[चतुर्विंशोऽध्यायः]
भागसूचना
सांख्ययोग
श्लोक-१
मूलम् (वचनम्)
श्रीभगवानुवाच
विश्वास-प्रस्तुतिः
अथ ते संप्रवक्ष्यामि सांख्यं पूर्वैर्विनिश्चितम्।
यद् विज्ञाय पुमान् सद्यो जह्याद् वैकल्पिकं भ्रमम्॥
मूलम्
अथ ते संप्रवक्ष्यामि सांख्यं पूर्वैर्विनिश्चितम्।
यद् विज्ञाय पुमान् सद्यो जह्याद् वैकल्पिकं भ्रमम्॥
अनुवाद (हिन्दी)
भगवान् श्रीकृष्ण कहते हैं—प्यारे उद्धव! अब मैं तुम्हें सांख्यशास्त्रका निर्णय सुनाता हूँ। प्राचीन कालके बड़े-बड़े ऋषि-मुनियोंने इसका निश्चय किया है। जब जीव इसे भलीभाँति समझ लेता है तो वह भेदबुद्धिमूलक सुख-दुःखादिरूप भ्रमका तत्काल त्याग कर देता है॥ १॥
श्रीसुदर्शनसूरिः
वैकल्पिकं भ्रमम् अज्ञानम् ॥ १ ॥
श्लोक-२
विश्वास-प्रस्तुतिः
आसीज्ज्ञानमथो ह्यर्थ एकमेवाविकल्पितम्।
यदा विवेकनिपुणा आदौ कृतयुगेऽयुगे॥
मूलम्
आसीज्ज्ञानमथो ह्यर्थ एकमेवाविकल्पितम्।
यदा विवेकनिपुणा आदौ कृतयुगेऽयुगे॥
अनुवाद (हिन्दी)
युगोंसे पूर्व प्रलयकालमें आदिसत्ययुगमें और जब कभी मनुष्य विवेकनिपुण होते हैं—इन सभी अवस्थाओंमें यह सम्पूर्ण दृश्य और द्रष्टा, जगत् और जीव विकल्पशून्य किसी प्रकारके भेदभावसे रहित केवल ब्रह्म ही होते हैं॥ २॥
श्रीसुदर्शनसूरिः
ज्ञानं परमात्मस्वरूपम् एकं समाभ्यधिकरहितम् अविकल्पितं महदादिकार्यविशेषरहितं यदेति तदा हरिमिति शेषः कृतयुगेऽपि । किरणं परं ब्रह्मैवोपास्यम् ॥ २ ॥
श्लोक-३
विश्वास-प्रस्तुतिः
तन्मायाफलरूपेण केवलं निर्विकल्पितम्।
वाङ्मनोऽगोचरं सत्यं द्विधा समभवद् बृहत्॥
मूलम्
तन्मायाफलरूपेण केवलं निर्विकल्पितम्।
वाङ्मनोऽगोचरं सत्यं द्विधा समभवद् बृहत्॥
अनुवाद (हिन्दी)
इसमें सन्देह नहीं कि ब्रह्ममें किसी प्रकारका विकल्प नहीं है, वह केवल—अद्वितीय सत्य है; मन और वाणीकी उसमें गति नहीं है। वह ब्रह्म ही माया और उसमें प्रतिबिम्बित जीवके रूपमें—दृश्य और द्रष्टाके रूपमें—दो भागोंमें विभक्त-सा हो गया॥ ३॥
श्रीसुदर्शनसूरिः
केवलं गुणवैषम्यरहितं जात्या दिविकल्परहितं च तत् ब्रह्म मायया प्रमित्या प्रमाणेन फलरूपेण परमप्राप्यतया भातीत्यर्थः । सन्निर्विकारं द्विधा समभवत् द्विप्रकारमभवत् ॥ ३ ॥
श्लोक-४
विश्वास-प्रस्तुतिः
तयोरेकतरो ह्यर्थः प्रकृतिः सोभयात्मिका।
ज्ञानं त्वन्यतमो भावः पुरुषः सोऽभिधीयते॥
मूलम्
तयोरेकतरो ह्यर्थः प्रकृतिः सोभयात्मिका।
ज्ञानं त्वन्यतमो भावः पुरुषः सोऽभिधीयते॥
अनुवाद (हिन्दी)
उनमेंसे एक वस्तुको प्रकृति कहते हैं। उसीने जगत्में कार्य और कारणका रूप धारण किया है। दूसरी वस्तुको, जो ज्ञानस्वरूप है, पुरुष कहते हैं॥ ४॥
श्रीसुदर्शनसूरिः
तयोः प्रकारयोः उभयात्मिका कार्यकारणरूपा ज्ञानं जीवस्वरूपं “विज्ञानं यज्ञं तनुत” इति प्रयोगात्भावः पदार्थः ॥ ४ ॥
श्लोक-५
विश्वास-प्रस्तुतिः
तमो रजः सत्त्वमिति प्रकृतेरभवन् गुणाः।
मया प्रक्षोभ्यमाणायाः पुरुषानुमतेन च॥
मूलम्
तमो रजः सत्त्वमिति प्रकृतेरभवन् गुणाः।
मया प्रक्षोभ्यमाणायाः पुरुषानुमतेन च॥
अनुवाद (हिन्दी)
उद्धवजी! मैंने ही जीवोंके शुभ-अशुभ कर्मोंके अनुसार प्रकृतिको क्षुब्ध किया। तब उससे सत्त्व, रज और तम—ये तीन गुण प्रकट हुए॥ ५॥
श्रीसुदर्शनसूरिः
गुणाः अभवन् विषयाः अभवन् पुरुषानुमतेनेति । अनुशब्दः सन्निधिमात्रपरः ॥ ५ ॥
श्लोक-६
विश्वास-प्रस्तुतिः
तेभ्यः समभवत् सूत्रं महान् सूत्रेण संयुतः।
ततो विकुर्वतो जातोऽहङ्कारो यो विमोहनः॥
मूलम्
तेभ्यः समभवत् सूत्रं महान् सूत्रेण संयुतः।
ततो विकुर्वतो जातोऽहङ्कारो यो विमोहनः॥
अनुवाद (हिन्दी)
उनसे क्रिया-शक्तिप्रधान सूत्र और ज्ञानशक्तिप्रधान महत्तत्त्व प्रकट हुए। वे दोनों परस्पर मिले हुए ही हैं। महत्तत्त्वमें विकार होनेपर अहंकार व्यक्त हुआ। यह अहंकार ही जीवोंको मोहमें डालनेवाला है॥ ६॥
श्रीसुदर्शनसूरिः
तेभ्यः गुणेभ्यः तद्युक्तात्प्रधानादित्यर्थः । सूत्रकार्यजातस्य धारकतया सूत्रेण संयुतः सूत्रस्वभावकत्वेन युक्तः ॥ ६ ॥
श्लोक-७
विश्वास-प्रस्तुतिः
वैकारिकस्तैजसश्च तामसश्चेत्यहं त्रिवृत्।
तन्मात्रेन्द्रियमनसां कारणं चिदचिन्मयः॥
मूलम्
वैकारिकस्तैजसश्च तामसश्चेत्यहं त्रिवृत्।
तन्मात्रेन्द्रियमनसां कारणं चिदचिन्मयः॥
अनुवाद (हिन्दी)
वह तीन प्रकारका है—सात्त्विक, राजस और तामस। अहंकार पंचतन्मात्रा, इन्द्रिय और मनका कारण है; इसलिये वह जड-चेतन—उभयात्मक है॥ ७॥
श्रीसुदर्शनसूरिः
चिदचिन्मय इति । अचित्तत्त्वानां तिलतैलन्यायेन चिद्गर्भत्वप्रदर्शनार्थमेव त्रिवृतः चिदचिन्मयत्वमुक्तम् ॥ ७ ॥
श्लोक-८
विश्वास-प्रस्तुतिः
अर्थस्तन्मात्रिकाज्जज्ञे तामसादिन्द्रियाणि च।
तैजसाद् देवता आसन्नेकादश च वैकृतात्॥
मूलम्
अर्थस्तन्मात्रिकाज्जज्ञे तामसादिन्द्रियाणि च।
तैजसाद् देवता आसन्नेकादश च वैकृतात्॥
अनुवाद (हिन्दी)
तामस अहंकारसे पंचतन्मात्राएँ और उनसे पाँच भूतोंकी उत्पत्ति हुई। तथा राजस अहंकारसे इन्द्रियाँ और सात्त्विक अहंकारसे इन्द्रियोंके अधिष्ठाता ग्यारह देवता प्रकट हुए॥ ८॥
श्रीसुदर्शनसूरिः
तामसादहंकारात्तन्मात्रिकोऽर्थः तन्मात्राणि पञ्चभूतानि च जातानीत्यर्थः ॥ ८-९ ॥
श्लोक-९
विश्वास-प्रस्तुतिः
मया सञ्चोदिता भावाः सर्वे संहत्यकारिणः।
अण्डमुत्पादयामासुर्ममायतनमुत्तमम्॥
मूलम्
मया सञ्चोदिता भावाः सर्वे संहत्यकारिणः।
अण्डमुत्पादयामासुर्ममायतनमुत्तमम्॥
अनुवाद (हिन्दी)
ये सभी पदार्थ मेरी प्रेरणासे एकत्र होकर परस्पर मिल गये और इन्होंने यह ब्रह्माण्ड-रूप अण्ड उत्पन्न किया। यह अण्ड मेरा उत्तम निवासस्थान है॥ ९॥
श्लोक-१०
विश्वास-प्रस्तुतिः
तस्मिन्नहं समभवमण्डे सलिलसंस्थितौ।
मम नाभ्यामभूत् पद्मं विश्वाख्यं तत्र चात्मभूः॥
मूलम्
तस्मिन्नहं समभवमण्डे सलिलसंस्थितौ।
मम नाभ्यामभूत् पद्मं विश्वाख्यं तत्र चात्मभूः॥
अनुवाद (हिन्दी)
जब वह अण्ड जलमें स्थित हो गया, तब मैं नारायणरूपसे इसमें विराजमान हो गया। मेरी नाभिसे विश्वकमलकी उत्पत्ति हुई। उसीपर ब्रह्माका आविर्भाव हुआ॥ १०॥
श्रीसुदर्शनसूरिः
समभवं चतुर्मुखरूपेण समभवं तत्प्रकारं विवृणोति । मम नाभ्यामिति । विश्वाख्यं जगदाख्यम् ॥ १० ॥
श्लोक-११
विश्वास-प्रस्तुतिः
सोऽसृजत्तपसा युक्तो रजसा मदनुग्रहात्।
लोकान् सपालान् विश्वात्मा भूर्भुवः स्वरिति त्रिधा॥
मूलम्
सोऽसृजत्तपसा युक्तो रजसा मदनुग्रहात्।
लोकान् सपालान् विश्वात्मा भूर्भुवः स्वरिति त्रिधा॥
अनुवाद (हिन्दी)
विश्वसमष्टिके अन्तःकरण ब्रह्माने पहले बहुत बड़ी तपस्या की। उसके बाद मेरा कृपा-प्रसाद प्राप्त करके रजोगुणके द्वारा भूः, भुवः, स्वः अर्थात् पृथ्वी, अन्तरिक्ष और स्वर्ग—इन तीन लोकोंकी और इनके लोकपालोंकी रचना की॥ ११॥
श्रीसुदर्शनसूरिः
भुवः अन्तरिक्षम् ॥ ११ - १३ ॥
श्लोक-१२
विश्वास-प्रस्तुतिः
देवानामोक आसीत् स्वर्भूतानां च भुवः पदम्।
मर्त्यादीनां च भूर्लोकः सिद्धानां त्रितयात् परम्॥
मूलम्
देवानामोक आसीत् स्वर्भूतानां च भुवः पदम्।
मर्त्यादीनां च भूर्लोकः सिद्धानां त्रितयात् परम्॥
अनुवाद (हिन्दी)
देवताओंके निवासके लिये स्वर्लोक, भूत-प्रेतादिके लिये भुवर्लोक (अन्तरिक्ष) और मनुष्य आदिके लिये भूर्लोक (पृथ्वीलोक) का निश्चय किया गया। इन तीनों लोकोंसे ऊपर महर्लोक, तपलोक आदि सिद्धोंके निवासस्थान हुए॥ १२॥
श्लोक-१३
विश्वास-प्रस्तुतिः
अधोऽसुराणां नागानां भूमेरोकोऽसृजत् प्रभुः।
त्रिलोक्यां गतयः सर्वाः कर्मणां त्रिगुणात्मनाम्॥
मूलम्
अधोऽसुराणां नागानां भूमेरोकोऽसृजत् प्रभुः।
त्रिलोक्यां गतयः सर्वाः कर्मणां त्रिगुणात्मनाम्॥
अनुवाद (हिन्दी)
सृष्टिकार्यमें समर्थ ब्रह्माजीने असुर और नागोंके लिये पृथ्वीके नीचे अतल, वितल, सुतल आदि सात पाताल बनाये। इन्हीं तीनों लोकोंमें त्रिगुणात्मक कर्मोंके अनुसार विविध गतियाँ प्राप्त होती हैं॥ १३॥
श्लोक-१४
विश्वास-प्रस्तुतिः
योगस्य तपसश्चैव न्यासस्य गतयोऽमलाः।
महर्जनस्तपः सत्यं भक्तियोगस्य मद्गतिः॥
मूलम्
योगस्य तपसश्चैव न्यासस्य गतयोऽमलाः।
महर्जनस्तपः सत्यं भक्तियोगस्य मद्गतिः॥
अनुवाद (हिन्दी)
योग, तपस्या और संन्यासके द्वारा महर्लोक, जनलोक, तपलोक और सत्यलोकरूप उत्तम गति प्राप्त होती है तथा भक्तियोगसे मेरा परम धाम मिलता है॥ १४॥
श्रीसुदर्शनसूरिः
योगस्य प्राणायामाभ्यासादिरूपस्य न्यासस्य संन्यासाश्रमस्य ब्राह्मं संन्यासिनां स्मृतमिति वचनात् मद्गतिः परमपदप्राप्तिः ॥ १४ ॥
श्लोक-१५
विश्वास-प्रस्तुतिः
मया कालात्मना धात्रा कर्मयुक्तमिदं जगत्।
गुणप्रवाह एतस्मिन्नुन्मज्जति निमज्जति॥
मूलम्
मया कालात्मना धात्रा कर्मयुक्तमिदं जगत्।
गुणप्रवाह एतस्मिन्नुन्मज्जति निमज्जति॥
अनुवाद (हिन्दी)
यह सारा जगत् कर्म और उनके संस्कारोंसे युक्त है। मैं ही कालरूपसे कर्मोंके अनुसार उनके फलका विधान करता हूँ। इस गुणप्रवाहमें पड़कर जीव कभी डूब जाता है और कभी ऊपर आ जाता है—कभी उसकी अधोगति होती है और कभी उसे पुण्यवश उच्चगति प्राप्त हो जाती है॥ १५॥
श्रीसुदर्शनसूरिः
धात्रा आराधनभूतकर्मयुक्तमिदं जगत् इति चिदंशो विवक्षितः ॥ १५-१६ ॥
श्लोक-१६
विश्वास-प्रस्तुतिः
अणुर्बृहत् कृशः स्थूलो यो यो भावः प्रसिध्यति।
सर्वोऽप्युभयसंयुक्तः प्रकृत्या पुरुषेण च॥
मूलम्
अणुर्बृहत् कृशः स्थूलो यो यो भावः प्रसिध्यति।
सर्वोऽप्युभयसंयुक्तः प्रकृत्या पुरुषेण च॥
अनुवाद (हिन्दी)
जगत्में छोटे-बड़े, मोटे-पतले—जितने भी पदार्थ बनते हैं, सब प्रकृति और पुरुष दोनोंके संयोगसे ही सिद्ध होते है॥ १६॥
श्लोक-१७
विश्वास-प्रस्तुतिः
यस्तु यस्यादिरन्तश्च स वै मध्यं च तस्य सन्।
विकारो व्यवहारार्थो यथा तैजसपार्थिवाः॥
मूलम्
यस्तु यस्यादिरन्तश्च स वै मध्यं च तस्य सन्।
विकारो व्यवहारार्थो यथा तैजसपार्थिवाः॥
श्रीसुदर्शनसूरिः
अवस्थानामागमापायित्वेऽपि उपादानस्य द्रव्यस्य स्थायित्वमाह । यस्त्विति । यस्य घटादेः यन्मृदादिः आदिः आदिकाले अन्तकाले चास्ति मध्येऽपि स मृदादिरस्ति विकारो व्यवहारार्थः । अवस्थाप्राप्तिस्तु उदकाहरणादि व्यवहारफलात्तत्र घटपटकटकमुकुटादिकं निदर्शयति । यथेति ॥ १७ ॥
श्लोक-१८
विश्वास-प्रस्तुतिः
यदुपादाय पूर्वस्तु भावो विकुरुतेऽपरम्।
आदिरन्तो यदा यस्य तत् सत्यमभिधीयते॥
मूलम्
यदुपादाय पूर्वस्तु भावो विकुरुतेऽपरम्।
आदिरन्तो यदा यस्य तत् सत्यमभिधीयते॥
अनुवाद (हिन्दी)
जिसके आदि और अन्तमें जो है, वही बीचमें भी है और वही सत्य है। विकार तो केवल व्यवहारके लिये की हुई कल्पनामात्र है। जैसे कंगन-कुण्डल आदि सोनेके विकार और घड़े-सकोरे आदि मिट्टीके विकार पहले सोना या मिट्टी ही थे, बादमें भी सोना या मिट्टी ही रहेंगे। अतः बीचमें भी वे सोना या मिट्टी ही हैं। पूर्ववर्ती कारण (महत्तत्त्व आदि) भी जिस परम कारणको उपादान बनाकर अपर (अहंकार आदि) कार्य-वर्गकी सृष्टि करते हैं, वही उनकी अपेक्षा भी परम सत्य है। तात्पर्य यह कि जब जो जिस किसी भी कार्यके आदि और अन्तमें विद्यमान रहता है, वही सत्य है॥ १७-१८॥
श्रीसुदर्शनसूरिः
यदुपादाय यदुपादानं कृत्वा भाव: कार्यपदार्थः यदा विकुरुते तस्य तदा स आदिः यस्मिन्नन्तः प्रलयः तद्द्रव्यं सत्यं न त्ववस्थावदागमापायि ॥ १८ ॥
श्लोक-१९
विश्वास-प्रस्तुतिः
प्रकृतिर्ह्यस्योपादानमाधारः पुरुषः परः।
सतोऽभिव्यञ्जकः कालो ब्रह्म तत्त्रितयं त्वहम्॥
मूलम्
प्रकृतिर्ह्यस्योपादानमाधारः पुरुषः परः।
सतोऽभिव्यञ्जकः कालो ब्रह्म तत्त्रितयं त्वहम्॥
अनुवाद (हिन्दी)
इस प्रपंचका उपादान-कारण प्रकृति है, परमात्मा अधिष्ठान है और इसको प्रकट करनेवाला काल है। व्यवहार-कालकी यह त्रिविधता वस्तुतः ब्रह्म-स्वरूप है और मैं वही शुद्ध ब्रह्म हूँ॥ १९॥
श्रीसुदर्शनसूरिः
परः प्रकृतेः परः पुरुषो जीवः स च प्रकृतेराधारः सतः कार्यस्याभिव्यञ्जकः अभिव्यक्तिनिमित्तभूतः ब्रह्मतत्र्त्रितयं स्वयं प्रकृतिपुरुषकालशरीरकजगत्कारणं परं ब्रह्माहमित्यर्थः ॥ १९ ॥
श्लोक-२०
विश्वास-प्रस्तुतिः
सर्गः प्रवर्तते तावत् पौर्वापर्येण नित्यशः।
महान् गुणविसर्गार्थः स्थित्यन्तो यावदीक्षणम्॥
मूलम्
सर्गः प्रवर्तते तावत् पौर्वापर्येण नित्यशः।
महान् गुणविसर्गार्थः स्थित्यन्तो यावदीक्षणम्॥
अनुवाद (हिन्दी)
जबतक परमात्माकी ईक्षणशक्ति अपना काम करती रहती है, जबतक उनकी पालन-प्रवृत्ति बनी रहती है, तबतक जीवोंके कर्मभोगके लिये कारण-कार्यरूपसे अथवा पिता-पुत्रादिके रूपसे यह सृष्टिचक्र निरन्तर चलता रहता है॥ २०॥
श्रीसुदर्शनसूरिः
कार्यस्य जगतः प्रवाहनित्यत्वमाह । सर्ग इति । गुणविसर्गार्थः स्थित्यन्तः गुणत्रयाधानो विसर्गः सृष्टिः स एवार्थः स्थितिरन्तश्च यस्य सः महानिति उपलक्षणं गुणाधीनोत्पत्त्यादिप्रपञ्चो नित्यशः प्रवर्त्तते यावदीक्षणं मत्सङ्कल्यो यावत्तावत्प्रवर्त्तते इत्यर्थः ॥ २० ॥
श्लोक-२१
विश्वास-प्रस्तुतिः
विराण्मयाऽऽसाद्यमानो लोककल्पविकल्पकः।
पञ्चत्वाय विशेषाय कल्पते भुवनैः सह॥
मूलम्
विराण्मयाऽऽसाद्यमानो लोककल्पविकल्पकः।
पञ्चत्वाय विशेषाय कल्पते भुवनैः सह॥
अनुवाद (हिन्दी)
यह विराट् ही विविध लोकोंकी सृष्टि, स्थिति और संहारकी लीलाभूमि है। जब मैं कालरूपसे इसमें व्याप्त होता हूँ, प्रलयका संकल्प करता हूँ, तब यह भुवनोंके साथ विनाशरूप विभागके योग्य हो जाता है॥ २१॥
श्रीसुदर्शनसूरिः
अथ प्रलय उच्यते । विराडिति । लोककल्पविकल्पकः पृथिव्यादिलोकक्लृप्तिरूपविकल्पवान् विराड् ब्रह्माण्डं सह्यमानः सहभाव नीयमानः पञ्चत्वाय विशेषाय विनाशरूपावस्थाविशेषप्राप्यै कल्प्यत इत्यर्थः ॥ २१ ॥
श्लोक-२२
विश्वास-प्रस्तुतिः
अन्ने प्रलीयते मर्त्यमन्नं धानासु लीयते।
धाना भूमौ प्रलीयन्ते भूमिर्गन्धे प्रलीयते॥
मूलम्
अन्ने प्रलीयते मर्त्यमन्नं धानासु लीयते।
धाना भूमौ प्रलीयन्ते भूमिर्गन्धे प्रलीयते॥
अनुवाद (हिन्दी)
उसके लीन होनेकी प्रक्रिया यह है कि प्राणियोंके शरीर अन्नमें, अन्न बीजमें, बीज भूमिमें और भूमि गन्ध-तन्मात्रामें लीन हो जाती है॥ २२॥
श्रीसुदर्शनसूरिः
अन्ने प्रलीयते मर्त्यमिति मर्त्यशब्दः शरीरपरः ननु परस्य मुक्तत्वापत्तिवच्छरीरस्य नानात्वावस्थापत्तिर्द्दश्यते अन्नस्य धानासु लयश्चानुपपन्नः दह्योदनं हित्वा धाना भवन्ति नैवं लीयन्ते इत्यध्याहारेण योजनीयत्वात् अन्ने लीने शरीरं लीनं भवति आहाराभावाच्छरीरनाश इत्यर्थः । अतः परं स्वारसिक एवार्थ अन्नं धानासु लीयते धानासु लीनासु अन्नं नष्टं भवति प्रकृतिद्रव्याभावादित्यर्थः । उपपन्नः भूमिर्गन्धे प्रलीयते इति गन्धशब्दर सरूपादिशब्दास्तन्मात्रपराः अम्बरं शब्दतन्मात्रे इत्यनन्तरोक्तेः इन्द्रियाणीत्यादि ननु इन्द्रियाणां योनय इति काश्चित्सन्ति नैव तासां कारणं मनः समनस्कानामिन्द्रियाणां योनय इति काश्चित्सन्ति नैव तासां कारणं मनः समनस्कानामिन्द्रियाणामाहङ्कारिकत्वात् अतो मनसि प्रलयश्चानुपपन्नः सत्यम् एवमस्य प्रन्थस्य योजनात्तदिन्द्रियकारेण-भूताहंकारद्रव्यैकदेशा योनिशब्देनोच्यन्ते तस्मिन्मनसि स्वकारणे होयमाने तेन सह सर्वन्द्रियारम्भकांशा वैकारिकं सात्त्विकाहंकारे लीयन्त इत्यर्थः । ईश्वरशब्दः कारणमात्रपरः शब्दस्तन्मात्रं भूतादिस्तामसः ॥ २२-२५ ॥
श्लोक-२३
विश्वास-प्रस्तुतिः
अप्सु प्रलीयते गन्ध आपश्च स्वगुणे रसे।
लीयते ज्योतिषि रसो ज्योती रूपे प्रलीयते॥
मूलम्
अप्सु प्रलीयते गन्ध आपश्च स्वगुणे रसे।
लीयते ज्योतिषि रसो ज्योती रूपे प्रलीयते॥
अनुवाद (हिन्दी)
गन्ध जलमें, जल अपने गुण रसमें, रस तेजमें और तेज रूपमें लीन हो जाता है॥ २३॥
श्लोक-२४
विश्वास-प्रस्तुतिः
रूपं वायौ स च स्पर्शे लीयते सोऽपि चाम्बरे।
अम्बरं शब्दतन्मात्र इन्द्रियाणि स्वयोनिषु॥
मूलम्
रूपं वायौ स च स्पर्शे लीयते सोऽपि चाम्बरे।
अम्बरं शब्दतन्मात्र इन्द्रियाणि स्वयोनिषु॥
अनुवाद (हिन्दी)
रूप वायुमें, वायु स्पर्शमें, स्पर्श आकाशमें तथा आकाश शब्दतन्मात्रामें लीन हो जाता है। इन्द्रियाँ अपने कारण देवताओंमें और अन्ततः राजस अहंकारमें समा जाती हैं॥ २४॥
श्लोक-२५
विश्वास-प्रस्तुतिः
योनिर्वैकारिके सौम्य लीयते मनसीश्वरे।
शब्दो भूतादिमप्येति भूतादिर्महति प्रभुः॥
मूलम्
योनिर्वैकारिके सौम्य लीयते मनसीश्वरे।
शब्दो भूतादिमप्येति भूतादिर्महति प्रभुः॥
अनुवाद (हिन्दी)
हे सौम्य! राजस अहंकार अपने नियन्ता सात्त्विक अहंकाररूप मनमें, शब्दतन्मात्रा पंचभूतोंके कारण तामस अहंकारमें और सारे जगत्को मोहित करनेमें समर्थ त्रिविध अहंकार महत्तत्त्वमें लीन हो जाता है॥ २५॥
श्लोक-२६
विश्वास-प्रस्तुतिः
स लीयतेमहान्स्वेषु गुणेषु गुणवत्तमः।
तेऽव्यक्ते संप्रलीयन्ते तत् काले लीयतेऽव्यये॥
मूलम्
स लीयतेमहान्स्वेषु गुणेषु गुणवत्तमः।
तेऽव्यक्ते संप्रलीयन्ते तत् काले लीयतेऽव्यये॥
अनुवाद (हिन्दी)
ज्ञानशक्ति और क्रियाशक्तिप्रधान महत्तत्त्व अपने कारण गुणोंमें लीन हो जाता है। गुण अव्यक्त प्रकृतिमें और प्रकृति अपने प्रेरक अविनाशी कालमें लीन हो जाती है॥ २६॥
श्रीसुदर्शनसूरिः
ननु महत्तत्त्वं द्रव्यं गुणेषु कथं तस्य लय इत्युच्यते गुणेषु उपरतेषु महान् लीयते गुणाश्चोपरतवैषम्या अव्यक्ते वर्तन्त इत्यर्थः । तदव्यक्तं काले लीयते कालेन सह संसृष्टं भवतीत्यर्थः ॥ २६ ॥
श्लोक-२७
विश्वास-प्रस्तुतिः
कालो मायामये जीवे जीव आत्मनि मय्यजे।
आत्मा केवल आत्मस्थो विकल्पापायलक्षणः॥
मूलम्
कालो मायामये जीवे जीव आत्मनि मय्यजे।
आत्मा केवल आत्मस्थो विकल्पापायलक्षणः॥
अनुवाद (हिन्दी)
काल मायामय जीवमें और जीव मुझ अजन्मा आत्मामें लीन हो जाता है। आत्मा किसीमें लीन नहीं होता, वह उपाधिरहित अपने स्वरूपमें ही स्थित रहता है। वह जगत्की सृष्टि और लयका अधिष्ठान एवं अवधि है॥ २७॥
श्रीसुदर्शनसूरिः
कालस्याव्यक्तप्रकृतित्वाभावात् मायामये प्रकृतिसंसृष्टे जीवे कालो लीयते कालो जीवेन सह संसृष्टो भवतीत्यर्थः । आत्मनि अन्तरात्मनि आत्मा अहं केवलः महदादिकार्य समष्टिरहित इत्यर्थः । विकल्पापायलक्षणः देवादिव्यष्टिरहितः आत्मस्थः आधारान्तरनिरपेक्षः ॥ २७ ॥
श्लोक-२८
विश्वास-प्रस्तुतिः
एवमन्वीक्षमाणस्य कथं वैकल्पिको भ्रमः।
मनसो हृदि तिष्ठेत व्योम्नीवार्कोदये तमः॥
मूलम्
एवमन्वीक्षमाणस्य कथं वैकल्पिको भ्रमः।
मनसो हृदि तिष्ठेत व्योम्नीवार्कोदये तमः॥
अनुवाद (हिन्दी)
उद्धवजी! जो इस प्रकार विवेकदृष्टिसे देखता है उसके चित्तमें यह प्रपंचका भ्रम हो ही नहीं सकता। यदि कदाचित् उसकी स्फूर्ति हो भी जाय तो वह अधिक कालतक हृदयमें ठहर कैसे सकता है? क्या सूर्योदय होनेपर भी आकाशमें अन्धकार ठहर सकता है॥ २८॥
श्रीसुदर्शनसूरिः
एवमिति । प्रकृतिपुरुष कालेश्वरविवेकमीक्षणस्येत्यर्थः । वैकल्पिकः स्थूलोऽहमित्यादिविकल्पविषयः ॥ २८ ॥
श्लोक-२९
विश्वास-प्रस्तुतिः
एष सांख्यविधिः प्रोक्तः संशयग्रन्थिभेदनः।
प्रतिलोमानुलोमाभ्यां परावरदृशा मया॥
मूलम्
एष सांख्यविधिः प्रोक्तः संशयग्रन्थिभेदनः।
प्रतिलोमानुलोमाभ्यां परावरदृशा मया॥
अनुवाद (हिन्दी)
उद्धवजी! मैं कार्य और कारण दोनोंका ही साक्षी हूँ। मैंने तुम्हें सृष्टिसे प्रलय और प्रलयसे सृष्टितककी सांख्यविधि बतला दी। इससे सन्देहकी गाँठ कट जाती है और पुरुष अपने स्वरूपमें स्थित हो जाता है॥ २९॥
श्रीसुदर्शनसूरिः
प्रतिलोमानुलोमाभ्यां सर्गसंहारकर्मभ्याम् ॥ २९ ॥
इति श्रीमद्भागवतव्याख्याने एकादशस्कन्धीये श्रीसुदर्शनसूरिकृतशुकपक्षीये चतुर्विंशोऽध्यायः ॥ २४ ॥
अनुवाद (समाप्ति)
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे चतुर्विंशोऽध्यायः॥ २४॥