[एकोनत्रिंशोऽध्यायः]
भागसूचना
भागवतधर्मोंका निरूपण और उद्धवजीका बदरिकाश्रमगमन
श्लोक-१
मूलम् (वचनम्)
उद्धव उवाच
विश्वास-प्रस्तुतिः
सुदुश्चरामिमां मन्ये योगचर्यामनात्मनः।
यथाञ्जसा पुमान् सिद्ध्येत् तन्मे ब्रूह्यञ्जसाच्युत॥
मूलम्
सुदुश्चरामिमां मन्ये योगचर्यामनात्मनः।
यथाञ्ज1सा पुमान् सिद्ध्येत् तन्मे ब्रूह्यञ्जसाच्युत॥ १ ॥
अनुवाद (हिन्दी)
उद्धवजीने कहा—अच्युत! जो अपना मन वशमें नहीं कर सका है, उसके लिये आपकी बतलायी हुई इस योगसाधनाको तो मैं बहुत ही कठिन समझता हूँ। अतः अब आप कोई ऐसा सरल और सुगमसाधन बतलाइये, जिससे मनुष्य अनायास ही परमपद प्राप्त कर सके॥ १॥
श्रीसुदर्शनसूरिः
॥ १-२ ॥
वीरराघवः
सत्यं त्वद्-उपाश्रयस्य योग-चर्या नान्तरायैर् विहन्यते इति तथापि दुष्करेयम् अतः सुलभं त्वत्-प्राप्ति-साधनम् उपदिशेत्य् आह । सुदुश्चराम् इति अनात्मनः अजितेन्द्रियस्येमां योग-चर्यां सुदुश्चरां मन्ये ऽतो यथा अञ्जसा-ऽनायासेन पुमान् सिध्येन् मुच्येत् तत्-साधनम् अञ्जसा स्फुटं ब्रूहि ॥ १ ॥
श्लोक-२
विश्वास-प्रस्तुतिः
प्रायशः पुण्डरीकाक्ष युञ्जन्तो योगिनो मनः।
विषीदन्त्यसमाधानान्मनोनिग्रहकर्शिताः॥
मूलम्
प्रायशः पुण्डरीकाक्ष युञ्जन्तो योगिनो मनः।
विषीदन्त्यसमाधानान्मनोनिग्रहकर्शिताः॥ २ ॥
अनुवाद (हिन्दी)
कमलनयन! आप जानते ही हैं कि अधिकांश योगी जब अपने मनको एकाग्र करने लगते हैं, तब वे बार-बार चेष्टा करनेपर भी सफल न होनेके कारण हार मान लेते हैं और उसे वशमें न कर पानेके कारण दुःखी हो जाते हैं॥ २॥
वीरराघवः
सुदुश्चरत्वं स्फुटीकरोति । प्रायश इति । मनो युञ्जन्तः स्व-वशीकुर्वाणाः अत एव मनो-निग्रहार्थम् उपवासादिभिः कर्शिताः अत एव मनसो-ऽसमाधानाच् च प्रायशः सीदन्ति ॥ २ ॥
श्लोक-३
विश्वास-प्रस्तुतिः
अथात आनन्ददुघं पदाम्बुजं
हंसाः श्रयेरन्नरविन्दलोचन।
सुखं नु विश्वेश्वर योगकर्मभि-
स्त्वन्माययामी विहता न मानिनः॥
मूलम्
अथात आनन्ददुघं पदाम्बुजं हंसाः श्रयेरन्नरविन्दलोचन।
सुखं नु विश्वेश्वर योगकर्मभिस्त्वन्माययामी विहता न मानिनः॥ ३ ॥
अनुवाद (हिन्दी)
पद्मलोचन! आप विश्वेश्वर हैं! आपके ही द्वारा सारे संसारका नियमन होता है। इसीसे सारासार-विचारमें चतुर मनुष्य आपके आनन्दवर्षी चरणकमलोंकी शरण लेते हैं और अनायास ही सिद्धि प्राप्त कर लेते हैं। आपकी माया उनका कुछ नहीं बिगाड़ सकती; क्योंकि उन्हें योगसाधन और कर्मानुष्ठानका अभिमान नहीं होता। परन्तु जो आपके चरणोंका आश्रय नहीं लेते, वे योगी और कर्मी अपने साधनके घमंडसे फूल जाते हैं; अवश्य ही आपकी मायाने उनकी मति हर ली है॥ ३॥
श्रीसुदर्शनसूरिः
तव पादाम्बुजं हंसा योगकर्मभिः सुखेन श्रयेरन् त्वन्मायया न विहताः किन्तु मानिन एवं विहताः ॥ ३ ॥
वीरराघवः
अथातो ऽत एव हंसाः केचित् सारासार-विवेकिनः आनन्ददुघम् आनन्दावहं तव पदाम्बुजं सुखं यथा तथा श्रयेरन् प्रपद्यन्ते हे विश्वेश्वर ! अमी त्वन् मायया विहता वञ्चिता न भवन्ति कुतः यतः ते योगैः कर्मभिश् च न मानिनः योगादि-प्रयुक्त-गर्व-रहिताः अन्ये तु मानिनो विहता भवन्तीति भावः ॥ ३ ॥
श्लोक-४
विश्वास-प्रस्तुतिः
किं चित्रमच्युत तवैतदशेषबन्धो
दासेष्वनन्यशरणेषु यदात्मसात्त्वम्।
योऽरोचयत् सह मृगैः स्वयमीश्वराणां
श्रीमत्किरीटतटपीडितपादपीठः॥
मूलम्
किं चित्रमच्युत तवैतदशेषबन्धो दासेष्वनन्यशरणेषु यदात्मसात्त्वम्।
योऽरोचयत् सह मृगैः स्वयमीश्वराणां श्रीमत्किरीटतटपीडितपादपीठः॥ ४ ॥
अनुवाद (हिन्दी)
प्रभो! आप सबके हितैषी सुहृद् हैं। आप अपने अनन्य शरणागत बलि आदि सेवकोंके अधीन हो जायँ, यह आपके लिये कोई आश्चर्यकी बात नहीं है; क्योंकि आपने रामावतार ग्रहण करके प्रेमवश वानरोंसे भी मित्रताका निर्वाह किया। यद्यपि ब्रह्मा आदि लोकेश्वरगण भी अपने दिव्य किरीटोंको आपके चरणकमल रखनेकी चौकीपर रगड़ते रहते हैं॥ ४॥
श्रीसुदर्शनसूरिः
मृगैः सहेति वासमिति शेषः वृन्दावने हि मृगा अव्याकृष्टा वंशस्वनेन ॥ ४ ॥
वीरराघवः
अहो विचित्रम् एतत् मत्-संश्रय-मात्रेण मन् मायया न विहता इत्य् अत्र मैवम् इत्य् आह । किञ्चित्रम् इति । अच्युत ! आश्रितान् न च्यावयतीति तथाभूत ! एतत् त्वद्-आश्रयण-मात्रेण स्वभास् तारयसीत्य् एतत् न अन्यच् छरणं येषां तेषु दासेष्व्-आत्म-सत्त्वं तद्-अधीनत्वं च तव चित्रं किं न चित्रम् इत्य् अर्थः । तत्र हेतुत्वेन विशिनष्टि । स्वयम् ईश्वराणां ब्रह्मादीनां श्रीमद्भिः किरीटानां तटैः कोटिभिः पीडितं संघृष्टं पाद-पीठं यस्य तथाभूतो ऽपि मृगैः सह साहित्यं साहाय्यम् इति यावत् यो भवान् अरोचयत् वृन्दावने वंश-स्वनेनाकृष्टा मृगाः सहावसन्न् इति भावः । यद् वा श्री-रामावतारे वानरैः सह सख्यम् अरोचयद् इत्य् अर्थः । अनेनाश्रयणोपयुक्तं सौशील्यम् आवेदितं स्वयम् इत्य् आदिना परत्वम् अशेष-बन्धो इत्य् अनेन सौलभ्यं वात्सल्यं च ॥ ४ ॥
श्लोक-५
विश्वास-प्रस्तुतिः
तं त्वाखिलात्मदयितेश्वरमाश्रितानां
सर्वार्थदं स्वकृतविद् विसृजेत को नु।
को वा भजेत् किमपि विस्मृतयेऽनु भूत्यै
किं वा भवेन्न तव पादरजोजुषां नः॥
मूलम्
तं त्वाखिलात्मदयितेश्वरमाश्रितानां सर्वार्थदं स्वकृतविद् विसृजेत को नु।
को वा भजेत् किमपि विस्मृतयेऽनु भूत्यै किं वा भवेन्न तव पादरजोजुषां नः॥ ५ ॥
अनुवाद (हिन्दी)
प्रभो! आप सबके प्रियतम, स्वामी और आत्मा हैं। आप अपने अनन्य शरणागतोंको सब कुछ दे देते हैं। आपने बलि-प्रह्लाद आदि अपने भक्तोंको जो कुछ दिया है, उसे जानकर ऐसा कौन पुरुष होगा जो आपको छोड़ देगा? यह बात किसी प्रकार बुद्धिमें ही नहीं आती कि भला, कोई विचारवान् विस्मृतिके गर्तमें डालनेवाले तुच्छ विषयोंमें ही फँसा रखनेवाले भोगोंको क्यों चाहेगा? हमलोग आपके चरणकमलोंकी रजके उपासक हैं। हमारे लिये दुर्लभ ही क्या है?॥ ५॥
श्रीसुदर्शनसूरिः
सुकृत-विकृत-ज्ञः विस्मृतये तद्विस्मरणाय किं स्यात् किञ्चिद् अपि त्वद्विस्मरणकारणं तव पादरजोजुषां नश्चित्तं किम् अन्यतो भजेत् न किञ्चिद् अन्य-ध्येयम् इत्य् अर्थः ॥ ५ ॥
वीरराघवः
अथान्यैर् अपि आश्रयणोपयुक्तैर् गुणैर् विशिंषन् समाश्रयणीयत्व-अतिशयम् आविष्करोति । तम् इति । ते परत्व-वात्सल्य-सौलभ्य-सौशील्य-युक्तम् अखिलानाम् आत्मानम् अत एव दयितं प्रियतमम् ईश्वरं स्वामिनम् आश्रितानां सर्व-अर्थ-दम्-अभिलषित-पुरुष-अर्थ-दम् अनेन ज्ञान-शक्ति-पूर्त्य्-आख्या-गुण-त्रयवत्वं सूचितं तेन विना तद्-असम्भवात् सुकृतवित् त्वद् उपकार-ज्ञः पुमान् को वा विसृजेत् कृत-ज्ञानां त्वम् एव सेव्य इति भावः । उपकारस् तु स्फुटीभविष्यति को वा कश् च पुमान् किम् अपि त्वत्तो ऽन्यद् दैवं भजेत् किं किमर्थं विस्मृतये विगता स्मृतिर् यस्यास् तस्यै विभूतये ऐश्वर्याय-आत्म-विस्मृत्य्-आपादकायैश्वर्यायेत्य्-अर्थः । नन्व् आरोग्य-भोगादि-श्रेयसे भास्कर-हुताशनादि-देवान्तरं सेव्यम् अवेत्य अत आह किं वा इति तत्र पाद-रजो-जुषां चरण-परागं सेवमानानां नो ऽस्माकं किं वा श्रेयो न भवेद् अभिलषितं चेत् सर्वम् अपि सुलभम् एवेति भावः । अनेन सर्व-अर्थ-दम् इत्येतद् विवृतम् ॥ ५ ॥
श्लोक-६
विश्वास-प्रस्तुतिः
नैवोपयन्त्यपचितिं कवयस्तवेश
ब्रह्मायुषापि कृतमृद्धमुदः स्मरन्तः।
योऽन्तर्बहिस्तनुभृतामशुभं विधुन्व-
न्नाचार्यचैत्यवपुषा स्वगतिं व्यनक्ति॥
मूलम्
नैवोपय2न्त्यपचितिं कवयस्तवेश ब्रह्मायुषापि कृतमृद्धमुदः स्मरन्तः।
योऽन्तर्बहिस्तनुभृतामशुभं विधुन्वन्नाचार्यचैत्यवपुषा स्वगतिं व्यनक्ति॥ ६ ॥
अनुवाद (हिन्दी)
भगवन्! आप समस्त प्राणियोंके अन्तःकरणमें अन्तर्यामीरूपसे और बाहर गुरुरूपसे स्थित होकर उनके सारे पाप-ताप मिटा देते हैं और अपने वास्तविक स्वरूपको उनके प्रति प्रकट कर देते हैं। बड़े-बड़े ब्रह्मज्ञानी ब्रह्माजीके समान लंबी आयु पाकर भी आपके उपकारोंका बदला नहीं चुका सकते। इसीसे वे आपके उपकारोंका स्मरण करके क्षण-क्षण अधिकाधिक आनन्दका अनुभव करते रहते हैं॥ ६॥
श्रीसुदर्शनसूरिः
अपचितिम् अवसानम् आचार्यचैत्यवपुषा बहिराचार्यवपुषा अन्तश्चैत्यवपुषा ध्येयदिव्यविग्रहेण अशुभं विधुन्वन् इत्यर्थः ॥ ६-७ ॥
वीरराघवः
को ऽसाव् उपकारः सुकृत-विद् इत्य् अत्राभिप्रेत इत्य् अत्र तम् अप्रत्युपकार्यं वदन् विवृणोति । नेति । हे ईश ! कवयो ब्रह्म-विदः तव कृतं त्वत्-कृतम् उपकारं स्मरन्तः इद्ध-मुदः उत्कट-हर्षाः ऋद्ध-मुद इति पाठे उपचित-परम-आनन्दाः अपचिर्तिं प्रत्युपकृतिं ब्रह्मायुषापि नैवोपयन्ति नैव प्राप्नुवन्ति उपकारं दर्शयति । यो भवान् बहिर् आचार्य-वपुषा अन्तश् चैत्य वपुषा चित्ते भवं चैत्यं हार्द्दं तेन वपुषा हृदि चिन्त्यमानेन रूपेण इत्य् अर्थः । तनु-भृताम् अशुभम् अशिवं विधुन्वन् दूरी-कुर्वन् स्व-गतिं स्व-याथात्म्यं व्यनक्ति व्यक्तं करोतीति ॥ ६ ॥
श्लोक-७
मूलम् (वचनम्)
श्रीशुक उवाच
विश्वास-प्रस्तुतिः
इत्युद्धवेनात्यनुरक्तचेतसा
पृष्टो जगत्क्रीडनकः स्वशक्तिभिः।
गृहीतमूर्तित्रय ईश्वरेश्वरो
जगाद सप्रेममनोहरस्मितः॥
मूलम्
इत्युद्धवेनात्यनुरक्तचेतसा पृष्टो जगत्क्रीडनकः स्वशक्तिभिः।
गृहीतमूर्तित्रय ईश्वरेश्वरो जगाद सप्रेम मनोहरस्मितः॥ ७ ॥
अनुवाद (हिन्दी)
श्रीशुकदेवजी कहते हैं—परीक्षित्! भगवान् श्रीकृष्ण ब्रह्मादि ईश्वरोंके भी ईश्वर हैं। वे ही सत्त्व-रज आदि गुणोंके द्वारा ब्रह्मा, विष्णु और रुद्रका रूप धारण करके जगत्की उत्पत्ति-स्थिति आदिके खेल खेला करते हैं। जब उद्धवजीने अनुरागभरे चित्तसे उनसे यह प्रश्न किया, तब उन्होंने मन्द-मन्द मुसकराकर बड़े प्रेमसे कहना प्रारम्भ किया॥ ७॥
वीरराघवः
जगत्-क्रीडनकं क्रीडा-उपकरणं यस्य सः स्व-शक्तिभिः स्व-असाधारिणीभिः सृष्टि-स्थिति-संहार-सामर्थ्य-आत्मिकाभिः शक्तिभिर् गृहीतं मूर्ति-त्रयं ब्रह्म-विष्णु-शिव-आत्मकं येन सः स्वात्मकं ब्रह्म-रुद्र-मूर्ति-द्वयं स्वावतार-रूपं श्री-विष्णु-मूर्तिश् च इति मूर्ति-त्रयं परिगृहीतवान् इत्य् अर्थः । अत एवेश्वराणां ब्रह्मादीनाम् अपीश्वरो भगवान् प्रेम्णा सहितं मनो-हारि स्मितं यस्य स जगाद ॥ ७ ॥
श्लोक-८
मूलम् (वचनम्)
श्रीभगवानुवाच
विश्वास-प्रस्तुतिः
हन्त ते कथयिष्यामि मम धर्मान् सुमङ्गलान्।
याञ्छ्रद्धयाऽऽचरन् मर्त्यो मृत्युं जयति दुर्जयम्॥
मूलम्
हन्त ते कथयिष्यामि मम धर्मान् सु3मङ्गलान्।
याञ्छ्रद्धयाऽऽचरन् मर्त्यो मृत्युं जयति दुर्जयम्॥ ८ ॥
अनुवाद (हिन्दी)
श्रीभगवान्ने कहा—प्रिय उद्धव! अब मैं तुम्हें अपने उन मंगलमय भागवतधर्मोंका उपदेश करता हूँ, जिनका श्रद्धापूर्वक आचरण करके मनुष्य संसाररूप दुर्जय मृत्युको अनायास ही जीत लेता है॥ ८॥
श्रीसुदर्शनसूरिः
मृत्युं संसारम् ॥ ८-१२ ॥
वीरराघवः
त्वयोक्तं मत्-संश्रयम् एव सिद्धि-साधनम् इत्य् अभिप्रयन् समाश्रितानाम् आवश्यकान् धर्मान् वक्तुं प्रतिजानीते । हन्त इति । सहर्ष-संबोधन-द्योतकं हन्तेति पदं ते तुभ्यं वर्णयिष्यामि मम धर्मान् भागवत-धर्मान् सुमङ्गल-आवहान् मङ्गलत्वम् एवाविष्कर्तुम् आह । यानि इति । यान् धर्मान् आचरन्न् अनुतिष्ठन् सुदुर्जयम् अपि मृत्युं मृत्यूपक्षितं संसारं जयति ॥ ८ ॥
श्लोक-९
विश्वास-प्रस्तुतिः
कुर्यात् सर्वाणि कर्माणि मदर्थं शनकैः स्मरन्।
मय्यर्पितमनश्चित्तो मद्धर्मात्ममनोरतिः॥
मूलम्
कुर्यात् सर्वाणि कर्माणि मदर्थं शनकैः स्मरन्।
मय्यर्पितमनश्चित्तो मद्धर्मात्ममनोरतिः॥ ९ ॥
अनुवाद (हिन्दी)
उद्धवजी! मेरे भक्तको चाहिये कि अपने सारे कर्म मेरे लिये ही करे और धीर-धीरे उनको करते समय मेरे स्मरणका अभ्यास बढ़ाये। कुछ ही दिनोंमें उसके मन और चित्त मुझमें समर्पित हो जायँगे। उसके मन और आत्मा मेरे ही धर्मोंमें रम जायँगे॥ ९॥
वीरराघवः
के पुनस् त इत्य् अत आह । कुर्याद् इत्य् आदिना । मद्-अर्थम् इति भाव-प्रधानो निर्देशः । मद्-आराधन-रूपतां स्मरन्न् अभिसंदधत् कर्माणि वर्णाश्रमोचितानि कुर्यात्, मय्य् अर्पिते मनश्-चित्ते येन सः, अन्तः-करण-अवान्तर-भेद-विवक्षया मनश्-चित्तयोर् उभयोर् उपादानं, तत्र सङ्कल्प-विकल्पात्मकं मनः, स्वच्छत्व-अविकारित्व-शान्तत्वानि चित्त-वृत्तयः, तत्र मनसः स्वार्पितत्वं विवृणोति । मद्-धर्मार्थं मनो-रतिर् मनो-वृत्तिः सङ्कल्प-विकल्पात्मिका यस्य सः ॥ ९ ॥
श्लोक-१०
विश्वास-प्रस्तुतिः
देशान् पुण्यानाश्रयेत मद्भक्तैः साधुभिः श्रितान्।
देवासुरमनुष्येषु मद्भक्ताचरितानि च॥
मूलम्
देशान् पुण्यानाश्रयेत मद्भक्तैः साधुभिः श्रितान्।
देवासुरमनुष्येषु मद्भक्ताचरितानि च॥ १० ॥
अनुवाद (हिन्दी)
मेरे भक्त साधुजन जिन पवित्र स्थानोंमें निवास करते हों, उन्हींमें रहे और देवता, असुर अथवा मनुष्योंमें जो मेरे अनन्य भक्त हों, उनके आचरणोंका अनुसरण करे॥ १०॥
वीरराघवः
पूजयेत् बहु-मन्येत् सेवेतेति यावत् । पुण्य-देश-लक्षणम् आह । मद्-भक्तैः साधुभिः श्रितान् इति । देवादिषु ये मद्-भक्तास् तेषाम् आचरितानि सेवेत् ॥ १० ॥
श्लोक-११
विश्वास-प्रस्तुतिः
पृथक् सत्रेण वा मह्यं पर्वयात्रामहोत्सवान्।
कारयेद् गीतनृत्याद्यैर्महाराजविभूतिभिः॥
मूलम्
पृथक् सत्रेण वा मह्यं पर्वयात्रामहोत्सवान्।
कारयेद् 4गीतनृत्याद्यैर्महाराजविभूतिभिः॥ ११ ॥
अनुवाद (हिन्दी)
पर्वके अवसरोंपर सबके साथ मिलकर अथवा अकेला ही नृत्य, गान, वाद्य आदि महाराजोचित ठाट-बाटसे मेरी यात्रा आदिके महोत्सव करे॥ ११॥
वीरराघवः
पृथक्-सत्रेण संभूय वा महा-राजोपचारैः गीतादिभिश् च-आदि-शब्देन वादित्रादि-संग्रहः पर्व-यात्रा-महोत्सवांश् च कारयेत् । यात्रा बहु-जन-समागमः ॥ ११ ॥
श्लोक-१२
विश्वास-प्रस्तुतिः
मामेव सर्वभूतेषु बहिरन्तरपावृतम्।
ईक्षेतात्मनि चात्मानं यथा खममलाशयः॥
मूलम्
मामेव सर्वभूतेषु बहिरन्तरपावृतम्।
ईक्षेतात्मनि 5चात्मानं यथा स्वममलाशयः॥ १२ ॥
अनुवाद (हिन्दी)
शुद्धान्तःकरण पुरुष आकाशके समान बाहर और भीतर परिपूर्ण एवं आवरणशून्य मुझ परमात्माको ही समस्त प्राणियों और अपने हृदयमें स्थित देखे॥ १२॥
वीरराघवः
सर्व-भूतेष्व् आत्मनि चान्तर्-बहिश् चापावृतम् आवरण-रहितं व्याप्तम् इत्य् अर्थः । आत्मानं प्रशासनेन धारकं माम् ईक्षेत यथा स्वम् आकाशं तथा ऽमलाशयः निर्मलान्तः-करण ईक्षेत - इति सम्बन्धः ॥ १२ ॥
श्लोक-१३
विश्वास-प्रस्तुतिः
इति सर्वाणि भूतानि मद्भावेन महाद्युते।
सभाजयन् मन्यमानो ज्ञानं केवलमाश्रितः॥
मूलम्
इति सर्वाणि भूतानि मद्भावेन महाद्युते।
सभाजयन् मन्यमानो ज्ञानं केवलमाश्रितः॥ १३ ॥
श्रीसुदर्शनसूरिः
केवलं शुद्धं पुण्यक्षेत्रवासः भगवद् गेहाचरितं भगवद्यात्राप्रवर्त्तनादिकं ज्ञानस्य साधकतममित्युक्तं भवति ॥ १३ ॥
वीरराघवः
इति शब्दो हेत्व्-अर्थः । अतो मम सर्वान्तर् आत्मतया व्याप्य-वर्तमानत्वाद्धे महा-द्युते ! सर्वाणि भूतानि मद्-भावेन मत्-अपृथक्-सिद्धतया मच्-छरीरत्वेन मन्यमानो ऽत एव सभाजयन् बहु-मानयन् केवलं वैषम्य-रहितं ज्ञानम् आश्रितः स्यात् ॥ १३ ॥
श्लोक-१४
विश्वास-प्रस्तुतिः
ब्राह्मणे पुल्कसे स्तेने
ब्रह्मण्येऽर्के स्फुलिङ्गके।
अक्रूरे क्रूरके चैव
समदृक् पण्डितो मतः॥
मूलम्
ब्राह्मणे पुल्कसे स्तेने ब्रह्मण्येऽर्के स्फुलिङ्गके।
अक्रूरे क्रूरके चैव समदृक् पण्डितो मतः॥ १४ ॥
अनुवाद (हिन्दी)
निर्मलबुद्धि उद्धवजी! जो साधक केवल इस ज्ञान-दृष्टिका आश्रय लेकर सम्पूर्ण प्राणियों और पदार्थोंमें मेरा दर्शन करता है और उन्हें मेरा ही रूप मानकर सत्कार करता है तथा ब्राह्मण और चाण्डाल, चोर और ब्राह्मणभक्त, सूर्य और चिनगारी तथा कृपालु और क्रूरमें समान दृष्टि रखता है, उसे ही सच्चा ज्ञानी समझना चाहिये॥ १३-१४॥
श्रीसुदर्शनसूरिः
सम्यग्ज्ञानवेद्यं च देहातिरिक्तानामात्मना तत्त्वं तेषां भगवदात्मकत्वं चेत्याह । ब्राह्मण इत्यादिश्लोकद्वयेन ॥ १४-१५ ॥
वीरराघवः
किं तत् केवलं ज्ञानम् इत्य् अतो ज्ञानस्य कैवल्यं विवृण्वन्न् इत्थं-भूतं ज्ञानम् आश्रित एवं पण्डित इत्य् आह । ब्राह्मण इति पुल्कसो ऽन्त्यज-जाति-विशेषः । स्तेनो ब्रह्म-स्वापहर्ता ब्रह्मण्यः ब्रह्म-कुले सर्व-स्व-दानेन साधुः अक्रूरो ऽनृशंसः सर्व-भूत-हित-आचरणैक-शीलः क्रूरः सर्व-भूत-द्रोग्धा ब्राह्मणत्वादि-तरतम-भाव-गोचर-बुद्धिः सम-दृक् सर्वत्र शरीराणां प्रकृति-परिणाम-रूपतया आत्मनां ज्ञानैकाकारतयोभयेषां परमात्म-शरीरतया चेत्य् एवं समादृग्-बुद्धिर् यस्य स एवं पण्डितः ॥ १४ ॥
श्लोक-१५
विश्वास-प्रस्तुतिः
नरेष्वभीक्ष्णं मद्भावं
पुंसो भावयतोऽचिरात्।
स्पर्धासूया-तिरस्काराः
साहङ्कारा वियन्ति हि॥
मूलम्
नरेष्वभीक्ष्णं मद्भावं पुंसो भावयतोऽचिरात्।
स्पर्धासूयातिरस्काराः साहङ्कारा वियन्ति हि॥ १५ ॥
अनुवाद (हिन्दी)
जब निरन्तर सभी नर-नारियोंमें मेरी ही भावना की जाती है, तब थोड़े ही दिनोंमें साधकके चित्तसे स्पर्द्धा (होड़), ईर्ष्या, तिरस्कार और अहंकार आदि दोष दूर हो जाते हैं॥ १५॥
वीरराघवः
किम् अतः समदर्शनाद् इत्य् अत आह । नरेष्व् इति । अभीक्ष्णम् असकृन् मद्-भावं मद्-आत्मकत्वं भावयतः पुरुषस्य साहङ्काराः स्पर्द्धादयः वियन्त्य् अप्रियन्ति तिरोहिता भवन्ति निवर्त्तन्ते इति यावत् । स्पर्द्धा कलहः असूया सत्स्व् अपि गुणेषु दोष-आविश्चिकीर्षा तिरस्कारो ऽवमानः अहङ्कारो देहात्माभिमानः एते स्व-पर-विषया निवर्त्तन्ते इत्य् अर्थः ॥ १५ ॥
श्लोक-१६
विश्वास-प्रस्तुतिः
विसृज्य स्मयमानान् स्वान्
दृशं व्रीडां च दैहिकीम्।
प्रणमेद् दण्डवद् भूमाव्
आश्व-चाण्डाल-गो-खरम्॥
मूलम्
विसृज्य स्मयमानान् स्वान् दृशं व्रीडां च दैहिकीम्।
प्रणमेद् दण्डवद् भूमावाश्वचाण्डालगोखरम्॥ १६ ॥
अनुवाद (हिन्दी)
अपने ही लोग यदि हँसी करें तो करने दे, उनकी परवा न करे; ‘मैं अच्छा हूँ, वह बुरा है’ ऐसी देहदृष्टिको और लोक-लज्जाको छोड़ दे और कुत्ते, चाण्डाल, गौ एवं गधेको भी पृथ्वीपर गिरकर साष्टांग दण्डवत् प्रणाम करे॥ १६॥
श्रीसुदर्शनसूरिः
प्रणमेदिति । भगवदात्मकत्वभावनातिशयकाष्ठा दर्शिता ॥ १६ ॥
वीरराघवः
ननु दृढायां हि त्वद्-भाव-भावनायां स्पर्द्धाद्य् अपगमस् तद्-आर्जनम् एव दुर्लभम् इत्य् अतस् तद्-उपायम् उपदिशति । विसृज्य इति । ग्राम-मृगेषु शुनः नृषु चाण्डालान् पशुषु गो-बलीवर्दान्-स्वरान् अभिव्याप्य एवम् अन्येष्व् अपि जात्य्-अन्तरेषु तत्र तत्र विहीनान् अभिव्याप्येति भावः । दण्डवत् प्रणमेत् । तर्हि बान्धवाः परिहसेयुर् इत्य् अत आह । विसृज्य स्मयमानान् स्वान् इति । ननु नीचोत्तम-भाव-भावना-शीलाः कथम् एव प्रणमेयुस् तत्राह । दम्भम् इति विसृज्य इति सम्बन्धः । अहम् उत्तमः अमी निकृष्टा इत्य् एवं-विधं गर्वं विसृज्य इत्य् अर्थः । तथापि तरतम-देहानुसन्धानेन लज्जिताः कथं प्रणमेयुस् तत्राह । व्रीडां च दैहिकीं संत्यज्य प्रणमता ऽभिसन्धि-विशेषं विदधाति । ईश्वर इति । कलावयवः शरीरम् इति यावत् । शरीरेण जीव-रूपतया-अन्तरात्मतया भगवान् आविष्टः ततः सर्वम् ईश्वर-शरीरम् एवेति भावयन् प्रणमेद् इत्य् अर्थः ॥ १६ ॥
श्लोक-१७
विश्वास-प्रस्तुतिः
यावत् सर्वेषु भूतेषु
मद्भावो नोपजायते।
तावद् एवम् उपासीत
वाङ्-मनः-काय-वृत्तिभिः॥
मूलम्
यावत् सर्वेषु भूतेषु मद्भावो नोपजायते।
तावदेवमुपासीत वाङ्मनःकायवृ4त्तिभिः॥ १७ ॥
अनुवाद (हिन्दी)
जबतक समस्त प्राणियोंमें मेरी भावना—भगवद्भावना न होने लगे, तबतक इस प्रकारसे मन, वाणी और शरीरके सभी संकल्पों और कर्मोंद्वारा मेरी उपासना करता रहे॥ १७॥
श्रीसुदर्शनसूरिः
एवमुपासीत पुण्यदेशवासादिभिः उपासीत । १७ ॥
वीरराघवः
इत्थम् अनुष्ठानस्यावधिम् आह । यावद् इति । नोपजायते दृढतरो न जायते तावत् तत्र वाक्-वृत्तिः सर्व-भूतानि उद्दिश्य भगवते नम इत्य् उच्चारणं, मनो-वृत्तिर् ईश्वरो जीव-कलयेत्युक्तौ, काय-वृत्तिर् दण्डवत् प्रणमेद् भुवीति ॥ १७ ॥
श्लोक-१८
विश्वास-प्रस्तुतिः
सर्वं ब्रह्मात्मकं तस्य
विद्ययाऽऽत्ममनीषया।
परिपश्यन्नुपरमेत्
सर्वतो मुक्तसंशयः॥
मूलम्
सर्वं ब्रह्मात्मकं तस्य विद्ययाऽऽत्ममनीषया।
परिपश्यन्नुपरमेत् सर्वतो मुक्तसंशयः॥ १८ ॥
अनुवाद (हिन्दी)
उद्धवजी! जब इस प्रकार सर्वत्र आत्मबुद्धि—ब्रह्मबुद्धिका अभ्यास किया जाता है, तब थोड़े ही दिनोंमें उसे ज्ञान होकर सब कुछ ब्रह्मस्वरूप दीखने लगता है। ऐसी दृष्टि हो जानेपर सारे संशय-सन्देह अपने-आप निवृत्त हो जाते हैं और वह सब कहीं मेरा साक्षात्कार करके संसारदृष्टिसे उपराम हो जाता है॥ १८॥
श्रीसुदर्शनसूरिः
सर्वं ब्रह्मात्मकमिति लीलाविभूतेर्ब्रह्मात्मकत्वमुक्तत्रिपाद्विभूतेस्तदात्मकत्वमाह । परमे व्योम्नीति ब्रह्म पश्यन्नित्यर्थः । सर्वं ब्रह्मात्मकं पश्यन् मुक्तबन्धनः परमे व्योम्नि तिष्ठेदित्यध्याहृत्य वा योजना ॥ १८-१९ ॥
वीरराघवः
ततः किम् अत आह । सर्वम् इति । तस्येत्थम् उपासीनस्य सर्वं ब्रह्मात्मकम् एव दृढतराध्यवसाय-विषयं भवति, ततो ऽपि किम् अत आह । विद्ययेति । आत्म-मनीषया सर्वस्य परम-आत्म-कत्व-बुद्धि-रूपया विद्यया परिपश्यन्न् अयं पुमान् मुक्तः संशयो येन सः, किम् आत्मैव देहः, किं वा ततो ऽन्यः, किं जीवः स्वतन्त्रः, किं वा परम-आत्म-परतन्त्र इत्य् एवं-विधः संशयो ऽत्र विवक्षितः, सर्वतः सर्वस्मात् संसृति-निमित्ताद् उपरमेत्, मुक्तो भवेद् इत्य् अर्थः ॥ १८ ॥
श्लोक-१९
विश्वास-प्रस्तुतिः
अयं हि सर्वकल्पानां सध्रीचीनो मतो मम।
मद्भावः सर्वभूतेषु मनोवाक्कायवृत्तिभिः॥
मूलम्
अयं हि सर्वकल्पानां सध्रीचीनो मतो मम।
मद्भावः सर्वभूतेषु मनोवाक्कायवृत्तिभिः॥ १९ ॥
अनुवाद (हिन्दी)
मेरी प्राप्तिके जितने साधन हैं, उनमें मैं तो सबसे श्रेष्ठ साधन यही समझता हूँ कि समस्त प्राणियों और पदार्थोंमें मन, वाणी और शरीरकी समस्त वृत्तियोंसे मेरी ही भावना की जाय॥ १९॥
वीरराघवः
एष एवोत्तमोपाय इत्य् आह । अयम् इति । कल्प्यते एभिः फलम् इति कल्पा उपायाः, तेषां मध्ये अयम् एव सध्रीचीनः समीचीन इति मम मतः, को ऽसौ, यो मनादीनां वृत्तिभिः सर्व-भूतेषु मद्-भावः ॥ १९ ॥
श्लोक-२०
विश्वास-प्रस्तुतिः
न ह्यङ्गोपक्रमे ध्वंसो मद्धर्मस्योद्धवाण्वपि।
मया व्यवसितः सम्यङ्निर्गुणत्वादनाशिषः॥
मूलम्
न ह्यङ्गोपक्रमे ध्वंसो मद्धर्मस्योद्धवाण्वपि।
मया व्यवसितः सम्यङ्निर्गुणत्वादनाशिषः॥ २० ॥
अनुवाद (हिन्दी)
उद्धवजी! यही मेरा अपना भागवत-धर्म है; इसको एक बार आरम्भ कर देनेके बाद फिर किसी प्रकारकी विघ्न-बाधासे इसमें रत्तीभर भी अन्तर नहीं पड़ता; क्योंकि यह धर्म निष्काम है और स्वयं मैंने ही इसे निर्गुण होनेके कारण सर्वोत्तम निश्चय किया है॥ २०॥
श्रीसुदर्शनसूरिः
मद्धर्मस्याण्वपीति क्रियाविशेषणं न ध्वंसः न निष्फलत्वम् अनाशिषो मद्धर्मस्य निर्गुणत्वात् गुणबन्धहेतुत्वाभावात् ॥ २० ॥
वीरराघवः
सध्रीचीनत्वम् एवोपपादयति । न हि - इति । मद्-धर्मस्य सर्वात्मक-ब्रह्मोपासनाख्य-धर्मस्योपक्रमे सति हे उद्धव ! ईषद् अपि न ध्वंसः, न फलं, न विना भावः मया व्यवसितः निश्चितः, तथोक्तं गीतासु “न हि कल्याण-कृत् कश्चिद् दुर्गतिं तात ! गच्छति” इत्य्-आदिना, “नेहाभिक्रम-नाशो ऽस्ति प्रत्यवायो न विद्यते” इत्य् अनेन च । कुतः? अनाशिषः निष्कामस्य मद्-धर्मस्य निर्गुणत्वाद् गुण-बन्ध-हेतुत्वाभावात्, अग्नेर् औष्ण्यवन् मद्-धर्मस्योपक्रान्त-मात्रस्य सद्यः कालान्तरे वा गुण-त्रय-सम्बन्ध-राहित्यावह-स्वभावत्वाद् इति भावः । किं पुनर् वक्तव्यं नितराम् अनुष्ठितस्य मद्-धर्मस्य न ध्वंस इति ॥ २० ॥
श्लोक-२१
विश्वास-प्रस्तुतिः
यो यो मयि परे धर्मः कल्प्यते निष्फलाय चेत्।
तदायासो निरर्थः स्याद् भयादेरिव सत्तम॥
मूलम्
यो यो मयि परे धर्मः कल्प्यते निष्फलाय चेत्।
तदायासो निरर्थः स्याद् भयादेरिव सत्तम॥ २१ ॥
अनुवाद (हिन्दी)
भागवतधर्ममें किसी प्रकारकी त्रुटि पड़नी तो दूर रही—यदि इस धर्मका साधक भय-शोक आदिके अवसरपर होनेवाली भावना और रोने-पीटने, भागने-जैसा निरर्थक कर्म भी निष्कामभावसे मुझे समर्पित कर दे तो वे भी मेरी प्रसन्नताके कारण धर्म बन जाते हैं॥ २१॥
श्रीसुदर्शनसूरिः
तदायासो निरर्थः स्यादिति आयांसस्य निरर्थकतया अनुष्ठानाभावेन शास्त्राप्रामाण्यं स्यादिति भावः ॥ २१ ॥
वीरराघवः
यतो लोके यो यो व्यापारो निरर्थकः निष्प्रयोजनः चिन्तित-निमिषितादि-रूपः तथा केवलम् आयासात्मकश् च स्यात्, सो ऽपि मयि परस्मिन् परम-पुरुषे निष्फलाय कल्प्यते चेत्, फल-अभिसन्धिं विहाय मद्-अर्थतया “कायेन वाचा मनसेन्द्रियैर् वा” इत्याद्युक्त-रीत्यानुसंहितश् चेद् इति यावत्, धर्म एव फल-विना-भूत एव भवति इत्य् अर्थः । तत्र दृष्टान्तः, भयादेर् इवेति, हे सत्तम ! यथा भयादेः कंस-आदि-कृतस्य धर्मत्वं तथा इत्य् अर्थः । आदि-शब्देन गोपी-चैद्यादि-कृत-राग-द्वेषादि-संग्रहः इति ॥ २१ ॥
श्लोक-२२
विश्वास-प्रस्तुतिः
एषा बुद्धिमतां बुद्धिर्मनीषा च मनीषिणाम्।
यत् सत्यमनृतेनेह मर्त्येनाप्नोति मामृतम्॥
मूलम्
एषा बुद्धिमतां बुद्धिर्मनीषा च मनीषिणाम्।
यत् सत्यमनृतेनेह म5र्त्येनाप्नोति मामृतम्॥ २२ ॥
अनुवाद (हिन्दी)
विवेकियोंके विवेक और चतुरोंकी चतुराईकी पराकाष्ठा इसीमें है कि वे इस विनाशी और असत्य शरीरके द्वारा मुझ अविनाशी एवं सत्य तत्त्वको प्राप्त कर लें॥ २२॥
श्रीसुदर्शनसूरिः
अनृतेन अनित्येन शरीरेण ॥ २२-२५ ॥
वीरराघवः
यत एवम् अतः केनापि भावेन मत्-प्राप्तिर् एव नृ-जन्मनः फलम् इत्य् आह । एषा - इति । बुद्धिर् अध्यवसायः, मनीषा हिता-अहित-विभागः, मनीषिणां मनीषा, बुद्धिमतां बुद्धिश् च-एषैव, कासौ, यद् अनृतेन-अनित्येन मर्त्येन मनुष्य-शरीरेण ऋतं नित्यं सत्यं स्वभावतो निर्विकारं मां प्राप्नोति, मत्-प्राप्ति-साधनं साधयति इति यद् एषा ॥ २२ ॥
श्लोक-२३
विश्वास-प्रस्तुतिः
एष तेऽभिहितः कृत्स्नो ब्रह्मवादस्य सङ्ग्रहः।
समासव्यासविधिना देवानामपि दुर्गमः॥
मूलम्
एष तेऽभिहितः कृत्स्नो ब्रह्मवादस्य सङ्ग्रहः।
समासव्यासविधिना देवानामपि दुर्गमः॥ २३ ॥
अनुवाद (हिन्दी)
उद्धवजी! यह सम्पूर्ण ब्रह्मविद्याका रहस्य मैंने संक्षेप और विस्तारसे तुम्हें सुना दिया। इस रहस्यको समझना मनुष्योंकी तो कौन कहे, देवताओंके लिये भी अत्यन्त कठिन है॥ २३॥
वीरराघवः
महा-प्रकरणार्थम् उपसंहरति सार्धेन । एष इति । ब्रह्म-वादस्य वेदान्त-सिद्धार्थ-कथनस्य संग्रहः समास-व्यास-विधिना संग्रह-विस्तर-प्रदर्शनेन संक्षेपतो विस्तरतश् च हे साधो ! ते तुभ्यम् अभिहितः ॥ २३ ॥
श्लोक-२४
विश्वास-प्रस्तुतिः
अभीक्ष्णशस्ते गदितं ज्ञानं विस्पष्टयुक्तिमत्।
एतद् विज्ञाय मुच्येत पुरुषो नष्टसंशयः॥
मूलम्
अभीक्ष्णशस्ते गदितं ज्ञानं विस्पष्टयुक्तिमत्।
एतद् विज्ञाय मुच्येत पुरुषो नष्टसंशयः॥ २४ ॥
अनुवाद (हिन्दी)
मैंने जिस सुस्पष्ट और युक्तियुक्त ज्ञानका वर्णन बार-बार किया है, उसके मर्मको जो समझ लेता है, उसके हृदयकी संशय-ग्रन्थियाँ छिन्न-भिन्न हो जाती हैं और वह मुक्त हो जाता है॥ २४॥
वीरराघवः
तत्रापि प्रधान-अंशस्य दार्ढ्यायासकृत्-कथितत्वम् आह । अभीक्ष्णश इति । विस्पष्टं युक्तिमच् च यथा तथा ऽभीक्ष्णशः पुनः पुनः ज्ञानं च कथितं चात्र चिद्-अचिद्-ईश्वर-तत्त्व-त्रय-विवेचनात्मकम् ईश्वरोपासनात्मकं च । तस्य कथितत्वं नाम तत्-प्रकार-कथनं, तस्य फलम् आह । एतद् इति । एतज्-ज्ञान-याथात्म्यं विज्ञाय नष्टः संशयः उक्त-विधो यस्य सः पुरुषो मुच्येत संसृतेर् इति शेषः ॥ २४ ॥
श्लोक-२५
विश्वास-प्रस्तुतिः
सुविविक्तं तव प्रश्नं मयैतदपि धारयेत्।
सनातनं ब्रह्मगुह्यं परं ब्रह्माधिगच्छति॥
मूलम्
सुविविक्तं तव प्रश्नं मयैतदपि धारयेत्।
सनातनं ब्रह्मगुह्यं परं ब्रह्माधिगच्छति॥ २५ ॥
अनुवाद (हिन्दी)
मैंने तुम्हारे प्रश्नका भलीभाँति खुलासा कर दिया; जो पुरुष हमारे प्रश्नोत्तरको विचारपूर्वक धारण करेगा, वह वेदोंके भी परम रहस्य सनातन परब्रह्मको प्राप्त कर लेगा॥ २५॥
वीरराघवः
तम् एव आह । सुविविक्तम् इति । तव प्रश्नं पृष्टं मया सुविविक्तं सुष्ठु विविच्योपपादितम् एतद् येन विधारितं धृतं स्यात् स सनातनं ब्रह्म गुह्यं वेदान्त-रहस्यं परं ब्रह्माधिगच्छति प्राप्नोति ॥ २५ ॥
श्लोक-२६
विश्वास-प्रस्तुतिः
य एतन्मम भक्तेषु सम्प्रदद्यात् सुपुष्कलम्।
तस्याहं ब्रह्मदायस्य ददाम्यात्मानमात्मना॥
मूलम्
य एतन्मम भक्तेषु सम्प्रदद्यात् सुपुष्कलम्।
तस्याहं ब्रह्मदायस्य ददाम्यात्मानमात्मना॥ २६ ॥
अनुवाद (हिन्दी)
जो पुरुष मेरे भक्तोंको इसे भलीभाँति स्पष्ट करके समझायेगा, उस ज्ञानदाताको मैं प्रसन्न मनसे अपना स्वरूपतक दे डालूँगा, उसे आत्मज्ञान करा दूँगा॥ २६॥
श्रीसुदर्शनसूरिः
ब्रह्मदायस्य ज्ञानप्रदीपकस्य ॥ २६-३२ ॥
वीरराघवः
किं च, एतन् मया सुविविक्तं यो मद्-भक्तेषु प्रदद्यात्, तेभ्य उपदिशेद् इत्य् अर्थः । भक्तिर् इहानुकूल्यं, तस्य ब्रह्म-दायस्य ब्रह्मोपदेष्टुर् आत्मनो मां ददामि, तद् वशीकरोमि इत्य् अर्थः ॥ २६ ॥
श्लोक-२७
विश्वास-प्रस्तुतिः
य एतत् समधीयीत पवित्रं परमं शुचि।
स पूयेताहरहर्मां ज्ञानदीपेन दर्शयन्॥
मूलम्
य एतत् समधीयीत पवित्रं परमं शुचि।
स पूयेताहरहर्मां ज्ञानदीपेन दर्शयन्॥ २७ ॥
अनुवाद (हिन्दी)
उद्धवजी! यह तुम्हारा और मेरा संवाद स्वयं तो परम पवित्र है ही, दूसरोंको भी पवित्र करनेवाला है। जो प्रतिदिन इसका पाठ करेगा और दूसरोंको सुनायेगा, वह इस ज्ञानदीपके द्वारा दूसरोंको मेरा दर्शन करानेके कारण पवित्र हो जायगा॥ २७॥
वीरराघवः
य एतद् इति । पवित्रम् आत्म-शुद्ध्य्-आवहं शुचि शृण्वताम् अपि शुद्ध्यावहम्, एतद् यः समधीयीत पठेत्, सो ऽहरहर् ज्ञान-दीपेन-अहरहः प्रवृद्धं ज्ञानम् एव दीपः तेन मां दर्शयन् निवृत्त-प्रेरणात् ण्यन्ताद् दृशेः कर्तरि शता पश्यन्न् इत्य् अर्थः, योग-परिशुद्धेन मनसा साक्षात्-कुर्वन्न् इति भावः । पूयेत मत्-प्राप्ति-प्रतिबन्धकैर् विरहितः शुद्धो भवेद् इत्य् अर्थः ॥ २७ ॥
श्लोक-२८
विश्वास-प्रस्तुतिः
य एतच्छ्रद्धया नित्यमव्यग्रः शृणुयान्नरः।
मयि भक्तिं परां कुर्वन् कर्मभिर्न स बध्यते॥
मूलम्
य एतच्छ्रद्धया नित्यमव्यग्रः शृणुयान्नरः।
मयि भक्तिं परां कुर्वन् कर्मभिर्न स बध्यते॥ २८ ॥
अनुवाद (हिन्दी)
जो कोई एकाग्र चित्तसे इसे श्रद्धापूर्वक नित्य सुनेगा, उसे मेरी पराभक्ति प्राप्त होगी और वह कर्मबन्धनसे मुक्त हो जायगा॥ २८॥
वीरराघवः
य एतद् इति । अव्यग्रः समाहितः कुर्वन् जनयन् करोतिर् उत्पादन - अर्थः कर्मभिर् मत्-प्राप्ति-प्रतिबन्धकैर् न बध्यते ॥ २८ ॥
श्लोक-२९
विश्वास-प्रस्तुतिः
अप्युद्धव त्वया ब्रह्म सखे समवधारितम्।
अपि ते विगतो मोहः शोकश्चासौ मनोभवः॥
मूलम्
अप्युद्धव त्वया ब्रह्म सखे समवधारितम्।
अपि ते विगतो मोहः शोकश्चासौ मनोभवः॥ २९ ॥
अनुवाद (हिन्दी)
प्रिय सखे! तुमने भलीभाँति ब्रह्मका स्वरूप समझ लिया न? और तुम्हारे चित्तका मोह एवं शोक तो दूर हो गया न?॥ २९॥
वीरराघवः
इत्थं बहुधोपदेशेन कृतेन सम्यग्-ज्ञान-अनुत्पत्तौ पुनर् उपदेक्ष्यामि इत्य् अभिप्रेत्य पृच्छति । अपि इति । हे उद्भव ! हे सखे ! ब्रह्म-शब्दस् तत्-साधनादीनाम् अप्य् उपलक्षकः, समवधारितं सम्यग् अवधृतं किम्? अपि-शब्दः प्रश्न-द्योतकः, नावधारितं चेत् पुनर् उपदेक्ष्याम् इति भावः । एवम् अग्रे मोहः देह-आत्म-भ्रमः स्वतन्त्रात्म-भ्रमादि-रूपो मनो-भवो मनसि भवः, शोकस् ताप-त्रय-जन्यः ज्ञानाभाव-प्रयुक्तश् च ॥ २९ ॥
श्लोक-३०
विश्वास-प्रस्तुतिः
नैतत्त्वया दाम्भिकाय नास्तिकाय शठाय च।
अशुश्रूषोरभक्ताय दुर्विनीताय दीयताम्॥
मूलम्
नैतत्त्वया दाम्भिकाय नास्तिकाय शठाय च।
अशुश्रूषोरभक्ताय दुर्विनीताय दीयताम्॥ ३० ॥
अनुवाद (हिन्दी)
तुम इसे दाम्भिक, नास्तिक, शठ, अश्रद्धालु, भक्तिहीन और उद्धत पुरुषको कभी मत देना॥ ३०॥
वीरराघवः
मद्-भक्तेषु सम्प्रदद्याद् इत्य् उक्तेर् अभक्तेभ्यो नोपदिशेद् इत्य् अवगम्यते, तत् स्पष्टम् एव - आह । नैतद् इति । नास्तिकाय शास्त्रार्थ-विश्वास-रहिताय शठाय मूर्खाय नैतद् दीयतां, नोपदिश्यताम् ॥ ३० ॥
श्लोक-३१
विश्वास-प्रस्तुतिः
एतैर्दोषैर्विहीनाय ब्रह्मण्याय प्रियाय च।
साधवे शुचये ब्रूयाद् भक्तिः स्याच्छूद्रयोषिताम्॥
मूलम्
एतैर्दोषैर्विहीनाय ब्रह्मण्याय प्रियाय च।
साधवे शुचये ब्रूयाद् भक्तिः स्याच्छूद्रयोषिताम्॥ ३१ ॥
अनुवाद (हिन्दी)
जो इन दोषोंसे रहित हो, ब्राह्मणभक्त हो, प्रेमी हो, साधुस्वभाव हो और जिसका चरित्र पवित्र हो, उसीको यह प्रसंग सुनाना चाहिये। यदि शूद्र और स्त्री भी मेरे प्रति प्रेम-भक्ति रखते हों तो उन्हें भी इसका उपदेश करना चाहिये॥ ३१॥
वीरराघवः
किन्तु एतत् तैर् दाम्भिकतादिभिर् दोषैर् विहीनाय ब्रह्मण्याय ब्राह्मणेषु साधवे प्रियाय स्वस्मिन्-प्रीति-युक्ताय साधवे परोपकर्त्त्रे यदि शूद्रस्य योषितश् च भक्तिः श्रद्धा स्यात् तर्हि ताभ्याम् अपि ब्रूयात् ॥ ३१ ॥
श्लोक-३२
विश्वास-प्रस्तुतिः
नैतद् विज्ञाय जिज्ञासोर्ज्ञातव्यमवशिष्यते।
पीत्वा पीयूषममृतं पातव्यं नावशिष्यते॥
मूलम्
नैतद् विज्ञाय जिज्ञासोर्ज्ञातव्यमवशिष्यते।
पीत्वा पीयूषममृतं पातव्यं नावशिष्यते॥ ३२ ॥
अनुवाद (हिन्दी)
जैसे दिव्य अमृतपान कर लेनेपर कुछ भी पीना शेष नहीं रहता, वैसे ही यह जान लेनेपर जिज्ञासुके लिये और कुछ भी जानना शेष नहीं रहता॥ ३२॥
वीरराघवः
एतज्-ज्ञानेन पुमान् कृतार्थो भवति इत्य् आह । नेति । अत्र दृष्टान्तम् आह । पीत्वा इति । पीयूषं स्वादु ॥ ३२ ॥
श्लोक-३३
विश्वास-प्रस्तुतिः
ज्ञाने कर्मणि योगे च वार्तायां दण्डधारणे।
यावानर्थो नृणां तात तावांस्तेऽहं चतुर्विधः॥
मूलम्
ज्ञाने कर्मणि योगे च वार्तायां दण्डधारणे।
यावानर्थो नृणां तात तावांस्तेऽहं चतुर्विधः॥ ३३ ॥
अनुवाद (हिन्दी)
प्यारे उद्धव! मनुष्योंको ज्ञान, कर्म, योग, वाणिज्य और राजदण्डादिसे क्रमशः मोक्ष, धर्म, काम और अर्थरूप फल प्राप्त होते हैं; परन्तु तुम्हारे-जैसे अनन्य भक्तोंके लिये वह चारों प्रकारका फल केवल मैं ही हूँ॥ ३३॥
श्रीसुदर्शनसूरिः
ज्ञानकर्मादीनां यावानर्थः तावानर्थो नाम चतुर्विधः पुरुषार्थचतुष्टयादन्यत्प्रयोजनान्तरं नास्तीत्यर्थः ॥ ३३ ॥
वीरराघवः
सर्व-मोक्ष-शास्त्रार्थ-सार-संग्रहो ऽयम् एवेत्य् आह । ज्ञाने इति । वार्त्तायां कृषि-आदौ दण्ड-धारण-शब्देन साम-आद्य्-उपाया लक्ष्यन्ते । ज्ञानम् आत्म-उपासनं नृणां ज्ञानादिषु क्रियमाणेषु यावान् पुरुषार्थः क्रियांश्-चतुर्विधः धर्मार्थ-काम-मोक्ष-रूपः तावान् सर्वो ऽपि ते त्वादृशस्य भक्तस्याहम् एव । तत्र ज्ञाने मोक्षः, कर्मणि धर्मः, योगे ऽणिम् आदयः, वार्त्तायां दण्ड-धारणे च अर्थः, ततः कामः, अणिम् आदयो ऽपि कामान्तर्भूताः । एवं चतुर्विधः पुरुषार्थो ऽहम् एव, माम् ऋते न कञ्चन वाञ्छतीति भावः ॥ ३३ ॥
श्लोक-३४
विश्वास-प्रस्तुतिः
मर्त्यो यदा त्यक्तसमस्तकर्मा
निवेदितात्मा विचिकीर्षितो मे।
तदामृतत्वं प्रतिपद्यमानो
मयाऽऽत्मभूयाय च कल्पते वै॥
मूलम्
मर्त्यो यदा त्यक्तसमस्तकर्मा निवेदितात्मा विचिकीर्षितो मे।
तदामृतत्वं प्रतिपद्यमानो मयाऽऽत्मभूयाय च कल्पते वै॥ ३४ ॥
अनुवाद (हिन्दी)
जिस समय मनुष्य समस्त कर्मोंका परित्याग करके मुझे आत्मसमर्पण कर देता है, उस समय वह मेरा विशेष माननीय हो जाता है और मैं उसे उसके जीवत्वसे छुड़ाकर अमृतस्वरूप मोक्षकी प्राप्ति करा देता हूँ और वह मुझसे मिलकर मेरा स्वरूप हो जाता है॥ ३४॥
श्रीसुदर्शनसूरिः
आत्मभूयाय आत्मभावाय भावश्च स्वभावः मत्साम्यायेत्यर्थः । यद्वा । आत्मशब्दः स्वभाववाची भूयाय शरीरसम्बन्धविरहेणावस्थानाय मोक्षायेत्यर्थः ॥ ३३-३५ ॥
वीरराघवः
इत्थम् अनन्य-प्रयोजनो मत्-प्रपन्नो मत्-साधर्म्यम् उपैति इत्य् आह । मर्त्य इति । विचिकीर्षितः विलक्षणं कर्तुम् इष्टः, अनुजिघृक्षोर् इति यावत् । मे मह्यं यदा निवेदितः, “ॐ” इत्य् आत्मानं युञ्जीत इत्य् उक्त-रीत्या समर्पित आत्मा येन सः, न्यस्त-आत्म-रक्षा-भर इत्य् अर्थः । त्यक्तानि समस्त-कर्माणि येन तथा-भूतो भवति, तदा मया हेतु-भूतेन-अमृतत्वं प्रतिपद्यमानः आत्म-भूयायात्म-भावाय कल्पते, भावश् च स्व-स्वभावः, स्वाभाविकापहतपाप्मत्वाविर्भावाय कल्पत इत्य् अर्थः । यद् वा-आत्मनो मम भावाय प्रकाराय मत्-साधर्म्यायेत्य् अर्थः ॥ ३४ ॥
श्लोक-३५
मूलम् (वचनम्)
श्रीशुक उवाच
विश्वास-प्रस्तुतिः
स एवमादर्शितयोगमार्ग-
स्तदोत्तमश्लोकवचो निशम्य।
बद्धाञ्जलिः प्रीत्युपरुद्धकण्ठो
न किञ्चिदूचेऽश्रुपरिप्लुताक्षः॥
मूलम्
स एवमादर्शितयोगमार्गस्तदोत्तमश्लोकवचो निशम्य।
बद्धाञ्जलिः प्रीत्युपरुद्धकण्ठो न किञ्चिदूचेऽश्रुपरिप्लुताक्षः॥ ३५ ॥
अनुवाद (हिन्दी)
श्रीशुकदेवजी कहते हैं—परीक्षित्! अब उद्धवजी योगमार्गका पूरा-पूरा उपदेश प्राप्त कर चुके थे। भगवान् श्रीकृष्णकी बात सुनकर उनकी आँखोंमें आँसू उमड़ आये। प्रेमकी बाढ़से गला रुँध गया, चुपचाप हाथ जोड़े रह गये और वाणीसे कुछ बोला न गया॥ ३५॥
वीरराघवः
स इति । स उद्धवः आदर्शितो योग-मार्गो न्यास-उपासनात्मक-ज्ञान-योग-मार्गो यस्य सः, उत्तम-श्लोकस्य भगवतो वचो “मर्त्यो यदा” इत्य् आदि समनन्तर-वचो निशम्य प्रीत्यावरुद्धः कण्ठो यस्य स, आनन्दाश्रु-निरुद्ध-कण्ठ इत्य् अर्थः । अत एवाश्रुभिः परिप्लुते अक्षिणी यस्य सः, तावत् किञ्चिद् अपि नोचे ॥ ३५ ॥
श्लोक-३६
विश्वास-प्रस्तुतिः
विष्टभ्य चित्तं प्रणयावघूर्णं
धैर्येण राजन् बहु मन्यमानः।
कृताञ्जलिः प्राह यदुप्रवीरं
शीर्ष्णा स्पृशंस्तच्चरणारविन्दम्॥
मूलम्
विष्टभ्य चित्तं प्रणयावघूर्णं धैर्येण राजन् बहु मन्यमानः।
कृताञ्जलिः प्राह यदुप्रवीरं शीर्ष्णा स्पृशंस्तच्चरणारविन्दम्॥ ३६ ॥
अनुवाद (हिन्दी)
उनका चित्त प्रेमावेशसे विह्वल हो रहा था, उन्होंने धैर्यपूर्वक उसे रोका और अपनेको अत्यन्त सौभाग्यशाली अनुभव करते हुए सिरसे यदुवंशशिरोमणि भगवान् श्रीकृष्णके चरणोंको स्पर्श किया तथा हाथ जोड़कर उनसे यह प्रार्थना की॥ ३६॥
वीरराघवः
ततः प्रणयेनावघूर्णं क्षुभितं चित्तं शनैर् धैर्येण विष्टभ्य स्व-वशी-कृत्य हे राजन् ! बहु-मन्यमानः आत्मानं कृत-कृत्यं मन्यमानः यदु-प्रवीरं श्रीकृष्णं प्राह, कथं-भूतः सन्, शीर्ष्णा शिरसा तस्य यदु-प्रवीरस्य चरणाम्बुजं स्पृशन् ॥ ३६ ॥
श्लोक-३७
मूलम् (वचनम्)
उद्धव उवाच
विश्वास-प्रस्तुतिः
विद्रावितो मोहमहान्धकारो
य आश्रितो मे तव सन्निधानात्।
विभावसोः किं नु समीपगस्य
शीतं तमो भीः प्रभवन्त्यजाद्य॥
मूलम्
विद्रावितो मोहमहा6न्धकारो य आश्रितो मे तव सन्निधानात्।
विभावसोः किं नु समीपगस्य शीतं तमः भीः प्रभवन्त्य7जाद्य॥ ३७ ॥
अनुवाद (हिन्दी)
उद्धवजीने कहा—प्रभो! आप माया और ब्रह्मा आदिके भी मूल कारण हैं। मैं मोहके महान् अन्धकारमें भटक रहा था। आपके सत्संगसे वह सदाके लिये भाग गया। भला, जो अग्निके पास पहुँच गया उसके सामने क्या शीत, अन्धकार और उसके कारण होनेवाला भय ठहर सकते हैं?॥ ३७॥
श्रीसुदर्शनसूरिः
अन्धकारः किमागमिष्यतीति भावः ॥ ३६-३८ ॥
वीरराघवः
उक्तिम् एवाह । विद्रावित इत्य् आदिना । तावद् अप्य् उद्धव त्वया ब्रह्म - इति प्रश्नस्योत्तरम् आह । विद्रावित इति । यो मे मयाश्रितः मोह एव महान्धकारः स तव संनिधानाद् एव विद्रावितः, हे अजाद्य ! अजस्य ब्रह्मणो ऽपि जनक, विभावसोः सूर्यस्य समीपं प्राप्तस्य पुंसः शीतं, तमो ऽन्धकारः, भीस् तत्-प्रयुक्तं भयम् अन्धकारे किम् आगमिष्यति - इति भयं च इत्य् अर्थः, किं प्रभवन्ति स्व-कार्य-करा भवन्ति किम् इत्य् अर्थः ॥ ३७ ॥
श्लोक-३८
विश्वास-प्रस्तुतिः
प्रत्यर्पितो मे भवतानुकम्पिना
भृत्याय विज्ञानमयः प्रदीपः।
हित्वा कृतज्ञस्तव पादमूलं
कोऽन्यत् समीयाच्छरणं त्वदीयम्॥
मूलम्
प्रत्यर्पितो मे भवतानुकम्पिना भृत्याय विज्ञानमयः प्रदीपः।
हित्वा कृतज्ञस्तव पादमूलं कोऽन्यत् समीयाच्छरणं त्वदीयम्॥ ३८ ॥
अनुवाद (हिन्दी)
भगवन्! आपकी मोहिनी मायाने मेरा ज्ञानदीपक छीन लिया था, परन्तु आपने कृपा करके वह फिर अपने सेवकको लौटा दिया। आपने मेरे ऊपर महान् अनुग्रहकी वर्षा की है। ऐसा कौन होगा, जो आपके इस कृपा-प्रसादका अनुभव करके भी आपके चरणकमलोंकी शरण छोड़ दे और किसी दूसरेका सहारा ले?॥ ३८॥
वीरराघवः
यद्य् अपि संनिधानाद् एव विद्रावितस् तथाप्य् अनुकम्पिना हेतु-गर्भम् इदम् । अतो भवता विज्ञान-रूपः प्रदीपो भृत्याय मे मह्यं प्रत्यर्पितः । स्व-माययापहृतः पुनः समर्पितः । अनेन जीवानां स्वभावतः सूक्ष्म-अर्थ-दर्शित्वं भगवन्-मायया तच्-छिरोधानं च सूच्यते, अत इत्थम् उपकुर्वन्तं त्वां जानन् को वा पुमांस् त्वदीयं पाद-मूलं हित्वा ऽन्यच् छरणं प्राप्नुयात् ॥ ३८ ॥
श्लोक-३९
विश्वास-प्रस्तुतिः
वृक्णश्च मे सुदृढः स्नेहपाशो
दाशार्हवृष्ण्यन्धकसात्वतेषु।
प्रसारितः सृष्टिविवृद्धये त्वया
स्वमायया ह्यात्मसुबोधहेतिना॥
मूलम्
वृक्णश्च मे सुदृढः स्नेहपाशो दाशार्हवृष्ण्यन्धकसात्वतेषु।
प्रसारितः सृष्टिविवृद्धये त्वया स्वमायया ह्यात्मसुबोधहेतिना॥ ३९ ॥
अनुवाद (हिन्दी)
आपने अपनी मायासे सृष्टिवृद्धिके लिये दाशार्ह, वृष्णि, अन्धक और सात्वतवंशी यादवोंके साथ मुझे सुदृढ़ स्नेह-पाशसे बाँध दिया था। आज आपने आत्मबोधकी तीखी तलवारसे उस बन्धनको अनायास ही काट डाला॥ ३९॥
श्रीसुदर्शनसूरिः
अयं प्रसारितः स्नेहपाशः आत्मसुबोध हेतिना आत्मज्ञानशस्त्रेण वृक्णः छिन्नः ॥ ३९-४१ ॥
वीरराघवः
किं च वृक्ण इति । दाशार्हादिषु सृष्टि-विवृद्धये संसृति-वृद्धये यस् त्वया कर्त्रा स्व-मायया मे सुदृढः स्नेह-पाशः प्रसारितः, स भवतैवात्म-सुबोध-हेतिना आत्म-ज्ञान-हेतिना वृक्णश् छिन्नश् च ॥ ३९ ॥
श्लोक-४०
विश्वास-प्रस्तुतिः
नमोऽस्तु ते महायोगिन् प्रपन्नमनुशाधि माम्।
यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी॥
मूलम्
नमोऽस्तु ते महायोगिन् प्रपन्नमनुशाधि माम्।
यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी॥ ४० ॥
अनुवाद (हिन्दी)
महायोगेश्वर! मेरा आपको नमस्कार है। अब आप कृपा करके मुझ शरणागतको ऐसी आज्ञा दीजिये, जिससे आपके चरणकमलोंमें मेरी अनन्य भक्ति बनी रहे॥ ४०॥
वीरराघवः
इदं तु ममाभिलषितम् इति नमस्-कुर्वन्न् आह । नम इति । त्वच्-चरणाम्भोजे रतिर् भक्तिर् अनुरागात्मिका यथा स्यात् तथा मां प्रपन्नम् अनुशाधि, शिक्षयानुगृहाण इत्य् अर्थः ॥ ४० ॥
श्लोक-४१
मूलम् (वचनम्)
श्रीभगवानुवाच
विश्वास-प्रस्तुतिः
गच्छोद्धव मयाऽऽदिष्टो बदर्याख्यं ममाश्रमम्।
तत्र मत्पादतीर्थोदे स्नानोपस्पर्शनैः शुचिः॥
मूलम्
गच्छोद्धव मयाऽऽदिष्टो बदर्याख्यं ममाश्रमम्।
तत्र मत्पादतीर्थोदे स्नानोपस्पर्शनैः शुचिः॥ ४१ ॥
अनुवाद (हिन्दी)
भगवान् श्रीकृष्णने कहा—उद्धवजी! अब तुम मेरी आज्ञासे बदरीवनमें चले जाओ। वह मेरा ही आश्रम है। वहाँ मेरे चरणकमलोंके धोवन गंगाजलका स्नानपानके द्वारा सेवन करके तुम पवित्र हो जाओगे॥ ४१॥
वीरराघवः
तथानुगृह्य यावत्-प्रारब्धं कृत्यम् उपदिशति । गच्छेति । आदिष्टो ऽनुज्ञातः तत्र बदर्य्-आश्रमे मत्-पाद-तीर्थोदे मत्-पाद-प्रभव-गङ्गाख्य-तीर्थ-विशेष-जले स्नानैर् उपस्पर्शनैर् आचमनैश् च शुचिः ॥ ४१ ॥
श्लोक-४२
विश्वास-प्रस्तुतिः
ईक्षयालकनन्दाया विधूताशेषकल्मषः।
वसानो वल्कलान्यङ्ग वन्यभुक् सुखनिःस्पृहः॥
मूलम्
ईक्षयालकनन्दाया विधूताशेषकल्मषः।
वसानो वल्कलान्यङ्ग वन्यभुक् सुखनिःस्पृहः॥ ४२ ॥
अनुवाद (हिन्दी)
अलकनन्दाके दर्शनमात्रसे तुम्हारे सारे पाप-ताप नष्ट हो जायँगे। प्रिय उद्धव! तुम वहाँ वृक्षोंकी छाल पहनना, वनके कन्द-मूल-फल खाना और किसी भोगकी अपेक्षा न रखकर निःस्पृह-वृत्तिसे अपने-आपमें मस्त रहना॥ ४२॥
श्रीसुदर्शनसूरिः
अलकनन्दात्र गङ्गा ॥४२-४३ ॥
वीरराघवः
अलकनन्दाया गङ्गाया ईक्षया दर्शनेन विधूतम् अशेषं कल्मषं यस्य सः वल्कलानि वसानः परिदधानः अङ्ग हे उद्धव ! वन्यानि वन-प्रभवाणि कन्द-मूलादीनि भुङ्क्ते इति तथा सुखेन आत्मानुभव-सुखेन निस्पृहः विषयाभिलाष-रहितः ॥ ४२ ॥
श्लोक-४३
विश्वास-प्रस्तुतिः
तितिक्षुर्द्वन्द्वमात्राणां सुशीलः संयतेन्द्रियः।
शान्तः समाहितधिया ज्ञानविज्ञानसंयुतः॥
मूलम्
तितिक्षुर्द्वन्द्वमात्राणां सुशीलः संयतेन्द्रियः।
शान्तः समाहितधिया ज्ञानविज्ञानसंयुतः॥ ४३ ॥
अनुवाद (हिन्दी)
सर्दी-गरमी, सुख-दुःख—जो कुछ आ पड़े, उसे सम रहकर सहना। स्वभाव सौम्य रखना, इन्द्रियोंको वशमें रखना। चित्त शान्त रहे। बुद्धि समाहित रहे और तुम स्वयं मेरे स्वरूपके ज्ञान और अनुभवमें डूबे रहना॥ ४३॥
वीरराघवः
द्वन्द्व-मात्राणां शीतोष्णादि-विषयाणां तितिक्षुस् तान् सहमान इत्य् अर्थः । सुशील आर्जवादि-स्वभाव-युक्तः संयतेन्द्रियः जित-बाह्येन्द्रियः शान्तः जितान्तर्-इन्द्रियः ज्ञानं तत्त्व-त्रय-याथात्म्य-विवेचनात्मकं विज्ञानं ब्रह्मोपासनात्मकं ताभ्यां संयुतः ॥ ४३ ॥
श्लोक-४४
विश्वास-प्रस्तुतिः
मत्तोऽनुशिक्षितं यत्ते विविक्तमनुभावयन्।
मय्यावेशितवाक्चित्तो मद्धर्मनिरतो भव।
अतिव्रज्य गतीस्तिस्रो मामेष्यसि ततः परम्॥
मूलम्
मत्तोऽनुशिक्षितं यत्ते विविक्तमनुभावयन्।
मय्यावेशितवाक्चित्तो मद्धर्मनिरतो भव।
अतिव्रज्य गतीस्तिस्रो मामेष्यसि ततः परम्॥ ४४ ॥
अनुवाद (हिन्दी)
मैंने तुम्हें जो कुछ शिक्षा दी है, उसका एकान्तमें विचारपूर्वक अनुभव करते रहना। अपनी वाणी और चित्त मुझमें ही लगाये रहना और मेरे बतलाये हुए भागवतधर्ममें प्रेमसे रम जाना। अन्तमें तुम त्रिगुण और उनसे सम्बन्ध रखनेवाली गतियोंको पार करके उनसे परे मेरे परमार्थस्वरूपमें मिल जाओगे॥ ४४॥
श्रीसुदर्शनसूरिः
तिस्रो गतीः साविकराजसतामसीः ऊर्ध्वं गच्छन्ति सत्त्वस्था इत्याद्युक्ताः ॥ ४४-४६ ॥
वीरराघवः
तुभ्यं यन् मत्तो मत्-सकाशाद् अनुशिक्षितं विविक्तं विविच्य ज्ञापितं च तद् अनुभावयन् चित्ते दृढीकुर्वन् मय्य् आवेशिता वाक् चित्तं च येन सः तत्र स्वावेशा नाम स्व-गुणानुकीर्तनं मद्-दर्शन-निरतः कायेन मद्-आराधनं कुर्वन्न् इत्य् अर्थः । एवं मनो-वाक्-काय-वृत्तयो ऽभिहिताः एवं-भूतो भवान् प्रारब्धान्ते तिस्रः ऊर्ध्वं गच्छन्ति सत्त्वस्था इत्य् आदिनोक्ताः सात्त्विक-राजस-तामस-गतीर् अतिक्रम्य ततः परं प्रकृतिमण्डलात्-परस्थितं नित्युम्-उक्तोपभोग्यं माम् एष्यसि प्राप्स्यसि ॥ ४४ ॥
श्लोक-४५
मूलम् (वचनम्)
श्रीशुक उवाच
विश्वास-प्रस्तुतिः
स एवमुक्तो हरिमेधसोद्धवः
प्रदक्षिणं तं परिसृत्य पादयोः।
शिरो निधायाश्रुकलाभिरार्द्रधी-
र्न्यषिञ्चदद्वन्द्वपरोऽप्यपक्रमे॥
मूलम्
स एवमुक्तो हरिमेधसोद्धवः प्रदक्षिणं तं परिसृत्य पादयोः।
शिरो निधायाश्रुकलाभिरार्द्रधीर्न्यषिञ्चदद्वन्द्वपरोऽप्यपक्रमे॥ ४५ ॥
अनुवाद (हिन्दी)
श्रीशुकदेवजी कहते हैं—परीक्षित्! भगवान् श्रीकृष्णके स्वरूपका ज्ञान संसारके भेदभ्रमको छिन्न-भिन्न कर देता है। जब उन्होंने स्वयं उद्धवजीको ऐसा उपदेश किया तो उन्होंने उनकी परिक्रमा की और उनके चरणोंपर सिर रख दिया। इसमें सन्देह नहीं कि उद्धवजी संयोग-वियोगसे होनेवाले सुख-दुःखके जोड़ेसे परे थे, क्योंकि वे भगवान्के निर्द्वन्द्व चरणोंकी शरण ले चुके थे; फिर भी वहाँसे चलते समय उनका चित्त प्रेमावेशसे भर गया। उन्होंने अपने नेत्रोंकी झरती हुई अश्रुधारासे भगवान्के चरणकमलोंको भिगो दिया॥ ४५॥
वीरराघवः
स इति । हरि-मेधसा हरति यद्-विषया मेधा बुद्धिः संसारम् इति तथा तेन भगवतेत्थम् उक्तः स उद्धवः तं भगवन्तं प्रदक्षिणं तथा परिवृत्य परिक्रम्य पादयोः शिरो निधायाद्वन्द्व-परः प्रिय-संयोग-वियोग-प्रयुक्त-हर्ष-शोक-रहितो ऽप्य् उपक्रमे निर्गम-समये-ऽश्रु-कलाभिर् अश्रु-बिन्दुभिर् न्यषिञ्चत । तत्र हेतुर् आर्द्र-धीर् भगवद्-अनुरागातिशय-श्लथ-हृदयः ॥ ४५ ॥
श्लोक-४६
विश्वास-प्रस्तुतिः
सुदुस्त्यजस्नेहवियोगकातरो
न शक्नुवंस्तं परिहातुमातुरः।
कृच्छ्रं ययौ मूर्धनि भर्तृपादुके
बिभ्रन्नमस्कृत्य ययौ पुनः पुनः॥
मूलम्
सुदुस्त्यजस्नेहवियोगकातरो न शक्नुवंस्तं परिहातुमातुरः।
कृच्छ्रं ययौ मूर्धनि भर्तृपादुके बिभ्रन्नमस्कृत्य ययौ पुनः पुनः॥ ४६ ॥
अनुवाद (हिन्दी)
परीक्षित्! भगवान्के प्रति प्रेम करके उसका त्याग करना सम्भव नहीं है। उन्हींके वियोगकी कल्पनासे उद्धवजी कातर हो गये, उनका त्याग करनेमें समर्थ न हुए। बार-बार विह्वल होकर मूर्च्छित होने लगे। कुछ समयके बाद उन्होंने भगवान् श्रीकृष्णके चरणोंकी पादुकाएँ अपने सिरपर रख लीं और बार-बार भगवान्के चरणोंमें प्रणाम करके वहाँसे प्रस्थान किया॥ ४६॥
वीरराघवः
सु-दुस्त्यजः स्नेहो यस्मिंस् तस्य भगवतो वियोगेन समनन्तर-भाविना कातरो भीतः अत एवातुरो दीनः अत एव भगवन्तं परि-हातुं त्यक्तुं तावद् अशक्नुवन्न् असमर्थः कृच्छ्रं सङ्कटं भर्तुः पादुके पुनः पुनर् मूर्धनि शिरसि बिभ्रत् पूर्ववन् नमस्-कृत्य कृच्छ्रं सङ्कटं यथा तथा ययौ ॥ ४६ ॥
श्लोक-४७
विश्वास-प्रस्तुतिः
ततस्तमन्तर्हृदि संनिवेश्य
गतो महाभागवतो विशालाम्।
यथोपदिष्टां जगदेकबन्धुना
तपः समास्थाय हरेरगाद् गतिम्॥
मूलम्
ततस्त8मन्तर्हृदि संनिवेश्य गतो महाभागवतो विशालाम्।
यथोपदिष्टां जगदेकबन्धुना तपः समास्थाय हरेरगाद् गतिम्॥ ४७ ॥
अनुवाद (हिन्दी)
भगवान्के परमप्रेमी भक्त उद्धवजी हृदयमें उनकी दिव्य छबि धारण किये बदरिकाश्रम पहुँचे और वहाँ उन्होंने तपोमय जीवन व्यतीत करके जगत्के एकमात्र हितैषी भगवान् श्रीकृष्णके उपदेशानुसार उनकी स्वरूपभूत परमगति प्राप्त की॥ ४७॥
श्रीसुदर्शनसूरिः
विशालां बदरीम् अनात्मकमिति पाठे अगात् अनुध्यादित्यर्थः ॥ ४७ ॥
वीरराघवः
कथं ययौ गत्वा च किं तत्राकरोद् इत्य् अत आह । तत इति तं भगवन्तं हृदि सं-निवेश्य ध्यानेन हृदि-स्थं कृत्वा विशालां बदर्य्-आश्रमं गतः तत्र जगद्-एक-बन्धुना यथोपदिष्टं तथा तपः समास्थाय हरेर् गतिम् अगात् अतिक्रम्य गतीस् तिस्रो माम् एष्यसि ततः परम् इति भगवत्-सङ्कल्पस्य दृढ-तरत्व-ज्ञापनायागाद् इति भूत-निर्देशः अन्यथा नोद्धवोऽण्व् अपि मन् न्यूनो यद् गुणैर् नार्दितः प्रभुः । अतो मद्-वयुनं लोकं ग्राहयन्न् इह तिष्ठतु इति तृतीयेन सह विरोधापत्तेः ॥ ४७ ॥
श्लोक-४८
विश्वास-प्रस्तुतिः
य एतदानन्दसमुद्रसम्भृतं
ज्ञानामृतं भागवताय भाषितम्।
कृष्णेन योगेश्वरसेविताङ्घ्रिणा
सच्छ्रद्धयाऽऽसेव्य जगद् विमुच्यते॥
मूलम्
य एतदानन्दसमुद्रसम्भृतं ज्ञानामृतं भागवताय भाषितम्।
कृष्णेन योगेश्वरसेविताङ्घ्रिणा सच्छ्रद्धयाऽऽसेव्य जगद् विमुच्यते॥ ४८ ॥
अनुवाद (हिन्दी)
भगवान् शंकर आदि योगेश्वर भी सच्चिदानन्दस्वरूप भगवान् श्रीकृष्णके चरणोंकी सेवा किया करते हैं। उन्होंने स्वयं श्रीमुखसे अपने परमप्रेमी भक्त उद्धवके लिये इस ज्ञानामृतका वितरण किया। यह ज्ञानामृत आनन्दमहासागरका सार है। जो श्रद्धाके साथ इसका सेवन करता है, वह तो मुक्त हो ही जाता है, उसके संगसे सारा जगत् मुक्त हो जाता है॥ ४८॥
श्रीसुदर्शनसूरिः
य एतदिति । यः कश्चिदित्यर्थः यद्वा यः स्वदते स आसेव्यमुच्यते इत्यन्वयः ॥ ४८-४९ ॥
इति श्रीमद्भागवतव्याख्याने एकादशस्कन्धीये श्रीसुदर्शनसूरिकृतशुकपक्षीये एकोनत्रिंशोऽध्यायः ॥ २९ ॥
वीरराघवः
भगवद्-उद्धव-सम्वाद-श्रवण-फलम् आह । य एतद् इति । योगीश्वरैः संसेविताव् अङ्घ्री यस्य तेन भगवता आनन्द-समुद्रात् संभृतं निरतिशयानन्द-पर-ब्रह्म-स्वरूपावेदक-निगमान्त-समुद्रात् समुद्धृतं ज्ञानामृतं ज्ञानामृत-वर्षुकं भागवतायोद्धवाय भाषितम् एतद् यः पुमान् आसेव्य वर्त्तते तत्-सम्बन्धाज् जगद् अपि मुच्यते किं पुनः स विमुच्यते इत्य् अर्थः ॥ ४८ ॥
श्लोक-४९
विश्वास-प्रस्तुतिः
भवभयमपहन्तुं ज्ञानविज्ञानसारं
निगमकृदुपजह्रे भृङ्गवद् वेदसारम्।
अमृतमुदधितश्चापाययद् भृत्यवर्गान्
पुरुषमृषभमाद्यं कृष्णसंज्ञं नतोऽस्मि॥
मूलम्
भवभयमपहन्तुं ज्ञानविज्ञानसारं निगमकृदुपजह्रे भृङ्गवद् वेदसारम्।
अमृतमुदधितश्चापाययद् भृत्यवर्गान् पुरुषमृषभमाद्यं कृष्णसंज्ञं नतोऽस्मि॥ ४९ ॥
अनुवाद (हिन्दी)
परीक्षित्! जैसे भौंरा विभिन्न पुष्पोंसे उनका सार-सार मधु संग्रह कर लेता है, वैसे ही स्वयं वेदोंको प्रकाशित करनेवाले भगवान् श्रीकृष्णने भक्तोंको संसारसे मुक्त करनेके लिये यह ज्ञान और विज्ञानका सार निकाला है। उन्हींने जरा-रोगादि भयकी निवृत्तिके लिये क्षीर-समुद्रसे अमृत भी निकाला था तथा इन्हें क्रमशः अपने निवृत्तिमार्गी और प्रवृत्तिमार्गी भक्तोंको पिलाया, वे ही पुरुषोत्तम भगवान् श्रीकृष्ण सारे जगत्के मूल कारण हैं। मैं उनके चरणोंमें नमस्कार करता हूँ॥ ४९॥
अनुवाद (समाप्ति)
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे एकोनत्रिंशोऽध्यायः॥ २९ ॥
वीरराघवः
इत्थम् उपदेशेन महोपकर्त्तारं भगवन्तं प्रणमति मुनिः भव-भयम् इति । यो निगम-कृद् वेद-कृत् “तस्य ह वा एतस्य महतो भूतस्य निःश्वसितम् एतद् यद् ऋग्वेद” इति श्रुत्य् उक्त-रीत्या निःश्वसित-मुखेन निखिल-निगमाविष्कर्त्ता भगवान् ज्ञान-विज्ञाने एव सारः प्रधान-प्रतिपाद्यो यस्मिंस् तम् अमृत-तुल्यं वेद-सारम् उदधितः वेदान्तोदधेर् उद्धृतवान् भृत्य-वर्गम् अपाययच् च तम् आद्यं जगत्-कारणम् श्री-कृष्ण-संज्ञं परम-पुरुषं नतो ऽस्मि ॥ ४९ ॥