०२ गर्भगतविष्णोर्ब्रह्मादिकृतस्तुतिः

[द्वितीयोऽध्यायः]

भागसूचना

भगवान‍्का गर्भ-प्रवेश और देवताओंद्वारा गर्भ-स्तुति

श्लोक-१

मूलम् (वचनम्)

श्रीशुक उवाच

विश्वास-प्रस्तुतिः

प्रलम्बबकचाणूरतृणावर्तमहाशनैः।
मुष्टिकारिष्टद्विविदपूतनाकेशिधेनुकैः॥

मूलम्

प्रलम्बबकचाणूरतृणावर्तमहाशनैः।
मुष्टिकारिष्टद्विविदपूतनाकेशिधेनुकैः॥ १ ॥

श्लोक-२

विश्वास-प्रस्तुतिः

अन्यैश्चासुरभूपालैर्बाणभौमादिभिर्युतः।
यदूनां कदनं चक्रे बली मागधसंश्रयः॥

मूलम्

अन्यैश्चासुरभूपालैर्बाणभौमादिभिर्युतः।
यदूनां कदनं चक्रे 1बलिमागधसंश्रयः॥ २ ॥

अनुवाद (हिन्दी)

श्रीशुकदेवजी कहते हैं—परीक्षित्! कंस एक तो स्वयं बड़ा बली था और दूसरे, मगधनरेश जरासन्धकी उसे बहुत बड़ी सहायता प्राप्त थी। तीसरे, उसके साथी थे—प्रलम्बासुर, बकासुर, चाणूर, तृणावर्त, अघासुर, मुष्टिक, अरिष्टासुर, द्विविद, पूतना, केशी और धेनुक। तथा बाणासुर और भौमासुर आदि बहुत-से दैत्य राजा उसके सहायक थे। इनको साथ लेकर वह यदुवंशियोंको नष्ट करने लगा॥ १-२॥

श्लोक-३

विश्वास-प्रस्तुतिः

ते पीडिता निविविशुः कुरुपञ्चालकेकयान्।
शाल्वान् विदर्भान् निषधान् विदेहान् कोसलानपि॥

मूलम्

ते पीडिता निविविशुः कुरु2पाञ्चालकेकयान्।
3साल्वान् विदर्भान् निषधान् 4विदेहान् 5कोसलानपि॥ ३ ॥

अनुवाद (हिन्दी)

वे लोग भयभीत होकर कुरु, पंचाल, केकय, शाल्व, विदर्भ, निषध, विदेह और कोसल आदि देशोंमें जा बसे॥ ३॥

वीरराघवः

“यदुभिस् स व्यरुद्ध्यत” (भाग 10-1-68)

इत्य् उक्तम् । तम् एव विरोधं प्रपञ्चयति । त्वरया देवकी-गर्भस्य अन्यत्र सञ्चारेण भगवतः प्रवेशं प्रलम्बेत्य्-आदि सार्ध-श्लोक-त्रयेणाह । महाशनोधासुरः ॥ १-३ ॥

श्रीसुदर्शनसूरिः

मागघो जरासन्धः ॥ २-३ ॥

श्लोक-४

विश्वास-प्रस्तुतिः

एके तमनुरुन्धाना ज्ञातयः पर्युपासते।
हतेषु षट्सु बालेषु देवक्या औग्रसेनिना॥

मूलम्

एके तमनुरुन्धाना ज्ञातयः पर्युपासते।
हतेषु षट्सु बालेषु देवक्या औग्रसेनिना॥ ४ ॥

वीरराघवः

एके इति । अनुरुन्धाना अनुवर्तमानाः ॥ ४ ॥

श्लोक-५

विश्वास-प्रस्तुतिः

सप्तमो वैष्णवं धाम यमनन्तं प्रचक्षते।
गर्भो बभूव देवक्या हर्षशोकविवर्धनः॥

मूलम्

सप्तमो वैष्णवं धाम यमनन्तं प्रचक्षते।
गर्भो बभूव देवक्या हर्षशोकविवर्धनः॥ ५ ॥

अनुवाद (हिन्दी)

कुछ लोग ऊपर-ऊपरसे उसके मनके अनुसार काम करते हुए उसकी सेवामें लगे रहे। जब कंसने एक-एक करके देवकीके छः बालक मार डाले, तब देवकीके सातवें गर्भमें भगवान‍्के अंशस्वरूप श्रीशेषजी* जिन्हें अनन्त भी कहते हैं—पधारे। आनन्द-स्वरूप शेषजीके गर्भमें आनेके कारण देवकी को स्वाभाविक ही हर्ष हुआ। परन्तु कंस शायद इसे भी मार डाले, इस भयसे उनका शोक भी बढ़ गया॥ ४-५॥

पादटिप्पनी
  • शेष भगवान‍्ने विचार किया कि ‘रामावतारमें मैं छोटा भाई बना, इसीसे मुझे बड़े भाईकी आज्ञा माननी पड़ी और वन जनेसे मैं उन्हें रोक नहीं सका। श्रीकृष्णावतारमें मैं बड़ा भाई बनकर भगवान‍्की अच्छी सेवा कर सकूँगा। इसलिये वे श्रीकृष्णसे पहले ही गर्भमें आ गये।

श्लोक-६

विश्वास-प्रस्तुतिः

भगवानपि विश्वात्मा विदित्वा कंसजं भयम्।
यदूनां निजनाथानां योगमायां समादिशत्॥

मूलम्

भगवानपि विश्वात्मा विदित्वा कंसजं भयम्।
यदूनां निजनाथानां योगमायां समादिशत्॥ ६ ॥

अनुवाद (हिन्दी)

विश्वात्मा भगवान‍्ने देखा कि मुझे ही अपना स्वामी और सर्वस्व माननेवाले यदुवंशी कंसके द्वारा बहुत ही सताये जा रहे हैं। तब उन्होंने अपनी योगमायाको यह आदेश दिया—॥ ६॥

वीरराघवः

सप्तम इति । धाम कला । तद् एव सप्तमो गर्भो बभूव । किं तद् धामेत्य् अतः आह - यमनन्तम् इति । हर्ष-शोक-विवर्धनः, आनन्द-रूपस्यावतीर्णत्वात् हर्षः, पूर्व-गर्भ-साधारण-दृष्ट्या शोक इति ॥ ५-६ ॥

श्रीसुदर्शनसूरिः

अनुरुन्धाना अनुवर्त्तमानाः ॥ ४-६ ॥

श्लोक-७

विश्वास-प्रस्तुतिः

गच्छ देवि व्रजं भद्रे गोपगोभिरलङ्कृतम्।
रोहिणी वसुदेवस्य भार्याऽऽस्ते नन्दगोकुले।
अन्याश्च कंससंविग्ना विवरेषु वसन्ति हि॥

मूलम्

गच्छ देवि व्रजं भद्रे गोपगोभिरलङ्कृतम्।
रोहिणी वसुदेवस्य भार्याऽऽस्ते नन्दगोकुले।
अन्याश्च कंससंविग्ना विवरेषु वसन्ति हि॥ ७ ॥

अनुवाद (हिन्दी)

‘देवि! कल्याणी! तुम व्रजमें जाओ! वह प्रदेश ग्वालों और गौओंसे सुशोभित है। वहाँ नन्दबाबाके गोकुलमें वसुदेवकी पत्नी रोहिणी निवास करती हैं। उनकी और भी पत्नियाँ कंससे डरकर गुप्त स्थानोंमें रह रही हैं॥ ७॥

वीरराघवः

तद् एवाह गच्छेत्य्-आदिना सन्दिष्टैवम् इत्य् अतः प्राक्तनेन । हे देवि ! भद्रे ! त्वं गोपैः गोपीभिश् चालङ्कृतं नन्द-व्रजं गच्छ । तत्र गत्वा किं विधेयम् ? इत्य् अत्राह - नन्द-गो-कुले नन्दस्य ग्रो6 व्रजे वसु-देवस्य भार्या आस्ते । तथा ऽन्याश् च तस्य भार्याः कंसात् संविग्ना भीताः तत्र 7तत्र विवरेषु पर्वत-बिलादिषु प्रच्छन्ना वसन्ति ॥ ७ ॥

श्रीसुदर्शनसूरिः

विवरेषु गिरिगुहासु ।। ७–१६ ॥

श्लोक-८

विश्वास-प्रस्तुतिः

देवक्या जठरे गर्भं शेषाख्यं धाम मामकम्।
तत् संनिकृष्य रोहिण्या उदरे संनिवेशय॥

मूलम्

देवक्या जठरे गर्भं शेषाख्यं धाम मामकम्।
तत् संनिकृष्य रोहिण्या उदरे संनिवेशय॥ ८ ॥

अनुवाद (हिन्दी)

इस समय मेरा वह अंश जिसे शेष कहते हैं, देवकीके उदरमें गर्भ रूपसे स्थित है। उसे वहाँसे निकालकर तुम रोहिणीके पेटमें रख दो॥ ८॥

वीरराघवः

अधुना मामकं मदीयं शेषाख्यं धामं अंशं देवक्याः जठरे गर्भ-रूपेणावस्थितं, 8तस्माद् देवकी-जठरात् सन्निकृष्य सम्यग् बहिर् निष्कास्य रोहिण्या जठरे सम्यक् निवेशय । अनेन “रोहिण्यास् तनयः प्रोक्तः” इत्य्-आदि-प्राक्तनं 9प्रश्नस्योत्तरम् उक्तं भवति ॥ ८ ॥

श्लोक-९

विश्वास-प्रस्तुतिः

अथाहमंशभागेन देवक्याः पुत्रतां शुभे।
प्राप्स्यामि त्वं यशोदायां नन्दपत्न्यां भविष्यसि॥

मूलम्

अथा10हमंशभागेन देवक्याः पुत्रतां शुभे।
प्राप्स्यामि त्वं यशोदायां नन्दपत्न्यां भविष्यसि॥ ९ ॥

अनुवाद (हिन्दी)

कल्याणी! अब मैं अपने समस्त ज्ञान, बल आदि अंशोंके साथ देवकीका पुत्र बनूँगा और तुम नन्दबाबाकी पत्नी यशोदाके गर्भसे जन्म लेना॥ ९॥

वीरराघवः

अथाहम् अंश-भागेन मद् अंशांश-भूतेन सङ्कर्षणेन सह हे शुभे ! देवक्याः पुत्रत्वं प्राप्स्यामि । त्वन्तु नन्दस्य पत्न्यां यशोदायां भविष्यसि सम्भव ॥ ९ ॥

श्लोक-१०

विश्वास-प्रस्तुतिः

अर्चिष्यन्ति मनुष्यास्त्वां सर्वकामवरेश्वरीम्।
धूपोपहारबलिभिः सर्वकामवरप्रदाम्॥

मूलम्

अर्चिष्यन्ति मनुष्यास्त्वां सर्वकामव11रेश्वरीम्।
12नानोपहारबलिभिः सर्वकामवरप्रदाम्॥ १० ॥

अनुवाद (हिन्दी)

तुम लोगोंको मुँहमाँगे वरदान देनेमें समर्थ होओगी। मनुष्य तुम्हें अपनी समस्त अभिलाषाओंको पूर्ण करनेवाली जानकर धूप-दीप, नैवेद्य एवं अन्य प्रकारकी सामग्रियोंसे तुम्हारी पूजा करेंगे॥ १०॥

वीरराघवः

सर्वेषां कामानाम् इष्टार्थानां वराणाञ् च (ईश्वरीं) प्रदात्रीं (पाठान्तरे) सर्व-काम-प्रदानाम् अपि ईश्वरीं त्वां नाना-विधैर् उपहारैर् नैवेद्यैर् अन्यैश् च बलिभिः पूजाभिः नराः अर्चिष्यन्ति । एवम् अनुगृह्णामीति भावः ॥ १० ॥

श्लोक-११

विश्वास-प्रस्तुतिः

नामधेयानि कुर्वन्ति स्थानानि च नरा भुवि।
दुर्गेति भद्रकालीति विजया वैष्णवीति च॥

मूलम्

नामधेयानि कुर्वन्ति स्थानानि च नरा भुवि।
दुर्गेति भद्रकालीति विजया वैष्णवीति च॥ ११ ॥

श्लोक-१२

विश्वास-प्रस्तुतिः

कुमुदा चण्डिका कृष्णा माधवी कन्यकेति च।
माया नारायणीशानी शारदेत्यम्बिकेति च॥

मूलम्

कुमुदा चण्डिका कृष्णा माधवी कन्यकेति च।
माया नारायणीशा13ना शारदेत्यम्बिकेति च॥ १२ ॥

अनुवाद (हिन्दी)

पृथ्वीमें लोग तुम्हारे लिये बहुत-से स्थान बनायेंगे और दुर्गा, भद्रकाली, विजया, वैष्णवी, कुमुदा, चण्डिका, कृष्णा, माधवी, कन्या, माया, नारायणी, ईशानी, शारदा और अम्बिका आदि बहुत-से नामोंसे पुकारेंगे॥ ११-१२॥

वीरराघवः

तथा भुवि तव स्थानानि मन्दिराणि नामधेयानि च कुर्वन्ति 14करिष्यन्ति14 । तत्र नामानि दर्शयति - दुर्गेति ॥ ११-१२ ॥

श्लोक-१३

विश्वास-प्रस्तुतिः

गर्भसंकर्षणात् तं वै प्राहुः संकर्षणं भुवि।
रामेति लोकरमणाद् बलं बलवदुच्छ्रयात्॥

मूलम्

गर्भसंकर्षणात् तं 15वै 16प्राहुः संकर्षणं भुवि।
रामेति लोकरमणाद् 17बलभद्रं बलोच्छ्रयात्17॥ १३ ॥

अनुवाद (हिन्दी)

देवकीके गर्भमेंसे खींचे जानेके कारण शेषजीको लोग संसारमें ‘संकर्षण’ कहेंगे, लोकरंजन करनेके कारण ‘राम’ कहेंगे और बलवानोंमें श्रेष्ठ होनेके कारण ‘बलभद्र’ भी कहेंगे॥ १३॥

वीरराघवः

तथा त्वया देवकी-जठरात् सङ्कृष्टं शेषम्, अत एव प्रवृत्ति-निमित्तात् सङ्कर्षणात् सङ्कर्षण-शब्द-वाच्यम् । लोक-रमणात् लोक-रञ्जान् निमित्तात् रामेति राम-शब्द-वाच्यम् । बलाधिक्यान् निमित्ताद् बल-भद्र-शब्द-वाच्यम् भुवि प्राहुर् वक्ष्यन्ति । यद् वा तं तेभ्यो निमित्तेभ्यः तं तत् तच् छब्दैर् व्यवहरिष्यन्तीत्य् अर्थः ॥ १३ ॥

श्लोक-१४

विश्वास-प्रस्तुतिः

सन्दिष्टैवं भगवता तथेत्योमिति तद्वचः।
प्रतिगृह्य परिक्रम्य गां गता तत् तथाकरोत्॥

मूलम्

सन्दिष्टैवं भगवता तथेत्योमिति तद्वचः।
18प्रतिगृह्य परिक्रम्य गां गता तत् तथाकरोत्॥ १४ ॥

अनुवाद (हिन्दी)

जब भगवान‍्ने इस प्रकार आदेश दिया, तब योगमायाने ‘जो आज्ञा’—ऐसा कहकर उनकी बात शिरोधार्य की और उनकी परिक्रमा करके वे पृथ्वीलोकमें चली आयीं तथा भगवान‍्ने जैसा कहा था, वैसे ही किया॥ १४॥

वीरराघवः

19एवम् इत्थं भगवता सन्दिष्टा आदिष्टा योग-माया तस्य भगवतो वचः 20तथेत्य् ओम् इति, तथैवास्त्व् इत्य् अङ्गीकार-पूर्वकं प्रतिगृह्य अभिनन्द्य तं प्रदक्षिणीकृत्य गां भूमिं गता प्रविष्टा सती तथैव यथोक्तम् अकरोत् ॥ १४ ॥

श्लोक-१५

विश्वास-प्रस्तुतिः

गर्भे प्रणीते देवक्या रोहिणीं योगनिद्रया।
अहो विस्रंसितो गर्भ इति पौरा विचुक्रुशुः॥

मूलम्

गर्भे प्रणीते देवक्या रोहि21णीं योगनिद्रया।
अहो विस्रंसितो गर्भ इति पौरा विचुक्रुशुः॥ १५ ॥

अनुवाद (हिन्दी)

जब योगमायाने देवकीका गर्भ ले जाकर रोहिणीके उदरमें रख दिया, तब पुरवासी बड़े दुःखके साथ आपसमें कहने लगे—‘हाय! बेचारी देवकीका यह गर्भ तो नष्ट ही हो गया’॥ १५॥

वीरराघवः

ततो योग-निद्रया श्री-भगवद् योग-निद्राधिष्ठात्र्या शक्त्या देवक्या गर्भे रोहिणीं प्रति प्रणीते प्रापिते सति, तदा पौराः जनाः, अहो देवक्या गर्भो विस्रंसितः विस्रस्तः । ‘स्रंसु अधःपतने’ इति धातुः । विचक्रुशुः रुरुदुः ॥ १५ ॥

श्लोक-१६

विश्वास-प्रस्तुतिः

भगवानपि विश्वात्मा भक्तानामभयङ्करः।
आविवेशांशभागेन मन आनकदुन्दुभेः॥

मूलम्

22भगवानपि विश्वात्मा भक्तानामभयङ्करः।
आविवेशांशभागेन मन आनकदुन्दुभेः॥ १६ ॥

अनुवाद (हिन्दी)

भगवान् भक्तोंको अभय करनेवाले हैं। वे सर्वत्र सब रूपमें हैं, उन्हें कहीं आना-जाना नहीं है। इसलिये वे वसुदेवजीके मनमें अपनी समस्त कलाओंके साथ प्रकट हो गये॥ १६॥

वीरराघवः

ततो भक्तानामभयङ्करः भक्ताभयचिकीर्षुः विश्वात्मा भगवान् अंश-भागेन, जातस्येति शेषः ।

“स आत्मा अङ्गान्यन्या देवताः” (तैत्ति. उ. 1-5-1)

इति देवतानां श्रीभगवद् अंशत्व-श्रवणात् आनक-दुन्दुभेर् देवांशेन जातत्वाच् चेति भावः । मन आविवेश सङ्कल्प-रूप-ज्ञानेनाविवेशेत्य् अर्थः ।

“यो मनसि तिष्ठन्" (बृह. उ.3-7-20)

इति पुर्वम् एवाविष्टत्वावगमात् अंश-भागेन सङ्कल्प-रूप-ज्ञानेन आविवेशेति वान्वयः ॥ १६ ॥

श्लोक-१७

विश्वास-प्रस्तुतिः

स बिभ्रत् पौरुषं धाम भ्राजमानो यथा रविः।
दुरासदोऽतिदुर्धर्षो भूतानां सम्बभूव ह॥

मूलम्

स बिभ्रत् पौरुषं धाम 23भ्राजमानो यथा रविः।
दुरासदोऽतिदुर्धर्षो भूतानां सम्बभूव ह॥ १७ ॥

अनुवाद (हिन्दी)

उसमें विद्यमान रहनेपर भी अपनेको अव्यक्तसे व्यक्त कर दिया। भगवान‍्की ज्योतिको धारण करनेके कारण वसुदेवजी सूर्यके समान तेजस्वी हो गये, उन्हें देखकर लोगोंकी आँखें चौंधिया जातीं। कोई भी अपने बल, वाणी या प्रभावसे उन्हें दबा नहीं सकता था॥ १७॥

वीरराघवः

वसु-देवः पौरुषं भगवत् सम्बन्धि तेजो बिभ्रत् विभ्राणः यथा रविस् तथा भ्राजमानः दुरासदः इत्थं तया अभिसंहितुम् अशक्येन तेजसा युक्तः, भूतानां कंसादीनां दुर्द्धर्षः दुःखेनापि सोढुम् अशक्यो बभूव ॥ १७ ॥

श्रीसुदर्शनसूरिः

पौरुषं धाम भगवदीयं तेजः वसुदेवाय चित्त्वसिद्धये प्रथमं वसुदेवं हृद्गतः पश्चाद्देवकीजठरं विवेशेत्यर्थः ॥ १७ ॥

श्लोक-१८

विश्वास-प्रस्तुतिः

ततो जगन्मङ्गलमच्युतांशं
समाहितं शूरसुतेन देवी।
दधार सर्वात्मकमात्मभूतं
काष्ठा यथाऽऽनन्दकरं मनस्तः॥

मूलम्

ततो जगन्मङ्गलमच्युतांशं समाहितं शूरसुतेन देवी।
दधार सर्वात्मकमात्मभूतं काष्ठा यथाऽऽनन्दकरं 24मनस्तः॥ १८ ॥

अनुवाद (हिन्दी)

भगवान‍्के उस ज्योतिर्मय अंशको, जो जगत‍्का परम मंगल करनेवाला है, वसुदेवजीके द्वारा आधान किये जानेपर देवी देवकीने ग्रहण किया। जैसे पूर्वदिशा चन्द्रदेवको धारण करती है,वैसे ही शुद्ध सत्त्वसे सम्पन्न देवी देवकीने विशुद्ध मनसे सर्वात्मा एवं आत्मस्वरूप भगवान‍्को धारण किया॥ १८॥

वीरराघवः

ततः शूर-सुतेन वसु-देवेन निहितं जगतां मङ्गलं यस्मात् तम् । अच्युतः अप्रच्युतो ऽंशः सङ्कल्प-रूप-विज्ञानं यस्य तम् । सर्वात्मकं सर्व-शरीरकम् आत्मनो ऽप्य् आत्म-भूतं भगवन्तं देवकी दधार, जठरे इति शेषः । 25यथा काष्ठा पूर्वादिक् घनस्थम् अभ्रपिहितम् आनन्दकरं चन्द्रं बिभर्ति तद्वत् । वसुृ-देवापत्यत्व-सिद्धये तावद् वसु-देव-हृद्गतः, पश्चाद् देवकी-जठरं प्रविवेशेत्य् अर्थः । पूर्व-दिशश् चन्द्रस्येव वसु-देव-देवकी-जठरयोर् भगवतस् सम्बन्ध इति भावः ॥ १८ ॥

श्रीसुदर्शनसूरिः

काष्ठा पूर्वादिक आनन्दकरं चन्द्रं पूर्वापरदिशश्चन्द्रवदेव वसुदेवदेवकीजठरयोर्भगवतः सम्बन्ध इत्यर्थः ॥ १८ ॥

श्लोक-१९

विश्वास-प्रस्तुतिः

सा देवकी सर्वजगन्निवास-
निवासभूता नितरां न रेजे।
भोजेन्द्रगेहेऽग्निशिखेव रुद्धा
सरस्वती ज्ञानखले यथा सती॥

मूलम्

सा देवकी सर्वजगन्निवासनिवासभूता नितरां 26न रेजे26
भोजेन्द्रगेहेऽग्निशिखेव रुद्धा सरस्वती 27ज्ञानखले यथा सती॥ १९ ॥

अनुवाद (हिन्दी)

भगवान् सारे जगत‍्के निवासस्थान हैं। देवकी उनका भी निवासस्थान बन गयी। परन्तु घड़े आदिके भीतर बंद किये हुए दीपकका और अपनी विद्या दूसरेको न देनेवाले ज्ञानखलकी श्रेष्ठ विद्याका प्रकाश जैसे चारों ओर नहीं फैलता, वैसे ही कंसके कारागारमें बंद देवकीकी भी उतनी शोभा नहीं हुई॥ १९॥

वीरराघवः

सा धृत-परम-पुरुषा देवकी सर्व-जगद्-आधार-भूतस्य भगवतो निवास-भूता सती अतितरां न रेजे न रराज; यथा भोजेन्द्रस्य उग्र-सेनस्य कंसस्य वा गृहे ऽवरुद्धा अग्नेश् शिखेव । अभूतोपमेयम् । यथा च ज्ञान-खले 28वेद-विरुद्धे-ज्ञानेन मूर्खे28 दुर्जने पुंसि सती निर्दुष्टा सरस्वती उपनिषन्न राजते तद्वत् परमात्म-गर्भत्वाद् अग्नि-शिखा-दृष्टान्तः ।

“तस्याश् शिखाया मध्ये परमात्मा व्यवस्थितः” (म.ना.उ. 9-12)

इति श्रुतेः । ‘ज्ञान-बले’ इति पाठान्तरम् । तदा वेदाविरुद्ध-ज्ञानवतीत्य् अर्थः ॥ १९ ॥

श्लोक-२०

विश्वास-प्रस्तुतिः

तां वीक्ष्य कंसः प्रभयाजितान्तरां
विरोचयन्तीं भवनं शुचिस्मिताम्।
आहैष मे प्राणहरो हरिर्गुहां
ध्रुवं श्रितो यन्न पुरेयमीदृशी॥

मूलम्

तां वीक्ष्य कंसः प्रभयाजि29तान्तरां विरोचयन्तीं भवनं शुचिस्मिताम्।
आहैष मे प्राणहरो हरिर्गुहां ध्रुवं श्रितो यन्न पुरेयमीदृशी॥ २० ॥

अनुवाद (हिन्दी)

देवकीके गर्भमें भगवान् विराजमान हो गये थे। उसके मुखपर पवित्र मुसकान थी और उसके शरीरकी कान्तिसे बंदीगृह जगमगाने लगा था। जब कंसने उसे देखा, तब वह मन-ही-मन कहने लगा—‘अबकी बार मेरे प्राणोंके ग्राहक विष्णुने इसके गर्भमें अवश्य ही प्रवेश किया है; क्योंकि इसके पहले देवकी कभी ऐसी न थी॥ २०॥

वीरराघवः

तदा प्रभया जितान्य् अन्तराणि दिगन्तराणि यस्याः, शुचि विशुद्धं स्मितं यस्यास् ताम् । भवनं गृहं विरोचयन्तीम् । देवकी30म् अवलोक्य कंसः 31आह । उक्तिम् एव दर्शयति “एष” इत्य्-आदिना ‘इति घोरे’ इत्य् अतः प्राक्तनेन । मे मम प्राणहरः प्राणान् जिहीर्षुः अयम् एव हरिः गुहां देवकी-जठर-विवरं श्रितः । पुरा इयं देवकी नेदृशी एवं-विध-प्रभान्विता नासीत् । अतो नूनं गुहाम् आश्रितः ॥ २० ॥

श्रीसुदर्शनसूरिः

परमात्मगर्भत्वादग्निशिखादृष्टान्तः “तस्या शिखाया मध्ये परमात्मा व्यवस्थितः” इति हि श्रुतिः ज्ञानखले ज्ञानतः खले वेदविरुद्धज्ञानवती विरुद्धा सरस्वती उपनिषदिवेत्यर्थः ।। १९-२० ॥

श्लोक-२१

विश्वास-प्रस्तुतिः

किमद्य तस्मिन् करणीयमाशु मे
यदर्थतन्त्रो न विहन्ति विक्रमम्।
स्त्रियाः स्वसुर्गुरुमत्या वधोऽयं
यशः श्रियं हन्त्यनुकालमायुः॥

मूलम्

किमद्य तस्मिन् 32करणीयमाशु मे 33यथार्थतन्त्रो न विहन्ति विक्रमम्।
स्त्रियाः स्वसुर्गुरुमत्या वधोऽयं यशः श्रियं हन्त्यनु34कूलमायुः॥ २१ ॥

अनुवाद (हिन्दी)

अब इस विषयमें शीघ्र-से-शीघ्र मुझे क्या करना चाहिये? देवकीको मारना तो ठीक न होगा; क्योंकि वीर पुरुष स्वार्थवश अपने पराक्रमको कलंकित नहीं करते। एक तो यह स्त्री है, दूसरे बहिन और तीसरे गर्भवती है। इसको मारनेसे तो तत्काल ही मेरी कीर्ति, लक्ष्मी और आयु नष्ट हो जायगी॥ २१॥

वीरराघवः

अर्थ-तन्त्रो देव-कार्य-प्रधानो ऽयं हरिः मम विक्रमं यथा न विहन्ति तथात्र हरि-विषये मे मयाऽधुना आशु किं करणीयम् ? किं घटनीयम् । यद्येनां हन्मि तर्ह्यस्याः स्त्रियाः, तत्रापि स्वसुर् भगिन्याः, तत्रापि गुरुमत्याः गुरुतर-गर्भिण्याः वधो ऽयं यश आदीनि हन्ति क्षपयति । अनुकूलम् इत्य् आयुर् विशेषणम् । अनुकायम् इति पाठान्तरम् । तदा प्रतिशरीरं यश आदीनि हन्तीत्य् अन्वयः ॥ २१ ॥

श्रीसुदर्शनसूरिः

अर्थतन्त्रो देवकार्यप्रधानः अधर्मे विक्रमं यथा न विहन्ति तथा किं घटनीयमित्यर्थः । गुरुमत्याः गुरुतरगर्भवत्या अनुकायं प्रतिशरीरम् ॥ २१ ॥

श्लोक-२२

विश्वास-प्रस्तुतिः

स एष जीवन् खलु सम्परेतो
वर्तेत योऽत्यन्तनृशंसितेन।
देहे मृते तं मनुजाः शपन्ति
गन्ता तमोऽन्धं तनुमानिनो ध्रुवम्॥

मूलम्

3536द्धष जीवन् खलु सम्परेतो वर्तेत योऽत्यन्तनृशंसितेन।
देहे मृते 37तं मनुजाः शपन्ति गन्ता तमोऽन्धं तनु37मानिनो ध्रुवम्॥ २२ ॥

अनुवाद (हिन्दी)

वह मनुष्य तो जीवित रहनेपर भी मरा हुआ ही है, जो अत्यन्त क्रूरताका व्यवहार करता है। उसकी मृत्युके बाद लोग उसे गाली देते हैं। इतना ही नहीं, वह देहाभिमानियोंके योग्य घोर नरकमें भी अवश्य-अवश्य जाता है॥ २२॥

वीरराघवः

स गुरुमती-हन्ता स्वयं जीवन् अपि संपरेतः मृतप्रायः खलु, यः पुमान् अत्यन्त-नृशंसितेन क्रूर-चेष्टितेन वर्त्तेत, तनुमानिनो देहात्माभिमानिनो देहे मृते नष्टे सति मनुजास् तं शपन्ति । स चान्धन्तमो नरकं ध्रुवं नूनं गन्ता गमिष्यति ॥ २२ ॥

श्लोक-२३

विश्वास-प्रस्तुतिः

इति घोरतमाद् भावात् सन्निवृत्तः स्वयं प्रभुः।
आस्ते प्रतीक्षंस्तज्जन्म हरेर्वैरानुबन्धकृत्॥

मूलम्

इति घोरतमाद् भावात् 38सन्निवृत्तः स्वयं प्रभुः।
आस्ते प्रती39क्षंस्तज्जन्म हरेर्वैरानुबन्ध40कृत्॥ २३ ॥

अनुवाद (हिन्दी)

यद्यपि कंस देवकीको मार सकता था, किन्तु स्वयं ही वह इस अत्यन्त क्रूरताके विचारसे निवृत्त हो गया।* अब भगवान‍्के प्रति दृढ़ वैरका भाव मनमें गाँठकर उनके जन्मकी प्रतीक्षा करने लगा॥ २३॥

पादटिप्पनी
  • जो कंस विवाहके मंगलचिह्नोंको धारण की हुई देवकीका गला काटनेके उद्योगसे न हिचका, वही आज इतना सद्-विचारवान् हो गया, इसका क्या कारण है? अवश्य ही आज वह जिस देवकीको देख रहा है, उसके अन्तरंगमें—गर्भमें श्रीभगवान् हैं। जिसके भीतर भगवान् हैं, उसके दर्शनसे सद‍्बुद्धिका उदय होना कोई आश्चर्य नहीं है।
वीरराघवः

इतीत्थं घोरतमाद् भावाद् गुरुमती वधोद्योग-रूपात् स्वयं प्रभुः तां हन्तुं समर्थोपि निवृत्तः । तत् ततः हरेर् जन्म प्रतीक्षमाणस् सन् वैरानुबन्धं वैराविच्छेदं कुर्वन् आस्ते आस ॥ २३ ॥

श्लोक-२४

विश्वास-प्रस्तुतिः

आसीनः संविशंस्तिष्ठन् भुञ्जानः पर्यटन् महीम्।
चिन्तयानो हृषीकेशमपश्यत् तन्मयं जगत्॥

मूलम्

आसीनः संविशंस्तिष्ठन् भुञ्जानः पर्यटन् 41पिबन्।
चिन्तयानो हृषीकेशमपश्यत् तन्मयं जगत्॥ २४ ॥

अनुवाद (हिन्दी)

वह उठते-बैठते, खाते-पीते, सोते-जागते और चलते-फिरते—सर्वदा ही श्रीकृष्णके चिन्तनमें लगा रहता। जहाँ उसकी आँख पड़ती, जहाँ कुछ खड़का होता, वहाँ उसे श्रीकृष्ण दीख जाते। इस प्रकार उसे सारा जगत् ही श्रीकृष्णमय दीखने लगा॥ २४॥

वीरराघवः

आसनादि-क्रियास्व् अपि हरिम् एव चिन्तयमानः जगत् तन्मयं हृषीकेशमयं तत् प्रचुरम् अपश्यद् इत्य् अर्थः ॥ २४ ॥

श्रीसुदर्शनसूरिः

योऽत्यन्तेति अत्यन्तनृशंसितेन नृशंसचेष्टितेन वर्त्तते स एष जीवन् संपरेतः जीववर्जित देह इति देहात्माभिमानिनः पुरुषस्य अन्तकाले देहमात्रपर्यवसिते यशोमलं दोषप्रयुक्तम् अनुभूत्या तिष्ठतीत्यर्थः ॥ २२–२४ ॥

श्लोक-२५

विश्वास-प्रस्तुतिः

ब्रह्मा भवश्च तत्रैत्य मुनिभिर्नारदादिभिः।
देवैः सानुचरैः साकं गीर्भिर्वृषणमैडयन्॥

मूलम्

ब्रह्मा 42भवश्च तत्रैत्य 43मुनिभिर्नारदादिभिः43
देवैः सानुचरैः साकं गीर्भि44र्धिषणमैडयन्44॥ २५ ॥

अनुवाद (हिन्दी)

परीक्षित्! भगवान् शंकर और ब्रह्माजी कंसके कैदखानेमें आये। उनके साथ अपने अनुचरोंके सहित समस्त देवता और नारदादि ऋषि भी थे। वे लोग सुमधुर वचनोंसे सबकी अभिलाषा पूर्ण करनेवाले श्रीहरिकी इस प्रकार स्तुति करने लगे॥ २५॥

वीरराघवः

तत्र देवकी-सन्निधौ नारदादिभिः मुनिभिः सानुचरैर् देवैश् च सह ब्रह्मा चतुर्-मुखो भवो रुद्रश् च 45समागत्य गीर्भिः औपनिषदानुकारिणीभिः वाग्भिः धिषणं धिषणायुक्तं सर्व-ज्ञं भगवन्तम् अंडयन् तुष्टुवुः । [[??]].ण्यन्तान् निवृत्त-प्रेरणात् ईडेर् लङ् । नारदाद्य् अभिप्रायकं बहु-वचनम् । 46वृषणम् इति पाठे काम-वर्षिणं भगवन्तं ऐडयन् इति स एवार्थः46 ॥ २५ ॥

श्रीसुदर्शनसूरिः

धिषणं धिषणायुक्तं सर्वज्ञं तुष्टुवुः ॥ २५ ॥

श्लोक-२६

विश्वास-प्रस्तुतिः

सत्यव्रतं सत्यपरं त्रिसत्यं
सत्यस्य योनिं निहितं च सत्ये।
सत्यस्य सत्यमृतसत्यनेत्रं
सत्यात्मकं त्वां शरणं प्रपन्नाः॥

मूलम्

सत्यव्रतं सत्यपरं त्रिसत्यं सत्यस्य योनिं निहितं च सत्ये।
सत्यस्य सत्य47मृतसत्यनेत्रं सत्यात्मकं त्वां शरणं प्रपन्नाः॥ २६ ॥

अनुवाद (हिन्दी)

‘प्रभो! आप सत्यसंकल्प हैं। सत्य ही आपकी प्राप्तिका श्रेष्ठ साधन है। सृष्टिके पूर्व, प्रलयके पश्चात् और संसारकी स्थितिके समय—इन असत्य अवस्थाओंमें भी आप सत्य हैं। पृथ्वी, जल, तेज, वायु और आकाश इन पाँच दृश्यमान सत्योंके आप ही कारण हैं। और उनमें अन्तर्यामीरूपसे विराजमान भी हैं। आप इस दृश्यमान जगत‍्के परमार्थस्वरूप हैं। आप ही मधुर वाणी और समदर्शनके प्रवर्तक हैं। भगवन्! आप तो बस, सत्यस्वरूप ही हैं। हम सब आपकी शरणमें आये हैं॥ २६॥

वीरराघवः

स्तुतिम् एवाह — सत्य-व्रतम् इत्य्-आदिना 48यावद्-अध्याय-समाप्ति4849प्रकृति-पुरुषासम्भावितैर् धर्मैः विशिष्टं स्तुवन्ति सत्य-व्रतम् इति । सत्य-व्रतं सत्य-सङ्कल्पम् । अनेन प्रतिज्ञातार्थो यथार्थीकृत इति सूचितम् । सत्त्य-परं चिद्-अचिद्-आत्मकं जगत् सत्त्यम् ।

“यद् अन्यद् देवेभ्यः प्राणेभ्यश् च तत् सत्" (कौषी.उ. 1-6)

“अथ यद् देवाश् च प्राणाश् च तत् सत्यं तद् एकया वाचा व्यवह्नियते सत्यम्” (कौषी.उ. 1-6)

इति श्रुतेः । ततः परं विलक्षणम् इदं साध्यम् । अत्र सत्त्य-व्रतत्वादीनि हेतवः । कथं सत्य-व्रतत्वम् ? तत्राह - त्रि-सत्यं । त्रयः प्रकृति-पुरुष-कालाः सत्त्याः यस्य तम्, प्रकृति-पुरुष-काल-शरीरकम् इत्य् अर्थः । प्रकृत्य् आद्य् आत्मकस्य कृत्स्नस्य जगतः स्व-नियाम्यत्वेन स्व-सङ्कल्प-प्रतिभटाभावाद् अव्याहत-संकल्प इत्य् अर्थः । यतः सत्य-व्रतम् अत एव सत्यस्य योनिं सत्यस्य चिद्-अचि50द्-आत्मक-प्रपञ्चस्य योनिं कारणं, सत्ये निर्विकारे परे व्योम्नि निहितं, कर्त्तरि क्तः, अधितिष्ठन्तम् इत्य् अर्थः । त्रि-सत्यं सत्यस्य योनिम् इति लीला-विभूतिमत्वम् उक्तम् । निहितञ् च सत्य इति नित्य-विभूतिमत्त्वम्; एतद् उभयं सत्य-पर51त्वे हेतुः । तथा सत्यस्य सत्यं, जीवेभ्योपि सत्यं धर्मतोपि निर्विकारत्वात् ।

“न ह्य् एतस्माद् इति नेति नेत्य् अन्यत् परमस्त्यथ नामधेयं सत्यस्य सत्यम् इति प्राणा वै सत्यं तेषाम् एव सत्यम्” (बृह.उ. 2-3-6)

इति श्रुतेः । तद् अर्थस् तु इति नेति यद् ब्रह्म प्रतिपादितं तस्माद् एतस्माद् वस्तु परं न ह्य् अस्ति, ब्रह्मणो ऽन्यत् स्व-रूपतो गुणतश् च परं नास्तीत्य् अर्थः । न त्व् अन्य-मात्र-निषेधः, तथा हि सति अन्यत् परम इति वैयर्थ्यापत्तेः । तद् उपपादयति अथेति । प्राण-शब्द-निर्दिष्टेभ्यः चेतनेभ्योपि कदाचिद् अपि ज्ञानादि-सङ्कोचाभावात् परमात्मा सत्त्यं निर्विकारम् इत्य् अर्थः ।

“नित्यो नित्यानां चेतनश् चेतनानाम्” (कठ. उ. 5-13)

इति श्रुत्वत्यन्तरसंवादात् । अन्यत् तु

“प्रकृतैतावत्त्वम्” (ब्र.सू. 3-2-22)

इति शारीरक-सूत्र-भाष्याद् अवगन्तव्यम् । विस्तर-भयान्नात्र लिख्यते । ऋत-सत्त्य-नेत्रम् । सत्यम् आदित्यः

“असाव्-आदित्यस् सत्यम्” (सूर्य.उ. 5)

इति श्रुतेः तत् साहचर्यात् ऋत-शब्दञ् चन्द्र-परः । चन्द्रादित्ययोर् नेत्रं प्रशासितारम् इत्य् अर्थः ।

“य आदित्ये तिष्ठन्, यश् चन्द्रम् असि तिष्ठन्” (बृह.उ. 3-7-9)

इत्य्-आदि-श्रुतेः । यद् वा, तौ नेत्रे यस्य तम् ।

“चक्षुषी चन्द्र-सूर्यो” (मुण्ड.उ. 2-1-4)

इति श्रुतेः ।

“एवं पुण्यस्य कर्मणो दूराद् गन्धो वाति” (म.ना.उ 9-7)

इति पुण्य-कर्म-प्रतिसम्बन्धितया

“एवम् अनृतात्मानं जुगुप्सेत्” (म.ना.उ. 8-2)

इत्य् अपुण्य-कर्मणि अनृत-शब्द-प्रयोगात्, ऋतं पुण्यम् अनुष्ठेयं कर्म, सत्त्यम् उच्यमान-धर्मः, तयोर् नेतारं सत्यात्मकं स्व-रूपेणापि निर्विकारम् । अनेन प्रधान-व्यावृत्तिः । एवम् भूतं त्वां वयं शरणं प्रपन्नाः अध्यवस्यामः ॥ २६ ॥

श्रीसुदर्शनसूरिः

सत्यव्रतं सत्यसंकल्पं सत्त्यपरं सत्यभूतचिदचिदात्मकजगत्परं “यदन्यद्देवेभ्यः प्राणेभ्यश्च तत् सत् अथ यद्देवाश्च प्राणाश्च तत्सत्यं तदेकया वाचा व्यवह्रियते सत्त्यम्” इति श्रुतिः । ततः परं यथार्थवेदवाक् प्रतिपाद्यं वा त्रिसत्यं त्रयः प्रकृतिपुरुषकालाः सत्त्या यस्य तं सत्यस्य चिदचित्प्रपञ्चस्य योनिं सत्त्ये निर्विकारे परमे व्योम्नि निहितं जीवेभ्योऽपि सत्यं धर्मतोऽपि निर्विकारत्वात् ऋतसत्यनेत्रं सत्यमादित्यः “असावादित्यः सत्यम्” इति श्रुतिः । तत्साहचर्यादृतशब्दञ्चन्द्रपरः चन्द्रसूर्यनेत्रमित्यर्थः “चक्षुषी चन्द्रसूर्यो” इति श्रुतिः । यद्वा, एवं पुण्यकर्मणः, अपुण्यकर्मणः” एवमनृतादात्मानं जुगुप्सेत्” इति अपुण्यप्रतिसम्बन्धिन्यनृतशब्दप्रयोगात् ऋतं पुण्यमनुमीयमानो धर्मः तयोर्नेतारं सत्यात्मकं नित्यविग्रहरूपं विग्रहभूषणदेवीपरिजनादिविशिष्टं त्वां सर्वज्ञं परमकारुणिकम् अनालोचितविशेषाशेषलोकशरण्यं शरणमुपायभूतं प्रपन्नाः ॥ २६ ॥

श्लोक-२७

विश्वास-प्रस्तुतिः

एकायनोऽसौ द्विफलस्त्रिमूल-
श्चतूरसः पञ्चविधः षडात्मा।
सप्तत्वगष्टविटपो नवाक्षो
दशच्छदी द्विखगो ह्यादिवृक्षः॥

मूलम्

एकायनोऽसौ द्विफलस्त्रिमूलश्चतूरसः पञ्च52शिफष्षडात्मा।
सप्तत्वगष्टविटपो नवाक्षो दशच्छ53दो द्विखगो ह्यादिवृक्षः॥ २७ ॥

अनुवाद (हिन्दी)

यह संसार क्या है, एक सनातन वृक्ष। इस वृक्षका आश्रय है—एक प्रकृति। इसके दो फल हैं—सुख और दुःख; तीन जड़ें हैं—सत्त्व, रज और तम; चार रस हैं—धर्म, अर्थ, काम और मोक्ष। इसके जाननेके पाँच प्रकार हैं—श्रोत्र, त्वचा, नेत्र, रसना और नासिका। इसके छः स्वभाव हैं—पैदा होना, रहना, बढ़ना, बदलना, घटना और नष्ट हो जाना। इस वृक्षकी छाल हैं सात धातुएँ—रस, रुधिर, मांस, मेद, अस्थि, मज्जा और शुक्र। आठ शाखाएँ हैं—पाँच महाभूत, मन, बुद्धि और अहंकार। इसमें मुख आदि नवों द्वार खोड़र हैं। प्राण, अपान, व्यान, उदान, समान, नाग, कूर्म, कृकल, देवदत्त और धनंजय—ये दस प्राण ही इसके दस पत्ते हैं। इस संसाररूप वृक्षपर दो पक्षी हैं—जीव और ईश्वर॥ २७॥

वीरराघवः

अथ त्रि-सत्यत्वम् एवोपपादयितुं कृत्स्नं जगद् वृक्षत्वेन रूपयित्वा तस्य भगवद् दासत्वम् आहुः - एकायन इति । एकं परं ब्रह्म अयनम् आश्रयो यस्य, द्वि-फलः द्वे सुख-दुःखे फले यस्य, त्रयः सत्त्वादयो गुणाः मूलं यस्य, चत्वारो रसाः धर्मादि-पुरुषार्थः यस्य, पञ्च शिफाः जटाः उत्तर-मूलानि भूत-सूक्ष्मात्मकानि यस्य, षडात्मान ऊर्मयो, मनः-षष्ठानि इन्द्रियाणि वा यस्य, सप्त त्वक्-वसामांस-रुधिर-मेदो-मज्जास्थि-शुक्ल-रूपा धातवः एव त्वग् यस्य, अष्टौ हस्तौ पादौ शिरः कण्ठो वक्षो जठरश् 54चेति विटपाः शाखा यस्य, नवाक्षाः छिद्र-कोटरा यस्य, दशच्-छदः दश शब्दादय एवानुकूलाः प्रतिकूलाश् च प्राणापानव्यानोदान-समान-नाग-कूर्मकृकर-देवदत्त-धनञ्जय-रूपाः प्राणोपप्राणा वा छदाः पत्राणि यस्य, द्वौ जीव-परमात्म-रूपौ खगौ पक्षिणौ यस्मिन् स आदि-वृक्षः प्रवाहानादि-शरीराख्य-वृक्षः एकस् त्वम् एवायनम् आश्रयो यस्य धारणं तथाभूत इति भावः ॥ २७ ॥

श्रीसुदर्शनसूरिः

एकायनः एकं प्रकृतितत्वम् अपरं ब्रह्मभूतत्वम् अयनमाश्रयो यस्य सः द्विफलः सुखदुःखफलः त्रिमूलः गुणत्रयमूलः चतुरसः चतुर्विधपुरुषार्थरसः पञ्चशिफः शिफा शाखान्तर्मूलं सूक्ष्मभूतपञ्चकजटावानित्यर्थः । षडात्मा षडूर्मिमान् मनःषष्ठेन्द्रियवान् सप्तत्वक् वसारुधिरमांसमेदोऽस्थिमज्जाशुक्ररूपाः सप्त धातवः ये च त्वग्यस्य सः अष्टविटपः हस्तौ पादौ शिरः कर्णवक्षोजठरश्च विटपस्थानीयाः नवाक्षः नवच्छिद्रकोटरः दशच्छदः शब्दादय एवानुकूला प्रतिकूलाश्च दश पत्रस्थानीया यस्य सः यद्वा, प्राणापान-व्यानोदानसमाननागकूर्मकृकरदेवदत्तधनञ्जयरूपदशवायूपपन्नः द्विखगः जीवपरमात्मोपेतः आदिवृक्षः प्रवाहानादिः शरीराख्यः वृक्षः ॥ २७ ॥

श्लोक-२८

विश्वास-प्रस्तुतिः

त्वमेक एवास्य सतः प्रसूति-
स्त्वं सन्निधानं त्वमनुग्रहश्च।
त्वन्मायया संवृतचेतसस्त्वां
पश्यन्ति नाना न विपश्चितो ये॥

मूलम्

त्वमेक एवास्य सतः प्रसूतिस्त्वं55 सन्निधानं त्वमनुग्रहश्च।
त्वन्मायया संवृतचेतसस्त्वां पश्यन्ति नाना न विपश्चितो ये॥ २८ ॥

अनुवाद (हिन्दी)

इस संसाररूप वृक्षकी उत्पत्तिके आधार एकमात्र आप ही हैं। आपमें ही इसका प्रलय होता है और आपके ही अनुग्रहसे इसकी रक्षा भी होती है। जिनका चित्त आपकी मायासे आवृत हो रहा है, इस सत्यको समझनेकी शक्ति खो बैठा है—वे ही उत्पत्ति, स्थिति और प्रलय करनेवाले ब्रह्मादि देवताओंको अनेक देखते हैं। तत्त्वज्ञानी पुरुष तो सबके रूपमें केवल आपका ही दर्शन करते हैं॥ २८॥

वीरराघवः

अथ तस्य सत्य-योनित्वम् उपपादयन्ति - त्वम् इति । अस्य परिदृश्यमानस्य चिद्-अचिद्-आत्मकस्य सतो जगतः प्रसूतिः जन्म-कारणं त्वम् एक एव त्वम् एक एव अस्य सन्निधानं संनिधीयते उपसंह्रियते ऽस्मिन् इति सन्निधानं प्रलयाधिकरणम् इत्य् अर्थः । त्वम् एक एव अस्यानुग्रहः, अनुगृह्णाति इष्ट-प्रदानेनेत्य् अनुग्रहः, स्थिति-कारणम् इत्य् अर्थः । ननु नाहं सत् परः, केचिन् मां जीवाद् अभिन्नं पश्यन्ति इत्य् अत्राहुः - त्वन् मायया मोहितं चेतो येषाम् अत एव न विपश्चितः अज्ञाः । न-शब्दोयं निषेधार्थकः । ततो

“नलोपो नञः” (अष्टा. 6-3-73) इति न लोपाभावः । ये जनास् ते त्वां नाना पश्यन्ति जीव-रूपेणावस्थितं पश्यन्तीत्य् अभिप्रायः । पश्यन्तीत्य् उक्तेः न हि जीव-विलक्षणं पर-स्व-रूपं दृश्यते, कुत्तो नाना-दर्शनं ?

“मोहितं नाभिजानाति मामेभ्यः परमव्ययम्” (भ.गी. 7-13)

इति 56त्वद् उक्तेर् इति भावः । यद् वा, एवं कृत्स्न-जगत्-कारणत्वम् उपपाद्य कार्य-कारणयोर् अनन्य-द्रव्यत्व-सूचनाय तद् भेद-वादं निराकुर्वन्ति त्वन् माययेति । त्वां नाना त्वां विना इदं जगत् पश्यन्ति त्वत्तः पृथक् सिद्धं जगत् पश्यन्तीत्य् अर्थः ॥ २८ ॥

श्रीसुदर्शनसूरिः

अस्य वृक्षस्य त्वमुत्पत्तिस्थानं निधानं निधनं प्रलयस्थानं वा अनुग्रहः इष्टप्रदानादिना स्थितिकारणं त्वामिति जीवरूपेणावस्थितमित्यभिप्रायः । नानापश्यन्तीत्युक्तेः नहि जीवविलक्षणपरस्वरूपे स्वरूपतो नानादर्शनम् ॥ २८ ॥

श्लोक-२९

विश्वास-प्रस्तुतिः

बिभर्षि रूपाण्यवबोध आत्मा
क्षेमाय लोकस्य चराचरस्य।
सत्त्वोपपन्नानि सुखावहानि
सतामभद्राणि मुहुः खलानाम्॥

मूलम्

बिभर्षि रूपाण्यवबोध 57आत्मन् क्षेमाय लोकस्य चराचरस्य।
सत्त्वोपपन्नानि सुखावहानि सतामभद्राणि मुहुः खलानाम्॥ २९ ॥

अनुवाद (हिन्दी)

आप ज्ञानस्वरूप आत्मा हैं। चराचर जगत‍्के कल्याणके लिये ही अनेकों रूप धारण करते हैं। आपके वे रूप विशुद्ध अप्राकृत सत्त्वमय होते हैं और संत पुरुषोंको बहुत सुख देते हैं। साथ ही दुष्टोंको उनकी दुष्टताका दण्ड भी देते हैं। उनके लिये अमंगलमय भी होते हैं॥ २९॥

वीरराघवः

त्वम् अनुग्रह इति स्थिति-कारणत्वम् उक्तम् । तच् चान्तर्यामित्वस्वावतारम् अन्वाद्यनुप्रवेशेनेत्य् अभिप्रायेणाहुः - बिभर्षीति । अवबोध आत्मा ज्ञान-स्व-रूपः । असन्धिर् आर्षः । यद् वा, अवबोधः ज्ञान-स्व-रूपः आत्मा सर्वान्तर् आत्मा च सन् नित्य-समस्तं पद-द्वयं । अवबोधे मान-स्व-रूपे जीवे आत्मा अन्तरात्मतया अवस्थितस् त्वम् अस्य चराचरात्मकस्य लोकस्य क्षेमार्थं रूपाणि अवतार-रूपाणि बिभर्षि । कथम् भूतानि सत्त्वोपपन्नानि शुद्ध-सत्त्वमयानि, सतां साधूनां सुखावहानि, खलानां दुष्कृतां मुहुर्-मुहुर्-अभद्राणि, मुहुर्-बिभर्षीति वान्वयः ॥ २९ ॥

श्रीसुदर्शनसूरिः

अबबोधः ज्ञानस्वरूपो रूपाणि अवताररूपाणि सत्त्वोपपन्नानि शुद्धसत्त्वमयानि ॥ २९ ॥

श्लोक-३०

विश्वास-प्रस्तुतिः

त्वय्यम्बुजाक्षाखिलसत्त्वधाम्नि
समाधिनाऽऽवेशितचेतसैके।
त्वत्पादपोतेन महत्कृतेन
कुर्वन्ति गोवत्सपदं भवाब्धिम्॥

मूलम्

त्वय्यम्बुजाक्षा58खिल59सत्त्वधाम्नि समाधिनाऽऽवेशित60चेतसैके।
त्वत्पादपोतेन महत्कृतेन कुर्वन्ति गोवत्सपदं भवाब्धिम्॥ ३० ॥

अनुवाद (हिन्दी)

कमलके समान कोमल अनुग्रह भरे नेत्रोंवाले प्रभो! कुछ बिरले लोग ही आपके समस्त पदार्थों और प्राणियोंके आश्रयस्वरूप रूपमें पूर्ण एकाग्रतासे अपना चित्त लगा पाते हैं और आपके चरणकमलरूपी जहाजका आश्रय लेकर इस संसारसागरको बछड़ेके खुरके गढ़ेके समान अनायास ही पार कर जाते हैं। क्यों न हो, अबतकके संतोंने इसी जहाजसे संसार-सागरको पार जो किया है॥ ३०॥

वीरराघवः

एवं निखिल-जगद् उत्पाद-कारणत्वेन स्तुत्वा अथ

“कारणन्तु ध्येयः” (अथ.शिख.उ 3)

इति कारणत्व-समनियतत्वेन श्रुतम् उपास्यत्वम् अपि त्वन् निष्ठम् एवेत्य् अभिप्रायेण स्तुवन्ति, 61ब्रह्मादयो देवाः देवकी-गर्भ-गतं श्री-निवासं61 - त्वयीति । हे अम्बुजाक्ष ! अमल-सत्त्व-धाम्नि शुद्ध-सत्त्वमयं धामं स्थानं शरीरं 62विग्रह इति62 यावत् । तद् यस्य तस्मिन् । विशुद्ध-सत्त्वमय-63विग्रह-युक्ते63 त्वय्य् एके विपश्चितः अवतार-रूप 64श्रवणादि पराः64 पुरुषाः वा समाधिना आवेशितं चेतः यैस् तथाभूताः । चेतसैक इति सन्धिर् आर्षः । समाधिना त्वय्यावेशितचेतसोपलक्षिताः इति वा । महत्-कृतेन महता सदाचार्येण कर्ण-धार-स्थानीयेन कृतेन सन्निधापितेन प्रदर्शितेन तव पादपोतेन पाद-कमल-रूप-प्लवेन भवः संसारः, स एवाब्धिः 65सागरः गो-वत्स-पदं कुर्वन्ति । तद् इव सुखेन अतितरन्तीत्य् अर्थः ॥ ३० ॥

श्रीसुदर्शनसूरिः

त्वयीति महद्भिरुपदेशकृतेन समाधिना त्वय्यावेशितेन चेतसोपलक्षता एके अवताररूपप्रवणाः पुरुषाः त्वत्पादपोतेन भवाब्धिं गोवत्सपदं कुर्वन्ति ॥ ३० ॥

श्लोक-३१

विश्वास-प्रस्तुतिः

स्वयं समुत्तीर्य सुदुस्तरं द्युमन्
भवार्णवं भीममदभ्रसौहृदाः।
भवत्पदाम्भोरुहनावमत्र ते
निधाय याताः सदनुग्रहो भवान्॥

मूलम्

स्वयं समुत्तीर्य सुदुस्तरं द्युमन् भवार्णवं भीममदभ्रसौहृदाः।
भवत्पदाम्भोरुहनावमत्र ते निधाय याताः सदनुग्रहो भवान्॥ ३१ ॥

अनुवाद (हिन्दी)

परम प्रकाशस्वरूप परमात्मन्! आपके भक्तजन सारे जगत‍्के निष्कपट प्रेमी, सच्चे हितैषी होते हैं। वे स्वयं तो इस भयंकर और कष्टसे पार करनेयोग्य संसारसागरको पार कर ही जाते हैं, किन्तु औरोंके कल्याणके लिये भी वे यहाँ आपके चरण-कमलोंकी नौका स्थापित कर जाते हैं। वास्तवमें सत्पुरुषोंपर आपकी महान् कृपा है। उनके लिये आप अनुग्रहस्वरूप ही हैं॥ ३१॥

वीरराघवः

न केवलं ते स्वयम् एव गो-वत्स-पदं कुर्वन्ति, 66अपि तु अन्येप्य् एवं कुर्युर् इति प्रदर्शयन्त इव कुर्वन्तीत्य् अभिप्रायेण स्तुवन्ति स्वयम् इति66 । हे द्युमन् ! नित्य-विभूतिमन् ! 67द्युमद् इति पाठे द्युमद् भवार्णवम् इति समस्तं पदं स्वर्गादि-स्थानोपेतं भवार्णवं भीमं दुस्तरम् अपि अदभ्रम् अनल्पं सौहृदं त्वद् भक्ति-रूपं येषां तथाभूतास् ते स्वयं समुत्तीर्य, त्वत् पाद-पोतेनेत्य् अनुषङ्गः । भगवतः 68पदाम्भोरुहम् एव68 नौस् ताम् अत्र निधाय इयम् एव संसा69र-सागरोत्तारण-साधन-भूतेति प्रदर्श्य यातास् त्वत् पदं प्राप्नुवन्ति । बिभर्षि रूपाणीत्य्-आदिनोपक्रान्तम् अनुगृहीतृत्वप्रतिपादनम् उपसंहरन्ति । एवं भवान् सद् अनुग्रहः 70साधूनाम् अनु70ग्रह-शीलः ॥ ३१ ॥

श्रीसुदर्शनसूरिः

द्युमत्स्वर्गादिस्थानोपेतम् अदभ्रसौहृदाः मैत्र्यादिगुणोपेताः भवत्पदाम्भोरुहनावं निधाय भवार्णवं समुत्तीर्य स्वयं याता इत्यन्वयः । एवं भवान् सदनुग्रहः सदनुग्रहलीलः ॥ ३१ ॥

श्लोक-३२

विश्वास-प्रस्तुतिः

येऽन्येऽरविन्दाक्ष विमुक्तमानिन-
स्त्वय्यस्तभावादविशुद्धबुद्धयः।
आरुह्य कृच्छ्रेण परं पदं ततः
पतन्त्यधोऽनादृतयुष्मदङ्घ्रयः॥

मूलम्

येऽन्येऽरविन्दाक्ष विमुक्तमानिनस्त्वय्यस्तभावादविशुद्धबुद्धयः।
आरुह्य कृच्छ्रेण परं पदं ततः पतन्त्यधोऽनादृतयुष्मदङ्घ्रयः॥ ३२ ॥

अनुवाद (हिन्दी)

कमलनयन! जो लोग आपके चरणकमलोंकी शरण नहीं लेते तथा आपके प्रति भक्तिभावसे रहित होनेके कारण जिनकी बुद्धि भी शुद्ध नहीं है, वे अपनेको झूठ-मूठ मुक्त मानते हैं। वास्तवमें तो वे बद्ध ही हैं। वे यदि बड़ी तपस्या और साधनाका कष्ट उठाकर किसी प्रकार ऊँचे-से-ऊँचे पदपर भी पहुँच जायँ, तो भी वहाँसे नीचे गिर जाते हैं॥ ३२॥

वीरराघवः

तन् निहित-भवत् पदाम्बुर् उहनावम् अननुवर्त्तमानानां

“समाधिनावेशितचेतसैक” (भाग. 10-2-30)

इत्य् उक्त-विपरीतानां गतिं वदन्तः स्तुवन्ति इति । हे अरविन्दाक्ष ! ये ऽन्ये पूर्व-श्लोक-द्वय-प्रस्तुतेभ्यो ऽन्ये ये जनाः विमुक्ता वयम् इति वृथाभिमानिनः, त्वय्य् अस्तभावाद् भक्ति-शून्यत्वाद् धेतोर् अविशुद्धा बुद्धिर् येषां ते तथाभूताः परं पदं वर्णाश्रमादि-रूपम् उत्कृष्टं स्थानं कृच्छेण प्रयासेन आरुह्यापि सुकृत-विशेषाद् विप्रादि-रूपं श्रेष्ठं जन्म प्राप्यापीत्य् अर्थः । अनादृत-युष्मद् अङ्घ्रयः अनुपासित-71भवच् चरणास् सन्तः ततो ऽधः पतन्ति । पुनः निहीनं जन्म प्राप्नुवन्तीत्य् अर्थः ॥ ३२ ॥

श्रीसुदर्शनसूरिः

विमुक्तमानिनः विमुक्ता वयम् इति वृथाऽभिमानिनः परम्पदं वर्णाऽऽश्रमादिरूपं स्थानमारुह्य अनादृतयुष्मदङ्घ्रयः त्वच्चरण आदररहितमनसः वर्णाश्रमधर्मं क्रियमाणा अस्तभावात्त्वयि भक्तिशून्यत्वादविशुद्धबुद्धयः अधः पतन्ति ॥ ३२ ॥

श्लोक-३३

विश्वास-प्रस्तुतिः

तथा न ते माधव तावकाः क्वचिद्
भ्रश्यन्ति मार्गात्त्वयि बद्धसौहृदाः।
त्वयाभिगुप्ता विचरन्ति निर्भया
विनायकानीकपमूर्धसु प्रभो॥

मूलम्

तथा न ते माधव तावकाः क्वचिद् भ्रश्यन्ति मार्गात्त्वयि बद्धसौहृदाः।
त्वयाभिगुप्ता विचरन्ति निर्भया विनायकानीकपमूर्धसु प्रभो॥ ३३ ॥

अनुवाद (हिन्दी)

परन्तु भगवन्! जो आपके अपने निज जन हैं, जिन्होंने आपके चरणोंमें अपनी सच्ची प्रीति जोड़ रखी है, वे कभी उन ज्ञानाभिमानियोंकी भाँति अपने साधन-मार्गसे गिरते नहीं। प्रभो! वे बड़े-बड़े विघ्न डालनेवालोंकी सेनाके सरदारोंके सिरपर पैर रखकर निर्भय विचरते हैं, कोई भी विघ्न उनके मार्गमें रुकावट नहीं डाल सकते; क्योंकि उनके रक्षक आप जो हैं॥ ३३॥

वीरराघवः

आदृत-युष्मद् अङ्घ्रीणां तु न कर्हिचिद् अधःपतनम् अस्तीति वद72न्तः स्तुवन्ति — तथेति । हे माधव ते तावकास् त्वद् भक्तास् तु तथा त्वद् भक्ति-रहितवत् क्वचित् कदाचिद् अपि 73मार्गाद् उत्तम-जन्मनः73 न भ्रश्यन्ति नाधः पतन्ति । तत्र हेतुं वदन्तस् तान् विशिषन्ति त्वय्य् एव बद्धं सौहृदं भक्त्यात्मकं येषां ते न भ्रश्यन्ति । किन्तु त्वया अभिगुप्ताः अभितो रक्षिताः

“तेषां नित्याभियुक्तानां योग-क्षेमं वहाम्य् अहम्” (भ.गी. 9-22)

इति तद् उक्तेर् इति भावः । हे प्रभो ! विनायकानीकपमूर्धसु विघ्नसेनापतिशिरस्सु 74भयरहिताः74 विचरन्ति जीवद् दशायां विघ्नान् उपहतत्वद् भक्ति-योगास् ततस् त्वां प्राप्नुवन्तीति भावः ॥ ३३ ॥

श्रीसुदर्शनसूरिः

विनायकानीकपमूर्द्धसु विघ्नसेनापतिशिरस्तु विचरन्ति ॥ ३३ ॥

श्लोक-३४

विश्वास-प्रस्तुतिः

सत्त्वं विशुद्धं श्रयते भवान् स्थितौ
शरीरिणां श्रेय उपायनं वपुः।
वेदक्रियायोगतपःसमाधिभि-
स्तवार्हणं येन जनः समीहते॥

मूलम्

सत्त्वं विशुद्धं श्रयते भवान् स्थितौ शरीरिणां श्रेय उपायनं वपुः।
वेदक्रियायोगतपःसमाधिभिस्तवार्हणं येन जनः समीहते॥ ३४ ॥

अनुवाद (हिन्दी)

आप संसारकी स्थितिके लिये समस्त देहधारियोंको परम कल्याण प्रदान करनेवाला विशुद्ध सत्त्वमय, सच्चिदानन्दमय परम दिव्य मंगल-विग्रह प्रकट करते हैं। उस रूपके प्रकट होनेसे ही आपके भक्त वेद, कर्मकाण्ड, अष्टांगयोग, तपस्या और समाधिके द्वारा आपकी आराधना करते हैं। बिना किसी आश्रयके वे किसकी आराधना करेंगे?॥ ३४॥

वीरराघवः

यद्य् अपि सङ्कल्प-मात्र-परिकल्पित-निखिल-प्रपञ्चस् त्वं संकल्प-मात्रेणैव जगत् त्रातुं प्रभुर् नावतारम् अपेक्षते, तथापि उपासकानाम् उपासनालम्बनार्थम् अवतरसीति वदन्तः स्तुवन्ति — सत्त्वम् इति । स्थितौ स्थितिः पालनं तस्यां निमित्त-भूतायां स्थित्य् अर्थं भवान् विशुद्धं रजस् तमोभ्याम् अननुविद्धं सत्त्वं सत्त्वमयं वपुः शरीरं श्रयते बिभर्ति । संश्रयणे मुख्यं प्रयोजनं दर्शयन्तो वपुर् विशिषन्ति - शरीरिणां श्रेय उपायनं श्रेयसे उपेयते उपास्यत इत्य् उपायनम् । ‘इण् गतौ’, गत्यर्था बुद्ध्यर्थाः । येन वपुषा आलम्बन-भूतेन उपलक्षितस्य तव जनो वेद-क्रियादिभिर् अर्हणम् आराधनं समीहते कुरुते । वेद-क्रिया वेद-पूर्व-भाग-चोदित-क्रिया यज्ञादि-क्रिया, योगः उत्तर-भाग-चोदितम् उपासनम् । तपस् तद् अनुग्राहकम् अनशनादि-रूपम्, समाधिः वेद-क्रियातपो75भ्यासानुगृहीतेन योगेन निर्वर्त्यं चित्तैकाग्र्यम् । यदि भवान् वपुर् न संश्रयते तर्ह्य् आराध्य-रूपापरिज्ञानाद् आराधकास् त्वाम् आराधितुम् अप्रभवः स्युः । अतो भवान् आराधकानुग्रहार्थं वपुः संश्रयते इति भावः ॥ ३४ ॥

श्रीसुदर्शनसूरिः

विशुद्धं रजस्तमोभ्यामननुविद्धं श्रेय उपायनं श्रेयसामाश्रयं येन शुद्धसत्वमयं वपुः संश्रयणेन दिव्यविग्रहस्य दुरवबोधत्वमाहुः ॥ ३४ ॥

श्लोक-३५

विश्वास-प्रस्तुतिः

सत्त्वं न चेद्धातरिदं निजं भवेद्
विज्ञानमज्ञानभिदापमार्जनम्।
गुणप्रकाशैरनुमीयते भवान्
प्रकाशते यस्य च येन वा गुणः॥

मूलम्

सत्त्वं न चेद्धातरिदं निजं 76वपुः विज्ञानमज्ञानभिदापमार्जनम्।
गुणप्रकाशैरनुमीयते भवान् प्रकाशते यस्य च येन वा गुणः॥ ३५ ॥

अनुवाद (हिन्दी)

प्रभो! आप सबके विधाता हैं। यदि आपका यह विशुद्ध सत्त्वमय निज स्वरूप न हो, तो अज्ञान और उसके द्वारा होनेवाले भेदभावको नष्ट करनेवाला अपरोक्षज्ञान ही किसी को न हो। जगत‍्में दीखनेवाले तीनों गुण आपके हैं और आपके द्वारा ही प्रकाशित होते हैं, यह सत्य है। परन्तु इन गुणोंकी प्रकाशक वृत्तियोंसे आपके स्वरूपका केवल अनुमान ही होता है, वास्तविक स्वरूपका साक्षात्कार नहीं होता। (आपके स्वरूपका साक्षात्कार तो आपके इस विशुद्ध सत्त्वमय स्वरूपकी सेवा करनेपर आपकी कृपासे ही होता है)॥ ३५॥

वीरराघवः

तद् एव स्पष्टीकुर्वन्तः स्तुवन्ति - सत्त्वं न चेद् इति । हे धातः विश्व-कारण-भूत ! इदं विज्ञानं प्रकाशकम् अज्ञानभिदापमार्जनं ध्यातॄणाम् अज्ञान-कृत-देवादि-भेदाभिमानापमार्जनं शुद्ध-सत्त्वमयं77 निजम् असाधारणं वपुर् न चेत् भवान् आश्रयते न चेत्, तर्हि यस्य पुंसः येन कारणेन काल-कर्मादि-रूपेण यो गुणः सत्वाद्य् अन्यतमः प्रकाशते उन्मिषति तस्य तैर् गुण-प्रकाशैः गुणोन्मेषैः 78गुण-कार्यैः78 भवान् अनुमीयते । कार्यस्य कारणभूतः देव-मनुष्यादि-विलक्षणः न ज्ञायते, किन्तु इतर-सजातीयतयाऽनुमीयते । यदि भवान् वपुर् आश्रयते तर्हि तद् वपुर् असाधारणानि देव-मनुष्यादिष्व् असंभावितानि गुण-चेष्टितानि दृष्ट्वा तैर् देवा79दिभिर् विजातीयं मन्यमानो ध्यातृवर्गो ध्यायतीति भावः ॥ ३५ ॥

श्रीसुदर्शनसूरिः

सत्त्वं न चेदिति विज्ञायतेऽनेनेति विज्ञानं प्रकाशकमित्यर्थः। अनेन स्वरूपतिरोधायकत्रैगुण्यव्यावृत्तिः ध्यातृणामज्ञानकृतदेवादिभेदाभिमानापमार्जनं शुद्धसत्त्वमयं धाम तेजोरूपं ते वपुः जन्तवः एवंभूतं न वदन्ति किन्तु इतरसजातीयमेव मन्वते गुणप्रकाशैः गुणोन्मेषेः गुणकार्यैरनुमीयते कार्यस्य कारणभूत इति ज्ञायते यस्य गुणः गुणप्रपञ्चः प्रकाशते सर्वज्ञोऽसीत्यर्थः ॥ ३५ ॥

श्लोक-३६

विश्वास-प्रस्तुतिः

न नामरूपे गुणजन्मकर्मभि-
र्निरूपितव्ये तव तस्य साक्षिणः।
मनोवचोभ्यामनुमेयवर्त्मनो
देव क्रियायां प्रतियन्त्यथापि हि॥

मूलम्

न नामरूपे गुणजन्मकर्मभिर्निरूपितव्ये तव तस्य साक्षिणः।
मनोवचोभ्यामनुमेयवर्त्मनो देव क्रियायां प्रतियन्त्यथापि हि॥ ३६ ॥

अनुवाद (हिन्दी)

भगवन्! मन और वेद-वाणीके द्वारा केवल आपके स्वरूपका अनुमानमात्र होता है। क्योंकि आप उनके द्वारा दृश्य नहीं; उनके साक्षी हैं। इसलिये आपके गुण, जन्म और कर्म आदिके द्वारा आपके नाम और रूपका निरूपण नहीं किया जा सकता। फिर भी प्रभो! आपके भक्तजन उपासना आदि क्रियायोगोंके द्वारा आपका साक्षात्कार तो करते ही हैं॥ ३६॥

वीरराघवः

नन्व् अहम् अपि देवादि-सजातीय-वपुष्मानेवेत्य् अत्राह — नेति । मनो-वचोभ्यां वचसा वेद-वाक्येन तद् अनुसारेण मनसा चानुमेय-स्व-भावस्य सर्व-साक्षिणस् तव गुण-कर्म-जन्मभिस् सह नाम-रूपे न निरूपितव्ये गुण-कर्म-जन्म-नाम-रूपाणीतर-सजातीयतया न निरूपणीयानि ।

" यत् तदद्रेश्यम् अग्राह्यम् अगोत्र-वर्णम् अचक्षुश् श्रोत्रं निष्क्रियं निष्कलम् अजायमानः" (मुण्ड.उ. 1-6)

इत्य्-आदिभिर् इतर-सजातीयानि गुणादीनि प्रतिषिध्य

“यः सर्वज्ञः सर्ववित्” (मुण्ड.उ. 2-2-7)

“परास्य शक्तिर् विविधैव श्रूयते स्वाभाविकी ज्ञान-बल-क्रिया च” (श्वेत.उ. 6-8)

“यस्य चैतत् कर्म स वै वेदितव्यः” (कौषी.उ. 4-18)

“बहुधा विजायते” (पु.सू. 2-1)

इत्य्-आदिभिर् विलक्षणानाम् एव गुणादीनां श्रवणात्

“जन्म कर्म च मे दिव्यम्” (भ.गी. 4-9)

इति त्वद् उक्तेश् चेत्ति भावः । यद्य् अपि देवादि-विलक्षण-गुण-कर्मादि-युक्तः तथापि त्वां वेद-क्रियायां प्रतियन्ति अग्नीन्द्रादि-नाम-रूपाणि तद् अन्तर् आत्म-भूतस्य तवैवेति बुद्ध्या तद् विशिष्टम् अपि त्वां वेदावगत-यज्ञादि-क्रियायां प्रतियन्ति आराध्यं मन्यन्ते ॥ ३६ ॥

श्रीसुदर्शनसूरिः

न नामरूप इति मनोवचोभ्यां वेदवाक्येन तदनुसारिमनसा अनुमेयस्वभावस्य सर्वसाक्षिणस्तव गुणजन्मकर्मभिः सह नामरूपे न निरूपितव्ये गुणजन्मकर्मसहितेतरसजातीयतया न निरूपणीयानि “जन्म कर्म च मे दिव्यम्” इति वचनात् अथापि वेदक्रियायां प्रतियन्ति अग्नीन्द्रादिनामरूपाणि त्वदीयानीति बुद्ध्या वेदक्रियायां प्रवदन्तीत्यर्थः ॥ ३६ ॥

श्लोक-३७

विश्वास-प्रस्तुतिः

शृण्वन् गृणन् संस्मरयंश्च चिन्तयन्
नामानि रूपाणि च मङ्गलानि ते।
क्रियासु यस्त्वच्चरणारविन्दयो-
राविष्टचेता न भवाय कल्पते॥

मूलम्

शृण्वन् गृणन् संस्मरयंश्च चिन्तयन् नामानि रूपाणि च मङ्गलानि ते।
क्रियासु यस्त्वच्चरणारविन्दयोराविष्ट80चित्तो न भवाय कल्पते॥ ३७ ॥

अनुवाद (हिन्दी)

जो पुरुष आपके मंगलमय नामों और रूपोंका श्रवण, कीर्तन, स्मरण और ध्यान करता है और आपके चरणकमलोंकी सेवामें ही अपना चित्त लगाये रहता है—उसे फिर जन्म-मृत्युरूप संसारके चक्रमें नहीं आना पड़ता॥ ३७॥

वीरराघवः

इन्द्रादि-नाम-रूपेभ्यः स्वासाधारण-नाम-रूपाणां ध्येयत्वादिकं वदन्तः स्तुवन्ति शृण्वन् इति । यः पुमान् ते तव मङ्गलावहानि 81नाम-रूपाणि81 शृण्वन् वक्तृ-सन्निधौ सति, गृणन् श्रोतृ-सन्निधौ, तद् उभयासन्निधौ नामानि स्मरन् रूपाणि चिन्तयंश् च । संस्मरयन् इति [[??]]..णिजर्थस्त्वविवक्षितः । क्रियासु वैदिक-क्रियासु आसनाटन-भोजनादि-क्रेियास्व् अपि त्वच् चरणारविन्दयोर् आस82क्तं चित्तं82 मतिर् यस्य तथाभूतस् स पुमान् भवाय श्रेयस् समृध्यै कल्पते । नेति पाठे भवाय संसृतये न कल्पते, किन्तुम् उक्तये इत्य् अर्थः ॥ ३७ ॥

श्रीसुदर्शनसूरिः

इन्द्रादिनामरूपेभ्यः स्वाऽसाधारणनामरूपाणां ध्येयत्वादिकमाहुः - शृण्वन्निति ॥ ३७ ॥

श्लोक-३८

विश्वास-प्रस्तुतिः

दिष्ट्या हरेऽस्या भवतः पदो भुवो
भारोऽपनीतस्तव जन्मनेशितुः।
दिष्ट्याङ्कितां त्वत्पदकैः सुशोभनै-
र्द्रक्ष्याम गां द्यां च तवानुकम्पिताम्॥

मूलम्

दिष्ट्या हरेऽस्या भवतः पदो भुवो भारोऽपनीतस्तव जन्मनेशितुः।
दिष्ट्याङ्कितां त्वत्पदकैः सुशोभनैर्द्रक्ष्याम गां द्यां च तवानुकम्पिताम्॥ ३८ ॥

अनुवाद (हिन्दी)

सम्पूर्ण दुःखोंके हरनेवाले भगवन्! आप सर्वेश्वर हैं। यह पृथ्वी तो आपका चरणकमल ही है। आपके अवतारसे इसका भार दूर हो गया। धन्य है! प्रभो! हमारे लिये यह बड़े सौभाग्यकी बात है कि हमलोग आपके सुन्दर-सुन्दर चिह्नोंसे युक्त चरणकमलोंके द्वारा विभूषित पृथ्वीको देखेंगे और स्वर्गलोकको भी आपकी कृपासे कृतार्थ देखेंगे॥ ३८॥

वीरराघवः

आत्मनां प्रकृतावतार-प्रयुक्तम् आनन्दम् आविष्कुर्वन्तः स्तुवन्ति दिष्ट्येति । दिष्ट्येत्य् आनन्द-द्योतकम् अव्ययम् । हे हरे ! आश्रितार्तिहारिन् ! तवेश्वरस्य जन्मना भवतस् तव पदा पाद-विन्यासेन च । पद इति पाठे 83पद-रूपायाः83 अस्या भुवोभारोऽपनीतः अपनीतप्रायः । इदं दिष्ट्या अस्माकम् आनन्द इत्य् अर्थः । एवम् उत्तरत्रापि । सुशोभनैः ध्वज-वज्राङ्कुशादि-चिह्नैश् चारुभिः पदकैः पाद-विन्यासैः अलङ्कृतां तव त्वया अनुकम्पिताञ् च गां भूमिं द्यां 84द्रक्ष्यामः नित्य-विभूतिम् इव द्रक्ष्यामः । एतद् दिष्ट्या सङ्कल्प-मात्र-निर्वर्त्य-जगद् रक्षण-क्षमस्य तवावतार-प्रयोजनं भक्तानुग्रह एवेत्य् उक्तम् ॥ ३८ ॥

श्रीसुदर्शनसूरिः

अपनीतः अपनीतप्रायः गां भूमिम् ॥ ३८ ॥

श्लोक-३९

विश्वास-प्रस्तुतिः

न तेऽभवस्येश भवस्य कारणं
विना विनोदं बत तर्कयामहे।
भवो निरोधः स्थितिरप्यविद्यया
कृता यतस्त्वय्यभयाश्रयात्मनि॥

मूलम्

न तेऽभवस्येश भवस्य कारणं विना विनोदं बत तर्कयामहे।
भवो निरोधः स्थितिरप्यविद्यया कृता यतस्त्वय्यभ85वाश्रयात्मनि॥ ३९ ॥

अनुवाद (हिन्दी)

प्रभो! आप अजन्मा हैं। यदि आपके जन्मके कारणके सम्बन्धमें हम कोई तर्क ना करें, तो यही कह सकते हैं कि यह आपका एक लीला-विनोद है। ऐसा कहनेका कारण यह है कि आप तो द्वैतके लेशसे रहित सर्वाधिष्ठानस्वरूप हैं और इस जगत‍्की उत्पत्ति, स्थिति तथा प्रलय अज्ञानके द्वारा आपमें आरोपित हैं॥ ३९॥

वीरराघवः

अथ अवतार-निमित्तम् आविष्कुर्वन्तः स्तुवन्ति नेति । हे ईश ! अभवस्य कर्माधीनोत्पत्ति-रहितस्य तव भवस्य जन्मनः कारणं निमित्तं विना विनोदं लीलार्थं सङ्कल्पं विना अन्यन्न तर्कयामहे । बतेत्य् आश्चर्ये अनितर-साधारणत्वाद् विस्मयः यथा सृष्ट्य्-आदि जगद् व्यापारो विनोद-मात्रानुकूल-सङ्कल्प-मूलकः, तद्वज् जन्मादीत्य् अभिप्रायेणाऽऽहुः भव इति । हे अभय ! यतो विनोदाद् एव निमित्ताद् अविद्यया संसारिणां ज्ञान-विरोधिन्या प्रकृत्या 86जगत उत्पत्त्यादयो विकारास् तस्याश्रये आधार-भूते ऽन्तरात्मनि च त्वयि कृताः, तम् एव विनोदम् अभवस्य तव भव-कारणं मन्यामह इत्य् अर्थः । आश्रयात्मनि कृता इत्य् अनेन उत्पत्त्यादयो विकाराः प्रकृति-गताः न स्व-रूप-गता इति सूचितम् ॥ ३९ ॥

श्लोक-४०

विश्वास-प्रस्तुतिः

मत्स्याश्वकच्छपनृसिंहवराहहंस-
राजन्यविप्रविबुधेषु कृतावतारः।
त्वं पासि नस्त्रिभुवनं च यथाधुनेश
भारं भुवो हर यदूत्तम वन्दनं ते॥

मूलम्

मत्स्याश्वकच्छपनृसिंहवराहहंसराजन्यविप्रविबुधेषु कृतावतारः।
त्वं 87पासि नस्त्रिभुवनं च 88तथाधुनेश भारं भुवो हर यदूत्तम वन्दनं ते॥ ४० ॥

अनुवाद (हिन्दी)

प्रभो! आपने जैसे अनेकों बार मत्स्य, हयग्रीव, कच्छप, नृसिंह, वराह, हंस, राम, परशुराम और वामन अवतार धारण करके हमलोगोंकी और तीनों लोकोंकी रक्षा की है—वैसे ही आप इस बार भी पृथ्वीका भार हरण कीजिये। यदुनन्दन! हम आपके चरणोंमें वन्दना करते हैं’॥ ४०॥

वीरराघवः

यथा मत्स्याद्य् अवतार-परिग्रहेणास्मान् रक्षितवान् एवम् अधुना भू-भारारापहार-द्वाराऽस्मान् पाहीत्य् आहुः - मत्स्येति । मत्स्यादिषु कृतः परिगृहीतो ऽवतारः येन, तथाभूतस् त्वम् अस्मान् त्रि-लोकीञ् च यथा पासि रक्षितवान् तथाऽधुनाऽपि भुवो भारं हराऽपनय । हे यदूत्तम ! ते तुभ्यं वन्दनं नम इत्य् अर्थः ॥ ४० ॥

श्रीसुदर्शनसूरिः

अभवस्य ते भवस्य जन्म न कारणमित्यन्वयः । अविद्यया संसारिणां ज्ञानाविरोधिन्या प्रकृत्या उत्पत्त्यादयो विकाराः प्रकृतिगता न स्वरूपगता इत्यर्थः ॥ ३९ ॥ ४० ॥

श्लोक-४१

विश्वास-प्रस्तुतिः

दिष्ट्याम्ब ते कुक्षिगतः परः पुमा-
नंशेन साक्षाद् भगवान् भवाय नः।
मा भूद् भयं भोजपतेर्मुमूर्षो-
र्गोप्ता यदूनां भविता तवात्मजः॥

मूलम्

दिष्ट्याम्ब ते कुक्षिगतः परः पुमानंशेन साक्षाद् भगवान् भवाय नः।
मा भूद् भयं भोजपतेर्मुमूर्षोर्गोप्ता यदूनां भविता तवात्मजः॥ ४१ ॥

अनुवाद (हिन्दी)

[देवकीजीको सम्बोधित करके] ‘माताजी! यह बड़े सौभाग्यकी बात है कि आपकी कोखमें हम सबका कल्याण करनेके लिये स्वयं भगवान् पुरुषोत्तम अपने ज्ञान, बल आदि अंशोंके साथ पधारे हैं। अब आप कंससे तनिक भी मत डरिये। अब तो वह कुछ ही दिनोंका मेहमान है। आपका पुत्र यदुवंशकी रक्षा करेगा’॥ ४१॥

वीरराघवः

देवकीं प्रत्य् आहुः - दिष्ट्येति । हे अम्ब ! नो ऽस्माकं भवाय समृद्ध्यै अंशेन सङ्कल्पेन हेतुना परम-पुरुषो भगवान् साक्षात् तव कुक्षिं प्रविष्टः । मुमूर्षोः भोज-पतेः कंसाद् भयं तव मा भूत् । तवात्मजो यदूनां गोप्ता भविता भविष्यति ॥ ४१ ॥

श्लोक-४२

मूलम् (वचनम्)

89श्रीशुक उवाच

विश्वास-प्रस्तुतिः

इत्यभिष्टूय पुरुषं यद्रूपमनिदं यथा।
ब्रह्मेशानौ पुरोधाय देवाः प्रतिययुर्दिवम्॥

मूलम्

इत्यभिष्टूय पुरुषं यद्रूप90मनिदं यथा।
ब्रह्मेशानौ पुरोधाय देवाः प्रति91ययुर्दिवम्91॥ ४२ ॥

अनुवाद (हिन्दी)

श्रीशुकदेवजी कहते हैं—परीक्षित्! ब्रह्मादि देवताओंने इस प्रकार भगवान‍्की स्तुति की। उनका रूप ‘यह है’ इस प्रकार निश्चितरूपसे तो कहा नहीं जा सकता, सब अपनी-अपनी मतिके अनुसार उसका निरूपण करते हैं। इसके बाद ब्रह्मा और शंकरजीको आगे करके देवगण स्वर्गमें चले गये॥ ४२॥

वीरराघवः

92इतीत्थं92 यथा यस्य भगवतो रूपम् अविदन् तथा स्वम् अत्यनुसारेण तं परम-पुरुषम् अभिष्टूय ब्रह्म-रुद्रौ पुरुस्कृत्य देवाः 93दिवं स्वर्गं ययुः ॥ ४२ ॥

इति श्रीमद्-भागवते महा-पुराणे दशम-स्कन्धे श्रीमद्-वीर-राघवाचार्य्यं-कृत भागवत-चन्द्र-चन्द्रिकायां द्वितीयो ऽध्यायः ॥ २ ॥

श्रीसुदर्शनसूरिः

देवकीं प्रत्याहुः दिष्ट्याम्बेति भवाय समृद्ध्यै ।। ४१-४२ ।।

इति श्रीमद्भागवतव्याख्याने दशमस्कन्धे श्रीसुदर्शनसूरिकृते शुकपक्षीये द्वितीयोऽध्यायः || २ ||

अनुवाद (समाप्ति)

इति श्रीमद‍्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे गर्भगतविष्णोर्ब्रह्मादिकृतस्तुतिर्नाम द्वितीयोऽध्यायः॥ २ ॥


  1. B,G,J,M,V बली ↩︎

  2. B,G,J प ↩︎

  3. G,J,M शा ↩︎

  4. K,W न्मगधान् ↩︎

  5. M न्मागधानपि । ↩︎

  6. B adds कुले ↩︎

  7. K,W omit तत्र ↩︎

  8. K omits तस्मात् ↩︎

  9. B प्रश्नस्योत्तरं ↩︎

  10. M ऽहं स्वांश ↩︎

  11. K,W प्रदे ↩︎

  12. B,G,J धूपोप ↩︎

  13. B,G,J नी ↩︎

  14. K,W omit ↩︎ ↩︎

  15. B वा ↩︎

  16. B आहुः ↩︎

  17. B,G,J बलं बलवदुच्छ्रयात् । ↩︎ ↩︎

  18. V परि ↩︎

  19. B adds श्रीभगवदाज्ञोदयादनन्तरं सा योगमायाऽपि श्रीभगवदाज्ञां सर्वात्मना अत्यादरेण प्रणतिपूर्वकं शिरसि निधाय आज्ञाक्रममनुल्लङ्घ्य भुवि समागत्य यथैवाऽऽज्ञप्ता तथैवाऽकरोदित्याह श्रीशुकः - सन्दिष्टैवमित्यादिना । ↩︎

  20. B adds वचनं ↩︎

  21. V ण्यां ↩︎

  22. V आविवेशांशभागेन मन आनकदुन्दुभेः । अंशेन भगवान्विष्णुः भुवो भारापनुत्तये ॥ १६ ॥ ↩︎

  23. M राज ↩︎

  24. K,W घनस्थम्; M नभस्तः ↩︎

  25. B adds हृदयाकाशे हृदयकमले वेति दिक् ↩︎

  26. M विरेजे ↩︎ ↩︎

  27. M द्यूत ↩︎

  28. B वेदविरुद्धेन हीनेन ज्ञानेन मूर्खे दुर्जने । ↩︎ ↩︎

  29. M ऽ जितम्भरां ↩︎

  30. B मालोक्य ↩︎

  31. B प्राह ↩︎

  32. M घटनीय ↩︎

  33. B,G,J यदर्थ; V यमर्थ ↩︎

  34. B,G,J काल; V वेल ↩︎

  35. विहन्ति कीर्तिं सुदुरासदां परैः । त्यजन्ति सन्तो यशसा विहीनम् ॥ This additional half verse is found between 21 and 22 verses in V edition. ↩︎

  36. B,K एव ↩︎

  37. M तमनु ह्यर्थकामौ यशोऽमलं गौरभि ↩︎ ↩︎

  38. V स नि ↩︎

  39. V क्ष्य त ↩︎

  40. M वित् ↩︎

  41. B,G,J महीम् ↩︎

  42. K,W दयश् च ↩︎

  43. V मुनयो नारदादयः ↩︎ ↩︎

  44. B,G,J र्वृषण मैडयन्; M र्विष्णु मथाऽस्तुवत् । ↩︎ ↩︎

  45. K,W omit समागत्य ↩︎

  46. K,W omit ↩︎ ↩︎

  47. M मुत ↩︎

  48. K,W omit ↩︎ ↩︎

  49. B adds तावत् ↩︎

  50. K,W चित्प्र ↩︎

  51. B,W त्व ↩︎

  52. B,G,J विधः ↩︎

  53. B,G,J,M दी ↩︎

  54. B श्चेत्येते ↩︎

  55. M स्थानं निधानं ↩︎

  56. B भगवदुक्तेः ↩︎

  57. B,G,J,K,W आत्मा ↩︎

  58. K,W मल ↩︎

  59. V लोक ↩︎

  60. M चेतसो ये । ↩︎

  61. K,W omit ↩︎ ↩︎

  62. B शरीरं विग्रहो वा यस्य इति ↩︎ ↩︎

  63. B दिव्यनित्यमङ्गल श्रीविग्रहविशिष्टे ↩︎ ↩︎

  64. B चरित्रगुणकथाश्रवणकीर्तनस्मरणादिपराः ↩︎ ↩︎

  65. K omits सागरः ↩︎

  66. B किन्तु अन्येषामपि तथैवाऽस्त्विति तादृशशास्त्राप्रकाशनाद्यविच्छेद सम्प्रदायपरम्परा मत्रैव दृढतया विस्तार्य भवत्कृपया भवद्धाम प्राप्ता इत्यभिप्रायेण स्तुवन्ति स्वयमित्यादिना ↩︎ ↩︎

  67. B adds विभूतिद्वयनायकः ↩︎

  68. B पदाम्बुजमेव ↩︎ ↩︎

  69. K,W रोत्तारसा ↩︎

  70. K,W सदनु ↩︎ ↩︎

  71. B,W भगव ↩︎

  72. B adds सन्तः ↩︎

  73. K,W omit ↩︎ ↩︎

  74. K,W omit ↩︎ ↩︎

  75. K,W भ्यामनु ↩︎

  76. B,G,J,M भवेत् ↩︎

  77. B adds धाम तेजोरूपं ↩︎

  78. B omits ↩︎ ↩︎

  79. B दिभिर्वि ↩︎

  80. B,G,J चेता ↩︎

  81. B नामानि रूपाणि च ↩︎ ↩︎

  82. K,W क्ता म ↩︎ ↩︎

  83. K,W ततश्च ↩︎ ↩︎

  84. B adds च स्वर्गं ↩︎

  85. B,G,J,K,W या ↩︎

  86. K जगदुत्प ↩︎

  87. M,W पाहि ↩︎

  88. B,G,J,K,W य ↩︎

  89. K,W omit ↩︎

  90. K,W मविदन् ↩︎

  91. K,W दिवं ययुः । ↩︎ ↩︎

  92. K,W omit ↩︎ ↩︎

  93. B स्वर्गं । ↩︎