१४ ब्रह्मस्तुतिः

[चतुर्दशोऽध्यायः]

भागसूचना

ब्रह्माजीके द्वारा भगवान‍्की स्तुति

श्लोक-१

मूलम् (वचनम्)

ब्रह्मोवाच

विश्वास-प्रस्तुतिः

नौमीड्य तेऽभ्रवपुषे तडिदम्बराय
गुञ्जावतंसपरिपिच्छलसन्मुखाय।
वन्यस्रजे कवलवेत्रविषाणवेणु-
लक्ष्मश्रिये मृदुपदे पशुपाङ्गजाय॥

मूलम्

नौमीड्य तेऽभ्रवपुषे तडिदम्बराय
गुञ्जावतंसपरिपिच्छलसन्मुखाय।
वन्यस्रजे कवलवेत्रविषाणवेणु-
लक्ष्मश्रिये मृदुपदे पशुपाङ्गजाय॥

अनुवाद (हिन्दी)

ब्रह्माजीने स्तुति की—प्रभो! एकमात्र आप ही स्तुति करनेयोग्य हैं। मैं आपके चरणोंमें नमस्कार करता हूँ। आपका यह शरीर वर्षाकालीन मेघके समान श्यामल है, इसपर स्थिर बिजलीके समान झिलमिल-झिलमिल करता हुआ पीताम्बर शोभा पाता है, आपके गलेमें घुँघचीकी माला, कानोंमें मकराकृति कुण्डल तथा सिरपर मोरपंखोंका मुकुट है, इन सबकी कान्तिसे आपके मुखपर अनोखी छटा छिटक रही है। वक्षःस्थलपर लटकती हुई वनमाला और नन्ही-सी हथेलीपर दही-भातका कौर। बगलमें बेंत और सिंगी तथा कमरकी फेंटमें आपकी पहचान बतानेवाली बाँसुरी शोभा पा रही है। आपके कमल-से सुकोमल परम सुकुमार चरण और यह गोपाल-बालकका सुमधुर वेष। (मैं और कुछ नहीं जानता; बस, मैं तो इन्हीं चरणोंपर निछावर हूँ)॥ १॥

श्रीसुदर्शनसूरिः

चत्वारिंशत्सङख्यपद्यैर्ब्रह्मा कृष्णं स्तुवन्प्रभुम् ।
स्वरूपोपायसाध्यानि विविच्याह चतुर्दशे ॥ १ ॥

तत्र तावद् ब्रह्माऽष्टाभिः स्वरूपरूपगुणविभूतिविवेकं कर्मज्ञानभक्तिप्रपत्तिविवेकं च स्पष्टयति-तत्तद्वादिनिरासश्चार्थप्राप्त एवेति तत्र प्रयत्यते, तत्र प्रथमेन स्वरूपादपि रूपस्याऽभ्यर्हितत्वमाह - नौमीति । हे ईड्य ! स्तुत्य ! अहं ते त्वदर्थं त्वां नौमि स्तौमि प्रणमामि चेति अनेन माधवस्यैवोपायोपेयत्वं व्यञ्जितम् । श्रीभगवद्रूपस्य भक्त्यवलम्बनत्वात् तस्य स्वरूपादपि परमभोग्यत्वमाह, अभ्रवपुषे अभ्रवत् श्यामसुन्दराय तडिदम्बराय तडिद्वत्पीताम्बरद्वयं गुञ्जामालिकयाऽवतंसः कर्णावतंसः परिपिच्छं परितः सर्वतः वर्त्तमानं पिच्छंजात्यैकत्वं बहुमयूरचन्द्रिकारचितं मुकुटं तेन लसत् शोभमानं मुखं यस्य तस्मै, वन्या वने भवा वनमाला आपादलम्बिनी स्रग्यस्य तस्मै एतेषां पदानां सत्त्वतमोमयरजस्तमोमयान्तःकरणस्याऽपि स्वदर्शनकर्तुः स्वकर्णप्रान्तलग्नत्वम् “उदाराः सर्व एवैते " इति न्यायेन अहृदयपूर्वकं स्वदर्शनकर्तृनेत्राणां चन्द्रिकारूपतया शिरोधारणम् अज्ञाद्यर्पितपत्रपुष्पवन्यमालादीनामपि चरणधार्यत्वादिकमत्र व्यङ्ग्यं ज्ञेयम् । अश्नामीति वर्त्तमाननिर्देशसार्थक्यायैव कवलं केवलकर्म-जडानां पशूनां ताडनाय वेत्रम्, तेषामेव स्वज्ञापनाय उच्चशब्दकारिविषाणं स्वसङ्केतितार्थज्ञानिष्वात्मभूतप्रियनित्यवर्गेषु स्वाभिप्रायव्यञ्जकशब्दं वेणुं तेषां नित्यसंश्लेषव्यञ्जकं श्रीवत्सलक्ष्म तत्सम्बन्धिस्मारकत्वन्यायेन श्रीश्च एतैः श्रीः शोभा यस्य तस्मै कोमलवालुकस्वधामश्रीवृन्दावनशैत्यकारिणी मृदुनी पदे यस्य तस्मै नौमीति शरणागतस्य मेऽञ्जलिबन्धमात्रेणाऽपराधं क्षमस्वेति पशवः पालाश्च स्वसङ्कल्पजाता यस्य तस्मै पशुपः शिवः अङ्गजः शरीरभूतब्रह्मणः जातो यस्य तस्मै इति वा एवं प्रथम पद्यव्यञ्जितं सुधीभिरनुभाव्यं नन्दस्याङ्गजः मानसः पुत्रतुल्यसुखदयितया पुत्र इव अङ्गभूर्मानसः पुत्र” इति कोशात् ॥ १ ॥

श्लोक-२

विश्वास-प्रस्तुतिः

अस्यापि देव वपुषो मदनुग्रहस्य
स्वेच्छामयस्य न तु भूतमयस्य कोऽपि।
नेशे महि त्ववसितुं मनसाऽऽन्तरेण
साक्षात्तवैव किमुतात्मसुखानुभूतेः॥

मूलम्

अस्यापि देव वपुषो मदनुग्रहस्य
स्वेच्छामयस्य न तु भूतमयस्य कोऽपि।
नेशे महि त्ववसितुं मनसाऽऽन्तरेण
साक्षात्तवैव किमुतात्मसुखानुभूतेः॥

अनुवाद (हिन्दी)

स्वयंप्रकाश परमात्मन्! आपका यह श्रीविग्रह भक्तजनोंकी लालसा-अभिलाषा पूर्ण करनेवाला है। यह आपकी चिन्मयी इच्छाका मूर्तिमान् स्वरूप मुझपर आपका साक्षात् कृपा-प्रसाद है। मुझे अनुगृहीत करनेके लिये ही आपने इसे प्रकट किया है। कौन कहता है कि यह पंचभूतोंकी रचना है? प्रभो! यह तो अप्राकृत शुद्ध सत्त्वमय है। मैं या और कोई समाधि लगाकर भी आपके इस सच्चिदानन्द-विग्रहकी महिमा नहीं जान सकता। फिर आत्मानन्दानुभवस्वरूप साक्षात् आपकी ही महिमाको तो कोई एकाग्रमनसे भी कैसे जान सकता है॥ २॥

श्रीसुदर्शनसूरिः

रूपविवेकमनुवदन्स्वरूपविवेकमाह हे देव ! क्रीडाप्रवृत्त ! मय्यनुग्रहो यस्मात्तन्मदनुग्रहं तस्य स्वेच्छामयस्य स्वसङ्कल्पप्रचुरस्य स्वसङ्कल्पस्यैव सर्वरूपाविर्भावकारणत्वात् नतु पाञ्चभौतिकस्य कः ब्रह्मा अहमपि जीव इति वा नेशे न समर्थः महि माहात्म्यवतः अस्य शुद्धसत्त्वस्य वपुषोऽपीत्यनेनावतारविग्रहाणां सर्वेषां गुणविभूतीनाञ्च मह्यवसितुं न शक्यमिति भावः । भगवत्स्वरूपज्ञानदौर्लभ्येऽपि तत्प्राप्त्युपायं कैमुत्येनाह, आत्मसुखानुभूतेः स्वस्वरूपानन्दानुभवकर्तुः साक्षात्सच्चिदानन्दस्वरूपगुणविभूतिकस्य अत एव तवैव मनसा सङ्कल्पमन्तरेण विना साक्षान्महि अवसितुमहं कोऽपि नेशे इति किमुत वक्तव्यं त्वत्स्वरूपज्ञानन्तु त्वदिच्छयैवेति भावः ॥ २ ॥

श्लोक-३

विश्वास-प्रस्तुतिः

ज्ञाने प्रयासमुदपास्य नमन्त एव
जीवन्ति सन्मुखरितां भवदीयवार्ताम्।
स्थाने स्थिताः श्रुतिगतां तनुवाङ्मनोभि-
र्ये प्रायशोऽजित जितोऽप्यसि तैस्त्रिलोक्याम्॥

मूलम्

ज्ञाने प्रयासमुदपास्य नमन्त एव
जीवन्ति सन्मुखरितां भवदीयवार्ताम्।
स्थाने स्थिताः श्रुतिगतां तनुवाङ्मनोभि-
र्ये प्रायशोऽजित जितोऽप्यसि तैस्त्रिलोक्याम्॥

अनुवाद (हिन्दी)

प्रभो! जो लोग ज्ञानके लिये प्रयत्न न करके अपने स्थानमें ही स्थित रहकर केवल सत्संग करते हैं और आपके प्रेमी संत पुरुषोंके द्वारा गायी हुई आपकी लीला-कथाका, जो उन लोगोंके पास रहनेसे अपने-आप सुननेको मिलती है, शरीर, वाणी और मनसे विनयावनत होकर सेवन करते हैं—यहाँतक कि उसे ही अपना जीवन बना लेते हैं, उसके बिना जी ही नहीं सकते—प्रभो! यद्यपि आपपर त्रिलोकीमें कोई कभी विजय नहीं प्राप्त कर सकता, फिर भी वे आपपर विजय प्राप्त कर लेते हैं, आप उनके प्रेमके अधीन हो जाते हैं॥ ३॥

श्रीसुदर्शनसूरिः

कर्मणां विवेकमाह-ज्ञान इति । पूर्वोक्तभगवत्स्वरूपज्ञाने प्रयासं श्रमम् उदपास्य त्यक्त्वा नमन्त एव भक्तिपूर्वकं नमनं कुर्वन्त एव ये जीवन्ति तनुवाङ्मनोभिः स्थानस्थिताः वर्णाश्रमधर्मस्थाः श्रुतिगतां वेदप्रोक्तां सद्भिर्मुखरितां भवदीयवार्त्तां त्वदीयवार्त्तां च शृण्वन्तीत्यध्याहारः । तैरपि त्रिलोक्याम् अजितस्त्वं जिताऽसि एवं स्वरूपज्ञानस्य दुर्ज्ञेयत्वं वर्णाश्रमकर्मणां भक्त्युत्पादकत्वं भक्तेरेव भगवद्वशीकारित्वं गुणभवणस्य भक्त्युपायत्वं चोक्तम् ॥ ३ ॥

श्लोक-४

विश्वास-प्रस्तुतिः

श्रेयःस्रुतिं भक्तिमुदस्य ते विभो
क्लिश्यन्ति ये केवलबोधलब्धये।
तेषामसौ क्लेशल एव शिष्यते
नान्यद्यथा स्थूलतुषावघातिनाम्॥

मूलम्

श्रेयःस्रुतिं भक्तिमुदस्य ते विभो
क्लिश्यन्ति ये केवलबोधलब्धये।
तेषामसौ क्लेशल एव शिष्यते
नान्यद्यथा स्थूलतुषावघातिनाम्॥

अनुवाद (हिन्दी)

भगवन्! आपकी भक्ति सब प्रकारके कल्याणका मूलस्रोत— उद‍्गम है। जो लोग उसे छोड़कर केवल ज्ञानकी प्राप्तिके लिये श्रम उठाते और दुःख भोगते हैं, उनको बस, क्लेश-ही क्लेश हाथ लगता है, और कुछ नहीं—जैसे थोथी भूसी कूटनेवालेको केवल श्रम ही मिलता है, चावल नहीं॥ ४॥

श्रीसुदर्शनसूरिः

इदानीं भक्तेरुत्तमोपायत्वं केवलात्मज्ञानस्य " क्लेशोऽधिकतरस्तेषाम्" इत्युक्तश्रमावहत्वं चाह - श्रेयःसृतिमिति । भुक्तिमुक्तिरूपं श्रेयः भक्ति परस्नेहरूपानुदस्य ये केवलस्यात्मनः बोधलब्धये केवलात्मज्ञानार्थं क्लिश्यन्ति न तु श्रीभगवज्ज्ञानार्थं तेषामसौ देवतिर्यङ्गमनुष्यस्थावरशरीरविलक्षणात्मबोधः क्लेश एव क्लेशल: क्लेशदायी एव शिष्यते यथा स्थूलतुषावघातः क्लेशदायी अन्यत्सुखं नेति तद्वत् अनेन ज्ञानविवेक उक्तः ॥ ४ ॥

श्लोक-५

विश्वास-प्रस्तुतिः

पुरेह भूमन् बहवोऽपि योगिन-
स्त्वदर्पितेहा निजकर्मलब्धया।
विबुध्य भक्त्यैव कथोपनीतया
प्रपेदिरेऽञ्जोऽच्युत ते गतिं पराम्॥

मूलम्

पुरेह भूमन् बहवोऽपि योगिन-
स्त्वदर्पितेहा निजकर्मलब्धया।
विबुध्य भक्त्यैव कथोपनीतया
प्रपेदिरेऽञ्जोऽच्युत ते गतिं पराम्॥

अनुवाद (हिन्दी)

हे अच्युत! हे अनन्त! इस लोकमें पहले भी बहुत-से योगी हो गये हैं। जब उन्हें योगादिके द्वारा आपकी प्राप्ति न हुई, तब उन्होंने अपने लौकिक और वैदिक समस्त कर्म आपके चरणोंमें समर्पित कर दिये। उन समर्पित कर्मोंसे तथा आपकी लीला-कथासे उन्हें आपकी भक्ति प्राप्त हुई। उस भक्तिसे ही आपके स्वरूपका ज्ञान प्राप्त करके उन्होंने बड़ी सुगमतासे आपके परमपदकी प्राप्ति कर ली॥ ५॥

श्रीसुदर्शनसूरिः

पुरेह इति । फलनिगमनेन पूर्वोक्तमेव ज्ञानं स्फुटीकृतं योगिनः कर्मयोगिनः निजवर्णाश्रमधर्मप्राप्तया भक्त्या विबुद्ध्य विशेषेण त्वज्ज्ञानं प्राप्य ते परां गतिं त्वत्सम्बन्धिनीमर्चिरादिमार्गेण परमपदगतिं प्रकर्षेण प्रापुरिति, कीदृशाः त्वदर्पितेहाः त्वय्येवार्पितसकलचिन्तितनिमिषितादिकर्माणः “यत्करोषि" इत्यादिप्रामाण्यात् ॥ ५ ॥

श्लोक-६

विश्वास-प्रस्तुतिः

तथापि भूमन् महिमागुणस्य ते
विबोद‍्धुमर्हत्यमलान्तरात्मभिः।
अविक्रियात् स्वानुभवादरूपतो
ह्यनन्यबोध्यात्मतया न चान्यथा॥

मूलम्

तथापि भूमन् महिमागुणस्य ते
विबोद‍्धुमर्हत्यमलान्तरात्मभिः।
अविक्रियात् स्वानुभवादरूपतो
ह्यनन्यबोध्यात्मतया न चान्यथा॥

अनुवाद (हिन्दी)

हे अनन्त! आपके सगुण-निर्गुण दोनों स्वरूपोंका ज्ञान कठिन होनेपर भी निर्गुण स्वरूपकी महिमा इन्द्रियोंका प्रत्याहार करके शुद्धान्तःकरणसे जानी जा सकती है। (जाननेकी प्रक्रिया यह है कि) विशेष आकारके परित्यागपूर्वक आत्माकार अन्तःकरणका साक्षात्कार किया जाय। यह आत्माकारता घट-पटादि रूपके समान ज्ञेय नहीं है, प्रत्युत आवरणका भंगमात्र है। यह साक्षात्कार ‘यह ब्रह्म है’, ‘मैं ब्रह्मको जानता हूँ’ इस प्रकार नहीं, किन्तु स्वयंप्रकाश रूपसे ही होता है॥ ६॥

श्रीसुदर्शनसूरिः

इदानीं तव स्वरूपलीलाविभूतिसर्वचिदचिद्व्यापकपरमात्मरूपतयावर्त्तमानस्य ज्ञानं सुशकमित्याह - तथेति । अगुणस्य त्रिगुणविलक्षणस्य ते परमात्मनः महिमा सर्वस्थूलावस्थचेतनाचेतनव्यापकत्वं विबोद्धुं ज्ञातुमर्हति योग्यो भवति । कैः अमलान्तरात्मभिः निर्मलैरन्तःकरणैः मनोबुद्धिचित्तैः कुतो हेतोः विक्रियारहितात् स्वानुभवात् आत्मनो जीवस्यानुभवात् देहेन्द्रियादिविलक्षणस्ववैलक्षण्यानुसन्धानेन परमात्मनोऽपि वैलक्षण्यानुसन्धानं भवति, एतदेव हेतुभिरुच्यते । ननु, स्वानुभवस्तु देहसम्बन्धेनैव स्थूलोऽहमित्यादिकः कथम् ? तेन परमात्मवैलक्षण्यानुसन्धानम् इत्यत्राह, अरूपतः आत्मनोऽप्यणुपरिमाणान्यरूपाभावात् । ननु, रूपं देहादिक विनात्मन इव कथं तद्ज्ञानं ? तत्राह - अनन्यबोध्यात्मतया इति । अन्येन श्रीभगवदन्येन भगवद्बहिर्मुखेनेति यावत् न अन्येन बोध्यश्चासौ आत्मा अनन्यबोध्यात्मा तस्य भावस्तत्ता तया असौ परमात्मा स्वबहिर्मुखेन न बोध्य इत्यर्थः । अथवा अनन्यैः देवतान्तरकर्मान्तरप्रयोजनान्तरशून्यैर्बोध्यस्वरूपतया तद्ज्ञानं नान्यथात् चकारः सर्वथाऽसिद्धिमेव वदति । अथवा न अन्यत्वेन बोध्य आत्मा स्वरूपं यस्य सः तस्य भावस्तत्ता तया स्वात्मशरीरितया स्वशेषित्वेन स्वाधारतया च बोध्यस्वरूपतः न चान्यथा तज्ज्ञानम् इति पर्यवसन्नोऽर्थः ॥ ६ ॥

श्लोक-७

विश्वास-प्रस्तुतिः

गुणात्मनस्तेऽपि गुणान् विमातुं
हितावतीर्णस्य क ईशिरेऽस्य।
कालेन यैर्वा विमिताः सुकल्पै-
र्भूपांसवः खे मिहिका द्युभासः॥

मूलम्

गुणात्मनस्तेऽपि गुणान् विमातुं
हितावतीर्णस्य क ईशिरेऽस्य।
कालेन यैर्वा विमिताः सुकल्पै-
र्भूपांसवः खे मिहिका द्युभासः॥

अनुवाद (हिन्दी)

परन्तु भगवन्! जिन समर्थ पुरुषोंने अनेक जन्मोंतक परिश्रम करके पृथ्वीका एक-एक परमाणु, आकाशके हिमकण (ओसकी बूँदें) तथा उसमें चमकनेवाले नक्षत्र एवं तारोंतकको गिन डाला है—उनमें भी भला, ऐसा कौन हो सकता है जो आपके सगुण स्वरूपके अनन्त गुणोंको गिन सके? प्रभो! आप केवल संसारके कल्याणके लिये ही अवतीर्ण हुए हैं। सो भगवन्! आपकी महिमाका ज्ञान तो बड़ा ही कठिन है॥ ७॥

श्रीसुदर्शनसूरिः

गुणविभूत्योर्विवेकं तन्त्रेणाह - गुणात्मनः गुणपरिणामरूपस्यास्य प्रपञ्चस्य हितायाऽवतीर्णस्य सर्वज्ञत्वकारणत्वादिविशिष्टस्य ते विभूतिविशिष्टस्य च गुणान्विमातुं ये ईशिरे ते के सुकल्पैः यैरेते भूपांसवः खे मिहिका हिमकणाः द्युभासः नक्षत्राणि च कालेन विमिताः गणिता इति ॥ ७ ॥

श्लोक-८

विश्वास-प्रस्तुतिः

तत्तेऽनुकम्पां सुसमीक्षमाणो
भुञ्जान एवात्मकृतं विपाकम्।
हृद्वाग्वपुर्भिर्विदधन्नमस्ते
जीवेत यो मुक्तिपदे स दायभाक्॥

मूलम्

तत्तेऽनुकम्पां सुसमीक्षमाणो
भुञ्जान एवात्मकृतं विपाकम्।
हृद्वाग्वपुर्भिर्विदधन्नमस्ते
जीवेत यो मुक्तिपदे स दायभाक्॥

अनुवाद (हिन्दी)

इसलिये जो पुरुष क्षण-क्षणपर बड़ी उत्सुकतासे आपकी कृपाका ही भलीभाँति अनुभव करता रहता है और प्रारब्धके अनुसार जो कुछ सुख या दुःख प्राप्त होता है उसे निर्विकार मनसे भोग लेता है, एवं जो प्रेमपूर्ण हृदय, गद‍्गद वाणी और पुलकित शरीरसे अपनेको आपके चरणोंमें समर्पित करता रहता है—इस प्रकार जीवन व्यतीत करनेवाला पुरुष ठीक वैसे ही आपके परम पदका अधिकारी हो जाता है, जैसे अपने पिताकी सम्पत्तिका पुत्र!॥ ८॥

श्रीसुदर्शनसूरिः

इदानीमष्टमेनाशक्तानां प्रपत्ति विविच्याह- तत्तेऽनुकम्पामिति । तत्ततः कारणात् ते पूर्वोक्तानन्तवभवस्यानुकम्पां जन्मकालिककटाक्षदानरूपां सुतराम् अतिशयितां सम्यगीक्षमाणः चातकवृत्तिरित्यर्थः । आत्मना कृतं विपाकं प्रारब्धं विपच्यते इति तथा तं भुञ्जानः न तु तत्रोद्विग्न इत्येवकारार्थः हृद्वाग्वपुर्भिः ते नमः विदधत् इत्यनेनानुकूल्यादि पञ्चपरिकरोक्तिः एवं प्रकारेण यो जीवेत इति दृप्तत्वोक्तिः । मुक्तिपदेऽचिरादिना दायभाग्भवतीति जीवतः पुत्रादेः पितृदायभाक्त्वमिवेति भावः ॥ ८ ॥

श्लोक-९

विश्वास-प्रस्तुतिः

पश्येश मेऽनार्यमनन्त आद्ये
परात्मनि त्वय्यपि मायिमायिनि।
मायां वितत्येक्षितुमात्मवैभवं
ह्यहं कियानैच्छमिवार्चिरग्नौ॥

मूलम्

पश्येश मेऽनार्यमनन्त आद्ये
परात्मनि त्वय्यपि मायिमायिनि।
मायां वितत्येक्षितुमात्मवैभवं
ह्यहं कियानैच्छमिवार्चिरग्नौ॥

अनुवाद (हिन्दी)

प्रभो! मेरी कुटिलता तो देखिये। आप अनन्त आदिपुरुष परमात्मा हैं और मेरे-जैसे बड़े-बड़े मायावी भी आपकी मायाके चक्रमें हैं। फिर भी मैंने आपपर अपनी माया फैलाकर अपना ऐश्वर्य देखना चाहा! प्रभो! मैं आपके सामने हूँ ही क्या। क्या आगके सामने चिनगारीकी भी कुछ गिनती है?॥ ९॥

श्रीसुदर्शनसूरिः

अथ द्वाभ्यां स्वापराधं क्षमापयति । हे ईश ! मेऽनार्य्यं दौर्जन्यं क्षमस्व तदेवाह - अनन्ते आद्ये परमात्मनीत्यादि सर्वदेशसर्वकालसर्वावस्थास्ववस्थित्या व्यापके जगत्कारणत्वाद्यसाधारणलक्षणेऽन्तर्यामिणि विभवरूपतया सुलभेऽपि इत्यपिशब्दार्थः । कुतः ? मायाविनामपि मोहकेऽर्चारूपे मायामन्तर्धानादिकरणरूपां वितत्यात्मवैभवमीक्षितुं द्रष्टुम् ऐच्छम् अर्चिः स्फुलिङ्गकणः अग्नाविवेति दृष्टान्तेन स्वाल्पव्यक्तिः ॥ ९ ॥

श्लोक-१०

विश्वास-प्रस्तुतिः

अतः क्षमस्वाच्युत मे रजोभुवो
ह्यजानतस्त्वत्पृथगीशमानिनः।
अजावलेपान्धतमोऽन्धचक्षुष
एषोऽनुकम्प्यो मयि नाथवानिति॥

मूलम्

अतः क्षमस्वाच्युत मे रजोभुवो
ह्यजानतस्त्वत्पृथगीशमानिनः।
अजावलेपान्धतमोऽन्धचक्षुष
एषोऽनुकम्प्यो मयि नाथवानिति॥

अनुवाद (हिन्दी)

भगवन्! मैं रजोगुणसे उत्पन्न हुआ हूँ। आपके स्वरूपको मैं ठीक-ठीक नहीं जानता। इसीसे अपनेको आपसे अलग संसारका स्वामी माने बैठा था। मैं अजन्मा जगत्कर्ता हूँ—इस मायाकृत मोहके घने अन्धकारसे मैं अन्धा हो रहा था। इसलिये आप यह समझकर कि ‘यह मेरे ही अधीन है— मेरा भृत्य है, इसपर कृपा करनी चाहिये’, मेरा अपराध क्षमा कीजिये॥ १०॥

श्रीसुदर्शनसूरिः

हे अच्युत ! अतः कारणात् मे क्षमस्व राजसजन्मनः अजस्य त्वत्तः पृथक्तयेश्वरत्वाभिमानिनः स्वस्य ब्रह्मत्वमानान्धकारेणान्धस्य मे क्षमस्वेति तव क्षमैवोचिता एषः मयि नाथवानिति स्वस्वामिभावरूपसाधारणादनुकम्प्य इत्येवंरूपेणेति ॥ १० ॥

श्लोक-११

विश्वास-प्रस्तुतिः

क्वाहं तमोमहदहंखचराग्निवार्भू-
संवेष्टिताण्डघटसप्तवितस्तिकायः।
क्वेदृग्विधाविगणिताण्डपराणुचर्या-
वाताध्वरोमविवरस्य च ते महित्वम्॥

मूलम्

क्वाहं तमोमहदहंखचराग्निवार्भू-
संवेष्टिताण्डघटसप्तवितस्तिकायः।
क्वेदृग्विधाविगणिताण्डपराणुचर्या-
वाताध्वरोमविवरस्य च ते महित्वम्॥

अनुवाद (हिन्दी)

मेरे स्वामी! प्रकृति, महत्तत्त्व, अहंकार, आकाश, वायु, अग्नि, जल और पृथ्वीरूप आवरणोंसे घिरा हुआ यह ब्रह्माण्ड ही मेरा शरीर है। और आपके एक-एक रोमके छिद्रमें ऐसे-ऐसे अगणित ब्रह्माण्ड उसी प्रकार उड़ते-पड़ते रहते हैं, जैसे झरोखेकी जालीमेंसे आनेवाली सूर्यकी किरणोंमें रजके छोटे-छोटे परमाणु उड़ते हुए दिखायी पड़ते हैं। कहाँ अपने परिमाणसे साढ़े तीन हाथके शरीरवाला अत्यन्त क्षुद्र मैं, और कहाँ आपकी अनन्त महिमा॥ ११॥

श्रीसुदर्शनसूरिः

इदमेव विवृणोति - क्वाऽहमित्याद्यष्टभिः । अहं क्व ते महित्वं च क्व द्वौ क्वशब्दौ तव च मम च महदन्तरं सूचयतः, कीदृगहं तमोमहदहमित्यादिरूपः स्पष्टं तव च कीदृशस्य ईदृग्विधेत्यादि स्पष्टमेव बृहत्त्वाणुत्वरूपस्वरूपोक्त्या व्याप्यव्यापकभाव उक्तः ॥ ११ ॥

श्लोक-१२

विश्वास-प्रस्तुतिः

उत्क्षेपणं गर्भगतस्य पादयोः
किं कल्पते मातुरधोक्षजागसे।
किमस्तिनास्तिव्यपदेशभूषितं
तवास्ति कुक्षेः कियदप्यनन्तः॥

मूलम्

उत्क्षेपणं गर्भगतस्य पादयोः
किं कल्पते मातुरधोक्षजागसे।
किमस्तिनास्तिव्यपदेशभूषितं
तवास्ति कुक्षेः कियदप्यनन्तः॥

अनुवाद (हिन्दी)

वृत्तियोंकी पकड़में न आनेवाले परमात्मन्! जब बच्चा माताके पेटमें रहता है, तब अज्ञानवश अपने हाथ-पैर पीटता है; परन्तु क्या माता उसे अपराध समझती है या उसके लिये वह कोई अपराध होता है? ‘है’ और ‘नहीं है’—इन शब्दोंसे कही जानेवाली कोई भी वस्तु ऐसी है क्या, जो आपकी कोखके भीतर न हो?॥ १२॥

श्रीसुदर्शनसूरिः

अथ द्वाभ्यां सर्वजगत्कारणस्य श्रीमन्नारायणस्य श्रीकृष्णस्य स्वोत्पादकत्वतदुदरवर्त्तित्वेन च स्वस्य क्षम्यापराधत्वं तस्य चास्य चावतार्यवतारत्वेनाभेदमपि व्यञ्जयति — उत्क्षेपणमिति । हे अधोक्षज ! अधः लीलाविभूतौ अक्षेभ्यो जायत इति अधोक्षजः तत्तद्भक्तेन्द्रियगोचरत्वेन तत्तल्लीलावतारत्वेन च जायत इव “अजायमानो बहुधा विजायत” इति श्रुतेः गर्भगतस्य देहिनो जीवस्य पादयोरुत्क्षेपणं किं तत्तन्मातुरागसेऽपराधाय कल्पते, भवति वेति काकुः अतः कारणादस्तिनास्तिव्यपदेशाभ्यां भूषितमलङ्कृतं चिदचिद्वस्तु अविनाशस्वभावः सत्त्वं विनाशस्वभावो ह्यसत्त्वं सत्त्वासत्त्वे द्रव्यधर्मौ धर्मो विशेषणं “स्वबुद्ध्या रज्यते येन विशेष्यं तद्विशेषणम्" इति लक्षणात् एवमुभयविधं चिदचिद्वस्तु तव कुक्षेरनन्तः किं वर्त्तत कियदपि कियदत्यलम् अपिशब्दादनन्तमपि अनन्तर्वर्तते किमिति सर्वस्य त्वदाधेयत्वादिना त्वच्छेषत्वमेवेति अनेन कार्यकारणभाव आधाराधेयभावः । पारार्थ्येन लीलारसनिष्पादकत्वेन शेषशेषिभावश्च सम्बन्ध उक्तः ॥ १२ ॥

श्लोक-१३

विश्वास-प्रस्तुतिः

जगत्त्रयान्तोदधिसम्प्लवोदे
नारायणस्योदरनाभिनालात्।
विनिर्गतोऽजस्त्विति वाङ् न वै मृषा
किं त्वीश्वर त्वन्न विनिर्गतोऽस्मि॥

मूलम्

जगत्त्रयान्तोदधिसम्प्लवोदे
नारायणस्योदरनाभिनालात्।
विनिर्गतोऽजस्त्विति वाङ् न वै मृषा
किं त्वीश्वर त्वन्न विनिर्गतोऽस्मि॥

अनुवाद (हिन्दी)

श्रुतियाँ कहती हैं कि जिस समय तीनों लोक प्रलयकालीन जलमें लीन थे, उस समय उस जलमें स्थित श्रीनारायणके नाभिकमलसे ब्रह्माका जन्म हुआ। उनका यह कहना किसी प्रकार असत्य नहीं हो सकता। तब आप ही बतलाइये, प्रभो! क्या मैं आपका पुत्र नहीं हूँ?॥ १३॥

श्रीसुदर्शनसूरिः

अथ स्वस्य पितृपुत्रत्वरूपं सम्बन्धमपि विशिष्याह — जगदिति । जगत्त्रयान्ते य उदधिसम्प्लवः समुद्रकीभावः तत् सम्बन्ध्युदकशायिनः नारायणस्योदरे नाभिः तत्सम्बन्धिनालात् कमलात् अजः विनिर्गतः इति वाक् न मृषा अतः तुरप्यर्थे । हे ईश्वर ! त्वत् स्वत्तः किन्न विनिर्गतोऽहमिति ॥ १३ ॥

श्लोक-१४

विश्वास-प्रस्तुतिः

नारायणस्त्वं न हि सर्वदेहिना-
मात्मास्यधीशाखिललोकसाक्षी।
नारायणोऽङ्गं नरभूजलायना-
त्तच्चापि सत्यं न तवैव माया॥

मूलम्

नारायणस्त्वं न हि सर्वदेहिना-
मात्मास्यधीशाखिललोकसाक्षी।
नारायणोऽङ्गं नरभूजलायना-
त्तच्चापि सत्यं न तवैव माया॥

अनुवाद (हिन्दी)

प्रभो! आप समस्त जीवोंके आत्मा हैं। इसलिये आप नारायण (नार—जीव और अयन—आश्रय) हैं। आप समस्त जगत‍्के और जीवोंके अधीश्वर हैं, इसलिये आप नारायण (नार—जीव और अयन—प्रवर्तक) हैं। आप समस्त लोकोंके साक्षी हैं, इसलिये भी नारायण (नार—जीव और अयन—जाननेवाला) हैं। नरसे उत्पन्न होनेवाले जलमें निवास करनेके कारण जिन्हें नारायण (नार—जल और अयन—निवासस्थान) कहा जाता है, वे भी आपके एक अंश ही हैं। वह अंशरूपसे दीखना भी सत्य नहीं है, आपकी माया ही है॥ १४॥

श्रीसुदर्शनसूरिः

ननु, नारायणस्त्वन्य एव नाहमिति शङ्कायां तस्य अवतारस्य नारायणादवतारिणोऽनन्यत्वमेव श्रुतिस्मृतिपुराणेतिहासाद्युद्घुष्टं स्फुटयति- नारायणस्त्वं नहीति । काकुः सर्वदेहिनां नारपदवाच्यानां बद्धमुक्तनित्यरूपाणां आत्मा अयनं शरीरी यः नारायणः संज्ञायां णत्वविधानात् नारायणसंज्ञः स त्वं किं नहीति काकुः । अपि त्वस्यैव अधीशोऽसि प्रवर्तकः " अपगतौ” इत्यतः " मत्तः सर्व प्रवर्त्तते" इति स्वमुखेनैव नारायणत्वस्फोरणात् चिदचित्प्रेरक इत्यर्थः, ज्ञानार्थत्वाद्धातोः अखिललोकसाक्षी चिदचिद्द्रष्टा यः सोऽसि श्रीमन्नारायणत्वमेवोक्तम् अथ सच्चिदानन्दस्वरूपस्य सच्चिदानन्दगुणकत्वेन रूपस्यापि तादृशत्वेन च नारायणत्वं निर्वहति अङ्गं मूर्तिः तवेत्यत्रापि योज्यम् । पूर्वोक्तविशेषणविशिष्टं तवाङ्गमपि नारायणः नरभूजलायनात् यत्प्रसिद्धं नारायणत्वं तच्चापि सत्यं किन्न ? अतः तव माया एव कापट्यमेव नेति, अथवा नव जीवसमष्टिसंयुक्तं मायात्त्वम् अङ्गं शरीरं न भवति वेति काकुः “योऽव्यक्तमन्तरे सञ्चरद्यस्याव्यक्तं शरीरम्” इत्यन्तर्यामिश्रुतेः “मम योनिर्महद्ब्रह्म तस्मिन् गर्भं दधाम्यहम्” इति पुरुष समष्टिसंयोगस्य श्रीनारायणकृतत्वात् चिदचिच्छरीरकत्वात् तव नारायणत्वमिति । यद्वा, तवाङ्गं मूर्त्तिरपि माया नैवेति अद्वैतवाद्यभिमतमायाकार्यं न भवति इति अथवैवं सम्बन्धः नारायणः नरभूजलायनाद्यः प्रसिद्धस्तस्य त्वमङ्गं मूर्तिरवतारः किं नासीत् आनन्दस्वरूपस्य रूपत्वात् तच्चाप्यङ्गत्वं सत्यं नेति काकुः किन्तु तव माया एव स्वेच्छामयत्वमेव ॥ १४ ॥

श्लोक-१५

विश्वास-प्रस्तुतिः

तच्चेज्जलस्थं तव सज्जगद्वपुः
किं मे न दृष्टं भगवंस्तदैव।
किं वा सुदृष्टं हृदि मे तदैव
किं नो सपद्येव पुनर्व्यदर्शि॥

मूलम्

तच्चेज्जलस्थं तव सज्जगद्वपुः
किं मे न दृष्टं भगवंस्तदैव।
किं वा सुदृष्टं हृदि मे तदैव
किं नो सपद्येव पुनर्व्यदर्शि॥

अनुवाद (हिन्दी)

भगवन्! यदि आपका वह विराट् स्वरूप सचमुच उस समय जलमें ही था तो मैंने उसी समय उसे क्यों नहीं देखा, जब कि मैं कमलनालके मार्गसे उसे सौ वर्षतक जलमें ढूँढ़ता रहा? फिर मैंने जब तपस्या की, तब उसी समय मेरे हृदयमें उसका दर्शन कैसे हो गया? और फिर कुछ ही क्षणोंमें वह पुनः क्यों नहीं दीखा, अन्तर्धान क्यों हो गया?॥ १५॥

श्रीसुदर्शनसूरिः

पूर्वप्रकृतस्वेच्छामयत्वमेव प्रकटीकरोति-द्वाभ्यां तच्चेज्जलस्थमिति । हे भगवन् ! तव सज्जगद्वपुः सत्यं जगदेव वपुर्यस्य एतादृशन्तत्तव स्वरूपं नारायणस्य तव स्वरूपं जलस्थमेव चेत्तदा मे मया किं न दृष्टं नालमार्गेण विचये कृतेऽपि अदर्शनं त्वदिच्छाविलसितं पुनः हृदि मे मम तदैव किं वा सुदृष्टं अनन्तरं सपद्येव अवतारादिना पुनः किन्नो एव व्यदर्शि तदिदं सर्वं त्वदिच्छामन्तरेण कथं संभवेत् अनेन स्वरूपरूपयोर्विवेक उक्तः दुर्ज्ञेयत्वं स्वदयैकदृश्यत्वं चोक्तम् ॥ १५ ॥

श्लोक-१६

विश्वास-प्रस्तुतिः

अत्रैव मायाधमनावतारे
ह्यस्य प्रपञ्चस्य बहिः स्फुटस्य।
कृत्स्नस्य चान्तर्जठरे जनन्या
मायात्वमेव प्रकटीकृतं ते॥

मूलम्

अत्रैव मायाधमनावतारे
ह्यस्य प्रपञ्चस्य बहिः स्फुटस्य।
कृत्स्नस्य चान्तर्जठरे जनन्या
मायात्वमेव प्रकटीकृतं ते॥

अनुवाद (हिन्दी)

मायाका नाश करनेवाले प्रभो! दूरकी बात कौन करे—अभी इसी अवतारमें आपने इस बाहर दीखनेवाले जगत‍्को अपने पेटमें ही दिखला दिया, जिसे देखकर माता यशोदा चकित हो गयी थीं। इससे यही तो सिद्ध होता है कि यह सम्पूर्ण विश्व केवल आपकी माया-ही-माया है॥ १६॥

श्रीसुदर्शनसूरिः

किञ्च अत्रैवेति अवतारे प्रादुर्भावे हे मायाधमन् ! दम्भस्य कपटस्य वा निवर्तक ! प्रपञ्चासत्त्वस्य वा निवर्त्तक ! सर्वपदार्थस्य तत्ख्यात्यङ्गीकाराद् बहिःस्फुटस्य स्थूलावस्थस्यास्य प्रपञ्चस्य कृत्स्नस्य सूक्ष्मस्य च अन्तर्जठरे वर्त्तमानस्य त्वया यथा जनन्या यशोदाया मायात्वमेव स्वसङ्कल्पायत्तत्वमेव प्रकटीकृतं तथा तदानीं सृष्ट्यवसरे मयापि त्वया स्वरूपरूपादिप्रकाशनं ज्ञानोपदेशद्वारा एव कृतं न तु साक्षात्त्वेन अचिन्त्यत्वान्मनोवचसोरगोचरत्वात् च इदानीं तु साक्षादिति विशेषः । एवं च मम मोहोऽप्युचित एव मदीयकल्पविकल्पेषु कल्पनं विविधकल्पनं च तेषु मम मोहाभावस्त्वयैवोक्तः " यथा पूर्वमकल्पयत्" इति श्रुतेः सृष्टावेव कर्त्तव्यायां मम मोहो न भवतीति वरो भवता दत्त इति ज्ञेयम् अन्यथा बहुविरोधः स्यात् । नतु भवल्लीलाविकल्पेष्विति रहस्यम् अनेनाध्यायत्रयस्य प्रतिवादः प्रक्षितः ॥ १६ ॥

श्लोक-१७

विश्वास-प्रस्तुतिः

यस्य कुक्षाविदं सर्वं सात्मं भाति यथा तथा।
तत्त्वय्यपीह तत् सर्वं किमिदं मायया विना॥

मूलम्

यस्य कुक्षाविदं सर्वं सात्मं भाति यथा तथा।
तत्त्वय्यपीह तत् सर्वं किमिदं मायया विना॥

अनुवाद (हिन्दी)

जब आपके सहित यह सम्पूर्ण विश्व जैसा बाहर दीखता है वैसा ही आपके उदरमें भी दीखा, तब क्या यह सब आपकी मायाके बिना ही आपमें प्रतीत हुआ? अवश्य ही आपकी लीला है॥ १७॥

श्रीसुदर्शनसूरिः

श्रीभगवतः सृष्टिप्रवेशनियमनकर्त्तुर्नारायणस्य श्रीमद्ब्रह्मणः श्रीकृष्णस्य निरङ्कुशैश्वर्यमेव निरूप्य पुनरपि तत्सङ्कल्पायत्तत्वमेव विश्वस्य द्रढयति-यस्य तव नारायणस्य कुक्षाविदं सर्वमचेतनम् आत्मभिः बद्धः जीवात्मभिः सहितं यथा भाति तथा त्वय्यपि अवतारविग्रहेऽपि तत्सर्वं चिदचिद्रूपं तत् इदं विश्वं किं मायया विना त्वत्सङ्कल्पाधीनत्वं विनादर्शितम् इति काकुः अपि तु तवावताराद्यवस्थापनस्य श्रीनारायणस्य स्वेच्छामर्त्यत्वमेवेति भावः । तत्पदद्विरुक्तिः सूक्ष्मस्थूलावस्थयोर्जगतोश्चिदचित्त्वेनैकरूप्यं व्यनक्ति ॥ १७ ॥

श्लोक-१८

विश्वास-प्रस्तुतिः

अद्यैव त्वदृतेऽस्य किं मम न ते
मायात्वमादर्शित-
मेकोऽसि प्रथमं ततो व्रजसुहृद्
वत्साः समस्ता अपि।
तावन्तोऽसि चतुर्भुजास्तदखिलैः
साकं मयोपासिता-
स्तावन्त्येव जगन्त्यभूस्तदमितं
ब्रह्माद्वयं शिष्यते॥

मूलम्

अद्यैव त्वदृतेऽस्य किं मम न ते
मायात्वमादर्शित-
मेकोऽसि प्रथमं ततो व्रजसुहृद्
वत्साः समस्ता अपि।
तावन्तोऽसि चतुर्भुजास्तदखिलैः
साकं मयोपासिता-
स्तावन्त्येव जगन्त्यभूस्तदमितं
ब्रह्माद्वयं शिष्यते॥

अनुवाद (हिन्दी)

उस दिनकी बात जाने दीजिये, आजकी ही लीजिये। क्या आज आपने मेरे सामने अपने अतिरिक्त सम्पूर्ण विश्वको अपनी मायाका खेल नहीं दिखलाया है? पहले आप अकेले थे। फिर सम्पूर्ण ग्वालबाल, बछड़े और छड़ी-छीके भी आप ही हो गये। उसके बाद मैंने देखा कि आपके वे सब रूप चतुर्भुज हैं और मेरे सहित सब-के-सब तत्त्व उनकी सेवा कर रहे हैं। आपने अलग-अलग उतने ही ब्रह्माण्डोंका रूप भी धारण कर लिया था, परन्तु अब आप केवल अपरिमत अद्वितीय ब्रह्मरूपसे ही शेष रह गये हैं॥ १८॥

श्रीसुदर्शनसूरिः

अद्यैवेति, अद्यैवेदानीमेव त्वयास्य स्वस्य स्वसृष्टस्य चिदचिद्रूपस्य च मायात्वमेव स्वेच्छामयत्वं मम किन्नादर्शितं ऋते सत्यस्वरूपरूपगुणके त्वत् त्वयि दर्शितमेवेति तदेवाह, त्वं प्रथममेकोऽसि ततो व्रजसुहृद्वत्साः समस्तास्त्वमेवाऽसि अनन्तरं तावन्तः वत्सबालाश्चतुर्भुजाः ते त्वमेवासि तत्तदनन्तरम् अखिलैः ब्रह्माण्डैः साकं वर्त्तमानैः मया मद्रूपैर्ब्रह्मभिः तैः सर्वैः उपासिता मया दृष्टा इति वा तावन्ति जगन्ति ब्रह्माण्डानि त्वमेव तद्विशिष्टः श्रीमन्नारायण एवाऽभुरिदानीं तु तत् श्रीनारायणाख्यम् अमितमनन्तं ब्रह्म अद्वयं समाभ्यधिकरहित सर्वचिदचिद्विशिष्टं साक्षाद्भवानेवावशिष्यते इदानीं विनैव समाधिं प्रत्यक्षो मयाऽनुभूयसे अत्याश्चर्यात्तव सौलभ्यपराकाष्ठेति भावः ॥ १८ ॥

श्लोक-१९

विश्वास-प्रस्तुतिः

अजानतां त्वत्पदवीमनात्म-
न्यात्माऽऽत्मना भासि वितत्य मायाम्।
सृष्टाविवाहं जगतो विधान
इव त्वमेषोऽन्त इव त्रिनेत्रः॥

मूलम्

अजानतां त्वत्पदवीमनात्म-
न्यात्माऽऽत्मना भासि वितत्य मायाम्।
सृष्टाविवाहं जगतो विधान
इव त्वमेषोऽन्त इव त्रिनेत्रः॥

अनुवाद (हिन्दी)

जो लोग अज्ञानवश आपके स्वरूपको नहीं जानते, उन्हींको आप प्रकृतिमें स्थित जीवके रूपसे प्रतीत होते हैं और उनपर अपनी मायाका परदा डालकर सृष्टिके समय मेरे (ब्रह्मा) रूपसे, पालनके समय अपने (विष्णु) रूपसे और संहारके समय रुद्रके रूपमें प्रतीत होते हैं॥ १९॥

श्रीसुदर्शनसूरिः

एवं क्वाहमित्याद्यष्टभिः परब्रह्मणः श्रीमन्नारायणस्य तस्यावतारस्य कृष्णस्य निरङ्कुशमहित्वं प्रतिपाद्य गुणावतारादिषु अवतारिणस्तस्यावताररहस्यं दुर्ज्ञेयमित्याह - त्रिभिः अजानतामिति । एवं त्वत्पदवीं त्वत्स्वरूपगुणविभूतितत्त्वरूपाम् अजानतां त्वमात्मा “आत्मा नारायणः’ इति श्रुतेः “अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः” इति श्रुतेश्च तत्तज्जीवशरीरकः आत्मना स्वसङ्कल्पेन अनात्मनि तत्तद्देहे गुणकलांशादिव्याप्ये मायां जीवेषु “अजायमानो बहुधा विजायते" इत्यज्ञानरूपं वितत्य विस्तार्य वर्तमानः भासि तव तत्त्वज्ञानां भासि सृष्टाविवाहं सृष्टिसमयेऽहं ब्रह्मेव गुणावतारः जगतः विधाने पालने एव त्वमिवेति एषः प्रत्यक्षं दृश्यमानः एवं विष्णुकृष्णयोरेकत्वमुक्तं साक्षादेव नतु जीवान्तरितः तौ तु जीवान्तरितावेव ब्रह्मरुद्राविति भावः ॥ १९ ॥

श्लोक-२०

विश्वास-प्रस्तुतिः

सुरेष्वृषिष्वीश तथैव नृष्वपि
तिर्यक्षु यादस्स्वपि तेऽजनस्य।
जन्मासतां दुर्मदनिग्रहाय
प्रभो विधातः सदनुग्रहाय च॥

मूलम्

सुरेष्वृषिष्वीश तथैव नृष्वपि
तिर्यक्षु यादस्स्वपि तेऽजनस्य।
जन्मासतां दुर्मदनिग्रहाय
प्रभो विधातः सदनुग्रहाय च॥

अनुवाद (हिन्दी)

प्रभो! आप सारे जगत‍्के स्वामी और विधाता हैं। अजन्मा होनेपर भी आप देवता, ऋषि, मनुष्य, पशु-पक्षी और जलचर आदि योनियोंमें अवतार ग्रहण करते हैं—इसलिये कि इन रूपोंके द्वारा दुष्ट पुरुषोंका घमंड तोड़ दें और सत्पुरुषोंपर अनुग्रह करें॥ २०॥

श्रीसुदर्शनसूरिः

अथावताराणामनन्तानां गणयितुमशक्यत्वात् " यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा" इति न्यायोक्तं तदधिकरणभूतानि सुरादीनि गणयति - सुरेष्वृषीष्वीश तथैव नृष्वपीत्यादिना । साधुपरित्राणं दुष्टनिग्रहश्च श्रीभगवदवतारप्रयोजनमुक्तम् ॥ २० ॥

श्लोक-२१

विश्वास-प्रस्तुतिः

को वेत्ति भूमन् भगवन् परात्मन्
योगेश्वरोतीर्भवतस्त्रिलोक्याम्।
क्व वा कथं वा कति वा कदेति
विस्तारयन् क्रीडसि योगमायाम्॥

मूलम्

को वेत्ति भूमन् भगवन् परात्मन्
योगेश्वरोतीर्भवतस्त्रिलोक्याम्।
क्व वा कथं वा कति वा कदेति
विस्तारयन् क्रीडसि योगमायाम्॥

अनुवाद (हिन्दी)

भगवन्! आप अनन्त परमात्मा और योगेश्वर हैं। जिस समय आप अपनी योगमायाका विस्तार करके लीला करने लगते हैं, उस समय त्रिलोकीमें ऐसा कौन है, जो यह जान सके कि आपकी लीला कहाँ, किसलिये, कब और कितनी होती है॥ २१॥

श्रीसुदर्शनसूरिः

हे भूमन, सर्वाधिक ! श्रीमन्नारायण, भगवन्, ज्ञानबलैश्वर्यवीर्यशक्तितेजसां निधे ! परात्मन् सर्वान्तर्यामिन, हे योगेश्वर, विभवार्चावताररूप ! भवतः ऊतीर्लीला को वेत्ति ताश्च क्व देशे कथं केन करणेन कतिसङ्ख्याकाः कदा कस्मिन् काले भवन्ति एवं कोऽपि न जानाति । त्वन्तु योगमायां योगाय प्रपन्नभक्तानां स्वसंयोगाय मायां कृपां विस्तारयन् क्रीडसि ताश्च क्रीडाः सर्वदेशसर्वकालसर्वावस्थास्वनन्ता एवेति भावः ॥ २१ ॥

श्लोक-२२

विश्वास-प्रस्तुतिः

तस्मादिदं जगदशेषमसत्स्वरूपं
स्वप्नाभमस्तधिषणं पुरुदुःखदुःखम्।
त्वय्येव नित्यसुखबोधतनावनन्ते
मायात उद्यदपि यत् सदिवावभाति॥

मूलम्

तस्मादिदं जगदशेषमसत्स्वरूपं
स्वप्नाभमस्तधिषणं पुरुदुःखदुःखम्।
त्वय्येव नित्यसुखबोधतनावनन्ते
मायात उद्यदपि यत् सदिवावभाति॥

अनुवाद (हिन्दी)

इसलिये यह सम्पूर्ण जगत् स्वप्नके समान असत्य, अज्ञानरूप और दुःख-पर-दुःख देनेवाला है। आप परमानन्द, परम ज्ञानस्वरूप एवं अनन्त हैं। यह मायासे उत्पन्न एवं विलीन होनेपर भी आपमें आपकी सत्तासे सत्यके समान प्रतीत होता है॥ २२॥

श्रीसुदर्शनसूरिः

एवमवताररहस्यं प्रतिपाद्य क्रीडसीत्युक्तं प्रपञ्चसृष्टिस्थितिसंहारादिरूपं क्रीडनं प्रपञ्चस्वरूपं च विशेषत आह- तस्मादिति, द्वाभ्याम् । तस्मादिदं चिद्रूपं सर्वं सूक्ष्मस्थूलावस्थं जगदसत् स्वरूपम् असच्छब्दवाच्यो यः स्वम् आत्मा त्वं तस्य तव सूक्ष्मावस्थनामरूपविभागरहितचिदचिद्विशिष्टत्वेनासच्छब्दवाच्यस्येति पर्यवसितार्थः । रूपं शरीरं कार्यावस्थायां क्षेत्रज्ञकर्मानुगुणं त्वत्सृष्टत्वात् स्वप्नतुल्यं विचित्रमेव अस्ता धिषणा जीवधर्मज्ञानं येनेति अत एव तस्य जीवस्य पुरूणि दुःखादनन्तरं दुःखान्येव येन तत्पुरूणि बहूनीत्यर्थः । त्वय्येव नित्यसुखे ज्ञानतनौ । अथवा नित्यः सत्यश्चासौ सुखबोधतनुश्च सत्यानन्दानरूप- रूपः तस्मिन् त्वय्येवाधिकरणे अनन्ते चेतनाचेतनवस्तुपरिच्छेदादिरहिते सर्वचिदचिच्छरीरिणि मायातः विचित्रशक्तेः उद्यत् अपि यत् सदिवावभाति कार्यावस्थायां उद्यत् त्वत्सङ्कल्पेन कारणावस्थायाम् अपि यच्च अप्ययावस्थं भवच्च सदिव त्वत्स्वरूपमिवावभाति इवशब्दो भवद्विलक्षणत्वमेव द्योतयति । एवं जगदुपादाननिमित्तत्वोक्त्या ब्रह्म परमात्मभगवन्नारायणस्यासाधारणं लक्षणं लीला च मुख्योक्तेति ॥ २२ ॥

श्लोक-२३

विश्वास-प्रस्तुतिः

एकस्त्वमात्मा पुरुषः पुराणः
सत्यः स्वयंज्योतिरनन्त आद्यः।
नित्योऽक्षरोऽजस्रसुखो निरञ्जनः
पूर्णोऽद्वयो मुक्त उपाधितोऽमृतः॥

मूलम्

एकस्त्वमात्मा पुरुषः पुराणः
सत्यः स्वयंज्योतिरनन्त आद्यः।
नित्योऽक्षरोऽजस्रसुखो निरञ्जनः
पूर्णोऽद्वयो मुक्त उपाधितोऽमृतः॥

अनुवाद (हिन्दी)

प्रभो! आप ही एकमात्र सत्य हैं। क्योंकि आप सबके आत्मा जो हैं। आप पुराणपुरुष होनेके कारण समस्त जन्मादि विकारोंसे रहित हैं। आप स्वयंप्रकाश हैं; इसलिये देश, काल और वस्तु—जो परप्रकाश हैं—किसी प्रकार आपको सीमित नहीं कर सकते । आप उनके भी आदि प्रकाशक हैं। आप अविनाशी होनेके कारण नित्य हैं। आपका आनन्द अखण्डित है। आपमें न तो किसी प्रकारका मल है और न अभाव। आप पूर्ण, एक हैं। समस्त उपाधियोंसे मुक्त होनेके कारण आप अमृतस्वरूप हैं॥ २३॥

श्रीसुदर्शनसूरिः

एवं विलक्षणत्वेन विश्वस्य चिदचिद्रूपस्य तच्छरीरत्वं तव चात्मत्वमित्याह- एकस्त्वमिति । अनेकजीवविलक्षणः त्वमेवात्मा इति विश्वात्मत्वं विधीयतेऽत्र अततीत्यात्मा व्यापकः जीवाणुत्वव्यावृत्तिः पुरुषः व्यष्टिजीवपुरुषनियन्ता पूर्षु चिदचित्सु शेत इति च " आत्मनि योऽव्यक्ते" इत्यादिश्रुतेः । पुराणः पुरापि नवकिशोरमूत्तिरेव सत्यः इच्छामूर्तिमत्त्वेऽपि सत्यः सत्यस्वरूप-रूपगुणक: एवमपि न परप्रकाश्यः यतः स्वयञ्ज्योतिः रविचन्द्रवह्निनामपि ज्योतिःप्रदः स्वप्रकाशः एवमपि न परिच्छिन्नः यतः अनन्तः सर्वदेशसर्वकालसर्वावस्थासु ज्योतिरादिपरिच्छिन्नतारहितः यत आद्यः सर्वकारणं कारणत्वेऽपि बीजवन्नानित्यः किन्तु नित्यः नित्यत्वेऽपि क्षरणस्वभावचिदचिद्वस्तुविलक्षण: अक्षरः अजस्रमुखः इति मुक्ताक्षरव्यावृत्तिः तस्य पूर्वमनित्यसुखत्वात् यतः निरञ्जन उपाधिरहितः अत एव पूर्णः स्वरूपरूपादिभिः यतः अद्वयः समाधिकदरिद्रः उपाधितो मुक्त इति पुनरुक्तिर्मायोपाधिकेश्वरनिरासार्था अमृत इति मुक्तनित्यादिपरमभोग्यस्वरूपरूपगुण इति भावः ॥ २३ ॥

श्लोक-२४

विश्वास-प्रस्तुतिः

एवंविधं त्वां सकलात्मनामपि
स्वात्मानमात्मात्मतया विचक्षते।
गुर्वर्कलब्धोपनिषत्सुचक्षुषा
ये ते तरन्तीव भवानृताम्बुधिम्॥

मूलम्

एवंविधं त्वां सकलात्मनामपि
स्वात्मानमात्मात्मतया विचक्षते।
गुर्वर्कलब्धोपनिषत्सुचक्षुषा
ये ते तरन्तीव भवानृताम्बुधिम्॥

अनुवाद (हिन्दी)

आपका यह ऐसा स्वरूप समस्त जीवोंका ही अपना स्वरूप है। जो गुरुरूप सूर्यसे तत्त्वज्ञानरूप दिव्य दृष्टि प्राप्त करके उससे आपको अपने स्वरूपके रूपमें साक्षात्कार कर लेते हैं, वे इस झूठे संसार-सागरको मानो पार कर जाते हैं। (संसार-सागरके झूठा होनेके कारण इससे पार जाना भी अविचार-दशाकी दृष्टिसे ही है)॥ २४॥

श्रीसुदर्शनसूरिः

एवं विभूतिद्वयविशिष्टत्वं श्रीभगवतो नारायणस्य श्रीकृष्णस्य प्रतिपाद्याचार्यप्रपत्तिमुखेनैव तत्कृपया एतादृशा श्रीभगवज्ज्ञानतत्प्राप्तिः इति विशिष्याह - पञ्चभिः । एवंविधं पूर्वप्रकारेणोक्तपरमस्वरूपं त्वां ये श्रीभगवतो नारायणस्य तव जन्म सामयिककृशकटाक्षविषया ये त एव गुर्वर्कलब्धोपनित्सुचक्षुषा गुरुरेवार्कः यस्य दृष्टौ च परमतत्त्वश्रीमन्नारायणस्वरूपरूपादितत्त्वज्ञानहीनगुरोरतारकत्वम् अभिप्रैति तस्माल्लब्धं यदुपनिषद्रूपं सर्वोपनिषद्रूपस्य रूपमेव सुचक्षुः शोभनं चक्षुः व्यापको रहस्यत्रयावेदको मन्त्रस्तेनेत्यर्थः । सकलात्मनां बद्धमुक्त नित्यानां जीवानामपि स्वात्मानं नित्यधनवत्प्रियमात्मानं शरीरिणं त्वां ये आत्मात्मतया विचक्षते आत्मनो ममात्मा प्राणप्रियस्तद्भावेन “माता पिता भ्राता निवासः शरणं सुहृद्गतिर्नारायणः” इति श्रुत्युक्तरीत्या नवविधसम्बन्धानुसन्धानेनेति भावः । ये पश्यन्ति ते भवानृताम्बुधि तरन्ति इव एवार्थे इवशब्दः निश्चयेन तरन्त्येवेति भावः । भूयतेऽस्मिन्निति भावः अनृताम्बुधिम् ऋतेतरविषयो ह्यनृतशब्दः अनृतं कर्मादिपञ्चकम् अभिवक्ति तस्याम्बुधित्वरूपणम् अपारत्वाशोष्यत्वानुल्लङ्घनीयत्वाऽतार्यत्वादिना तत्राविद्याया अपारत्वं कर्मजलस्य शोष्यत्वम् " नाभुक्तं क्षीयते कर्म" इति वाक्यात् वासनाया अनुल्लङ्घनीयत्वं रुचेरतार्यत्वं प्रकृतेरम्बुधित्वं चेति तस्य सत्यत्वं च व्यज्यते ॥ २४ ॥

श्लोक-२५

विश्वास-प्रस्तुतिः

आत्मानमेवात्मतयाविजानतां
तेनैव जातं निखिलं प्रपञ्चितम्।
ज्ञानेन भूयोऽपि च तत् प्रलीयते
रज्ज्वामहेर्भोगभवाभवौ यथा॥

मूलम्

आत्मानमेवात्मतयाविजानतां
तेनैव जातं निखिलं प्रपञ्चितम्।
ज्ञानेन भूयोऽपि च तत् प्रलीयते
रज्ज्वामहेर्भोगभवाभवौ यथा॥

अनुवाद (हिन्दी)

जो पुरुष परमात्माको आत्माके रूपमें नहीं जानते, उन्हें उस अज्ञानके कारण ही इस नामरूपात्मक निखिल प्रपंचकी उत्पत्तिका भ्रम हो जाता है। किन्तु ज्ञान होते ही इसका आत्यन्तिक प्रलय हो जाता है। जैसे रस्सीमें भ्रमके कारण ही साँपकी प्रतीति होती है और भ्रमके निवृत्त होते ही उसकी निवृत्ति हो जाती है॥ २५॥

वीरराघवः

तदेव तरणप्रकारं दर्शयति- आत्मानं स्वं जीवस्वरूपं आत्मतया “आत्मा नारायणः परः" इति श्रुतेः । श्रीनारायणशरीरत्वेनैव विजानतां शारीरकशास्त्रोक्तवैशिष्ट्यज्ञानेन युक्तानां सतां तथा तेनैव श्रीनारायणेनैव निखिलं प्रपश्वितं नामरूपव्याकरणं जातमिति विजानताञ्च तेषां ज्ञानेन स्वस्वरूपज्ञानेन परमकारण श्रीमन्नारायणज्ञानेन च तन्नामरूपपरिष्वञ्जनरूपं बन्धनं भूयः प्रतीयतेऽपि स्वस्वरूपं शुद्ध भासते - “बन्धको भवपाशेन भवपाशाच्च मोचकः । कैवल्यदः परं ब्रह्म विष्णुरेव सनातनः " ॥ इत्युक्तेः । तत्तत्कर्मानुगुणं जीवानां बन्धक इत्यर्थः । जीवे रज्जुस्थानीये अहे भोगस्य शरीरस्य जन्मोत्पत्तिः इव नामरूपपरिष्वङ्गः तदभावश्चेति दृष्टान्तः स्पष्टतरः ॥ २५ ॥

श्लोक-२६

विश्वास-प्रस्तुतिः

अज्ञानसंज्ञौ भवबन्धमोक्षौ
द्वौ नाम नान्यौ स्त ऋतज्ञभावात्।
अजस्रचित्यात्मनि केवले परे
विचार्यमाणे तरणाविवाहनी॥

मूलम्

अज्ञानसंज्ञौ भवबन्धमोक्षौ
द्वौ नाम नान्यौ स्त ऋतज्ञभावात्।
अजस्रचित्यात्मनि केवले परे
विचार्यमाणे तरणाविवाहनी॥

अनुवाद (हिन्दी)

संसारसम्बन्धी बन्धन और उससे मोक्ष—ये दोनों ही नाम अज्ञानसे कल्पित हैं। वास्तवमें ये अज्ञानके ही दो नाम हैं। ये सत्य और ज्ञानस्वरूप परमात्मासे भिन्न अस्तित्व नहीं रखते। जैसे सूर्यमें दिन और रातका भेद नहीं है, वैसे ही विचार करनेपर अखण्ड चित्स्वरूप केवल शुद्ध आत्मतत्त्वमें न बन्धन है और न तो मोक्ष॥ २६॥

श्रीसुदर्शनसूरिः

जीवे नामरूपनिष्ठां भगवति सर्वजीवशरीरिण्यपि प्राकृतनामरूपभाव विज्ञानोपयोगित्वेनाह - द्वौ नाम प्रसिद्धौ भवबन्धमोक्षौ क्रमादज्ञानसञ्ज्ञौ अज्ञानञ्च सम्यग् ज्ञा ज्ञानञ्च ययोस्तौ अज्ञानसंज्ञो तौ च ऋतज्ञभावात् अन्यो न स्तः अज्ञानज्ञानरूपावेवेत्यर्थः । ऋतः सत्यः ज्ञः ज्ञानस्वरूपः भावः पदार्थः जीवः स्वभावो धर्मभूतज्ञानं वा तस्मादेव स्तः स्वपररूपाज्ञानज्ञानाद्भवतः अथवा ऋतश्चासौ ज्ञश्च जीवः तस्य भावात् स्वभावाद्धर्मभूतज्ञानादन्यो न स्तः तदावरणरूपत्वादिति अजस्रचित्यात्मनोति त्वयि अजस्त्रचिति निरन्तरज्ञानस्वरूपरूपे व्यापके आत्मनि सर्वशरीरिणि केवले चिदचिद्विलक्षणे परसङ्गे विचार्यमाणे तौ न स्तः इति किं वक्तव्यम् इत्यध्याहार्यं कस्मिन् काविव तरणी सूर्ये अहनी दिनरात्री इवेति ॥ २६ ॥

श्लोक-२७

विश्वास-प्रस्तुतिः

त्वामात्मानं परं मत्वा परमात्मानमेव च।
आत्मा पुनर्बहिर्मृग्य अहोऽज्ञजनताज्ञता॥

मूलम्

त्वामात्मानं परं मत्वा परमात्मानमेव च।
आत्मा पुनर्बहिर्मृग्य अहोऽज्ञजनताज्ञता॥

अनुवाद (हिन्दी)

भगवन्! कितने आश्चर्यकी बात है कि आप हैं अपने आत्मा, पर लोग आपको पराया मानते हैं। और शरीर आदि हैं पराये, किन्तु उनको आत्मा मान बैठते हैं। और इसके बाद आपको कहीं अलग ढूँढ़ने लगते हैं। भला, अज्ञानी जीवोंका यह कितना बड़ा अज्ञान है॥ २७॥

श्रीसुदर्शनसूरिः

अन्येषान्तु जीववरमात्मयाथात्म्यज्ञानमेव स्वोक्तार्थंस्थेने आह- त्वामात्मानमिति । परं चिदविद्विलक्षणं त्वां श्रीमन्तं नारायणं परं ब्रह्म अज्ञानाध्यस्तमात्मानं जीवरूपं मत्वा च पुनः अपरमर्वाचीनं संसारिणं जीवमात्मानं देहमन्तःकरणावच्छिन्नत्वेनौपाधिकत्वेन प्रतिबिम्बत्वेन वा मत्वा आत्मा पुनः बहिः घटाद्यवच्छिन्नर्चतन्यादिरूपेण मृग्य इति एवमज्ञजनताया अज्ञता इत्याश्चर्यम् ॥ २७ ॥

श्लोक-२८

विश्वास-प्रस्तुतिः

अन्तर्भवेऽनन्त भवन्तमेव
ह्यतत्त्यजन्तो मृगयन्ति सन्तः।
असन्तमप्यन्त्यहिमन्तरेण
सन्तं गुणं तं किमु यन्ति सन्तः॥

मूलम्

अन्तर्भवेऽनन्त भवन्तमेव
ह्यतत्त्यजन्तो मृगयन्ति सन्तः।
असन्तमप्यन्त्यहिमन्तरेण
सन्तं गुणं तं किमु यन्ति सन्तः॥

अनुवाद (हिन्दी)

हे अनन्त! आप तो सबके अन्तःकरणमें ही विराजमान हैं। इसलिये सन्तलोग आपके अतिरिक्त जो कुछ प्रतीत हो रहा है, उसका परित्याग करते हुए अपने भीतर ही आपको ढूँढ़ते हैं। क्योंकि यद्यपि रस्सीमें साँप नहीं है, फिर भी उस प्रतीयमान साँपको मिथ्या निश्चय किये बिना भला, कोई सत्पुरुष सच्ची रस्सीको कैसे जान सकता है?॥ २८॥

श्रीसुदर्शनसूरिः

सतां पुनस्तत्त्वविचारसामर्थ्यमाह- अन्तरिति । हे अनन्त ! सर्वदेव सर्वकालसर्वावस्थासु व्यापक ! भवे संसारमध्येऽन्तर्वर्त्तमानं भवन्तमेव सर्वचिदन्तर्यामिणम् अत एव अतत् तच्छब्दवाच्यभवद्भिन्नत्वं भवे प्रपञ्चः त्यजन्तः सन्तः भवन्तं त्वामेव मृगयन्ति तच्छरीरले विचिन्वन्ति तदेव विचयमर्थान्तरन्यासेनाह- सन्तं कालत्रये सत्यं गुणम् अन्तरेण विना असन्तं गुणादविनाभूतं सन्तम् अपि अहिम् उ इति वितर्के भ्रान्ताः अन्ति निकटे भ्रमात् विनाभूतमेव सत्यमेव रज्ज्वज्ञानात् यन्ति जानन्ति पश्यन्ति वा इति काकुः तेषां भ्रमाभावात् एवं परमात्मानं विना पृथक्त्वेन स्थूलावस्थं च जगत् रूपं वस्तु अवर्त्तमानमपि भ्रान्ता जीवाः परमात्मा पृथग्भूतमेव तत्कि यन्ति ? अपितु नैव, सन्तस्तु उभयावस्थं जगत्तरमात्मशरीरभूतमेव जानन्तीति भावः ॥ २८ ॥

श्लोक-२९

विश्वास-प्रस्तुतिः

अथापि ते देव पदाम्बुजद्वय-
प्रसादलेशानुगृहीत एव हि।
जानाति तत्त्वं भगवन् महिम्नो
न चान्य एकोऽपि चिरं विचिन्वन्॥

मूलम्

अथापि ते देव पदाम्बुजद्वय-
प्रसादलेशानुगृहीत एव हि।
जानाति तत्त्वं भगवन् महिम्नो
न चान्य एकोऽपि चिरं विचिन्वन्॥

अनुवाद (हिन्दी)

अपने भक्तजनोंके हृदयमें स्वयं स्फुरित होनेवाले भगवन्! आपके ज्ञानका स्वरूप और महिमा ऐसी ही है, उससे अज्ञानकल्पित जगत‍्का नाश हो जाता है। फिर भी जो पुरुष आपके युगल चरणकमलोंका तनिक-सा भी कृपा-प्रसाद प्राप्त कर लेता है, उससे अनुगृहीत हो जाता है—वही आपकी सच्चिदानन्दमयी महिमाका तत्त्व जान सकता है। दूसरा कोई भी ज्ञान-वैराग्यादि साधनरूप अपने प्रयत्नसे बहुत कालतक कितना भी अनुसन्धान करता रहे, वह आपकी महिमाका यथार्थ ज्ञान नहीं प्राप्त कर सकता॥ २९॥

श्रीसुदर्शनसूरिः

एवं एतावता प्रघट्टकेन स्वरूपोपायसाध्यानि तत्त्वतः प्रतिपाद्य श्रीभगवन्नारायणस्य श्रीकृष्णस्य शरणागतिमेव गुरू करोति - अथापीति । हे देव ! लोकानुग्रहार्थं क्रीडनप्रवृत्त ! तव पदाम्बुजसम्बन्धिद्वयमन्त्रप्रसादलेशेनाऽनुगृहीत एव जीवः श्रीभगवतस्तव महिम्नस्तत्त्वं जानाति नान्यः अप्रपन्नो न जानातीति सर्वोत्तमार्त्तप्रपत्त्यभावेऽपि हृतप्रपत्त्यापीत्यतः लेशेनेत्युक्तम् एकोऽपि मुख्योपि शास्त्रज्ञेषु व्यपदेश्यो ऽपीत्यर्थः । चिरं विचिन्नपि अत्र “शास्त्रज्ञानं बहुक्लेशं बुद्धेश्चलनकारणम्” “मनुष्याणां सहस्रेषु कश्चिन्मां वेत्ति तत्त्वतः” श्रीमन्नारायण-परब्रह्मत्वेनेत्यर्थः । षष्ठे परीक्षिता च जन्तवः रजोभिः समसङ्ख्या जीवाः तेषु श्रेयोविचेष्टाः ज्ञानिनः तेषु मुमुक्षवः तेषु कश्चिदविद्यानिवृत्तिमान् तेष्वपि सिद्धाः तेष्वपि सर्वेष्वपरिमितेषु कोटिष्वपीत्युक्तेः एकः षष्ठकक्षायां श्रीनारायणपरायणः सुदुर्लभ इत्युक्तः एवञ्च प्रपन्न एव श्रीमन्नारायणस्य तत्त्वं जानातीति सुष्ठूक्तं यतः भक्तानाम् " अनेकजन्मसंसिद्धस्ततो याति पराङ्गतिम्” इत्युक्त्या प्रारब्धक्षयान्ते मुक्तिरुक्ता, प्रपन्नानां तु “सकृदेव प्रपन्नाय, अहं त्वां सर्वपापेभ्यः” सकृत्कृतः शात्रार्थः” इत्याद्युक्तिभिः “दृप्तानामपि जन्तूनां जन्मान्तरनिवारिणी” इत्युक्तेश्च एतद्देहपातानन्तरं मुक्तिरित्याचार्य्यैनिर्णीतत्वाच्चेत्यलं पल्लवितेन । प्रकृते तु चिरं विचिन्वन्नपि उपायं शास्त्रेषु न जानात्येवेति भावः ॥ २९ ॥

श्लोक-३०

विश्वास-प्रस्तुतिः

तदस्तु मे नाथ स भूरिभागो
भवेऽत्र वान्यत्र तु वा तिरश्चाम्।
येनाहमेकोऽपि भवज्जनानां
भूत्वा निषेवे तव पादपल्लवम्॥

मूलम्

तदस्तु मे नाथ स भूरिभागो
भवेऽत्र वान्यत्र तु वा तिरश्चाम्।
येनाहमेकोऽपि भवज्जनानां
भूत्वा निषेवे तव पादपल्लवम्॥

अनुवाद (हिन्दी)

इसलिये भगवन्! मुझे इस जन्ममें, दूसरे जन्ममें अथवा किसी पशु-पक्षी आदिके जन्ममें भी ऐसा सौभाग्य प्राप्त हो कि मैं आपके दासोंमेंसे कोई एक दास हो जाऊँ और फिर आपके चरणकमलोंकी सेवा करूँ॥ ३०॥

श्रीसुदर्शनसूरिः

प्रपत्तिरूपमन्त्रालाभे भक्तिरूपं ज्ञानं प्रपत्तिरूपञ्च ज्ञानं दुर्लभमुक्त्वा स्वस्य एतादृशज्ञानलाभमेवाशास्ते - तदस्तु मे नाथेति । हे स्वामिन् ! अनेन स्वामिसेवकभावसम्बन्ध उक्तः तत्तस्मात् मे स भूरिभागः भाग्यमंशो वा त्वद्वरणीयता हेतुर्गुणविशेषः प्रपत्तिरूपोऽस्तु अत्र भवे ब्रह्मजन्मनि अन्यत्र भवे वा मनुष्यादिजन्मनि तिरश्चां भवे वा अनेन प्राप्तेः सर्वाधिकारित्वमुक्तं येन शरणागतिरूपोपायेन एकोऽपि असहायोऽपि अभक्तत्वात् कर्मज्ञानभक्तिसहायहीनोऽपि भवज्जनानां श्रीरामश्रीकृष्णभक्तानां मध्ये भूत्वा भवनं जन्म भक्ताय लब्ध्वा दास्यसंवलितं नाम च लब्ध्वा तव पादपल्लवं निषेवे नितरां सेवे इति
“पशुर्मनुष्यः पक्षी वा ये च वैष्णवसंश्रयाः । तेनैव ते प्रयास्यन्ति तद्विष्णोः परमं पदम् " ॥

इत्युक्तेः वैष्णवो भागवत आचार्यादिः शरणागतिमार्गो वा पश्वादीनां जन्मान्तरीयस्य तस्य कल्पनात् अविरोध इति सर्वथा प्रपत्त्येव मोक्ष इति राद्धान्तः ॥ ३० ॥

श्लोक-३१

विश्वास-प्रस्तुतिः

अहोऽतिधन्या व्रजगोरमण्यः
स्तन्यामृतं पीतमतीव ते मुदा।
यासां विभो वत्सतरात्मजात्मना
यत्तृप्तयेऽद्यापि न चालमध्वराः॥

मूलम्

अहोऽतिधन्या व्रजगोरमण्यः
स्तन्यामृतं पीतमतीव ते मुदा।
यासां विभो वत्सतरात्मजात्मना
यत्तृप्तयेऽद्यापि न चालमध्वराः॥

अनुवाद (हिन्दी)

मेरे स्वामी! जगत‍्के बड़े-बड़े यज्ञ सृष्टिके प्रारम्भसे लेकर अबतक आपको पूर्णतः तृप्त न कर सके। परन्तु आपने व्रजकी गायों और ग्वालिनोंके बछड़े एवं बालक बनकर उनके स्तनोंका अमृत-सा दूध बड़े उमंगसे पिया है। वास्तवमें उन्हींका जीवन सफल है, वे ही अत्यन्त धन्य हैं॥ ३१॥

श्रीसुदर्शनसूरिः

एवं सर्वशास्त्रप्रमाणकं प्रपत्तिवैभवं प्रख्याप्य प्रपत्तिमतां श्रीभगवान् वशीकृतोऽतिसुलभो भवतीत्याह - अहो इति । अहो इत्याश्चर्ये अतिधन्या इति अत्यन्तं धन्याः द्वाभ्यां धन्याश्चर्योपाख्यानं हरिवंशस्थं स्मारितं व्रजस्था गावः रमण्यः गोप्यः कुतो धन्या अत आह, हे विभो ! चिदचिद्वद्यापक ! ते त्वया वत्सतराणां शरीरधारकेण गवां गोप्यात्मजशरीरेण च गोपीनां स्तन्यामृतं दुग्धरूपममृत अतीव मुदा महताऽऽनन्देन पीतं यत्तृप्तये यस्य तव तृतये अध्वराः अग्निष्टोमादयोऽश्वमेधान्ताः अद्यापि अलं समर्था न भवन्ति श्रीभगवद्वशयितृत्वं प्रपत्तेरसाधारणं लक्षणम् ॥ ३१ ॥

श्लोक-३२

विश्वास-प्रस्तुतिः

अहो भाग्यमहोभाग्यं नन्दगोपव्रजौकसाम्।
यन्मित्रं परमानन्दं पूर्णं ब्रह्म सनातनम्॥

मूलम्

अहो भाग्यमहोभाग्यं नन्दगोपव्रजौकसाम्।
यन्मित्रं परमानन्दं पूर्णं ब्रह्म सनातनम्॥

अनुवाद (हिन्दी)

अहो, नन्द आदि व्रजवासी गोपोंके धन्य भाग्य हैं। वास्तवमें उनका अहोभाग्य है। क्योंकि परमानन्दस्वरूप सनातन परिपूर्ण ब्रह्म आप उनके अपने सगे-सम्बन्धी और सुहृद् हैं॥ ३२॥

श्रीसुदर्शनसूरिः

अथ यत्तत्वं ममापि दुर्लभ दुर्ज्ञेयं तदेषां सुलभ सुज्ञेयं स्वरूपरूपगुणविभूत्यादिकमभूदिति सरोमाञ्चाश्रु प्राह- अहो भाग्यमहोभाग्यम् इति । पुनरुक्तया भाग्यापरिच्छेद्यत्वम् उक्तं नन्दगोपसम्बन्धिव्रजवासिनाम् अथवा नन्दश्च गोपाश्च व्रजवासिनश्च वृक्षभूमिलतागिर्य्यादयः तेषामहो आश्चर्ये महद्भाग्यमिति यन्मित्रं शरणागति-वशीकृतमित्यर्थः । मित्रपदं श्रीरामायणे शरणागतिभावद्योतकम् उक्तं श्रीरामचन्द्रेण विभीषणं प्रति-

“मित्रभावेन सम्प्राप्तं न त्यजे कथञ्चन । दोषो यद्यपि तस्य स्यात्सतामेतदगर्हितम्” ॥ इति । श्रीकृष्णचन्द्रोप्यऽग्रे वक्ष्यति " तस्मान्मच्छरणं गोष्ठं मन्नाथे मत्परिग्रहम् । गोपाये स्वात्मयोगेन सोऽयं मे व्रत आहित: " इति परिग्रहः भार्येति भार्या मित्रमिति न्यायात् अतः शरणागतिवशितः सः सुलभत्वेन येषां सर्वतो हितकारीति तच्च परमानन्दविषयप्रयोजनेन मैत्रीभङ्गरहितम् एतच्चान्तर्धानानन्तरम् इति रहस्यं यद्यपि गोचारणादिना श्रीकृष्णविश्लेषदुःखं गोपादीनाम् अस्ति, तथापि “वियोगे तन्मयं जगत्” इति न्यायेन तच्चिन्तनात्साक्षाद्दर्शनादानन्दप्राप्त्या सुखमेव प्राकृतमित्रे तु न तथेति विभाव्यम्, एवं पूर्णत्वब्रह्मत्वव्यापकत्वज्ञानेन मथुराद्वारकावासिन्यपि तस्मिन्तेषां विश्लेषदुःखं नाऽभूदेव एवञ्च प्राकृत मित्रव्यवच्छेदः तच्च सनातनं परव्योमाधिपश्रीमतो नारायणभगवत एव स्वामिनः लीलाविभूतौ स्वेच्छयाविर्भावात् सनातनत्वमनादित्वम् ॥ ३२ ॥

श्लोक-३३

विश्वास-प्रस्तुतिः

एषां तु भाग्यमहिमाच्युत तावदास्ता-
मेकादशैव हि वयं बत भूरिभागाः।
एतद‍्धृषीकचषकैरसकृत् पिबामः
शर्वादयोऽङ्घ्र्युदजमध्वमृतासवं ते॥

मूलम्

एषां तु भाग्यमहिमाच्युत तावदास्ता-
मेकादशैव हि वयं बत भूरिभागाः।
एतद‍्धृषीकचषकैरसकृत् पिबामः
शर्वादयोऽङ्घ्र्युदजमध्वमृतासवं ते॥

अनुवाद (हिन्दी)

हे अच्युत! इन व्रजवासियोंके सौभाग्यकी महिमा तो अलग रही—मन आदि ग्यारह इन्द्रियोंके अधिष्ठातृदेवताके रूपमें रहनेवाले महादेव आदि हम लोग बड़े ही भाग्यवान् हैं। क्योंकि इन व्रजवासियोंकी मन आदि ग्यारह इन्द्रियोंको प्याले बनाकर हम आपके चरणकमलोंका अमृतसे भी मीठा, मदिरासे भी मादक मधुर मकरन्दरस पान करते रहते हैं। जब उसका एक-एक इन्द्रियसे पान करके हम धन्य-धन्य हो रहे हैं, तब समस्त इन्द्रियोंसे उसका सेवन करनेवाले व्रजवासियोंकी तो बात ही क्या है॥ ३३॥

श्रीसुदर्शनसूरिः

अथैकादशेन्द्रियाधिष्ठातृदेवानां महदात्मक स्वस्वरूपत्वेन तद्भोग्यस्य भगवतः स्वभोग्यत्वमङ्गीकृत्य स्वाश्वासनं विधत्ते एषां विति । अङ्घ्र्युदजमधु अङ्घ्रिकमलयोर्मधुमादकम् अमृतं सेवामृतं कथामृतञ्च ेति अन्यत्स्पष्टम् ॥ ३३ ॥

श्लोक-३४

विश्वास-प्रस्तुतिः

तद् भूरिभाग्यमिह जन्म किमप्यटव्यां
यद् गोकुलेऽपि कतमाङ्घ्रिरजोऽभिषेकम्।
यज्जीवितं तु निखिलं भगवान् मुकुन्द-
स्त्वद्यापि यत्पदरजः श्रुतिमृग्यमेव॥

मूलम्

तद् भूरिभाग्यमिह जन्म किमप्यटव्यां
यद् गोकुलेऽपि कतमाङ्घ्रिरजोऽभिषेकम्।
यज्जीवितं तु निखिलं भगवान् मुकुन्द-
स्त्वद्यापि यत्पदरजः श्रुतिमृग्यमेव॥

अनुवाद (हिन्दी)

प्रभो! इस व्रजभूमिके किसी वनमें और विशेष करके गोकुलमें किसी भी योनिमें जन्म हो जाय, यही हमारे लिये बड़े सौभाग्यकी बात होगी! क्योंकि यहाँ जन्म हो जानेपर आपके किसी-न-किसी प्रेमीके चरणोंकी धूलि अपने ऊपर पड़ ही जायगी। प्रभो! आपके प्रेमी व्रजवासियोंका सम्पूर्ण जीवन आपका ही जीवन है। आप ही उनके जीवनके एकमात्र सर्वस्व हैं। इसलिये उनके चरणोंकी धूलि मिलना आपके ही चरणोंकी धूलि मिलना है और आपके चरणोंकी धूलिको तो श्रुतियाँ भी अनादि कालसे अबतक ढूँढ़ ही रही हैं॥ ३४॥

श्रीसुदर्शनसूरिः

भवज्जनानां इत्युक्तप्रपन्नसङ्गस्य प्रपन्नशेषत्वज्ञानस्य च परमभोग्यत्वमाह - कैमुत्येन तद्भूरिभाग्यमिति । इहाटव्यां किमप्यनिर्वाच्यं कीटतृणादिजन्म यच्चापि गोकुले गवां कुले वत्सादिजन्म श्रीकृष्ण हस्तकमलस्पृश्य दोह्याभिनन्द्याह्वानयोग्यतयाभ्यिर्हतं तदपि भूरिभाग्यम् उभयविधं जन्म मम स्यादपि पूर्वतनोक्तं कीटादिजन्म विशिनष्टि - कतमाङ्घ्रिरजोऽभिषेकं बहुष्वेकस्य व्रजवासिनो ऽप्यङ्घ्रि सम्बन्धिरजसामभिषेको यस्य तत् उभयविधस्यापि श्रीभगवत् श्रीकृष्ण सम्बन्धित्वमाह - यज्जीवितं त्विति । तुशब्दः जीवितभिन्नस्यात्यसारत्वं व्यनक्ति, तत्रापि निखिलम् इति च पतिपुत्रादिबन्धुविशिष्टम् इति भगवान् ज्ञानबलशक्ति-तेज- ऐश्वर्यवीर्याद्यनन्तगुणविशिष्टः सुलभतयाऽघादिमुक्तिदातृत्वेन मुकुन्दः स भगवान् येषां गोगोपालवृक्षतृणादीनां जीवितमेव जीवितकाल आयुरूपः प्राणरूप इति यावत् यस्य तव पदरजस्तु अद्यापि श्रुतिमृग्यम् एव वेदोपनिषद्भिर्मृग्यम् अन्वेषणीयम् “यमेवैष वृष्णुते तेन लभ्यः कोऽद्धा वेद क इह प्रावोचत् मुमुक्षुर्वे शरणमहं प्रपद्ये” इत्याद्याः श्रुतयो वदन्ति इति भावः ॥ ३४ ॥

श्लोक-३५

विश्वास-प्रस्तुतिः

एषां घोषनिवासिनामुत भवान्
किं देव रातेति न-
श्चेतो विश्वफलात् फलं त्वदपरं
कुत्राप्ययन् मुह्यति।
सद्वेषादिव पूतनापि सकुला
त्वामेव देवापिता
यद्धामार्थसुहृत्प्रियात्मतनय-
प्राणाशयास्त्वत्कृते॥

मूलम्

एषां घोषनिवासिनामुत भवान्
किं देव रातेति न-
श्चेतो विश्वफलात् फलं त्वदपरं
कुत्राप्ययन् मुह्यति।
सद्वेषादिव पूतनापि सकुला
त्वामेव देवापिता
यद्धामार्थसुहृत्प्रियात्मतनय-
प्राणाशयास्त्वत्कृते॥

अनुवाद (हिन्दी)

देवताओंके भी आराध्यदेव प्रभो! इन व्रजवासियोंको इनकी सेवाके बदलेमें आप क्या फल देंगे? सम्पूर्ण फलोंके फलस्वरूप! आपसे बढ़कर और कोई फल तो है ही नहीं, यह सोचकर मेरा चित्त मोहित हो रहा है। आप उन्हें अपना स्वरूप भी देकर उऋण नहीं हो सकते। क्योंकि आपके स्वरूपको तो उस पूतनाने भी अपने सम्बन्धियों—अघासुर, बकासुर आदिके साथ प्राप्त कर लिया, जिसका केवल वेष ही साध्वी स्त्रीका था, पर जो हृदयसे महान् क्रूर थी। फिर, जिन्होंने अपने घर, धन, स्वजन, प्रिय, शरीर, पुत्र, प्राण और मन—सब कुछ आपके ही चरणोंमें समर्पित कर दिया है, जिनका सब कुछ आपके ही लिये है, उन व्रजवासियोंको भी वही फल देकर आप कैसे उऋण हो सकते हैं॥ ३५॥

श्रीसुदर्शनसूरिः

अथ भवानेषां प्रपत्तिमताम् ऋणी एव भविष्यतीति वदति एषामिति । घोषनिवासिनां व्रजवासिनाम् उत अप्यर्थे भवानपि कैवल्यादिप्रदोऽपि हे देव, क्रीडाप्रवृत्त ! विश्व फलात् सर्व फलरूपात् त्वत् त्वत्तः अपरं फलं कुत्रापि देशे काले वा अयत् न गच्छत् न जानत् इति यावत् अतः कि राता कि दास्यतीति अथवा, “अय गतौ” इत्यतः अयत् विचारयत् नः चेतः मुह्यति यद्यतः पूतना सकुला अघकादिसहिता हे देव, क्रीडनमदनुदित ! स षात् सत्याः श्रेष्ठायाः प्रतिव्रतायाः यशोदावा मातुर्वेषात् एवार्थे इव वेषमात्रादेव त्वामेव त्वया आपिता प्रापिता अत एषां गोगोपगोपीनन्दयशोदादीनां तु धामार्थसुहृत्प्रियात्मतनयप्राणाश्याः त्वत्कृते वर्त्तन्ते त्वदर्थं श्रीकृष्णस्य श्रीमतो नारायणस्य तव शेषभूताः शेषत्वज्ञानपूर्वं समर्पिता वर्त्तन्ते धाम गृहम् अर्थाः दुग्धादयः अमूल्य- रत्नादिपर्यन्ताः सुहृदः प्रियाः स्त्रियः, आत्मा जीवः, तनयाः प्राणाः चेष्टाविशिष्टशरीराणि आशयो वासनाः एवमात्मात्मीयभर- समर्पणविशिष्टरक्षाभरार्पणं कृते इति चतुर्थ्यर्थ्यभूतशेषत्वव्यङ्ग्ये वर्त्तते, एवं चैषामपि सत्यनुकार्याणां स्वात्मानमपि ददासि चेत्तवायं लीलाभिनिवेश कारितोऽविवेक एवेति भावः ।। ३५ ।।

श्लोक-३६

विश्वास-प्रस्तुतिः

तावद् रागादयः स्तेनास्तावत् कारागृहं गृहम्।
तावन्मोहोऽङ्घ्रिनिगडो यावत् कृष्ण न ते जनाः॥

मूलम्

तावद् रागादयः स्तेनास्तावत् कारागृहं गृहम्।
तावन्मोहोऽङ्घ्रिनिगडो यावत् कृष्ण न ते जनाः॥

अनुवाद (हिन्दी)

सच्चिदानन्दस्वरूप श्यामसुन्दर! तभीतक राग-द्वेष आदि दोष चोरोंके समान सर्वस्व अपहरण करते रहते हैं, तभीतक घर और उसके सम्बन्धी कैदकी तरह सम्बन्धके बन्धनोंमें बाँध रखते हैं और तभीतक मोह पैरकी बेड़ियोंकी तरह जकड़े रखता है—जबतक जीव आपका नहीं हो जाता॥ ३६॥

श्रीसुदर्शनसूरिः

इति श्रीभगवज्जनानां प्रपन्नानां च वैभवमुक्त्वा श्रीभगवत्स्नेहादिमतामपि गोपगोप्यादीनां रागादिगृहादिबन्धनेन देहाभिमानित्वेन चान्यसंसारितुल्यत्वं निराकरोति तावदिति । अनेन हे कृष्ण ! स्वरूपरूप- गुणविभूतिभिचित्ताकर्षक ! यावदेते रागद्वेषादयः त्वत्सम्बन्धिनो न भवन्ति तावत्स्तेनाः विवेकहारिणो भवन्ति यावत् गृहं त्वन्मन्दिरं न भवति तावत्कारागृहं तत्तुल्यम् एवं मोहः देहात्मबुद्धिरूपः चिदचितोः त्वच्छेषत्वज्ञानेन त्वत्सेवोपयोगी न भवति तावत्संसारो निगडः एवं ममतास्पदाहन्तास्पदयोः भगवत्सेवोपयोगित्वेन एषां व्रजवासिनाम् अन्येषां च प्रपन्नादीनां न संसार बन्ध इति भावः ॥ ३६॥

श्लोक-३७

विश्वास-प्रस्तुतिः

प्रपञ्चं निष्प्रपञ्चोऽपि विडम्बयसि भूतले।
प्रपन्नजनतानन्दसन्दोहं प्रथितुं प्रभो॥

मूलम्

प्रपञ्चं निष्प्रपञ्चोऽपि विडम्बयसि भूतले।
प्रपन्नजनतानन्दसन्दोहं प्रथितुं प्रभो॥

अनुवाद (हिन्दी)

प्रभो! आप विश्वके बखेड़ेसे सर्वथा रहित हैं, फिर भी अपने शरणागत भक्तजनोंको अनन्त आनन्द वितरण करनेके लिये पृथ्वीमें अवतार लेकर विश्वके समान ही लीला-विलासका विस्तार करते हैं॥ ३७॥

श्रीसुदर्शनसूरिः

ननु, मम को वा संसारिभेदापादको गुणः ममताऽहन्तादर्शनाद्वे षम्य नैर्धृ प्यसत्त्वादित्यत्राह - निष्प्रपञ्चोऽपि स्वरूपरूप- गुणैः सर्वचेतनाचेतन विलक्षणोऽपि प्रपञ्चं सूक्ष्मस्थूलरूपं विडम्बयसि तत्तच्छरीरकत्वेन स्वैच्छिकविग्रहेण च विडम्बयसि अनुकरोषि न तु तवाऽहन्ताममतास्पदतत्तत्पदार्थसङ्ग ेन वैषम्यनैधृ प्यादिप्रसक्तिः संसारो वा तर्हि विडम्बनेन किं प्रयोजनं तत्राह - प्रपन्नेत्यादि । परमपदस्थलक्ष्मीशेषविष्वक्सेनादिप्रपन्नानन्दसमूहविस्ताराय भोगविभूतिमत्त्वमिह च अनन्ततत्तद्भक्तप्रपन्नमनोरथाऽनुगुणानन्दविस्ताराय तत्तद्रूपैः क्रीडनं तवेति भावः ॥ ३७ ॥

श्लोक-३८

विश्वास-प्रस्तुतिः

जानन्त एव जानन्तु किं बहूक्त्या न मे प्रभो।
मनसो वपुषो वाचो वैभवं तव गोचरः॥

मूलम्

जानन्त एव जानन्तु किं बहूक्त्या न मे प्रभो।
मनसो वपुषो वाचो वैभवं तव गोचरः॥

अनुवाद (हिन्दी)

मेरे स्वामी! बहुत कहनेकी आवश्यकता नहीं—जो लोग आपकी महिमा जानते हैं, वे जानते रहें; मेरे मन, वाणी और शरीर तो आपकी महिमा जाननेमें सर्वथा असमर्थ हैं॥ ३८॥

श्रीसुदर्शनसूरिः

एवम्भूततत्त्वज्ञाने हि दुर्ज्ञेयत्वमेवापरिमेयस्वरूपरूपगुणविभूति लीलामयस्थ भगवतः प्रस्तावयन् स्तौति, एकेन जानन्त एवेति ये वदन्ति जानीमो वयं भगवत्तत्वम् इति ते जानन्तु " अविज्ञातं विजानताम्" इति श्रुतेः ते न जानन्त्येवेति भावः । “विज्ञातमविजानताम्" इत्यादिश्रुतेरर्थमाह- किं बहूक्त्येति बहूक्त्या बहुकथनेन किम् ? “वाचो विग्लापनं हि तत्” इत्युक्तः तव वैभवं त्वत्स्वरूपरूपादिवैभवं मे परिमितमनोवृत्तिशरीरशक्तेः विषयः गोचरो न भवति सङ्कल्पविकल्पाभ्यां मनोविषयो न भवति वपुषः परिच्छिन्नविषयतया ग्रहणविषयो न भवति वाचो विषयश्च वर्णनीयत्वेन न भवति ।। ३८ ।।

श्लोक-३९

विश्वास-प्रस्तुतिः

अनुजानीहि मां कृष्ण सर्वं त्वं वेत्सि सर्वदृक्।
त्वमेव जगतां नाथो जगदेतत्तवार्पितम्॥

मूलम्

अनुजानीहि मां कृष्ण सर्वं त्वं वेत्सि सर्वदृक्।
त्वमेव जगतां नाथो जगदेतत्तवार्पितम्॥

अनुवाद (हिन्दी)

सच्चिदानन्दस्वरूप श्रीकृष्ण! आप सबके साक्षी हैं। इसलिये आप सब कुछ जानते हैं। आप समस्त जगत‍्के स्वामी हैं। यह सम्पूर्ण प्रपंच आपमें ही स्थित है। आपसे मैं और क्या कहूँ? अब आप मुझे स्वीकार कीजिये। मुझे अपने लोकमें जानेकी आज्ञा दीजिये॥ ३९॥

श्रीसुदर्शनसूरिः

इति स्तुत्वाऽनुज्ञां प्रार्थयते - अनुजानीहीति । अतो मामनुज्ञांपय याहीत्याज्ञापय हे कृष्ण ! मयि सत्त्वसुखज्ञानप्रदत्त्वेन सच्चिदानन्दघनस्वरूपरूपे " अस्ति ब्रह्मति चेद्वद सन्तमेनं ततो विदुः" इति श्रुतेः । वत्सबालादीन् सर्वान् त्वमेव वेत्सि यतः सर्वदृक् सर्वदर्शी जगतां समष्टिजीवानां नाथः त्वमेव नाहं एतज्जगत् चिदचिद्विशिष्टं ब्रह्माण्डं तव शरीरभूतं न मम तच्चापितं त्वयि समर्पितम् एवम् अत्मात्मीयभरसमर्पणं कृत्वा नमस्करोति ॥ ३९ ॥

श्लोक-४०

विश्वास-प्रस्तुतिः

श्रीकृष्ण वृष्णिकुलपुष्करजोषदायिन्
क्ष्मानिर्जरद्विजपशूदधिवृद्धिकारिन्।
उद्धर्मशार्वरहर क्षितिराक्षसध्रु-
गाकल्पमार्कमर्हन् भगवन् नमस्ते॥

मूलम्

श्रीकृष्ण वृष्णिकुलपुष्करजोषदायिन्
क्ष्मानिर्जरद्विजपशूदधिवृद्धिकारिन्।
उद्धर्मशार्वरहर क्षितिराक्षसध्रु-
गाकल्पमार्कमर्हन् भगवन् नमस्ते॥

अनुवाद (हिन्दी)

सबके मन-प्राणको अपनी रूप-माधुरीसे आकर्षित करनेवाले श्यामसुन्दर! आप यदुवंशरूपी कमलको विकसित करनेवाले सूर्य हैं। प्रभो! पृथ्वी, देवता, ब्राह्मण और पशुरूप समुद्रकी अभिवृद्धि करनेवाले चन्द्रमा भी आप ही हैं। आप पाखण्डियोंके धर्मरूप रात्रिका घोर अन्धकार नष्ट करनेके लिये सूर्य और चन्द्रमा दोनोंके ही समान हैं। पृथ्वीपर रहनेवाले राक्षसोंके नष्ट करनेवाले आप चन्द्रमा, सूर्य आदि समस्त देवताओंके भी परम पूजनीय हैं। भगवन्! मैं अपने जीवनभर, महाकल्पपर्यन्त आपको नमस्कार ही करता रहूँ॥ ४०॥

श्रीसुदर्शनसूरिः

श्रीकृष्णेति हे श्रीकृष्ण ! श्यामसुन्दरविग्रह ! सदानन्दस्वरूपरूप ! अयं परवासुदेवः विष्णुर्नारायणः श्रीकृष्णावतारश्री रामावतारश्यामसुन्दरः सच्चिदानन्दस्वरूपरूप एव सर्वत्रानुसन्धेयो वैष्णवैरिति रहस्यं नन्वहो यादवकुले जातो यादव एवेत्यत्राह वृष्णिकुलमेव पुष्करं तस्य जोषं प्रीतिः तां दान्तु ं शीलं यस्य सः तत्सम्बोधनम् “यदोः प्रियस्याऽन्ववाये मलयस्येव चन्दनम्" इति कुन्तीवाक्येन यदुकुलस्य यशोदानायैव भवत्प्रादुर्भाव इति अवतारहेतुत्वकथनम्, अनेन सूर्योपमत्वं च क्ष्मानिर्जरा विप्राः द्विजाः पक्षिणः पशवः गवादयः श्रीवृन्दावनस्थाः तेषाम् उदधिरिवोदधिश्च श्रीवृन्दावनं तस्य वृद्धिं करोतीति तत्सम्बोधनं चन्द्रोपमत्वं च उद्धर्मं पाखण्डमेव शार्वरं शर्वरी सम्बन्धि अन्धकारं हरतीति हरः तत्सम्बोधनं क्षितिराक्षसधुक्, क्षितो ये राक्षसाः तान् द्रह्यतीति कंसादिमारक ! मन्देहाश्च तेषानुदयसमय एव मारक ! सूर्योपम ! पुनः सम्बोधयति आ अर्कम् अर्हन् ! अर्कं देवम् अभिव्याप्य सर्वदेवानां पूज्यतम ! आकल्पं कल्पपर्यन्तं ते नमः आकल्प शृङ्गारम् अर्हन् ! योग्य ! इति वा ॥ ४० ॥

श्लोक-४१

मूलम् (वचनम्)

श्रीशुक उवाच

विश्वास-प्रस्तुतिः

इत्यभिष्टूय भूमानं त्रिः परिक्रम्य पादयोः।
नत्वाभीष्टं जगद्धाता स्वधाम प्रत्यपद्यत॥

मूलम्

इत्यभिष्टूय भूमानं त्रिः परिक्रम्य पादयोः।
नत्वाभीष्टं जगद्धाता स्वधाम प्रत्यपद्यत॥

अनुवाद (हिन्दी)

श्रीशुकदेवजी कहते हैं—परीक्षित्! संसारके रचयिता ब्रह्माजीने इस प्रकार भगवान् श्रीकृष्णकी स्तुति की। इसके बाद उन्होंने तीन बार परिक्रमा करके उनके चरणोंमें प्रणाम किया और फिर अपने गन्तव्य स्थान सत्यलोकमें चले गये॥ ४१॥

श्रीसुदर्शनसूरिः

भूमानमिति, सर्वतोऽल्पत्वरहितं स्वरूपरूपगुणविभूतिभिर्वैपुल्यविशिष्टसुखरूपम् अभीष्टं सुखमेव सर्वाभीष्टं भवत्यतोभीष्टं स्वस्य प्राप्यतयाऽभीष्टं प्रियं परब्रह्मनारायणावतारतया तदभिन्नं त्रिःपरिक्रम्य परव्यूहविभवेषु त्रिसङ्ख्येषु तृतीयस्य विभवरूप भगवतः त्रिः परिक्रमणं योग्यमेव पादयोर्नत्वा शरणागतस्य नमनमेव पुमर्थः जगद्धाताऽपि नत्वेति अहन्ताममतानि वृत्तिर्व्यज्यते नाहं न मम तवैवाहम् इति नमः शब्दार्थत्वात् इत्यलम् ॥ ४१ ॥

श्लोक-४२

विश्वास-प्रस्तुतिः

ततोऽनुज्ञाप्य भगवान् स्वभुवं प्रागवस्थितान्।
वत्सान् पुलिनमानिन्ये यथापूर्वसखं स्वकम्॥

मूलम्

ततोऽनुज्ञाप्य भगवान् स्वभुवं प्रागवस्थितान्।
वत्सान् पुलिनमानिन्ये यथापूर्वसखं स्वकम्॥

अनुवाद (हिन्दी)

ब्रह्माजीने बछड़ों और ग्वालबालोंको पहले ही यथास्थान पहुँचा दिया था। भगवान् श्रीकृष्णने ब्रह्माजीको विदा कर दिया और बछड़ोंको लेकर यमुनाजीके पुलिनपर आये, जहाँ वे अपने सखा ग्वालबालोंको पहले छोड़ गये थे॥ ४२॥

श्रीसुदर्शनसूरिः

ततो भगवान् ज्ञानबलैश्वर्यादिषड्गुणः स्वभुवं स्वस्य नारायणत्वात्स्वपुत्रम् अनुज्ञाप्य आज्ञाप्य अपराधक्षमालक्षणं यथापूर्व सखाय उपविष्टा यस्मिन् तत् पुलिने स्वकं स्वीयं वत्सान् आनिन्ये द्विकर्मकस्य धातोरन्वयः । स्वस्थ कं सुखं यस्मिन् तत्पुलिनमिति वा ॥ ४२ ॥

श्लोक-४३

विश्वास-प्रस्तुतिः

एकस्मिन्नपि यातेऽब्दे प्राणेशं चान्तराऽऽत्मनः।
कृष्णमायाहता राजन् क्षणार्धं मेनिरेऽर्भकाः॥

मूलम्

एकस्मिन्नपि यातेऽब्दे प्राणेशं चान्तराऽऽत्मनः।
कृष्णमायाहता राजन् क्षणार्धं मेनिरेऽर्भकाः॥

अनुवाद (हिन्दी)

परीक्षित्! अपने जीवनसर्वस्व—प्राणवल्लभ श्रीकृष्णके वियोगमें यद्यपि एक वर्ष बीत गया था, तथापि उन ग्वालबालोंको वह समय आधे क्षणके समान जान पड़ा। क्यों न हो, वे भगवान‍्की विश्व-विमोहिनी योगमायासे मोहित जो हो गये थे॥ ४३॥

श्रीसुदर्शनसूरिः

आत्मनः प्राणेशं कृष्णमन्तरा विना एकस्मिन्नब्दे याते ब्रह्ममाया हता अर्भकाः क्षणार्द्ध मेनिरे इत्यन्वयः । अथवा मायाहता मायया कृष्णकृपया प्राप्ता व्याताः “हन हिंसागत्योः” इति धातोः । अन्यथा श्रीकृष्णस्य विरहे क्षणस्यापि कथं तेषां सहनं स्यात् ? एवं रात्र्यादावपि ज्ञेयम् ॥ ४३ ॥

श्लोक-४४

विश्वास-प्रस्तुतिः

किं किं न विस्मरन्तीह मायामोहितचेतसः।
यन्मोहितं जगत् सर्वमभीक्ष्णं विस्मृतात्मकम्॥

मूलम्

किं किं न विस्मरन्तीह मायामोहितचेतसः।
यन्मोहितं जगत् सर्वमभीक्ष्णं विस्मृतात्मकम्॥

अनुवाद (हिन्दी)

जगत‍्के सभी जीव उसी मायासे मोहित होकर शास्त्र और आचार्योंके बार-बार समझानेपर भी अपने आत्माको निरन्तर भूले हुए हैं। वास्तवमें उस मायाकी ऐसी ही शक्ति है। भला, उससे मोहित होकर जीव यहाँ क्या-क्या नहीं भूल जाते हैं?॥ ४४॥

श्रीसुदर्शनसूरिः

कृपया त्वमेवाभिनयेनाह माया श्रीभगवत्कृपा तथा मोहितचेतसः किं किं विषयं न विस्मरन्ति यथाऽत्रैव श्रीयशोदायाः कुन्त्याः वसुदेवदेवक्योः कंसवधानन्तरम् अक्र ूरादेव श्रीभगवदिच्छया तत्तत्त्व-विस्मरणं श्रीकृष्णनाट्यानुसारिकमेव वणितमिति तदेवाह - यथा मायया इच्छ्या विचित्रशक्त्या वा जगत् चिदचिद्रूपम् अभीक्ष्णं वारंवारं विस्मृतस्वस्वरूपरूपकं वर्त्तत इति ॥ ४४ ॥

श्लोक-४५

विश्वास-प्रस्तुतिः

ऊचुश्च सुहृदः कृष्णं स्वागतं तेऽतिरंहसा।
नैकोऽप्यभोजि कवल एहीतः साधु भुज्यताम्॥

मूलम्

ऊचुश्च सुहृदः कृष्णं स्वागतं तेऽतिरंहसा।
नैकोऽप्यभोजि कवल एहीतः साधु भुज्यताम्॥

अनुवाद (हिन्दी)

परीक्षित्! भगवान् श्रीकृष्णको देखते ही ग्वाल-बालोंने बड़ी उतावलीसे कहा—‘भाई! तुम भले आये। स्वागत है, स्वागत! अभी तो हमने तुम्हारे बिना एक कौर भी नहीं खाया है। आओ, इधर आओ; आनन्दसे भोजन करो॥ ४५॥

वीरराघवः

अत एव ते ऊचुरित्यादि, श्लोकः स्पष्टार्थः ॥ ४५ ॥

श्लोक-४६

विश्वास-प्रस्तुतिः

ततो हसन् हृषीकेशोऽभ्यवहृत्य सहार्भकैः।
दर्शयंश्चर्माजगरं न्यवर्तत वनाद् व्रजम्॥

मूलम्

ततो हसन् हृषीकेशोऽभ्यवहृत्य सहार्भकैः।
दर्शयंश्चर्माजगरं न्यवर्तत वनाद् व्रजम्॥

अनुवाद (हिन्दी)

तब हँसते हुए भगवान‍्ने ग्वालबालोंके साथ भोजन किया और उन्हें अघासुरके शरीरका ढाँचा दिखाते हुए वनसे व्रजमें लौट आये॥ ४६॥

श्रीसुदर्शनसूरिः

हृषीकाणामीशः देहेन्द्रियप्राणमनोविशिष्टात्मसमूहनियन्ता परमात्मा तैः सहाभ्यवहृत्य भुक्त्वा व्रजं न्यवर्त्तत इत्यनेन तेषां सर्वक्रिया श्रीभगवत्कृतं वेति ॥४६॥

श्लोक-४७

विश्वास-प्रस्तुतिः

बर्हप्रसूननवधातुविचित्रिताङ्गः
प्रोद्दामवेणुदलशृङ्गरवोत्सवाढ्यः।
वत्सान् गृणन्ननुगगीतपवित्रकीर्ति-
र्गोपीदृगुत्सवदृशिः प्रविवेश गोष्ठम्॥

मूलम्

बर्हप्रसूननवधातुविचित्रिताङ्गः
प्रोद्दामवेणुदलशृङ्गरवोत्सवाढ्यः।
वत्सान् गृणन्ननुगगीतपवित्रकीर्ति-
र्गोपीदृगुत्सवदृशिः प्रविवेश गोष्ठम्॥

अनुवाद (हिन्दी)

श्रीकृष्णके सिरपर मोरपंखका मनोहर मुकुट और घुँघराले बालोंमें सुन्दर-सुन्दर महँ-महँ महकते हुए पुष्प गुँथ रहे थे। नयी-नयी रंगीन धातुओंसे श्याम शरीरपर चित्रकारी की हुई थी। वे चलते समय रास्तेमें उच्च स्वरसे कभी बाँसुरी, कभी पत्ते और कभी सिंगी बजाकर वाद्योत्सवमें मग्न हो रहे हैं। पीछे-पीछे ग्वालबाल उनकी लोकपावन कीर्तिका गान करते जा रहे हैं। कभी वे नाम ले-लेकर अपने बछड़ोंको पुकारते, तो कभी उनके साथ लाड़-लड़ाने लगते। मार्गके दोनों ओर गोपियाँ खड़ी हैं; जब वे कभी तिरछे नेत्रोंसे उनकी नजरमें नजर मिला देते हैं, तब गोपियाँ आनन्द-मुग्ध हो जाती हैं। इस प्रकार भगवान् श्रीकृष्णने गोष्ठमें प्रवेश किया॥ ४७॥

श्रीसुदर्शनसूरिः

बर्हादिभिः विचित्रितानि अङ्गानि येन तत्र बर्हेण मुकुटशोभा कृता प्रसूनः मालारूपः सर्वाङ्गालङ्कारः वनेन जलेन धातुभिस्तिलकादिरचनेति विभागः नवधातु इति वा पाठः वेगुरवेण शृङ्गरवेण प्रोद्दामः प्रबलः उत्पवः तेनाच्यः वत्सान् तत्तन्नाम्नानुच्चारणेन गृणन् गोपीदृशानुत्सवदायि दर्शनं यस्य सः गोष्ठं प्रविवेश ॥ ४७ ॥

श्लोक-४८

विश्वास-प्रस्तुतिः

अद्यानेन महाव्यालो यशोदानन्दसूनुना।
हतोऽविता वयं चास्मादिति बाला व्रजे जगुः॥

मूलम्

अद्यानेन महाव्यालो यशोदानन्दसूनुना।
हतोऽविता वयं चास्मादिति बाला व्रजे जगुः॥

अनुवाद (हिन्दी)

परीक्षित्! उसी दिन बालकोंने व्रजमें जाकर कहा कि ‘आज यशोदा मैयाके लाड़ले नन्दनन्दनने वनमें एक बड़ा भारी अजगर मार डाला है और उससे हमलोगोंकी रक्षा की है’॥ ४८॥

श्रीसुदर्शनसूरिः

महाव्यालः अघासुरः अद्येति वर्षानन्तरमुक्तावपि मायामोहित त्वेन तेषाम् एक दिवसलालाज्ञानं बाला इति च इदमेव उपोद्बलयति व्रजे व्रजस्य पुरुषस्त्रीषु जगुरकथयन् ॥ ४८ ॥

श्लोक-४९

मूलम् (वचनम्)

राजोवाच

विश्वास-प्रस्तुतिः

ब्रह्मन् परोद‍्भवे कृष्णे इयान् प्रेमा कथं भवेत्।
योऽभूतपूर्वस्तोकेषु स्वोद‍्भवेष्वपि कथ्यताम्॥

मूलम्

ब्रह्मन् परोद‍्भवे कृष्णे इयान् प्रेमा कथं भवेत्।
योऽभूतपूर्वस्तोकेषु स्वोद‍्भवेष्वपि कथ्यताम्॥

अनुवाद (हिन्दी)

राजा परीक्षित् ने कहा—ब्रह्मन्! व्रजवासियोंके लिये श्रीकृष्ण अपने पुत्र नहीं थे, दूसरेके पुत्र थे। फिर उनका श्रीकृष्णके प्रति इतना प्रेम कैसे हुआ? ऐसा प्रेम तो उनका अपने बालकोंपर भी पहले कभी नहीं हुआ था! आप कृपा करके बतलाइये, इसका क्या कारण है?॥ ४९॥

श्रीसुदर्शनसूरिः

परोद्भवे परपुत्र श्रीकृष्णे इयान् बुद्धिस्थोऽपरिच्छिन्नः प्रेमा यः स्वोद्भवेष्वपि तोकेषु बालेषु अभूतपूर्वः कथञ्जातः ? इति कथ्यताम् ॥ ४९ ॥

श्लोक-५०

मूलम् (वचनम्)

श्रीशुक उवाच

विश्वास-प्रस्तुतिः

सर्वेषामपि भूतानां नृप स्वात्मैव वल्लभः।
इतरेऽपत्यवित्ताद्यास्तद्वल्लभतयैव हि॥

मूलम्

सर्वेषामपि भूतानां नृप स्वात्मैव वल्लभः।
इतरेऽपत्यवित्ताद्यास्तद्वल्लभतयैव हि॥

अनुवाद (हिन्दी)

श्रीशुकदेवजी कहते हैं—राजन्! संसारके सभी प्राणी अपने आत्मासे ही सबसे बढ़कर प्रेम करते हैं। पुत्रसे, धनसे या और किसीसे जो प्रेम होता है—वह तो इसलिये कि वे वस्तुएँ अपने आत्माको प्रिय लगती हैं॥ ५०॥

श्रीसुदर्शनसूरिः

उत्तरयति शुकः भूतानां चेतनजीवशरीरयोः वाची भूतशब्दः सर्वेषां देवतीर्यङ्मनुष्यस्थावरशरीरवतां स्वात्मा जीवदेहविशिष्टं स्वस्वरूपं परमात्मरूपं विशेष्यं न तु देहात्पृथग्भूतं वा प्रीतिविषयं तस्याऽननुभवात् इतरेऽपत्यवित्ताद्या तद्वल्लभतया तस्य देहविशिष्टस्य स्वस्य प्रियत्वेन प्रीतिदातृत्वेनैव प्रिया भवन्ति ॥ ५० ॥

श्लोक-५१

विश्वास-प्रस्तुतिः

तद् राजेन्द्र यथा स्नेहः स्वस्वकात्मनि देहिनाम्।
न तथा ममतालम्बिपुत्रवित्तगृहादिषु॥

मूलम्

तद् राजेन्द्र यथा स्नेहः स्वस्वकात्मनि देहिनाम्।
न तथा ममतालम्बिपुत्रवित्तगृहादिषु॥

अनुवाद (हिन्दी)

राजेन्द्र! यही कारण है कि सभी प्राणियोंका अपने आत्माके प्रति जैसा प्रेम होता है, वैसा अपने कहलानेवाले पुत्र, धन और गृह आदिमें नहीं होता॥ ५१॥

श्रीसुदर्शनसूरिः

देहाधीनाम् एवात्मपदवाच्यानां त्रयाणां प्रेमास्पदत्वं विवृणोति - तदिति । हे राजेन्द्र ! ततः कारणात् यथा देहिनां स्वस्वदेहज्ञानविशिष्टानां जीवानां स्वस्वकात्मनि अहन्ता-विषये स्वस्य स्वस्य देहे स्नेहः भवति तथा ममतालम्बिपुत्रवित्तगृहादिषु ममताविषया ये पुत्रवित्तगृहदासादयस्तेषु स्नेहो न भवति ॥ ५१ ॥

श्लोक-५२

विश्वास-प्रस्तुतिः

देहात्मवादिनां पुंसामपि राजन्यसत्तम।
यथा देहः प्रियतमस्तथा न ह्यनु ये च तम्॥

मूलम्

देहात्मवादिनां पुंसामपि राजन्यसत्तम।
यथा देहः प्रियतमस्तथा न ह्यनु ये च तम्॥

अनुवाद (हिन्दी)

नृपश्रेष्ठ! जो लोग देहको ही आत्मा मानते हैं, वे भी अपने शरीरसे जितना प्रेम करते हैं, उतना प्रेम शरीरके सम्बन्धी पुत्र-मित्र आदिसे नहीं करते॥ ५२॥

श्रीसुदर्शनसूरिः

अपि च देहात्मवादिनाम् आसुरस्वभावानां पुंसामपि यथा देहः प्रियतमः प्रीतिविषयीभूतः तथा तं देहमनु ये पुत्रकलत्रादयस्ते न प्रियतमा इति ॥ ५२ ॥

श्लोक-५३

विश्वास-प्रस्तुतिः

देहोऽपि ममताभाक् चेत्तर्ह्यसौ नात्मवत् प्रियः।
यज्जीर्यत्यपि देहेऽस्मिन् जीविताशा बलीयसी॥

मूलम्

देहोऽपि ममताभाक् चेत्तर्ह्यसौ नात्मवत् प्रियः।
यज्जीर्यत्यपि देहेऽस्मिन् जीविताशा बलीयसी॥

अनुवाद (हिन्दी)

जब विचारके द्वारा यह मालूम हो जाता है कि ‘यह शरीर मैं नहीं हूँ, यह शरीर मेरा है’ तब इस शरीरसे भी आत्माके समान प्रेम नहीं रहता। यही कारण है कि इस देहके जीर्ण-शीर्ण हो जानेपर भी जीनेकी आशा प्रबल रूपसे बनी रहती है॥ ५३॥

श्रीसुदर्शनसूरिः

एवं सामान्यतः विशेषतः आत्मनः प्रेमविषयीभूतं देहं प्रतिपाद्य आत्माज्ञानवतां च देहस्यैवाऽऽत्मत्वेन प्रीत्यास्पदत्व- मुक्त्वा इदानीं देहविलक्षणात्मज्ञानवतां प्रीतिवृत्ति विवेचयति - देहोऽपीति । येषां देहोऽपि ममताभाक् इति मतं भवेत् चेद्यदि तहि तदाऽसौ देहः आत्मवत्प्रियः कुतस्तेषां आत्मानुभवस्य प्रीतिविषयत्वात् तस्य च दहनाशे सति विनाशात् अदर्शनाद्यतः तेषामस्मिन् देहे जीर्यति सति अपि सम्भावनायां जीविताशा बलीयसी भवति औषधादिकरणेन व्याध्यादिनिवारणेन योगेन वा आसनादिभिः धारणाभेदेव देहस्य नीरोगीकरणेनात्मानुभवस्यैव तेषां प्रियत्वमिति भावः ॥ ५३ ॥

श्लोक-५४

विश्वास-प्रस्तुतिः

तस्मात् प्रियतमः स्वात्मा सर्वेषामपि देहिनाम्।
तदर्थमेव सकलं जगदेतच्चराचरम्॥

मूलम्

तस्मात् प्रियतमः स्वात्मा सर्वेषामपि देहिनाम्।
तदर्थमेव सकलं जगदेतच्चराचरम्॥

अनुवाद (हिन्दी)

इससे यह बात सिद्ध होती है कि सभी प्राणी अपने आत्मासे ही सबसे बढ़कर प्रेम करते हैं और उसीके लिये इस सारे चराचर जगत‍्से भी प्रेम करते हैं॥ ५४॥

श्रीसुदर्शनसूरिः

एवमेव परमात्मप्रीतिमतां प्रपन्नानाम् भक्तानां च भगवत्प्रीतिमेवाह - द्वाभ्याम्, तस्मात्सर्वेषामपि देहस्याऽपि आत्मविशेष्यकत्वेनैव प्रियत्वमतः स्वात्मा स्वस्य जीवस्थ आत्मा परमात्मा एव, देहिनां देहविशिष्टजीवानां प्रियतम इत्यस्माभिः आत्मर्ज्ञानिर्णीयते अत एत्तच्चराचरं जगत् तदर्थं आत्मार्थं आत्मा परमात्मा तच्छेषभूतमित्यर्थः ॥ ५४ ॥

श्लोक-५५

विश्वास-प्रस्तुतिः

कृष्णमेनमवेहि त्वमात्मानमखिलात्मनाम्।
जगद्धिताय सोऽप्यत्र देहीवाभाति मायया॥

मूलम्

कृष्णमेनमवेहि त्वमात्मानमखिलात्मनाम्।
जगद्धिताय सोऽप्यत्र देहीवाभाति मायया॥

अनुवाद (हिन्दी)

इन श्रीकृष्णको ही तुम सब आत्माओंका आत्मा समझो। संसारके कल्याणके लिये ही योगमायाका आश्रय लेकर वे यहाँ देहधारीके समान जान पड़ते हैं॥ ५५॥

श्रीसुदर्शनसूरिः

एतदेव विशदयति- कृष्णमेनमिति । एनं कृष्ण सदानन्दस्वरूपरूपं परं ब्रह्म श्रीनारायणाख्यम् अखिलात्मनां सर्वावस्थबद्धमुक्त नित्यजीवानाम् आत्मानं शरीरिणं शेषिणामावारम् अवेहि सोऽपि तादृशस्वरूपरूपगुणविभूतिमानपि अत्र श्रीवृन्दावनभूमी जगद्धिताय चेतनाचेतनकल्याणाय मायया स्वसङ्कल्पेन वर्त्तमानोऽपि “माया वयुनं ज्ञानम्” इति नैघण्टुकाः देहीव भौतिकदेवारीवाज्ञानां भाति ।। ५५ ।।

श्लोक-५६

विश्वास-प्रस्तुतिः

वस्तुतो जानतामत्र कृष्णं स्थास्नु चरिष्णु च।
भगवद्रूपमखिलं नान्यद् वस्त्विह किञ्चन॥

मूलम्

वस्तुतो जानतामत्र कृष्णं स्थास्नु चरिष्णु च।
भगवद्रूपमखिलं नान्यद् वस्त्विह किञ्चन॥

अनुवाद (हिन्दी)

जो लोग भगवान् श्रीकृष्णके वास्तविक स्वरूपको जानते हैं, उनके लिये तो इस जगत‍्में जो कुछ भी चराचर पदार्थ हैं, अथवा इससे परे परमात्मा, ब्रह्म, नारायण आदि जो भगवत्स्वरूप हैं, सभी श्रीकृष्णस्वरूप ही हैं। श्रीकृष्णके अतिरिक्त और कोई प्राकृत-अप्राकृत वस्तु है ही नहीं॥ ५६॥

श्रीसुदर्शनसूरिः

एवं वैशिष्टयेन भगवदज्ञानवतां चिदन्यत्वप्रति पादयति- कारणत्वप्रतिपादनेन परिणामं च वारयति, भगवत इति । श्रीकृष्णं वस्तुतः स्वात्मात्मत्वेन स्थास्तु चरिष्णु च चेतना-चेतनम् अखिलं सवं भगवदुपं श्रीभगवतः श्रीकृष्णस्य रूपं शरीरम् इति च जानतां तदन्यद्वस्तु किञ्चनाऽपि नहि “तदनन्यत्वमारम्भणशब्दादिभ्यः” ( २|१|१५ ) इति सूत्रे चिदचिद्वस्तुनोः शरीरशरीरिभावेन परमात्मानन्यत्वप्रतिपादनात् स्वरूपपरिणामान- भ्युपगमात् श्रुतिपुराणेषु सहस्रशः साङ्कल्पिक प्रवेशस्यैव घोषितत्वाच्च ॥ ५६ ॥

श्लोक-५७

विश्वास-प्रस्तुतिः

सर्वेषामपि वस्तूनां भावार्थो भवति स्थितः।
तस्यापि भगवान् कृष्णः किमतद् वस्तु रूप्यताम्॥

मूलम्

सर्वेषामपि वस्तूनां भावार्थो भवति स्थितः।
तस्यापि भगवान् कृष्णः किमतद् वस्तु रूप्यताम्॥

अनुवाद (हिन्दी)

सभी वस्तुओंका अन्तिम रूप अपने कारणमें स्थित होता है। उस कारणके भी परम कारण हैं भगवान् श्रीकृष्ण। तब भला बताओ, किस वस्तुको श्रीकृष्णसे भिन्न बतलायें॥ ५७॥

श्रीसुदर्शनसूरिः

कार्यकारणानन्यत्वमेवाह - सर्वेषां वस्तूनां स्थूलावस्थचिदचिद्वस्तूनां भावार्थः सत्यत्वरूपोऽर्थः अभिधेयो भवति इति भवत्स्वरूप णते तस्मिन् सूक्ष्मावस्थ चेतनसमष्टिगर्भके महद्ब्रह्मणि जगद्योनिभूते प्रकृत्याख्ये सूक्ष्माचेतन इति भवच्छब्दार्थे स्थितः इति कालत्रये पदार्थ सत्यत्वमुक्तं सर्वपदार्थसत्ख्याति स्वीकारात् अत एवैकादशे श्रीभगवता श्रीकृष्णचन्द्रेण “विकल्पः ख्यातिवादिनाम्" इति वक्ष्यते विविधतया कल्प्यते रच्यत इति सत्पदार्थ इत्यर्थः । तस्यापि भवच्छब्दार्थ सूक्ष्मावस्थचेतनस्यापि चेतन समष्टिरूपगर्भदातृत्वेन भगवान् ज्ञानबलादिषड्गुणैः परिपूर्णः श्रीमन्नारायणः परं ब्रह्म परं तत्त्वं सर्वश्रुतिशिरः प्रतिपाद्यः श्रीकृष्णः परममाधुर्यविशिष्टस्वरूप रूपगुण विभवैश्वर्यः सौशील्याद्यनवधि कातिशयासङ्ख्येयक ल्याणगुणनिधिः स्वभक्त प्रपन्न नित्याकर्षकः सत्यत्वज्ञान- त्वानन्तत्वादिस्वरूपरूपगुणकच “पिता माता भ्राता निवासः शरणं सुहृद्गतिर्नारायणः" इति श्रुत्युक्तः “अहं बीजप्रदः पिता " इति गीतासु स्ववचनोक्तः “सर्वकारणकारणम्” इत्युक्तश्च अतः अतद्वस्तु न तद्वस्तु अतद्वस्तु तद्भिन्न वस्तु किं वर्त्तते यदि तद्भिनं वस्तु वर्तते तर्हि रूप्यतां कथ्यतामिति प्रश्नः अतः - “पिता च रक्षकः शेषी भर्त्ता ज्ञेयो रमापतिः । स्वाम्याधारोऽयमात्मा च भोक्ता चेति मनूदितः " ॥ इति । नवविधसम्बन्धानुसन्धानवतां सर्वस्य भगवच्छेषत्वानुसन्धानं स्वस्य चाधेयत्वविधेयत्वशेषत्वानुसन्धानेन श्रीभगवदधीन सत्ता स्थितिप्रवृत्तिकत्वमिति, विशदमनुसन्धेयम् ॥ ५७ ॥

श्लोक-५८

विश्वास-प्रस्तुतिः

समाश्रिता ये पदपल्लवप्लवं
महत्पदं पुण्ययशो मुरारेः।
भवाम्बुधिर्वत्सपदं परं पदं
पदं पदं यद् विपदां न तेषाम्॥

मूलम्

समाश्रिता ये पदपल्लवप्लवं
महत्पदं पुण्ययशो मुरारेः।
भवाम्बुधिर्वत्सपदं परं पदं
पदं पदं यद् विपदां न तेषाम्॥

अनुवाद (हिन्दी)

जिन्होंने पुण्यकीर्ति मुकुन्द मुरारीके पदपल्लवकी नौकाका आश्रय लिया है, जो कि सत्पुरुषोंका सर्वस्व है, उनके लिये यह भवसागर बछड़ेके खुरके गढ़ेके समान है। उन्हें परमपदकी प्राप्ति हो जाती है और उनके लिये विपत्तियोंका निवासस्थान—यह संसार नहीं रहता॥ ५८॥

श्लोक-५९

विश्वास-प्रस्तुतिः

एतत्ते सर्वमाख्यातं यत् पृष्टोऽहमिह त्वया।
यत् कौमारे हरिकृतं पौगण्डे परिकीर्तितम्॥

मूलम्

एतत्ते सर्वमाख्यातं यत् पृष्टोऽहमिह त्वया।
यत् कौमारे हरिकृतं पौगण्डे परिकीर्तितम्॥

अनुवाद (हिन्दी)

परीक्षित्! तुमने मुझसे पूछा था कि भगवान‍्के पाँचवें वर्षकी लीला ग्वालबालोंने छठे वर्षमें कैसे कही, उसका सारा रहस्य मैंने तुम्हें बतला दिया॥ ५९॥

श्लोक-६०

विश्वास-प्रस्तुतिः

एतत् सुहृद‍्भिश्चरितं मुरारे-
रघार्दनं शाद्वलजेमनं च।
व्यक्तेतरद् रूपमजोर्वभिष्टवं
शृण्वन् गृणन्नेति नरोऽखिलार्थान्॥

मूलम्

एतत् सुहृद‍्भिश्चरितं मुरारे-
रघार्दनं शाद्वलजेमनं च।
व्यक्तेतरद् रूपमजोर्वभिष्टवं
शृण्वन् गृणन्नेति नरोऽखिलार्थान्॥

अनुवाद (हिन्दी)

भगवान् श्रीकृष्णकी ग्वालबालोंके साथ वनक्रीड़ा, अघासुरको मारना, हरी-हरी घाससे युक्त भूमिपर बैठकर भोजन करना, अप्राकृतरूपधारी बछड़ों और ग्वालबालोंका प्रकट होना और ब्रह्माजीके द्वारा की हुई इस महान् स्तुतिको जो मनुष्य सुनता और कहता है—उस-उसको धर्म, अर्थ, काम और मोक्षकी प्राप्ति हो जाती है॥ ६०॥

श्लोक-६१

विश्वास-प्रस्तुतिः

एवं विहारैः कौमारैः कौमारं जहतुर्व्रजे।
निलायनैः सेतुबन्धैर्मर्कटोत्प्लवनादिभिः॥

मूलम्

एवं विहारैः कौमारैः कौमारं जहतुर्व्रजे।
निलायनैः सेतुबन्धैर्मर्कटोत्प्लवनादिभिः॥

अनुवाद (हिन्दी)

परीक्षित्! इस प्रकार श्रीकृष्ण और बलरामने कुमार-अवस्थाके अनुरूप आँखमिचौनी, सेतु-बन्धन, बन्दरोंकी भाँति उछलना-कूदना आदि अनेकों लीलाएँ करके अपनी कुमार-अवस्था व्रजमें ही त्याग दी॥ ६१॥

वीरराघवः

अत एव श्रीभगवच्छरणागतिरेव श्रीमदाचार्यकारिता सर्वाधिकारिका इति सुस्पष्टमाह - समाश्रिता य इति । ये पुरुषा मुरारेः मुरहननसमर्थस्य भाविनोऽपि भूतवन्निर्द्देशश्चानादिसिद्धनामवत्त्वं हरेः सूचयतीदं पदं पुण्ययशश्चासौ मुरारिः तस्य पदपल्लवप्लवं पदश्चरणः स पल्लव इव शीतलः सुखदः प्लवः नौकातुल्यः सान्निध्यस्पर्शाभ्यामेव तारकत्वं व्यञ्जितम् महत्पदं महतां ब्रह्माण्डाधिगनामपि पदमाश्रय तेषां भवाम्बुधिः जन्ममृत्युप्रवाहरूपः संसारः समुद्र इव दुस्तरोऽपि वत्सपदं वत्सपदतुल्यं भवेत् अयन्नतरणीयो भवेत् परं पदं स्थूलावस्थचिदचिद्विशिष्टब्रह्मणः लीलाविभूति विशिष्टस्य परं विरजातश्च परम्पदं परमव्योमाख्यं श्रीवैकुण्ठं पदं स्थानं स्वगृहरूपं भवेत् विरजाप्रमाणच “ प्रधानपरमव्योम्नोरन्तरे विरजा नदी । वेदान्तस्वेदजनिततोयविस्राविता च सा” इति “अर्चिरादिना तत्प्रथिते ( ४ | ३ | १ ) इति सूत्रकृदभिमताचिरादिना एव गमनेन प्रपन्नानां परमपदप्रातिः अत एवात्मात्मीयभरसमर्पणवतां प्रपन्नानां यद्विपदां पदं संसारभ्रमणरूपं तत् तेषांन भवेदेवेत्यर्थः ॥ ५८-६१ ॥

इति श्रीमद्भागवतव्याख्याने दशमस्कन्धे श्रीसुदर्शनसूरिकृतशुकपक्षीये चतुर्दशोऽध्यायः ॥ १४ ॥

अनुवाद (समाप्ति)

इति श्रीमद‍्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे ब्रह्मस्तुतिर्नाम चतुर्दशोऽध्यायः॥ १४॥