०१ श्रीकृष्णावतारोपक्रमे

[प्रथमोऽध्यायः]

भागसूचना

भगवान‍्के द्वारा पृथ्वीको आश्वासन, वसुदेव-देवकीका विवाह और कंसके द्वारा देवकीके छः पुत्रोंकी हत्या

श्लोक-१

मूलम् (वचनम्)

राजोवाच

विश्वास-प्रस्तुतिः

कथितो वंशविस्तारो भवता सोमसूर्ययोः।
राज्ञां चोभयवंश्यानां चरितं परमाद‍्भुतम्॥

मूलम्

कथितो वंशविस्तारो भवता सोमसूर्ययोः।
राज्ञां चोभयवंश्यानां चरितं परमाद‍्भुतम्॥

वीरराघवः

श्रीमते रामानुजाय नमः ॥ अतिक्रान्तस्कंधान्ते — जातो गतः पितृगृहाद् व्रजमेधितार्थी हत्वा रिपून् सुतशतानि कृतोरुदारः ।
उत्पाद्य तेषु पुरुषः ऋतुभित्समीज आत्मानमात्मनिगमं प्रथमं जनेषु ||

इत्यादिश्लोकद्वयेन संगृह्य प्रदर्शितं श्रीकृष्णावतारचरित्रं विस्तरेण शुश्रूषुः अतिक्रान्तस्कन्धार्थानुवादपूर्वकं पृच्छति राजा- कथित इत्यादिना श्लोकदशकेन । तत्र पूर्वस्कन्धार्थमनुवदति- कथित इति सार्द्धेन । सोमसूर्ययोस्तदुभयवंशजातानाञ्च राज्ञां वंशविस्तारस्तेषां परमाद्भुतं चरित्रञ्च कथितम् ||१|| हे मुनिसत्तम । नितरां धर्म एव शीलं वृत्तं यस्य तस्य यदोर्वंशविस्तारः कथितः ॥ १३॥ ॥ १ ॥

श्लोक-२

विश्वास-प्रस्तुतिः

यदोश्च धर्मशीलस्य नितरां मुनिसत्तम।
तत्रांशेनावतीर्णस्य विष्णोर्वीर्याणि शंस नः॥

मूलम्

यदोश्च धर्मशीलस्य नितरां मुनिसत्तम।
तत्रांशेनावतीर्णस्य विष्णोर्वीर्याणि शंस नः॥

अनुवाद (हिन्दी)

राजा परीक्षित् ने पूछा—भगवन्! आपने चन्द्रवंश और सूर्यवंशके विस्तार तथा दोनों वंशोंके राजाओंका अत्यन्त अद‍्भुत चरित्र वर्णन किया। भगवान‍्के परम प्रेमी मुनिवर! आपने स्वभावसे ही धर्मप्रेमी यदुवंशका भी विशद वर्णन किया। अब कृपा करके उसी वंशमें अपने अंश श्रीबलरामजीके साथ अवतीर्ण हुए भगवान् श्रीकृष्णके परम पवित्र चरित्र भी हमें सुनाइये॥ १-२॥

वीरराघवः

अधुना तत्र यदोर्वंशे अंशेन बलरामेण सहावतीर्णस्य, यद्वा, सङ्कल्परूपज्ञानेन वा दिव्यविग्रहांशेन वा, अन्यथा “एते शकला विष्णोः कृष्णस्तु भगवान् स्वयम्” इति पूर्वोत्तरव्याघातापत्तेः, विष्णोः श्रीकृष्णस्य वीर्याणि वीर्यगुणप्रकारकाणि चरित्राणि नः शुश्रूषुभ्योऽस्मभ्यं शंस विस्तरतः कथय || २ ||

श्लोक-३

विश्वास-प्रस्तुतिः

अवतीर्य यदोर्वंशे भगवान् भूतभावनः।
कृतवान् यानि विश्वात्मा तानि नो वद विस्तरात्॥

मूलम्

अवतीर्य यदोर्वंशे भगवान् भूतभावनः।
कृतवान् यानि विश्वात्मा तानि नो वद विस्तरात्॥

अनुवाद (हिन्दी)

भगवान् श्रीकृष्ण समस्त प्राणियोंके जीवनदाता एवं सर्वात्मा हैं। उन्होंने यदुवंशमें अवतार लेकर जो-जो लीलाएँ कीं, उनका विस्तारसे हमलोगोंको श्रवण कराइये॥ ३॥

वीरराघवः

कानि वीर्याणि ? इत्यत्राह — अवतीर्येति । यद्वा, न परव्यूहादिरूपेणावस्थितस्य वीर्याणि; किन्तु यदोर्वंशेऽवतीर्य्य भगवान् यानि वीर्याणि कृतवान्, तानि वीर्याणि विस्तरतो नोऽस्मभ्यं वद शंस, अवतरणप्रभृतीनि स्वर्लोकगमनपर्य्यन्तानि वीर्याणि विस्तरेण कथयेति भावः । अत एव पुनरवतीर्येत्युक्तम्, अवतारप्रयोजनं तन्निमित्तञ्च विस्तरेण वदेत्यभिप्रायेण विशिनष्टि, भूतभावनः भूतानि साधुभूतानि भावयति विभावयति त्रायते इति तथा विश्वात्मा विश्वस्य अन्तरात्मा विश्वमात्मा शरीरं यस्येति वा विश्वात्मा ॥ ३ ॥

श्लोक-४

विश्वास-प्रस्तुतिः

निवृत्ततर्षैरुपगीयमानाद्
भवौषधाच्छ्रोत्रमनोऽभिरामात्।
क उत्तमश्लोकगुणानुवादात्
पुमान् विरज्येत विना पशुघ्नात्॥

मूलम्

निवृत्ततर्षैरुपगीयमानाद्
भवौषधाच्छ्रोत्रमनोऽभिरामात्।
क उत्तमश्लोकगुणानुवादात्
पुमान् विरज्येत विना पशुघ्नात्॥

अनुवाद (हिन्दी)

जिनकी तृष्णाकी प्यास सर्वदाके लिये बुझ चुकी है, वे जीवन्मुक्त महापुरुष जिसका पूर्ण प्रेमसे अतृप्त रहकर गान किया करते हैं, मुमुक्षुजनोंके लिये जो भवरोगका रामबाण औषध है तथा विषयी लोगोंके लिये भी उनके कान और मनको परम आह्लाद देनेवाला है, भगवान् श्रीकृष्णचन्द्रके ऐसे सुन्दर, सुखद, रसीले, गुणानुवादसे पशुघाती अथवा आत्मघाती मनुष्यके अतिरिक्त और ऐसा कौन है जो विमुख हो जाय, उससे प्रीति न करे?॥ ४॥

वीरराघवः

ननु, विष्णोर्वीर्याणि अभीक्ष्णशः श्रुतान्येव किं पृच्छसि ? इत्यत्राह - निवृत्ततर्षैरिति । क उत्तमश्लोकगुणानुवादादित्यस्याऽमृतादिति शेषः उत्तमश्लोकस्य भगवतो गुणानुवादरूपादमृतात् पशुघ्नं विना कः पुमान् विरज्येत ? न कोऽपीत्यर्थः । प्रसिद्धामृतवैलक्षण्यं सूचयितुं विशिनष्टि, निवृत्तस्तर्षो विषयेष्वनलम्बुद्धिर्येषां तैः विगतविषयस्पृहैर्योगिभिरुपगीयमानात् प्रसिद्धं त्वमृतमनिवृत्ततर्षोपगीयमानमित्यर्थः । भवौषधात् भवस्य संसारस्य रोगरूपस्यौषधम् औषधमिव प्रतीकाररूपात् प्रसिद्धन्तु भववर्द्धनमिति भावः । श्रोत्रयोर्मनसश्चाभिरामात् प्रसिद्धन्तु रसनेन्द्रियमात्राभिराममिति भावः । गुणानुवादो गुणकथा पशुं हन्तीति पशुध्नो गोघ्नस्तं विनेत्यर्थः । यद्वा, पशुवद्धन्ति गच्छति व्याप्रियत इति पशुघ्नः तं विनेत्यर्थः । पशुतुल्यवृत्तिः केवलमूर्ख इति यावत्, यद्वा, अपशुघ्नादिच्छेदः पश्विति सम्यगर्थकमव्ययम्, न पशु असम्यक् हन्ति गच्छति बुद्ध्यतीति तथा “हन हिंसागत्योः " गत्यर्थास्सर्वे ज्ञानार्थकाः । सम्यगुपकारमविद्वान् कृतघ्न इति यावत् । उत्तमश्लोककृतोपकाराभिज्ञस्तद्गुणानुवादात् कः पुमान् विरज्येतेत्यर्थः ॥ ४ ॥

श्लोक-५

विश्वास-प्रस्तुतिः

पितामहा मे समरेऽमरञ्जयै-
र्देवव्रताद्यातिरथैस्तिमिङ्गिलैः।
दुरत्ययं कौरवसैन्यसागरं
कृत्वातरन् वत्सपदं स्म यत्प्लवाः॥

मूलम्

पितामहा मे समरेऽमरञ्जयै-
र्देवव्रताद्यातिरथैस्तिमिङ्गिलैः।
दुरत्ययं कौरवसैन्यसागरं
कृत्वातरन् वत्सपदं स्म यत्प्लवाः॥

अनुवाद (हिन्दी)

(श्रीकृष्ण तो मेरे कुलदेव ही हैं।) जब कुरुक्षेत्रमें महाभारत-युद्ध हो रहा था और देवताओंको भी जीत लेनेवाले भीष्मपितामह आदि अतिरथियोंसे मेरे दादा पाण्डवोंका युद्ध हो रहा था, उस समय कौरवोंकी सेना उनके लिये अपार समुद्रके समान थी—जिसमें भीष्म आदि वीर बड़े-बड़े मच्छोंको भी निगल जानेवाले तिमिंगिल मच्छोंकी भाँति भय उत्पन्न कर रहे थे। परन्तु मेरे स्वनामधन्य पितामह भगवान् श्रीकृष्णके चरणकमलोंकी नौकाका आश्रय लेकर उस समुद्रको अनायास ही पार कर गये—ठीक वैसे ही जैसे कोई मार्गमें चलता हुआ स्वभावसे ही बछड़ेके खुरका गड्ढा पार कर जाय॥ ५॥

वीरराघवः

कोसौ तत्कृत उपकारः ? यदभिज्ञानात्तद्गुणानुवादान्न विरज्यसे बहुषु भगवदवतारतच्चरित्रेषु सत्स्वपि किं विशेषेण कृष्णावतारतच्चरित्रादिकमेव पृच्छसीत्यत्राह - पितामहा इति द्वाभ्याम् । अमरञ्जयैः देवानपि जेतुं समर्थैर्भीष्माद्यतिरथरूपैस्तिमिङ्गिलैर्हेतुभिः दुःखेनाप्यत्येतुं पारं गन्तुमशक्यं कौरवाणां सैन्यमेव सागरस्तं यो भगवान् कृष्ण एव प्लवो नौर्येषां ते मम पितामहाः युधिष्ठिरादयः वत्सपदङ्कृत्वा गोष्पदतुल्यङ्कृत्वा अतरन् रम पारं जग्मुः किल श्लोकद्वयास्थयच्छब्दयोर्वीर्याणि तस्येत्यनेनान्वयः ॥ ५ ॥

श्लोक-६

विश्वास-प्रस्तुतिः

द्रौण्यस्त्रविप्लुष्टमिदं मदङ्गं
सन्तानबीजं कुरुपाण्डवानाम्।
जुगोप कुक्षिं गत आत्तचक्रो
मातुश्च मे यः शरणं गतायाः॥

मूलम्

द्रौण्यस्त्रविप्लुष्टमिदं मदङ्गं
सन्तानबीजं कुरुपाण्डवानाम्।
जुगोप कुक्षिं गत आत्तचक्रो
मातुश्च मे यः शरणं गतायाः॥

अनुवाद (हिन्दी)

महाराज! मेरा यह शरीर—जो आपके सामने है तथा जो कौरव और पाण्डव दोनों ही वंशोंका एकमात्र सहारा था—अश्वत्थामाके ब्रह्मास्त्रसे जल चुका था। उस समय मेरी माता जब भगवान‍्की शरणमें गयीं, तब उन्होंने हाथमें चक्र लेकर मेरी माताके गर्भमें प्रवेश किया और मेरी रक्षा की॥ ६॥

वीरराघवः

द्रौणीति । किञ्च द्रौणेरश्वत्थाम्नोऽस्त्रेण तत्प्रयुक्तब्रह्मशीर्षनामकेनास्त्रेण विप्लुष्टं दग्धमिदं मदङ्गं मच्छरीरं कुरूणां पाण्डवानाञ्च सन्तानस्य बीजं प्रवर्त्तकं वंशद्वयेऽपि स्वस्यैवावशेषितत्वात्तदुभयसन्तानबीजमित्यर्थः । यो जुगोप, कथम्भूतः ? शरणं गतायाः मम मातुरुत्तरायाः कुक्षिं प्रविष्टः आत्तं धृतं चक्रं सुदर्शनं येन तथाभूतः मत्पितामहप्रभृतीनां मत्पर्य्यन्तानामनिष्टपरिहारेष्टप्रापणदीक्षितस्य महोपकर्तुर्गुणानुवादात् कृतज्ञः कथमहं विरज्येयमिति भावः ॥ ६ ॥

श्रीसुदर्शनसूरिः

।। १-४ ।। अमरञ्जयैर्देवानपि जेतुं समर्थैः वत्सपदं कृत्वा गोष्पदतुल्यं कृत्वा यत्प्लवा इति बहुव्रीहिः यच्छब्दो भगवद्विषयः ।। ५-६ ।।

श्लोक-७

विश्वास-प्रस्तुतिः

वीर्याणि तस्याखिलदेहभाजा-
मन्तर्बहिः पूरुषकालरूपैः।
प्रयच्छतो मृत्युमुतामृतं च
मायामनुष्यस्य वदस्व विद्वन्॥

मूलम्

वीर्याणि तस्याखिलदेहभाजा-
मन्तर्बहिः पूरुषकालरूपैः।
प्रयच्छतो मृत्युमुतामृतं च
मायामनुष्यस्य वदस्व विद्वन्॥

अनुवाद (हिन्दी)

(केवल मेरी ही बात नहीं,) वे समस्त शरीरधारियोंके भीतर आत्मारूपसे रहकर अमृतत्वका दान कर रहे हैं और बाहर कालरूपसे रहकर मृत्युका*। मनुष्यके रूपमें प्रतीत होना, यह तो उनकी एक लीला है। आप उन्हींकी ऐश्वर्य और माधुर्यसे परिपूर्ण लीलाओंका वर्णन कीजिये॥ ७॥

पादटिप्पनी
  • समस्त देहधारियोंके अन्तःकरणमें अन्तर्यामीरूपसे स्थित भगवान् उनके जीवनके कारण हैं तथा बाहर कालरूपसे स्थित हुए वे ही उनका नाश करते हैं। अतः जो आत्मज्ञानीजन अन्तर्दृष्टिद्वारा उन अन्तर्यामीकी उपासना करते हैं, वे मोक्षरूप अमरपद पाते हैं और जो विषयपरायण अज्ञानी पुरुष बाह्यदृष्टिसे विषयचिन्तनमें ही लगे रहते हैं, वे जन्म-मरणरूप मृत्युके भागी होते हैं।
वीरराघवः

वीर्य्याणीति । यत एवमतो हे विद्वन् ! अखिलानां देहभाजाम् अन्तर्बहिः पुरुषकालरूपैः अमृतं मृत्युञ्च प्रयच्छतः क्षेत्रज्ञानां कालावयवानाञ्च बाहुल्याद् बहुवचनम्, क्षेत्रज्ञकालात्मकैः रूपेः शरीरैः तत्रान्तः पुरुषरूपेणाऽमृतममरणं स्थितिं प्रयच्छतः स्थितिहेतोरित्यर्थः । उतापि च बहि: कालरूपेण मृत्युं प्रयच्छतः विनाशहेतोरित्यर्थः । कृत्स्नजगत्कारणस्येत्यर्थः । " कारणं तु ध्येयः” इति कारणस्यैव वस्तुनो ध्येयत्वश्रवणात् । ध्यानस्य च श्रवणमननादिपूर्वकत्वात् तद्विषयकशुश्रूषा ममारतीति ज्ञापनायाखिलदेह भाजामित्याद्यमृतञ्चेत्यन्तमुक्तम् । तर्ह्येवम्भूतस्य कथं मनुष्यत्वापत्तिः ? इत्यतो विशिनष्टि, मायामनुष्यस्य सङ्कल्पज्ञानेन मनुष्यस्य प्रच्छन्नमनुष्यस्य वा तस्य श्रीकृष्णस्य वीर्याणि वदस्व प्रकाशय “भासनोपसम्भाषा” ( ११३।४७ ) इत्यादि सूत्रेण वदेस्तङ् ॥ ७ ॥

श्रीसुदर्शनसूरिः

पूरुषकालरूपैः क्षेत्रज्ञकालाख्यरूपैर्विशिष्टस्य क्षेत्रज्ञानां कालावयवानां बाहुल्याद्बहुवचनम् अन्तःपुरुषरूपेणाऽमृतं प्रयच्छन् शरीरस्थितिहेतुः बहिः कालरूपेण मृत्युं प्रयच्छन् शरीरविनाशहेतुरित्यर्थः । मायामनुष्यस्य आश्चर्यभूतमनुष्यस्य सङ्कल्परूपज्ञानेन मनुष्यस्य वा प्रच्छन्नमनुष्यस्य वा ॥ ७ ॥

श्लोक-८

विश्वास-प्रस्तुतिः

रोहिण्यास्तनयः प्रोक्तो रामः सङ्कर्षणस्त्वया।
देवक्या गर्भसम्बन्धः कुतो देहान्तरं विना॥

मूलम्

रोहिण्यास्तनयः प्रोक्तो रामः सङ्कर्षणस्त्वया।
देवक्या गर्भसम्बन्धः कुतो देहान्तरं विना॥

अनुवाद (हिन्दी)

भगवन्! आपने अभी बतलाया था कि बलरामजी रोहिणीके पुत्र थे। इसके बाद देवकीके पुत्रोंमें भी आपने उनकी गणना की। दूसरा शरीर धारण किये बिना दो माताओंका पुत्र होना कैसे सम्भव है?॥ ८॥

वीरराघवः

अंशेनावतीर्णस्य विष्णोरित्यंश चरित्रमपि कथनीयमिति सूचितम् । तदेव व्यञ्जयन् पृच्छति - रोहिण्या इति । सङ्कर्षणः भगवदंशसंभूतसङ्कर्षणावताररूपो रामो बलरामः रोहिण्याः तनयः प्रोक्तः । तथा तस्य देवक्या गर्भसन्दर्भश्च स्मृतः । त्वया नवम इति शेषः । तदेतदुभयं देहान्तरं विनैवैकेन देहेनैव तस्य कुतः कस्माद्धेतोरभवत् ? ॥ ८ ॥

श्लोक-९

विश्वास-प्रस्तुतिः

कस्मान‍् मुकुन्दो भगवान् पितुर्गेहाद् व्रजं गतः।
क्व वासं ज्ञातिभिः सार्धं कृतवान् सात्वतांपतिः॥

मूलम्

कस्मान‍् मुकुन्दो भगवान् पितुर्गेहाद् व्रजं गतः।
क्व वासं ज्ञातिभिः सार्धं कृतवान् सात्वतांपतिः॥

अनुवाद (हिन्दी)

असुरोंको मुक्ति देनेवाले और भक्तोंको प्रेम वितरण करनेवाले भगवान् श्रीकृष्ण अपने वात्सल्य-स्नेहसे भरे हुए पिताका घर छोड़कर व्रजमें क्यों चले गये? यदुवंशशिरोमणि भक्तवत्सल प्रभुने नन्द आदि गोप-बन्धुओंके साथ कहाँ-कहाँ निवास किया?॥ ९॥

वीरराघवः

“कृतवान् यानि विश्वात्मा तानि नो वद” इति सामान्यतः पृष्टानि वीर्याणि विशेषतः पृच्छति- कस्मादिति चतुर्भिः । भगवान् मुकुन्दः कस्माद्धेतोः पितुर्वसुदेवस्य गेहाद्व्रजं नन्दव्रजं गतः ? सात्वतां भक्तानां पतिर्भगवान् ज्ञातिभिर्यदुभिः सह क्व निवासं कृतवान् ? || ९ ||

श्लोक-१०

विश्वास-प्रस्तुतिः

व्रजे वसन् किमकरोन‍् मधुपुर्यां च केशवः।
भ्रातरं चावधीत् कंसं मातुरद्धातदर्हणम्॥

मूलम्

व्रजे वसन् किमकरोन‍् मधुपुर्यां च केशवः।
भ्रातरं चावधीत् कंसं मातुरद्धातदर्हणम्॥

अनुवाद (हिन्दी)

ब्रह्मा और शंकरका भी शासन करनेवाले प्रभुने व्रजमें तथा मधुपुरीमें रहकर कौन-कौन-सी लीलाएँ कीं? और महाराज! उन्होंने अपनी माँके भाई मामा कंसको अपने हाथों क्यों मार डाला? वह मामा होनेके कारण उनके द्वारा मारे जाने योग्य तो नहीं था॥ १०॥

वीरराघवः

व्रजे मधुपुर्यां च वसन् किं किमकरोत् ? मातुर्देवक्याः अद्धा साक्षाद्भ्रातरम् अत एवातदर्हणं वधानर्हं कंसं कुतोऽवधीत् ॥ १० ॥

श्लोक-११

विश्वास-प्रस्तुतिः

देहं मानुषमाश्रित्य कतिवर्षाणि वृष्णिभिः।
यदुपुर्यां सहावात्सीत् पत्न्यः कत्यभवन् प्रभोः॥

मूलम्

देहं मानुषमाश्रित्य कतिवर्षाणि वृष्णिभिः।
यदुपुर्यां सहावात्सीत् पत्न्यः कत्यभवन् प्रभोः॥

अनुवाद (हिन्दी)

मनुष्याकार सच्चिदानन्दमय विग्रह प्रकट करके द्वारकापुरीमें यदुवंशियोंके साथ उन्होंने कितने वर्षोंतक निवास किया? और उन सर्वशक्तिमान् प्रभुकी पत्नियाँ कितनी थीं?॥ ११॥

वीरराघवः

मानुषं मानुषवदवभासमानं देहं दिव्यमङ्गलविग्रहमाश्रित्य परिगृह्य वृष्णिभिर्यदुभिः सह यदुपुर्यां द्वारकायां कति वर्षाणि अवात्सीत् ऊषितवान् ? तस्य पत्न्य: कति बभूवुः हे विभो ! ॥ ११ ॥

श्रीसुदर्शनसूरिः

देहोऽवताररूप इति ॥ ८-११ ।।

श्लोक-१२

विश्वास-प्रस्तुतिः

एतदन्यच्च सर्वं मे मुने कृष्णविचेष्टितम्।
वक्तुमर्हसि सर्वज्ञ श्रद्दधानाय विस्तृतम्॥

मूलम्

एतदन्यच्च सर्वं मे मुने कृष्णविचेष्टितम्।
वक्तुमर्हसि सर्वज्ञ श्रद्दधानाय विस्तृतम्॥

अनुवाद (हिन्दी)

मुने! मैंने श्रीकृष्णकी जितनी लीलाएँ पूछी हैं और जो नहीं पूछी हैं, वे सब आप मुझे विस्तारसे सुनाइये; क्योंकि आप सब कुछ जानते हैं और मैं बड़ी श्रद्धाके साथ उन्हें सुनना चाहता हूँ॥ १२॥

वीरराघवः

एतत्पृष्टमन्यदपृष्टं च यद्यत्सर्वं कृष्णस्य विचेष्टितं हे मुने ! श्रद्दधानाय श्रवणोपयुक्तत्वरान्विताय मे शुश्रूषवे मह्यं हे सर्वज्ञ साकल्येन कृष्णचेष्टिताभिज्ञ ! विस्तृतं यथा तथा वक्तुमर्हसि ।। १२ ।।

श्लोक-१३

विश्वास-प्रस्तुतिः

नैषातिदुःसहा क्षुन्मां त्यक्तोदमपि बाधते।
पिबन्तं त्वन्मुखाम्भोजच्युतं हरिकथामृतम्॥

मूलम्

नैषातिदुःसहा क्षुन्मां त्यक्तोदमपि बाधते।
पिबन्तं त्वन्मुखाम्भोजच्युतं हरिकथामृतम्॥

अनुवाद (हिन्दी)

भगवन्! अन्नकी तो बात ही क्या, मैंने जलका भी परित्याग कर दिया है। फिर भी वह असह्य भूख-प्यास (जिसके कारण मैंने मुनिके गलेमें मृत सर्प डालनेका अन्याय किया था) मुझे तनिक भी नहीं सता रही है; क्योंकि मैं आपके मुखकमलसे झरती हुई भगवान‍्की सुधामयी लीला-कथाका पान कर रहा हूँ॥ १३॥

वीरराघवः

प्रायोपविष्टस्याशनायापिपासाभ्यामर्दितस्य तव कथं श्रवणोपयुक्तचित्तसमाधानसम्भवः ? इत्यत्राह - नेषेति । त्यक्तमुदकपानं येन तथाभूतमपि मां दुस्सहा सोढुमशक्या एषा क्षुत् न बाधते, तत्र हेतुं वदन्नात्मानं विशिनष्टि, त्वन्मुखाम्भोजाच्च्युतं गलितं हरिकथैवाऽमृतं तत् पिबन्तं मामित्यन्वयः ॥ १३ ॥

श्लोक-१४

मूलम् (वचनम्)

सूत उवाच

विश्वास-प्रस्तुतिः

एवं निशम्य भृगुनन्दन साधुवादं
वैयासकिः स भगवानथ विष्णुरातम्।
प्रत्यर्च्य कृष्णचरितं कलिकल्मषघ्नं
व्याहर्तुमारभत भागवतप्रधानः॥

मूलम्

एवं निशम्य भृगुनन्दन साधुवादं
वैयासकिः स भगवानथ विष्णुरातम्।
प्रत्यर्च्य कृष्णचरितं कलिकल्मषघ्नं
व्याहर्तुमारभत भागवतप्रधानः॥

अनुवाद (हिन्दी)

सूतजी कहते हैं—शौनकजी! भगवान‍्के प्रेमियोंमें अग्रगण्य एवं सर्वज्ञ श्रीशुकदेवजी महाराजने परीक्षित् का ऐसा समीचीन प्रश्न सुनकर (जो संतोंकी सभामें भगवान‍्की लीलाके वर्णनका हेतु हुआ करता है) उनका अभिनन्दन किया और भगवान् श्रीकृष्णकी उन लीलाओंका वर्णन प्रारम्भ किया, जो समस्त कलिमलोंको सदाके लिये धो डालती है॥ १४॥

वीरराघवः

इत्थमापृष्टो भगवान् शुकः श्रीकृष्णचरित्रं विस्तरतः कथयितुमारेभ इत्याह सूतः - एवमिति । हे भृगुनन्दन शौनक ! एवमित्थं साधुवादं साधो परीक्षितो वादमुक्ति प्रश्नरूपं निशम्य स भगवान् वैयासकिः शुकः ततो विष्णुरात परीक्षितं प्रत्यर्च्य प्रत्यभिनन्द्य कलिकल्मषघ्नं शृण्वतां वदताञ्च कलिकालकृतपापघ्नं कृष्णस्य भगवतश्चरित्रं व्याहर्तुं विस्तरतो वक्तुं दशमैकादशस्कन्धद्वयेन वक्तुमिति यावत्, आरभत प्रारेभे युक्तं चैतदित्यभिप्रायेण विशिनष्टि, भागवतप्रधानः भागवतं भगवत्स्वरूपगुणाद्यनुसन्धानमेव प्रधानं मुख्यं प्रयोजनं यस्य तथाभूतः ॥ १४ ॥

श्लोक-१५

मूलम् (वचनम्)

श्रीशुक उवाच

विश्वास-प्रस्तुतिः

सम्यग्व्यवसिता बुद्धिस्तव राजर्षिसत्तम।
वासुदेवकथायां ते यज्जाता नैष्ठिकी रतिः॥

मूलम्

सम्यग्व्यवसिता बुद्धिस्तव राजर्षिसत्तम।
वासुदेवकथायां ते यज्जाता नैष्ठिकी रतिः॥

अनुवाद (हिन्दी)

श्रीशुकदेवजीने कहा—भगवान‍्के लीला-रसके रसिक राजर्षे! तुमने जो कुछ निश्चय किया है, वह बहुत ही सुन्दर और आदरणीय है; क्योंकि सबके हृदयाराध्य श्रीकृष्णकी लीला-कथा श्रवण करनेमें तुम्हें सहज एवं सुदृढ़ प्रीति प्राप्त हो गयी है॥ १५॥

वीरराघवः

तावत्प्रत्यर्च्याह— सम्यगिति द्वाभ्याम् । हे राजर्षिसत्तम! तव बुद्धिः सम्यग्व्यवसिता निश्चिता हेयोपादेयविवेकयुक्तेत्यर्थः । कुत एतज्ज्ञातव्यमित्यत्राह - यद्यस्माद्वासुदेवकथायामेव तव मतिः नैष्ठिकी निष्ठायुक्ता वासुदेवकथाश्रवण एवं परिनिष्ठितेत्यर्थः ॥ १५ ॥

श्लोक-१६

विश्वास-प्रस्तुतिः

वासुदेवकथाप्रश्नः पुरुषांस्त्रीन् पुनाति हि।
वक्तारं पृच्छकं श्रोतॄंस्तत्पादसलिलं यथा॥

मूलम्

वासुदेवकथाप्रश्नः पुरुषांस्त्रीन् पुनाति हि।
वक्तारं पृच्छकं श्रोतॄंस्तत्पादसलिलं यथा॥

अनुवाद (हिन्दी)

भगवान् श्रीकृष्णकी कथाके सम्बन्धमें प्रश्न करनेसे ही वक्ता, प्रश्नकर्ता और श्रोता तीनों ही पवित्र हो जाते हैं—जैसे गंगाजीका जल या भगवान् शालग्रामका चरणामृत सभीको पवित्र कर देता है॥ १६॥

वीरराघवः

किं तच्छ्रवणनिष्ठा-मात्रेणेत्यत्राह - वासुदेवेति । वासुदेवकथाप्रश्न एव किं पुनस्ततच्छ्रवणादिकमित्यभिप्रायेण प्रश्न इत्युक्तम् । यद्वा, प्रश्नप्रतिवचनतच्छ्रवणानां त्रयाणामुपलक्षणार्थ: प्रश्नशब्दः । त्रीन् पुरुषान् पुनाति, कान् ? वक्तारं प्रतिवक्तारं पृच्छकं पृच्छन्त श्रोतृंश्चेति त्रीन् । वक्त्रा प्रतिवक्त्रा चैकैकेनैव भाव्यभिप्रायेण वक्तारं पृच्छकञ्चेत्येकवचननिर्देशः । श्रोतृभिस्तु बहुभिरपीति बहुवचननिर्देशः । यथा तस्य वासुदेवस्य पादसलिलं गाङ्गमम्भः पुनाति तद्वदिति पवित्रीकरणमात्रे दृष्टान्तः । न तु पुरुषत्रयपवित्रीकरणे त्रयाणां तत्रासम्भवात् । यद्वा, यथा गाङ्गं सलिलमुपस्पृशन्तं तत्पितरं पितामहं च पुनाति तद्वदिति दृष्टान्ताभिप्रायः । यथा तत्पादसलिलमुपस्पृशन्तमेकमेव पुरुषं पुनाति न तथा तत्कथाप्रश्नः पुनाति अपि तु त्रीनिति व्यतिरेकदृष्टान्तो वाऽभिप्रेतः || १६ ||

श्लोक-१७

विश्वास-प्रस्तुतिः

भूमिर्दृप्तनृपव्याजदैत्यानीकशतायुतैः।
आक्रान्ता भूरिभारेण ब्रह्माणं शरणं ययौ॥

मूलम्

भूमिर्दृप्तनृपव्याजदैत्यानीकशतायुतैः।
आक्रान्ता भूरिभारेण ब्रह्माणं शरणं ययौ॥

अनुवाद (हिन्दी)

परीक्षित्! उस समय लाखों दैत्योंके दलने घमंडी राजाओंका रूप धारण कर अपने भारी भारसे पृथ्वीको आक्रान्त कर रखा था। उससे त्राण पानेके लिये वह ब्रह्माजीकी शरणमें गयी॥ १७॥

वीरराघवः

तमित्थं प्रत्यर्च्यावतारप्रभृतीनि वीर्याणि विस्तरतो विवक्षुस्तावदवतारनिमित्तभूतां भूप्रार्थनामुपपादयति-भूमिरित्यादिभिश्चतुर्भिः । दृष्टाः गर्विताः नृपव्याजाः नृपवदवभासमानाः ये दैत्यास्तेषामनीकानां सैन्यानां शतानामयुतैर्भूरिभारेण तद्रूपनिरवधिकभारेणाऽऽक्रान्ता पीडिता भूमिः ब्रह्माणं चतुर्मुखं शरणं ययौ ॥ १७ ॥

श्लोक-१८

विश्वास-प्रस्तुतिः

गौर्भूत्वाश्रुमुखी खिन्ना क्रन्दन्ती करुणं विभोः।
उपस्थितान्तिके तस्मै व्यसनं स्वमवोचत॥

मूलम्

गौर्भूत्वाश्रुमुखी खिन्ना क्रन्दन्ती करुणं विभोः।
उपस्थितान्तिके तस्मै व्यसनं स्वमवोचत॥

अनुवाद (हिन्दी)

पृथ्वीने उस समय गौका रूप धारण कर रखा था। उसके नेत्रोंसे आँसू बह-बहकर मुँहपर आ रहे थे। उसका मन तो खिन्न था ही, शरीर भी बहुत कृश हो गया था। वह बड़े करुण स्वरसे रँभा रही थी। ब्रह्माजीके पास जाकर उसने उन्हें अपनी पूरी कष्ट-कहानी सुनायी॥ १८॥

वीरराघवः

तदेव प्रपञ्चयति— गौर्भूत्वा गोरूपं विभ्राणा खिन्ना दीना अश्रूणि मुखे यस्यास्तथाभूता करुणं यथा तथा रुदन्ती विभोर्ब्रह्मणोऽन्तिके समीपे उपस्थिता स्तुवन्ती व्यसनं स्वदुःखं तस्मै ब्रह्मणे सम्यगवोचत् विज्ञापयामास || १८ ||

श्लोक-१९

विश्वास-प्रस्तुतिः

ब्रह्मा तदुपधार्याथ सह देवैस्तया सह।
जगाम सत्रिनयनस्तीरं क्षीरपयोनिधेः॥

मूलम्

ब्रह्मा तदुपधार्याथ सह देवैस्तया सह।
जगाम सत्रिनयनस्तीरं क्षीरपयोनिधेः॥

अनुवाद (हिन्दी)

ब्रह्माजीने बड़ी सहानुभूतिके साथ उसकी दुःख-गाथा सुनी। उसके बाद वे भगवान् शंकर, स्वर्गके अन्यान्य प्रमुख देवता तथा गौके रूपमें आयी हुई पृथ्वीको अपने साथ लेकर क्षीरसागरके तटपर गये॥ १९॥

वीरराघवः

ब्रह्मा तद्व्यसनमुपधार्य ज्ञात्वा अथ देवगणैस्तया भूम्या च सह सत्रिनयनः सरुद्रः क्षीरसागरस्य तीरं जगाम ॥ १९ ॥

श्लोक-२०

विश्वास-प्रस्तुतिः

तत्र गत्वा जगन्नाथं देवदेवं वृषाकपिम्।
पुरुषं पुरुषसूक्तेन उपतस्थे समाहितः॥

मूलम्

तत्र गत्वा जगन्नाथं देवदेवं वृषाकपिम्।
पुरुषं पुरुषसूक्तेन उपतस्थे समाहितः॥

अनुवाद (हिन्दी)

भगवान् देवताओंके भी आराध्यदेव हैं। वे अपने भक्तोंकी समस्त अभिलाषाएँ पूर्ण करते और उनके समस्त क्लेशोंको नष्ट कर देते हैं। वे ही जगत‍्के एकमात्र स्वामी हैं। क्षीरसागरके तटपर पहुँचकर ब्रह्मा आदि देवताओंने ‘पुरुषसूक्त’ के द्वारा उन्हीं परम पुरुष सर्वान्तर्यामी प्रभुकी स्तुति की। स्तुति करते-करते ब्रह्माजी समाधिस्थ हो गये॥ २०॥

वीरराघवः

तत्र तीरे गत्वा समाहितचित्तो जगन्नाथं परमपुरुषं वृषाकपिं श्रीमहाविष्णुं पुरुषसूक्तेनोपतस्थे तुष्टाव स्तुतिपूर्वकं निदध्यावित्यर्थः ॥ २० ॥

श्रीसुदर्शनसूरिः

त्यक्तोदम् अम्बुपानरहितम् ।। १२-२० ।।

श्लोक-२१

विश्वास-प्रस्तुतिः

गिरं समाधौ गगने समीरितां
निशम्य वेधास्त्रिदशानुवाच ह।
गां पौरुषीं मे शृणुतामराः पुन-
र्विधीयतामाशु तथैव मा चिरम्॥

मूलम्

गिरं समाधौ गगने समीरितां
निशम्य वेधास्त्रिदशानुवाच ह।
गां पौरुषीं मे शृणुतामराः पुन-
र्विधीयतामाशु तथैव मा चिरम्॥

अनुवाद (हिन्दी)

उन्होंने समाधि-अवस्थामें आकाशवाणी सुनी। इसके बाद जगत‍्के निर्माणकर्ता ब्रह्माजीने देवताओंसे कहा—‘देवताओ! मैंने भगवान‍्की वाणी सुनी है। तुमलोग भी उसे मेरे द्वारा अभी सुन लो और फिर वैसा ही करो। उसके पालनमें विलम्ब नहीं होना चाहिये॥ २१॥

वीरराघवः

तथा गगने समीरितां गिरमशरीरां वाणीं समाधौ निशम्य वेधाः ब्रह्मा त्रिदशान् सुरान् प्रत्यवोचत; तदेवाह- गामित्यादिभिस्सार्द्धैः पञ्चभिः । हे अमराः ! समाधौ मया श्रुतां पौरुषीं परमपुरुषसम्बन्धिनीं गां गिरं मे मत्तः कथयतः शृणुतः यथेश्वरेणाऽऽदिष्टं तथैव भवद्भिर्विधीयतां क्रियतां चिरं बिलम्बं माऽकार्ष्ट ॥ २१ ॥

श्रीसुदर्शनसूरिः

पौरुषीं परमपुरुषसम्बन्धिनों गाङ्गिरम् ॥ २१ ॥

श्लोक-२२

विश्वास-प्रस्तुतिः

पुरैव पुंसावधृतो धराज्वरो
भवद‍्भिरंशैर्यदुषूपजन्यताम्।
स यावदुर्व्या भरमीश्वरेश्वरः
स्वकालशक्त्या क्षपयंश्चरेद् भुवि॥

मूलम्

पुरैव पुंसावधृतो धराज्वरो
भवद‍्भिरंशैर्यदुषूपजन्यताम्।
स यावदुर्व्या भरमीश्वरेश्वरः
स्वकालशक्त्या क्षपयंश्चरेद् भुवि॥

अनुवाद (हिन्दी)

भगवान‍्को पृथ्वीके कष्टका पहलेसे ही पता है। वे ईश्वरोंके भी ईश्वर हैं। अतः अपनी कालशक्तिके द्वारा पृथ्वीका भार हरण करते हुए वे जबतक पृथ्वीपर लीला करें, तबतक तुम लोग भी अपने-अपने अंशोंके साथ यदुकुलमें जन्म लेकर उनकी लीलामें सहयोग दो॥ २२॥

वीरराघवः

का नाम गौरित्यत्राह—पुरैवेति । पुरा भगद्विज्ञप्तेः पूर्वमेव, यद्वा, पुरैव स्वावतारात्पूर्वमेवेत्यर्थः । पुंसा ईश्वरेण धराज्वरो भूक्लेशोऽवधृतः विज्ञातः भवद्भिर्यदुवंशैरुपजन्यतामुत्पद्यतां जीवानामंशेनोत्पत्तिर्नाम धर्मभूतज्ञानेन जीवान्तराधिष्ठातृत्वं स्वरूपस्यागुणत्वेनानेकदेहवृत्त्यसम्भवात्; कदाऽस्माभिरुत्पत्तव्यम् ? इत्यत्राह । स ईश्वराणामस्माकमपि ईश्वरो भगवान् स्वसम्बन्धिन्या कालाख्यया शक्त्या कार्य्योपयुक्तापृथक्सिद्धविशेषणभूतया तन्वा उर्व्याः भूमेर्भरं क्षपयन् निरसितुमिति भावः । भुवि यावच्चरेदवतरेत्ततः पूर्वमेव जन्यतामित्यर्थः ॥ २२ ॥

श्लोक-२३

विश्वास-प्रस्तुतिः

वसुदेवगृहे साक्षाद् भगवान् पुरुषः परः।
जनिष्यते तत्प्रियार्थं सम्भवन्तु सुरस्त्रियः॥

मूलम्

वसुदेवगृहे साक्षाद् भगवान् पुरुषः परः।
जनिष्यते तत्प्रियार्थं सम्भवन्तु सुरस्त्रियः॥

अनुवाद (हिन्दी)

वसुदेवजीके घर स्वयं पुरुषोत्तम भगवान् प्रकट होंगे। उनकी और उनकी प्रियतमा (श्रीराधा) की सेवाके लिये देवांगनाएँ जन्म ग्रहण करें॥ २३॥

वीरराघवः

तथा वसुदेवस्य गृहे भगवान् पूर्णषाड्गुण्यः प्रकृतिपुरुषविलक्षणः परमपुरुषः साक्षाज्जनिष्यते अवतरिष्यति न कपिलादिवज्जीवान्तराधिष्ठातृत्वेनावतरिष्यति, किन्त्वद्वारकमेवेत्यभिप्रायेण साक्षादित्युक्तम् । तस्य जनिष्यमाणस्य परमपुरुषस्य पूजार्थं परिचर्यार्थं क्रीडार्थमिति यावत् । अमराणां स्त्रियोऽपि सम्भवन्तु स्वांशैरुत्पद्यन्ताम् ॥ २३ ॥

श्रीसुदर्शनसूरिः

धराभरः भूभारः धाराज्वर इति पाठे क्लेशः पुंसः पुरुषस्य अवतारात्पूर्वमेवेत्यर्थः ।। २२-२३ ॥

श्लोक-२४

विश्वास-प्रस्तुतिः

वासुदेवकलानन्तः सहस्रवदनः स्वराट्।
अग्रतो भविता देवो हरेः प्रियचिकीर्षया॥

मूलम्

वासुदेवकलानन्तः सहस्रवदनः स्वराट्।
अग्रतो भविता देवो हरेः प्रियचिकीर्षया॥

अनुवाद (हिन्दी)

स्वयंप्रकाश भगवान् शेष भी, जो भगवान‍्की कला होनेके कारण अनन्त हैं (अनन्तका अंश भी अनन्त ही होता है) और जिनके सहस्र मुख हैं, भगवान‍्के प्रिय कार्य करनेके लिये उनसे पहले ही उनके बड़े भाईके रूपमें अवतार ग्रहण करेंगे॥ २४॥

वीरराघवः

तथा ऋषयोऽपि तस्य भगवत आदेशादनुशासनात्पशुरूपिणः कल्प्यन्तां गोरूपिणः सम्भवन्तु, किमर्थम् ? तत्राह, हे सुराः ! पयोदानमुखेन क्षीरप्रदोहनद्वारापि विष्णुं तर्पयितुं तप आदिभिस्तर्पन्त्येवाधुना पयोदानमुखेनापि तर्पयितुं गोरूपिणः कल्प्यन्तामित्यपिशब्दाभिप्रायः । तथा यो वासुदेवस्य कला अंशः, कोऽसौ ? योऽनन्तः सहस्रमुख स्वराडकर्मवश्यः सोऽपि हरेः प्रियं कर्त्तुमिच्छया अग्रजो भविता तस्याग्रजो भविष्यतीत्यर्थः ॥ २४ ॥

श्लोक-२५

विश्वास-प्रस्तुतिः

विष्णोर्माया भगवती यया सम्मोहितं जगत्।
आदिष्टा प्रभुणांशेन कार्यार्थे सम्भविष्यति॥

मूलम्

विष्णोर्माया भगवती यया सम्मोहितं जगत्।
आदिष्टा प्रभुणांशेन कार्यार्थे सम्भविष्यति॥

अनुवाद (हिन्दी)

भगवान‍्की वह ऐश्वर्यशालिनी योगमाया भी, जिसने सारे जगत‍्को मोहित कर रखा है, उनकी आज्ञासे उनकी लीलाके कार्य सम्पन्न करनेके लिये अंशरूपसे अवतार ग्रहण करेगी’॥ २५॥

वीरराघवः

तथा विष्णोर्या माया, सखा का ? यया मायया इदं जगच्चेतनवर्गः सम्मोहितं साऽपि भगवती श्रीभगवत्परतन्त्रा अन्यैः पूज्या मायाधिष्ठात्री देवता प्रभुणा नियन्त्रा श्रीभगवताऽऽदिष्टा आज्ञापिता सती तस्य कार्यार्थे प्रयोजनार्थम् अंशेन सम्भविष्यति जनिष्यते ।। २५ ।।

श्लोक-२६

मूलम् (वचनम्)

श्रीशुक उवाच

विश्वास-प्रस्तुतिः

इत्यादिश्यामरगणान् प्रजापतिपतिर्विभुः।
आश्वास्य च महीं गीर्भिः स्वधाम परमं ययौ॥

मूलम्

इत्यादिश्यामरगणान् प्रजापतिपतिर्विभुः।
आश्वास्य च महीं गीर्भिः स्वधाम परमं ययौ॥

अनुवाद (हिन्दी)

श्रीशुकदेवजी कहते हैं—परीक्षित्! प्रजापतियोंके स्वामी भगवान् ब्रह्माजीने देवताओंको इस प्रकार आज्ञा दी और पृथ्वीको समझा-बुझाकर ढाढ़स बँधाया। इसके बाद वे अपने परम धामको चले गये॥ २६॥

वीरराघवः

इत्येवं श्रीभगवतोक्त्तमेवामरगणान् प्रति आदिश्यानुज्ञाप्य प्रजापतीनां दक्षादीनामपि पतिर्विभुर्ब्रह्मा गीर्भिर्महीम् आश्वास्य सान्त्वयित्वा परमं श्रेष्ठं स्वधाम स्वलोकं ययौ ।। २६ ।।

श्लोक-२७

विश्वास-प्रस्तुतिः

शूरसेनो यदुपतिर्मथुरामावसन् पुरीम्।
माथुराञ्छूरसेनांश्च विषयान् बुभुजे पुरा॥

मूलम्

शूरसेनो यदुपतिर्मथुरामावसन् पुरीम्।
माथुराञ्छूरसेनांश्च विषयान् बुभुजे पुरा॥

अनुवाद (हिन्दी)

प्राचीन कालमें यदुवंशी राजा थे शूरसेन। वे मथुरापुरीमें रहकर माथुरमण्डल और शूरसेनमण्डलका राज्यशासन करते थे॥ २७॥

वीरराघवः

तदेवमवतारनिमित्तमुपपादितम्, अथावतारप्रकारं पितुर्गेहात् व्रजगमननिमित्तञ्च वर्णयितुं तदुपोद्घातरूपमितिहासमाह- शूरसेन इत्यादिना यावदध्यायसमाप्ति । पुरा पूर्वकाले यदूनां पतिः शूरसेनो राजा मथुरां पुरीमधिवसन् मथुराञ्च्छूरसेनांश्च विषयान् देशान् बुभुजे इहोपभोगो भुजेरर्थः न तु पालनम् । तत्र “भुजोऽवने ( १।३।६६ )” इति आत्मनेपदप्रतिषेधादिति ।। २७ ।।

श्लोक-२८

विश्वास-प्रस्तुतिः

राजधानी ततः साभूत् सर्वयादवभूभुजाम्।
मथुरा भगवान् यत्र नित्यं संनिहितो हरिः॥

मूलम्

राजधानी ततः साभूत् सर्वयादवभूभुजाम्।
मथुरा भगवान् यत्र नित्यं संनिहितो हरिः॥

अनुवाद (हिन्दी)

उसी समयसे मथुरा ही समस्त यदुवंशी नरपतियोंकी राजधानी हो गयी थी। भगवान् श्रीहरि सर्वदा वहाँ विराजमान रहते हैं॥ २८॥

वीरराघवः

यतः शूरसेनो राजा अध्यवसत् ततः सा मथुरा पुरी सर्वेषां यादवभूभुजां यादवभूपालानां राजधानी बभूव तत्र पुर्यां हरिर्भगवान् नित्यं सन्निहितः आविर्भावस्थानत्वादिति भावः ॥ २८ ॥

श्लोक-२९

विश्वास-प्रस्तुतिः

तस्यां तु कर्हिचिच्छौरिर्वसुदेवः कृतोद्वहः।
देवक्या सूर्यया सार्धं प्रयाणे रथमारुहत्॥

मूलम्

तस्यां तु कर्हिचिच्छौरिर्वसुदेवः कृतोद्वहः।
देवक्या सूर्यया सार्धं प्रयाणे रथमारुहत्॥

अनुवाद (हिन्दी)

एक बार मथुरामें शूरके पुत्र वसुदेवजी विवाह करके अपनी नवविवाहिता पत्नी देवकीके साथ घर जानेके लिये रथपर सवार हुए॥ २९॥

वीरराघवः

कदाचित्तस्यां पुर्यां शौरिः शूरस्य सुतो वसुदेवः कृतविवाहः देवक्या सूर्यया नवोढ्यो भार्यया सह प्रयाणे स्वगृहं प्रति प्रयाणे निमित्ते रथमारुरोह ||२९||

श्लोक-३०

विश्वास-प्रस्तुतिः

उग्रसेनसुतः कंसः स्वसुः प्रियचिकीर्षया।
रश्मीन् हयानां जग्राह रौक्मै रथशतैर्वृतः॥

मूलम्

उग्रसेनसुतः कंसः स्वसुः प्रियचिकीर्षया।
रश्मीन् हयानां जग्राह रौक्मै रथशतैर्वृतः॥

अनुवाद (हिन्दी)

उग्रसेनका लड़का था कंस। उसने अपनी चचेरी बहिन देवकीको प्रसन्न करनेके लिये उसके रथके घोड़ोंकी रास पकड़ ली। वह स्वयं ही रथ हाँकने लगा, यद्यपि उसके साथ सैकड़ों सोनेके बने हुए रथ चल रहे थे॥ ३०॥

वीरराघवः

तत उग्रसेनस्य सुतः कंसः भगिन्याः देवक्याः प्रियं कर्तुमिच्छया स्वयं रौक्मैर्हेममयैः रथानां शतैः परिवृतो भगिनीरथवाहानामश्वानां प्रग्रहान् जगृहे ॥ ३० ॥

श्रीसुदर्शनसूरिः

कला अंशः अनन्तः शेषः अग्रतः पूर्वकाले ॥ २४-३० ॥

श्लोक-३१

विश्वास-प्रस्तुतिः

चतुःशतं पारिबर्हं गजानां हेममालिनाम्।
अश्वानामयुतं सार्धं रथानां च त्रिषट्शतम्॥

मूलम्

चतुःशतं पारिबर्हं गजानां हेममालिनाम्।
अश्वानामयुतं सार्धं रथानां च त्रिषट्शतम्॥

श्लोक-३२

विश्वास-प्रस्तुतिः

दासीनां सुकुमारीणां द्वे शते समलङ्कृते।
दुहित्रे देवकः प्रादाद् याने दुहितृवत्सलः॥

मूलम्

दासीनां सुकुमारीणां द्वे शते समलङ्कृते।
दुहित्रे देवकः प्रादाद् याने दुहितृवत्सलः॥

अनुवाद (हिन्दी)

देवकीके पिता थे देवक। अपनी पुत्रीपर उनका बड़ा प्रेम था। कन्याको विदा करते समय उन्होंने उसे सोनेके हारोंसे अलंकृत चार सौ हाथी, पंद्रह हजार घोड़े, अठारह सौ रथ तथा सुन्दर-सुन्दर वस्त्राभूषणोंसे विभूषित दो सौ सुकुमारी दासियाँ दहेजमें दीं॥ ३१-३२॥

वीरराघवः

तदा देवक उग्रसेनस्य भ्राता दुहितृवत्सलः हेतुगर्भमिदं दुहितृवत्सलत्वाद्दुहित्रे देवक्ये पारिबर्हमुपायनं ददौ, पारिबर्हं दर्शयति, हेममालालङ्कृतानां गजानामयुतं तथाविधानामश्वानां सार्द्धमर्द्धेन पञ्चसहस्रया सहितमयुतं रथानां तु त्रिषट्शतम् अष्टादशशतञ्च यानैर्गमनसाधनैः सह दासीनां सुकुमारीणां समलङ्कृते द्वे शते ।। ३१-३२ ॥

श्लोक-३३

विश्वास-प्रस्तुतिः

शङ्खतूर्यमृदङ्गाश्च नेदुर्दुन्दुभयः समम्।
प्रयाणप्रक्रमे तावद् वरवध्वोः सुमङ्गलम्॥

मूलम्

शङ्खतूर्यमृदङ्गाश्च नेदुर्दुन्दुभयः समम्।
प्रयाणप्रक्रमे तावद् वरवध्वोः सुमङ्गलम्॥

अनुवाद (हिन्दी)

विदाईके समय वर-वधूके मंगलके लिये एक ही साथ शंख, तुरही, मृदंग और दुन्दुभियाँ बजने लगीं॥ ३३॥

वीरराघवः

हे तात ! वरवध्वोः प्रयाणोपक्रमे मङ्गलार्थं शङ्खादीनि दुन्दुभयश्च समं युगपन्नेदुः दध्वनुः सुमङ्गलमिति क्रियाविशेषणं या ॥ ३३ ॥

श्लोक-३४

विश्वास-प्रस्तुतिः

पथि प्रग्रहिणं कंसमाभाष्याहाशरीरवाक्।
अस्यास्त्वामष्टमो गर्भो हन्ता यां वहसेऽबुध॥

मूलम्

पथि प्रग्रहिणं कंसमाभाष्याहाशरीरवाक्।
अस्यास्त्वामष्टमो गर्भो हन्ता यां वहसेऽबुध॥

अनुवाद (हिन्दी)

मार्गमें जिस समय घोड़ोंकी रास पकड़कर कंस रथ हाँक रहा था, उस समय आकाशवाणीने उसे सम्बोधन करके कहा—‘अरे मूर्ख! जिसको तू रथमें बैठाकर लिये जा रहा है, उसकी आठवें गर्भकी सन्तान तुझे मार डालेगी’॥ ३४॥

वीरराघवः

ततो मार्गे प्रग्रहिणं हयरश्मिधरं कंसमुद्दिश्य अशरीरिणी वागाह उत्सृष्टा बभूव, तामेवाह - अस्या इति । यां भगिनीं प्रियचिकीर्षया नयसे भर्तृगृहं प्रापयसि अस्या अष्टमो गर्भः अपत्यपरो गर्भशब्दः, हे अबुध अज्ञ ! त्वां हन्ता हनिष्यति ॥ ३४ ॥

श्लोक-३५

विश्वास-प्रस्तुतिः

इत्युक्तः स खलः पापो भोजानां कुलपांसनः।
भगिनीं हन्तुमारब्धः खड्गपाणिः कचेऽग्रहीत्॥

मूलम्

इत्युक्तः स खलः पापो भोजानां कुलपांसनः।
भगिनीं हन्तुमारब्धः खड्गपाणिः कचेऽग्रहीत्॥

अनुवाद (हिन्दी)

कंस बड़ा पापी था। उसकी दुष्टताकी सीमा नहीं थी। वह भोजवंशका कलंक ही था। आकाशवाणी सुनते ही उसने तलवार खींच ली और अपनी बहिनकी चोटी पकड़कर उसे मारनेके लिये तैयार हो गया॥ ३५॥

वीरराघवः

इतीत्थमुक्तः स भोजानां कुलपांसनः कुलमलरूपः कुलाधम इति यावत् खलो मूर्खः पापात्मा कंसः तथाभूतत्वात् खड्गः पाणौ यस्य तथाभूतः भगिनीं स्वप्राणापहारनिदानभूतां भगिनीं हन्तुमुद्युक्तः कचेऽग्रहीत केशपाशं जग्राहेत्यर्थः || ३५ ॥

श्लोक-३६

विश्वास-प्रस्तुतिः

तं जुगुप्सितकर्माणं नृशंसं निरपत्रपम्।
वसुदेवो महाभाग उवाच परिसान्त्वयन्॥

मूलम्

तं जुगुप्सितकर्माणं नृशंसं निरपत्रपम्।
वसुदेवो महाभाग उवाच परिसान्त्वयन्॥

अनुवाद (हिन्दी)

वह अत्यन्त क्रूर तो था ही, पाप-कर्म करते-करते निर्लज्ज भी हो गया था। उसका यह काम देखकर महात्मा वसुदेवजी उसको शान्त करते हुए बोले—॥ ३६॥

वीरराघवः

जुगुप्सितं निन्दितं भिगिनीवधोद्योगरूपं कर्म यस्य तत एव नृशंसं क्रूरमत एव निरपत्रपं निर्लज्जं तं कंसं परिसांत्वयन्नुपच्छन्दयन् महाभागो महाभाग्ययुक्तो महाबुद्धिमान् वसुदेव उवाच || ३६ ||

श्लोक-३७

मूलम् (वचनम्)

वसुदेव उवाच

विश्वास-प्रस्तुतिः

श्लाघनीयगुणः शूरैर्भवान् भोजयशस्करः।
स कथं भगिनीं हन्यात् स्त्रियमुद्वाहपर्वणि॥

मूलम्

श्लाघनीयगुणः शूरैर्भवान् भोजयशस्करः।
स कथं भगिनीं हन्यात् स्त्रियमुद्वाहपर्वणि॥

अनुवाद (हिन्दी)

वसुदेवजीने कहा—राजकुमार! आप भोजवंशके होनहार वंशधर तथा अपने कुलकी कीर्ति बढ़ानेवाले हैं। बड़े-बड़े शूरवीर आपके गुणोंकी सराहना करते हैं। इधर यह एक तो स्त्री, दूसरे आपकी बहिन और तीसरे यह विवाहका शुभ अवसर! ऐसी स्थितिमें आप इसे कैसे मार सकते हैं?॥ ३७॥

वीरराघवः

उक्तिमेवाह - श्लाघनीयेत्यादिभिर्नवभिः । शूरैः श्लाघनीयाः स्तुत्याः गुणा यस्य भोजानां भोजवंश्यानां यशः कीर्तिं करोत्यवहतीति तथा स भवानेवम्भूतत्वात् कथं स्त्रियं तत्रापि उद्वाहकर्मणि उद्वाहाङ्गगृहप्रवेशकर्मणि, पर्वणीति पाठे गृहप्रवेशोत्सवकर्मणीत्यर्थः । तत्रापि भगिनीं हन्याः हन्तुमुद्युक्तोऽसि ॥ ३७ ॥

श्लोक-३८

विश्वास-प्रस्तुतिः

मृत्युर्जन्मवतां वीर देहेन सह जायते।
अद्य वाब्दशतान्ते वा मृत्युर्वै प्राणिनां ध्रुवः॥

मूलम्

मृत्युर्जन्मवतां वीर देहेन सह जायते।
अद्य वाब्दशतान्ते वा मृत्युर्वै प्राणिनां ध्रुवः॥

अनुवाद (हिन्दी)

वीरवर! जो जन्म लेते हैं, उनके शरीरके साथ ही मृत्यु भी उत्पन्न होती है। आज हो या सौ वर्षके बाद—जो प्राणी है, उसकी मृत्यु होगी ही॥ ३८॥

वीरराघवः

मन्मरणनिदानभूतत्वाद्भगिनीमपि हन्यामीत्यत्राह - मृत्युरिति । हे वीर ! जन्मवतामुत्पत्तिमतां देहेनैव सह मृत्युर्जायते मृत्युः छायेव देहमुत्पत्तेरारभ्यानुवर्तत एव किन्तु कालमात्रमपेक्षत इति भावः । अतोऽधुना वर्षशतान्ते वा प्राणिनां मृत्युः ध्रुवः निश्चितः अपरिहार्य इति यावत् ॥ ३८ ॥

श्लोक-३९

विश्वास-प्रस्तुतिः

देहे पञ्चत्वमापन्ने देही कर्मानुगोऽवशः।
देहान्तरमनुप्राप्य प्राक्तनं त्यजते वपुः॥

मूलम्

देहे पञ्चत्वमापन्ने देही कर्मानुगोऽवशः।
देहान्तरमनुप्राप्य प्राक्तनं त्यजते वपुः॥

अनुवाद (हिन्दी)

जब शरीरका अन्त हो जाता है, तब जीव अपने कर्मके अनुसार दूसरे शरीरको ग्रहण करके अपने पहले शरीरको छोड़ देता है। उसे विवश होकर ऐसा करना पड़ता है॥ ३९॥

वीरराघवः

नन्वब्दशतान्ते जरया जीर्णशरीरमस्तु मृत्युग्रस्तमधुनात्विदं कल्याणतरं नवयौवनसंपन्नशरीरमुपेति चेत्पुनरेवंविधं दुर्लभमित्यत आह- देहेति । देहे पचत्वं मरणमापन्ने आप्तुमुद्युक्तं सति देही तद्देहस्थो जीवः कर्मवशानुगः प्राचीनकर्मवश्यतामनुप्राप्तः कर्मानुगुणं शरीरान्तरं प्राप्यैव प्राक्तनं वपुस्त्यजते कर्मानुगुणशरीरान्तरस्यायत्नलभ्यत्वात् एवंविधजुगुप्सितं कर्म संपाद्यस्य शरीरस्य निहीनस्यैवापत्तेस्तादात्मिकं मरणभयमपहाय भगिनीप्राणपरित्राणरूपाच्छुभकर्मणः पुनरितोऽपि कल्याणतरदेहप्राप्तेश्चैषा न हन्तव्या इति भावः ॥। ३५ ।।

श्रीसुदर्शनसूरिः

पारिबर्ह दम्पत्योरुपचार-सम्बन्धि ।। ३१-३९ ।।

श्लोक-४०

विश्वास-प्रस्तुतिः

व्रजंस्तिष्ठन् पदैकेन यथैवैकेन गच्छति।
यथा तृणजलूकैवं देही कर्मगतिं गतः॥

मूलम्

व्रजंस्तिष्ठन् पदैकेन यथैवैकेन गच्छति।
यथा तृणजलूकैवं देही कर्मगतिं गतः॥

अनुवाद (हिन्दी)

जैसे चलते समय मनुष्य एक पैर जमाकर ही दूसरा पैर उठाता है और जैसे जोंक किसी अगले तिनकेको पकड़ लेती है, तब पहलेके पकड़े हुए तिनकेको छोड़ती है—वैसे जीव भी अपने कर्मके अनुसार किसी शरीरको प्राप्त करनेके बाद ही इस शरीरको छोड़ता है॥ ४०॥

वीरराघवः

“देहान्तरमनुप्राप्य प्राक्तनं त्यजते वपुः” इत्येतदेव सदृष्टान्तमुपपादयति- व्रजन्निति । इयं प्रसिद्धा तृणजलुका तृणगतकीटविशेषः स यथा व्रजन् गन्तुमुद्यतः एकेन पदा पादेन तिष्ठन् तृणमवलम्बयन्नेव एकेन पदेन गच्छति, एवं देही जीवोऽपि पञ्चत्वमापन्नं देहं त्यजन् कर्मगतिं कर्मानुरूपं शरीरं गतोऽधिष्ठितः प्राकनं वपुस्त्यजतीत्यर्थः । अणोर्जीवस्य कथं पञ्चतामापत्स्यमानं देहमधितिष्ठत एव पुनर्देहान्तराधिष्ठातृत्वम् ? इति न शङ्कनीयं गेहादगेहान्तरं प्रविशत इव स्वोपकरणेन्द्रियप्राणादिप्रापणपूर्वकत्वाद्देहान्तरप्राप्तेर्धर्मभूतज्ञानद्वारा वा देहान्तराधिष्ठातृत्वमिति न विरोधः, यद्वा, देहान्तरपरिग्रहपूर्वकमेव पूर्वदेहपरित्यागे दृष्टान्तस्तृणजलूका छाययेव मृत्युनाऽनुगतत्वाज्जीवदशायामपि मृगप्रायत्वे दृष्टान्तान्तरमुच्यते - व्रजन्निति, यथैकेन पादेन व्रजन् गच्छन् पुरुषः पुनरेकेन पादेन तिष्ठन्नेव गच्छति तद्वज्जीवन्नपि पुरुषः पुनर्मृतप्राय एवं सन् जीवतीत्यत एव व्रजंस्तिष्ठन्निति पुंस्त्वनिर्देशः यथाशब्दद्वयश्च ॥ ४० ॥

श्रीसुदर्शनसूरिः

व्रजंस्तिष्ठन्निति गच्छन् पुरुषः एकेन पादेन तिष्ठपि गच्छत्येव तद्वदित्यर्थः । देहान्तरग्रहणेन पूर्वदेहत्यागे दृष्टान्तस्तृणजलूका ।। ४० ॥

श्लोक-४१

विश्वास-प्रस्तुतिः

स्वप्ने यथा पश्यति देहमीदृशं
मनोरथेनाभिनिविष्टचेतनः।
दृष्टश्रुताभ्यां मनसानुचिन्तयन्
प्रपद्यते तत् किमपि ह्यपस्मृतिः॥

मूलम्

स्वप्ने यथा पश्यति देहमीदृशं
मनोरथेनाभिनिविष्टचेतनः।
दृष्टश्रुताभ्यां मनसानुचिन्तयन्
प्रपद्यते तत् किमपि ह्यपस्मृतिः॥

अनुवाद (हिन्दी)

जैसे कोई पुरुष जाग्रत्-अवस्थामें राजाके ऐश्वर्यको देखकर और इन्द्रादिके ऐश्वर्यको सुनकर उसकी अभिलाषा करने लगता है और उसका चिन्तन करते-करते उन्हीं बातोंमें घुल-मिलकर एक हो जाता है तथा स्वप्नमें अपनेको राजा या इन्द्रके रूपमें अनुभव करने लगता है, साथ ही अपने दरिद्रावस्थाके शरीरको भूल जाता है। कभी-कभी तो जाग्रत् अवस्थामें ही मन-ही-मन उन बातोंका चिन्तन करते-करते तन्मय हो जाता है और उसे स्थूल शरीरकी सुधि नहीं रहती। वैसे ही जीव कर्मकृत कामना और कामनाकृत कर्मके वश होकर दूसरे शरीरको प्राप्त हो जाता है और अपने पहले शरीरको भूल जाता है॥ ४१॥

वीरराघवः

ननु, तृणजलूका विद्यमानशरीरेणेव गन्तव्यदेशमवष्टभ्यैव पूर्वदेशं त्यजतीति युक्तं तस्या भयशोकाद्यभाव इति दार्ष्टान्तिके तु न तथा न हि प्राक्तनवपुर्विशिष्टो वपुरन्तरं प्राप्य प्राक्तनं त्यजते वपुरन्तरवैशिष्ट्याकारेण वपुरन्तरप्राप्त्यसंभवात् अपि तु विशेष्याकारेणैव वपुरन्तरप्राप्तिः प्राक्तनवपुस्त्यागश्चातः प्राक्तनकल्याणतरवपुस्त्यागप्रयुक्तभयशोकोपनिपातसम्भावनया तत्परिहारोऽवश्यकर्तव्य इत्यत्र तदनुभवसिद्धस्वप्नदृष्टान्तेन देहान्तरप्राप्तिपूर्वकपूर्वदेहत्यागं तत्प्रयुक्तभयाद्यभावञ्च दार्ष्टान्तिके सङ्गमयति स्वप्न इति । स्वप्ने यथा दृष्टश्रुताभ्यां दृष्टश्रुतमनीषितलाभार्थं मनसाऽनुचिन्तयन् सङ्कल्पविकल्पौ कुर्वन् मनोरथेन देशान्तरगमनराज्याभिषेकादिरूपमनोरथेनाभिनिविष्टा चेतना बुद्धिर्यस्य तथाभूतो जीवः ईदृशं शयानदेहसदृशं तत्किमपि ततो विलक्षणं वा किमपि शरीरं स्वप्नमात्रावस्थायित्वेन स्वप्नद्रष्ट्रेकानुभाव्यत्वेन च स्वाप्नदेहस्य शयानतुल्यदेहतया चिन्तितुमशक्यत्वात्किमपीत्युक्तं तावत्पश्यति ततस्तत्प्रतिपद्यते अपस्मृतिः शयानदेह विषयकस्मृतिरहितश्च भवति अत एव तत्त्यागप्रयुक्तभयशोकादिरहितश्च भवति हीति स्वपरानुभवप्रसिद्धिं द्योतयति पश्यति प्रपद्यते इत्यनेन प्रथमं ज्ञानेनाऽनुप्रवेशस्ततः स्वरूपेणेति सूचितम् एवं दार्ष्टान्तिकेप्यवगन्तव्यमिति भावः । न हीदानीमस्मदादीनां प्राक्तनदेहत्यागप्रयुक्तभयशोकादिकमुपलभ्यत इति च भावः । न च स्वप्नेऽपि श्यानदेहेनैव देशान्तरगमनादिकमनुभूयत इति युक्तिमत् अपवरकादौ शयानस्य देशान्तरगमनाद्यसम्भवात् ततस्तदवस्थामात्रावस्थायितद्दृष्टमात्रानुभाव्यदेहान्तरेणैव तदनुभवः, यद्वा, पूर्वार्द्धं दृष्टान्तरपरम् उत्तरार्द्धन्तु दार्ष्टान्तिकपरम, तदयमर्थः स्वप्ने देशान्तरगमनादिमनोरथाभिनिविष्टचित्तो जीवो यथेदृशं शयानदेहवदात्माऽभिमानविषयं स्वप्नदृश्यमात्रानुभाव्यफलपुण्यापुण्यकर्मानुगुणपरमपुरुषसृष्टं तावत्कालमात्रावस्थायिस्वप्नद्रष्ट्रेकावगम्यं देहं पश्यति ज्ञानद्वाराऽधितिष्ठति ज्ञानद्वाराऽधिष्ठाय देशान्तरगमनराज्याभिषेकशिरश्छेदादीननुभवतीति भावः । अपस्मृतिरपगता शयानदेहविषया स्मृतिर्यस्य तथाभूता भवति तद्वधादिसंभावना-प्रयुक्तभयादिरहितश्च भवति, उत्तरार्द्धस्य तथेत्यादिः एवं दृष्टश्रुताभ्यामिति तादर्थ्ये चतुर्थो दृष्टमैहिकं सुखं श्रुतमामुष्मिकं ताभ्यां तदर्थं मनसाऽनुचिन्तयन् किमपि कर्मानुगुणम् ईश्वरसृष्टं किमपि शरीरं प्रतिपद्यते अपरस्मृतिश्च भवति प्रथमं ज्ञानद्वाराऽभिष्ठाय प्राक्तनवपुर्विषयस्मृतिरहितः ततः स्वरूपेण प्रविशति इत्यर्थः ।। ४१ ।।

श्लोक-४२

विश्वास-प्रस्तुतिः

यतो यतो धावति दैवचोदितं
मनो विकारात्मकमाप पञ्चसु।
गुणेषु मायारचितेषु देह्यसौ
प्रपद्यमानः सह तेन जायते॥

मूलम्

यतो यतो धावति दैवचोदितं
मनो विकारात्मकमाप पञ्चसु।
गुणेषु मायारचितेषु देह्यसौ
प्रपद्यमानः सह तेन जायते॥

अनुवाद (हिन्दी)

जीवका मन अनेक विकारोंका पुंज है। देहान्तके समय वह अनेक जन्मोंके संचित और प्रारब्ध कर्मोंकी वासनाओंके अधीन होकर मायाके द्वारा रचे हुए अनेक पांचभौतिक शरीरोंमेंसे जिस किसी शरीरके चिन्तनमें तल्लीन हो जाता है और मान बैठता है कि यह मैं हूँ, उसे वही शरीर ग्रहण करके जन्म लेना पड़ता है॥ ४२॥

वीरराघवः

किमपि प्रपद्यते इत्येतदेव विवृण्वन् तदेव जीवस्योत्पत्तिर्नामेत्याह-यत इति । दैवमन्त्र दिष्टं कर्म वासनात्मकं तच्चोदितं तदनुगुणप्रवृत्तं विकारात्मकं सङ्कल्पविकल्परूपविकारप्रकारं सत् मनोमायारचितेषु सत्त्वादिगुणत्रयात्मक परकृतिपरिणामरूपेषु पञ्चसु गुणेषु शब्दादिविषयेषु मध्ये यतो यतो धावति यं यं विषयं स्मरति तं तमेव प्रपद्यमानोऽनुप्रविष्टस्तेन सह जायते इयमेव जीवस्योत्पत्तिर्नामेति भावः—
“यं यं वापि स्मरन् भावं त्यजत्यन्ते कलेवरम् तं तमेवैति कौन्तेय सदा तद्भावभावितः” ||
इति श्रीभगवदुक्तेरिति भावः ॥ ४२ ॥

श्लोक-४३

विश्वास-प्रस्तुतिः

ज्योतिर्यथैवोदकपार्थिवेष्वदः
समीरवेगानुगतं विभाव्यते।
एवं स्वमायारचितेष्वसौ पुमान्
गुणेषु रागानुगतो विमुह्यति॥

मूलम्

ज्योतिर्यथैवोदकपार्थिवेष्वदः
समीरवेगानुगतं विभाव्यते।
एवं स्वमायारचितेष्वसौ पुमान्
गुणेषु रागानुगतो विमुह्यति॥

अनुवाद (हिन्दी)

जैसे सूर्य, चन्द्रमा आदि चमकीली वस्तुएँ जलसे भरे हुए घड़ोंमें या तेल आदि तरल पदार्थोंमें प्रतिबिम्बित होती हैं और हवाके झोंकेसे उनके जल आदिके हिलने-डोलनेपर उनमें प्रतिबिम्बित वस्तुएँ भी चंचल जान पड़ती हैं—वैसे ही जीव अपने स्वरूपके अज्ञानद्वारा रचे हुए शरीरोंमें राग करके उन्हें अपना आप मान बैठता है और मोहवश उनके आने-जानेको अपना आना-जाना मानने लगता है॥ ४३॥

वीरराघवः

तेन सह जन्मरूपोपाधिप्रयुक्तमेव जीवस्य देवमनुष्यत्वादिनानात्वं वस्तुतस्तु सर्वत्र शरीरेषु ज्ञानैकाकारत्वेनावतिष्ठत इति सदृष्टान्तमाह — ज्योतिरिति । यथा अदः अन्तरिक्षस्थमेकरूपमेव सूर्यादिज्योतिरुदकेषु पार्थिवेषु पृथिवीपरिणामरूपेषु दर्पणादिषु च प्रतिविम्बितं तत् समीरस्य वायोर्वेगेनानुगतमनुवृत्तं सद्विभाव्यते समीरवे शब्दोऽल्पत्वमहत्त्वाद्युपाधिगतधर्मोपलक्षकः विविधं भाव्यते वृद्धिह्रासादिधर्मभाक्त्वेन भाव्यते दृश्यते अस्मदादिभिरिति शेषः । एवमसौ पुमान् जीवः स्वतो देवमनुष्यत्वादिनानात्वरहितोऽपि स्वमायारचितेषु स्वदेहारम्भकप्रकृतिपरिणामरूपभूतसूक्ष्मारब्धेषु गुणेषु गुणपरिणात्मकेषु शरीरेषु रागानुगतो रागेण शब्दादिविषयस्पृहया वासनात्मिकया हेतुभूतयाऽनुगतोऽनुप्रविष्टः विमुह्यति, देवोऽहं मनुष्योऽहमित्येवं नानाविधं मोहं प्राप्नोति यद्यपि दृष्टान्ते सूर्यादिज्योतिरुदकाद्युपाधिष्वनवस्थितमेव स्वच्छद्रव्यप्रतिहतिनिवृत्त-स्वरश्मिभिर्हतुभिः समीपस्थजनैर्विभाव्यते दार्ष्टान्तिके तु देहेष्ववस्थित एव सन् पुमान् मुह्यतीति तयोर्वैषम्यं तथापि वस्तुतो नानात्वाभावौपाधिकनानात्वमात्रेण दृष्टान्तदार्ष्टान्तिकभावोऽवगन्तव्यः ।। ४३ ।।

श्लोक-४४

विश्वास-प्रस्तुतिः

तस्मान्न कस्यचिद् द्रोहमाचरेत् स तथाविधः।
आत्मनः क्षेममन्विच्छन् द्रोग्धुर्वै परतो भयम्॥

मूलम्

तस्मान्न कस्यचिद् द्रोहमाचरेत् स तथाविधः।
आत्मनः क्षेममन्विच्छन् द्रोग्धुर्वै परतो भयम्॥

अनुवाद (हिन्दी)

इसलिये जो अपना कल्याण चाहता है, उसे किसीसे द्रोह नहीं करना चाहिये; क्योंकि जीव कर्मके अधीन हो गया है और जो किसीसे भी द्रोह करेगा, उसको इस जीवनमें शत्रुसे और जीवनके बाद परलोकसे भयभीत होना ही पड़ेगा॥ ४४॥

वीरराघवः

तस्मादिति । तस्माद्वस्तुस्थितेरेवंविधत्वात्तथाविधः वस्तुतत्त्वाभिज्ञः स पुमानात्मनः स्वस्य क्षेममन्विछिन्नन्विच्छुः कस्यचिदपि द्रोहं नाचरेत् न कुर्यात् एवं चेत्तस्य न कुतश्चिदपि भयम् अन्यथा तु भयमित्याह- द्रोग्धुर्वै परतोऽन्यस्माद्वयमित्यर्थः । यद्वा परतः परमेश्वराद्भयं भूतद्रोग्धुर्भयं वै भयमस्त्येव इत्यर्थः ॥ ४४ ॥

श्लोक-४५

विश्वास-प्रस्तुतिः

एषा तवानुजा बाला कृपणा पुत्रिकोपमा।
हन्तुं नार्हसि कल्याणीमिमां त्वं दीनवत्सलः॥

मूलम्

एषा तवानुजा बाला कृपणा पुत्रिकोपमा।
हन्तुं नार्हसि कल्याणीमिमां त्वं दीनवत्सलः॥

अनुवाद (हिन्दी)

कंस! यह आपकी छोटी बहिन अभी बच्ची और बहुत दीन है। यह तो आपकी कन्याके समान है। इसपर, अभी-अभी इसका विवाह हुआ है, विवाहके मंगलचिह्न भी इसके शरीरपरसे नहीं उतरे हैं। ऐसी दशामें आप-जैसे दीनवत्सल पुरुषको इस बेचारीका वध करना उचित नहीं है॥ ४५॥

वीरराघवः

एवं सामान्यतो हिताहितं विविच्याथ विशेषेण विवेचयति एषेति अनुजात्वस्त्रीत्वबाल्यदैन्यपुत्रिकातुल्यत्व कल्याणीत्वादिधर्मयुक्तेयमवध्याऽत इमां त्वं हन्तुं नार्हसि हन्तृत्वानर्हतां सूचयितुं सम्बोधयति, हे दीनवत्सलेति ॥ ४५ ॥

श्रीसुदर्शनसूरिः

दृष्टश्रुताभ्यां दृष्टश्रुतमनीषितलाभार्थम् अपस्मृतिः अपगतबोधः ।। ४१- ४५ ॥

श्लोक-४६

मूलम् (वचनम्)

श्रीशुक उवाच

विश्वास-प्रस्तुतिः

एवं स सामभिर्भेदैर्बोध्यमानोऽपि दारुणः।
न न्यवर्तत कौरव्य पुरुषादाननुव्रतः॥

मूलम्

एवं स सामभिर्भेदैर्बोध्यमानोऽपि दारुणः।
न न्यवर्तत कौरव्य पुरुषादाननुव्रतः॥

अनुवाद (हिन्दी)

श्रीशुकदेवजी कहते हैं—परीक्षित्! इस प्रकार वसुदेवजीने प्रशंसा आदि सामनीति और भय आदि भेदनीतिसे कंसको बहुत समझाया। परन्तु वह क्रूर तो राक्षसोंका अनुयायी हो रहा था; इसलिये उसने अपने घोर संकल्पको नहीं छोड़ा॥ ४६॥

वीरराघवः

इत्थमिति । इत्थं सामभिः श्लाघनीयगुण इत्यादिगुणकीर्तनपूर्वकम् उपलालनैर्भेदैर्दृष्टादृष्टभयसूचकवचोभिः चोद्यमानोऽपि वधोद्योगनिवृत्त्यर्थं प्रेर्यमाणोऽपि स कंसो दारुणः क्रूरः हेतुगर्भमिदं दारुणत्वात्तत्र हेतुः पुरुषादान् राक्षसाननुव्रतः असुरसंपत्त्यभिजातः हे कौरव्य ! न न्यवर्त्तत वधोद्योगादिति शेषः ॥ ४६ ॥

श्रीसुदर्शनसूरिः

साम पचविधं सम्बन्धो लाभ उपकृतिरभेदो मत्कीर्तनश्चेति भेदो दृष्टादृष्टभयं वच इति । तत्र गुणकीर्त्तनादयः प्रकाराः श्लाघनीयगुण इत्यादिना दर्शिताः । एषा तवानुजा त्वया बाल्ये दैन्योपलालितेनाऽहन्तव्येत्यर्थः । पुरुषादाननुवृतः राक्षसतुल्यः ॥ ४६ ॥

श्लोक-४७

विश्वास-प्रस्तुतिः

निर्बन्धं तस्य तं ज्ञात्वा विचिन्त्यानकदुन्दुभिः।
प्राप्तं कालं प्रतिव्योढुमिदं तत्रान्वपद्यत॥

मूलम्

निर्बन्धं तस्य तं ज्ञात्वा विचिन्त्यानकदुन्दुभिः।
प्राप्तं कालं प्रतिव्योढुमिदं तत्रान्वपद्यत॥

अनुवाद (हिन्दी)

वसुदेवजीने कंसका विकट हठ देखकर यह विचार किया कि किसी प्रकार यह समय तो टाल ही देना चाहिये। तब वे इस निश्चयपर पहुँचे॥ ४७॥

वीरराघवः

तस्य कंसस्य सम्बन्धिनं निर्बन्धमनिवृत्तवधोद्योगरूपं ज्ञात्वा आनकदुन्दुभिर्वसुदेवः प्राप्तं समुपस्थितं कालं पत्न्याः मृत्युं प्रतिव्योढुं परिहर्तुं विचिन्त्य, उपायमिति शेषः तत्र कालपरिहारे इदं वक्ष्यमाणम् अन्वपद्य उपायत्वेनाध्यवस्यत् ।। ४७ ।।

श्रीसुदर्शनसूरिः

प्रतिव्योढुं समाधातुम् ।। ४७ ।।

श्लोक-४८

विश्वास-प्रस्तुतिः

मृत्युर्बुद्धिमतापोह्यो यावद‍्बुद्धिबलोदयम्।
यद्यसौ न निवर्तेत नापराधोऽस्ति देहिनः॥

मूलम्

मृत्युर्बुद्धिमतापोह्यो यावद‍्बुद्धिबलोदयम्।
यद्यसौ न निवर्तेत नापराधोऽस्ति देहिनः॥

अनुवाद (हिन्दी)

‘बुद्धिमान् पुरुषको, जहाँतक उसकी बुद्धि और बल साथ दें, मृत्युको टालनेका प्रयत्न करना चाहिये। प्रयत्न करनेपर भी वह न टल सके, तो फिर प्रयत्न करनेवालेका कोई दोष नहीं रहता॥ ४८॥

वीरराघवः

विचारपूर्वकं प्रतिपत्तिमेव दर्शयति- मृत्युरित्यादिभिः चतुर्भिः । उपस्थितो मृत्युर्बुद्धिमत्ता पुंसा यावद्बुद्धिबलोदयं यथामति यथाशक्ति चापोह्यः परिहार्यः एवमपि यद्यसौ मृत्युः न निवर्त्तेत तर्हि न देहिनोऽपराधोऽस्ति ॥ ४८ ॥

श्रीसुदर्शनसूरिः

यावद्बुद्धिबलोदयं यथामति यथाशक्ति च मृत्युपरिहारे यतितव्यम् एतावता मृत्युरनिवृत्तोऽपि पुरुषस्य नापराधः इत्यर्थः ॥ ४८ ॥

श्लोक-४९

विश्वास-प्रस्तुतिः

प्रदाय मृत्यवे पुत्रान् मोचये कृपणामिमाम्।
सुता मे यदि जायेरन् मृत्युर्वा न म्रियेत चेत्॥

मूलम्

प्रदाय मृत्यवे पुत्रान् मोचये कृपणामिमाम्।
सुता मे यदि जायेरन् मृत्युर्वा न म्रियेत चेत्॥

अनुवाद (हिन्दी)

इसलिये इस मृत्युरूप कंसको अपने पुत्र दे देनेकी प्रतिज्ञा करके मैं इस दीन देवकीको बचा लूँ। यदि मेरे लड़के होंगे और तबतक यह कंस स्वयं नहीं मर जायगा, तब क्या होगा?॥ ४९॥

वीरराघवः

अतः पुत्रान् जनिष्यमाणान् मृत्युरूपेणोपस्थिताय कंसाय मृत्यवे प्रदाय प्रदास्यामीति प्रतिज्ञाय दीनामिमां स्त्रियं मोचये त्याजयामि, प्रतिज्ञाया दोषरूपत्वमाशंक्याध्यवस्यति— सुता इति । यदि सुता मम जायेरन् संभावनायां लिङ् यदि मृत्युर्मृत्युभूतः कंसो वा मत्पुत्रोत्पत्तेः पूर्वमेव न म्रियेत न मरिष्यति तर्हि पुत्रान् दास्यामि मम पुत्रोत्पत्तेः कंसावस्थानस्य च पाक्षिकत्वात्पुत्रार्पणप्रतिज्ञा न दोष इति भावः ॥ ४९ ॥

श्रीसुदर्शनसूरिः

सुता मे इति मृत्युर्वा मृत्युभूतः कसो न मरिष्यति मम पुत्रोत्पत्तेः पूर्वं किं ? मम पुत्रोत्पत्तेः कंसावस्थानस्य च पाक्षिकत्वात् पुत्रार्पणप्रतिज्ञा न दोष इत्यर्थः ।। ४९ ।।

श्लोक-५०

विश्वास-प्रस्तुतिः

विपर्ययो वा किं न स्याद् गतिर्धातुर्दुरत्यया।
उपस्थितो निवर्तेत निवृत्तः पुनरापतेत्॥

मूलम्

विपर्ययो वा किं न स्याद् गतिर्धातुर्दुरत्यया।
उपस्थितो निवर्तेत निवृत्तः पुनरापतेत्॥

अनुवाद (हिन्दी)

सम्भव है, उलटा ही हो। मेरा लड़का ही इसे मार डाले! क्योंकि विधाताके विधानका पार पाना बहुत कठिन है। मृत्यु सामने आकर भी टल जाती है और टली हुई भी लौट आती है॥ ५०॥

श्रीसुदर्शनसूरिः

विपर्ययो वा मत्पुत्रः कंसहन्ता कथं न स्यात् ? अतोऽपि न दोष इत्यर्थः । उपस्थित इति उपस्थितोऽपि मृत्युः कचिन्निवर्त्तते यथा मार्कण्डेयादेर्निवृत्तः वरदानान्निवृत्तोपि मृत्युः पुनराव्रजेत् यथा हिरण्याक्षरावणादेः अपमृत्युनिवृत्ति सम्भावनया च न प्रतिज्ञादोष इत्यर्थः ॥ ५० ॥

श्लोक-५१

विश्वास-प्रस्तुतिः

अग्नेर्यथा दारुवियोगयोगयो-
रदृष्टतोऽन्यन्न निमित्तमस्ति।
एवं हि जन्तोरपि दुर्विभाव्यः
शरीरसंयोगवियोगहेतुः॥

मूलम्

अग्नेर्यथा दारुवियोगयोगयो-
रदृष्टतोऽन्यन्न निमित्तमस्ति।
एवं हि जन्तोरपि दुर्विभाव्यः
शरीरसंयोगवियोगहेतुः॥

अनुवाद (हिन्दी)

जिस समय वनमें आग लगती है, उस समय कौन-सी लकड़ी जले और कौन-सी न जले, दूरकी जल जाय और पासकी बच रहे—इन सब बातोंमें अदृष्टके सिवा और कोई कारण नहीं होता। वैसे ही किस प्राणीका कौन-सा शरीर बना रहेगा और किस हेतुसे कौन-सा शरीर नष्ट हो जायगा—इस बातका पता लगा लेना बहुत ही कठिन है’॥ ५१॥

वीरराघवः

पाक्षिकत्वमेव संभावयति—विपर्ययो वेति । विपर्ययः मम पुत्राः कंसस्य मृत्युर्वा तस्यावस्थितौ मम पुत्राभावो वा किन्न स्यात् अतोऽपि न दोष इति भावः । नन्वशरीरवाण्या ईश्वरवचस्त्वात् नाऽसत्यताऽतोन्वय एव निश्चितो न विपर्ययः इत्याशंक्याध्यवस्यति, धातुरीश्वरस्य गतिर्दुरत्ययाऽर्वाचीनैर्दुर्ज्ञेया धात्रा तथोक्तत्वेपि कदाचित्तद्विपर्ययोऽपि स्यादिति भावः । तत्रोदाहरणमालोच्याध्यवस्यति, उपस्थित इति— उपस्थितोपि मृत्युः क्वचिन्निवर्त्तेत यथा मार्कण्डेयादेर्निवृत्तो वरदानान्निवृत्तोपि मृत्युः पुनरापतेद्यथा हिरण्यकशिपुरावणादेरतः प्रतिज्ञा न दोष इत्यर्थः । यद्यपि कदाचित् विपर्यय एव स्यात्तथापीयं मत्प्रतिज्ञा न दुष्यति न हि मत्पुत्रमत्युर्मत्प्रतिज्ञापरतन्त्रः तस्य कर्माधीनत्वेन पुरुषाधीनत्वाभावादिति सदृष्टान्तमध्यवस्यति, अग्नेरिति, योगवियोगशब्दाभ्यां शीघ्रविलम्बोत्पत्ती विवक्षिते दारुशब्देनारणिर्यथाऽग्नेर्दारुवियोगयोगयोर्दारुणः सकाशाद्विलम्बशीघ्रोत्पत्त्योर्निमित्तकारणमदृष्टतो यजमानादृष्टादन्यन्नास्ति एवं जन्तोर्जीवस्य शरीरसंयोगवियोगयोगयोर्हेतुरदृष्टतः कर्मणोऽन्यो दुर्विभाव्यः दुरद्ध्यवस्यः मत्प्रतिज्ञामात्रं न हेतुः किन्तु तेषां कर्मैवेति भावः ॥ ५०-५१ ॥

श्रीसुदर्शनसूरिः

दारुसंयोगवियोगशब्दाभ्यां शीघ्रविलम्बोत्पत्तिं विवक्षिते अदृष्टतः यजमानादृष्टतः मृत्युः कर्माधीना न पुरुषाधीनः अतोऽपि न भेतव्यमिति भावः ॥ ५१ ॥

श्लोक-५२

विश्वास-प्रस्तुतिः

एवं विमृश्य तं पापं यावदात्मनिदर्शनम्।
पूजयामास वै शौरिर्बहुमानपुरःसरम्॥

मूलम्

एवं विमृश्य तं पापं यावदात्मनिदर्शनम्।
पूजयामास वै शौरिर्बहुमानपुरःसरम्॥

अनुवाद (हिन्दी)

अपनी बुद्धिके अनुसार ऐसा निश्चय करके वसुदेवजीने बहुत सम्मानके साथ पापी कंसकी बड़ी प्रशंसा की॥ ५२॥

वीरराघवः

एवं यावदात्मनिदर्शनमात्माऽत्र बुद्धिः निदर्शनं तस्याः प्रसरः यावदबुद्धिप्रसरं विमृश्य निश्चित्य शौरिर्वसुदेवस्तं पापं पापोद्युक्तं कंसं बहुमानपुरस्सरं बहुमानपूर्वकं पूजयामास स्वेन विमृष्टमर्थं तत्सम्मतीचकार ।। ५२ ।।

श्लोक-५३

विश्वास-प्रस्तुतिः

प्रसन्नवदनाम्भोजो नृशंसं निरपत्रपम्।
मनसा दूयमानेन विहसन्निदमब्रवीत्॥

मूलम्

प्रसन्नवदनाम्भोजो नृशंसं निरपत्रपम्।
मनसा दूयमानेन विहसन्निदमब्रवीत्॥

अनुवाद (हिन्दी)

परीक्षित्! कंस बड़ा क्रूर और निर्लज्ज था; अतः ऐसा करते समय वसुदेवजीके मनमें बड़ी पीड़ा भी हो रही थी। फिर भी उन्होंने ऊपरसे अपने मुखकमलको प्रफुल्लित करके हँसते हुए कहा—॥ ५३॥

वीरराघवः

तदेवं दर्शयितुं पूजोपयुक्तं वाक्यमाहेत्याह- हृष्टेति । अन्तर्भावितण्यर्थः प्रहृष्टः प्रहृष्टं विकासितं बलाद्वदनाम्बुजं येन तथाभूतः वसुदेवः दूयमानेन उपतप्तेन मनसा प्रहसन् बहिर्हसन् निर्लज्जं कंसं प्रतीदं वक्ष्यमाणं वाक्यमब्रवीत् ॥ ५३ ॥

श्लोक-५४

मूलम् (वचनम्)

वसुदेव उवाच

विश्वास-प्रस्तुतिः

न ह्यस्यास्ते भयं सौम्य यद् वागाहाशरीरिणी।
पुत्रान् समर्पयिष्येऽस्या यतस्ते भयमुत्थितम्॥

मूलम्

न ह्यस्यास्ते भयं सौम्य यद् वागाहाशरीरिणी।
पुत्रान् समर्पयिष्येऽस्या यतस्ते भयमुत्थितम्॥

अनुवाद (हिन्दी)

वसुदेवजीने कहा—सौम्य! आपको देवकीसे तो कोई भय है नहीं, जैसा कि आकाशवाणीने कहा है। भय है पुत्रोंसे, सो इसके पुत्र मैं आपको लाकर सौंप दूँगा॥ ५४॥

वीरराघवः

तदेवाह- नेति । हे सौम्य ! तवास्याः स्त्रियाः सकाशाद्भयं मृत्युभयं नास्ति हि किन्त्वस्याः पुत्रादिति भावः । यत् येभ्योऽन्याः पुत्रेभ्यः ते तव भयमशरीरिणी वागाह यतो येभ्यश्च ते भयमुत्थितं समुपस्थितं तान् पुत्रानहं तुभ्यं समर्पयिष्ये दास्यामीति त्वं तु तान् जहि मा वा न तु तत्र मेऽपराध इति भावः ॥ ५४ ॥

श्लोक-५५

मूलम् (वचनम्)

श्रीशुक उवाच

विश्वास-प्रस्तुतिः

स्वसुर्वधान्निववृते कंसस्तद्वाक्यसारवित्।
वसुदेवोऽपि तं प्रीतः प्रशस्य प्राविशद् गृहम्॥

मूलम्

स्वसुर्वधान्निववृते कंसस्तद्वाक्यसारवित्।
वसुदेवोऽपि तं प्रीतः प्रशस्य प्राविशद् गृहम्॥

अनुवाद (हिन्दी)

श्रीशुकदेवजी कहते हैं—परीक्षित्! कंस जानता था कि वसुदेवजीके वचन झूठे नहीं होते और इन्होंने जो कुछ कहा है, वह युक्तिसंगत भी है। इसलिये उसने अपनी बहिन देवकीको मारनेका विचार छोड़ दिया। इससे वसुदेवजी बहुत प्रसन्न हुए और उसकी प्रशंसा करके अपने घर चले आये॥ ५५॥

वीरराघवः

ततस्तस्य वसुदेवस्य वाक्यसारविद्वाक्याभिप्रायं जानन् कंसः सुहृदो भगिन्या वधान्निववृते न्यवर्तत ततो वसुदेवोऽपि प्रीतस्तं कंसं प्रशस्य स्वगृहं प्राविशत् ॥ ५५ ॥

श्लोक-५६

विश्वास-प्रस्तुतिः

अथ काल उपावृत्ते देवकी सर्वदेवता।
पुत्रान् प्रसुषुवे चाष्टौ कन्यां चैवानुवत्सरम्॥

मूलम्

अथ काल उपावृत्ते देवकी सर्वदेवता।
पुत्रान् प्रसुषुवे चाष्टौ कन्यां चैवानुवत्सरम्॥

अनुवाद (हिन्दी)

देवकी बड़ी सती-साध्वी थी। सारे देवता उसके शरीरमें निवास करते थे। समय आनेपर देवकीके गर्भसे प्रतिवर्ष एक-एक करके आठ पुत्र तथा एक कन्या उत्पन्न हुई॥ ५६॥

वीरराघवः

अथ काले गर्भधारणयोग्यकाले उपावृत्ते समुपस्थिते सति सर्वदेवताप्राया देवतांशत्वात्तत्तुल्या देवकी प्रतिवत्सरम् अष्टौ पुत्रान् एकां कन्यां च स्रुषुवे ॥ ५६ ॥

श्लोक-५७

विश्वास-प्रस्तुतिः

कीर्तिमन्तं प्रथमजं कंसायानकदुन्दुभिः।
अर्पयामास कृच्छ्रेण सोऽनृतादतिविह्वलः॥

मूलम्

कीर्तिमन्तं प्रथमजं कंसायानकदुन्दुभिः।
अर्पयामास कृच्छ्रेण सोऽनृतादतिविह्वलः॥

अनुवाद (हिन्दी)

पहले पुत्रका नाम था कीर्तिमान्। वसुदेवजीने उसे लाकर कंसको दे दिया। ऐसा करते समय उन्हें कष्ट तो अवश्य हुआ, परन्तु उससे भी बड़ा कष्ट उन्हें इस बातका था कि कहीं मेरे वचन झूठे न हो जायँ॥ ५७॥

वीरराघवः

तदा तावत्स्वप्रतिज्ञां पालयन् वसुदेवः प्रथमजम् अग्रजं कीर्तिमन्तं कीर्तिमान् इति नामकं पुत्रं कृच्छ्रेण दुःखेन कंसायार्पयामास तत्र हेतुं वदन् विशिनष्टि अनृतादनृतभाषणादतीव विह्वलः अनृतभाषणरूपपापभयादत्यन्तं बिह्वल इत्यर्थः ॥ ५७ ॥

श्रीसुदर्शनसूरिः

यावदात्मनिदर्शनं स्वज्ञानारूपस्वाऽवगतादृष्टानुगुणम् ।। ५२-५७ ।।

श्लोक-५८

विश्वास-प्रस्तुतिः

किं दुःसहं नु साधूनां विदुषां किमपेक्षितम्।
किमकार्यं कदर्याणां दुस्त्यजं किं धृतात्मनाम्॥

मूलम्

किं दुःसहं नु साधूनां विदुषां किमपेक्षितम्।
किमकार्यं कदर्याणां दुस्त्यजं किं धृतात्मनाम्॥

अनुवाद (हिन्दी)

परीक्षित्! सत्यसन्ध पुरुष बड़े-से-बड़ा कष्ट भी सह लेते हैं, ज्ञानियोंको किसी बातकी अपेक्षा नहीं होती, नीच पुरुष बुरे-से-बुरा काम भी कर सकते हैं और जो जितेन्द्रिय हैं—जिन्होंने भगवान‍्को हृदयमें धारण कर रखा है, वे सब कुछ त्याग सकते हैं॥ ५८॥

वीरराघवः

पुत्राऽनुरागं विहाय कथं समर्पयामास ? इत्यत्राह किमिति । साधूनां दुस्सहं दुःखेनाऽपि सोढुमशक्यं किन्वस्ति न किमपि सर्वमपि सुसहमेवेत्यर्थः । पुत्रविपत्तिरपि सुसहैवेति भावः । तथा विदुषां स्वात्मपरमात्मयाथात्म्यज्ञानिनां पुंसां किन्तु अपेक्षितं न किमपि शरीरतदनुबन्ध्यादिकमपेक्षितम् नास्तीति भावः । किमुपेक्षितमिति पाठान्तरं तदा विदुषामिति साधूनां विशेषणं कदर्याणाम् उपेक्षितमकार्यं च किमस्तीत्यन्वयः । कदर्यशब्दः क्षुद्रपर्यायः इदं कंसाभिप्रायकं धृतः स्ववशीकृतः आत्मा मनो येषां दुस्त्यजं किं देहतदनुवन्ध्यादिकं सर्वं सुत्यजमेवेति भावः ॥ ५८ ॥

श्लोक-५९

विश्वास-प्रस्तुतिः

दृष्ट्वा समत्वं तच्छौरेः सत्ये चैव व्यवस्थितिम्।
कंसस्तुष्टमना राजन् प्रहसन्निदमब्रवीत्॥

मूलम्

दृष्ट्वा समत्वं तच्छौरेः सत्ये चैव व्यवस्थितिम्।
कंसस्तुष्टमना राजन् प्रहसन्निदमब्रवीत्॥

अनुवाद (हिन्दी)

जब कंसने देखा कि वसुदेवजीका अपने पुत्रके जीवन और मृत्युमें समान भाव है एवं वे सत्यमें पूर्ण निष्ठावान् भी हैं, तब वह बहुत प्रसन्न हुआ और उनसे हँसकर बोला॥ ५९॥

वीरराघवः

दृष्ट्वेति । व्यवस्थितमिति भावे क्तः शौरेर्वसुदेवस्य तत्समत्वं सुखदुःखयोस्साम्यं सत्ये व्यवस्थितं निश्चलत्वं च दृष्ट्वा कंसः तुष्टं मनो यस्य तथाभूतस्सन् हे राजन् ! प्रहसन् इदं वक्ष्यमाणमब्रवीत् ॥ ५९ ॥

श्लोक-६०

विश्वास-प्रस्तुतिः

प्रतियातु कुमारोऽयं न ह्यस्मादस्ति मे भयम्।
अष्टमाद् युवयोर्गर्भान्मृत्युर्मे विहितः किल॥

मूलम्

प्रतियातु कुमारोऽयं न ह्यस्मादस्ति मे भयम्।
अष्टमाद् युवयोर्गर्भान्मृत्युर्मे विहितः किल॥

अनुवाद (हिन्दी)

वसुदेवजी! आप इस नन्हे-से सुकुमार बालकको ले जाइये। इससे मुझे कोई भय नहीं है। क्योंकि आकाशवाणीने तो ऐसा कहा था कि देवकीके आठवें गर्भसे उत्पन्न सन्तानके द्वारा मेरी मृत्यु होगी॥ ६०॥

वीरराघवः

तदेवाह - प्रतियात्वित्यादि । अयं तव कुमारः प्रतियातु गृहं प्रतिगच्छतु ममास्मात्कुमारात् भयं मृत्युभयं नास्ति हि युवयोरष्टमात्पुत्रादेव हि मम मृत्युर्विहितः किल अशरीरवाचेति शेषः ॥ ६० ॥

श्लोक-६१

विश्वास-प्रस्तुतिः

तथेति सुतमादाय ययावानकदुन्दुभिः।
नाभ्यनन्दत तद्वाक्यमसतोऽविजितात्मनः॥

मूलम्

तथेति सुतमादाय ययावानकदुन्दुभिः।
नाभ्यनन्दत तद्वाक्यमसतोऽविजितात्मनः॥

अनुवाद (हिन्दी)

वसुदेवजीने कहा—‘ठीक है’ और उस बालकको लेकर वे लौट आये। परन्तु उन्हें मालूम था कि कंस बड़ा दुष्ट है और उसका मन उसके हाथमें नहीं है। वह किसी क्षण बदल सकता है। इसलिये उन्होंने उसकी बातपर विश्वास नहीं किया॥ ६१॥

वीरराघवः

ततः तथेत्यङ्गीकृत्यानकदुन्दुभिर्वसुदेवः सुतमादाय ययौ किन्त्वसतः पापिनोऽनवस्थितचित्तस्याविदितात्मनोऽज्ञस्य कंसस्य तदुक्तं वाक्यं नाभ्यनन्दत् “अव्यवस्थितचित्तस्य प्रसादोपि भयङ्करः” इति न्यायादिति भावः ॥ ६१ ॥

श्लोक-६२

विश्वास-प्रस्तुतिः

नन्दाद्या ये व्रजे गोपा याश्चामीषां च योषितः।
वृष्णयो वसुदेवाद्या देवक्याद्या यदुस्त्रियः॥

मूलम्

नन्दाद्या ये व्रजे गोपा याश्चामीषां च योषितः।
वृष्णयो वसुदेवाद्या देवक्याद्या यदुस्त्रियः॥

श्रीसुदर्शनसूरिः

ऋतात्मनामिति पाठे स्वतः सत्यप्रतिज्ञानामित्यर्थः । शौरेः वसुदेवस्य ।। ५८- ६२

श्लोक-६३

विश्वास-प्रस्तुतिः

सर्वे वै देवताप्राया उभयोरपि भारत।
ज्ञातयो बन्धुसुहृदो ये च कंसमनुव्रताः॥

मूलम्

सर्वे वै देवताप्राया उभयोरपि भारत।
ज्ञातयो बन्धुसुहृदो ये च कंसमनुव्रताः॥

वीरराघवः

नन्दाद्या इत्यादि सार्द्धश्लोकत्रयमेकान्वयम् । हे भारत ! उभयोर्नन्दवसुदेवयोर्ज्ञातयो बन्धवः सुहृदोऽपि देवताप्रायाः देवांशैः जातत्वाद्देवताप्रायास्तत्तुल्या इत्यर्थः । ये तु कंसमनुव्रताः ते सर्वे असुरा असुरसम्पत्त्या जाताः अत एव लोकोपद्रवकारिणः ।। ६२-६३ ।।

श्रीसुदर्शनसूरिः

देवताप्राया देवतांशत्वात् तत्तुल्याः || ६३ ॥

श्लोक-६४

विश्वास-प्रस्तुतिः

एतत् कंसाय भगवाञ्छशंसाभ्येत्य नारदः।
भूमेर्भारायमाणानां दैत्यानां च वधोद्यमम्॥

मूलम्

एतत् कंसाय भगवाञ्छशंसाभ्येत्य नारदः।
भूमेर्भारायमाणानां दैत्यानां च वधोद्यमम्॥

अनुवाद (हिन्दी)

परीक्षित्! इधर भगवान् नारद कंसके पास आये और उससे बोले कि ‘कंस! व्रजमें रहनेवाले नन्द आदि गोप, उनकी स्त्रियाँ, वसुदेव आदि वृष्णिवंशी यादव, देवकी आदि यदुवंशकी स्त्रियाँ और नन्द, वसुदेव दोनोंके सजातीय बन्धु-बान्धव और सगे-सम्बन्धी—सब-के-सब देवता हैं; जो इस समय तुम्हारी सेवा कर रहे हैं, वे भी देवता ही हैं।’ उन्होंने यह भी बतलाया कि ‘दैत्योंके कारण पृथ्वीका भार बढ़ गया है, इसलिये देवताओंकी ओरसे अब उनके वधकी तैयारी की जा रही है’॥ ६२—६४॥

वीरराघवः

इत्येतद्भूमेर्भारायमाणानां नृपव्याजानां दैत्यानां श्रीभगवत् कर्तृकवधोद्योगञ्च ततो भगवान्नारदोऽभ्येत्यागत्य कंसाय शशंस कथयामास ॥ ६४ ॥

श्रीसुदर्शनसूरिः

एतत् वक्ष्यमाणम् ॥ ६४ ॥

श्लोक-६५

विश्वास-प्रस्तुतिः

ऋषेर्विनिर्गमे कंसो यदून् मत्वा सुरानिति।
देवक्या गर्भसम्भूतं विष्णुं च स्ववधं प्रति॥

मूलम्

ऋषेर्विनिर्गमे कंसो यदून् मत्वा सुरानिति।
देवक्या गर्भसम्भूतं विष्णुं च स्ववधं प्रति॥

वीरराघवः

तत ऋषेर्नारदस्य विनिर्गमनानन्तरं कंसो यदून् सुरांशसम्भवान् स्ववधं प्रत्युद्दिश्य देवक्या गर्भे सम्भविष्यमाणं विष्णुञ्च ज्ञात्वा इत्यर्थः ॥ ६५ ॥

श्रीसुदर्शनसूरिः

गर्भसम्भूतं मत्वेत्यन्वयः ॥ ६५ ॥

श्लोक-६६

विश्वास-प्रस्तुतिः

देवकीं वसुदेवं च निगृह्य निगडैर्गृहे।
जातं जातमहन् पुत्रं तयोरजनशङ्कया॥

मूलम्

देवकीं वसुदेवं च निगृह्य निगडैर्गृहे।
जातं जातमहन् पुत्रं तयोरजनशङ्कया॥

अनुवाद (हिन्दी)

जब देवर्षि नारद इतना कहकर चले गये, तब कंसको यह निश्चय हो गया कि यदुवंशी देवता हैं और देवकीके गर्भसे विष्णुभगवान् ही मुझे मारनेके लिये पैदा होनेवाले हैं। इसलिये उसने देवकी और वसुदेवको हथकड़ी-बेड़ीसे जकड़कर कैदमें डाल दिया और उन दोनोंसे जो-जो पुत्र होते गये, उन्हें वह मारता गया। उसे हर बार यह शंका बनी रहती कि कहीं विष्णु ही उस बालकके रूपमें न आ गया हो॥ ६५-६६॥

वीरराघवः

देवकीं वसुदेवं च निगडैः शृङ्खलैर्गृहे कारागृहे निगृह्य निग्रहपूर्वकमाबध्य अजनशङ्कया अरिष्टशङ्कया अर्दनशङ्कयेति पाठे स्वपीडाशङ्कया तयोर्देवकीवसुदेवयोः पुत्रं जातञ्जातमहन् जघान ॥ ६६ ॥

श्रीसुदर्शनसूरिः

अजनशङ्कया भगवच्छङ्कया विष्णोरर्दनशङ्कयेति पाठे स्वान्तः सत्यपीडाशङ्कयेत्यर्थः ॥ ६६ ॥

श्लोक-६७

विश्वास-प्रस्तुतिः

मातरं पितरं भ्रातॄन् सर्वांश्च सुहृदस्तथा।
घ्नन्ति ह्यसुतृपो लुब्धा राजानः प्रायशो भुवि॥

मूलम्

मातरं पितरं भ्रातॄन् सर्वांश्च सुहृदस्तथा।
घ्नन्ति ह्यसुतृपो लुब्धा राजानः प्रायशो भुवि॥

अनुवाद (हिन्दी)

परीक्षित्! पृथ्वीमें यह बात प्रायः देखी जाती है कि अपने प्राणोंका ही पोषण करनेवाले लोभी राजा अपने स्वार्थके लिये माता-पिता, भाई-बन्धु और अपने अत्यन्त हितैषी इष्ट-मित्रोंकी भी हत्या कर डालते हैं॥ ६७॥

वीरराघवः

निर्घृणः कथमहन्नित्यत्र लोकपरिपाटी दर्शयति-मातरमिति भुवि राजानः प्रायशोऽसुतृपाः परप्राणैरात्मप्राणतर्पकाः लुब्धाः निषादसदृशाः मात्रादीनपि घ्नन्तीति हि निश्चयार्थद्योतकः ॥ ६७ ॥

श्रीसुदर्शनसूरिः

असुतृपः आत्मप्राणतर्प्पकाः ॥ ६७ ॥

श्लोक-६८

विश्वास-प्रस्तुतिः

आत्मानमिह सञ्जातं जानन् प्राग् विष्णुना हतम्।
महासुरं कालनेमिं यदुभिः स व्यरुध्यत॥

मूलम्

आत्मानमिह सञ्जातं जानन् प्राग् विष्णुना हतम्।
महासुरं कालनेमिं यदुभिः स व्यरुध्यत॥

अनुवाद (हिन्दी)

कंस जानता था कि मैं पहले कालनेमि असुर था और विष्णुने मुझे मार डाला था। इससे उसने यदुवंशियोंसे घोर विरोध ठान लिया॥ ६८॥

वीरराघवः

आत्मानं प्राक पूर्वजन्मनि विष्णुना हतं महासुरं कालनेमिम् इहास्मिन् जन्मनि आत्मरूपेण जातं जानन् नारदवाक्याज्जानन् स कंसः यदुभिः सह व्यरुध्यत विरोधङ्कृतवान् ।। ६८ ।।

श्रीसुदर्शनसूरिः

स व्यरुध्यत विरोधं कृतवान् ।। ६८ ।।

श्लोक-६९

विश्वास-प्रस्तुतिः

उग्रसेनं च पितरं यदुभोजान्धकाधिपम्।
स्वयं निगृह्य बुभुजे शूरसेनान् महाबलः॥

मूलम्

उग्रसेनं च पितरं यदुभोजान्धकाधिपम्।
स्वयं निगृह्य बुभुजे शूरसेनान् महाबलः॥

अनुवाद (हिन्दी)

कंस बड़ा बलवान् था। उसने यदु, भोज और अन्धक वंशके अधिनायक अपने पिता उग्रसेनको कैद कर लिया और शूरसेन-देशका राज्य वह स्वयं करने लगा॥ ६९॥

वीरराघवः

भोजानामन्धकानां च यादवानामधिपं पितरमुग्रसेनं निगृह्य स्वयं महाबलः कंसः शूरसेनान् जनपदान् बुभुजे उपभुक्तवान् ।। ६९ ।।

इति श्रीमद्भागवत महापुराणे दशमस्कन्धे श्रीमद्वीरराघवाचार्य्यंकृतभागवतचन्द्रचन्द्रिकायां प्रथमोऽध्यायः ॥ १ ॥

श्रीसुदर्शनसूरिः

अधिपम् उत्कृष्टम् ॥ ६९ ॥

इति श्रीमद्भागवते महापुराणे दशमस्कन्धपूर्वार्द्धव्याख्याने श्रीसुदर्शनसूरिकृतशुकपक्षीये प्रथमोऽध्यायः ।। १ ।।

अनुवाद (समाप्ति)

इति श्रीमद‍्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे श्रीकृष्णावतारोपक्रमे प्रथमोऽध्यायः॥ १॥