश्रेयः साधनमुक्तम् इदानीं स्वस्य कृतार्थतामाविष्कर्तुं तद्दर्शनस्य कृतार्थतापादकत्त्वं कैमुत्यन्यायेनाह— नहीति । हे भगधन्, नृणां भवद्दर्शनादखिलपापक्षयो भवतीति इदमघटितं न हि किन्तु युक्तमेव, कुतः ? यद्यस्मान्नाम्नस्त्वन्नाम्नः सकृदेव श्रवणादेव पुल्कसोपि हीनजातिरपि संसारबन्धाद्विमुच्यते नामश्रवणस्यैवेदृशं माहात्म्यं किं पुनः साक्षात्त्वद्दर्शनस्यैति भावः ॥ ४४ ॥ अथाचार्यकृतं महोपकारं स्मरन्स्वस्य कृतार्थतामाह - अथेति । हे भगवन्, अधुना तवावलोकनेन परिमृष्टा निरस्ता आशये चित्ते मलाः येषां तादृशा वयं कृतार्था जाता इति भाव: । यस्मात्तावकेन “प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः" इति त्वदुक्तरीत्या तव निरतिशयप्रियेण सुरर्षिणा श्रीनारदेनोदितं त्वद्दर्शनेन मम कृतार्थत्वे निमित्तं मन्त्ररूपं वचो गदितं तत एवमधुना जातम् अन्यथा महोपकर्तृसदाचार्यानुग्रहेण कथं भवति एवंविधः परमोभ्युदयस्तद्नर्हस्य मम कथं भवेदित्यर्थः ।। ४५ ।। * * कथं भवेदित्यनेनेदृशाभ्युदयानर्हत्वं स्वस्य सूचितं तच्च भवता सर्वज्ञेन सर्वं विदितमेव किं मया विज्ञाप्यमधुना विशिष्यत इत्याह - विदितमिति । हे अनन्त ! इह लोके जनैर्यद्यदाचरितं तत्समस्तं जगदात्मनः कृत्स्नजग- दन्तर्यामितया सर्वेषां बुद्धिवृत्तीर्युगपत्साक्षात्कुर्वतस्तव विदितमेव ततो माहशैर्विज्ञाप्यं परमगुरोस्तव कियत्, यथा सवितुः खद्योतैः, यद्वा अनन्तकल्याणगुणाकारस्य तव गुणैकदेशमपि स्तोतुमहम समर्थ इति त्वया विदितेमेवेत्याह - विदितमिति । हे अनन्त त्रिविधपरिच्छेदरहित ! इह लोके जनैर्जननमरणभाग्भिस्त्वदाहितज्ञानशक्तिभिर्मादृशैर्यद्यदाचरितमन्तर्बाह्येन्द्रियैर्व्यापृतं तत्सर्वं जगदन्तरात्मनः सर्वज्ञस्य तव विदितमेव परिच्छिन्नमतेर्मम वाङ्मनश्चानन्तस्वरूपस्य सर्वज्ञस्य तव गुणवर्णने यावगच्छति तत्त्वया विदितमेवेत्यर्थः । अतः परमगुरोर्ज्ञानप्रदानां नारदादीनामपि ज्ञानदस्य तवेह मया विज्ञाप्यं विज्ञापनीयं कियत मया कर्त्तव्यं गुणस्तवनं तव कियदत्यल्पमित्यर्थः । यथा सवितुर्लोकत्रयप्रकाशकस्य खद्योतैः कीटविशेषैः कृतं द्योतनं कियदल्पं तद्वदित्यर्थः ॥ ४६ ॥ * * एवं स्वस्य तत्स्तुतावनधिकारमाविष्कृत्य कांश्चित्तद्गुणाननुस्मरन् केवलं नमस्करोति नमः कं. ६ अ. १६ लो. ४१-४८] अनैकव्याख्यासमलङ्कृतम् । ५०५ इति द्वाभ्याम् । भगवते षाड्गुण्यपरिपूर्णाय निरस्तनिखिलदोषाय सकलस्य जगतः स्थितिलययोः इदमुत्पत्तेरप्युपलक्षणम् उत्पत्ति- स्थितिलयानामीशाय कर्त्रे कुयोगिनां कर्त्तरि षष्ठी कुयोगिभिंभिदा अब्रह्मात्मकस्वतन्त्रवस्तुदृष्टया दुखसिता ज्ञातुमशक्या आत्मनो गतिः स्वरूपं स्वभावश्च यस्य ज्ञातुमशक्यस्वरूपस्वभावायेत्यर्थः । परमहंसायात्यन्तपरिशुद्धाय तुभ्यं नमः ॥ ४७ ॥ * * अनन्तगुणमाहात्म्यं कथयन्नमस्करोति-यमिति । “श्वसन्तं बहु स्याम्" इति सङ्कल्पतो व्याक्रियमाणं यं त्वामनु विश्वसृजः ब्रह्मादयः स्वसन्ति प्राणन्ति त्वदायत्तस्वसत्तालाभेन व्याक्रियन्तः इत्यर्थः । चेकितानं सर्व पश्यन्तं यं चित्तयः चित्तवृत्तयः अनूञ्चकन्ति प्रसरन्ति ज्ञानमपि त्वदधीनमित्यर्थः । यस्य तव मूर्ध्नि कृत्स्नं भूमण्डलं सर्षपायति सर्षपवदाचरति यं कृत्स्नभूमण्लभारमपि सर्षपवनमन्यत इत्यर्थः । तस्मै सहस्रशिरसे भगवते तुभ्यं नमोऽस्तु मे नमनं भवानाङ्गीकरोत्वित्यर्थः ॥ ४८ ॥ 11. विजयध्वजतीर्थकृता पदरत्नावली 1 तद्धर्मज्ञानेन किं फलमिति तत्राह - विषमेति । यस्मिन् धर्मे ज्ञाते नृणां त्वमहमित्यादिलक्षणा विषममतिः शास्त्र - निषिद्धबुद्धिर्न स्यात् चकारादीश्वराधीनं सर्वं तत्प्रेरितोऽहं कार्येषु प्रवृत्तोऽस्मीति बुद्धिरित्यर्थः । येन धर्मेण यस्मिन् त्वयि ज्ञाते वा हरेरन्यत्र विषमधिया यथास्थितवस्तुविपरीतज्ञानेन रचितः अतः अहंममतादिप्रचुर इत्यर्थः ॥ ४१ ॥ तज्ज्ञानफलं तम एवेत्याह-क इति । ननु, तर्हि यागादिकर्मलक्षणधर्मेण पुरुषार्थः स्यादिति तत्राह - निजेति, स्वस्य शरीरकुशस्य हेतुना परस्य संज्ञपनलक्षणहिंसाहेतुना, कुतो नास्तीति तत्राह - स्वद्रोहादिति, स्वविहितशरीरकुशं विनाऽऽत्महत्यादिद्रोहात्तवाज्ञालङ्घन- लक्षणात् ॥ ४२ ॥ * * ननु, शिवादिविहितवत् त्वद्विहितस्यान्यथात्वेन त्वद्विहितलक्षणज्ञाऽतिलङ्घनदोषनिमित्तकोपा- भावोपपत्तेरतस्त्वत्प्रेक्षापि व्यभिचारिण्येवेति तत्राह, नेति । तत्र को हेतुरिति पूर्वोक्तं स्मारयति-यमिति, पूर्वस्माद्विशिनष्टचपृथ- गिति, कुत्रेत्यत उक्तं स्थिरेति, स्थावरजङ्गमप्राणिसमूहेषु यथास्थितदर्शिनः तद्युक्तमित्याह, आर्या इति तुना तारतम्यमन्ययोग- व्यवच्छेदं चाह ।। ४३ ।। * * प्रारब्धवशादार्या अपि उपास्ति कुर्वन्ति न फलोपलब्ध्या तस्मादिदमघटीयमानमचर्यन्तीति तत्राह -नहीति ॥ ४४ ॥ नेह संसारतरणे सकृन्नामश्रवणमेवालं किं पुनर्भगवद्दर्शनमिति यस्मादथ तस्मात्त्वद्दर्शने- नाधुना वयं परिमृष्टाशयमला अभूमेति शेषः । नारदवाक्यञ्च भगवदीक्षया अव्यभिचरितत्वे लिङ्गमित्याह सुरऋषिणेति ।। ४५ ।। हे अनन्त, तावकेन नारदेन समस्तं विदितं ज्ञातं, भगवद्ज्ञानम् अव्यभिचारीति यदुदितं च तत्कथमन्यथा भवति ? निगमयति, तवेति, जगदात्मनो जगदन्तर्यामिणः परमगुरोस्तव जनैश्चेष्टितं कियद्विज्ञाप्यं न किमपीति भावः । विज्ञापनं हास्यहेतुरित्यत्र ष्टान्तमाह, इहेति, इह ज्योतिः षु प्रकृष्टप्रकाशस्य सवितुः स्वे वितस्तिप्रदेशे एव द्योतः प्रकाशो येषां ते तथा तैः ॥ ४६ ॥ * * ॥४६॥ अस्माभिरिदमेव विज्ञाप्यमित्याह - नम इति ।। ४७ ।। * * इदमपि त्वदनुग्रहं विना न शक्यमित्याह-यं वा इति । “श्वस प्राणे” इतिधातो: “प्राणान्तमनुप्राणन्ति" इतिश्रुतिः वै शब्देन सूचिता चेकितानं जानन्तमनुवृत्तयः तत्तद्वस्त्वनुगतज्ञानवन्तः, उच्चकन्ति सम्यक जानन्ति सर्षपवद्वर्तते श्रीहरिविवक्षायां “सहस्रशीर्षा पुरुषः” इत्युपपत्तेः ।। ४८ ।। ६ जीव गोस्वामिकृतः क्रमसन्दर्भ : निजसंसारहेतुत्वात् स्वहा पुमान् भवाब्धिं न तरेत् स आत्महेतिवत् पश्वाद्युपालम्भात् परद्रुहाच्चेत्यर्थः । कोपः औदास्यमयः क्रोधः अधर्मोऽशुद्धो धर्मः ।। ४२-४६ ॥ नम इति भिदा नानोपास्यभेददृष्टया कुयोगिनां दुरवसितेति यद्वा भिदा भेदमय्या भक्त्या परमहंसायेति परेणान्वयः । तया शुद्धस्वरूपत्वेन हृत्कमलविहारिण इत्यर्थः ।। ४७ ।। * * उच्चकन्ति स्वरूपं पश्यन्ति यस्य एव ज्ञानशक्तचंशेनैव स्वस्वज्ञानं लभन्त इत्यर्थः । ‘कनीदिप्तिकान्तिगतिषु’ इत्यस्य यङ्लुगन्तस्य रूपमिदम् ।। ४८-५० ॥ विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी यत्र भागवते धर्मे त्वमहमिति मम तवेत्यहन्तास्पदममतास्पदयोर्विषममतिरुत्तरश्लोकार्थ दृष्टया द्वेषनिबन्धनवैषम्यवती ममतवत्वमहं शत्रुरिति मतिर्नास्ति यत् या अन्यत्र काम्यधर्मे इत्यर्थः । काम्यधर्ममेव निन्दति, विषमधिया शत्रु मरणादिकामनया रचितो यः स ह्यविशुद्धः रागद्वेषादिमयत्वात् क्षयिष्णुश्च नश्वर फलत्वात् । अधर्मबहुलश्च हिंसादिबाहुल्यात् । तदुक्तं शबर- । । स्वामिना ‘उभयमिह चोदनायां लक्ष्यते अर्थोऽनर्थश्च’ इत्यादिना ॥ ४१ ॥ * * उक्तमर्थं स्पष्टयति कः क्षेमः किं कुशल निजपरयोर्निजस्याहन्तास्पदस्यात्मनः परस्य ममतास्पदस्य पुत्रकलत्रादेर्न किञ्चिदित्यर्थः । स्वस्मै परस्मै च दुह्यतीति स्वपरक् तेन यतः स्वद्रोहात् परहिंसार्थ कात्यन्तस्वकायक्लेशकरतपोत्रतादेः अधर्मः पापं त्वत्कोपश्च ॥ ४२ ॥ * क्षयिष्णुत्वादिबाहुल्येपि काम्यधर्मे फलदर्शनात् प्रवर्तन्ते निर्दोषेपि निष्कामधर्मे फलादर्शनात् प्रवृत्तौ संशेरते ६४ ननु, ५०६ श्रीमद्भागवतम् स्कं. ६ अ. १६ लो. ४१-४८ नामें तु जना तत्राह — नेति । तवेक्षा मद्भक्या जीवः कृतार्थी भवत्विति परामर्शो न व्यभिचरतीति काम्यधर्मे कदाचित् फलस्यापि व्यभिचारः स्यान्न तु त्वदीयेक्षाया: अत एव आर्या इयनार्यास्तु संशेरत भावः । अथग्धयः स्वस्य परस्य च सुखदुःखेषु पृथग्बुद्धिरहिता आर्या इति, आर्याख्यं छन्दश्चेदमिति दर्शितम् ॥ ४३ ॥ * * निष्काम- धर्म मयैव साक्षात् फलं लब्धमित्याह नहीति । नृणामिति ममैवेति भावः । पापक्षयस्य का वार्त्ता मोक्षोप भवतीत्याह—यन्नाम्न एकस्यैव किमुत बहूनां सकृदेव किं पुनरसकृत् श्रवणादेव किमुत कीर्त्तनादेः पुल्कसकोपि किमुतान्यः । संसारादेव किमुत पापादिति साधनारम्भ एव दर्शनमिति भावः ॥ ४४ ॥ * * अतोऽहं कृतार्थोस्मीत्याह- अथेति ।। ४५ ।। विषयान्धोप्यहं स्वभक्तं प्रेष्य संसारकूपादुद्धृत्य स्वचरणान्तिकमानीत इत्यादि किं विज्ञापया- मीत्याह - विदितमिति । सवितुः सवितरीव त्वयि खद्योतैरिवास्माभिः किं प्रकाशनीयम् ॥ ४६ ॥ * भिदा भेदचा हेतुना ये कुयोगिनस्तेषां परमहंसाय कृपया परमहंसस्वरूपेणोद्धारकायेत्यर्थः ॥ ४७ ॥ * * श्वसन्तं चेष्टमानं विश्वसृजः कर्मेन्द्रियाणि स्वसन्ति चेष्टन्ते यं चेकितानं पश्यन्तं चित्तयः ज्ञानेन्द्रियाणि उच्चकन्ति स्वस्वविषयं पश्यन्ति ।। ४८-४९ ।। ’ शुकदेव कृतः सिद्धांत प्रदीपः “* । यत्र भागवते धर्मे त्वमहमिति मम तवेति च विषममतिर्न भवति यत् या अन्यस्मिन् काम्यकर्मरूपे धर्मे भवति इत्यर्थः । अन्यं धर्ममेवाह - विषमधिया विषमा धीर्यस्य तेन मन्दबुद्धिना अविशुद्धयः जैहोपस्थादिसुखफलकः क्षयिष्णुः अल्प- कालस्थापि फलद: अधर्मबहुल: प्राणिपीडासंपाद्यः रचितोऽनुष्ठितः आद्रित इत्यर्थः ॥ ४१ ॥ * स्वस्मै संसारप्रापकत्वेन परस्मै पीडाकरत्वेन दुह्यतीति खपरद्रुट् तेन पयोत्रतयज्ञादिरूपेण काम्यकर्मणेत्यर्थः । निजस्य स्वस्य कर्तुः परस्य तेन कर्मणा- राज्यस्य यद्वा परस्य कर्मोपयुक्तप्राणिनः प्रारम्भे कः क्षेमो मङ्गलं समाप्तौ कियानर्थः । फलं न कोपीत्यर्थः । स्वत्य यो द्रोहस्तादृशेन कर्मणा संसारे पातनं तस्मात्तव कोप: तथा परसंपीडया कर्मनिष्पत्त्यर्थप्राणिपीडया अधर्म भवतीत्यर्थः ॥ ४२ ॥ सत्यसंकल्पेन त्वया प्रकाशितं धर्म तत्त्वज्ञा उपासते इत्याह-नहीति । ईक्षा संकल्परूपा दृष्टिः । नहि व्यभिचरति अयुक्तमर्थ नहि स्पृशति यया भागवतो धर्मः अभिहितः वर्णितः यं धर्म स्थिरचरसत्त्वकदचेषु स्थावरजंगमप्राणिसमूहेषु अपृथग्वियः उपासते अनुतिष्ठन्ति ॥ ४३ ॥ * * भगवद्दर्शनेन त्वदवलोकनेन चात्मनः कृतकृत्यतां द्योतयति नेति द्वाभ्याम् । त्वद्दर्शना- त्वत्साक्षाकारात् ।। ४४ । * * स्वदवलोकेन त्वत्कृतेन कृपावलोकेन परिमृष्टा परिमार्जिताः आशयमला येषां ते तथा जाता वयम् “एतां मन्त्रोपनिषदं प्रतीच्छ प्रयतो मम । यां धारयन् सप्तरात्राद्दृष्टा संकर्षणं प्रभुमि ति यत्सुरर्षिणोदितं तत्कथ- मन्यथा भवति ।। ४५ ।। * हे अनन्त ! जगदात्मनो विश्वात्मनस्त्व जनैरिह संसारे आचरितं समस्तं विदितम् अतः खद्योतः सवितुरिव अस्माभिः हे जगद्गुरो ! तव कियद्विज्ञाप्यं प्रकाशनीयं न किमपीत्यर्थः ॥ ४६ ॥ अथ विश्वहेतु- त्वादिभगवदसाधारणान् गुणाननुस्मरन् भगवन्तं प्रणमति - नम इति द्वाभ्याम् । सकलस्य जगतः कार्यजातस्य स्थित्यादीनामीशाय कर्त्रे कुत्सिते “सर्वं खल्विदं ब्रह्म” ऐतदात्म्यमिदं सर्वम्” इत्यादिश्रुतिविरुद्धे स्वोत्प्रेक्षिते प्रधानपरमाण्वादिजगत्कारणवादे योगिभिर्निवेशोस्ति येषां तेषां सांख्यतार्किकादीनां भिदा केवलेन जगदीश्वरमेदेन दुखसिता दुर्गमा आत्मगतिः स्वरूप- ज्ञानमार्गो यस्य तस्मै परमहंसाय अत्यन्तशुद्धाय ॥ ४७ ॥ * * यं त्वां श्वसन्तं चेष्टन्तं विश्वसृजः ब्रह्मादयः श्वसन्ति चेष्टां कुर्वति “सृजामि तन्नियुक्तोयं हरो हरति तद्वशः” इति ब्रह्मोक्तेः यं चेकितानं पश्यन्तम् भान्तम् चितयः चितिर्ज्ञानं तदुपलक्षिताः सर्वाः चेतनाचेतनात्मिकाः प्रजाः अनु उच्चन्ति अनुपश्यन्ति अनुभान्ति " तमेव भान्तमनुभाति सर्वम्” इति श्रुतेः ॥ ४८-४९ ॥ * गोस्वामिगिरिधरलालविहिता बालप्रबोधिनी
अनवद्यतामेव स्पष्टयति - विषमेति । यत्र भागवते धर्मे नृणामुपासकानां त्वमहमिति मम तबेति च विषम- मतिर्नास्ति । तत्र वैधर्म्यदृष्टान्तमाह – यदन्यत्रेति, यत् यथाऽन्यत्र काम्यधर्मे विषममतिर्भवति तथा यत्र नास्तीत्यर्थः । ननु तस्यापि वेदविहितत्वादनवद्यता स्यादित्याशङ्कयाह - विषमधिया शत्रुमरणस्वर्गप्राप्त्यादिकामनया रचितो विहितो यः स सविशुद्ध रागद्वेषादिप्रयुक्तत्वात् क्षयिष्णुश्च नश्वरफलकत्वात् अधर्मबहुलश्च हिंसादिबाहुल्यात् । तथाचोकं शबरस्वामिभि:- ‘उभयमिह चोदनायां लक्ष्यते अर्थोऽनर्थश्चेति ॥। ४१ ।। * * उक्तमेव स्पष्टयति-क इति । निजपरयोरहन्तास्पदस्य आत्मनः ममतास्पदस्य पुत्रादेश्च खपरगुहा स्वस्मै परस्मै च द्रुह्यतीति स्वपरध्रुक् तेन धर्मेण कः क्षेमः किं कुशलं ? न किञ्चिद्दि- त्यन्वयः । यतः स्वद्रोहात् अत्यन्तकायक्लेशात् तव कोपः यथोक्तं गीतासु ‘कर्षयन्तः शरीरस्थं भूतग्राममचेतसः । मां चैवान्तरशरीरस्थं तान् विद्धचासुरनिश्चयान्’ इति, तथा परस्य पश्वादेः सम्पीडया अधर्मः चकारात्तव कोपश्चेति ।। ४२ ।। एक ६ अ. १६ लो. ४१-४८] अनेकव्याख्यासमलङ्कृतम् ५०७ ननु क्षयादिदोषबाहुल्येऽपि काम्यधर्मे फलदर्शनात्तत्र जनाः प्रवर्तन्ते निर्दोषेऽपि निष्कामे भागवतधर्मे फलादर्शनात् यत्र प्रवृत्तौ संशेरत इति भगवता तत्प्रवर्त्तनं व्यर्थमित्याशङ्कां निरस्यति — नेति । यया ईक्षया भवता भागवतो धर्मोऽभिहितः निरूपितः सा तवेक्षा मद्भक्त्या जीवाः कृतार्था भवन्त्विति परामर्शो न व्यभिचरतीत्यन्वयः । हि यस्मात् काम्यधर्मे कदाचिद्वैगुण्यादिवशात फलव्यभिचारः स्यादपि भागवतधर्मे तु स नास्ति । अतएव आर्याः श्रेष्ठा यं धर्ममुपासते । तुशब्देन उड्या भावा
- अथ । धारणार्थः । के त आर्या इत्यपेक्षायां तल्लक्षणमाह-स्थिरेति । स्थावरजङ्गमप्राणिसमूहेषु अपृथग्धियः एकं स्वामेव पश्यन्त इत्यथः । तथाच विवेकिनां तत्र प्रवृत्तेः सत्वात् फलस्य प्रवृत्तेश्च व्यभिचाराभावादविवेकिनां तत्राधिकारासिद्धया प्रवृत्त्यभावेऽपि न क्षतिरिति भावः ॥ ४३॥ * *
- त्वदर्शनादहं कृतार्थ इति वक्तुं तत्र कैमुत्यन्यायमाह -नहीति । * त्वदर्शनादहं भगवन् त्वद्दर्शनान्नृणां अखिलपापक्षयो भवतीदमघटितमसम्भावितं न भवतीत्यन्वयः । हि यस्मात् यस्य तव नान्न न । एकस्यापि किमुत बहूनां तत्रापि सकृदेकवारमपि किं पुनरसकृत् तत्रापि श्रवणादेव उच्चारणप्रयत्नं विना किं पुनः स्वप्रयत्नपूर्वकात् कीर्त्तनादेः तत्रापि पुल्कसोऽत्यन्त निकृष्टः किं पुनरुत्तमोऽधिकारी संसारात् दुःखार्णवात् विशेषेण पुनरावृत्तिराहित्येन विमुच्यते किं पापमात्रादिति । तत्र हेतुः सम्बोधनेन सूचितः ॥ ४४ ॥ तस्माद्धेतोर्हे भगवन् त्वदवलोकनेन परिमृष्टा निरस्ता आशयमला अन्तःकरणदोषाः पापानि तत्कार्यभूता रागलोभादयश्च येषां ते तथाभूता वयमधुना जाता इति शेषः । वयमिति बहुवचनं तु कृतार्थत्वाभिमानेन । तच त्वद्दर्शन त्वद्भक्त नारदकृपयैव जातमित्याह - सुरर्षिणेति । यदुदितं तदिति शेषः ॥ ४५ ॥ * * यथा चाहं पूर्वमतिमूढ आसं यथा च नारदेनानुगृहीतोऽस्मि तत्सर्वं सर्वान्तर्यामिणस्तव विदितमेव मया किं प्रकाशनीयमित्याह - विदितमिति । अनन्त देशकालवस्तुपरिच्छेदरहित इह संसारे जनैर्यदाचरितं तत्सर्वं जगदात्मनस्तव विदितमेव अतो हे परमगुरो वेदप्रवर्त्तनेन सर्वस्य हिताहितोपदेशकस्य तवान्येन विशेषतो ज्ञाप्यं प्रकाशनीयं कियदिव न किमपीत्यर्थः । तत्र दृष्टान्तमाह — सवितुरिति, सवितुर्यथा खद्योतेन किञ्चित्प्रकाशनीयमस्ति तद्वदित्यर्थः ॥ ४६ ॥ * * जीवैस्तु तुभ्यं नमनमेव कर्त्तव्यमित्याशयेन प्रणमति — नम इति द्वयेन । तुभ्यं भगवते नमः । भगवत्त्वमेवोपपादयति, सकलस्य जगतः स्थित्यादीनामीशाय कर्त्रे । तथापि भिदां भेददर्शननिमित्तेन कुयोगिनां विषयाविष्टचित्तानां दुरवसिता अविज्ञाता आत्मगतिर्निजं तत्त्वं यस्य तस्मै । ननु तथापि जगत्कर्तृत्वादिना विकारित्वं स्यादित्याशङ्कयाह- परमहंसायेति, अहम्ममाध्यासराहित्येन परमशुद्धायेत्यर्थः ॥ ४७ ॥ * * एवं नमस्कारोऽपि त्वदनुग्रहेणैव कत्तु शक्यते नान्यथेति सूचयन् प्रणमति-यमिति । यं श्वसन्तं चेष्टमानमनु विश्वसृजो ब्रह्मादयो देवास्तदधीनानि कर्मेन्द्रियाणि च श्वसन्ति चेष्टन्ते, यं चेकितानं पश्यन्तं प्रकाशयन्तमनु चित्तयः सूर्यादयो देवाः ज्ञानैन्द्रियाणि च उच्चकन्ति स्वस्वविषयं प्रकाशयन्तीत्यर्थः, यस्य मूर्ध्नि भूमण्डलं सर्षपायति सर्षपवदतिलघुत्वेनाननुसन्धेयतया वर्त्तते, तस्मै सहस्रमूर्ध्न भगवते तुभ्यं नम इत्यन्वयः ॥ ४८ ॥ भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी । भागवतधर्मानवद्यतामेवाह । विषमेति । यत्र यस्मिन् भागवते धर्मे, यदन्यत्र यस्मिन्यस्मिन् काम्ये धर्मे यथा तथा, स्वम् अहम् इति तव, मम च इति, नृणां, विषममतिरहंकारममकाररूपा बुद्धि:, न अस्ति । सर्वज्ञेन भ्रमविप्रलिप्सादिदोषरहितेन परमकारुणिकेन भवताऽभिहितत्वादहं कारममकारादियुक्तहिंसादिगर्भत्वाभावात सर्वस्य ब्रह्मात्मकत्वानुसंधानगर्भत्वान्निरति- शयानन्दहेतुत्वाच्च त्वदाराधनरूपो धर्मः, सर्वोत्कृष्टः । तथा तदनुष्ठातारोऽपि शब्दादिविषयसुखार्थं दम्भमात्सर्य हिंसादिस्वभाव- स्वाभावात् सर्वभूतसुहृत्त्वादिगुणयुक्तत्वाचात्युत्कृष्टाः, इतरोऽधर्मस्तदनुष्ठातारस्तूक्तविपरीता इति भावः । ननु काम्यधर्मोऽपि वेदोक्तत्वादनवद्य एव तत्राह विषमधियेति । विषमविया अहंममेत्यभिमानेन शत्रु मरणादिकामनारूपविषममत्या, रचितः यः देवतान्तराराधनरूपः धर्मः, स हि स तु, अविशुद्धः अधर्मबहुल : रागद्वेषादिगर्भत्वादधर्मप्रचुरः । क्षयिष्णुः शत्रुमरणादिकामना- गर्भत्वादस्थिरफलश्च ।। ४१ ॥ विषमधीरचितत्वमाह । कः क्षेम इति । स्वं कर्त्तारं परमन्यं च दुह्यतीति स्वपरध्रुक् तेन, अत्यन्तशरीरायासकारित्वादन्ततः संसृतिरूपानर्थहेतुत्वाच्च स्वधुकू शत्रुहिंसादिकामनागर्भत्वात्परध्रुक् इत्येवं स्वपरद्रोह - भाजा देवतान्तराराधनरूपेणेत्यर्थः । धर्मेण निजपरयोः कः क्षेमः किं सुखं न किंचिदपीत्यर्थः । अत्र परग्रहणं दृष्टान्तार्थं तेन यथाऽभिचारादिकर्म मत्तुर्न क्षेमस्तथा तत्कन्तु रपीत्यर्थः । अस्तु वा कश्चित्कत्तु स्तादात्विकः क्षेमस्तथापि सः, कियान्वा अर्थः पुरुषार्थः। क्षयिष्णुत्वान् सोऽतितुच्छ इत्यर्थः । एवं स्वपरघुकू धर्मो हि पुरुषार्थहेतुर्न भवतीत्युक्तं प्रत्युक्तः सोऽनर्थहेतुश्चेत्याह । स्वद्रोहात् स्वस्यैवाहित करणाद्धेतोः, तव परमेश्वरस्य भवतः, कोपः निग्रहः स्यात् । अयं यदा स्वस्यैवाऽहितमाचरति तदा परस्य तदाचरेत्तत्र किमु वक्तव्यम्, अतो निग्रहार्द एवेति तत्र कोपः स्यात् । तथा परसंपीडया, अधर्मश्चापि भवेत । तथा च तन्निमहः प्रतिज्ञातो भगवदीतायां भगवतैव । ‘आत्मसंभाविताः सन्धा धनमानमदान्त्रिताः । यजन्ते नामयज्ञैस्ते । । श्रीमद्भागवतम्
अथ [ स्कं ६ अ. १६ श्लो. ४१-४८ दम्भेनाऽविधिपूर्वकम् । अहंकारं बलं दर्पं कामं क्रोधं च संश्रिताः । मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः । तानहं द्विषतः क्रूरान् संसारेषु नराधमान् । क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु’ इत्यादिना ॥ ४२ ॥ * एवं विषमधी- रचितधर्मस्य न पुरुषार्थहेतुत्वं प्रत्युतानर्थहेतुत्वं चोक्तं भगवदाराधनरूपधर्मस्य त्वनिष्टपरिहारेष्टप्राप्तिहेतुत्वमव्यभिचारित्वं चेत्याह । नेति । तव ‘सत्यकामः सत्यसंकल्प’ इति श्रुत्युक्तसत्यसंकल्पस्य भवत इत्यर्थः । ईक्षा ‘ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः । अनन्येनैव योगेन मां ध्यायन्त उपासते । तेषामहं समुद्धर्त्ता मृत्युसंसारसागरात् । भवामि न चिरात्प मय्यावेशितचेतसाम्’ इत्येवं कृतः संकल्प इत्यर्थः । न व्यभिचरति अयथार्था न भवति । हि यया हेतुभूतया ईक्षया, भागवतः, भगवतस्तवाराधनरूपः धर्मः, अभिहितः पश्चरात्रभगवद्गीतावासुदेवमाहात्म्यसुधासिन्ध्वादिमुखेन प्रोक्तः । यत्र स्वधर्म भागवतधर्मे जना वर्त्तन्ते तत्र तेषां स्वधर्मावस्थान हेतुभूता त्वदीक्षा एव । अन्यथोक्तविधत्वद्धर्मानाभिज्ञतया केवलविषयासक्तत्व सति तु ततस्त्वदीक्षानिवृत्तेस्तेषां न कोऽपि संसारतः निवृत्तिकारकः । एतदभिप्रायमेव ‘धर्मेण रहिता कृष्णभक्तिः कार्या न सर्वथा’ इति शिक्षा पत्र्यां श्रीहरिवाक्यं, ततः सधर्मभक्त्याचरणरूपस्वदीक्षावान् धर्म एव संसाराम्बुधितारकोऽस्तीति तात्प- र्यार्थः । भागवतधर्मस्येत्थंभूतमहिमत्वात् । आर्या महानुभावा भगवज्जनाः तु, स्थिरचरसत्त्वकदम्बेषु स्थावरजङ्गमप्राणि- समूहेषु, अपृथधियस्त्वादात्मकबुद्धियुक्ताः सन्तः, पाठान्तरे त्वदात्मकताबुद्धया अमृतत्वायेति शेषः । यं भागवतधर्मम् उपासते ऽनुतिष्ठन्ति । यं त्वामिति वा ॥ ४३ ॥ इदानीं स्वस्य कृतार्थतामाविष्कुर्वस्तद्दर्शनस्य कृतार्थतापादकत्वं कैमुत्यन्यायेनाह । न हीति । हे भगवन्, नृणां त्वद्दर्शनात् अखिलपापक्षयः भवति । इदम् अघटितं न हि । किं तु युक्तमेव । कुतः यन्नामसकृच्छ्रवणात् यस्य भगवतो नाम्न एकवारमपि श्रवणकरणादेव, पुल्कसकोऽपि हीनजातिजश्चाण्डालोऽपि, संसारात् संसारबन्धनात् विमुच्यते । त्वन्नामश्रवणस्यैव यदेदृशं माहात्म्यं किं पुनः साक्षात्त्वद्दर्शनस्येति भावः ॥ ४४ ॥ भगवद्दर्शनेन स्वस्य कृतार्थतामाह । अथेति । हे भगवन्, अथ अतः अधुना सांप्रतं, तव यदवलोकः अवलोकनं तेन परिमृष्टा निरस्ता आशयमलाश्चित्तमला येषां ते तादृशाः, वयं जाताः कृतार्था जाता इत्यर्थः । त्वद्दर्शनं च मम नारदोपदेशेन जात- मित्याह । यद्यस्मात्, तावकेन ‘प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः’ इत्युक्तरीत्या तव निरतिशयप्रियेण, सुरर्षिणा नारदेन, यत् उदितं त्वद्दर्शनेन मम कृतार्थतानिमित्तमन्त्ररूपं यद्वचो गदितमित्यर्थः । तेन एवमधुना मम त्वदर्शनं जातमिति शेषः । अन्यथा, तेनाऽनुदिते इत्यर्थः । कथं भवति । महोपकर्तृ सदाचार्यानुप्रहाभावे कथं भवेदेवंविधः परमोऽभ्युदय इत्यर्थः ॥ ४५ ॥ * * पूर्वं कथं भवतीत्यनेनेदृशाभ्युदयानर्हत्वं स्वस्य सूचितं तच्च भवता सर्वज्ञेन सर्व विदितमेव किं मया विज्ञाप्यं ह्यधुनाऽवशिष्यत इत्याह । विदितमिति । हे अनन्त, इह लोके जनैः, यत यत्, आचरितं तत् समस्तं जगदात्मनः कृत्स्नजगदन्तर्यामितया सर्वेषां बुद्धिवृत्तीर्युगपत्, साक्षात्कत्तु:, तव विदितमेव, ततः, मादृशैः सवितुः पुरः, इव परमगुरो: तव पुरः कियत् विज्ञाप्यम् । यथा लोकत्रयप्रकाशकस्य सवितुः कीटविशेषैः खद्योतैः कृतं द्योतनं त्वत्यल्प, एवमहं पूर्व मतिमूढ आसं पश्चान्नारदेनानुगृहीतस्तत् सर्वान्तर्यामिण तव पुरो मया किं प्रकाशनीयम् । प्रकाशनस्यात्यल्पत्वादिति भावः ॥ ४६ ॥ एवं स्वस्य तत्स्तुतावनधिकारमाविष्कृत्य कांश्चित्तद्गुणाननुस्मरन् केवलं नमस्करोति नम इति द्वाभ्याम् । नम इति । इति भगवते षाड्गुण्यपूर्णाय, सकलजगत् स्थितिलयोदयेशाय सकलजगतां स्थितिप्रलयोत्पत्तिका, तुभ्यं नमः । कुयोगिनां कुयोगिभिः, भिदा अब्रह्मात्मक स्वतन्त्रवस्तुदृष्ट्या, दुरवसिता ज्ञातुमशक्या आत्मनो गतिः स्वरूप स्वभावश्च यस्य तस्मै, ज्ञातुमशक्य स्वरूप स्वभावा- येत्यर्थः । परमहंसायात्यन्तशुद्धाय च तुभ्यं नमः ॥ ४७ ॥ * * अनन्तगुणमाहात्म्यं कथयन्नमस्करोति । यमिति । । । श्वसन्तं बहु स्यामिति संकल्पतो व्याप्रियमाणं यं त्वाम् अनु, विश्वसृजो ब्रह्मादयः श्वसन्ति त्वदधीनस्वसत्तालाभेन स्वस्वक्रियायां व्याप्रियन्ते इति भावः । वै निश्चितं चेकितानं सर्व पश्यन्तम्, अनु, चित्तयश्वित्तयः, उच्चकन्ति । वीक्षणादिव्यापारे प्रसरन्ती- त्यर्थः । कर्मेन्द्रियाणां क्रिया ज्ञानेन्द्रियाणां ज्ञानं चापि त्वदधीनमेवेति भावः । यस्य तव, मूद् ध्नि भूमण्डलं कृत्स्नं भूमण्डलं सषॆपायति । सर्षपैककणवदाचरतीत्यर्थः । यो भवान् कृत्स्नभूमण्डलभारमपि सर्षपवत् मन्यते इत्यर्थः । तस्मै सहस्रमूद् ध्ने सहस्रशिरसे, भगवते तुभ्यं नमः अस्तु । भवानस्मन्नमनमङ्गीकरोतित्वत्यर्थः ॥ ४८ ॥ । भाषानुवादः , वह भागवतधर्म इतना शुद्ध है कि उसमें सकाम धर्मोके समान मनुष्योंकी वह विषमबुद्धि नहीं होती कि ‘यह हूँ, यह मेरा है, यह तू है और यह तेरा है।’ इसके विपरीत जिस धर्मके मूलमें ही विषमताका बीज बो दिया जाता है, वह तो अशुद्ध, नाशवान् और अधर्मबहुल होता है ॥ ४१ ॥ * * सकाम धर्म अपना और दूसरेका भी अहित करनेवाला है। उससे अपना या पराया - किसीका कोई भी प्रयोजन और हित सिद्ध नहीं होता । प्रत्युत सकाम धर्मसे जब अनुष्ठान करनेवालेका चित्त दुखता है, तब आप रुष्ट होते हैं और जब दूसरेका चित्त दुखता है, तब वह धर्म नहीं रहता - अधर्म होस्कं. ६ अ. १६ श्लो. ४९-५२ अनेकव्याख्यासमलङ्कृतम् ५०९ जाता है ॥ ४२ ॥ * भगवन् ! आपने जिस दृष्टिसे भागवतधर्मका निरूपण किया है, वह कभी परमार्थसे विचलित नहीं होती । इसलिये जो संत पुरुष चर-अचर समस्त प्राणियों में समदृष्टि रखते हैं, वे ही उसका सेवन करते हैं ।। ४३ ।। * भगवन् ! आपके दर्शनमात्र से ही मनुष्योंके सारे पाप क्षीण हो जाते हैं, यह कोई असम्भव बात नहीं है; क्योंकि आपका नाम एक बार सुननेसे ही नीच चाण्डाल भी संसारसे मुक्त हो जाता है ॥ ४४ ॥ * * भगवन् ! इस समय आपके दर्शन- मात्र से ही मेरे अन्तःकरणका सारा मल धुल गया है, सो ठीक ही है। क्योंकि आपके अनन्यप्रेमी भक्त देवर्षि नारदजीने जो कुछ कहा है, वह मिथ्या कैसे हो सकता है ।। ४५ ।। *
- हे अनन्त ! आप सम्पूर्ण जगत् के आत्मा हैं । अतएव संसारमें प्राणी जो कुछ करते हैं, वह सब आप जानते ही रहते हैं । इसलिये जैसे जुगनू सूर्यको प्रकाशित नहीं कर सकता, वैसे ही परमगुरु आपसे मैं क्या निवेदन करूँ || ४६ ॥ भगवन् ! आपकी ही अध्यक्षता में सारे जगत् की उत्पत्ति, स्थिति और प्रलय होते हैं । कुयोगीजन भेददृष्टिके कारण आपका वास्तविक स्वरूप नहीं जान पाते । आपका स्वरूप वास्तव में अत्यन्त शुद्ध है । मैं आपको नमस्कार करता हूँ ॥ ४७ ॥ * * आपकी चेष्टासे शक्ति प्राप्त करके ही ब्रह्मा आदि लोकपालगण चेष्टा करनेमें समर्थ होते हैं। आपकी दृष्टिसे जीवित होकर ही ज्ञानेन्द्रियाँ अपने-अपने विषयोंको ग्रहण करनेमें समर्थ होती हैं । यह भूमण्डल आपके सिरपर सरसोंके दानेके समान जान पड़ता है । मैं आप सहस्रशीर्षा भगवान् को बार-बार नमस्कार करता हूँ || ४८ ॥ । श्रीशुक उवाच संस्तुतो भगवानेवमनन्तस्तमभाषत । विद्याधरपति प्रीतचित्रकेतुं कुरूद्वह ।। ४९ ॥ श्रीभगवानुवाच यन्नारदाङ्गिरोभ्यां ते व्याहृतं मेऽनुशासनम् । संसिद्धोऽसि तया राजन् विद्यया दर्शनाच मे ॥ ५० ॥ अहं वै सर्वभूतानि भूतात्मा भूतभावनः । शब्दब्रह्म परं ब्रह्म समोभे शाश्वती तनू ॥ ५१ ॥ लोके विततमात्मानं लोकं चात्मनि सन्ततम् । उभयं च मया व्याप्तं मयि चैवोभयं कृतम् ।। ५२ ।। कृष्णप्रिया व्याख्या अन्वयः—कुरुद्वह एवं संस्तुतः भगवान् अनंतः प्रीतः तं विद्याधरपतिं चित्रकेतुम् अभाषत ।। ४९ ॥ ॐ अ राजन नारदाङ्गिरोभ्यां ते यत् मे अनुशासनम् व्याहृतं तया विद्यया च मे दर्शनात् संसिद्धः असि ।। ५० ।। * * सर्व- भूतानि भूतात्मा भूतभावनः अहं वै शब्दब्रह्म परम् उभे शाश्वती मम तनू ॥ ५१ ॥ * लोके विततम् आत्मानं च आत्मनि सततं लोकं च तत् उभयं मया व्याप्तं च एव उभयं मयि कृतम् ।। ५२ ।। श्रीधरस्वामिविरचिता भावार्थदीपिका मे ममानुशासनं मद्विषय उपदेशः तेन तया च विद्ययाऽस्माच्च दर्शनात्संसिद्धोऽसि ॥ ५० ॥ * * तद्बोध- दाढर्याय स्वयमप्युपदिशति अहमित्यादिना । सर्वभूतान्यहमेव । भूतानामात्मा भोक्ताऽप्यहमेव । भोक्तृभोगात्मकं विश्वं मद्वयतिरिक्तं नास्तीत्यर्थः । यतोऽहं भूतभावनः भूतानां प्रकाशकः कारणं च । ननु शब्दब्रह्मप्रकाशकं परं ब्रह्म कारणं च प्रकाशकं च सत्यं ते उभे ममैव रूपे इत्याह । शब्दब्रह्मेति । शाश्वती शाश्वत्यौ ।। ५१ ।। अतस्त्वमेवं पश्येत्याह । लोके भोग्यप्रपंचे भोक्तृत्वेन विततमनुगतमात्मानं लोकं चात्मनि भोग्यत्वेन संततं व्याप्तं तदुभयं च मया कारणात्मना व्याप्तम् । मयि चैवोभयं कृतं प्रकल्पितं स्मरेदिति तृतीयेनान्वयः । पश्येदित्यध्याहारो वा ।। ५२ ।। वंशीधरकृतो भावार्थदीपिकाप्रकाशः कुरूद्वहेति । शुद्धवंशोद्भूतत्वात्तुभ्यमिदं प्रोक्तमिति “विशुद्धोभयवंशाय देया विद्यामनीषिणा” इत्युक्तेः ॥ ४६ ॥ ** राजनिति । राज्ञां संसिद्धिरतिदुर्लभापि मत्कृपया जातेति भावः ॥ ५० ॥ * * इत्यर्थ इति । “सर्वं खल्विदं ब्रह्म’ … ५१० श्रीमद्भागवतम् [ स्कं. ६ अ. १६ श्लो. ४९-५२ इति श्रुतेरिति भावः । अत्राशंकते–नन्विति । वेदराशि: शब्दब्रह्म सच्चिदानंद परब्रह्मेति भेद: । “यावद्ब्रह्मविष्टितं तावती बाक्” इति श्रुतेः ॥ ५१ ॥ * * यतोऽहमेव सर्वमतो हेतोः । एवं वक्ष्यमाणप्रकारेण । व्यवहितान्वये श्रमं मत्वाह- । । पश्येदित्यध्याहारो ना ।। ५२ ।। अन्वितार्थप्रकाशिका संस्तुत इति । हे कुरूद्वह ! भगवानन्तः संकर्षण एवं संस्तुतोऽत एव प्रीतः सन् तं विद्याधरपति चित्रकेतुम- भाषत ॥ ४६ ॥ * यदिति । हे राजन् ! यन्मेऽनुशासनं मद्विषय उपदेशः कोऽयं स्यात्तव राजेन्द्रेत्यादिना तें तब नारदाङ्गिराभ्यां व्याहृतं निरूपितं तेन तया नारदोपदिष्टया स्तोत्रमन्त्रात्मिकया विद्यया में मम दर्शनाच्च त्वं सम्यक सिद्धः कृतार्थोऽसि ।। ५० ।। * * तद्बोधदायय स्वयमप्युपदिशति - अहमिति । सर्वभूतानि स्थावरजङ्गमात्मकान्यहमेव तथा भूतानामात्मा भोक्ताऽप्यहमेव भोक्तृभोग्यात्मकं विश्वं मद्वचरिक्तं नास्तीत्यर्थः । यतोऽहमेव भूतभावनः भूतानां भावनः प्रकाशकः नियन्ता कारणं च ननु शब्दब्रह्म प्रकाशकं परं ब्रह्म कारणं प्रकाश्यं प्रसिद्धं तत्राह । शब्दब्रह्म परं ब्रह्म च इत्युभे ममैव शाश्वती शाश्वत्यौ । पूर्वसवर्णदीर्घ आर्षः । तनू मूर्ती स्तः ॥ ५१ ॥ * * • * * लोक इति । लोके भोग्यात्मके प्रपञ्चे भोक्तृत्वेन विततमनुगतमात्मानं जीवं तथा लोकं चात्मनि जीवे सन्ततं भोग्यत्वेन व्याप्तं तदुभयं च मया कारणात्मना व्याप्त यतस्तदुभयमपि मय्येवाधिष्ठाने कृतं रचितमिति पश्येदिति शेषः ।। ५२ ।। srija वीरराघव व्याख्या चित्रकेतुनेत्थं स्तुतो भगवाननन्तस्तमभाषतेत्याह - मुनिः, संस्तुत इति । इत्थमनन्तगुणमाहात्म्येन स्तुतो भगवाननन्तः प्रीतस्सन हे कुरूद्वह, ते विद्याधराणां पतिं चित्रकेतुमभाषत ।। ४९ ।। * * तदेवाह - यदित्यादिना सिद्धोसीत्यन्तेन । नारदाङ्गिरोभ्यां ते तुभ्यं यद्वचाहृतमुक्तं तदनुशासनं प्रकृतिपुरुषेश्वरस्वरूपविषयकं विविच्य ज्ञापनरूपं वचः मे ममैव सत्सम्ब- न्ध्येवान्तरात्मभूतमत्सङ्कल्पादेव ताभ्यां ते व्याहतमा “ईश्वरस्य च सौहार्द यदृच्छा सुकृतं तथा । विष्णोः कटाक्षः अद्वेष आनुकूल्यं च सात्विकैः । सम्भाषणं षडेतानि झाचार्यप्राप्तिहेतवः” ।
इत्युक्तरीत्या मदनुग्रहमन्तरेण सदाचार्यप्राप्ते दुर्लभत्वादिति भावः । अतो हे राजन्, तथा नारदोपदिष्टया मन्त्रविद्यया मम दर्शनाच्च संसिद्धोसि ॥ ५० ॥ ननु, मह्यमुपदिशतमिति न तौ प्रतित्वमुक्तवानतः कथं तद्वयाहृतं त्वदनुशासन- मेवेति जानीयां किच तयोरेव वचोऽहमशृणवं न तु तवेत्यत्राह - अहं हीति । तावत्सर्वाणि भूतान्यहमेव सर्वाण्यपि भूतानि मदभिन्नान्येव, किमुत “आचार्य मां विजानीयात् “ज्ञानीत्वात्मैव मे मतम्” इत्युक्तात्माभिन्नाभिमानविषयावगिरोनारदौ मद- भिन्नाविति भावः । अतस्तद्व्याहृतं मदनुशासनमेवेति तात्पर्यम् । ननु, सर्वभूतान्यहमेवेत्युक्तोऽभेदः किं मृदात्मको घट इति वत्स्वरूपाभेदरूपस्तथात्वे सर्वविकाराश्रयत्वापत्तिस्तत्राह - भूतात्मा सर्वभूतानामन्तरात्मा आत्मा देवो जात इत्यादिवच्छ- रीरात्मभावप्रयुक्तः सर्वभूतैः सह ममाभेदः विकाराणां शरीरगतानां जीवे बाल्यादीनामिव न मयि प्रसक्तिरिति तात्पर्यम् । शरीरात्मभावनिबन्धनोऽभेदव्यपदेशो बहुशो दृष्टः ब्राह्मणोहं कृशोहं स्थूलोहमित्यादि न चेदं रजतमिति तद्बाधितोयं व्यपदेश: नीलो घट इत्याद्यभेदव्यपदेशस्यापि बाध्यत्त्वापत्तेः अथ जातिगुणादीनां व्यक्तिगुण्यप्रधक्सिद्धप्रकारतया तद्बुद्धि तच्छब्दयोर्व्यक्ति- गुणिपर्यन्तत्त्वान्न बाधस्तर्हि शरीरस्याप्यात्मा पृथक सिद्धप्रकारत्वेन तद्बुद्धितच्छब्दयोरपि तात्पर्य तत्वादप्यबाधित एव, ननु, जात्यादेयत्तथादीन् प्रति अप्रधक्सिद्धप्रकारत्वं प्रत्यक्षगम्यं जातिव्यत्तयोरुभयोरपि प्रत्यक्षविषयत्वात् आत्मनस्तु तदविषय- त्वात्कथं शरीरस्यात्मा पृथक सिद्धविशेषणत्वमिति चेत मास्तु जातिव्यक्तयोरिव शरीरात्मनोरेकप्रमाणविषयत्वम् अथाप्यात्मा पृथक्सिद्धप्रकरत्वं शरीरस्याक्षतमेव न हि भिन्नसामग्रीवेद्यत्वमात्रेण तद्व्याहर्तुं शक्यम् अन्यथा चक्षुर्धाणेन्द्रियविद्ययोः पृथ्वी- गन्धयोरपि नियतप्रकारप्रकारिभावानुपपत्तेरित्यन्यत्र विस्तरः न केवलं शरीरात्मभावनिबन्धन एव भूतैर्ममाभेदः, अपि तु कार्यकारणभावनिबन्धनश्चेत्याह- भूतभाव इति, भूतानि चिदचिदात्मकानि देवमनुष्यादीनि भावयत्युत्पादयति स्वस्त देवो- पादन भूतादिति भूतभावनः कार्यकारणयोरभेदरत्वारम्भणाधिकरणादिभाध्ये बहूपपत्तिभिर्निरूपितः यदा शङ्कितं तयोरेववचो शृणवं नतु तवेति तत्राह - शब्देति । शब्दात्मकं यद्ब्रह्म परं शब्देन बाच्यमर्थात्मकत्वं च यद्ब्रह्म इमे ब्रह्मणी मम शाश्वती तनू यावत्सत्तमपृथक्सिद्धे मम शरीरभूते इत्यर्थः । स्वस्तिन्मुख्यवृत्तो ब्रह्मशब्दः शब्दार्थात्मकयोः प्रपञ्चदलयोः स्वशरीरत्वादुप- चरितः परब्रह्मणः स्वतनुत्वकथनं दृष्टान्तार्थं यथा परब्रह्मान्तर्गतनारदांगिरसोर्मच्छरीरत्वम् एवं शब्दब्रह्मान्तर्गततद्वचसोऽपि मत्तनुत्वमित्यर्थः । यद्यपि स्वस्य सर्वभूतात्मकत्वकथनेनैव सर्वभूतवचसां स्ववचरत्वमपि कथितप्रायं तथापि नामरूपयोरुभयोरपि स्कं. ६ अ. १६ श्लो. ४९-५२ ] अनेकव्याख्या समलङ्कृतम् स्वशरीरकत्वज्ञापनाय पृथगुक्तमित्यगन्तव्यम् ॥ ५१ ॥ * * ननु, सर्वेषां भूतशब्दवाच्यानां देवादिशरीराणामात्मा जीवः स एव किं भवान्नेत्याह-लोक इति । लोके परिदृश्यमानाचित्प्रपञ्चे देवादिशरीररूपे विततं व्याप्तमन्तः प्रविश्य धारकतया व्याप्तं प्रत्यगात्मानं द्वितीयान्तानां पश्येत्यव्याहृतेनान्वयः । तथा आत्मनि प्रत्यगात्मनि सन्ततं प्रोतं धार्यत्वेनावस्थितं लोकं केत्येतदुभयं मया परमात्मनाऽतः प्रविश्य भर्त्रा व्याप्तम् उक्तमुभयं मयि कृतं च मदाधेयं कृतमित्यर्थः । लोके विततमात्मान- मित्यनेन चेतने जीवस्य व्याप्तिरुक्ता । लोकं चात्मनीत्यनेनाचेतनस्य जीवधार्यत्वमुक्तम् | उभयमित्यनेन चेतनाचेतनयोरीश्वर- धार्यत्वं व्याप्यत्वमीश्वरस्य स्वस्य धारकत्वं व्यापकत्वञ्चोक्तम् अतो नाहं जीवः भूतात्मेत्यत्र भूतशब्दोऽचेतनविशिष्टचेतनपरः इति भावः । आत्मानमित्येकवचनं जात्यभिप्रायकं यद्वा एकामेव जीवव्यक्तिमुपादाय क्रमप्राप्तेषु देवादिशरीरेषु व्याप्तिरुच्यते, अतोऽत्र जीवैक्यवादभ्रमो न कर्त्तव्यः ॥ ५२ ॥ विजयध्वजतीर्थकृता पदरत्नावली अनन्तनाम प्रवृत्तिनिमित्तक्रियावत्त्वादनन्तः श्रीहरिः । हरिगुणान्तकथनदर्शनासमर्थत्वाददन्त इत्यर्थः ॥ ४९ ॥ नारदाङ्गिराभ्यां मन्मम शासनं तव व्याहृतं तत्करणेन या च मम विद्याम्यस्ता तथा यश्च मम दर्शनं तस्माच्च संसिद्धोऽसि प्राप्तापेक्षिता शेषपुरुषार्थोसीत्यर्थः ॥ ५० ॥ * * अधुनाऽहं पूर्वोक्तस्थिरीकरणाय किञ्चिद्विशेषज्ञानाय वा किञ्चिदुपदि- शामीत्याह - अहमिति । सर्वभूतान्यहमित्यन्वयः वा इत्यनेन “सर्वं खल्विदब्रह्म” इति श्रुतिं सूचयति अभेदोपदेशस्य कोभिप्राय इति तत्राह - भूतात्मेति । भूतानामन्तः स्थित्वा दानादिकर्तृत्वात्तद्वयपदेश: “हरिस्तु सर्वभूतानि तदन्तर्याम्यपेक्षया” इति स्मृतेः सन्ताप्रदत्वाच्च तद्वयपदेश इतिभावेनाह - भूतभावन इति । भूतानि भावयति सत्तागतानि करोतीति अनेन " अहमस्मि " इत्यादिश्रुतिगतानि पदान्यन्तर्यामिणि मुख्यवृत्त्या प्रवर्तन्त इत्युक्तं तथाचोक्तं “तिपदानि च सर्वाणि सुप्पदानि तथैव च । तस्मिन्नेव प्रवर्तन्ते मुख्यवृत्त्या विशेषतः " इति इदच त्वयावश्यं ज्ञातव्यमित्याह : - शब्देति । वेदादिशब्दराशिलक्षणं शब्दब्रह्म सच्चिदानन्दलक्षणं परं ब्रह्मेत्युभे “द्वे अपि ब्रह्मणी मम शाश्वती तनू प्रतिमास्वरूपभेदेन यावद्ब्रह्म विष्ठितं तावती वाकू” इति श्रुतेः " एष नित्योऽव्ययः सूक्ष्मः” इति पूर्वोक्तम् ॥ ५१ ॥ आत्मानं जीवं लोके भुवने अवितयामत्र्याप्तं जानीहि लोकं चात्मनि जीवे वासनारूपेण मनसि सन्ततं निर्व्यूढं विद्धि विपुलस्य लोकस्यात्मप्रदेशमन्तरेण बाहुल्यायोगात् लोक आत्मेत्युभयं मया ब्रह्मरूपेण व्याप्तम् । तर्हि, जीवलोकयोगाधारः कः ? इति तत्राह - मयीति । उभयच मयि समाश्रितमेव । कुतः ? ‘अहमेवो- भवाधारः’ इति समाधत्स्व ।। ५२ ।। ॥
जीवगोस्वामिकृतः क्रमसन्दर्भः अहमिति । अत्र शब्दब्रह्मण: साहचर्यात् परब्रह्मणोप्यंशत्वमायाति ।। ५१ ।। * * तचैवानुभावयति लोक इति । आत्मानं परं ब्रह्म स्वरूपं विततमाश्रयत्वेन वर्त्तमानम् आत्मनि तस्मिन् सन्ततमाश्रितं पश्य मया भगवद्रूपेण परब्रह्मणोपि सदीय निविशेषाविर्भावरूपत्वात् । अत एवोभयश्च मयि कृतं मज्ज्ञाननिमित्तमेव निरूपितमित्यर्थः ।। ५२ ।। विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी 1 मेऽनुशासनं श्रवणकीर्त्तनादिभजनं तेन तथा विद्यया नारदोपदिष्टमहामन्त्रेण च तत्साध्यान्मम दर्शनाच्च ॥ ५० ॥ किश्च भक्तितत्त्वं तया ज्ञातमेव तत्राजितजितेत्यादिस्तुतिरेव प्रमाणं जिज्ञासानैरपेक्ष्यार्थं ज्ञानतत्त्वमहमेवोपदिशामि शृण्वत्याह- अहं वै इति । अत्रेदं विवेचनीयं वस्तु तावत् द्विविधं, वास्तवमवास्तवञ्च । ब्रह्म परमात्मा भगवान् सपरिकर इत्येतत् त्रितयमेव वास्तवं वस्तु । मायिकप्रपञ्चजातमिदमवास्तवं वस्तु । अवस्तु च द्विविधं, कार्यम कार्य । कार्य्यं स्वप्नेन्द्रजालादिगतम् | अकार्य खपुष्पशशशृङ्गादि । एषां मध्ये विद्यं व वास्तवमत्र वस्त्विति प्रथमोक्तेर्वास्तवं वस्तु न एवोपादेयत्वं वक्तुं प्रथममवास्तववस्त्वाह- सर्वभूतानि भोक्तृभोग्यात्मकानि जगन्ति अहमेव मदीयजीवशक्तिमयत्वादिति भावः । अत्र जीवानामवास्तववस्तु त्वम विद्या- वृतत्त्रादेवोक्तम् । वास्तवं वस्त्वाह भूतानां समष्टिव्यष्टीनामात्मा अन्तर्यामीति द्वितीयः । तृतीयश्च पुरुषोऽहं तथाभूतानि तानि भावयत्युत्पादयतीति प्रथमः पुरुषश्चाहं तथाभूतानि दास्यसख्यादिभावयन्ति करोतीति भूतभावनः कृष्णो रामश्च सम्प्रति त्वया दृश्यश्चाहं किन मन्निश्वासरूपं यत् शब्दब्रह्म वेद: तथा मन्त्रिर्विशेषाकारत्वेन ज्ञानिषु प्रतिपाद्यमानं यत् परं ब्रह्म ते उभे ममैव तनुरूपे वेदस्य शब्दरूपत्वादाकाशगुणत्वेनानित्यत्वशङ्कायास्तथा परब्रह्मणश्चानिर्देश्यत्वे नाव स्तुत्वशङ्काया वारणायाह शाश्वती शाश्वत्यौ नित्यं सत्ये एव ।। ५१ ।। * * ननु त्वं मम चेत् सर्वं भवति तर्हि किं सर्वभूताश्रेयोपास्यत्वेन ध्येयानि 1 ५१२ श्रीमद्भागवतम् [ एक. ६ अ. १६ श्लो. ४९-५२ भक्तानामुतान्तर्याम्यादिरूपाणीति तत्राह - लोके भोग्यप्रपञ्च भोक्तृत्वेन विततमनुगतमात्मानं जीवं तथा लोकचात्मनि भोग्यत्वेन सन्ततं सविस्तरमुपच्छ्रितं तदुभयं मया कारणात्मना व्याप्तं मयि चाधिष्ठान कारणे उभयं कृतं कार्यरूपं स्मरेदिति तृतीयेनान्वयः । तेन सर्वभूतानि सच्छक्तिकार्याण्यनित्यान्यस्वरूपभूतानि नोपास्यत्वेन ध्येयानीति भावः ।। ५२ ।। शुकदेवकृतः सिद्धांतप्रदीप: ते तुभ्यं मेऽनुशासनं मद्विषयकं शास्त्रं मंत्रोपनिषदित्यर्थः । तया मंत्रोपनिषद्रपया विद्यया में दर्शनाच्च संसिद्धोसि मदीयतां प्राप्तोसि यः भगवदीयत्वं न प्राप्तः स रागाद्यभिभूतत्त्वादसिद्ध एवेत्यस्मिन्पुराण एवास्ति, तावद्रागादयस्तेन तावत्कारा- गृहं तथा तावन्मोहोंत्रिनिगडो यावत्कृष्ण न ते जनाः’ इति ॥ ५० ॥ एवं सिद्धपदवीं प्राप्तो भवद्विधो जीवः सर्वात्मानं सर्व कारणमसूयास्पर्द्धादिदोषराहित्येन ध्यायेदित्याह अहमितिचतुर्भिः । सर्वभूतानि चेतनाचेतनानि अहं यतः भूतानामात्मा " एष ते आत्मांतर्यामी” इतिश्रुतेः । " अन्तरात्मा नियंताहं नियम्यनियंत्रोः । स्वाभाविको भेदाभेदः, इन्द्रिय- गणप्राणयोः न वै वाचो न चक्षूंषि न मन इत्याचक्षते प्राणा इत्येवाचक्षते” इति छांदोग्ये प्रसिद्धः । यतः भूतभावनः भूतानि भावयत्युत्पादयतीति स “तथा कार्यकारणयोः " स्वाभाविको भेदः सर्वं खल्विदं ब्रह्म, तत्तुल्यानितीत्यनेन वाक्येन दर्शितः आत्मनि प्रमाणम् आत्मनः स्वरूपं चाह, शब्दब्रह्म परं ब्रह्म चेत्युभे मम शाश्वती शाश्वत्यौ नित्ये तनू वेदप्रमाणकपरब्रह्माभिन्नोस्मीत्यर्थः । एवंभूतेन मयोभयं ततमित्यवेहीत्यध्याहृतेन द्वयोरन्वयः ॥ ५१ ॥ लोके भोग्ये पदार्थे आत्मानं भोक्तृत्वेनान्वितम् ॥ ॥ आत्मनि भोक्तरि लोकं च भोग्यतया संततम् उभयं च मया नियंत्रा व्याप्तं यस्मिन्मयि सर्वशक्तौ तदुभयं कृतं गुणिनि गुणवत् निहितम् “भोक्ता भोग्यं प्रेरितारं च मत्त्वा सर्व प्रोक्तं त्रिविधं ब्रह्म एतत्” इति सनातनीश्रुत्या प्रतिपादितमित्यर्थः ॥ ५२ ॥ * गोस्वामिगिरिधरलालविहिता बालप्रबोधिनी भगवाननन्तः सङ्कर्षण एवं संस्तुतोऽतएव प्रीतः सन् तं विद्याधरपतिं चित्रकेतुमभाषतेत्यन्वयः । त्वय्यपि, भगवत्प्रसादो महानस्ति येन त्वं कुरुकुलस्य निर्वाहको जात इत्याशयेन सम्बोधयति — हे कुरूद्वहेति ।। ४९ ।। * * भगवद्भाषणमेव दर्शयति-यदिति पञ्चदशभिः । यन्मे मम वेदात्मकस्य अनुशासनमुपदेशः ‘कोऽयं स्यात्तव राजेन्द्र’ इत्यादिना ते तत्र नारदाङ्गिरोभ्यां व्याहृतं निरूपितं तेन तया नारदोपदिष्टया स्तोत्रमन्त्रात्मिकया विद्यया में मम दर्शनाश्च हे राजन् त्वं सम्यक् सिद्धः कृतार्थोऽसि नात्र सन्देह इत्यन्वयः । जनश्रेष्ठेन त्वया मदाराधनमुचितमेव कृतमिति सूचनाय सम्बोधनम् ।। ५० ।। एवं कृतार्थस्यापि तस्य बोधदाढर्याय कृपया स्वयमपि तत्त्वमुपदिशति - अहमित्यादिना । सर्वभूतानि स्थावरजङ्गमात्म- कान्यहमेव । तथाभूतानामात्मा भोक्ताऽप्यहमेव । भोक्तृभोग्यात्मकं विश्वं मव्यतिरिक्तं नास्तीत्यर्थः । यतोऽहमेव भूतभावनः भूतानां भावनः प्रकाशकः नियन्ता कारणं च । नतु धर्माधर्मादिप्रकाशकं शब्दब्रह्मप्रसिद्धं विश्वस्य प्रकाशक नियन्तृकारणं च परं ब्रह्म प्रसिद्धं त्वमेव तत्सर्वमिति कथमित्याशङ्कय ते उभे अपि ममैव रूपे इत्याह- शब्दब्रह्मेति । शाश्वती शाश्वत्यौ । तनू मूर्ती ॥ ५१ ॥ * * अतस्त्वेवं पश्येत्याह-लोक इति । लोकभोग्यात्मके प्रपचे भोक्तृत्वेन विततमनुगतमात्मानं जीवं तथा लोकं चात्मनि जीवे सन्ततं भोज्यत्वेन व्याप्तं तदुभयं च मया कारणात्मना व्याप्तं यतस्तदुभयमपि मय्येवाधिष्ठाने कृतं रचितमिति पश्येति शेषेणान्वयः । अत्रात्मानमित्येकवचनं साजात्याभिप्रायेण ॥ ५२ ॥ भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी चित्रकेतुनेत्थं संस्तुतो भगवाननत्तस्तं प्रत्यभाषतेत्याह मुनिः । संस्तुत इति । एवमित्थं संस्तुतः अनन्तगुण- माहात्म्येन कृतस्तवनः, भगवान् अनन्तः प्रीतः प्रसन्नतां प्राप्तः सन्, हे कुरूद्वह, विद्याधरपति तं चित्रकेतुम् अभाषत ॥ ४९ ॥ तदेवाह यदित्यादिना सिद्धयसीत्यन्तेन । यदिति । नारदोऽङ्गिरोभ्यां ते तुभ्यं यत् अनुशासनं शिक्षावचनं व्याहृतमुक्तं तत् मे मम, अनुशासनं प्रकृतिपुरुषेश्वरस्वरूपाणां विविच्य ज्ञापनरूपं यत् वचनं तन्मत् संकल्पादेव ताभ्यां त्वां प्रति व्याहृतमिति बोध्यमिति भावः । अतः, हे राजन, तया नारदोपदिष्टया विद्यया मन्त्रविद्यया मे मम दर्शनाच्च संसिद्धः असि । नारदाऽ- ङ्गिरोभ्यां यन्मम शासनं तव व्याहृतं, तत्करणेन या च मम विद्याभ्यस्ता तथा यच मम दर्शनं तस्माच्च संप्राप्तापेक्षित पुरुषा- र्थोऽसीति संदर्भार्थः ।। ५० ।। * न्तु युवामेतमुपदिशतमिति, न तौ प्रति त्वमुक्तवानतः कथं तद्वचाहृतं त्वदनुशासन- मेवेति जानीयां, किं च तयोरेव वचोऽहमशृणवं न तु तवेत्यत्राह । अहमिति । सर्वभूतानि, अहं वै सर्वाण्यपि भूतानि मच्छरीरकत्वान्मदात्मकान्येवेत्यर्थः । एवं सति ‘आचार्य मां विजानीयात्’ इति ‘ज्ञानीत्यात्मैव मे मतम्’ इति च वचनान्म- दभिमानविषयावङ्गिरोनारदौ मदभिन्नावतस्तद्वयाहृतं मदनुशासन मेवेति भावः । न केवलं शरीरात्मभवानिबन्धन एव मम स्कं. ६ अ. १६ लो. ५३-५६ ] अनेकव्याख्यासमलङ्कृतम् T ५१३ भूतैरभेदः, किं तु कार्यकारणभावनिबन्धनश्चेत्याह । अहं, भूतानि चिदचिदात्मकानि देवमनुष्यादीनि भावयत्युत्पादयतीति भूतभावनः । भूतानि मत्कार्यभूतानि तदुत्पादनात्मनाहं कारणभूतश्चेति भावः । ननु तर्हि कार्यरूपाणां भूतानां विकार- मयत्वात्त्वमपि तथाभूतो जात एवेत्यत्राह । अहं भूतात्मा भूतानां विकारवत्त्वेऽपि तत्स्थितिहेतोरात्मनो न विकारवत्त्वं तदा आत्मात्मनो मम तु विकारवत्त्वमेव नास्तीति भावः । यदाशङ्कितं तयोरेव वचोऽहमशृणवं न तवेति तत्राह । शब्दब्रह्मेति वेदः, परब्रह्म वेदेन वाच्यमर्थात्मकं यद्ब्रह्म तच्च, उभे इमे ब्रह्मणी, मम शाश्वती शाश्वत्यौ, तनू । मच्छरीरभूते इत्यर्थः । अत्राऽ- र्थात्मक ब्रह्मणः स्वतनुत्वकथनं दृष्टान्तार्थम् । यथाऽर्थात्मक ब्रह्मान्तर्गतनारदाङ्गिरसोर्मच्छरीरत्वमेवं शब्दब्रह्मान्तर्गततद्वच- सोऽपि मच्छरीरत्वात् मदुक्तत्वमित्यर्थः ॥ ५१ ॥ * * नतु सर्वभूतात्मेत्यनेन सर्वेषां भूतशब्दवाच्यानां देवादिशरीरा- णामात्मा तु जीवस्ततः स एव किं भवान्नेत्याह । लोके इति । लोके परिदृश्यमानेऽचित्प्रपञ्चे देवादिशरीररूपे, विततमन्तः प्रविश्य धारकतया व्याप्तम्, आत्मानं प्रत्यगात्मानम्, अत्र द्वितीयान्तानामध्याहृतेन पश्येत्यनेनान्वयः । तथा आत्मनि प्रत्यगात्मनि संततं प्रोतं धार्यत्वेनावस्थितमित्यर्थः । लोकं च इत्येवम् उभयं मया परमात्मना, अन्तः प्रविश्य व्याप्तम् । उभययुक्तं द्वयमपि मयि च कृतं मदाधेयं कृतमित्यर्थः । लोके विततमात्मानमित्यनेनाचेतने जीवस्य व्याप्तिरुक्ता । लोक चात्मनीत्यनेनाचेतनत्य जीवधार्यत्वमुक्तम् । उभयमित्यनेन चेतनाचेतनयोरीश्वरधार्यत्वं व्याप्यत्वं चोक्तम् । स्वस्येश्वरस्य धारकत्वं चोक्तम् ॥ ५२ ॥ भाषानुवादः श्रीशुकदेवजी कहते हैं—परीक्षित् ! जब विद्याधरोंके अधिपति चित्रकेतुने अनन्तभगवान्की इस प्रकार स्तुति की, तब उन्होंने प्रसन्न होकर उनसे कहा ।। ४९ ।। * * श्रीभगवान्ने कहा - चित्रकेतो ! देवर्षि नारद और महर्षि अङ्गिराने तुम्हें मेरे सम्बन्धमें जिस विद्याका उपदेश दिया है, उससे और मेरे दर्शन से तुम भली-भाँति सिद्ध हो चुके हो ॥ ५० ॥ ** मैं ही समस्त प्राणियोंके रूपमें हूँ, मैं ही उनका आत्मा हूँ और मैं ही पालनकर्ता भी हूँ । शब्दब्रह्म ( वेद ) और परब्रह्म दोनों ही मेरे सनातन रूप हैं ॥ ५१ ॥ & आत्मा कार्यकारणात्मक जगत् में व्याप्त है और कार्य-कारणात्मक जगत आत्मामें स्थित है तथा इन दोनों में मैं अधिष्ठानरूपसे व्याप्त हूँ और मुझमें ये दोनों कल्पित हैं ।। ५२॥ ५३ ॥ ५४ ॥ यथा सुषुप्तः पुरुषो विश्वं पश्यति चात्मनि । आत्मानमेकदेशस्थं मन्यते स्वप्न उत्थितः ॥ एवं जागरणादीनि जीवस्थानानि चात्मनः । मायामात्राणि विज्ञाय तद्द्रष्टारं परं स्मरेत् ॥ येन प्रसुप्तः पुरुषः स्वायं वेदात्मनस्तदा । सुखं च निर्गुणं ब्रह्म तमात्मानमवेहि माम् ।। ५५ ।। उभयं स्मरतः पुंसः प्रखापप्रतिबोधयोः । अन्वेति व्यतिरिच्येत तज्ज्ञानं ब्रह्म तत् परम् ।। ५६ कृष्णप्रिया व्याख्या अन्वयः - यथा सुषुप्तः पुरुषः आत्मनि विश्वं पश्यति च स्वप्ने उत्थितः आत्मानम् एकदेशस्थं मन्यते ॥ ५३ ॥ एवं च जागरणादीनि जीवस्थानानि आत्मनः मायामात्राणि तत् विज्ञाय द्रष्टारं परं स्मरेत् ॥ ५४ ॥ तदा येन आत्मनः स्वापं च निर्गुणं सुखं वेद तं आत्मानं ब्रह्म माम् अवेहि ।। ५५ ।। प्रस्वापप्रतिबोधयोः यत् अन्वेति व्यतिरिच्येत तत् ज्ञानम् परं ब्रह्म ॥ ५६ ॥ * श्रीधरस्वामिविरचिता भावार्थदीपिका M
-
- प्रसुप्तः पुरुषः उभयं स्मरतः पुरुषः पुंसः ननु जाग्रदाद्यवस्थाभेदेन भोक्तृभोग्यात्मकं विश्वं स्फुटं प्रतीयमानं कथं कल्पितं स्यादित्याशंक्य स्वप्नगतजाप्रदादि- दृष्टांतेन संभावयन्नाह यथेति द्वाभ्याम् । यथा स्वप्ने सुप्तो विश्वं गिरिवनादिरूपं देशांतरस्थमात्मन्येव पश्यति । स्वममध्ये सुषुप्तिं स्वप्नं च पश्यतीत्यर्थः । तथा स्वप्न एवोत्थितः सन्नात्मानमेकदेशस्थं शयनदेशे स्थितं मन्यते जाग्रदवस्थाम- नुभवति ॥ ५३ ॥ * * एवं प्रसिद्धान्यपि जागरादीनि जीवस्थानानि जीवोपाधेर्बुद्धेरवस्थानुभूतान्यात्मनो मायामा- त्राणीत्येवं विज्ञाय तेषां द्रष्टारमत एव परं तदवस्थारहितमात्मानं स्मरेत् ॥ ५४ ॥ ननु तेषां द्रष्टारमिति कथमुच्यते
१. प्रा० पा०—प्रसुप्तः | २. प्रा० पा० - स्मरेत माम् । ३. प्रा० पा० ज्ञानं तद् ब्रहम | ६५ ५१४ श्रीमद्भागवतम् [ स्कं. ६ अ. १६ श्लो. ५३-५६ स्वापे दृश्याभावेन द्रष्टृत्वाभावात्तत्राह । येनेति । प्रसुप्तः पुरुषो जीवो येन रूपेण तदा स्वापकाले आत्मनः स्वापं निर्गुणम- तींद्रियं सुखं च वेद तमात्मानं ब्रह्म मामवेहि । तदा स्वापसुखयोरसंवेदने “सुखमहम स्वाप्सम्” इति स्मृतेरसंभवात ।। ५५ ।। ननु स्वापसाक्षिणा दृष्टं कथं जाग्रदवस्थः स्मरेन्न ह्यन्येन दृष्टमन्यः स्मरति तत्राह । उभयं प्रस्वापं प्रतिबोधं च स्मरतोऽनुसंधतः । तयोः प्रापप्रतिबोधयोः प्रकाशकत्वेन यदन्वेति ताभ्यां व्यतिरिच्येत च । एकैकापायेऽप्यनपायात् । तज्ज्ञानं परं ब्रह्म तदेव न तु भिन्नमित्यर्थः । अतो बाल्ये दृष्टस्य यौवने स्मृतिवदवस्थांतरत्वेऽपि स्वापानंदयोः स्मरणं घटत इति भावः । तदेवंभूतं ब्रह्मात्मानमवेहीत्यनुषंगः ॥ ५६ ॥ वंशीधरकृतो भावार्थदीपिकाप्रकाशः * अत्राक्षिपति – नन्विति । सुषुप्तः प्रसुप्तः । इत्यर्थ इति । अत्र चकारात्सुषुप्तिं केवलां गाढनिद्रां च पश्यतीति भावः । । स्वप्न इति । सप्तम्येकवचनम् ॥ ५३ ॥ जीवस्य जीवोपाधेर्बुद्धेः स्थानान्यवस्था इत्यर्थः । " जाग्रत्स्वप्नौ सुषुप्तिश्च गुणतो बुद्धिवृत्तयः” इत्युक्तेः । अत एव द्रष्टृत्वादेव ।। ५४ ।। पुनराक्षिपति - नन्विति । स्वापकाले सुषुप्तिकाले । । असंवेदनेऽननुभवे । स्मृतेरिति स्मृतेरनुभवजन्यत्वनियमात् ॥ ५५ ॥ विश्वतैजसप्राज्ञभेदेन जाग्रदादित्रयसाक्षिणः पृथक्पृथक् संभवादन्यानुभूतेऽन्यस्मृतिरपि न संभवतीत्याक्षिपति - नन्विति । ताभ्यां प्रस्वापप्रतिबोधाभ्याम् । व्यतिरिच्येत पार्थक्येन स्थितो भवेत् । एकैकयोः प्रस्वापप्रतिबोधयोरेकतरस्याभावेऽपि तस्यात्मनोऽनपायात्सत्त्वात् । इत्यर्थ इति । ज्ञानं ज्ञानरूपम् “सत्यं ज्ञानमनंतं ब्रह्म” इति श्रुतेः । परं मुक्तप्राप्यम् “ब्रह्मविदाप्नोति परम्” इति श्रुतेश्च । परं ज्ञानरूपमेव ब्रह्म न तु तदन्यश्रवणादिति भावः । अतः साक्षिण ऐक्यात् । इति भाव इति । विश्वादिसंज्ञैव भिन्ना न तु संज्ञानामौपाधिक- त्वादिति तात्पर्यम् ॥ ५६ ॥ अन्वितार्थप्रकाशिका के यथेति । यथा सुषुप्तः पुरुषः स्वप्ने विश्व गवाश्वव्याघ्राद्यनेकरूपं देशान्तरस्थमपि आत्मनि एव पश्यति स्वप्नमध्ये सुषुप्तिं स्वप्नं च पश्यतीत्यर्थः । न तु स तद्रूपो भवति तथा स्वप्न एवं पुनरुत्थितः सन्नात्मानं मनुष्यमेकदेशस्थं गृहे शयनदेशे स्थितं मन्यते जाग्रदवस्थामनुभवति ॥ ५३ ॥ * एवमिति । एवं जागरणादीनि जीवस्थानानि जीवोपाधेर्बुद्धेरव- स्थाभूतानि आत्मनो मायामात्राणि मायया कल्पितानीति विज्ञाय तेषां द्रष्टारमत एव परं तदवस्थारहितमात्मानं स्मरेत् ॥ ५४ ॥ * * ननुं स्वापे दृश्याभावेन द्रष्टृत्वाभावात् कथं तद्रष्टारं स्मरेत् तत्राह - येनेति । प्रसुप्तः पुरुषो जीवो येन ब्रह्मणैकीभूतेन रूपेण तदा प्रस्वापकाल आत्मनः स्वापं निर्गुणं विषयसंबन्धजन्यमतीन्द्रियं सुखं च वेद तमात्मानं ब्रह्म व्यापकं मामवेहि । तथा स्वापसुखयोः संवेदनाभावे “सुखमहमस्वाप्तं न किंचिदवेदिषम्” इति स्मरणासंभवात्स्वापादि- साक्षितया आत्मसिद्धिः ॥ ५५ ॥ ननु स्वापसाक्षिणा दृष्टं जाग्रदवस्थः कथं स्मरेत् न ह्यन्येन दृष्टमन्यः स्मरति तत्राह – उभयमिति । उभयं प्रस्वापं प्रतिबोधं च स्मरतोऽनुसंदधतः पुंसस्तयोः प्रस्वापप्रतिबोधयोः प्रकाशकत्वेन यदन्वेति ताभ्यां व्यतिरिच्येत एकैकापायेऽप्यनपायात् तज्ज्ञानं परं ब्रह्मैव न ततो भिन्नम् । अतो बाल्ये दृष्टस्य यौवने स्मृतिवत् अवस्थान्त- रत्वेऽपि स्वापानन्दयोः स्मरणं घटत इति भावः । तदेवंभूतं ब्रह्म आत्मानमवेहीत्यनुषङ्गः ॥ ५६ ॥ 1 * वीरराघवव्याख्या ननु कथमेतद्विमर्शनीयं सर्वाण्यचेतनानि प्रत्यगात्मभिर्व्याप्तानि उभयं तु त्वया व्याप्तमित्यपेक्षायां बुद्धिनैपुण्येनेति सदृष्टान्तमाह-यथेत्यादिचतुर्भिः । तावज्जीवस्वरूपविमर्शनाय दृष्टान्तं शिक्षयति यथेति यथा सुषुप्तः स्वप्नद्रष्टा पुरुषः सुषुप्त इति न सुषुप्त्यवस्थ जीव उच्यते स्वप्न उत्थितः इत्यनन्तरोक्तत्वात् सुषुप्तौ विश्वदर्शनानुपपत्तेश्व स्वप्ने स्वप्नावस्थायामेकस्मिन्नेव स्वप्नदृर्यात्मनि विश्वं पश्यति गजस्कन्धारोहणदेशा तरगमन राज्याभिषेकशिरच्छेदाद्यहं शरीरजातं पश्यति प्रकृत्युपाधिकं पश्यतीत्यर्थः । दृष्टान्ते मायामात्राणीति वक्ष्यमाणत्वात् उत्थितो जाग्रदवस्थां प्राप्तस्त्वात्मानमेकदेशस्थं क्वचिदपवराकादि- शयानशरीरमात्रवर्तिनं मन्यते स्वप्नावस्था न स्वप्नदृष्टृस्वरूपप्रयुक्ता अपि तु स्वप्नजाग्रदवस्थाद्वयान्वित प्रकृत्युपाधिक- स्वप्न दृष्टकजीव कर्मानुगुणमीश्वरसृष्टगजादिपदार्थानुप्रवेशपूर्व कतत्तद्दर्शनरूपेति दृष्टान्ते विवक्षितोऽर्थः ॥ ५३ ॥ * * इममर्थं दाष्टन्ति के दर्शयति- एवमिति । एवं स्वप्नावस्थावज्जागरणादीनि च जीवस्थानानि एकस्य जीवस्य स्थानान्यवस्थानानि अवस्था इत्यर्थः । स्वप्नावस्थावज्जागराद्यन्वयोऽपि नात्मस्वरूपप्रयुक्तः अपि तु प्रकृत्युपाधिकः स्वरूपप्रयुक्तत्वे तस्य सर्वावस्था- नुगतत्वेन तत्प्रयुक्ताः पूर्वं पूर्वावस्थाः उत्तरोत्तरावस्थासूपलभेत न च प्रकृयवस्थतद्रष्टभेद उपपादयितुं शक्यः कर्मानुस्मृतिशब्द- स्कं. ६ अ. १६ श्लो. ५३-५६ ] 1 अनेकव्याख्यासमलङ्कृतम् ५१५ विध्यनुपपत्तेः । कर्म तावत्सुषुप्तेन पूर्वकृतं पुण्यपापरूपं तत्वज्ञानात्प्राक्तेनैव भोक्तव्यम् अनुस्मृतिरपि य एवाहं सुप्तः स एव प्रतिबुद्धोऽस्मीति शब्दः श्रुतिरपि सुप्तं प्रबुद्धं स एवेति दर्शयति “त इह व्याघ्रो वा सिंहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा देशो वा मशको वा यद्यद्भवन्ति तथा भवन्ति” इति । विधयश्च मोक्षार्थाः सुप्तस्य पुनरनुत्थितौ अनर्थकाः स्युः अस्त्वेवं स्वप्नावस्थावज्जागरादयो न जीवस्वरूपप्रयुक्ताः अपि तु प्रकृत्युपाधिका इति । तथापि जीवस्वरूपविमर्शने किमायातं ? तत्राह – आत्मन इति । जागरादीन्यवस्थानान्यात्मनो मायामात्राणि परमात्मसम्बन्धिप्रकृत्युपाधिकानि न स्वरूपप्रयुक्तानीति ज्ञात्वा आत्मनो मायामात्राणीत्यनेन जीवस्य स्वप्नावस्था परमात्मायत्तेति दर्शितं मद्रष्टारं तत्तदवस्थासाक्षिणं परं प्रकृतिविलक्षणं जीवात्मानं स्मरेत् अचेतनस्य तत्तदवस्थाद्रष्टृत्वानुपपत्तेः कर्मानुस्मृत्याद्यनुपपत्तेश्व एकैकं शरीरमेकैकेन जीवेन व्याप्यं तत्स्वरूपश्र्च तत्तदवस्थाद्रष्टत्वपूर्वपूर्वावस्थानुस्मर्तृत्वं हि प्रत्ययगोचरत्वादिभिर्द्धमै निपुणत र विवेकेनावगन्तव्यमिति भावः ॥ ५४ ॥ * * एवं परमात्मस्वरूपविमर्शनप्रकारमाह-येनेति । येन हेतुभूतेन परमात्मना प्रसुप्तः सुषुप्त्यवस्थां प्राप्तः पुरुषो जीवः जीवस्य प्रसुप्त परमात्मनो हेतुत्वाद्येनेति हेत्वर्थकतृतीयान्तेन निर्देश: तथा हि ‘स्वप्नांतं मे सौम्य विजानीहि ’ इत्युपक्रम्य ‘यत्रैतत्पुरुष: स्वपिति नाम सता सौम्य तदा सम्पन्नो भवति स्वमपीतो भवति तस्मादेनं स्वपीति इत्याचक्षते स्वमपीतो भवति’ इति छान्दोग्ये श्रुतं स्वप्नान्तं सुषुप्तिः सता ब्रह्मणा सम्पन्नो भवति जीवः सता सार्क सम्पत्तिर्नामशरीरेन्द्रियाधिष्ठातृत्वादिव्यापारान्तरराहित्येन ब्रह्मणि स्थितिमात्रं सैव सुषुप्तिः स्वं स्वशरीरकं परमात्मानं प्रत्यपीतो भवति लीनो भवति उक्तविधा सम्पत्तिरेव च लयः कारण एव हि कार्यस्य लयः एवं सुषुप्त्याधारत्वात्तत्कारणत्वाच येनेति तद्धेतुत्वेन निर्दिष्टः एवं येन सुषुप्तः पुरुष आत्मनः स्वस्य स्वापं वेदानुभवतीत्यर्थः । तथाच सुखं वेद सुखमहमस्वाप्समिति परामर्शानुगुणं सुखच यत्सम्पत्तिकृतं वेद तं निर्गुणं हेयगुणरहितं ब्रह्मशब्दवाच्यं परमात्मानं मामवेहि जानीहीत्यर्थः । सुषुप्त्याधारत्वत्कारणत्व सौषुप्तिकसुखहेतुत्वादिभिर्द्धमैः परमात्मस्वरूपं विमर्शनीयमिति भावः । निर्गुणमिति सुखविशेषणं वा निर्गुणं प्रबोधसमयेऽनुसन्धीयमानस्यात्मनो या वर्णाश्रमादिविशिष्टता तादृशगुणरहितमात्मप्रबोधादहमित्येकाकारेण प्रतीयमानं सुखरूपमात्मानं तमोगुणाभिभवात्प्रागर्थानुभवाभावाश्चाविविक्तस्फुट- प्रभासं वेदेत्यर्थः । सुप्तोत्थितस्य परामर्शानुगुणमेव हि सौषुप्तिकं सुखं वर्णनीयं तत्परामर्शश्चैवंविधः सुखमहमस्वाप्सं नाह किञ्चिदवेदिषमिति तत्राहम स्वाप्तमित्यनेनाहमर्थस्यात्मनोऽनुवृत्तिर्दर्शिता । सुखमित्यनेन तस्य सुखरूपता । नाहं किंचिदवे- दिषमित्यनेन तस्य बाह्यब्राह्मणत्वाद्याकारवैधुर्य च दर्शितम् एवंविधन्तत्सुखमिति विशिष्य परामर्शाभावाचा स्फुटत्वं च ।। ५५ ।। एवं सुषुप्तौ परमात्मस्वरूपविमर्शन प्रकारकथनमुखेन जीवस्वरूपमुभयमित्यादिना विमृशन्ननूद्य ब्रह्म तत्परमित्यनेन ब्रह्मात्मकत्वं विदधाति - उभयमिति । उभयं प्रस्वापं प्रतिबोधं चेत्युभयं स्मरतः पुंसो देहिनो यज्ज्ञानं प्रस्वापप्रतिबोधयोरन्वेति व्यतिरिच्येत तत्तदवस्थाश्रयेणानुवर्तते तदुपाधिविगमे तत्तदवस्थाभिर्व्यतिरिक्तश्च स्यात्तत्तदवस्थानाश्रयं स्यात् यद्वा उत्तरोत्तरावस्थासु पूर्वपूर्वावस्थाव्यतिरिक्तं स्यात्तत्तस्मात्परिशुद्धज्ञानस्वरूपाजीवात्परं विलक्षणं तदात्मभूतं ब्रह्मेत्यर्थः । यद्वा उभयम् इत्यादिदृष्टान्तार्थ यथा यज्जीवस्वरूपात्मकं ज्ञानं सर्वावस्थानुवर्ति तद्दृष्टृ उत्तरोत्तरावस्थासु पूर्वपूर्वावस्थाव्यतिरिक्तश्च तथा तस्मात्परं विलक्षणं सर्वावस्थासु जीवस्वरूपनियन्तृतयानुवृत्तं द्रष्टृ तत्तदवस्था सम्बन्धिसुखदुःखाद्यनन्वयितया व्यतिरिक्तञ्च ब्रह्मेत्यर्थः । यथा सर्वा- वस्थानुवर्त्तित्वतद्द्दष्टत्वज्ञानानन्दादिस्वरूप त्त्वस्वभावतस्तत्तदवस्थानन्वयित्वाहं प्रत्ययगोचरत्वादिभिर्द्धमैः जीवस्वरूपं विशोध्यं तथा ब्रह्मशरीरत्वेनापि तद्विशोध्यमित्यभिप्रायः । एवं ब्रह्मशरीरत्वेन तदायत्तसत्तास्थितिप्रवृत्तिकत्वरूपपारतन्त्र्यमप्यनुसन्धे- यमित्युक्तम् ।। ५६ ।। विजयध्वजतीर्थकृता पदरत्नावली
ननु, “व्याप्ता ह्यात्मानश्चेतना निर्गुणाश्च” इति श्रुते: लोके विततमात्मानमित्यस्य प्रतीतार्थ एव किं न स्यादित्याशङ्कय दृष्टांतानुगुण्यात्कथ्यत इत्यभिप्रत्याह-यथेति । यथा सुषुप्तः सन् स्वप्नमनुभवन् पुरुषः विश्वं वासनारूपेणात्मनि स्फुरितं च शब्दाद्भिन्नं पश्यति स्वप्ने आत्मानमेकदेशस्थं मन्यते न तु व्याप्तं स्वप्नादुत्थितः प्रबुद्धोपि खट्वादिशयने स्वं मन्यते श्रुतिगतिस्तु परमात्मविषयत्वेन जीवचिद्रणविषयत्वेन वा कल्प्यते ।। ५३ ।। * यथा स्वप्नावस्थायां भगवत्कर्तृकत्वम्प्रामाणिक “मायामात्रं तु कात्स्न्येनानभिव्यक्तस्वरूपत्वात्” इति सूत्रात्तथा जामत्प्रभृत्यवस्थाश्च अतः प्रबोधोस्मादित्यभिप्रेत्याह - एवमिति, यथा स्वप्नावस्था प्रकृतिशब्दवाच्येश्वरेच्छा निर्मिता तथा जीवस्य सुखोपभोगत्य स्थानानि जागरणादीनि मायामात्राणि भगवदिच्छालक्षणप्रकृतिनिर्मितानि विज्ञाय तासामवस्थानां मध्ये निषण्णस्य जीवस्य सुखोपभोगस्य द्रष्टारं साक्षिणं परं ततो भिन्नं स्मरेदित्यन्वयः “अनश्नन्नन्यो अभिचाकशीति” इति श्रुतेः ॥ ५४ ॥ * * तद्द्रष्टारमित्यत्र जीवात्मनः परमात्मा सम्यग्विविच्य न प्रतीत इति तद्विवक्षार्थमाह-येनेति । येन प्रसुप्तः प्रखापं प्रापितः सन् पुरुषो जीवात्मा तदा सुप्त्यवस्थाया- मात्मनः स्वापम् इयन्तं कालं किचन नावेदिषमिति स्वापशब्दोक्तमेव ज्ञानं सुखमहमस्वाप्तमित्यनुभूतं सुखं च सुखिनं स्वात्मानं ५१६ श्रीमद्भागवतम् [ स्कं. ६ अ. १६ श्लो. ५३-५६ च वेद नान्यत्किञ्चिद्वेद तमात्मानन्निर्गुणं ब्रह्म ज्ञानादिगुणपूर्ण मामवेहीत्यन्वयः ॥ ५५ ॥ * * इतोपि जायदाद्यवस्था- नुभविनो जीवास्तिद्धनं ब्रह्मेत्याह – उभयमिति । जामत् सुषुप्तिश्चेत्युभयं स्मरतोनुभवतः पुंसः जीवस्य प्रस्वापप्रतिबोधयोस्तत्तद्वस्तु- परिज्ञानलक्षणे जाग्रति यदन्वेति अनुवर्तते अयमपि प्रतिबुद्धः सुप्तावस्वपनात्तत्तद्वस्त्वपरिज्ञानलक्षणसुप्तौ यद्वयतिरिक्तं स्यात् सर्वज्ञानसम्भवात् “प्रस्वापः स्वपनं स्वप्नम्” इत्यभिधानात् । अथाज्ञानलक्षणप्रस्वापपदोक्ते स्वप्नेपि व्यतिरिक्तं वर्तते तत्परं “ब्रह्मविदाप्नोति परं” इति श्रुतेः ‘तत्तत्त्वात्तज्ज्ञानं’ “सत्यं ज्ञानमनन्तं ब्रह्म” इति श्रुतेः अनेन सुप्त्यवस्थानुभवी जीवोऽननुभूय तथा न तिष्ठन् परमात्मा ततो भिन्न इति ज्ञातव्यं यद्वा जीवस्याज्ञानसम्भवादस्य तदभावाज्जीवस्याल्पगुणत्वा- दस्यानन्तगुणत्वाज्जीवस्य परिच्छिन्नत्वादस्यापरिच्छिन्नत्वात् " तदेव ज्ञानं तदेव ब्रह्म तदेव परं तदेवर्तन्तदुसत्यमाहुस्तदेव ब्रह्म परमं कवीनाम्” इति श्रुतेः ॥ ५६ ॥ जीवगोस्वामिकृतः क्रमसन्दर्भ : ननु, यावद्विश्वस्मादनासक्तो न स्यात्तावत् कथं तज्ज्ञानं स्यादित्येवमाशङ्कय शुद्धजीवस्य स्वरूपज्ञानपूर्वकं तज्ज्ञान- मुपदिशति । यथेति युग्मकेन । अयमर्थः । यथा स्वप्नमध्य एव सुषुप्तः कश्चित् पुरुषः पुनः स्वप्नं पश्यन् भ्रमविशेषेण विश्वं गिरिवनादिकमात्मनि पश्यति स्वस्मिन्नेवारोपयति पुनस्तस्मिन्नेव स्वप्ने उत्थितो लब्धजागर इव सन् आत्मानमेकदेशस्थं तत्र शयनैकदेशं पश्यन् तद्भिरिवनादिकं भिन्नमेव पश्यति तानि जागरादीनि यथा आत्मनः परमात्मनो मम मायामात्राणि सन्ति ॥ तमेव स्पष्टयति— येनेति । मायिकाहङ्कारालये जीवादिगतमहाचिच्छक्त्यंशेन तत्त्वविशेषेण हेतुना स्वापः तत्र निर्गुणसुखञ्च वेद तद्ब्रह्मावैहि आत्मानं परमात्मानं मां भगवद्रूपञ्चावेहि । वदन्ति तत्तत्त्वविद इत्यादेः ।। ५५ ।। * * अतएव जीव- ज्ञानस्यापि ब्रह्मणि तात्पर्यमित्याह - उभयमिति । तज्ज्ञानं शुद्धजीवस्वरूपं तच्च ब्रह्मणि तत्परमिति ॥ ५६ ॥ जीवस्थानानि विज्ञाय विज्ञातस्य पुरुषस्य शुद्धजीवस्यापि द्रष्टारं मामेव परं स्मरेदिति ।। ५३ - यामात्राणि सन्ति L विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी । ।
प्रत्युत तान्यवास्तववस्तूनि खल्वस्तूनीव त्यक्त्वा ममान्तर्याम्यादि रूपमेवोपासीतेत्याह-यथेति द्वाभ्याम् । स्वप्ने स्वप्नमध्ये एव सुषुप्तः सुष्ठु सुप्तः पुरुषः स्वप्नं पश्यन् भ्रमविशेषेण विश्वं गिरिवनादिकमात्मनि पश्यति स्वस्मिन्नेवारोपयति पुनस्तस्मिन्नेव स्वप्ने उत्थितो लब्धजागरस्सन्नात्मानमेकदेशस्थं तत्र शयनप्रदेशस्थं मन्यते जाग्रदवस्थामनुभवन तद्भिरिवनादिक भिन्नमेव मन्यते इत्यर्थः । तदेवमवस्तुभूतः स्वाप्निको जागरों यथा तथैव प्रसिद्धो वस्तुभूतोपि जागरो ज्ञेयो नश्वरत्वादित्याह- एवमिति । जीवस्थानानि जीवोपाधेर्बुद्धेरेवाऽवस्थाश्व आत्मनः परमेश्वरस्य मायाशक्तिकार्य्यत्वान्मायामात्राणि ज्ञात्वा तेषां द्रष्टारं परं श्रेष्ठमन्तर्यामिणमिति जीवात्मा व्यावृत्तः अत्र स्वाप्निक्या जागरस्वप्नसुषुप्त्यवस्थया अविद्यया जीवेन स्रजात्वादविद्या- माग्योद्यवस्तुभूता एव प्रसिद्धा जागराद्यवस्थास्तु मायाशत्तथा भगवता स्रष्टा मायामात्र्यः खल्ववस्तुभूता एव तथापि स्वाप्निकं गिरिवन सर्पव्याघ्रहस्त्यश्वादिकन्त्वविद्यया जीवेन राज्यमस्त्येवेति विवेचनीयम् ।। ५३-५४ ॥ * * ननु, तं द्रष्टारमन्त- र्यामिणं कथमहं जानामीत्यत आह-येनेति । प्रसुप्तः पुरुषो जीवो यदा स्वापं वेद तदेव सुषुप्तावात्मनः स्वस्य निर्गुणं निर्विषयं सुख येनैव हेतुना वेद तम् आत्मानम् अन्तर्यामिणम् अवेहि य एव गुणैर्दृढबद्धमावृतज्ञानानन्दमपि जीवं कृपया सुषुप्तौ नित्यमेव गुणान् प्रविलाप्य निर्गुणं तदीयं सुखं तमनुभावयति स एवान्तर्यामी स्पष्टमेवावगम्यतां न हि तं विना स्वतन्त्रो जीवः स्वयमेव स्वबन्धनं विमोच्य स्वीयसुखं द्रष्टुं शक्नुयादिति भावः । तमन्तर्यामिणमेव निर्विशेषत्वेन प्रतीतं ब्रह्म अहि ब्रह्मैव सविशेषं मां भगवन्तमवेहि । एक एवाहं ब्रह्म परमात्मा भगवानिति त्रिरूपो भवामि न तु मत्स्वरूपस्य द्वित्वं त्रित्वं वा यदुक्तं देवैः स्वरूपद्वयाभावादिति ।। ५५ ।। * * ननु, स्वापसाक्षिणा द्रष्ट
- ननु, स्वापसाक्षिणा द्रष्ट जामदवस्थः कथं सुखमहमस्वाप्समिति स्मरेत् ? न ह्यन्येन द्रष्टमन्यः स्मरति तत्राह - उभयं प्रस्वापं प्रतिबोधं च स्मरतः अनुसन्दधतः पुंसस्तयोः प्रस्वापप्रतिबोधयोर्यदन्वेति ताभ्यां व्यतिरिच्यते । एकैकापायेप्यनपायात् तदेव ज्ञानं जीव इत्यर्थः । अतो बाल्ये दृष्टस्य यौवने स्मृतिवदवस्थान्तरवत्त्वेपि स्वापानन्दयोः स्मरणं घटत इति भावः । तत् परं ब्रह्म न तु स एव ब्रह्मेत्यर्थः । जीवस्य तटस्थशक्तित्वेपि तद्रूपत्वेपि तस्य स्वरूपशक्तित्वाभावात् अतो भिन्नमेव ब्रह्मेत्यर्थः ॥ ५६ ॥ L शुकदेवकृतः सिद्धांतप्रदीप : यस्य संकल्पमात्रेण स्वप्नसृष्टिः जाग्रत्सृष्टिश्चास्ति तं मां ध्यायेदित्याह — यथेतिद्वाभ्याम् । यथा सुषुप्तोऽत्र सुप्तः पुरुषः विश्व जीवेन स्रष्टुमशक्यं रथाश्वादिकं मम संकल्पनिष्पन्नमेव आत्मनि मनसि पश्यति तत उत्थितः आत्मानं स्वप्नपदार्थद्रष्टारं केवलं न तु स्वाप्नं रथादिकं दृश्यं मन्यते जानाति एकदेशस्थं स्वप्नदृष्टरथादेर्यत्र गन्धोपि नास्ति तत्र जामत्सृष्टे चकदेशस्थ एकं ६ . १६ . २३-५६] अनैकत्र्याख्यासमलङ्कृतम् ५१ न तु निखिललोकस्थमित्यर्थः । तन्निर्माणस्य तु का कथा वरनिर्मितं तथाभूतं पदार्थं द्रष्टुमपि न क्षमो भवतीत्यर्थः । अनेन स्वप्नसृष्टिर्जीवकृता इति मायावादिनां पक्षो दूरतस्त्याज्यः ।। ५३ ।। * एवं जागरणादीनि जीवस्थानानि जीवस्य भोक्तुः जागरणाद्या अवस्थास्तत्र भोग्याः पदार्थाश्च यस्यात्मनः मम मायामात्राणि वयुनात्मकसंकल्पकृतानि तत्तयोः परं कारणं द्रष्टारं साक्षिणं च तं मां भवद्विधः स्मरेत् ध्यायेत् कारणं तु ध्येयमिति श्रुतेः ॥ ५४ ॥ * * एवं प्रतिबोधकाले स्मरणीयं जगत्कारणमात्मानं चित्रकेतुं प्रत्युपदिश्य सर्वे यद्रूपं सुषुप्रौ प्राप्यते यद्रूपमुपदिशति “सतासौम्य तदा संपन्नो भवति” इत्येवं सुषुप्तौ प्रसिद्धेन मया सुषुप्तः पुरुषः आत्मनः स्वापं सुखं सुषुप्तिगतमानंद वेद तं निर्गुणं ब्रह्म बृहत्स्वरूपगुणमात्मानं “ एष ते आत्मान्तर्यामी” इति श्रुतिप्रसिद्धमंतर्यामिणं मामवेहि ।। ५५ । * * ध्यानफलमाह प्रस्वापप्रतिबोधयोः शयनकाले प्रबोधकाले च तत् परं ब्रह्म स्मरतो ध्यायतः पुंसः उभयं जन्ममरणयुग्मं व्यतिरिच्येत तदेव ज्ञानं परं ब्रह्म अन्वेति च पुरुषानिति शेषः परमपुरुषभावापत्तिलक्षणमोक्षं प्राप्नोतीत्यर्थः ॥ ५६ ॥ गोस्वामिगिरिधरलालविहिता बालप्रबोधिनी ननु यदि भोक्तृभोग्यात्मकस्य विश्वस्य त्वदात्मकत्वेन त्वदीयत्वमेव तदा तत्र जीवः कथं ममाहमिति किं वा तेन कर्त्तव्यमित्यपेक्षायां अविद्यया स्वप्नदृष्टान्तेन तथा व्यवहारमुपपादयन् कर्त्तव्यतामाह — यथेति द्वयेन । तथा सुषुप्तः पुरुषः स्वप्ने आत्मनि स्वरूपस्थाने विश्व गवाश्वव्याघ्राद्यनेकरूपं पश्यति, न तु स तद्रूपो भवति यतः पुनरुत्थितः सन्नात्मानं मनुष्य- मेकदेशस्थं गृहे शयनदेशे स्थितं मन्यते ॥ ५३ ॥ एवं जागरादीनि जीवस्थानानि जागराद्यवस्थास्वपि जीवस्य देहादावहम्ममेत्यध्यासरूपाणि चात्मनः परमात्मनो भगवतो मायामात्राणि मायया मोहेन कल्पितानीति विज्ञाय तेषामध्या- सानां द्रष्टारम् अतएव परं तथाऽध्यासरहितं मां स्मरेत् ।। ५४ ।। * नन्वेवम्भूते त्वयि किं प्रमाणमित्यपेक्षायामाह - येनेति । प्रसुप्तः पुरुषो जीवो येन ब्रह्मणैकीभूतेन रूपेण तदा प्रस्वापकाले आत्मनः स्वापं निर्गुणं विषयसम्बन्धाजन्यमतीन्द्रियं सुखं च वेद तमात्मानं ब्रह्म व्यापकं मामवेहि । तथाच तदा स्वापसुखयोः संवेदनाभावे सुखमहमस्वाप्तं न किश्चिदवेदिषमिति स्मरणासम्भवात् स्वापादिसाक्षितया ब्रह्मसिद्धिरिति भावः ॥ ५५ ॥ ननु स्वापसाक्षिणा दृष्टं जाग्रदवस्थ जीव: कथं स्मरेत् अन्येन दृष्टस्यान्येन स्मरणासम्भवादित्याशङ्कयाह — उभयमिति । उभयं प्रस्वापं प्रतिबोधं च स्मरतोऽनुसन्दधतस्तयोः प्रकाशकत्वेन यदन्वेति ताभ्यां व्यतिरिच्येत च एकैकापायेऽप्यनपायात् तज्ज्ञानं तत् यत् जीवाख्यं चैतन्यं तत्परं ब्रह्मैव, न ततो भिन्नमंशांशिनोरत्यन्तभेदाभावात् । अतो बाल्ये दृष्टस्य यौवने स्मरणवदवस्थान्तरत्वेऽपि स्वापानन्दयोः स्मरणं घटते इति भावः ।। ५६ ।।
भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी ननु सर्वाण्यचेतनानि प्रत्यगात्मभिर्व्याप्तानि उभयं त्वया व्याप्तमित्येतत् कथं बोध्यमित्यपेक्षायां बुद्धिनैपुण्येन बोध्य- मिति सदृष्टान्तमाह यथेत्यादिचतुर्भिः । यथेति । तत्र तावज्जीवस्वरूपविमर्शनाय दृष्टान्तं शिक्षयति । यथा सुषुप्तः पुरुषः, स्वप्नावस्थ जीव इत्यर्थः, स्वप्ने स्वप्नावस्थायामित्यर्थः । आत्मनि एकस्मिन् स्वप्नद्रष्टर्यात्मनि, विश्वं पश्यति चैव । गजस्कन्धा- रोहणदेशान्तरगमनराज्याभिषेकस्वशिरश्छेदादिसर्व प्रकृत्युपाधिकं पश्यतीत्यर्थः । स एव, उत्थितो जाग्रदवस्थायां वर्त्तमानः सन्, आत्मानम्, एकदेशस्थं भूमौ शय्यायां वा कचिदेकदेशस्थं स्वशरीरमात्रवर्त्तिनं मन्यते । अत्र सुषुप्तशब्देन सुषुप्त्यवस्थो जीवो न वाच्यः सुषुप्तौ करणविकलतया विश्वदर्शनानुपपत्तेः । यद्वा । सुषुप्तः श्रमादिनादौ सुषुप्तौ तामससुखानुभववान् पुरुष: जीव:, तन्निवृत्तौ सत्यां प्राप्ते स्वप्ने, विश्वं देशान्तरस्थं गिरिवनादिकम् आत्मन्येव पश्यति । एवं सुषुप्तिं स्वप्नं चानुभूय, उत्थितो जामद्भावं प्राप्तः सन्, आत्मानम् एकदेशस्थं मन्यते ।। ५३ ।। * इममर्थं दार्शन्तिके दर्शयति । एवमिति । एवं जागरणा- दीनि, जीवस्थानानि, आत्मनः एकस्य जीवस्यैव, तानि च मायामात्राणि केवलप्रकृत्युपाधिकानि न तु जीवस्वरूपप्रयुक्तानि । इति विज्ञाय, तद्रष्टारं तत्तदवस्थासाक्षिणं परं प्रकृतिविलक्षणं जीवात्मानं सरेत् विचारयेत् ॥ ५४ ॥ एवं जीवस्वरूप- विमर्शनप्रकारमुक्त्वा परमात्मस्वरूपविमर्शनप्रकारमाह । येनेति । येन हेतुभूतेन परमात्मना, प्रसुप्तः सुषुप्त्यवस्थां प्राप्तः, पुरुषो जीवः, आत्मनः स्वस्थ, स्वापं वेदाऽनुभवति । तथा सुखं च वेद ‘सुखमहम स्वाप्स’ इति जानातीत्यर्थः । तं निर्गुणं हेयगुणरहित, ब्रह्म ब्रह्मशब्दवाच्यं, आत्मानं परमात्मानं, माम् अहि । हि सुषुप्त्याधारत्वतत्कारणत्वसौषुप्तिक सुखहेतुत्वादि- भिर्धर्मैः परमात्मनो मम स्वरूपं विमर्शनीयमिति भावः ।। ५५ ।। * उभयमिति । उभयं प्रस्वापं प्रतिबोधं च, स्मरतः पुंसो देहिनः, प्रखापप्रतिबोधयोः यत्, अन्वेति । प्रकाशकत्वेनान्वयं प्राप्नोतीत्यर्थः । ताभ्यां यत् व्यतिरिच्येत, तत् ज्ञानं ज्ञानाधिकरणं तदेव परं ब्रह्म च । इत्थं ज्ञानाधिकरणं परं ब्रह्म च मामवेहीति भावः ॥ ५६ ॥ श्रीमद्भागवतम् भाषानुवादः [ स्कं. ६ अ. १६ लो. ५७-६० जैसे स्वप्न में सोया हुआ पुरुष स्वप्नान्तर होनेपर सम्पूर्ण जगत् को अपनेमें ही देखता है और स्वप्नान्तर टूट जानेपर स्वप्न में ही जागता है तथा अपनेको संसारके एक कोने में स्थित देखता है, परन्तु वास्तवमें वह भी स्वप्न ही है, वैसे ही जीवक जाग्रत आदि अवस्थाएँ परमेश्वरकी ही माया हैं-यों जानकर सबके साक्षी मायातीत परमात्माका ही स्मरण करना चाहिये ।। ५३-५४ ॥ * * सोया हुआ पुरुष जिसकी सहायता से अपनी निद्रा और उसके अतीन्द्रिय सुखका अनुभव करता है, वह ब्रह्म मैं ही हूँ; उसे तुम अपनी आत्मा समझो ॥ ५५ ॥ * पुरुष निद्रा और जागृति- इन दोनों अवस्थाओंका अनुभव करनेवाला है । वह उन अवस्थाओंमें अनुगत होनेपर भी बास्तवमें उनसे पृथक है । वह सब अवस्थाओं में रहनेवाला अखण्ड एकरस ज्ञान ही ब्रह्म है, वही परब्रह्म है ।। ५६ ।। यदेतद्विस्मृतं पुंसो मद्भावं भिन्नमात्मनः । ततः संसार एतस्य देहाद्देहो मृतेमृतिः ॥ ५७ ॥ लब्ध्वेह मानुषीं योनिं ज्ञानविज्ञानसम्भवाम् । आत्मानं यो न बुद्धये त न क्वचिच्छममाप्नुयात् ॥ ५८ ॥ स्मृत्वेहायां परिक्लेशं ततः फलविपर्ययम् । अभयं चाप्यनीहायां सङ्कल्याद्विरमेत्क विः ।। ५९ ।। सुखाय दुःखमोक्षाय कुवते दम्पती क्रियाः । ततोऽनिवृत्ति स्प्राप्तिर्दुःखस्य च सुखस्य च ।। ६० ।। कृष्णप्रिया व्याख्या अन्वयः - यत् एतत् मद्भावम् विस्मृतम् आत्मनः भिन्नम् ततः एतस्य पुंसः संसारः देहात् देहः मृतेः मृतिः ॥ ५७ ॥ यः इह ज्ञानविज्ञान संभवाम् मानुषीम् योनिम् लब्ध्वा आत्मानम् न बुद्धचेत कचित् शमम् न आप्नुयात् ॥ ५८ ॥ कविः ईहायाम् परिक्लेशम् ततः फलविपर्ययम् च अपि अनीहायाम् अभयम् स्मृत्वा संकल्पात् विरमेत् ॥ ५९ ॥ दंपती सुखाय च दुःखमोक्षाय क्रियाः कुर्वाते ततः दुःखस्य अनिवृत्तिः च सुखस्य अप्राप्तिः ।। ६० ।। श्रीधरस्वामिविरचिता भावार्थदीपिका
विपक्षे दोषमाह । यद्यदि एतन्मद्भावं मत्स्वरूपं ब्रह्म विस्मृतं तदात्मनः सकाशाद्भिन्नं भवति तत एतस्य पुंसः संसारो भवति । संसारस्वरूपमाह । देहाद्देहो जन्मानंतरं पुनर्जन्म मृतेरनन्तरं मृतिश्चेति ।। ५७ ।। * * येोन्यंतरेपि भोगादिसंपादनं शक्यं ज्ञानार्थं त्वत्रैव यतितव्यमित्याह । लब्ध्वेति । ज्ञानं शास्त्रोक्तं विज्ञानमपरोक्षं तयोः संभवो यस्यां ताम् ॥ ५८ ॥ * * वैराग्यार्थमाह । ईहायां प्रवृत्तिमार्गे । तत ईहात: अनीहायां निवृत्तिमार्गे त्वभयं मोक्षो भवतीति च स्मृत्वा फलसंकल्पाद्विरमेत् । पाठांतरे नोभयं परिक्लेशः फलविपर्ययश्च नास्तीत्येवं स्मृत्वा ।। ५९ । * वृणोति सुखायेति त्रिभिः । दुःखस्यानिवृत्तिः सुखस्याप्राप्तिः ॥ ६० ॥ वंशीधरकृतो भावार्थदीपिकाप्रकाशः एतद्वि- विपक्षे तदज्ञाने । विस्मृतम् अनाद्यज्ञानेनाननुसंहितम् । ततो भिन्नभवनात् ॥ ५७ ॥ * इह भारते खंडे । ज्ञानविज्ञानसंभवमित्यनेन ब्राह्मणजन्म लक्ष्यते तत्रैव ज्ञानविज्ञानयोः प्राधान्येन संभवात्तदुक्तं गारुडे “जातीशतेन लभते किल मानुषत्वं तत्रापि दुर्लभतरं खलु भो द्विजत्वम् । यस्तन्न पालयति लालयतींद्रियाणि तस्यामृतं क्षरति हस्तगतं प्रमादात् ।” इति । किञ्च - “अन्यभूमौ कृतं पापं तीर्थभूमौ विशुद्धयति । तीर्थभूमौ कृतं पापं वज्रलेपायते द्विज ।” इत्यादिपुराणांतरगतो न्यायोऽप्यत्रानुसंधेयः । अन्यभूमौ श्वशुकरादिजन्मनि तीर्थवच्छ धनोपायीभूतायां भूमौ मनुष्यदेहे वज्रस्य हीरकस्य केनचिदौषधेन द्रवीभूतस्य कृतो हेमादिधात्वलंकारे लेपः पुनरुपायसहस्रेणापाकन्तु न शक्यते तद्वत्तत्पापं स्यादित्यर्थः । यद्वान्यभूमौ विप्रेतरमनुष्यजन्मनि तदितरजन्मनि वा कृतं तीर्थभूमौ साक्षात्तीर्थे ब्राह्मणदेहे विशुध्यति श्रौतजपार्जनादिना नश्यति तत्र कृतं न कुत्रापि जन्मनीति भावः ॥ ५८ ॥ * पाठांतरे नोभयमिति पाठे । संकल्पादीहातः ॥ ५६ ॥ * * एतत् ईहानीहाफलम् । ततः क्रियाः ।। ६० ।। १. प्रा० पा० - चित्क्षेम० । २. प्रा० पा० तो भयं । ३. प्रा० पा०त्कचित् । ४. प्रा० पा० तिनं प्राप्ति० ।स्कं. ६ अ १६ श्लो. ५७-६० ] अनेकव्याख्यासमलङ्कृतम् अन्वितार्थप्रकाशिका ५१९ यदिति । यत् यदि एतत् पूर्वोक्तं मद्भावं मत्स्वरूपं ब्रह्म पुंसो विस्मृतं भवति तदात्मनः सकाशाद्भिनं भवति । ततश्च भेददर्शनादेतस्य जीवस्य संसारो भवति । तत्स्वरूपमाह–देहादिति । भेददर्शनेन देहपुत्रादावहं ममाध्यासपूर्वककृत- कर्मानुसारेण देहाद्देहो देवमनुष्यादिजन्मानन्तरं पुनर्जन्म मृतेरनन्तरं पुनर्मृतिश्चेत्यर्थः ॥ ५७ ॥ * * भोगो योन्यन्तरेऽपि सुलभः ज्ञानं मनुष्यजन्मन्येवेत्यतोऽप्यत्रैव तदर्थं यत्तितव्यमित्याह - लब्ध्वेति । ज्ञानं शास्त्रोक्तं विज्ञानमपरोक्षं तयोः संभवः उत्पत्तिः संभावना यस्यां तां मानुषीं योनिमिह पुण्यक्षेत्रे भारतवर्षे लब्ध्वा य आत्मानं न बुद्धचेत स कचिद्देवादियोनि गत्वाऽपि क्षेमं नाप्नुयात् ॥ ५८ ॥ * स्मृत्वेति । ईहायां लौकिके वैदिके च द्विविधेऽपि प्रवृत्तिमार्गे परिक्लेशं तत ईहात एव फलविपर्ययं च स्मृत्वा अनीहायां निवृत्तिमार्गे तु अभयं मोक्षं च स्मृत्वा कविर्विवेकी नानाफलसंकल्पाद्विरमेत् । नोभयमिति पाठे परिक्कुशः फलविपर्ययश्च नास्तीत्येवं स्मृत्वेत्यर्थः ॥ ५९ ॥ विपर्ययमेव स्पष्टयति-सुखायेति । दम्पती स्त्रीपुंसौ सुखाय दुःखमोक्षाय दुःखनिवृत्तये च क्रियाः नानाविधकर्माणि कुर्वतः कुरुतः । अडार्षः । ततः कर्मभ्यो दुःखस्यानिवृत्तिः सुखस्याप्राप्तिश्चकारात्प्रत्युत ततः कर्मणः एवं भूयो दुःखप्राप्तिश्च भवतीति ज्ञेयम् ॥ ६० ॥ … वीरराघवव्याख्या * एवमननुसन्धानेऽनर्थमाह-यदीति । यद्येतत्पुंसो देहिन आत्मनः स्वस्य मद्भावं भावः प्रकारः कीबत्वमार्ष मत्प्रकारत्वं विस्मृतं सत् भिन्नं भावप्रधानो भिन्नशब्दः भिन्नत्वं पृथक्सिद्धत्वरूपस्वतन्त्रं स्यादित्यर्थः । भिन्नत्वेनानुसंहितं स्यादिति भावः ततो हेतोरस्य जीवस्य संसारो भवति । संसारस्वरूपमाह–देहाद्देहः जन्मान्तरं मृतेरनन्तरं पुनर्मृतिश्चेति ॥ ५७ ॥ * एवं ब्रह्मात्मकत्वाननुसन्धानेऽनर्थस्संसृतिरूप उक्तः अयञ्च मनुष्यजन्मनैव परिहार्यो न तिर्यगादिजन्मनेत्याह- लब्ध्वेति । एष जीवः ज्ञानं शास्त्रजन्यं विज्ञानं विमोकादिसाधनसप्तकजमुपासनात्मकं तयोः सम्भवो यस्यास्तां मानुषीं योनिं लब्ध्वा मानुष्यं जन्म प्राप्यापीत्यर्थः । आत्मानमुक्तविधमात्मस्वरूपं यो न बुध्येत स पुमान्कचिदपि क्षेमं नाप्नुयात् तिर्यगादियोनिषु ज्ञानविज्ञान- योग्यतैव नास्ति " तद्योग्यां दुर्लभां मानुषीं योनिं प्राप्यापि ब्रह्मात्मकमात्मानं स्वशरीरकं ब्रह्म वायो नोपासीत” स पुनः पुनः संसरेदेवेति भावः ॥ ५८ ॥ * * मानुषीं योनिं लब्धवतोपि विषयासक्तस्य कथं ज्ञानादिकं प्रतिष्ठितं भवेत् ? तत्राह - स्मृत्वेति । ईहायां विषयसुखार्थायां चेष्टायां प्रवृत्तिधर्मे परिक्लेशमत्यन्तशरीरायासादिरूपं तत ईहातः फलविपर्ययं फलविपर्यासं सुखार्थचेष्टातो दुःखप्राप्तिञ्च स्मृत्वा सदृष्टातमालोच्यानीहायां निवृत्तिधर्मे ऽभयमल्पत्वा स्थिरत्वदुःखोद र्कत्वादि- निमित्तभयरहितममृतत्वं च पश्यन् मुनिः स्वात्मपरमात्मयाथात्म्यमननशीलः तत ईहात: शनैर्विरमेत् उक्तविधालोचनेन शनै- वैराग्यमुत्पादयेदित्यर्थः । ततो ज्ञानविज्ञाने प्रतिष्ठिते भवत इति भावः ॥ ५६ ॥ ईहायां परिक्लेशफलविपर्ययावेव
-
- स्पष्टयति सुखायेति । सुखाय तत्प्राप्तये दुःखनिवृत्तये च क्रियाः तदुपयुक्तान्व्यापारान् दम्पतीं यद्यपि कुते तथापि ततस्त- त्क्रियाभ्यः दुःखस्यानिवृत्तिः सुखस्याप्राप्तिश्च दुःखस्य निवृत्तिः सुखस्य प्राप्तिश्च न भवति प्रत्युत विपरीतमेव भवतीति भावः ।। ६० ।। विजयध्वजतीर्थकृता पदरत्नावली विपक्षे बाधकमुपपादयति-यदीति । यदि पुंस आत्मनो जीवात् भिन्न एव मद्भाव उक्तो मम स्थितिप्रकारो विस्मृत- स्तर्हि ततस्तयोः सयुजोः सख्योः जीवात्मपरमात्मनोः एकस्य सर्वभिन्नपरमात्मानं विस्मरतो जीवस्य संसारः स्यात् किं लक्षणक इति तत्राह — देहादिति । देहयोगवियोगलक्षणो देहादेहः तदुक्तम् । “सर्वभिन्नं परमात्मानं विस्मरन्संसरेदिह " इति सर्वभिन्न इति विशेषणं विस्मृतस्तर्हि तस्य जीवस्य मृतेर्मृतिः नित्यदुःखात्मकं तम एवं प्राप्यते एतदप्युक्तं “अभिन्नसंस्मरन्याति तमो नास्त्यत्र संशयः” इति ॥ ५७॥ * * मद्भावः मदैक्यलक्षणः स्वस्मादभिन्न इत्यर्थाङ्गीकार उत्तरश्लोकेन विरुद्धचत इत्यभि- प्रेत्याह - लब्ध्वेति । ज्ञानविज्ञानयोः संभवो यस्याः सा तथा ताम् इह जंबूद्वीपे तत्रापि भारतखण्डे त्रिवर्णलक्षणाम् मानुषीम् । आत्मानं जीवात्मानं परमात्मानं च निर्विशेषवादिना ज्ञाने सामान्यविशेषानङ्गीकारात् व्यावहारिकस्याप्रामाणिकत्वाश्चेति ज्ञानं शास्त्रार्थविषयं विज्ञानम् अनुभवजमित्ययं भेदोपि गतार्थ इति ॥ ५८ ॥ ननु ज्ञानेन मोक्षो माभूद्यज्ञादिकर्मणा स्यादिति तत्राह—स्मृत्येति । ईहायां यज्ञादिकर्मकरणे परितः क्लेशं स्मृत्वा ततः कर्मणः फलविपर्ययं निरतिशयसुखाप्राप्तिं दुःखापरिहारं च पश्यन्ननीहायां सर्वकर्माणि हरौ संन्यस्य ज्ञानमार्गप्रवृत्ती पश्यन्निरतिशयसुखप्राप्तिं दुःखपरिहारं तयोर मिश्रत्वं वा ज्ञात्वा तन्निर्विद्य तत्तादृशं कर्म विरमेन्न कुर्यादित्यर्थः ।। ५९ ।। अग्निहोत्रादिक्रियाकरणयोग्यौ दंपती ततः क्रियातः दुःखस्य अनिवृत्तिः सुखस्य चाप्राप्तिः ॥ ६० ॥ २) ५२० श्रीमद्भागवतम् जीवगोस्वामिकृतः क्रमसन्दर्भः [ स्कं. ६ अ. १६ श्लो. ५७-६० तदज्ञाने दोषमाह-यद्यस्माद्ब्रह्म विस्मृतम् । अनाद्यज्ञानेनानुसंहितम् । ततस्तस्मादेव एतस्य जीवस्य संसारः तच्चाभि- प्रायविशेषेण जीवाद्भिन्नत्वेन स्वस्माद्भिन्नत्वेन दर्शयति, आत्मनोभिन्नं, मम भावः सत्ता यत्र तदिति “भयं द्वितीयाऽभिनिवेशतः स्यात्” इत्यादेर्युक्तमव तदज्ञाने संसार इति ।। ५७-६० ।। । विश्वनाथचक्रवतिकृता सारार्थदर्शिनी अतो ब्रह्मजीवयोः स्वरूपैक्यभावनमेवापराधोऽनर्थहेतुरित्याह —— यदेतदिति । आत्मनो जीवात् सकाशात् मद्भावं मत्स्वरूपं भिन्नमेव क्लीवत्वमार्ष यद्यदि विस्मृतं स्यादभिन्नमेव स्यात् । तनो हेतोरेतस्याभिन्नदर्शिनः पुंसः संसारः स्यात् संसारमेवाह–देहादिति । अत एव " तत्त्वमसि” इत्यादौ जीवस्य तदीयतटस्थशक्तित्वेन ताट्रूप्यादेव सूर्य्यतत्किरणयोरिवैक्यं भावनीयमिति भावः । तदेवमवास्तववस्तुनो विश्वस्य तच्छक्तिकार्यत्वेनाभिन्नत्वात्ता- द्रुप्यम् । तादुप्येति तात्स्वरूप्याभावाद्भिन्नमेव नश्वरत्व प्रयोजकशुद्ध जीवस्य त्वनश्वरत्वाद्वास्तववस्त्वन्तःपाति तटस्थशक्तित्वात्ताद्रूप्यमेव । न तु तात्स्वरूप्यं ब्रह्मपरमात्मभगवतां तु वास्तववस्तुत्वं स्वरूपैक्याद्यैक्यञ्च । भगवन्नित्यप्रेयसी पार्षदधाम्नां चिच्छक्तिविलासत्वात् केषाञ्चिन्नित्यसिद्धत्वादपि वास्तववस्तुत्वं तात्स्वरूप्यञ्च । केषाञ्चिन्नित्यमुक्तभक्तत्वेन, केषाञ्चिल्लब्धभक्तिकैवल्यत्वेन, सिद्धानां दास्यादिवासनावतां जीवानां तु नित्यदासाद्यन्तः पातित्वेन स्वरूपशक्तयाविष्टत्वादेव वात्स्वरूप्यं, लब्धभक्तिप्राधान्येन सिद्धानां जीवानां शान्तभक्तत्वात् दासादिगणान्तःपातित्वाभावेन स्वरूपशक्त्या नाविष्ट - त्वान्ताद्रव्यं वास्तववस्तुत्वश्चेति भगवतोऽनेकशक्तिमत्त्वेनाद्वैतं फलितमिति प्रसङ्गात् वैष्णवसिद्धान्तो दर्शितः ॥ ५७ ॥ उक्तलक्षणज्ञानार्थमवश्यमेव यतितव्यमित्याह– लब्ध्वेति । ज्ञानं शास्त्रोत्थं विज्ञानमपरोक्षं तयोः सम्भवो यस्यां ताम् । आत्मानं जीवं परमेश्वस्व ॥ ५८ ॥ एतज्ज्ञानेच्छुर्ज्ञातदृष्टादृष्ट कर्मफलकः कर्मनिष्ठां त्यजेदित्याह ईहायां सकामत्ये तत ईहात अनीहायां निष्कामत्वे अभयं सर्वत एव मायाभाव: । नोभयमिति पाठे क्लेशविपर्ययो न स्यातामिति स्मृत्वा ॥ ५९ ॥ एतद्धिवृणोति-सुखायेति त्रिभिः । दुःखस्यानिवृत्तिः सुखस्याप्राप्तिः ॥ ६० ॥ शुकदेवकृतः सिद्धान्तप्रदीपः भजनाभावे मुक्तयभाव इत्याह–यदिति यदेतत् । स्मरणादिसद्भावं मद्भजनं पुंसो भिन्नं सत्संगाद्यभावेन दूरीभूतं सत् विस्मृतं भवति ततो हेतोः एतस्यात्मनो जीवस्य देहाद्देहो मृतेर्मृतिः एवंभूतः जन्मरणप्रवाहलक्षणः संसार एव स्यात् ॥ ५७ ॥ ज्ञानविज्ञानयोः सम्भवो यस्यां ताम् आत्मानं यद्विज्ञानेन सर्व विज्ञातं स्यात्तं भगवन्तम् ॥ ५८ ॥ * * ईहायां प्रवृत्तौ परिक्लेशम् । तयेहितार्थलाभः अनीहितार्थलाभश्चेति । फलविपर्यया स्मृत्वा अनीहायां निवृत्तौ च अभयं स्मृत्वा ततो देतो: संकल्पात्प्रवृत्तिमार्गसंकल्पात् ॥ ५८ ॥ फलविपर्ययं स्पष्टयति सुखायेति ॥ ६० ॥
गोस्वामिगिरिधरलालविहिता बालप्रबोधिनी एवं भोक्तभोग्यात्मकं विश्वं भगवद्रपमेव स्वलीलार्थमेव तेन नानारूपेण प्रकटितं तदीयमेवेत्युपपाद्य इदानीमेवं भावनारहितस्य संसरणं भवतीत्याह-यदीति । यत् यदि एतत् पूर्वोक्तं मद्भावं मत्स्वरूपं पुंसो विस्मृतं भवति तदात्मनः सकाशाद्विश्वं भिन्नं भवति ततश्च भेददर्शनादेतस्य जीवस्य संसारो भवति । किंलक्षणो संसार इत्यपेक्षायां तत्स्वरूपमाह- देहादिति । भेददर्शनेन देहपुत्रादौ अहम्ममाध्यासपूर्वककृत कर्मानुसारेण देहा देहो देवमनुष्यादिजन्मानन्तरं पुनर्जन्म, मृतेरनन्तरं पुनर्मृतिश्वेत्यर्थः ॥ ५७ ॥ * योन्यन्तरेऽपि भोगादिसम्पादनं शक्यं ज्ञानार्थ तु मनुष्यजन्मन्येव यतितव्यमित्याह- लब्ध्वेति । ज्ञानं शास्त्रोक्तं विज्ञानमपरोक्षं तयोः सम्भवः उत्पत्तिः सम्भावना यस्यां तां मानुषीं योनिमिह पुण्यक्षेत्रे भारतवर्षे लब्ध्वा य आत्मानं परमात्मानं भगवन्तं तदंशभूतं जीवस्वरूपं च न बुद्धचेत स कचिद्देवादियोनिं गत्वाऽपि क्षेमं परमानन्द- स्वरूपं भगवन्तं नाप्नुयात् ॥ ५८ ॥ ननु लोकवेदतो नानाविधफलश्रवणेन तदुपाये प्रसक्तस्य विक्षिप्तचित्तत्वात् कथमात्मतत्त्वावधारणं कथं वा स्वगजनमित्याशङ्कयाह – स्मृत्वेति चतुर्भिः । ईहायां लौकिकवैदिकद्विविधेऽपि प्रवृत्तिमार्गे परिक्लेशं ततः कर्मण एव फलविपर्ययं च स्मृत्वा अनीहायां निवृत्तिमार्गे तु अभयं मोक्षं च स्मृत्वा कविर्विवेकी नानाफल- सङ्कल्पाद्विरमेत् । नोभयमिति पाठे परिक्लेशः फलविपर्ययश्च नास्तीत्येवं स्मृत्वेत्यर्थः ॥ ५६ ॥ विपर्ययमेव स्पष्टयति-
-
- सुखायेति । दुःखमोक्षाय दुःखनिवृत्तये क्रियाः नानाविधकर्माणि ततः कर्मभ्यो दुःखस्यानिवृत्तिः सुखस्याप्राप्तिश्च । चकारात् प्रत्युत ततः कर्मणः एव भूयो दुःखप्राप्तिश्च भवतीति ज्ञेयम् ।। ६० ।। …..
एकं. ६ अ. १६ श्लो. ६१-६५] अनेकव्याख्यासमलङ्कृतम् भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी ५२१ विपक्षे दोषमाह । यदीति । यदि, पुंसो देहिनः, आत्मनः स्वस्य, एतत् मद्भावं मच्छरीरत्वं विस्मृतं स्यात्, तदा भिन्नं भिन्नत्वं च स्यात् । यतः पुमान मच्छरीरतां विस्मरेत ततः, स्वकीयस्वतन्त्रतां विद्यादित्यर्थः । ततः हेतोः, एतस्य जीवस्य । संसारः स च देहाद्देहः, मृतेः मृतिः । भूयो भूयो जन्ममरणरूपः संसारोऽस्य जायते इत्यर्थः ॥ ५७ ॥ * * एवं स्वस्य ब्रह्मात्मकत्वाननुसंधाने भूयः संसरणरूपोनर्थ उक्तः, स चायं मनुष्यजन्मनैष परिहार्यो न तिर्यगादिजन्मनेत्याह । लब्ध्वेति । यो जीवः, ज्ञानविज्ञानयोः संभवो यस्यां तां तत्र ज्ञानं शास्त्रजन्यं, विज्ञानं साक्षादुपासनात्मकं, मानुषीं योनिम् इह लोके, लब्ध्या मानुष्यं जन्म प्राप्यापीत्यर्थः । आत्मानमात्मपरमात्मस्वरूपं, न बुद्धचेत । स पुमान् कचित् तेमं सुखं न आप्नुयात् । तिर्यगादियोनिषु ज्ञानविज्ञानयोग्यतैव नास्ति, तद्योग्यां दुर्लभां मानुषयोनिं प्राप्यापि ब्रह्मात्मकमात्मानं स्वशरीरकं ब्रह्म वा नोपासीत, स पुनः पुनः संसरेदेवेति भावः ॥ ५८ ॥ मानुषी योनिं लब्धवत्तोऽपि विषयासक्तस्य कथं ज्ञानादिकं प्रतिष्ठितं भवेत्तत्राह । स्मृत्वेति । ईहायां विषयसुखार्थायां चेष्टायां, मवृत्तिमार्गे इचि सावन् । परिक्लेशं फलविपर्ययं फलविपर्यासं च स्मृत्वा तत ईहातः, अनीहायां निवृत्तिमार्गे, अभयममृतत्वं च, स्मृत्वा मुनिः संकल्पात् विरमेत् पाठान्तरे नोभयं परिक्लेशः फलविपर्ययश्च, नास्तीत्येवं स्मृत्वा इति । स्वात्मपरमात्मयाथात्म्यमननशील ईहानीहयोर्दुःखसुखाननुसंधानं कृत्वा, शनैर्वैराग्यं समुत्पादयेत्ततो ज्ञानविज्ञाने प्रतिष्ठिते भवत इति भावः ॥ ५९ ॥ * * ईद्दायां परिक्लेशफलविपर्ययात्रेव स्पष्टयति । सुखायेति । यद्यपि, दंपती स्त्रीपुरुषौ, सुखाय सुखप्राप्तये, दुःखमोक्षाय दुःखनिवृत्तये च क्रियाः तदुपयुक्तव्यापारान, कुर्वाते । तथापि, तत्तः तत् क्रियाभ्यः दुःखस्य, अनिवृत्तिश्च सुखस्य अप्राप्तिश्च भवति । प्रत्युत विपरीतमेव भवतीति भावः ।। ६० ।। मूल भाषानुवादः | जब जीव मेरे स्वरूपको भूल जाता है, सब यह अपनेको अलग मान बैठता है; इसीसे उसे संसार के चक्करके पड़ना पड़ता है और जन्म-पर- जन्म तथा मृत्यु-पर-मृत्यु प्राप्त होती है ॥ ५७ ॥ * * यह मनुष्ययोनि ज्ञान और विज्ञानका स्रोत है। जो इसे पाकर भी अपने आत्मस्वरूप परमात्माको नहीं जान लेता, उसे कहीं किसी भी योनिमें शान्ति नहीं मिल सकती ॥ ५८ ॥ राजन् ! सांसारिक सुखके लिये जो पेष्टाएँ की जाती हैं, उनमें श्रम है, क्लेश है; और जिस परम सुखके उद्देश्यसे वे की जाती हैं, उसके ठीक विपरीत परम दुःख देती हैं, किंतु कर्मोंसे निवृत्त हो जानेमें किसी प्रकारका भय नहीं है—यह सोचकर बुद्धिमान् पुरुषको चाहिये कि किसी प्रकारके कर्म अथवा उनके फलोंका सङ्कल्प करे ।। ५९ ।। ॐ जगत् के सभी स्त्री-पुरुष इसलिये कर्म करते हैं कि उन्हें सुख मिले और उनका दुःखोंसे पिण्ड छूटे, परन्तु उन कर्मोंसे न तो उनका दुःख दूर होता है और न उन्हें सुखकी ही प्राप्ति होती है ।। ६० ॥ । एवं विपर्ययं बुद्ध्वा नृणां विज्ञाभिमानिनाम् । आत्मनश्च गति सूक्ष्मां स्थानत्रयविलक्षणाम् ।। दृष्टश्रुताभिर्मात्राभिर्निर्मुक्तः स्वेन तेजसा । ज्ञानविज्ञानसन्तुष्टो मद्भक्तः पुरुषो भवेत् ॥ एतावानेव मनुजैयोंगनै गुणबुद्धिभिः । खार्थः सर्वात्मना ज्ञेयो मत्परात्मैकदर्शनम् ॥ त्वमेतच्छुद्धया राजन्नप्रमत्तो वचो मम ज्ञानविज्ञानसम्पन्नो धारयनाशु सिध्यसि ॥ श्रीशुक उवाच *** : pop ६१ ।। ६२ ॥ ६३ ॥ ॥ ॥ ६४ ॥ क आश्वास्य भगवानित्थं चित्रकेतुं जगद्गुरुः । पश्यतस्तस्य विश्वात्मा ततभान्तदने हरिः ।। ६५ ।। इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे चित्रकेतोः परमात्मदर्शन नाम षोडशोऽध्यायः ॥ १६ ॥ कृष्णप्रिया व्याख्या एडी मा ॥ अन्वयः - एवं विज्ञाभिमानिनां नृणां विपर्ययं च स्थानत्रयविलक्षणां सूक्ष्मां आत्मनः गतिं बुद्ध्वा ॥ ६१ ॥ ॐ ॐ दृष्टश्रुताभिः मात्राभिः स्खेन तेजसा निर्मुक्तः ज्ञानविज्ञानसन्तुष्टः पुरुषः मद्भक्तः भवेत् ॥ ६२ ॥ * * योगनैपुणबुद्धिभिः ।। १. प्रा० पा० – विज्ञानज्ञानसंहृष्टो । २. प्रा० पा० नैपुण्य० । ३. प्रा० पा० – गत्म्येक० । ४. आ० पा० शकेतूपाख्याने परमपुरुषादेश: षोड० । । ५२२ श्रीमद्भागवतम् * [स्कं. ६ अ. १६ श्लो. ६१-६५ मनुजैः यत् परात्मैकदर्शनम् एतावान् एव स्वार्थः सर्वात्मना ज्ञेयः ॥ ६३ ॥ * राजन् ज्ञानविज्ञानसंपन्नः त्वं श्रद्धया एतत् मम वचः धारयन आशु सिद्धयसि ॥ ६४ ॥ विश्वात्मा भगवान् च जगद्गुरुः हरिः इत्थं चित्रकेतुम् आश्वास्य तस्य पश्यतः ततः अन्तर्दधे ।। ६५ ॥ इति षष्ठे षोडशोऽध्यायः ॥ १६ ॥ श्रीधरस्वामिविरचिता भावार्थप्रदीपिका Sure विज्ञा उद्यमे प्रवीणा वयमित्यभिमानवताम् । स्थानत्रयविलक्षणां तुरीयां बुद्ध्वा ॥ ६१ ॥ * * दृष्टश्रुताभिर्मा- त्राभिरैहिकामुष्मिकैर्विषयेः स्वेन तेजसा विवेकबलेन ॥ ६२ ॥ * * न चातः परः पुरुषार्थोऽतीत्याह । एतावानिति योगे नैपुणं यस्यां सा बुद्धिर्येषां परस्यात्मनः एकं दर्शनमिति यदेतावानेव ।। ६३-६५ ।। ।। इति श्रीभागवते षष्ठे टीकायां षोडशोऽध्यायः ॥ १६ वंशीधरकतो भावार्थदीपिकाप्रकाशः सूक्ष्मबुद्धिज्ञेयत्वात्सूक्ष्माम् ॥ ६१ ॥ * * मद्भक्तो ज्ञानविज्ञानतृप्तो भवेत् भक्ति विना ज्ञानविज्ञानाभ्या- मपि तृप्तिर्न भवतीति भावः । “भक्ति लब्धवतः साधोर्न किंचिदवशिष्यते” इत्युद्धवं प्रति श्रीकृष्णोक्तेः ॥ ६२ ॥ यद्वा- परस्यात्मनश्च द्वयोरेकत्वेनाभेदेन ज्ञानम् ‘सकलमिदमहं च वासुदेवः’ इत्येवंलक्षणमेतावानेव स्वार्थ स्तदन्यत्सर्वज्ञानं न पुरुषार्थं इति भाव: ।। ६३ ॥ हे राजन्निति । नारददत्तविद्याया देदीप्यमानत्वात्त्वयोग्यमेतदिति भावः ।। ६४ ।। हरिरिति । संकर्षणवासुदेवयोर्वास्तवाभेदमाह । ततो यत्र दृष्टस्तत्रैवांतर्दथे ।। ६५ । In ॥ इति श्रीमद्भागवतभावार्थदीपिकाप्रकाशे षष्ठस्कन्धे षोडशोऽध्यायः ।। १६ ॥ अन्वितार्थप्रकाशिका * TRI
- एवमिति युग्मम् । विज्ञाभिमानिनां विज्ञाः उद्यमे प्रवीणाः वयमित्यभिमानवतां नृणामेवं फलविपर्ययं बुद्ध्वा भात्मनश्च गतिं तत्त्वं सूक्ष्मामतिदुर्ज्ञेयां स्थानत्रयविलक्षणां जागरणाद्यवस्थात्रयरहितां बुद्ध्वा स्वेन तेजसा विवेकबलेन दृष्टश्रुताभिः मात्राभिः ऐहिकामुष्मिकैर्विषयैर्निर्मुक्तः तदभिलाषरहितः ज्ञानविज्ञानाभ्यां संतुष्टोऽपि पुरुषः मद्भजनपरो भवेत् । अन्यथा पुनः प्रमादेन भ्रश्येत् ।। ६१-६२ ॥ एतावानिति । यत् परस्यात्मन एक दर्शनं तदेतावानेव योगेन नैपुण्यं यस्याः सा बुद्धिः येषां तैर्मनुजैः सर्वात्मना सर्व प्रयत्नसाध्यः स्वार्थः पुरुषार्थो ज्ञेयो नातः परं कृत्यमस्ति ॥ ६३ ॥ * * त्वमिति । हे राजन् ! त्वमप्रमत्तः विषयानासक्तः श्रद्धया विश्वासेनैतन्मम वचो धारयन् ज्ञानविज्ञानसम्पन्नश्च सन्नाशु सिद्धयसि मां प्राप्यसीत्यर्थः ॥ ६४ ॥ आश्वास्येति । भगवान जगद्गुरुः विश्वात्मा हरिः इत्थं चित्रकेतुमाश्वास्य आश्वासनपूर्वकं तत्त्वमुपदिश्य तस्य पश्यत एव ततश्च तत्रैवान्तर्दधे ॥ ६५ ॥ इति श्रीकृष्णसेवार्थमन्वितार्थप्रकाशिकाम् । गङ्गासहायः षष्ठस्य षोडशे निरमादिमाम्) इति श्रीभागवते महापुराणे षष्ठस्कन्धेऽन्वितार्थप्रकाशिकायां षोडशोऽध्यायः ।। १६ ।। वीरराघवव्याख्या अनीहायामुभयं स्पष्टयति एवमिति । विज्ञाभिमानिनां वयमीहायां कुशला इत्यभिमानवतां नृणां ईहायामेव- मुक्तप्रकारेण विपर्ययं बुद्धवा आलोच्य स्थानत्रयविलक्षणां जाप्रत्स्वप्नसुषुप्त्यतीतां केवलविषयासक्तैर्दु ज्ञ यामात्मनः प्रत्यगात्मनो गतिं ब्रह्मात्मकत्वाद्याकारं बुद्धवा ॥ ६१ ॥ * दृष्टश्रुताभिरैहिक्यामुष्मिकीभिः मात्राभिः विषयसुखलेशैः स्वेन तेजसा स्वविवेकबलेन निर्मुक्तः मात्रासु जातविराग इत्यर्थः । ज्ञानविज्ञानाभ्यां पूर्वोक्ताभ्यां सन्तुष्टः ज्ञानसह कृतभगवदनुभव रूपविज्ञान- मात्रसन्तुष्टः मद्भक्तः मम निरतिशयप्रियः पुरुषो भवेत् एतचोभयं तस्य ब्रह्मात्मकत्वमनुसन्दधतः करस्थमिति भावः ॥ ६१ ॥ तदेवाह - एतावानिति । योगे नैपुण्यं यस्याः सा बुद्धिर्येषां तैर्मनुजैः सर्वात्मना सर्वप्रकारेण ज्ञयः स्वार्थोऽनिष्टपरिहारेष्टप्रापण- समर्थ पुरुषेण प्रार्थनीयं वस्तु एतावानेव, एष एवेत्यर्थः । स्वार्थे वतिः यद्वा एतावानेवैतत्परिमित एव । कोसौ ! तत्राह - यत्परात्मै- क्यदर्शनमिति । परस्य परमात्मनः आत्मनः स्वस्य च ऐक्यदर्शनमपृथक्सिद्धसम्बन्धदर्शनमिति यदेतावानेवेत्यर्थः । यद्वा परात्मनः परमात्मन ऐक्यदर्शनमेकत्वेन प्रकारित्वेनैकेनैवाकारेण च दर्शनं यद्वा परस्य परमात्मनः आत्मनः स्वस्य च ऐक्य- स्व. अ. १६ श्लो. ६१-६५] ।। अनेकव्याख्यासमलष्कृतम् दर्शनं परमात्मनः प्रकारित्वेनैकेनाकारेण स्वस्य च तत्प्रकारत्वरूपेणैकेनाकारेण दर्शनं परमात्मैकदर्शनमिति यदेतावा- नित्यर्थः ॥ ६३ ॥ * 8 एवं परात्मैक्यद्रष्टा चेत्त्वमप्याशु मुक्तौ भविष्यसीत्याह त्वमिति । हे राजन् चित्रकेतो, त्वमप्रमत्तः समाहितचित्तः श्रद्धया ज्ञानविज्ञानसम्पन्नं सम्पत्तिः सम्पन्न ‘भावेक्तः ज्ञानविज्ञानयोः सम्पत्तिर्यस्मात्तन्मम वचः धारयन् स्वनिष्ठं कुर्वन् ज्ञानविज्ञानसम्पादकं मदुक्तार्थमनुतिष्ठन्नित्यर्थः । ब्रह्मात्मकत्वानुसन्धानेन ज्ञानविज्ञाने प्रतिष्ठिते भवत इति भावः । ज्ञानविज्ञानसम्पन्न इति प्रथमान्तपाठे स्पष्टार्थः । आशु सिध्यसि मुक्तो भविष्यसि ॥ ६४ ॥ * एव- मुपादिश्य भगवानन्तर्दधौ इत्याह-मुनिः, आश्वास्येति । विश्वात्मा जगद्गुरुर्भगवान्हरिः सङ्कर्षणश्चित्रकेतुमित्थमाश्वास्य नारदा- ङ्गिरउक्तिसम्बादितस्ववचसा विश्वास्य तस्य चित्रकेतोः पश्यतः सतस्तत्रैव पातालादधस्तात्कस्याश्विद्दिशि अन्तर्हितवान् ॥ ६५ ॥ इति श्रीमद्भागवत महापुराणे षष्ठस्कन्धे श्रीमद्वीरराघवाचार्य्यकृतभागवतचन्द्रचन्द्रिकायां षोडशोऽध्यायः ॥ १६ ॥ विजयध्वजतीर्थंकृता पदरत्नावली कर्मविषयविद्याभासे इयम्बिद्येत्यभिमानिनाम् आत्मनो जीवस्य परमात्मनश्च वैकुंठादिस्थानतया व्याप्तिभूताप्रतिम- भूतिमत्तया विलक्षणां जामदादिस्थानत्रयातीतां च ॥ ६१ ॥ * * मात्राभिः शब्दादिभिः स्वेन तेजसा विशुद्धबुद्धि- सामर्थ्यातिशयेनैव ज्ञात्वा पुरुषो भवेन्मुक्तः इति शेषः ।। ६२ ।। * * उक्तज्ञानमन्ययोगाद्यवच्छिनत्ति - एतावानेवेति । किं तदित्यत उक्तं यदिति । परात्मन एकत्वस्य साम्याधिक्यराहित्यस्य दर्शनम् ॥ ६३ ॥ * तत्र योग्यचैतदेव नान्यदित्याह –त्वमेतदिति ॥ ६४ ॥ * चिरस्थितत्वेन पुनरपि प्रश्न: स्यादित्येतस्य हरेरन्तर्धानमाह । आश्वास्येति ।। ६५ ।। इति श्रीमद्भागवते महापुराणे पष्ठस्कंधे विजयध्वनतीर्थकृतपद रत्नावल्यां षोडशोऽध्यायः ॥ १६ ॥ जीवगोस्वामिकृतः क्रमसन्दर्भ : तदेव पूर्वानुरूपमेवोपसंहरति- एवमिति युग्मकेन । “आत्मारामाश्च मुनयः” इत्यादेः ॥ ६१-६२ ।। 8 प्रशंसति एतवानिति । परमात्मनो भगवत एवैकं केवलं दर्शनम् अनुभव इति यत् ॥ ६३ ॥ * * संसिद्धोऽसीति । यत् पूर्वमुक्तम् अधुना च सिध्यसीति तद्वयमपि वर्तमानसामीप्येनैव ज्ञेयं तत्राप्यप्रमत्तः सन् मम वचो धारयन्निति भाविविघ्नो हेतुरप्युद्दिष्टः ।। ६४-६५ ।। इति श्रीमद्भागवत महापुराणे षष्ठस्कन्धे श्रीमज्जीवगोस्वामिकृतक्रमसन्दर्भे षोडशोऽध्यायः ॥ १६ ॥ विश्वनाथचक्रवतिकृता सारार्थदर्शिनी ।। स्थानत्रयविलक्षणां तुरीयां मात्राभिर्विषयैः स्वतेजसा स्वीयसाधनप्रभावेन ।। ६१-६२ ॥ * * परस्य श्रेष्ठात्मनः परमात्मन एव एकं दर्शनं न तु विषयस्य ।। ६३-६५ ।। इति सारार्थदर्शिन्यां हषिण्यां भक्तचेतसाम् । षष्ठेऽयं षोडशोऽध्यायः सङ्गतः सङ्गतः सताम् ।। १६ । BRETIRED A शुकदेवकृत: सिद्धांतप्रदीपः
विज्ञाभिमानिना ईहितार्थनिष्पादनबुद्धिविगतानां कर्मिणां स्थानत्रयविलक्षणां स्वर्गनरकभूसंबन्धवर्जितां वैकुण्ठ- संबन्धिनीमर्चिरादिरूपां च बुद्धवा ।। ६१ ॥ तेजसा हेयोपादेयविवेकेन मात्राभिर्विषयेनिर्मुक्तः ज्ञानं चिदचिद्ब्रह्म- स्वरूपगुणादियाथात्म्यबोधः विज्ञानं सर्व ब्रह्मात्मकमिति बोधः ताभ्यां संतृप्तः भद्भक्तो भवेत् ।। ६२ ।। 8 * योगे ज्ञानभक्त्या- दिसाधनयोगे नैपुण्यं यस्याः सा बुद्धिर्येषां तैः परात्मनो ब्रह्मजीवयोः अंश्यंशयोर्यदेवदर्शनं गुणगुणिनोर्जातिव्यक्तयोः प्रभाप्रभावतो: कार्यकारणयोश्च यथा अनेकयोरप्येकदर्शनं तद्वत् एतावानेव सर्वात्मना साकल्येन स्वार्थी ज्ञेयः “तत्त्वमसि” इति श्रुतिरप्यत्रातु- सन्धेया ।। ६३-६५ ॥ इति श्रीमद्भागवते महापुराणे षष्ठस्कन्धे श्रीमच्छुकदेवकृतसिद्धान्तप्रदीपे षोडशाऽध्यायार्थप्रकाशः ।। १६ ।। गोस्वामिगिरिधरलालविहिता बालप्रबोधिनी विज्ञाभिमानिनां विज्ञाः उद्यमे प्रवीणा वयमित्यभिमानवतां नृणामेवं फलविपर्ययं बुद्ध्वा आत्मनश्च गतिं तत्त्वं सूक्ष्मामतिदुर्ज्ञेयां स्थानत्रयविलक्षणां जागरणाद्यवस्थात्रयरहितां बुद्ध्वा ।। ६१ ।। स्वेन तेजसा विवेकबलेन दृष्टश्रुताभिर्मात्राभिः ऐहिकामुष्मिकै र्विषयैनिर्मुक्तः तदभिलाषरहितः ज्ञानविज्ञानाभ्यां सन्तृप्तोऽपि पुरुषो मद्भक्तः मद्भजनपरो भवेत् । अन्यथा पुनः प्रमादेन भ्रश्येदिति भावः ।। ६२ ।। * एतावतोपदेशेन फलितमाह - एतावानिति । यत् परस्परम् श्रीमद्भागवतम् [ स्कं. ६.अ. १६ लो.. ६२-६७ आत्मनो भगवतः आत्मनश्र जीवस्यैकदर्शनं असेटचा भजनं तदेतावानेव मनुजैः सर्वात्मना सर्वप्रयत्नसाध्यः स्वार्थः पुरुषार्थी ज्ञेयः, नातः परं कृत्यमस्ति, फलं त्वमे भगवदिच्छाधीनमिति भावः । ननु तहिं सर्वैरेव जनैरयं पुरुषार्थ इति कुतो न ज्ञायते इत्यपेक्षायामाह योगेति, अनेकजन्मानुष्ठितैयेगिनैपुण्यं यस्याः सा बुद्धिर्येषां तैरित्यर्थः । बुद्धेनैर्मल्याभावान्न ज्ञायते इति भावः ॥ ६३ ॥ राजनिति सम्बोधनं मेहसूचनेनाश्वासनार्थम्। त्वमप्रमत्तः विषयानासक्तः श्रद्धया विश्वासेन एतन्मम बचो धारयन् ज्ञानविज्ञानसम्पन्नश्च सन्नाशु सिध्यसि मां प्राप्स्यसीत्यर्थः ॥ ६४ ॥ * * इत्थं चित्र- केतुमाश्वास्य आश्वासनपूर्वकं तत्त्वमुपदिश्य तस्य पश्यत एव ततञ्च तत्रैव हरिरन्तर्दथे इत्यन्वयः । हरिरिति सङ्कर्षणस्य भगवताऽ- भेदो दर्शितः । तदुपदेशच तस्य सफलो भविष्यतीति सूचयन्नाह जगद्गुरुरिति । तत्र हेतुमाह - सर्वात्मेति, सर्वान्तर्या- मीत्यर्थः । नान्तर्यामिकृपां विना विद्याधारणं न वा तद्विना तत्फलमिति भावः । अन्तर्यामित्वेऽन्तर्धाने च सामर्थ्य । हेतुमाह-भगवानिति ॥ ६५ ॥ इति श्रीवल्लभाचार्यगंश्यगोपालसूनुना । श्रीमन्मुकुन्दरायाणां पादसेवाधिकारिणा ॥ १ ॥ श्रीमद्विरिघसख्येनः भजनानन्वसिद्धये । श्रीमद्भागवतस्येयं टीका बालप्रबोधिनी ॥ २ ॥ ॥२॥ रचिता तत्र पष्ठेऽस्मिन स्कन्धे रूपनिरूपणे । षोडशोऽपि गतो वृत्ति भक्तियोगनिरूपक । ॥ ३ ॥ भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी अनीझयामुभयं स्पष्क्ष्यति । एवमिति । विज्ञाभिमानिनां वयसीहायां कुशला इत्यभिमानवतां नृणाम् एवमुक्तप्रकारेण, विपर्ययं बुद्ध्वा आलोच्य, स्थानत्रयविलक्षणां जाग्रत्स्वप्नसुषुप्त्याख्यावस्थात्रिकमतीतां सूक्ष्मां केवलविषयासक्तैर्दुर्ज्ञेयत्वात् सूक्ष्मतावत, आत्मनः प्रत्यगात्मनः, गतिं ब्रह्मात्मकत्वाद्याकारं च, बुद्ध्वा ।। ६१ ।। * * दृष्टेति । दृष्टश्रुताभिः, ऐहिकामुष्मिकाभिः, मात्राभिर्विषयसुखलेशैः, स्वेन तेजसा स्वविवेकबलेन, निर्मुक्तः । मात्रासु जातविराग इत्यर्थः । ज्ञान- विज्ञानाभ्यां पूर्वोक्ताभ्यां संतुष्टः, ज्ञान सहकृतभगवदनुभवरूपविज्ञानमात्र संतुष्ट इत्यर्थः । पुरुषः मद्भक्तः मम निरतिशयप्रिय इत्यमः । भवेत् । एवं वः श्रचात्मकत्वमनुसंन्धतत्तस्योभयं करस्थमेवेति भावः । इत्युभयेोरेकसंबन्धः ॥६२॥ । । । एतावानिति । योगे नैपुण्यं यस्याः एवंविधा बुद्धिर्येषां तै:, मनुजै:, सर्वात्मना सर्वप्रकारेण ज्ञेयः वेदनीयः । स्वार्थः अनिष्टपरि- हारेष्ठप्रापणसमर्थ पुरुषेण प्रार्थनीयं वस्त्वित्यर्थः । एतावानेव एतत्परिमित एव, कोऽसौ तत्राह । परस्य परमात्मनः आत्मनः स्वस्य चैक्यदर्शनम् अपृथक सिद्धसंबन्धदर्शनमिति यत् एतावानित्यर्थः ॥ ६३ ॥ एवं त्वमपि परात्मैक्ाद्रष्टा वेदाशु 1 ॥ ४ मुक्तौ भविष्यसीत्याह । त्वमिति । हे राजन् चित्रकेतो, त्वम् अप्रमत्तः समाहितचित्तः, ज्ञानविज्ञानसंपन्नः, पाठान्तरे वचो- विशेषणम् एतत्मम वचः, श्रद्धया धारयन्, आशु सिद्धयसि मुक्तो भविष्यसि ॥ ६४ ॥ * एवमुपदिश्य भगवानन्तर्दधे इत्याह मुनिः । आश्वास्येति । विश्वात्मा जगद्गुरुश्च भगवान् हरिः संकर्षणः, चित्रकेतुम् इत्थम् आश्वास्य नारदाऽङ्गिरोवचनसंवादि- वचसा विश्वास्य, तस्य चित्रकेतोः पश्यतः सतः, ततः तत्रैव पातालादधस्तात, कस्यांचिद्दिशि, अन्तर्द्दधे अन्तर्हितवान् ।। ६५ ॥ इति श्रीधर्मधुरंधरश्रीधर्मात्मजप्रत्यक्षपुरुषोत्तम सहजानन्दखामि सुतश्रीरघुवीराचार्य सुनुभगवत्प्रसादाचार्यविरचिता- यामन्वयार्थावबोधिन्यां भक्तमनोरञ्जन्याख्यायां श्रीमद्भागवतटीकायां षष्ठस्कन्धे षोडशोऽध्यायः ।। १६ ।। भाषानुवादः जो मनुष्य अपनेको बहुत बड़ा बुद्धिमान मानकर कर्मके पचड़ोंमें पड़े हुए हैं, उनको विपरीत फल मिलता है- यह बात समझ लेनी चाहिये; साथ ही यह भी जान लेना चाहिये कि आत्माका स्वरूप अत्यन्त सूक्ष्म है, जाग्रत, स्वप्न सुषुप्ति- इन तीनों अवस्थाओं तथा इनके अभिमानियोंसे विलक्षण है ॥ ६१ ॥ * * यह जानकर इस लोकमें देखे और परलोकके सुने हुए विषय-भोगोंसे विवेकबुद्धिके द्वारा अपना पिण्ड छुड़ा ले और ज्ञान तथा विज्ञानमें ही सन्तुष्ट रहकर मेरा भक्त हो जाय ।। ६२ ।। जो लोग योगमार्गका तत्त्व समझनेमें निपुण हैं, उनको भलीभाँति समझ लेना चाहिये कि जीवका सबसे बड़ा स्वार्थ और परमार्थ केवल इतना ही है कि वह ब्रह्म और आत्माकी एकताका अनुभव कर ले ॥ ६३ ॥ * * राजन् ! यदि तुम मेरे इस उपदेशको सावधान होकर श्रद्धाभाव से धारण विज्ञान से सम्पन्न होकर शीघ्र ही सिद्ध हो जाओगे ॥ ६४ ॥ * श्रीशुकदेवजी कहते हैं- राजन् ! भगवान् श्रीहरि चित्रकेतुको इस प्रकार समझा-बुझाकर उनके सामने ही वहाँसे अन्तर्धान हो गये ।। ६५॥ !! इति षष्ठे षोडशोऽध्यायः ॥ १६ ॥ म करोगे तो ज्ञान एवं जगद्गुरु विश्वात्मा PSH T अथ सप्तदशोऽध्यायः श्रीशुक उवाच यतश्चान्तर्हितोऽनन्तस्तस्यै कृत्वा दिशे नमः । विद्याधरश्चित्रकेतुश्वचार गगनेचरः ।। १ ।। स लक्षं वर्षलक्षाणामव्याहतबलेन्द्रियः । स्तूयमानो महायोगी मुनिभिः सिद्धचारणैः २ ॥ 14: कुलाचलेन्द्रद्रोणीषु नानासङ्कल्पसिद्धिषु । रेमे विद्याधरस्त्रीभिर्गापयन् हरिमीश्वरम् ॥ ३ ॥ एकदा सो विमानेन विष्णुदत्तेन भाखता । गिरिशं दहशे गच्छन् परीतं सिद्धचारणैः ॥ ४ ॥ आलिङ्गयाङ्गीकृतां देवीं बाहुना मुनिसंसदि । उवाच देव्याः शृण्वत्या जहासोच्चैस्तदन्तिके ॥ चित्रकेतुरुवाच एष लोकगुरुः साक्षाद्धमं वक्ता शरीरिणाम् । आस्ते मुख्यः समायां वै मिथुनीभूय भार्यया ॥ जटाधरस्तीव्रतपा ब्रह्मवादिसभापतिः । अङ्गीकृत्य स्त्रियं चास्ते गतहीः प्राकृतो यथा ॥ प्रायशः प्राकृताश्चापि स्त्रियं रहसि विभ्रति । अयं महाव्रतधरो विमति सदसि स्त्रियम् ॥ कृष्णप्रिया व्याख्या ५ ॥ ६ ॥ ७ ॥ ८ ॥ अन्वयः— च अनंतः य अन्तर्हितः तस्यै दिशे नमः कृत्वा गगनेचरः विद्याधरः चित्रकेतुः चचार ॥ १ ॥ * वर्षलक्षाणां लक्षम् अव्याहतबलेन्द्रियः मुनिभिः सिद्धचारणैः स्तूयमानः महायोगी स ईश्वरम् हरिं गापयन् विद्याधरस्त्रीभिः नाना- संकल्पसिद्धिषु कुलाचलेन्द्रद्रोणीषु रेमे ॥ २-३ ।। * * एकदा विष्णुदत्तेन भाखता विमानेन गच्छन् सः सिद्धचारणैः परीतं मुनिसंसदि बाहुना अंकीकृतां देवीम् आलिङ्गच गिरिशं ददृशे देव्याः शृण्वत्याः तदन्तिके उचै: जहास उवाच ॥। ४-५ ।। साक्षात् लोकगुरुः शरीरिणां धर्मं वक्ता एषः भार्यया मिथूनीभूय सभायाम् मुख्यः वै आस्ते ॥ ६ ॥ * * च जटाधरः तीव्रतपाः ब्रह्मवादी यथा गतही: प्राकृतः स्त्रियम् अंकीकृत्य सभापतिः आस्ते ॥ ७ ॥ * च प्राकृताः अपि प्रायश: रहसि एव स्त्रियं बिभ्रति महात्रतधरः अयं सदसि स्त्रियम् बिभर्ति ॥ ८ ॥ श्रीधरस्वामिविरचिता भावार्थदीपिका Re ततः सप्तदशेऽमोघमहद्धिं प्राप्य खे चरन् । विहस्य गिरिशं शापादुमाया वृत्रतां गतः ॥ १ ॥ यतो यस्यां तस्यै दिशे नमः नमनं कृत्वा ॥ १ ॥ 8 * स चित्रकेतुर्विद्याधरखीभिर्हरिं गापयन रेंम इति द्वयोरन्वयः । अव्याहतं बलमिद्रियपाटवं च यस्य ॥ २ ॥ 8 नानाविधाः संकल्पेनैव सिद्धयों यासु तासु ॥ ३ ॥ अकस्मादद्भुतैश्वर्यगवत्प्राचीनकर्मतः । आसुरी योनिमापन्नो भवानीशापतः स तु ॥ १ ॥ तदाह एकदेत्यादिना ॥ ४ ॥ * अंकीतामुत्संगेकीकृत्य स्थापितां देवीं बाहुनाऽऽलिंग्य स्थितम् । उवाच जहास च । तस्यांतिके स्थितः सन् ॥ ५ ॥ * * धर्म वक्ता वदति शरीरिणां मध्ये मुख्यश्च भार्यया मिथुनीभूय चास्ते ॥ ६-८ ॥ वंशीधरकृतो भावार्थदीपिकाप्रकाशः ततोनंतोपदेशावाप्त्यनंतरम् । अमस्य कुशस्यौधो वेगो यस्यां तामिति भाव्यभिप्रायेण व्याख्या ( १ ) ।। १-२ ।। कुलाचलेंद्रो मेरुः “कुलगिरिराजो मेरुद्वपायामसमुन्नाहः" इत्युक्तेः ॥ ३ ॥ * तत्र प्राचीनकर्मणा महदपराधात्तस्य १. प्रा० पा० – स्ववि० । २. प्रा० वा०– मुख्यः वत्सभायां map First । ५३६ श्रीमद्भागवतम् [ स्कं. ६ अ. १७ श्लो. १-८ दुष्फलमाह – एकदेति ॥ ४ ॥ अंकीकृतां स्वोत्संगस्थापिताम् । तदंतिके तयोस्सतीश्वरयोरंतिके समीपे ॥ ५ ॥ एष शिवः लोकानां सर्वेषां गुरुर्ब्राह्मणदेवतात्वेनोपदेष्टा ‘ब्राह्मणो भगवान्रुद्रः’ इति पराशरपुराणोक्तेः । मंत्रशास्त्रेऽपि मनुष्ये श्रद्धाराहित्ये दक्षिणा मूर्त्तितो दीक्षाग्रहणाविधानात् व्युत्पादितं चैतत्तृतीयस्कंधे चतुर्दशेऽध्याये । अत एव शरीरिणां धर्मं वक्तेति ॥ ६ ॥ * * प्राकृतोऽतीव मूढः ॥ ७ ॥ * * “अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः एते जातिदेश- कालसमयानवच्छिन्नाः सार्वभौमा महाव्रतम्” इति योगसूत्रे । एतयोरर्थस्तु — तत्र प्राणवियोगप्रयोजनव्यापारो हिंसा सा च सर्वानर्थहेतुस्तदभावोऽहिंसा हिंसायाः सर्वकालमेव परिहाय्र्यत्वात्प्रथमं तदभावरूपाया अहिंसाया निर्देशः । सत्यं वाङ्मन- सयोर्यथार्थत्वम् । स्तेयं परखापरहणं तदभावोऽस्तेयम् । ब्रह्मचर्यमुपस्थसंयमः । अपरिग्रहो भोगसाधनानामस्वीकारः । एतेऽहिंसादयो यमशब्दवाच्या भवंति योगांगत्वेन निर्दिष्टाः । एषां विशेषमाह - एत इति । जातिर्ब्राह्मणत्वादिः । देशतीर्थादिः । कालश्चतुर्दश्यादिः । समयो ब्राह्मणप्रयोजनादिः एतैश्चतुर्भिरनवच्छिन्नाः पूर्वोक्ता अहिंसादयो यमाः । सर्वासु विक्षिप्तादिषु चित्तभूमिषु भवा महाव्रतमित्युच्यते । तद्यथा - ब्राह्मणं न हनिष्यामि, तीर्थे कंचन न हनिष्यामि, चतुर्दश्यां न हनिष्यामि, देवब्राह्मणप्रयोजनव्यतिरेकेण कमपि न हनिष्यामीत्येवं चतुर्विधावच्छेदव्यतिरेकेण किंचित्कुत्रचित्कस्मिंश्चिदर्थे न हनिष्यामीत्य- नवच्छिन्नाः एवं सत्यादिषु यथायथं योज्यम् । इत्थमनियमकृता सामान्येनैव प्रवृत्ता महात्रतमित्युच्यते ॥ ८ ॥ अन्वितार्थप्रकाशिका सप्तदशे चित्रकेतुर्विमानस्थः शिवं हसन् । गौरीशापादभूत्रस्तत्र श्लोकाः कुवार्द्धयः ( ४१ ) ॥
अनुष्टुभो वह्नि वेदा (४३) उवाच नवकं ( ९ ) तथा ।। १७ ।। यत इति । यतः यस्यां दिशि अनन्तः अन्तर्हितस्तस्यै दिशे नमस्कृत्य गगनेचरः विद्याधरः चित्रकेतुश्चचार ॥ १ ॥ स इति युग्मम् । मुन्यादिभिः स्तूयमानः महायोगी वर्ष लक्षाणां लक्षमव्याहतं बलं शारीरमिन्द्रियमिन्द्रियपाटवं च यस्य स चित्रकेतुविद्याधरस्त्रीभिः ईश्वरं हरिं गापयन् नाना- विधसंकल्पानां सिद्धयो यासु तासु कुलाचलेन्द्रः पर्वतराजः सुमेरुस्तस्य द्रोणीषु पर्वतद्वयमध्ये समप्रदेशेषु रेमे ॥ २-३ ॥ एकदेति । एकदा विष्णुदत्तेन भास्वता विमानेन गच्छन् सः सिद्धचारणैः परीतं गिरिशं ददृशे । तर्षः ॥ ४ ॥ * * आलिङ्गयेति । अङ्गीकृतामुत्सङ्गेनैकीकृतां देवीं बाहुनाऽऽलिङ्गच मुनिसंसदि स्थितं शिवं दृष्ट्वा देव्याः शृण्वन्त्याः नुमार्ष: । तदन्तिके स्थितः सन्नुच्चैर्जहास उवाच च । ॥ ५ ॥ * * एष साक्षाल्लोकगुरुः वेदप्रवर्त्तक ईश्वरः साक्षादपि शरीरिणां धर्म वक्ता वदति एतस्यां मुनिसिद्धसभायां मुख्यश्च सभायामेव भार्यया मिथुनीभूयास्ते ॥ ६ ॥ * * जटेति । जटाधर: तीव्रतपा: ब्रह्मवादी सभापतिः एष स्त्रियमङ्कीकृत्य यथा प्राकृतोऽतिनिकृष्टो जनो गतह्वीर्निर्लज्जः सन्नारते तथाऽय- मीश्वरोऽप्यास्ते ॥ ७ ॥ * * प्रायश इति स्पष्टम् ॥ ८ ॥ वीरराघव व्याख्या * सत्याः । तत उपरितनं चित्रकेतोर्वृत्तान्तमाह - मुनिः, यत इति । यतः यस्यां दिशि सङ्कर्षणोऽन्तर्हितवान् तस्यै दिशे नमस्कृत्वा स विद्याधरः विद्याधरत्वं प्राप्तः विद्याधरैरिति पाठे तैः सह चित्रकेतुर्गगनचारी भूत्वा तत्र तत्र चचार ।। १ ।। * * तदे- वाह - स इति । महायोगी भगवान्स चित्रकेतुरव्याहतं बलं येषां तानीन्द्रियाणि यस्य तादृशो लक्षवर्षाणां लक्षबहुकालमित्यर्थः । मुनिभिः सिद्धैश्चारणैश्च स्तूयमानः ॥ २ ॥ नानाविधाः स्वसङ्कल्पानुसारिण्यः सिद्धयः भोग्यभोगोपकरणादिसिद्धयो यासु कुलाचलेन्द्रस्य मेर्वादेद्रणीषु विद्याधरस्त्रिभिरीश्वरं हरिं गापयन् गानं कारयन् रेमे ॥ ३ ॥ स चित्रकेतुरेकदा कदाचिद्विष्णुदत्तेन यथा सङ्कल्पं भगवता दत्तेन भाखता प्रकाशमानेन विमानेन तत्र तत्र गच्छन् सञ्चरमाणः सिद्धैर्योगिभिश्व परीतं परिवृतं गिरिशं रुद्रं ददृशे ॥ ४ ॥ * * कथंभूतं रुद्रम् अङ्के उत्सङ्गे कृतां निधापितां देवीमम्बिकां बहुना आलिंग्य मुनीनां मननशीलानां संसदि सभायां स्थितमिति शेषः । ततो देव्यां शृण्वन्त्यां सत्याम् उवाच जहास च हसितवांश्च ॥ ५ ॥ तदेवाह एष इति त्रिभिः । एष रुद्रः साक्षाल्लोकानां गुरुर्हितोपदेष्टा किन शरीरिणां धर्म वक्ता मुख्यः प्रधानः स्वयमीदृशस्सन् सभायां भार्यया सह मिथुनीभूयाऽऽस्ते ।। ६ ।। * * किन जटाः बिभर्तीति तथा तीत्रमुग्रं नितान्तं वा तपो यस्य स ब्रह्मवादी ब्रह्मज्ञानोपदेष्टाऽथ च सभायाः पतिः प्रधानः एवंभूतोऽपि लज्जाहीनः अङ्के स्त्रियं कृत्वा निधाप्याssस्ते उपविष्टवान् यथा प्राकृतः अत्यन्तमूढस्तद्वत् ॥ ७ ॥ * किश्च प्राकृता अपि बहुशो रहस्येव स्त्रीयमङ्के विभ्रति निधापयन्ति अयं तु बिभर्ति महान् व्यत्यास इति भावः ॥ ८ ॥ महाघ्रतधरोपि सदसि सभायामेव स्त्रियम स्कं. ६ अ. १७ श्लो. १-८] अनेकव्याख्या समलङ्कृतम् विजयध्वजतीर्थकृता पदरत्नावली ५२७ यथाशास्त्रार्थतत्त्वेन ज्ञातः श्रीनारायणो मुक्तिं ददाति, नान्यथा यथाशास्त्रार्थतत्त्वं योग्यानामेव ज्ञातुं सुशकं, नायोग्यानां “परोक्षप्रिया इत्र हि देवाः” इति श्रुतेः दुरवगाहं शास्त्रार्थतत्त्वं हरेः प्रीतिजनकं तथा प्रतिपादनमित्ययं प्रकारः कथ्यते अस्मिन्न- ध्याये, तत्र चित्रकेतोः रुद्राणीशापप्राप्तिप्रकारं वक्तुं तावदाह - यतश्चेति ॥ १-२ ॥ कुलाचलेन्द्रस्य द्रोणीषु निम्नतटी- * स्वत एव स्त्रीणां पुरुषाणां च नानासङ्कल्पसिद्धिषु ॥ ३ ॥ * तत किं प्रकृते तत्राह - एकदेति ॥ ४ ॥ किमभूदत्राह – उवाचेति ॥ ५८ ॥ Proper 揚げ जीवगोस्वामिकृतः क्रमसन्दर्भः
-
- दृष्ट्वापि सलक्षमिति युग्मकम् ॥ १-३ ॥ * * तत्रापि प्राचीनमहदपराधान्तरस्य दुष्फलमाह - एकदेति ॥ ४-८ ॥ विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी चित्रकेतुः सप्तदशे विद्याधरपतिर्भवत् । विहस्य शङ्करं देव्याः शापतो वृत्रतामगात् ॥ ० ॥ । यतः यस्यां दिशि ।। १-२ ।। नानासङ्कल्पसिद्धिष्वपि सङ्कल्पान विहाय हरिं गापयन्नेव रेमे हरेर्गुणश्रवण- कीर्त्तनयोरेव रतोऽभूदित्यर्थः ॥ ३-६ ॥ * * “भक्ति भूतिं हरिर्दत्त्वा स्वविच्छेदानुभूतये । देव्याः शापेन वृत्रत्वं नीत्वा ।। तं स्वान्तिकेऽनयत्" अङ्गीकृतां स्वदेहार्डीकृतां प्राकृतो यथेति न तु प्राकृतः साक्षादीश्वरत्वादिति । दक्षवन्नायं शिवनिन्दकोऽ- । पराधी ज्ञेय इति भावः ॥ ७ ॥ * * महाव्रतधरो नैष्ठिकब्रह्मचारी स्त्रियं बिभर्तीत्यचिन्त्यमैश्वर्य्यमिति भावः ॥ ८ ॥ शुकदेवकृत: सिद्धान्त प्रदीपः यथा चित्रकेतुर्वृत्रोऽभूत्तत्सप्तदशे उच्यते -यत इति । यतो यस्यां दिशि अन्तर्हितस्तस्यै नमो नमनं कृत्वा गगनचारी भूत्वा तत्र चचार ॥ १ ॥ * * वर्षलक्षाणां लक्षं बहुकालम् अव्याहतं न विनष्टं बलमिन्द्रियपाटवं यस्य सः ॥ २ ॥ नाना अनेकप्रकाराः संकल्पेनैव सिद्धयो यासु तास्वपि विद्याधरस्त्रिभिर्हरिं गापयन् एव रेमे न तु क्वाप्यशक्तोऽभूदिति भावः ॥३॥ “मुक्तत्यन्त रायभूतप्रारब्ध कर्मणस्तस्य तावदेव चिरं यावन्न विमोक्षे” इति श्रुतिप्रसिद्धस्य फलभोगाय भवानीशापद्वारा वृत्ररूपेण प्रवृत्तो भूदित्याह – एकदेत्यादिना । मुनिसभायाम् अङ्गीकृत्वा उत्संगे आरोपितो बाहुना आलिंग्य स्थितं प्रति तदन्तिके उच्चकैर्ज- हास देव्याः शृण्वंत्या उवाच च ।। ४-५ ।। 8 शरीरिणां मध्ये मुख्योऽत एव लोकानां गुरुरत एव साक्षात् धर्मं भगव- द्भक्तिलक्षणं वक्ता वदति सभायां भार्यया मिथुनीभूय चास्ते ॥ ६-८ ॥ गोस्वामिगिरिधरलालविहिता बालप्रबोधिनी सप्तदशे तु भक्तस्य चित्रकेतोर्महात्मनः । आसुरभावहेतुर्वै देव्याः शापो निरूप्यते ॥ १ ॥ । भगवदन्तर्धानानन्तरं किं जातमित्यपेक्षायामाह -यत इति । यतो यस्यां दिशि तस्यै दिशे नमः नमनं कृत्वा ॥ १ ॥ वर्षलक्षणां लक्षमव्याहतं बलं शारीरमिन्द्रियपाटवं च यस्य सः विद्याधरस्त्रीभिः हरिं गापयन् कुलाचलेन्द्रः पर्वतराजः सुमेरुस्तस्य द्रोणीषु रेमे इति द्वयोरन्वयः । मुन्यादिभिः स्तूयमानः । तत्र हेतुमाह - महायोगीति, अणिमाद्यैश्वर्यवान् भगवद्ध याननिष्ठ- श्वेत्यर्थः ॥ २ ॥ * * भगवदनुग्रहेण तत्तत्स्थानान्यपि तस्य सपरिकरस्य मनोरथपूरकाणि जातानीत्याह - नानेति । नाना- विधाः सङ्कल्पेनैव सिद्धयो यासु तासु । हरिनामकः कश्चिदन्यो भविष्यतीति शङ्कावारणाय विशेषणमीश्वरमिति । अनेन तस्य भोगातिशयेऽपि तत्रानासक्तिर्भगवत्यासक्तिश्च दर्शिता ॥ ३ ॥ * भगवदनुग्रहातिशयं सूचयति - विष्णुदत्तेनेति । विमानेन गच्छन् गिरिशं शिवं ददृशे इत्यन्वयः ॥ ४ ॥ * * अङ्कीकृतां उत्सङ्गेनैकीकृतां देवी बाहुनाऽऽलिङ्गय मुनिसंसदि स्थितमुवाच तदन्तिके स्थितः सन्नुचैर्जहास चेत्यन्वयः ॥ ५ ॥ ४ तद्वचनमेव दर्शयति - एष इति त्रयेण । एप साक्षाल्लोकगुरुः वेदप्रवर्त्तक ईश्वरः साक्षादपि शरीरिणां धर्मं वक्ता वदति, एतस्यां मुनिसिद्धादिसभायां मुख्यश्व । सभायामेव भार्यया मिथुनीभूयाssस्ते ॥ ६ ॥ वेषाचाराभ्यामपि अस्यैतदनुचितमित्याह - जटाधर इति । तत्र दृष्टान्तमाह- गतह्रीरिति । प्राकृतोऽतिनिकृष्टो जनो गतहीर्निर्लज्जः सन् यथाssस्ते तथाऽयमीश्वरोऽप्यास्ते इत्यनुचितमेवेत्यर्थः ॥ ७ ॥ प्राकृतानामपि प्रायेण नैवं निर्लज्जतया व्यवहार इत्याह- प्रायश इति । महाव्रतधरः ब्रह्मचारी ॥ ८ ॥ ३ । ad श्रीमद्भागवतम् s भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी [ स्कं. ६ अ. १७ हो. १-प प्राप्यामोघां महर्द्धि खे चरन सप्तदशे ततः । शिवं विहस्य पार्वत्याः शापात् स वृत्रतां गतः ॥ १ ॥ तत उपरितनं चित्रकेतोर्वृत्तान्तमाह मुनिः । यत इति । यतः यस्यां दिशि, अनन्तः संकर्षणः, अन्तर्हितः तस्यै दिशे नमः कृत्वा च, नमस्कारं विधायैवेत्यर्थः विद्याधरतां प्राप्तः चित्रकेतुः, गगनेचर आकाशगतिर्भूत्वा, चचार तत्र तत्र स्वच्छन्दानुसारेण विचरणं व्यधात् ।। १ ।। * * तदेवाह स इति । महायोगी अव्याहतं बलं येषां तानि इन्द्रियाणि यस्य सः, स चित्रकेतु:, वर्षलक्षाणां लक्षं बहुकालमित्यर्थः । मुनिभिः सिद्धचारणैः सिद्धैश्चारणैश्चेत्यर्थः । स्तूयमानः सन् ॥ २ ॥ कुलाचलेति । नाना नानाविधाः संकल्पाः स्वसंकल्पानुसारिण्यः सिद्धयः भोग्यभोगोपकारणादिरूपा यासु तासु, कुलाचलेन्द्रो दस्तस्य द्रोण्यगुहा तासु, विद्याधराणां स्त्रियस्ताभिः, विद्याधरैः स्त्रीभिश्व ेति वा । ईश्वरं हरिं संकर्षणं भगवन्तं गापयन् गानं कारयन्, रेमे । इति द्वयोरेकसंबन्धः संबन्धः ॥ ३ ॥ ॐ एकदेति । स चित्रकेतु:, एकदा कदाचित्, विष्णुदत्तेन तत्- संकल्पमनुसंधाय भगवता दत्तेन, भास्वता प्रकाशमानेन, विमानेन गच्छंस्तत्र तत्र संचरन् सन् सिद्धाश्च चारणाश्च तैः, परीतं संवेष्टितं गिरिशं रुद्रं ददृशे ॥ ४ ॥ दर्शनानन्तरं किमभूत्तत्राह । आलिङ्गन्येति । अङ्कीकृतां स्वोत्सङ्ग उपावे- शितां, देवीमम्बिकां, बाहुना आलिङ्गन्य, मुनिसंसदि विरक्तमुनिजनसभायां स्थितमिति शेषः । रुद्रं प्रति, तदन्तिके स्थितः सन्, देव्याः पार्वत्याः शृण्वन्त्याः सत्याः, उवाच । उबै; जहास च ॥ ५ ॥ * * तदेवाह त्रिभिः । एष इति । एष रुद्र:, साक्षात्, लोकगुरुः लोकानां हितोपदेष्टा, शरीरिणां धर्म वक्ता मुख्यः प्रधानीभूतश्च भवति । स्वयमीदृशः सन् सभायां भार्यया मिथुनीभूय, आस्ते वै ॥ ६॥ * * जटाधरः तीत्रमुग्रं नितान्तं वा तपो
- ॐ जटाधरः तीत्रमुत्रं नितान्तं वा तपो यस्य सः, ब्रह्मवादी ब्रह्मज्ञानोपदेष्श, सभापतिः एवंभूतोऽपि गतहीर्लज्जाहीनः, प्राकृतः जनः, यथा स्त्रियम् अङ्कीकृत्य स्वोत्सङ्गे आरोप्य, आस्ते च उपविष्टवानेव ॥ ७ ॥ * * प्रायश इति । किं च प्राकृताः अपि प्रायशो बहुधा तु, स्त्रियं रहस्येव बिभ्रति । अङ्के इति शेषः । अयं तु महाव्रतधरः सन्नपि, सदसि सभायां स्त्रियम् अङ्के बिभर्त्ति चोऽवधारणे ॥ ८ ॥ ! भाषानुवादः चित्रकेतुको पार्वतीजीका शाप
I श्रीशुकदेवजी कहते हैं- परीक्षित ! विद्याधर चित्रकेतु, जिस दिशा में भगवान् सङ्कर्षण अन्तर्धान हुए थे, उसे नमस्कार करके आकाशमार्ग से स्वच्छन्द विचरने लगे ॥ १ ॥ महायोगी चित्रकेतु करोड़ों वर्षोंतक सब प्रकारके सङ्कल्पों को पूर्ण करनेवाली सुमेरु पर्वतकी घाटियों में विहार करते रहे । उनके शरीरका बल और इन्द्रियोंकी शक्ति अक्षुण्ण रही। बड़े- बड़े मुनि, सिद्ध, विद्याधरोंकी स्त्रियाँ उनके पास सर्वशक्तिमान् भगवान् के गुण और लीलाओं का गान करती रहतीं ।। १-३॥ एक दिन चित्रकेतु भगवान् के दिये हुए तेजोमय विमानपर सवार होकर कहीं जा रहे थे। इसी समय उन्होंने देखा कि भगवान् शङ्कर बड़े-बड़े मुनियों की सभा में सिद्ध-चारणों के बीच बैठे हुए हैं और साथ ही भगवती पार्वतीको अपनी गोद में बैठाकर एक हाथ से उन्हें आलिङ्गन किये हुए हैं यह देखकर चित्रकेतु विमानपर चढ़े हुए ही उनके पास चले गये और भगवती पार्वतीको सुना-सुनाकर जोर से हँसने और कहने लगे ।। ४-५ ।। 8 चित्रकेतुने कहा- अहो ! ये सारे जगत्के धर्मशिक्षक और
- कहा-अहो गुरुदेव हैं ? ये समस्त प्राणियोंमें श्रेष्ठ हैं । इनकी यह दशा है कि भरी सभा में अपनी पत्नीको शरीरसे चिपकाकर बैठे हुए ॥ ६॥ * * जटाबारी, बहुत बड़े तपस्वी एवं ब्रह्मवादियोंके सभापति होकर भी साधारण पुरुषके समान निर्लज्जतासे गोदमें स्त्री लेकर बैठे हैं ॥ ७ ॥ प्रायः साधारण पुरुष भी एकान्तमें ही स्त्रियोंके साथ उठते-बैठते हैं, परन्तु परन्तु ये इतने बड़े व्रतधारी होकर भी उसे भरी सभामें लिये बैठे हैं । ॥
-
श्रीशुक उवाच भगवानपि तच्छ्रुत्वा प्रहस्यागाधथीर्नृप । तूष्णीं बभूव सदसि सभ्याश्च तदनुव्रताः ।। ९ ।। इत्यतद्वीर्यविदुषि बुवाणे बह्नशोभनम् । रुषाऽऽह देवी धृष्टाय निर्जितात्माभिमानिने ।। १० । पार्वत्युवाच अयं किमधुना लोके शास्ता दण्डधरः प्रभुः । अस्मद्विधानां दुष्टानां निर्लखानां च विप्रकृत् ॥ ११ ॥ १. प्रा० पा० सभ्य वासव्रताः। २. आधीने पाठे पार्वत्युवाच पाठो न ।स्कं. ६ अ. १७ लो. ९-१६] अनेकव्याख्यासमलङ्कृतम्- न वेद धर्म किल पद्मयोनिर्न ब्रह्मपुत्रा भृगुनारदाद्याः । न वै कुमारः कपिलो मनुश्च ये नो निषेधन्त्यतिवर्तिनं हरम् ॥ १२ ॥ एषामनुध्येयपदाब्जयुग्मं जगद्गुरुं मङ्गलमङ्गलं स्वयम् । “यः क्षत्रबन्धुः परिभूय सूरीन् प्रशास्ति धृष्टस्तदयं हि दण्ड्यः ॥ १३ ॥ नायमर्हति वैकुण्ठपादमूलोपसर्पणम् । सम्मावितिमतिः स्तब्धः साधुभिः पर्युपासितम् ॥ अतः पापीयसीं योनिमासुरीं याहि दुर्मते । यथेह भूयो महतां न कर्ता पुत्र किल्बिषम् ॥ श्रीशुक उवाच १४ ॥ १५ ॥ एवं शप्तश्चित्रकेतुर्विमानादवरुह्य सः । प्रसादयामास सतीं मूर्ध्ना नत्रेण भारत ।। १६. ॥ कृष्णप्रिया व्याख्या
- . ५२९ अन्वयः - नृप अगाधधीः भगवान् अपि तत् श्रुत्वा प्रहस्य सदसि तूष्णीं बभूव च सभ्याः तदनुत्रताः ॥ ९ ॥ * * अतद्वीर्यविदुषि इति बहु अशोभनम् ब्रुवाणे वृष्टाय निर्जितात्माभिमानिने देवी रुषा आह ॥ १० ॥ * अधुना लोके दण्डधरः प्रभुः अस्मद्विधानां निर्लज्जानां दुष्टानां विप्रकृत अयं शास्ता किम् ॥ ११ ॥ पद्मयोनिः किल धर्म न वेद भृगुनारदाद्याः ब्रह्मपुत्राः न वै कुमारः कपिलः च मनुः न ये अतिवर्तिनं हरं नो निषेधन्ति ।। १२ ।। * * शत्रबंधुः यः धृष्टः सूरीन् परिभूयः एषाम् अनुध्येयपदाब्जयुग्मं मंगलमंगलं जगद्गुरुं स्वयं प्रशास्ति तत् अयं हि दण्डयः ॥ १३ ॥ * * संभावितमतिः स्तब्धः साधुभिः पर्युपासितम् बैकुण्ठपादमूलोपसर्पणम् न अर्हति ॥ १४ ॥ पापीयसीम् आसुरी योनिं याहि यथा इह भूयः महतां किल्बिषम् न कर्ता ।। १५ ।। विमानात् अवरुह्य नत्रेण मूर्ध्ना सतीं प्रसादयामास ।। १६ ।। श्रीधरस्वामिविरचिता भावार्थदीपिका दुर्मते पुत्र अतः भारत एवं शप्तः सः चित्रकेतुः अगाधा गंभीरा धीर्यस्य स ॥ ९ ॥ * * न तस्य वीर्य प्रभावं विद्वानतद्वीर्यविद्वांस्तस्मिन् । निर्जितात्माभि- मानिने । जितेन्द्रियोऽहमित्यभिमानवते । इति रुषा क्रोधेनाह ।। १० ।। विरुद्धं प्रकर्षेण करोतीति विप्रकृत् ॥ ११ ॥ * * अतिवर्तिनं शास्त्रमतिक्रम्य वर्तनशीलं ये नो निषेधन्ति न निवारयति ।। १२ ।। एषां ब्रह्मादीनामनुध्येयं पदाब्जयुग्मं यस्य तम् । मंगलमंगलं परमधर्ममूर्तिम् । सूरीन्परिभूयाज्ञान्कृत्वा जगद्गुरुं यः प्रशास्ति तत्तस्मात् ॥ १३ ॥ * ननु हरि- भक्तोऽयं न दंडाई इति चेत्तत्राह । नायं साधुभिः परिषेवितं वैकुंठस्य पादमूलोपसर्पणमर्हति । यतः संभाविता अहमधिक इति कृता मतिर्येन । अत एव स्तब्धोऽनम्रः ॥ १४ ॥ तदेवं स्वयं दंड्यत्वं निश्चित्य तं प्राह । अत इति । हे पुत्र यथा भूयो महतां किल्बिषमपराधं न कर्ता न करिष्यसि तथा याहीत्यर्थः ।। १५-१६ ।। वंशीधरकृतो भावार्थदीपिकाप्रकाशः www :.
38 गंभीरा इयत्ताशून्या । तदभिप्रायानुसारेणैव तूष्णीं बभूवुस्तदनुत्रता इति भावः ॥ ६ ॥ वीर्यमत्र तादृशलोकचारि- त्रेणाच्छादितं यन्महाभागवतत्वं तदज्ञातरि । धृष्टायेति " क्रुधदुह – ” इत्यादिना चतुर्थी । इति वक्ष्यमाणम ॥ १० ॥ * * किञ्च स्त्रीनिमित्तासत्कारपरिहारः स्त्रियैव कार्य इति परमेश्वराभिप्रायं जानती सत्याह– अयमिति ।। ११-१२ ॥ मंगलानां कल्याणहेतूनां धर्माणां मंगलं रक्षकम् “कल्याणे मंगलं प्रोक्तं सर्वतो रक्षकेऽपि च " इति हलधरात् । सूरीन्सर्वज्ञा- न्ब्रह्मादीन् । विद्वदपमानकर्तृत्वात्सर्वथा दंडायमिति भावः ।। १३ ।। * * अत्राक्षिपति - नन्विति । पादमूले उप- सर्पणं प्राप्तिम् । अत एव संभावितमतित्वादेव ॥ १४ ॥ * * इत्यर्थ इति । तद्धितकरणात्पुत्रेति संबोधनं यथा माता बहिर्गच्छंतं बालं पुत्र बहिर्व्याघ्रोऽटति तत्र न गंतव्यमिति तं निवार्य तद्धितं करोति रुदंतं कंचित्कुमारं श्रुत्वा पीडितोऽयं । १. प्रा० पा० - दादयः । २. प्रा० पा० – कुमारो मुनिवृन्दवन्द्यो । ३. प्रा० पा० - यत् । ४. प्रा० पा० वित्तोऽतिसंस्तब्धः । ५. प्रा० पा० - कर्तामुत्र । ६७ ५३० श्रीमद्भागवतम् [ स्कं. ६. अ. १७ लो. ९-१६ व्याघ्रेणतोऽत्रैव क्रीडेति वदति च । इत्थं शापरूपभयप्रदर्शनेन पुनर्महद्वहेलनं करिष्यत्ययमित्यत स्तज्जन्यदुःखनिवारणकर्त्री- त्वेन हितकर्त्रीत्वात्तया युक्तमुक्तं पुत्रेति । यद्वा-जगन्मातृत्वान्मम भवतश्च जगदंतर्गतत्वान्मत्पुत्रोऽसि त्वमतस्तवैतत्कथनं सर्वथाऽनुचितं न हि पुत्रो दुश्चरिताया अपि मार्तुर्दुश्चरणं प्रकाशयतीति भावः । अत्र संदर्भस्तु तं भीतं मत्वा सकृपमाह- यथेति । एतदपराधबीजेन पुनस्तु पूर्ववन्महदपराधं न जनयिष्यतीति पुत्रेति ।। १५ ।। * * भारतेति । शुद्धकुलजानामयं स्वाभाविको धर्मो यथा भरतेन शकुंतलया विनैव श्रीकण्वानुज्ञा संकेतः कृतस्ततः सोऽपि प्रसादित इति भावः ।। १६ ।। अन्वितार्थप्रकाशिका और विमान
भगवानिति । हे नृप ! चित्रकेतोरभिप्रायज्ञानात् अगाधा गम्भीरा धीर्यस्य स भगवान् शिवोऽपि तस्य वचनं श्रुत्वा सदसि प्रहस्य तूष्णीं बभूव न तु कोषं चकार । न वा किञ्चिदुवाच । तस्य शिवस्यानुव्रताः सभ्याश्च तूष्णीं बभूवुः ।। ९ ।। * * इतीति । न तद्वीर्यं स्वातन्त्र्यं वेत्तीत्यतद्वीर्यं विद्वांस्तस्मिन् न हि स्वतन्त्र एवं शिक्षार्ह इति भावः । इति बह्वशोभनमीश्वर शिक्षा- लक्षणमनुचितं ब्रुवाणे सति निर्जितः आत्मा मनोमयेत्यभिमानवते धृष्टाय निःशङ्काय तस्मै देवी रुषा आह स्म । अत्र चित्रकेतोर- यमभिप्रायः अयं खलु ईश्वर एव नास्य दुराचारत्वेऽपि क्षतिः । यः खलु अस्येदृशमाचारं दृष्ट्वा इमं निन्दिष्यति तस्य पापोत्पत्त्या नाशो भविष्यत्येव । यथा दक्षस्य तस्मादद्यारभ्य मद्वचोभिरयं स्वस्य दुराचारमुत्सृजेत्तदा लोकस्य भद्रं स्यात् । श्रीशिवस्य च यशः स्यादिति श्रीशिवेन चास्याभिप्रायो ज्ञात एव तत्सभ्यैरपि तत्कृपया ज्ञात एवेति सर्वेऽपि क्रोधं न चक्रुः । सर्वज्ञाया देव्या अपि क्रोधो नाभूदेव किंतु शिक्षार्थमेव उपालम्भः शापश्च अत एव पुत्रेति सानुकम्पं संबोधनम् ॥ १० ॥ * * अयमिति । दण्डधरः प्रभुः समर्थः दुष्टानां निर्लज्जानां च अस्मद्विधानां शास्ता शिक्षकः विप्रकृत् विरुद्ध प्रकर्षेण करोतीति तथा दण्डेन हितकर्त्ताऽधुना लोके किमयमेव ।। ११ ।। * नेति । पद्मयोनिर्ब्रह्मा धर्म न वेद किल । न च ब्रह्मपुत्राद्याः मनुपर्यन्ताः धर्म विदुः । ये ब्रह्माद्याः अतिवर्त्तिनं शास्त्रमतिक्रम्य वर्त्तनशील हरं नो निषेधन्ति न निवारयन्ति ॥ १२ ॥ * * एषामिति । यः क्षत्रबन्धुः क्षत्रियाधमश्चित्रकेतुः सूरीन ब्रह्मादीन् परिभूय तिरस्कृत्य अज्ञान् मत्वा एषां ब्रह्मादीनामनु निरन्तरं ध्येयं पदाब्जयुग्मं यस्य तमत एव जगद्गुरुं सर्वपूज्यं मङ्गलमङ्गलं परमधर्ममूर्त्ति शिवं स्वयं दृष्टः सन् शास्ति तस्मादयमेव दण्डधः ॥ १३ ॥ * * नेति । संभाविता अहमुत्तम इति कृता मतिर्येन सः अत एव स्तब्धः अनत्रः अयं साधुभिः पर्युपासितं वैकुण्ठपादमूलोपसर्पणमस्मिन् जन्मनि नार्हति ॥ १४ ॥ अत इति । अतः हें दुर्मते ! हे पुत्र ! यथेह संसारे भूयो महतां किल्बिषमपराधं भवान् न कर्त्ता न मरिष्य तथा पापीयसीमासुरी योनिं याहि । पुत्रेऽतिदोषेऽपि स्वस्य हितकारित्वं द्योतयति ॥ १५ ॥ एवमिति । स्पष्टम् ।। १६ ।। । 1 वीरराघवव्याख्या । । ततस्तचित्रकेतोर्वचः श्रुत्वाऽपि भगवान् रुद्रः अगाधा गम्भीरा वीर्यस्य तादशोऽत एवं प्रहस्य तूष्णीं बभूव, हे नृप, तथा तं रुद्रमनुव्रतास्तदनुव्रताः सभ्याश्च तूष्णीं बभूवुः ॥ ९ ॥ अतद्वीर्यविदुषि न तस्य रुद्रस्य वीर्य प्रभाव ‘तेजीयसां न दोषाय’ इति न्यायेन तेजोविशेषं विद्वांस्तस्मिन् अतद्वीर्यविदुषि चित्रकेतौ इति इत्थं ब्रह्म ब्रह्मात्मकं शोभनं शिवं प्रति ब्रुवाणे सति देव्यंबिका निर्जितात्माभिमानिने जितेन्द्रियत्वाभिमानवतेऽत एव दुष्टाय चित्रकेतवे रुषा क्रोधेनोवाच ननु, तदनुत्रताः सभ्यास्तूष्णीं बभूवुः। कथं स । तमनुव्रता भवेति श्रुत्या तदनुव्रता देवी चित्रकेतुं शप्तवतीत्याशंक्य रुपेत्युक्तम् ॥ १० ॥ ** तदेवाह — अयमित्यादिना, किल्बिषमित्यन्तेन । तावत्तमुपालभते अयमिति द्वाभ्याम् । अयमधुना किमर्थमागत इति शेषः । अहोऽस्मान्दण्डयितुमधुनायमागत इत्युपालंभः तदेवाह, अहो निर्लज्जानामस्मद्विधानां दुष्टानामयं शास्ता, हिताहितयोर्विविच्य शापकः शासनातिवर्तित्वे दण्डधरः दण्डयिता प्रभुर्वण्डने समर्थश्चात एव विप्रकृत् दमनकारी ॥ ११ ॥ अहो पद्मयोन्यादयो धर्मं न विदन्ति यतस्तेऽतिवर्तिनं मर्यादातिवर्तिनं हरं रुद्रं नो निषेधन्ति न निषेधन्ति अयं त्वधुना निषेधति इत्युपालम्भः तत्र पद्मयोनिर्ब्रह्मा कुमारः सनत्कुमारः मनुः स्वायंभुवः ।। १२ ।। * * तमेवमुपालभ्यावश्यमयं निप्राह्य इत्याह – एषामिति द्वाभ्याम् । तावत्पतिपारम्यदृष्टया रुद्रं विशिनष्टि, एषां पद्मयोन्यादीनामनुध्येयं ध्यातुं योग्यं पदाब्जयुग्मं यस्य जगद्गुरुं जगद्धितोपदेष्टारं स्वयं साक्षान्मङ्गलानामपि मङ्गलम् ईदृशं हरं सूरीनृषींश्चायं क्षत्रियाधमः परिभूय यद्यस्मात्प्रशास्ति तत्तस्मादयं दुष्टो दुरात्मा दण्डय एव सूरीन्परिभूय जगद्गुरुं गिरिशं प्रशास्तीति वान्वयः ॥ १३ ॥ * * ननु, भगवद्भक्तोयं न दण्डय इत्यत्राह - नायमिति । साधुभिः परिसेवितं सत्कृतं यद्वैकुण्ठस्य भगवतः पादमूलस्य उपसर्पणमनुसरणं सेवेति यावत् तत्प्रति अयं क्षत्रबन्धुर्नार्हति कुतः ? यतोऽयं सम्भावितात्माऽहमधिक इत्यभिमानवती मतिर्यस्य सः अत एव स्तब्धः निश्चल इव स्थितः ।। १४ ।। * एवं दण्डयतामभिधायाथ शपति-अत इति । अतः भगवत्सेवानर्हत्वात् हे दुर्मते ! त्वमासूरीं कं. ६.अ. १७ श्लो. ९-१६] अनैकव्याख्यासमलङ्कृतम् पापीयसी योनिं याहि हे पुत्र, यथा भूयो महतां किल्बिषमपराधं न कर्ता न करिष्यसि तथा याहीति ।। १५ ।। भारत ! एवम् इत्थं शप्तः स चित्रकेतुर्विमानादवरुह्य सतीमम्बिकां नत्रेण मूर्ध्ना प्रसादयामास प्रसन्नामकरोत् ।। १६ ।। विजयध्वजतीर्थकृता पदरत्नावली ५३१ इदं श्वरस्येश्वरत्वं यदन्यैरसत्कारैः निर्विकारत्वमित्याशयेन गिरिशस्य क्षमाप्रकारं बक्ति- भगवानपीति । अगाध- धीरन्यैरज्ञातेयत्ता बुद्धिः ॥ ९ ॥ * स्त्रीनिमित्ताऽसत्कारपरिहारः स्त्रियैव कार्य इति परमेश्वराभिसन्धि जानती पार्वती प्रतिवक्ति - इतीति । वृष्टाय प्रगल्भाय निर्जित आत्माभिमानः आत्मदर्पो येन स तथा आत्मविज्ञानं वा येन स तथा तस्मै “अभिमानस्तु विज्ञाने प्रणये दर्प हिंसयोः” इति यादवः ।। १०-११ ।। अयं शापयोग्यापराध इति ज्ञापयितु- मित्यभिप्रेत्याह-न वेदेति । अतिवर्तिनम सम्प्रज्ञातसमाधित्वेन वर्तमानम् ।। १२ ।। * अनिषेधे कारणमाह- एषामिति । एषां ब्रह्मादीनां पते स्वावराणामिन्द्रादीनामनुध्येयं पदाब्जयुग्मं कुद्योगे षष्ठीयं नित्यसम्बन्धद्योतनाय वा तदवरा- णामित्याचार्यैर्व्याख्यातम् अत्र किमवलंब्योच्यत इति चेन्न — “विष्णुब्रह्मप्राणवीन्द्रास्तद्दारानप्यृते हरः । ध्येयो हरेः पार्षदाद्यैर्ध्या- यहरिचतुर्मुखौ । प्राणमेषां तथा दारान्न स्वतंत्रतया कचित्” इति वचनबलाश्रयणात् न तु ब्रह्मादीनामनुध्येयपदाब्जयुग्ममिति बहुप्रमाणविरोधात् अत एवास्माभिः शास्त्रार्थीसौ परोक्षत्वेन देवप्रियत्वाद्दुरवगाह इत्यभिहितं यस्मादयमपराधी तत्तस्मा- दण्डयः ।। १३ ।। * * किं दण्डमर्हतीति तत्राह - नायमिति । अनर्हत्वे कारणमाह-सम्भावितात्मेति ।। १४ ।। * * तदर्थ के उपाय इति तत्राह - अत इति । इह अमुत्र स्थितानाम् ।। १५ ।। * * शप्तस्य सद्भक्तस्य तदुपसत्तिप्रकारमाह- । * एवमिति ॥ १६ ॥ + जीवगोस्वामिकृतः क्रमसन्दर्भः । ॥ * तदनुत्रता इति । अतस्तदभिप्रायानुसारेणैव ते च तूष्णीं बभूवुरित्यर्थः ॥ ६ ॥ * * देवी तु न क्षन्तुं शक्तवती- त्याह-इतीति । वीर्य्यमत्तत्तादृशलौकिकचारित्रेणाच्छादितं मन्महाभागवतत्वं तदेव तथैवोक्तमगाधधीरिति ।। १०-१२ ।। * areer aratni अवज्ञां कृत्वेति पाठे तेषामिति शेषः । अज्ञान् कृत्वेति अज्ञान् मत्वेत्यर्थः ॥ १३ ॥ ततश्च तं भीतं मत्वा सपमाह-यथेति । एतदपराधबीजेन पुनस्तु पूर्ववन्महदपराधो न जनयिष्यत इत्यर्थः ।। १५-१६ ।। jite IEE Free Mrate विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी Di प्रहस्येति मामपि सदाचारे स्थापितुमिच्छतीति भावः, सहसैव चित्रकेतोरभिप्रायज्ञानादगाधा सर्वैर्दुष्प्रवेशा धीर्यस्य सः चित्रकेतोरभिप्रायश्चायं खल्वीश्वर एव नास्य दुराचारत्वेपि क्षतिः । यः खल्वनभिज्ञः इमं निन्दिष्यति तस्यापराधात् सर्व- नाशो भविष्यति तथा दक्षस्येत्यत इममद्यारभ्यापि यदि सदाचारे स्थापयितुमहं शक्नुयां तदा लोकानां भद्रं स्यात् । तथा विष्णुः परमेश्वरो भद्र एव सुचरितत्वात् । रुद्रस्त्वभद्रो दुराचारत्वादित्यप्रतिष्ठाप्यस्य न भवेदिति । तदस्मै हितैषिणे कठोर- भाषिणेऽपि हरिभक्ताय नाहं कुप्यामीति भगवतः शम्भोरभिप्रायानुसारिणः सभ्याश्च तूष्णीं बभूवुः न तु चुकुधुः शिवनिन्दनस्य तदभिप्रेतत्वे ते सभ्याः सद्य एव कर्णौ पिधाय ततो निरवास्यन्निति ज्ञेयम् । यदुक्तं “भगवन्निन्दनं श्रुत्वा तत्परस्य जनस्य वा " इत्यादि ॥ ६ ॥ * * न तस्य वीर्य्यं प्रभावं वेत्तीति तस्मिन् न हि स्वतन्त्र ईश्वरः कस्यचिदपि शिक्षया किमपि करोतीति भावः । अशोभनं ब्रुवाणे इति जगदीश्वरे नीतिशिक्षणाऽनौचित्यात् धृष्टाय निःशङ्कभाषित्वादतिप्रगल्भाय निःशेषेण जितो मया प्रेमवशीकृतः आत्मा परमात्मा सङ्कर्षणोपीत्यभिमानवते । रुषेति चित्रकेतुमहादेवयोरभिप्रायस्याऽज्ञानादेव रुडियमिति न व्याख्येया किन्तु बहुब्रुवाण इति हितमप्येतदस्मद्नुपादित्सितमयं नैकहान वारान् वापि त्रिचतुरान् किन्तु बहूनेव बारान् ब्रूते इति क्रोधे कारणं ज्ञेयम् ॥ १० ॥ विशेषेण प्रकर्ष करोतीति विप्रकृत शासनेन हितकृदित्यर्थः ।। ११-१२ ॥ परिभूय मुहुरपि कठोरोक्तथा तिरस्कृत्य सूरीन् एतत्सभासदोऽप्यनभिज्ञान् ज्ञात्वा परिभूय जगद्गुरुं प्रशास्ति ॥ १३ ॥ * * सम्भाविता अहं महाभक्त एत्यभिमानवती मतिर्यस्य सः ॥ १४ ॥ * * अभिशापानन्तरमेव अहो किं कृतं निरपराधो हरिभक्तः शप्त इति पश्चात्तापवती प्राह- हे पुत्रेति । माता यथा दुर्नयं पुत्रं स्वहस्तेन प्रहरति प्रकृत्यै पुनः स्त्रियति तथैव त्वामहं दण्डयामीति भावः । अत एव मातृसमुचितमेवाह-भूय इति । बाल्यक्रीडाचापल्येन परगृहविप्रियकारिणं शिशुं प्रहृत्य माता यथा ब्रूते हे अदान्त । पुनरेवं न करिष्यामीति तद्वदेवेत्यर्थः । अत एव भवान्याः सोऽभिशापश्चित्रकेतुं नापचकार प्रत्युत पुत्रजन्मनि प्रेमवृद्धिमेव प्राप । सत्यां प्रेमसम्पत्तौ मत्तानां पार्षद तत्वदैत्यतनुत्वयोरविशेषमननात् ।। १५-१६ ।। ५३२ श्रीमद्भागवतम् शुकदेवकृतः सिद्धांतप्रदीपः [ स्कं. ६ अ. १७ श्लो. ९-१६ तदनुमृताः सभ्याश्च तूष्णीं बभूवुः ॥ ९ ॥ * * अतद्वीर्यविदुषि अन्ये जलादौ मदनभयात्प्रविश्य तपोजपादिकं कुर्वाणा: मदनवश्या भवन्ति, शिवस्तु स्त्रियमुत्संगे विधायापि मदनवश्यो न भवतीत्यादि शिवप्रभावानभिज्ञे ॥ १० ॥ विरुद्ध प्रकर्षेण करोति तथा ॥ ११ ॥ * * पद्मयोन्यादयो धर्म न जानंति अतिवर्तिनं धर्म्ममुल्लंध्य वर्त्तमानं नोदिषेधन्ति न वारयन्ति अयं तेभ्योऽपि वृद्धः यतो हरं दुराचाराद्वारयतीति भावः ।। १२ ।। * * एषामित्यनेनास्मिन्नेव पुराणे शिवस्य पितृत्वेन वर्णितत्वाद्ब्रह्मणो व्यतिरिक्तानां ग्रहणम् एषां भृग्वादीनाम् अनुध्येयपदाब्जयुग्मं सूरीनभिभूय प्रशास्ति अतो धृष्टः अतो दंडचः ।। १३ ॥ सम्भावितमतिः गर्वितबुद्धिः वैकुण्ठस्य हरेः पादमूलोपसर्पणं नार्हति ॥ १४ ॥ किल्बिषमपराधम् ।। १५-१६ ।। न गोस्वामिगिरिधरलाल विहिता बालप्रबोधिनी मिष् भगवान् शिवोऽपि तस्य वचनं श्रुत्वा सदसि प्रहस्य तूष्णीं बभूव न कोपं चकार न वा किचिदुवाच । तस्य शिव- स्यानुव्रताः सभ्याश्च तूष्णीं बभूवुः । तूष्णीम्भावे कोपाभावे च हेतुमाह-अगाधधीरिति । अगाधा गम्भीरा पराभिप्रायावधारणे समर्था वीर्यस्य सः । अयं भावः - नायमज्ञानी मामज्ञात्वा निन्दति एष इत्यादिना प्राकृतदृष्टान्तेन चेश्वरत्वस्य अप्राकृतत्वस्य च स्पष्टतयोक्तत्वात् किन्त्वीश्वरस्य दोषाभावेऽप्येवं दृष्ट्वाऽन्येऽपि कुर्युरेनं निन्देयुर्वा तदा ते विनश्येयुरेवैति लोककल्याणार्थं विष्णुवत्सदाचार एव युक्त इत्यभिप्रायेण मामाक्षिपति तद्युक्तमेवेति विचार्य प्रहसन् तूष्णीं बभूवेति । क्षमासारा एव महान्त इति गले सर्पनिक्षिपेऽपि शमीकक्षमातस्त्वया ज्ञायत एवेति सूचयन् सम्बोधयति — हे नृपेति ॥ ९ ॥ * * इति बह्वशोभन- मीश्वर शिक्षालक्षणमनुचितं ब्रुवाणे सति वृष्टाय निश्शङ्काय तस्मै रुषा क्रोधेन देवी आहेत्यन्वयः । तथावचने अज्ञानमभिमानश्च हेतुद्रयमाह न तद्वीर्यं स्वातन्त्र्यं वेत्तीत्यतद्वीर्यविद्वांस्तस्मिन् न हि खतन्त्र एवं शिक्षाह इति भावः । निर्जितः आत्मा देहेन्द्रियादि- सङ्घातो मयेत्यभिमानवते ॥ १० ॥ पार्वतीवचनान्येव दर्शयति-अयमिति पञ्चभिः । दण्डधरः प्रभुः समर्थः अस्म-
द्विधानां शास्ता शिक्षकः विप्रकृत् विशेषेण प्रकर्ष करोतीति तथा दण्डेन हितकर्त्ताऽधुना लोके किमयमेवेत्यन्वयः । चकारोऽव- धारणार्थः । दण्डे हेतुमाह-दुष्टानां निर्लज्जानामिति ॥ ११ ॥ * * ननु मया धर्म विचार्यैवमुक्तमित्याशङ्कयाह — नेति । ननु केनोक्तं ते धर्म न जानन्तीति जानन्त्येव, तेऽपीति चेत्तदा ते कुतो न निषेधन्तीत्याह - अतिवर्त्तिनं शास्त्रमतिक्रम्य वर्त्तन- शीलं हरं ये नो निषेधन्ति न वारयन्ति । यदि हरोऽधर्मप्रवृत्तः स्यात्तदा तैरेव निवारितः स्यादिति भावः ॥ १२ ॥ * * अतो यस्मात् यः स्वयं क्षत्रबन्धुः सूरीन् सर्वज्ञान ब्रह्मादीन् परिभूय तिरस्कृत्य अज्ञान् मत्वा एषां ब्रह्मादीनामनु निरन्तरध्येयं पदाब्जयुग्मं यस्य तमत एव जगद्गुरुं सर्वपूज्यं मङ्गलमङ्गलं परमधर्ममूर्ति शास्ति तस्मादयमेव वृष्टो दण्ड्यश्च ।। १३ ।। ननु भगवद्भक्तोऽयं कथं दण्डार्ह इति चेत्तत्राह — नेति । वैकुण्ठपादमूलोपसर्पणमयमस्मिन् जन्मनि नार्हति । यतः सम्भाविता अहमुत्तम इति कृता मतिर्येन सः । अतएव स्तब्धः अनम्रः । तत्पादसेवाधिकारिणस्त्वेतद्विलक्षणाः सौशीलदैन्यादिगुणवन्त इत्याह – साधुभिः पर्युपासितमिति ॥ १४ ॥ * एवं विचार्य तं प्रत्याह- अत इति । दुष्टा अत्यहङ्कारवती मतिर्यस्य स तत्सम्बोधनम् । एतेनापराधित्वं सूचितम् । तव हितार्थमेवायं दण्डो मया वृत इति सूचयन्त्याह - हे पुत्र यथेह संसारो भूयो महतां किल्बिषमपराधं न कर्त्ता न करिष्यसि तथा याहीत्यर्थः ।। १५–१६॥ फ भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी भगवानिति । ततः सदसि तश्चित्रकेतोर्वचः श्रुत्वापि भगवान् महैश्वर्यः रुद्रः, अगाधा गम्भीरा धीर्यस्य तादृशः, अतः एवं प्रहस्य, तूष्णीं बभूव । हे नृप, तदनुव्रतास्तं रुद्रमनुव्रताः, सभ्याश्च तूष्णीं बभूवुः ।। ९ ।। * * इतीति । अतद्वीर्य- विदुषि रुद्रप्रभावमजानति, ‘तेजीयसां न दोषाय’ इति न्यायस्यावेदितरीत्यर्थः । बहु अतिशयितम् अशोभनमशोभाकरं, ब्रुवाणे एवंभूते चित्रकेतौ सतीत्यर्थः । देवी अम्बिका, निर्जितात्माभिमानिने जितेन्द्रियो ऽहमित्यभिमानवते, धृष्टाय प्रगल्भाय चित्रकेतवें, रुपा क्रोधेन, इति वक्ष्यमाणप्रकारेण आह उवाच ॥ १० ॥ तदेवाह अयमित्यादिना किल्बिषमित्यन्तेन । तत्र तावत्तमुपालभत द्वाभ्याम् । अयमिति । अयम् अधुना, अत्र किमर्थमागत इति शेषः । अहो अस्मान् दण्डयितुमयमधुनाऽऽगतः किमिति सोपालम्भमाह । अहो, निर्लज्जानाम् अस्मद्विधानां दुष्टानां लोके अयं शास्ता हिताहितयोर्विविच्य ज्ञापकः, किम् । शासनातिवर्त्तित्वे, दण्डधरः दण्डयिता, प्रभुरस्मद्दण्डविधाने समर्थश्च । अत एव विरुद्धं प्रकर्षेण करोतीति विप्रकृत् दमनकारी, * स्कं. ६ अ. १७ लो. १७-२४] अनेकव्याख्यासमलङ्कृतम् • । । * ५३३ कश्चिदयं जातः किमित्युपालम्भः ॥ ११ ॥ * * न वेदेति । पद्मयोनिर्ब्रह्मा, धर्मं न, वेद किल । भृगुनारदाद्याः ब्रह्मपुत्राः, धर्मं न विदुः किल । कुमारः सनत्कुमारः, कपिलः, मनुश्चापि न वै वेद । ये अतिवर्त्तिनं शास्त्रमतिलभ्य वर्त्तनशील, हरं नो निषेधन्ति । अयमधुना निषेधतेऽयमपर उपालम्भः ॥ १२ ॥ तमेवमुपालभ्यावश्यमयं निगृह्य इत्याह एषामिति द्वाभ्याम् । एषामिति । एषां पद्मयोन्यादीनाम्, अनुध्येयं पदाब्जयुग्मं यस्य तं जगद्गुरुं जगद्धितोपदेष्टारं स्वयं मङ्गलमङ्गलं मङ्गलानामपि मङ्गलतापादकं हरं, सूरीनृषींश्च योऽयं क्षत्रबन्धुः क्षत्रियाधमः, परिभूय अज्ञान् विधाय, प्रशास्ति । तत्तस्मात्, धृष्टो दुष्टः अयं दण्ड्यः हि । सूरीन परिभूय जगद्गुरुं प्रशास्तीति वान्वयः ॥ १३ ॥ * * ननु भगवद्भक्तोऽयं न दण्ड्य इत्यत्राह । नायमिति । साधुभिः पर्युपासितं संसेवितं सत्कृतमिति यावत् । वैकुण्ठस्य भगवतः पादमूलस्योपसर्पणमनुसरणं सेवां प्रतीति यावत् । अयं क्षत्रबन्धुः, न अर्हति । कुतः । यतः, संभाविता सर्वेभ्योऽहमधिक इत्यभिमानवती मतिर्यस्य सः, अत एव, स्तब्ध: अनम्रः, अतः नार्हति ॥ १४ ॥ * * किं तर्हि युक्तं तदाह । अत इति । अतः, भगवत् सेवा नर्ह त्वाद्धेतोः, हे दुर्मते, त्वं पापीयसीमतिपापरूपां आसुरीमसुरसंबन्धिनीं, योनिं याहि । हे पुत्र, यथा इह भूयः, महतां किल्बिषमपराधं न कर्त्ता न करिष्यसि । तथा याहि । इति शापेऽप्यनुग्रहः सूचितः ॥ १५ ॥ एवमिति । हे भारत, एवमित्थं शप्तः सः, चित्रकेतुः विमानात् अवरुह्य, सतीमम्बिकां, नत्रेण मूद् ध्ना प्रसादयामास प्रसन्नामकरोत् ॥ १६ ॥ भाषानुवादः seg * * श्रीशुकदेवजी कहते हैं- परीक्षित् ! भगवान् शङ्करकी बुद्धि अगाध है । चित्रकेतुका यह कटाक्ष सुनकर वे हँसने लगे, कुछ भी बोले नहीं । उस सभा में बैठे हुए उनके अनुयायी सदस्य भी चुप रहे । चित्रकेतुको भगवान् शङ्करका प्रभाव नहीं मालूम था । इसीसे वे उनके लिये बहुत कुछ बुरा-भला बक रहे थे । उन्हें इस बातका घमंड हो गया था कि ‘मैं जितेन्द्रिय हूँ ।’ पार्वतीजीने उनकी यह वृष्टता देखकर क्रोधसे कहा ॥ ६-१० ॥ ** पार्वतीजी बोलीं- अहो ! हम जैसे दुष्ट और निर्लज्जोंका दण्डके बलपर शासन एवं तिरस्कार करनेवाला प्रभु इस संसार में यही है क्या ? ।। ११ ।। जान पड़ता है कि ब्रह्माजी, भृगु, नारद आदि उनके पुत्र, सनकादि परमर्षि, कपिलदेव और मनु आदि बड़े-बड़े महापुरुष धर्मका रहस्य नहीं जानते । तभी तो वे धर्ममर्यादाका उल्लंघन करनेवाले भगवान् शिवको इस काम से नहीं रोकते ॥ १२ ॥ ब्रह्मा आदि समस्त महापुरुष जिनके चरणकमलोंका ध्यान करते रहते हैं, उन्हीं मङ्गलों को मगल बनानेवाले साक्षात् जगद्गुरु भगवान्का और उनके अनुयायी महात्माओंका इस अधम क्षत्रियने तिरस्कार किया है और शासन करनेकी चेष्टा की है। इसलिये यह ढीठ सर्वथा दण्डका पात्र है ॥ १३ ॥ * * इसे अपने बड़प्पनका घमंड है । यह मूर्ख भगवान् श्रीहरिके उन चरणकमलोंमें रहने योग्य नहीं है, जिनकी उपासना बड़े-बड़े सत्पुरुष किया करते हैं ॥ १४ ॥ * [ चित्रकेतुको सम्बोधनकर ] अतः दुर्मते ! तुम पापमय असुरयोनिमें जाओ । ऐसा होनेसे बेटा ! तुम फिर कभी किसी महापुरुषका अपराध नहीं कर सकोगे ॥ १५ ॥ * * श्रीशुकदेवजी कहते हैं—परीक्षित् ! जब पार्वतीजीने इस प्रकार चित्रकेतुको शाप दिया, तब वे विमान से उतर पड़े और सिर झुकाकर उन्हें प्रसन्न करने लगे ।। १६ ।। चित्रकेतुरुवाच ॥ प्रतिगृह्णामि ते शापमात्मनोऽञ्जलिनाम्बिके । देवैर्मर्त्याय यत्प्रोक्तं पूर्वदिष्टं हि तस्य तत् संसारचक्र एतस्मिञ्जन्तुरज्ञान मोहितः । भ्राम्यन् सुखं च दुःखं च भुङ्क्ते सर्वत्र सर्वदा ॥ नैवात्मा न परश्चापि कर्ता स्यात् सुखदुःखयोः । कर्तारं मन्यतेऽप्राज्ञ आत्मानं परमेव च गुणप्रवाह एतस्मिन् कः शापः को न्वनुग्रहः । कः स्वर्गो नरकः को वा किं सुखं दुःखमेव वा एकः सृजति भूतानि भगवानात्ममायया । एषां बन्धं च मोक्षं च सुखं दुःखं च निष्कलः ॥ न तस्य कश्चिद्दयितः प्रतीपो न ज्ञातिबन्धुर्न परो न च खः । समस्य सर्वत्र निरञ्जनस्य सुखे न रागः कुत एव रोषः ।। २२ ।। १७ ॥ १८ ॥ ॥ १९ ॥ ॥ २० ॥ २१ ॥ तथापि तच्छक्तिविसर्ग एषां सुखाय दुःखाय हिताहिताय । बन्धाय मोक्षाय च मृत्युजन्मनोः शरीरिणां संसृतयेऽवकल्पते ।। २३ ।। अथ प्रसादये न त्वां शापमोक्षाय भामिनि । यन्मन्यसे असा युक्तं मम तत्क्षम्यतां सति ।। २४ ॥ १. प्रा पा०-
- भ्रमन् । २. प्रा० पा० -कस्त्व० । ३. प्रा० पा०यितो न प्रती० ॥ ४. प्रा० पा० सर्वस्व । ५. प्रा० पा०–अतः। ५३४ श्रीमद्भागवतम् कृष्णप्रिया व्याख्या [ स्कं. ६ अ. १७ लो. १७-२४ निष्कलः एकः अन्वयः - अंबिके आत्मनः अञ्जलिना ते शापं प्रतिगृह्णामि देवैः मर्त्याय यत् प्रोक्तं तत् तस्य हि पूर्वदिष्टम् ॥ १७ ॥ अज्ञानमोहितः जन्तुः एतस्मिन् संसारचक्रे भ्राम्यन् सर्वत्र सर्वदा सुखं च दुःखं च भुङ्क्ते ॥ १८ ॥ आत्मा सुख- दुःखयोः कर्ता न एव स्यात् च परः अपि न अप्राज्ञः आत्मानं च परम् एव कर्तारं मन्यते ॥ १९ ॥ * एतस्मिन् गुणप्रवाहे शापः कः नु अनुग्रहः कः स्वर्गः कः वा नरकः कः सुखं किं वा दुःखं एव किम् ।। २० ।। भगवान् आत्ममायया भूतानि सृजति एषां बन्धं च मोक्षं च सुखं च दुःखम् एव वा ॥ २१ ॥ ॐ तस्य कश्चित् दयितः न प्रतीपः ज्ञातिबंधुः न परः च स्वः न सुखे रागः न रोषः कुतः एव ॥ २२ ॥ ॐ तथा अपि तच्छक्ति- विसर्गः एषां शरीरिणां सुखाय दुःखाय हिताहिताय बंधाय मोक्षाय च मृत्युजन्मनोः संसृतय अवकल्पते ।। २३ ।। * * भामिनि सति अथ शापमोक्षाय त्वां न प्रसादये यत् मम असाधूक्तं मन्यसे तत् क्षम्यताम् ॥ २४ ॥ ॥ श्रीधरस्वामिविरचिता भावार्थदीपिका PARTME । सर्वत्र समस्य निरञ्जनस्य
पूर्वदिष्टं प्राचीनकर्मप्राप्तमेव ।। १७ ।। * * अयं च संसारचक्रस्वभाव एव न चित्रमित्याह । संसारचक्र इति ॥ १८ ॥ अत एवात्र मम च न कोऽपि दोष इत्याह । नैवेति ॥ १६ ॥ * * एवं तावत्सुखदुःखादिकमंगीकृत्योक्तमिदानीं तदपि वस्तुतो नास्तीत्याह । गुणानां मायामयानां प्रवाहे संसारे ।। २० ।। * * ननु मायागुणानां चेदयं प्रवाहस्तर्हि तेषां जडत्वाद्बंधमोक्षाद्यनुभवो न स्यात्तत्राह । एकः परमेश्वरो मायया निमित्तभूतया भूतानि प्राणिनः सृजति । एषां बंधादिकं च सृजति । निष्कलः स्वयं बंधादिशून्यः ॥ २१ ॥ * * नन्वेवंभूतविषमसृष्टौ तस्य किं कारणं प्रियादिवैषम्याभावादि- त्याशंक्य यद्यपि प्रियादयो न संति तथापि तत्तत्कर्मवशात्सव घटत इत्याह न तस्येति द्वाभ्याम् । प्रतीपोऽप्रियः न ज्ञाति- बन्धुश्चेत्यर्थः । तत्र हेतुः । सर्वत्र समस्य । तत्कुतः निरंजनस्य निःसंगस्य । अत एव तन्निमित्ते सुखे रागो नास्ति रागानुबंधी रोषः कुतः स्यात् ॥ २२ ॥ * * यद्यप्येवं तथाऽपि तस्य शक्त्या मायया यो विसर्गः पुण्यपापादिलक्षणं कर्म एषां शरीरिणां सुखाद्यर्थमवकल्पते समर्थो भवति । यथोक्तं गीतासु । “भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः । " इति ॥ २३ ॥ * * अथ तस्माद्भामिनि हे कोपने त्वां केवलं प्रसादयामि न तु शापमोक्षाय । तर्हि कि प्रसादनेनात आह । ममोक्तमुक्ति साध्वप्यसाधु बन्मन्यसे तत्त्वया क्षम्यताम् ।। २४ ।। 1 वंशीधरकृतो भावार्थदीपिकाप्रकाशः । ।। । । अंबिके इति । मातृदत्तवस्तुनो अलिनैव प्रहृणमुचितमिति भावः । नात्र मम दोषोऽस्ति पूर्वदिष्टेनैव ममैषा बुद्धि- जतेिति भावः यद्वा-तवाप्यत्र दोषो नास्ति पुरुषस्य यत्प्राक्तनं कर्म तद्वशेनैव देवा वदति शुभाशुभमिति भावः ॥ १७ ॥ * * अयं च सुखदुःखादिलक्षणः । सर्वत्र जन्मसु ॥ १८ ॥ * अत एव सुखदुःखयोः संसारचक्रस्वभावत्वादेव | प्रकर्षेणाज्ञः प्राज्ञः । यद्वा-प्रकृष्टः अः वासुदेवः तं जानातीति प्राज्ञः श्रीहरितत्त्वज्ञः । परमात्मानं श्रीहरिमेव कारणं मन्यते “अप्रतयद- निर्देश्यादिति केष्वपि निश्चयः” इति परीक्षितं प्रति धर्मोक्तेः ॥ १९ ॥ * * तदपि सुखाद्यपि । विचारे क्रियमाणे वस्तुतोऽसंगस्यात्मनो न शापादिस्पर्शोस्ति तेषां मायिकत्वादिति भावः ॥ २० ॥ * * अत्राक्षिपति - नन्विति ।। २१ ।। पुनराक्षिपति - नन्विति । एवंभूतविषमसृष्टौ सुखदुःखादियुक्तविषमसृष्टिकरणे । तस्य हरेः । इत्यर्थ इति । ज्ञात्या सहितो बंधुरिति समासोऽत्र कार्य इति भावः । तंत्र दयितत्वाद्यभावे । तत्सर्वत्र समत्वम् । अत एव निःसंगत्वादेव । तन्निमित्ते प्रियत्वादिहेतुके । रागानुबंधी यत्र रागोस्ति तत्रैव कदाचित्किचिद्वैषम्याद्रोषस्यावश्यंभावित्वमेव ‘कामात्क्रोधोऽभिजायते’ इत्याद्युक्तेः ।। २२ ।। यद्यप्येवं विशेषतो रागादि नास्ति कम्मैव सुखादिहेतुरत्र प्रमाणमाह- तदुक्तमिति । भूतानां भवनधर्मकाणां सर्वेषां स्थावर- जंगमानां भावमुत्पत्तिमुद्भवं वृद्धिं च करोति यो विसर्गस्यागस्तत्तच्छास्त्रविहितो यागहोमात्मकः स इह कर्मसंज्ञितः कर्मशब्देनोक्त इति यावत् । तत्र देवतोद्देशेन द्रव्यत्यागो याग उत्तिष्ठद्धोमो वषट्कारप्रयोगांतः स एव उपविष्टहोमः स्वाहाकारप्रयोगांतः आसेचनपर्यंतो होमः परस्वत्वापत्तिपर्यतः स्वस्वत्वत्यागो दानं सर्वत्र च त्यागांशानुगतः तस्य च भूतभावोद्भवकरत्वम् “अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरनं ततः प्रजाः ।” इति स्मृतेः । “ते वा एते आहुती हुते उत्क्रामतः " इत्यादिश्रुतेश्च । उत्क्रामत आदित्यं प्राप्नुत इत्यर्थः ॥ २३ ॥ * भामिनीति | सत्यवचने क्रोधो न युक्त इति भावः । अत्रा " एङ: पदांतादति” इत्यस्य बाधः । हे सतीति । क्रोधिनो दक्षस्य पुत्र्या उचितमेवैतदिति भावः । यद्वा-न हि साध्वी- नामेतदुचितमिति भावः । ‘सती साध्वी पतिव्रता’ इत्यमरः ।। २४ । * स्क. ६ अ. १७ लो. १७-२४] अनेकव्याख्यासमलङ्कृतम् अन्वितार्थ प्रकाशिका * प्रतिगृह्णामीति । हे अम्बिके ! ते तत्र शापमहमात्मनोऽञ्जलिना प्रतिगृह्णामि । हि यस्मात् देवैर्मर्त्याय यत्सुखं दुःखं वा प्रोक्तं तत्तस्य पूर्वदिष्टं प्राचीनकर्मप्राप्तमेव ।। १७ ।। -* * संसारेति । अज्ञानमोहितो जन्तुर्जीव एतस्मिन् संसारचक्रे भ्राम्यन् सर्वदा सर्वकाले सर्वत्र देशे च सुखं च दुःखं च मुक्त एव अतोऽत्र मम तव च दोषो नास्ति ॥ १८ ॥ नेति । अत्र संसारे सुखदुःखयोः कर्त्ता आत्मा स्वयं न स्यात् तथा परः मित्रशत्रुप्रभृतिरपि न स्यात् । अप्राज्ञः अतिमूर्ख एव जनः आत्मानं परं च सुखदुःखयोः कर्त्तारं मन्यते ॥ १९ ॥ गुणेति । वस्तुतः मायागुणानां प्रवाहरूपेऽत्र संसारे कः शापानुग्रहादि ॥ २० ॥ एक इति । निष्कलः शुद्धः एकः असहाय एव भगवान् आत्ममायया निजशक्ति- ।। ।। * । रूपया भूतानि प्राणिनः सृजति एषां प्राणिनां बन्धमोक्षादिकं च सृजति तत्र मायांशभूतया अविद्यया बन्धः विद्यया च मोक्षः सत्त्वेन सुखं तमसा च दुःखमिति विवेकः ॥ २१ ॥ नेति । सर्वत्र समस्य निरञ्जनस्य अविद्यारहितस्य भगवतः कश्चिदिति पदद्वयस्य सर्वत्रान्वयः । दयितः प्रियो नास्ति प्रतीपोऽप्रियः शत्रुर्नास्ति ज्ञातिः सपिण्डो नास्ति बन्धुर्विवाहादिना संबन्धी नास्ति परः परकीयो नास्ति स्वः स्वकीयो नास्ति अत एव तन्निमित्ते सुखे रागो नास्ति । रोषस्य तु रागपूर्वकत्वनिय- मात्तदभावे स कुतः स्यात् ।। २२ ।। तथापीति । यद्यप्येवं तथापि तस्य शक्त्या मायया यो विसर्गः पुण्यपापादि- लक्षणं कर्म स एषां शरीरिणां सुखादिजन्मान्तार्थमवकल्पते समर्था भवति । मृत्युजन्मनोरिति चतुर्थ्यर्थे षष्ठी । मृत्यवे जन्मने च ॥ २३ ॥ * * अथेति । हे भामिनि कोपने ! हे सति ! अथ तस्मात् सुखदुःखयोः स्वकर्माधीनत्वात् त्वां केवलं प्रसादये न तु शापमोक्षाय लोकमर्यादारक्षणहेतुत्वान्ममोक्तं साध्वपि यत्त्वमसाधु मन्यसे तत्त्वया क्षम्यताम् ॥ २४ ॥ H वीरराघवव्याख्या तदेवाह - प्रतिगृह्णामीत्यादिना, क्षम्यतां सतीत्यन्तेन । तावत्तवेव मम रोषो नास्तीति सूचयन् शापं स्वीकरोमीत्याह - प्रतिगृह्णामीति । है अम्बिके ! ते त्वया दत्तं शापमात्मनोऽञ्जलिना प्रतिगृह्णाम्यंजलि बन्वपूर्वकं स्वीकरोमि मयि महाननुग्रहस्त्वया । aar कृतो न तु निग्रह इति भावः । तदेव स्पष्टयति — देवैरिति । देवैर्यद्यत्प्रोक्तं निग्रहरूपमनुग्रहरूपं वा तत्सर्व मैत्रयैव प्रोक्तं, कुतः ? हि यस्मात्तदेवैः प्रोक्तं तस्य निमाह्यस्यानुप्राह्यस्य वा जन्तोः पूर्वदिष्टं प्राचीनकर्मप्रयुक्तं मोक्षविरोधिप्राचीनकर्मणा एवं भ्राम्यतो नितरां मुमुक्षोर्ममाशु तद्विरोधिप्राचीन कर्मफलरूपत्वाच्चापानुभवेन निःशेषनिरस्त कर्मबन्धस्य भगवत्प्राप्त्या नित्यनिरतिशयान- न्दरूपमहाभ्युदयलाभात्त्वयानुग्रह एव कृत इति भावः ॥ १७ ॥ * * एतदेव स्फुटयितुं तावज्जन्तूनां कर्मभिर्भ्रमणमाह- संसारचक्र इति । एतस्मिंश्चक्रवत्परिवृत्तिशीले गर्भजन्मजरामरणादिरूपे संसारे अज्ञानेन ज्ञानेतरेणानादिपुण्यपापात्मकेन कर्मणा मोहितः स्वात्मपरमात्मयाथात्म्यज्ञानरहितः केवलदेहात्माभिमानी जन्तुर्भ्राम्यन्पुनः पूर्वपूर्वं वासनानुरूपाण्युत्तरोत्तरसुखदु:खा- दिहेतुभूतानि कर्माणि कुर्वन् तत्फलं सुखं दुःखञ्च मुक्त एतन्न केवलमन्येषामेव जन्तूनां, किन्तु तवापीत्याशयेनाह — सर्वस्य सर्वदेति । सर्वस्यान्यस्य तव मम च सर्वदा यावण्मुक्ति एतत्समानमिति भावः, अन्यथा मत्कृतहेलनात्तवानादिकर्मप्रयुक्तदेहा- त्माभिमानमूलक: क्रोध एव न स्यादिति तात्पर्यम् ॥ १८ ॥ * * यत एव सत्कारन्यक्कारसुखदुःखादिकं सर्वमनादिक- र्मनिमित्तमत एव त्वत्तिरस्कत्तु मम मां शपन्त्यास्तव च न दोष इत्याह- नैवेति । सुखदुःखयोः कर्ता कारकः सुखदुःखापादक इत्यर्थः । आत्मा स्वयं परोऽन्यश्च न स्यान्न भवति, किन्तु तयोः कर्मैव निमित्तमिति भावः, कर्मणः क्षणिकत्वाज्जडत्वाच्च कथं तत् कालान्तरभावि सुखदुःखनिमित्तं ? तत्राह - कर्तारमिति । प्राज्ञः पुण्यपापयाथात्म्यवित् परमात्मानं परमपुरुषमेव सुखदुःखयोः कर्त्तारं मन्यते, अयं भावः, पुण्यपापे हि परमात्मनो निग्रहानुग्रहरूपे, तत्र श्रुतिस्मृत्याद्यात्मकशास्त्रार्थानुवर्त्तिन्य- नुग्रहः परमपुरुषस्य, स एव हि पुण्यं नाम, अननुवत्तिनि तु निग्रहः, स एव हि पापं, एवञ्च परमपुरुष एव स्वशास्त्रानुवृत्यननु- वृत्तिनिमित्तानुग्रहनिग्रहरूपपुण्यपापफलभूतयोः सुखदुःखयोः कर्तेति ॥ १९ ॥ एवं वैषयिकसुखदुःखयोः पुरुषार्थ- त्वापुरुषार्थत्वाभ्युपगमेन कर्मानुसारेणेश्वर सत्कर्तेत्युक्तम्, इदानीं वैषयिकसुखं विषमिश्र क्षीरवदन्ततो दुःखहेतुत्वादपुरुषार्थ- रूपमेवेत्याह- गुणप्रवाह इति । गुणानां प्रकृतेर्गुणानां सत्त्वरजस्तमसां प्रवाहरूपे परिणामरूपे एतस्मिन् प्रकृतिमण्डले जन्तूनां, कः शापः ? को वानुग्रहः ? उभयोर्वैलक्षण्यमेव दुर्वचमेवेति भावः; ननु, न दुर्वचन्तयोः स्वरूपं स्वर्गहेतुरनुग्रहः नरकहेतुर्निग्रह इति सुवचमेवेत्यत्राह - — कः स्वर्गो नरकः को वेति स्वर्गनरकयोरपि स्वरूपं दुर्वचमेवेति भावः । ननु, स्वर्गः सुखं दुःखं नरकमिति सुवचमित्यत्राह - किं सुखं दुःखमेव वेति, तदप्यव्यवस्थितमित्यर्थः । स्वर्गस्य सुखरूपत्वे तस्य दुःखगर्भत्वं न स्यात् नरकस्य दुःखरूपत्वे वा तस्य सुखगर्भता न स्यात् स्वर्गोप्यन्ततो दुःखहेतुः नरकोऽप्यन्ततः किञ्चित्सुखहेतुर्दृष्टः अत उभयोरुभय- गर्भत्वात् न परस्परस्य व्यवस्थितिरिति भावः । शापनरकदुःखानि दृष्टान्तार्थतया उपात्तानि यथा, तेषु पुरुषार्थत्वं तद्धेतुत्वञ्च नास्ति तथानुग्रहः स्वर्गसुखेष्वित्यर्थः ॥ २० ॥ * नन्वेवंविधसुखदुःखभाजि भूतानि किम कस्मात्स्वयमेवोत्पद्यन्ते ? * ५३६
श्रीमद्भागवतम् [ स्कं. ६ अ. १७ लो. १७-२४ नेत्याह—एक इति । भगवान्निरस्तनिखिल दोष: षाड्गुण्यपूर्णः परमपुरुषः आत्मनः स्वस्य मायया स्वयमेक: निस्समाभ्यधिकः स्वसमाभ्यधिककर्त्रन्तरोपकरणान्तरनिरपेक्ष एव भूतानि देवमनुष्यादीनि चिदचिदात्मकानि आप्तम्बपर्यन्तानि सृजति, न तु तान्यकस्मादुत्पद्यन्त इति भावः तर्हि किं कुलालादिवत्कर्मायत्तदेही भगवान् ? नेत्याह - निष्कलः कर्मायत्तपाणिपादाद्यव- यवात्मकदेहरहितः, तस्य वैषम्यनैर्घृण्यादिदोषपरिहाराय भूतानि विशिनष्टि — येषामिति, येषां भूतानां स्वस्वकर्मानुगुणबन्ध- मोक्षादिकं भवति तानि सृजतीत्यन्वयः, बन्धमोक्षमिति द्वितीयान्तपाठे येषां भूतानां तत्तत्कर्मानुसारेण बन्धादिकञ्च सृजति, स एव तानि भूतान्यपि सृजति, न ततोऽस्य वैषम्यादिदोष इत्यर्थः एषामितीदशब्दपाठे बन्धमित्यादीनाञ्च द्वितीयान्तपाठे तु सृष्टानामेतेषां भूतानां तत्तत्कर्मानुसारेण बन्धादिकमपि सृजतीत्यर्थः । एवं बन्धादिकं देवमनुष्यादिवैचित्र्यञ्च तत्तज्जीवकर्मा- नुसारेण तेषां तेषामीश्वरकृतमौपाधिकं न स्वरूपप्रयुक्तमित्युक्तं भवतीत्यर्थः ॥ २१ ॥ कीदृशं तर्हि जीवस्य स्वरूपं ? कुतस्तस्य कर्म ? यतो देवादिवैचित्र्यं बन्धादिकं चेत्यपेक्षायामाह - न कस्येति । वस्तुतः कस्यापि जीवस्य कश्चिदपि दयिता- दिर्नास्ति, कुतः ? सर्वत्र देवादिशरीरेषु समस्य समत्वेनावस्थितस्य ज्ञानैकाकारतया ज्ञानानन्दस्वरूपत्वेन चावस्थितस्येत्यर्थः । परस्परतारतम्ये हि प्रियाप्रियादिविभागः सर्वेषामात्मनामेकरूपत्वान्न स्वरूपकृतः प्रियाप्रियादिविभाग इति भावः । ननु, देवादिरूपेण वैचित्र्यात्कथं समत्वम् ? तत्राह - निरञ्जनस्येति । अञ्जनं रूपान्तरापत्तिः तद्रहितस्य देवादिवैचित्र्यस्य प्रकृतिगत- त्वाज्जीवस्वरूपगतत्वाभावात्स सर्वत्र सम इति भावः; यत एव समो निरञ्जनश्च, अत एव तस्य वैषयिकसुखे न रागः नासक्तिः सुखैकतानस्वरूपत्वेन वैषयिकसुखलेशे न तस्य राग इति भावः यत एव सुखे न तस्य रागः कुतस्तराम् ? तस्य वैषयिकसुख- लाभप्रतिबन्धकविषयो रोषः स्यादित्यर्थः । तत्र दयितः प्रीतिविषयः अनुकूल इति यावत् प्रतीपः प्रतिकूलः ज्ञातिः सपिण्डः बन्धुवैवाहिकादिसम्बन्धवान् परोऽन्यदीयः स्वः स्वकीयः ॥ २२ ॥ * एवं प्रकृतिविलक्षणं स्वाभाविक जीवस्वरूपमुक्त- मथैवंभूतस्य दैवादिवैचित्र्यं बन्धादिकं चोपपादयति - तथापीति । यद्यप्येवंभूता जीवाः तथाप्येषां शरीरिणां जीवानां तच्छक्ति- त्रिसर्ग एव तस्य तज्जीवसम्बन्धिकर्मणो या शक्तिर्वासनारूपा शक्तिः तस्या विसर्गः सृष्टिरुत्तरोत्तरकर्मैव सुखादिरूपसंसृतये मोक्षाय चावकल्पते समर्थ भवति तन्निमित्तमित्यर्थः, अयं भावः, स्वभावतः पूर्वोक्तविधानामपि बीजाङ्कुरन्यायेनादिकर्मवासना- मात्रावशेषिनां कल्पान्ते परमात्मन्युपसंहृतानां पुनः कल्पादौ परमकारुणिकेनेश्वरेण स्वाराधनेनैते निस्तरेयुरित्यनुजिघृक्षुणा प्रदत्तकरणकलेवरधर्मार्थकाममोक्षरूपपुरुषार्थं चतुष्टयतत्साधना ववोधिवेदाख्यशास्त्राणामप्यनादिवासनया “अन्नं भोज्यं मनुष्याणां, श्वपशूविट्तृणाहारौ” इत्याद्युक्तरीत्या ईहमानानां पुण्यपापरूपकर्मोपनिपाततत्फलानुभवपुनस्तदर्थ कर्मोपनिपात तत्फलानुभवादि- परंपरया सर्वमुपपन्नमिति, तत्र हिताहिताय सुखदुःखहेतुभूतधर्माधर्माय मृत्युजन्मनोः जन्ममरणाभ्यामित्यर्थः । तादर्थ्यस्य बन्धसामान्यत्वेन विवक्षया षष्ठी प्रयुक्ता मोक्षाय च तच्छक्तिविसर्ग एवावकल्पत इत्यनेन भगवत्प्रसादहेतुः कश्चिद्यादृच्छिकानु- षङ्गिकप्प्रासंगिकाद्यन्यतमः पुण्यपापकर्मविशेष एव मोक्षोपायोपसंहारहेतुरिति सूचितम् ॥ २३ ॥ * * एवं वस्तुस्थितिमभिधाय त्वच्छापोऽनुग्रह एवेति वदन् स्वापराधं प्रतिक्षमापयति-अत इति । अतः वस्तुस्थितेरेवंविधत्वात्, हे भामिनि, शापनिर्हरणाय त्वां न प्रसादये न प्रार्थये, किन्तु हे सति, मम मया यदुक्तमसाधु यथा तथा मन्यसे तत् क्षम्यतामिति त्वां प्रसादये ।। २४ । विजयध्वजतीर्थकृता पदरत्नावली पूर्वदिष्टं पूर्वजन्मनि यत्पुण्यपापलक्षणं कर्म देवैर्मनुष्याय यत्प्रोक्तं विहितं तस्य मर्त्यस्य तत्कर्म ह्येव सुखदुःखयो: कारण- मिति शेषः ।। १७ ।। * तदेव विशिनष्टि - संसार इति । सर्वत्र जन्मसु ॥ १८ ॥ * * ननु, सुखदुःखोत्पत्तौ
- विशिनष्टि-संसार । किं भोक्ता कारणमुतेतर इत्याशंक्य “यत्तद्भगवता क्लृप्तं तदेव नियतं कर्म कारणं ज्ञाना मन्यते तत्राज्ञानी स्वमन्यं वा मन्यत इत्याह-नैवेति । आत्मा स्वयं परः स्वस्मादितर: अं हरिं जानातीत्यज्ञः श्रीहरितत्त्वज्ञः परमात्मानमेव मन्यत इति च योजनाऽवगन्तव्या " यत्तद्भगवत्ता क्लृप्तं तदेव नियतं भवेत्” इति वचनात् ॥ १६ ॥ * * यत एवं श्रीहरिणा क्लममायातीत्यतः शापादिप्राप्तौ दुःखादिकं न कार्यमित्याह – गुणेति । गुणप्रवाहे संसारे शापादेः श्रीहरीच्छाधीन- प्राचीन सुकृतदुष्कृतयोः कारणत्वात्स्वर्गस्य चानित्याल्पसुखत्वान्नरकस्य किंचिद्भुक्त्वा क्षपणसंभवात् सुखादेश्चाल्पत्वादनित्यत्वाचं, तदुक्तम् - " अतोन्येषां वरः शापो गुणदोष: प्रकर्तृता । स्वतः प्राप्ता भेदकृतिर्वासनारूपिणो यथा ॥ विद्यमानस्य मनसि पुनः स्वप्ने दर्शनम् । भगवद्वशता यस्मात्सर्वेषां ज्ञेयमेव तत्” इति । स्वतः स्वतंत्राद्धरेः प्राप्ताकरणो भेदकृतिर्दृश्यत इति शेषः । अनेनै- तदुक्तं भवति, मनसि विद्यमानस्य वासनारूपिणो वस्तुनः स्वप्ने यथा दर्शनं तथा परादनित्यसुखादिदर्शनं स्यात् न चैतत्सर्वं स्वाधीनं किं तु हरीच्छाधीनमिति ।। २० ।। * * ननु, हरीच्छादिनियतत्वं शापादेः कस्मात्कल्प्यत इति तत्राह - एक इति । कर्मादिसत्तापीशेच्छाधीनेति सूचनायैक इति आत्ममाययेत्यनेनानन्यनियत इति सूचितम् ॥ २१ ॥ समत्वं च स्वभक्तसेवानतिरेकेण फलदातृत्वं शत्रोरप्यपराधानतिरेकेण दण्डकरणत्वं सेवा योग्यातिरेकेण स्वानामपि न दास्यति अपराधातिरेकेण नान्यस्यातः समो हरिः” इति वचनात् ।। २२ ।। * * यद्यपि विशेषतोऽनुरागादिकं नास्ति तथापि तस्य 1 हरेः स्कं. ६ अ. १७ श्लो. १७-२४] अनेकव्याख्यासमलङ्कृतम् ५३७ हरेः शक्तेर्विसर्गो विशिष्टस्य भाव एषां जीवानां सुखाद्यर्थे कल्पत इत्यन्वयः । यद्यपि भगवानेव मुख्यकर्ता तथापि तेषां पूर्वकर्मणा शक्तीनां विविधसर्गः समूहो येषां शरीरिणामिति वा ॥ २३ ॥ * * अथ तस्मादीश्वराधीनत्वात् तर्हि किमाकांक्षसीति तत्राह यदिति ।। २४-२६ ।। जीवगोस्वामिकृतः क्रमसंदर्भ: पूर्वदिष्टं हीति पूर्वादिष्टनैव हि ममैषा बुद्धिर्जातेति । ननु, केवलगुणहेतुत्वे चेतनं कर्त्तारं विना बन्धमोक्षादिकं जीवानां न स्यात्, तत्राह – एक इति ।। १७- २३ ॥ यद्यपि मन्यसे अनुगृह्णासि तत्तदा मम असाधूक्तं क्षम्यताम् ।। २४-२६ ॥
विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी J " प्रतिगृह्णामीति ममानेन शापेन कापि क्षतिर्न भविष्यति महादेवे त्वय्यकृतापराधत्वादिति भावः, निरागस्काय मह्यं शप्तवत्यास्तवापि नात्र कोपि दोष इत्याह देवैरिति । पूर्वदिष्टं प्राचीनकर्म प्राप्तमिति भक्तस्य तस्य स्वस्मिंस्तथा भावना दैन्येन समुचितैव वस्तुतस्तु जातप्रेम्ण तस्य कुतः कर्मबन्धोऽपि प्रेमपूर्वदशायामेव “क्षीयन्ते चास्य कर्माणि मयि दृष्टेऽखिलात्मनि” इत्यादिना सर्वकर्मक्षयोक्तः । हरेर्भक्तवश्यत्वप्रसिद्धिर्भक्तानां कर्माधीनत्वे सति न सिद्धयेत् नहि स्वयं कर्माधीनो भगवन्तमधीनमयं वशीकुर्य्यादिति, ततश्च तस्य शापानुग्रहस्वर्गापवर्गनरकादि समदर्शित्वमहाबलख्यापनार्थं विद्याधराधिपत्य- कुपथ्यदूरीकरणार्थं स्वविरहोष्मणा प्रेमक्षुद्विवर्द्धनार्थं स्वीयवैकुण्ठगतस्वचरण साक्षात् सेवा महामाधुर्य्यभोग प्रदानार्थं च स्वेनैवान्तः- प्रेरितया देव्याऽभिशापः श्रीसङ्कर्षणदेवेनैव भगवता स्नेहवता पित्रेव कारित इति तत्त्वं तत्तत्फलदर्शनादवगतम् ॥ १७ ॥ अयश्च संसारचक्रस्वभाव एव न चित्रम् इत्याह - संसारेति ॥ १८ ॥ चित्रम् इत्याह-संसारेति ।। १८ ।। * अप्राज्ञो ऽविवेकी ।। १९ ।। ** अप्राज्ञोऽविवेकी * एवं तावत् सुखदुःखादिकमङ्गीकृत्योक्तम् । इदानीन्तु लवणाकरे पतितः सर्वो लवणरस इव संसारे सर्व एव पदार्थः संसार इति सुखदुःखादिभेदावगमो नोपपद्यत इत्याह-गुणप्रवाह इति । न ह्यतलस्पर्शप्रवाहमध्ये पतितस्य यावत्तटानवाप्तिः तावत् किमपि वस्तुनः सुखायेत्यतः शापानुग्रहादिकं सर्वमति दुःखमेवेति भावः ॥ २० ॥ ननु, तर्ह्यत्र गुणप्रवाहे को वा पातयिता ? को वास्मादुद्धर्ता ? इति चेद्भगवानेवेत्याह-एक इति । आत्ममायया रजसा सृजति, सत्त्वेन पालयति, तमसा संहरति, एपी बन्धनाविद्यया सृजति, विद्यया मोक्षञ्च, सत्त्वेन सुखं, तमसा दुःख, निष्कलः कला माया तद्रहितः ।। २१ ।। ननु, तस्य कश्चित् प्रियोऽप्रियश्च जीवोऽवश्यं वर्त्तत एव यतः कमपि बध्नाति कमपि मोचयति कमपि दुःखयति कमपि सुखयतीत्यत आह-नेति । न ज्ञातिर्न बन्धुः तत्र हेतुः सर्वत्र समस्य समत्वे हेतुः निरञ्जनस्य अञ्जनं माया तद्रहितस्य अतएव सुखे विषयसुखे राग आसक्तिर्नास्ति विषयसुखप्रातिकूल्ये रोषो द्वेषः कुतः स्यात् यदुक्तम् “इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ ” इति अतएव रागद्वेषमूलकौ दयितप्रतीपौ तस्य न स्त इति भावः ।। २२ ।। * * एवं तस्य साम्यचेत्तर्हि कथं कमपि स सुखयति कमपि दुःखयति ? इत्यत्राह - अथापीति । यद्यपि स सर्वत्र समस्तदपि तस्य शक्तथा मायया यो विसर्गः अनादिपुण्यपापादिलक्षणकर्मपरम्परा स एव सुखाद्यर्थमवकल्पते । अयमर्थः यद्यपि मायायास्तच्छक्तित्वात् स एव सुखदुःखादिकं सृजतीति तस्य वैषम्यमेव, तदपि मायायाः स्वरूपशक्तित्वाभावात् स न सुखदुःखादि सृजतीति, वस्तुतस्तस्य साम्यमेव, यथा मायिकविश्वस्य भगवद्रूपत्वेऽपि न भगवत्स्वरूपभूतत्वमिति यथा सूर्य्यसम्बन्धिन आतपस्य घूककुमुदादीनां दुःखहेतुत्वेन चक्रवाककमलादीनां सुखदत्वेन वैषम्येऽपि सूर्यस्य तेषु वैषम्यं कोऽपि न वर्णयति तद्वदिति भावः ॥ २३ ॥ अथ अहं त्वां केवलं प्रसादयामि न तु शापमोक्षाय, हे भामिनि, अविचारेण कोपने ! ननु, तर्हि किं प्रसादनेन तत्राह - मयोक्तं साध्वपि यदसाधु मन्यसे तदसाध्वेवास्तु त्वया क्षम्यतां मम तु शापे शापान्ते वा दुःखसुखयोरभावस्ततः प्रसन्नापि शापान्तं माकार्षीरिति भावः ॥ २४ ॥ शुकदेवकृतः सिद्धांतप्रदीप: पूर्वदिष्टं पूर्वेण भगवतैव प्रारब्धकर्मानुसारिणा दिष्टम् आदिष्टम् ॥ १७ ॥ * सर्वत्र सर्वेषु लोकेषु सर्व
- सर्वेषु भूतेषु पूर्वदिष्टमित्यनुषङ्गः ॥ १८ ॥ तमेवं भगवन्तं सुखदुःखयोर्हेतुं मन्यमानः आत्मनः परत्य च तद्धेतुतां निराकरोति - नैवेति । सुखदुःखयोः आत्मा स्वयं कर्ता न स्यात् परोऽन्यचापि नैव स्यात् अप्राज्ञस्तु आत्मानं परश्च कर्तारं सुखदुःखहेतुं मन्यते प्राज्ञस्तु परमात्मानमेव कर्तारं हेतुं मन्यते इति भावः- “सुखं दुःखं भवो भावो भयं चाभयमेव च । अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः । भवन्ति भावा भूतानां मत्त एव पृथिग्विधाः” । इतिश्रीमुखोक्तेः ।। १९ ।। * * भ्राष्ट्रे प्रविष्टस्येव संसारे पतितस्य पुनः कः शापादिरिति वैराग्यार्थमाह-गुणप्रवाह इति । गुणप्रवाहे भगवन्मायागुणप्रवाहे ६८ ५३८ श्रीमद्भागवतम्
8 [ स्कं. ६ अ. १७ लो. १७-२४ संसारे ।। २० ।। । * एवम्भूते संसारे प्रविष्टस्य जीवस्य जन्मबन्धमोक्षादिषु भगवानेव हेतुरित्याह– एक इति । मायया सत्त्वादित्रिगुणया भूतानि देवतिर्यगादीनि सुखदुःखादिभाजनानि सृजति ॥ २१ ॥ * सर्वत्र समस्यापि भगवतो विषयसुखदुःखादिदातृत्वे तत्तत्कर्मैव कारणमित्याह - न तस्येति द्वाभ्याम् । प्रतीपः प्रतिकूलः निरञ्जनस्य अज्यते इत्यञ्जनं प्राकृतदेहेन्द्रियसम्बन्धस्तद्रहितस्य अत एव तन्निमित्ते सुखे रागो न भवति रागनिमित्तो रोषः कुतो भवति ।। २२ ।। तथापि तस्य भगवतः शक्त्या सत्त्वादित्रिगुणया यो विसर्गः सात्त्विकादिलक्षणं कर्म, एषां देवादीनां सुखाद्यर्थं कल्पते समर्थो भवति तत्तत्कर्मनिमित्तीकृत्य भगवान् सुखादिकं देवादिभ्यो ददातीति फलितोऽर्थः ॥ २३ ॥ * * अथ अतो हेतो: हे भामिनि ! त्वं शापमोक्षाय न प्रसादये किन्तु ममोक्तं साध्वपि यदसाधु मन्यसे तत् हे सति, क्षम्यताम् इति त्वां प्रसादयामि ॥ २४ ॥ काम गोस्वामिगिरिधरलाल विहिता बालप्रबोधिनी games Pass Fame Samitramadhe firराध चित्रकेतुवचनानि दर्शयति — प्रतिगृह्णामीत्यष्टभिः । शापदाने तव न कोऽप्यपराध शापदाने तव न कोऽप्यपराध इति सूचयन् सम्बोधयति अम्बिकेति । ते तव शापमहमात्मनोऽञ्जलिना प्रतिगृह्णामीत्यन्वयः । हि यस्मात् देवैर्मत्त्य यत्सुखं दुःखं वा प्रोक्तं तत्तस्य पूर्वदिष्टं प्राचीनकर्मप्राप्तमेव । न हि देवैरन्यथा वृथा शापादिप्रयोगः क्रियते धर्माधर्मविधायकशास्त्रमर्यादाविलोपप्रसङ्गादिति भावः ॥ १७ ॥ * * अयं च संसारचक्रस्वभाव एवेति न हि तत्र हर्षशोकादिकमपि युक्तमित्याह- संसारेति । जन्तु- जीव एतस्मिन् संसारचक्रे भ्राम्यन् सर्वदा सर्वकाले सर्वत्र देशे च सुखं च दुःखं च भुङक्त एवं न तयोर्व्यभिचारोऽस्ति । तत्र पतने कारणमाह-अज्ञानमोहित इति । चक्रपदेन अत्यन्तचञ्चलता दर्शिता कदापि स्थिरता नास्तीति ॥ १८ ॥ अत्र संसारे सुखस्य कर्त्ता आत्मा स्वयं न स्यात् न भवति तथा दुःखस्य कर्त्ता परः शत्रुश्चोरादिरपि न भवति । कथं तर्हि लोके तथाव्यवहार इत्याशङ्कय अज्ञानादित्याह — कर्त्तारमिति । अप्राज्ञः अतिमर्खः । तथाच तव मम चात्र न कोप्यपराध इति सूचितम् ॥ १९ ॥ * तर्हि कथं सुखाद्युत्पत्तिरित्याशङ्कय सत्त्वादिगुणपरिणामरूपत्वाद्गुणव्यतिरेकेण तेषां स्वरूपमेव दुर्निरूपमित्याह–गुणप्रवाह इति संसारे ॥ २० ॥ ४ *- * ननु गुणानां जडत्वात् कथं तेषां प्रवृत्तिर्येन विश्वोत्पत्त्यादि स्यादित्यपेक्षायामाह एक इति । एकः असहाय एव भगवानात्ममायया निजशक्तिरूपया भूतानि प्राणिनः सृजति एषां प्राणिनां बन्धमोक्षादिकं च सृजति । ननु तहि तस्य विकारित्वं स्यादिति शङ्कानिरासायाह - निष्कल इति, शुद्ध इत्यर्थः । तत्र मायांशभूतया अविद्यया बन्धः विद्यया च मोक्षः, सुखं तमसा च दुःखमिति विवेकः || २१ || ——
- ननु तस्यापि किं लोकवत्प्रियादयः सन्ति येन कमपि मोचयति कमपि बध्नाति कमपि सुखयति कमपि दुःखयति, यदि सन्ति तर्हि लोक- वद्वैषम्यमपि प्राप्तमेव, यदि न सन्ति तर्ह्येवं वैषम्ये किं निमित्तमित्याशङ्कायां यद्यपि प्रियादयो न सन्ति तथापि तत्तत्कर्मवशाद्वैषम्यं घटते, न भगवति वैषम्यं कल्पतरुस्वभावत्वात्, यथा - कल्पतरुः स्वाश्रितानेव फलं ददाति नानाश्रितान् तथापि न तस्य वैषम्यमेवं भगवानपि तत्तत्कर्मज्ञानभक्तिवैराग्याद्यनुरूपं फलं ददाति न विपर्ययेणेति न तस्य वैषम्यं ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम्’ इति वचनादित्याशयेनाह - न तस्येति द्वयेन । तस्य भगवतः — कश्चिदितिपदद्वयस्य सर्वत्रान्वयः - दयितः प्रियो नास्ति, प्रतीषोऽप्रियः शत्रुर्नास्ति, ज्ञातिः सपिण्डो नास्ति, बन्धुर्विवाहादिना सम्बन्धी नास्ति, परः परकीयो नास्ति, स्वः स्वकीयो नास्ति । तत्र हेतुमाह-सर्वात्मत्वात्सर्वत्र समस्येति । ननु समत्वं कथं घटते तत्राह — निरञ्जनस्येति, अञ्जनमविद्या तत्सम्बम्धाभावेन अहम्ममभावरहितस्येत्यर्थः। अतएव तन्निमित्ते सुखे रागो नास्ति । रोषस्य तु रागपूर्वकत्वनियमात्तदभावे स कुतः स्यात् ! ॥ २२॥ * * यद्यप्येवं तथापि तस्य शक्तीनां मायाविद्याविद्या सत्त्वरजस्तमआदीनां यो विसर्गः पुण्य- पापादिलक्षणं कर्म स एषां शरीरिणां सुखाद्यर्थमवकल्पते समर्थो भवति । तथोक्तं गीतासु– ‘भूतभावोद्भवकरो विसर्गः कर्मसञ्ज्ञित’ इति ।। २३ ।। अथ तस्मात् सुखदुःखयोः स्वकर्माधीनत्वात् हे भामिनि कोपने त्वां केवलं प्रसादयामि, न तु शापमोक्षाय तर्हि किं प्रसादनेनात आह- लोकमर्यादारक्षणहेतुत्वात् ममोक्तं साध्वपि यत्त्वमसाधु मन्यसे तत् त्वया क्षम्यताम् । तव तु क्षमैव युक्तेत्याशयेन सम्बोधयति — हे सतीति ॥ २४ ॥ भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी तदेवाह प्रतिगृह्णामीत्यादिना क्षम्यतां सतीत्यन्तेन । तत्र तावत् मम रोषो नास्तीति सूचयन् शापं स्वीकरोतीत्याह । प्रतिगृहामीति । हे अम्बिके, त्वया दत्तं शाप, आत्मनो मम, अञ्जलिना प्रतिगृह्णामि अञ्जलिबन्धनपूर्वकं स्वीकरोमि । त्वया मयि महाननुग्रहः कृतः न तु निग्रह इति भावः । तदेव स्पष्टयति । देवैः, यत् मत्यय प्रोक्तं निग्रहरूपमनुग्रहरूपं वा कथितं, तत् तस्य, पूर्वदिष्टं हि । प्राचीनकर्मप्राप्तमेव । त्वया मम पूर्वकर्मानुभवार्थमयं शापरूपो निग्रहः कृतस्तन्मम तु समीचीनमेवस्कं. ६ अ. १७ लो. १७-२४ ] .:: अनेकव्याख्यासमलङ्कृतम् 1 ५३९ कृतं मोक्षविरोधिप्राचीकर्मणा संसारे नितरां भ्राम्यमाणस्य मुमुक्षोराशु मोक्षविरोधिप्राचीन कर्मफलम त्रैवानुभूय निरस्तनिःशेष- कर्मबन्धस्य मम भगवत्प्राप्तिजनितनिरतिशयानन्दरूप महाभ्युदयलाभादिति भावः ॥ १७ ॥ ॐ ॐ एतदेव स्फुटयितुं तावज्जन्तूनां कर्मभिर्भ्रमणमाह । संसारचक्र इति । अज्ञानमोहितः अनादिपुण्यपापात्मक कर्म रूपाज्ञानमोहितः, जन्तुः, एतस्मिन्, संसारचक्रे चक्रवत् प्रवृत्तिशीले संसारे इत्यर्थः । भ्राम्यन सर्वत्र सर्वदेशेषु सर्वदा, सर्वकालेषु, दुःखं च सुखं च इत्युभे भुङ्क्ते पुण्यपापात्मकानादिकर्ममूढः स्वात्मपरमात्मयाथात्म्यज्ञानरहितः केवलदेहात्माभिमानवान् जीवो हि संसृतौ भ्रमन्पुनः पूर्व- पूर्ववासनानुरूपेणोत्तरोत्तरमुखदुःखादिहेतुभूतानि कर्माणि कुर्वस्तत्फलं सुखं दुःखं च भुङ्क्ते । एतन्न केवलमन्येषामेव जन्तूनां किं तु मम तवापि यावन्मुक्तिः तावदेतत् समानमेवैति भावः । अन्यथा मत्कृत हे नात्तवानादिकर्मप्रयुक्त देहात्माभिमानमूलकः क्रोध एव न स्यादिति तात्पर्यम् ॥ १८ ॥ 8 अत एव सत्कारन्यकार सुखदुःखादिकं सर्वमनादिकर्मनिर्मितमत एव त्वत्तिरस्कर्त्तारं मां शपन्यास्तव च न दोष इत्याह । नैवेति ॥ सुखदुःखयोः कर्त्ता कारकः, सुखदुःखापादकः इत्यर्थः । आत्मा स्वयं, न स्यात् न भवति । परोऽन्यचापि न स्यान्न भवति एव । किं तयोः कर्मैव निमित्तमिति भावः । कर्मणः क्षणिकत्वा- जडत्वाच कथं कालान्तरभाविसुखदुःखनिमित्तं तत्तत्राह । कर्त्तारमिति । प्राज्ञः पुण्यपापयाथात्म्यवित् परमात्मानमेव एकं परमपुरुषमेव, कर्त्तारं, सुखदुःखयोरिति शेषः । मन्यते । अयं भावः । पुण्यपापे हि परमात्मनो निग्रहानुग्रहरूपे तत्र स्वप्रवर्ति- तश्रुतिस्मृत्याद्यात्मकशास्त्रार्थानुवर्त्तिनि परमपुरुषस्यानुग्रहः स एव पुण्यं नाम । अननुवर्त्तिनि निग्रहः स एव हि पापं नाम । एवं च परमपुरुष एवं स्वशास्त्रानुवृत्त्यननुवृत्तिनिमित्तानुग्रहरूपपुण्यपाप फलभूतयोः सुखदुःखयोः कर्त्तेति । केचित्तु सुखदुःखयोः कर्त्ता, आत्मा नैव स्यात् । नापि परश्च स्यात् । अप्राज्ञ एव आत्मानं परमेव वा कर्त्तारं मन्यते । वस्तुतः संसारचक्रस्येत्थं- भूतस्वभावत्वान्नैवात्र मम तव वा कोऽपि दोष इति भाव इत्यपि व्याख्यायन्ते ॥ १९ ॥ * * इदानीं वैषयिकसुखं विषमिश्रक्षीरवदन्ततो दुःखहेतुत्वादपुरुषार्थरूपमेवेत्याह । गुणप्रवाह इति । गुणप्रवाहे सत्वरजस्तमसां प्रकृतेर्गुणानां परिणाम- रूपे, एतस्मिन् संसारे जन्तूनां कः शापः को वा अनुग्रहः । उभयोर्वैलक्षण्यमेव दुर्वचमस्तीति भावः । ननु न तयोः स्वरूपं दुचं यतः, अनुग्रहः स्वर्गहेतु:, निग्रहो नरकहेतुरिति सुवचमेवेत्यत्राह । कः स्वर्ग इति । अत्र लोके, स्वर्गः कः नरको वाऽपि कः एव । सुखं किं, दुःखं वा किं, सर्वस्य प्रकृतिपरिणामरूपत्वात् प्रकृतिस्वरूपस्य यथार्थतया निरूपितुमशक्यत्वात् दुर्वचमेवेत्यर्थः । स्वर्गस्य सुखरूपत्वे दुःखगर्भत्वं न युज्यते । नरकस्य दुःखरूपत्वे सुखगर्भत्वं न युज्यते । तथापि स्वर्गस्थानां देवानां सुखस्य दुःखगर्भत्वं नरकस्य दुःखरूपत्वेऽपि नरकस्थोऽपि देहं वै न स्वयं त्यक्तुमिच्छति । ‘नारक्यां निर्वृतौ सत्यां देवमायाविमोहितः’ इत्यादिना नरकेऽपि तेषां सुखगर्भत्वं च दृष्टम् । इत्थं विचारे क्रियमाणे प्राकृतभावानामनवस्थितेः कक्ष्यस्थकेशेषूत्तमाधमत्वमिव प्राकृतभावात्मकशापानुमहादेरपि तत्त्वमिति भावः ॥ २० ॥ ४ ४ नन्वेवंभूतसुखदुःखभाजि, भूतानि स्वयमेवोत्पद्यन्ते नेत्याह । एक इति । भगवान् परमपुरुषः, आत्ममायया एकः समाभ्यधिककर्त्रन्तरोपकरणान्तरनिरपेक्ष एव भूतानि चिदचिदात्मकानि देवमनुष्यादीनि सृजति । न तु तान्यकस्मादुत्पद्यन्ते इति भावः । तर्हि किं कुलालादिवद्भगवान् कर्मायत्त देहोऽस्ति नेत्याह । निष्कलः कर्मायत्तपाणिपादाद्यवयवात्मकदेहरहितः, एवंभूतस्यापि वैषम्यनैर्घृण्यता तु प्राप्ता तत्परि- हाराय भूतानि विशिनष्टि । एषां स्वसृष्टानामेतेषां भूतानां तत्तत्कर्मानुसारेण, बन्धं, मोक्षं च, सुखं दुःखंच, सृजति । एवमेतेषामेतद्बन्धादिकं देवमनुष्यादिवैचित्र्यं च तत्तज्जीवकर्मानुसारेण तदपि तदीश्वरमायोपाधिकं न स्वरूपप्रयुक्तमित्युक्तं भवति इत्यर्थः ॥ २१ ॥ कीदृशं तर्हि जीवस्य स्वरूपं कुतस्तस्य कर्मायत्तदेवादिवैचित्र्यं बन्धादिकं चेत्यपेक्षायामाह । न तस्येति । तस्य, जीवस्य कश्चिदपि दयितः प्रीतिविषयः, प्रतीपोऽप्रिय, न ज्ञात्या युक्तो बन्धुर्ज्ञातिबन्धुः, न तस्य ज्ञाति- र्नास्ति बन्धुरपि नास्तीत्यर्थः । ज्ञातिः सपिण्डः, बन्धुर्वैवाहिकादिसंबन्धवान् । स्वः स्वकीयः, न परश्च परकीयोऽपि न । कुतः । सर्वत्र देवादिशरीरेषु, समस्य समत्वेनावस्थितस्य, ज्ञानैकाकारतया ज्ञानानन्दस्वरूपत्वेन चावस्थितस्येत्यर्थः । ननु देवादिरूपेण वैचित्र्यात् कथं समत्वं तत्राह । निरञ्जनस्येति । अञ्जनं रूपान्तरापत्तिस्तद्रहितस्य, देवादिवैचित्र्यस्य प्रकृतिगठत्वा- जीवस्वरूपगतत्वाभावात् सर्वत्र समः इत्यर्थः । यत एवं जीवः समो निरञ्जनश्चात एव तस्य, सुखे रागः, न । वैषयिकसुखे स्वभावत आसक्तिर्नास्ति इत्यर्थः । तर्हि, कुतः एव रोषः । यस्य वैषविकसुखे रागो नास्ति तस्य वैषयिकलाभप्रतिबन्धविषयः रोषः कुतः स्यान्न स्यादेवेत्यर्थः ।। २२ ।। * * एवं प्रकृतिविलक्षणं स्वाभाविकं जीवस्वरूपमुक्तमथैवं भूतस्य देवादिवैचित्र्यं धादिकं चोपपादयति । तथापीति । यद्यप्येवंभूता जीवाः स्वभावतः सन्ति तथापि, एषां शरीरिणां जीवानां, तस्य taiबन्धिकर्मणो या शक्तिस्तस्या विसर्गः: सृष्टिरुत्तरोत्तर कमैवेत्यर्थः । सुखाय दुःखाय, हिताहिताय सुखदुःखहेतुभूत- धर्मायाधर्माय मृत्युजन्मनोर्जन्ममरणाभ्यामित्यर्थः तादस्य संबन्धसामान्यत्वेन विवक्षया षष्ठी । संसृतये, बन्धाय मोक्षाय च, अवकल्पते समर्थं भवति इत्यर्थः । अयं भावः । स्वभावतः पूर्वोक्तविधानामपि बीजाङ्कुरन्यायेनानादि कर्मवासनामात्रा- वशेषितानां कल्पान्ते परमात्मन्युपसंहृतानां पुनः कल्पादौ परमकारुणिकेन स्वाराधनेनैते निस्तरेयुरित्यनुजिघृणैश्वरेण प्रदत्त- । ॐ 衍 । الراز । किमकस्मात् ५४० श्रीमद्भागवतम् [ स्कं. ६ अ. १७ लो. २५-३२ करणकलेवराणां ततः प्रदत्तधर्मार्थकाममोक्षरूपपुरुषार्थ चतुष्टयतत्साधनावबोधिवेदाख्यशास्त्राणामप्यनादिवासनया तदनुरूप- मीहमानानां जीवानां सर्वमुपपन्नं भवतीति ॥ २३ ॥ एवं वस्तुस्थितिमभिधाय स्वापराधं क्षमापयति । अत इति । अतः वस्तुस्थिते रेवंविधत्वात्, हे भामिनि, शापमोक्षाय शापनिर्हरणाय, त्वां न प्रसादये न प्रार्थये । किं तु हे सति, मम मया, यदुक्तं तत् असाधु साध्वप्यसाधु, यथा तथा, मन्यसे तत् क्षम्यताम् इति त्वां प्रसादये ॥ २४ ॥ १७ ॥
भाषानुवादः । चित्रकेतुने कहा-माता पार्वतीजी ! मैं बड़ी प्रसन्नतासे अपने दोनों हाथ जोड़कर आपका शाप स्वीकार करता हूँ। क्योंकि देवतालोग मनुष्योंके लिये जो कुछ कह देते हैं, वह उनके प्रारब्धानुसार मिलनेवाले फलकी पूर्व सूचनामात्र होती है ॥ देवि ! यह जीव अज्ञानसे मोहित हो रहा है और इसी कारण इस संसार-चक्रमें भटकता रहता है तथा सदा-सर्वदा सर्वत्र सुख और दुःख भोगता रहता है ।। १८ ।। माताजी ! सुख और दुःखको देनेवाला न तो अपना आत्मा है और न कोई दूसरा । जो अज्ञानी हैं, वे ही अपनेको अथवा दूसरेको सुख दुःखका कर्ता माना करते हैं ।। १९ ।। यह जगत् सत्त्व, रज आदि गुणोका स्वाभाविक प्रवाह है। इसमें क्या शाप, क्या अनुग्रह, क्या स्वर्ग, क्या नरक और क्या सुख, क्या दुःख ॥ २० ॥ एकमात्र परिपूर्णतम भगवान् ही बिना किसीकी सहायताके अपनी आत्मस्वरूपिणी मायाके द्वारा समस्त प्राणियों की तथा उनके बन्धन, मोक्ष और सुख-दुःखकी रचना करते हैं ।। २१ ।। * * माताजी! भगवान् श्रीहरि सबमें सम और माया आदि मलसे रहित हैं। उनका कोई प्रिय-अप्रिय, जाति-बन्धु, अपना-पराया नहीं है। जब उनका सुखमें राग ही नहीं है, तब उनमें रागजन्य क्रोध तो हो ही कैसे सकता है ।। २२ ।। * तथापि उनकी मायाशक्ति के कार्य पाप और पुण्य ही प्राणियों के सुख-दुःख, हित-अहित, बन्ध-मोक्ष, मृत्युजन्म और आवागमनके कारण बनते हैं ।। २३ ।। * * पतिप्राणा देवि ! मैं शापसे मुक्त होनेके लिये आपको प्रसन्न नहीं कर रहा हूँ। मैं तो यह चाहता हूँ कि आपको मेरी जो बात अनुचित प्रतीत हुई हो, उसके लिये क्षमा करें ॥ २४ ॥ शुक उवाच इति प्रसाद्य गिरिशौ चित्रकेतुररिन्दम । जगाम स्वविमानेन पश्यतोः स्मयतोस्तयोः ॥ २५ ॥ ततस्तु भगवान् रुद्रो रुद्राणीमिदमब्रवीत् । देवर्षिदैत्यसिद्धानां पार्षदानां च शृण्वताम् ।। २६ ।। रुद्र उवाच २७ ॥ २८ ॥ दृष्टवत्यसि सुश्रोणि हरेद्भुतकर्मणः । माहात्म्यं भृत्यभृत्यानां निःस्पृहाणां महात्मनाम् ॥ नारायणपराः सर्वे न कुतश्चन विभ्यति । स्वर्गापवर्गनरकेष्वपि तुल्यार्थदर्शिनः ॥ देहिनां देहसंयोगाद् द्वन्द्वानीश्वरलीलया । सुखं दुःखं मृतिर्जन्म शापोऽनुग्रह एव च ।। २९ ।। अविवेककृतः पुंसो ह्यर्थभेद इवात्मनि । गुणदोषविकल्पश्च भिदेव स्त्रवित्कृतः ॥ ३० ॥ 15 वासुदेवे भगवति भक्तिमुद्वहतां नृणाम् । ज्ञानवैराग्यवीर्याणां नेह कश्चिद् व्यपाश्रयः ॥ ३१ ॥ नाहं विरिवो न कुमारनारदौ न ब्रह्मपुत्रा मुनयः सुरेशाः । विदाम यस्येहितमंशकांशका न तत्स्वरूपं पृथगीशमानिनः ॥ ३२ ॥ श्रीकृष्णप्रि याव्याख्या । अन्वयः - अरिंदम चित्रकेतुः इति गिरिशौ प्रसाद्य स्मयतोः तयोः पश्यतोः स्वविमानेन जगाम ।। २५ ।। * ततः भगवान्, रुद्रः तु देवर्षिदैत्यसिद्धानाम् च पार्षदानाम् शृण्वताम् रुद्राणीम् इदम् अब्रवीत् ॥ २६ ॥ अद्भुतकर्मणः हरेः भृत्यभृत्यानाम् निस्पृहाणाम् महात्मनाम् माहात्म्यम् दृष्टवती असि ।। २७ ।। * * स्वर्गापवर्गनरकेषु सुश्रोणि १. प्राचीने पाठे ‘श्रीशुक उवाच’ पाठो न । २. प्रा० पा० - मिति चा० । ३. प्रा० पा० सिद्धये । ४, प्रा० पा० देव उवाच । स्कं. ६ अ. १७ श्लो. २५-३२] अनैकव्याख्यासमलङ्कृतम् * ५४१ अति तुल्यार्थदर्शिनः सर्वे नारायणपराः कुतश्चन न बिभ्यति ।। २८ ।। * * देहिनाम् देहसंयोगात् ईश्वरलीलया सुखम् दुःखम् मृतिः जन्म शापः च अनुग्रहः एव द्वद्वानि ।। २९ ।। पुंसः आत्मनि अविवेककृतः अर्थभेदः इव गुणदोष- विकल्प: भिदा एव स्वजिवत् हि कृतः ।। ३० ।। * * इह भगवति वासुदेवे भक्तिम् उद्वहताम् ज्ञानवैराग्यवीर्याणाम् नृणाम् कश्चित् व्यपाश्रयः न ॥ ३१ ॥ * * यस्य ईहितम् अहम् न विरिञ्नः न कुमारनारदौ न ब्रह्मपुत्राः मुनयः च सुरेशाः न अंशकांशकाः पृथगीशमानिनः तत्स्वरूपम् न विदाम ।। ३२ ।। श्रीधरस्वामिविरचिता भावार्थदीपिका गिरिशौ भवानीशंकरौ प्रसाद्य स्मयतोर्विस्मयं कुर्वतोः सतोः ।। २५-२७ ॥ * * स्वर्गादावेव तुल्योऽर्थः प्रयोजनमिति द्रष्टुं शीलं येषां ते तथा ॥ २८ ॥ * * तत्र तदुक्तमेव हेतुमाह द्वाभ्याम् । देहिनां सुखं दुःखमित्यादिद्वन्द्वानी- । ।। श्वरस्य लीलया मायया भवंति । तेषु चैत्यन्वयः ॥ २९ ॥ * * इष्टानिष्टभेद इव यः स्फुरति स 1 आत्मन्यर्थभेदः सुखादिभेदः पुंसः स्वप्ने यथा अविवेककृतो भवति सजिवत्सर्पमालादिभिर्यथा तथैव कृत इत्यर्थः । स्रग्वदिति वक्तव्ये सजिव दित्यार्षम् । पाठांतरे तु सुगमम् ॥ ३० ॥ अतो भागवतानां निःस्पृहत्वमुचितमेवेत्याह । वासुदेव इति । ज्ञानवैराग्ययोर्वीर्य बलं येषां तेषां व्यपाश्रयो विशिष्टबुद्धया आश्रयणीयोऽर्थो नास्तीति ॥ ३१ ॥ अस्य च हरिदासत्वेन तत्स्वभावत्वान्नैतश्चित्रमिति वक्तुं हरेर्माहात्म्यमाह नाहमिति द्वाभ्याम् । ईहितमभिप्रायं लीलां वा यदा वयं न विद्मस्तदा तस्य स्वरूपमंशकांशका अपि संतः पृथगीशमानिनो न विदुरेव ॥ ३२ ॥ वंशीधरकृतो भावार्थदीपिकाप्रकाशः । हे अरिंदमेति । त्वयापि क्रोधः सर्वथा दमनीय एव मददमनफलस्य दृष्टसांप्रतिकप्रभावत्वादिति भावः ॥ २५ ॥ ततस्तगमनानंतरम् ॥ २६ ॥ दृष्टवत्यसि भवच्छापेऽपि भयाभावेन तर्कितवत्यसि किम् । हे सुश्रोणीति । तद्वैमनस्या-
- । पाकरणार्थ हास्याभिप्रायैव संबुद्धिः । माहात्म्यं देहवियोगलक्षणावस्थाप्राप्तावप्यत्रासलक्षणम् ।। २७ ।। न केवल- मस्यैवैतादृशं माहात्म्यमपि त्वन्येषामपीत्याह - नारायणपरा इति । तुल्यमेकमेवार्थ नारायणरूपं पुरुषार्थं द्रष्टुमनुभवितुं शीलं येषां ते स्वामिव्याख्याने प्रयोजनं भगवद्भक्तिरेव सर्वत्र श्रेयसीत्येवं विमर्शलक्षणं ज्ञेयम् " यत्र कुत्र सतश्वेतो भूयान्मे त्वत्पदा- स्पदम्” इत्युक्तन्यायेन " कामं भवः स्ववृजिनैर्निरयेषु नः स्ताच्चेतोलिवद्यदि नु ते पदयो रमेत” इति सनकाद्युक्तेश्व ॥ २८ ॥ तत्र तुल्यार्थदर्शने । तदुक्तं तेन चित्रकेतुना “गुणप्रवाह एतस्मिन्कः शापः को न्वनुग्रहः” इत्यादिनोक्तमेव तदेव तेषां सर्वत्रेश्वर- स्फूर्त्या भयाभावो दर्शितः । विचारेण तु नास्त्येव भयमिति तद्वाक्येनैव दर्शयति - देहिनामिति । ईश्वरलीलया तदीक्षणादि- लीलालब्धबलया मायया भवतीत्यर्थः ॥ २६ ॥ * * तेषु द्वंद्वेषु गुणदोषविकल्पश्वेत्यन्वयः । इत्यर्थं इति । यथा वस्तुतः जि रज्जौ सर्पादि नास्ति तथात्मनि सुखाद्यपि नेति भावः । आत्मनोऽज्ञानकृतत्वात्तत्स्फूर्तेः । स्रजीति सप्तमी । भिदेति टाबंतम् । पाठांतरे स्रजि सर्पवदिति पाठे । स्रजि तत्कृत इत्येवंरूपे वा । अत्र तत्कृतोऽविवेककृत इत्यर्थः । दर्शितचैतत्पाठां- तरच वर्त्तिबालबोधिनीकाराभ्याम् । मम त्वित्थं प्रतिभाति पुंस आत्मन्यधिष्ठाने भिदा भेदो नानाबुद्धिरर्थभेद इव मृदि घटशरावादिभेद इव च पुनः गुणदोषविकल्प इवायं घटः शोभनोऽयमशोभन इतीवाविवेककृतोऽधिष्ठानाज्ञानविजूभित एव । " किं भद्रं किमभद्रं वा द्वैतस्यावस्तुतः कियत्” इति श्रीकृष्णोक्तेः । किव्वत्कृतः स्रजिवत्कृतः । अत्र तद्धिते सप्तम्या अलुक् । यथा मालायां सर्परेखा रज्जुखंडाद्यर्थभेदस्तद्गुणदोषविकल्पश्च मालाऽज्ञानविजूभित एव न तात्त्विकस्तद्वदात्मन्याकाशादि - नानाधीः शोभनेयं भूरशोभनेयं भूरिति गुणदोषादिविकल्पो न तात्त्विक इति भावः ॥ ३० ॥ * * यतः सर्वमतात्त्वि- कमेवातो हेतोः ॥ ३१ ॥ * अस्य चित्रकेतोश्च । तत्स्वभावत्वान्निःस्पृहस्वभावत्वात्स्वाभाविकविवेकवत्त्वाद्वा । एतच्छापादिग्रहणम् । वयं तत्स्वरूपा अपि यदि न जानीमस्तदांशस्य प्रकृत्यधिष्ठातुः पुरुषस्यांशका अन्ये इंद्रवरुणादयः कथं विदुर्न कथमपीति भावः । भक्ताश्च तर्हि सर्वे विदुरेवेत्यर्थः । “स वेद धातुः पदवीं परस्य दुरंतवीर्यस्य रथांगपाणेः । यो मायया संततयाऽनुवृत्त्या भजेत तत्पादसरोजगंधम् ।” इत्युक्तेः । “येषां स एव भगवान्दययेदनंतः सर्वात्मनाभितपदो यदि निर्व्य- लीकम् । ते वै विदंत्यतितरंति च देवमायाम्" इत्युक्तेश्च ।। ३२ ।। अन्वितार्थप्रकाशिका …. इतीति । हे अरिन्दम ! चित्रकेतुः गिरिशौ एकशेषेण भवानीशङ्करौ प्रसाद्य तयोः स्मयतोः विस्मयं कुर्वतोः सतोः । शता आर्षः । स्वविमानेन जगाम ।। २५ ।। ’ * दृष्टवतीति । हे सुश्रोणि । निस्पृहाणां तत इति । स्पष्टम् ।। २६ ।। २
५४२ श्रीमद्भागवतम् • [ कं. ६ अ. १७ लो. २५-३२ महात्मनाम् अद्भुतकर्मणः हरेर्भक्तानां नारदादीनां ये भृत्याः सेवकाः चित्रकेतुप्रभृतयस्तेषां माहात्म्यं त्वं दृष्टवत्यसि ॥ २७ ॥ नारायणेति । स्वर्गादिष्वपि तुल्योऽर्थः प्रयोजनमिति दृष्टुं शीलं येषां ते नारायणपराः सर्वे कुतश्चन न बिभ्यति ॥ २८ ॥ * * देहिनामिति । देहिनामीश्वरस्य लीलया मायया देहसंयोगात् सुखं दुःखमित्यादीनि द्वन्द्वानि भवन्ति ॥ २९ ॥ * * अविवेकेति । तेषु सुखदुःखादिषु यः गुणदोपविकल्पः सुखादौ गुणदृष्टिः दुःखादौ दोषदृष्टिः स पुंसोऽविवेकेन कृतः मिथ्यैव । तत्र दृष्टान्ते स्वप्न आत्मन्यर्थभेद: राजरङ्कादिभेद इव क्षीरभोजन पुत्रमरणादिवि जागरे च स्रजिभिद्वदेव मालायां सर्पादिभेदवदेव कृतो न तु परमार्थतः इत्यर्थः । वत्शब्द इवार्थेऽव्ययमपि । “इववद्वा यथा शब्दा" इत्युक्तेः । स्वामिपादास्तु स्रग्वदिति वक्तव्ये स्त्रविदित्यार्षमित्याहुः । तत्कृत इति पाठे तु स्रजि तत् ततो हेतोः भिदा भेद इव कृतः यद्वा स्रजि भिदा इव तत्कृतः जागरे च अविवेककृत । इत्य इत्यर्थः । प्रथमपाठे भित इति किवन्तः । द्वितीयपाठे भिदा इति टाबन्तः ।। ३० ।। वासुदेव इति । वासुदेवे भगवति भक्तिमुद्वहतां ज्ञानं वैराग्यं च वीर्यं येषां तेषां नृणामिह संसारे कश्चिदप्यर्थो विशेषेणाहममतयाऽऽश्रय आश्रय- क्षणीयो नास्ति । ज्ञानेन तन्मूलाविद्याया निवृत्तत्वादिति भावः ॥ ३१ ॥ नाहमिति । अहं रुद्रः विरिञ्च्यादयश्च यस्यां - । शकांशका अपि वयं पृथगीशमानिनः सन्तो यस्येहितमभिप्रायं लीलां वा तस्य रूपं च न विदाम न विद्मः । आर्षः प्रयोगः । अत्र । नेति नयां प्रत्येकम् अहं न वेद्मीत्यादिरीत्यान्वये कृते ततः न विदामेति युगपदन्वयः । दशमस्कन्धे “नेमं विरिवो न भवः" इत्यत्र तथा " न क्रोधो न च मात्सर्यम्" इत्यादौ चैवम् विस्तरो नेमं विरिन इत्यत्र शेषः ॥ ३२ ॥
वीरराघवव्याख्या
FinicaneHER PARAS he exis इतीत्थं गिरिजां पार्वतीं प्रसाद्य प्रसन्नां कृत्वा चित्रकेतु: हे अरिन्दम, स्मयतो: आश्वर्य प्राप्तयोः तयोर्भवभवान्योः पश्यतोस्सतोः विमानेन गमनसाधनेन जगाम ॥ २५ ॥ ततश्चित्रकेतोर्गमनानन्तरं रुद्रः रुद्राणीमम्बिकां प्रति इदं वक्ष्यमाणं देवर्षिप्रभृतीनां स्वपार्षदानाञ्च शृण्वतां सतामब्रवीत् ॥ २६ ॥ तदेवाह दृष्टवतीत्यादिना, समदर्शिष्वि- त्यन्तेन । हे सुश्रोणि ! अद्भुतकर्मणः विविधविचित्रस्वाभाविकक्रियाशक्तेर्ह रेर्भगवतो भृत्यवर्गाणां माहात्म्यं दृष्टवत्यसि कथंभूतानां निःस्पृहाणां वैषयिकं सुखमनिच्छूनां महात्मनाम् अपकर्तृष्वप्युपकर्तृत्वबुद्धीनां सुखदुःखयोः समबुद्धीनाश्चेत्यर्थः ॥ २७ ॥ * एतद्दृष्टान्तेन अन्यानपि भगवद्भक्तानीदृशानेवा हो इत्याह नारायणपरा इति । सर्वे नारायण एवं परः परतत्त्वं येषां ते कुतश्व- । न अर्वाचीनस्य निग्रहादेर्न बिभ्यति भयं न कुर्वन्ति, कुतः ? यतस्ते स्वर्गादिष्वपि तुल्यार्थदर्शिनः तुल्यप्रयोजनदर्शिनः विषमा- दर्शनमेव भयहेतुरिति भावः । अपवर्गोऽत्र कैवल्यं मोक्षस्य भगवदनुभवरूपत्वेन तेषां तस्य स्वर्गादितुल्यत्वकथनानुपपत्तेः यद्वा अपवर्गो मुक्तिरेव भगवद्दास्यमन्तरेण तेषां न प्रयोजनं किं पुनस्स्वर्गादिस्तेषां न प्रयोजनमिति सूचनार्थं वा अपवर्गशब्दः प्रयुक्तः स्वर्गस्यापि नरकतुल्यताख्यापनाय नरकशब्दः, यथा नरकस्तथा स्वर्गोपीत्यर्थः तथा चोक्तम् - “एते वै निरयास्तात स्थानस्य परमात्मनः” इति । " वासुदेवे मनो यस्य जपहोमार्चनादिषु । तस्यान्तरायो मैत्रेय ! देवेन्द्रत्वादिकं फलम् । " इति च स्वर्गादिषु तुल्यार्थदर्शिन इत्यनेन विषमदर्शनं भयहेतुरिति सूचितम् ॥ २८ ॥ * * तत्र समदर्शननिमित्तं वक्तुं तावद्विषमदर्शननिमित्तमाह देहिनामिति द्वाभ्याम् । तावद्देहिनां जीवानाम् ईश्वरलीलया हेतुभूतया ईश्वरस्य लीलात्मिकया जगत्सृष्टा यो देहसम्बन्धः तस्मादेव सुखदुःखादीनि द्वन्द्वानि भवन्ति, न तु स्वरूपत इति निर्विवाद, देहसंयोगमात्र एवेश्वरलीलाहेतुभूता, न तु द्वन्द्वेषु वा देहयोगवैचित्र्ये वा हेतुरिति तात्पर्यम् ॥ २९ ॥ * तर्हि तत्र को हेतुः ? तत्राह - अविवेककृत इति । आत्मनि ज्ञानैकाकारे जीवे अर्थभेद इव देवमनुष्यत्वादिभेद इव गुणदोषविकल्पः भेद: गुणाः सुखजन्यानुग्रहा दोषा दुःखमृतिशापा एषां विकल्पः अविवेककृतः अनादिकर्मनिमित्तो यो देहात्मभ्रान्ति- स्वतन्त्रात्मभ्रान्तिरूपोऽविवेकः तेन कृतः तन्निमित्त इत्यर्थः । अर्थार्थभेदस्याविवेककृतत्वसिद्धवत्कारेण सदृष्टान्ततः उभय- मप्यविवेककृतमिति तात्पर्यम् । अत एवार्थभेदस्याविवैकृतत्वं देवात्मभ्रान्तिमतां पुरुषाणामप्रसिद्धमिति, तस्य दृष्टान्त- त्वमस्वरसमित्यभिप्रेत्य तत्प्रसिद्धं दृष्टान्तान्तरमाह - भिदेव स्वप्नकल्पितेति । यथा स्वप्नकल्पिता मिदा भेदः अविवेककृतः तथा गुणदोषविकल्पोप्यविवेककृत इत्यर्थः । यथाऽपवरकादिषु शयानस्य एकस्य पुरुषस्य स्वप्नद्रष्टुः स्वस्मिन्वस्तुतो ऽविद्यमान एव गजस्कन्धारोहणदेशान्तरगमन राज्याभिषेक शिरच्छेदाद्यर्ह देह मेदस्तन्मात्रानुभाव्यः तत्कालमात्रावसायी च तत्तत्कर्मनिमित्त. देहात्मभ्रान्त्याद्यनुगुणमीश्वर कल्पितोऽविवेककृतः तथा जाग्रदवस्थानुभाव्यसुखदुःखादिद्वन्द्वजालानि देवादिवैचित्र्याणि च तत्तत्कर्मतन्मूलकदेहात्माभिमानाद्यनुगुणमीश्वरकृतान्यप्यविवेक मूलकान्येवेतिभावः ॥ ३० ॥ * एवं भयनिमित्ते विषमदर्शनेऽविवेक एव हेतुरित्युक्तम् अथ नारायणपरायणानामीदृशाविवेकाभावात्कचित्कदाचिदुपजातस्याप्यविवेकस्य पुनः स्वात्मपरमात्मयाथात्म्यावमर्शने तदपोहात्तन्मूलकं विषमदर्शनन्तन्मूलकं भयच नास्तीत्याह – वासुदेव इति । ज्ञानं शास्त्रजन्यं प्रकृतिपुरुषेश्वरयाथात्म्यावमर्शनरूपं तत्प्रयुक्तं वैराग्यं शब्दादिविषयेष्वनासक्तिरूपम् एतदुभयमेव | बीये बलं येषां तेषां वासुदेवेः ….. * । कं. ६. १७ हो. २५-३२ ] अनेकव्याख्यासमल कृतम् भगवति निरतिशयानन्दरूपे भक्तिमुद्वहतां कुर्वतां नृणां कुतश्चिदपि हेतोर्व्यपाश्रयः व्यपगत आश्रयः यस्मात्तद्वयपाश्रयं यस्मात् विषमदर्शनादाश्रयः आश्रीयमाणः परमात्मा व्यपगतो भवति विस्मृतो भवति तादृशं विषमदर्शनं नास्तीत्यर्थः । निरन्तरं प्रकृति- पुरुषेश्वरयाथात्म्यावलोकन तत्प्रयुक्तवैराग्यबलविस्मृतदेह तदनुबन्धितद्धर्माणां निरतिशयानन्दरुपभगवद्भक्तिनिर्वृतानामविवेका- भावात्कचित्कदाचित आपतितस्याप्युक्तविधज्ञानवैराग्यबलेन तन्निरसनशीलत्वाच्च तेषां विषमदर्शनमेव नास्ति, कुतः, तन्नि- मित्तं भयमिति भावः ॥ ३१ ॥ * * एवं स्वभार्यायै नारायणपरायणानां माहात्म्यमजानत्यै तत्प्रदर्शितं रुद्रण, अथ स्त्रीस्वभावत्वात्सर्वेश्वरे सर्वकारणे त्वयि त्वद्भक्तेषु वा त्वत्सृज्यत्वन्नियाम्यनारायणस्य तद्भक्तानां वा समुद्र विप्रुडिव कियदेतन्मा- हात्म्यमित्याशङ्कमानां प्रत्याह - नाहमिति । अहं रुद्रः अस्मदादयो यस्य नारायणस्य ईहितं ‘भावे क्तः’ ईहां चेष्टां तत्स्वरूपञ्च न विदामः न जानीमः ईहा च जगद्वयापाररूपा चेष्टा । अज्ञाने हेतुः, अंशांशकाः तदाहिततज्ज्ञानशक्तिलेशयुक्ताः तन्मात्रेणैव वयमपि पृथगीश्वरा इत्यभिमानयुक्ताः, अनेन स्वस्मिन् सर्वेश्वरत्वशङ्का निवारिता । ईहितं न विदामेत्यनेन कारणत्वशङ्कापि, सृष्टचादिव्यापारस्य तत्कर्तृकत्वकथनात् । स्वरूपं न विदामेत्यनेन तत्स्वरूप स्यानन्तमहिमशालित्वमपरिच्छिनत्वञ्चोक्तम् । तत्र विरिनो ब्रह्मा कुमारः सनत्कुमारः ब्रह्मपुत्राः मरीच्यादयः मुनयः तद्व्यतिरिक्ता अन्ये मुनयः सुरेशाः इन्द्रादयः ।। ३२ ।। विजयध्वजतीर्थकृता पदरत्नावली २७॥ अस्यैव नैतादृश-
- द्वन्द्वा- हरेर्भृत्यभृत्यानां माहात्म्यं देहवियोगलक्षणावस्थाप्राप्तावप्यत्रासलक्षणम् ॥ २७॥ माहात्म्यं किन्त्वन्येषामप्यस्तीत्यभिप्रेत्याह- नारायणेति । कुतो न बिभ्यतीति तत्राह — स्वर्गेति ॥ २८ ॥ नीत्युक्तविवरण सुखमित्यादि ईश्वरलीलया देहसंयोगात द्वन्द्वानि भवन्तीतिशेषः ।। २९ ।। * * ननु, देहसम्बन्धाद् द्वन्द्वादीनि सन्त्वस्य श्वशृगालाद्याकारेण भेदः किं कृतः ! तत्राह - अविवेककृत इति । इहात्मनि जीवे श्वायं शृगालोऽयमित्याद्या- कारनिमित्तव्यवहारमेदः पुंसोऽधिकारेण ! ताह-अविवेककृत । गालोमाधार कारनिमित्तव्यवहारभेदः पुंसोऽविवेकेन हरेः स्वस्य च स्वरूपविषयज्ञानाभावेन कृतो यस्मात्तस्मादियमनर्थपरम्परा किवात्मन्ययं गुणयोस्त्वयं दोषोऽस्तीति विकल्पश्चाविवेकेन कृतः कथमिव स्वप्ने कल्पिता वासनोपादानकृता गजादिलक्षणा भिदेव अनित्य- त्वादेवैतत्साम्यं न तु मिथ्यात्वात् अन्यथार्थक्रियायोग इति ॥ ३० ॥ * तर्हि अस्यानर्थस्य निवृत्तौ किं साधनमिति तत्राह - वासुदेव इति । अन्यः कश्चिद्विशिष्टाश्रयो नाति भक्तिज्ञाने एवेति शेषः ॥ ३१ ॥ न सुसाधनमित्याह - नाहमिति ॥ ३२ ॥
जीवगोस्वामिकृतः क्रमसन्दर्भः * देवदत्तज्ञानवदस्य ज्ञानं दृष्टवत्यसि भवच्छापेऽपि भयाभावेन तर्कितवत्यसि किम् ॥ २७ ॥ * श्रीनारायणं विनान्यत्र हानोपादान- दृष्टिराहित्यापवर्ग इव स्वर्ग इव नरकेऽपि तुल्यमेकमेवार्थं नारायणरूपपुरुषार्थं द्रष्टुमनुभवितुं शीलं येषां ते तुल्यशब्दस्यैकवाचित्वम् “रषाभ्यां नोणः समानपदे” इतिवत् ।। २८-२६ ।। अविवेकेत्यस्य टीकायां ते तु चेत्यध्याहृतं इष्टानिष्टेति गुणदोष- विकल्पस्य व्याख्येयं भिदा यथेत्यत्र भिदा चेति ज्ञेयं चकारान्वयात्तत्कृत इति ।। ३०-३१ ।। * * पृथगीशमा- पाठान्तरम् निनश्च तर्हि वयमंशकांशका अपि यस्येहितं स्वरूपञ्च न विदाम किन्तु भक्ताश्च तर्हि सर्वेपि विदुरित्यर्थः ॥ ३२ ॥ विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी स्मयतोः विस्मयवतोः सतोः ।। २५-२६ ।। हे सुश्रोणि ! इति त्वं सौन्दर्य्यगुणैरेवाधिकमाहात्म्यासि न तु भक्तिज्ञानवैराग्यादिभिरिति परिहासो ध्वनितः । अद्भुतकर्मण इति, हरेरिदमद्भुतं कर्म मया दृष्टं यत्त्वया शापं दापयित्वा तवापकर्ष एव तेन कृतः स्वभक्तस्य प्रेमसम्पद्भिरीषदपि न्यूनतामप्राप्तस्यागणितदेवीशापत्वरूपप्रभावख्यापनया परमोत्कर्ष एव कृतः । महात्मनामिति त्वया कोपभरितयापि दत्तोऽभिशापस्तस्मै यदि खल्वीपदपि दुःखं दातुमपारयिष्यत्तदापि ते शापः सफलोऽभविष्यत् हन्त हन्त व्यर्थं एवायमभूदित्यतो महात्मसु प्रेमिभक्तेषु त्वयाद्यारभ्य नैवं व्यवहर्त्तव्यमिति शिक्षा ध्वनिता ।। २७ ।। * * नन्वेवं माहात्म्यवत्त्वे भक्तानां को हेतुस्तत्र नारायणैकनिष्ठत्वमेव नान्य इत्याह-नारायणेति । न केवलमेते चित्रकेतुप्रभृतयः एवमपि तु सर्व एव स्वर्गेपि त्रयाणामेव भक्तिसुखराहित्येनारोचकत्वाविशेषादिति भावः ॥ २८ ॥ नारायणनिष्ठत्वाभावे त्वेवं भवेदित्याह - देहिनामिति । ईश्वरलीलयेति तदीक्षणलीलालब्धबलया माययेत्यर्थः ॥ २६ ॥ तस्मान्मायिकमवास्तवं वस्तु सुखदुःखादिकमस्थिरत्वादवस्त्विव जानीयादित्याह- अविवेकेति । पुंस: स्वप्ने आत्मनि अर्थभेदः क्षीरभोजन पुत्र मरणादिवि जागरेऽपि गुणदोषविकल्पसुखदुःखादिकृतो ज्ञ ेयः । तत्र दृष्टान्तः । स्रजि मालायां भित् रज्जुरियमिति सर्पोऽयमिति भेद एव वत् यथेत्यर्थः “इव वद्वेति सादृश्ये” इत्यभिधानात् । स्रजि तदिति पाठे स्रजि मालायां ५४४ श्रीमद्भागवतम् [ स्कं. ६ अ. १७ लो. २५-३२ तत्त्वतो हेतोर्भिदा भेद इव प्रथमे पाठे भित् किवन्तः द्वितीये भिदा दाबन्तः ॥ ३० ॥ तदेवं ज्ञानिनां द्वन्द्वेषु || ज्ञानाभ्यासेनाप्यवस्तुबुद्धिर्दुष्करा भक्तानान्तु ज्ञानवैराग्ययोर्भक्तचनुभावरूपत्वात् विनापि ज्ञानाभ्यासेन तेष्वनुसन्धानमपि न भवतीत्याह - वासुदेव इति । इह संसारे कश्चिदप्यर्थो विशेषस्यापकर्षस्य चाश्रयो नास्ति भक्त्यनुसन्धानादेव मायिकवस्तूना- मुत्कर्षापकर्षानुसन्धानं नैव जायत इति भक्तानां तत्त्वमवधारयेति भावः ॥ ३१ ॥ अस्मदादीनामपि तत्त्वं शृण्वत्याह- नाहमिति । ईहितमभिप्रायं लीलां वा न विदाम यतः पृथगीशमानिनः ॥ ३२ ॥ / शुकदेवकृत: सिद्धान्त प्रदीपः * गिरिशौ सतीभवौ स्मयतोः आश्चर्य प्राप्तयोः सतोः ।। २५-२७ ।। 83 * स्वर्गादिषु आधारत्वेन अन्तः प्रविष्टत्वेन यस्तुल्यः समर्थो भगवान तद्दर्शिनः ॥ २८ ॥ * * ईश्वरस्य सर्वेश्वरस्य लीलया तत्तत्कर्मानुरूपफलदानुरूपया ।। २९ ।। ननु, किं मूलस्तर्हीश्वरनैरपेक्ष्येणाहं समर्थत्वात्सुखी असौ असमर्थत्वात् दुःखीति गुणदोषविकल्प इत्यत्राज्ञानमूल इत्याह आत्मनि अर्थभेद इथ आत्मस्थाने स्थूलोहं कृशोहमिति अर्थभेदोऽर्थान्तरभूतोऽनात्मा देहो यथाऽविवेककृतः अज्ञाननिरूपितः अथवा अनात्मनो देहस्यार्थत्वेन भेदो मतभेदः बाह्यपक्षरूपो विभागोद्भवः पुंसः गुणदोषविकल्पः अविवेककृत एव अहं समर्थत्वेन गुणवान्सुखित्वात् असौ असमर्थत्वेन दोषवान् दुःखित्वात् इति गुणदोषभेदः सर्वमूलभूत भगवदनवबोधकृतः - “ईश्वरोऽहमहं भोगी सिद्धो बलवान् सुखी । आढ्योऽभिजनवानस्मि कोऽन्योस्ति सदृशो मया” इति । मायेति शास्त्रोक्त इत्यर्थः । दृष्टान्तान्त- रम् । स्रजि भित्वच्च मालायां सर्पोयमिति भेद इव च गुणदोषविकल्पोऽविवेककृत एव “इव वद्वेति सादृश्ये” इत्यभिधानात् वदव्ययं सादृश्यवाचकं पृथगेव अतः स्रजि वदित्यार्षमित्युक्तिरयुक्ता ॥ ३० ॥ * * उक्तप्रकारेण भगवानेव सुखादिप्रदः अतो भगवति भक्तिमुद्वहृतां कश्चिद्भगवदितरः व्यपाश्रयः सुखादिप्राप्तये सुखादिनिराकृतौ विशिष्टबुद्धया आश्रयो नास्ति ।। ३१ ।। एवंविधस्य श्रीहरेः यथाह मनुगस्तथा चित्रकेतुरपीत्याह नाहमिति त्रिभिः । अंशकः पुरुषावतारस्तदंशका : ईहितं स्वरूपं चेयतावच्छिन्नतया न विदामः ।। ३२-३३ ॥ गोस्वामिगिरिधरलाल विहिता बालप्रबोधिनी * गिरिशौ भवानीशङ्करौ प्रसाद्य तयोः स्मयतोर्विस्मयं कुर्वतोः सतोर्जगाम ॥ २५ ॥ ततो यज्जातं तदाह- तत इति । देवादीनां च शृण्वतामिति, सर्वेषामुपकाराय रुद्राणीमुद्दिश्य अब्रवीदित्यर्थः ॥ २६ ॥ * * रुद्रवचनान्येव दर्शयति—दृष्टवतीति नवभिः । हे सुश्रोणीति सम्बोधनेन सौन्दर्यादिगुणैरेव तव माहात्म्यं, न तु भक्तिज्ञानवैराग्यादिगुणैरिति सूचयति । हरेर्भक्तानां नारदादीनां ये भृत्याः सेवकाश्चित्रकेतुप्रभृतयस्तेषां माहात्म्यं त्वं दृष्टवत्यसीत्यन्वयः । एवं माहात्म्ये निस्पृहत्वमेव हेतुरित्याशयेनाह - निस्स्पृहाणामिति । विषयस्पृहावतामेव लोके दैन्यदर्शनादिति भावः । कुत एवं निस्स्पृहत्वं भवतीत्यपेक्षायां अहर्निशं भगवच्चिन्तनेन तदनुग्रहादित्याशयेनाह - महात्मनामिति, महति भगवत्यात्मा मनो येषां तेषामित्यर्थः । एवम्भूता अन्येऽपि सन्तीति सूचयितुं बहुवचनम् । इदमपि भगवश्चरितमेव यचित्रकेतुं मम शिक्षायां प्रवर्त्य त्वां कोपयित्वा त्वत्तः शापं दापयित्वा तवापकर्षं तस्य चोत्कर्ष प्रकाशितवानित्याशयेनाह - अद्भुतकर्मण इति ।। २७ ।। * * एवं माहात्म्ये, उक्तमेव भगवत्परत्वं हेतुं स्पष्टयति- नारायणेति । भयाभावे हेतुमाह - स्वर्गेति, स्वर्गादिष्वपि भक्तिसुखराहित्येन अरोचकत्वाविशेषेण तुल्योऽर्थः प्रयोजनमिति द्रष्टुं शीलं येषां ते तथा ॥ २८ ॥ एवं तुल्यदर्शने चित्रकेतुनोक्तमेव हेतुमाह - देहिनामिति । ईश्वरस्य लीलया मायाविद्यादिशक्त्येत्यर्थः । द्वन्द्वान्येव दर्शयति- मुखं दुःखमिति ।। २९ ।। * * ननु सुखादयोऽन्तःकरणधर्मा जन्ममरणादयो देहधर्मास्ते देहिनां भवन्तीति कथमुच्यत इत्याशङ्कयाह - अविवेककृत इति । गुणदोषविकल्पः सुखदुःखादिभेदः पुंसोऽविवेककृतः देहान्तःकरणादावात्माध्यासकृतो मिथ्यैव । तत्र स्वप्नजामद्भेदेन दृष्टान्त- द्वयमाह – स्वप्ने आत्मनि अर्थभेद: राजरङ्कादिभेद इव, जागरे च स्रजि मालायां भिदेव रज्जुसर्पादिभेदवदेव कृतः, न परमार्थत इत्यर्थः । तत्कृत इति पाठे तु अविवेककृत इत्यर्थः । प्रथमपाठे भित् इति क्विबन्तः । द्वितीयपाठे भिदा इति टाबन्तः ॥ ३० ॥ एतस्य भ्रमस्य निवृत्तिस्तु भगवद्भजनात्तत्कृपात एव नान्यथेत्याह - वासुदेवेति । ज्ञानं पूर्वोक्तं भोक्तृभोग्यसर्वात्मतया भगवत्सा- वैराग्यं सर्वतो वैतृष्ण्यं तयोर्वीर्य बलं येषां तेषामिह संसारे कश्चिदप्यर्थो विशेषेणाहम्ममतयाश्रय आश्रयणीयो नास्ति । ज्ञानेन तन्मूलाविद्याया निवृत्तत्वादिति भावः ॥ ३१ ॥ तज्ज्ञानं तु तावत् तत्कृपां विनाऽस्माकमपि दुर्लभं तत्रान्यस्य का वार्तेत्याह - नाहमिति । अस्यांशकांशका अपि वयं पृथगीशमानिनः सन्तो यस्येहितमभिप्रायं लीलां वा तस्य रूपं च न विदामेत्यन्वयः ॥ ३२ ॥ क्षात्कार: एक. ६ अ. १७ लो. २५-३२ ] । अनेकव्याख्यासमलङ्कृतम् भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी , इतीति । हें अरिंदम, इतीत्थं गिरिजां पार्वतीं, प्रसाद्य प्रसन्नां कृत्वा, चित्रकेतुः स्मयतोरत्याश्वर्य प्राप्तयोः, तयोर्भवा- नीभावयोः, पश्यतोः सतोः, स्वविमानेन स्वगमनसाधनेन, जगाम ॥ २५ ॥ * * तत इति । ततस्तु चित्रकेतोर्गमना- नन्तरं तु भगवान् रुद्रः, रुद्राणीम् इदं वक्ष्यमाणं, देवर्षयो नारदाद्या मुनयश्च दैत्या बाणासुरादयश्च सिद्धाः सिद्धताभाजश्च तेषां, पार्षदानां नन्दिप्रभृतीनां च शृण्वतां सताम्, अब्रवीत् ।। २६ ।। - तदेवाह । दृष्टवतीति । हे सुश्रोणि, अद्भुतकर्मणः विविधविचित्रस्वाभाविक क्रियाशक्तेः हरेर्भगवतः भृत्यभृत्यानां दासानुदासानां, निःस्पृहाणां वैषयिकसुखमनिच्छतां महात्मना - मपकर्तृ ष्वपि उपकर्तृ त्वबुद्धिमतां सांसारिक सुखदुःखयोः समबुद्धीनां चेत्यर्थः । माहात्म्यं देहवियोगलक्षणावस्था प्राप्तावप्य- त्रासलक्षणां महत्तां दृष्टवती असि ॥ २७ ॥ एतद्दृष्टान्तेनान्यानपि भगवद्भक्तानीदृशानेव जानीहीत्याह । 1 नारायणपरा इति । नारायणः एव परः परमतत्त्वं येषां ते तथाविधा भगवद्भक्ताः सर्वेऽपि कुतश्चन अर्वाचीनस्य निग्रहादे:, न बिभ्यति भयं न प्राप्नुवन्ति । कुतः । यतः ते भगवद्भक्ताः, स्वर्गापवर्गनरकेष्वपि तुल्यार्थदर्शिनः तुल्यप्रयोज नदर्शिनः । अपवर्गोऽत्र कैवल्यं तदितरमोक्षस्य भगवदनुग्रहरूपत्वेन स्वर्गादितुल्यता कल्पनानुपपत्तेः । यद्वा । अपवर्गः सालोक्यादि- मुक्तिरेव । तेषां तेष्वपि निःस्पृहत्वात् । ‘दीयमानं न गृह्णन्ति बिना मत्सेवनं जनाः । नेच्छन्ति सेवया पूर्णाः कुतोऽन्यत् कालविद्युतम् । मुक्तिमपि नो एवाद्रियन्ते’ इत्यादिवाक्यात् स्वर्गस्यापि नरकताख्यापनाय स्वर्गेण सह नरकशब्दप्रयोगः, स्वर्गस्य, नरकतुल्यत्वं मोक्षधर्मेषूक्तम् । एते वै निरयास्तात् स्थानस्य परमात्मनः’ इति ॥ २८ ॥ * * तत्र समदर्शननिमित्तं वक्तुं तावद्विषमदर्शननिमित्तमाह । देहिनामिति द्वाभ्याम् । देहिनामिति । देहिनां जीवानां, ईश्वर- लीलया हेतुभूतया, ईश्वरलीलात्मिकया जगत्सृष्टयेति यावत् । देहसंयोगाद्देहसंबन्धात्, द्वन्द्वानि सुखदुःखादीनि भवन्ति न । 1 तु स्वरूपगतानि । द्वन्द्वानि दर्शयति । सुखं दुःखं, मृतिः जन्म, शापः अनुग्रहः एव वेति निपातद्वयं शीतोष्णाद्युपलक्षणम् । द्वन्द्वानि जीवस्वरूपे न भवन्तीति तु निर्विवादमेव अस्य देहसंयोगमात्र एवेश्वरलीलाहेतुभूतः न तु द्वन्द्वेषु देहयोगवैचित्र्ये वा हेतुरिति तात्पर्यम् ।। २९ ॥ तर्हि तस्य द्वन्द्वाप्तौ देहयोगवैचित्र्ये च को हेतुरिति चेद्देहात्मभ्रान्तिरूपाविवेक इत्याह । अविवेककृत इति । आत्मनि ज्ञानैकाकारे जीवे, अर्थभेदः देवमनुष्यत्वादिभेदः इव गुणदोषविकल्पश्च गुणाः सुखसत्कुलजन्मा- नुग्रहरूपाः, दोषा दुःखमृतिशापाः, एषां विकल्पो भेदोऽपि, अविवेककृतः अनादिकर्महेतुकदेहात्मभ्रान्तिरूपविवेकाभावकृतः हि । ज्ञानैकाकारे आत्मनि अर्थभेदः गुणदोषविकल्पश्चेत्युभयमपि केवलाविवेककृतमिति तात्पर्यम् । अर्थभेदस्य - यदविवेक- कृतत्वं तस्य सद्योऽवबोधायोगात प्रसिद्धं सुबोधं दृष्टान्तान्तरमाह । स्वप्नकल्पिता भिदा इव । यथा स्वप्नद्रष्टुः स्वस्मिन् वस्तुतोऽविद्यमान एव गजस्कन्धारोह:, तेन देशान्तरगमनं राज्याभिषेकः, शिरश्छेदः इत्येतेषामर्हो देहभेदः यावत्स्वप्नकाल - मनुभाव्यः अपि, अविवेकमूलस्तद्वदित्यर्थः । चतुर्थचरणे भिदेव स्रजिवत् कृत इति केषांचित्पाठस्तत्र पूर्वलोकोक्तेषु तेषु द्वन्द्वेष्विति शेषः । गुणदोषविकल्पः इव इष्टानिष्टभेद इव, यः स्फुरतिः सः, आत्मनि अर्थभेदः अनात्मनि देहे आत्मतामननरूपः अस्ति । स च पुंसः, स्वप्ने यथा, अविवेककृतः भवति, तथा जाग्रत्यपि अविवेककृतः भवतीत्यर्थः । अयं कथमिवाविवेककृत- स्तत्राह । स्रुजिवत् सजि इव, भिदा इव, वस्तुतो या रज्जुः, कुण्डलाकारेण पतिता, तस्यां ध्वान्तादिनिमित्तेन सर्पमालादि- कृतोऽर्थभेदो यथा भौतिकेषु चञ्चत्त्वाचञ्चत्त्वनिमित्तेन उत्तममध्यमाधमादिभिदा कृतोऽर्थभेदो यथाऽज्ञानकृतस्तथाऽयमस्ती - त्यर्थः । स्रग्वदिति वक्तव्ये स्रजिवदित्यार्थम् । मुख्यपाठ परित्यज्य पाठान्तरविधातुरभिप्रायो विचारार्हः ॥ ३० ॥ एवं । * * भयनिमित्ते विषमदर्शनेऽविवेको हेतुरित्युक्तमथ नारायणपरायणानामीदृशाविवेकाभावात् केचित्कदाचिद्देहसंबन्धोपजाता- विवेकस्य पुनः स्वात्मपरमात्मयाथात्म्यावमर्शने तदपोहात्तन्मूलकं विषमदर्शनं तन्मूलकं भयदर्शनं च नास्तीत्याह । वासुदेव इति । ज्ञानं शास्त्रजन्यं विज्ञानं प्रकृतिपुरुषेश्वरयाथात्म्यावमर्शनं ते एव तयोर्वा बलं येषां ते तेषां वासुदेवे भगवति भक्तिम् उद्वहतां कुर्वतां नृणाम् इह लोके, कश्चित् व्यपाश्रयः विशिष्टत्वेनाश्रयितुं योग्यः, न । यद्दर्शनादिना हृदयात्परमात्मा विस्मृतोः : भवति ताकिमपि नास्तीत्यर्थः । यदैवंविधानां तेषां विषमदर्शनं नास्ति, तदा कुतस्तन्निमित्तं भयमिति भावः ।। ३१ ॥ * * एवं रुद्रेण नारायणपरायणानां माहात्म्यमजानन्त्यै भार्यायै तत् प्रदर्शितमथ स्त्रीस्वभावत्वात् सर्वेश्वरे सर्वकारणे त्वयि [त्वद्भक्तेषु वा त्वत्सृज्यत्वन्नियाम्यनारायणस्य तद्भक्तानां वा माहात्म्यं समुद्र मेघविडिव कियदित्याशङ्कमानां प्रत्याह । नाहमिति । अहं रुद्रः, यस्य ईहितं चेष्टां तत्स्वरूपं च न वेद्मि । विरिवो ब्रह्मा, न वेत्ति । कुमारः सनत्कुमारश्च नारदो देवर्षिश्च तौ, न वित्तः । ब्रह्मपुत्रा मरीच्यादयः, मुनयस्तदितरे मुनयः, सुरेश्वरा इन्द्रादयः, न विदन्ति । अज्ञाने हेतुः । यतः, वयम् अंशकांशकाः तदाहित ज्ञानशक्तिलेशयुक्ताः, तन्मात्रत्वेऽपि पृथगीशमानिनः वयमपि पृथगीश्वरा इत्यभिमानयुक्ताः । अतः, न विदामः । अनेन स्वस्मिन् सर्वेश्वरत्वशङ्का निवर्त्तिता । ईहितं न विदाम इत्यनेन कारणत्वशङ्कापि निवर्त्तिता स्वसृज्यत्वनियाम्यत्वे च नारायणपरे इत्यप्युक्तम् ॥ ३२ ॥ ६९ " ५४६ श्रीमद्भागवतम् भाषानुवाद [ स्कं. ६ १७ लो. ३३-३६ ।। ।। + * भगवान् शङ्करने तुमने अपनी आँखों क्योंकि उन्हें स्वर्ग मोक्ष जीवोंको भगवान्की श्रीशुकदेवजी कहते हैं- परीक्षित् विद्याधर चित्रकेतु भगवान् शङ्कर और पार्वतीजीको इस प्रकार प्रसन्न करके उनके सामने ही विमानपर सवार होकर वहाँसे चले गये । इससे उन लोगोंको बड़ा विस्मय हुआ ॥ २५ ॥ * तब भगवान् शङ्करने देवता, ऋषि, दैत्य, सिद्ध और पार्षदोंके सामने ही भगवती पार्वतीजी से यह बात कही ।। २६ । कहा— सुन्दरि ! दिव्यलीला बिहारी भगवान् के निःस्पृह और उदारहृदय दासानुदासोंकी महिमा देख ली ।। २७ ।। * * जो लोग भगवान के शरणागत होते हैं, वे किसी से भी नहीं डरते । और नरकों में भी एक ही वस्तुके- केवल भगवान के ही समान भाव से दर्शन होते हैं ॥ २८ ॥ * लीलासे ही देहका संयोग होनेके कारण सुख-दुःख जन्म-मरण और शाप - अनुग्रह आदि द्वन्द्व प्राप्त होते हैं ।। २९ ।। * * जैसे स्वप्न में भेद-भ्रमसे सुख-दुःख आदिकी प्रतीति होती है और जाग्रत अवस्था में भ्रमवश माला में ही सर्पबुद्धि हो जाती है— वैसे ही मनुष्य अज्ञानवश आत्मामें देवता, मनुष्य आदिका भेद तथा गुण-दोष आदिकी कल्पना कर लेता है ।। ३० ।। जिनके पास ज्ञान और वैराग्यका बल है और जो भगवान् वासुदेव के चरणोंमें भक्तिभाव रखते हैं, उनके लिये इस जगत् में ऐसी कोई भी वस्तु नहीं है, जिसे वे हेय या उपादेय समझकर राग-द्वेष करें ॥ ३१ ॥ मैं, ब्रह्माजी, सनकादि, नारद, ब्रह्माजीके पुत्र भृगु आदि मुनि और बड़े-बड़े देवता - कोई भी भगवान की लीलाका रहस्य नहीं जान पाते। ऐसी अवस्थामें जो उनके नन्हे-से-नन्हे अंश हैं और अपनेको उनसे अलग ईश्वर मान बैठे हैं, वे उनके स्वरूपको जान ही कैसे सकते हैं ? ।। ३२ ।। ॥ ३३ ॥ ३४ ॥ न ह्यस्यास्ति प्रियः कश्चिन्नाप्रियः स्वः परोऽपि वा । आत्मत्वात्सर्वभूतानां सर्वभूतप्रियो हरिः तस्य चायं महाभागश्चित्रकेतुः प्रियोऽनुगः । सर्वत्र समदृक् शान्तो ह्यहं चैवाच्युतप्रियः ॥ तस्मान्न विस्मयः कार्यः पुरुषेषु महात्मसु । महापुरुषभक्तेषु कार्यः पुरुषेषु महात्मसु । महापुरुषभक्तेषु शान्तेषु समदर्शिषु ॥ ३५ ॥ श्रीशुक उवाच इति श्रुत्वा भगवतः शिवस्योमाभिभाषितम् । बभूव शान्तधी राजन् देवी विगतविस्मया ॥ ३६ ॥ कृष्णप्रिया व्याख्या अन्वयः - हि अस्य कश्चित् प्रियः न अस्ति अप्रियः न स्वः हरिः सर्वभूतानाम् आत्मत्वात् सर्वभूतप्रियः ॥ ३३ ॥ च अयं सर्वत्र समदृक् शांतः महाभागः चित्रकेतुः यस्य अनुगः प्रियः हि च अहम् अच्युतप्रियः एव ॥ ३४ ॥ * * तस्मात् महापुरुषभक्तेषु शान्तेषु समदर्शिषु महात्मसु पुरुषेषु विस्मयः न कार्यः ॥ ३५ ॥ राजन् उमा देवी इति भगवतः शिवस्य अभिभाषितं श्रुत्वा शांतधीः विगतविस्मया बभूव ॥ ३६ ॥ श्रीधरस्वामिविरचिता भावार्थदीपिका अत एव हरिरपि सर्वेषां भूतानां प्रियः ॥ ३३ ॥ अयं चैथाच्युतस्य प्रियः तस्मान्ममास्मिन् क्रोधो नाभूदिति भावः ।। ३४-३६ ।। वंशीधरकृतो भावार्थदीपिकाप्रकाशः * । अत एव सर्वभूतानामात्मत्वादेव ॥ ३३ ॥ * * इति भाव इति । चित्रकेतुर्हि मम स ब्रह्मचार्यस्ति स च ममातीव प्रियस्तत्र क्रोधोदयः कथं भवेदित्याशयः । तस्य हरेः ॥ ३४ ॥ यतो हरिभक्ताः समदर्शिनस्तस्माद्धेतोः । तंत्र चाहमपि समदृक् शांतश्च सन्नच्युतप्रियः अतो ममान्यत्रासक्तत्वाल्लौकिकलज्जाद्यनादराच्च सभायां भवत्यालिंगनमपि न संकोचहेतुरिति भावः ।। ३५ ।। * * हे राजन्निति हरिभक्त्या त्वमतिराजस एव न स्वस्मिंस्तद्भक्तिश्रवणेनानाहतो भवेति भावः ॥ ३६ ॥ अन्वितार्थप्रकाशिका न हीति । सर्वभूतानामात्मत्वाद्धेतोः हरिः सर्वभूतानां प्रियः अस्य भगवतस्तु समत्वात् कश्चित्प्रियो नास्ति एवम- प्रियः स्वः परोऽपि कश्चिन्नास्ति ॥ ३३ ॥ तस्येति । अयं मद्दाभागश्चित्रकेतुः तस्य भगवतः प्रियः अनुगः सेवकः । स्क. ६ अ. १७ लो. ३३-३६ ] अनेकव्याख्यासमलङ्कृतम् ५४७ सर्वत्र समदृक शान्तः रागादिरहितः अहं चाच्युतस्य प्रियः तस्मादस्मिन् मम क्रोधो नाभूदिति भावः ॥ ३४ ॥ * तस्मादिति तस्मात् महापुरुषभक्तेषु शान्तेषु समदर्शिषु महात्मसु पुरुषेषु विस्मयः शापहेतुर्गर्वः तन्माहात्म्यं दृष्ट्वा विस्मयो वा न कार्यः ॥ ३५ ॥ इतीति । हे राजन् ! इति भगवतः शिवस्याभिभाषितं श्रुत्वा देवी उमा विगतविस्मया गर्वरहिता अत एव शान्ता क्रोधरहिता धीर्यस्यास्तथाभूता बभ्रुव ॥ ३६ ॥ वीरराघवव्याख्या यद्ययं सर्वेश्वरः सर्वकारणभूतः तर्ह्यस्य प्राकृतस्येवाश्रितेष्वेव विशिष्योक्तविधमाहात्म्यापादकः किमर्थ पक्षपातः तत्राह नहीति । अस्य नारायणस्यातीव प्रियादिः कश्चिन्नास्ति, तत्र हेतु:, आत्मत्वात्सर्वभूतानां ब्रह्मादिस्तम्बपर्यन्तानां चिदचिदात्म- कानां भूतानामात्मत्वादन्तरात्मत्वात् न ह्यात्मनः एकं शरीरं प्रियमेकमप्रियं भवतीति भावः, यत एवात्मा सर्वभूतानामतस्तेषा- माश्रयः धारकः अन्तः प्रविश्य भर्तेत्यर्थः । सर्वभूताश्रय इत्यनेन शरीराणां सर्वभूतानाम् आत्मभूतपरमात्मानुवर्तनं युक्तमेवेति सूचितम्, न हि शरीरमात्मानमननुवृत्यावतिष्ठते शरीरस्यात्मानुवर्त्तनस्वभावत्वात्, हरिरित्यनेन स्वानुवर्त्यार्तिहरत्वं सूचितम् । एवञ्च ये स्वाभाविकं जीवपरमात्मनोः शरीरात्मभावं जानन्तस्तमनुवर्त्तन्ते तेषु तस्यानुग्रहः इतरेषु तदभाव इति तात्पर्यम् अत: एव तस्य वैषम्यमित्यपि सूचितं न ह्यननुवर्तिष्वननुग्रहमात्रेण तस्य वैषम्यं न ह्याश्रिताभीष्टप्रदस्य सुरद्रुमस्यानाश्रिताभीष्टाप्रदान- मात्रेण तस्य वैषम्यमापादयितुं शक्यम् ॥ ३३ ॥ * * यत एवायमात्मा भूतानामाश्रितानामभीष्टार्थदोऽविषमश्चात एव चित्रकेतुवदहमपि तमेवोपासे इत्याह- तस्येति । यथा महाभागः विवेकी सर्वत्र समहक शान्तश्च चित्रकेतुस्तस्य नारायणस्या- नुगः भृत्यः भक्तः अत एव प्रियः निरतिशयप्रीतिविषयः तथा अहमप्यच्युतस्य प्रियः तन्निमित्तभक्तिमांश्च ॥ ३४ ॥ तस्मान्नारायणप्रियमाहात्म्ये न विस्मय: कार्य इति वदन्नुपसंहरति-— तस्मादिति । यस्मान्नारायणस्तद्भक्ताश्च अस्मदादिभ्यो विलक्षणप्रभावाः तस्मान्महापुरुषस्य भगवतः भक्तेषु महात्मसु प्रकृतिपुरुषेश्वरयाथात्म्यावमर्शनप्रवणचित्तेष्वत एव समदर्शिषु शान्तेषु विरक्तेषु पुरुषेषु न विस्मयः कार्यः ॥ ३५ ॥ * * भगवतः शिवस्येत्थम् एवमभिभाषितं वचः श्रुत्वा गौरी देवी विगतविस्मया विस्मयरहिता शान्तधीः क्रोधरहिता च बभूव ।। ३६ ।। विजयध्वजतीर्थकृता पदरत्नावली आत्मत्वात्स्वामित्वात् न हि सर्वभूतस्वामिनः स्वपरभेदकल्पना युक्ता हेत्वन्तरमाह - सर्वभूतेति ।। ३३-३६ ॥ जीवगोस्वामिकृतः क्रमसन्दर्भः भक्तमाहात्म्यमेव चित्रकेतुदृष्टान्तेन स्पष्टयति-न ह्यस्येति द्वाभ्याम् । प्रियाप्रिययोः स्वपरयोश्च भेदों नास्तीत्यर्थः । तत्र हेतु:’ आत्मत्वादिति, आत्मत्वेन साम्यादनपेक्षणीयत्वाचेत्यर्थः । आत्मत्वादेव हेतोः सर्वभूतानान्तु प्रियः निरुपाधिकप्रीति- विषयः ।। ३३-३४ ।। * * विरुद्धम् । अत एवात्रे वक्ष्यते । इतिहासमिमं पुण्यं चित्रकेतोर्महात्मनः’ इति ॥ ३५-३८ ॥
विश्वनाथचक्रवतिकृता सारार्थदर्शिनी ।
- हरेश्व तत्त्वं शृणुन हीति । स तुम्हरिः सर्वभूतानां प्रिय एव तदपि यत् स केषाञ्चित् प्रियो भवति केषाश्चिद्वेष्यश्च भवति तत्र तारतम्येन मायैव कारणमिति तन्मायायाश्च तत्त्वं ज्ञापितम् ॥ ३३ ॥ तस्य च तथाभूतस्यापीत्यर्थः । प्रियत्वे हेतुः सर्वत्र समदृक् स्वर्गापवर्गादौ तुल्यार्थदर्शी अत एव शान्त: । उच्चनीचबुद्धिरहितः एतादृशगुणकत्वेन तत्प्रियत्वे दृष्टान्तं दर्शयति – अहं चैवेति, अहञ्च समदृक् शान्तश्च सन्नच्युतस्य प्रियः अतो ममानासक्तत्वाल्लौकिकलज्जाद्यनादरत्वाच सभादौ भवदाद्यालिङ्गनमपि न सङ्कोचहेतुरिति भावः । तस्मादच्युतस्याश्रयत्वात् ॥ ३४ ॥ पूर्व धृष्टायेत्यादिना निन्दितं सम्प्रति त्वेतावत् साधुलक्षणमिति स्तुतं तत्त्वञ्च तस्य व्यवहृतासाधुत्वमवलम्ब्योक्तत्वात् किन्त्वस्य चित्रकेतोर्मम च तत्त्वं शृण्वित्याह– तस्य सर्वत्र समस्यापि । “समोहं सर्वभूतेषु न मे द्वेष्योस्ति न प्रियः । ये भजन्ति च मां भक्त्या मयि ते तेषु चाप्यहम्” इति तद्वाक्यादेवायमनुगश्चित्रकेतुः प्रियः ममापि भक्तत्वादहञ्च प्रियः तस्मादावयोस्सङ्कर्षणभक्तयोः परस्परसख्येनान्तः- स्नेहवत्वात् कठोरोत्त्यादिकमपि सख्यसुखपोषकमेव, त्वन्तु वृथैव कोपिन्यभूः किञ्च सत्यम हमीदृशी एव त्वन्त्वात्मानं निष्किञ्चन- मैकान्तिकभक्तत्वेन सर्वत्र दर्शयसि अथ च रहसि विद्याधरीसहस्रेण सह रमसे तस्मात्त्वं कपटी अहन्त्वात्मानं स्त्रीलम्पट्यमयं दोषं दर्शयन्निष्कपट एवास्मि किञ्च त्वं भक्तिं दर्शयसि विषयभोगं गोपयसि अहन्तु तद्विपरीत एव वर्त्ते इत्यावयो: अन्तरमेते सभ्या एव साचित्वेनाचक्षन्तामित्यादिनर्मगोष्ठीरसास्वादोप्यया भविष्यदेव यदि त्वमन्तरा अन्तरायं नाकरिष्य इति त्वत्कोप- 名 श्रीमद्भागवतम् [ स्कं. ६. अ. १७ हो. ३३-२६ वैरस्यादेव स नाभूदित्युपालम्भो ध्वनितः । हन्त हन्त क्षेत्रबन्धुष्वर्वाचीनेष्वधुनैव भक्तिमार्गमारूढेषु तवेश्वरस्यानादिमहाभक्त- स्याप्येताशेष्वप्येतावान् भावो नमस्तुभ्यं तदिति विस्मयवत्यां तस्यां सत्यमेतावानेव भाव इत्याह- तस्मादिति ॥ ३५ ॥ शान्तधीरिति । स्वीयपूर्वस्वभावस्मृत्यालज्जया पटाञ्चलेन मुखमाच्छादयामासैति भावः ॥ ३६ ॥ ७ शुकदेव कृतः सिद्धांत प्रदीपः अच्युतप्रियोऽहं तस्यानुग एक अयं चित्रकेतुश्च तस्य प्रियोऽनुगः ममास्मिन् क्रोधो नास्ति त्वया तु बाल्याच्छापो नियो- जित इति भावः ॥ ३४ ॥ * * विशेषतो स्मयो वयमुत्तमा इति गर्वः ॥ ३५ ॥ विगतविस्मया विनष्टगर्वा ॥ ३६ ॥ गोस्वामिगिरिधरलाल विहिता बालप्रबोधिनी ननु यूयं तस्य प्रिया युष्मासु कथमनुग्रहो नास्ति येन तत्तत्त्वं न जानीथेत्याशङ्कयाह-न हीति । तहिं सोऽपि युष्माकं प्रियो न स्यात् प्रियत्वस्य परस्परापेक्षसिद्धत्वादित्याशङ्कयाह — सर्वभूतप्रियो हरिरिति । तस्य सर्वप्रियत्वे प्रियाप्रियादिविषम- दृष्टिराहित्ये च हेतुमाह - आत्मत्वात् सर्वभूतानामिति । स्वात्मनि निरुपाधिके प्रियत्वस्य सर्वजनीनत्वादिति भावः ॥ ३३ ॥ ननु भवत्येवं तथापि सर्वसंहारकत्तु स्तव अशोभनवादिनि चित्रकेतौ कोपः कथं न जात इत्यपेक्षायामाह - तस्येति । तस्य निजा- नन्दपरिपूर्णत्वेन प्रियाप्रियव्यवहारातीतस्यापि ‘समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः । ये भजन्ति च मां भक्ता मयि तेषु चाप्यहम्’ इति वाक्यादयं चित्रकेतुः प्रियः । अतएव महाभागः । प्रियत्वे हेतु :- अनुगः सेवकः । सर्वत्र समं तमेव पश्यतीति तथा । अतएव शान्तः रागादिशून्यः । अहं चाच्युतस्य भक्तत्वात् प्रिय एव । हि यस्मादेवमावयोः एकभक्तत्वेन परस्परं सख्यम् अतस्तस्मिन् मम क्रोधो नाभूदिति भावः ॥ ३४ ॥ * * एवं स्वाभिप्रायं निरूप्य देवीं शिक्षयति- तस्मादिति । भगवदनुग्रहेण सामर्थ्यस्य विद्यमानत्वादित्यर्थः । विस्मयः शापहेतुर्गर्यो न कार्यः । अन्यथा तेषां प्रतिशापेन तवाप्यभिभवः स्यादेवेति भावः । स्पष्टमन्यत् ॥ ३५ ॥ इति भगवतः शिवस्य भाषितं श्रुत्वा उमा विगतविस्मया गर्वरहिता अतएव शान्ता क्रोधावेशरहिता धीर्यस्यास्तथाभूता बभूवेत्यन्वयः । यतो देवी सात्विकी ।। २६ ।।
भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी । यद्ययं सर्वेश्वरः सर्वकारणभूतस्तर्ह्यस्य प्राकृतस्येव स्वाश्रितेष्वेव विशिष्योक्तविधमाहात्म्यापादकत्वं कथं, तथात्वे पक्षपातित्वमस्मिन्नागतं तत्राह न । हीति । अस्य नारायणस्य, कश्चित् अतिप्रियः, न हि । कश्चित् अप्रियः न । स्वः स्वकीयः, न । परः परकीयोऽपि वा न । तत्र हेतुः । सर्वभूतानाम् आत्मत्वात हरिः सर्वभूतप्रियः सर्वेषां भूतानां प्रियः । सर्वाणि भूतानि प्रियाणि यस्येति वा । न हि सर्वभूतप्रिये स्वपरकल्पना कत्तु युक्ता । वस्तुतोऽस्याविषमत्वादिति भावः ॥ ३३ ॥ ४ यत एवायं नारायणः सर्वात्मा शरणागताभीष्टार्थदोऽविषमश्चात एवं चित्रकेतुवदहमपि तमेवोपासे इत्याह । तस्येति । महाभागः विवेकी, सर्वत्र समहक शान्तश्च अयं चित्रकेतुः, यथा तस्य नारायणस्य, अनुगः भृत्यः, अत एव प्रियः निरतिशयप्रीतिविषयः, भवति । तथा अहं च अहमपि, अच्युतप्रियः हि एव । अवधारणद्वयमुक्तार्थदाय || ३४ ॥ * * तस्मादिति । तस्माद्भगवद्भक्तानामित्थंभूतमहिमत्वात्, शान्तेषु विरक्तेषु महात्मसु महानुभावेषु, समदर्शिषु महापुरुषभक्तेषु, पुरुषेषु विस्मयः न कार्यः । भगवद्भक्तानां पुरः स्वैश्वर्यगर्वेण क्रोधो न कार्य इति रहस्यम् ॥ ३५ ॥ * * इतीति । भगवतः शिवस्य, ।। ॥ ४ इत्युक्तप्रकारम् अभिभाषितं वचः श्रुत्वा, हे राजन, उमा गौरी, देवी योगैश्वर्येण दीप्यमाना सत्यपि, विगतविस्मया विगतगर्वा, अत एव शान्तधीः क्रोधरहिता च बभूव ।। ३६ । भाषानुवादः EU भगवानको न कोई प्रिय है और न अप्रिय । उनका न कोई अपना है और न पराया। वे सभी प्राणियों के आत्मा हैं, इसलिये सभी प्राणियोंके प्रियतम हैं ।। ३३ । प्रिये ! यह परम भाग्यवान् चित्रकेतु उन्हींका प्रिय अनुचर, शान्त एवं समदर्शी है और मैं भी भगवान् श्री हरिका ही प्रिय हूँ ॥ ३४ ॥ 8 इसलिये तुम्हे भगवान के प्यारे भक्त, शान्त, समदर्शी, महात्मा पुरुषों के सम्बन्धमें किसी प्रकारका आश्चर्य नहीं करना चाहिये ।। ३५ ।। 8 8 श्रीशुकदेवजी कहते हैं परीक्षित्! भगवान् शङ्करका यह भाषण सुनकर भगवती पार्वतीकी चित्तवृत्ति शान्त हो गयी और उनका विस्मय जाता रहा ।। ३६ ।६. १७ झो. ३७-४१] 1.4 अनेकव्याख्यासमलङ्कृतम् ३८ ॥ इति भागवतो देव्याः प्रतिशशुमलन्तमः । मूर्ध्ना सञ्जगृहे शापमेतावत्साधुलक्षणम् ॥ ३७ ॥ जज्ञे त्वष्टुदक्षिणाग्नौ दानवीं योनिमाश्रितः । वृत्र इत्यभिविख्यातो ज्ञानविज्ञानसंयुतः ॥ एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि । वृत्रस्यासुरजातेच कारणं भगवन्मतेः ॥ इतिहासमिमं पुण्यं चित्रकेतोर्महात्मनः । माहात्म्यं विष्णुभक्तानां श्रुत्वा बन्धाद्विमुच्यते ॥ ३९ ॥ ९॥ ४० ॥ य एतत्प्रातरुत्थाय श्रद्धया वाग्यतः पठेत् । इतिहासं हरिं स्मृत्वा स याति परमां गतिम् ॥ ४१ ॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे चित्रकेतुशापो नाम सप्तदशोऽध्यायः ॥ १७ ॥ कृष्णप्रिया व्याख्या ५४० यत् त्वं महात्मनः चित्रकेतोः अन्वयः - इति प्रतिशप्तुं अलंतमः भागवतः देव्याः शापं मूर्ध्ना संजगृहे एतावत् साधुलक्षणम् अस्ति ।। ३७ ।। ज्ञानविज्ञानसंयुतः वृत्र: ज्ञाने अभिविख्यातः दानवीं योनिम् आश्रितः त्वष्टुः दक्षिणामौ जज्ञे ॥ ३८ ॥ मां वृत्रस्य असुरजातैः च भगवन्मतेः कारणं परिपृच्छसि एतत् सर्व ते आख्यातम् ॥ ३९ ॥ इमं पुण्यम् इतिहासं विष्णुभक्तानां माहात्म्यं श्रुत्वा बंधात् विमुच्यते ॥ ४० ॥ एतत् इतिहास हरि स्मृत्वा पठेत् सः परमां गतिम् याति ॥ ४१ ॥ * यः प्रातः उत्थाय श्रद्धया वाग्यतः इति षष्ठे सप्तदशोऽध्यायः ।। १७ ।। प्रतिशप्तुं प्रतिशाप मतेश्च ।। ३९-४० ॥ श्रीधरस्वामिविरचिता भावार्थदीपिका दातुमलंतमः समर्थतमोऽपि ॥ ३७-३८ ।। असुरजातेरसुरभावेनोत्पत्तेर्भगवति ।। एतदेतम् ॥ ४१ ॥ इति श्रीम० षष्ठस्कंधे टीकायां सप्तदशोऽध्यायः ॥ १॥ ॥ IPME वंशीधरकृतो भावार्थदीपिकाप्रकाशः पूर्व वृष्टायेत्यादिना निंदितं संप्रति त्वेतावत्साधुलक्षणमिति स्तुतं तच्च तस्य व्यवहृतावसाधुत्वसाधुत्वमवलंब्यो- तत्वान्न विरुद्धम् । अत एवाप्रे वक्ष्यते “इतिहासमिमं पुण्यं चित्रकेतोर्महात्मनः” इति । असुरजातेः कारणं महदपराधो भगवन्मतेः कारणं महदनुग्रह इति ॥ ३७ ॥ * * “अग्निर्वै ब्राह्मणः” इति श्रुतेरग्नेरुत्पन्नत्वात्तस्यापि ब्राह्मणत्वमत एवोक्तम् । “ब्रह्महत्या हते तस्मिन्नाससाद वृषाकपिम्” इति “स चिंतयन्त्रह्मवधाद्विमोक्षम्” इति च ।। ३५-४० ॥ एतदेतमितिहासं हरिं स्मृत्वा पठेत् ॥ ४१ ॥ इति श्रीमद्भागवतभावार्थदीपिकाप्रकाशे षष्ठस्कन्धे सप्तदशोऽध्यायः ।। १७ ।। अन्वितार्थप्रकाशिका इतीति । भागवतश्चित्रकेतुः प्रतिशतमलन्तमः अतिसमर्थोऽपि देव्याः शापमित्येवं मूर्ध्ना संजगृहे । एतावदेव पराप– कारवर्जनमेव साधुलक्षणम् ॥ ३७ ॥ * * जज्ञ इति । स एव भवानीशापवशादृक्षवीं योनिमाश्रितो वृत्र इत्यभिविख्यातः प्रसिद्धः त्वष्टुर्दक्षिणाग्नौ : जज्ञे । तत्रापि भगवत्प्रभावात् ज्ञानविज्ञानसंयुत एव जातः ॥ ३८ ॥ * एतदिति । यत्त्वं मां परिपृच्छसि तदेतत् वृत्रस्या सुरजातेः कारणं तत्रापि भगवति मतेश्व कारणमन्यश्च तत्प्रासङ्गिकं सर्वं ते तव मयाऽ- ऽख्यातम् ।। ३९ ।। * इतिहासमिति । स्पष्टम् ।। ४० ।। * * य इति । एतत् इतिहासवर्णनं नियमेन पठेत् सोऽन्ते हरिं स्मृत्वा तमेव परमां गतिं याति शेषं स्पष्टम ।। ४१ ।। । इति श्रीभागवते महापुराणे षष्ठस्कन्धे ऽन्वितार्थप्रकाशिकायां सप्तदशोऽध्यायः ॥ १७ ॥ १. प्रा० पा०श्रद्धावान् । २. प्रा० पा० केतुमाख्याने सप्तदशः । ि atra श्रीमद्भागवतम् वीरराघवव्याख्या * [ स्कं. ६ अ. १७ लो. ३७-४१ L ततो भागवतश्चित्रकेतुगौर्याः प्रतिशप्तुं प्रतिशापङ्कर्तुम् अलन्तमः समर्थोपि तस्याः शापं मूर्ध्ना सञ्जगृहे शिरसोवाह साधूनां लक्षणमेतावदेव हि अपकर्तृष्वप्युपकर्तृत्त्व बुद्धिमत्त्वमेव हि साधूनां लक्षणमित्यर्थः ॥ ३७ ॥ * यत्पृष्टं राज्ञा वृत्रस्यासुरस्वभावस्य “ नारायणे भगवति कथमासीदृढामतिः” इति तस्योत्तरं सङ्गमयति-जज्ञ इति । योऽयमुक्तविधश्चित्रकेतुः स एव त्वष्टुः संकल्पाद्दक्षिणाग्नौ जज्ञे जातः स एवासुरी योनिमासुरं भावमाश्रितः वृत्र इत्यभितः विख्यातः प्रसिद्धः स पूर्व- जन्मसिद्धभगवद्भक्त्याऽस्मिन्नपि जन्मनि ज्ञानविज्ञानाभ्यां युक्तः ॥ ३८ ॥ एवं त्वत्प्रश्नोत्तरमुक्तमित्याह - एतदिति । षत्त्वमसुरजातेर्वृत्रस्य भगवति स्मृतेर्भक्तेः कारणं परिपृच्छसि पर्यपृच्छः तस्योत्तरमेतत्सर्वं सप्रपञ्चं ते तुभ्यं मया आख्यातं कथितम् ॥ ३९॥ सम्बन्धिनं
- पुण्यमिममितिहासं विष्णुभक्तानां माहात्म्यसूचकं श्रुत्वा बन्धात्संसारबन्धाद्विमुच्यते मुक्तो भवेत् ।। ४० ।। * यः पुमान प्रातरुत्थाय श्रद्धावान् वाग्यतः नियमितवाकू हरिं स्मृत्वा एतमितिहासं पठेत् । स परमां गतिं सर्वोकृष्टं भगवत्सायुज्यं प्राप्नु- यात् श्रवण पठनाभ्यां शनैः परिनिष्पन्नभक्तियोगो मुक्तो भवेदिति भावः ॥। ४१ ।। अस्य चित्रकेत्वितिहासस्य श्रवणादिफलमाह - इतिहासमिति । महात्मनश्चित्रकेतो ॥ ४१ ॥
इति श्रीमद्भागवत महापुराणे षष्ठस्कन्धे श्रीमद्वीरराघवाचार्यकृतभागवतचन्द्रचन्द्रिकायां सप्तदशोऽध्यायः ।। १७ ।। विजयध्वजतीर्थकृता पदरत्नावली अथ प्रसादये न त्वां शाप मोक्षायेत्यस्यार्थश्चतुर्धा सम्भाव्यते शापोऽभिमत इति कृत्वा, तन्मोक्षायाप्रसादनम् अनिष्टो प्यतर्कित्वेन प्राप्तोभिमत इति कृत्वा वा, तदभिभवशक्त इति कृत्वेति, आहोस्वित् प्रतिशापदानसमर्थ इति कृत्वेति, कोऽयमथोऽ- नेनाङ्गीकृत इति तत्राह – प्रतिशप्तुमिति, मूर्ध्ना सञ्जगृह इत्यनेन द्वितीयोभिमत इति ज्ञायते प्रश्रयस्य साधुलक्षणत्वात् अस्य च साधुष्वेकत्वाच्चतुर्थ पक्षस्योर्वरितत्वेनाङ्गीकारो न भवति “देवा एव तदन्येभ्यः शक्ता नास्त्यत्र संशयः” इति वचनात् अत्र यः कश्चिद्विशेषोस्तीति मतम् – “अशक्ता अपि शक्तानां शक्ताः शापादिषु स्फुटम् । तथाप्यशक्तैर्विहिताः शापाद्याः शक्तिमत्सु च ।। अत्यल्पा अल्पकालाच न सम्यक् प्रभवन्ति च । यत्नेनापोहितुं शक्तत्या उत्तमैस्तु न संशयः ॥ उत्तमेषु कृताः शापाः कर्तॄणां ज्ञानपुण्ययोः निःशेषेण निहन्तारः” इत्यादि ॥ ३७ ॥ * * कुत्रास्य जन्माभूदत्राह - जज्ञ इति ॥ ३८ ॥ परम- प्रमेयमुपसंहरति– एतदिति । वृत्रस्य यश्चरितं मां परिपृच्छसि किञ्च सर्वमेतत्सर्वं किञ्च तस्यासुरजातेरासुरवंशे जननस्य यत्कारणं चैतश्च कथितमिति शेषः ।। ३९ ।। ** फलमाह - इतिहासमिति ।। ४० ।। * शृङ्खलादिबन्धमोक्षोपि बन्ध- मोक्षः स्यात् न तु संसारबन्धमोक्षेण वैकुण्ठलोकप्राप्तिरस्मादवगतेति शङ्कित्वाकालविशेष इतिकर्तव्येन सा स्यादित्याह - य एतदिति ॥ ४१ ॥ इति श्रीमद्भागवत महापुराणे षष्ठस्कन्धे श्रीमद्विजयध्वजतीर्थ कृतपदरत्नावल्यां सप्तदशोऽध्यायः ।। १७ ॥ जीवगोस्वामिकृतः क्रमसन्दर्भ: असुरजातेः कारणं महदपराधः भगवन्मतेः कारणं महदनुग्रहः ।। ३६-४१ ।। इति श्रीमद्भागवते महापुराणे षष्ठस्कन्धे श्रीमज्जीवगोस्वामिकृतक्रम सन्दर्भे सप्तदशोऽध्यायः ।। १७ ॥ विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी चित्रकेतुरर्वाचीनत्वादल्पप्रभाव इति माऽवमंस्था इत्याह- इतीति । देव्याः देव्यै अलंतमः अतिसमर्थोपि ।। ३७ ।। योनिं जातिम् ।। ३८-४१ ॥ इति सारार्थदर्शिन्यां हर्षिण्यां भक्तचेतसाम् । षष्ठे सप्तदशोऽध्यायः सङ्गतः सङ्गतः सताम् ।। १७ ।। शुकदेवकृतः सिद्धान्तप्रदीपः इत्येवं स भागवतः प्रतिशप्तुं प्रतिशापं दातुमलन्तमोऽतिसमर्थोपि देव्याः शापं मूर्ध्ना जगृहे एतावदेव साधूनां लक्षणम् ॥ ३७ ॥ * स एव वृत्र इति विख्यातः जज्ञे जातः ॥ ३८ ॥ * * वृत्रस्यासुरजातेः असुरभावेनोत्पत्तेः भगवन्मतेः भगवद्भक्तेश्व कारणमित्येतत्सर्वं ते तुभ्यमाख्यातम् ॥ ३६ ॥ उक्तेतिहासश्रवणादिफलमाह - इतिहास- मितिद्वाभ्याम् ।। ४० ।। * * एतदिममितिहासं यः प्रातरुत्थाय पठेत्स हरिं स्मृत्वा परमां गतिं याति ॥ ४१ ॥ इति श्रीमद्भागवते महापुराणे षष्ठस्कन्धे श्रीमच्छुकदेवकृतसिद्धान्तप्रदीपे सप्तदशोऽध्यायः ॥ १७ ॥ २ स्कं. ६ अ. १७ श्लो. ३७-४१ ] अनेकव्याख्या समलङ्कृतम् गोस्वामिगिरिधरलालविहिता बालप्रबोधिनी
५५१ प्रतिशप्तुं शापं दातुमलन्तमः अतिसमर्थोऽपि चित्रकेतुर्देव्याः शापमित्येवं मूर्ध्ना सञ्जगृहे इत्यन्वयः । ननु समर्थ - वेत्तदा शापं कुतो न दत्तवानित्याशङ्कयाह – एतावदिति । परापकारवर्जनमेव साधुलक्षणं साधुत्वाच्छापं न दत्तवानिति भावः ।। ३७ ।। * * स एव भवानीशापवशाद्दानवीं योनिमाश्रितो वृत्र इत्यभिविख्यातः प्रसिद्धस्त्वष्टुर्दक्षिणाग्नौ जज्ञ इत्यन्वयः । पूर्व भजनप्रभावादेव तत्रापि ज्ञानविज्ञानभक्तिवैराग्यादिसंयुत एव जातः ॥ ३८ ॥ * यत्त्वं मां परिपृच्छसि तदेतत् वृत्रस्यासुरजातेः कारणं तत्रापि भगवन्मतेश्च कारणमन्यच्च तत्प्रासङ्गिके सर्व ते तव मयाSSख्यातमित्यन्वयः ॥ ३६ ॥ एतदितिहासश्रवणकीर्त्तनयोः फलमाह - इतिहासमिति द्वयेन ॥ ४० ॥ * * य एतन्नियमेन पठेत् सोऽन्ते हरिं स्मृत्वा तमेव परमां गतिं याति ।। ४१ ।। इति श्रीवल्लभाचार्यवंश्यगोपालसूनुना । श्रीमन्मुकुन्दरायाणां पादसेवाधिकारिणा ॥ १ ॥ श्रीमद् गिरिधराख्येन भजनानन्दसिद्धये । श्रीमद्भागवतस्येयं टीका बालप्रबोधिनी ॥ २ ॥ रचिता तत्र षष्ठेऽस्मिन् स्कन्धे रूपनिरूपणे । सप्तदशो गतो वृत्तिं देव्याः शापनिरूपकः ॥ ३ ॥ भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी इतीति । भागवतो भगवद्भक्तश्चित्रकेतुः, देव्याः प्रतिशप्तुं देवीं प्रति शापं दातुमित्यर्थः । अलन्तमोऽतिसमर्थः तथापि इत्युक्तप्रकारेण, तस्याः शापं मूर्ध्ना संजगृहे शिरसा अवाप । एतावत् साधुलक्षणम् । इहापकर्तृ ष्वपि उपकर्तृत्वबुद्धिमत्त्वमेव हि साधूनां लक्षणमित्यर्थः || ३७ || आसुरस्वभावस्य वृत्रस्य नारायणे भगवति कथं दृढा मतिः आसीदिति यद्राज्ञा पृष्ठ तस्योत्तरं संगमयति । जज्ञ इति । योऽयमुक्तविधश्वित्रकेतु:, स एवेति शेषः । दानवीं योनिम् आश्रितः सन, त्वष्टुः दक्षिणाग्नौ जज्ञ े । तत वृत्रः इत्यनेन नाम्ना इत्यर्थः । अभिविख्यातः सर्वतः प्रसिद्धः ज्ञानविज्ञानसंयुतश्च, अभवदिति शेषः ॥ ३८ ॥ एवं त्वत्प्रयुक्त प्रश्नस्योत्तरमुक्तमित्याह । एतदिति । यत् त्वं मां वृत्रस्य असुरजातेः असुरभावेनोत्पत्तेः भगवन्मतेः भगवति तन्मतेश्व, कारणं परिपृच्छसि पर्यपृच्छः, तस्योत्तरमिति शेषः । एतत् सर्वं ते तुभ्यं मया आख्यातं कथितम् ॥ ३६ ॥ * * इतीति । महात्मनः, चित्रकेतोः संबन्धिनं पुण्यम् एतत् इतिहासं विष्णुभक्तानां माहात्म्यं माहात्म्याभिसूचकं भवति । तत् श्रुत्वा, बन्धात् संसारबन्धनात् विमुच्यते ॥ ४० ॥ एवं समासतस्तश्चरित्रमुक्त्वा तस्य श्रवणपठनफलमाह । य एतदिति । यः पुमान्, प्रातः उत्थाय, वाग्यतः नियमितवाक् सन, हरिं स्मृत्वा, इमम् इतिहासं श्रद्धया पठेत्, व्यक्तवाचा उच्चारयेत् अन्यश्रवणीयवाण्येति यावत् । तेन श्रवणस्यापि फलं सूचितं भवति । सः परमां गतिं सर्वोत्कृष्टुं भगवत्सायुज्यं, याति प्राप्नु- यात् । श्रवण पठनाभ्यां शनैः परिनिष्पन्नभक्तियोगो भवेदिति भावः ॥ ४१ ॥ … इति श्रीधर्मधुरंधरश्रीधर्मात्मजप्रत्यक्ष पुरुषोत्तम सहजानन्द स्वामि सुतश्री रघुवीराचार्यसूनुभगवत्प्रसादाचार्यविरचितायामन्वयार्थाव- बोधिन्यां भक्तमनोरञ्जन्याख्यायां श्रीमद्भागवतटीकायां षष्ठस्कन्धे सप्तदशोऽध्यायः ॥ १७ ॥ भाषानुवादः भगवान् के परमप्रेमी भक्त चित्रकेतु भी भगवती पार्वतीको बदले में शाप दे सकते थे, परन्तु उन्होंने शाप न देकर उनका शाप सिर चढ़ा लिया । यही साधु पुरुषका लक्षण है ॥ ३७ ॥ * * यही विद्याधर चित्रकेतु दानवयोनिका आश्रय लेकर त्वष्टाके दक्षिणाग्निसे पैदा हुए। वहाँ इनका नाम वृत्रासुर हुआ और वहाँ भी ये भगवत्स्वरूपके ज्ञान एवं भक्ति से परिपूर्ण ही रहे ॥ ३८ ॥ * * तुमने मुझसे पूछा था कि वृत्रासुरका दैत्ययोनि में जन्म क्यों हुआ और उसे भगवान्की ऐसी भक्ति कैसे प्राप्त हुई ? उसका पूरा-पूरा विवरण मैंने तुम्हें सुना दिया ।। ३९ ।। * * महात्मा चित्रकेतुका यह पवित्र इतिहास केवल उनका ही नहीं, समस्त विष्णुभक्तों का माहात्म्य है; इसे जो सुनता है, वह समस्त बन्धनोंसे मुक्त हो जाता है ।। ४० ।। * * जो पुरुष प्रातः काल उठकर मौन रहकर श्रद्धा के साथ भगवान्का स्मरण करते हुए इस इति- हासका पाठ करता है, उसे परमगतिकी प्राप्ति होती है ।। ४१ ।। इति षष्ठे सप्तदशोऽध्यायः ॥ १७ ॥ 5 अथाष्टादशोऽध्यायः श्रीशुक उवाच १ ॥ २ ॥ ३ ॥ पृश्निस्तु पत्नी सवितुः सावित्रीं व्याहृतिं त्रयीम् । अग्निहोत्रं पशुं सोमं चातुर्मास्यं महामखान् ॥ सिद्धिर्भगस्य भार्याङ्ग महिमानं विभुं प्रभुम् । आशिषं च वरारोहां कन्यां प्रासू सुत्रताम् ॥ धातुः कुहूः सिनीवाली शका चानुमतिस्तथा । सायं दर्शमथ प्रातः पूर्णमासमनुक्रमात् ॥ अग्नीन् पुरीष्यानाधत्त क्रियायां समनन्तरः । चर्षणी वरुणस्यासीद्यस्यां जातो भृगुः पुनः ।। ४ । वाल्मीकि महायोगी वल्मीका भवत्किल । अगस्त्यश्च वसिष्ठश्च मित्रावरुणयोर्ऋषी ।। ५ । वन्मीकाद्भवत्किल रेतः सिषिचतुः कुम्भे उर्वश्याः सन्निधौ द्रुतम् । रेवत्यां मित्र उत्सर्गमरिष्टं पिप्पलं व्यधात् ॥ पौलोम्यामिन्द्र आधत्त त्रीन् पुत्रानिति नः श्रुतम् । जयन्तमृषभं तात तृतीर्यं मीदुषं प्रभुः ॥ उरुक्रमस्य देवस्य मायावामनरूपिणः । कीर्तों पत्न्यां बृहच्छलोकस्तस्यासन् सौभगादयः ॥ ८ ॥ । कृष्णप्रिया व्याख्या ६ ॥ ७ ॥ अन्वयः - सवितुः पत्नी पृभिः तु सावित्रीं व्याहृति त्रयीम् अग्निहोत्रं पशुं सोमं चातुर्मास्यं महामखान् ॥ १ ॥ अंग भगस्य भार्या सिद्धिः महिमानं विभुं प्रभुं च वरारोहां सुव्रताम् आशिषं कन्यां प्रासूत ॥ २ ॥ धातुः कुहूः सायं सिनीवाली दर्शम् अथ राका प्रातः च तथा अनुमतिः पूर्णमासम् अनुक्रमान् ॥ ३ ॥ * * समनंतरः क्रियायां पुरीष्यान अग्नीन् आधत्त वरुणस्य चर्षणी आसीत् यस्यां पुनः भृगुः जातः ॥ ४ ॥ * * च वाल्मीकिः वलमीकात् महायोगी किल अभवत् मित्रावरुणयोः अगस्त्यः च वसिष्ठः ऋषी ॥ ५ ॥ * उर्वश्याः सन्निधौ द्रुतं रेतः कुंभे सिषिचतुः मित्रः रेवत्याम् उत्सर्गम् अरिष्टं पिप्पलं व्यधात् ॥ ६ ॥ तात प्रभुः इंद्रः पौलोम्यां जयन्तम् ऋषभं तृतीयं मीदुषं इति त्रीन् पुत्रान् आधत्त इति नः श्रुतम् ॥ ७ ॥ बृहच्छ्लोकः मायावामनरूपिणः उरुक्रमस्य देवस्य कीर्ती पत्न्यां बृहन्छु लोकः तस्य सौभगादयः आसन् ॥ ८॥
श्रीधरस्वामिविरचिता भावार्थदीपिका आदित्यानां चतुर्थस्य त्वष्टुर्वशप्रसंगतः । प्रोक्तमिंद्रकृतं विश्वरूपवृत्रवधादिकम् ॥ १ ॥ अदिते: पंचमादीनां पुत्राणामन्वयोक्तिभिः । अष्टादशे दितेर्गर्भे शक्रेण मरुता भिदा ॥ २ ॥ त्वष्टुवंशमनुक्रम्य सप्रसंगं यथाक्रमम् । आदित्यानामथान्येषां वंशानाह मुनीश्वरः ॥ ३ ॥ दक्षकन्यान्वयानुकथने अदित्या द्वादश पुत्राः प्रोक्ताः । ‘विवस्वानर्यमा पूषा त्वष्टाऽथ सविता भगः । " धाता विधाता वरुणो मित्रः शक्र उरुक्रमः ।” इति । तत्र षष्ठाध्यायांतमारभ्य विश्वरूपवृत्रचित्रकेतूपाख्यानैस्त्वष्टुर्वंशमनुवदानीं सवितुर्वंश- माह । पृनिस्त्विति । सावित्रीमित्यादिषु प्रासूतेत्युत्तरस्यानुषंग: । पशुं पशुयागम् । महामखान्पंचयज्ञान् ।। १-२ ॥ धातुर्भार्या कुहूः सायं पुत्रं प्रासूत । एवं सिनीवाली दर्शमित्याद्यनुक्रमात् ॥ ३ ॥ समनंतरो विधाता क्रियायां भार्यायां पुरीष्यानग्नीन्पंचचित्तीन् । “पुरीष्यासो अग्नय इति पंच वा एतेऽग्नयो यश्चित्तयः” इति श्रुतेः । चर्षणी वरुणस्य भार्याssसीत् । पूर्व ब्रह्मणः पुत्रो भृगुर्यस्यां पुनर्जातः ॥ ४ ॥ वाल्मीकिर्वरुणस्यैव पुत्रोऽभवत् । एतौ वरुणस्या- साधारणौ पुत्रौ । तथोत्सर्गादयोऽपि मित्रस्यासाधारणाः । तयोरेव साधारणौ द्वौ पुत्रावाह । अगस्त्यश्च वशिष्ठश्व ऋषी मित्रावरुणयोरभवताम् ॥ ५ ॥ * * यत उभावपि कुंभे रेतः सिषिचतुः “सत्रे ह जाता विशिता नमोभिः कुंभे रेतः सिषिचतुः समान" इति श्रुतेः । द्रुतं स्कन्नम् ॥ ६-८ ॥ ५५३ स्कं. ६ अ. १५ श्लो. १-८] अनेकव्याख्या समलङ्कृतम् आदित्यानामदितिपुत्राणां मध्ये ( १ ) पचमादीनां सवित्रादीनाम् (२) मुनीश्वरः श्रीशुकः ( ३ ) सावित्रीं गायत्र्यभिमानिनीं देवताम् । व्याहृतिं तदभिमानिनीम् । एवं त्रयीं वेदत्रयाभिमानिनीं च । एवमग्रेऽपि ज्ञेयम् । चातुर्मास्यो यागविशेषः । “अक्षय्यं ह वै चातुर्मास्ययाजिनः सुकृतम्” इति श्रुतेरग्निहोत्रपशुसोमा अपि यागभेदा एव । पंचयज्ञास्तु - " पाठो होमश्चातिथीनां सपर्या तर्पणं बलिः । एते पञ्च महायज्ञा ब्रह्मयज्ञादिनामकाः” । ब्रह्मयज्ञो देवयज्ञो नृयज्ञः पितृयज्ञो भूत- यज्ञश्च । “अध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम् । होमो देवो बलिभतो नृयज्ञोऽतिथिपूजनम् ॥” इति स्मृतेः ॥ १ ॥ अंगेति । प्रियत्वाद्वयवहितमपि वदिष्यामीति भावः । महिमादयस्त्रयः पुत्राः आशीराख्यैका कन्या च ।। २-३ ।। * * पुरीष्यसंज्ञकाः पञ्च । अत्र श्रुतिं प्रमाणयति स्पष्टार्था श्रुतिः ॥ ४ ॥ * * एतौ भृगुवाल्मीकी उत्सर्गादयो वक्ष्यमाणा रेवत्यामित्यादिना तयोर्मित्रावरुणयोः ॥ ५ ॥ * * उभौ मित्रावरुणौ । अत्र श्रुतिं प्रमाणयति — सत्रे हेति । श्रुत्यर्थस्तु पाठांतर संदेहान कृतः ‘सत्रेह जाताविषिनामनो मे’ इति पाठ: प्राचीनपुस्तकेष्वस्ति । ‘विषितान मोभि:’ इति पाठोंकित पुस्त- केस्ति ॥ ६ ॥ तातेति । श्रोतृश्रद्धाधिक्यदर्शनात्संबुद्धिः ॥ ७ ॥ * तस्य बृहच्छ्लोकस्य । आदिपदोक्ताः ॥ पुराणांतरगम्याः ॥ ८ ॥ अन्वितार्थप्रकाशिका अष्टादशे दितेर्गर्भ चिच्छेदेन्द्रो मुहुस्ततः । बभूवुर्मरुतो देवाः श्लोकास्तत्राष्टसप्ततिः (७८) | । । एकादशो ( ११ ) वाचसार्द्धाष्टसप्ततिरनुष्टुभः (७८।। ) ।। १८ ।। दक्षकन्यावंशकथने अदित्या द्वादश पुत्राः प्रोक्ताः विवस्वानर्यमा पूषा इत्याद्याः मित्रः शक्र उरुक्रम इत्यन्ताः । तत्र अष्टाध्यायान्तरमारभ्य विश्वरूपवृत्रचित्रकेतूपाख्यानैस्त्वष्टुवंश- मनुवर्ण्य सवितुर्वशमाह - पृश्निस्त्विति । सवितुः पत्नी पृश्निस्तु सावित्र्यादीन तत्तदभिमानिदेवान् प्रासूतेत्युत्तरस्यापकर्ष: । अग्निहोत्रादयो यागविशेषाः महामखान् पञ्चयज्ञान् ॥ १ ॥
- ॐ सिद्धिरिति । अङ्ग हे राजन् ! भगस्य भार्या सिद्धिर्नाम्नी महिमादीन पुत्रान् सुव्रतां कन्यां च प्रासूत ॥ २ ॥ * * धातुरिति । धातुः कुह्राद्याश्चतस्रः भार्याः सायमादींश्चतुरः पुत्रान अनुक्रमात् प्रासुवत । तत्र कुहुः सायं पुत्रं सिनीवाली दर्श पुत्रं प्रासूतेत्यादिरन्वयः । तत्रामावास्याभिमानिनी कुहू : कृष्णपक्ष चतुर्दश्यभिमानिनी सिनीवाली पूर्णमास्यभिमानिनी राका शुक्लपक्षचतुर्दश्यभिमानिनी अनुमति: चतुर्थस्कन्धेऽङ्गिरसः पत्त्यां श्रद्धायां सिनीवाल्यादीनामुत्पत्तिरुक्ता ॥ ३ ॥ * * अग्नीनिति अर्द्धम् । समनन्तरो विधाता क्रियायां स्वभार्यायां पुरीष्यसंज्ञान् पञ्चचित्तानादत्त “पुरीष्यासो अग्नय” इति “पञ्च वा एतेऽग्नयो यश्चित्तय" इति श्रुतेः ॥ ४ ॥ * * चर्षणीति । चर्षणी वरुणस्य भार्याऽऽसीत् । पूर्व ब्रह्मणः पुत्रो भृगुर्यस्यां पुनर्जातः वरुणस्यैव महायोगी वाल्मीकिर्वल्मीकादभवत् । एतौ च भृगुवाल्मीकी वरुणस्यासाधारणपुत्रौ ॥ ५ ॥ अगस्त्यश्चेति । अगस्त्यश्च वसिष्ठश्च एतौ ऋषी मित्रा- वरुणयोरेवासाधारणपुत्रौ । तत्र हेतुः उर्वश्याः सन्निधौ द्रुतं स्कन्नं रेतो यतो मित्रावरुणावुभावपि कुम्भे सिषिचतुरतः कुम्भाज्जाता- वगस्त्यवसिष्ठावुभयोः पुत्रावित्यर्थः । रेवत्यामित्यर्द्धम् । रेवत्यां भार्यायां मित्र उत्सर्गादीन् पुत्रान् व्यधादिति ते मित्रस्यैवा- साधारणाः पुत्रा इत्यर्थः ॥ ६ ॥ पौलोम्यामिति । पौलोम्यां भार्यायां प्रभुः स्वर्गस्वामी इन्द्रो जयन्तादींस्त्रीन् पुत्रान् आधत्तेति नोऽस्माभिः श्रुतम् ॥ ७ ॥ उरुक्रमस्येति । उरुक्रमस्य देवस्य भगवदवतारस्य मायावामनरूपिणः
- । कीर्तिसंज्ञायां पत्न्यां बृहच्छ्रलोकसंज्ञकः पुत्रो जातः तस्य च सौभगादय आसन् ॥ ८ ॥ ale || ॥ |
- । वीरराघवव्याख्या
एवं दाक्षायण्याः कश्यपस्य भार्याया अदितैर्वशमुपक्रम्य विवस्वदर्यमपूष्णां तत्पुत्राणां वंशमभिधाय ततस्त्वष्टुवंशस्तदनु प्रयुक्तञ्चाभिहितम् अथ सवित्रादीनां वंशमुपक्रमते मुनिः पृश्निरित्यादिना । सवितुः पत्नी पृभिः सावित्र्याद्यभिमानिदेवताः प्रासूतेत्युत्तरस्यानुषङ्गः पशुं पशुयागं तदभिमानिदेवताः प्रासूतेत्युत्तरस्यानुषङ्गः । पशुं पशुयागं तदभिमानि देवताविशेषमिति एव- मुत्तरत्रापि महामखान् पञ्चमहायज्ञान् ॥ १ ॥ * एवं भगस्य भार्या सिद्धिरिति प्रसिद्धा अङ्गादींश्चतुरः पुत्रान् सुत्रतां सुशीलां वरारोहामत्यन्तसुन्दरीमाशीर्नाम्नीं कन्या प्रासूत ॥ २ ॥ * धातुः पत्न्यः कुहूप्रभृतयश्चतस्रः अनुक्रमात सायादीन् चतुरः पुत्रान् ॥ ३ ॥ तथा धातुः समनन्तरो विधाता क्रियायां पत्न्यामग्नीन्पुरीष्य संज्ञकानिष्टकचिता- पन्यामग्नीन्पुरीष्यसंज्ञकानिष्टकचिता- ग्नीनाधत्त जनयामास ॥ ४ ॥ 83 * वरुणस्य चर्षणीति प्रसिद्धा भार्या आसीत् भृगुः पूर्व ब्रह्मणः पुत्रों यस्यां चर्षण्यां पुनर्जातः तथा वरुणस्यैव पुत्रो बाल्मीकिर्महायोगी वल्मीकादभवत् एतौ वरुणस्यासाधारणी पुत्रौ ।। ५ ।। * तथा रेवत्यां भार्यायां मित्रस्योत्सर्गादयोऽसाधारणाः सुताः उभयोस्साधारणौ सुतौ अगस्त्यवसिष्ठौ ऋषी, कथमेकैकस्योभयसुतत्वम् ? तत्राह - रेत इति । कदाचिन्मित्रावरुणौ ऊर्वश्या अप्सरसः सन्निधौ द्रुतं स्खलितं रेतः कुम्भे घंटे सिषिचतुः सिक्तवन्तौ तत्र कुम्भे
५५४ श्रीमद्भागवतम [ स्कं ६ अ. १८१-८ वसिष्ठागस्त्यौ जातौ इति भावः । रेवत्यामित्यर्द्ध व्याख्यातप्रायं व्यधात् जनयामासेत्यर्थः ॥ ४ हे तात, प्रभुरिन्द्र- शक्रः पौलोम्यां शच्या पत्न्याञ्जयन्तमृषभं तृतीयं मीदुषम् इति श्रीन्पुत्रानजनयदिति नोऽस्माभिः श्रुतम् ॥ ७ ॥ * * तथोरुक्रमस्य त्रिभिः पादक्रमैः लोकत्रयमाकान्तवतो मायया आत्मीयसङ्कल्पेन बामनरूपेणावतीर्णस्य कीत्याख्यायां भार्यायां बृहच्छ्लोकः पुत्र आसीत् तस्य बृहच्छ्लोकस्य सौभगादयः पुत्रा आसन् ॥ ८ ॥ विजयध्वजतीर्थकृता पदरत्नावली अस्मिन्नध्याये पूर्वोक्तं सृष्टिशेषं निरूपयति- पृश्निरिति । तुशब्दात्पूर्वस्मात्फलविशेषमाह -सावित्री गायत्र्यभिमानि- नीत्युत्तरत्राप्येवमनुसन्धेयम् ॥ १-२ ॥ ।। कुहूसिनीवाल्याद्याः ताः अधत्त ॥ ३ ॥ * चन्द्रे दृटे सिनीवाली चन्द्रे नष्टकले कुहूः " धातुः क्रिया नाम भार्यायाः समनन्तरो विधाता च क्रियायां भार्यायां पुरी याख्यानग्नीनाधत्त वरुण- नाम्नः सूर्यस्य वारुणी नाम भार्या पूर्व ब्रह्मणो जातत्वात्पुनरित्युक्तम् ॥ ४ ॥ ब्रह्मजो वसिष्ठश्च पुलस्त्यजोऽगस्त्यश्च द्वौ ऋषी पुनर्मित्रावरुणयोर्जातौ ॥ ५ ॥ * दर्शनात्तत्सन्निधौ द्रुतं स्कन्नं रेतस्तदनन्तरं मित्रावरुणौ कुम्भे सिषिचतुः । तस्मादुभावपि जीवगोस्वामिकृतः क्रमसन्दर्भः पृनिस्त्विति त्रिकम् ।। १-३ ॥ अग्नीनित्यर्द्धकम् ।। ४-१९ ॥ विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी वाल्मीकिश्च वरुणवीर्याद्वल्मीका भूत् तयोर्जनिप्रकारमाह - रेत इति । उर्वश्या कुम्भसम्भवाविति प्रसिद्धि: ।। ७-८ ।। ( अष्टादशे हतसुता दितिः कृत्वा व्रतं दधौ । यं तस्माच्छकसं छिन्नाद्गर्भाज्जज्ञे मरुद्रणः ॥ तुर्यस्यादितिपुत्राणां त्वष्टुरन्वयकीर्त्तने । प्रसङ्गतः समायातां विश्वरूपवधादिकाम् ॥ । चित्रकेत्वभिशापान्तां समाप्यैव कथासुधाम् । अदितः पञ्चमादीनां सुतानां वंश उच्यते ।।
- पशुं पशुयागं महामखान् पञ्चयज्ञान् प्रासूतेत्युत्तरस्यानुषङ्गः ।। १-३ ॥ ॥ ॐ * समनन्तरो विधाता क्रियायां भार्यायां पुरीष्यान् पुरीष्यसंज्ञान अग्नीन् पञ्चचिती: “पुरीष्यासोऽग्नयः” इति श्रुतेः । चर्षणी चर्षणी वरुणस्य भार्या आसीत् । पुनरिति प्राग्ब्रह्मपुत्रोऽपि पुनर्वरुणपुत्रोऽभूत् । भृगुवाल्मीकी वरुणस्यासाधारणौ पुत्रौ ॥ ४ ॥ *
- तथोत्सर्गादयो मित्रस्या- साधारणाः पुत्राः वक्ष्यन्ते। तयोर्मित्रावरुणयोः साधारणौ द्वौ पुत्रौ चाह -अगस्त्यश्च वसिष्ठश्चैतौ ऋषी मित्रावरुणयो- रभवताम् ।। ५ । * * यतो रेत इत्यादि “कुम्भे रेतः सिषिचतुः समानम्” इति श्रुतेः द्रुतं स्कन्नम् ।। ६-७ ।। मायया स्वरूपभक्त्या वामनरूपवतः- “स्वरूपभूतया नित्यशक्त्या मायाख्यया यतः । अतो मायामयं विष्णुं प्रवदन्ति मनीषिणः ॥” इति माध्वभाष्यप्रमाणितश्रुतेः ॥ ८ ॥ For
- शुकदेवकृतः सिद्धांत प्रदीपः युतः । दक्षकन्यायाः अदित्याः- “विवस्वानर्य्यमा पूषा त्वाष्टाथ सविता भगः । धाता विधाता वरुणो मित्रः शक्र उरुक्रमः” इति । द्वादशात्मजाः प्रोक्तास्तेषां मध्ये पूषानपत्य इत्युक्तं त्रयाणां विवस्वदर्य्यमत्वष्टृणां सन्ततयश्वोक्ताः त्वष्टुः पुत्रो विश्वरूपो देवैः पौरोहित्ये वृत इति चोक्तं षष्ठाध्यायान्ते । तदनन्तरमे का दशभिरध्यायैस्त्वष्टृपुत्र विश्वरूपस्य देवपौरोहित्यप्रसङ्गतो नानाकथाः कथिताः अथ सवित्रादीनामदितिपुत्राणां वंशं दितिसन्ततिश्च वर्णयन् दितिकोपादिन्द्ररक्षणमिन्द्र कोपाद्दितिपुत्ररक्षणं सर्वरक्षण- कर्तुर्भगवतः सर्वजनरक्षणार्थमाराधनञ्च वर्णयति - पृश्निस्त्वित्याद्यध्यायद्वयेन । सवितुः पत्नी पृश्निस्तु सावित्र्यादिकन्याः अभि- होत्रादीन् सुतांश्च प्रासूतेत्युत्तरस्यानुषङ्गः । तत्र पशुं पशुयागं सोमं सोमयागं महामखान् पश्च यज्ञान् ॥ १ ॥ अङ्ग, भगस्य भार्या सिद्धि: महिमादिपुत्रत्रयम् आशिषं कन्यां च प्रासूत ॥ २ ॥ दर्शम् राका प्रातः अनुमतिः पूर्णमासञ्चेति अनुक्रमात् प्रासुत ॥ ३ ॥ हे धातुः पत्नी कुहूः सायम् सिनीवाली समनन्तरो विधाता क्रियायां पत्ल्यां पुरीष्यान् अग्नीन पञ्च चितीन आधत्त जनयामास “पुरीष्यासो अम्मय इति पञ्च वा एते अग्नयो यच्चितयः” इति श्रुतेः ॥ ४ ॥ * * बरुणस्य भार्या चर्षणी आसीत् यस्यां भृगुर्ब्रह्मजोपि पुनर्जातः । वाल्मीकिश्च वरुणस्यैव पुत्रो वल्मीकादभवत् एतौ वरुणस्या- साधारणौ पुत्रौ ॥ ५ ॥ * & मित्रावरुणयोरसाधारणौ पुत्रावाह - अगस्त्यश्च वसिष्ठश्चेति द्वौ ऋषी ब्रह्मपुत्रौ पुनर्मित्रा- बरुणयोरभवताम्, यतस्तौ मित्रावरुणौ उर्वश्याः सन्निधौ कुम्भे रेतो वीर्यं द्रुतं स्कन्नं सिषिचतुः ।। ६ ।। * * मित्रस्या- साधारणान्पुत्रानाह-रेवत्यामिति । व्यधात् जनयामास पौलोम्यां पुलोम्नः कन्यायाम् ॥ ७ ॥ * मायावामनरूपिणः स्वसङ्कल्पेन बामनरूपिणः कीर्ती बृद्दच्छलोक आसीत् तस्य सौभगादयः आसन् ॥ ८ ॥ के. ६. १८ लो. १८] अनेकव्याख्यासमलङ्कृतम् fivefoगोस्वामिगिरिधरलालविहिता बालप्रबोधिनी iting frefereparat चतुर्दशभिरध्यायैः कृतं रूपनिरूपणम् । अथ द्वाभ्यां प्रसङ्गेन क्रियायोगो निरूप्यते ॥ १ ॥ तत्र चाष्टादशेऽध्याये दितेर्वशप्रसङ्गतः । पुंसवनन्त्रतस्याङ्ग क्रिया बाह्या निरूप्यते ॥ २ ॥ । । तदेव नामप्रकरणे मनुष्ये भगवदनुग्रहं रूपप्रकरणे च देवे तदनुग्रहं निरूप्येदानीं क्रियाप्रकरणे दैत्येऽनुग्रहं निरूपयति । तत्रादित्यानां वंशं निरूपयंश्चतुर्थस्य त्वष्टुवंशनिरूपणे प्रसङ्गतः प्राप्तं विश्वरूपवृत्रवधादिकं निरूपितम् । इदानीमवशिष्टानां पञ्चमा- दीनां सवित्रादीनामादित्यानां वंशमाह - पृनिस्त्विति । सवितुः पत्नी पृश्निस्तु सावित्र्यादीन् तत्तदभिमानिदेवान् प्रासूतेत्युत्तरस्य अनुषङ्गेणान्वयः । अग्निहोत्रादयो यागविशेषाः । महामखान् पञ्चयज्ञान् ॥ १ ॥ * * भगस्य भार्या सिद्धिनाम्नी महिमा - दीन् प्रासूतेत्यन्वयः । अङ्गेति सम्बोधनं स्नेहसूचकम् ॥ २ ॥ धातुर्भार्या कुह्राद्याश्चतस्रः कन्याः सायमादींश्चतुरः पुत्रांश्चानुक्रमात् प्रासूतेत्यन्वयः । तत्रामावास्याभिमानिनी कुहूः । कृष्णपक्ष चतुर्दश्यभिमानिनी सिनीवाली । पूर्णमास्यभिमानिनी राका । शुक्लपक्षचतुर्दश्यभिमानिनी अनुमतिः । इदमपि कल्पभेदज्ञापकं चतुर्थस्कन्धेऽङ्गिरसः पत्न्यां श्रद्धायां सिनीवाल्यादीनां उत्पत्तेरुक्तत्वात् सायं प्रातं इत्येतयोः प्रभाय । पुष्पार्णपुत्रतयोक्तत्वाच्च ॥ ३ ॥ * * समनन्तरो विधाता क्रियायां स्वभार्यायां ॥
पुरीष्य सज्ञान पञ्चचितानाधत्त “पुरीष्यासो अमय इति पञ्च वा एतेऽमयो यश्चितय” इति श्रुतेः । चर्षणी वरुणस्य भार्याऽऽसीत् पूर्व ब्रह्मणः पुत्रो भृगुर्यस्यां पुनर्जातः ॥ ४ ॥ वल्मीकादभवत्। वरुणस्यैवेति शेषः । एतौ द्वौ वरुणस्या साधारण- पुत्राविति प्रसिद्धिं द्योतयति - किलेति । मित्रावरुणयोरेव साधारणौ पुत्रावाह- अगस्त्यश्चेति । अभवतामिति शेषः ॥ ५ ॥ तयोरुभयसाधारणत्वे हेतुमाह-रेत इति, उर्वश्याः सन्निधौ द्रुतं स्कन्नं रेतो यतो मित्रावरुणावुभावपि कुम्भे सिषिचतुरतः कुम्भाज्जातौ अगस्त्यवसिष्ठौ उभयोः पुत्रावित्यर्थः । रेवत्यां भार्यायां मित्र उत्सर्गादीन पुत्रान् व्यधादिति ते मित्रस्यैवासाधारणाः पुत्रा इत्यर्थः ॥ ६ ॥ * * पौलोम्यां भार्यायामिन्द्रो जयन्तादींस्त्रीन् पुत्रान् आधत्तेति नोऽस्माभिः श्रुतमित्यन्वयः । प्रभुः स्वर्गस्वामी ॥ ७ ॥ * * उरुक्रमस्य देवस्य भगवदुवतारस्य मावावामनरूपिणः मायया स्वेच्छया गृहीतवामनरूपस्य कीर्तिसब्ज्ञायां पत्न्यां बृहच्छ्रलोकस शक्रः पुत्रो जातः तस्य च सौभगादय आसन्निति सम्बन्धः ॥ ८ ॥ Te PE सार्थ भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी तुर्यस्यादित्यपत्यानां त्वष्टुश्वान्वययोगतः । प्रोक्तौ शक्रकृतौ विश्वरूपवृत्रवधावुभौ ॥ १ पुत्राणां पञ्चमाद्यानामदितेर्वंश ईरितः । दितेर्गर्भे तु शक्रेणाष्टादशे मरुतां भिदा । २ ॥ सप्रसङ्गमनुक्रम्य वंशं त्वष्टुर्यथाक्रमम् । आदित्यानां मुनिः प्राहान्येषां वंशान् समासतः ॥ ३ ॥ ye दा ॥ २ ॥ DISA Me । पूर्वं हि षष्ठेऽध्यायेऽत्रैव दक्षकन्यान्वयकथनप्रसङ्गे ‘विवस्वानर्यमा पूषा त्वष्टाऽथ सविता भगः । धाता विधाता वरुणो मित्रः शक्र उरुक्रमः’ इत्यदित्या द्वादश पुत्राः प्रोक्ताः तंत्र षष्ठाध्यायान्तमारभ्य विश्वरूपवृत्रचित्र केतूपाख्यानैस्त्वष्टुवंशमनुव- येदानीं सवितुर्वशमाह । पृनिस्त्विति । सवितुरदित्याः पञ्चमपुत्रस्य, पन्यङ्गना, पृनिनु सावित्री, व्याहृति, त्रयीं, सावित्र्या- भिमानिनीदेवताः, अग्निहोत्रं, पशुं पशुयागं, सोमं चातुर्मास्यं महामखान् पञ्चमहायज्ञान् प्रासूतेत्युत्तरस्यानुषङ्गः । अग्निहोत्रादयोऽपि तदभिमानिनो देवविशेषाः ॥ १ ॥ ॐ सिद्धिरिति । भगस्य अदित्याः, षष्ठपुत्रस्य भार्या सिद्धि: सिद्धिसंज्ञा, अङ्ग, महिमानं, विभुं प्रभु, एवांश्चतुरः सुतान, वरारोहां सुत्रतां आशिषमाशीः संज्ञां कन्यां च । एवं पञ्चापत्यानि, प्रासूत । अङ्गेति राज्ञः संबोधनमित्यन्ये ॥ २ ॥ धातुरिति । धातुः अदित्याः सप्तमपुत्रस्य, कुहूः, सिनीवाली, राका च, तथा अनुमती : कुह्राद्याश्चतस्रो धातुः पत्न्य इत्यर्थः । सायं दर्श, अथ प्रातः, पूर्णमासं, एवम् अनुक्रमात् सुतान् प्रसुषुवुः । तत्र कुहूः सायंनामानं पुत्रं प्रासूत । एवं सिनीवाली दर्श, राका प्रातःसंज्ञ, अनुमतिः पूर्णमासं च प्रासूतेत्यर्थः । दृष्टचन्द्रा सिनीवाली, नष्टचन्द्रकला कुहूः । कुह्लादयोऽपि तत्तदेवता बोध्याः ॥ ३ ॥ * * अग्नीनिति । तथा समनन्तरः, धातुः समनन्तरो विधाता अदित्याः अष्टमः पुत्रः इत्यर्थः । क्रियायां क्रियासंज्ञायां भार्यायां पुरीष्यान् पुरीष्यसंज्ञकान्, अग्नीन् आधत्त जनयामास । वरुणस्य अदित्याः नवमपुत्रस्य, चर्षणीसंज्ञा भार्या, आसीत् । यस्यां चर्षण्यां भृगुः पुनः पूर्व ब्रह्मणः पुत्रः सन्नपि भूय इत्यर्थः । जातः । महायोगी वाल्मीकिश्च स्वयं वाल्मीकिरपीत्यर्थः । वरुणस्य चर्षण्यां जातः । जातमात्रः स यथा खोपरि वल्मीको जातस्तथा तपोऽकरोत्कालेन तत्तो निःसृतः । अत एव वल्मीकात् अभवत् किल । इत्युक्तः ऋषिभिरिति शेषः । केचित्तु बरुणाच्चर्षण्यां भृगुरेक एव । वरुणेन स्ववीर्य वल्मीके क्षिप्तं तस्माद्वल्मीकाद्वाल्मीकिजत इत्यूचुः । । एतौ वरुणस्या- साधारणौ पुत्रौ ॥ ४ ॥ अगस्त्य इति । मित्रावरुणाविति शेषः । द्रुतमुर्वशीदर्शनात् स्कन्न रेतः, उर्वश्याः सन्निधौ । । । 1 । । ५५६ 1 * श्रीमद्भागवतम् [ स्कं. ६ अ. १८ लो. ९-१६ एव, कुम्भे, सिषिचतुः । अत एव अगस्त्यश्व, वसिष्ठश्च ऋषी मित्रश्च वरुणश्च मित्रावरुणौ तयोः, उत्पन्नौ भवतः । अपादाना- विवक्षायां षष्ठी । ब्रह्मजो वसिष्ठश्च पुलस्त्यजोऽगस्त्यश्च द्वौ ऋषी पुनर्मित्रावरुणयोर्जातावत एतौ तयोरेव साधारणौ पुत्रौ ‘कुम्भे रेतः सिषिचुः समानम्’ इति श्रुतेः ॥ ५ ॥ रेवत्यामिति । मित्रः मित्रनामाऽदित्या दशमः पुत्रः, रेवत्यां रेवती- संज्ञायां भार्यायाम्, उत्सर्गम् अरिष्टं, पिप्पलं च, व्यधादुत्पादयामास । एते उत्सर्गादयस्त्रयः मित्रस्यासाधारणाः पुत्राः एवं साधारणतया मुख्यत्वेन च तत्सुता मित्रावरुणयोः पुत्राः, उक्ता इति शेषः ॥ ६ ॥ * पौलोम्यामिति । हे तातानु- कम्प्य, प्रभुः देवाधिपः इन्द्रः, अदित्या एकादशः पुत्रः शक्रः, पौलोम्यां पुलोम्नोऽपत्यभूतायां शच्यां जयन्तं, ऋषभं, तृतीयं मीढुषं, इत्येतत्संज्ञान त्रीन् पुत्रान् आधत्त अजनयत् इति नोऽस्माभिः श्रुतम् ॥ ७ ॥ * * उरुक्रमस्येति । मायावामन- रूपिणः स्वसंकल्पेन वामनरूपेणावतीर्णस्य, उरुक्रमस्य त्रिभिः पादक्रमैर्लोकत्रयमाक्रान्तवतः देवस्य, अदित्या द्वादशपुत्रात्मनो भगवतः, की त्तौ कीर्त्याख्यायां पत्न्यां, बृहत् श्लोकः पुत्रः आसीत् । तस्य बृहत्श्लोकस्य, सौभगादयः पुत्राः आसन् ॥ ८ ॥ भाषानुवादः अदिति और दितिकी सन्तानोंकी तथा मरुद्गणकी उत्पत्तिका वर्णन * । श्रीशुकदेवजी कहते हैं—परीक्षित्! सविताकी पत्नी पृश्निके गर्भसे आठ सन्तानें हुई -सावित्री, व्याहृति, त्रयी, अग्निहोत्र, पशु, सोम, चातुर्मास्य और पञ्चमहायज्ञ ॥ १ ॥ भगकी पत्नी सिद्धिने महिमा, विभु और प्रभु ये तीन पुत्र और आशिष नामकी एक कन्या उत्पन्न की । यह कन्या बड़ी सुन्दर और सदाचारिणी थी ॥ २ ॥ * * धाताकी चार पत्नियाँ थीं-कुहू, सिनीवाली, राका और अनुमति । उनसे क्रमशः सायं दर्श, प्रातः और पूर्णमास-ये चार पुत्र हुए ।। ३ ।। * * धाताके छोटे भाईका नाम था- विधाता, उनकी पत्नी क्रिया थी । उससे पुरीष्य नामके पाँच अमियों की उत्पत्ति हुई । वरुणजीकी पत्नीका नाम चर्षणी था । उससे भृगुजीने पुनः जन्म ग्रहण किया । इसके पहले वे ब्रह्माजीके पुत्र थे । ४
-
- महायोगी वाल्मीकिजी भी वरुणके पुत्र थे । वल्मीकसे पैदा होनेके कारण ही उनका नाम वाल्मीकि पड़ गया था । उर्वशीको देखकर मित्र और वरुण दोनोंका वीर्य स्खलित हो गया था । उसे उन लोगोंने घड़ेमें रख दिया। उसीसे मुनिवर अगस्त्य और वशिष्ठजीका जन्म हुआ । मित्रकी पत्नी थी रेवती उसके तीन पुत्र हुए- उत्सर्ग, अरिष्ट और पिप्पल ।। ५-६ ।। * प्रिय परीक्षित्! देवराज इन्द्रकी पत्नी थीं पुलोमनन्दिनी शची । उनसे, हमने सुना हैं, उन्होंने तीन पुत्र उत्पन्न किये - जयन्त, ऋषभ और मीढ्वान् ॥ ७ ॥ *
-
- अनुग्रह करने और इन्द्रका राज्य लौटानेके लिये ) मायासे वामन ( उपेन्द्र ) के रूप में पृथ्वी माँगकर तीनों लोक नाप लिये थे। उनकी पत्नीका नाम था कीर्ति । उससे बृहच्छ्रलोक आदि कई सन्तानें हुई ॥ ८ ॥ ऑट स्वयं भगवान् विष्णु ही ( बलिपर अवतीर्ण हुए थे । उन्होंने तीन पग नामका पुत्र हुआ । उसके सौभग तत्कर्मगुणवीर्याणि काश्यपस्य महात्मनः । पश्चाद्वक्ष्यामहेऽदित्यां यथा वावततार ह ।। ९॥ अथ कश्यपदायादान् दैतेयान कीर्तयामि ते । यत्र भागवतः श्रीमान् प्रह्लादो बलिरेव च ।। १० ।। दितेर्द्वावेव दायादौ दैत्यदानववन्दितौ । हिरण्यकशिपुर्नाम हिरण्याक्ष कीर्तितौ ॥ ११ ॥ rate हिरण्यकशिपोर्भार्या कयाधुर्नाम दानवी । जम्भस्य तनया दत्ता सुषुवे चतुरः सुतान् ।। १२ संहार्द प्रागनुहार्द हा दं प्रह्लादमेव च । तत्स्वसा सिंहिका नाम राहुं विप्रचितोऽग्रहीत् || १३ | शिरोऽहरद्यस्य हरिश्रक्रेण पिबतोऽमृतम् । संहादस्य कृतिर्भार्यासूत पञ्चजनं ततः ॥ १४ ॥ ।। W हादस्थ धमनिर्भार्यात वातापिमिल्वलम् । योऽगस्त्याय त्वतिथये पेचे वातापिमिल्वलः ।। १५ ।। अनुहादस्य सूर्यायां बाष्कलो महिषस्तथा । विरोचनस्तु प्राहादिर्देव्यास्तस्याभवद् बलिः ।। १६ ।। 7 कृष्णप्रिया व्याख्या अन्वयः - महात्मनः कश्यपस्य तत्कर्मगुणवीर्याणि पश्चात् वक्ष्यामहे यथा अदित्यां वा अवततार ह ॥ ६॥ अथ यत्र श्रीमान भागवतः प्रह्लादः च बलिः एवं कश्यपदायादान् दैतेयान ते कीर्तयामि ॥ १० ॥ दितेः हिरण्यकशिपुः च । १. प्रा० पा० अन । २. प्रा० पा० - प्रह्लादं ह्लादमेव च । २. प्रा० पा० - सती । ४. प्रा० पा०
सूर्यायां । स्कं. ६ अ. १८ श्लो. ९-१६] अनेकव्याख्यासमलङ्कृतम् १२ ॥ हिरण्याक्ष : नाम दैत्यदानववन्दितौ द्वौ एव दायादौ कीर्तितौ ॥ ११ ॥ दानवी जंभस्य तनया कयाधुः नाम हिरण्यकशिपोः भार्या दत्ता चतुरः सुतान् सुषुवे ॥ प्राकू संहार्द अनुहार्द ह्रादं च प्रह्लादम् एव तत्स्वसा सिंहिका नाम विप्रचितः राहुम् अग्रहीत् ।। १३ ॥ * अमृतं पिबतः यस्य शिरः हरिः चक्रेण अहरत् संहादस्य भार्या कृतिः ततः पञ्चजनम् असूत ॥ १४ ॥ * ह्रादुस्य भार्या धमनिः वातापिं च इल्बम् असूत यः तु अतिथये अगस्त्याय वातापि पेचे इल्वलम् अजनयत् ।। १५ ।। * अनुहादस्य सूर्यायां बाष्कलः तथा महिषः अभवत् प्राह्वादिः विरोचनः तस्य तु देव्याः बलिः अभवत् ।। १६ ।। * श्रीधरस्वामिति रचिता भावार्थप्रदीपिका पश्चादष्टमस्कंधे ॥ ९ ॥ अथेति । कश्यपस्यादितेः पुत्राणां द्वादशादित्यानां संततिमुक्त्वा दितेः पुत्रान्क- थयामीत्यर्थः ॥ १० ॥ हिरण्यकशिपुर्हिरण्याक्षश्चेति प्रथमं द्वावेव तौ च कीर्तितौ तृतीयस्कंधे ।। ११-१२ ।। * विप्रचतो दानवाद्भर्तुः सकाशाद्राहुं पुत्रमग्रहीत् ॥ १३ ॥ ततः संह्रादादसूत ॥ १४ ॥ * यो मेषरूपं वातापिमगस्त्यार्थं पेचे तमिल्वलम् | यं पेचे तं वातापिं चासूतेत्यन्वयः ।। १५-१६ ॥ वंशीधरकृतो भावार्थदीपिकाप्रकाश
काश्यपस्य तत्तनयस्य वामनस्य । यद्वा- कश्यप एव काश्यपस्तस्य पत्न्यां यथोरुक्रमोऽवततार तस्य कर्मादीनीति ||९|| अथादितिसंततिवर्णनोत्तरम् । ननु दैत्यवंशस्य कल्याणानुपयुक्तत्वात्तद्वर्णनमयुक्तमन्त्रेति चेदाह – यत्रेति । यत्र दितिसंतती । प्रह्लादबलिचरितश्रवणस्य श्रेयस्साधनत्वात्तद्वर्णनं युक्तमेव " दैत्यात्मजस्य च सतां प्रवरस्य पुण्यं श्रुत्वानुभावमकुतोभयमेति लोकम्” इति सप्तमस्कंधोक्ते: “उरुक्रमस्य चरितं श्रोतॄणामघनाशनम्” इत्यष्टमस्कंधे बलिचरितांतोक्तेश्व ॥ १० ॥ “दायादौ पुत्रबांधवौ” इत्यभिधानात् दायादौ पुत्रौ ॥ ११ ॥ * जम्भेन दत्ता ॥ १२ ॥ * * तत्स्वसा हिरण्य- ।। ४ कशिपोर्भगिनी “दितेः सुतो हिरण्याक्ष हिरण्यकशिपुस्तथा । कन्या च सिंहिका नाम बभूव कुरुसत्तम ॥” इति पुराणां- तरोक्तेः ॥ १३ ॥ * * यस्य राहोः ॥ १४ ॥ * * वातापेर्ब्रह्मवरोस्ति मेषरूपिणं त्वां भक्षितं यदि कश्विदा- येत्तदा त्वं भक्षितुर्देहं विदार्य स्वरूपेण बहिरायास्यसीति महाभारते वर्णितमगस्त्योपाख्याने तौ चेल्वलवातापी ब्राह्मणकुलहनने प्रवृत्तौ महामुनिनाऽगस्त्येन तयोर्वातापिर्भक्षित्वा जीर्णतां नीतः । इल्वलश्च स्वहनने प्रवृत्तो हुंकारेण भस्मसात्कृत इति श्रीवाल्मी- कीयेऽपि वर्णितमित्यभिप्रेत्येवाह-योऽगस्त्यायेति ॥ १५ ॥ * 8 तस्य विरोचनस्य दवनाम्न्या भार्यायाः ॥ सकाशात् ।। १६ ।। ।। १६ ।। समय । अन्वितार्थप्रकाशिका तत्कर्मेति । महात्मनः काश्यपस्य वामनस्य तत्प्रसिद्धं कर्म तथा गुणवीर्याणि च यथा चादित्यामवततार तत्सर्व पश्चादष्टमस्कन्ध एवं वक्ष्यामहे ॥ ९ ॥ अथेति । अथ कश्यपस्य दायादान् पुत्रान् दैतेयान् दित्यां जातान् ते तुभ्यं कीर्त्तयामि । यत्र श्रीमान् बलिः प्रहादश्च भागवतो जातः ॥ १० ॥ * * दितेरिति । दितेः दैत्यादिवन्दितौ हिरण्यक - शिपुर्हिरण्याक्षश्चेति द्वावेव दायादौ पुत्रौ प्रथमं जातौ । तौ च तृतीयस्कन्धे कीर्त्तितौ ॥ ११ ॥ हिरण्येति युग्मम् । जम्भस्य तनया दत्ता जम्भेन हिरण्यकशिपवे दत्ता । अतः हिरण्यकशिपोर्भार्या दानवी दनुवंशजा कयाधुर्नामाभूत् । सा । संह्रादादीन चतुरः सुतान् सुषुवे । तत्स्वसा प्रह्लादभगिनी सिंहिका विप्रचितो दानवात् स्वभर्तुः सकाशात् राहुम् अजी- जनत् ॥ १२-१३ ॥ * * शिर इति । यस्यामृतं पिबतो राहोः हरिश्चक्रेण शिरः अहरत् । संह्लादस्य भार्या कृतिर्नाम्नी ततः संह्लादात् पञ्चजनसंज्ञकं पुत्रमसूत ॥ १४ ॥ * * ह्रादस्येति । ह्लादस्य धर्मानिर्भार्या वातापिमिल्वलं चासूत । अतिथये अगस्त्याय अगस्त्यं भोजयितुं यस्तु मेषरूपधरं वातापिं पेचे । तमिस्वलं यं च पेचे तं वातापिं चासूत ।। १५ ।। * * अन्विति । अनुह्लादस्य सूर्यायां भार्यायां बाष्कलो महिषश्चेति द्वौ पुत्रौ जाताविति शेषः । प्राह्लादिः प्रह्लादपुत्रो विरोचनोऽभूत् । वस्य विरोचनस्य देव्यां भार्यायां बलिः पुत्रोऽभवत् ॥ १६ ॥ 1 वीरराघवव्याख्या काश्यपस्य कश्यपपुत्रस्य महात्मनः उरुक्रमस्य तानि प्रसिद्धानि कर्माणि पदत्रयेण लोकत्रययाच्छनादीनि गुणाः स्वभक्त- विषयकानुप्रहादयः सर्वशक्त यादयश्च वीर्याणि उत्कृष्टगुणैरन्येभ्यः उत्कर्षो हि वीर्यं तद्रूपाणि वीर्याणि च पश्चादष्टमस्कन्धे वक्ष्यामहे श्रीमद्भागवतम् [ . ६ . २८ . ९-१६ तथा अदित्यां यथा येन प्रकारेण अवततार अवतीर्णवान् तश्च प्रकारें तत्रैव वक्ष्यामह इत्यर्थः ॥ ९ ॥ * * एवं साकल्येना- दितेवंशमनुक्रम्याथ दितेर्वशस्यानुक्रमं प्रतिजानीते - अथेति । काश्यपादीनां विवस्वदादीनामादितेयानां दायादान् सपिण्डान् शत्रून्वा दैतेयान् दितेः पुत्रान ते तुभ्यं कीर्तयामि कथयामि तद्वंशे भागवतानामभावान्न तच्छ्रवणं ममापेक्षितमिति राज्ञो ऽभि- प्रायमालोच्याह-यत्रेति । यत्र दितेवंशे श्रीमान् भगवता तुल्यं कल्याणगुणसंयुक्त: महाभागवतः प्रह्लादः बलिश्च बभूवतुः ॥१०॥ तर्हि कथयेत्यत्राह – दितेरिति । दितेर्द्वावेव दायादौ काश्यपानां देवानां शत्रू मरुतामदायादत्वस्य वक्ष्यमाणत्वाद् द्वावेवेत्युक्तः पुत्रौ दैत्यैस्तत्पुत्रपौत्रादिभिर्दानवैश्च वन्दितौ बभूवतुः । तौ च हिरण्यकशिपुर्हिरण्याक्षश्चेति कीर्तितौ प्रख्यातौ ॥ ११ ॥ * * तत्र हिरण्यकशिपोर्भार्या जम्भस्य दुहिता दानवी दनुवंशोद्भवा कयाधुरिति प्रसिद्धा सा कयाधुः प्रह्लादादीन् चतुरः सुतान् सुषुवे ।। १२ ।। प्राक् प्रथमं प्रह्लादं ततः क्रमेणानुह्लादसंह्लादह्लादान सुषुवे इत्यर्थः । तत्स्वसा तेषां प्रह्लादादीनां चतुर्णां स्वसा भगिनी सिंहिकेति प्रसिद्धा बभूव सा विप्रचितः विप्रचितेर्भर्तुर्दानवात्सकाशाद्राहुं पुत्रमग्रहीत् सुषुव इत्यर्थः ||१३|| राहुं विशिनष्टि शिर इति । यस्य राहोरमृतं पिबतः शिरश्चक्रेण चिच्छेद संह्लादस्य हिरण्यकशिपोस्सुतस्य मतिर्नाम भार्या पञ्चजनाख्यं सुतमसूत सुषुवे ॥ १४ ॥ तथा ह्लादस्य भार्या धमनीति प्रसिद्धा वातापिमिल्वलनासूत, इल्वलं विशिनष्टि —य इति, अतिथये आतिध्यार्थ निमन्त्रितायातिथये अगस्त्याय इल्वलो मेषरूपं वातापिं पेचे पपाच तमिल्वलमि- ।
- तथा अनुह्लादस्य सूर्यायां भार्यायां बाष्कलो | * त्यन्वयः । वातापिमिल्वल इति प्रथमा सुगमः चः प्राह्लादिः प्रह्लादस्यापत्यं पुमान् बभूव, तस्य विरोचनस्य महिष इति द्वौ पुत्रौ बभूवतुः तथा धुन्यां प्रह्लादस्य भार्यायां पुत्रो बलिरभवत् ।। १६ ।। emproper P-1 ERESTIN विजयध्वजतीर्थकृता पदरत्नावली । महात्मनः कश्यपस्य पत्न्यामदित्यां यथाऽसावुरुक्रमोऽवततार तत्कर्मादीनि पञ्चादष्टमस्कन्धे वक्ष्याम इत्यन्वयः ||९॥ अथ मङ्गलमस्तु ननु, दैत्यवंशवर्णनं किमर्थं क्रियते ? तत्कथनस्य श्रेयःसाधनत्वानुपयोगित्वादिति तत्राह — यत्रेति । यत्र दिति- सन्वाने प्रह्लादबलिचरितकीर्तनश्रवणाभ्यां श्रेयः साधनत्वसम्भवादित्यर्थः ॥ १०-११ ॥ * विप्रचितः विप्रचितेः सकाशाद्राहुं सुतम् ॥ १२-१५ ।। तस्य विरोचनस्य ।। १६ ।। ।। पश्चादष्टमस्कन्धे 8 पादधे ॥ ९ ॥
MSP IFTT विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी ।। क अथेति कथान्तरारम्भे, दायादान् पुत्रान् दैतेयान दित्यां जातान् ।। १०-१२ ।। विप्रचितो दानवात् पत्युः सकाशात् राहुं पुत्रमप्रहीत् प्राप ॥ १३-१४ ॥ * * य इल्वलः अगस्त्याय अगस्त्यं भोजयितुं वातापिं मेषरूपं पेचे ।। १५-१६ ।। क शुकदेवकृतः सिद्धांतप्रदीपः यथा अवततार तत्प्रकारः तस्यावतीर्णस्य कर्मादीनि च पश्चादष्टमस्कन्धे वक्ष्यामहे राजन् ॥ ९ ॥ यत्र येषु भागवतः प्रह्लादो बलिश्च ॥ १० ॥ * * कीर्तितो वर्णितो तृतीयस्कन्धे ॥ ११ ॥ * 8 जृम्भस्य तनया तेन दत्ता ॥ १२ ॥ * तेषां स्वसा भगिनी सिंहिका नाम प्रसिद्धा सापि विप्रचितो दानवाद्भर्तुः सकाशात् राहुं पुत्रम- प्रहीत् ॥ १३ ॥ * * यस्य राहोः शिरो हरिश्चिच्छेद संह्लादस्य भार्या कृतिस्ततः संह्रादात्पञ्चजनमसूत ॥ २४ ॥ * हादस्य भार्या धमनिर्वातापिमिल्वलज्वासूत य इल्वलः वातापिमगस्त्यायातिथये पेचे पपाच ।। १५ ।। प्राह्रादिः प्रह्लादपुत्रः तस्य विरोचनस्य देव्यां भार्य्यायां बलिरभवत् ।। १६ ।। BP Sad Pimp गोस्वामिगिरिधरलाल विहिता बालप्रबोधिनी
ननु भगवदवतारत्वात्तचरितमपि वक्तव्यमित्याकाङ्गायामाह – तत्कर्मेति । तस्य कर्म भिक्षाचरणं गुणा भक्तवात्सल्या- दयः वीर्य प्रभावः यथा चादित्यामवततार तत्सर्वं पश्चादष्टमस्कन्धे एवं वक्ष्यामहे इत्यन्वयः । तचरितस्य मन्वन्तरकथासम्बन्धि- त्वात्तस्य तत्रैव निरूपणं युक्तं नात्रेति भावः ॥ ६॥ * * अथेत्यर्थान्तरे । अदितिपुत्राणां वंशमुक्त्वा दितिपुत्रान् कथया- मीत्यर्थः । ननु भगवत्सम्बन्धाभावाद्दैत्यनिरूपणं किमर्थमित्याशङ्कयाह–यत्र भागवत इति । जात इति शेषः ॥ १० ॥ * * हिरण्यकशिपुर्हिरण्याक्षश्चेति द्वावेव दायादौ पुत्रौ प्रथमजात तोच तृतीयस्कन्धे कीर्त्तितौ ।। ११-22 ११-१२ ॥ ॥ * तान् सुतानेव दर्शयति–सहादमिति । तत्स्वसा प्रह्लादभगिनी सिंहिका विचितो दानवात्स्वमन्तु : सकाशाद्राहु पुत्रम पुत्रमप्रहीत् ॥ १३ ॥स्कं. ६ अ. १८ लो. १७-२४] अनेकव्याख्या समलङ्कृतम ५५९% यस्यामृतं पिवतो राहोः । ततः संह्लादात् पञ्चजनसंज्ञकं पुत्रमसूत ॥ १४ ॥ * * वातापिमिल्वलं च धमनिरसूत । कौ तावित्यपेक्षायामाह य इति । अगस्त्याय अगस्त्यं भोजयितुं यस्तु मेषरूपधरं वातापिं पेचे: तमिल्वलं यं च पेचे तं वातापिं चासूतेत्यन्वयः ।। १५ ।। * अनुह्लादस्य सूर्यायां भार्यायां बाष्कलो महिषश्चेति द्वौ पुत्रौ जाताविति शेषः । प्राह्लादि : प्रह्लादपुत्रस्तस्य विरोचनस्य देव्यां भार्यायां बलिः पुत्रोऽभवत् ।। १६ ।। | 39. * भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी कार में तत्कर्मेति । काश्यपस्य कश्यपपुत्रस्य, महात्मन उरुक्रमस्य, कर्माणि पदत्रययाच्या लोकत्रयग्रहणादीनि च गुणाः स्वभक्तविषयका नृप्रहसर्वशक्त्यादयश्च वीर्याणि उत्कष्टगुणैरन्येभ्य उत्कर्षरूपाणि च तानि प्रसिद्धानि यानि कर्मगुणवीर्याणि च तानि यथा अदित्याम्, अवततारावतीर्णवान्, एतच पश्चादेव अष्टमस्कन्धे एव, ह स्फुटं यथा तथा, वक्ष्यामहे कथयिष्यामः ।। ९ ॥ * एवं साकल्येनादितेर्वंशमनुक्रम्याथ दितेर्वंशस्यानुक्रम प्रतिजानीते । अथेति । अथानन्तरं, काश्यपा अदित्यां कश्यपाज्जाता विवस्वदादयस्तेषां दायादाः सपिण्डातान शत्रून्वा दैतेयान् दितेः पुत्रान्, ते तुभ्यं कीर्त्तयामि । तद्वंशे भागवतानामभावान्न तच्छ्रुवणं ममापेक्षितमिति राज्ञोऽभिप्रायमालोच्याह । यत्र दैतेयेषु, श्रीमान् भगवत्तुल्यकल्याणगुण- लक्ष्मीसंपन्नः भागवतः भगवद्भक्तोत्तमः, प्रह्लादः बलिश्च एतौ द्वौ बभूवतुः एव । अतोऽयमपि श्रोतुं योग्य एवास्तीति भावः ॥ १० ॥ तर्हि कथयेत्यत्राह । दितेरिति । दितेः, द्वौ एव दायादौ पुत्रौ । तौ च, दैत्याश्च दानवाश्च तेषां वन्दितौ आस्ताम् । अग्रे भाव्यानां मरुतामदायादत्वस्य वक्ष्यमाणत्वात् द्वावेवेत्युक्तम् । तौ नाम्ना निर्दिशति । नाम त्रिलोकप्रसिद्धः, हिरण्यकशिपुः हिरण्याक्षश्च, इति कीर्त्तितौ प्रख्यातौ, अभूतामिति शेषः ॥ ११ ॥ * * हिरण्येति । तत्र हिरण्यकशिपोः, भार्या जृम्भस्य, तनया दुहिता, वृत्ता जृम्भेण तेनोद्वाहितेत्यर्थः । दानवी दनुवंशोद्भवा, कयाधुरिति, नाम प्रसिद्धा, आसीत् । सा चतुरः सुतान् सुषुवे ॥ १२ ॥ संह्लादमिति । प्राक् प्रथमं, संह्लादं, अनुह्लाद, ह्लाद, प्रह्लादं च । तत्स्वसा तेषां भगिनी, सिंहिका नाम, विप्रचितो दानवाद्भर्तुः सकाशात्, राहु राहुसंज्ञं पुत्रं, अग्रहीत्सुषुवे एव ।। १३ ।। * राहुं विशिनष्टि । शिर इति । अमृतं पिबतः यस्य राहोः शिरः, हरिः चक्रेण अहरत् पातयामास । संह्लादस्य, कृतिः नाम भार्या, केचित्तु मही नाम भार्येति वदन्ति । ततः संह्लादात् पञ्चजनं नाम सुतं असूत ॥ १४ ॥ * * ह्लादस्येति । ह्लादस्य धमनी भार्या, वातापिम् इल्वलं च, असूत । इल्वलं विशिनष्टि । य इल्वलस्तु अतिथये आतिथ्यार्थं निमन्त्रिताय अगस्त्याय मेषरूपमिति शेषः । वातापि पेचे । इल्वलमिति द्वितीयान्तपाठे, यो मेषरूपं वातापिं पेचे तमिल्वलं, यं तं वातापिं चासूतेत्यन्वयः ॥ १५ ॥ । । ॥ अनुह्लादस्येति । तथा अनुह्लादस्य सूर्याया पत्न्यां बाष्कलः महिषः, इति द्वौ पुत्रौ बभूवतुः । धुत्यां धुत्याख्यायां भार्यायां प्राह्लादिः प्रह्लादपुत्रः, विरोचनः अभवत् । प्रह्लादस्य धुत्यां पत्न्यां विरोचनोऽभवदित्यर्थः । केचित्तु देव्याः प्रह्लादपत्न्या इति बदन्ति । तस्य विरोचनस्य, तस्य बलिः पुत्रः अभवत् ॥ १६ ॥ 7 ARETHEY भाषानुवादः काश्यपनन्दन भगवान् वामनने माता अदितिके गर्भसे क्यों जन्म लिया और इस अवतार में उन्होंने कौनसे गुण, story और पराक्रम प्रकट किये - - इसका वर्णन मैं आगे ( आठवें स्कन्धमें ) करूँगा || ९ || प्रिय परीक्षित ! अब मैं कश्यप- जीकी दूसरी पत्नी दितिसे उत्पन्न होनेवाली उस सन्तान परम्पराका वर्णन सुनाता हूँ, जिसमें भगवान् के प्यारे भक्त श्रीमह्लाद- जी और बलिका जन्म हुआ ॥ १० ॥ दिति दैत्य और दानवोंके वन्दनीय दो ही पुत्र हुए- हिरण्यकशिपु और हिरण्याक्ष | इनकी संक्षिप्त कथा मैं तुम्हें (तीसरे स्कन्धमें ) सुना चुका हूँ ॥ ११ ॥ हिरण्यकशिपुकी पत्नी । दानवी कयाधु थी । उसके पिता जम्भने उसका विवाह हिरण्यकशिपुसे कर दिया था । कयाधुके चार पुत्र हुए - संहाद, अनुहार, हाद और । सिंहिक्स का प्राद | इनकी सिंहिका नामकी एक बहिन भी थी । उसका विवाह | उसका विवाह विप्रचिति नामक एक दानवसे । हुआ । उससे राहु नामक पुत्रकी उत्पत्ति हुई ।। १२-१३ ॥ यह वही राहु है, जिसका सिर अमृतपानके समय मोहिनीरूपधारी भगवान्ने चक्रसे काट लिया था । संहादकी पत्नी थी कृति । उससे पञ्चजन नामक पुत्र उत्पन्न हुआ || १४ || हादकी पत्नी थी धमनि । उसके दो पुत्र हुए- वातापि और इल्वल । इल्वलने ही महर्षि अगस्त्य के आतिथ्य के समय वातापिको पकाकर उन्हें खिला दिया था ।। १५ ।। अनुहादकी पत्नी सूर्म्या थी, उसके दो पुत्र हुए- बाष्कल और महिषासुर । प्रह्लादका पुत्र था विरोचन । उसकी पत्नी देवीके गर्भ से दैत्यराज बलिका जन्म हुआ ।। १६ ।। बाणज्येष्ठं पुत्रशतमशनायां ततोऽभवत् । तस्यानुभावः सुश्लोक्यः पञ्चादेवाभिधास्यते ॥ १७ ॥ बाण आराध्य गिरिशं लेभे तद्गणमुख्यताम् । यत्पार्श्वे भगवानास्ते द्यापि पुरपालकः ॥ १८ ॥ ५६० श्रीमद्भागवतम् [ स्कं. ६ अ. १८ श्लो. १७-२४ मरुतश्च दितेः पुत्राश्रत्वारिंशन्नवाधिकाः । त आसन्न प्रजाः सर्वे नीता इन्द्रेण सात्मताम् ॥ १९ ॥ आसन्नप्रजाः राजोवाच ॥ कथं त आसुरं भावमपोह्यौत्पत्तिकं गुरो । इन्द्रेण प्रापिताः सात्म्यं किं तत्साधु कृतं हि तैः ॥ २० ॥ इमे श्रद्दधते ब्रह्मन्नृषयो हि मया सह । परिज्ञानाय भगवंस्तन्नो व्याख्यातुमर्हसि ॥ २१ ॥ सूत उवाच तद्विष्णुरातस्य स बादरायणिर्वचो निशम्यादृतमल्पमर्थवत् । सभाज यन् संनिभृतेन चेतसा जगाद सत्रायण सर्वदर्शनः ॥ २२ ॥ श्रीशुक उवाच हतपुत्रा दितिः शक्रपार्ष्णिग्राहेण विष्णुना । मन्युना शोकदीप्तेन ज्वलन्ती पर्यचिन्तयत् ॥ २३ ॥ कदा नु भ्रातृहन्तारमिन्द्रियाराममुल्बणम् । अक्निन्नहृदयं पापं घातयित्वा शये सुखम् ॥ कृष्णप्रिया व्याख्या २४ ॥
-
- च दितेः * * गुरो ते औत्प- २० ॥ ब्रह्मन् अन्वयः—ततः अशनायाम् बाणज्येष्ठम् पुत्रशतम् अभवत् तस्य सुश्लोक्य: अनुभावः पश्चात् एव अभिधास्यते ॥ १७ ॥ बाणः गिरिशम् आराध्य तद्गुणमुख्यताम् लेभे भगवान् यत्पार्श्वे अद्यापि हि पुरपालकः आस्ते ॥ १८ ॥ नवाधिकाः चत्वारिंशत् मरुतः पुत्राः आसन् सर्वे ते अप्रजाः इन्द्रेण सात्मताम् नीताः ॥ १९ ॥ त्तिकम् आसुरम् भावम् अपोह्य इन्द्रेण हि सात्म्यम् कथम् प्रापिताः तैः तत् साधु किम् कृतम् ॥ भगवन् हि मया सह इमे ऋषयः श्रद्दधते तत् परिज्ञानाय नः व्याख्यातुम् अर्हसि ॥ २१ ॥ * * सत्रायण सर्वदर्शनः स बादरायणः विष्णुरातस्य अल्पम् अर्थवत् तत् आहतम् वचः निशम्य संनिभृतेन चेतसा सभाजयन् जगाद ।। २२ ।। * * शक्रपाणिग्राहेण विष्णुना हतपुत्रा शोकदीप्तेन मन्युना ज्वलन्ती दितिः पर्यचिन्तयत् ।। २३ ।। * भ्रातृहन्तारम् इन्द्रियारामम उल्बणम अकिन्नहृदयम् पापम् घातयित्वा कदा नु सुखम् शये ॥ २४ ॥ श्रीधरस्वामिविरचिता भावार्थदीपिका आहतं सादरम् । अल्पं ततो बलेः सकाशादभवत् । तस्य बलेरनुभावः सुश्लोक्यः पुण्यकीर्त्यर्हः । यद्वा पाठान्तरेनुभाव्यते सद्भिः स्तूयत इत्यनुभावम् । सुश्लोक्यं यश इति शेषः । पश्चादष्टमस्कन्धे ॥ १७ ॥ * * तस्य गणेषु मुख्यतां प्राधान्यम् ॥ १ ॥ * सात्मतां समानरूपताम् ॥ १९ ॥ * * सात्म्यं देवत्वं प्रापिताः ।। १०-२१ ।। * सात्म्यं देवत्वं प्रापिताः ।। १०-२१ ॥ मिताक्षरम् । अर्थवद्वह्नर्थयुक्तम् । सत्रमयनमाश्रयो यस्य हे सत्रायण शौनक ।। २२ ।। सहायेन ॥ २३ ॥ * * भ्रातृहंतारमिद्रं मारयित्वा सुखं शये स्वपिमि सुखिनी कदा स्यामिति चिन्तयामास दितिः । उल्बणं क्रूरम् । अक्लिन्नहृदयं कठिनचित्तम् ॥ २४ ॥ वंशीधरकृतो भावार्थदीपिकाप्रकाशः । शक्रस्य पाणिप्राहेण पृष्ठतः यद्वेत्यस्य स्थाने पाठांतरे इत्यपेक्षितमिति भाति । तच्च ‘तस्यानुभावं सुश्लोक्यम्’ इत्येवं रूपम् । अभिधास्यते कथ्यते व्यासेन । द्वितीयांतपक्षे व्यास इति कर्तृपदमध्याहार्यम् ॥ १७ ॥ तस्य गिरिशस्य । भगवान् गिरिश एव ॥ १८ ॥ अप्रजाः संततिहीनाः ॥ १६ ॥ * अपोह्य त्याजयित्वा । हे गुरो इति । संदिग्धोर्थो हि गुरुत एव पृच्छयते इति भावः । पुराणवतुर्हि बृहन्नारदीयेऽष्टादशगुरुषु मुख्यत्वमुक्तम् “उपाध्यायः पिता माता ज्येष्ठभ्राता महीपतिः । मातुलश्वशुरौ चाथ मातामहपितामहौ । वर्णज्येष्ठः पितृव्यश्चोपनेता ह्यन्नदस्तथा । भयत्राता हितकरो गुरुभ्रातृसुतौ तथा । पुराणश्राविता चैते पुंसोऽत्र गुरवो मताः । पुराणश्राविता चैषु मुख्यो गुरुरुदाहृतः । धर्माधर्मोपदेशेन जनानुद्धरते यतः । निवर्त्तयति योऽधर्माद्धर्मे · १. प्रा० पा० - मर्थदृक् । २. प्रा० पा०– जयस्तं निभृतेन तेजसा । रुकं. ६ अ १८ लो. १७-२४] अनेकव्याख्यासमलङ्कृतम् ५६१ चाथ प्रवर्त्तयेत् । पुरावृत्तश्रावणेन स चाष्टादशसु स्फुटम् । सदा मान्यो व्यासरूपो गुरुधर्मपरायणैः । " इति । उत्पत्त्या जातमौ - त्पत्तिकम् । तत्तस्येंद्रस्य । तैर्मरुद्भिः । साधु सम्यक्त्वम् । कृतं संपादितम् ॥ २० ॥ ननु भवान्कथमिमां बहिरंगां कथां शुश्रूषते तत्राह - इम इति । मया सहेति । स्वस्य गौणत्वं बोधयंस्तथैव व्यंजितवान् । हे भगवन्निति सर्वज्ञत्वमाह ।। २१ ।। आटतमृषीणामादरेण सहितम् । बह्नर्थयुक्तम् । ऋष्यभिप्रेतश्री शुकाभिप्रेतसिद्धियुक्तम् अथ वाऽर्थवत् एतच्च भगवदाराधन- विशेषसंबंधेनैव भवेदिति स्वाभीष्टयुक्तं संन्निभृतेन श्रीभगवत्सुखसंपूर्णेनातस्तदपि भगवत्संबंधे योजयिष्यतीति भावः । सर्वदर्शनः सर्वज्ञः । हे सत्रायणेति । यज्ञशालागतेन शास्त्रवृत्तांतेनैव कालो नेयस्तत्त्वं शृण्वति भावः ॥ २२ ॥ * पृष्ठतः सहायेन परोक्षसाहाय्यकर्त्रेत्यर्थः ॥ २३ ॥ * * सुखं शये सुखेन निद्रामीत्यर्थः ॥ २४ ॥ | अन्वितार्थप्रकाशिका | ।। ।। बाणेति । ततो बलेः सकाशात् अशनायां भार्यायां बाणो ज्येष्ठो यस्मिंस्तत् पुत्रशतमभवत् । सुश्लोक्यः तस्य बलेरप्य- नुभावः पश्चादष्टमस्कन्ध एवाभिधास्यते ॥ १७ ॥ * बाण इति । बाणो गिरिशमाराध्य तस्य गणेषु पार्षदादिषु मुख्यतां प्राधान्यं लेभे । तस्मिंस्तत् कृपाधिक्यं किं वक्तव्यं पुरपालकः सन् भगवान् शिवोऽद्यापि यस्य पार्श्व आस्ते ॥ १८ ॥ मरुत इति । दितेः पुत्रा मरुतः नवाधिकाः चत्वारिंशत्पुत्रा आसन ते अप्रजा: अप्रजसः आसन् । असिजभाव आर्षः । इन्द्रेण सात्मतां समानस्वभावतां देवत्वं नीताश्चासन् ॥ १९ ॥ कथमिति । हे गुरो ! ते मरुतः औत्पत्तिकं स्वभावसिद्धम् आसुरं भावं क्रौर्यवैरादिकम् अपो त्यक्त्वा कथं स्थिताः तत्तस्येन्द्रस्य च तैः किं साधु कृतमुपकारः कृतः । हि यमत्साधुकर- णादिन्द्रेण ते सात्म्यं प्रापिताः ।। २० ।। इम इति । हे ब्रह्मन् ! हे भगवन् ! मया सह इमे समस्त ऋषयोऽपि एतस्य पृष्टस्य परिज्ञानाय श्रदधते इच्छन्ति । “श्रद्धास्तिक्येऽभिलाषे च” इति हैमः । तत्तस्मान्नोऽस्माकमेतद्वयाख्यातुमर्हसि ||२१|| तदिति । सत्रमयनमाश्रयो यस्येति तथा तत्सम्बोधनं हे सत्रायण शौनक ! आहतं सादरम् अल्पं मिताक्षरम् अर्थवत्सर्वोपकारक विष्णुरातस्य तद्वचो निशम्य सर्वदर्शनः सर्वज्ञो बादरायणिः श्रीशुकः निभृतेन आनन्दपूर्णेन चेतसा तं सभाजयन सकुन् जगाद उत्तरं दत्तवान् । सभाजनं तु ग्रन्थाद्बहिरेव ॥ २२ ॥ हतेति । शक्रस्य पाणिग्राहेण पृष्ठतः सहायेन विष्णुना हतौ पुत्रौ हिरण्यकशिपुहिरण्याक्षौ यस्याः सा दितिः शोकेन दीप्तेन प्रज्वलितेन मन्युना ज्वलन्ती पर्यचिन्तयत् ॥ २३ ॥ * * कदा न्विति । इन्द्रियारामं पापाचारं भ्रातरौ हिरण्यकशिपु हिरण्याक्षौ तयोर्विष्णुद्वारा हन्तारमत एव उल्बणं निर्दयहृदयम् इन्द्रं घातयित्वा मारयित्वाऽहं कदा नु सुखं शये । सुखेन निद्रां कुर्यामित्यचिन्तयदित्यनुषङ्गः ।। २४ ॥
- । वीरराघव व्याख्या ततो बलेः शमनायां भार्यायां बाणः ज्येष्ठो यस्य तत्पुत्राणां शतमभवत् तस्य प्रह्लादस्य बलेर्वा अनुभावः प्रभावः सुश्लोक्यः अतीव वर्णनीयः स पश्चादेव सप्तमेऽष्टमे वा अभिधास्यते कथयिष्यते ॥ १७ ॥ * * बाणस्तु गिरिशं रुद्रमाराध्य तद्भृत्य- वर्गेषु मुख्यतां लेभे तदेव व्यञ्जयन् बाणं विशिनष्टि, यस्य बाणस्य पार्श्वे अद्यापि पुरेपालकः स भगवान् गिरिश आस्ते ।। १८ ।। अन्यानपि दितेः पुत्रानाह - मरुतश्चेति । चकारो हिरण्यकशिपुहिरण्याक्षयोस्समुच्चयार्थः । मरुतो मरुद्गणाः चत्वारिंशन्नवाधिका: एकोनपञ्चाशत्संख्याकाः दितेः पुत्रा एव ते सर्वे मरुतः अप्रजाः अपुत्राः आसन् ते चेन्द्रेण सात्मतां समानरूपत्वं देवत्वमिति यावत् नीताः प्रापिताः । अतो न देवानां दायादा इति भावः ॥ १९ ॥ * * एतदेव शुश्रूषुः पृच्छति राजा - कथमिति द्वाभ्यां हे गुरो ! मुने, ते मरुतः कथमौत्पत्तिकं जन्मसिद्धमासुरम्भावमपोद्य त्यक्त्वा इन्द्रेण सात्म्यं देवत्वं प्रापिताः देवत्वप्राप्तौ तैर्मरुद्भिः किं तस्येन्द्रस्य साधु हितं कृतम् ॥ २० ॥ * न केवलमिदमहमेव शुश्रूषुरपि तु हे ब्रह्मन, इमे ऋषयोऽपि परि- ज्ञानाय वेदितुं श्रद्दधते श्रद्धां कुर्वन्ति, अतो हे भगवन्, नोऽस्मभ्यं व्याख्यातुं कथयितुमर्हसि ॥ २१ ॥ * * एवमापृष्टो मुनिः प्रश्नमभिनन्दयन् यथावदाचख्यौ इत्याह सूतः - तदिति । बादरायणस्यापत्यं पुमान् । विष्णुरातः श्रीशुकः अल्पं मिताक्षर- मर्थवदाशयगर्भ तस्य राज्ञस्तद्वचः आहतं सादरं यथा भवति तथा निशम्य निभृतेन चेतसा पूर्णेनान्तःकरणेन तं राजानं संभा- वयन सम्मानयन् सर्वज्ञो मुनिः हे सत्रायण, सत्रं ब्रह्मसत्रम् अयनमाश्रयो यस्य स ब्रह्मसत्रेण दीक्षित इत्यर्थः । तस्य सम्बोधन है शौनक, जगाद ॥ २२ ॥ * * तदेवाह - हतपुत्रेति । शक्रपाणिग्राहेण शक्रमिन्द्रं पाष्णि पक्षं स्वीयत्वेन ग्राहिणा ग्रहीतवता विष्णुना हतौ पुत्रौ हिरण्याक्षहिरण्यकशिपू यस्याः सा दितिः अत एव शोकेन दीप्तो यो मन्युः क्रोधस्तेन ज्वलन्ती परितपन्ती पर्यचिन्तयत् परितश्चिन्तामकरोत् ॥ २३ ॥ * * चिन्तामेव वर्णयति - कदेति । भ्रात्रोर्हिरण्यकशिपुर्हिरण्याक्षयोः हन्तारं विष्णुद्वारा हन्तारं, तत्र हेतुः इन्द्रियारामं केवलवैषयिकसुखासक्तम् उल्वणं क्रूरम् अक्लिन्नहृदयम् अनार्द्रचित्तम् अत एव पाप पापात्मानम् इन्द्रं धातयित्वा कथमहं सुखं यथा तथा स्वपेः सञ्जातनिद्रा भवेयम् ॥ २४ ॥ ७१ ५६२ श्रीमद्भागवतम् विजयध्वजतीर्थकृता पदरत्नावली [ स्कं. ६ अ. १८ श्लो. १७-२४ पलस्तस्यानुभावः पश्चादष्टमस्कन्धे, अनुभावमिति पाठेऽभिधास्यते वदिष्यति व्यास इति शेषः । अयं जन
ततो इति वा ॥ १७ ॥ * * यस्य बाणस्य पार्श्वे ॥ १८ ॥ * सात्मतां समानजातितां सोदरत्वम् ॥ १९ ॥ * * साधु पुण्यम् ।। २०-२१ ॥ तद्वचः तन्निभृतेन तस्मिन् स्निग्धेन सत्रायणः सत्रे प्रधानः सर्वदर्शनः सर्वज्ञः ॥ २२ ॥ पक्षपाततया कर्मकरः पाणिग्राहस्तेन शोकसन्दीप्तेन ॥ २३ ॥ * अक्लिन्नहृदयम् अनार्द्रहृदयं स्वपे निद्रां कुर्याम् ॥ २४ ॥ जीवगोस्वामिकृतः क्रमसन्दर्भः ان السير अपोहा त्याजयित्वा ॥ २० ॥ ननु कथं भवानिमां बहिरङ्गां कथां शुश्रूषते तत्राह - इमे श्रद्दधत इति । मया सहेति स्वस्य गौणत्वं बोधयंस्तथैव व्यञ्जितवान् ॥ २१ ॥ * * अत एव श्लाघते तदिति । आद्यतम् ऋषीणामादरेण सहितम् अर्थवत एतच्च भगवदाराधनविशेषसम्बन्धेनैव भवेदिति स्वाभीष्टयुक्तं सन्निभृतेन श्रीभगवत्सुखपूर्वेण अतस्तदपि भगवत्सम्बन्धं योजयिष्यतीति भावः । टीकायां बह्वर्थमिति ऋष्यभिप्रेतश्रीशुकाभिप्रेतसिद्धियुक्तम् ।। २२-२५ ।। * विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी ॥ ॥ तस्य बलेः अनुभावमित्यार्ष बाह्यकर्म सम्बन्धेन वा ।। १७-१८ ॥ सात्मतां समानस्वभावतां देवत्वं प्रापिता इत्यर्थः ।। १९-२० ॥ इमे मुनयः श्रदधते इति स्वस्यैव श्रद्धां मुनिष्वारोपयति रहस्यमर्थं तान् ज्ञापयितुम् ।। २१ ।। * अर्थवत् अनेकार्थयुक्तं तत्रैको जिज्ञासितोऽर्थोऽस्मादुपाख्यानाल्लभ्यते, यथा, परहिंसामभि- संन्धायापि तामसीं भगवद्भक्ति कुर्वन्नशुद्धचित्तोपि निश्चलामतामसी भक्तिमानुषङ्गिकी संसारान्मुक्ति चित्तशुद्धिप्राप्या परजिघांसानिवृत्तिञ्च लभत इत्यत्र दितिरेव प्रमाणम्, तथा, कुटिलचित्ताः विवेकिनोऽपि यान् दोषान् परेषां पश्यन्ति तानेव दोषान् स्वस्मिन् स्थितानपि न पश्यन्ति इत्यत्र कृमिविडित्यादिकवचनात् दितिरेव प्रमाणमिति द्वितीयः । स्त्रीमायया महाविज्ञोपि प्रतार्यो भवतीत्यत्र कश्यप एव प्रमाणमिति तृतीयः । अल्पं मिताक्षरं सन्निभृतेन सम्पूर्णेन एकाग्रीकृतेनेत्यर्थः । हे सत्रायण शौनक ! ॥ २२ ॥ * शक्रस्य पाणिग्राहेण पृष्ठतः सहायेन परोक्षसाहाय्यकर्त्रेत्यर्थः ।। २३ ।। उल्बणं क्रूरम् । सुखं शये सुखेन निद्रामीत्यर्थः ॥ २४ ॥ शुकदेवकृत: सिद्धान्त प्रदीपः ततो बलेः सकाशादशनायां भार्यायां बाणो ज्येष्ठो यस्मिन् तत् पुत्रशतमभवत्, तस्य बलेरनुभावः सुश्लोक्यः कविभिः शोभनैः श्लोकैर्वर्ण नाहः पश्चादष्टमे स्कन्धेऽभिधास्यते ॥ १७ ॥ * * तस्य गणेषु मुख्यतां प्राधान्यम् । भगवान् भवः पुरपालकः सन् अद्यापि यस्य पार्श्वे आस्ते ॥ १८ ॥ इन्द्रेण सात्मतां देवत्वं नीताः ।। १९ ।। हे गुरो ! औत्पत्तिकं सहजं तदीयमासुरं भावमपोह्य ते सात्म्यं देवत्वं कथं प्रापिताः ? वैस्तस्य किं साधु कृतम् ? ॥ २०-२१ ।। * * सत्रमयन- माश्रयो यस्य सम्बोधने हे सत्रायण ! शौनक स प्रसिद्धः सर्वदर्शनो बादरायणः शुकः विष्णुरातस्य तत्प्रश्नरूपम् आहतम् आदरान्वितम् अल्पं मितवर्णम् अर्थवत् बह्नर्थयुक्तम् वचो निशम्य निभृतेनानन्दपूर्णेन चेतसा सभाजयन् प्रशंसयन् जगाद ॥ २२ ॥ * * शक्रस्य पाणिप्राहेण सहायेन ॥ २३ ॥ * * उल्बणं क्रूरम् अक्लिन्नहृदयमनार्द्रचित्तं पापं पापात्मानम् घातयित्वा कथमहं सुखं यथा तथा शये ॥ २४ ॥ गोस्वामिगिरिधरलालविहिता बालप्रबोधिनी बाणो ज्येष्ठो यस्मिंस्तत् पुत्रशतम् अशनायां भार्यायां ततो बलेः सकाशादभवत् । तस्याप्यनुभावः प्रभावः मन्वन्तरकथा- यामेव उपयोगात् पश्चादष्टमस्कन्धे एवाभिधास्यते । तदभिधाने हेतुमाह - सुश्लोक्य इति ॥ १७ ॥ * * तद्गुणमुख्यतां तस्य गणे पार्षदादौ प्राधान्यं लेभे तस्मिंस्तत्कृपाधिक्यं किं वक्तव्यं पुरपालकः सन् भगवान् शिवोऽद्यापि यस्य पार्श्वे आस्ते । अस्यापि विस्तारो दशमस्कन्धे उषाहरणप्रसङ्गे वक्ष्यते इति सूचनाय हिशब्दप्रयोगः ॥ १८ ॥ इन्द्रेण सात्मतां समानस्वभावतां देवत्वं नीताः प्रापिताश्वासन्नित्यन्वयः ॥ १६ ॥ सर्वसंशयनिवारणे समर्थोऽसीति सूचयति । आसुरं भावं क्रौर्यवैरादिकमौत्पत्तिकं त्यक्त्वा स्थिताः ? तत् तस्येन्द्रस्य च तैः किं साधु कृतमुपकारः कृतः ? हि यस्मात् साधुकरणान्दिन्द्रेण ते सात्म्यं प्रापिताः ?
- ते अप्रजाः सन्ततिरहिताः हे गुरो इति सम्बोधनेन सर्वज्ञस्त्वं स्वभावसिद्धं कथं ते मरुतोऽपोह्य स्कं. ६ अ. १८ श्लो. १७-२४ ] अनेकव्याख्यासमलङ्कृतम् ५६३ न तद्वयं विना एवं सम्भवतीत्यन्वयः ॥ २० ॥ एतस्य पृष्टस्य परिज्ञानाय श्रदधते श्रद्धां कुर्वन्ति । हीति निश्चितमेतन्नात्र संशयः । तव च पराभिप्रायज्ञानमस्ति ब्रह्मिष्टत्वादित्या- शयेन सम्बोधयति — हे ब्रह्मन्निति । परसन्देह निवारणेन प्रबोधजननेऽपि त्वं समर्थोऽसीति सूचयन् पुनः सम्बोधयति हे भगवन्निति । तत् तस्मान्नोऽस्माकं एतव्याख्यातुमर्हसि ।। २१ ।। * * विष्णुरातस्य परीक्षितस्तद्वचो निशम्य श्रुत्वा बादरायणः श्रीशुकः निभृतेन आनन्दपूर्णेन चेतसा तं सभाजयन् सत्कुर्वन् हे सत्रायण जगाद उत्तरं दत्तवानित्यन्वयः । उत्तर- दाने न तस्य परप्रबोधे सामर्थ्यमाह -स सर्वदर्शन इत्यन्वयः । सः प्रसिद्धः, सर्वज्ञ इत्यर्थः । वक्तुराह्लादककत्वं सूचयंस्तद्वचनं विशिनष्टि - आहतं सादरम् । अल्पं मिताक्षरम् | अर्थवत् सर्वोपकारकम् । सत्रमयनमाश्रयो यस्येति तथा तत्सम्बोधनेन त्वमप्येतच्छ्रवणयोग्योऽसीति सूचयति । सत्कारस्तु प्रन्याद्बहिरेव कृत इति ज्ञेयम् ॥ २२ ॥ भगवदनुग्रहेणैव एतत्त्वत्पृष्टद्वयं जातमिति वक्तुं तत्प्रसङ्गमाह - हतेति । शक्रस्य पाणिग्राहेण पृष्ठतः सहायेन विष्णुना हतौ पुत्रौ हिरण्यकशिपु- हिरण्याक्षौ यस्याः सा दितिः शोकेन दीप्तेन प्रज्वलितेन मन्युना ज्वलन्ती पर्यचिन्तयदित्यन्वयः ॥ २३ ॥ तश्चिन्ता- मेव दर्शयति-कदा न्विति । भ्रातरौ हिरण्यकशिपुहिरण्याक्षौ तद्धन्तारमिन्द्रं घातयित्वा मारयित्वाऽहं कदा नु सुखं शये सुखेन निद्रां कुर्यामित्यचिन्तयदिति पूर्वेणैवान्वयः । भ्रातृहन्तृत्वे हेतुत्वेन विशेषणान्तराण्याह- इन्द्रियारामं विषयासक्तम् । उल्बणं क्रूरस्वभावम् । अक्लिन्नहृदयं कठिनचित्तम् । पापं पापाचारम् ॥ २४ ॥ न ह्यत्र केवलं ममैव संशयः किन्तु मया सह इमे समस्ता ऋषयोऽपि भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी
बाणेति । ततो बलेः, अशनायां पत्न्यां केचित्तु राम नायां पत्न्यामित्याहुः । बाणः ज्येष्ठो यस्य तत् पुत्रशतम् अभवत् । तस्य प्रह्लादस्य, बलेर्वा सुश्लोक्यः अतीव वर्णनीयः, अनुभावः प्रभावः, पश्चात् सप्तमेऽष्टमे वा अभिधास्यते कथयिष्य एव ।। १७ ।। * * बाण इति । बाणो बाणासुरः, गिरिशं शिवम् आराध्य, तद्गुणमुख्यतां शिवभृत्यवर्गेषु मुख्यभावं लेभे । यत्पार्श्वे यस्य बाणस्य पार्श्वप्रदेशे, भगवान् शिवः, पुरपालकः सन् अद्यापि आस्ते हि ॥ १८ ॥ * अथान्यानपि दितेः पुत्रानाह । मरुतश्चेति । नवाधिकाः चत्वारिंशत् एकोनपञ्चाशतसंख्याकाः इत्यर्थः । मरुतश्चापि, दितेः पुत्राः आसन् । ते च इन्द्रेण सात्मतां समानरूपतां नीताः सन्तोपि, सर्वे अप्रजा अपुत्रा, आसन् ॥ १६ ॥ * * एतदेव शुश्रूषू राजा पृच्छति द्वाभ्याम् । कथमिति । हे गुरो मुनेः ते मरुतः, औत्पत्तिकं जन्मसिद्धम् आसुरमसुरसंबन्धिनं भावम् अपो त्यक्त्वा, इन्द्रेण सात्म्यं देवत्वं कथं प्रापिताः तैर्देवत्वं प्राप्तैर्मरुद्भिः, तत्तस्येन्द्रस्य, साधु हितं किं कृतम् ॥ २० ॥ * * न केवलमिदमहमेव शुश्रूषुरपि तु सर्वेऽप्येत एवंविधाः सन्तीत्याह । इम इति । हे ब्रह्मन् मया सह इमे ऋषयः अपि, परिज्ञानाय वेदितुं श्रद्दधते श्रद्धां कुर्वन्ति । तत्ततो हेतोः, हे भगवन्, नोऽत्मभ्यं व्याख्यातुं कथयितुम् अर्हसि हि ॥ २१ ॥ * * एवं राज्ञा समापृष्टो मुनिः प्रश्नमभिनन्दन् यथावदाचख्यावित्याह सूतः तदिति । स ब्रह्मसत्रमयनमाश्रयो यस्य तत्संबोधने हे सत्रायण शौनक, बादरायणस्य अपत्यं पुमान् बादरायणिः सर्वदर्शनः सर्वज्ञः, स शुकः, विष्णुरातस्य परीक्षितः, अल्पं मिताक्षर, अर्थवव- हर्थयुक्तं तत् वचः, आदृतं सादरं यथा तथा निशम्य, निभृतेन निश्चलेन चेतसाऽन्तः करणेन, तं राजानं सभाजयन् संमानयन् सन्, जगाद ।। २२ ।। * * तदेवाह । हतपुत्रेति । शक्रमिन्द्रं पाष्णिः पक्षस्तद्भावेन गृह्णातीति तेन, शक्रं स्वीयत्वेन गृहीतवतेत्यर्थः । विष्णुना हतौ पुत्रौ यस्याः सा निहतहिरण्यकशिपुहिरण्याक्षाख्यपुत्रद्वया इत्यर्थः । दितिः शोकेन दीप्तः प्रज्व- लितस्तेन मन्युना क्रोधेन, ज्वलन्ती परितपन्ती सती, पर्यचिन्तयत्परितश्चिन्तामकरोत् ।। २३ ।। * तां तश्चिन्तामेव वर्णयति । कदेति । भ्रात्रोहन्तारं विष्णुद्वारा हिरण्यकशिपुहिरण्याक्षयोर्घातकमित्यर्थः । इन्द्रियारामं केवलवैषयिक सुखासक्त- मित्यर्थः । उल्बणं क्रूरम् अक्किनहृदयमनार्द्रचित्तम् अत एव पापं पापात्मानमिन्द्रं घातयित्वा कदा नु सुखं यथा तथा, जातनिद्रा भवेयमित्यर्थः ॥ २४ ॥ । । भाषानुवादः स्वपे बलिकी पत्नीका नाम अशना था । उससे बाण आदि सौ पुत्र हुए। दैत्यराज बलिकी महिमा गान करने योग्य है । उसे मैं ( आठवें स्कन्धमें ) सुनाऊँगा ॥ १७ ॥ * बलिका पुत्र बाणासुर भगवान् शंकरकी आराधना करके उनके गणों का मुखिया बन गया । आज भी भगवान् शंकर उसके नगरकी रक्षा करनेके लिये उसके पास ही रहते हैं ॥ १८ ॥ दिति के हिरण्यकशिपु और हिरण्याक्ष के अतिरिक्त उन्चास पुत्र और थे । उन्हें मरुद्रण कहते हैं । वे सब निःसन्तान रहे । देवराज इन्द्र ने उन्हें अपने ही समान देवता बना लिया ।। १९ ।। * * राजा परीक्षितने पूछा -भगवन ! मरुद्रणने ऐसा कौन-सा सत्कर्म किया था, जिसके कारण वे अपने जन्मजात असुरोचित भावको छोड़ सके और देवराज इन्द्रके द्वारा देवता बना लिये गये ॥ २० ॥ * * ब्रह्मन् ! मेरे साथ यहाँकी सभी ऋषिमण्डली यह बात जाननेके लिये अत्यन्त उत्सुक T ५६४ श्रीमद्भागवतम् [ रुकं. ६ अ. १८ श्लो. २५-३२ हो रही है। अतः आप कृपा करके विस्तारसे वह रहस्य बतलाइये ॥ २१ ॥ * सूतजी कहते हैं— शौनकजी ! राजा परीक्षितका प्रश्न थोड़े शब्दोंमें बड़ा सारगर्भित था । उन्होंने बड़े आदरसे पूछा भी था । इसलिये सर्वज्ञ श्रीशुकदेवजी महाराजने बड़े ही प्रसन्न चित्तसे उनका अभिनन्दन करके यों कहा ।। २२ ।। श्रीशुकदेवजी कहने लगे- परीक्षित् ! भगवान् विष्णुने इन्द्रका पक्ष लेकर दितिके दोनों पुत्र हिरण्यकशिपु और हिरण्याक्षको मार डाला । अतः दिति शोककी आग से उद्दीप्त क्रोधसे जलकर इस प्रकार सोचने लगी ॥ २३ ॥ सचमुच इन्द्र बड़ा विषयी, क्रूर और निर्दयी है । राम
- । ! राम / उसने अपने भाइयोंको ही मरवा डाला । वह दिन कब होगा, जब मैं भी उस पापीको मरवाकर आराम से सोऊँगी ॥ २४ ॥ ४ ॥ २६ ॥ २७ ॥ २८ ॥ कृमिविड्भस्मसंज्ञाऽऽसीद्यस्येशाभिहितस्य च । भूतध्रुक् तत्कृते स्वार्थं किं वेद निरयो यतः || २५ || आशासानस्य तस्येदं ध्रुवमुन्नद्धचेतसः । मदशोषक इन्द्रस्य भूयाद् येन सुतो हि मे ॥ इति भावेन सा भर्तुराचचारासकृत्प्रियम् । शुश्रूषयानुरागेण प्रश्रयेण दमेन च भक्त्या परमया राजन् मनोज्ञैर्वल्गुभाषितैः । मनो जग्राह भावज्ञा सुस्मितापाङ्गवीक्षणैः ॥ एवं स्त्रिया जडीभूतो विद्वानपि विदग्धया | बाढमित्याह विवशो न तच्चित्रं हि योषिति विलोक्यैकान्तभूतानि भूतान्यादौ प्रजापतिः । स्त्रियं चक्रे स्वदेहार्धं यया पुंसां मतिर्हता ॥ एवं शुश्रूषितस्तात भगवान् कश्यपः स्त्रिया । प्रहस्य परमप्रीतो दितिमाहाभिनन्द्य च ॥ कश्यप उवाच ॥ २९ ॥ ३० ॥ ३१ ॥ वरं वरय वामोरु प्रीतस्तेऽहमनिन्दिते । स्त्रिया भर्तरि सुप्रीते कः काम इह चागमः ॥ ३२ ॥ कृष्णप्रिया व्याख्या. अन्वयः — च ईशाभिहितस्य यस्य कृमिविड्भस्मसंज्ञा आसीत् तत्कृते भूतध्रुक् स्वार्थं वेद किम् यतः निरयः ||२५|| इदं ध्रुवम् आशासानस्य उन्नद्धचेतसः तस्य इंद्रस्य मदशोषकः मे सुतः हि येन भूयात् ॥ २६ ॥ * * इति भावेन सा शुश्रूषया अनुरागेण प्रश्रयेण च दमेन असकृत् भर्तुः प्रियम् आचचार ।। २७ ।। मनोज्ञैः वल्गुभाषितैः सुस्मितापाङ्गवीक्षणैः मनः जग्राह ॥ २८ ॥ कश्यपः विवशः बाढम् इति आह हि योषिति तत् चित्रं न ॥ २९ ॥ विलोक्य स्वदेहार्धं स्त्रियं चक्रे यया पुंसां मतिः हृता ॥ ३० ॥ * * प्रहस्य च अभिनय दितिम् आह ॥ ३१ ॥ अनिंदिते वामोरु च कः कामः अगमः ।। ३२ ।। Zipsi ॥
-
- राजन् भावज्ञा परमया भक्त्या विद्वान् अपि विदग्धया स्त्रिया एवं जडीभूतः * प्रजापतिः आदौ भूतानि एकान्तभूतानि तात स्त्रिया एवं शुश्रूषितः भगवान् कश्यपः परमप्रीतः अहं ते प्रीतः वरं वरय स्त्रिया सुप्रीते भर्तरि इह श्रीधरस्वामिविरचिता भावार्थदीपिका ननु राजा स्वदेह रक्षार्थ मन्येषां घातं करोत्येव किमत्र चित्रं तत्राह कृमीति । ईशः प्रभुरित्यभिहितस्यापि यस्य पूर्वेषां राज्ञां देहस्य मरणानंतरं द्वित्रिदिनावस्थितस्य कृमय इति श्वादिभिर्भक्षितस्य तु विष्ठेति दग्धस्य तु भस्मेति संज्ञा आसीत्तत्कृते तस्य देहस्यार्थे यो भूतेभ्यो द्रुह्यति स किं स्वार्थं वेद न वेदैव । तत्र हेतुः । यतो भूतद्रोहान्निरयो भवति ।। २५ ।। इदं देहादिकं ध्रुवं नित्यमाशासानस्य मन्यमानस्यात उन्नद्धमुच्छृङ्खलं चेतो तस्येन्द्रस्य यो मदस्तस्य शोषकः पुत्रो मे येन हेतुना भूयाद्भवेत् ||२६|| तत्र भर्तुः प्रियाचरणमेव हेतुरिति भावेन सा भर्तुः प्रियमसकृदाचचार ।। २७-२८ ।। * * विवशः स्त्रीपरतंत्रः सन्बाढ तव मनोरथं पूरयिष्यामीति यदाह तन्न चित्रम् || २६ ॥ * * तत्र हेतुमाह । विलोक्येति । एकांतभूतानि निःसंगानि मैथुनेन सृष्टिवृद्धद्यर्थं स्वदेहार्धमेव स्त्रियं चक्रे ।। ३० ।। * * एवं स्त्रिया शुश्रूषितः सन् ॥ ३१ ॥ परत्र च अगमोsप्राप्यः ॥ ३२ ॥ १. प्रा० पा — विमोहित ।
- इह चकारा- ‘स्कं. ६ अ. १८ श्लो. २५-३२ ] अनेकव्याख्या समलङ्कृतम् वंशीधरकृतो भावार्थदीपिकाप्रकाशः ५६५ अत्राक्षिपति—नन्विति । पुत्रादिभिर्दग्धस्य पूर्वपूर्व नृपाणामपि तथा दृष्टत्वादिति भूतनिर्देशः । तत्र स्वार्थाज्ञाने । तस्मादिद्र एव विवेकशून्य इति व्यंजयति । अथ च स्वयमेव विवेकशून्या यत इंद्र जिघांसुः स्वयमपींद्रमेव भूतगुहं स्वयमकिन्न- -हृदयापींद्र मेवाक्लिन्नहृदयं स्वयं स्वार्थानभिज्ञापींद्रमेव स्वार्थानभिज्ञं मन्यते इत्यतो विवेकोप्यविवेकिनामविवेकमेव द्रढयतीति दर्शितम् ॥ २५ ॥ * येनैव तेन दुश्चेष्टितेन हेतुनैव तस्य मदशोषकः सुतो मे भूयादिति प्रार्थनेति चक्रवर्ती ॥ २६ ॥ रितुष्यति स्त्रीणां मनोरथः सिध्यति तस्मादहं पतिमेव परितोषयामीति भावेनाभिप्रायेणेति विश्वनाथ: । भर्तुः प्रियाचर- णमेव स च हेतुरिति स्वाम्यभिप्रायः ।। २७ ।। * * राजन्निति । यथा राजानो नीत्या स्वकार्य तथा सापीति भावः ||२८|| विदग्धया पुरुषमोहनकुशलया । अपिना किमविद्वानिति ध्वनितम् ।। २९ ।। * मतिर्हृतेत्यनेन स्त्रीपदार्थोऽप्युक्तः स्तृणाति पुरुषविवेकमाच्छादयतीति स्त्रीति निरुक्तेः । स्तृणातेरपि डूट्प्रत्ययो बाहुलकाद्भवतीति ज्ञेयम् ॥ ३० ॥ * * तातेति । श्रवणोत्कंठावृद्धये संबुद्धिः ॥ ३१ ॥ * * वामोरु इति । त्वदूरुदर्शनस्पर्शनादिनैवाहं मोहितो वरदो जात इति भावः । अनिन्दित इति । निंदाजनको वरो न वरणीय इति भावः । कोऽगमो न कोपीति ।। ३२ ।। | ।। अन्वितार्थप्रकाशिका कृमीति । ईशः प्रभुरित्यभिहितस्यापि यस्य पूर्वेषां राज्ञां देहस्य मरणानन्तरं बहुदिनावस्थितस्य कुमय इति श्वादि- क्षितस्य तु fasia धस्य तु भस्मेति संज्ञाऽऽसीत् तत्कृते तस्य देहस्यार्थे यो भूतधुक भूतेभ्यो दुह्यति स किं स्वार्थं वेद न वेदैव । यतो भूतद्रोहात्स्वस्यैव निरयः नरकपातो भवति ।। २५ ।। * आशासानस्येति । इदं देहादिकं ध्रुवं नित्यमाशानस्य मम्यमानस्य अत एवोन्नद्धमुच्छृङ्खलं चेतो यस्य तस्येन्द्रस्य यो मदस्त्रिलोकेशाभिमानस्तस्य शोषकः सुतो येन हेतुना मे मम भूयात् भवेत् स हेतुः क इत्यचिन्तयत् ॥ २६ ॥ इतीति अर्द्धम् । इति भावेन इन्द्रमारकपुत्रलाभाभिप्रायेण सा दितिरस्कृत् निरन्तरं भर्तुः कश्यपस्य प्रियं चचार ॥ २७ ॥ शुश्रूषयेति सार्द्धम् । हे राजन् ! भावज्ञा अभिप्रायज्ञा सा शुश्रूषया सेवया अनुरागेण प्रेम्णा प्रश्रयेण नम्रीभावेन दमने स्वेन्द्रियनिग्रहेण च परमया भक्त्या आराध्यत्वबुद्धचा मनोज्ञैर्मनोहरैः वल्गुभाषितैः मधुरवचनैश्च सुस्मितेन सहितैरपाङ्गवीक्षणैः कटाक्षनिरीक्षणैश्च भर्तुर्मनो जग्राह वशीचकार ।। २८ ।। * * एवमिति । विद्वानपि कश्यपः विदग्धया कपटाचारनिपुणया स्त्रिया एवं शुश्रूषादिभिः जडीभूतो मोहितोऽत एंव विवश: स्त्रीपरतन्त्रश्च सन् बाढं तव मनोरथं पूरयिष्यामीति यदाह तत् योषिति चित्रमाश्चर्यं न भवति ।। २९ ।। * * विलोक्येति । आदौ सृष्टिप्रारम्भसमये भूतानि प्राणिनः एकान्तभूतानि निःसङ्गानि विलोक्य तेषां मोहार्थं प्रजापतिः मैथुनेन सृष्टिवृद्धयर्थं स्वदेहार्द्धं स्त्रियं । rai चक्रे । यया स्त्रिया पुंसां मतिर्हता स्नेहपाशेन सृष्टयुन्मुखी कृता ।। ३० ।। * एवमिति । हे तात ! भगवान् कश्यपः स्त्रिया एवं शुश्रूषितः सन् परमप्रीतो जातोऽतः प्रहस्य दितिमभिनन्द्य संश्लाघ्य चाह स्म ।। ३१ ।। * * बरमिति । हे वामोरु ! हे अनिन्दिते ! अहं ते तव प्रीतः अतस्त्वं वरं वरय । भर्त्तरि सुप्रीते सति स्त्रियाः कः काम इह चकारात्परत्र च अगमः दुर्लभः ॥ ३२ ॥ .. वीरराघवव्याख्या ननु, सर्वोsपि लोकः स्वसुखाय परस्याहितमाचरति, किमनेनाक्रोशेन ? तत्राह कृमीति । ईशाभिहितस्य “ईश्वरोह- महं भोगी” इत्युक्तरीत्या स्वेनैवेशत्वेनाभिहितस्य ईशं मन्यमानस्यापि यस्य पुंसः मरणानन्तरं देहस्य दाहाभावे कृमि - रिति, तत्समये श्वादिभिर्भक्षितस्य विष्ठेति, दग्धस्य तु भस्मेति, संज्ञा आसीत् तत्कृते तादृशदेहसुखार्थं भूतध्रुक् भूतहिंसा- कारी स किं स्वार्थं पुरुषार्थं वेद न वेदैवेत्यर्थः । कुतः ? यतो भूतद्रोहाद्धेतोस्तस्यां ततो निरयो नरक एव अतो भूतधुकू स्वार्थमपि न जानात्येवेति भावः ॥ २५ ॥ इदं शरीरमेबाशासानस्य आत्मानं मन्यमानस्य उन्नद्धमुच्छृङ्खल चेतो यस्य तस्येन्द्रस्य यो मदस्तस्य शोषकृत्पुत्रो मम येन कारणेन ध्रुवं नूनं भूयात् ।। २६ ।। हे राजन, इत्थं भावेनाभिप्रायेण सा दितिर्भतुः कश्यपस्य शुश्रूषादिभिरसकृत्प्रियं हितम् आचचार आचरितवतीत्यर्थः । तत्र शुश्रूषा सेवा परिचर्येति यावत्, अनुरागः स्नेहः प्रश्रयो विनयः दमः इन्द्रियनिग्रहः ।। २७ ।। भावज्ञा दितिर्वल्गुभाषितैः मधुरालापैः सस्मितैः मन्दहाससहितैः अपाङ्गवीक्षणैः कश्यपस्य मनो जग्राह स्ववशीकृतवती बभूव ॥ २८ ॥ * * कथं जितेन्द्रियस्य तस्य विदुषः स्त्रीवश्यता ? तत्राह - एवमिति । विद्वानपि विदग्धया पुरुषवचननैपुण्ययुक्तया खिया दिल्या जडीभूतः मोहं प्रापितः । अत एव विवशः परवशः बाढमित्याह सम्भोगार्थमङ्गीकृतवानित्यर्थः । योषिति स्वयङ्कामयमानायां .. ५६६ श्रीमद्भागवतम् [ स्कं. ६ अ. १८ श्लो. २५-३२ प्रजापतिः कश्यपः आदौ प्रथमं भूतानि स्त्रीपुंसरूपाणि भूतानि एकान्तभूतानि एकान्तरूपाणि । एकान्तान्येकदेश इवाविभागेन लक्ष्यमाणानि एकान्तभूतानि विलोक्य परस्परमेकशरीरवन्मिलितानि भवन्तीत्यालोच्येत्यर्थः । स्वयमपि स्त्रियं स्वदेहस्यार्द्धम् अर्द्धशचक्रे मिथुनीभूतो बभूवेत्यर्थः । एवं करणे हेतुं वदन् सामान्यतः स्त्रियं विशिनष्टि-यया स्त्रिया पुंसां मतिर्हता भवतीति लोकरीत्युक्तिः ।। ३० ।। भगवान् कश्यपः स्त्रिया दित्या एवं सम्भोगेन शुश्रूषितः परिचरितः अत एव नितरां प्रीतः अभिनन्द्य तस्याः सम्भोगकौशलम- भिनन्द्य प्रहस्य दितिं प्रति इदं वक्ष्यमाणमाह ।। ३१ ।। * तदेवाह वरमिति । तदेवाह वरमिति । हे वामोरु ! हे अनिन्दिते ! वरमभीष्टं वरय कामयस्व भर्तरि स्त्रियाः नितरां प्रीते सति इह लोके चकारात्परत्र च लोके अगमोऽप्राप्यः कामः को वा स्तीत्यर्थः । स्त्रिया प्राप्य इति वान्वयः ॥ ३२ ॥ स्त्रियां पुरुषस्य तद्बाढमिति वचो न चित्रं हीति लोकचरित्रप्रदर्शनम् ।। २९ ।। विजयध्वजतीर्थकृता पदरत्नावली, न को sta- वाशब्दोऽपि शब्दार्थः । ईशाभिहितस्य ईशोऽहं राजाहमित्यादिशब्दवाच्यस्यापि यस्य देहस्यान्ते मरणोत्तरकाले कृमि- विड्भस्मसंज्ञा भवेश्विरकालावस्थाने कृमिरिति संज्ञा, श्वादिभिर्भक्षिते विट्संज्ञा, वह्निदाहे भस्मसंज्ञा, तत्कृते तस्य देहस्यार्थे भूतध्रुक् सर्वप्राणिहिंसकः स्वार्थं स्वप्रयोजनं किं वेद ? न किमपि वेदेत्यन्वयः । यः स्वार्थं कुरुते स वेद किं ? ज्ञानवान् किं न भवतीत्यर्थ इति वा । कुत इति तत्राह - निरय इति । निर्गतम् अयमिष्टप्रदं देवं यस्मात् स तथा तादृशो भवतीति यतस्तस्माद्यतः स्वरूपाज्ञानाद्वा भूतद्रोहाद्वा ॥ २५ ॥ इदं जगत् ध्रुवमित्याशासानस्य वाच्छतः उद्धतबुद्धेरिन्द्रस्य मदशोषणं येन सुतेन स्यात् स सुतो मे स्यात् ॥ २६ ॥ * इतिभावेनाभिप्रायेण ।। २७-२९ ।। जगदादौ प्रजापतिर्ब्रह्मा भूतान्येकान्तभूतानि परस्परस्नेहरहितानि केवलं मृत्युभूतानि विलोक्य मिथः स्नेहबन्धार्थं स्वशरीरार्धा स्त्रियं चक्रे ससर्जेत्यन्वयः ।। ३०-३१ ॥ * भर्तरि स्त्रीणामर्थे सुप्रीते सति किं कामः पुरुषार्थोऽगमः प्राप्तुमशक्य इत्यन्वयः ॥ ३२ ॥
जीवगोस्वामिकृतः क्रमसन्दर्भः आशासानस्येति येन भवेत् तत्तु भर्तृप्रियाचरणमेवेति भावेनेत्यर्थः ।। २६-४४ ।। विश्वनाथचकवतिकृता सारार्थदर्शिनी …"
ईशाभिहितस्य ईशो राजेत्यभिहितस्यापि देहस्य मरणानन्तरं द्वित्रिदिनावस्थितत्वे कृमय इति, श्वादिभिर्भक्षितत्वे विष्ठेति, पुत्रादिभिर्दग्धत्वे भस्मेति, संज्ञा आसीत् । पूर्वपूर्वनृपाणामपि तथा दृष्टत्वादिति भूतनिर्देशः तस्य देहस्य कृते यो भूतेभ्यो दुह्यति स किं स्वार्थं वेद ? नैव वेद । यतः स्वस्यैव निरयो भवति तस्मादिन्द्र एव विवेकशून्य इति व्यञ्जयति । अथ च स्वयमेव विवेकशून्या । यत इन्द्रजिघांसुः स्वयमपीन्द्रमेव भूतद्रुहं स्वयमक्लिन्नहृदयापीन्द्रमेवाक्लिन्नहृदयं स्वयं स्वार्थानभिज्ञापि इन्द्रमेव स्वार्थानभिज्ञं मन्यत इत्यतो विवेकोप्यविवेकिना मविवेकमेव द्रढयतीति दर्शितम् ।। २५ ।। येनैव तेन दुश्चेष्टितेन हेतुनैव तस्य मदशोषकः सुतो मे भूयादिति प्रार्थनेत्यर्थः । तस्य कथम्भूतस्य इदं देहादिकं ध्रुवं नित्यम् आशासानस्य मन्यमानस्य उच्छृङ्खलचेतसः भर्त्तरि तुष्यति स्त्रीणां मनोरथः सिद्धयति । तस्मादहं परिचर्यया पतिं तोषयामीति भावेन ।। २६-२८ ।। * बाढं तव मनोरथं पूरयिष्यामीति यदाह तन्न चित्रम् ॥ २६ ॥ ** एकान्तभूतानि निस्सङ्गानि मतिर्हता अत एव संसारप्रवाहोऽविच्छिन्नोऽभूदिति भावः ॥ ३० ॥ अगमः अप्राप्य: ।। ३१-३२ ॥ शुकदेवकृतः सिद्धांत प्रदीपः ननु, स्वदेहरक्षार्थं राजान्यघातं करोत्येवेत्यत आह- कृमीति । पूर्वेषां राज्ञामीशाभिहितस्य ईशः समर्थः इत्येवं प्रोक्तस्यापि देहस्य मरणानन्तरं द्वित्रिदिनावस्थितस्य कृमय इति, श्वादिभिर्भक्षितस्य विडिति, दग्धस्य भस्मेति च संज्ञा आसीत् । तत्कृते तदर्थे यो भूतेभ्यो दुह्यति स किं स्वार्थं वेद ? नैव वेदेत्यर्थः । अपि तु यतो भूतद्रोहान्निरयो भवति ॥ २५ ॥ इदं देहादिकं ध्रुवं नित्यमाशासानस्य मन्यमानस्य उन्नद्धमुच्छृङ्खलं चेतो यस्य तस्येन्द्रस्य मदशोषको गर्वहनो येनोपायेन मे मम सुतो भूयात्तद्भर्तृभजनं करिष्यामीति शेषः ॥ २६ ॥ इति भावेन इत्यभिप्रायेण सा भर्तुः शुश्रूषादिना
- विदग्धया भर्तुर्मनोग्रहणे निपुणया एवं भावज्ञा अभिप्रायज्ञा ।। २८ ।। प्रियमाचचार ।। २७ ॥ * * भावज्ञा ।। भजनेन विद्वानपि जडीकृतो मोहितः अत एव विवश: स्त्रीपरतन्त्रः बाढमित्याह, त्वत्कामं सम्पादये इति स्वीकृतवानित्यर्थः । तत्स्वाचरितैः पुरुषविमोहनं योषिति चित्रमद्भुतं न भवति ॥ २६ ॥ * * एवंविधा स्त्री प्रजापतिनैव सृष्टेत्याह- 7 ……. स्कं. ६ अ. १८ श्लो. २५-३२ ] अनेकव्याख्यासमलङ्कृतम् ५६७ विलोक्येति । प्रजापतिर्ब्रह्मा आदौ एकान्तभूतानि निःसङ्गानि विलोक्य रुदेहार्द्ध खियं चक्रे यया पुंसां मतिर्हता दारापत्यगृहा- द्यभिनिविष्टा कृता ॥ ३० ॥ * * बाढमित्याह विवश इति यदुक्तं तत्प्रपञ्चयति - एवमित्यादिना । भगवान् बहुज्ञोऽपि स्त्रिया एवं कपटेन शुश्रूषितः सन् प्रहस्य परमप्रीतः दितिमभिनन्द्याह ॥ ३१ ॥ * * हे वामोरु ! मनोहरोरु, हे अनिन्दिते ! वरं वरय भर्तरि प्रीते इह चात्परत्र च कः कामः मनोरथः अगमोऽप्राप्यः ।। ३२ ।। i गोस्वामिगिरिधरलाल विहिता बालप्रबोधिनी । ननु राजा स्वदेहरक्षार्थम् अन्येषां घातं करोत्येव किमत्र चित्रमित्याशङ्कय विवेकमाह- कृमीति । ईशः प्रभुरित्य - भिहितस्यापि यस्य पूर्वेषां राज्ञां देहस्य मरणानन्तरं बहुदिनावस्थितस्य कृमय इति श्वादिभिर्भक्षितस्य तु विडिति दग्धस्य तु भस्मेति सञ्ज्ञा आसीत्, तत्कृते तस्य देहस्यार्थे यो भूतध्रुक् भूतेभ्यो दुह्यति स किं स्वार्थं वेद न वेदैव । यतो भूतद्रोहात् स्वस्यैव निरयः नरकपातो भवति । अत्र दैत्यानां विवेकज्ञानादिकं सर्वं वाग्व्यवहारमात्रं न कार्यपर्यवसायि यतो यान् दोषान इन्द्रे वदति तानेवात्मनि सतोऽपि न पश्यति, स्वयमपीन्द्रवधोपायं चिन्तयतीति स्पष्टं दर्शितम् ॥ २५ ॥ * * एवं विवेकमुक्त्वाऽपि स्वयमिन्द्रवधोपाये प्रवृत्तेत्याह - आशासानस्येति त्रिभिः । इदं देहादिकं सर्व ध्रुवं नित्यमाशासानस्य मन्यमानस्य अत एवोन्नद्धमुच्छृङ्खलं चेतो यस्य तस्येन्द्रस्य यो मदस्त्रिलोकेशाभिमानस्तस्य शोषकः सुतो येन हेतुना मे मम भूयात् भवेत् स हेतुः क इति चिन्तयन्ती स तु परमतपस्विनो भर्तुः प्रसाद एवेति निश्चित्येति शेषः ॥ २६ ॥ इतिभावेन इन्द्रमारकपुत्रलाभाभिप्रायेण सा दितिरसकृत् निरन्तरं भर्तुः कश्यपस्य प्रियं चचारेत्यन्वयः । शुश्रूषादिभिस्तस्य मनो जग्राह वशीचकारेत्युत्तरेणान्वयः । शुश्रूषया सेवया, अनुरागेण प्रेम्णा, प्रश्रयेण नत्रीभावेन, दमेन स्वेन्द्रियनिग्रहेण च ॥ २७ ॥ * अनुरागेणेत्युक्त्वाऽपि पुनः परमया भक्त्येत्युक्तिः प्रेमातिशयद्योतनार्था । मनोज्ञैर्मनोहरैः । वल्गुभाषितैः मधुरवचनैः । सुस्मितेन सहितैरपाङ्गवीक्षणैः कटाक्षनिरीक्षणैः । भावज्ञा अभिप्रायज्ञा । सेवककृतशुश्रूषादीनां स्वामिमनोवशीकारहेतुत्वं राजत्वात्तव विदितमेवेति सूचयन् सम्बोधयति - हे राजन्निति ॥ २८ ॥ * * ननु विद्वानपि कश्यपः कथं स्त्रीवशवर्त्ती जात इत्याशङ्क चाह - एवमिति । विदग्धया कपटाचारनिपुणया स्त्रिया एवं शुश्रूषादिभिर्विद्वानपि कश्यपः जडीभूतो मोहितोऽत एव विवशः स्त्रीपरतन्त्रश्च सन् बाढं तब मनोरथं पूरयिष्यामीति यदाह तत् योषिति चित्रमाश्वर्यं न भवतीत्यन्वयः ॥ २९ ॥ तत्र हेतुमाह - विलोक्येति । आदौ सृष्टिप्रारम्भसमये भूतानि प्राणिनः एकान्तभूतानि निस्सङ्गानि विलोक्य तेषां मोहार्थ प्रजापतिः स्वदेहार्थं स्त्रियं चक्रे, यया स्त्रिया पुंसां मतिर्हता स्नेहपाशेन सृष्टयुन्मुखी कृता ॥ ३० ॥ * * एवं प्रासङ्गिकी शङ्कां द्वाभ्यां श्लोकाभ्यां निरस्य प्रकृतमाह - एवमिति । भगवान् ज्ञानवानपि कश्यपः स्त्रिया एवं शुश्रूषितः सन् । परमप्रीतो जातोऽतः प्रहस्य दितिमभिनन्द्य संश्लाघ्य चाहेत्यन्वयः । हे तातेति सम्बोधनं स्नेहसूचकम् ॥ ३१ ॥ कश्यप- वाक्यान्याह - वरमिति पञ्चभिः । देहदोषराहित्यं सूचयन् सम्बोधयति - हे वामोरु | आचारतोऽपि निर्दुष्टत्वं सूचयन् सम्बोधना- न्तरमाह - हे अनिन्दित इति । अहं ते तव प्रीतः अतस्त्वं वरं वरय, भर्त्तरि सुप्रीते सति स्त्रियाः कः काम इह चकारात् परत्र च - अगमः दुर्लभः ? ॥ ३२ ॥ भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी ननु सर्वोऽपि लोकः स्वसुखाय परस्याहितमाचरति किमनेनाक्रोशेन तत्राह । कृमीति । ईशाभिहितस्य ईश्वरोऽहमहं भोगीत्याद्युक्तरीत्या स्वेनेशत्वेन मन्यमानस्तस्यापि यस्य देहस्य, कृमिविडूभस्मसंज्ञा, देहस्य मरणानन्तरं दाहाभावे द्वित्रिदिना- वस्थितस्य कृमय इति, तत्समये श्वादिभिर्भक्षितस्य विष्ठेति, दग्धस्य तस्य भस्मेति संज्ञेत्यर्थः । आसीत् । तत्कृते तादृशदेह- सुखार्थं यः भूतध्रुक् भूतहिंसाकारी, सः किं स्वार्थं वेद । पुरुषार्थं न वेदैवेत्यर्थः । कुतः । यतो भूतद्रोहाद्धेतोः, अन्ततः निरयः नरकः भूतध्रुक् कः एव । अतो भूतक स्वार्थ न वेदैवेत्यर्थः ।। २५ ।। * * आशासानस्येति । इदं शरीरम् एव, आशासानस्यात्मानं मन्यमानस्य, उन्नद्धमुच्छ्रङ्खलं चेतो यस्य, तस्य इन्द्रस्य, मदशोषकः मदशोषणकर्त्ता, सुतः पुत्रः, येन कारणेन, ध्रुवं मे मम भूयात् भवेत् हि ॥ २६ ॥ इतीति । हे राजन्, इतिभावेन इत्थंभूतेनाभिप्रायेण सा दितिः, भर्तुः कश्यपस्य, प्रियं हितं शुश्रूषया छन्दानुवृत्तिपूर्वया सेवया, अनुरागेण गाढानुरागप्रदर्शनेन, प्रश्रयेण भूरिविनयप्रकाशनेन, दमेन इन्द्रियादीनामति - दमनविधानेन च, असकृत् आचचार आचरितवती ॥ २७ ॥ * भक्त्येति । हे राजन्, भावज्ञा भर्त्रभिप्रायशीघ्र- बोधवती, दितिः, परमयोत्तमया, भक्त्या सेवया, मनोज्ञैरतिप्रीतिहेतुभिः, वल्गुभाषितैर्मधुरालापैः, सुस्मितापाङ्गवीक्षणैः मन्दहाससहितैरपाङ्गावलोकनैः, मनः जग्राह । कश्यपस्य मनः स्ववशं कृतवती बभूव ॥ २८ ॥ कथं जितेन्द्रियस्य श्रीमद्भागवतम् ५६८ [ स्कं. ६ अ. १८ श्लो. ३३-४० तस्य विदुषः स्त्रीवश्यता तत्राह । एवमिति । विद्वानपि, विदग्धया पुरुषवञ्चननैपुण्ययुक्तया, स्त्रिया दित्या, एवं जडीभूतः मोही प्रापितः, अत एव विवशः परवशः सन् बाढम् इति, आह । यद्यत् कामितवती तत्तदङ्गीकृतवानित्यर्थः । योषिति स्वयं कामय- मानायां स्त्रियां, पुरुषस्य तद्बाढमिति वचः, न चित्रं हीति लोकचरित्रप्रदर्शनम् ।। २९ ।। * * तत्र हेतुमाह । विलोक्येति । प्रजापतिर्ब्रह्मा, आदौ प्रथमं भूतानि प्राणिनः एकान्तभूतानि परस्परस्नेहरहितानि विलोक्य मैथुनेन सृष्टि- वृद्धयर्थं मिथः स्नेहवृद्धयर्थं चेति शेषः । स्वदेहार्द्ध स्वस्य देहार्द्धमिव जनानां माननाहीं, स्त्रियं चक्रे । एवं करणे हेतुं वदन् सामान्यतः स्त्रियं विशिनष्टि । यया स्त्रिया, पुंसां मतिः हृता भवति ॥ ३० ॥ एवमिति । भगवान् कश्यपः,
- । स्त्रिया दित्या, एवमुक्तप्रकारेण, शुश्रूषितः सन्, हे तात, प्रहस्य अभिनन्द्य तस्याः क्रियाकौशलप्रशंसां कृत्वा च दितिम् आह ।। ३१ ।। तदेवाह । वरमिति । हे वामोर, हे अनिन्दिते, वरं त्वदभीष्टं वरय कामय । ते तव, अहं प्रीतः अस्मि । भर्त्तरि स्वस्वामिनि, । सुप्रीते प्रसन्नतां प्राप्ते सति, स्त्रियाः इह लोके, चकारात्परलोके च कः कामः अगमः अप्राप्यः । पत्यौ प्रीते स्त्रीणामिहामुत्र न कोऽपि कामोऽप्राप्य इत्यर्थः ॥ ३२ ॥ हो जाता है, इसके लिये जो दूसरे से । भाषानुवादः लोग राजाओंके, देवताओंके शरीरको ‘प्रभु’ कहकर पुकारते हैं; परन्तु एक दिन पर कीड़ा, विष्ठा या राखका ढेर को सताता है, उसे अपने सच्चे स्वार्थ या परमार्थका पता नहीं है। क्योंकि इससे तो नरकमें जाना पड़ेगा ।। २५ । * मैं समझती हूँ इन्द्र अपने शरीरको नित्य मानकर मतवाला हो रहा है। उसे अपने विनाशका पता ही नहीं है। अब मैं वह उपाय करूँगी, जिससे मुझे ऐसा पुत्र प्राप्त हो, जो इन्द्रका घमण्ड चूर- चूर कर दें’ ।। २६ ।। * * दिति अपने मनमें ऐसा विचार करके सेवा-शुश्रूषा, विनय-प्रेम और जितेन्द्रियता आदिके द्वारा निरन्तर अपने पतिदेव कश्यपजीको प्रसन्न रखने लगी ।। २७ ।। वह अपने पतिदेवके हृदयका एक-एक भाव जानती रहती थी और परम प्रेमभाव, मनोहर एवं मधुर भाषण तथा मुसकानभरी तिरछी चितवनसे उनका मन अपनी ओर आकर्षित करती थी ॥ २८ ॥ कश्यपजी महाराज बड़े विद्वान और विचारवान् होनेपर भी चतुर दितिकी * * सेवासे मोहित हो गये और उन्होंने विवश होकर यह स्वीकार कर लिया कि ‘मैं तुम्हारी इच्छा पूर्ण करूँगा ।’ स्त्रियों के सम्बन्ध में यह कोई आश्चर्यकी बात नहीं है ।। २९ ॥ सृष्टिके प्रारंभ में ब्रह्माजीने देखा कि सभी जीव असंग हो रहे हैं। तब उन्होंने अपने आधे शरीर से स्त्रियोंकी रचना की और स्त्रियोंने पुरुषोंकी मति अपनी ओर आकर्षित कर ली ||३०|- हाँ, तो, भैया ! मैं कह रहा था कि दितिने भगवान् कश्यपकी बड़ी सेवा की। इससे वे उसपर बहुत ही प्रसन्न हुए । उन्होंने दितिका अभिनन्दन करते हुए उससे मुस्कराकर कहा ।। ३१ ।। * * कश्यपजीने कहा –— अनिन्द्यसुन्दरी प्रिये ! मैं
तुमपर प्रसन्न हूँ । तुम्हारी जो इच्छा हो, मुझसे माँग लो। पतिके प्रसन्न हो जानेपर पत्नी के लिये लोक या परलोक में कौन-सी अभीष्ट वस्तु दुर्लभ है ।। ३२ । पतिरेव हि नारीणां दैवतं परमं स्मृतम् । मानसः सर्वभूतानां वासुदेवः श्रियः पतिः ॥ ३३ ॥ स एव देवतालिङ्गैर्नामरूपविकल्पितैः । इज्यते भगवान् पुम्भिः स्त्रीभिश्च पतिरूपधृक् ॥ ३४ ॥ तस्मात्पतिव्रता नार्यः श्रेयस्कामाः सुमध्यमे । यजन्तेऽनन्यभावेन पतिमात्मानमीश्वरम् ।। ३५ ।। || सोऽहं त्वयाचितो भद्रे ईदृग्भावेन भक्तितः । तत्ते सम्पादये काममसतीनां सुदुर्लभम् ।। ३६ ।। दितिरुवाच ३७ ॥ वरदो यदि मे ब्रह्मन् पुत्रमिन्द्रहणं वृणे । अमृत्युं मृतपुत्राहं येन मे घातितौ सुतौ ॥ निशम्य तद्वचो विप्रो विमनाः पर्यतप्यत । अहो अधर्मः सुमहानद्य मे समुपस्थितः ॥ ३८ ॥ अहो अद्य न्द्रियारामो योषिन्म य्येह मायया । गृहीतचेताः कृपणः पतिष्ये नरके ध्रुवम् ।। ३९ ।। कोऽतिक्रमोऽनुवर्तन्त्याः स्वभावमिह योषितः । धिङ् मां बताबुधं स्वार्थे यदहं त्वजितेन्द्रियः ॥ ४० ॥
3 १. प्रा० पा० – दोऽसि यदि ब्रहम० । २. प्रा० पा० - हतपुत्रा । ३ प्रा० पा० – मध्येव । ४. प्रा० पा०– विप्लावितो ध्रुवार्थेषु यदहं ।स्कं. ६ अ. १८ श्लो. ३३-४० ] अनेकव्याख्यासमलङ्कृतम् कृष्णप्रिया व्याख्या ५६९ * अन्वयः – हि पतिः एव नारीणाम् परम् दैवतम् स्मृतम् मानसः श्रियः पतिः वासुदेवः सर्वभूतानाम् ॥ ३३ ॥ सः एव पतिरूपधृक् भगवान् पुग्भिः च स्त्रीभिः नामरूपविकल्पितैः देवतालिङ्गैः इज्यते ॥ ३४ ॥ सुमध्यमे तस्मात् श्रेयस्कामाः पतित्रताः नार्यः अनन्यभावेन पतिम् आत्मानम् ईश्वरम् यजन्ते ॥ ३५ ॥ * * भद्रे त्वया ईदृग्भावेन भक्तितः अर्चितः सः अहं तत् असतीनाम् सुदुर्लभम् ते कामम् संपादये ।। ३६ ।। * * ब्रह्मन् यदि मे वरद: मृतपुत्रा अहम् इन्द्रहणम् अमृत्युम् पुत्रम् वृणे येन मे सुतौ घातितौ ॥ ३७ ॥ ॐ विप्रः तत् वचः निशम्य विमनाः पर्यतप्यत अहो अद्य मे सुमहान् अधर्मः समुपस्थितः ॥ ३८ ॥ अहो अद्य इह इन्द्रियारामः योषिन्मय्या मायया गृहीतचेताः कृपणः ध्रुवम् नरके पतिष्ये ॥ ३९ ॥ * * इह स्वभावम् अनुवर्तन्त्याः योषितः कः अतिक्रमः बत स्वार्थे अबुधम् माम् धिक् यत् अहम् तु अजितेन्द्रियः ॥ ४० ॥ श्रीधरस्वामिविरचिता भावार्थदीपिका ननु, परमेश्वरे सुप्रीते सर्वकामप्राप्तिरिति प्रसिद्धं तत्राह । पतिरेवेति । ननु मनसि स्थितः श्रीवासुदेव एव लक्ष्मी- पतिः परं दैवतमिति प्रसिद्धम् । सत्यम् । स एव स्वाधिकारेण रूपभेदैः पूज्यत इत्याह मानस इति सार्धेन ॥ ३३ ॥ * * देवतालिंगैर्मूर्तिभिरुपलक्षितः । तान्येवाह । नाम इंद्रादि रूपं वज्रहस्तत्वादि ताभ्यां विविधं कल्पितैः ।। ३४-३६ ॥ * इन्द्रहणं इन्द्रहंतारम् । अमृत्युं मृत्युशून्यम् । येनेंद्रेण विष्णुना सहायेन घातितौ ।। २७-३६ ॥ * स्वभावमनुवर्तमानाया योषितः कोऽतिक्रमोऽपराधः ॥ ४० ॥ वंशीधरकृतो भावार्थदीपिकाप्रकाशः * । अत्राक्षिपति - नन्विति ॥ ३३ ॥ पुनरत्राक्षिपति नन्विति । तानि लिंगानि इंद्राय स्वाहाऽग्नये स्वाहेत्यादिभिर्नामरूपभेदेन पुम्भिः कर्मिलोकैर्भगवानेवेज्यते यथा तथा स्त्रीभिः पतिरूपेणेत्यर्थः ॥ ३४ ॥ * * सुमध्यम इत्यपि संबुद्धिः पूर्ववद् बोध्या ।। ३५ ।। * * भद्रे इति । भद्ररूपो वरः प्रार्थनीय इति भावः । लक्ष्मीं पश्यतीतीहग्विष्णु- स्तद्भावस्ताद्रूप्यं तेन विष्णुबुद्धधेत्यर्थः । तत्ततः ॥ ३६ ॥ * * ब्रह्मन्निति । ब्रह्मा यथा प्रार्थितस्तथा वरान्ददाति त्वमपि तादृश एवातो यथा प्रार्थितं वरं देहीति भावः । हंतेर्गत्यर्थत्वात्पत्ते इन्द्रानुगम् । अमृत्युं सर्वैरवध्यं पक्षे देवत्वादमरम् । ऊन- पंचाशद्भिरेक एव देवो मारुत इत्येकवचनम् ॥ ३७ ॥ * * विमना इति । दितेरीक्षितोऽर्थो हृींद्रमृतिं विना न संभवे- दित्याकलय्य दुर्मना अभूदिति भावः ॥ ३८-३६ ॥ * * स्वभावं क्रौर्यम् ॥ ४० ॥ अन्वितार्थप्रकाशिका | पतिरिति अर्द्धम् । नारीणां पतिरेव परमं दैवतं स्मृतम् ॥ ३३ ॥ * * मानस इति सार्द्धम् । यः सर्वभूतानां मानसः मनसि स्थितो वासुदेवो नियमनादिक्रीडापरः श्रियः पतिरस्ति नाम इन्द्रादिरूपं वज्रहस्तादि ताभ्यां विविधं कल्पिते- देवतानां लिङ्गैर्मूर्तिभिर्यथा स एव भगवान् पुंभिः कर्मभिरिज्यते तथा स्त्रीभिश्च पतिरूपधृक् स एवेज्यते । धृजेः क्विपू ।। ३४ ।। तस्मादिति । हे सुमध्यमे ! यस्मात्पतिरूपेण भगवानेव वर्त्तते । तस्मात् श्रेयस्कामा विवेकवत्यो नार्यः पतिव्रतास्तदेकप्रवणचित्ताः सत्योऽनन्यभावेन परमया भक्त्या आत्मानं सर्वात्मानमीश्वरं पतिं पतिरूपं यजन्ते पूजयन्ति ।। ३५ ।। * * सोऽहमिति । हे भद्रे ! शुभाचारे यस्मात् ईदृग्भावेन अलौकिकप्रकारेण भक्तितः प्रेम्णा त्वयाऽहं पतिरूपो भगवानर्चितस्तत्तस्मादसतीनां पतिभक्तिरहितानां सुदुर्लभमपि ते कामं मनोरथं सम्पादये || ३६ ।। * वरद इति । है
-
- वरद इति । हे ब्रह्मन् ! यदि त्वं मे वरदोऽसि वरं ददासि तदा अपुत्रा मृतपुत्रा अहम् इन्द्रहणमिन्द्रहन्तारममृत्युं स्वयं मृत्युशून्यं पुत्रं वृणे । तत्रेन्द्रापराधमाह । येनेन्द्रेण विष्णुना सहायभूतेन मे सुतौ घातितौ अतोऽहं मृतपुत्रेति ॥ ३७ ॥ * निशम्येति । तस्या दितेर्वचों निशम्य श्रुत्वा तन्मनोरथ- पूर्तेरिन्द्रमरणाधीनत्वं ज्ञात्वा विप्रः कश्यपो विमनाः खिन्नमनाः सन् पर्यतप्यत । अहो अद्य मे सुमहानधर्मः इन्द्रहत्यारूप: समुपस्थितः ॥ ३८ ॥ * * अहो इति । ध्रुवं निश्चितमचैव शीघ्रमेव इन्द्रियारामः विषयभोगपरः योषिन्मय्या भगवन्मायया इहास्मिन्नवसरे गृहीतचेताः वशीकृतचित्तः कृपणः धैर्यादिरहितः अहं नरके पतिष्ये । तङार्ष: ।। ३९ ।। * * क इति । स्वभावं मोहकत्वमनुवर्त्तन्त्या । शता आर्षः । योषितः इह मद्विषये कोऽपराधः । बत निश्चितं स्वार्थे अबुधमनभिज्ञ’ मामेव धिक् त्ववधारणे । यस्मादहमेवाजितेन्द्रिय इत्यर्थः ॥ ४० ॥ ७२ ५७० श्रीमद्भागवतम् वीरराघवव्याख्या [ स्कं. ६ अ. १८ श्लो. ३३-४० अतः
ननु, कर्मवश्येऽनीश्वरे भर्त्तरि प्रीते सति कथं सर्वत्र सर्वकामसौलभ्यम् ? तत्राह - पतिरिति । नारीणां पतिरेव हि सर्वोत्कृष्टं दैवतम् परमदैवप्रीणनेन सर्वकामसौलभ्यमिति भावः । ननु, “तं देवतानां परमञ्च दैवतम्” इति श्रुत्युक्तरीत्या श्रियः पतिर्हि परमं दैवतं न भर्ता, तत्राह मानस इति, यः सर्वभूतानां मानसः मनसः साक्षी वासुदेवः सर्वान्तरात्मा श्रियः पतिः ॥ ३३ ॥ * स एव भगवान्नामरूपाभ्यां विकल्पितैः विभिन्नैर्देवतालिङ्गैः अग्नीन्द्रादिदेवतारूपैः शरीरैरिज्यते इदं दृष्टान्तार्थं “लदेवाग्निस्तद्वायुस्तत्सूर्य” इत्यादिश्रुत्युक्तरीत्या पुंभिर्यष्टभिरग्न्यादिशरीरैर्द्वारिभूतैर्यथा तदनन्तरात्मा भगवानिज्यते यागादिभिराराध्यते तथा स्त्रीभिरपि पतिरूपधृक् पतिशरीरकः परमात्मैव नानोपचारैस्तोष्यत इत्यर्थः । भगवति तुष्टे सति सर्वे कामाः सुलभा : इति भावः ॥ ३४ ॥ यत एवं तस्मात् हे सुमध्यमे ! श्रेयस्कामाः पतिव्रता नार्यः अनन्यभावेन अनन्या ह शेषत्वेन ईश्वरात्मकं पतिमेवाराधयन्ति ॥ ३५ ॥ हे भद्रे ! यतोऽहमीदृशभावेन अनन्यभावेन भक्तितश्च त्वया अर्चितः तस्मात्ते तव काममिष्टं सम्पादये सिद्धवत्करोमि । कथंम्भूतमसतीनामपतिव्रतानां सुतरां दुर्लभं लब्धुमशक्यम् ॥ ३६ ॥ * * एवं वराय चोदिता दितिराह - वरद इति । हे ब्रह्मन् ! मम यदि त्वं वरदः वरं दद्यास्तर्ह्यमत्यैर्देवैः हतौ पुत्रौ यस्याः सा अहम् इन्द्रस्य हन्तारं पुत्रं वृणे येनेन्द्रेण प्रयोजकत भगवता प्रयोज्यकर्त्रा मे सुतौ हिरण्याक्षहिरण्यकशिपू घातितौ मारितौ ।। ३७ । एवं तस्याः दितेः वचो निशम्य विप्रः कश्यपः विमनाः खिन्नः । पर्यतप्यत परितापञ्चकार, तमेव परितापप्रकारमाह- अहो इति । अद्य महानधर्मो मम प्राप्तः । अहो इति खेदे ॥ ३८ ॥ अहो अस्मादधर्मादहं नरके ध्रुवं नूनं पतिष्ये कथम्भूतः इन्द्रियारामः अत एव योषिद्रूपया भगवन्मायया गृहीतं चेतो यस्य स अत एव कृपणः दीनः ॥ ३६ ॥ स्वभावं स्त्रीस्वभावमनुवर्तमानायाः योषितः कोऽतिक्रमः न कश्चिद्दोष:, अपि तु मामेव स्वार्थमप्यजानन्तं धिक अहमेव स्वार्थमप्यजान- न्निन्द्य इत्यर्थः । कुतः ? यद्यस्मादहं लालितानीन्द्रियाणि येन तादृशः ॥ ४० ॥ ? विजयध्वजतीर्थकृता पदरत्नावली ननु " तदेतत्प्रेत्य” इति श्रुतेरविगानेन सर्वजनस्य परमेष्टदेवता श्रीधर इति, यतः कथं पतिरेव नारीणामिष्टदेवतेति विशेष्योच्यते ? इति तत्राह - मानस इति । वासुदेवः मानसः सर्वभूतानां मानसो मनसि स्थितस्सन् मनसा पूज्यः, को वासुदेवः ? इति तत्राह श्रिय इति ॥ ३३ ॥
- श्रिय इति ॥ ३३ ॥ * एतदेव विशदयति स इति । वासुदेव एव नामरूपाभ्यां विविधत्वेन कल्पितैर्देवतालिङ्गैः देवताविग्रहैः विशेषतः सन्निहितत्वेन स्त्रीभिः पुम्भिश्चेज्यते । तत्र स्त्रीभिः पतिसहितत्वेन पूज्यते तदर्थं पतिरूप- धृगिति पुरुषैस्तु देवतालिङ्गनामरूपत्वेनेति, लिङ्गं लक्षणं विग्रहश्वोच्यते ॥ ३४ ॥ यस्मात्पत्यावाहित ईशतस्मात्पति-
-
- पूजनेन भगवानेव पूजितः स्यादित्युपसंहरति तस्मादिति । पतिं पतिस्थम् ॥ ३५ ॥ * * ईदृग्भावेन पतिस्थितः ॥ ॥ परमात्मा मह्यं प्रसीदत्विति बुद्धया ।। ३६ ।। * * अमृत्युमनश्वरम् ।। ३८-३९ ।। वर्तमानाया अतिक्रमोऽन्यायः स्वभवं सौशील्यमनुवर्तम् ॥ ३८-३९ ।। * * स्वभावं गुप्तचौर्यभवम ४०-४१ ।। विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी पतिः खल्वत्र जीव एव स कथं परं दैवतमीश्वरः स्यात्तत्राह - मानसः । मनसश्चित्तस्याधिष्ठाता यो वासदेवः स एव भगवान् देवतानां लिङ्गैश्चिहरिज्यते कीदृशैर्नाम इन्द्रादि, रूपं वज्रहस्तत्वादि, ताभ्यां विविधं कल्पितैः इन्द्राय स्वाहा अग्नये स्वाहा इत्यादिभिर्नामरूपभेदेन पुम्भिः क स्वाहा इत्यादिभिर्नामरूपभेदेन पुम्भिः कर्मिलोकैर्भगवानेव इज्यते यथा, तथा स्त्रीभिः पतिरूपेणेत्यर्थः ।। ३४-३६ ॥ इन्द्रहणम् इन्द्रहन्तारं हन्तेर्गत्यर्थत्वात् पते इन्द्रानुगम् अमृत्युं सर्वैरवध्यं पक्षे देवत्वादमरम् । ऊनपञ्चाशद्भिरेक एव देवो मारुत इत्येकवचनम् । विमना इति दितेरीप्सितोऽर्थस्तु इन्द्रमरणं विना न सम्भवेदिति भावः ॥ ३७-३६ ।। * * अति- क्रमोऽपराधः क्रौर्य्यं हि स्त्रीजातेः स्वभाव एव तमनुवर्त्तन्त्याः अनुवर्त्तमानायाः ॥ ४० ॥ शुकदेवकृत: सिद्धान्तप्रदीपः ननु, जीवे पत्यादिरूपे प्रीते कुतो मनोरथसिद्धिरित्यत्राह - वासुदेवः श्रियः पतिः स्त्रीणां पतिरेव वासुदेवदृष्टया सेवितः पतिर्मनोरथप्रदो भवतीत्यर्थः । किञ्च सर्वभूतानां मानसं हृद्यन्तःस्थं परमं दैवतं स्मृतम् “ईश्वरः सर्वभूतानां हृदेशेऽर्जुन तिष्ठति " इति स्मृत्या वर्णितं तद्दृष्टया पूजितानि सर्वाणि भूतान्यपि मनोरथप्रदानि भवन्ति न पतिरेवैक इत्यर्थः ॥ ३३ ॥ अत एव पुम्भिर्याज्ञिकैः स एव वासुदेवः सर्वहृत्प्रविष्टः देवतालिङ्गैः इन्द्रादिदेवमूर्तिभिरधिष्ठानभूतैर्निमित्तैः नाम्नेन्द्रादिना स्कं. ६ अ. १८ श्लो. ३३-४० ] अनेकव्याख्यासमलङ्कृतम् ५७ १ रूपेण वज्रहस्तत्वादिना विकल्पितैर्विशेषतया समर्थितैः इज्यते तथा स्त्रीभिच पतिरूपधृक् पतिरूपेण वृष्णोति अन्तर्यामिरूपेण प्रगल्भते इति पतिरूपधृक् ।। ३४ ॥ यस्मादेवं तस्मात्पतिव्रताः ईश्वरं सर्वनियन्तारम् आत्मानं सर्वान्तर्यामिणं वासुदेवं पति पत्यभिन्नं यजन्ते ।। ३५ ।। कामं वाञ्छितार्थम् ॥ ३६ ॥ * * यदि वरदस्तर्हि इन्द्रहन्तारं पुत्रं वृणे ॥ ३७-३८ ।। अद्येदानीमिन्द्रियारामोऽहं ध्रुवं निश्चितं नरके पतिष्ये यतः योषिन्मय्या मायया गृहीतं चेतो यस्य सः स्वपुत्रनाशे तया प्रवर्तितः इति यावत् ॥ ३९ ॥ * * स्वभावमनुवर्तिन्याः योषितः अतिक्रमः अपराधः कः ? न कोऽपि, यतोऽह- मविजितेन्द्रियः अतः स्वार्थेऽबुधं मां धिकू ॥ ४० ॥ गोस्वामिगिरिधरलाल विहिता बालप्रबोधिनी ननु भर्त्तरि प्रीते कथं सर्वकामप्राप्तिरित्यपेक्षायामाह - पतिरेवेति । हिशब्दः शाखप्रसिद्धिद्योतकः । इन्द्रादिदेवतान्त- रव्यावृत्त्यर्थमाह–परममिति । कोऽसौ परमो देव इत्यपेक्षायामाह - सर्वभूतानां मानसः मनसि विराजमानो वासुदेवः नियमनादिक्रीडापरः श्रियः पतिरिति ॥ ३३ ॥ * * ननु पतिस्तु जीवः स कथं वासुदेवः स्यादित्याशङ्कध वासुदेव va पतिरूपेण वर्तते तस्तया स एव पूजनीयोऽधिकारप्राप्तत्वादिति सदृष्टान्तमाह स एवेति । नाम इन्द्रादि रूपं वज्रहतत्वादि ताभ्यां विविधं कल्पितैर्देवतानां लिङ्गैर्मूर्तिभिः यथा स एव भगवान् पुग्भिः कर्मिभिरिज्यते तथा स्त्रीभिश्च पतिरूपधृक् स एवेज्यते इत्यन्वयः ॥ ३४ ॥ * * न केवलं शास्त्रमेवात्र प्रमाणं किन्तु सदाचारोऽपीत्याह - तस्मादिति । यस्मात्पतिरूपेण ॥ । भगवानेव वर्त्तते तस्मात् श्रेयस्कामा विवेकवत्यो नार्यः पतिव्रतास्तदेकप्रवणचित्ताः सत्योऽनन्यभावेन परमया भक्त्या आत्मानं सर्वात्मानमीश्वरं पतिं पतिरूपं यजन्ते पूजयन्तीत्यन्वयः । हे सुमध्यमे इति प्रेमसूचकेन सम्बोधनेन स्ववचनस्य यथार्थत्वं यति ॥ ३५ ॥ * * तथा च हे भद्रे शुभाचारे यस्मात् ईदृग्भावेन अलौकिकप्रकारेण भक्तितः प्रेम्णा त्वयाऽहं पतिरूपो भगवानर्चितः तत्तस्माद सतीनां पतिभक्तिरहितानां सुदुर्लभमपि ते कामं मनोरथं सम्पादये इत्यन्वयः ॥ ३६ ॥ * * तत्तस्मादसतीनां एवं तद्वचनेन स्ववशवर्तिनं ज्ञात्वा वरं वृणीते - वरद इति । सर्वज्ञतया मम दुःखं त्वं जानासीति सूचयन्ती सम्बोधयति— हे ब्रह्मन्निति । हे ब्रह्मन् यदि त्वं मे वरदोऽसि वरं ददासि तदा इन्द्रहणमिन्द्रहन्तारममृत्युं स्वयं मृत्युशून्यं पुत्रमहं वृणे । तन्त्रेन्द्रापराधमाह - येनेन्द्रेण विष्णुना सहायभूतेन मे सुतौ घातितौ अतोऽहं मृतपुत्रेति ॥ ३७ ॥ निशम्य श्रुत्वा तन्मनोरथ पूर्तेरिन्द्रमरणाधीनत्वं ज्ञात्वा विप्रः कश्यपो विमनाः सन् पर्यतप्यत । अहो इति साद्धैः षड्भिः । स्वखेदं द्योतयति — अहो इति अधर्म इन्द्रहत्यारूपः ॥ ३८ ॥ सूचयति–अहो इति । ध्रुवं निश्चितमद्यैव अचिरत एवाहं नरके पतिष्ये इत्यन्वयः । ननु तर्हि कथमेवं विचार विना त्वया ‘वरं वरय ते कामं सम्पादये’ इति प्रतिज्ञातं येनानर्थ आपतित इत्याशङ्कयाह - योषिन्मय्या भगवन्मायया इहास्मिन्नवसरेऽहं गृहीतचेताः वशीकृतचित्त इति । ननु कथमेवं तद्वशवर्त्ती जात इत्याशङ्कय तत्र हेतुमाह - इन्द्रियाराम इति, इन्द्रियाधीनतया विषयभोगपरः । भोगस्य तदधीनत्वात्तद्वशे जात इति भावः । तदपि कुतस्तव सम्भवति तत्राह - कृपण इति, विवेकधैर्यादि- बलरहित इत्यर्थः ॥ ३६ ॥ * * योषितो भगवन्मायारूपायाः स्वभावं मोहकत्वमनुवर्त्तन्त्या इह मद्विषये कोऽतिक्रमः अपराधः । बतेत्यवधारणे । स्वार्थे स्वप्रयोजने अबुधमनभिज्ञं मामेव धिक् । तत्र हेतुमाह यदिति त्ववधारणे । यस्मादहमे- वाजितेन्द्रिय इत्यर्थः ॥ ४० ॥
भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी * तस्या दितेर्वचो तत्परितापमेव दर्शयति- भगवन्मायामोहस्याश्चर्य ननु कर्मवश्येनीश्वरे भर्त्तरि प्रीते सति कथं सर्वत्र सर्वकामसौलभ्यं तत्राह । पतिरिति । नारीणां पतिः एव, परमं सर्वोत्कृष्टं दैवतं स्मृतम् अस्ति हि । ननु ‘तं दैवतानां परमं च दैवतम्’ इति लक्ष्म्याः एव पतिः सन् सर्वभूतानां मानसः पतिः । अतः साधारणः नासाधारणः, ततः असाधारण स्वस्वामिनि प्रीते सर्वकामसौलभ्यमिति भावः ॥ ३३ ॥ ननु मानस एव स श्रीवासुदेवः परमदैवतत्वात् मुख्य एव इति चेत्तत्राह । स एवेति । भगवान् षाड्गुण्यपूर्णवासुदेव एव, नामरूपाभ्यां विकल्पितानि विभिन्नानि तैः, देवतालिङ्गैः देवतारूपामीन्द्रादिस्वरूपैः करणैः पुम्भिः कर्तृभिः, इज्यते । स एव पतिरूपधृक् सन्, स्त्रीभिश्व, इज्यते । अनया रीत्या पतिरूपे तस्मिंस्तुष्टे सर्वे कामा: सुलभा एवेति भावः ।। ३४ ।। * * तस्मादिति । यत एवं तस्मात्; हे सुमध्यमे, श्रेयस्कामाः पतित्रताः सुमध्यमे, श्रेयस्कामाः पतिव्रताः नार्यः, अनन्यभावेन वासुदेवेन सह स्वपत्युरनन्यत्व- भावनेन, पतिं पतिरूपं आत्मानमात्मवत्प्रेमास्पदं, ईश्वरं श्रीवासुदेवं यजन्ते ।। ३५ ।। * सोऽहमिति । हे भद्रे, यत सः अहं, त्वया ईदृग्भावेनानन्यत्वभावेन; भक्तितश्च अर्चितः । तत्तस्मात्, तव, असतीनामपतिव्रतानां सुदुर्लभं सुतरां लब्धुमशक्यं, काममिष्टं संपादये सिद्धवत् करोमि ॥ ३६ ॥ * एवं वराय चोदिता दितिराह । वरद इति । हे ब्रह्मन्, पतिः वासुदेवस्तु, सर्वभूतानां केवलं मानसः पतिः न बाह्यः । यद्वा वास परम देवतं तु भगवानेवेति चेत्, श्रियो लक्ष्म्याः, ’ ५७२ श्रीमद्भागवतम् [ स्कं. ६ अ. १८ श्लो. ४१-४८ त्वं यदि, मम वरदः वरं दद्याः, तर्हि, अमत्यैर्देवैः हतौ पुत्रौ यस्याः सा, अहम् इन्द्रहणम् इन्द्रस्य हन्तारं पुत्रं वृणे । येनेन्द्रण, मे मम सुतौ हिरण्यकशिपुहिरण्याक्षौ, घातितौ । स्वयमिन्द्रेण प्रयोजकेन भूत्वा प्रयोज्यकर्त्रा नृसिंहवराहरूपधारिणा विष्णुना व्यापादितावित्यर्थः ॥ ३७ ॥ * निशम्येति । विप्रः कश्यपः, तद्वचः दितेर्वचनं निशम्य, विमनाः खिन्नः सन्, पर्यतप्यत परितापं चकार । तमेव परितापप्रकारमाह । अहो इति । अहो इति खेदे । अद्य मे मम, सुमहान् अधर्मः, समुप- स्थितः ॥ ३८ ॥ अहो इति । अहो, अद्य इन्द्रियारामः, अत एव योषिन्मय्या स्त्रीरूपया मायया गृहीतचेताः, अत
-
- एव कृपणः अहम् अस्मादधर्मादिति शेषः । नरके ध्रुवं पतिष्ये एव ॥ ३६ ॥ * * कोऽतिक्रम इति । स्वभावमन्तः कापट्य- रूपां स्त्रीप्रकृतिमनुवर्त्तन्त्या अनुवर्त्तमानायाः, योषितः स्त्रियाः इह, कः अतिक्रमः अपराधः । न कश्चित् । बतेति खेदे । अपितु, स्वार्थम् अबुधं पाठान्तरे निजार्थे, अबुधं स्वार्थमजानन्तमित्यर्थः । माम् एव, धिक् । स्वार्थमजानन्नहमेव निन्द्य इत्यर्थः । यद्यस्मात अहं तु केवलोऽहमेवेत्यर्थः । अजितेन्द्रियः ।। ४० । भाषानुवादः शास्त्रों में यह बात स्पष्ट कही गयी है कि पति ही स्त्रियोंका परमाराध्य इष्टदेव है । प्रिये ! लक्ष्मीपति भगवान् वासुदेव ही समस्त प्राणियोंके हृदयमें विराजमान हैं ॥ ३३ ॥ * * विभिन्न देवताओंके रूपमें नाम और रूपके भेदसे उन्हींकी कल्पना हुई है। सभी पुरुष - चाहें किसी भी देवताकी उपासना करें - उन्हींकी उपासना करते हैं। ठीक वैसे ही त्रियोंके लिये भगवान्ने पतिका रूप धारण किया है। वे उनकी उसी रूपमें पूजा करती हैं ॥ ३४ ॥ इसलिये प्रिये ! अपना कल्याण चाहनेवाली पतिव्रता स्त्रियाँ अनन्य प्रेमभाव से अपने पतिदेवकी ही पूजा करती हैं; क्योंकि पतिदेव ही उनके परम प्रियतम आत्मा और ईश्वर हैं ॥ ३५ ॥ कल्याणी ! तुमने बड़े प्रेमभावसे, भक्ति से मेरी वैसी ही पूजा की है । अब मैं तुम्हारी सब अभिलाषाएँ पूर्ण कर दूँगा । असतियोंके जीवन में ऐसा होना अत्यन्त दुर्लभ है ।। ३६ ।। दितिने कहा- ब्रह्मन् ! इन्द्रने विष्णुके हाथों मेरे दो पुत्र मरवाकर मुझे निपूती बना दिया है । इसलिये यदि आप मुझे मुँह- माँगा वर देना चाहते हैं तो कृपा करके एक ऐसा अमर पुत्र दीजिये; जो इन्द्रको मार डाले ॥ ३७ ॥ * * परीक्षित्! दितिकी बात सुनकर कश्यपजी खिन्न होकर पछताने लगे। वे मन-ही-मन कहने लगे- ‘हाय ! हाय ! आज मेरे जीवनमें बहुत बड़े अधर्मका अवसर आ पहुँचा ॥ ३८ ॥ देखो तो सही, अब मैं इन्द्रियोंके विषयोंमें सुख मानने लगा * * हूँ । स्त्रीरूपिणी मायाने मेरे चित्तको अपने वशमें कर लिया है । हाय ! हाय ! आज मैं कितनी दीन-हीन अवस्थामें हूँ । अवश्य ही अब मुझे नरक में गिरना पड़ेगा ।। ३९ ।। * इस स्त्रीका कोई दोष नहीं है; क्योंकि इसने अपने जन्मजात स्वभावका ही अनुसरण किया है। दोष मेरा है—जो मैं अपनी इन्द्रियोंको अपने वशमें न रख सका, अपने सच्चे स्वार्थ और परमार्थको न समझ सका । मुझ मूढको बार-बार धिक्कार है ।। ४० ।। 3
शरत्पद्मोत्सवं वक्त्रं वचथ श्रवणामृतम् । हृदयं तुरधारामं स्त्रीणां को वेद चेष्टितम् ॥ ४९ ॥ न हि कञ्चित्प्रियः स्त्रीणामञ्जसा स्वाशिषात्मनाम् । पतिं पुत्रं भ्रातरं वा घ्नन्त्यर्थे घातयन्ति च ॥ ४२ ॥ प्रतिश्रुतं ददामीति वचस्तन्न मृषा भवेत् । वधं नार्हति चेन्द्रोऽपि तत्रेदमुपकल्पते ॥ ४३ ॥ इति संचिन्त्य भगवान्मारीचः कुरुनन्दन । उवाच किञ्चित् कुपित आत्मानं च विगर्हयन् ॥ ४४ ॥ कश्यप उवाच ।। पुत्रस्ते भविता भद्रे इन्द्रहा देवबान्धवः । संवत्सरं व्रतमिदं यद्यञ्ज धारयिष्यसि ॥ ४५ ॥ दितिरुवाच धारयिष्ये व्रतं ब्रह्मन्ब्रूहि कार्याणि यानि मे । यानि चेह निषिद्धानि न व्रतं नन्ति यानि तु ॥ ४६ ॥ कश्यप उवाच न हिंस्याद्भूतजातानि न शपेन्नानृतं वदेत् । न च्छिन्द्यान्नखरोमाणि न स्पृशेद्यदमङ्गलम् ॥ ४७ ॥ नाप्सु स्नायान्न कुप्येत न सम्भाषेत दुर्जनैः । न वसीताधौतवासः स्रजं च विधृतां कचित् ॥ ४८ ॥ १. प्रा० पा०– ददानीति । २. प्रा० पा०- यान्युत । स्कं. ६ अ. १८ श्लो. ४१-४८ ] अनेकव्याख्यासमलङ्कृतम् कृष्णप्रिया व्याख्या ५७३ ददामि अन्वयः - वक्त्रं शरत्पद्मोत्सर्वं च वचः श्रवणामृतम् हृदयं क्षुरधाराभं स्त्रीणाम् चेष्टितं कः वेद ॥ ४१ ॥ * * स्वाशिषात्मनां स्त्रीणां हि अंजसा प्रियः कश्चित् न ताः अर्थे पतिं पुत्रं वा भ्रातरं घ्नन्ति च घातयन्ति ॥ ४२ ॥ इति प्रतिश्रुतं तत् वचः मृषा न भवेत् च इंद्रः अपि वधं न अर्हति तत्र इदम् उपकल्पते ।। ४३ ।। * कुरुनन्दन भगवान् मारीचः इति संचिन्त्य किंचित् कुपितः च आत्मानं विगर्हयन उवाच ॥ ४४ ॥ धारयिष्यसि ते इंद्रा पुत्रः भविता देवबान्धवः ।। ४५ ।। निषिद्धानि यानि तु व्रतं न घ्नन्ति ब्रूहि ॥ ॥ ४६ ॥ * भद्रे यदि अंजः इदं व्रतं संवत्सरं
- ब्रह्मन् व्रतं धारयिष्ये इह यानि मे कार्याणि च यानि भूतजातानि न हिंस्यात न शपेत् अनृतं न वदेत् नखरोमाणि असुन न छिन्द्यात् यत् अमंगलम् तत् न स्पृशेत् ॥ ४७ ॥ * * अप्सु न स्नायात् न कुप्येत दुर्जनैः न संभाषेत अधौतवासः च विवृतां स्रजं कचित् न वसीत ॥ ४८ ॥ ในช श्रीधरस्वामिविरचिता भावार्थदीपिका स्वभावमेवाह द्वाभ्याम् । शरत्पद्मस्येवोत्सवो विकासो यस्मिन् । श्रवणे श्रुती तयोरमृतम् । तुरधारोपमं चित्तम् ॥ ४१ ॥ * * स्वाशिषात्मनां स्वार्थकामनयात्मवत्प्रेष्ठत्वेन प्रतीयमानानाम् ।। ४२ ।। * तत्रेदमुपकल्पते ॥
- योग्यं भवति । अयं भावः । वैष्णवं व्रतं तावदुपदेक्ष्यामि तेनैवास्याः शुद्धचित्ताया इंद्र प्रति क्रोधो निवर्तिष्यते पुत्रस्त्वमर्त्यो भविष्यति दीर्घकालत्वे च व्रतस्य कथंचिद्वैगुण्ये सतींद्रस्य वधोऽपि न भविष्यतीति ॥ ४३-४४ ॥ * * हे भद्रे अंज: यथावद्यदि धारयिष्यसि तहींद्रहा भविष्यति । वैगुण्ये तु देवबांधवो भविष्यति वैष्णवत्वाद् व्रतस्य कथंचिद्वैगुण्येऽपि सति सर्वथा वैकल्याभावात् ॥ ४५ ॥ * कार्याण्यावश्यकानि । व्रतं यानि न घ्नंति नावश्यकानि न च निषिद्धानि किं त्वभ्यनुज्ञातानि तानि सर्वाण्यपि ब्रूहि ।। ४६ ।। * तत्रैकत्रिंशन्निषेधानाह न हिंस्यादिति पंचभिः । न शपेन्नाक्रोशेत् । । यदमंगलं कपालास्थ्यादिकं तन्न स्पृशेत् ॥ ४७ ॥ * * नाप्सु प्रविश्य स्नायात् । पूर्व विवृतां स्रजं पुनर्न धारयेत् ॥ ४८ ॥ ॥ ४ वंशीधरकृतो भावार्थदीपिकाप्रकाशः को वेद न कोपीत्यर्थः । “स्त्रियाश्चरित्रं पुरुषस्य भाग्यं देवा न जानंति कुतो मनुष्याः” इत्यभियुक्तोक्तेः ॥ ४१ ॥ स्वस्याशिषा कामनयैवात्मा यत्नो यासां न तु पत्यादिसुखापेक्षयेति भावः । अलुक्समासः आशिषाशब्दष्टाबंतो वा । अर्थे स्वप्रयोजननिमित्तम् ॥ ४२ ॥ * * अत्राशयमाह - अयं भाव इति । इंद्रे क्रोधनिवृत्तेस्तद्वधमनाकांक्षंत्याऽनया विहितस्य वैष्णवव्रतस्य कामितदुष्फलदातानर्हत्वान्द्रघाती भविष्यति । किं तु वरप्रार्थनप्रदानवाक्ययोतिधातुप्रयोगा द्वंतेश्च गत्यर्थत्वा- दिन्द्रानुगोऽमरः पुत्रो भविष्यति । व्रतस्य दीर्घकालत्वे सत्यवश्यं वैगुण्यं चः किंचिद्भविष्यतीति तेनैवास्या अविज्ञाया मनःसमा- धानञ्च भविष्यतीति । वस्तुतस्तु वैष्णवत्रतस्य वैगुण्येऽपि फलसिद्धिरवश्यं भाविनीत्यस्याः श्रमश्च सफल एव भविष्यतीति “नेहाभिक्रमनाशोस्ति प्रत्यवायो न विद्यते । स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात्” इति श्रीमुखोक्तेः ॥ ४३ ॥ * * हे कुरुनंदनेति । यथा त्वं ब्राह्मणांसे मृतोरगनिवेशनानंतरं शुद्धवंश्यत्वादात्मानमहो मया नीचमनार्यवत्कृतम् ‘निरागसि ब्रह्मणि गूढतेजसि’ इत्युक्तेर्गर्हितवांस्तथा कश्यपोऽपीति भावः ॥ ४४ ॥ इंद्रहा इंद्रघाती । अदेवानामसुराणाम् । बांधव इति । दितिं बोधयितुमिष्टोर्थः इंद्रहा इंद्रानुगो देवानां बांधव इति स्वामीष्टोर्थः । भद्रे इति । दित्यभीष्टाऽकारप्रश्लेषे च स्वाभीष्टा संबुद्धिरपि ज्ञेया ।। ४५ ।। * * ब्रह्मन्निति । यथार्थवक्तृत्वमाह ॥ ४६ ॥ * * न हिंस्यादिति प्रथमत एवेंद्र धाशंका निरस्ता । कपालं भिन्नघटाद्यंगम् । इहादिनांगारादिग्रहः ॥ ४७ ॥ * न कुप्येत जातेप्यपराधे दुर्जनैर्देवद्विजवेदनिंदकैर्मद्यमांसादिप्रसक्तैर्वा “श्रुतिस्मृतिपुराणादिदेवब्राह्मणनिंदकाः । मद्यमांसादिसताच पिशुना दुर्जनाः स्मृताः ॥” इति संहितोक्तेः । अधौतवासः कटिस्पृष्टं कार्पासं वासो यदि न धौतं तन्न परिदध्यात् । " कार्पासं कटिनिर्मुक्त कौशेयं भोजने धृतम् । क्षालनाच्छुद्धिमाप्नोति वातेनौर्णं हि शुध्यति ॥” इति स्मृतेः । अन्येन विधृतां स्वयं विधृतां वा स्रजं पुष्पमालाम् ॥ ४८ ॥
- । । अन्वितार्थप्रकाशिका शरदित्ति । वक्त्रं शरत्पद्मस्येवोत्सवो विकासो यस्मिंस्तथाभूतं वचश्च श्रवणयोरमृतमिव हर्षजनकं हृदयं चित्तं तु धारामं परविद्यातेऽतितीक्ष्णम् अतः स्त्रीणां चेष्टितं को वेद ॥ ४१ ॥ * * न हीति । स्वत्याशिषा कामनया आत्म- ५७४ श्रीमद्भागवतम् [ स्कं. ६ अ. १८ श्लो. ४१-४८ नाम् आत्मवत्प्रेष्ठत्वेन प्रतीयमानानाम् । यद्वा । स्वस्य आशिषैवात्मा यत्नो यासां ताः नतु पत्यादिसुखापेक्षयेति भावः । अलुक् समासः । आशिषाशब्दष्टाबन्तो वा । तासां स्त्रीणामञ्जसा साक्षात् स्वप्रयोजनरूपमुपाधिं विना कश्चिदपि प्रियो न भवति । अत एवार्थे निमित्ते सति पत्यादीन् घ्नन्ति घातयन्ति च ॥ ४२ ॥ * * प्रतीति । वरं ददामीति यन्मया ॥ & प्रतिश्रुतं तन्मम वचो मृषा न भवेत् । इन्द्रोऽपि त्रिलोकेशत्वा देवत्वात् पुत्रत्वाच्च वधं नार्हतीति तद्वधश्च न भवेदिति द्वयम- पेक्षितम् । तत्रेदमुपकल्पते योग्यं भवति । इदमिति मानसिको विचारस्तथा हि वैष्णवं व्रतं तावदुपदेक्ष्यामि तेनैवास्याश्चित्त- शुद्ध सत्यामिन्द्रे क्रोधो निवर्त्तिष्यते । तत्प्रभावेण पुत्रश्चामर्यो भविष्यति, दुष्फलदानानर्हत्वेन पुत्रश्चेन्द्रघाती न भविष्यति । किंतु वरप्रार्थन प्रदानवाक्ययोर्हन्तिधातुप्रयोगात्तस्य गत्यर्थत्वेनापि निर्वाहादिन्द्रानुगो भविष्यति ।। ४३ ।। इतीति । हे कुरुनन्दन । इत्येवं सञ्चित्यं भगवान् मारीचः कश्यपस्तस्याः दुर्भावानुसन्धानेन किञ्चित्कुपितः स्वस्य मोहेन तत्पारवश्यानुसन्धा- नेनात्मानं विगर्हयंस्तामुवाच ॥ ४४ ॥ * * पुत्र इति । हे भद्रे ! वस्तुतस्तु हे अभद्रे ! दुः संकल्पे संवत्सरपर्यन्तमिदं व्रतं यद्यञ्जः यथावत् धारयिष्यसि तर्हि ते पुत्र इन्द्रहा इन्द्रस्य हन्ता अदेवानां बान्धवश्च भविता इति दितेः बोधयितुमिष्टोऽर्थः । किञ्चिद्वैगुण्ये च व्रतस्य वैष्णवत्वेन सर्वथा वैफल्यासंभवात् इन्द्रानुगः देवानां बान्धवः इन्द्रपक्षपाती भविष्यति ।। ४५ ।। * * धारयिष्य इति । हे ब्रह्मन् ! व्रतमहं धारयिष्ये तत्र यानि कार्याण्यावश्यकानि यानि चेह व्रते निषिद्धानि उत अपि यानि व्रतं न घ्नन्ति नावश्यकानि न निषिद्धानि किन्त्वभ्यनुज्ञातानि तानि सर्वाण्यपि मे ब्रूहि ॥ ४६ ॥ नेति । भूत- ॥ * * जातानि प्राणिसमूहाः तेषु कश्चिदपि न हिंस्यात इति प्रथम एवेन्द्रवधाशङ्का निषिद्धा । न शपेन्नाक्रोशेत् अनृतं न वदेत् नख- लोमानि च न छिन्द्यात् यदमङ्गलं कपालास्थ्यादिकं तन्न स्पृशेत् ॥ ४७ ॥ * * नेति । अप्सु प्रविश्य न स्नायात् न कुप्येत् दुर्जनैः साकं न संभाषेत अधौतं वासो न वसीत न परिदध्यात् विवृतां स्रजं पुनर्न धारयेत् ॥ ४८ ॥ नरस्य
वीरराघवव्याख्या । ।। * * स्त्रीणां स्वभावं प्रकाशयन्परितप्यते - शरदिति । अहो स्त्रीणां वक्त्रं मुखं शरचन्द्रतुल्यं तथा वचश्च श्रवणयोः कर्णयोर- मृततुल्यं हृदयं तु धारासदृशम्, अतस्तासां चेष्टितं को वेद ? न कोपीत्यर्थः ॥ ४१ ॥ * न हि स्त्रीणाम् अञ्जसा सम्यक् कश्चिदपि पुमान् प्रियोस्ति तत्र हेतु:, स्वाशिषात्मनां स्वाशिषि स्वापेक्षित एवार्थे आत्मा चित्तं यासां तासां स्वाशिषात्मत्वादिति भाव:, अत एवार्थे स्वापेक्षितार्थनिमित्तं पतिं पुत्रं भ्रातरं वा घ्नन्ति मारयन्ति ।। ४२ ।। * इदं महत्सङ्कटमित्याह- ददामीति । यत्प्रतिश्रुतं प्रतिज्ञारूपं मम वच: न मृषा भवेत् मिथ्या भवितुं नार्हति वचसोऽनृतत्वभयेन दास्यामि चेदिन्द्रो हन्येत इन्द्रोऽपि वधं प्रति नार्हति अत इदं महत्सङ्कटमिति भावः । तत्रैतस्मिन् सङ्कटे इदं मया वक्ष्यमाणम् एतत्सङ्कटनिवृत्तये उपकल्पते योग्यं भवति ॥ ४३ ॥ * हे कुरुनन्दन ! भगवान्मारीचः कश्यपः इतीत्थं सञ्चिन्त्यालोच्य किञ्चित्कुपितः मनसैवात्मानं गर्हयन्नुवाच ॥ ४४ ॥ * * तदेवाह पुत्र इति । हे भद्रे ! इदं मयोच्यमानं व्रतमञ्जः सम्यक् संवत्सरपर्यन्तं यदि धारयष्यसि करिष्यसि तर्हीन्द्रस्य हन्ता पुत्रस्तव भविष्यति नोचेद्देवानां बान्धवो भविष्यतीति ॥ ४५ ॥ * तद्वचः श्रुत्वाह दितिः धारयिष्य इति । हे ब्रह्मन् ! व्रतमहं धारयिष्ये मे कार्याणि मया कर्त्तव्यानि तानि प्रवृत्तिनिवृत्तिरूपाणि यानि च कर्माणि ब्रतं न घ्नन्ति न मारयन्ति व्रतन्नानि न भवन्ति व्रतन्नानि निवृत्तिरूपाणि च कार्याणि मे ब्रूहि ॥ ४६ ॥ एवमुक्तस्तावद्भताङ्गतन्निवृत्तिरूपान् नियमानाह कश्यपः - नेति । भूतजातानि प्राणिसमूहान हिंस्यात् न हन्यात् कश्चन न शपेत् नाकोत् तथा अनृतमसत्यं न वदेत् यदमङ्गलं केशकपालास्थितुषभस्मादि, तन्न स्पृशेत् ॥ ४७ ॥ स्पृशेत् ॥ ४७ ॥ * * अप्सु ज
- अप्सु जलेषु प्रविश्य न स्वायात् कस्मैचिदपि न कुप्येत् दुर्जनैर्न सम्भाषेत, अधौतमक्षालितं वासः वस्त्रं न बसीत नाच्छादयेत् न बिभृयाच्च पूर्व विवृतां त्यक्तां खजं च न पुनर्द्धारयेत् ॥ ४८ ॥ BPEDIE विजयध्वजतीर्थकृता पदरत्नावली
- देवानां कमी स्वार्थी आशीष्षु आत्मा यासां तास्तथा तासां स्वाशिषमिच्छन्तीनामित्यर्थः ॥ ४२-४४ ।। * बन्धुभूतः ।। ४५-४७ ॥ * * अधौतवासः अनिर्णिक्तवस्त्रं न वसीत नाच्छादयेत् विधृतामन्योपभुक्ताम् ॥ ४८ ॥ ह जीवगोस्वामिकृतः क्रमसंदर्भः पुत्रस्तइति व्रतं । इति । यदि तं धारयिष्यसि तदा इन्द्रहा तथैव देवानामसुराणाञ्च बान्धवो भविता । अन्यथा तु इन्द्रहा न भविता देवानामेव बान्धवश्च भवितेत्यर्थः ॥ ४५-५० ॥ स्कं. ६ अ. १८ श्लो. ४१-४] अनेकव्याख्यासमलङ्कृतम् विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी f स्वभावमेवाह - शरदिति ॥। ४१ ।। स्वस्य आशिषा कामनयैव आत्मा यत्नो यासां न तु पत्यादिसुखा- पेक्षयेति भावः । अलुक्समास आशिषाशब्दष्टाबन्तो वा ।। ४२ ।। * * तत्रेदमुपकल्पते योग्यं भवति, अयं भावः, वैष्णवं व्रतं तावदुपदेक्ष्यामि तेनैवास्याश्चित्तशुद्धौ सत्यामिन्द्रे क्रोधो निवर्त्तिष्यते । ततश्चेन्द्रवधमनाकाङ्क्षत्यानया विहितस्य वैष्णवव्रतस्य कामितदुष्फलदानानर्हत्वान्नेन्द्रघाती भविष्यति किन्तु वरप्रार्थनप्रदानवाक्ययोर्हन्तिधातुप्रयोगाद्धन्तेश्च गत्यर्थत्वादिन्द्रानुगोऽमरः पुत्रो भविष्यति । व्रतस्य दीर्घकालत्वे सत्यवश्यं वैगुण्यं च किञ्चिद्भविष्यतीति तेनैवास्या अविज्ञायाः मनःसमाधानश्च भविष्यति, वस्तुतस्तु वैष्णवव्रतस्य वैगुण्येऽपि फलसिद्धिरवश्यं भाविनीत्यस्याः श्रमश्च सफल एव भविष्यतीति ।। ४३-४४ ॥ इन्द्रहा इन्द्रघाती अदेवानामसुराणां बान्धव इति दितिबोधयितुमिष्टोऽर्थः । इन्द्रहा इन्द्रानुगो देवानां बान्धव इति स्वाभीष्टोऽर्थः ।।४५-४६ ॥ न हिंस्यादिति प्रथमत एवेन्द्रवधाशङ्का निषिद्धा ॥ ४७ ॥ अप्सु प्रविश्य न स्नायात्, अधौत वासः न वसीत न परिदध्यात् विवृतां पूर्वघृतां स्रजं पुनर्न धारयेत् ॥ ४८ ॥ 征
- शुकदेवकृतः सिद्धांत प्रदीपः
- *
- petite
- क
- योषित्स्वभावं वर्णयति - शरदिति द्वाभ्याम् । यासां वक्त्रं शरत्पद्मास्येवोत्सवो दर्शनोल्लासो यस्मात्तत् वचः श्रवणयोः कर्णयोरमृतममृततुल्यम् क्षुरधाराया आभा उपमा यस्य तद्धृदयञ्च, तासां स्त्रीणां चेष्टितं को वेद ? न कोपि, यद्वा को ब्रह्मैव तासां कर्ता वेद नान्य इत्यर्थः ॥ ४१ ॥ * स्वकीये आशिषि सुखे आत्मा मनो यासां तासाम् अञ्जसा शुद्धभावेन कश्चिदप्रियो न अर्थे स्वार्थसिद्धयर्थे पत्यादीन् घ्नन्ति घातयन्ति च ॥ ४० ॥ ददामीति यत्प्रतिश्रुतं प्रतिज्ञावाक्यरूपं
- ॥ ॥ ।। वतन मृषा भवेत् इन्द्रोपि न वधमर्हति तत्र कार्यद्वयसिद्धौ इदमुपदिश्यमानं वैष्णवत्रतमुपकल्पते योग्यं भवति । अयं भावः, उपदिश्यमान वैष्णवत्रतप्रभावादस्याः एकस्य तु का कथा बहवः पुत्रा भविष्यन्ति बन्धुश्च परकीयो भवति इन्द्रस्तु परकीयभाव हित्वा अस्या दासस्तथा गर्भे प्रविश्य पुत्रश्च भविष्यति । अयमेव परकीयभावत्यागलक्षण इन्द्रस्य वध भविष्यति न तु दैहिकवध इति ।। ४३-४०
- ॥ * हे भद्रे कल्याणि ! यदीदं व्रतं सांवत्सरमञ्जः यथोपदिष्टं धारयिष्यसि तदा इन्द्रहा भविता भविष्यति । वैगुण्ये तु देवबान्धव इन्द्राविरोधी भविष्यति व्रतस्य वैष्णवत्वात् सर्वेषां सुखं भविष्यतीति भावः ।। ४५ ।। हे ब्रह्मन्, व्रतं धारयिष्ये यानि ग्राह्यत्वेन हेयत्वेन न घ्नन्ति तान्येव विभज्याह, यानि कार्याणि यानि च इह व्रते निषिद्धानि तानि मे मह्यं ब्रूहि कथय ।। ४६ ।। * तत्र पञ्चभिर्निषिद्धानि वर्णयति-नेति । यदमङ्गलमपवित्र’ तन्न स्पृशेत् ॥ ४७ ॥ * अप्सु प्रविश्य न स्नायात् स्रजं पुष्पमालां विवृतां पुनर्न धारयेत् ॥ ४८ ॥
- *
- *
- गोस्वामिगिरिधरलाल विहिता बालप्रबोधिनी
- ।
- ? स्वभावमेव स्पष्टयति- द्वाभ्याम् । शरत्पद्मस्येवोत्सवो विकासो यस्मिंस्तथाभूतं वक्त्रं श्रवणयोरसृतमिव हर्षजनकं, वचः हृदयं चित्तं तु क्षुरधाराभं परविघातेऽतितीक्ष्णम्, अतः स्त्रीणां चेष्टितं को वेद ? ॥ ४१ ॥ * * तीक्ष्णत्वमेवाह नहीति । हीत्यवधारणे । अञ्जसा साक्षात् स्वप्रयोजनरूपमुपाधिं विना कश्चिदपि स्त्रीणां प्रियो न भवति । तत्र हेतुमाह-स्वाशि - षात्मनामिति, स्वाभिलषिताशीष्षु आत्मा मनो यासां तासामित्यर्थः । अत एवार्थे निमित्ते सति पत्यादीन् घ्नन्ति घातयन्ति चेति ॥ ४२ ॥ वरं ददामीति यन्मया प्रतिश्रुतं तन्मम वचो मृषा न भवेत् इन्द्रोऽपि त्रिलोकेशत्वात् देववात् पुत्रत्वाच्च वधं नार्हतीति तद्वधश्च न भवेदिति द्वयमपेक्षितम् । तत्रेदमुपकल्पते योग्यं भवति । इदमिति किमित्यपेक्षायां प्रकरणवशाद्ग्रन्थाद्द्बहिरेव तज्ज्ञेयम् । तथाहि वैष्णवं व्रतं तावदुपदेक्ष्यामि तेनैवास्याश्चित्तशुद्ध सत्यामिन्द्रे क्रोधो निवर्तिष्यते, तत्प्रभावेण पुत्रश्चामर्त्यो भविष्यति, व्रतस्य वैष्णवत्वात् दीर्घकालत्वे च कथञ्चिद्वैगुण्ये सत्यपि निष्फलत्वं न भविष्यति दुष्फल- दानानत्वेन पुत्रश्चेन्द्रघाती न भविष्यति, किन्तु वरप्रार्थनप्रदानवाक्ययोर्हन्तिधातुप्रयोगात्तस्य गत्यर्थत्वेनापि निर्वाहादिन्द्रा- गो भविष्यति वैगुण्येन स्वदोषविभावनयास्या अनभिज्ञाया मनःसमाधानं च भविष्यतीति ॥ ४३ ॥ हे कुरुनन्दन ! इत्येवं सचिन्त्य कश्यपः तस्याः दुर्भावानुसन्धानेन किचित्कुपितः स्वस्य मोहेन तत्पारवश्यानुसन्धानेन आत्मानं विगर्हयन् तामुवाचेत्यन्वयः । प्रथमत एवं चिन्तनेन किं स्यादिति शङ्कानिरासायाह - भगवानिति, भगवद्दत्तैश्वर्येण यथेष्टसम्पादने समर्थ इत्यर्थः । तत्र हेतुमाह - मारीच इति, भगवतः पौत्रपुत्रत्वेन तपसा च तत्रानुग्रहः सूचितः ॥ ४४ ॥ * * तद्वाक्यमाह - पुत्र इति । हे अभद्रे इति सम्बोधनेन यद्यप्ययं वरस्त्वया ममानभिप्रेतो वृतस्तथापि स्ववचनपरिपालनाय ददामीति सूचयति । संवत्सरपर्यन्तमिदं व्रतं यद्यञ्जः यथावत्त्वं धारयिष्यसि तर्हि ते पुत्र इन्द्रहा भविता, किञ्चिद्वैगुण्ये च व्रतस्य वैष्णवत्वेन सर्वथा
- ५७६
- श्रीमद्भागवतम्
- [स्कं. ६ अ. १८ श्लो. ४१-४८ वैफल्यासम्भवात् पुत्रो देवबान्धवः इन्द्रपक्षपाती भविष्यति ॥ ४५ ॥ * * महत्त्वं सूचयन्ती सम्बोधयति — हे ब्रह्मन् व्रतमहं धारयिष्ये, तत्र यानि कार्याण्यावश्यकानि यानि चेह व्रते निषिद्धानि उत अपि यानि व्रतं न घ्नन्ति नावश्यकानि नच निषिद्धानि किन्त्वभ्यनुज्ञातानि तानि सर्वाण्यपि मे ब्रूहीत्यन्वयः ॥ ४६ ॥ * तत्रैकत्रिंशन्निषेधानाह - पञ्चभिः, तत्र साधारणान दश निषेधानाह - नेति द्वयेन । प्राणिसमूहे कमपि न हिंस्यादित्यर्थः । अनेनेन्द्रवधाशंकापि निषिद्धैवेति सूचितम् । न शपेन्नाक्रोशेत् । यदमङ्गलं कपालास्थ्यादिकं तन्न स्पृशेत् ॥ ४७ ॥
- वसीत न परिदध्यात् । विधृतां पूर्वधृतां स्रजं पुनने धार ॥४७॥ * * अप्सु प्रविश्य न स्नायात् । अधौतं वासो न
- ॥ ४८ ॥
- भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी
- स्त्रीणां स्वभावं प्रकाशयन् परितप्यते शरदिति । अहो स्त्रीणां वक्त्रं मुखं शरत्पद्मस्येवोत्सवः प्रकृष्टविकाशो यस्य तत्, शरचन्द्रसममिति पाठे शरचन्द्रतुल्यं, तथा वचो वचनं च श्रवणामृतं श्रवणयोरमृततुल्यम् । हृदयं, तुरस्य धाराया आभा उपमा यस्य तत् । क्षुरधारेवाभातीति वा । अतः, स्त्रीणां चेष्टितं कः वेद । न कोऽपि विद्यादित्यर्थः ॥ ४१ ॥ * * नहीति । स्वाशिषि स्वापेक्षितार्थ एवात्मा चित्तं यासां तासाम् । स्त्रीणाम् अञ्जसा तत्त्वतः, कश्चिदपि पुमान् प्रियः न अस्ति हि । अत एव अर्थे स्वापेक्षितार्थनिमित्तं पतिं स्वस्वामिनं पुत्रं स्वीयमेकमपि सुतं भ्रातरं स्वसहोदरं वा घ्नन्ति स्वयं मारयन्ति घातयन्ति च । तथा च मनुस्मृतौ सप्तमेऽध्याये शताधिक त्रिपञ्चाशत्तमश्लोकस्य मन्वर्थमुक्तावल्यां टीकायां ‘स्त्रीणामतिविषम- चेष्टितत्वादित्युक्त्वा तथा हीति । ‘शस्त्रेण वेणीविनिगूहितेन विदूरथं वै महिषी जघान । विषप्रदिग्धेन च नूपुरेण देवी विरक्ता किल काशिराजम्’ इत्युक्तम् ॥ ४२ ॥ इदं महत् संकटमित्याह । प्रतिश्रुतमिति । ददामि इति यत् प्रतिश्रुतं तत् मम वचः, मृषा न भवेत् । मिथ्या भवितुं नार्हति । ननु वचसोऽनृतताभयेन दास्यामि चेदिन्द्रो हन्येतेत्यत्राह । इन्द्रश्चापि वधं न अर्हति । अत इदं महत् संकटं प्राप्तमिति भावः । तत्रैतस्मिन् संकटे, मया इदं वक्ष्यमाणं उपकल्पते संकटनिवृत्तये योग्यं भवति । अयं भावः । अस्यै वैष्णवं व्रतं तावदुपदेक्ष्यामि तेनैवास्याः शुद्धचित्ताया इन्द्रे जातः क्रोधो निवर्त्तिष्यते पुत्रस्त्वमत्य भविष्यति । दीर्घकालत्वे च व्रतस्य वैगुण्यत्वे सति त्विन्द्रस्य बधोऽपि न भविष्यति इति ॥ ४३ ॥
- इतीति । हे कुरुनन्दन, भगवानैश्वर्यसंपन्नः, मारीचः मरीचेः पुत्रः कश्यपः, इतीत्थं संचिन्त्यालोच्य, किंचित् कुपितः मनसैवेति शेषः आत्मानं विगर्हयन् संश्च उवाच हि ॥ ४४ ॥ * पुत्रस्ते इति । हे भद्रे ! इदं मयोच्यमानं व्रतम् अञ्जः सम्यक् संवत्सरं संवत्सरपर्यन्तं यदि त्वं धारयिष्यसि । तर्हि तु ते तव पुत्रः इन्द्रहा इन्द्रस्य हन्ता भविता भविष्यति । नो चेत् देवबान्धवः भविष्यति ॥ ४५ ॥ * * धारयिष्ये इति । हे ब्रह्मन् व्रतम् अहं धारयिष्ये । मे मया, कार्याणि अवश्यं कर्त्तव्यानि यानि तानि ब्रूहि । इह व्रते यानि निषिद्धानि एतावन्ति कार्याणि न कर्त्तव्यानीत्येवं प्रतिषिद्धानि स्युस्तान्यपि ब्रूहि । उत यानि व्रतं न घ्नन्ति, नावश्यकानि न च निषिद्धानि तानि च ब्रूहि ॥ ४६ ॥ एवमुक्तस्तावद् व्रताङ्गभूतान्नियमान् ब्रुवंस्तावदे- कत्रिंशन्निषेधानाह न हिंस्यादिति पञ्चभिः । न हिंस्यादिति । भूतजातानि प्राणिसमूहान् न हिंस्यान्न हन्यात् ॥ १ ॥ तथा कंचन, शपेन्नाक्रोशेत् ॥ २ ॥ अनृतमसत्यं च न वदेत् || ३ || नखरोमाणि नखान् शारीररोमाणि च न छिन्द्यात् ॥ ४ ॥ यत् अमङ्गलं केशकपालास्थितुषभस्मादि तत् न स्पृशेत् ॥ ५ ॥ ४७ ॥
- नाप्सु इति । अप्सु जलेषु प्रविश्य, न
- ।
- "
- ,
- *
- स्नायात् ।। ६ ।। कस्मैचिदपि न कुप्येत ॥ ७ ॥ दुर्जनैः सह न संभाषेत ॥ ८ ॥ अधौतवासः अक्षालितवस्त्रं न आवसीत नाच्छादयेन्न बिभृयाच्चेत्यर्थः ॥ ९ ॥ विवृतां पूर्व स्वाङ्गे धृतामन्यविवृतां वा, स्रजं पुष्पादिमालां च क्वचित् पुनः न वसीत स्वाने पुनर्न धारयेदित्यर्थः ॥ १० ॥ ४८ ॥
- "
- *
- भाषानुवादः
- सच है, स्त्रियोंके चरित्रको कौन जानता है । इनका मुँह तो ऐसा होता है जैसे शरद् ऋतुका खिला हुआ कमल । बातें सुननेमें ऐसी मीठी होती हैं मानो अमृत घोल रक्खा हो । परन्तु हृदय, वह तो इतना तीखा होता है मानो छूरेकी पैनी धार हो । ४१ ॥ इसमें सन्देह नहीं कि स्त्रियाँ अपनी लालसाओंकी कठपुतली होती हैं । सच पूछो तो वे किसीसे प्यार नहीं करतीं । स्वार्थवश वे अपने पति, पुत्र और भाई तकको मार डालती हैं या मरवा डालती हैं ।। ४२ ॥ अब तो मैं कह चुका हूँ कि जो तुम माँगोगी, दूँगा । मेरी बात झूठी नहीं होनी चाहिये । परन्तु इन्द्र भी वध करने योग्य नहीं हैं। अच्छा, अब इस विषय में मैं यह युक्ति करता हूँ ।। ४३ ।। * * प्रिय परीक्षित् ! सर्वसमर्थ कश्यपजीने इस प्रकार मन-ही-मन अपनी भर्त्सना करके दोनों बात बनानेका उपाय सोचा और फिर तनिक रुष्ट होकर दिति से कहा ॥ ४४ ॥ कश्यपजी बोले- कल्याणि ! यदि तुम मेरे बतलाये हुए व्रतका एक वर्षतक विधिपूर्वक पालन करोगी तो तुम्हें इन्द्रको मारने- वाला पुत्र प्राप्त होगा । परन्तु यदि किसी प्रकार नियमोंमें त्रुटि हो गयी तो वह देवताओंका मित्र बन जायगा ।। ४५ ।। * *
स्कं. ६ अ. १८ श्लो. ४९-५६ ] अनेकन्याख्यासमण्कृतम् ५७७ दितिने कहा — ब्रान् ! उस व्रतका पालन करूँगी। आप बतलाइये कि मुझे क्या-क्या करना चहिये, कौन-कौन से काम छोड़ देने चाहिये और कौनसे काम ऐसे हैं, जिनसे व्रत भङ्ग नहीं होता ॥ ४६ ॥ कश्यपजी ॥ ॥
- कश्यपजीने उत्तर दिया-प्रिये ! इस व्रतमें किसी भी प्राणीको मन, वाणी या क्रियाके द्वारा सताये नहीं, किसीको शाप या गाली न दे, झूठ न बोले, शरीरके नख और रोएँ न काटे और किसी भी अशुभ वस्तुका स्पर्श न करे ॥ ४७ ॥ * * जलमें घुसकर स्नान न करें, क्रोध न करे, दुर्जनोंसे बातचीत न करे, बिना धुला वस्त्र न पहने और किसीकी पहनी हुई माला न पहने ॥ ४८ ॥ ॥ ४९ ॥ ५० ॥ ५१ ॥ ५२ ॥ ५३ ॥ नोच्छिष्टं चण्डिकान्नं च सामिषं वृषलाहृतम् । भुञ्जीतोदक्यया दृष्टं पिवेदञ्जलिना त्वपः ॥ नोच्छिष्टास्पृष्टसलिला सन्ध्यायां मूक्तमूर्धजा । अनचितासंयतवाङ् नासंवीता बहिश्वरेत् ॥ नाधौतपादाप्रयता नार्द्रपान्नो उदक्शिराः । शयीत नोपराङ्नान्यैर्न नग्ना न च सन्ध्ययोः ॥ धौतवासाः शुचिर्नित्यं सर्वमङ्गलसंयुता । पूजयेत्प्रातराशात्प्राग्गोविप्रान् श्रियमच्युतम् ॥ स्त्रियो वीरवतीचात्स्रग्गन्धबलिमण्डनैः । पतिं चाच्योपतिष्ठेत ध्यायेत्कोष्ठगतं च तम् सांवत्सरं पुंसवनं व्रतमेतदविप्लुतम् । धारयिष्यसि चेत्तुभ्यं शक्रहा भविता सुतः ॥ बाढमित्य भिप्रेत्यादिती राजन् महामनाः । काश्यप गर्भमाधत्त व्रतं चा जो दधार सा ।। ५५ ।। मातृष्वसुरभिप्रायमिन्द्र आज्ञाय मानद । शुभ षणेनाश्रमस्थां दितिं पर्यच रत्कविः ॥ ५६ ॥ श्रीकृष्णप्रिया व्याख्या ५४ ॥ अन्वयः - उच्छिष्टम् चण्डिकान्नम् सामिषम् वृषलाहृतम् च उदक्यया दृष्टम् न भुञ्जीत अपः तु अंजलिना न पिबेत् ॥ ४९ ॥ * * उच्छिष्टा अस्पृष्टसलिला संध्यायाम् मुक्तमूर्धजा अनचिंता असंयतवाक् असंवीता बहिः न चरेत् ॥ ५० ॥ * * अधौतपादा न शयीत अप्रयता न आर्द्रपाद् नो शयीत उदवििशराः न अपराकून अन्यैः न नग्मा न संध्ययोः शयीत ।। ५१ ।। * * धौतवासाः शुचिः सर्व मंगलसंयुक्ता प्रातराशात् प्राक् गोविप्रान् श्रियम् अच्युतम् नित्यम् पूजयेत् ॥ ५२ ॥ * * च वीरवतीः स्त्रियः स्रग्गन्धबलिमंडनैः अर्चेत् पतिम् आर्य उपतिष्ठेत च तम् कोष्ठगतम् ध्यायेत् ॥ ५३ ॥ * * सांवत्सरम् एतत् पु’सवनम् व्रतम् अविप्लुतम् धारयिष्यसि चेत् तुभ्यम् शक्रहा सुतः राजन् अथ दितिः बाढम् इति अभिप्रेत्य महामनाः सा काश्यपम् गर्भम् आधत्त च व्रतम् अंज: दधार ।। ५५ ।। * * मानद कविः इंद्रः मातुष्वसुः अभिप्रायम् आज्ञाय शुश्रूषणेन आश्रमस्थाम् दितिम् पर्यचरत् ॥ ५६ ॥ भविता ।। ५४ ।। * * श्रीधरस्वामिविरचिता भावार्थदीपिका t भोजने पञ्च निषेधानाह । नोच्छिष्टमिति । चंडिकानं भद्रकाल्यै निवेदितं पिपीलिकादिदूषितं वा । अंजलिना त्वपो जलं न पिबेत् ॥ ४६ ॥ ॥ ॥ ४६ ॥ * * गृहाद्द्बहिर्निर्गमे सप्त निषेधानाह । नोच्छिष्टेति । अनर्चिता मंडनहीना । असंवीता - पावृता ।। ५० ॥ * * शयनेऽष्टौ निषेधानाह । नाधौतपादेति नापराक्पश्चिमशिराः ॥ ५१ ॥ * * कार्याण्याह । ॥ ॐ धौतवासा इति द्वाभ्याम् प्रातराशात्प्रथमभोजनात् ।। ५२ ।। वीरवतीर्जीवद्भर्तृकाः । आर्य संपूज्य । कोष्ठगतं कुक्ष्यंतरगतम् ॥ ५३ ॥ * * पुंसवनं पुत्रोत्पत्तिकरम् । तुभ्यं तव ।। ५४-५७ ।। वंशीधरकृतो भावार्थदीपिकाप्रकाशः भद्रकाली दुर्गा । ननु ‘न त्यजेद्देवनैवेद्यम्’ इत्युक्तेः कथमुक्तं भद्रकाल्यै निवेदितं नाद्यादिति तत्राह —– पिपीलिकादीति ‘चंडिका स्यात्पिपीलिका’ इत्यभिधानात् । आदिना मक्षिकादिग्रहः । आमिषम् ‘आमिषं शूद्रशेषान्नं कन्यावित्तं तथामिषम् । आमिषं चर्मगं वारि प्रेतान्नं चामिषं स्मृतम्” इति “गोच्छा गीमहिषी दुग्धादन्यदुग्धमिहामिषम्” इत्यादिना सप्तस्कंधे विस्तरेण वक्ष्यामः । वृषलेन शूद्रेण स्वधर्मविमुखेन वा नीतं वृषं धर्म लुनातीति वृषल इति व्युत्पत्तेः । ‘उदक्या तु रजस्वला’ इत्यभि- १. प्रा० पा० - नार्द्रपादा | २. प्रा० पा० - नापराह्णे वै नग्ना च न च । ३. प्रा० पा० – त्यभ्युपेत्या० । ४. प्रा० पा०- कश्यपाद्गभं० । ५. प्रा० पा० - राजन् । ६. प्रा० पा० - चरद्धरिः । ७३ । श्रीमद्भागवतम् [ स्कं. ६ अ. १८ श्लो. ४९-५६ धानात् ।। ४९ ।। * अस्पृष्टसलिलाऽनाचांता । असंयतवाक्-त्यक्तमौना । अपावृता वस्त्रवर्जिता ।। ५२ ।। * अधौतपादा पादशौचहीना । अप्रयताऽपवित्रा ‘पवित्रः प्रयतः पूतः’ इत्यमरः । आर्द्रपात् प्रक्षालनोत्तरं वस्त्रेणामार्जितपादा । उदक्छिरा : उत्तराशाकृतशिराः । “प्राच्यां दिशि शिरः शस्तं याम्यायामथ वा नृप । सदैव स्वपतः पुंसो विपरीतं न शोभनम् ।।" इति पुराणांतरात । पुंस इत्युपलक्षणम् । अपरां पश्चिमदिशमंचति शिरसा प्राप्नोति अपराकू तादृशं यथा स्यात्तथेति क्रियाविशेषणत्वेऽपि तद्विशेषणत्वे एव तात्पर्यात् । पश्चिमशिरा इत्येवार्थः । यद्वाऽपराची प्रतीची ततो ल्यब्लोपे पंचम्यंतात् “दिक्शब्देभ्यः" इत्यादिना स्वार्थ एवास्तातिप्रत्ययः । यस्य च “अंचतेलुक्” इति लुकि “लुक् तद्धितलुकि” इति स्त्रीप्रत्ययस्य च लुकि अपरागिति । ते प्रतीचीमारभ्य तां पूर्वाङ्गसात्कृत्येति तथैवार्थ इति संदर्भः ।। ५१-५२ ।। * * “युक्ता या पतिपुत्राभ्यां ज्ञेया वीरवती हि सा” इत्यपि केचित् ।। ५३ ।। * * पुमान्सूयतेऽनेनेति पुंसवनम् । संवत्सर- साध्यं सांवत्सरम् अविप्लुतं ।। ।। भवंति तद्वत्साऽपीति भावः । काश्यपं कश्यपेनाहितं काश्यपं क्वचित्कश्यपादित्यपि पाठः । अंजः शीघ्रम् ॥ ५५ ॥ * * भवंति तद्वत्साऽमी निष्चितं सांगोपांगम् ॥ ५४ ॥ * * राजन्निति । राजानो यथा निजाभिला पिताप्तये परानिष्टमनसो मातृष्वसुर्दितेः कविः स्वकार्यसंपादननिपुणः । हे मानदेति । यथा राजानो रिपोरपि पूर्व मानं कृत्वा पश्चात्तदनिष्टं कुर्वन्ति तथाऽयमपि पूर्व मानं दत्त्वा पश्चात्तत्खंडिष्यतीति भावः । मानदेत्यत्र डुदाञ् दापोर्द्वयोरर्थावलंबने नोभयार्थसिद्धिः ।। ५६ ।। अन्वितार्थप्रकाशिका
- नोच्छिष्टमिति । उच्छिष्टं न भुञ्जीत । चण्डिकान्नं भद्रकाल्यादिनिवेदितमन्नं पिपीलिकादिदूषितमन्नं वा न भुञ्जीत । " चण्डिका स्यात्पिपीलिका” इत्यभिधानात् । सामिषं मांससहितं वृषलाहृतं शूद्रानीतमन्नं न भुञ्जीत । उदक्यया रजस्वलया दृष्टमन्नं न भुञ्जीत । अञ्जलिना त्वपो न पिबेत् ॥ ४९ ॥ * * नोच्छिष्टेति । उच्छिष्टा उच्छिष्टमुखी सती अस्पृष्टसलिला अधोहस्तपादा च मुक्तमूर्द्धजा अनर्चिता मण्डनहीना असंयतवाक असंवीता अप्रावृता च बहिर्न चरेत् इति सर्वत्रान्वेति । तथा सन्ध्यायां बहिर्न चरेत् ॥ ५० ॥ नाधौतेति । न शयीतेत्यष्टस्वप्यन्वेति । अप्रयता अशुचिः अपराक् पश्चिम- शिराः अन्यैः स्त्रीजनैरपि सह । स्पष्टं शेषम् ॥ ५१ ॥ ॐ धौतेति धौतवासाः शुचिः सर्वमङ्गलसंयुता गृहीतपूजोपकरणा
- प्रातराशात् प्रथमभोजनात् प्राड् नित्यं गोविप्रादीन् पूजयेत् ॥ ५२ ॥ * * स्त्रिय इति । वीरवतीः जीवद्भर्तृकाः स्त्रियः गन्धाद्यैरर्चेत् । पतिं च आर्च्य आ सर्वप्रकारैः संपूज्य उपतिष्ठेत स्तुवीत । कोष्ठगतं कुक्ष्यन्तरगतं च तं पतिं ध्यायेत् ॥ ५३ ॥ सांवत्सरमिति । सांवत्सरं संवत्सरेऽनुष्ठेयं पुंसवनं पुत्रोत्पत्तिकरम् इदं व्रतम् अविप्लुतं निर्विघ्नं धारयिष्यसि तदा तुभ्यं तव इन्द्रा सुतो भविता अन्यथा विन्द्रबान्धवो भविष्यतीति सूचितम् ॥ ५४ ॥ * बाढमिति । हे राजन् ! सा दितिः बाढमेवं धारयिष्यामीत्यभिप्रेत्य अङ्गीकृत्य महामनाः हृष्टमनाः सती काश्यपं गर्भं वीर्यमाधत्त अब्जो यथावत्प्रयत्नेन व्रतं च दधार ॥ ५५ ॥ * * मातृष्वसुरिति । हे मानद राजन् ! कविः कार्यसाधनकुशलः इन्द्रः स्वमातृष्वसुर्दित्या अभिप्रायमाज्ञाय ते विघ्नेन स्वकार्यसिद्धयर्थं तामाश्रमस्थां व्रतस्थामदितिं शुश्रूषणेन सेवया सह नित्यं पर्यचरत् तदपेक्षितं सर्व सम्पादितवान् ।। ५६ ।। वीरराघवव्याख्या
- भोजने पञ्च निषिद्धान्याह - उच्छिष्टं चण्डिकानं भद्रकाल्यै निवेदितं सामिषं पिपीलिकादिदूषितं वृषलाहृतं शूद्रानीतं उदक्यया रजस्वलया दृष्टं चानं न भुञ्जीत अञ्जलिना अपः जलं न पिबेत् ॥ ४९ ॥
- उच्छिष्टा चेत् अस्पृष्टसलिला न भवेत् किन्तु जलं स्पृशेदित्यर्थः । सन्ध्ययोः सायं प्रातः मुक्ताः मूर्द्धजाः केशाः यया तादृशी तथा अनर्चिता अनलङ्कृता च न भवेत् न संयता वाक् यया सा न भवेत् असंवीता अप्रावृता बहिर्न चरेत् ॥ ५० ॥
- अधौतौ पादौ यया सा अप्रयता
- असमाहितचित्ता न शयीत तथा आद्र पादौ यस्याः उदक् उत्तरदिशि शिरो यस्याः अपरा पश्चिमशिराश्च न शयीत तथाऽन्यै- रसह नग्ना विवसना च तथा सन्ध्ययोरपि न शयीत ॥ ५१ ॥ * धौतं वासो यस्याः सा नित्यं सदा शुचिः सर्वैर्मङ्गलै- हरिद्राचन्दनादिभिर्मङ्गलद्रव्यैः संयुता, प्रातराशात् प्रातर्भोजनात्प्रागेव गाः विप्रान् श्रियं महालक्ष्मीमच्युतञ्च पूजयेत् ।। ५२ ।। तथा वीरवतीः पुत्रवतीः जीवद्भर्तृकाः नारीच सगादिभिरर्चयेत्, बलिरुपायनं मण्डनमलङ्कारः तथा पतिचार्य संपूज्य उपसमीपे तिष्ठेत तं पतिं कोष्ठगतं ध्यायेत् स्वपतिमेव स्वोदरगतं ध्यायेत् ॥ ५३ ॥ * एतदङ्गकलापेन युक्तं पुंसवनाख्यम् इदं सांवत्सरं संवत्सरपर्यन्तं कार्य्यं व्रतम् अविप्लुतमविकलं यथा तथा धारयिष्यसि चेदिन्द्रस्य हन्ता पुत्रस्तव भविष्यति ॥ ५४ ॥ इत्येवमुक्ता दितिः, हे राजन् ! बाढमित्यङ्गीकृत्य अथ महामनाः उक्तव्रतासक्तमनाः सती कश्यपादर्भमाधत्त दधार तथा अञ्ज: सम्यग्व्रतञ्च दधार ।। ५५ ॥ * * तत इन्द्रः कविः विद्वान् अत एव मातृभगिन्याः दितेः अभिप्रायं ज्ञात्वा, हे मानद ! आश्रमस्थां व्रतस्थां कश्यपस्याश्रमस्थां वा दितिं शुश्रूषणेन पर्यचरत् ।। ५६ ।स्कं. ६ अ. १८ श्ला. ४९-५६]
- अनेकव्याख्यासमलङ्कृतम्
- विजयध्वजतीर्थकृता पदरत्नावली
- *
- *
- ५७९
- afusari प्तमातृभ्योऽर्पितमन्नं पिपीलिका मूषिकाभोज्यं उदक्यया रजस्वलया ॥ ४९ ॥ * अनर्चिता अलङ्काररहिता असंवीता प्रावरणादिरहिता ॥ ५० ॥ * अपरा पश्चिमशिरा न शयीत ॥ ५१ ॥ प्रात- राशात् प्रातः कालभोजनात्पूर्वम् ।। ५२ ।। वीरवतीः भर्तृसहिताः पतिमभ्यर्योपतिष्ठेत स्तुतिं कुर्यात्पतिस्थितं परमा- त्मानं कोष्ठगतं हृदिगतं ध्यायेत् स्वबाह्यान्तरगतं वा । नाम्ना पुंसवनम् ।। ५३-५५ ।। 8 * मातृष्वसुः मातुरदित्याः स्वसुर्दित्याः ।। ५६-६० ।
- जीवगोस्वामिकृतः क्रमसन्दर्भ :
- अपरां पश्चिमदिशमञ्चति शिरसा प्राप्नोति अपराक तादृशं यथा स्यात्तथेति क्रियाविशेषणत्वेपि तद्विशेषणत्व एव तात्पर्यात् पश्चिमशिरा इत्येवार्थः । यद्वा अपराची प्रतीची । ततो ‘ल्यप्लोपे पञ्चम्यन्ताद्दिक्शब्देभ्यः’ इत्यादिना स्वार्थ एवास्ताति- प्रत्ययः । तस्य चाञ्चतेर्लुगिति लुक् तद्धितलुगिति स्त्रीप्रत्ययस्य लुक् ततो अपरागिति स्थिते प्रतीचीमारभ्य तां पूर्वाङ्गसात्कृत्येति तथैवार्थः ।। ५१-६२ ।
- विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी
- ।
- भोजने पञ्च निषेधानाह - नोच्छिष्टमिति । चण्डिकान्नं दुर्गानिवेदितं पिपीलिकास्पृष्टा “चण्डिका स्यात् पिपीलिका” इत्यभिधानात् । उदक्यया रजस्वलया ॥ ४६ ॥
- गृहाद्द्बहिर्निर्गमे सप्त निषेधानाह—नोच्छिष्टेति । अस्पृष्टसलिला अनाचान्ता अनर्चिता निर्भूषणा असंवीता अप्रावृतसर्वाङ्गा ॥ ५० ॥ * * शयने अष्टौ निषेधानाह - नाधौतपादेति । ।।
- अप्रयता अपवित्रा “पवित्रः प्रयतः पूतः” इत्यमरः । न अपराक पश्चिमशिराः ।। ५१ ।। ऋ कत्तव्यानाह - प्रातराशा-
- ॥ ॥ * वीरवतीः जीवद्भर्तृका: कोष्ठगतं कुक्ष्यन्तरगतम् ॥ ५३ ॥ पुंस- ड्रोजनात् प्राक् प्रातः पूजयेत् ॥ ५२ ॥ वनं पुत्रोत्पत्तिकरम् ।। ५४-५५ ।। मातृष्वसुर्दितेः ।। ५६-५८ ।।
- शुकदेवकृतः सिद्धांत प्रदीप:
- भोजने पञ्च निषेधानाह - नोच्छिष्टमिति । चण्डिकान्नं भद्रकाल्यै निवेदितम् " चण्डिका स्यात्पिपीलिका” इत्यभिधा- नात् पिपीलिकादूषितञ्च सामिषं सूक्ष्मकृमिनिराकरणाभावेनाशोधितमित्यर्थः । वृषलाहृतं शूद्रानीतम् उदक्यया रजस्वलया दृष्टं च न भुञ्जीत अञ्जलिना अपो न पिबेत् ॥ ४९ ॥ * * गृहान्निर्गमे सप्त निषेधानाह - नोच्छिष्टेति । उच्छिष्टा अकृता- चमना अस्पृष्टसलिला असलिला अस्नाता अनर्चिता अभूषिता
- निषेधानाह नाधौतपादेति । अप्रयता अपवित्रा पवित्रः पूतद्रवात् कि अनावृतसर्वाङ्गा ।। ५० ।। * * शयनेऽष्टौ
- वीरवतीः
- अपराक् पश्चिमशिराः ।। ५१ ।। * * कार्याण्याह-धौतवासा इति द्वाभ्याम् । प्रातराशात् प्रथमभोजनात् प्राकू गवादीन् पूजयेत् ।। ५२ ।। जीवद्भर्तृकाः स्रग्भिर्गन्धैः बलिभिरुपायनैः मण्डनैः अलङ्कारैश्चार्चेत पतिश्चार्च्य संपूज्योपतिष्ठेत तत्स्तुतिपरा रमीपे स्थिता भवेत् कोष्ठगतमुदरगतं ध्यायेत् ॥ ५३ ॥ सांवत्सरं संवत्सरानुष्ठेयं पुंसवनं पुत्रदं तुभ्यं तव । ५४ ।। * * बाढ - मित्यभ्युपेत्य अङ्गीकृत्य ।। ५५ ।। * * कविः स्वार्थवित् ।। ५६-५७ ।।
- ॥
- ।
- गोस्वामिगिरिधरलालविहिता बालप्रबोधिनी
- भोजने पञ्च निषेधानाह - नोच्छिष्टमिति । पञ्चस्वपि द्वितीयान्तपदेषु न भुञ्जीतेत्यन्वेति । चण्डिकानं भद्रकाल्यादि- निवेदितमन्नं पिपीलिकादिदूषितमन्नं वा । ’ चण्डिका स्यात्पिपीलिका’ इत्यभिधानात् । उदक्यया रजस्वलया दृष्टमन्नम् । afear at न पिबेत् ॥ ४६ ॥ गृहाद्द्बहिर्निर्गमे सप्त निषेधानाह—नोच्छिष्टेति । उच्छिष्टा उच्छिष्टमुखी । अस्पृष्टसलिला अधtतह तपादा | अनचिता मण्डनहीना । असंवीता अप्रावृता । बहिर्न चरेदिति सप्तस्वप्यन्वेति ॥ ५० ॥ शयनेऽष्टौ निषेधानाह– नाधौतपादेति । न शयीतेत्यष्टस्वप्यन्वेति । अप्रयता प्रमत्ता । अपराक् पश्चिमशिराः । अन्यैः स्त्रीजनै- रपि सह ।। ५१ ।। * * कार्याण्याह-धौतवासा इति द्वयेन । मङ्गलसंयुता गृहीतपूजोपकरणा प्रातराशात् प्रथमभोजनात् प्राग्विप्रादीन् पूजयेत् ।। ५२ ॥ वीरवतीः जीवद्भर्तृकाः । आर्च्य सम्पूज्य । उपतिष्ठेत स्तुवीत । कोष्ठगतं कुक्ष्यन्त-
- । रगतम् ।। ५३ ।। * * * पुंसवनं पुत्रोत्पत्तिकरम् | अविप्लुतं निर्विघ्नम् तुभ्यं तव । चेदित्यनेन अन्यथेन्द्रबान्धवो
- श्रीमद्भागवतम्
- [ स्कं. ६ अ. १८ लो. ४९-५६ भविष्यतीति सूचितम् ॥ ५४ ॥ हे राजन् सा दितिः बाढमेवमेव धारयिष्यामीत्यभिप्रेत्य अङ्गीकृत्य महामनाः निर्विनं श्रुतं करिष्याम्येबेन्द्रहन्ता पुत्रो अधिमानद राजन् इन्द्रः स्वमातृष्वसुर्दित्या अभिप्रायमाज्ञाय ते विघ्नेन स्वकार्य- निर्विनं व्रतं करिष्याम्येवेन्द्रहन्ता पुत्रो भविष्यत्येवेत्यभिमानेन हृष्टमनाः सती काश्यपं गर्भ वीर्यमाधत्त अजो यथावत् प्रयत्नेन
- व्रतं च दधारेत्यन्वयः ॥ ५५ ॥
- व्रते
- सिद्धयर्थं तामाश्रमस्थां व्रतस्थामदितिं शुश्रूषणेन सेवया सह पर्यचरत् तदपेक्षितं सर्व सम्पादितवान् । यतः कविः एवमेतदनु- वृत्त्यैव मम कार्यं सेत्स्यतीति ज्ञानवान् ।। ५६ ।।
- ॥
- भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी
- अथ भोजने पञ्च निषेधानाह । नोच्छिष्टमिति । उच्छिष्टं स्वपरभुक्तावशिष्टम् अन्नं न भुञ्जीत ॥ ११ ॥ चण्डिकानं भद्रकाल्यै निवेदितमन्नं च न भुञ्जीत ॥ १२ ॥ सामिषं समांसं पिपीलिकादिदूषितं चान्नं न भुञ्जीत ॥ १३ ॥ वृषलाहृतं शूद्रानीतमन्नं, न भुञ्जीत ॥ १४ ॥ उदक्यया रजस्वलया,
- १४ ॥
- रजस्वलया, दृष्टं, इदं सूतिकादृष्टस्याप्युपलक्षणम् । अन्नं न भुञ्जीत ।। १५ ।। अञ्जलिना, अपो जलं, न पिबेत् हि ।। १६ ।। ४९ ।। गृहाद्द्बहिर्निर्गमने सप्त निषेधानाह । नोच्छिष्टेति । उच्छिष्टा बहिः, न चरेत्। स्वगृहाद्द्बहिर्न गच्छेदित्यर्थः ॥ १७ ॥ अस्पृष्टसलिला अस्पृश्यगृहोचितपदार्थस्पर्शेऽपि अस्नाता बहिर्न चरेदित्यर्थः ॥ १८ ॥ संध्यायां सायंप्रातः संध्ययोः, बहिः न चरेत् ॥ १९ ॥ मुक्ता छुट्टा मूर्द्धजा मूर्द्धकेशा यस्यास्तथाभूता च, बहिः न चरेत् ।। २० ।। न अनर्चिता अनलंकृता, मण्डनहीनेति यावत् । बहिर्न चरेत् ॥ २१ ॥ न संयता वाग्यया तथाभूता, बहिर्न चरेत् ।। २२ ।। असंवीता अप्रावृता सती च, गृहाद्बहिर्न चरेत् ।। २३ ।। ५० ।। * * शयनेऽष्टौ निषेधानाह । नाधौतेति । न धौतौ पादौ यया सा तथाभूता न शयीत ।। २४ ।। अप्रयता असमाहितचित्ता, न शयीत ।। २५ ।। आद्र पादौ यस्याः सा तादृशी ।। २६ ।। उदगुत्तरदिशि शिरो यस्यास्तथाभूता च, नो शयीत ।। २७ ।। नापराकू पश्चिमशिराः न शयिते- त्यर्थः ॥ २८ ॥ अन्यैः न अन्यैः साकं, शयीत ।। २९ ।। नग्मा वस्त्रपरिधानरहिता न शयीत ॥ ३० ॥ संध्ययोश्च संध्याद्वये इत्यर्थः । न शयीत ।। ३१ ।। ५१ ।। * * एवं निषेधानुक्त्वाथ कार्याण्याह धौतवासा इति द्वाभ्याम् । धीतवासा इति । धौतं वासो वस्त्रं यस्याः सा ।। ३२ । शुचिः सर्वकालं शुचितोपेता ॥ ३३ ॥ नित्यं सर्वाणि यानि मङ्गलानि हरिद्राचन्दनादि- द्रव्याणि तैः संयुता सती ॥ ३४ ॥ प्रातराशात् प्रथमभोजनात्, प्राकू पूर्वमेव, गोविप्रान् धेनूर्ब्राह्मणांश्चेत्यर्थः । पूजयेत् ।। ३५-३६ ।। श्रियं महालक्ष्मीम् ॥ ३७ ॥ अच्युतं तत्पतिं नारायणं च पूजयेत् ॥ ३८ ॥ ५२ ॥ * * स्त्रिय इति । वीरवतीर्जीवद्भर्तृकाः, स्त्रियोऽङ्गनाश्च, स्रुग्गन्धबलिमण्डनैः, अर्चेत् पूजयेत् । स्रजः पुष्पहाराः, बलय उपायनानि, मण्डनान्य- लंकाराः, ।। ३९ ।। पतिं स्वस्वामिनं च, आर्च्य पूजयित्वा ॥ ४० ॥ उपतिष्ठेत स्वपत्युः स्तुतिं कुर्यादित्यर्थः । ततः, कोष्ठगतं स्वहृत्पद्मावस्थितं, तं स्वपतिशरीरतयाऽवस्थितं हरिं च ध्यायेत् ॥ ४१ ॥ ५३ ॥ * * सांवत्सरमिति । पुंसवनं पुत्रोत्प- त्तिकर, एतत व्रतं, अविप्लुतमविकल यथा तथा, सांवत्सरमेकवर्षपर्यन्तं, धारयिष्यसि चेत्, तुभ्यं तव सुतः पुत्रः शक्रहा इन्द्रस्य हन्ता भविता भविष्यति ॥ ५४ ॥ * * बाढमिति । हे राजन, इत्यमुना प्रकारेण उक्ता दितिः, बाढम् इति अभिप्रेत्याङ्गीकृत्य, अथ महामनाः उक्तव्रतासक्तमनाः सती, काश्यपं कश्यपात् प्राप्तं गर्भम् आधत्त दधार । अञ्जः सम्यकू, सा व्रतं च दधार ।। ५५ ।। * * मातृष्वसुरिति । ततः, हे मानद, कविर्विद्वान् इन्द्रः, मातृष्वसुः स्वमातृभगिन्याः दितेः, अभिप्रायम् आज्ञाय ज्ञात्वा, आश्रमस्थां कश्यपस्याश्रमावस्थितां, दितिं, शुश्रूषणेन, पर्यचरत्। सेवानिमित्तेन तदन्तिकेऽस्थात् ।। ५६ ॥
- ।
- भाषानुवादः
- ,
- जूठा न खाय, भद्रकालीका प्रसाद या मांसयुक्त अन्नका भोजन न करे । शूद्रका लाया हुआ और रजस्वलाका देखा
- *
- हुआ
- अन्न भी न खाया जाय और अञ्जलिसे जलपान न करे ।। ४९ ।। * जूठे मुँह, बिना आचमन किये, सन्ध्याके समय, बाल खोले हुए, बिना शृङ्गारके, वाणीका संयम किये बिना और बिना चद्दर ओढ़े घर से बाहर न निकले || ५० ॥ * बिना पैर धोये, अपवित्र अवस्थामें, गीले पाँवोंसे, उत्तर या पश्चिम सिर करके, दूसरेके साथ नग्नावस्था में तथा सुबह-शाम सोना नहीं चाहिये ।। ५१ ।। * इस प्रकार इन निषिद्ध कर्मोंका त्याग करके सर्वदा पवित्र रहे, धुला वस्त्र धारण करे और सभी सौभाग्यके चिह्नोंसे सुसज्जित रहे प्रातः कालः कलेवा करनेके पहले ही गाय, ब्राह्मण, लक्ष्मीजी और भगवान् नारायणकी पूजा करे ।। ५२ ।। * * इसके बाद पुष्पमाला, चन्दनादि सुगन्धद्रव्य, नैवेद्य और आभूषणादिसे सुहागिनी स्त्रियों की पूजा करे तथा पतिकी पूजा करके उसकी सेवामें संलग्न रहे और यह भावना करती रहे कि पतिका तेज मेरी कोखमें स्थित है ।। ५३ ।। * * प्रिये ! इस व्रतका नाम ‘पु’सवन’ है यदि एक वर्षतक तुम इसे बिना किसी त्रुटिके पालन कर
- स्कं. ६ अ. १८ श्लो. ५७-६४ ]
- अनेकव्याख्यांसमलङ्कृतंम्
- सकोगी तो तुम्हारी कोखसे इन्द्रघाती पुत्र उत्पन्न होगा ॥
- • निश्चयवाली थी । उसने ‘बहुत ठीक’ कहकर उनकी आ २४॥ * * परीक्षित् । दिति बड़ी मनस्विनी और दृढ
- स्वीकार कर ली। अब दिति
- अपनी कोखमें भगवान् कश्यपका वीर्य और जीवन में उनका बतलाया हुआ व्रत धारण करके अनायास ही नियमोंका पालन करने लगी ।। ५५ ।। * * प्रिय परीक्षित् ! देवराज इन्द्र अपनी मौसी दितिका अभिप्राय जान बड़ी बुद्धिमानी से अपना वेष बदलकर दितिके आश्रम पर आये और उसकी सेवा करने लगे ।। ५६ ।।
- |
- ।।
- ५७ ॥
- ५८ ॥
- ६० ॥ की
- नित्यं वनात्सुमनसः फलमूलसमित्कुशान् । पत्राङ्कुरमृदोऽपथ काले काल उपाहरत् ॥ एवं तस्या व्रतस्थाया व्रतच्छिद्रं हरिर्नृप । प्रेप्सुः पर्यचरजिह्नो मृगहेव मृगाकृतिः ॥ नाध्यगच्छद् व्रतच्छिद्रं तत्परोऽथ महीपते । चिन्तां तीव्रां गतः शक्रः केन मे स्याच्छिवं त्विह ५९ ॥ एकदा सा तु सन्ध्यायामुच्छिष्टा व्रतकशिता । अस्पृष्टवार्यधौताङ्घ्रिः सुष्वाप विधिमोहिता ॥ लब्ध्वा तदन्तरं शक्रो निद्रापहृतचेतसः । दितेः प्रविष्ट उदरं योगेशो योगमायया ॥ चकर्त सप्तधा गर्भं वज्रेण कनकप्रभम् । रुदन्तं सप्तधैकैकं मा रोदीरिति तान् पुनः । ते तमूचुः पाट्यमानाः सर्वे प्राज्ञ्जलयो नृप । नो’ जिघांससि किमिन्द्र भ्रातरो मरुतस्तव ॥ मा भैष्ट भ्रातरो मां यूयमित्याह कौशिकः । अनन्यभावान् पार्षदानात्मनो मरुतां गणान्
- कृष्णप्रिया व्याख्या
- ।।
- ६१ ॥
- ६२ ।।
- ६३ ॥
- ॥
- ६४ ॥
- अन्वयः - सुमनसः फलमूलसमित्कुशान् पत्राङ्कुरमृदः च अपः काले काले नित्यम् वनात् उपाहरत् ।। ५७ ।। ** नृप जिह्मः हरिः मृगहा मृगाकृतिः इव एवम् व्रतस्थायाः तस्याः व्रतच्छिद्रम् प्रेप्सुः पर्यचरत् ॥ ५८ ॥ महीपते अथ तत्परः शक: व्रतच्छिद्रम् न अध्यगच्छत् इह तु मे शिवम् केन स्यात् इति तीत्राम् चिंताम् गतः ॥ ५९ ॥ * * व्रतकर्शिता विधिमोहिता सा तु एकदा अस्पृष्टवार्यधौताविप्रः उच्छिष्टा संध्यायाम् सुष्वाप ।। ६० ।। * योगेशः शक्रः तदन्तरम् लब्ध्वा निद्रापहृतचेतसः
- ।। दितेः उदरम् योगमायया प्रविष्टः ।। ६१ ।। * कनकप्रभम् गर्भम् वज्रेण सप्तधा चकर्त रुदन्तम् एकैकम् मा रोदी: इति पुनः तान् सप्तधा चकर्त ॥ ६२ ॥
- नृप पाट्यमानाः ते सर्वे प्राञ्जलयः तम् ऊचुः इंद्र नः किम् जिघांससि मरुतः तव भ्रातरः ।। ६३ ।। * कौशिकः अनन्यभावान् आत्मनः पार्षदान् मरुताम् गणान् मा भैष्ट यूयम् महाम्
- भ्रातरः इति आह ।। ६४ ॥
- *
- श्रीधरस्वामिविरचिता भावार्थदीपिका
- *
- S.
- अस्पृष्टवारि-
- हरिरिंद्रो व्रतस्य छिद्रं प्रेप्सुः प्राप्तुमिच्छुः । जिह्नः कुटिलः साधुवेषः । मृगहा लुब्धको यथा मृगबंचनाय मृगवेषो भवति तद्वत् ॥ ५८ ॥ * * केन मे शिवं स्यादिति चिंतां प्राप्तः छिद्रान्वेणे तत्परः ॥ ५६ ॥ ॐ
- ।। ।। arraatain || ६० ॥
- निद्रयाऽपहृतं चेतो यस्याः ॥ ६१ ॥ मा रोदीरित्युपलालयन्निव तान्छ- कलीकृतान् पुनः एकैकं सप्तधा चकर्त चिच्छेद ॥ ६२ ॥
- पाटयमानाः च्छिद्यमानाः ।। ६३ ।। * * कौशिक इंद्र: । गणान्सप्त । “सप्तगणा वै मरुतः” इति श्रुतेः ॥ ६४ ॥
वंशीधरकृतो भावार्थदीपिकाप्रकाशः पत्राणि चांकुराणि च मृचैषां समाहारः पत्रांकुरमृत् तेन सह अपश्च जलानि ।। ५७ ।। व्रतस्य छिद्रं प्रेप्सोरिंद्रस्याप्यविज्ञत्वमेव यतो विष्णोः स्मरणेन कीर्त्तनेन वा सच्छिद्रमपि निश्छिद्रं स्यात् । तस्य विष्णोरिदं व्रतं छिद्रेप्य- च्छिद्रमेव भवेत् । तदुक्तं “यस्य स्मृत्या च नामोक्त्या तपोयज्ञक्रियादिषु । न्यूनं संपूर्णतां याति सद्यो वंदे तमीश्वरम” इति “मंत्रत तंत्रशिछद्रं देशकालाई वस्तुत: । सर्वं करोति निश्छिद्रं नामसंकीर्त्तनं तव ।।” इति वामनं प्रति भार्गवोक्तेश्च । किोप- रिष्टादिद्रेणापि व्रतस्य निश्छिद्रतामनुभविष्यता वक्ष्यते च “महापुरुषपूजायाः सिद्धिः काप्यनुषंगिणी” इति । तद्वत्परिचारकः लोकाकृतिः । हे नृपेति । नृपो यथा मिलित्वा रिपुं तच्छिद्रान्वेषणपरो भवति तद्वदिद्रोपीति भावः ॥ ५८ ॥ * १. प्रा० पा० किन्नः शक्र जिघांससि भ्रातः । श्रीमद्भागवतम् [ स्कं. ६ अ. १८ श्लो. ५७-६४ यतः छिद्रं न प्राप्तमथातः । महीपते इति । यथा प्रबलरिपुच्छिद्राप्राप्तौ महीपतेरपि चिंतापतति किमुत त्रैलोक्याधिपतेर्यदि सा भवेदिति भावः ।। ५९ ।। * * एकदेद्रादृष्टवशात् । विधिना विधात्रा मोहिता ॥ ६० ॥ ॐ योगस्य परकाय- प्रवेशाख्यस्य सिद्धयर्था या माया तया तत्र हेतुः योगेशोऽभ्यस्तसमस्त योगशास्त्रः ।। ६१ ।। अत्राल्पकाल एव बहुपुण्य- पापभोगिनो जीवस्य योगिनो वा कायव्यूह इवैकस्य जीव त्योनपंचाशत्कायव्यापकत्वमिति केचित् । भाविदृष्टया प्रथममेवैक- स्मिन्देहे प्रविष्टानामेकोनपंचाशज्जीवानामिंद्रकृत देहविभागेनैकैकदेहप्राप्तिरित्यपरे । इंद्रकृतखंडेष्वन्येषामप्यष्टचत्वारिंशन्जीवानां तत्क्षण एव प्रवेशो यथा लतागुल्मानां केषांचित्खंड खंडीकृत्यैव भूमावारोपितानां पृथक्पृथक्प्ररोहोद्रमदर्शनात् पृथक्पृथग्जीवस्य प्रवेशो ऽनुमीयते इत्यन्ये च प्राहुः । अयमेव न्यायो दुर्योधनादिजन्मन्यपि वर्णितो महाभारत आदिपर्वणि । “स्वोदरं घातयामास गांधारी दुःखमूच्छिता । ततो जज्ञे मांसपेशी लोहाष्ठीलेव संहता ||” इत्यारभ्य “सा सिच्यमाना त्वष्ठीला बभूव शतधा तदा । अंगुष्ठपर्वमात्राणां गर्भाणां पृथगेव तु ।।” इत्यंतेन ।। ६२ ।। * नृपेति । यथा त्वं पीडितैर्नृभिः प्रार्थ्यसे तथा तैरिंद्रोऽ- पीति भावः ॥ ६३ ॥ मरुतां गणत्वे श्रुतिमाह — सप्तेति । स्पष्टार्थेयम् ॥ ६४ ॥ । अन्वितार्थप्रकाशिका नित्यमिति । सुमनसः पुष्पाणि । स्पष्टमन्यत् ।। ५७ ।। * * एवमिति । हे नृप । हरिरिन्द्रः व्रतस्थायाः तस्या तच्छिद्रं व्रतविघ्नस्यावसरं प्रेप्सुः प्राप्तमिच्छुः जिह्नः अन्तःकुटिलोऽप्युपरि साधुवेषश्च संस्तामेवं पर्यचरदित्यन्वयः । जिह्मत्वे दृष्टान्तः । यथा मृगहा लुब्धको मृगवञ्चनाय मृगाकृतिर्भवति तथा परिचारकवेषो बभूव ॥ ५८ ॥ नेति है । नृप ! एवं तत्परः छिद्रान्वेषणपरोऽपि शक्रः यदा व्रतच्छिद्रं नाध्यगच्छत् न प्राप । तदा इहास्मिन् समये मे शिवं कार्य केन हेतुना स्यादिति तीत्रां चिन्तां गतः ॥ ५९ ॥ एकदेति । व्रतेन कर्शिता उच्छिष्टा सती विधिना प्रारब्धेन मोहिता
-
- चेति यतः अस्पृष्टवारिश्वासावधौतायिश्च सा सन्ध्यायां सुष्वाप ।। ६० ।। * * लब्ध्वेति । योगेशः अणिमादिसिद्धिमान् शक्रः तदन्तरमवसरं लब्ध्वा निद्रयाऽपहृतं चेतो यस्यास्तस्या दितेरुदरं योगमायया परकायाप्रवेशाख्यसिद्धया प्रविष्टः ॥ ६१ ॥ चकर्त्तेति । उदरं प्रविष्टः इन्द्रः कनकवत्प्रभा कान्तिर्यस्य तं गर्भ वज्रेण सप्तधा चकर्त्त चिच्छेद । एवं छेदने कृतेऽपि रुदन्तं गर्भ मा रोदीरित्युपलालयन्निव पुनस्तानेकैकं सप्तधा चकर्त्त ।। ६२ ॥ * * ते इति । हे नृप ! ते सर्वे गर्भाः पीड्यमाना अतः । ! प्राञ्जलयः सन्तस्तमिन्द्रमूचुः । हे इन्द्र ! वयं तु मरुतस्तव भ्रातरः । अतो नोऽस्मान् त्वं किं जिघांससि हन्तुमिच्छसि ।। ६३ ।। मा भैष्टेति । एवं तैरुक्तः कौशिक इन्द्रोऽपि तान् मरुतां गणान् अनन्यभावान् अतिस्नेहवतः आत्मनः स्वस्य पार्षदान् आज्ञा- कारिणो निश्चित्य यदि यूयं मह्यं मम भ्रातरस्तदा मा भैष्ट भयं मा कुरुतेत्याह स्म ॥ ६४ ॥ वीरराघवव्याख्या तदेवाह - नित्यमहरहः सुमनसः पुष्पाणि फलानि च मूलानि च समिधश्च कुशाश्च तान् पत्राणि किसलयानि च दूर्वा- कुराश्च मृदः मृत्नाश्च आपश्च ताः काले काले उचितकाले उपाहरत् आनीय समर्पितवान् ।। ५७ ।। * * एवं तस्यां दितौ व्रतस्थायां सत्यां हे नृप । हरिरिन्द्रः व्रतस्य छिद्रं वैकल्यं प्रेप्सुः कामयमानः अत एव जिह्मः कुटिलचित्तः पर्यचरत्, यथा, मृगस्येवाकृतिर्यस्य सः मृगाणां हन्ता मृगाननुवर्त्तते तथा ॥ ८ ॥ * * * हे महीपते । तत्परः व्रतच्छिद्रपर्यालोचन- परोपि व्रतच्छिद्रं नाध्यगच्छत् नापश्यत् अथ नितरां चिन्तां प्राप्तः केन हेतुना मम शिवं भद्रं स्यादिति तीत्रां चिन्तां प्राप्तः ॥५६॥ एकदा सा दितिः व्रतकर्शिता अत एवाशक्तचा न स्पृष्टं वारि जलं यया सा अधौतावप्रक्षालितावच्छ्री यया सा तादृशी अत एव उच्छिष्टा सन्ध्यायां सायंकाले विधिना दैवेन मोहिता सती सुष्वाप ।। ६० ।। * तदा तदन्तरं व्रतच्छिद्रं लब्ध्वा शक्रो निद्रया अपहृतं चेतो यस्यास्तस्याः दितेरुदरं प्रविष्टः, कथं परकायप्रवेशसामर्थ्यन्तस्य ? इत्यत्राह - योगेशः परकायप्रवेशसामर्थ्यापादकयोगयुक्तः अत एव योगमायया विचित्रयोगसामर्थ्येनोदरं प्रविष्ट इत्यर्थः ॥ ६१ ॥ उदरे प्रविष्टः शको वज्रायुधेन तं कनकप्रभं गर्भं सप्तधा चिच्छेदः। रुदन्तमेकैकं गर्भस्य भागं मा रोदीरिति वदन् तान् खण्डान् पुनः सप्तधा एकैकं चिच्छेद यतो मारोदीरिति तान् चिछेद, अत एव निमित्तान्मरुच्छब्दस्य तेषु प्रवृत्तिः आर्षत्वान्माशब्दस्य ह्रस्वः । “रुदेर्भावे किपू” मा न विद्यते इन्द्रवाक्यात् रुत् रोदनं येषां ते मरुतः ।। ६२ ।। *
- हे नृप ! ते छिद्यमानाः सर्वे गर्भस्य भागाः तथैव प्रविभक्तपाणिपादाद्यवयवाः प्राञ्जलयस्सन्तः तमिन्द्रमूचुः, तदेवाह — किमिति; हे इन्द्र ! तब भ्रातरो मरुतः मरुत्संज्ञान् नोऽस्मान् किं किमर्थं जिघांससि हन्तुमिच्छसि ॥ ६३ ॥ * * इति तैरुक्तः कौशिकः शक्रो यदि यूयं मह्यं मम भ्रातरः तर्हि मा भैष्ट भयं मा कुरुतेत्याह, तत आत्मनः स्वस्य पार्षदान पार्षदत्वं प्राप्ताननन्यभावान् अनन्यस्वामित्वा- भिप्रायकान् मरुतां गणनाहेति पूर्वेणान्वयः ॥ ६४ ॥ स्के. ६ अ. १८ श्लो. ५९-६४ ] अनेकव्याख्यासमलङ्कृतम् विजयध्वजतीर्थकृता पदरत्नावली ५८३ योगमायया योगसामर्थ्येन ॥ ६१-६२ ॥ जिघांससि हन्तुमिच्छसि ॥ ६३ ॥ ।। ।।
-
- मा भैष्ट भयं मा कुरुध्वं कौशिक इन्द्रः मरुतां गणानाह ॥ ६४-६५ ।। TIC PERF जीवगोस्वामिकृतः क्रमसन्दर्भः ते तमूचुरिति । अत एकस्यैव जीवस्य नानाकायाध्यासः । यद्वा, पूर्वमेकस्मिन् देहे बहूनां जीवानामध्यवस्थवतां देहविभागप्राप्तेरिति ज्ञेयम् ।। ६३-६६ ।। विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी हरिरिन्द्रो व्रतस्य छिद्रं प्राप्तुमिच्छुरितीन्द्रस्याप्यविज्ञत्वमेव यतो विष्णोः स्मरणेन कीर्त्तनेन वा सच्छिद्रमपि निश्छिद्रं स्यात् तस्य विष्णोरिदं व्रतं छिद्रेऽप्यच्छिद्र मेव भवेत् । यदुक्तम् “यस्य स्मृत्या च नामोत्तत्या" इति “मन्त्रतस्तन्त्र- छिद्रम्” इत्यादि च, किन्नोपरिष्टादिन्द्रेणापि व्रतस्य निश्छिद्रतामनुभविष्यता वक्ष्यते “महापुरुषसेवायाः सिद्धिः काप्यानु- ङ्गिकी” इति जिः कुटिलः । मृगहा लुब्धको मृगवञ्चनाये यथा मृगाकृतिर्भवति तद्वत् तत्परिचारकलोका कृतिः ॥ ५९ ॥ अस्पृष्टवारिश्वासावधौताङ्घ्रिश्च ॥ ६० ॥ * * योगस्य परकायप्रवेशाख्यस्य सिद्धयर्थं या माया तथा ।। ६९ ।। * * मा रोदीरित्युपलालयन्निव तान् पुनः सप्तधा चकर्त चिच्छेद । अत्राल्पकाल एव बहुपुण्यपापभोजिनो जीवस्य योगिनो वा कायव्यूह इवेकस्यैव जीवस्योनपञ्चाशत्कायव्यापकत्वमिति केचित् । भाविदृष्टया प्रथममेवैकस्मिन् देहे प्रविष्टानामेकोनपञ्चा- राज्जीवनान्द्रिकृत विभागेनैकैक देहप्राप्तिरित्यपरे । इन्द्रकृतखण्डेष्वन्येषामप्यष्टचत्वारिंशज्जीवानां तत्क्षण एव प्रवेशो यथा, लतागुल्मानां केषाञ्चित् खण्डं खण्डीकृत्यैव भूमावारोपितानां पृथक् पृथक् प्ररोहोद्रमात् पृथक् पृथक् जीवस्य प्रवेशो ऽनुमीयते इत्यन्ये च प्राहुः ।। ६३-६४ ॥ * * मह्यं मम कौशिकः इन्द्रः गणान् “सप्त गणा वै मरुतः” इति श्रुतेः ।। ६४-६५ ।। शुकदेवकृतः सिद्धांतप्रदीपः मृगहा यथा मृगवञ्चनाय मृगाकृतिर्भवति तथा हरिरिन्द्रः तस्याः व्रतच्छिद्रं प्रेप्सुः प्राप्तुमिच्छुः जिह्नः कुटिल: भृत्याकृतिस्सन् पर्यचरत् ॥ ५८ ॥ * * मे केनोपायेन शिवं स्यादिति तीव्रां चिन्तां गतः प्राप्तः ॥ ५९ ॥ सन्ध्यायां शयनायोग्यकाले अस्पृष्टवारिश्वासावधौताङघिय सुष्वाप विधिना इन्द्रकर्मफलदेनेश्वरेण मोहिता ॥ ६० ॥ तदन्तरं तच्छिद्रं निद्रयापहृतं चेतो यस्याः योगस्य तपोव्रतादिरूपस्य माया परकायाप्रवेशरूपा शक्तिस्तया ॥ ६१ ॥ * - कनकप्रभं तस्याः गर्भ वज्रेण सप्तधा चकर्त चिच्छेद पुनश्च तानेकैकं रुदन्तं मा रोदीरिति वदन् सप्तधा चकर्त । ननु, “अणुष आत्मा चेतसा वेदितव्यः” इत्यादिश्रुतिप्रसिद्धस्य जीवस्यैकस्य बहुषु देहेषु युगपत् प्रवेशाद्यसम्भवात् कथं घटेत तानेकैकं रुदन्त- मिति ? अत्रोच्यते, दैवात् प्रथमत एवैकस्मिन् देहे प्रविष्टानामेकोनपञ्चाशजीवानामिन्द्रकृतविभागेनैकैकदेहप्राप्तिरिति । अत एव एकस्मिन् गर्भे दैवात्प्रविष्टाः एकाधिकशतसङ्ख्याका जीवाः श्रीव्यासाज्ञया गान्धार्या तद्गर्भखण्डाः पृथक पृथक् कुम्भेषु निहिताः दुर्योधनादयः शतसङ्ख्याकाः पुत्राः जाताः कन्या चैकोत्पन्नेति, सौभर्यादयस्तु स्वकर्मजन्यदेहमाश्रित्य योगबलेन पृथक पृथक जीवयुक्तान् बहून् देहान् सृजन्ति चेति दिकू ॥ ६२-६३ । ४ ४ क्वचित्कुशिकान्वये जातत्वात्कौशिकः इन्द्रः गणान् ।। * “सप्तगणा वै मरुतः” इति श्रुतेः ।। ६४-६५ ।।
गोस्वामिगिरिधरलालविहिता बालप्रबोधिनी तत्परिचर्यामेवाह – नित्यमिति ॥ ५७ ॥ * * हे नृप हरिरिन्द्रः तस्या व्रतच्छिद्रं व्रतविघ्नस्यावसरं प्रेप्सुः प्राप्तुमिच्छुः जिह्मः अन्तः कुटिलोऽप्युपरि साधुवेषश्च सन् तामेवं पर्यचरदित्यन्वयः । जिह्मत्वे दृष्टान्तः— मृगहेति, लुब्धको यथा मृगवञ्चनाय मृगवेषो भवति तथेत्यर्थः ॥ ५८ ॥ एवं तत्परः छिद्रान्वेषणपरोऽपि यदा व्रतच्छिद्रं नाध्यगच्छत् न प्राप तदा इहास्मिन् समये में शिवं कार्यं तु केन हेतुना स्यादिति चिन्तां गतः ॥ ५९ ॥ * * अस्पृष्टवारिश्वासाव- धौताश्च सा । एवं प्रस्वापे हेतुः – त्रतेन कर्शिता विधिना प्रारब्धेन मोहिता चेति ॥ ६० ॥ * * तदन्तरमवसरं लब्ध्वा निद्रयापहृतं चेतो यस्यास्तस्या दितेरुदरं योगमायया परकायाप्रवेशाख्यसिद्धया शक्रः प्रविष्टः । यतो योगेशः अणिमादि- सिद्धिमान् ।। ६१ ।। * * उदरं प्रविष्ट इन्द्रः कनकवत् प्रभा कान्तिर्यस्य तं गर्भ वज्रेण सप्तधा चकर्त्त चिच्छेद । एवं । छेदने कृतेऽपि रुदन्तं गर्भ मा रोदीरिप्युपलालयन्निव पुनस्तानेकैकं सप्तधा चकर्त्तेत्यन्वयः ॥ ६२ ॥ *** नृपते सर्वे .. ५८४ श्रीमद्भागवतम् [ स्कं. ६ अ. १८ श्लो. ६५-७२ गर्भाः पीड्यमाना अतः प्राञ्जलयः सन्तस्तमिन्द्रमू चुरित्यन्वयः । किमूचुस्तत्राह - हे इन्द्र वयं तु मरुतस्तष भ्रातरः । अतो नोऽस्मान त्वं किं जिघांससि हन्तुमिच्छसीति ॥ ६३ ॥ * एवं तैरुक्तः कौशिकः इन्द्रोऽपि तान् मरुतां गणान् यदि यूयं महां मम भ्रातरस्तदा मा भैष्ट भयं मा कुरुतेत्याहेत्यन्वयः । कथं तद्धनने प्रवृत्तस्तद्वचनादेवमाहेत्याकाङ्क्षायामाह - अनन्यभावान् अतिस्नेहवतः आत्मनः स्वस्य पार्षदान् आज्ञाकारिणो निश्चित्येत्यर्थः ॥ ६४ ॥ भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी तत्कृतसेवाप्रकारमाह । नित्यमिति । नित्यमहरहः, वनात् सुमनसः पुष्पाणि, फलानि च मूलानि च समिधश्व कुशाश्च तान, पत्राणि मृन्दादलानि च अङ्कुराश्च मृदश्च ताः, अपो जलानि च, काले काले उचितसमये, उपाहारदानीय समर्पितवान् ॥ ५७ ॥ एवमिति । हे नृप, एवं व्रतस्थायाः तस्याः, व्रतच्छिद्रं प्रेप्सुः प्राप्तुमिच्छुः, अत एव जिह्मः कुटिलचित्तः, चन्तः, हरिरिन्द्रः, मृगाकृतिर्मृगसमानाकारधरः मृगहा मृगयुरिव, पर्यचरत् ॥ ५८ ॥
- नाध्यगच्छदिति । " हे महीपते तत्परो व्रतच्छिद्रपर्यालोचनपरः सन्नपि यदा व्रतच्छिद्रं व अध्यगच्छत् । अथ तदा तु तीव्रां चिन्तां गतः शक्रः, इह मे मम, शिवं केन स्यात् इति व्यचिन्तयदिति शेषः ॥ ५९ ॥ * * एकदेति । एकदा सा तु दितिस्तु, व्रतकर्शिता अत एव न स्पृष्टं वारि जलं यया सा, अधौतावप्रक्षालितौ अङ्घ्री चरणौ यया सा चासौ सा च, अत एव उच्छिष्टा सती, संध्यायां विधिमोहिता दैवेन मोहं प्राप्ता सती, सुष्वाप ॥ ६० ॥ * लब्ध्वेति । योगेशः परकायप्रवेशसामर्थ्या- पादकयोगयुक्तः, शक्र इन्द्रः, तत् अन्तरं छिद्र लब्ध्वा निद्रया अपहृतं चेतो यस्यास्तस्याः दितेः, उदरं प्रति, योगमायया विचित्रयोग- सामर्थ्येन प्रविष्टः ॥ ६१ ॥ चकर्त्तेति । ततः कनकप्रभं गर्भ, वज्रेण सप्तधा चकर्त्त । रुदन्तं तं एकैकं गर्भस्य भागं, मा रोदी: इति वदन् पुनः तान् सप्तधा चकर्त्त । सप्तभागमध्यत एकैकमुपादाय तमेकमेकं पुनः सप्तधा चकर्त्तेत्यर्थः ॥ ६२ ॥ * ते इति । हे नृप, पाट्यमाना उक्तरीत्या शक्रेण भिद्यमानाः सर्वे ते एकोनपञ्चाशदपि गर्भभागाः, प्राञ्जलयः सन्तः, हे इन्द्र, मरुतः वयं तव भ्रातरः । अतः नोऽस्मान् किं जिघांससि । मा जहीत्यर्थः । इति तम् ऊचुः ॥ ६३ ॥ * * मा भैष्टेति । इति तैरुक्त इति शेषः । कौशिकः शक्रः, यदि यूयं मह्यं मम भ्रातरः, भयं मा कुरुतः, इति, आत्मनः स्वस्य, पार्षदान् पार्षदत्वं प्राप्तान, अनन्यभावान् मरुतां गणान्, आह ॥ ६४ ॥ " भाषानुवादः ….. तर्हि मा भैष्ट फूल - फल, कन्द-मूल, समिधा, कुश, पत्ते, दूब, मिट्टी और जल राजन् ! जिस प्रकार बहेलिया हरिनको मारनेके लिये हरिनकी-सी भी कपट-वेष धारण करके व्रतपरायण दितिके व्रत पालनकी त्रुटि सर्वदा पैनी दृष्टि रखनेपर भी उन्हे उसके व्रत में किसी प्रकारकी अब तो इन्द्रको बड़ी चिन्ता हुई । वे सोचने लगे - मैं ऐसा दिति व्रतके नियमों का पालन करते-करते बहुत दुर्बल वे दिति के लिये प्रतिदिन समय- समयपर वनसे लाकर उसकी सेवामें समर्पित करते ॥ ५७ ॥ * सूरत बनाकर उसके पास जाता है, वैसे ही देवराज इन्द्र पकड़नेके लिये उसकी सेवा करने लगे ॥ ५८ ॥ त्रुटि न मिली और वे पूर्ववत् उसकी सेवा टहलमें लगे रहे। कौन-सा उपाय करूँ, जिससे मेरा कल्याण हो ? ।। ५९ ।। हो गयी थी। विधाताने भी उसे मोह में डाल दिया । इसलिये एक दिन सन्ध्याके समय जूठे मुँह, विना आचमन किये और बिना पैर धोये ही वह सो गयी ॥ ६० ॥ * योगेश्वर इन्द्रने ६१ ॥ * * योगबल से झटपट सोयी हुई दिति के गर्भ में प्रवेश कर गये ॥ हुए गर्भ वज्रके द्वारा सात टुकड़े कर दिये जब वह गर्भ रोने लगा, टुकड़ोंमेंसे एक-एकके और भी सात-सात टुकड़े कर दिये ।। ६२ ।। देखा कि यह अच्छा अवसर हाथ लगा । वे उन्होंने वहाँ जाकर सोनेके समान चमकते तब उन्होंने ‘मत रो’ मत रो, यह कहकर सातों * राजन् ! जब इन्द्र उनके टुकड़े-टुकड़े करने ६५ ॥ ६६ ॥ लगे, तब उन सबने हाथ जोड़कर इन्द्रसे कहा - ‘देवराज तुम हमें क्यों मार रहे हो ? हम तो तुम्हारे भाई मरुद्रण हैं’ ।। ६३ ॥ तब इन्द्रने अपने भावी अनन्यप्रेमी पार्षद मरुद्रणसे कहा - ‘अच्छी बात है, तुम लोग मेरे भाई हो । अब मत डरो !’ ॥ ६४ ॥ न ममार दितेर्गर्भः श्रीनिवासानुकम्पया । बहुधा कुलिशक्षुण्णो द्रौण्यस्त्रेण यथा भवान् ॥ सकृदिष्ट्वाऽऽदिपुरुषं पुरुषो याति साम्यताम् । संवत्सरं किञ्चिदूनं दित्या यद्धरितचितः ॥ सजूरिन्द्रेण पञ्चाशद्देवास्ते मरुतोऽभवन् । व्यपोह्य मातृदोष ते हरिणा सोमपाः कृताः ।। ६७ ।। दितिरुत्थाय ददृशे कुमाराननलप्रभान् । इन्द्रेण सहितान् देवी पर्यतुष्यदनिन्दिता ॥ ६८ ॥ । अनेकव्याख्यासमलङ्कृतम ‘स्कं. ६ अ. १८ लो. ६५-७२ ] अथेन्द्रमाह ताताहमादित्यानां भयावहम् । अपत्यमिच्छन्त्यचरं । व्रतमेतत्सुदुष्करम् ॥ ६९ ॥ एकः सङ्कल्पितः पुत्रः सप्त सप्ताभवन् कथम् । यदि ते विदितं पुत्र सत्यं कथय मा मृषा ।। ७० ।। इन्द्र उवाच अम्ब तेऽहं व्यवसितमुपधार्यागतोऽन्तिकम् । लब्धान्तरोऽच्छिदं गर्भमर्थबुद्धिर्न धर्मवित् ॥ ७१ ॥ कुत्तो मे सप्तधा गर्भ आसन् सप्त कुमारकाः । तेऽपि चैकैकशो वृक्णाः सप्तधा नापि मत्रिरे ।। ७२ ।। कृष्णप्रिया व्याख्या ५८५ ६७ ॥ * * देवी दितिः उत्थाय
अथ इंद्र सा आह तात अहम् * * एकः पुत्रः संकल्पितः सप्त सप्त अन्वयः - बहुधा कुलिशक्षुण्णः दितेः गर्भः श्रीनिवासानुकम्पया यथा भवान द्रौप्यस्त्रेण न ममार ॥ ६५ ॥ * पुरुषः सकृत् आदिपुरुषम् इष्ट्वा साम्यताम् याति दित्या यत् हरिः किंचित् ऊनं संवत्सरम् अर्चितः ॥ ६६ ॥ * ते मरुतः इंद्रेण सजूः पंचाशत् देवाः अभवन् ते मातृदोषं व्यपोह्य हरिणा सोमपाः कृताः ॥ अनलप्रभान् कुमारान् इन्द्रेण सहितान् ददृशे अनिन्दिता पर्यतुष्यत ॥ ६८ ॥ आदित्यानां भयावहम् अपत्यम् इच्छन्ती एतत् सुदुष्करम् व्रतम् अचरम् ॥ ६९ ॥ कथम् अभवन् यदि ते विदि सत्यं कथय मृषा मा ॥ ७० ॥ * * अंब अहं ते व्यवसितम् उपधार्य अर्थबुद्धिः न धर्मवित अन्तिकम् आगतः लब्धान्तरः गर्भम् अच्छिदम् ॥ ७१ ॥ * * मे सप्तधा गर्भः कृत्तः सप्त कुमारकाः आसन् च ते अपि ।। एकैकशः सप्तधा वृक्णाः अपि न मम्रिरे ।। ७२ । । ‘श्रीधरस्वामिविरचिता भावार्थदीपिका सजूः सह । मातृदोषं सपत्नभावम् ।। ६७-७० ॥ अंबेति । लब्धमंतरं येन । अर्थे एव बुद्धिर्यस्य ॥ ७१-७३ ।। दित्या निष्कपटमुक्ते सतीद्रोऽपि निष्कपटमेवाह । । वंशीधरकृतो भावार्थदीपिकाप्रकाशः अहो अमोघवज्रहतो दितेर्गर्भः कथं न ममार तत्राह - श्रीनिवासेति । अत्र त्वमेव दृष्टांत ः ‘द्रौण्यस्त्र -’ इति ॥ ६५ ॥ साम्यताम् । समशब्दाच्चतुर्वर्णादित्वात्स्वार्थे ष्यम्, तदंतात्तल् समानरूपतामित्यर्थः । चक्रवर्त्तिसंमतस्तु सात्मतामिति • पाठः ॥ ६६ ॥ मातृदोषमासुरत्वम् । सजूस्सह । ‘अश्विभ्यामुषसा सजूः" इत्यादौ सजूश्शब्दः सहार्थे दृश्यते इति । हरिणेंद्रेण विष्णुना वा ॥ ६७ ॥ * * अनिंदिता वैष्णवव्रतप्रभावाज्जात शांत स्वभावात एव पर्यतुष्यत् ॥ ६८ ॥ * अथ बहुकुमारदर्शनानंतरम् । तातेति । अनिन्दितत्वादेवोक्तवती ॥। ६९ ।। मत्पुत्रा अप्यनेन पाविता अतोऽयं पुनातीति पुत्र इत्यन्वर्थनामैवेत्यभिप्रेत्याह - हे पुत्रेति ॥ ७० ॥ * अहो अनयैवाहमवधानत्यागेन रक्षितोऽस्मीत्यत इयमप्यंबति रक्षतीत्यंबेत्यन्वर्धनाम्न्येवेति विमृश्याह–अंबेति । ‘अधि-रक्षणे’ धातुः । अहो त्वया मदर्भच्छेदेन महानधर्मः कृतस्तत्राह — अर्धबुद्धिरिति । यथा त्वयार्थ बुद्धचा मन्नाशकत्रते धर्मो न विचारितस्तथा मयापीति भावः ।। ७१-७२ ।। अन्वितार्थप्रकाशिका 3. नेति । बहुधा कुलिशेन क्षुण्णः छिन्नः अपि दितेर्गर्भः श्रीनिवासस्य विष्णोः अनुकम्पया कृपया न ममार | द्रौण्यस्त्रेण दोsपि भवान् यथा न ममार तथेत्यर्थः । अत्र यथा यथेन्द्रेण गर्भश्छिन्नस्तथा तथा तत्र भगवदिच्छया जीवाः प्रविष्टाः । यद्वैकस्य जीवस्य योगिवत्सर्वत्र प्रवेशो ज्ञेयः । भगवता सर्वं कर्तुं शक्यत्वात् ॥ ६५ ॥ * * सकृदिति युग्मम् । यमादि- पुरुष भगवन्तं सकृदपि ष्ट्वा पुरुषस्तत्साम्यतां समतां स्वार्थे ष्यञन्तात्सम शब्दात्तल् । सात्मतामिति वा पाठः । याति स हरिर्यस्माद्दित्या किञ्चिदूनं संवत्सरपर्यन्तमर्चितस्तस्मात्ते मरुतः इन्द्रेण सजूः सह पञ्चाशद्देवा अभवन् । हरिणा कृपया तेषां * मातृप्रयुक्तं दोषं दैत्यत्वमपो दूरीकृत्य सोमपा अमृतपातारः कृता इति न चित्रम् ॥ ६६-६७ ॥ * दितिरिति । अनिन्दिता भगवद्व्रतधारणेन शुद्धन्ताः करणा देवी दितिः उत्थाय अनेलप्रमान् अतितेजस्विन इन्द्रेण सहितान् इन्द्रेण सह १. प्रा० पा० धर्मदृक् । ७४ και श्रीमद्भागवतम् * [ स्कं. ६ अ. १५ श्लो. ६५-७२ कृतमैत्रान् कुमारान् ददृशे । तार्ष: । ततः पर्यतुष्यथ ॥ ६८ ॥ अथेति । अथ दितिरिन्द्रमाह स्म । हे तात आदित्यानां युष्माकं भयावहं भयङ्करमपत्यमिच्छन्त्येतत्सुदुष्करं व्रतममहचरं कृतवती ॥ ६९ ॥ * * एक इति । तत्र एकः पुत्रः संकल्पितः सप्त सप्त एकोनपञ्चाशत् पुत्राः कथमभवन् । हे पुत्र ! यदि ते तवैतद्विदितं तदा सत्यं यत्तत्कथय मृषा मा कथय ।। ७० ।। * * दित्या निष्कपटमुक्त इन्द्रोऽपि निष्कपटमाह स्म । अम्बेति । हे अम्ब ! अर्थे बुद्धिर्यस्य सः न धर्म वेत्ति अनुसन्धत्ते तथाभूतः अहं ते तव व्यवसितं निश्चितमुपधार्य ज्ञात्वा तवान्तिकमागतः लब्धमन्तरमवसरो येन सः तेऽन्तः प्रविश्य गर्भमच्छिम् ॥ ७१ ॥ कृत्त इति । प्रथमं मे मया गर्भः सप्तधा कृत्तः तदा सप्त कुमारका आसन् । ते सप्तापि चैकैकशः सप्तधा वृक्णाः छिन्नास्तथापि न मन्त्रिरे । तर्षः ॥ ७२ ॥ ।। ॥ * वीरराघवव्याख्या ततो दितेर्गर्भः कुलिशेन वज्रेण बहुधा छिन्नोऽपि श्रीनिवासस्य भगवतोऽनुकंपया या अनुकंपापूर्वकानुप्रहविशेषेण न ममार न मृतः यथा भवान्परीक्षित अश्वत्थाम्नोऽस्त्रेण दग्धदेहोपि भगवता रक्षितस्तद्वत् ॥ ६५ ॥ * * अस्मिन्नर्थे उपपत्तिमाह—सकृदिति । पुमान्सकृदप्यादिपुरुषं भगवन्तमिष्ट्रा आराध्य तन्माहात्म्येन शनैः सात्मतां समानरूपतां याति किं पुनरसकृदिष्वेति भावः । यतः किञ्चिदूनं संवत्सरमेव दित्या आराधितः इन्द्रेण सह जुषते सेवत इति सजूः इन्द्रेण सह वर्तमान इत्यर्थः । हरिर्भगवानुपेन्द्रः अभ्ययात् आगत्य गर्भस्य खण्डानजीवयदित्यर्थः । ततः ते पञ्चाशत् एकोनपञ्चाशत् अन्यथा “मरुतश्च दितेः पुत्राश्चत्वारिंशन्नवाधिकाः । चकर्त्त सप्तधा गर्भम्” पुनरेकैकं सप्तधा चकर्तेति पूर्वोक्तसंख्याविरोधापत्तेः । मरुतो मरुत्संज्ञकाः मातुर्दोषमासुरत्वापदेशं त्यक्त्वा देवा अभवन् ते च हरिणा इन्द्रेण भगवता वा सोमपाः सोमं पिबन्तीति तथा यज्ञीयभागाः कृता इत्यर्थः ॥ ६६-६७ ॥ * ततो दितिरुत्थाय कुमारानग्नितुल्यप्रकाशानिन्द्रेण सहितान ददृशे । दृष्ट्वा च देवी दितिरनिन्दिता वस्तुतः सुस्वभावा पर्यतुष्यत् ॥ ६८ ॥ अथानन्तरं इन्द्रमुवाच तदेवाह - हे तात इन्द्र ! आदित्यानामदितेरपत्यानां युष्माकं भयापादकमेकमपत्यमहम् इच्छन्ती सुदुष्करमेतत्पुंसवनं व्रतमचरमाचारितवत्यस्मि ।। ६६ ।। पुत्रः सङ्कल्पितः कथं सप्तसप्त एकोनपञ्चाशद्भवन् हे पुत्र, एतद्यदि तव विदितं तर्हि सत्यं कथय मृषा मिथ्या मा कथ मया त्वेकः पुत्रः सङ्कल्प एवमुक्तः शक्रस्तामाह - हे अम्ब, ते तव व्यवसितमभिप्रेतम् उपधार्य ज्ञात्वाऽहं तवान्तिकं समीपं कथय ॥ ७० ॥ गतः प्राप्तः लब्धमन्तरं व्रतच्छिद्रं येन तादृशो गर्भमच्छिदं छिन्नवानस्मि यतोऽहमर्थे वैषयिकपुरुषार्थ एव बुद्धिर्यस्य न धर्मवित् ॥ ७१ ॥ * * यतोऽहमीदृशस्ततो मे मया तावत्सप्तधा गर्भः कृत्तश्छिन्नः । कृत इति पाठे वज्रेणेति शेषः । एवं सप्तधा कृतोपि गर्भः तावत्सप्त कुमारा आसन तेऽपि पुनरेकैकशो वृक्णाः छिन्नाः सप्तधा बभूवुः नापि मम्रिरे न मृताश्च ॥ ७२ ॥ विजयध्वजतीर्थंकृता पदरत्नावली साम्यतां समानरूपताम् । हरिः श्रीनारायणो दित्या किञ्चिदूनं सम्वत्सरमर्चितो यदतः साम्यतां यातीति किमु कुतः पुरुषः सकृत्सम्पूज्य साम्यतां याति तस्मात् ॥ ६६ ॥ इन्द्रेण सजूः सह अश्विभ्यामुषसा सजूरित्यादौ दृष्टत्वात् • * हरिणेन्द्रेण सोमपाः सोमं पिबन्तः ॥ ६७ ॥ * पर्यतुष्यत्सचेतनत्वात् ॥ ६८ ॥ * आदित्यानां अदिति- पुत्राणाम् ।। ६६-७२ ॥
जीवगोस्वामिकृतः क्रमसन्दर्भ : " हरिणा इन्द्रेण श्रीविष्णुनेति वा ॥ ६७-७१ ॥ मे मया ॥ ७२ ॥ * विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी सात्मतां पुरुषसमानाकारत्वम् ॥ ६६ ॥ * * सजूः सह ॥ ६७-७० ।। * * दिव्या निष्कपटमुक्ते सति इन्द्रोऽपि निष्कपटमेवाह - अम्बेति । लब्धान्तरः प्राप्तच्छिद्रः व्यवसितं निश्चितं तदेवाह - महेति । सार्द्धद्वयेन कापि सिद्धिर्मुक्तिरपि आनुषङ्गिकी ॥ ७१-७३ | Do शुकदेवकृतः सिद्धांत प्रदीपः वासुदेवानुकम्पा हेतुं संस्मारयति । आदिपुरुषं हरिं पुरुषः सकृदिष्ट्रा सात्मताम् आत्मना हरिणा सह वर्तमानः सात्मा हरिसहचरो मुक्तस्तस्य भावः सात्मता तां याति दित्या तु सम्वत्सरं स हरिरर्चितः ॥ ६६ ॥ अत एव इन्द्रेण सजूः सह पञ्चाशदभवन् सङ्कल्पितस्त्वेकः देवाः अभवन् सङ्कल्पितस्तु देवद्विट् अत्यद्भुतं हर्य्यर्च नमाहात्म्यमिति भावः ।। ६७-७० ।। ४ लब्धान्तरः प्राप्तच्छिद्रः अर्थे बुद्धिर्यस्य सः ॥ ७१ ॥ * * वृक्णाः खण्डिताः ।। ७२-७३ ॥ स्कं. ६ अ. १८ श्लो. ६५-७२ ] ॐ अनेकव्याख्यासमलङ्कृतम् गोस्वामिगिरिधरलालविहिता बालप्रबोधिनी ननु कथमेवं बहुधा च्छिन्नोऽपि गर्भो न ममारेत्याकाङ्क्षायामाह - न ममारेति । तत्र दृष्टान्तमाह- ४८७ दुग्धोऽपि भवान् यथा न ममार तथेत्यर्थः । अत्र यथा यथेन्द्रेण गर्भश्छिन्नस्तथा तथा तत्र भगवन्तमाह-द्रोण्यस्त्रेण जीवाः प्रविष्टाः । यद्वैकस्यैव जीवस्य योगिवत् सर्वत्र प्रवेशो ज्ञेयः भगवता सर्वं कर्तुं शक्यत्वात् ॥ ६५ ॥ अत्र कैमुत्यन्यायं दर्शयति — सकृदिति द्वयेन । यमादिपुरुषं भगवन्तं सकृदपि इष्ट्वा पुरुषस्तत्साम्यतां याति स हरिर्यत् यस्मात् दित्या किञ्चदूनं संवत्सरपर्यन्त- मर्चितस्तस्मात्ते मरुतः इन्द्रेण सजूः सह पञ्चाशदेवा अभवन् । हरिणा कृपया तेषां मातृप्रयुक्तं दोषं दैत्यत्वमपोह्य दूरीकृत्य सोमपा अमृतपातारः कृता इति न चित्रमिति द्वयोरन्वयः ।। ६६-६७ ।। अनलप्रभान् अतितेजस्विना इन्द्रेण सह कृत- मैत्रान कुमारान् दितिरुत्थाय ददृशे दृष्ट्वा च पर्यतुष्यदित्यन्वयः । ननु स्वपुत्रेणेन्द्र हननमिच्छन्ती तेन सह तेषां मैत्रीं दृष्ट्रा कथं पर्यतुष्यदित्यपेक्षायामाह — अनिन्दितेति । भगवद्रतधारणेन शुद्धान्तःकरणा पूर्व तु दोषवशात्तद्धननमैच्छत् इदानीं दोषस्य निवृत्तत्वात्तथा दर्शनेन सन्तोष इति भावः ॥ ६८ ॥ अथानन्तरमिन्द्रमाह हे तात आदित्यानां युष्माकं भयावह भयङ्करमपत्यमिच्छन्ती एतत्सुदुष्करं व्रतमहमचरं कृतवती ।। ६९ ।। * तत्र एकः पुत्रः सङ्कल्पितः सप्तसप्त एकोन- पञ्चाशत् पुत्राः कथमभवन् ? हे पुत्र यदि ते तवैतद्विदितं तदा सत्यं यत्तत्कथय मृषा मा कथयेत्यन्वयः ॥ ७० ॥
एवं शुद्धभावेन दित्या पृष्ट इन्द्रोऽपि यथार्थमेवाह – अम्बेति । हे अम्ब अहं ते तव व्यवसितं निश्चितमुपधार्य ज्ञात्वा तवान्ति- कमागतः लब्धमन्तरमवसरो येन सः तथाभूतः तेऽन्तः प्रविश्य गर्भमच्छिदम् । कथमेवमन्यायं कृतवानित्याशङ्कयाह — अर्थे बुद्धिर्यस्य सः, न धर्म वेत्ति अनुसन्धत्ते स तथाभूतः ॥ ७१ ॥ 83
- प्रथमं में मया गर्भः सप्तधा कृत्तः छिन्नः तदा सप्त कुमारकाः आसन् । ते सप्तापि चैकैकशः सप्तधा वृक्णाः छिन्नास्तथापि न मत्रिरे ॥ ७२ ॥ || भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी न ममारेति । दितेः गर्भः, बहुधा : फि
न ममारेति । दितेः गर्भः, बहुधा कुलिशच्छिन्नः बहुधा वज्रेण छेदं प्राप्तः सन्नपि, श्रीनिवासानुकम्पया भगवतः कृपापूर्वकानुग्रहेण, द्रौण्यस्त्रेण अश्वत्थान्नो ब्रह्मास्त्रेण, भवान् यथा न ममार न मृतः ।। ६५ । अस्मिन्नर्थे उपपत्तिमाह । सकृदिति । पुरुषः पुमान्, सकृदेकवारमपि, आदिपुरुषं भगवन्तम् इष्ट्वा, तन्माहात्म्येन, शनैः सात्मतां समानरूपतां याति तर्हि दित्या किंचिदूनं संवत्सरं यद्यतः, हरिः अर्चितः, अतोऽस्या गर्भो न ममारेत्यर्थः ॥ ६६ ॥ न ममारेत्यर्थः ॥ ६६ ॥ सजूरिति । ते एकोनपञ्चाशत् मरुतः, इन्द्रेण सजूः सह वर्त्तमानाः, पश्चाशत् देवाः अभवन् । प्रादुर्भूय दित्याः पुरोऽवस्थिता अभव- नित्यर्थः । हरिणा एतेषु यज्ञभागाह, कृता. पञ्चाशत्तमेनेन्द्रेण, ते एकोनपञ्चाशत् मरुतः, मातृदोषमसुरत्वापदेशं व्यपोह्य परित्याज्य, सोमपा । यज्ञभागार्हाः, कृताः ॥ ६७ ॥ दितिरिति । ततः दितिः, उत्थाय, इन्द्रेण सहितान् अनलप्रभान् अग्नितुल्यप्रकाशानन् कुमारान्, ददृशे । दृष्ट्वा च, अनिन्दिता देवी दितिः पर्यतुष्यत् । पाठान्तरे कुमारविशेषणम् ॥ ६८ ॥ । ॥ ॥ अथेति । अथा- नन्तरं दितिः, इन्द्रम् आह । हे तात, अहम् आदित्यानां भवदादीनामदितिसुतानां, भयावहं भयापादकम्, अपत्यं पुत्रम् इच्छन्ती सती, सुदुष्करम् एतत् व्रत, अचरम् आचरितवती अस्मि ।। ६७ ।। * एक इति । हे इन्द्र, मया तु एकः पुत्रः, संकल्पितः । तप्त एकपञ्चाशदित्यर्थः । कथं अभवन् । हे पुत्र, यदि ते तव विदितं भवेत्, तर्हि सत्यं कथय मृषा मा कथय ।। ७० ।। एवं दित्योक्तः शक्रस्तामाह । अम्बेति । अम्ब हे मातः ते तव, व्यवसितमभिप्रेतम् उपधार्य ज्ञात्वा, अहं तव अन्तिकं सम आगतः संप्राप्तः, लब्धं प्राप्तमन्तरं व्रतच्छिद्रं येन तादृशः सन् ते तब, उदरे, प्रविश्येति शेषः । गर्भम् अच्छिदं वज्रणेति शेषः । यतः अहम् अर्थे एव बुद्धिर्यस्य सः, न धर्मवित् ॥ ७१ ॥ * * कृत्त इति । यतोऽहमीदृशस्तत इति शेषः । मे मया, गर्भः सप्तधा कृत्तः छिन्नः । तदा सप्त कुमारकाः आसन् । ते सप्तापि, एकैकशः वृक्णाश्छिन्नाः, तदा सप्तधा सप्तसप्तप्रकाराः सन्तोपि न मम्रिरे नैव मृताः ॥ ७२ ॥ भाषानुवाद: अ परीक्षित् ! जैसे अश्वत्थामा के ब्रह्माखसे तुम्हारा कुछ भी अनिष्ट नहीं हुआ, वैसे ही भगवान् श्रीहरिकी कृपासे दितिका वह गर्भ वाके द्वारा टुकड़े-टुकड़े होनेपर भी मरा नहीं ॥ ६५ ॥ * * इसमें तनिक भी तनिक भी आश्चर्य की बात नहीं है। क्योंकि जो मनुष्य एक बार भी आदिपुरुष भगवान् नारायणकी आराधना कर लेता है, वह उनकी समानता प्राप्त कर लेता है; फिर दितिने तो कुछ ही दिन कम एक वर्षतक भगवानकी आराधना की थी ।। ६६ ॥ ** अब वे उनचास मरुद्रण इन्द्रके साथ मिलकर पचास हो गये । इन्द्रने भी सौतेली माताके पुत्रोंके साथ शत्रुभाव न रखकर उन्हें * * श्रीमद्भागवतम् [ स्कं. ६.अ. १८ श्लो. ७३-७५ सोमपायी देवता बना लिया ।। ६७ ।। जब दितिकी आँख खुली, तब उसने देखा कि उसके अभिके समान तेजस्वी उन्चास बालक इन्द्रके साथ हैं। इससे सुन्दर स्वभाव वाली दितिको बड़ी प्रसन्नता हुई ॥ ६८ ॥ उसने इन्द्रको
-
- सम्बोधन करके कहा- ‘बेटा! मैं इस इच्छासे इस अत्यन्त कठिन व्रतका पालन कर रही थी कि तुम अदिति के पुत्रोंको भीत करनेवाला पुत्र उत्पन्न हो ॥ ६६ ॥ मैंने केवल एक ही पुत्रके लिये सङ्कल्प किया था। फिर ये उनचास पुत्र कैसे हो गये ? बेटा इन्द्र ! यदि तुम्हें। यह रहस्य मालूम हो, तो सच-सच मुझे बतला दो । झूठ न बोलना’ ॥ ७० ॥ इन्द्रने कहा- माता ! मुझे इस बातका पता चल गया था कि तुम किस उद्देश्यसे व्रत कर रही हो। इसीलिये अपना स्वार्थ सिद्ध करनेके उद्देश्यसे मैं स्वर्ग छोड़कर तुम्हारे पास आया। मेरे मनमें तनिक भी धर्म-भावना नहीं थी । इसलिये तुम्हारे व्रतमें त्रुटि होते ही मैंने उस गर्भके टुकड़े-टुकड़े कर दिये ॥ ७१ ॥ पहले मैंने उसके सात टुकड़े किये थे । तब वे सातो टुकड़े सात बालक बन गये, इसके बाद मैंने फिर एक-एकके सात-सात टुकड़े कर दिये तब भी वे न मरे, बल्कि उनचास हो गये ।। ७२ ।
ततस्तत्परमाश्वयं वीच्याध्यवसितं मया । महापुरुषपूजायाः सिद्धिः काप्यनुषङ्गिणी ॥ आराधनं भगवत ईहमाना निराशिषः । ये तु नेच्छन्त्यपि परं ते स्वार्थकुशलाः स्मृताः ॥ आराध्यात्मप्रदं देवं स्वात्मानं जगदीश्वरम् । को वृणीते गुणस्पर्शं बुधः स्यान्नरकेऽपि यत् तदिदं मम दौर्जन्यं बालिशस्य महीयसि । क्षन्तुमर्हसि मातस्त्वं दिष्टया गर्भो मृतोत्थितः ॥ श्रीशुक उवाच ॥ ॥ है ७३ ॥ ७४ ॥ ७५ ॥ ७६ ॥ इन्द्रस्तयाभ्यनुज्ञातः शुद्धभावेन तुष्टया । मरुद्भिः सह तां नत्वा जगाम त्रिदिवं प्रभुः ॥ ७७ ॥ एवं ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि । मङ्गलं मरुतां जन्म किं भूयः कथयामि ते ॥ ७८ ॥ इति श्रीमद्भागवत महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे मरुदुत्पत्तिकथनं नामाष्टादशोऽध्यायः ॥ १८ ॥ कृष्णप्रिया व्याख्या अन्वयः - ततः तत् परम् आश्चर्य वीक्ष्य महापुरुषपूजायाः का अपि अनुषंगिणी सिद्धिः मया अध्यवसितम् ॥ ७३ ॥ * * कः बुधः महीयसि मातः त्वं ये तु निराशिषः भगवतः आराधनम् ईहमानाः परं न इच्छन्ति ते अपि स्वार्थकुशलाः स्मृताः ॥ ७४ ॥ आत्मप्रदं स्वात्मानं जगदीश्वरं देवम् आराध्य गुणस्पर्शं वृणीते यत् नरके अपि स्यात् ॥ ७५ ॥ बालिशस्य मम तत् इदं दौर्जन्यं क्षन्तुम् अर्हसि मृतः गर्भः दिष्टया उत्थितः ॥ ७६ ॥ * * तुष्टया तया शुद्धभावेन अभ्यनुज्ञातः प्रभुः इंद्रः मरुद्भिः सह तां नत्वा त्रिदिवं जगाम ॥ ७७ ॥ * सर्वम् एवं ते आख्यातं भूयः ते किं कथयामि ॥ ७८ ॥ अपि परं मोक्षमपि ॥ ७४ ॥ इति षष्ठेऽष्टादशोऽध्यायः ॥ १८ ॥ त्वं यत् मंगलं मरुतां जन्म मां परिपृच्छसि श्रीधरस्वामिविरचिता भावार्थदीपिका
- गुणस्पर्श, विषयभोगं बुधः को वृणीते यद्यस्मान्नरकेऽपि विषयों: स्यात् ॥ ७५ ॥ * * महीयसि हे महत्तमे । मृतः सन्नुत्थितः ॥ ७६-७८ ।। ।। इति श्रीम० षष्ठस्कंधे टीकायामष्टादशोऽध्यायः ॥ १८ ॥ वंशीधरकृतो भावार्थदीपिकाप्रकाशः ॥ ततो वज्रेण बहुधा भेदेपि मरणाभावात् । काप्यनिर्वचनीया अनुषंगिणी अनुषंगप्राप्ता न तु मुख्या तेन मोक्षोप्या नुषंगिक एव न तु मुख्यं फलं भक्तिरिति ध्वनितम् ॥ ७३ ॥ तदेवाह - आराधनमिति । स्वार्थकुशला इति । “सत्यं १. प्रा० पा० त्पत्तिरष्टादशो ।स्क्रं. ६ अ. १८ श्लो. ७३-७८ ] अनेकव्याख्यासमलङ्कृतम् • दिशत्यर्थितमर्थितो नृणाम्” इत्याद्युक्तेः ॥ ७४ ॥ * * देवं कालिन्दीतट क्रीडापरम् । स्वात्मानं सुन्दरतरविग्रहं श्रीकृष्ण- मित्यर्थः । जगतामीश्वरम् ‘तावत्येव जगत्यमू:’ इत्युक्तेः । आत्मप्रदं नंदादिभ्य आत्मानमपि दत्त्वा तद्गोपालनपरम् । नरके नरकवन्मलिने श्वशूकरादिदेहे । “तस्यैव हेतोः प्रयतेत कोविदो न लभ्यते यद्भ्रमतामुपर्यधः । न लभ्यते दुःखवदन्यतः सुखं कालेन सर्वत्र गभीररंहसा” इति श्रीनारदोक्तेः ।। ७५ ।। महीयसीति । महत्स्वेव क्षांतिरस्त्यन्यथा महत्त्वमेव न स्यादिति भावः । ’ क्षमासारा हि साधवः’ इत्याद्युक्तेः । मातरिति । माता तु पुत्राणामपराध सहस्रमपि न गणयतीति भावः ।। ७६ ।। * * तया दिव्या ।। ७७ ।। * मंगलं श्रवणादिना मंगलकरम् ॥ ७८ ॥ इति श्रीमद्भागवतभावार्थदीपिकाप्रकाशे षष्ठस्कन्धेऽष्टादशोऽध्यायः ॥ १८॥ अन्वितार्थप्रकाशिका तत इति । तत्तेषां जीवने परमाश्चर्य वीक्ष्य ततोऽनन्तरं महापुरुषस्य पूजायाः अनुषङ्गिणी अवान्तरफलभूता कापि सिद्धिरियमिति मयाऽव्यवसितं निश्चितम् ॥ ७३ ॥ आराधनमिति । ये तु निराशिषः निष्कामाः सन्तो भगवत आराधनमीहमानाः कुर्वन्तस्ततः परं मोक्षमपि फलं नेच्छन्ति । त एव स्वार्थकुशलाः निपुणाः शास्त्रे स्मृताः ॥ ७४ ॥ * * आराध्येति । स्वात्मानं जगदीश्वरमात्मप्रदं देवं भगवन्तमाराध्य गुणस्पर्श विषयभोगं को बुधो वृणीते । यत् यः विषयभोगो नरके श्वशुकरादिजन्मन्यपि स्यात् ।। ७५ ।। * * तदिति । हे महीयसि महत्तमे ! हे मातः ! बालिशस्य अज्ञस्य मम । यत्तु दौर्जन्यमपराधस्तत्त्वं क्षन्तुमर्हसि । गर्भः मृतः सन् उत्थित एतदपि दिष्टया भद्रमेव जातम् ॥ ७६ ॥ इन्द्र इति द्वयम् । स्पष्टम् ॥ ७७-७८ ।। इति श्रीकृष्णसेवार्थमन्वितार्थप्रकाशिकाम् । गङ्गासहायः षष्ठस्याष्टादशे निरमादिमाम् । इति श्रीमद्भागवते महापुराणे षष्ठस्कन्धेऽन्वितार्थप्रकाशिकायाम् अष्टादशोऽध्यायः ।। १८ ।। वीरराघवव्याख्या 8 ततोऽनन्तरमिदं महदाश्चर्यं विलोक्य मया निश्चितम् अध्यवसितं निश्चितमाह – महापुरुषस्य भगवतः पूजायाः कार्य पूजकाभिलषितं प्रयोजनं तदानुषङ्गिकमप्रधानं फलं यस्यास्सा ठक उपसर्जनत्वेपि जीवार्ष: । सिद्धिमुक्तिर्भवतीति असमाप्ताया अपि महापुरुषपूजायाः पूजकाभिलषितप्रयोजनावहत्वमधुनावलोक्यामुक्त्यर्थत्वेनापि कृतायास्तत्पूजायाः परिपूर्णाया: मुक्तिरेव प्रधानं फलं, पूजकाभिलषितं तु आनुषङ्गिकमिति मया निश्चितमित्यर्थः । यद्वा, महापुरुषस्य पूजायाः सकामपूजायाः सिद्धिः परिसमाप्तिरेव कार्यानुषङ्गिकी कार्येण प्रयोजनेनानुषज्यते अनुबध्यते पूजकाभिलषितप्रयोजनावद्दा भवति न त्वपरिपूर्णा, सा तु विपरीत फलदैवेति मया निश्चितमित्यर्थः ॥ ७३ ॥ * * अत एव ये पुरुषाः निराशिषो निष्कामाः भगवत आराधनं कुर्वाणाः परं मोक्षमपि नेच्छन्ति त एव स्वार्थे स्वस्य निरतिशयपुरुषार्थे कुशलाः स्वस्य निरतिशय पुरुषार्थ प्रसाधनकुशलाः स्मृताः ॥ ७४ ॥ * * एवमनभिसंहितफलं भगवदाराधनं प्रस्तुत्याभिसंहितफलं निन्दति - आरध्येति । आत्मप्रदं निरति- शयपुरुषार्थरूपमात्मानं निरतिशयप्रियमीश्वरं देवं भगवन्तं तमाराध्य बुधो विवेकी चेत् कः पुमान् गुणस्पर्श शब्दादिविषयानुभव कः पुमान् वृणीत कामयेत, गुणस्पर्श विशिनष्टि - स्यादिति, यत् गुणस्पर्शनं नरकेपि स्यात्सम्भवेत् ।। ७५ ।। स्वापराध- क्षमार्थ तां प्रार्थयते—तदिति । हे महीयसि पूज्ये ! बालिशस्य मूर्खस्य मम तदिदं गर्भच्छेदनादिरूपं दौर्जन्यं दुर्जनस्य कर्म हे मातः ! त्वं क्षन्तुमर्हसि । मातुरसह्योऽपराधो नास्तीत्यभिप्रायेण मातरिति सम्बोधनं दिष्टया दैवात् मृतोपि तव गर्भः पुनरुत्थितों जीवितः ।। ७६ ।। एवमुक्तया विशुद्धभावेन निष्कपटभावेन तुष्टया तया दिव्या अभ्यनुज्ञातः तां नत्वा मरुद्भिस्सह प्रभुरिन्द्रः त्रिदिवं स्वर्गं जगाम ॥ ७७ ॥ * * एवं यत्पृष्टं “कथं त आसुरं भावम्” इत्यादिना तस्योत्तरमुक्तमित्याह - एवमिति । यन्मरुतां जन्म त्वं मां परिपृच्छसि पर्यपृच्छः तच्छृण्वतां मङ्गलावहूं सर्व सप्रपञ्चं यथा तथा ते तुभ्यं मया आख्यातं कथितं भूयः किं कथयामि यदि किञ्चिच्छुश्रूषितमस्ति तर्हि तत्कथयामीति प्रश्नप्प्रोत्साहः ॥ ७८ ॥ इति श्रीमद्भागवते महापुराणे षष्ठस्कन्धे श्रीमद्वीरराघवाचार्यकृत भागवतचन्द्रचन्द्रिकायाम् अष्टादशोऽध्यायः ॥ १८ ॥ विजयध्वजतीर्थकृता पदरत्नावली कार्यानुषङ्गिणी कार्यानुकूल्यं सङ्गमयन्तीति ॥ ७३ ॥
फलकामक्रियायोगभाविन्येवम्विधा सिद्धिरभूत् किमु निराशीस्त्वेनेति भावेनाह - आराधनमिति ॥ ७४ ॥ * * गुणस्पर्श विषयसुखम् ।। ७५- ७८ ।। इति श्रीमद्भागवत महापुराणे षष्ठस्कन्धे श्रीमद्विजयध्वजतीर्थ कृतपदरत्नावल्याम् अष्टादशोऽध्यायः ॥ १८ ॥ ५९० श्रीमद्भागवतम् जीवगोस्वामिकृतः क्रमसन्दर्भः ततस्तदिति । व्यवसितं विचारितम् । तदेवाह - महेति ।। ७३–७७ ॥ [ स्कं. ६ अ. १८ लो. ७३-७८ इति श्रीमद्भागवत महापुराणे षष्ठस्कन्धे श्रीमज्जीवगोस्वामिकृतक्रमसन्दर्भे अष्टादशोऽध्यायः ॥ १८ ॥ विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी परं मोक्षमपि स्वार्थकुशला इति तेन ये त्वाराधनेन मोक्षमिच्छन्ति ते वर्त्तमानमहानिधेर्विनिमयेन तृणार्थिनः स्वार्था- नभिज्ञा: किन्तु विषयषाड्गुण्यात्तेऽपि कृतार्था एवेत्यर्थः । यदुक्तम् “सत्यं दिशत्यर्थितमर्थितो नृणाम्” इति ॥ ७४ ॥ * * देवं क्रीडापरं स्वात्मानं सुन्दरविग्रहम् ।। ७५-७८ ॥ इति सारार्थदर्शिन्यां हर्षिण्यां भक्तचेतसाम् । षष्ठे त्वष्टादशोऽध्यायः सङ्गतः सङ्गतः सताम् ॥ १७ ॥ ४५ परं मोक्षम् ॥ ७४ ॥
विषयभोगो नरकेऽपि स्यात् ॥ ७५ ॥ शुकदेवकृतः सिद्धान्तप्रदीपः स्वस्य अंशभूतस्य आत्मानमंशिनं गुणस्पर्श विषयभोगं बुधः को वृणीत ? यद्यस्मात् हे महीयसि महत्तमे ! बालिशस्य मूढस्य मम यद्दौर्जन्यं तत् क्षन्तुमर्हसि
- दिष्टया भद्रं गर्भो मृतस्सन्नुत्थितः ।। ७६ ।। * * मरुद्भिः सह दिवं जगाम ।। ७७-७८ ॥ इति श्रीमद्भागवत महापुराणे षष्ठस्कन्धे श्रीमच्छुकदेव कृतसिद्धान्तप्रदीपे अष्टादशोऽध्यायः ।। १८ । 11228 3500 गोस्वामिगिरिधरलालविहिता बालप्रबोधिनी तत् तेषां जीवने परमाश्वर्यं वीक्ष्य ततोऽनन्तरं महापुरुषस्य पूजायाः अनुषङ्गिणी अवान्तरफलभूता काऽपि सिद्धि- रियमिति मयाऽध्यवसितं निश्चितमित्यन्वयः ॥ ७३ ॥ * * अनुषङ्गिणी सिद्धिरित्युक्त्या तदाराधनस्य परं फलं तु तद्दास्ये स्थित्वा तल्लीलासुखानुभव एव तत्तु अन्यकामनया प्रतिबद्धं भवतीति सूचयन्निष्कामभक्तान् स्तौति — आराधनमिति । ये तु निराशिषः निष्कामाः सन्तो भगवत आराधनमीहमानाः कुर्वन्तस्ततः परं मोक्षमपि फलं नेच्छन्ति त एव स्वार्थे कुशलाः निपुणाः शास्त्रे स्मृताः ॥ ७४ ॥ * * विषयकामा स्त्वतिमन्दा एवेत्याह- आराध्येति । आत्मपदं भक्तवशीभूय स्वानन्द- विषयकामास्त्वतिमन्दा प्रदमपि देवं विविधाचिन्त्यानन्तक्रीडापरमाराध्य गुणस्पर्श विषयभोगं को बुधो वृणीते ? यत् यः विषयभोगो नरके श्वशूकरा- दिजन्मन्यपि स्यादित्यन्वयः । भगवत्प्राप्तिरेव दुर्लभा नान्यदित्याशयेनाह – जगदीश्वरमिति । तर्हि तद्दास्ये ततः कदाचिद्भयमपि स्यादित्याशङ्कयाह-स्वात्मानमिति । नहि स्वस्मात् स्वस्य भयं सम्भवति तद्विमुखस्य तु सर्वत्र भयं स्यादेव जगदीश्वरत्वादिति भावः । अनेन त्वयापि भोगार्थमेव सोऽर्चित इति त्वमप्यज्ञैवेति सूचितम् ॥ ७५ ॥ तर्हि त्वया कथं स्वसुखार्थं गर्भच्छेदनं कृतमित्याशङ्कयाज्ञानादेवेति सूचयंस्तां क्षमापयति - तदिति । हे मातः बालिशस्य अज्ञस्य मम महीयसि महत्तमे त्वयि यत्तु दौर्जन्यमपराधस्तत्त्वं क्षन्तुर्महसि । मृतः सन् उत्थित एतदपि दिष्टया भद्रमेव जातम् । यदि मृतः स्यात्तदा दुस्सहोऽ- पराधः स्यादिति भावः ॥ ७६ ॥ * * इन्द्रस्य स्वर्गगमने हेतुः — यतस्तत्रत्यः प्रभुरिति ।। ७७ ।। एवमिति ॥ ७८ ॥ T १ ॥ इति श्रीवल्लभाचार्यवंश्यगोपालसूनुना । श्रीमन्मुकुन्दरायाणां पादसेवाधिकारिणा ॥ श्रीमगिरिधराख्येन भजनानन्दसिद्धये । श्रीमद्भागवतस्येयं टीका बालप्रबोधिनी ॥ २ ॥ रचिता तत्र षष्ठेऽस्मिन् स्कन्धे क्रियारूपनिरूपणे । अष्टादशो गतो वृत्तिं बाह्यक्रियानिरूपकः ॥ ३ ॥ भगवत्प्रसादाचार्यविरचिता भक्त मनोरञ्जनी
- उपसंहरति- तत इति । ततः, तत् परमाश्चर्य परं आश्चर्यमिति वा । वीक्ष्य, महापुरुषपूजायां, सिद्धि: कार्यानुषङ्गिणी पूजकाभि- तिप्रयोजनवा भवति । कार्यानुषङ्गिकीत्यपि पाठः । अर्थस्तु समान एव । इति मया अध्यवसितं निश्चितम् । अन्तराया-: पत्तावन्यदेवपूजा यथा विपरीता भवति, न तथा महापुरुषपूजा विपरीत फलदा स्यादिति विचारितमिति भावः ।। ७३ ।। * * आराधनमिति । अत एव, ये पुरुषास्तु निराशिषो निष्कामाः सन्तः, भगवतः आराधनम् ईहमानाः कुर्वाणाः परं मोक्षमपि, न इच्छन्ति । त एव स्वार्थकुशलाः स्मृताः । भगवन्तमाराध्य नश्वरफलकाङ्क्षिणो न हि स्वार्थकुशलाः, परिणामे तु तत्फलानां स्कं. ६ अ. १८ श्लो. ७३-७८ ] " अनेकव्याख्यासमलङ्कृतम् " ५९१ नश्वरत्वान्निष्कामतया तदाराधका एव श्रेष्ठा इति भावः ॥ ७४ ॥ * * एवमनभिसंहितफलं भगवदाराधनं प्रस्तुत्याभि- संहितफलं तत्पुनर्निन्दति । आराध्येति । आत्मानं निरतिशयपुरुषार्थरूपां स्वां मूत्तिं प्रददातीति आत्मप्रदस्तं, स्वात्मानं स्वस्य निरतिशयप्रेमास्पदं, जगदीश्वरं जगदेकनाथ, देवं परमेश्वरं, आराध्य बुधः आराधको विवेकी चेत्, कः पुमान् गुणस्पर्श शब्दा- दिविषयानुभवं वृणीत कामयेत । यद्यस्मात् स गुणस्पर्शस्तु, नरकेऽपि स्यात् । विवराहाणामपि तत्सत्त्वादिति भावः ।। ७५ ।। एवं भगवदाराधनं कृत्वा तुच्छसुखं न प्रार्थनीयमिति परमार्थमुक्त्वेदानीं स्वापराधक्षमापनार्थं तां प्रार्थयते । तदिति । हे महीयसि पूज्ये, बालिशस्य मूर्खस्य, मम तत् इदं दौर्जन्यं त्वं क्षन्तुम् अर्हसि । हे मातः, मृतः अपि, ते गर्भः, दिष्टया देवात्, उत्थितः । संधिरार्ष: ॥ ७६ ॥ इन्द्र इति । शुद्धभावेन निष्कपटभावेन, इन्द्रस्य निष्कपटवचनेनेत्यर्थः । तुष्टया प्रसन्नतां प्राप्तया, तया दित्या, अभ्यनुज्ञातः प्रभुः, इन्द्र, ता दिति, नत्वा मरुद्भिः सह, त्रिदिवं जगाम ॥ ७७ ॥ एवमिति । यत् मरुतां जन्म त्वं मां परिपृच्छसि पर्यपृच्छः, मङ्गलं शृण्वतां मङ्गलावह, तत् सर्वं ते तुभ्यं एवमित्थम्, आख्यातम् । भूयः ते तुभ्यं किं कथयामि । यत् किंचिच्छुश्रूषितमस्ति तदपि कथयामीति प्रश्नोत्साहनम् ॥ ७८ ॥ इति श्रीधर्मधुरंधर श्री धर्मात्मजप्रत्यक्ष पुरुषोत्तम सहजानन्दस्वामि सुतश्री रघुवीराचार्यसूनु भगवत्प्रसादाचार्यविरचिता- यामन्वयार्थावबोधिन्यां भक्तमनोरञ्जन्याख्यायां श्रीमद्भागवतटीकायां षष्ठस्कन्धे अष्टादशोऽध्यायः ॥ १८ ॥ D. Bomamer दै भाषानुवादः भाषानुवादः ॐ
यह परम आश्चर्यमयी घटना देखकर मैंने ऐसा निश्चय किया कि परमपुरुष भगवान् की उपासना की यह कोई स्वाभा विक सिद्धि है ॥ ७३ ॥ * * जो लोग निष्काम भावसे भगवान्की आराधना करते हैं और दूसरी वस्तुओंकी तो बात ही क्या, मोक्षकी भी इच्छा नहीं करते, वे ही अपने स्वार्थ और परमार्थ में निपुण हैं ॥ ७४ ॥ * * भगवान् जगदीश्वर सबके आराध्यदेव और अपनी आत्मा ही हैं । वे प्रसन्न होकर अपने-आपतकका दान कर देते हैं। भला, ऐसा बुद्धिमान है, जो उनकी आराधना करके विषय-भोगों का वरदान माँगे । माताजी ! ये विषयभोग तो नरक में भी मिल सकते हैं ।। ७५ ।। मेरी स्नेहमयी जननी ! तुम सब प्रकार मेरी पूज्या हो । मैंने मूर्खतावश बड़ी दुष्टताका काम किया है, तुम मेरे अपराधको क्षमा कर दो। यह बड़े सौभाग्य की बात है कि तुम्हारा गर्भ खण्ड-खण्ड हो जानेसे एक प्रकार मर जानेपर भी फिर से जीवित हो गया ॥ ७६ ॥ * * श्रीशुकदेवजी कहते हैं—परीक्षित् ! दिति देवराज इन्द्रके शुद्ध- भावसे सन्तुष्ट हो गयी । उससे आज्ञा लेकर देवराज इन्द्रने मरुद्रणोंके साथ उसे नमस्कार किया और स्वर्ग में चले गये || ७७ ॥ राजन् ! यह मरुद्रणका जन्म बड़ा ही मङ्गलमय है । इसके विषय में तुमने मुझसे जो प्रश्न किया था, उसका उत्तर समग्ररूपसे मैंने तुम्हें दे दिया अब तुम और क्या सुनना चाहते हो ? ।। ७८ ।। इति षष्ठेऽष्टादशोऽध्यायः ॥ १८ ॥ अर्थकोनविंशोऽध्यायः राजोवाच व्रतं पुंसवनं ब्रह्मन् भवता यदुदीरितम् । तस्य’ वेदितुमिच्छामि येन विष्णुः प्रसीदति ॥ १ ॥ श्रीशुक उवाच शुक्रे मार्गशिरे पक्षे योषिद्धर्तुरनुज्ञया । आरभेत व्रतमिदं सार्वकामिकमादितः ॥ २ ॥ निशम्य मरुतां जन्म ब्राह्मणाननुमन्त्र्य च । ॥ ३ ॥ ४ ॥ ५ ॥ ६ ॥ स्नात्वा शुक्लदती शुक्ले वसीतालङ्कृताम्बरे । पूजयेत्प्रातराशात्प्राग्भगवन्तं श्रिया सह 11 अल ते निरपेक्षाय पूर्णकाम नमोऽस्तु ते । महाविभूतिपतये नमः सकलसिद्धये ॥ यथा त्वं कृपया भूत्या तेजसा महिनौजसा । जुष्ट ईश गुणैः सर्वैस्ततोऽसि भगवान् प्रभुः ॥ विष्णुपत्नि महामाये महापुरुषलक्षणे । प्रीयेथा मे महाभागे लोकमातर्नमोऽस्तु ते ॥ ॐ नमो भगवते महापुरुषाय महानुभावाय महाविभूतिपतये सह महाविभूतिभिर्बलिमुपहराणीति । अनेनाहरहर्मन्त्रेण विष्णोरावाहनार्घ्यपाद्योपस्पर्शनखान वासउपवीतविभू पणगन्धपुष्पधूपदीपोपहाराद्युपचारांश्च समाहित उपाहरेत् ॥ ७ ॥ हविःशेषं तु जुहुयादनले द्वादशाहुतीः । ॐ नमो भगवते महापुरुषाय महाविभूतिपत्तये स्वाहेति ॥ ८ ॥ कृष्णप्रिया व्याख्या अन्वयः - ब्रह्मन् भवता यत् पुंसवनं व्रतम् उदीरितं तस्य वेदितुम् इच्छामि येना विष्णुः प्रसीदति ॥ १ ॥ योषित मार्गशिरे शुक्ल पक्षे भर्तुः अनुज्ञया इदं सार्वकामिकं व्रतम् आदित: आरभेत ॥ २ ॥ मरुतां जन्म निशम्य च ब्राह्मणान् अनुमन्त्र्य शुदती स्नात्वा शुक्ल अम्बरे वसीत प्रातराशात् प्राकू श्रिया सह भगवन्तम् अलंकृता भूत्वा पूजयेत् ॥ ३॥ * पूर्णकाम निरपेक्षाय ते अलं नमः अस्तु महाविभूतिपतये सकलसिद्धये ते नमः ॥ ४ ॥ * * ईश यथा त्वं कृपया भूत्या तेजसा महिना ओजसा सर्वे: गुणैः जुष्टः ततः भगवान् प्रभुः असि ॥ ५ ॥ * * लोकमातः महामाये महापुरुषलक्षणे महाभागे विष्णुपत्नि मे प्रीयेथाः ते नमः अस्तु ॥ ६ ॥ ॐ महापुरुषाय महानुभावाय महाविभूतिपतये महाभूतिभिः सह भगवते नमः बलिं उपहराणि इति च अनेन मंत्रेण अहरहः विष्णोः आवाहनार्घ्यपाद्योप- स्पर्शनस्नानवास उपवीतविभूषणगन्धपुष्पधूपदीपोपहाराद्युपचारान् समाहितः उपाहरेत् ॥ ७ ॥ * * ॐ भगवते महापु- hara महाविभूतिपतये नमः स्वाहा इति हविःशेषं तु अनले द्वादशाहुती: जुहुयात् ॥ ८ ॥ श्रीधरस्वामिविरचिता भावार्थदीपिका ऊनविंशे तु यत्प्रोक्तं कश्यपेन दितेर्व्रतम् । तदेव विवृतं लोकहिताय हरितोषणम् ॥ १ ॥
तस्य प्रकारमिति शेषः ॥ १ ॥ * * मार्गशिरे मासे शुक्लपक्षे | आदितः प्रतिपदि ।। २ ।। अनुमंत्र्य पृष्ट्वा । शुक्ला दंता यस्याः सा शुक्लदती धौतदंता अलंकृता सती पूजयेत् ॥ ३ ॥ * * आदौ तावन्नमस्कार - मंत्रानाह अलमिति त्रिभिः । ते तुभ्यमलं पर्याप्तमेव सर्वं न किंचिदन्यैः कृत्यमस्त्यतः केवलं ते तुभ्यं नमोऽस्तु । पर्याप्तौ हेतवः । १. प्रा० पा० तत्र । २. प्रा० पा० – विष्णुर्येन । ३. प्रा० पा० - बादरायणिरुवाच । स्कं. ६ अ. १९ लो. १-८ अनेकव्याख्यासमलङ्कृतम् *
- भो ईश यथा
-
- महापुरुषस्य निरपेक्षाय हे पूर्णकाम महाविभूतिपतये लक्ष्मीपतये सकलाः सिद्धयोऽणिमाद्या यस्मिंस्तस्मै ॥ ४ ॥ यथावत् त्वं कृपादिभिर्जुष्टः महिना महत्त्वेन अन्यैश्च सत्यसंकल्पत्वादिभिः सर्वैर्गुणैः ततस्तस्मात् ॥ ५ ॥ परमेश्वरस्येव लक्षणानि निरपेक्षत्वादीनि यस्यास्तस्याः संबोधनम् ॥ ६ ॥ * पूजामंत्रमाह ॐ नम इति ॥ ७ ॥ हविःशेषमुपहारावशिष्टम् । होममंत्रं दर्शयति । ओमिति ॥ ८ ॥ वंशीधरकृतो भावार्थदीपिकाप्रकाशः … विवृतं व्याख्यानेन स्फुटितम् (१) हे ब्रह्मन्निति । सर्वज्ञोऽसीति भावः ॥ १-२ ॥ वसीत परिदध्यात् ॥ ३ ॥ अलमतिशयेन तुभ्यं नम एवास्तु देवांतरं यथा निजैश्वर्यसिद्धयर्थ सेवकानपेक्षते तथा न त्वमित्याह - निरपेक्षाय स्वाभाविक- महैश्वर्यवत्त्वादित्यर्थः । एवं पूर्णकामाय ते केन नैवेद्यादिना प्रीणयामि महाविभूतिपतये तुभ्यं कैर्गृहोद्यानरथगजदासीनृत्य- गीतदुंदुभिघोषाद्यैः एवं सकलसिद्धये स्वर्गापवर्गप्रेमादिसिद्धिदात्रे तुभ्यं कर्मज्ञानयोगभत्तयादिसाधनार्पणैः कथं प्रीणयामीति भावः ॥ ४ ॥ * * तदपि त्वत्कृपया सर्व घटेतेत्याह- यथा त्वं कृपया जुष्टस्थैव भूत्यादिभिश्व ततो हेतोस्त्वमेव भगवान सीत्यन्वयः । अयमर्थः - कृपया शत्तया जुष्टः सेवितः सन्भक्तदन्त्ततुलसीपत्रमात्रमप्यपेक्ष्यमाणः । अहमद्य क्षुधार्तोस्मि किंचिदेहीति भक्ताय याचमानो पूर्णकामोऽपि भवसि मम गृहोद्यानादिकं संप्रति जीण के विलसामीत्यादिस्वप्नांतरे ब्रुवन्विभूति- शून्योऽपि भवसि अणिमादिसिद्धियुक्तोऽपि भक्तप्रेम रशनया बद्धः कापि गंतुमपि न शक्नोषि तथैव भूत्या महालक्ष्म्या शक्त्या तेजसा सर्वानधीनतया शक्त्या महिना विभूत्या शक्तया च ओजसा बलेन सर्वैरन्यैश्च सत्यसंकल्पादिभिश्व सर्वत्र जगति निरपे- क्षत्वपूर्णकामत्वादिमांश्च भवसीति त्वमेव भगवांस्त्वमेव प्रभुर्भजनीय इति भावः ॥ ५ ॥ इत्थं भगवंतं प्रणम्य लक्ष्मीं प्रणमेदित्याह - विष्णुपत्नीति । विष्णुः पतिः पालको यस्यास्तत्संबुद्धौ तथा निर्भये इत्यर्थः । महामाये मायाशब्दस्य शक्तिवाचित्वात्पराख्यशक्तिरूपे । अत एव महापुरुषेति ॥ ६ ॥ उपहराणि समर्पयामि । उपस्पर्शनमाचमनम् । उपहारो नैवेद्यम् ॥ ७ ॥ ॐ स्वाहा सुहुतं भवतु इतिशब्दों मंत्रसमाप्तिद्योतक एव न तु मंत्रावयवः ॥ ८-९ ॥ अन्वितार्थप्रकाशिका ऊनविंशे मरुज्जन्महेतुव्रतविधिं मुनिः । जगद्धितायाकथयत्तत्र श्लोकाः कुवह्नयः (३१) ॥
उवाचद्वयमप्रथूनाः पञ्चत्रिंशदनुष्टुभः (३४ ।। ) ।। १९ ।। व्रत इति । हे ब्रह्मन् ! भवता यत् पुंसवनं व्रतमुदीरितं निरूपितं तस्य प्रकारविशेषं वेदितुं तत्त्वतो ज्ञातुमिच्छामि येन साङ्गेन व्रतेन विष्णुः प्रसीदति ॥ १ ॥ शुक्ले इति सार्द्धम् । भर्तुरनुज्ञया आज्ञया मरुतां जन्म व्रतारम्भात्पूर्वं निशम्य श्रुत्वा ब्राह्मणाननुमन्त्र्य पृष्ट्वा च योषित् मार्गशिरे मासे “पिण्डं दद्याद्याशिरे ।” इत्यादावदन्तोऽपि शिरशब्दः आर्षो वा । शुक्ले पक्षे आदितः प्रतिपदि सार्वकामिकं सर्वकामप्रदमिदं व्रतमारभेत ॥ २ ॥ * * स्नात्वेति । शुक्लाः धौताः दन्ताः यस्याः सा शुक्रुदती स्नात्वा शुक्ले अम्बरे वस्त्रे वसीत । ततश्चालंकृता सती प्रातराशात् प्रथमभोजनात् प्राक् श्रिया सह भगवन्तं पूजयेत् ॥ ३ ॥ * पूजानन्तरं नमस्कुर्या - तन्मन्त्रानाह - अलमिति । हे पूर्णकाम ! ते तुभ्यमलं पर्याप्तं नान्यैः किंचित्कार्यमस्ति अतः निरपेक्षाय ते तुभ्यं नमोऽस्तु । महाविभूतिर्लक्ष्मीस्तत्पतये सकलाः सिद्धयः अणिमाद्या यस्मिंस्तस्मै नमः ॥ ४ ॥ * * यथेति । हे ईश ! यतस्त्वं यथा यथावत्साकल्येन कृपया भूत्या श्रिया तेजसा ऐश्वर्येण महिना महिम्ना असङ्गत्वादिना ओजसा वीर्येण अन्यैश्व सत्यत्वा- नन्दत्वादिभिः सर्वैर्गुणैर्जुष्टः सेवितः परिपूर्णस्ततो हेतोर्भगवान् प्रभुः सर्वथा समर्थः सर्वपूज्यश्चासि ॥ ५ ॥ * लक्ष्मीं नमस्यति - विष्विति । हे विष्णोः पत्नि ! हे महामाये ! महापुरुषस्य पुरुषोत्तमस्य भगवत इव लक्षणानि निरपेक्षत्वादीनि यस्या: हे महाभागे ! मे मम प्रीयेथाः । हे लोकमातस्ते नमोऽस्तु ॥ ६ ॥ पूजामन्त्रमाह - ॐ नम इति । भगवते ऐश्वर्यादिगुणपूर्णाय अत एव महापुरुषाय पुरुषोत्तमाय अत एव महान् अनुभावः प्रभावो यस्य तस्मै अत एव महाविभूति- र्लक्ष्मीस्तस्याः पतये नमः । महाविभूतिभिरिति बहुवचनम् । विष्वक्सेनादिपार्षदानामुपलक्षणार्थं लक्ष्म्यादिसहिताय तुभ्यं बलमुपहराणि समर्पयामि । इतीति मन्त्रसमाप्तिद्योतकः ॥ ७ ॥ अनेनेति । समाहिता एकाग्रचित्ता सती अनेन मन्त्रेण विष्णोरावाहनादि अहरहः प्रतिदिनम् उपाहरेत् समर्पयेत् ॥ ८ ॥ हविरिति अर्द्धम् । हविः शेषमुपहारावशिष्टमनले द्वादशाहुतीर्जुहुयात् ॥ ९ ॥
- । होममन्त्रमाह – ॐ इति ॥ १० ॥ वीरराघवव्याख्या किं भूयः कथयामीति प्रश्नार्थं चोदितः पृच्छति राजा - व्रतमिति । हे ब्रह्मन् ! भवता यदुदीरितं पुंसवनाख्यं व्रतं तस्य पुंसवनस्य प्रपञ्चमिति शेषः । ज्ञातुमिच्छामि येन पुंसवनेन तच्छ्रवणेन वा भगवान् प्रसीदति ॥ १ ॥ ७५ एवमापृष्टः ५९४ श्रीमद्भागवतम् [ स्कं. ६ अ. १९ श्लो. १-८ प्रपचं व्रतमाह मुनिः- शक्ल इत्यादिना । मार्गशिरे मासि शुक्ले पक्षे कस्यांचिच्छुभतिथौ भर्तुरनुज्ञया योषिदिदं वक्ष्यमाणं सार्वकामिकम् अभिलषितसर्वपुरुषार्थसाधनं पुंसवनाख्यं व्रतमारभेत ॥ २ ॥ * * तत्रादितः प्रथमं मरुतां जन्म उत्पत्ति श्रुत्वा ब्राह्मणाननु मन्त्र्यानुज्ञाप्य तैरनुज्ञातेत्यर्थः । स्नात्वा शुक्काः धौताः दन्ताः यस्याः सा धौतदन्तेत्यर्थः । अहते नूतने शुक्ले च अंबरे वसित्वा प्रातराशात्प्रागेव भगवन्तं श्रिया लक्ष्म्या सह सलक्ष्मी पूजयेत् ॥ ३ ॥ * * तावन्नमस्कार मन्त्रानाह त्रिभिः - ते तुभ्यं अलं पर्याप्तमेव न किञ्चिदन्यैः कृत्यमस्ति तत्र हेतु:, हे पूर्णकाम अवाप्तसमस्तकाम ! अत एव निरपेक्षाय ते तुभ्यं नमः । पूर्णकामत्वमेव विशदयंस्तं विशिनष्टि —— महाविभूत्योर्नित्यलीलाविभूत्योरधिपतये अत एव सकलास्सिद्धयः अभिलषितानि यस्मात्तस्मै ॥ ४ ॥ * हे ईश ! यथा यतः त्वं कृपादिभिः सर्वैर्गुणगणैर्जुष्टः युक्तः ततस्त्वं भगवान् प्रभुरसि तत्र कृपा स्वार्थानपेक्षपरदुःखनिराचिकीर्षा भूतिरैश्वर्यं तेजः पराभिभवनसामर्थ्य महिमा लोकोत्तर प्रभावः ओजो बलं सर्वैरित्यनेनान्ये सर्वज्ञत्व सर्वशक्तित्वादयो गुणाः अभिनेताः ॥ ५ ॥ * * हे विष्णुपत्नि ! हे महामाये महाश्चर्य- शक्तियुक्ते ! लक्ष्यतेऽनयेति लक्षणा महापुरुष चिह्नभूतेत्यर्थः तथा महापुरुषस्य प्रिये, हे धामे, सर्वलोकसम्पदाश्रयभूते, हे लोकानां मातः, ते तुभ्यं नमः ॥ ६ ॥ ॐ पूजामन्त्रमाह – ॐ नम इति । भगवते पूर्णषाड्गुण्याय निरस्तनिखिलदोषाय
- महापुरुषाय पुरुषसूक्तप्रतिपाद्यमाहात्म्ययुक्ताय महानुभावाय लोकविलक्षणप्रभावाय महाविभूतेः महालक्ष्म्याः पतये विभूतिभिः सह सपार्षदायेत्यर्थः, तुभ्यं बलिमर्थ्यादिकम् उपहरामि समर्पयामीत्यनेन मन्त्रेण अहरहः विष्णोरावाहनाद्युपचारानुपाहरेत् । तत्रोपस्पर्शनमाचमनं उपहारो नैवेद्यं हविः आदिशब्देन तांबूलनीराजनादिकं विवक्षितं शेषं भगवते निवेदितं हविरनले द्वादशाहुतीः जुहुयात् ॥ ७ ॥ * * तत्र मन्त्रमाह - ॐनम इति ॥ ८ ॥ विजयध्वजतीर्थकृता पदरत्नावली अत्र निष्कामत्वेन क्रियमाणं पुंसवनं नाम व्रतं श्रीनारायणानुग्रहजनकं ज्ञानजनकत्वेन पुरुषार्थसाधनं भवतीत्य- भिप्रायेण प्रश्नोत्तरपूर्वकमेतद्व्रतं निरूप्यते पुंसवनस्य विधानम् ॥ १ ॥ * * मार्गशिरे धनुर्मासि शुक्लपक्षे सार्वकामिकं मोक्षादिसर्वपुरुषार्थसाधनम् आदितः शुक्लपक्षमारभ्य आदितो मरुतां जन्मेति वा । शुक्ल े अम्बरे च ॥ २-८॥ जीवगोस्वामिकृतः क्रमसन्दर्भ : ते तुभ्यमलं त्वदर्थं नान्येन प्रयोजनमस्तीत्यर्थः ॥ १-५ ॥ ॐ विष्णुपत्नीति । महामाये पराख्यशक्तिरूपे ! अत एव महापुरुषलक्षणे तदेकस्वरूपे ।। ६-९ ।। विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी विष्णुप्रसादनं चेतः क्रौर्य्यविध्वंसनं व्रतम् । नृपेण पृष्टो व्यवृणोदून विंशे मुनिः पुनः ॥ ० ॥ ॥। तस्य विधिमिति शेषः ॥ १ ॥ * : मार्गशिर्षे मार्गशीरे मासि आदितः प्रतिपदि ॥ २-३ ।। * अल- मतिशयेन तुभ्यं नम एवास्तु । देवान्तरो यथा निजैश्वर्यसिद्ध पर्थ सेवकान् अपेक्षते तथा न त्वमित्याह — निरपेक्षाय स्वाभाविक- महदैश्वर्यवत्त्वादित्यर्थः । एवं पूर्णकामाय ते केन नैवेद्यादिना प्रीणयामि । महाविभूतिपतये तुभ्यं कैर्गृहोद्यानरथगजदासीभृत्य- गीतदुन्दुभिघोषाद्यैः एवं सकलसिद्धये स्वर्गापवर्गप्रेमादिसिद्धिदात्रे तुभ्यं कर्मज्ञानयोगभत्त्यादिसाधनार्पणैः कथं प्रीणयामीति भावः ॥ ४ ॥ * * तदपि त्वत्कृपया सर्व घटत इत्याह-यथा त्वं कृपया जुष्टस्तथैव भूत्यादिभिश्च ततो देतोस्त्वमेव भगवानसीत्यन्वयः । अयमर्थः, कृपया शक्त्या जुष्टः सेवितस्सन भक्तदत्त तुलसीपत्रमात्रमप्यपेक्षमाणः अहमद्य क्षुधार्त्तोस्मि किञ्चिदेहीति भक्ताय याचमानोऽपूर्णकामोपि भवसि मम गृहोद्यानादिकं सम्प्रति जीर्ण व विलासामीत्यादि स्वप्नान्तरे ब्रुवन् विभूतिशून्यपि भवसि अणिमादिसिद्धियुक्तोपि भक्तप्रेमरशनया बद्धः कापि गन्तुमपि न शक्नोषि तथैव भूत्या महालक्ष्म्या शक्तत्या तेजसा सर्वानधीनतया शक्त्या महिम्ना विभूत्या शक्त्या च ओजसा बलेन सर्वैरन्यैश्च सत्यसङ्कल्पत्वादिभिश्च सर्वत्र जगति निरपेक्षत्वपूर्णकामत्वादिमांश्च भवसीति त्वमेव भगवान् त्वमेव प्रभुर्भजनीय इति भावः ॥ ५ ॥ * * इत्थं भगवन्तं प्रणम्य लक्ष्मीं प्रणमेदित्याह - विष्णुपत्नीति । महामाये, मायाशब्दस्य शक्तिवाचित्वात् पराख्यशक्तिरूपे अत एव महापुरुषस्य विष्णोर लक्षणानि निरपेक्षत्वादीनि यस्याः ॥ ६ ॥ * * पूजामन्त्रमाह - ओं नम इति ॥ ७ ॥ * * हविःशेषमुपहारावशिष्टम् ॥ ८-१० ।। स्कॅ. ६ अ. १९ लो. १-८] अनेकव्याख्यासमलङ्कृतम् शुकदेवकृतः सिद्धांतप्रदीपः ५९५ पुत्रदस्य व्रतस्य विष्णुप्रसादकरं विधिं पृच्छति - व्रतमित्येकोनविंशे । पुंसवनं पुत्रदं यद्व्रतं भवतोदीरितं तस्य येन विष्णुः प्रसीदति प्रसन्नो भवति तं विधिमिति शेषः वेदितुमिच्छामि ॥ १ ॥ मार्गशिरे तत्रापि शुक्ले पक्षे तत्रापि आदितः प्रतिपदि ॥ २ ॥ * * ब्राह्मणान् अनुमन्त्र्य पृष्ट्वा मरुतां जन्म निशम्य एकः पुत्रः सङ्कल्पितः व्रतप्रभावादेकोन- पश्च्चाशत्पुत्रा जाता इति व्रतमाहात्म्यसुचकं मरुतां जन्म ब्राह्मणेभ्यः श्रुत्वेत्यर्थः । तदनन्तरं ब्राह्मणाननुमन्त्र्य इदं करिष्ये इति पृष्ट्वा च स्नात्वा शुक्ले अलङ्कृताम्बरे मङ्गलद्रव्यैः संस्कृते वस्त्रे वसीतेत्यन्वयः ॥ ३ ॥ * प्रथमं नमस्कार मन्त्रानाह- अलमिति त्रिभिः। ते तुभ्यमलं पर्याप्तमेव सर्वं न किचिदन्यैः कृत्यमस्ति अतो निरपेक्षायापि केवलं ते तुभ्यं नमोस्तु । पय्र्याप्तौ हेतुदर्शनार्थं सम्बोधनं हे पूर्णकाम ! स्वतः पूर्णकाम, सकामैरस्मदादिभिः सिद्धिकामैश्व सेव्योसीति विशेषणाभ्यां सूचयति महत्यो विभूतयो यस्याः सकाशादुपासकानां सा महाविभूतिः श्रीः तस्याः पतये सकलाः सिद्धयो यस्मात्तस्मै ॥ ४ ॥ हे ईश ! त्वं कृपादिभिः सर्वैर्गुणैरैश्वर्यादिभिश्च यथा यथावज्जुष्टोसि अतो भगवानसि ॥ ५ ॥ * महती माया कृपा यस्याः सा महामाया महती चासौ मायाशक्तिर्महामायेति वा तस्याः सम्बोधनम् महापुरुषस्य विष्णोरिव लक्षणानि सौंदर्यादीनि यस्यान स्तस्याः सम्बोधनम् हे लोकमातः ! ते तुभ्यं नमः प्रीयेथाः प्रसन्ना भव ॥ ६ ॥ * पूजामन्त्रमाह- ॐ नम इति ॥ ७ ॥ ।। * ॥ हविःशेषमुपहारावशिष्टं होममन्त्रमाह ॐ नम इति ॥ ८ ॥ गोस्वामिगिरिधरलाल विहिता बालप्रबोधिनी
ऊनविंशे पुनः प्रश्न कृते राज्ञा शुकेन वै । क्रिया पुंसवनस्यात्र चान्तरङ्गा निरूप्यते ॥ १ ॥ पूर्णकामत्वमित्याशङ्कयाह-निरपेक्षायेति पूर्वं सामान्यतः पुंसवनं व्रतं श्रुत्वा तद्विशेषबुभुत्सया पृच्छति - हे ब्रह्मन् सर्वज्ञ भवता यत् पुंसवनं व्रतमुदीरितं निरूपितं तस्य प्रकारविशेषं वेदितुं तत्त्वतो ज्ञातुमिच्छामोत्यन्वयः । तेन तब के उपकार इत्यपेक्षायामाह — —ये व्रतेन विष्णुः प्रसीदति । तथा चात्र सभायां तन्निरूपणेन लोकस्य महानुपकारो भविष्यतीति भावः ॥ १ ॥ * * एवं पृष्टः शुको व्रतप्रकारं निरूपयति-शुक्ल इत्यादिना । भर्तुरनुज्ञया आज्ञया योषित् मार्गशिरे मासे शुक्ल पक्षे आदितः प्रतिपदि सर्वकामप्रदमिदं व्रतमारभेतेत्यन्वयः ॥ २ ॥ * * मरुतां जन्म व्रतारम्भात् पूर्वं निशम्य श्रुत्वा ब्राह्मणाननुमन्त्र्य पृष्ट् च आरभेतेत्यनुषङ्गः । एवं प्रारम्भकालं तत्प्रकारं चोक्त्वा पूजाप्रकार माह – स्नात्वेति । शुक्काः धौताः दन्ता यस्याः सा शुकुदती स्नात्वा अम्बरे वस्त्रे वसीत ततश्चालङ्कृता सती प्रातराशात् प्रथमभोजनात् प्राकू श्रिया सह भगवन्तं पूजयेदित्यन्वयः ॥ ३ ॥ पूजानन्तरं नमस्कारं कुर्यात्तन्मन्त्रानाह – अलमिति त्रिभिः । हे पूर्णकाम ते तुभ्यमलं पर्याप्तमेव सर्वं न किञ्चिदन्यैः कृत्यमस्ति अतः केवलं ते तुभ्यं नमोऽस्तु । सर्वप्राप्तौ हेतुमाह - महाविभूतिर्लक्ष्मीस्तत्पतये, सकलाः सिद्धयः अणिमाद्या यस्मिंस्तस्मै । ननु सर्व प्राप्तावपि वैराग्यं विना कथं पूर्ण कामत्वमित्याशङ्कयाह - निरपेक्षायेति ॥ ४ ॥ * हे ईश यतस्त्वं यथा यथावत् साकल्येन कृपादिभिरन्यैश्च सत्यत्वादिभिः सर्वैर्गुणैर्जुष्टः सेवितः परिपूर्णस्ततो हेतोर्भगवानसि प्रभुः सर्वथा समर्थः सर्वपूज्य- वासि । भूत्या श्रिया, तेजसा ऐश्वर्येण, महिम्ना असङ्गत्वादिना, आजसा वीर्येण ॥ ५ ॥ लक्ष्मीं नमस्यति - हे अ लोकमातस्ते तुभ्यं नमोऽस्तु । कथं लोकमातृत्वमित्यपेक्षायां लोकपितुर्विष्णोः पत्नीत्वादित्याशयेन सम्बोधयति - हे विष्णुपत्नीति, अत एव हे महाभागे इति । एतस्यैव विवरणार्थं सम्बोधनान्तरं हे महापुरुषलक्षणे इति, महापुरुषस्य पुरुषोत्तमस्य भगवत एव लक्षणानि तेनैव सम्पादितानि ऐश्वर्यापेक्षत्वादीनि यस्यास्तत्सम्बोधनम् । अत एव महामाये इति । किमर्थ नमस्यसि तत्राह - मे प्रीयेथा इति ॥ ६॥ पूजामन्त्रमाह- ॐ नम इति । भगवते ऐश्वर्यादिगुणपूर्णाय, अत एव महापुरुषाय पुरुषोत्तमाय, अत एव महान् अनुभावः प्रभावो यस्य तस्मै, अत एव महाविभूतिर्लक्ष्मीस्तस्याः पतये नमः । महाविभूतिभिरिति बहुवचनं विष्वक्सेनादिपार्षदानामुपलक्षणार्थम् । लक्ष्म्यादिसहिताय तुभ्यं बलिमुपहराणि समर्पयामि । इतीति मन्त्रसमाप्ति- । द्योतकः ॥ ७ ॥ मन्त्रस्य विनियोगमाह – अनेनेति । समाहितः वशीकृतदेहादिसङ्घातः सन् अनेन मन्त्रेण विष्णो- रावाहनादि उपाहरेत् समर्पयेदित्यन्वयः ॥ ८ ॥ * * हविश्शेषमुपहारावशिष्टम् ॥ ९ ॥ ओमिति ।। १० ।।
। भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी व्रतं यत् कश्यपेनोक्तं दित्यै तत्त्नविंशके । हिताय सर्वलोकानां तदेव विवृतं हरेः ॥ १ ॥
- होममन्त्रमाह- किं भूय इति प्रश्नार्थं चोदितो राजा पृच्छति । व्रतमिति । हे ब्रह्मन् भवता यत् पुंसवनं व्रतं उदीरितं, तस्य प्रपञ्चमिति शेषः । वेदितुम् इच्छामि । यतः, येन व्रतेन तच्छ्रवणेन वा, विष्णुः स्वयं श्रीहरिः, प्रसीदति ॥ १ ॥ * ५९६ श्रीमद्भागवतम् [ स्कं. ६ अ. १९ लो. १-८ एवं राज्ञा संपृष्टो मुनिस्तत्सप्रपञ्चमाह । शुक्कु इत्यादिना । मार्गशिरे मासि, शुक्ले पक्षे योषिदङ्गना, भर्तुः स्वस्वामिनः, अनुज्ञ- याऽऽज्ञया, सार्वकामिकं वान्छित सर्वपुरुषार्थसंसाधकं, इदं व्रतम् पुंसवनाख्यमेतद्रतमित्यर्थः । आदितः शुक्लपक्षमारभ्य, आरभेत ॥ २ ॥ * निशम्येति । आदाविति शेषः । प्रथममिति तदर्थः । मरुतां जन्मोत्पत्ति, निशम्य श्रुत्वा, ब्राह्मणान् अनुमन्त्र्य अनुज्ञाप्य पृष्वेति यावत् । तैरनुज्ञातेति शेषः । शुक्का दन्ता यस्याः सा शुकुदती, स्त्री स्नात्वा शुक्ले अहतोज्ज्वले, अम्बरे वसने, वसीत । ततः, अलंकृता सती, प्रातराशात् प्रथमाशनात् प्राकू, श्रिया सह भगवन्तं पूजयेत् ॥ ३ ॥ * * तत्र तावन्नमस्कारमन्वानाह त्रिभिः । अलमिति निरपेक्षाय ते तुभ्यं, अलं पर्याप्तमेव । न किंचिदन्यैः कृत्यमस्ति । तत्र हेतुः । हे पूर्णकाम समवाप्तसमस्तकाम, ते तुभ्यं नमः अस्तु । पूर्णकामत्वं विशदयंस्तं विशिनष्टि । महाविभूत्योर्नित्यलीलाविभूत्योः पतिस्तस्मै, लक्ष्मीपतये इति वा । सकलाः सिद्धयोऽणिमाद्याः अभिलषितफलानि वा यस्मात्तस्मै नमः ॥ ४ ॥ * * यथेति । हे ईश, यथा यतः, यद्वा यथा त्वं कृपया कृपा स्वार्थानपेक्षपरदुःखनिरा चिकीर्षा तथा भूतिरैश्वर्यं तया, तेजः पराभि- भवसामर्थ्यं तेन, महिर्महिमा लोकोत्तरसामर्थ्यमिति यावत् । तेन लोकोत्तर प्रभावेणेत्यर्थः । ओजो दिव्येन्द्रियपाटवं तेन, सर्वैः गुणैः, कृपादिभ्योऽन्यैः सत्यसंकल्पत्वादिगुणैश्च, जुष्टः असि । ततः, भगवान प्रभुश्च असि ॥ ५ ॥ * विष्णु- पत्नीति । हे विष्णुपत्नि, हे महामाये, महापुरुषस्येव लक्षणानि निरपेक्षत्वादीनि यस्यास्तस्याः संबोधनम् । हे महाभागे, हे लोकमातः, ते तुभ्यं नमः अस्तु । युवां प्रीयेथाम् प्रिये धामे इति कचित् पाठस्तत्पते, हे प्रिये महापुरुषस्य प्रीत्यतिशयाश्रयभूते, धामे सर्वलोकसंपदाश्रयभूते, हे लोकमातः, ते नमोऽस्त्विति योजना ॥ ६ ॥ पूजामन्त्रमाह । ॐ नम इति । भगवते
-
- पूर्णषाङ्गुण्याय, निरस्तनिखिलदोषायेति वा । महापुरुषाय पुरुषसूक्तप्रतिपाद्यमाहात्म्ययुक्ताय, महानुभावाय लोकविलक्षण- प्रभावाय, महाविभूतिर्लक्ष्मीस्तस्याः पतिस्तस्मै, महाविभूतिभिः सह स्वपार्षदादिमहाविभूतिसहितायेत्यर्थः । तुभ्यं बलिमर्ध्यादिकं, उपहरामि समर्पयामि । अनेन मन्त्रण, अहरहः प्रतिदिनं विष्णोः आवाहनं च अर्घ्य च पाद्यं च उपस्पर्शनं च स्नानं च वासश्च उपवीतं च विभूषणानि च गन्धश्च पुष्पाणि च धूपश्च दीपश्च उपहारश्च ते आदयो येषां ते ये उपचारास्तान् समाहिता स्थिरचित्ता सती, उपाहरेत् । समाहित इति पाठे याजक एकाग्रमनाः संसाधयेदित्यर्थः । तत्र उपस्पर्शनमाचमनं, उपहारो नैवेद्यं, चकारेण ताम्बूलनीराजनादिकं विवक्षितम् । हविःशेषं तूपहारावशिष्टं, नैवेद्यावशिष्टं हविरिति यावत् । अनले द्वादश, आहुती: जुहुयात् ॥ ७ ॥ * * तत्र होममन्त्रमाह । ॐ नम इति । भगवते महापुरुषाय, महाविभूतिपतये ॐ नमः । स्वाहा हविः समर्पयामि इति । श्रियमिति ॥ ७३॥ भाषानुवादः पुंसवन - व्रतकी विधि
राजा परीक्षितने पूछा- भगवन् ! आपने अभी-अभी पुंसवन व्रतका वर्णन किया है और कहा है कि उससे भगवान् विष्णु प्रसन्न हो जाते हैं । सो अब मैं उसकी विधि जानना चाहता हूँ ॥ १ ॥ * श्रीशुकदेवजीने कहा- परीक्षित ! यह पुंसवन-व्रत समस्त कामनाओंको पूर्ण करने वाला है । स्त्रीको चाहिये कि वह अपने पतिदेवकी आज्ञा लेकर मार्गशीर्ष शुक प्रतिपदा से इसका आरम्भ करे ॥ २ ॥ पहले मरुद्रणके जन्मकी कथा सुनकर ब्राह्मणोंसे आज्ञा ले। फिर प्रतिदिन सबेरे दाँतुन आदिसे दाँत साफ करके स्नान करे, दो श्वेत वस्त्र धारण करे और आभूषण भी पहन ले । प्रातःकाल कुछ भी खानेसे पहले ही भगवान लक्ष्मी-नारायणकी पूजा करे ॥ ३ ॥ ( इस प्रकार प्रार्थना करे) ‘प्रभो ! आप पूर्ण- काम हैं । अतएव आपको किसीसे भी कुछ लेना-देना नहीं है । आप समस्त विभूतियोंके स्वामी और सकलसिद्धिस्वरूप हैं । मैं आपको बार-बार नमस्कार करती हूँ ॥ ४ ॥ मेरे आराध्यदेव ! आप कृपा, विभूति, तेज, महिमा और वीर्य आदि समस्त गुणोंसे नित्ययुक्त हैं। इन्हीं भगों— एश्वयसे नित्ययुक्त रहनेके कारण आपको भगवान् कहते हैं । आप सर्वशक्ति- मान हैं ॥ ५ ॥ * माता लक्ष्मीजी ! आप भगवान्की अर्द्धाङ्गिनी और महामायास्वरूपिणी हैं। भगवान के सारे गुण आपमें निवास करते हैं । महाभाग्यवती जगन्माता ! आप मुझपर प्रसन्न हों, मैं आपको नमस्कार करती हूँ ॥ ६॥ परीक्षित्! इस प्रकार स्तुति करके एकाग्रचित्तसे ‘ॐ नमो भगवते महापुरुषाय महानुभावाय महाविभूतिपतये सह महा- विभूतिभिर्बलिमुपहराणि ।’ ‘ओङ्कारस्वरूप, महानुभाव, समस्त महाविभूतियोंके स्वामी भगवान् पुरुषोत्तमको और उनकी महा- विभूतियों को मैं नमस्कार करती हूँ और उन्हें पूजोपहारकी सामग्री समर्पण करती हूँ’ - इस मन्त्रके द्वारा प्रतिदिन स्थिर चित्तसे विष्णु भगवान्का आवाहन, अर्घ्य, पाद्य, आचमन, स्नान, वस्त्र, यज्ञोपवीत, आभूषण, गन्ध, पुष्प, धूप, दीप और स्कं. ६ अ. १९ श्लो. ९-१६] अनेकव्याख्या समलङ्कृतम् ५९७ नैवेद्य आदि निवेदन करके पूजन करे ॥ ७ ॥ * * जो नैवेद्य बच रहे, उससे ॐ नमो भगवते महापुरुषाय महा- विभूतिपतये स्वाहा ।’ ‘महान ऐश्वयोंके अधिपति भगवान् पुरुषोत्तम को नमस्कार है । मैं उन्हींके लिये इस हविष्यका हवन कर रही हूँ । ’ - यह मन्त्र बोलकर अग्निमें बारह आहुतियाँ दे ॥ ८ ॥ श्रियं विष्णुं च वरदावाशिषां प्रभवावुभौ । भक्त्या सम्पूजयेन्नित्यं यदीच्छेत्सर्वसम्पदः ॥ ९ ॥ प्रणमेद्दण्डवद्भूमौ भक्तिप्रण चेतसा । दशवारं जपेन्मन्त्रं ततः स्तोत्रमुदीरयेत् ॥ १० ॥ युवां तु विश्वस्य विभू जगतः कारणं परम् । इयं हि प्रकृतिः सूक्ष्मा माया शक्तिर्दुरत्यया ॥ तस्या अधीश्वरः साक्षात्वमेव पुरुषः परः । त्वं सर्वयज्ञ इज्येयं क्रियेयं फलभुग्भवान् ॥ गुणव्यक्तिरियं देवी व्यञ्जको गुणभुग्भवान् । त्वं हि सर्वशरीर्यात्मा श्रीः शरीरेन्द्रियाशया । नामरूपे भगवती प्रत्ययस्त्वमपाश्रयः ॥ यथा युवां त्रिलोकस्य वरदौ परमेष्ठिनौ । तथा म उत्तमश्लोक सन्तु सत्या महाशिषः ॥ इत्यभिष्ट्रय वरदं श्रीनिवासं श्रिया सह । तन्निःसार्योपहरणं दच्चाऽऽचमनमर्चयेत् ॥ ततः स्तुवीत स्तोत्रेण भक्तिप्रहेण चेतसा । यज्ञोच्छिष्टमवप्राय पुनरभ्यर्चयेद्धरिम् ॥ कृष्णप्रिया व्याख्या ११ ॥ १२ ॥ १३ ॥ १४ ॥ १५ ॥ १६ ॥ अन्वयः– यदि सर्वसंपदः इच्छेत् भक्त्या वरदौ आशिषां प्रभवौ श्रियम् विष्णुं च उभौ नित्यं संपूजयेत् ॥ ९ ॥ भक्तिप्रहेण चेतसा भूमौ दंडवत् प्रणमेत दशवारं मन्त्रं जपेत् ततः स्तोत्रम् उदीरयेत् ॥ १० ॥ * * युवां तु विभू विश्वस्य जगतः परं कारणं इयं हि सूक्ष्मा माया दुरत्यया शक्ति: प्रकृतिः ॥ ११ ॥ परः पुरुषः त्वम् एव साक्षात् तस्याः * * अधीश्वरः त्वं सर्वयज्ञः इयं इज्या भवान् फलभुक् इयं क्रिया ॥ १२ ॥ भवान् व्यंजकः गुणभुक् इयं देवी गुणव्यक्तिः त्वं हि सर्वशरीरी आत्मा श्रीः शरीरेन्द्रियाशया त्वं प्रत्ययः अपाश्रयः भगवती नामरूपे ॥ १३ ॥ यथा युवां त्रिलोकस्य वरदौ परमेष्ठिनौ तथा उत्तमश्लोक मे महाशिषः सत्याः सन्तु श्रीनिवासं अभिष्ट्य तत् उपहरणं निःसार्य आचमनं दत्त्वा अर्चयेत् ॥ १५ ॥ स्तुवीत यज्ञोच्छिष्टं अवप्राय पुनः हरिम् अभ्यर्चयेत् ॥ १६ ॥ श्रीधरस्वामिविरचिता भावार्थदीपिका ॥ १४ ॥ इति श्रिया सह ततः भक्तिप्रहेण चेतसा स्तोत्रेण प्रकर्षेण भवत्याभ्यामिति प्रभवौ ।। ९-११ ।। * इज्या यज्ञाभिनिवर्तकः पुरुषव्यापारो भावनाख्यः । क्रिया लौकिकी ।। १२ ।। * * प्रत्ययो नामरूपयोः प्रकाशकः अपाश्रयस्तयोराधारः ।। १३-१६ ॥ वंशीधरकृतो भावार्थदीपिकाप्रकाशः
दशवारं दशावृत्त्या तदूर्ध्वं यथाशक्त्या तावती सर्वथापेक्षितेति । ततो जपानंतरम् । स्तोत्रं युवां त्वित्यादि वक्ष्यमाण- सार्द्धचतुःश्लोकात्मकम् ।। १० ॥ * परात्परयोरपि तयोर्जगत्कारणत्वे हेतुमाह – इयमिति । इयं लक्ष्मी: सूक्ष्मा दुर्ज्ञेया दुरत्यया त्वया सह सर्वदा संगिनी “देवत्वे देवता चेयं मानुषत्वे च मानुषी” इत्युक्तेरनपायिनीत्यर्थः । मायापते तव कृपां विना तरीतुमशक्या " मामेव ये प्रपद्यंते मायामेतां तरंति ते” इति श्रीमुखोक्तेः ॥ ११ ॥ ॐ तस्या मायायाः ॥ १२ ॥ गुणानां सत्त्वादीनां व्यक्तिर्यतः सा तथा । व्यंजकश्चिच्छक्त्तत्यावेशेन मंत्राणां प्राकट्यकर्त्ता सर्वाणि शरीराणि यस्य स तथा तत्र हेतुरात्मेति । शरीरेन्द्रियाण्याशेरते यस्यां सा तथा । अप्रेंद्रियपदमंतरिंद्रियं मनोबुद्ध याद्यप्युपलक्षयति नामरूपास्तिभाति- प्रियाख्यपंचांशवद्वस्तुषु नामरूपे भगवती श्रीः प्रकृतिरेवात एव तयोस्त्याज्यत्वमभिहितमाचार्यैः अस्त्याद्यशत्रस्य प्रकाशरूपत्वा- त्वद्रूपत्वमत एव स्वामिचरणैर्व्याख्यातं प्रत्ययो नामरूपयोः प्रकाश इत्यादि ॥ १३ ॥ परमेष्ठिनौ वस्तुतो द्वयोरेक- रूपत्वात् । “तस्माज्ज्योतिरभूद्वेधा राधामाधवरूपकम्” इति संमोहनतंत्रोक्तन्यायेन । “द्विधा समभवबृहत् । तयोरेक- तरो ह्यर्थः प्रकृतिः सोभयात्मिका । ज्ञानं त्वन्यतमो भावः पुरुषः सोऽभिधीयते ||" इत्येकादशे उद्धवं प्रति श्रीकृष्णोक्तेश्च । हे 16 श्रीमद्भागवतम् [ स्कं. ६ अ. १९ श्लो. ९-१६ उत्तम श्लोकेति । मम श्रद्धाभत्त्यादिकं यादृशं तादृशमेव त्वयैव स्वस्योत्तम श्लोकतामपेक्ष्य मनोरथाः पूरणीयाः “अपि च कृपणपक्षे त्युत्तमश्लोकशब्दः” इति साक्षाच्छ्रुत्यवतारगोपीजनोत्तेरिति भावः ॥ १४ ॥ * ॥ * * तदुपहरणं नैवेद्यं निस्सार्य उत्थाप्ये- त्यर्थः । चक्रवर्ती तु तन्निसार्य निर्माल्यापाकरणं कृत्वेत्याह पुनरर्चयेत् ॥ १५ ॥ * * ततः पूर्ववत्स्तोत्रेण स्तुवीत यज्ञोच्छिष्टं पूजानिर्माल्यपुष्पादि पुनरभ्यर्चयेत्रिकालमर्चयेदिति निर्गलितोऽर्थः पुनः पुनरर्चनविधानात् ॥ १६ ॥ अन्वितार्थप्रकाशिका श्रियमिति । प्रभवौ उत्पादनसमर्थौ । स्पष्टमन्यत् ॥ ११ ॥ * * * प्रणमेदिति । स्पष्टम् ।। १२ ।। ** युवामिति । युवां विश्वस्य सर्वस्य जगतः विभू स्वामिनौ परं मुख्यं कारणं च युवामेव इयं लक्ष्मीरेव सूक्ष्मा दुर्ज्ञेया प्रकृतिः इयमेव दुरत्यया अनुल्लङ्घया मायारूपा शक्तिः ॥ १३ ॥ तस्याः इति । तस्या प्रकृतेरधीश्वरः नियन्ता परः पुरुषः साक्षात्त्वमेव त्वं सर्वयज्ञमूर्तिः इयं लक्ष्मीः इज्या यज्ञनिवर्तकः पुरुषव्यापारो भावनाख्यः इयं लौकिकी क्रिया भवान् फलभुगू जीवः ॥ १४ ॥ * * गुणेति । इयं देवी गुणानां व्यक्तिः भवांश्च गुणानां व्यञ्जकः कालः गुणभुकं विराट् त्वं ही सर्व- शरीरी सर्वजीवरूपः आत्मा श्रीश्च शरीरेन्द्रियाशयरूपा । स्त्रीत्वमार्षम् ॥ १५ ।। * * नामेति अर्द्धम् । नामरूपे भगवती लक्ष्मीः प्रत्ययो नामरूपयोः प्रकाशः अपाश्रयः तयोराधारश्च त्वम् ॥ १६ ॥ यथेति । यथा युवां त्रिलोकस्य वरप्रदौ परमेष्ठिनौ परमेश्वरौ च तथा हे उत्तमश्लोक ! मे मम महाशिषः महान्तोऽपि मनोरथाः सत्याः सन्तु ॥ १७ ॥ इतीति । वरदं श्रीनिवासं हरि श्रिया सह इत्यभिष्ट्य । दैर्घ्यमार्ष ततः तुगभावः । तदुपहरणं नैवेद्यनिर्माल्यादि निःसार्य अपसारणं कृत्वाऽऽचमनं दत्त्वा पुनरर्चयेत् ॥ १८ ॥ तत इत्यर्द्धम् । स्तुवीत पुनः स्तुबीत स्पष्टम् ॥ १६ ॥ यज्ञेति । पूर्वार्द्धं स्पष्टम् ॥ १९३ ॥ । वीरराघव व्याख्या * }} यदि सर्वसम्पदः इच्छेत्कामयेश्चेदेवं श्रियं लक्ष्मीं विष्णुं च आशिषां प्रभवौ प्रभवन्त्याभ्यामिति प्रभवो उभौ भक्त्या सम्यक पूजयेत् ॥ ६ ॥ * * भक्तचा प्रह्वेण नत्रेण शिरसेति शेषः चेतसा च दण्डवद् भूमौ प्रणमेत्, ततो मन्त्रम्, ओं नमो भगवते महानुभावाय महाविभूतिपतये इति मन्त्रं दशवारं जपेत् ततो वक्ष्यमाणं स्तोत्रमुदीरयेत् पठेत् ॥ १० ॥ तमेवाह - युवामिति । युवां विश्वस्य विभू विभुश्च विभ्वीच विभू ‘पुमान् स्त्रियेत्ये’ कशेषः, जगतः परं कारणं स्वयं कारणान्तररहित- कारणभूतौ इत्यर्थः इयं लक्ष्मीः प्रकृतिः “स्त्रीनाम्नी लक्ष्मीमैत्रेय” इत्युक्तप्रकारेण प्रकृत्यादिस्त्रीनामकपदार्थविभूतिमत्त्वात् प्रकृति- रित्युच्यते प्रकृतिपुरुषादिपदार्थानां स्त्रीपुंसात्मकानां तयोर्विभूतित्ववर्णनात्मकमिदं स्तोत्रं विभूतिभूतां प्रकृतिं विशिनष्टि, सूक्ष्मा कारणावस्थायां निरतिशयसूक्ष्मा दुरवबोधस्वरूपा वा माया आश्चर्यरूपा शक्तिः कार्योपयुक्ता भगवदपृथक सिद्धविशेषणभूता दुरत्यया भगवदप्रपन्नैरनतिलध्या, कथं भगवद्विभूतिभूतायाः प्रकृतेर्लक्ष्मीविभूतित्वमिति न शङ्कनीयं कृत्स्नस्य कार्यकारणा- त्मकस्य जगत उभयोरपि विशेषणत्वात् ॥ ११ ॥ * * तस्याः प्रकृतेरधीश्वरस्त्वमेव हे पुरुषोत्तम ! त्वमेव सर्वयज्ञ: इज्या त्वियं लक्ष्मीः तत्र यज्ञः प्रधानयागः इज्या त्वङ्गभूता दीक्षणीयेष्टचादिका तथा स्मार्त्तक्रिया च इयं लक्ष्मीरेव तादात्म्यमत्र तत्फलप्रदातृत्वेन तदाराध्यत्वेन च तद्विभूतित्वप्रयुक्तं तदेवाह - फलभुगिति, त्वम् इयं लक्ष्मीश्च यज्ञियं यत्फलं चरुपुरोडाशादिकं तक्ते इति तथा यद्वा, क्रियेयं लक्ष्मीः फलभुक् क्रियाफलभोक्ता तु त्वमिति वान्वयः क्रिया लक्ष्म्याः विभूतिः कर्ता तु त्वद्वि भूतिरित्यर्थः ॥ १२ ॥ * * तथा गुणव्यक्तिरियं देवी लक्ष्मीः या सर्ववस्तुगता गुणाभिव्यक्तिः सा लक्ष्मीः तद्विभूति- रित्यर्थः भोग्यत्वभोगोपकरणत्वादिगुणानां सर्ववस्तुगतानामभिव्यञ्जकस्तु भवान् त्वद्विभूतिरित्यर्थः तथा गुणभुग्भवान् भुक्तिस्त्वियं देवीत्यपि बोध्यं त्वं सर्वशरीरिणाम् आत्मा शरीरं यस्य तादृशः सर्वशरीरिणो जीवास्त्वद्विभूतिभूताः श्रीलक्ष्मीः सर्वेन्द्रियबुद्धिरूपा तद्विभूतिमतीत्यर्थः तथा नामरूपे भगवती लक्ष्मीः प्रत्ययः नामरूपविषयकः प्रकाशः अपाश्रयः आधारः नामरूपयोर्निर्वोढा च त्वमित्यर्थः ॥ १३ ॥ * * एवं तौ स्तुत्वा तयोरुक्तधर्मवैशिष्टयवत्प्रार्थनाया अपि सत्यत्वं प्रतिजानीते यथेति । युवां यथा त्रिलोकस्य वरदौ परमेष्ठिनौ च यथेदमसत्यं न भवतीति भावः हें उत्तमश्लोक ! तथा ममाशिषः त्वद्विषयप्रार्थनाः सर्वाः सत्यास्सन्तु श्रिया लक्ष्म्या सह सहितं श्रीनिवासं वरप्रदं इत्यमभिष्ट्य तत आवाहित भगवत्सका- शादुपहरणमविशिष्टं पूजाद्रव्यं निस्सार्य अपनीय भगवते आचमनं समर्प्य सम्यक् पुनरर्चयेत् ॥ १४-१५॥ * * ततः पुनः स्तोत्रेण स्तुवानाः स्तोत्रं कुर्बाणा: भक्तिकृत प्रह्वीभावेन चेतसा यज्ञोच्छिष्टमाघ्राय पुनरपि हरिमर्चयेत् ॥ १६ ॥ विजयध्वजतीर्थकृता पदरत्नावली प्रभवो जनको ॥। ९ ॥ * * दशवारं दशसङख्या तदूर्ध्वं यथाशक्ति तावती सर्वथाऽपेक्षिता ॥ १० ॥ * * सर्वयज्ञः सर्वान्तर्यामी इयं लक्ष्मी: इज्यान्तर्यामिण क्रियान्तर्यामिणी- “अन्तर्यामी तु यज्ञादेर्विष्णुरिज्यादिनां रमा । तत्तच्छ-स्कं. ६ अ. १९ श्लो. ९-१६] अनेकव्याख्यासमलङ्कृतम् ०५९९ दैस्ततो वाच्यैर्न तु सर्वस्वरूपतः । अन्तर्यामी श्रियश्चापि विष्णुरेव न संशयः । नान्तर्यामी कश्चिदस्ति विष्णोः कापि कुतश्चन ।” इति वचनात् फलभुक् यज्ञफलभोक्तरि यजमाने स्थित्वा तत्फलस्य भोजकः ।। ११-१२ । ४ ४ पत्त्वादिगुणानां व्यक्तेः कारणं फलव्यञ्जकः गुणभोक्तरि जीवे स्थित्वा तद्भोजकः शरीरेन्द्रियाणामभिमानिदेवता नामरूपयोर्गुणहेतुत्वात् श्रियश्च गुणाभिमानित्वान्नामरूपे श्रीरित्युच्यते प्रत्ययो निश्चयज्ञानं त्वत्प्रसादजनकत्वम् ।। १३-१४ ।। उपहरणं नैवेद्यं निःसार्य मोचयित्वा ॥ १५ ॥ स्तुवाना स्तुतिं कुर्वाणा यज्ञोच्छिष्टं पूजाशेषं महापुरुषो विष्णुरस्मिन्सन्निहित -इति बुद्धया ।। १६ ।। जीव गोस्वामिकृतः क्रमसन्दर्भ : ४ * युवामिति सार्द्धकं परात्परयोरपि तयोर्जगत्कारणत्वे हेतुमाह - इयं हीति । प्रकृतिनिजांशाभासेनेति भावः ॥ ११ ॥ तस्या इति । “विष्णोस्तु त्रीणि रूपाणि” इत्यादेः ॥ १२ ॥ * * तथैवाह - त्वमित्यादि ।। १३-२३ ।। । ‘विश्वनाथचक्रवतिकृता सारार्थदर्शिनी क इज्या यज्ञाभिनिवर्तकः पुरुषव्यापारो भावनाख्यः । क्रिया लौकिकी ॥ १२ ॥ प्रत्ययो नामरूपयोः प्रकाशकः अपाश्रयस्तयोराधारः परमेष्ठिनौ परमेश्वरौ । तन्निस्सार्य निर्मल्यापसारणं कृत्वा ॥ १३-१७ ।। शुकदेवकृत: सिद्धान्त प्रदीपः प्रकर्षेण भवन्त्याभ्यामिति प्रभवौ ॥ ९ ॥ * * भक्तिप्रह्वेन भक्तया नम्रेण ॥ १० ॥ * * युवां विश्वस्य परं कारणं ननु विश्वस्य परं कारणमेकमस्ति कथमावयोः परं कारणत्वत्राह - इयं या सा आश्चर्यरूपा शक्तिः एषः प्रपन्नवरदो रमयात्मशक्त्येति तृतीयस्कन्धोक्तेः प्रकृतिरनादिसिद्धा सूक्ष्मा सर्वैः प्राकृतैर्दोषैरस्पृष्टा दुरत्यया प्रकृतिकालकर्मादिभिर्दुर्लङध्या तस्यास्त्वमधीश्वरः स्वामी अतस्त्वच्छक्तितया त्वत्पत्नीत्वेन त्वदन्तर्गतत्वादियं सुतरां विश्वस्य कारणमित्यर्थः ॥ ११ ॥ * * श्रियः भगवदनपायिनीत्वं प्रतिपादयति - त्वं सर्वयज्ञ इत्यादिना । इज्या व्यापाररूपा क्रिया फलभोगानुकूलो भोक्तृव्यापारः इयं गुणव्यक्तिः भवान् गुणव्यंञ्जको गुणभुकू च प्रत्ययो नामरूपयोः प्रकाशकः अपाश्रयोऽन्यनिरपेक्ष आधारश्च त्वम् ।। १२-१३ ॥ परमेष्ठिनौ परमस्थानवादिनौ ॥ १४ ॥ तदुपहरणं तन्नैवेद्यं निःसार्य आचमनं
-
- दत्वा ताम्बूलपुष्पाञ्जल्यादिनाऽर्चयेत् ।। १५-१६ ॥ गोस्वामिगिरिधरलाल विहिता बालप्रबोधिनी $
• प्रकर्षेण जनाः भवन्त्याभ्यामिति प्रभवौ ।। ११-१२ ॥ विश्वस्य सर्वस्य जगतः विभू स्वामिनौ । युवां यतः कारणम् । तत्र कारणत्वं महदादीनामप्यस्तीति तत्रातिव्याप्तिवारणायाह - परमिति । ननु जगत्कारणत्वं तु प्रकृतिपुरुषयोः प्रसिद्धमित्याशङ्कच तावपि युवामेवेत्याह- इयमिति । इयं लक्ष्मीः प्रकृतिरेव । हीत्यवधारणे । सूक्ष्मा दुर्ज्ञेया माया इत्यपि प्रकृतेरेव नामान्तरम् । सैव तव दुरत्यया अनुल्लङ्घया शक्तिः ॥ १३ ॥ * * तस्याः प्रकृतेरधीश्वरः नियन्ता परः पुरुषः साक्षात्त्वमेव । त्वं सर्वयज्ञमूत्तिः इयं लक्ष्मीः इज्या यज्ञनिर्वर्त्तकः पुरुषव्यापारो भावनाख्यः । क्रिया लौकिकी । फलमुक जीवः ॥ १४ ॥ * सत्त्वादिगुणानां व्यक्तिः साम्यावस्था । गुणानां व्यञ्जकः कालः भोक्ता विराट् सर्वशरीरी जीवरूप: शरीरादिरूपा श्रीः ।। १५ ।। * * नामरूपे भगवती लक्ष्मीः । प्रत्ययो नामरूपयोः प्रकाशः अपाश्नयः तयो- राधारश्च त्वम् । एवं स्तुत्वा मनोरथान् प्रार्थयते - यथेति, यथा यर्हि युवां त्रिलोकस्य वरप्रदौ परमेष्ठिनौ परमेश्वरौ च ॥ १६ ॥ तथा तर्हि हे उत्तमश्लोक मे मम महाशिषः महान्तोऽपि मनोरथाः सत्याः सन्त्विति द्वयोरन्वयः । एवं भक्तमनोरथपूरणेनैव तव यशस उत्तमता जातेति सम्बोधनेन सूचितम् ॥ १७ ॥ तदुपहरणं नैवेद्यनिर्माल्यादि निस्सार्य अपसारणं कृत्वाऽs- महापुरुषचेतसा परमेश्वरबुद्धया ।। १९ ।। चमनं दत्त्वा पुनरर्चयेत् । पुनः स्तुवीत ॥ १८ ॥ * भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी यदि सर्वसंपदः इच्छेत्, तर्हि आशिषां मनोरथानां प्रभवन्त्याभ्यामिति प्रभवौ, वरदौ श्रियं विष्णुं च इति, उभौ भक्त्या नित्यं संपूजयेत् ॥ ८ ॥ * * प्रणमेदिति । भक्त्या प्रह्वं नम्रं तेन शिरसेति शेषः । चेतसा च भूमौ दण्डवत, प्रणमेत् । ततः दशवारं मन्त्र’, जपेत् । ॐ नमो भगवते महानुभावाय महाविभूतिपतये’ इति मन्त्र’ दशवारं जपेदित्यर्थः । ६०० श्रीमद्भागवतम् 3 [ स्कं. ६ अ. १९ श्लो. १७-२४ ततः, स्तोत्रं वक्ष्यमाणं स्तवम् उदीरयेत् पठेत् ॥ ९ ॥ तदेवाह । युवामिति । युषां तु, विश्वस्य विभ्वी च विभुव विभू, ‘पुमान् खिया’ इत्येकशेषः । जगतः परं कारणं, स्वयं कारणान्तररहितकारणभूतौ स्थ इत्यर्थः । इयं लक्ष्मीः, सूक्ष्मा कारणावस्थायां निरतिशयसूक्ष्मत्वादेव हि दुरवबोधस्वरूपा, माया कचित् मायाशब्देनाभिहिता । शक्तिः जगत्सर्गादौ कार्ये सर्वथोपयुक्ता, दुरत्यया भगवदप्रपन्नैरनतिलध्या, प्रकृतिः अस्ति हि ॥ १० ॥ तस्या इति । तस्याः प्रकृतेः,
-
- । अधीश्वरः साक्षात् परः पुरुषः, त्वम् एव असि । किं च । सर्वयज्ञः सकलयज्ञस्वरूपः प्रधानयागरूपो वा । त्वमेव । इथं लक्ष्मी:, इज्या यज्ञनिवर्त्तकः भावनाख्यः पुरुषव्यापारस्तद्रूपा, अङ्गभूता दीक्षणीयेष्टिर्वा । किं च । इयं लक्ष्मीः, क्रिया स्मार्त्तक्रियारूपा, लौकिक- क्रियारूपा भवान् फलभुक् क्रियाफलभोक्ता स्वमित्यर्थः । क्रिया लक्ष्म्या विभूतिः कर्त्ता तु त्वद्विभूतिरिति भावः ॥ ११ ॥ ** गुणव्यक्तिरिति । देवी, इयं लक्ष्मीः, गुणव्यक्तिः । या सर्ववस्तुगता गुणाभिव्यक्तिः सा लक्ष्मीविभूतिरित्यर्थः । गुणभुक, भवान् व्यञ्जकः, सर्व वस्तुगतानां भोग्यत्वादिगुणानामभिव्यञ्जको भवानतः गुणव्यञ्जकता त्वद्विभूतिरित्यर्थः । सर्वे च ते शरीरिणश्च ते आत्मा शरीरं यस्य सः, सर्वशरीर्यात्मा त्वं हि । शरीरेन्द्रियाशया, श्रीलक्ष्मी:, शरीरभाजः सर्वे जीवास्त्वद्विभूतिभूताः, सर्वशरीरेन्द्रियाशया बुद्धिर्लक्ष्मीविभूतिभूतेत्यर्थः । तथा, ये नामरूपे, ते भगवती लक्ष्मीः, प्रत्ययः नामरूपप्रकाशकः, त्वम् अपाश्रय आधारः । नामरूपयोर्निर्वोढा त्वमित्यर्थः ॥ १२ ॥ यथेति । यथा युवां त्रिलोकस्य वरदौ, परमेष्ठिनौ च भवथः । तथा हे उत्तमश्लोक, मे मम, महाशिषः सत्याः सन्तु ॥ १३ ॥ इतीति । श्रिया लक्ष्म्या सह, वरदं श्रीनिवासं भगवन्तं, इत्यमुना प्रकारेण अभिष्ट्यं, तत् उपहरणं निःसार्य, आवाहितभगवत्सकाशादवशिष्टं पूजाद्रव्यं किंचिद्दूरेऽपनी- येत्यर्थः । आचमनं दत्त्वा पूर्वाराधनसमाप्त्यनन्तरविधेयमाचमनं कारयित्वेत्यर्थः । अर्चयेत् । पुनरुत्तराराधनार्थकं हर्यर्चनं कुर्यादित्यर्थः ॥ १४ ॥ तत इति । ततः पुनः, स्तोत्रेण स्तुवीत । भक्तिप्रहेण भक्त्या नम्रीभूतेन चेतसा यज्ञोच्छिष्टम् अवप्राय पुनरपि हरिम् अभ्यर्चयेत् । अवशिष्टां पूजां विधिना समापयेदित्यर्थः ।। १५ ।। !
भाषानुवादः * * परीक्षित् ! जो सब प्रकारकी सम्पत्तियोंको प्राप्त करना चाहता हो, उसे चाहिये कि प्रतिदिन भक्तिभाव से भगवान् लक्ष्मीनारायणकी पूजा करे। क्योंकि वे ही दोनों समस्त अभिलाषाओंके पूर्ण करनेवाले एवं श्रेष्ठ वरदानी हैं ॥ ६ ॥ * इसके बाद भक्तिभाव से भरकर बड़ी नम्रतासे भगवान्को साष्टाङ्ग दण्डवत करे । दस बार पूर्वोक्त मन्त्रका जप करे और फिर इस स्तोत्रका पाठ करे ।। १० ।। 8
-
- ‘हे लक्ष्मी-नारायण ! आप दोनों सर्वव्यापक और सम्पूर्ण चराचर जगत्के अन्तिम कारण हैं, आपका और कोई कारण नहीं है । भगवन् ! माता लक्ष्मीजी आपकी मायाशक्ति हैं । ये ही स्वयं अव्यक्त प्रकृति भी हैं। इनका पार पाना अत्यन्त कठिन है ॥ ११ ॥ प्रभो ! आप ही इन महामायाके अधीश्वर हैं और ॥ ॥ आप ही स्वयं परम पुरुष हैं। आप समस्त यज्ञ हैं और ये हैं यज्ञ-क्रिया । आप फलके भोक्ता हैं और ये हैं उसकी उत्पन्न करनेवाली क्रिया ॥ १२ ॥ * * माता लक्ष्मीजी तीनों गुणोंकी अभिव्यक्ति हैं और आप उन्हें व्यक्त करनेवाले और उनके भोक्ता है । आप समस्त प्राणियों के आत्मा हैं और लक्ष्मींजी शरीर, इन्द्रिय और अन्तःकरण हैं। माता लक्ष्मीजी नाम एवं रूप हैं और आप नाम रूप दोनोंके प्रकाशक तथा आधार हैं ॥ १३ ॥ प्रभो ! आपकी कीर्ति पवित्र है ।
-
- आप दोनो ही त्रिलोकीके वरदानी परमेश्वर हैं । अतः मेरी बड़ी-बड़ी आशा अभिलाषाएँ आपकी कृपासे पूर्ण हों ॥ १४ ॥ परीक्षित्! इस प्रकार परम वरदानी भगवान् लक्ष्मीनारायणकी स्तुति करके वहाँसे नैवेद्य हटा दे और आचमन कराके पूजा करे ।। १५ ।। तदनन्तर भक्तिभावभरित हृदयसे भगवान् की स्तुति करे और यज्ञावशेषको सूँघकर फिर भगवान् की पूजा करे ।। १६ ।। पतिं च परया भक्त्या महापुरुषचेतसा । प्रियैस्तैस्तैरुपनमेत् प्रेमशीलः स्वयं पतिः । बिभृयात् सर्वकर्माणि पत्न्या उच्चावचानि च ॥ १७ ॥ कृतमेकतरेणापि दम्पत्योरुभयोरपि । पत्न्यां कुर्यादनर्हायां पतिरेतत् समाहितः ॥ १८ ॥ विष्णोर्व्रतमिदं विभ्रन्न विहन्यात् कथञ्चन । १९ ॥ विप्रान् स्त्रियो वीरवतीः स्रग्गन्धबलिमण्डनैः । अर्चेदहरहर्भक्त्या देवं नियममास्थितः ॥ उद्भास्य देवं स्वे धाम्नि तन्निवेदितमग्रतः । अद्यादात्मविशुद्ध्यर्थं सर्वकामर्द्धये तथा ॥ २० ॥ . ६ अ. १९लो. १७-२४ ] अनेकव्याख्यासमलङ्कृतम् एतेन पूजाविधिना मासान् द्वादश हायनम् । नीत्वाथोपचरेत्साध्वी कार्तिके चरमेऽहनि ॥ २१ ॥ श्रीभूतेऽप उपस्पृश्य कृष्णमभ्यर्च्य पूर्ववत् । 1 यः तेन जुहुयाच्चरुणा सह सर्पिषा । पाकयज्ञविधानेन द्वादशैवाहुतीः पतिः ॥ आशिषः शिरसाऽऽदाय द्विजैः प्रीतैः समीरिताः । प्रणम्य शिरसा भक्त्या भुञ्जीत तदनुज्ञया ॥ आचार्यमग्रतः कृत्वा वाग्यतः सह बन्धुभिः । दद्यात्पत्न्यै चरोः शेषं सुप्रजस्त्वं सुसौभगम् ॥ कृष्णप्रिया व्याख्या २२ ॥ २३ ॥ २४ ॥ ६०१ अन्वयः – महापुरुषचेतसा परया भक्त्या तैः तैः प्रियैः पतिम उपनमेत् च पतिं स्वयं प्रेमशीलः पत्न्याः
उच्चावचानि raat सर्वकर्माणि विभृयात् ॥ १७॥ - दंपत्योः एकतरेण अपि कृतं व्रतम् उभयोः अपि भवति पन्याम् अनर्हायां पतिः समाहितः एतत् कुर्यात् ॥ १८ ॥ * इदं विष्णोः व्रतं बिभ्रत् कथंचन न विहन्यात वग्गन्धबलिमण्डनैः विप्रान् वीरवतीः स्त्रियः देवं नियमम् आस्थितः भक्त्या अहरहः अर्चेत् ॥ १९ ॥ * * देवं खे धानि उद्वास्य अग्रतः तनिवेदितम् आत्मविशुद्धयर्थं तथा सर्वकामर्द्धये अद्यात् ॥ २० ॥ एतेन पूजाविधिना द्वादश मासान हायनं नीत्वा अथ साध्वी कार्तिके चरमे अहनि उपचरेत् ॥ २१ ॥ * श्वोभूते अपः उपस्पृश्य पूर्ववत कृष्णम् अभ्यर्च्य पतिः पयःशृतेन चरुणा सर्पिषा सह पाकयज्ञविधानेन द्वादश एव आहती: जुड़यात् ।। २२ ।। * * प्रीतैः द्विजैः समीरिताः आशिषः शिरसा आदाय शिरसा प्रणम्य तदनुज्ञया भक्त्या भुञ्जीत ॥ २३ ॥ बन्धुभिः सह वाग्यतः आचार्यम् अग्रतः कृत्वा सुप्रजस्त्वं सुसौभगं चरोः शेषं पत्न्यै दद्यात् ॥ २४ ॥ * श्रीधरस्वामिविरचिता भावार्थदीपिका महापुरुषचेतसा ईश्वरबुद्धयोपनमेद्भजेत् । पतिश्च स्वयं प्रेमशीलः सन् पत्न्याः सर्वकर्माणि बिभृयात् । तदनुकूलो - भवेदित्यर्थः ॥ १७ ॥ यतो दंपत्योर्मध्ये एकतरेण कृतमुभयोरपि भवति ॥ १८ ॥ * * न विहन्यान्न विच्छ्द्यिात् ।। १९-२० ॥ द्वादशमासानित्युक्ते कदाचित्तन्मध्ये मलमासे सति तेन सह द्वादशसंख्यायां सत्यां शुद्धस्यैकस्य त्यागः स्यात् । हायनमित्युक्ते तन्मध्यपतितस्य तस्यापि प्रसंग: स्यात् । तदुभयं वारयितुमुभयमुक्तम् । उपचरे- दुपवसेत् ।। २१ ।। * * श्वोभूते प्रभाते सति । पयसि शृतेन पक्केन । पाकयज्ञविधानेन पार्वणस्थालीपाक- विधानेन ।। २२-२३ ॥ * सुप्रजस्त्वं सत्पुत्रत्वकरमित्यर्थः । वाग्यतः सन् तद्यतस्तं शेषम् ॥ २४ ॥ । ॥ ।। ܀ वंशीधरकृतो भावार्थदीपिकाप्रकाशः
- तैस्तैयैयैर्वस्वान्नादिभिः पतिः प्रीयेत । उपनेमेत्सेवेतेत्यर्थः । पतिरपि पत्यनुसारो भवेत् । इत्यर्थ इति । पतिर्हि स्त्रियां व्रतं कुर्वाणाय स्वयं तदुपयोगिवस्त्वानयनादि कुर्यात्स्त्री च पत्यौ व्रतं कुर्बाण तथा कुर्यादिति भावः ॥ १७ ॥ * * नयां रजआदिना दूषितायाम् । पतिपत्न्योर्विवाह मंत्रैरे करूपताया विधानादिति भावः ॥ १८-१९ ॥ ॐ * अप्रत इति यलोपे पंचमी । अग्रभागं यथोचितं विभज्येत्यर्थः ॥ २० ॥ * उभयमुक्तमित्यस्य यस्मिन्वर्षेऽधिको मासो न स्यात्तस्मिन्वर्षे व्रतं कुर्यादित्यर्थः । चरमेऽहनि मार्गकृष्णामायां मासाश्शुकादयोऽत्र ग्राह्याः ‘शुक्ल’ मार्गशिरे पत्ते’ इत्युक्तेः । शुकु प्रारब्धस्य कृष्णे पक्षे एव वत्सरसमाप्तिर्भवति ‘हायनोऽस्त्री शरत्समाः’ इत्यमरः ॥ २१ ॥ * * पर्वसूत्सवेषु
- • विवाहादिषु यत्स्थालीपाकविधानं स्मार्त्तसूत्रोक्तविधानं यथा “अथातो गृह्यस्थालीपाकानां कर्म” इत्यादिकात्यायन सूत्रोक्तं यत्कर्मविधानं तेन । सूत्रार्थस्तु - अथ श्रौतकर्मविधानानंतरम् । यतः श्रतानि कर्माण्यभिहितानि स्मार्त्तान्यभिधेयानि अतो हेतोर्गृह्ये “आवसथ्याग्नौ ये स्थालीपाकास्तेषां कर्मक्रियानुष्ठानमिति व्याख्यास्यते” इति सूत्रशेषः । तच विधानं भूसंस्काराग्नि- संस्काराघाराज्यभागव्याहृतिप्रायश्चित्तस्विष्टकृद्धोमादिरूपं सर्वकर्मसाधारणमेव “एष एव विधिर्यत्र कचिद्धोमे” इति सूत्रात् । : - एष परिसमूहनादिपर्युक्षणपर्यंतो विधिरेव न मंत्राः यत्र क्वचन लौकिके स्मार्त्ते वामौ होमस्तत्र वेदितव्यम् । “अन्वा - रब्धावाराज्यभागौ महाव्याहृतयः सर्वप्रायश्चित्तं प्राजापत्यं स्विष्टकृचैतन्नित्यं सर्वत्र" इति सूत्रांतराच्चेत्यलम् । प्रकृतमनु- सरामः - आहुतिमंत्रः प्रागुक्त एव “पर्व क्लीबं महे ग्रंथौ प्रस्तावे लक्षणांतरे । दर्शप्रतिपदोः संघौ विषुवत्प्रभृतिष्वपि ॥” इति मेदिनी ॥ २२ ॥ * तदनुज्ञया ब्राह्मणानुज्ञया ।। २३ ।। इत्यर्थ इति । प्रजाशब्दस्य नृपपालनीय- समस्तस्थावरजंगमवाचित्वमप्यस्ति तद्वारणाय सत्पुत्रत्वमित्युक्तमिति भावः । सुष्ठु सौभगं सौभाग्यं यत इति शेषविशेषणम् ॥ २४ ॥
- अस्यार्थः-
- ७६
- *
- 8
- ६०२
- श्रीमद्भागवतम्
- अन्वितार्थप्रकाशिका
- *
- [ स्कं. ६ अ. १९ श्लो. १७-२४
- प्रितैरिति । प्रीयैस्तैः प्रियैः सह
- पतिं महापुरुषचेतसा परमेश्वरबुद्धया अभ्यर्चयेदित्यनुषङ्गः ॥ २० ॥ तत्प्रियसम्पादनपूर्वकं पतिमुपनमेत् । पतिश्च प्रेमशीलः सन् पत्न्याः उच्चावचानि सर्वाणि कर्माणि स्वयं बिभृयात्तदनुकूलतया पूजादिषु साहाय्यं कुर्यात् ॥ २१ ॥ कृतमिति । यतो दम्पत्योर्मध्य एकतरेणापि कृतमुभयोरपि फलकारणं भवति । तस्मात्पत्न्यामनयां पतिः स्वयं समाहितः सन्नतत्कुर्यात् ॥ २२ ॥ * विष्णोरिति । इदं विष्णोर्व्रतं बिभ्रत्कथंचन कामक्रोधादिवशादपि न विहन्यात् । पूर्वाध्यायोक्तानां निषेधानामुपलक्षणमिदं विप्रादीन् स्रगादिभिर्भक्त्या अर्चेदित्य- पकर्षः ॥ २३ ॥ अर्चेदित्यर्द्धम् । एवं नियममास्थितः सन् देवं भक्त्या अहरहरर्चेत् ॥ २४ ॥ * * उद्वास्येति । देवं भगवन्तं स्वे धाम्नि उद्वास्य संहारमुद्रया विसर्प्य तन्निवेदितमप्रत इति ल्यब्लोपे पञ्चमी । अग्रभागं यथोचितं विभज्य तत आत्मविशुद्धयर्थं तथा सर्वकामानामृद्धये स्वयमद्यात् ॥ २५ ॥
- एतेनेति । साध्वी एतेन पूजाविधिना द्वादशमासा त्मकं हायनं संवत्सरं यस्मिन् वर्षे व्रतारम्भात्सप्तम्यन्तमधिमासो न पतति तमित्यर्थः । नीत्वा अथो कार्त्तिके चरमेऽहनि पूर्णमास्यामुपचरेत् उपवसेत् ॥ २३ ॥ * श्वोभूत इति सार्द्धम् । श्वोभूते कृष्णप्रतिपदि अप उपस्पृश्य पूर्ववत् कृष्णमभ्यर्च्य पाकयज्ञविधानेन गृह्यसूत्रोक्तेन पयःशृतेन घृतपक्वेन सह सर्पिषा सघृतेन चरुणा पतिरेव द्वादशाहुतीर्जुहुयात् । एवकारः स्त्रिया होमेऽनधिकारं सूचयति ॥ २७ ॥ * आशिष इति । स्पष्टम् । प्रीतैरित्यनेन प्रथमतस्तेषां भोजनादिकं सूचितम् । कचित्पुस्तके तु " ब्राह्मणान् भोजयेद्भक्त्या स्वन्नाद्यैर्द्वादशान्विभुः । तेभ्यो दद्यात्तिलान् गाच सोदपात्रसमन्वितान् ॥” ’ इत्येकः श्लोकोऽधिकोऽस्ति ॥ २८ ॥ * आचार्यमिति । बन्धुभिः सहितः वाग्यतः धृतमौनः आचार्यम् अग्रतः कृत्वा आचार्याज्ञापुरःसरं यथा भवति तथेत्यर्थः । सुप्रजस्त्वं सत्पुत्रकरं सुसौभगं सौभाग्यकरम् इति चरुविशेषणम् । चरोः शेषं पत्न्ये दद्यात् । यद्वा तस्य सुप्रजस्त्वं सुसौभगं च स्यात् इति वाक्यान्तरम् ।। २९ ॥
- ।
- वीरराघवव्याख्या
- महापुरुषचेतसा ईश्वरबुद्धया परया भक्तचा तैस्तैः प्रियैर्वस्तुभिश्च पतिमुपनमेत् भजेत् पतिरपि भार्यायां स्वयं प्रेम- शीलस्सन् पत्न्याः कर्माणि सर्वाणि विभृयात् पोषयेत् उक्तधर्मानुकूलो भवेदित्यर्थः ॥ १७ ॥ एवमन्योन्यानुकूल्ये कारणमाह- कृतमिति । दम्पत्योरन्यतरेणापि कृतं कर्म उभयोरपि फलदं भवति यतस्ततोऽन्योन्यानुकूल्येन भाव्यमिति भावः ॥ १८ ॥ अत एव पत्न्यामनर्हायाम् अशक्तायां सत्यां पतिरेव एतद्रतं समाहितः समाहितचित्तस्सन् कुर्यात् पन्यशक्ता चेत् कर्तुं भर्ता कुर्यादित्यर्थः । विष्णोरिदं व्रतं विभ्रत् केनापि हेतुना न विहन्यात् अन्तरितं न कुर्यात् विप्रान् वीरवतीः पुत्रवती: जीवद्भर्तृकाश्च स्त्रियः स्रगादिभिः अहरहः एवं व्रतमास्थितः पुमानभ्यर्चयेत् ॥ १९ ॥ ततो देवं भगवन्तं स्वे धानि स्वस्थाने हृदादा- वित्यर्थः । उद्वास्य अग्रतः तस्मै भगवते निवेदितं हविः आत्मनो विशुद्धयर्थं सर्वकामप्राप्त्यर्थं च अद्यात् अनीयात् ॥ २० ॥ अनेन उक्तेन पूजाविधानेन द्वादशमासान् हायनं वत्सरं नीत्वा कार्तिके मासि चरमे अहनि उपचरेत् व्रतोद्यापनाङ्गमुपचारं कुर्यात् । द्वादशमासानित्युक्ते कदाचित्तन्मध्ये मलमासे सति तेन सह द्वादशसङ्ख्यायां सत्यां शुद्धस्यैकस्य त्यागः स्यात् हायनमित्युक्ते तन्मध्यपातिनस्तस्यापि प्रसङ्गः स्यात् तदुभयं वारयितुं द्वादशमासान् सम्वत्सरमित्युभयोर्ग्रहणम् ॥ २१ ॥ * * उपचार - मेवाह - श्वोभूत इति । श्वोभूते प्रातः अप उपस्पृश्य स्नात्वा पूर्ववद्भगवन्तमभ्यर्च्य पयःशृतेन पयसि क्षीरे पक्केन चरुणा " शृतं पाकः” इति निपातितः शृतशब्दः सहसर्पिषा सर्पिस्सहितॆन पाकयज्ञविधिना द्वादशैवाहुतीः पतिर्जुहुयात् ॥ २२ ॥ * * ततो द्वादश ब्राह्मणान् साध्वन्नैः समीचीनान्नैः भक्तचा भोजयेत् आत्मवित् ब्राह्मणान् परमात्मरूपत्वेन पश्यन्नित्यर्थः । तेभ्यो ब्राह्मणेभ्यः पूर्णोदकपात्रैस्सहितान् गुडान्वितान् तिलान् लाजांश्च दद्यात् ॥ ० ॥ * * द्विजैस्समीरिताः प्रयुक्ताः आशिषः शिरसा धारयन् तेभ्यः प्रणम्य ततस्तदनुज्ञया स्वयं भुञ्जीत ॥ २३ ॥ * * ततो बन्धुभिस्सह आचार्यमग्रतः पुरः कृत्वा उपवेश्य सुप्रजस्त्वसौभगत्वफलकं चरोर्हविःशेषं पत्न्यै दद्यात् ॥ २४ ॥
- "
- ।।
- विजयध्वजतीर्थकृता पदरत्नावली
- पतिः स्वयं यदि पत्न्यां प्रेमशीलस्तर्हि पत्न्यै पत्त्यर्थे, उच्चावचानि सर्वकर्माणि पतिर्बिभृयात् तर्हि तत्पत्नीकृतं न स्यादिति शङ्का मा भूत् उभयोर्दम्पत्योरेकतरेण कृतमिदं पत्न्या कृतं भवति ॥ १७ ॥ * रजोदर्शनादिनाऽनयां पत्न्यां कथमेतदनुष्ठानमन्तरितं घटत इति तत्राह - पत्न्यामिति । १८ - २० ॥ द्वादश मासान् तदात्मकं हायनं “ सम्बत्सरो
- ।। १८-२० ।। वत्सरोऽब्दो हायनोऽस्त्री शरत्समाः" इत्यभिधानात् वर्ष नीत्वा कार्तिके मासि चरमेऽहनि अवसानदिवसे पूर्ववत् पूर्वोक्ता- चनविधिना ॥ २१ ॥ * * पयःशृतेन क्षीरपक्केन पाकयज्ञविधानेन स्मार्तसूत्रोक्तविधिना होममन्त्रस्तूत एव ।। २२-२३ ॥
- स्कं. ६ अ. १९ श्लो. १७-२४]
- अनेकव्याख्या समलङ्कृतम्
- ६०३
- द्वादशात्मवित्केशवादिद्वादशमूर्त्तिलक्षणवेत्ता, ब्राह्मणान द्वादश तत्प्रीतये भोजयेदित्यर्थः । सोदपात्रानुदपात्रसहितान् इलान्वितान् भूमिसहितान् तिलान् भूमितलसहितगुडशब्दवाच्यैः पायसाद्यधिकान्नयुक्तानिति वा शोभनं प्रजास्त्वं येन स तथा ॥ २४ ॥
- जीवगोस्वामिकृतः क्रमसन्दर्भः
- अग्रत इति तदग्रिमदेशं त्यक्त्वा तदग्रे भोजननिषेधात् ॥ २४-२८ ॥
- इति श्रीमद्भागवत महापुराणे षष्ठस्कन्धे श्रीमज्जीवगोस्वामिकृतक्रमसन्दर्भे एकोनविंशोऽध्यायः ॥ १९ ॥ समाप्तोऽयं स्कन्धः ॥
- विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी
- दम्पत्योर्मध्ये एकतरेण कृतमुभयोरपि भवति ।। १८ ।।
- न विहन्यात् न विच्छिन्द्यात् ॥ १९ ॥ * * अग्रत इति ल्यब्लोपे पञ्चमी अग्रभागं यथोचितं विभज्येत्यर्थः ।। २० ।। * * चरमेहनि पौर्णमास्याम् ।। २१ ।। * * श्वोभूते प्रभाते सति पयसि श्रुतेन पक्केन पाकयज्ञविधानेन पार्वणस्थालीपाकविधानेन ।। २२-२३ ॥ * शेषं सुप्रजस्त्वं सुप्रजस्त्वकरं सुसौभगं सुसौभगकरन । यद्वा ततस्तस्य सुप्रजस्त्वं स्यादिति वाक्यान्तरम् ।। २४ ।।
- शुकदेवकृतः सिद्धांतप्रदीपः
- महापुरुषचेतसा विष्णुबुद्धया पतिं चोपनमेद्भजेत् पतिश्च पल्याः सर्वकर्माणि विभृयादित्युत्तरेणान्वयः ।। १७ ।। येत एकतरेण कृतमुभयो पत्योर्भवति अनर्हायां सत्यां पतिरेव कुर्यात् न विहन्यात् न छिंद्यात् । अग्रतः इत्यत्र सार्वविभक्तिकस्तसिः श्रेष्ठैर्गुर्वतिथ्यादिभिः सह अद्यात् ॥ १८-२० ॥ * * श्रीनिबार्काय नमः । एतेन पूजाविधिना द्वादश मासान हायनं द्वादशमासयुक्तं हायनं मलमासयुक्त हायनव्यतिरिक्तमित्यर्थः । नीत्वा उपचरेदेवं कार्तिके चरमेऽहनि अमावास्यायामित्यर्थः । अभावास्यातः कार्तिकोऽत्र ज्ञेय : “शुक्ले मार्गशिरे पक्षे योषिद्धर्तुरनुज्ञया । आरभेत व्रतमिदं सार्वकामिकमादितः" इत्युपक्रमा- नुसारात् ।। २१ ।। * * तत्र विधिमाह - वोभूते इत्यादिना । श्वोभूते प्रभाते सति अप उपस्पृश्य स्नानादिकं विधाय पूर्ववत्
- पयःशृतेन ॥ कृष्णमभ्यर्च्य पयः शृतेन पयसि पक्केन पाकयज्ञविधानेन पार्वणस्थालीपाकविधानेन ॥ २२ ॥ तदनुज्ञया ब्राह्मणा- नुज्ञया ॥ २३ ॥ ** सुप्रजस्त्वं सुप्रजस्त्वकरं सुसौभगं सुसौभगकरम् ।। २४-२५ ।।
- गोस्वामिगिरिधरलाल विहिता बालप्रबोधिनी
- *
- प्रियैः सह तत्प्रियसम्वादनपूर्वकं पतिमुपनमेत् । पतिश्च प्रेमशीलः सन् पत्न्याः कर्माणि स्वयं विभृयात् तदनुकूलतया पूजादिषु साहाय्यं कुर्यादित्यर्थः ॥ २० ॥ पत्युः कर्मकरणे हेतुमाह–यतो दम्पत्योर्मध्ये एकतरेणापि कृतमुभयोरपि फलकारणं भवति तस्मात् पत्न्यामनर्हायां पतिः स्वयं समाहितः सन्नेतत्कुर्यादित्यन्वयः ॥ २१ ॥ पूर्वाध्यायोक्तानां निषेधानामुपलक्षणमिदम् । न विहन्यादिति, हिंसादीनि न कुर्यादित्यर्थः । कथञ्चन कामक्रोधादिवशादपि । विप्रादीन स्रगादिभिर्भक्त्या अर्चयेदित्युत्तरेणान्वयः ।। २२ ।। * * देवं भगवन्मूर्ति स्वधानि भगवन्मन्दिरे उद्वास्य कपाटादिमुद्र- णेनान्तर्धाय तन्निवेदितमग्रतो यथोचितं विभागेन दत्त्वाऽऽत्मविशुद्धयर्थं स्वयमद्यादित्युत्तरेणान्वयः ॥ २३ ॥ एतेन विधिना द्वादशमासात्मकं हायनं संवत्सरं नीत्वा चरमेऽहनि पौर्णमास्यामुपचरेत् उपवसेदित्यन्वयः । द्वादशमासा- नित्युक्ते कचिन्मलमासे सति शुद्धस्यैकमासस्य त्यागः स्यात्तत्सङ्ग्रहाय हायनमित्युक्तमिति ज्ञेयम् ॥ २४ ॥ * * श्वोभूतेति द्वयोरन्वयः । पतिरिति होमे पत्युरेवाधिकार इति सूचयति ।। २५-२६ ।। * प्रीतैरित्यनेन प्रथमतस्तेषां भोजनादिकं सूचितम् । कचित्पुस्तके तु ‘ब्राह्मणान् भोजयेद्भक्त्या स्वन्नाद्यैर्द्वादशान् विभुः । तेभ्यो दद्यात्तिलान गाव सोदपात्रसमन्वितान्’ इत्येकः श्लोकोऽधिकोऽस्ति ॥ २७ ॥ सुप्रजस्त्वं सत्पुत्रनिमित्तम्, सुसौभगं सौभाग्यकरम् । अनेन पुत्रनिमित्तता
- नास्ति चेत् स्वयमप्यद्यादिति सूचितम् ॥ २८ ॥
- भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी
- पतिं चेति । पतिं स्वस्वामिनं चापि, महापुरुषचेतसा पत्यौ महापुरुषभावं चेतसा कृत्वेत्यर्थः । परया भक्त्या, उप- नमेत् । तैः तैः, प्रियैः वस्तुभिः, पतिं भजेश्च । स्वयं पतिरपि भार्यायां प्रेमशीलः सन् पत्न्याः उच्चावचानि सर्वकर्माणि च,
- 1
- ६०४
- *
- *
- श्रीमद्भागवतम्
- |
- [ स्कं. ६ अ. १९ श्लो. २५-२८ विभृयात् पोषयेत् । उक्तधर्मानुकूलो भवेदित्यर्थः ॥ १६ ॥ एवमन्योऽन्यानुरूप्ये कारणमाह । कृतमिति । दपत्योः,
- । ।। * एकतरेणापि, कृतं कर्म, उभयोरपि फलदा भवतीति शेषः । यत एवं ततोऽन्योन्यानुकूल्येन भाव्यमिति भावः । अत एव, पन्यां स्त्रियां, अनर्हायामशक्तायां सत्यां पतिः एव एतद्वतं समाहितः स्थिरचित्तः सन् कुर्यात् । पत्न्यशक्ता चेद्वत्तैतद्रतं कुर्यादित्यर्थः । विष्णोः इदं व्रतं बिभ्रत् जनः, कथंचन केनापि हेतुना, न विहन्यात् । अन्तरितं न कुर्यादित्यर्थः ॥ १७ ॥ * * विप्रा- निति । विप्रान् ब्राह्मणान्, वीरवती, स्त्रियश्च अहरहः प्रतिदिनं एवमुक्तप्रकारेण, नियमम् आस्थिता सती, सग्गन्धबलिमण्डनैः, भक्तत्या देवम् अर्चयेत् ॥ १८ ॥ उद्वास्येति । ततः, देवं भगवन्तं स्वे धाग्निः स्वस्थानभूते हृदयादावित्यर्थः । उद्वास्य आवास्य, अप्रतो भगवदर्चापुरोभागे, निवेदितं यद्धविः, तत् आत्मविशुद्धयर्थं तथा सर्वकामर्द्धये सकलकामप्राप्त्यर्थं च अद्यादभीयात् ॥ १९ ॥ एतेनेति एतेनोक्तेन, पूजाविधिना, द्वादशमासान् द्वादशमासात्मकं हायनं संवत्सरं नीत्वाऽतिक्रम्य, अथ साध्वी कार्त्तिके मासि, चरमेऽहन्यन्ति मदिने, उपचरेत् व्रतोद्यापनान्नमुपचारं कुर्यादित्यर्थः । द्वादश- मासानित्युक्ते कदाचित्तन्मध्ये मलमासे आगते सति तेन सह द्वादश संख्यायां सत्यां शुद्धस्यैकमासस्य त्यागः स्यात् । केवलं हाय- नमित्येवोक्तॆ तन्मध्यपातिनो मलमासस्यापि व्रते प्रसङ्गः प्राप्तः स्यात्तदुभयं वारयितुं द्वादशमासान् हायनं चेत्युभयोर्ग्रहणं कृतम् ॥ २० ॥ * * उपचारमेवाह । श्वोभूत इति । श्वोभूते प्रातःकाले जाते, अपः उपस्पृश्य स्नात्वा, पूर्ववत् पूर्वोक्त- विधिना, कृष्णम् अभ्यर्च्य पयः शृतेन पयसि पकेन, ‘त पाक’ इति निपातितः शृतशब्दः । सह सर्पिषा सर्पिः सहितेन चरुणा, जुहुयात् ।। २१ ।। * * तत्प्रकारमाह पार्केति । पतिः पाकयज्ञविधानेन, द्वादश एव आहुतीः, जुहुयात् । ततः, भक्त्या द्वादश ब्राह्मणान् साध्वन्नैः समीचीनान्नैः, भोजयेत् ॥ २२ ॥ * * आशिष इति । प्रीतैः द्विजैः, समीरिताः आशिषः शिरसा आदाय, भक्त्या शिरसा प्रणम्य, ब्राह्मणानिति शेषः । तदनुज्ञया ब्राह्मणाभ्यनुज्ञया, भुञ्जीत व्रतकर्त्रीपति- रश्रीयात् ॥ २३ ॥ * आचार्यमिति । तत्तः व्रतकङ्गनापतिः, वाग्यतः भूत्वा, आचार्यम् अग्रतः कृत्वा, बन्धुभिः सहः सुजस्त्वं सुप्रजाप्रद सौभगतापादकं च, चरों: शेषं पत्न्यै दद्यात् ॥ २४ ॥
- : भाषानुवादः । भगवान् की पूजाके बाद अपने पतिको साक्षात् भगवान् समझ कर परम प्रेमसे उनकी प्रिय वस्तुएँ सेवामें उपस्थित करे। पतिका भी यह कर्तव्य है कि वह आन्तरिक प्रेमसे अपनी पत्नी के प्रिय पदार्थ ला- लाकर उसे दे और उसके छोटे-बड़े सब प्रकारके काम करता रहे ।। १७ ।। * * परीक्षित्! पति-पत्नीमेंसे एक भी कोई काम करता है तो उसका फल दोनों होता है । इसलिये यदि पत्नी ( रजोधर्म आदि के समय ) यह व्रत करनेके अयोग्य हो जाय तो बड़ी एकाग्रता और सावधानी से पतिको ही इसका अनुष्ठान करना चाहिये ॥ १८ ॥ यह भगवान् विष्णुका व्रत है । इसका नियम लेकर बीचमें कभी नहीं छोड़ना चाहिये । जो भी यह नियम ग्रहण करे, वह प्रतिदिन माला, चन्दन, नैवेद्य और आभूषण आदिसे भक्तिपूर्वक ब्राह्मण और सुहागिनी स्त्रियोंका पूजन करें तथा भगवान् विष्णुकी भी पूजा करें ॥ १९ ॥ इसके बाद भगवान्को उनके धाममें स्थापित कर दे, विसर्जन कर दें । तदनन्तर आत्मशुद्धि और समस्त अभिलाषाओं की पूर्ति के लिये पहलेसे ही उन्हें निवेदित किया हुआ प्रसाद ग्रहण करे ।। २० ।। * साध्वी स्त्री इस विधि से बारह महीनोंतक पूरे सालभर इस व्रतका आचरण करके मार्गशीर्ष की अमावास्याको उद्यापन सम्बन्धी उपवास और पूजन आदि करे ।। २१ ।। उस दिन प्रातः काल ही स्नान करके पूर्ववत् विष्णु भगवान्का पूजन करे और उसका पति पाकयज्ञकी विधिसे घृत- मिश्रित खीरकी अग्नि में बारह आहुति दे ।। २२ ।। * इसके बाद जब ब्राह्मण’ प्रसन्न होकर उसे आशीर्वाद दें, तो बड़े आदरसे सिर झुकाकर उन्हें स्वीकार करें । भक्तिभावसे माथा टेककर उनके चरणोंमें प्रणाम करे और उनकी आज्ञा लेकर भोजन करे ॥ २३ ॥ पहले आचार्यको भोजन कराये, फिर मौन होकर भाई-बन्धुओंके साथ स्वयं भोजन करें । इसके बाद हवन से बची हुई घृतमिश्रित खीर अपनी पत्नीको दे । वह प्रसाद स्त्रीको सत्पुत्र और सौभाग्य दान करने- वाला होता है ।। २४ ॥
एतच्चरित्वा विधिवद्व्रतं बिभोरभीप्सितार्थं लभते पुमानिह । स्त्री त्वेतदास्थाय लभेत सौभगं श्रियं प्रजां जीवपति यशो गृहम् ॥ २५ ॥ कन्या च विन्देत समग्रलक्षणं वरं त्ववीरा हतकिल्विषा गतिम् । मृतप्रजा जीवमुक्ता धनेश्वरी सुदुर्मगा सुभगा रूपमंडयम् ।। २६ ।। स्कं. ६ अ. १९ श्लो. २५-२८ ] अनेकव्याख्यासमलङ्कृतम् विन्देद् विरूपा विरुजा विमुच्यते य आमयावीन्द्रियकल्पदेहम् एतत्पठन्नभ्युदये च कर्मण्यनन्ततृप्तिः पितृदेवतानाम् ॥ २७ ॥ तुष्टाः प्रयच्छन्ति समस्तकामान् होमावसाने हुतभुक् श्रीहरिथ । राजन् महन्मरुतां जन्म पुण्यं दितेर्बतं चाभिहितं महत्ते ॥ २८ ॥ इति श्रीमद्भागवत महापुराणे वैयासिक्यामष्टादशसाहस्त्रयां पारमहंस्यां संहितायां षष्ठस्कन्धे पुंसवनत्रतकथनं नामैकोनविंशोऽध्यायः ॥ १९ ॥ इति षष्ठः स्कन्धः समाप्तः । हरिः ॐ तत्सत् कृष्णप्रिया व्याख्या ६०३ ॥ अन्वयः - पुमान् इह एतत् विभोः व्रतं विधिवत् चरित्वा अभीप्सितार्थं लभते स्त्री तु एतत् आस्थाय सौभगं श्रियं प्रजां जीवपतिं यशः गृहं लभेत ॥ २५ ॥ ** कन्या च समग्रलक्षणं वरम् अवीरा तु हतकिल्बिषा गतिं विंदेत मृतप्रजा धनेश्वरी सुदुर्भगा सुभगा अभ्यं रूपं विंदेत यः आमयावी सः विरुजा विमुच्यते इंद्रियकल्पदेहं च अभ्युदये कर्मणि एतत् पठन् पितृदेवतानाम् अनंततृप्तिः ।। २६-२७ ।। * राजन् हुतभुक् श्रीः च हरिः तुष्टा होमावसाने समस्तकामान् प्रयच्छन्ति मरुताम महत् पुण्यं जन्म च दितेः महत् व्रतं ते अभिहितम् ॥ २८ ॥ इति षष्ठे एकोनविंशोऽध्यायः ॥ श्रीधरस्वामिविरचिता भावार्थदीपिका अवीरा विधवा । धनेश्वरी सत्यपि या सुदुर्भगा सा सुभगा भवति ।। २६ ।। * य आमयावी रोगी स विरुजा विशिष्टया रुजा विमुच्यते । इंद्रियैः सहितं कल्पं देहं च विदेदिति शेषः । पठन्यो वर्तेत तस्य पितॄणां देवतानां चानता तृप्तिर्भवतीत्यर्थः ॥ २७ ॥ * * उपसंहरति । राजन्निति । महत्पुण्यं जन्म महद्व्रतं च ॥ २८ ॥ षष्ठस्कंधनिगूढार्थपदभावार्थदीपिका । सद्भिरासेव्यतामेषा यतिश्रीधरनिर्मिता ॥ १ ॥ इति श्रीमद्भागवत महापुराणे षष्ठस्कंधे श्रीधरस्वामिविरचितायां टीकायां भावार्थदीपिकायामेकोनविंशोऽध्यायः ॥ १६ ॥ समाप्तोऽयं षष्ठस्कंधः ॥ ६ ॥ वंशीधरकृतो भावार्थदीपिकाप्रकाशः जीवतीति जीवः स चासौ पतिश्चेति तं यशसा युक्तान् गृहान् ॥ २५ ॥ समग्रलक्षणं बलवेषविद्या- वयोवंशवृत्त्यादियुक्तं, या मृतसुता सा जीवसुता धनेश्वरी च भवति । रूपमित्यग्रिमेणान्वेति । विरूपा रूपहीना रूपं विंदेत् ‘रूपं स्वभावे सौंदर्ये’ इति विश्वः । दुष्टस्वभावा सुस्वभावा भवति ।। २६ ।। * एतन्महदुपाख्यानम् । अभ्युदये आभ्युदयिक- श्राद्धादौ ॥ २७ ॥ * राजन्निति । राज्ञा त्ववश्यं श्रोतव्यमभ्युदयहेतुत्वादिति भावः ॥ २८ ॥ नितरां गूढोऽर्थो येषां तेषां पदानां भावार्थदीपिका ( १ ) । अथास्य श्रवणमाहत्म्यम् - “हरिरुवाच ॥ ब्राह्मणीगमने पापं षष्ठस्य श्रवणेन हि । द्विबाहुकंठरूपस्य मम नश्यति यद्भवेत् ॥ १ ॥ शृणु ब्रह्मन्नितिहासं कल्याणस्य प्रदायकम् । कदाचिद्देवराजो हि धृत्वा रूपमथौतुकम् ॥ २ ॥ अहल्यां गौतममुनेर्भार्यां प्राप विमोहितः । विलोक्य तं मुनिवरो महेंद्रं शप्तवांस्तदा ॥ ३ ॥ येन त्वं जाररूपेण ह्यागतो मम मंदिरम् । अतः शक्रं शरीरे ते भगानां च सहस्रकम् ॥ ४ ॥ सदनं प्राप्य शक्रः स्वं मुमोह च रुरोद च । ततो जगाम तपसे वनं वर्षसहस्रकम् ॥ ५ ॥ ततो वृत्रसमाक्रांता देवा मां शरणं ययुः । मया प्रोक्ता हि ते देवा यत्रेंद्रस्तत्र गच्छत ।। ६ ।। मया सह महाभागाः स च वृत्रं वधिष्यति । तत्र गत्वाहमवचं वरं ब्रूहि पुरंदर ॥ ७ ॥ पुरंदर उवाच । ब्राह्मणीकृतसंगाश्च प्रपन्नोऽहं जनार्दन । तत्पापं मे यथा यातु तथा त्वं कुरु माधव । तथा भगसहस्रं मे शरीरस्थं विनाशय ॥ ८ ॥ ६०६ श्रीमद्भागवतम् ११ ॥ [ स्कं. ६ अ. १९ लो. २५-२८ विष्णुरुवाच । नेत्रतां भगसाहस्रं यातु मत्कृपया हरे । यदा त्वं विश्वरूपाद्वै कवचं षष्ठसंभवम् ॥९॥ पठिष्यसि तदा पापं सर्व ब्राह्मणिसंगजम् । विनंक्ष्यति न संदेह इतिहासमतः शृणु ॥ १० ॥ सिंधुदेशेऽभवद्विप्रोऽध्येतुं स गुरुमंदिरम् । जगाम तंत्र विद्यायामभ्यासं प्रचकार सः ॥ ब्राह्मण्या गमनं तत्र स चकार धृतव्रतः । निःसारितः स गुरुणा कुष्ठाक्रांतस्तदाऽभवत् ॥ गर्हयन्नात्मनः कर्म मुमोहाथ धृतव्रतः । देशे देशे भ्रमन्विप्रो वनमध्ये सरोवरम् ॥ ददर्श तत्तढे तस्थौ जलपानार्थमुद्यतः । तत्र भागवतीयं हि पुस्तकं षष्ठसंभवम् ॥ दृष्ट्वा तद्वाचयामास स विप्रो दूरसंस्थितः । अर्द्धश्लोकोच्चारणाञ्च कीटास्तद्देहतो गताः ॥ दिव्यदेहमनुप्राप्य ययौ वैकुंठमंदिरम् ।। १५ ।।” इत्थं पाद्मे स्थितं वृत्तं मया संक्षिप्य वर्णितम् । इति षष्ठस्कंधमहिमा | १२ ॥ १३ ॥ १४ ॥ .. भावार्थदीपिका टीका श्रीधरस्वामिनिर्मिता । तस्याः प्रकाशो रचितः षष्ठस्कंधे मयाऽधुना ॥ १ ॥ अनुग्रहानंदसूनोः श्रीवंशीधर शर्मणा । यदत्र स्खलितं विज्ञास्तत्पूतिं कुर्वतां हि ते ।। मयि शिष्यत्वमारोप्य गुरुत्वं स्वेषु यत्नतः ॥ २ ॥ इति श्रीखरडपत्तन वास्तव्यपण्डितवंशीधरशर्मनिर्मितश्रीमद्भागवत भावार्थदीपिकाप्रकाशे षष्ठस्कन्धे एकोनविंशोऽध्यायः ॥ १६ ॥ अन्वितार्थप्रकाशिका । एतदिति । एतद्वतं विधिवञ्चरित्वा कृत्वा विभोर्भगवतः सकाशादिहैव जन्मनि पुमान् अभीप्सितार्थं लभते । स्त्री तु एतदास्थाय कृत्वा सौभगं सौभाग्यं श्रियं प्रजां जीवतीति जीवः स चासौ पतिश्च तं जीवपतिं दीर्घजीवनं पतिं यशो गृहं च लभेत ॥ ३० ॥ * * कन्या चेति सार्द्धम् । एतच्चरित्वा कन्या समग्राणि लक्षणानि सद्गुणा यस्मिंस्तथाभूतं वरं पति लभेत । अवीरा पुत्रहीना विधवा च हतकिल्बिषां दोषवर्जितां वैकुण्ठादिप्राप्तिलक्षणां गतिं लभेत । हतकिल्बिषेति प्रथमान्त- पाठो वा । मृतप्रजा या सा जीवसुता धनेश्वरी च भवति । सुदुर्भगा सुभगा भवति । विरूपा अग्रयं श्रेष्ठं रूपं विन्देत । आमयावी रोगी विरुजा विशिष्टया रुजा विमुच्यते । इन्द्रियैः सहितं कल्पं देहं च विन्देदिति शेषः ।। ३१ ।। * * एतदिति । पठन्निति श्रवणादेरप्युपलक्षणम् । अभ्युदये यज्ञदानादिपितृदेवादिकर्मणि य एतत् पाठादिपरो भवेत्तस्य पित्रादीनामनन्ता तृप्ति- भवति । ते च तथैव हुतभुगादयः सन्तुष्टाः सन्तः होमावसाने कर्मसमाप्तौ तस्मै समस्तकामान् प्रयच्छन्ति ॥ ३२ ॥ * * राजन्निति अर्द्धम् । स्पष्टम् ॥ ३३ ॥ लुभ्यन् भवन्मधुरिमानुभवाय कृष्णं न प्राप्नुवंस्तमहमेव न वचितोऽस्मि । शुच्याममप्यशुचि मे नवनीतबुद्धया चेतो हरंस्त्वमपि वञ्चक वञ्चितोऽसि ॥ १ ॥ इति श्रीकृष्णसेवार्थमन्वितार्थप्रकाशिकाम् । षष्ठस्कन्धस्योनविंशे व्यधाद्गङ्गासहायकः । इति श्रीभागवते महापुराणे षष्ठस्कन्धेऽन्वितार्थप्रकाशिकायामे कोनविंशोऽध्यायः ॥ ९९ ॥ वीरराघवव्याख्या
एवं सविस्तरं व्रतमुपवर्ण्य तदनुष्ठान फलमाह - एतदिति । एतद्विभोः परमात्मनः व्रतं यथाविधि कृत्वा पुमानिह लोके अभीप्सितार्थ लभते स्त्री तु तद्व्रतमनुष्ठाय सौभाग्यसम्पत्पुत्रपतिदीर्घजीवनकीर्तिगृहान् लभते ॥ २५ ॥ अवीरा अलब्धभर्तृका कन्या तु एतद्द्व्रतमास्थाय समग्राणि लक्षणानि यस्य तं पतिं विदेत लभेत यद्वा अवीरा विधवा तु हतं किल्बिषं यस्याः तां गतिं सद्गतिं लभेत । मृता प्रजा पुत्रो यस्यास्सा जीव : सुतो यस्याः सा भवेत्तथा सुदुर्भगा सौभाग्यरहिता सुभगा भवेत् ॥ २६ ॥ विरूपाऽप्यं श्रेष्ठं रूपं विन्देत यः पुमानामयावी रोगी सन्नेतद्व्रतं कृत्वा विरुजः नानाविध- रोगाद्विमुच्यते इन्द्रियकल्पदेहं पटुतरेन्द्रियदेहं विन्देत एवमेतद्व्रतकल्पमभ्युदये कर्मणि पठन्यो वर्तते तस्य पितॄणां देवानाञ्चा- नन्ततृप्तिर्भवति ।। २७ ।। * * ते च पितरो देवाश्च तस्मै पठते सर्वान्कामान्प्रयच्छन्ति पितृदेवतयोर्होमियोरवसाने साक्षा- द्धरिः श्रीश्च हुतभुग्भवेत् तावपि प्रसन्नौ भवेतामित्यर्थः । उक्तमुपसंहरति- राजन्निति । हे राजन्, मरुतां महत्पुण्यं जन्म तथा महत्पुण्यं दितेर्व्रतं पुंसवनं च ते तुभ्यं मया अभिहितम् ॥ २८ ॥ इति श्रीवत्सान्वयपयः पारावारराकासुधाकरस्य सर्वविद्यानिधेः श्रीशैलगुरोः सुतेन तच्चरणकमलपरिचर्या - प्रसन्न तत्सूक्तिसमधिगतश्रीमद्भागवतार्थहृदयेन श्रीवैष्णवदासेन श्रीवात्स्यश्रीवीरराघवविदुषा विरचि- तायां श्रीमद्भागवतचन्द्रचन्द्रिकायां श्रीमद्भागवतव्याख्यायां षष्ठे स्कन्धे एकोनविंशोऽध्यायः ।। १९ ।। समाप्तोऽयं षष्ठस्कन्धः ॥ ६ ॥ ܀ कं. ६ अ. १९ श्लो. २५-२८ ] अनेकव्याख्यासमलङ्कृतम् विजयध्वजतीर्थकता पदरत्नावली ६०७ जीवपतिमायुष्मन्तं पतिं गृहान गृहाणि शोभनं सौभाग्यं येन स तथा तम् एतच्चरशेषविशेषणम् ॥ २५ ॥ * * कन्या समग्रलक्षणं पतिं विन्देत अवीरा पतिरहिता मृतप्रजा तु जीवत्सुतान्विन्देत ।। २६ ।। * * * विरूपा दृष्टिविरुद्ध- स्वरूपा अग्रथं रूपं विन्देत इन्द्रियदेहशक्तिरहिता या सा विरुजो विविधरोगान्मुच्यते । अभ्युदये कर्मणि मङ्गलकर्मणि पितृ- देवतानां अनन्ततृप्तिमुपैतीति शेषः ।। २७-२८ ॥ भक्तिप्रग्रीवासक्तगतिसमुक्षितः सुरराशिमिमंक्षित श्रीब्रह्मप्राणेशप्रमुखविबुधमुकुट त दीघट्टितपदपीठकं वन्दे । लक्ष्मीकान्तं घनरससंवित्साररुचं सरोरुहलोचनं सत्यज्ञानानन्दाकारं मुदितसुजनसमुदायं मर्दितासुरसम्पदम् ॥ १ ॥ शब्दशक्त्यनुसारेण विजयध्वजभिक्षुणा । पदरत्नावली भाति षष्ठस्कन्धगता कृता ॥ २ ॥ इति श्रीमन्महेन्द्र पूज्यपादशिष्यस्य विजयध्वजतीर्थस्य कृतौ पदरत्नावल्यां श्रीभागवते विजयध्वज टीकायां षष्ठस्कन्धे एकोनविंशोऽध्यायः ॥ १९ ॥ अनुकूलं यदादिष्टमभून्नारायणस्य ह । प्रसादतो लब्धमिदं तदा पुण्यदमस्तु मे ॥ १ ॥ समाप्तोऽयं षष्ठस्कन्धः ॥ ६ ॥ विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी जीवतीति जीवः स चासौ पतिश्चेति बन् ।। २५ ।। अवीरा पतिपुत्रशून्या या मृतप्रजा सा जीवसुता धनेश्वरी च भवति । य आमयावी स विशिष्टया रुजा विमुच्यते । इन्द्रियैः सह कल्पं समर्थ देह विन्देत ।। २६ ।। * * अभ्युदये आभ्युदयिकश्राद्धादौ तुष्टा हुतभुक् श्रीहरिश्च ।। २७-२८ ।। इति सारार्थदर्शिन्यां हषिण्यां भक्त चेतसाम् । षष्ठे एकोनविंशोऽयं सङ्गतः सङ्गतः सताम् ॥ १९ ॥ समाप्तोऽयं षष्ठस्कन्धः ॥ ६ ॥ शुकदेवकृत: सिद्धान्तप्रदीपः फलमाह - एतदित्यादिना । अवीरा पतिपुत्रहीना गतिं हरिपदरूपाम् ।। २६ ।। । विरूपा विन्देत आमयावी विरुजा विविधया रुजा विमुच्यते इन्द्रियैः कल्पं देहं च विन्देत । अभ्युदये कर्मणि य एतत्पठन् वर्तेत तस्य पितॄणां देवतानां च अनन्ततृप्तिर्भवति उपसंहरति- राजन्निति, हे राजन् मरुतां महत्पुण्यं जन्म दितेर्महत्पुण्यं व्रतं च मया तेऽभिहितम् ।।२७-२८|| इति श्रीमद्भगवन्निवार्कचरणचिन्तक श्रीशुक सुधीप्रणीते श्रीमद्भागवतसिद्धान्तप्रदीपे एकोनविंशाध्यायार्थप्रकाशः ॥ १६ ॥ समाप्तोऽयं षष्ठस्कन्धः ॥ ६ ॥ गोस्वामिगिरिधरलाल विहिता बालप्रबोधिनी एतद्व्रतं विधिवच्चरित्वा कृत्वा विभोर्भगवतः सकाशादिहैव जन्मनि पुमान् अभीप्सितार्थं लभेत स्त्री त्वेतदास्थाय कृत्वा सौभगादिकं लभेतेत्यन्वयः । जीवतीति जीवः स चासौ पतिश्च तम् ॥ २६ ॥ * समप्राणि लक्षणानि सद्गुणा यस्मिंस्तथाभूतं पतिं वरं कन्या लभेत । चकार एतत्कृत्वेति शेषज्ञापनार्थः । एवमग्रेऽपि सर्वत्र शेषो ज्ञेयः । अवीरा विधवा । हतकिल्बिषां सर्वदोषवर्जितां वैकुण्ठादिप्राप्तिलक्षणाम् । मृतप्रजा या सा जीवसुता धनेश्वरी च भवति । सुदुर्भगा सुभगा भवति । विरूपा अग्र्यं श्रेष्ठं रूपं विन्देत् ॥ ३० ॥ * * य आमयावी रोगी विरुजा विशिष्टया रुजा विमुच्यते । इन्द्रियैः सहितं कल्पं देहं च विन्देदिति शेषः । एवं व्रतानुष्ठानस्य फलमुक्त्वा प्रकारेण पाठादेः फलमाह - एतदिति । पठन्निति श्रवणादेरप्युप- लक्षणम् । अभ्युदये यज्ञदानादिपितृदेवादिकर्मणि य एतत्पाठादिपरो भवेत्तस्य पित्रादीनामनन्ता तृप्तिर्भवति ॥ ३१ ॥ ते च सन्तुष्टाः सन्तः होमावसाने कर्मसमाप्तौ तस्मै समस्तकामान् प्रयच्छन्ति । उपसंहरति- हे राजन्निति । असङ्कोचेन पुनः प्रश्नार्थं स्नेहं सूचयति ॥ ३२ ॥ इति श्रीवल्लभाचार्यवंश्य गोपालसूनुना । श्रीमन्मुकुन्दरायाणां पादसेवाधिकारिणा ॥ १ ॥ श्रीमगिरिधराख्येन भजनानन्द सिद्धये । श्रीमद्भागवतस्येयं टीका बालप्रबोधिनी ॥ २ ॥ रचिता तत्र षष्ठेऽस्मिन् स्कन्धे क्रियानिरूपणे । ऊनविंशो गतो वृत्तिं व्रतचर्यानिरूपकः ॥ ३ ॥ यस्मिंस्तुष्टे जगत्सर्वं सम्यक्तुष्येच्चराचरम् । स तुष्यत्वनया वृत्त्या मुकुन्दो मम दैवतम् ॥ ४ ॥ ॥ श्रीगोपालकृष्णार्पणमस्तु || ६ || ॥ समाप्तोऽयं षष्ठः स्कन्धः ॥ । ६०८ श्रीमद्भागवतम् [स्कं. ६ अ. १९ लो. २५-२८ । भगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी । * एवं सविस्तरं व्रतमुपवर्ण्य तदनुष्ठानफलमाह । एतदिति । विभोः परमात्मनः, एतत् व्रतं विधिवत् चरित्वा कृत्वा, पुमान् इह लोके, अभीप्सितार्थ लभते । स्त्री तु, एतद्व्रतम् आस्थाय, सौभगं सौभाग्यं श्रियं लक्ष्मीं, प्रजां पुत्रापत्यं, जीवपति पत्युर्दीर्घायुष्यं यशः कीत्तिं गृहं सम्मन्दिरं लभेत ।। २५ ।। कन्येति । कन्या कुमारिका च, समग्रलक्षणं पति विन्देत । अवीरा विधवा तु, हतानि विनष्टानि किल्बिषाणि यस्याः सा, एवंभूता सती, गतिं सद्गतिं विन्देत | मृताः प्रजाः यस्याः सा स्त्री, जीवा जीवन्तः सुताः यस्याः तथाभूता भवेत् । दरिद्रा धनेश्वरी भवेत् । सुदुर्भगा सौभाग्यरहिता, सुभगा भवेत् । उत्तराद्विति वदेदिति चानुषञ्जनीयम् । विरूपा अभ्यं रूपं विन्देत् ॥ * ॐ विन्देदिति । यः आमयावी रोगी, सः विरुजा विशिष्टरोगेण, विमुच्यते च । रोगरहितो जायत । इन्द्रियकल्पदेहं पटुतरेन्द्रियं देहं विन्देत् । पुमान् आभ्युदये कर्मणि एतत् पठन् स्याच्चेत्, तस्य पितृदेवतानाम् अनन्ततृप्तिः भवेत् चोऽवधारणे ॥ २७ ॥ तुष्टा इति । तुष्टाः संतोषं प्राप्ताः, पितृदेवताः समस्तकामान् प्रयच्छन्ति । एतद्व्रतकर्तॄणामिति शेषः । होमावसाने पितृदैवत्य- होमान्ते, हुतभुगग्निः, प्रसन्नः स्यात् । श्रीलक्ष्मीः, हरिश्व उभौ प्रसन्नौ भवेयातामित्यर्थः । उक्तमुपसंहरति । हे राजन्, महत पुण्यं जन्म दितेः महत् व्रतं पुंसवनाख्यं च, ते तुभ्यं मया अभिहितम् ॥ २८ ॥ . " ९९॥ मरुतां ज्ञानाक्षपटकान्त्यहृदो यथा वै दुर्जेयभावेऽपि सुजेयता स्यात् । स्कन्धस्य षष्ठस्य मया समाप्तिः प्राप्ता तथैव कृपया मुरारेः ॥ १ ॥ यत्न मदीयं हरिरेक एव नैवापरो वेत्ति यथा जनानाम् । अन्तः स्थितोऽसन्त्यथ सन्ति कर्माण्येषां ततः सोऽस्तु मयि प्रसन्नः ॥ २ ॥ इति श्रीधर्मधुरंधर श्रीधर्मात्मजप्रत्यक्ष पुरुषोत्तमसहजानन्द स्वामि सुतश्रीरघुवीराचार्यसूनुभगवत्प्रसादाचार्यविरचितायामन्वयार्थाव- बोधिन्यां भक्तमनोरञ्जन्याख्यायां श्रीमद्भागवतटीकायां षष्ठस्कन्धे एकोनविंशोऽध्यायः ॥ १९ ॥ समाप्तोऽयं स्कन्धः ॥ ६॥ भाषानुवादः -* परीक्षित् ! भगवान् के इस पुंसवन-व्रतका जो मनुष्य विधिपूर्वक अनुष्ठान करता है, उसे यहीं उसकी मनचाही वस्तु मिल जाती है । स्त्री इस व्रतका पालन करके सौभाग्य, सम्पत्ति, सन्तान, यश और गृह प्राप्त करती है तथा उसका पति चिरायु हो जाता है ॥ २५ ॥ * * इस व्रतका अनुष्ठान करनेवाली कन्या समस्त शुभ लक्षणोंसे युक्त पति प्राप्त करती है और विधवा इस व्रत से निष्पाप होकर वैकुण्ठमें जाती है । जिसके बच्चे मर जाते हों, वह स्त्री इसके प्रभावसे सयुक्त चिरायु पुत्र प्राप्त करती है । धनवती किन्तु अभागिनी स्त्रीको सौभाग्य प्राप्त होता है और कुरूपाको श्रेष्ठ रूप मिल जाता है । रोगी इस व्रतके प्रभावसे रोगमुक्त होकर बलिष्ठ शरीर और श्रेष्ठ इन्द्रियशक्ति प्राप्त कर लेता है । जो मनुष्य माङ्गलिक श्राद्धकर्मों में इसका पाठ करता है, उसके पित्तर और देवता अनन्त तृप्ति लाभ करते हैं ।। २६-२७ ।। वे सन्तुष्ट होकर इनके समाप्त होनेपर व्रतीकी समस्त इच्छाएँ पूर्ण कर देते हैं । ये सब तो सन्तुष्ट होते ही हैं, समस्त यज्ञोंके एकमात्र भोक्ता भगवान लक्ष्मीनारायण भी सन्तुष्ट हो जाते हैं ओर व्रतीकी समस्त अभिलाषाएँ पूर्ण कर देते हैं । परीक्षित्! मैंने तुम्हें मरुङ्गणकी आदरणीय और पुण्यप्रद जन्म कथा सुनायी और साथ ही दितिके श्रेष्ठ पुंसवन - व्रतका वर्णन भी सुना दिया ॥ २८ ॥ इति एकोनविंशोऽध्यायः ॥ १६ ॥ इति पष्ठः स्कन्धः समाप्तः ॥ ६ ॥ हरिः ॐ तत्सत्परिशिष्ट १ श्रीकृष्णाय नमः । श्री गोपीजनवल्लभाय नमः । श्रीमदाचार्यचरणकमलेभ्यो नमः अथ तत्त्वार्थदीपनिबन्धे भागवतार्थप्रकरणे षष्ठस्कन्धविवरणम् एवं कृष्णजयाख्यं हि पञ्चमे स्थानमीरितम् । एकोनविंशैरध्यायः पुष्टिः षष्ठे निरूप्यते ॥ १ ॥ श्री बालकृष्णो विजयते S अथ षष्ठस्कन्धनिबन्धस्य योजना । कृष्णानुग्रहरूपा हि पुष्टिः कालादिवाधिका । अनुग्रहो लोकसिद्धो गूढभावान्निरूपितः ॥ २ ॥ । अथ षष्ठस्कन्धार्थं निबघ्नन्तः पूर्वस्कन्धे स्थानं यथा महापुराणसामान्यलक्षण भूतवृत्तिविशेषरूपम लौकिकं निरूपित- मेवमस्मिन्नपि स्कन्धे रक्षाविशेषरूपं पोषणमलौकिकं निरूप्यत इति बोधयन्तः पुष्टिनिरूपणं प्रतिजानते एवमित्यादि । एवं तस्य तस्य तत्र तत्र नियमनेन कृष्णजयाख्यं स्थानं वृत्तिविशेषरूपम्, हि यतो हेतोः पञ्चमे ईरितम् । अतो हेतोः षष्ठे कृष्णानुग्रहरूपा पुष्टि- रेकोनविंशैरेको ब्रह्मबोधकतया मुख्य ऊनविंशो यत्र तावद्भिरूनविंशतिभिरत्यायैर्निरूप्यते । द्वादशे स्कन्धे रक्षा चतुर्थ लक्षणम्। सा च ‘रक्षाच्युतावतारेहा विश्वस्यानुयुगे युगे । तिर्यङ्मर्त्यर्षिदेवेषु हन्यन्ते यैस्त्रयीद्विषः’ इत्येवं लक्षिता । तदर्थस्तु विश्वस्यानु- विश्वोत्पत्त्यनन्तरं युगे युगे प्रतियुगं तिर्थमर्त्यर्षिदेवेषु विद्यमानास्त्रयीद्विषो हन्यन्ते । तादृशी या अच्युतावतारेहा अच्युतस्य अब- ताराणां वा ईहा चेष्टा सा रचेति । एतस्याश्च लक्षणत्वं नावतारलीलात्वेन तुरीयपादव्यर्थत्वापत्तेः, लीलान्तरेऽतिव्याप्तेश्च । नापित्रयी द्वेषिनिवारकत्वेन सुभ्वादिक्रियाया मतिव्याप्तेः, अच्युतावतारपदवैयर्थ्यापत्तेश्च । किन्तु वेदविरोधिनिवारक भगवल्लीलात्वेन तादृशा- वतारलीलात्वेन वा । तथा सति तस्याः पुराणान्तरसाधारणत्वे ऽप्यलौकिकत्वानपायात् । अत्र तथा तदुक्तावपि न दोषस्तथापि तत्र हननप्रकारस्य लौकिकत्वादत्र च विशेषलक्षणानामेवोपक्रान्तत्वेन प्रकारस्याप्यलौकिकत्वविवक्षयाऽनुग्रहरूपा भगवल्लीलोच्यत इत्यर्थः । एवं प्रतिज्ञायां स्वरूपकथनेन रक्षाविशेषरूपतां समर्थयित्वा येनास्या विशेषत्वं तं प्रकारमाहुः — हीत्यादि । महापुराणान्तरोक्तरक्षा हि त्रयीद्विषां स्वरूपमात्रनाशिका न तु तदुद्वेषमूलकारणस्य स्वभावस्य सहकारिणः कालादेश्व बाधिका, नापि तेषां मोचिका । पुष्टिस्तु तेषामपि स्वभावस्य बाधिका यया स्वरूपतः सन्तोऽपि न त्रयीं द्विषन्ति हताश्च मुक्ता भवन्ति । अतः प्रकारोऽप्यत्रा- लौकिक इत्यर्थः । नन्वनुग्रहस्याऽप्रसिद्धत्वाल्लक्षणमसम्भवीत्याकाङ्क्षायामाहुः - अनुग्रहो लोकसिद्ध इति । अनुग्रहः कृपाऽपरपर्यायो मनस आत्मनो वा धर्मविशेष इच्छादिव्यतिरिक्तो लोकसिद्ध इति लोके क्षीणधनस्याधमर्णस्य उत्तमणैः स्वल्पधनग्रहणेनानृणित्व- सम्पादने, स्मृतौ प्रायश्चित्ताशक्तस्य पातकिनः पापनिवृत्तये स्वल्पप्रायश्चित्तबोधने च पार्षदानुग्रहत्वादिरूपेण प्रसिद्धोऽतो न लक्षण- मसम्भवीत्यर्थः । नन्वन्यधर्मो भगवति कुत उच्यत इत्यत आहुः गूढेत्यादि । कम्पनाधिकरणविषयवाक्येन प्रलयकर्तृत्वेन च भगवतः क्रूरत्वावगमात्स न प्रसिद्धो वस्तुतस्त्वन्तीति गूढभावात् । अनुकृत्यधिकरणे सर्वस्य भगवदनुकारितायाः सिद्धत्वाल्लौकिकेन तेनानुमेयः सोऽत्र मूलरूपे कार्यद्वारा निश्चायित इत्यर्थः ॥ २ ॥ सप्रकाशतत्त्वार्थदीपनिबन्धे देवगुह्यत्वसिद्ध्यर्थं नामध्यानार्चनादिकम् । पुरस्कृत्य हरेर्वीर्यं नामादिषु निरूप्यते ॥ ३ ॥ मतान्तरस्य भाषा तु नामप्रकरणे मता । ध्याने हरिप्रवेशस्तु स्पष्टः प्रोक्तस्तथाऽर्चने ॥ ४ ॥ त्रिभिराद्यं प्रकरणं नराणां देवदैत्ययोः । चतुर्दशभिरध्यायैर्द्वाभ्यां चैव निरूप्यते ॥ ५ ॥ नाम त्रिविधसम्बन्धादात्मगामि भवेद्यतः । श्रवणात्कीर्तनात्स्मृत्या ततोऽध्यायत्रयं मतम् ॥ ६ ॥ रूपं चतुर्दशगुणं प्रत्येकं हृदि भावितम् । फलत्येवेति तावद्भिरध्यायैर्विनिरूपणम् ॥ ७ ॥ रूपेण मोक्षदः प्रोक्तो रसेनाऽऽनन्ददायकः । गन्धेन भक्तिदः प्रोक्तः स्पर्शेनाऽखिलतापनुत् ॥ ८ ॥ मनोहरस्तु नादेन योगेनाऽऽत्मप्रवेशदः । कालमोक्षप्रदो द्विष्टः स्वामी सर्वसुखप्रदः ॥ ९ ॥ हीनभावाद् दुःखदश्च केवलः सकलार्थदः । मितो योगप्रदः प्रोक्तो भिन्नो मृत्युप्रदः स्मृतः ॥ १० ॥ यथास्थितो ज्ञानदश्च स्नेहाद्वश्यो भवेद्ध्रुवम् । पूजाऽपि द्विविधा प्रोक्ता बाह्याभ्यन्तरभेदतः ।। अतोऽध्यायद्वयं तत्र क्रिया सा त्रिविधो हरिः । नामरूपे क्रिया चैव हरेः सर्वहितप्रदः ॥ एत त्रयं प्रसन्नश्चेद्ददाति न ततोऽन्यथा । पुष्टिः स्वार्था परार्था तु भक्तिः साऽनवमे मता ॥ ११ १२ २ ॥ १३ ॥ नन्वत्र कालादिनिवर्त्तकत्वं नामादिषु प्रतीयते न तु पुष्टाविति कथं तस्यास्तथात्वमित्यत आहुः - देवेत्यादि । न दि पुष्टस्तथात्वं मनुष्याणामेव दुर्ज्ञेयम् । किन्तु देवानामपीति देवगुह्यत्वज्ञापनार्थं तद्वयापारभूतं नामादिकं तथात्वेन निरूप्यत इति शेषः । ननु कथमेतदवगम्यत इत्याकाङ्क्षायामाहुः - पुर इत्यादि । अत्र हि नामादिषु यत्तथात्वं निरूप्यते तन्न नामत्वादिकं पुरस्कृत्य किन्तु ‘नामव्याहरणं विष्णोर्महापुरुषपूजायाः सिद्धिः काम्यानुषङ्गिकीत्यादिकथनाद्भगवद्वीर्यं पुरस्कृत्येति तेनावगम्यत इत्यर्थः । न चात्र षष्ठया तत्पुरुषेण च सम्बन्धमात्रमेव तथा ( कालादिनिवर्त्तकः ) अवगम्यते न वीर्यमिति शङ्कयम् । इतर- बाधनरूपेण च कार्येण तस्य तथात्वावगमात् लोके तथा दर्शनात् । अत एवानुग्रहस्येच्छादिभ्यो भेदः । प्रसादकृपादीन्यस्यैव पर्यायाः । एवं च कालादिनिवत्तको ऽनुग्रहापरनामा वीर्यविशेषरूपो भगवद्धर्मः पुष्टिरिति सिद्धम् । अत्र च देवतात्पर्यानभिज्ञयमदूतताडना- द्धर्मालीककर्तुर्विश्वरूपस्य पापस्य वृत्रस्य च हननादितिगर्भच्छेदनाश्च सामान्यलक्षणसमन्वयः । एवमजामिलदुष्कर्मण इन्द्रमृत्यो- वृत्रस्वभावकर्मणोर्दितेः स्वभावस्य मरुतां कालकर्मस्वभावानां बाधनाच्च विशेषलक्षणसमन्वयः ॥ ३ ॥ १ to एवमत्र त्रिभिः स्थितिकरणभूतः स्कन्धार्थो निर्णीतः । पूर्वस्कन्धत्रये जगज्जन्मकरणभूतसर्गादिनिरूपणवत् । अतः परं प्रकरणार्थी निर्णेयः । तत्र नामादीन्येवात्र भगवत्सम्बन्धीन्युच्यन्त इति व्यापारतया तान्येव प्रकरणीनि, नरादिवाङ्मनः कर्मणां तदभिव्यञ्जकतयोपयोग इत्यनुग्रहविषयाणां नरादीनामपि तथात्वम्, स्थितिलीलात्वाद्विवक्षितेन्द्रादिस्थितिफलम्, तदेतद्बोध- यितुं प्रकरणिनो विचारयन्तः प्रथमप्रकरणे विशेषमाहुः - मतान्तरेत्यादि । नाम्नि भगत्सम्बन्धस्यौपचारिकत्वात्कथमेवं सामर्थ्य- मित्याशङ्कानिरासकस्तुः । भाषाप्रयोजनं त्वम्रे वाच्यम् । स्फुटमन्यत् ॥ ४ ॥ एवं प्रकरणार्थं निर्णीय पुष्टिविषयानधिकारिणः- स्फुटीकुर्वन्तोऽध्यायान् विभजन्ते त्रिभिरित्यादि । अत्र ‘नराणामि’ ति बहुवचनादग्रेऽपि देवानां दैत्यानामिति बोध्यम् । द्विवचनप्रयोगस्तु जात्येकत्वाभिप्रायेणेति च । तथा च देवप्रकरणे चतुर्दश- दैत्यप्रकरणे द्वावध्यायावित्यर्थः । तावतां तत्र प्रयोजनमाहुः - नामेत्यादि । हरिरित्यन्तैः साधैः षड्भिः । चतुर्दशगुणम् इति चतुर्दश- धर्मकम् । द्विष्ट इति द्वेषित्वेन भावितः । एवमप्रेपि हीनभावादिति । हीनत्वेन भावनात् । मितो ज्ञातः । क्रिया सेति प्रकरणार्थरूपा पूजा विविधोहरिरिति । ‘त्रयं वा इदं नाम रूपञ्च कर्म चे ‘ति श्रुतौ प्रपञ्चस्यात्मकत्वमुक्तम् । अत्र प्रकरणत्वेनोच्यमानं त्रयं न प्रपञ्चरूपं किन्तु तत्रितयप्रकारको भगवानेवेत्यर्थः । अत्र गमकमाहुः - नामेत्यादि । तथा च सर्वहितप्रदत्वमेव तेषां भगवद्रपत्व- गमकमिति त्रयाणामनेन रूपेण प्रकरणार्थतेत्यर्थः । एतेनाध्यायार्था अप्युक्ता एव । एतेषां व्यापारत्वं स्फुटीकुर्वन्ति एतत्त्रयमि- त्यादि । तथा च हितस्वरूपां स्थिति प्रसन्नो ददातीति भगवान् कर्त्ता प्रसादः पुष्ट्यात्मकः करणं नामादित्रयं व्यापारः सोऽपि भगवत्प्रसादेनैव प्राप्यो नान्यथेत्यर्थः । ननूक्तविधं नामादित्रयं प्रसादलभ्यं यथा तथैव भक्तिरपि, ‘कर्हिचित्स्म न भक्तियोगमि’. तिवाक्येन तथाऽनुमानात् । तथा च कारणसाम्ये कथं न भक्तरेतत्स्कन्धे कथनमित्यत आहुः - पुष्टिरित्यादि । अत्रोक्ता पुष्टिः स्वार्था जीवहितकरी | भक्तिस्तु परार्था भगवत्कार्योपयोगिनी, सा अनवमे पूर्णे प्रसाढ़े मता । तथा च कारणभेदात्कार्यभेदाच तस्या नैतत्स्कन्धार्थतेत्यर्थः । एवं दशभिः प्रकरणत्र्यार्थः सामान्यतो विचारितः ।। १३ ।। १. नामादिषु भगवद्वीर्यस्य कालादिनिवत्र्तकत्वावगमात् । अनुग्रहस्य कालादिनिवर्तकत्वादेव कालादिप्रवर्त्तकेभ्य इच्छादिभ्यो विभेदः । २. नवमे । ३, रूपेण मोक्षद इति । अत्रत्यं निबन्धकठिनांशविवेचनं दीर्घत्वात् षष्ठस्कन्धान्ते निवेशितम्, ततोवलोकनीयम् । PET STE षष्ठस्कन्धार्थ: १५ ॥ विनिरूपितम् ॥ १७ ॥ हरिनाम हि ॥ १८ ॥ १९ ॥ अजामिलो दासयोग्यः प्रागेव हरिणा तथा । विचारितो गर्वमुक्त्यै तथात्वं प्रापितो बलात् ॥ १४ ॥ स्वभावदुष्टा जीवा हि स्वधर्मोत्कर्ष भावुकाः । अतस्तथाविधं कृत्वा स्वात्मसात्कुरुते हरिः ॥ भक्तस्यैवंविधत्वं हि न समाधावभीप्सितम् । अतो मतान्तरी भाषा नामस्वातन्त्र्यतोऽपि च ।। १६ ।। वृत्तान्तश्रवणं तस्य ततः कीर्त्तनशंसनम् । फलं तस् तस्येति ति सकलं द्वितीये सिद्धान्तकथनं पश्चाद् बलात्कृतिनिवारणे । यमवाक्यस्मृतौ सर्व स्मरन्ति प्रायश्चित्तप्रसङ्गेन नाममाहात्म्यमीरितम् । पुष्टौ तथापि तत्प्रोक्तं तेनाऽत्रेयं भगवत्सेवका ये तु कथञ्चिद्भिन्नतां गताः । सर्वात्मना पापनाशस्तेषामेव भवेद् ध्रुवम् ॥ अन्येषां ज्ञानकर्मभ्यां सावशेषक्षयो भवेत् । तत्राऽपि कर्मणा नाशः कुञ्जरस्नानवन्मतः ॥ अधमानां लौकिकानां न विश्वासस्तु नामनि । देहात्मबुद्धौ नष्टायां न पापस्फुरणं मतम् ।। ज्ञाने तिरोहिते सर्वं सहसैव भविष्यति । पञ्चाच्चेत्पापनाशेच्छा कर्मणो दोषदर्शनात् ॥ व्यवस्थितिः ॥ २० ॥ २१ ॥ २२ ।। २३ ॥ अतः परं प्रथमप्रकरणार्थं विशेषतो विचारयन्ति-अजामिल इत्यादि सार्द्धानिचत्वारिंशद्भिः । योग्यतायां हेतुमाहुः प्रागेवेत्यादि । तर्हि कथमेवं भाव इत्यत आहुः गत्यादि । बलादिति स्वभावदोषबलात् ॥ १४ ॥ स को वा दोष इत्यत आहुः- स्वभावेत्यादि । चिदंशा हि जीवा अविद्यया व्याप्ताः स्वदेहद्वयाहमा स्वधर्मे गुणक्रियात्मके उत्कर्षं भावयन्ति । अहमीदृश एव महं करोमि नान्यो मत्सम इति सोऽयं दोष इत्यर्थः । अत इति तद्दोषनिवारणं मनसिकृत्य ‘आत्मसात्कुरुते ’ इति अङ्गीकरोति । तत्र हेतुः—हरिति । जीवदुःखहर्त्ता । तथा च यः स्वदास्यार्थं विचारितः स्वभावदोषवशाद् बहिर्मुखो भवति तं स्वविचारित- प्रसादानुसारेणैवं बाहिर्मुख्यमपनयन् तस्य हितं करोतीति जीवदोषनिवार को ऽनुग्रहो ऽत्र प्रकरणे पुष्टित्वेन विवक्षित इत्यर्थः । ‘पुष्टिः स्वार्थे ‘ति यदुक्तं तदेताभ्यां लोकाभ्यां विवृतम् । तावता तादृशस्थानपोषणबोधकयोः स्कन्धयोः सान्निध्येन मर्यादा- संवलनान् मर्यादापुष्टिरिति या प्रसिद्धा सेयमिति फलति । एवमग्रिमप्रकरणयोरपि बोध्यम् । एतादृशे स्वभावजाघन्येऽप्येवं कर्मस्वभावयोनिवृत्तिं नृशरीराणामेव करोति ‘तेषां मे पौरुषी प्रिये तिवाक्यादिति बोधयितुमस्य नरप्रकरणत्वं पूर्वमुक्तं त्रिभिराचं प्रकरणम् । नराणामिति मनुष्याणां प्रियत्वादेव प्राथम्यमिति च ॥ १५ ॥ नन्वेवं सत्यत्र मतान्तरभाषा व्यासचरणैः किमित्युपन्यस्तेत्याकाङ्क्षायामाहुः - भक्तस्येत्यादि चरणत्रयम् । नन्वनभि- प्रेतत्वे उपन्यासोऽप्यनुचित इत्याशङ्कायामाहुः – नामेत्यादि । तथा च नास्योपाख्यानस्य सर्वांशेनानभिप्रेतत्वमत उपन्यास इत्यर्थः । नन्वेवं सति मतान्तरभाषात्वमनतिप्रयोजनमिति शङ्का त्वेतत्प्रकरणविमर्शसमाप्तावगस्त्यः शिवभक्तोऽपीत्यादिना निरस - नीया । तस्मात्सु हूक्तं नामस्वातन्त्र्यत इति । एवं त्रिभिः प्रथमप्रकरणार्थं विचार्य द्वाभ्यामध्यायार्थमाहुः - वृत्तान्तेत्यादि । अत्राद्य- चरणे प्रथमाध्यायार्थाः शेषे द्वितीयस्य अग्रिमे तृतीयस्य । बलात्कृतिनिवारण इति । बलात्कारनिवारणार्थं यममुखेन तन्निरूपणस्य प्रयोजनमाहुः - यमेत्यादि । एतेनाभिप्र तत्वे युक्तिरुक्ता । एवं द्वाभ्यां सामान्यतोऽध्यायार्थ उक्तः ।। १६-१७ ।। अतः परं विमृशन्ति, नन्वत्र पुष्टौ निरूप्यायां नाम्नस्तद्वयापारत्वात्तन्माहात्म्यकथनं युक्तम् । अस्य शास्त्रस्य भक्तयु- त्पादकत्वेन नामकीर्त्तनस्य च भक्तित्वेन तत्र विश्वासदाढ्यर्थं तस्यावश्यकत्वात् । तथापि प्रायश्चित्तप्रसङ्गेन तत्कथनमनुचितम् । • प्रायः पापं विजानीयाश्चित्तं तस्य विशोधनमि’ ति हेमाद्रौ । तल्लक्षणेन तस्य पापनिवारणमात्रफलकतया ततो भक्तिफला- भावप्रसङ्गात् । न च संयोगपृथक्त्वेन तत्सिद्धि: । ‘दध्ना इन्द्रियकामस्य जुहुयात्, खादिरं वीर्यकामस्य युपं कुर्यादित्यादिषु तदुदा- हरणेष्वेकस्य फलस्य प्रत्यक्षसिद्धत्वेनेतरस्य च काम्यत्वेनोभयोर्मुख्यतेति तत्र तत्प्रवृत्ति:, अत्र तु पापनिर्वेशस्यैव काम्यत्वेनेतरस्या- काम्यत्वेनाप्रत्यक्षत्वेन च तस्य गौणतयोदाहरणवैषम्यात् । वैषम्येऽपि ग्रहिलतया तत्प्रवृत्त्यङ्गीकारे योगसिद्ध अधिकरणन्यायबाधा- पत्तेः । अतः पुष्टावुपक्रान्तायां कथमेवं कथनमित्याशङ्कामपनुदन्ति प्रायश्चित्तमित्यष्टभिः । तत्प्रोक्तमिति । ज्ञानिभक्तेन शुकेन प्रोक्तम् । उक्तदोषविशेषात् । सर्वमिति पूर्वोक्तदोषः पापञ्च । पश्चादिति ज्ञानतिरोधानोत्तरम् । तथेति हेतुभूतम् । शेषं स्फुटम् । तथा चैवंविधव्यवस्थां बोधयितुं मर्यादापवादं च बोधयितुं तथोपक्रम इत्यर्थः । न च न्यायबाधदोषः । उत्तरतन्त्रे गुणोपसंहारन्याय- प्रणयनेन योगसिद्ध चधिकरणन्यायबाधस्येष्टत्वात् । एतेन भक्तेः कल्पतरुस्वभावत्वमपि विवृतं ज्ञेयम् । १. ‘भगवत्सेवकाः ’ ‘ये तु कथञ्चिद् भिन्नतां गता’ इत्यत्र कथञ्चित्पदस्य व्याख्यानमिदम् । ‘संप्रकाशतत्त्वार्थदीपनिबन्धे २६ ॥ भक्तौ प्रवेशे हि तदा तं भक्ता मोचयन्ति हि । अतः पापक्षये नाम भक्तानां ज्ञानिनां तथा ॥ २४ ॥ नाऽन्येषां तेन भक्तानां मोचकत्वं निरूपितम् । मर्यादया कृतार्थाः स्युः यदि पापं न जायते ।। २५ ।। अतस्तदपवादार्थ पुष्टिर्मृग्या विशेषतः । प्रायश्चित्तप्रसङ्गेन ततः पुष्टरुपक्रमः ॥ नामोच्चारणकर्त्तारस्त्रिविधा अधुना मताः । प्राकृताः पापनाशस्तु तेषां फलनिरूपणम् ॥ यथाकथञ्चिन्नाम्नाऽपि सर्वपापक्षयः सदा । अन्ते तु मुक्तिर्नियता नान्यथोभयहीनतः ॥ विवेकिनस्तु द्विविधा भक्ताः साधारणास्तथा । भक्तानां भक्तिरेवैषा पुष्टिरन्येषु संस्थिता ॥ २९ ॥ २७ ॥ २८ ॥ ते ज्ञेयाः सेवका विष्णोः स्वाथ तेन तथा कृताः । ये विवेकेन नामानि नित्यमुच्चारयन्ति हि ॥ ३० ॥ प्रेमयुक्तास्तु तत्रापि दासभावात्पदच्युताः । पुनर्दासा भविष्यन्ति भक्तिमागों न तेषु चेत् ॥ ३१ ॥ गुणानुवादनिरताः सेवायां वा प्रतिष्ठिताः । भक्तास्तेऽत्रावगन्तव्या रसिकाः कामवर्जिताः ॥ SY ३२ ॥ इह वश्यो हरिर्भूत्वा सायुज्यं यच्छते बलात् । मनोनिवेशनं ध्यानं पूजायामपि तन्मतम् ||३३|| प्रायश्चित्तं तु तच्चापि नाम्नीवाऽस्य च निर्णयः । अजामिलस्य चरितं पूर्ववृत्तं तु शुद्धये ॥ ३४ ॥ शुचीनां श्रीमतां गेहे जन्मवजन्म तस्य तु । कलिशक्तिस्तु सा दासी गुणास्तस्य नवाऽऽत्मजाः ॥ ३५ ॥ एवं सत्ययमत्राशयः । राजा हि लीलान्त्रयं विराध्यानाङ्गत्वेन श्रुत्वा स्थानश्रवणे भगवतस्तत्तन्मर्यादास्थापकत्वमव- गत्य स्वस्य ब्राह्मणावज्ञाकर्तृत्वेन तन्निर्वेशस्याकृतत्वाद्भगवानभयं न दास्यतीति तत्प्राप्तिविलम्बभीतो निर्वेशं पप्रच्छ ‘तन्मे व्याख्या- तुमईसी ‘ति मदर्थं कथयेत्यर्थः । तत्र श्रीशुकैस्तदधिकारपरीक्षार्थं सामान्योत्तरे दत्ते यदा राज्ञा तस्य वैयर्थ्यं कुञ्जरशौचदृष्टान्तेन बोधितं तदा तदुक्तमुपगम्य कर्मात्मकप्रायश्चित्तस्याऽज्ञाधिकारकत्वं बोधयित्वा राजाधिकारानुसारेण तद्बोधयन् श्रीशुकः ‘प्रायश्चित्तं विमर्शन’ मित्यादि द्वयमुवाच । ‘तत्र नाश्नत’ इत्यादिश्लोकत्रयेणैकं ‘केचि’ दित्यादिपञ्चभिरपरम्, ततो द्वितीयं दृढीकर्तुमितिहासमुक्तवान् । तयोः प्रथमं विमर्शनं तद्देहात्मभेदालोचनात्मकं तत्र पथ्यभोजनदृष्टान्तपूर्वकम् ’ एवं नियम- कृद्राजन् शनैः क्षेमाय कल्पते’ इति कथनेनाभिमे तपःप्रभृतीनां तदङ्गानां च कथनेन तत्समप्राङ्गं धर्मज्ञस्य श्रद्धालोः कर्तुर्बहुकालेन नाशयति । तत्राऽप्यग्निदृष्टान्तेन सावशेषमेव नाशयति । वेणुगुल्मदाहे मूलस्य भूमौ दर्शनात् । वह्निनिवृत्तौ पुनः प्ररोहदर्शनाच्च । द्वितीया भक्तिः । सा च भगवति परमप्रेमरूपा ‘यथा कृष्णार्पितप्राण मिति कर्तृविशेषणादवसीयते । तथा च कात्स्म्र्त्स्न्येनाघधुवनं नीहार भास्कर दृष्टान्तेनोक्तं निःशेषनाशबोधनाय । ततो रात्रौ पुनर्नीहारदर्शनादत्रापि सावशेष एव नाशो भविष्यतीति शङ्का- निरासाय । ‘तथा ह्मघवानि ‘त्येतेन श्लोकेन पूर्वोक्ततपआदि सहित विमर्शनकृतपावन स्यैतत्कृत पावनान्न्यूनतोक्ता । ततः ‘सधीचीनो हायं पन्था’ इत्यनेन भक्तिमार्गस्योत्कर्षो बोधितः । तेन भक्त्या निरवशेषः पापनाश इति नीहारनाशोऽपि तथा । रात्रौ तु पुननिहारान्तरमेवेति दृष्टान्तो दृढीकृतः । तत ‘प्रायश्चित्तानि चीर्णानी’ त्यनेन राजोक्तकुञ्जरशौचदृष्टान्तस्य ‘कर्मणा कर्मनिर्वेशो न ह्यात्यन्तिक इष्यते इति स्वोक्तस्य च निर्णयः कृतः । भगवद्विमुखं न निःपुनन्तीति भगवद्विमुखा एव चाविद्वांस इति । तेन युधिष्ठिरादिकृताश्वमेधादीनामपि पावनत्वं बोधितम् । ततः कर्मजडानां भक्तौ सहकारित्वमेव न मुख्यत्वमिति भ्रम इति तादृशाशङ्काभावाय ‘सकृन्मन’ इत्यनेन सकृत्कृतायाः स्वल्पाया अपि केवलाया भक्तेर्निःशेषपापनिवारकत्वाय तस्याः यमाद्य- दर्शकत्वमुक्त्वा तथा च हाढ्य यितिहास उपन्यस्तस्तेन सर्वात्मना पापनाशः कृष्णार्पितप्राणानां भगत्सेवकानामेव । तादृशां पापसम्भवस्तु स्वधर्मोत्कर्ष भावनादोषात् । एवमेव ‘स्वपादमूलं भजतः प्रियस्ये’ त्यत्रापि बोध्यम् । इदमेव ‘ध्रुवमित्येनेनोक्तम् । एवमेकेन ‘केचित्केवलये’त्यादिश्लोकद्वयतात्पर्यमुक्तम् । ये पुनर्भक्तेः सहकारित्वं ज्ञात्वा कर्मणि ज्ञाने वा पापनाशार्थं प्रवर्त्तन्ते तादृशां ताभ्यां सावशेषः पापक्षयः । तदेतद् ‘अन्येषा’ मित्यर्द्धेनोक्तम् । तेन ‘विमर्शनमित्यादिकथनस्यैकं तात्पर्यमुक्तम् । ये पुनः सहकारित्वमपि न मन्यन्ते तेषां केवलेन कर्मणा पापनाशः कुञ्जरस्नानवदपार्थः । तत्र हेतु : अधमानामित्यादि । ये पुनः शुष्कज्ञानिनो ‘पेऽन्येऽरविन्दाक्षे त्यादिषूक्तास्तेषां शनैः साङ्गेन केवलज्ञानेन नाशेऽपि पुनः प्ररोहः पापस्य, अपथ्याशने रोगस्येव । तदेतददेहात्मबुद्धावित्येकेनोक्तम् । एवं ‘वेणुगुल्ममिवानिल’ इत्यन्तस्य द्वितीयं तात्पर्य तात्पर्यं विवृतम् । तेन विमर्शनस्य प्रायश्चित्तत्वबोधनं व्यवस्थाद्वयबोधनायेति बोधितम् । ननु भक्तेर्माहात्म्ये वक्तव्ये ‘तत्पूरुषनिषेवये’ति ‘सुशीलाः Si १. कृतार्थस्तु । 1/ / षष्ठस्कन्धार्थः ३७ ॥ ३८ ॥ पित्रादिभिरसम्बन्धो धनेन भजनं पुनः । सर्वभावेन तस्या वै यतो मोक्षस्ततोऽभवत् ॥ ३६ ॥ गृहस्थितौ तु पितृवत्तस्यापि स्याद्भवे गतिः । सर्वभावेन यत्रैव सेवा तेनैव सद्गतिः ॥ सुतरां पुष्टिमार्गे हि सिद्धान्तोऽयं विनिश्चितः । शुक्ले मलिनसम्बन्धो महानिति यमानुगैः ॥ धर्माधर्मौ विनिर्णीतावीश्वरेच्छां न ते विदुः । पुष्टयभावस्ततः सिद्धः पूर्वपक्षोऽयमीरितः ॥ ३९ ॥ वेदप्रामाण्यसिद्धयर्थं नाममाहात्म्यमुत्तरे । स्कन्धार्थेन विरोधः स्यादन्यथा तन्मतान्तरम् ॥ ४० ॥ साधवो यत्रेति मध्ये भक्तनिवेशस्य किं प्रयोजनमत आहुः पश्चादित्यादिद्वयम् । तथा च तत्पुरुषेत्यादिसपादः श्लोको येषामजामिलादिसदृशां प्रति बन्धबाहुल्यं तेषां द्वारापेक्षाया आवश्यकत्वात्तत्पर इत्यर्थः । फलितमाहुः - मर्यादये त्येकेन । उक्तां व्यवस्थितिमुपसंहरन्ति-प्रायश्चित्तेत्यर्द्धेन । १९/२०/२१ २२ २३ २४ २५ २६ । एवमष्टाभिरुपक्रमप्रकारः समर्थितः । अतः परं मूले ‘सिद्धा येऽधिकारिणो’ ‘भगवत्सेवका ये वि’ त्यादिनोक्ता यश्च तेषां फलमुक्तं तदुभयस्वरूपमुत्तरग्रन्थे सिद्धमिति तद्विवृण्वन्त्यधुनातनानां केषाञ्चिन्नामोच्चारेऽप्युक्तफलाभावाज्ज्ञायमानं सन्देहं च वारयन्ति नामेत्यादिभिः साद्धैः षडूभिः । अधुना नामोच्चारणकर्त्तारः प्राकृताः पृथग्जना अथमास्तेऽपि सात्त्विकादिभेदेन त्रिविधास्तेषां तु उभयहीनतः ज्ञानभक्त्योर्हीनत्वा- दन्यथाफलनिरूपणम् । तदाहुः नाम्नाऽपि यथाकथञ्चित्पापनाशः सदा सर्वपापक्षयः । अन्ते पापक्षयोत्तरं नियता मुक्तिर्नेति तामस- राजससात्त्विकक्रमेण बोध्यम् । एतेन ‘तत्पूरुषनिषेवये’ त्यारभ्य ‘चीर्णनिष्कृता’ इत्यन्तस्य तात्पर्यमुक्तम् । अविश्वासदोषाभिभूतानां साधुसङ्गे यथाकथञ्चित्पापनाशे भगवद्भक्तसेवायां तथा सदा सर्वपापक्षयः । तत्सङ्गादिना सकृद्भगवच्चरणे मनोनिवेशने यमया- म्यादर्शनम् । असकृन्निवेशने तु मुक्तिरिति । अत एव नैयत्याभाव उक्तः । उत्तममध्यमयोराहुः - विवेकिन इत्यादि । अन्येष्विति साधारणेषु । तेषां स्वरूपं द्विधेति द्वाभ्यामाहुः - इत्यादि । विवेकेनेति । तत्तद्गुणकर्मविशिष्टस्य स्वरूपस्य नाम्नश्चाखण्डसच्चिदा- नन्दात्मकज्ञानेन । दासा इति बहिरङ्गसेवकाः । भक्तिमार्ग इति । ‘श्रद्धासृतकथायां म’ इत्यादिनोक्तपरिचर्यानिर्वाहः | २७/२८|२९|३०|३१| 1 भक्ता द्विविधास्तेषां सार्द्धेन स्वरूपमाहुः - गुणेत्यादिना । ‘सकृन्मन’ इत्यत्र मनोनिवेशनस्यैव प्रायश्चित्तत्वमुक्तमिति प्रकरणान्तरस्थयोर्ध्यानपूजयोरपि तस्य तथात्वादेतं निर्णयं तत्राऽप्यतिदिशन्ति मनोनिवेशनमित्यादि । सप्रयत्नश्चित्तव्यापारो ध्यानमिति रूपप्रकरणे तस्यैव सत्त्वात्पूजायामपि तस्यावश्यकतया सत्त्वात्तदुभयमपि तथेति तत्राऽप्यधमसाधारणभक्तरूपाः सभेदात्रिविधा अधिकारिणः । सत्सङ्गादिरूपं द्वारं पापनाशप्रकारदास्यसायुज्यरूपं फलं च नाम्नीव तत्रापि यथायथमुपक्रमबला- दवगन्तव्यमित्यर्थः । एवं प्रश्नोत्तरयो तात्पर्यं निर्णीयाऽजामिलपूर्व वृत्तनिरूपणादितात्पर्य निर्णयन्ति - अजामिलस्येत्यादि । शुद्धय इति पूर्वजन्मीनशुद्धिज्ञापनार्थम् |३२|३३ | ३४ | कलिशक्तिरित्यादि । ‘नानुद्वेष्टि कलिं सम्राट् सारङ्ग इव सारभुक् । कुशलान्याशु सिद्धयन्ति नेतराणि कृतानि यदि ति प्रथमे । ‘कलि सभाजयन्यार्या गुणज्ञाः सारभागिनः । यत्र सङ्कीर्तनेनैव सर्वः स्वार्थोऽ- भिलभ्यत’ इत्येकादशे एवं द्वादशे च स्कन्धे कलिगुणानामुक्तत्वात्तद्गुणरूपा या शक्तिः सा दासी, गुणास्तस्य नवात्मजाः ( बन्धकत्वात्तेन ) दशमो गुणातीतावस्थारूपः मोक्षप्रयोजकत्वानन्ये च बन्धप्रयोजकत्वादिति कार्यबलादनुमेयमित्यर्थः ॥ ३५ ॥ पित्रादिभिरसम्बन्ध इति । अजामिलस्येति शेषः । । पितृवदिति । अजामिलपितृवत् । भव इति संसारे । ननु तादृस्यास्तथा भजने कथं सद्गतिप्रयोजकत्वमत आहुः सर्वभावे- नेत्यादि । इदं पाद्मे पातालखण्डे वैशाखमाहात्म्ये दिवोदासपुत्र्या उपाख्याने प्रसिद्धम् । सा पूर्वजन्मनि महाव्यभिचारिणी ततः शम्भली भूत्वा पश्चाकिञ्चिद्राह्मणमतिथिं पत्नी भूत्वा सर्वभावेन प्रतोष्य तत्सङ्गेन राजकुमारी बभूव ततः कृतार्था चेति कचिद्वयभिचारमाशङ्कयाहुः - सुतरामित्यादि । महानिति अत्यन्तं पापजनकः । तत इति मलिनसम्बन्धात् । ईरित इति प्रथमा- ध्याये उक्तः । एवमेकविंशतिभिः प्रथमाध्यायो विचारितः | ३६ |३७|३८|३९| । (अ. २) अतः साधैर्नवभिर्द्वितीयाध्यायार्थं विचारयन्ति - वेदप्रामाण्येत्यादि । ननु धर्मस्य यल्लक्षणादि यमदूतैरुक्तम्, तस्य विष्णुदूतैरदूषणात्तस्य सर्वं तेषां सम्मतम्, प्रायश्चित्तस्यैव दूषणात्तदंश एव परं विवादः, तत्र नाममाहात्म्यबोधनेन प्रायश्चि- ‘तांशानङ्गीकाराद् वेदे च ‘सर्व पाप्मानं तरति तरति ब्रह्महत्यां योऽश्वमेधेन यजत’ इत्यादिषु कर्मणां प्रायश्चित्तत्वबोधनात् तदन- ङ्गीकारे वेदस्यांशतः प्रामाण्यहानिप्रसङ्गः, तथा सति अन्यांशेप्यनाश्वासप्रसङ्ग इत्याशङ्कानिरासाय नाममाहात्म्यकथनेपि प्रामाण्यसिद्धिमुपपादयन्ति वेदप्रामाण्येत्यादि । ननूत्तरग्रन्थे वेदनाम्नोऽप्यदर्शनात्प्रत्युत ‘नाधर्मजं तद्धृदय’ मित्यनेन तस्य न्यूनत्व- • बोधनाच्च विपरीतं प्रतीयत इति कथमेवमवगम्यत इत्याकाङ्क्षायामाहुः स्कन्धेत्यादि । सिद्धान्ते वेदोक्तप्रायश्चित्तस्य यदि सर्वथा T हेयतैवाभिप्रेता स्यान्मर्यादास्कन्ध एव तथा सिद्धान्त उच्येत ‘केचित्केवलये’ त्यत्र मतान्तरत्वबोधकं केचित्पदं च नोच्येत । अतो भगवदनुग्रहभाजामेव तत्तथेति वैदिकादिप्रायश्चित्तशास्त्रस्यान्यत्र सावकाशत्वान्न वेदे आंशिकप्रामाण्यस्यापि हानिरित्यर्थः ॥४०॥ १. मुलपुस्तके नास्तीदम् । २. शम्भली - ‘कुट्टनी शम्भली समे* इत्यमरः । सप्रकाशतत्त्वार्थदीपनिबन्धे ก งง ! ४४ ॥ नामार्थयोरमेदो हि वेदोऽपि हरिनाम हि । नामानि कृत्वाऽभिवदन्निति वाक्यात्प्रतीयते ॥ ४१ ॥ वेदवेदार्थरूपत्वान्नामैवाऽखिलशोधकम् । तद्ध्येतुध्यानसिद्धं प्रायश्चित्तं तु दुर्बलम् । ज्ञानं खभावतो भिन्नं मतभेदास्ततोऽभवन् । वेदार्थस्याऽपरिज्ञानाल्लौकिकं चाऽप्युपेक्षते ॥ ४३ ॥ लोकसङ्ग्रहभेदानां नाऽन्यथा कथनं भवेत् । वक्तुरेवार्थसन्देहात्प्रायश्चित्तं न तन्मतम् ॥ यमादिसाधनैर्युक्तं ज्ञानं संन्याससंयुतम् । प्रायश्चितमशक्यत्वान्न सर्वेषां तु तद्भवेत् ॥ वस्त्रं दहति यो ह्यग्निः स न वस्त्रस्य शोधकः । तथा ज्ञानं न सङ्घातशोधकं त्याजकं परम् ॥ अशक्यं साधनं चैव मोक्षपर्यवसायि च । शुद्ध्यभावान्न तसिद्धये द्वासनाऽपि विशिष्यते ।। ४७ ।। वेदोक्तं तदपि प्रोक्तं नाम वेदात्मकं हरेः । अन्यत्राऽपि व्यवहृतमवतारवदुत्तमम् ॥ ४८ ॥ I । ॥ ४५ ॥ ४६ ॥ नन्वेवं सति ‘आनर्थक्ये प्रमाणानां विपरीतं बलाबलमि’ति न्यायेन प्रवृत्तिसङ्कोचे व्यवस्थितविकल्पापत्त्या दोषद्वयापत्तिस्तु दुर्वारैवेत्यत आहुः - नामेत्यादिसार्धम् । अयमत्रार्थः । वेदस्य प्रामाण्ये हि न शब्दत्वादिकं तन्त्रम्, किन्त्वपौरुषेयत्वं वा ईश्वरनि:- श्वासत्वम् ईश्वरवाक्यत्वं वा तन्त्रम् । तत्रापौरुषेयत्वं तावत् ‘वाचा विरूपनित्यये ‘ति ‘सदेव सौम्येदमग्र आसीत्’ ‘एकमेवाद्वि- तीय’ मिति श्रुत्येकवाक्यतापूर्वक विचारे ‘वेदो नारायणः साक्षात्स्वयम्भूरिति शुश्रुम’ इति वाक्योक्त ईश्वराभेदे पर्यवस्यति । तस्यार्थस्तु भगवानेव ‘सर्वे वेदा यत्पदमामनन्ती ‘ति ‘मां विधत्तेऽभिधत्ते मा ‘मित्यादिश्रुतिभगवद्वाक्याभ्याम् । हिर्हेतौ, अतो हेतोः नामार्थयोरभेदः । किञ्च हि यतो हेतोः ‘बहुस्या’मितीच्छ्या स्वयं ‘सर्वाणि रूपाणि विचित्य धीरः’ नामानि कृत्वाऽभिवदन् यदास्ते’ इति श्रुतिवाक्याद् येषु येषु रूपेषु यानि यानि नामानि नियतवान् तानि वैदिकान्येव सृष्ट्यादौ शब्दान्तरस्याभावात् । अतो वेदोऽपि हरिनाम । एवं सति वेदापौरुषेयत्वविचारे हरित्वं हरिनामत्वं च प्रामाण्ये तन्त्रमिति सिद्धयति । एवं निःश्वा- सत्ववाक्यत्वपक्षयोरपि ईश्वरः स्वातिरिक्तं कं वा वक्ष्यतीत्यभेदवादाद्यनुसारात्तदेव तन्त्रम् । एतावान् परं विशेषः । वेदोक्तानां कर्मादीनां रूपाणां ‘प्रजायेये’ तीच्छ्या शक्तिविश्लेषकरणात्प्रतिनियतकार्यकर्तृत्वेन तत्तत्पापनिवर्तकत्वमेव न तु सर्वनिवर्त्तकत्वं येषां च सर्वनिवारकत्वं तेषामपि न हृदयपावनत्वमिति यथायथं फलवाक्यबलात्प्रत्यक्षबलाश्चावसीयते । भगवन्नाम तु शक्ति- विश्लेषराहित्येन वेदवेदार्थंरूपत्वात्पूर्णशक्त्येवेत्यखिलशोधकम् । अतो नाममाहात्म्यं प्रामाण्यनियामकीभूतवैदिकरूपनिश्चायकमिति वेदप्रामाण्यसिद्धयर्थमेव । न च व्यवस्थितविकल्पापत्तिः, अप्राप्तबाधस्थल इव वैश्यस्तोमादिविधायकवाक्यानां ब्राह्मणेष्विव चानुगृहीतेष्वधिकारस्य भिन्नतया तद्वाक्यप्रवृत्तेरेवाभावादिति । ननु यद्येवं तदा वेदार्थद्रष्टृभिऋषिभिः साधारणतयोक्तस्य प्रायश्चित्तस्य का गतिरित्यत आहुः - तदध्येन्त्रित्यादि ॥४१-४२॥ कुत एवं निश्वयमित्यत आहु: - ज्ञानमित्यादिचरणत्रयम् । तदुक्तमेकादशस्कन्धे भगवता ‘कालेन नष्टा प्रलय’ इत्यारभ्य यथा प्रकृतिः सर्वेषां चित्रा वाचः स्रवन्ति हीत्यन्तेन । ‘लोकसङ्ग्रहमेवापि संपश्यन् कर्तुमर्हसी’ति भगवद्वाक्यमनुसृत्य तत्कथने हेत्वन्तर- मपि सङ्गृह्णते - लौकिकमित्यादिपादोनेन । तथा च भगवदिच्छाज्ञातारस्ते वेदार्थं ज्ञात्वाऽपि लौकिकानामर्थे तद्वदन्तीति साऽप्येका गतिरित्यर्थः । तर्हि शिष्टादरात्तस्यैव प्रायश्चित्तत्वमस्त्वित्यत आहुः - वक्तुरित्यादि । अर्थसन्देहादिति वेदतात्पर्यनिश्चयाभावात् ॥४३-४४॥ नन्वस्तु नाम्नः शोधकत्वं कर्मापेक्षयाऽऽधिक्यं च, तथापि ज्ञानेनेदं विकल्प्यताम् ‘यथैधांसि समिद्धोऽग्निर्भस्मसात्कु- रुतेऽर्जुन । ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथेति भगवद्वाक्ये तस्यापि निःशेषपापदाहकत्वकथनादित्यत आहुः - यमादी- त्यादिसाधिकं त्रयम् । तथा चानेकसाधनसापेक्षत्वाद्देहनाशकत्वाद् इदानीं तदपेक्षितशुद्धिविरहेणा शक्योदयत्वादेवोदाहदृष्टान्तेन सावशेषनाशकत्वाद्वेदोक्तत्वेन त्रैवर्णिकमात्राधिकारकत्वाच्च न तेनाऽप्यस्य विकल्प इत्यर्थः । नन्वस्त्वेवं तथापि वेदत्वेन ज्ञाताज्ज्ञान- पूर्वकमुच्चारितादेव नाम्नस्तथा फलं भवेत्, न तु यथाकथञ्चिद्युक्तादत औपचारिकस्य कथं फलसाधकत्वमित्याकाङ्क्षायामाहुः प्रोक्तमित्यादि । हरेर्नाम वेदात्मकं प्रोक्तं प्रकर्षेणोपपत्तिपूर्वकमुक्तम् । अन्यत्रापि ‘वेदाक्षराणि यावन्ति पठितानि द्विजातिभिः । तावन्ति हरिनामानि कीर्त्तितानि न संशयः’ इत्यत्र वेदाक्षराणां हरिनामत्वबोधनान्नाम्नां वेदात्मकत्वमुक्तम् । एवं शास्त्रान्तरेऽपि । किञ्च ‘नाम्नां मुख्यतरं नाम कृष्णाख्यं यत्परंतप । प्रायश्चित्तमशेषाणां पापानां मोचकं परमि’ त्यादिषु सहस्रनामाष्टोत्तरशतनामा- दिषु च तथा स्मरणाच्छास्त्रान्तरेऽपि प्रायश्चित्तत्वं नाम्नां व्यवहृतम् । किञ्च ‘अवतारवदुत्तमम्’ यथाऽवतीर्णो भगवानचिन्त्यकार्यकर्त्ता तथा नामापि वाल्मीक्यादौ शबरदेहेऽपि ब्राह्मणत्वादिकरणात्तादृशमतः पुत्रोपचारेऽपि तथेत्यर्थः । एवं साद्धैर्नवभिर्द्वितीया- ध्यायो विचारितः ।। ४५-४८ ॥ १. अशक्तत्वान् । २. ऋषिभिः साधारण्येन प्रायश्चितकथनेन 1 । षष्ठस्कन्धार्थः ॥ ५१ ॥ ५२ ॥ ५३ ॥ ५४ ॥ अतः पुत्रोपचारेऽपि तद्वस्तु निखिलाघनुत् । धर्माधिकारी यदि तन्न मन्येत कथञ्चन ॥ ४९ ॥ तथा बलात्तथोक्तं स्यादिति जायेत संशयः । यमवाक्येन तद्दाढ्यं प्रमेयबलमीरितम् ॥ ५० ॥ अगस्त्यः शिवभक्तोऽपि तथा तत्त्वमुवाच ह । परकीयमुखात्स्तोत्रं सत्यमेवेति निश्चितम् ॥ मिथ्याप्रलोभनाच्चाऽत्र पूजया विनिवार्यते । तस्याऽपि हरिमाहात्म्य श्रवणात्पूजने मतिः ॥ यमदूतभयात्सिद्धं प्रायश्चित्तमिदं दृढम् । दक्षे प्रसादस्तपसा तत्पुत्रेषु तु बोधतः ॥ तत्कन्यासु जगदुद्धृत्यै त्रेधाऽनुग्रह ईरितः । सत्त्वेन तमसा वाऽपि रजसा चेति स त्रिधा त्रिविधोऽपि हरिस्तोषो विश्वरूपार्थमीरितः । तस्मिन् सर्वं सुसम्पन्नमिन्द्राय प्रददौ हरिः अतः स्थानस्वरूपस्य गुरोरत्र निवारणम् । पुष्ट्यर्थं भगवद्वयानादिन्द्रो मर्याद ईरितः ॥ सर्वज्ञत्वाद्गुरुथापि हरिप्रीत्यै तिरोदधे । मर्यादास्थो यतो ब्रह्मा न गुरोर्गमनात्सुखी ॥ सोपि ज्ञात्वा हरेः कार्यं विश्वरूपमुवाच हि । आधिभौतिकदुःखाद्धि विशिष्टस्तदनन्तरः ॥ ५८ ॥ अतो बृहस्पतिगतौ तूष्णींभावो वरः स्मृतः । पुष्टिः स्वार्था ततः कोऽपि न सुखं विन्दते चिरम् ॥ ५९ ॥ अतो न ब्रह्मवाक्येन क्षमां चक्रे गुरोः कृतौ । विश्वरूपोऽपि हरिणा हतः कवचदानतः ॥ ६० ॥ 1 ॥ ५५ ॥ ५६ ॥ ५७ ॥ अ. ३ अतः परं चतुर्भिस्तृतीयाध्यायं विचारयन्ति - धर्मेत्यादि । धर्माधिकारीति कर्मजडः । बलादिति श्रद्धाविशेषजनि- तादाग्रहात् तद्दामिति । प्रायश्चित्तदार्व्यम् । तदीरितं प्रमेयबलमीरितम् । चकारमध्याहृत्य योजना ।। ४६-५० ॥ एवं यमयाम्यसम्वादतात्पर्यमुक्तम् । अगस्त्योक्त्यादितात्पर्यमाहुः अगस्त्य इत्यादिद्वयम् । अध्यायत्रयसिद्धमर्थमाहुः यमदूतेत्याद्यर्द्धम् । एवं सार्द्धनचत्वारिंशद्भिः प्रथमप्रकरणार्थो विचारितः । अथ द्वितीयं ध्यानप्रकरणम् । अतः परं सार्द्धसप्तत्रिंशद्भिर्द्वितीयं प्रकरणं विचारयन्ति दक्ष इत्यादि । तत्रेदं रूपप्रकरणम् । अत्र हि ध्यायमानं पुष्टचधिकारिण इत्यधिकारिविचारेण देवप्रकरणमिदमिति तानत्र स्फुटीकुर्वन्तोऽनुग्रहेऽपि विशेषमाहुः - दक्ष इत्यादि । तथा च दक्षे तत्पुत्रेषु च साधनद्वारकस्तत्कन्यासु स्वकीयार्थ इति प्रकारभेदाद् द्विविधोऽपि प्रयोजकभेदात त्रेवेत्यर्थः ।। ५१-५३ ॥ तत्रापि हेतुमाहुः — सत्रवेनेत्यादि । सेति पुष्टिः । वाशब्द एवकारार्थ उभयत्र । अपिः सत्वसमुच्चायकः । ईरित इति । एव- मत्राध्यायत्रये ईरितः, दक्षस्याग्रे जन्मान्तराश्रवणाद्रपेण मोक्षदः प्रथमे ईरितः । द्वितीये हर्यश्वादीनां संसाराभावबोधनाद्रसेनानन्द- दायक ईरितः । तृतीये तत्कन्यानां वंशकथनाद्गन्धेन भक्तिद ईरितः । स्त्रीणां सन्तानदातर्येव माहात्म्यज्ञानपूर्वकस्नेहादिति तथेत्यर्थः ॥ ५४ ॥ अग्रिमाध्यायविचारेण तस्य मुख्यं प्रयोजनमाहुः - त्रिविध इत्यादि । एतेन तस्यावान्तरप्रकरणित्वं बोधितम् । तत्र ज्ञापकमाहुः - तस्मिन्सर्वं सुसम्पन्नमिति । विश्वरूपे तपो ज्ञानं जगद्धृतिश्चेति त्रयं सुतरां सम्पन्नं तस्मात्तदर्थं इति ज्ञायत इत्यर्थः । ननु यद्येवं विश्वरूपे प्रसादस्तदा तस्य वधः कुत इत्याशङ्कायाम् ’ - एकं भगवतः कार्य बह्नर्थानां च साधकमिति न्यायेनाभिमा- ध्यायार्थमाहुः - इन्द्रायेत्यादि न रक्ष्यत इत्यन्तेन । तत्र पूर्वं तदुपपादनायेन्द्र तथा प्रसादं तत्कार्यमुखेन स्फुटीकुर्वन्ति इन्द्रायेत्यादि । यत उक्तं चयं हरिरिन्द्राय प्रददौ प्रकर्षेण साधनं विनैव ददौ, अतोऽत्र प्रकरणे पुष्टिज्ञापनार्थं मर्यादारूपस्य गुरोर्बृहस्पतेर्वारण- मनादर उच्यते इदं कार्य पुष्टिज्ञापकमित्यर्थः । ननु मूले ‘इन्द्रस्त्रिभुवनैश्वर्यमदोल्लङ्घितसत्पथः’ इत्यादिनेन्द्रस्यामर्यादत्वं गुरोश्च तिरोभावों ब्रह्मणा देवानां भर्त्सन करणं चोक्तमिति गुरुनिवारणस्य कथं पुष्टिज्ञापकत्वमित्यत आहुः - भगवदुध्यानादित्यादि । तत्र ज्ञापकद्वयमाहुः सर्वज्ञत्वेत्यादि । तथा च यद्यत्र भगवद्विचारो हेतुर्न स्यात् गुरुः शपेदेव न तु तिरोभवेत् । ब्रह्मापि भर्त्सयत्वा गुरुमेव प्रदर्शयेत्, न तु विश्वरूपं गुर्वर्थं वदेत् । अतस्तदकरणादेतत्कारणाचेदं द्वयं तस्य ( अमर्यादत्वस्य ) पुष्टिकार्यत्वज्ञापक- मिति तत्कृतं गुर्वनादरणमपि तथेतीन्द्रेऽस्ति प्रसाद इत्यर्थः । एवमिन्द्र प्रसादमुपपाद्य विश्वरूपवधमुपपादयितुं तस्मिन्ननुग्रहं दृढ- यितुम् - ननु यदीन्द्रे ऽनुग्रहस्तदा यथा दक्षेण ब्रह्माज्ञा सृष्टपर्णमङ्गीकृता, तथा ‘यदि क्षमिष्यध्वमुताऽस्य कर्मेत्युक्ता कर्मक्षमाज्ञा इन्द्रेण कुतो न कृता । किञ्च, ब्रह्मा सर्वज्ञोऽग्रे भाविनं विश्वरूपस्येन्द्रस्य च यथायथं मरणं क्लेशं च जानन् कुतो विश्वरूपं गुर्वर्थमुक्तवानित्याशङ्कामपनुदन्ति– आधिभौतिकेत्यादि । तदन्तरमिति । आध्यात्मिको हत्याजनितश्च क्लेशः । अतो यद्यपि तूष्णीं- १. तत्स्मृत्वा । सप्रकाशतत्त्वार्थदीपनिबन्धे ! ६१ ॥ ६२ ॥ ६३ ॥ ६४ ॥ ६५ ॥ दैत्यत्वमन्धमात्रं च भगवान्नाऽत्र मन्यते । विद्यमाने हि कवचे सानुभावे च तद्वधः ॥ पुष्टौ हरीच्या जातो विश्वरूपस्त्रिरूपधृक् । देवो दैत्यो मनुष्यश्च मनुष्यत्वं पुरा स्थितम् ॥ पौरोहित्ये देवभावो बृहस्पतिसमत्वतः । अन्यथा यज्ञकरणं दैत्यभावस्य लक्षणम् ॥ अतत्रिगुणसंयुक्तो विश्वरूपो न रक्ष्यते । पुष्टिरत्र द्विरूपा हि मर्यादापुष्टिभेदतः ॥ विश्वरूपस्तु मर्यादा द्वितीयो वृत्र उच्यते । भक्तोऽपि देवद्रोहेण वर्त्तते विषयो यथा ॥ अतस्तु मारणीयो हि कण्टकन्यायतः परम् । पुष्टौ कर्मी तथा ज्ञानी भक्तोऽपि विनिपात्यते ॥ अतः पुष्टिं विलोक्यैव सर्वमार्गरतो भवेत् । विश्वरूपों दधीचित्र वृत्रश्चेति हता यतः ॥ इन्द्रे धनुग्रहः पूर्वं तद्विरोधाद्धता इमे । सर्वेषां सर्वधर्मा हि हरिप्रीत्यनुगा यतः ॥ अतोऽनुग्रह सिद्धयर्थं हरिमेव समाश्रयेत् । विश्वरूपे पडध्यायास्तस्मिन् यावाननुग्रहः ।। ६९ ।। ६६ ॥ ६७ ॥ ६८ ॥ भावः श्रेष्ठस्तथापि पुष्टिः स्वार्था जीवार्था, ततो जीवार्थायास्तस्याः सकाशात्कोपि चिरं सुखं न विन्दते । अत इन्द्रो ब्रह्मोक्तं न कृतवान् ब्रह्मापि सम्भावनयैव ज्ञात्वोक्तवानित्यर्थः । ननु भवत्विदमेवं तथापि विश्वरूपेऽपराधाभावात्कथं तद्वध इत्यत आहुः विश्वरूपोऽपीति । ‘तां प्राह स महेन्द्राय विश्वरूप उदारधीरिति मूले विश्वरूपविशेषणादनभिप्रेतकारितत्वात्तद्वध इत्यर्थः । नन्वि - न्द्रस्यानुगृहीतत्वेन तस्मै कवचदानं न दोषावहमित्यतो हेत्वन्तरं साद्धैस्त्रिभिराहुः — दैत्यत्वेत्यादि । अत्रेति । पुष्टौ । अत इत्यध्या- हृत्य योजना | अर्थस्तु प्रकट एव । एवमत्राध्यायद्वयार्थ उक्तः । (अ. ९ ) अतः परं नवमस्यार्थ विचारयन्ति तत्रैवं देवप्रकरणमिति दक्षादिविश्वरूपान्तेषु इन्द्रे च पुष्टेरुक्तत्वात्ता- वतैव प्रकरणसमाप्तिरुचिता । अग्रे वृत्रकथायाः किं प्रयोजनमित्याकाङ्गायामाहुः - ( तत्र ध्यानध्येयं सम्बन्धेनैव फलजनकत्वात् । ध्यातृरूपमेव व्यापारः । तत्रारम्भे दक्षतपरक्तत्वेऽपि न केवलेन तोषः । किन्तु हंसगुह्यस्तवनयुक्तेना स्तोत्रकथनं प्रस्तुत्य ‘कस्या- स्तुष्यद्यतो हरिरिति तत्रोक्तः । अग्रे च स्तुवतो रूपं प्रदर्शितवानिति ध्यानं तदेव व्यापारः । उपक्रमे प्रतिपादनात्तस्यैव प्रकरणित्वं तस्य रूपेण मोक्षदत्वं च दक्षदस्य पुनर्जन्माकथनात् । रसेनानन्ददायकत्वं च हर्यश्वादीनि ) । पुष्टिरत्रेत्यादि । अत्र स्कन्धे उक्तरीत्या द्विप्रकारा पुष्टिहि यतो हेतोर्विवक्षिता अतो हेतोस्तत्कथा ऽत्रोच्यत इत्यर्थः । मर्यादेति मर्यादापुष्टः द्वितीय इति पुष्टः ॥ ६४ ॥ ननु यद्ययं पूर्वापेक्षयाऽधिकानुग्रहभाजनं तदा मारणं कुत इत्यपेक्षायामाहुः - भक्तोऽपीत्यादि । तथा च भक्तिविरुद्ध- स्वभावनाशनाय मारणमित्यर्थः ॥ ६५ ॥ तर्हि मर्यादापेक्षया को विशेष इत्यत आहुः - कण्टकेत्यादि । यथा हि पादे लग्नः कण्टको व्यथां सोढवाऽप्यप्रेति सुखार्थं बलाद् दूरीक्रियते तथेत्येष विशेष इत्यर्थः । तदिदमिन्द्रवृत्रसम्वादे स्फुटति । नन्वस्त्वेवं तथापि मध्ये दुधीचिवध- कथनस्य किं प्रयोजनमत आहुः पुष्टावित्यादि सार्द्धम् । तथा च पुष्टुर्बलिष्ठत्वज्ञापनं मार्गान्तरावलोकन शिक्षणं च प्रयोजनमित्यर्थः ।। ६६-६७ ।। शिक्षणस्यापि प्रयोजनं भगवति दोषारोपाभाव इति हृदि कृत्वाहुः - इन्द्र इत्यर्द्धम् । तथा च भगवान् स्वपूर्वविचारिता- नुरोधेन करोति, भक्तादिमारणमपि तस्य हितायैव दोषनिवृत्तये करोतीति बुद्धौ यो यो यन्मार्गीयस्तस्य तस्य तत्र तत्र रतिनि- र्वाहप्रयोजनमित्यर्थः । ननु वधेन दोषनिवृत्त्या हितसिद्धिर्विश्वरूपवृत्रयोः सिद्धा दधीचेस्तु दोषाभावात्तस्य किं वधेन सिद्धम् । किन, उक्तशिक्षा त्रितयवधकथया सिद्धा न तु केवलदधीचिवधकथयेति तस्याः पृथक्किं प्रयोजनमत आहुः - सर्वेषामित्यादि । हरिप्रीत्यनुगा इति हरिप्रीतिपर्यवसायिनः । तथा च भगवद्विचारितकरणाद्दधीचेर्भगवत्प्रीतिरेव सिद्धा । तथाऽऽनन्दपूर्वकस्व- देहदानकथया आत्मना भगवद्विचारित कार्यकरणसिद्धयर्थं भगवदाश्रयणं कर्त्तव्यमिति शिक्षणं सिद्धमिति तस्यास्तत्प्रयो- जनमित्यर्थः ॥ ६८ ॥ एवं वृत्रप्रकरणप्रयोजनं विचार्य विश्वरूपप्रकरणीयाध्याय सङ्ख्याप्रयोजनमाहु: - विश्वरूप इत्यादि । विश्वरूपे हि पञ्चगुणाः पूर्णाः, वैराग्यं न्यूनं ‘मातृस्नेहवशानुगः’ इतिवचनात् ते भगवदनुग्रहरूपा एव, अतस्तस्मिन् यावान् अनुग्रहस्तं कृष्ण इन्द्राय ददौ । अतः षडध्यायाः, षष्ठ एव च वधः कृतो नो सप्तमे वैराग्यस्यापूर्णत्वादित्यर्थः ॥ ६६ ॥ १. अपि ( ) १ चिह्नान्तर्गतं मूलग्रन्थे नास्ति । २ अथो हरे मे कुलिशेनेत्यादिना । षष्ठस्कन्धार्थः तमिन्द्राय ददौ कृष्णः सप्तमेऽतो वधः कृतः । साक्षाद्धस्तद्वये घातस्ततः पापं करद्वये ॥ ७० ॥ आध्यात्मिकत्वात्तस्याऽपि सेवामिन्द्रश्चकार ह । सम्वत्सरेणाऽऽत्मशौचं निर्बन्धश्च गतो हरौ ॥ ७१ ॥ सच्चिदानन्दरूपेषु भूवृक्षस्त्रीषु तन्मलम् । स्थापयामास गोविन्दप्रसादानान्यथा तु तत् ॥ ७२ ॥ एवमिन्द्रे प्रसादस्तु भूमिर्भक्तास्तथा द्रुमाः । लक्ष्म्यंशाथ स्त्रियो भक्तास्तदनुग्रह ईर्यते ॥ ७३ ॥ । ॥ ततो वृत्रसमुत्पत्तिस्तं मोचयितुमादरात् । सोमादाहवनीयस्य जन्म चक्रे हरिः स्वयम् ॥ ७४ ॥ वेदप्रामाण्यसिद्ध्यर्थं खरभङ्ग चकार ह । विद्याधरः शापदग्धस्ततो मुक्तिमवाप्स्यति ॥ ७५ ॥ उच्छिष्टसोमहवनान्मन्त्रदोषाच्च दैत्यताम् । स्वाहेत्येव तु मन्त्रोऽत्र कामितस्याऽनुकीर्त्तनम् ॥ ७६ ॥ अत्रप्रक्रियायां तथा निर्णय ईरितः । कर्मणोत्पादितो देहो ज्ञानेनैव विनश्यति ॥ ७७ ॥ अतो दधीचेरत्राणि ज्ञानरूपाणि तद्वधे । उत्पत्ति प्रलयौ यस्य वेदमार्गेण तद्धदि ॥ ७८ ॥ भक्तिर्मुक्तिश्च तस्यैव सायुज्यं नाऽन्यथा भवेत् । भक्तिमूर्तिमती तत्र देवरूपासु संस्थिता ॥ ७९ ॥ तद्वधव्यतिरेकेण न सा निर्गन्तुमर्हति । अतो हरिः सर्वदेवैः स्तूयते सिद्धभाषितैः ॥ भक्तिलेशेऽपि न हरिः स्वयं हन्ति कथञ्चन । देवार्थं ब्राह्मणानाशस्तस्य दोषस्य वर्ण्यते ॥ प्रचेतसां प्रसाद दक्षस्याऽपि तथैव च । तत्स्तुतानां च निखिलो विश्वरूपे प्रतिष्ठितः ॥ भक्त्या च तपसा चैव ज्ञानेनाऽपि स उच्यते । आधिभौतिकरूपं तु त्रयमत्र निरूपितम् आध्यात्मिकानां त्रितयं विश्वरूपे प्रतिष्ठितम् । बृहस्पतिसमो ज्ञाने तपखी च निरूपितः ॥ कवचस्योपदेशेन वैष्णवोऽपि निगद्यते । तथा वृत्रेऽपि त्रितयं ज्ञानं भक्तिबलं तथा ॥ | ॥ ८० ॥ ८१ ॥ ८२ ॥ ८३ ॥ ८४ ॥ ८५ ॥ एवं षडध्यायप्रयोजनमुत्तत्वा तद्ब्रह्महत्याया हस्ताभ्यां ग्रहणस्य तात्पर्यमाहुः - साक्षादित्यादि । धातो हननं कार्यत्वेन हस्तद्वये जातम्, ततः पापं ब्रह्महत्यारूपं करद्वये अञ्जलौ अगृह्णादित्यर्थः ॥ ७० ॥ तत्स्थापनादिप्रयोजनमाहुः - आध्यात्मिकत्वादित्यादि । तस्य पापस्योग्रत्वात्सम्वत्सरमन्तरेण तन्निर्वेशासम्भवात्ता- वत्कालमबिभ्रदित्यर्थः । ह इति प्रसिद्धौ । तस्य फलमाहुः - हरौ इन्द्रे सम्बत्सरेण आत्मशौचं जातं च पुनः निर्बन्धो ब्रह्महन्तृ- त्वेनाक्रोशरूपोऽपि गतः । शिष्टं यत्तन्मलं तद्भूम्यादौ स्थापयामास तत्सर्व गोविन्दप्रसादादेव नान्यथेतीन्द्रे प्रसादबोधनाये- दमत्रोक्तमित्यर्थः ।। ७१-७२ ॥ भूमिस्तुरीयमित्यादेस्तात्पर्यमाहुः - भूमिर्भक्तेत्यादि । एवं चात्र वैदिकपक्षोऽपि सङ्गृहीतो ज्ञेयः । तत्र भूम्यादित्रय एव ब्रह्महत्याविभागश्रवणात् । तेन तत्रापीदमेव तात्पर्यमेवमेव च स्वरूपं विश्वरूपादीनामिति बोधितम् । अत्र त्वपस्वधिको ब्रह्म- हत्याविभागः, स चाधिकं तत्राऽनुप्रविष्टमि’ ति न्यायान्न दोषावह इति ॥ ७३ ॥ एवं विश्वरूपप्रकरणं विचार्य वृत्रप्रकरणं विचारयन्ति ततो वृत्रेत्यादि । आदरे गमकमाहुः - सोमादित्यादि । वधे बीजमाहुः - वेदेत्यादि । तन्मोचनायायमुपाय इत्यर्थः । स्फुटम । ७४ । ७६ । ( अ. १० ) दशमाध्यायतात्पर्यमाहुः - कर्मणेत्यादिभिः । तत्रोत्पत्तिमारभ्यान्तं यदत्रोक्तं तत्सर्वं तद्धितार्थमेवेति- द्वाभ्यामुक्तम् |७७/७८ | ‘स्तूयमानो मुनिगणैरित्यनेनोक्ताया इन्द्रस्तु तेस्तात्पर्यमाहुः - भक्तिरित्यादिसार्द्धेन । ननु वृत्रहननं दोषनिवारणाय चेद्भगवता कुतो न कृतमित्यत आहु: - भक्तिलेशेत्यादि । दधीचेर्वृत्रवधकारणत्वे प्रयोजनान्तरमानुषङ्गिकमाहुः - देवार्थ- मित्यादि ७६८०/८१ ननु पूर्वप्रकरणे दक्षादिषु प्रसादो विश्वरूपार्थमुक्तस्तर्हि तेषु न प्रसादस्ततस्तत्फलमपि न तेषां भविष्यतीति शङ्कां साद्धैस्त्रिभिर्वारयन्ति-प्रचेतसामित्यादि । अति प्रचेतः प्रभृतिषु । तथा च तपसा ज्ञानेन सगुणभत्त्या आधिभौतिकस्तेषु ‘आध्यात्मिको विश्वरूप’ इत्युभयमपि युक्तमित्यर्थः । ८२८३ एतत् त्रितयं वृत्रेऽप्यतिदिशन्ति तथा वृत्र इत्यादि । विश्वरूप आध्यात्मिको वृत्र आधिदैविक इत्यत्र गमकमाहुः - विश्व - रूपवधादित्यादि । वृत्रहत्यायास्तत आधिक्ये हेतुमाहुः - तामसानामधिपतिरिति । तथा च राज्ञो मूर्द्धावसिक्तस्य वधो ब्रह्म- १. तपः । २. उत्सृष्ट ३. नान्यथा तु तत् । ४. तु । सप्रकाशतत्त्वार्थदीपनिबन्धे र ८९ ॥ ९० ॥ ९१ ॥ ९२ ॥ आधिदैविकमेतद्धि सायुज्यं नाऽन्यथा भवेत् । विश्वरूपवधात्पापमक्षयं तत्प्रतिष्ठितम् ॥ ८६ ॥ आध्यात्मिकं ततोऽप्येषा वृत्रहत्या विशिष्यते । तामसानामधिपतिस्तत्पापं हन्ति दुर्जयम् ॥ ८७ ॥ ध्यानं तत्र निमित्तं हि वैदिकं चाऽप्यभीष्टदम् । भक्तिर्दोषयुता लोके न प्रसिद्धा कथञ्चन ॥ अतस्तदपवादाय मतान्तरमिहोच्यते । वैराग्यं ज्ञानभक्ती च प्रसादः शाप एव च ॥ भक्तिमार्गे तु भक्तस्य न युक्तमिति तत्तथा । भाषान्तरेऽपि यत्सिद्धमिन्द्रे तत्प्रददौ हरिः ॥ एवमिन्द्रे महापुष्टिः सर्वबाधा निरूपिता । सर्वबाधकरूपा हि दैत्ये पुष्टिरथोच्यते ॥ तत्रापीन्द्रप्रसादो हि यतो मृत्युनिवारणम् । विरूद्धयोः प्रसादं तु हरिः साधयितुं क्षमः ॥ बघाद्गुरुरिति वाक्यात्तयेत्यर्थः । ततो ‘हरि’ रित्यारभ्य ‘विधूतपाप’ इत्यन्तेन सिद्ध तन्नाशहेतुमाहुः तत्पापमित्यादि । ध्यानं कर्तृ तत्पापं हन्तीत्यर्थः । ननु सति पापे ध्यानप्रतिबन्धः कुतो नाऽभूदित्यत आहुः – तत्र निमित्तं हीति । तत्र ध्याने लक्ष्मीकृतं तद्रक्षणं यतो निमित्तं ततस्तत्सम्पन्नमित्यर्थः । तर्हि वाजिमेधस्य किं प्रयोजनमत आहुः वैदिकमित्यादि । वैदिकं यज्ञकरणमपि अभीष्टदमेव । चोऽवधारणे । ‘इन्द्रो महानास विधूतपाप’ इति तत्र कथनाद्भौतिकं पापं नाशयन्महेन्द्रत्वजनकमेवाभूदित्यर्थः । एवं चात्र त्रयोदशेध्याये ऋतम्भरध्यानं केवलध्यानम्, तेन ‘केवलः सकलार्थद’ इति फलमत्र बोधितम् । तथा सति सप्तमाध्याये ‘या एवं चिन्तयतस्तस्य मघोन’ इत्यादिश्लोकद्वये इन्द्रस्य गुरुध्यानरूपा चिन्तोक्ता सा ‘शीर्णा तचरणं स्पृशन्निति तत्पूर्ववाक्या- स्पर्शविशिष्टविषया, ततस्तेषां ब्रह्मणा विश्वरूपे गुरौ बोधिते विगतज्वरा इति कथनाद् गुरोश्च भगवत्त्वात्स्पर्शेनाखिलताप- नुदित्यर्थः सिद्धयति । ततोष्टमे नारायणवर्मोपदेशस्तस्य ध्यानरूपमेव वर्मधारणम्, तत्र च ‘गोविन्द आसङ्गद आत्तवेणु- रि’ति कथनान्नादेन मनोहर इति प्रतिभाति । ततो नवमे उपस्थानप्रीतस्य भगवतो वाक्येषु ‘किं दुरापं मयि प्रीते तथापि विबुधर्षभाः । मय्येकान्तमतिर्नान्यन्मत्तो वान्छति तत्त्वविदित्यादिवाक्यत्रये भगवता स्वैकान्तिनां स्वस्य च स्वभाषकथना- योगेनात्मप्रवेशद इति सिद्धयति । ततो दशमे ‘द्वौ सम्मताविह मृत्यू दुरापा’ वित्यत्र यदग्रणीर्वीरशयेऽनिवृत्त’ इत्यत्र द्विषतो मोक्षदानात्कालमोक्षप्रदो द्विष्ट इति सिद्धयति । अथवा नवमे देवहेलनाद् द्विष्टो विश्वरूपस्य कालेन मोक्षदः । दशमे दधीचौ योगेनात्मप्रवेशदः । तत एकादशे ‘अहं समाधाय मनो यथा हे ‘त्यादिषु ‘न नाथ भूया’ दित्यन्तेषु ‘स्वामी सर्वसुखप्रदः’ इति सिद्धयति । ततो द्वादशे इन्द्रस्य वृत्रेऽसुरत्वेन स्वस्माद्धीनभावो वृत्रस्य च परिघताडनेनेन्द्रहस्ताद्वभ्रंशेनेन्द्रे स्वस्माद्धीनभाव इत्युभयोरपि हीनभावाद् दुःखद इति प्रतिभाति । - 1 ( अ० १४ ) अतः परं चतुर्दशाद्यध्यायचतुष्टयं विचार्यते । तेषु चतुर्ध्वेषं दुष्टस्य वृत्रस्य कथं भगवति मतिरिति राजप्रश्ने ‘श्रुतं द्वैपायनमुखादि त्यादिना मतान्तरोपन्यासमुखेन वृत्रपूर्वजन्म कथोच्यते । तत्र मतान्तरोपन्यासः कुत इत्याकाङ्क्षा- यामाहुः भक्तिरित्यादि । ८८ । तदपवादायेति दोषयुतत्वापवादाय । तथा च दोषः शापकृतो न तु स्वाभाविक इति भक्तौ तदभाव एव सर्वसम्मत आगन्तुकस्य दोषस्य भक्तिहीनत्वानापादकत्वादिति । ननु यद्येवं सर्वसम्मतत्वेन शुकैरप्युपगतं तदा कस्मिन्नशे मतान्तरत्व- मित्यत आहुः—वैराग्यमित्यादि । ‘अहं हरे तव पादैकमूले ‘त्यादिवाक्यैर्वृत्रो भक्तिमार्गीयत्वेन विवक्षितस्तादृशस्य वैराग्यादिपञ्चकं न युक्तम् । ‘तस्मान्मद्भक्तियुक्तस्ये’ त्यत्र ज्ञानवैराग्ययोर श्रेयस्त्वकथनेन पुष्टिरूपाया भक्तेरपि स्वार्थतया तथात्वेन देवान्तरप्रसादनस्या- प्रयोजनकत्वेन शापस्य चासम्भवेन पञ्चानामप्यसम्भावितत्वात् । इति हेतोस्तदुपाख्यानं तथा मतान्तरत्वेनोक्तमित्यर्थः ॥ ८६ ॥
नन्वस्त्वेवं तथाऽप्येतेषामध्यायानां कथं देवप्रकरणे निवेश इत्यत आहुः – भाषान्तर इत्यादि । यदिति ज्ञानादिचतुष्टयम् । तथा चेन्द्राय सर्वं दत्तमिति बोधनायात्र निरूपितमन्यथा सुद्युम्नोपाख्यानादिवद वदेत् । अत इन्द्रशेषत्वा देवप्रकरणे इत्यर्थः ॥ ९० ॥ प्रकरणमुपसंहरन्ति एवमित्यादि । एवमत्र सार्द्धः सप्तत्रिंशद्भिर्देप्रकरणं विचारितम् । अतः परमष्टभिर्देत्यप्रकरणं विचारयन्ति — सर्वेत्यादि । दैत्य इति । दैत्यप्रकरणे । सर्वबाधकरूपेति । काल कर्मस्वभाव- बाधिका । तेन पूर्वस्माद्विशेष उक्तः । नामप्रकरणे कर्मबाधिका । रूपप्रकरणे हर्यश्वादीनां कर्मबाधिका । वृत्रस्य स्वभावबाधिकेति ततोधिका । अत्र तु मरुतां त्रितयबाधिकेति ॥ ९१ ॥ नन्वेवं सति देवानां तया कुतो न बाधस्तत्राहुः – तत्रापीत्यादि । एवं प्रकरणाभ्यां सिद्धं तात्पर्यमाहुः - विरुद्धयों- रित्यादि । तथा च भगवत्यलौकिकं सामर्थ्यं बोधयितुमेवं प्रकरणद्वयकथनमित्यर्थः । मरुतामेकोनपञ्चाशत्त्वे हेतुमाहुः - अग्निरूप इत्यादि । नार्या घृतकुम्भसमानत्वात्तत्सम्बन्धे क्षुब्ध इत्यग्निरूपः । सकलमिति सांशम् | बुध इति भगवदनुग्रहं जानानः ९२-९३ । । १. षु ।११ अग्निरूपो यतो भर्त्ता कश्यपः सकलं निजम् । रेत एकोनपञ्चाशत्प्रकारं व्यसृजद्बुधः ॥ ९३ ॥ प्रसादश्वाऽप्रसादश्व द्वयं चाऽपि विमिश्रितम् । त्रिषु कृष्णः सप्तमूर्तिः सप्तधा सप्तसप्तधा ।। ९४ ।। प्रसन्नत्वाद्वह्नपत्यं क्रोधान्नो वाञ्छितस्थितिः । उभयान्मानसं किञ्चिन्न्यूनमेकाधिकत्वतः ।। ९५ ।। वधस्याऽभिनिवेशस्तु सेवया प्रायशो गतः । पुष्टिरूपा तु या सृष्टिः साधारण्यविशेषभाक् ॥ ९६ ॥ निरुक्ता ततोऽन्यत्र न सृष्टिः पुष्टिसंश्रिता । व्रतिनः पूजनं मुख्यमित्यन्ते व्रतसङ्कथा ॥ ९७ ॥ सर्वलीलाः पुष्टिमध्ये प्रविशन्तीति मे मतिः । अतः सृष्टिस्तु निखिला कृष्णार्थेति विनिश्चयः ।। ९८ ।। तस्मात्सिद्धयन्ति कार्याणि भक्त्यैवाश्रयणाद्धरेः ॥ ९९ ॥ षष्ठस्कन्धः समाप्तः । नन्वेवं सति कथं तेषां छेद इत्यत आहुः - प्रसाद इत्यादि । प्रसादादिषु त्रिषु कश्यपधर्मेषु धर्मधर्मिभेदेन सप्तमूर्त्तिः कृष्णः सप्तधा वर्त्तते, अतो मरुतः सप्त भूत्वा प्रत्येकं सप्तधा जाताः । तथा च छेदे भगवदधिष्ठितोऽप्रसादो हेतुरित्यर्थः । तर्हि प्रसादादिषु त्रिषु भगवत्स्थितेः किं कार्यमित्यपेक्षायां तद्विवृण्वन्ति प्रसन्नत्वादित्यादि, वान्छितस्थितिरिति । इन्द्रहन्तृत्वेन स्थितिः मानसमिति इन्द्रमदशोषकत्वम् । तच गर्भमरणाभावादिन्द्रस्य पञ्चाशत्तमस्य जातत्वात् किञ्चिन्न्यूनम्, तदेतद्भगवदधिष्ठितस्य मिश्रणस्य कार्यमिति त्रिष्वपि भगवदधिष्ठानमित्यर्थः ॥ ६५ ॥ ननु तथापि पुत्रमिन्द्रहणमभिसन्धाय पूजायाः प्रारब्धत्वात्तदंशे कथं फलस्य न्यूनतेत्यत आहुः - वधस्येत्यादि । तथा च फलादेव तस्याभिनिवेशस्य निवृत्तिरनुसन्धेयेत्यर्थः । नन्वस्मिन् स्कन्धे पुष्टिर्निरूप्या तत्र सृष्टिनिरूपणस्य किं प्रयोजनम् । राज- प्रश्नानुरोधेन चेत् प्रतिनन्दनस्य किं प्रयोजनमत आहुः - पुष्टिरूपेत्यादि । साधारण्यविशेषभागिति । श्रीशुकस्य साधारण्येऽपि विशेषवतीत्यर्थः । तथा च सृष्टयन्तरे पुष्टिनिवृत्तिं बोधयितुं तत्कथनं श्रीशुकस्य विवक्षितमतः प्रतिनन्दनमित्यर्थः ॥ ९६ ॥ एवं षडूभिरष्टादशो विवृतः । अर्द्धनोन विशार्थमाहुः — तिन इत्यादि । सृष्टिनिरूपणस्य प्रयोजनान्तरमाहुः - सर्वलीला इत्यादि श्रीभागवतेपि सर्वा एव लीलाः सर्गाद्याः सविशेषा एवोच्यन्ते न तु साधारण्य इति विसर्गादीनां विशेषलक्षणकरणादवगम्यते । अन्यथा द्वादशस्कन्धे सर्गादीनां पुनः सामान्यलक्षणानि व्यासचरणा न वदेयुः, प्रयोजनाभावात् । अतः साधारण्यविशेषभाक्त्वं सर्वास्वविशिष्टमिति सर्वा एव लीलाः पुष्टिमध्ये प्रविशन्ति इति मे मतिः मम मतम् । नन्वन्यैः कथं मन्तव्यम्, तत्राहु: - ( अतः सृष्टिस्त्विति ) तु: पूर्वपक्षनिरासे । ‘द्रव्यं कर्म च कालश्च स्वभावो जीव एव च । यदनुग्रहतः सन्ति न सन्ति यदुपेक्षयेति द्वितीयस्कन्धेऽनुग्रहादेव सर्वं स्थितिकथनादत्राऽस्मदुक्ते शङ्खैव नोचिता । अतो निखिला सृष्टिः कृष्णार्थेति विनिश्चयो निष्कृष्टोऽर्थ इत्यर्थः । ६७/९८ | तेन सिद्धमाहुः-तस्मादित्यादि । अत्रायमर्थः । श्रीभागवते ह्यनुग्रहशब्दः स्त्रिषु प्रयुक्तः । अत्र कालादिनिवारके धर्मे । उक्तवाक्ये तु स्थापके धर्मे । अदीनलीलेत्यत्र त्वाश्रये । ‘यस्याऽनुग्रहमिच्छामीत्यत्र यः सोऽपि यथाधिकारमेतेष्वेव पर्यवस्यति । तेषु त्रिष्वपि धर्मेष्वाश्रय एव मुख्यो भगवद्रूपत्वान्मुख्यलीलात्वाच्च । स एव च परार्थत्वात् । भक्तिजनकः शेषी च । तस्माद्धेतोर्ह रेराश्रयणाद्भक्त्यैव कार्याणि यथाधिकारं सिद्धयन्ति । तथा चैतद्बोधयितुमत्र सृष्टिकथनमित्यर्थः । इति श्रीमत्प्रभुचरणैः पुरुषोत्तमस्य दर्शिता षष्ठस्कन्धनिबन्धयोजना समाप्ता । षष्ठस्कन्धः समाप्तः १. वाञ्छितस्थिति परिशिष्टम् २ षष्ठस्कन्धः श्रीगणेशाय नमः विद्वच्छिरोमणि श्रीवोपदेवप्रणीतं षष्ठस्कन्धहरिलीलामृतम् एवं पचमार्थमुक्त्वा षष्ठे पोषणं निरूप्यत इत्याह- षष्ठ एकोनविंशत्या पुष्टिः सानुग्रहो हरेः । कर्मणा येन यैर्यत्र स्थातव्यं तेन तत्र ते ॥ तिष्ठन्तीतीह मर्यादापालनं स्थानमीरितम् । कृतेऽपि पातके यत्र न पातः प्रत्युतोन्नतिः ॥ सानुग्रह जामिलस्य भुवीन्द्रस्य यथा दिवि । त्रिभिः षोडशभिवेन्द्रपापं षष्ठाष्टके द्विके विश्वरूपस्य वृत्रस्य मरुतां च वधात्त्रिधा । ॥ १ ॥ २ ॥ ३ ॥ षष्ठ इति । पुष्टिः = पोषणम् । तत्किमन्नादिदानेन नेत्याह सा पुष्टिः हरेर्दुराचारेष्वपि भक्तेष्वनुग्रह इत्यर्थः । ननु स्थानानन्तरमेव पोषणनिरूपणे कः प्रसङ्गः, विपर्यय एव कस्मान्न स्यादिति । एतदेव परिहर्तुं कृतमपि स्थानलक्षणं स्फुटयति- कर्मणेति । अयमर्थः । येन विहितेन कर्मणा कर्त्तव्येन यैरधिकारिभिर्यत्र स्थाने स्थातव्यम् तेनैव ते तत्र तिष्ठन्ति इति मर्यादा - पालनम् । तच्चेरितं पञ्चमे भूसंस्थानादिकथनेन । यत्पुनर्विहितातिक्रमेणान्यथाकरणं तत्र कृतेऽपि भगवद्भक्तियोगान्तःपातः किन्तुन्नतिरेवेति मर्यादाभङ्गसव्यपेक्षत्वादनुग्रहस्य तदानन्तर्यं युक्तमित्यभिप्रेत्याह - कृतेऽपीति । अत्रैव ग्रन्थस्थनिदर्शनमाह्- अजामिलस्येति । यथा निषिद्धाचरणेऽप्यनुग्रहोऽजामिलस्य । एतच्च भुवि । भूपातकिनामन्येषामप्युपलक्षणम् । इन्द्रस्येति स्वर्गिणाम् । पातालं तु स्वर्गाविशिष्टमिति पृथङ्नोक्तम् । अतश्वेह महाप्रकरणद्वयमेवेत्याह – त्रिभिः षोडशभिश्चेति । अध्यायैः क्रमाचेति शेषः । द्वितीयेऽवान्तरप्रकरणान्याह - इन्द्रपापं विश्वरूपवृत्रमरुतां वधात् त्रिधा । तचाध्यायानां षट्केऽष्टके द्विके च क्रमादुक्तम् । समूहे कन्प्रत्ययः ॥ १-३ ॥ । ननु विश्वरूपविषये षट्कमित्ययुक्तम् । आद्येऽध्यायत्रये दक्षवंशोपलम्भादत आह- दक्षान्वयस्तदुत्पत्त्यै वैश्वरूपे त्रिकेऽग्रिमे । वृत्राष्टके चतुष्केऽन्त्ये त्रप्राक्चित्रकेतुता ॥ ४ ॥ 1 । दक्षान्वय इति । विश्वरूपसम्बन्धिनि षट्के अग्रिमे = आधे त्रिके दक्षान्वयः कथ्यते । किमर्थम् ? तस्य विश्वरूपस्यो - त्पत्त्यै तत्प्रसङ्गादित्यर्थः। वृत्रेति । शङ्का प्राग्वत् । वृत्रप्रतिपादकाष्टके आये । अन्त्येऽध्यायचतुष्के वृत्रस्यैव प्राकू चित्रकेतुत्व- मासीदिति तदपि वृत्रप्रसङ्गादुक्तमित्यर्थः ॥ ४ ॥ अथ क्रमात्पादैरध्यायार्थानाह - अजामिलाघनाशोक्तिर्वैष्णवैर्याम्यनिग्रहः । यमेन सान्त्वनं तेषां दक्षेणाराधनं हरेः ॥ अजामिलेति । अर्घं = पापम् विष्णुपार्षदैर्यमदूतानां निरुत्तरीकरणं निग्रहः । तेषां याम्यानाम् ॥ ५ ॥ नारदात् पुत्रनाशोऽस्य दौहित्राद्विश्वरूपभूः । तस्य देवपुरोधस्त्वं गुरुत्वं विष्णुवर्मणि ॥ ६ ॥ अस्य = दक्षस्य । दौहित्राद्विश्वरूपस्य भूरुत्पत्तिः । सम्पदादित्वात्किप् । तस्य = विश्वरूपस्य देवपौरोहित्यं नारायण- कवचे गुरुत्वमिन्द्रं प्रतीति शेषः ॥ ६ ॥ तद्वधाघाद् वृत्रभयं वृत्रवासवसङ्गरः । वृत्रभक्तिर्ज्ञानशौयं वृत्रस्य मरणं रणे ॥ ७ ॥ तस्य विश्वरूपस्य वधेन यदुघं तस्माद् वृत्रभयमिन्द्रस्य । वासवः इन्द्रः ॥ ७ ॥ वृत्रहत्याप्रतीकारश्चित्रकेतोः सुताच्छुचः । बोधोऽङ्गिरोनारदाभ्यां विद्यालाभश्च नारदात् ॥ ८ ॥ शुचः = विविधाः शोकाः । चित्रकेतोरिति त्रिध्वनुवर्त्तते । विद्यालाभचेति चकाराज्जीवोक्तिसङ्कर्षणदर्शने ॥ ८ ॥ गौरीशापाच्च वृत्रत्वं गर्मे शक्रमरुद्भिदा । व्रतं दिविकृतं पुत्र्यं प्रत्यध्यायमिमेऽङ्घयः ॥ ९ ॥ इति श्रीभागवते षष्ठः स्कन्धः । S शक्रेण मरुतां भिदा भेदः । गर्भे गर्भस्थान इत्यर्थः । पुत्र्यं पुत्राय हितम् । प्रत्यध्यायमध्यायमध्यायं प्रतीत्यर्थः ॥ ९ ॥ इति श्रीमधुसूदनसरस्वतीकृतायां हरिलीलामृतटीकायां षष्ठः स्कन्धः ।