१८

[अष्टादशोऽध्यायः]

भागसूचना

वामनभगवान‍्का प्रकट होकर राजा बलिकी यज्ञशालामें पधारना

श्लोक-१

मूलम् (वचनम्)

श्रीशुक उवाच

विश्वास-प्रस्तुतिः

इत्थं विरिञ्चस्तुतकर्मवीर्यः
प्रादुर्बभूवामृतभूरदित्याम्।
चतुर्भुजः शङ्खगदाब्जचक्रः
पिशङ्गवासा नलिनायतेक्षणः॥

मूलम्

इत्थं विरि1ञ्चस्तुतकर्मवीर्यः प्रादुर्बभूवामृतभूरदित्याम्।
चतुर्भुजः शङ्खगदाब्जचक्रः पिशङ्गवासा नलिनायतेक्षणः॥ १ ॥

अनुवाद (हिन्दी)

श्रीशुकदेवजी कहते हैं—परीक्षित्! इस प्रकार जब ब्रह्माजीने भगवान‍्की शक्ति और लीलाकी स्तुति की, तब जन्म-मृत्युरहित भगवान् अदितिके सामने प्रकट हुए। भगवान‍्के चार भुजाएँ थीं; उनमें वे शंख, गदा, कमल और चक्र धारण किये हुए थे। कमलके समान कोमल और बड़े-बड़े नेत्र थे। पीताम्बर शोभायमान हो रहा था॥ १॥

वीरराघवः

एवं ब्रह्मणा समीडितो भगवान् अवततारेत्य्-आह मुनिः - इत्थम् इति । इत्थं विरिञ्चेन स्तुतं कर्म देव-कार्य-लक्षणं वीर्यम् उरु-क्रमत्व्-आदि-प्रभावश्-च यस्य सो ऽमृत-भूः कर्मायत्त-मरणोत्पत्ति-रहितः मोक्ष-प्रदो वा भगवान् अदित्याम् आविर्बभूव, कथं-भूतः ? चत्वारो भुजा यस्य शङ्खादयो अस्य सन्तीति तथा अर्श-आदित्वान् मत्वर्थीयो ऽच्, पिशङ्गे वाससी यस्य नलिन-वत्-सुन्दरे आयते चेक्षणे नेत्रे यस्य ॥ १ ॥

श्लोक-२

विश्वास-प्रस्तुतिः

श्यामावदातो झषराजकुण्डल-
त्विषोल्लसच्छ्रीवदनाम्बुजः पुमान्।
श्रीवत्सवक्षा वलयाङ्गदोल्लस-
त्किरीटकाञ्चीगुणचारुनूपुरः॥

मूलम्

श्यामावदातो झषराजकुण्डलत्विषोल्लसच्छ्रीवदनाम्बुजः पुमान्।
श्रीवत्सवक्षा वलयाङ्गदोल्लसत्किरीटकाञ्चीगुण2हारनूपुरः॥ २ ॥

अनुवाद (हिन्दी)

विशुद्ध श्यामवर्णका शरीर था। मकराकृति कुण्डलोंकी कान्तिसे मुखकमलकी शोभा और भी उल्लसित हो रही थी। वक्षःस्थलपर श्रीवत्सका चिह्न, हाथोंमें कंगन और भुजाओंमें बाजूबंद, सिरपर किरीट, कमरमें करधनीकी लड़ियाँ और चरणोंमें सुन्दर नूपुर जगमगा रहे थे॥ २॥

वीरराघवः

श्यामश्-चासाव-वदातो निर्मलः झष-राजो मकरस्-तद्-आकारयोः कुण्डलयोः त्विषा उल्लसन्ती श्रीर्-वदनाम्बुजे यस्य श्रीवत्सो वक्षसि यस्य वलयैर्-अङ्गदैश्-च सहोल्लसन्ति किरीटादीनि यस्य ॥ २ ॥

श्लोक-३

विश्वास-प्रस्तुतिः

मधुव्रतव्रातविघुष्टया स्वया
विराजितः श्रीवनमालया हरिः।
प्रजापतेर्वेश्मतमः स्वरोचिषा
विनाशयन् कण्ठनिविष्टकौस्तुभः॥

मूलम्

मधुव्रतव्रातविघुष्टया स्वया विराजि3तः श्रीवनमालया हरिः।
प्रजापतेर्वेश्मतमः स्वरोचिषा विनाशयन् कण्ठनिविष्टकौस्तुभः॥ ३ ॥

अनुवाद (हिन्दी)

भगवान् गलेमें अपनी स्वरूपभूत वनमाला धारण किये हुए थे, जिसके चारों ओर झुंड-के-झुंड भौंरे गुंजार कर रहे थे। उनके कण्ठमें कौस्तुभमणि सुशोभित थी। भगवान‍्की अंगकान्तिसे प्रजापति कश्यपजीके घरका अन्धकार नष्ट हो गया॥ ३॥

वीरराघवः

मधु-व्रतानां-भृङ्गानां समूहेन विघुष्टया स्वया ऽसाधारणया श्रीमत्या वन-मालया विराजितः विभुः सर्वज्ञः प्रजापतेः कश्यपस्य वेश्म-गतं तमः स्व-कान्त्या विनाशयन्-नपनुदन् कण्ठे निविष्टः धृतः कौस्तभो यस्य सः, आविर्बभूवेति पूर्वेणान्वयः ॥ ३ ॥

श्लोक-४

विश्वास-प्रस्तुतिः

दिशः प्रसेदुः सलिलाशयास्तदा
प्रजाः प्रहृष्टा ऋतवो गुणान्विताः।
द्यौरन्तरिक्षं क्षितिरग्निजिह्वा
गावो द्विजाः संजहृषुर्नगाश्च॥

मूलम्

दिशः प्रसेदुः सलिलाशयास्तदा प्रजाः प्रहृष्टा ऋतवो गुणान्विताः।
द्यौरन्तरिक्षं क्षितिरग्निजिह्वा गावो द्विजाः संजहृषुर्नगाश्च॥ ४ ॥

अनुवाद (हिन्दी)

उस समय दिशाएँ निर्मल हो गयीं। नदी और सरोवरोंका जल स्वच्छ हो गया। प्रजाके हृदयमें आनन्दकी बाढ़ आ गयी। सब ऋतुएँ एक साथ अपना-अपना गुण प्रकट करने लगीं। स्वर्गलोक, अन्तरिक्ष, पृथ्वी, देवता, गौ, द्विज और पर्वत—इन सबके हृदयमें हर्षका संचार हो गया॥ ४॥

वीरराघवः

तदा दिशः सलिलानि जनानाम् अन्तःकरणानि च प्रसेदुः प्रसन्ना बभूवुः, प्रजाः प्रहृष्टाः ऋतवः प्रावृड्-आदयः गुणान्विताः स्व-स्व-गुण-युक्ता बभूवुः तथा द्यु-प्रभृतयो, नगाः पर्वताश्-च यथानुरूपं प्रसेदुः सञ्जहृषुः हर्ष-युक्ताश्-च बभूवुः । तत्र अग्नि-जिह्वा देवाः अग्नेर्-जिह्वा शिखा वा ॥ ४ ॥

श्लोक-५

विश्वास-प्रस्तुतिः

श्रोणायां श्रवणद्वादश्यां मुहूर्तेऽभिजिति प्रभुः।
सर्वे नक्षत्रताराद्याश्चक्रुस्तज्जन्म दक्षिणम्॥

मूलम्

श्रोणायां 4भाद्वद्वादश्यां मुहूर्तेऽभिजिति प्रभुः।
5सर्वे नक्षत्रताराद्याश्चक्रुस्तज्जन्म दक्षिणम्॥ ५ ॥

अनुवाद (हिन्दी)

परीक्षित्! जिस समय भगवान‍्ने जन्म ग्रहण किया, उस समय चन्द्रमा श्रवण नक्षत्रपर थे। भाद्रपद मासके शुक्लपक्षकी श्रवणनक्षत्रवाली द्वादशी थी। अभिजित् मुहूर्तमें भगवान‍्का जन्म हुआ था। सभी नक्षत्र और तारे भगवान‍्के जन्मको मंगलमय सूचित कर रहे थे॥ ५॥

वीरराघवः

प्रादुर्भाव-कालम् आह - श्रोणायाम् इति । श्रवण-द्वादशी भाद्रपद-शुक्ल-द्वादशीति प्रसिद्धा तस्याम् अपि श्रोणायां श्रवणर्क्ष-स्थे सति चन्द्रे इत्य्-अर्थः । तत्रापि श्रव6णस्य प्रथमांशे अभिजिन्-नामके मुहूर्ते 7माध्यन्दिने । तच्-च श्रुत्या दर्शितम् “अभिजिन् नाम नक्षत्रम् उपरिष्टाद् आषाढानाम् अधस्ताच्-छ्रोणायाः” इति । एवं विशिष्टे मुहूर्ते भगवान् प्रादुर्बभूवेति पूर्वेणान्वयः । किञ्च नक्षत्राण्य्-अश्विन्यादीनि, ताराः गुरु-शुक्रादयः, आदि-शब्देन चन्द्र-सूर्यादयः ते सर्वे तस्य भगवतो जन्म दक्षिणम् उदारं चक्रुः ॥ ५ ॥

श्लोक-६

विश्वास-प्रस्तुतिः

द्वादश्यां सवितातिष्ठन् मध्यंदिनगतो नृप।
विजया नाम सा प्रोक्ता यस्यां जन्म विदुहर्रेः॥

मूलम्

द्वादश्यां सवितातिष्ठन् मध्यंदिनग8तोऽहनि।
विजया नाम सा प्रोक्ता यस्यां जन्म विदुहर्रेः॥ ६ ॥

अनुवाद (हिन्दी)

परीक्षित्! जिस तिथिमें भगवान‍्का जन्म हुआ था, उसे ‘विजया द्वादशी’ कहते हैं। जन्मके समय सूर्य आकाशके मध्यभागमें स्थित थे॥ ६॥

वीरराघवः

द्वादश्यां तस्यां तिथौ अहनि सुर्यो मध्यन्दिन-गतो बभूव सा च द्वादशी विजयेति प्रसि9द्धाभूत्, का ? यस्यां द्वादश्यो हरेर्-जन्म विदु10रिति ॥ ६ ॥

श्लोक-७

विश्वास-प्रस्तुतिः

शङ्खदुन्दुभयो नेदुर्मृदङ्गपणवानकाः।
चित्रवादित्रतूर्याणां निर्घोषस्तुमुलोऽभवत्॥

मूलम्

शङ्खदुन्दुभयो 11नेदुर्मृदङ्गपणवानकाः।
चित्रवादित्रतूर्याणां निर्घोषस्तुमुलोऽभवत्॥ ७ ॥

अनुवाद (हिन्दी)

भगवान‍्के अवतारके समय शंख, ढोल, मृदंग, डफ और नगाड़े आदि बाजे बजने लगे। इन तरह-तरहके बाजों और तुरहियोंकी तुमुल ध्वनि होने लगी॥ ७॥

वीरराघवः

तदा शङ्खादयो मृदङ्गादयश्-च नेदुः दध्वनुः तथा विचित्र-वादित्रादीनां तुमुलो निर्घोषश्-च अभवत् ॥ ७ ॥

श्लोक-८

विश्वास-प्रस्तुतिः

प्रीताश्चाप्सरसोऽनृत्यन् गन्धर्वप्रवरा जगुः।
तुष्टुवुर्मुनयो देवा मनवः पितरोऽग्नयः॥

मूलम्

प्रीताश्चाप्सरसोऽनृत्यन् गन्धर्व12प्रवरा जगुः।
तुष्टुवुर्मुनयो देवा मनवः पितरोऽग्नयः॥ ८ ॥

अनुवाद (हिन्दी)

अप्सराएँ प्रसन्न होकर नाचने लगीं। श्रेष्ठ गन्धर्व गाने लगे। मुनि, देवता, मनु, पितर और अग्नि स्तुति करने लगे॥ ८॥

वीरराघवः

अप्सरसः प्रीता ननृतुः गन्धर्व-श्रेष्ठाः जगुः, मुनि-प्रभृतयो यथायोग्यं तुष्टुवुः जगुर्-ननृतुश्-च प्रशशंसुः ॥ ८ ॥

श्लोक-९

विश्वास-प्रस्तुतिः

सिद्धविद्याधरगणाः सकिम्पुरुषकिन्नराः।
चारणा यक्षरक्षांसि सुपर्णा भुजगोत्तमाः॥

मूलम्

सिद्धविद्याधरगणाः सकिम्पुरुषकिन्नराः।
चारणा यक्षरक्षांसि सु13पर्णभुजगोत्तमाः॥ ९ ॥

श्लोक-१०

विश्वास-प्रस्तुतिः

गायन्तोऽतिप्रशंसन्तो नृत्यन्तो विबुधानुगाः।
अदित्या आश्रमपदं कुसुमैः समवाकिरन्॥

मूलम्

गाय14न्तोऽतिप्रशंसन्तो नृत्यन्तो विबु15धानुगाः।
अदित्या आश्रमपदं कुसुमैः समवाकिरन्॥ १० ॥

अनुवाद (हिन्दी)

सिद्ध, विद्याधर, किम्पुरुष, किन्नर, चारण, यक्ष, राक्षस, पक्षी, मुख्य-मुख्य नागगण और देवताओंके अनुचर नाचने-गाने एवं भूरि-भूरि प्रशंसा करने लगे तथा उन लोगोंने अदितिके आश्रमको पुष्पोंकी वर्षासे ढक दिया॥ ९-१०॥

वीरराघवः

अदित्या आश्रम-पदं कुसुमैः अवाकिरंश् च ॥ ९-१० ॥

श्लोक-११

विश्वास-प्रस्तुतिः

दृष्ट्वादितिस्तं निजगर्भसम्भवं
परं पुमांसं मुदमाप विस्मिता।
गृहीतदेहं निजयोगमायया
प्रजापतिश्चाह जयेति विस्मितः॥

मूलम्

दृष्ट्वादितिस्तं निजगर्भसम्भवं परं पुमांसं मुदमाप विस्मिता।
गृहीतदेहं निजयोगमायया प्रजापतिश्चाह जयेति विस्मितः॥ ११ ॥

अनुवाद (हिन्दी)

जब अदितिने अपने गर्भसे प्रकट हुए परम पुरुष परमात्माको देखा, तो वह अत्यन्त आश्चर्यचकित और परमानन्दित हो गयी। प्रजापति कश्यपजी भी भगवान‍्को अपनी योगमायासे शरीर धारण किये हुए देख विस्मित हो गये और कहने लगे ‘जय हो! जय हो’॥ ११॥

वीरराघवः

तं परम-पुरुषं निज-गर्भ-सम्भूतं दृष्ट्वा अदितिः विस्मिता सती नितरां मुदम् अवाप तथा प्रजापतिः कश्यपश् च निज-योग-मायया सहज-शक्ति-योग-युक्त-सङ्कल्प-रूप-ज्ञानेन यद् वा, योग एव माया तया आश्चर्य-रूप-शक्ति-योगेनेत्य्-अर्थः । गृहीतो देहो दिव्य-विग्रहो येन तं दृष्ट्वा प्रजापतिः ब्रह्मा जयेत्य्-आह ॥ ११ ॥

श्लोक-१२

विश्वास-प्रस्तुतिः

यत् तद् वपुर्भाति विभूषणायुधै-
रव्यक्तचिद् व्यक्तमधारयद्धरिः।
बभूव तेनैव स वामनो वटुः
संपश्यतोर्दिव्यगतिर्यथा नटः॥

मूलम्

यत् तद् वपुर्भाति विभूषणायुधैरव्यक्तचिद् व्यक्तमधारयद्धरिः।
बभूव तेनैव स वामनो वटुः संपश्यतोर्दिव्यगतिर्यथा नटः॥ १२ ॥

अनुवाद (हिन्दी)

परीक्षित्! भगवान् स्वयं अव्यक्त एवं चित‍्स्वरूप हैं। उन्होंने जो परम कान्तिमय आभूषण एवं आयुधोंसे युक्त वह शरीर ग्रहण किया था, उसी शरीरसे, कश्यप और अदितिके देखते-देखते वामन ब्रह्मचारीका रूप धारण कर लिया—ठीक वैसे ही, जैसे नट अपना वेष बदल ले। क्यों न हो, भगवान‍्की लीला तो अद‍्भुत है ही॥ १२॥

वीरराघवः

विस्मयान्तरम् आह - यत् तद् इति । विभूषणैः कौस्तुभादिभिः आयुधैः, शङ्ख-चक्रादिभश् च युक्तम् इति शेषः । एवम्-भूतं यद् वपुः स्वा-साधारणत्वेन प्रकाशते नित्य-विभूत्य्-आदौ तद्-वपुर्-आदौ अव्यक्त-चिद्-रूपः प्रकृति-पुरुष-शरीरको भगवान् अधारयत् आविश्-चकार । ततः तेनैव वपुषा पित्रोः सम्पश्यतोः सतोः स भगवान् दिव्य-गतिर्-अनितर-साधारण-चेष्टो वामनो वटुर्-बभूव । वटु-सन्निवेशात् वामन-शब्द-वाच्यो बभूव । यथा नटः पूर्व-पूर्व-वेषं विहाय वेषान्तरम् उपादत्ते तद्-16वद् इत्य्-अर्थः ॥ १२ ॥

श्लोक-१३

विश्वास-प्रस्तुतिः

तं वटुं वामनं दृष्ट्वा मोदमाना महर्षयः।
कर्माणि कारयामासुः पुरस्कृत्य प्रजापतिम्॥

मूलम्

तं वटुं वामनं दृष्ट्वा मोदमाना महर्षयः।
कर्माणि कारयामासुः पुरस्कृत्य प्रजापतिम्॥ १३ ॥

अनुवाद (हिन्दी)

भगवान‍्को वामन ब्रह्मचारीके रूपमें देखकर महर्षियोंको बड़ा आनन्द हुआ। उन लोगोंने कश्यप प्रजापतिको आगे करके उनके जातकर्म आदि संस्कार करवाये॥ १३॥

वीरराघवः

तं भगवन्तं वामन-शब्द-वाच्यं वटु-सन्निवेशं दृष्ट्वा महर्षयः संहृष्टास् सन्तः प्रजापतिं कश्यपं पुरस्कृत्य कर्माणि जात-कर्मादीनि कारयामासुः ॥ १३ ॥

श्लोक-१४

विश्वास-प्रस्तुतिः

तस्योपनीयमानस्य सावित्रीं सविताब्रवीत्।
बृहस्पतिर्ब्रह्मसूत्रं मेखलां कश्यपोऽददात्॥

मूलम्

तस्योपनीयमानस्य सावित्रीं सविताब्रवीत्।
बृहस्पतिर्ब्रह्मसूत्रं मेखलां कश्य17पो ददौ॥ १४ ॥

अनुवाद (हिन्दी)

जब उनका उपनयन-संस्कार होने लगा, तब गायत्रीके अधिष्ठातृ-देवता स्वयं सविताने उन्हें गायत्रीका उपदेश किया। देवगुरु बृहस्पतिजीने यज्ञोपवीत और कश्यपने मेखला दी॥ १४॥

वीरराघवः

तस्य वामनस्योपनीयमानस्य उपनयनेन संस्क्रियमाणस्य सविता सावित्रीम् उपदिष्टवान् बृहस्पत्य्-आदयो ब्रह्म-सूत्रादीनि ददुः ॥ १४ ॥

श्लोक-१५

विश्वास-प्रस्तुतिः

ददौ कृष्णाजिनं भूमिर्दण्डं सोमो वनस्पतिः।
कौपीनाच्छादनं माता द्यौश्छत्रं जगतः पतेः॥

मूलम्

ददौ कृष्णाजिनं भूमिर्दण्डं सोमो वनस्पतिः।
कौपीनाच्छादनं माता द्यौश्छत्रं जग[^m13]तः पतेः॥ १५ ॥

अनुवाद (हिन्दी)

पृथ्वीने कृष्णमृगका चर्म, वनके स्वामी चन्द्रमाने दण्ड, माता अदितिने कौपीन और कटिवस्त्र एवं आकाशके अभिमानी देवताने वामनवेषधारी भगवान‍्को छत्र दिया॥ १५॥

वीरराघवः

तत्र 18भूमिर् भूम्य्-अधिष्ठात्री देवता18 वनस्पतिः 19वनानां पतिः19 सोमश्-चन्द्रः द्यौस् तद्-अभिमानिनी देवता ॥ १५ ॥

श्लोक-१६

विश्वास-प्रस्तुतिः

कमण्डलुं वेदगर्भः कुशान् सप्तर्षयो ददुः।
अक्षमालां महाराज सरस्वत्यव्ययात्मनः॥

मूलम्

कमण्डलुं वेदगर्भः कुशान् सप्तर्षयो ददुः।
अक्षमालां महाराज सरस्वत्य20व्ययात्मनः॥ १६ ॥

अनुवाद (हिन्दी)

परीक्षित्! अविनाशी प्रभुको ब्रह्माजीने कमण्डलु, सप्तर्षियोंने कुश और सरस्वतीने रुद्राक्षकी माला समर्पित की॥ १६॥

वीरराघवः

हे महाराज ! अव्ययात्मनः अपक्षयादि-रहित-स्वरूपस्य सरस्वती अक्ष-मालाम् अदात् ॥ १६ ॥

श्लोक-१७

विश्वास-प्रस्तुतिः

तस्मा इत्युपनीताय यक्षराट् पात्रिकामदात्।
भिक्षां भगवती साक्षादुमादादम्बिका सती॥

मूलम्

तस्मा इत्युपनीताय यक्षराट् पात्रिकामदात्।
भिक्षां भगवती साक्षादुमादादम्बिका सती॥ १७ ॥

अनुवाद (हिन्दी)

इस रीतिसे जब वामन-भगवान‍्का उपनयन-संस्कार हुआ, तब यक्षराज कुबेरने उनको भिक्षाका पात्र और सतीशिरोमणि जगज्जननी स्वयं भगवती उमाने भिक्षा दी॥ १७॥

वीरराघवः

इत्थम् उपनीयमानाय वामनाय यक्ष-राट् वैश्रवणः पात्रिकां भिक्षा-पात्रम् अदात् । भवानी भिक्षाम् अदात् ॥ १७ ॥

श्लोक-१८

विश्वास-प्रस्तुतिः

स ब्रह्मवर्चसेनैवं सभां संभावितो वटुः।
ब्रह्मर्षिगणसञ्जुष्टामत्यरोचत मारिषः॥

मूलम्

स ब्रह्मवर्चसेनै21वं सभां संभावितो वटुः।
ब्रह्मर्षिगणस22ङ्गुष्टा23मत्यरोचत मारिषः॥ १८ ॥

अनुवाद (हिन्दी)

इस प्रकार जब सब लोगोंने वटुवेषधारी भगवान‍्का सम्मान किया, तब वे ब्रह्मर्षियोंसे भरी हुई सभामें अपने ब्रह्मतेजके कारण अत्यन्त शोभायमान हुए॥ १८॥

वीरराघवः

स एवं सम्भावितो मारिषः श्रेष्ठः पूज्यः वटुः ब्रह्म-वर्चसेन 24युक्तः 25तां ब्रह्मर्षि-ग26णेन सङ्घुष्टां सभाम् अ27प्य्-अतिक्रम्य सभायाः निर्गतो व्यरोचतेत्य्-अर्थः । यद् वा रुचिर्-अत्र-व्यर्थ-गर्भः सभाम् अतीव व्यरोचयद्-इत्य्-अर्थः ॥ १८ ॥

श्लोक-१९

विश्वास-प्रस्तुतिः

समिद्धमाहितं वह्निं कृत्वा परिसमूहनम्।
परिस्तीर्य समभ्यर्च्य समिद‍्भिरजुहोद् द्विजः॥

मूलम्

समिद्धमाहितं वह्निं कृत्वा परिसमूहनम्।
परिस्तीर्य समभ्यर्च्य समिद‍्भिरजुहो28द्द्विभुः॥ १९ ॥

अनुवाद (हिन्दी)

इसके बाद भगवान‍्ने स्थापित और प्रज्वलित अग्निका कुशोंसे परिसमूहन और परिस्तरण करके पूजा की और समिधाओंसे हवन किया॥ १९॥

वीरराघवः

विभुः कश्यपः समिद्धं ज्वलन्तं 29श्रेष्ठं तं उपनय30नाग्निं परिसमूहनम् ऋजुं कृत्वा परिस्तीर्य सम्यग्-अभ्यर्च्य च समिद्भिः हुतवान् ॥ १९ ॥

श्लोक-२०

विश्वास-प्रस्तुतिः

श्रुत्वाश्वमेधैर्यजमानमूर्जितं
बलिं भृगूणामुपकल्पितैस्ततः।
जगाम तत्राखिलसारसंभृतो
भारेण गां सन्नमयन्पदे पदे॥

मूलम्

श्रुत्वाश्वमेधैर्यजमानमूर्जितं बलिं भृगूणामुपकल्पितैस्ततः।
जगाम तत्राखिलसारसंभृतो भारेण गां सन्नमयन्पदे पदे॥ २० ॥

अनुवाद (हिन्दी)

परीक्षित्! उसी समय भगवान‍्ने सुना कि सब प्रकारकी सामग्रियोंसे सम्पन्न यशस्वी बलि भृगुवंशी ब्राह्मणोंके आदेशानुसार बहुत-से अश्वमेध यज्ञ कर रहे हैं, तब उन्होंने वहाँके लिये यात्रा की। भगवान् समस्त शक्तियोंसे युक्त हैं। उनके चलनेके समय उनके भारसे पृथ्वी पग-पगपर झुकने लगी॥ २०॥

वीरराघवः

ततो भगवान् वामनो भृगूणां तैः उपकल्पितैः कारितैः अश्वमेधैः यजन्तम्-ऊर्जितं 30बलिं वैरोचनिं श्रुत्वा तत्र जगाम । कथम्-भूतः ? अखिलेन सारेण बलेन सम्भृतः पूर्णः अत एव भारेण गां भूमिं प्रति-पदं सन्नमयन् 31नम्राङ्कुर्वन् ॥ २० ॥

श्लोक-२१

विश्वास-प्रस्तुतिः

तं नर्मदायास्तट उत्तरे बले-
र्य ऋत्विजस्ते भृगुकच्छसंज्ञके।
प्रवर्तयन्तो भृगवः क्रतूत्तमं
व्यचक्षतारादुदितं यथा रविम्॥

मूलम्

तं नर्मदायास्तट उत्तरे बले32र्य ऋत्विजस्ते भृगु33वत्ससंज्ञके।
प्रवर्तयन्तो भृगवः क्रतूत्तमं व्यचक्षतारादुदितं यथा रविम्॥ २१ ॥

अनुवाद (हिन्दी)

नर्मदा नदीके उत्तर तटपर ‘भृगुकच्छ’ नामका एक बड़ा सुन्दर स्थान है। वहीं बलिके भृगुवंशी ऋत्विज् श्रेष्ठ यज्ञका अनुष्ठान करा रहे थे। उन लोगोंने दूरसे ही वामनभगवान‍्को देखा, तो उन्हें ऐसा जान पड़ा, मानो साक्षात् सूर्यदेवका उदय हो रहा हो॥ २१॥

वीरराघवः

नर्मदाया उत्तरे तटे भृगु-34वत्साख्ये क्षेत्रे क्रतूत्तमं प्रवर्तयन्तो 35ते बलेः, ऋत्विजो भृगवस् तं वामनं दूरात् व्यचक्षतापश्यन् । कथं-भूतम् ? उदितं सूर्यम् इव स्थितम् आरात् समीप एक उदितं रविमिवेति वा ॥ २१ ॥

श्लोक-२२

विश्वास-प्रस्तुतिः

त ऋत्विजो यजमानः सदस्या
हतत्विषो वामनतेजसा नृप।
सूर्यः किलायात्युत वा विभावसुः
सनत्कुमारोऽथ दिदृक्षया क्रतोः॥

मूलम्

36त ऋत्विजो यजमानः सदस्या 37हतत्विषो वामनतेजसा नृप।
सूर्यः 38किलायात्युत वा विभावसुः सनत्कुमारोऽथ दिदृक्षया क्रतोः॥ २२ ॥

अनुवाद (हिन्दी)

परीक्षित्! वामनभगवान‍्के तेजसे ऋत्विज्, यजमान और सदस्य—सब-के-सब निस्तेज हो गये। वे लोग सोचने लगे कि कहीं यज्ञ देखनेके लिये सूर्य, अग्नि अथवा सनत्कुमार तो नहीं आ रहे हैं॥ २२॥

वीरराघवः

हे नृप ! वामनस्य तेजसा अपहृत-तेजस्काः यजमानो बलिः सभ्या ऋत्विजश्-च 39भृग्वादयः सूर्यः किला ऽऽयातीत्य्-एवम्-आदि, व्यतर्कयन्न् इति शेषः । किं वा विभावसुर्-अग्निर्-आया40तीति । उत क्रतोर्-दिदृक्षया सनत्कुमार आया41तीति ॥ २२ ॥

श्लोक-२३

विश्वास-प्रस्तुतिः

इत्थं सशिष्येषु भृगुष्वनेकधा
वितर्क्यमाणो भगवान् स वामनः।
छत्रं सदण्डं सजलं कमण्डलुं
विवेश बिभ्रद्धयमेधवाटम्॥

मूलम्

इत्थं सशिष्येषु भृगुष्वनेकधा वि42तर्क्यमाणो भगवान् स वामनः।
43सदण्डछत्रं सजलं कमण्डलुं विवेश बिभ्रद्धयमेधवाटम्॥ २३ ॥

अनुवाद (हिन्दी)

भृगुके पुत्र शुक्राचार्य आदि अपने शिष्योंके साथ इसी प्रकार अनेकों कल्पनाएँ कर रहे थे। उसी समय हाथमें छत्र, दण्ड और जलसे भरा कमण्डलु लिये हुए वामनभगवान‍्ने अश्वमेध यज्ञके मण्डपमें प्रवेश किया॥ २३॥

वीरराघवः

इतीत्थं स-शिष्येषु स-यजमानेषु भृगुषु वितर्कमाणेषु 44सत्सु स भगवान् वामनः स-दण्डं छत्रं जल-पूर्णं कमण्डलुञ् च बिभ्रद्-धयमेध45वाटमश्वमेध-वाटिकां45 विवेश ॥ २३ ॥

श्लोक-२४

विश्वास-प्रस्तुतिः

मौञ्ज्या मेखलया वीतमुपवीताजिनोत्तरम्।
जटिलं वामनं विप्रं मायामाणवकं हरिम्॥

मूलम्

मौञ्ज्या मेखलया वीतमुपवीताजिनोत्तरम्।
जटिलं वामनं विप्रं मायामाणवकं हरिम्॥ २४ ॥

वीरराघवः

मौञ्ज्या मेखलया 46वीतं 47बद्ध-कटिम्-उपरि-धृतोपवीताजिनम् उपवीतोपरि-धृतम्-अजिनम्-उत्तरीयं यस्येति वा । जटिलं स-शिखं वामनाख्यम्-आत्मीय-सङ्कल्पोपात्त-माणवक-सन्निवेशं हरिं 48प्रपन्नार्ति-हरं वामनं दृष्ट्वेत्य्-उत्तरेणान्वयः48 ॥ २४ ॥

श्लोक-२५

विश्वास-प्रस्तुतिः

प्रविष्टं वीक्ष्य भृगवः सशिष्यास्ते सहाग्निभिः।
प्रत्यगृह्णन् समुत्थाय संक्षिप्तास्तस्य तेजसा॥

मूलम्

प्रविष्टं वीक्ष्य भृगवः सशिष्यास्ते सहाग्निभिः।
प्रत्यगृह्णन् समुत्थाय संक्षिप्तास्तस्य तेजसा॥ २५ ॥

अनुवाद (हिन्दी)

वे कमरमें मूँजकी मेखला और गलेमें यज्ञोपवीत धारण किये हुए थे। बगलमें मृगचर्म था और सिरपर जटा थी। इसी प्रकार बौने ब्राह्मणके वेषमें अपनी मायासे ब्रह्मचारी बने हुए भगवान‍्ने जब उनके यज्ञमण्डपमें प्रवेश किया, तब भृगुवंशी ब्राह्मण उन्हें देखकर अपने शिष्योंके साथ उनके तेजसे प्रभावित एवं निष्प्रभ हो गये। वे सब-के-सब अग्नियोंके साथ उठ खड़े हुए और उन्होंने वामनभगवान‍्का स्वागत-सत्कार किया॥ २४-२५॥

वीरराघवः

49एतं 50यज्ञ-वाटे प्रविष्टं दृष्ट्वा स-यजमाना भृगवो ऽग्निभिः सह वामनस्य तेजसा संक्षिप्ताः सङ्कुचित-प्रकाशास् सन्तः समुत्थाय प्रत्यगृह्णन् सत्कृतवन्तः ॥ २५ ॥

श्लोक-२६

विश्वास-प्रस्तुतिः

यजमानः प्रमुदितो दर्शनीयं मनोरमम्।
रूपानुरूपावयवं तस्मा आसनमाहरत्॥

मूलम्

यजमानः प्रमुदितो दर्शनीयं मनोरमम्।
रूपानुरूपावयवं तस्मा आसनमाहरत्॥ २६ ॥

अनुवाद (हिन्दी)

भगवान‍्के लघुरूपके अनुरूप सारे अंग छोटे-छोटे बड़े ही मनोरम एवं दर्शनीय थे। उन्हें देखकर बलिको बड़ा आनन्द हुआ और उन्होंने वामनभगवान‍्को एक उत्तम आसन दिया॥ २६॥

वीरराघवः

तद् एवाह - यजमान इति । रूपस्यानुरूपा अवयवा यस्य तम्-अत एव मनोरमं हृद्यम् अत एव दर्शनीयं वामनं, दृष्ट्वेति शेषः । यजमानो बलिस्-तस्मै आसनं समर्पितवान् ॥ २६ ॥

श्लोक-२७

विश्वास-प्रस्तुतिः

स्वागतेनाभिनन्द्याथ पादौ भगवतो बलिः।
अवनिज्यार्चयामास मुक्तसङ्गमनोरमम्॥

मूलम्

स्वागतेनाभि51वन्द्याथ पादौ भगवतो बलिः।
अवनिज्यार्चयामास मुक्त52सङ्गं मनोरमम्॥ २७ ॥

अनुवाद (हिन्दी)

फिर स्वागत-वाणीसे उनका अभिनन्दन करके पाँव पखारे और संगरहित महापुरुषोंको भी अत्यन्त मनोहर लगनेवाले वामनभगवान‍्की पूजा की॥ २७॥

वीरराघवः

अथ बलिस्-तं स्वागतेनाभिनन्द्य स्वागतं पृष्ट्वा तस्य भगवतः पादाद्-अवनिज्य प्रक्षाल्य मुक्त-सङ्गानां योगिनां मनस्-सुक्रीडन्तं भगवन्तं तम्-अर्चयामास ॥ २७ ॥

श्लोक-२८

विश्वास-प्रस्तुतिः

तत्पादशौचं जनकल्मषापहं
स धर्मविन्मूर्ध्न्यदधात् सुमङ्गलम्।
यद् देवदेवो गिरिशश्चन्द्रमौलि-
र्दधार मूर्ध्ना परया च भक्त्या॥

मूलम्

तत्पादशौचं 53कलिकल्मषापहं स धर्मविन्मूर्ध्न्यदधात् सुमङ्गलम्।
यद् देवदेवो गिरिशश्चन्द्रमौलिर्दधार मूर्ध्ना परया च भक्त्या॥ २८ ॥

अनुवाद (हिन्दी)

भगवान‍्के चरणकमलोंका धोवन परम मंगलमय है। उससे जीवोंके सारे पाप-ताप धुल जाते हैं। स्वयं देवाधिदेव चन्द्रमौलि भगवान् शंकरने अत्यन्त भक्तिभावसे उसे अपने सिरपर धारण किया था। आज वही चरणामृत धर्मके मर्मज्ञ राजा बलिको प्राप्त हुआ। उन्होंने बड़े प्रेमसे उसे अपने मस्तकपर रखा॥ २८॥

वीरराघवः

ततः स्व-धर्म-वित् स्वानुरूप-धर्म-ज्ञो बलिः कलि-कल्मषस्यापहन्तुः, अत एव सु-मङ्गलं तस्य भगवतः पादयोः सम्बन्धि शौचं पवित्रं प्रक्षालनोदकं मूर्ध्न्य्-अदधात् । पाद-शौचं विशिनष्टि देव-देवो ब्रह्मा, चन्द्र-मौलिः गिरिशो रुद्रश्-च परया 54उत्कृष्टया भक्त्या मूर्ध्ना यत् पाद-शौचं गङ्गा-रूपं दधार, ततः तम्-उवाचेति शेषः ॥ २८ ॥

श्लोक-२९

मूलम् (वचनम्)

बलिरुवाच

विश्वास-प्रस्तुतिः

स्वागतं ते नमस्तुभ्यं ब्रह्मन् किं करवाम ते।
ब्रह्मर्षीणां तपः साक्षान्मन्ये त्वाऽऽर्य वपुर्धरम्॥

मूलम्

स्वागतं ते नमस्तुभ्यं ब्रह्मन् किं करवा55म ते।
ब्रह्मर्षीणां तपः साक्षान्मन्ये त्वाऽऽर्य वपुर्धरम्॥ २९ ॥

अनुवाद (हिन्दी)

बलिने कहा—ब्राह्मणकुमार! आप भले पधारे। आपको मैं नमस्कार करता हूँ। आज्ञा कीजिये, मैं आपकी क्या सेवा करूँ? आर्य! ऐसा जान पड़ता है कि बड़े-बड़े ब्रह्मर्षियोंकी तपस्या ही स्वयं मूर्तिमान् होकर मेरे सामने आयी है॥ २९॥

वीरराघवः

तद् एवाह - स्वागतम् इति 56सार्द्धैश्-चतुर्भिः56 । हे ब्रह्मन् ! ते त्वया स्वागतं, तुभ्यं नमः । ते किङ्करवाम ? किङ्करा वयम् इत्य्-अर्थः, आर्य-वपुर्-धरं श्रेष्ठ-57वपुर्-धरं 58त्वा 59त्वां साक्षात् प्रत्यक्षं ब्रह्मर्षीणां तपो मन्ये तप एव 60मूर्ती-भूतं मन्ये ॥ २९ ॥

श्लोक-३०

विश्वास-प्रस्तुतिः

अद्य नः पितरस्तृप्ता अद्य नः पावितं कुलम्।
अद्य स्विष्टः क्रतुरयं यद् भवानागतो गृहान्॥

मूलम्

अद्य नः पितरस्तृप्ता अद्य नः पावितं कुलम्।
अद्य स्विष्टः क्रतुरयं यद् भवानागतो गृहान्॥ ३० ॥

अनुवाद (हिन्दी)

आज आप मेरे घर पधारे, इससे मेरे पितर तृप्त हो गये। आज मेरा वंश पवित्र हो गया। आज मेरा यह यज्ञ सफल हो गया॥ ३०॥

वीरराघवः

यत् यस्मात् भवान्-अस्माकं गृहान्-आगतस्-ततो-ऽस्माकं पितरस्-तृप्ता बभूवुः, कुलं च पवित्रम्-अभूत्, अयं क्रतुश्-च यथावद्-अनुष्ठितो बभूव ॥ ३० ॥

श्लोक-३१

विश्वास-प्रस्तुतिः

अद्याग्नयो मे सुहुता यथाविधि
द्विजात्मज त्वच्चरणावनेजनैः।
हतांहसो वार्भिरियं च भूरहो
तथा पुनीता तनुभिः पदैस्तव॥

मूलम्

अद्याग्नयो मे सुहुता यथाविधि द्विजात्मज त्वच्चरणावनेजनैः।
हतांहसो वार्भिरियं च 61भूरभूत् तथा पुनीता तनुभिः पदैस्तव॥ ३१ ॥

अनुवाद (हिन्दी)

ब्राह्मणकुमार! आपके पाँव पखारनेसे मेरे सारे पाप धुल गये और विधिपूर्वक यज्ञ करनेसे, अग्निमें आहुति डालनेसे जो फल मिलता, वह अनायास ही मिल गया। आपके इन नन्हे-नन्हे चरणों और इनके धोवनसे पृथ्वी पवित्र हो गयी॥ ३१॥

श्लोक-३२

विश्वास-प्रस्तुतिः

यद् यद् वटो वाञ्छसि तत्प्रतीच्छ मे
त्वामर्थिनं विप्रसुतानुतर्कये।
गां काञ्चनं गुणवद् धाम मृष्टं
तथान्नपेयमुत वा विप्रकन्याम्।
ग्रामान् समृद्धांस्तुरगान् गजान् वा
रथांस्तथार्हत्तम सम्प्रतीच्छ॥

मूलम्

62यद्यद्भवान् वाञ्छति62 तत्प्रतीच्छ मे त्वामर्थिनं विप्रसुतानुतर्कये।
गां काञ्चनं गुण63वद्वाऽथधाम मृष्टं तथा64न्नमथवा वा विप्रकन्याम्।
ग्रामान् समृद्धांस्तुरगान् गजान् वा 65रथोत्तमानर्हत्तम प्रतीच्छ मे65

अनुवाद (हिन्दी)

ब्राह्मणकुमार! ऐसा जान पड़ता है कि आप कुछ चाहते हैं। परम पूज्य ब्रह्मचारीजी! आप जो चाहते हों—गाय, सोना, सामग्रियोंसे सुसज्जित घर, पवित्र अन्न, पीनेकी वस्तु, विवाहके लिये ब्राह्मणकी कन्या, सम्पत्तियोंसे भरे हुए गाँव, घोड़े, हाथी, रथ—वह सब आप मुझसे माँग लीजिये। अवश्य ही वह सब मुझसे माँग लीजिये॥ ३२॥

अनुवाद (समाप्ति)

इति श्रीमद‍्भागवते महापुराणे पारमहंस्यां संहितायामष्टमस्कन्धे वामनप्रादुर्भावे बलिवामनसंवादेऽष्टादशोऽध्यायः॥ १८ ॥


  1. M,Ma ञ्चि ↩︎

  2. A,B,G,J,M,Ma,T चारु ↩︎

  3. M,Ma त श्रीर्व ↩︎

  4. A,B,G,J,M,Ma,T श्रवण ↩︎

  5. W सर्व ↩︎

  6. A,B,T ण प्र ↩︎

  7. A,B,T म ↩︎

  8. A,B,G,J,M,Ma,T तो नृप ↩︎

  9. W Omits अभूत् ↩︎

  10. Omits इति । ↩︎

  11. M,Ma भयोर्मृ ↩︎

  12. M,Ma पतयः ↩︎

  13. A,B,G,J,T पर्णा भु ↩︎

  14. H,M,Ma,V तोऽभिप्रशंसन्तो; W तः प्रशसंसुस्तं ↩︎

  15. M,Ma धाः नराः ↩︎

  16. W Omits इत्यर्थः ↩︎

  17. A,B,G,J,T अपोऽदयात् ↩︎

  18. W Omits ↩︎ ↩︎

  19. A,B,T Omit ↩︎ ↩︎

  20. M,Ma क्ष ↩︎

  21. M,Ma व ↩︎

  22. A,B,G,J,M,Ma,T ञ्जु ↩︎

  23. M,Ma मन्व ↩︎

  24. W Omits युक्तः ↩︎

  25. A,B,T Omit ता ↩︎

  26. W णम ↩︎

  27. A,B,T त्य ↩︎

  28. A,B,G,J,M,Ma,T द्विज ↩︎

  29. W Omits श्रेष्ठ तं ↩︎

  30. A,B,T याग्निं ↩︎ ↩︎

  31. A,B,T निम्रा ↩︎

  32. A,B,G,J,T ये ऋत्विजः; M,Ma सः ज्ञार्त्विज ↩︎

  33. A,B,G,J,T कच्छ संज्ञके ↩︎

  34. A,B,T कच्छा ↩︎

  35. A,B,T Omit तं ↩︎

  36. A,B,G,J,T तं ऋत्विज, M,Ma तत्रर्त्विजो ↩︎

  37. M,Ma हृत ↩︎

  38. M,Ma किमाऽऽयात्यथ ↩︎

  39. W Omits भृग्वादयः ↩︎

  40. W Omits इति ↩︎

  41. W Omits इति ↩︎

  42. W तर्कमानेषु ↩︎

  43. A,B,G,J,T छत्रं सदण्डं ↩︎

  44. A,B,T Omit सत्सु ↩︎

  45. W वाटिकां ↩︎ ↩︎

  46. W Omits वोतं ↩︎

  47. W आव ↩︎

  48. W Omits ↩︎ ↩︎

  49. W Omits एतं ↩︎

  50. A,B,T Omit यज्ञवाटे ↩︎

  51. A,B,G,J,M,Ma,T न ↩︎

  52. A,B,G,J,T, W सङ्गम ↩︎

  53. A,B,G,J,T जन ↩︎

  54. W Omits उत्कृष्ठया ↩︎

  55. H,V णि ↩︎

  56. W Omits ↩︎ ↩︎

  57. A,B,T दहधरं ↩︎

  58. W Omits त्वा ↩︎

  59. A,B,T Omit त्वा ↩︎

  60. A,B,T र्ति ↩︎

  61. A,B,G,J,T भूरहोतथा; M,Ma भूमिरद्धा ↩︎

  62. A,B,G,J,T,M,Ma,T यद् यद् वटो वाञ्छसि ↩︎ ↩︎

  63. A,B,G,J,T वद् धाम ↩︎

  64. A,B,G,J,T न्नपेयमुत, M,Ma न्नमुत या ↩︎

  65. A,B,G,J,M,Ma‚T रथांस्तथार्हत्तम सम्प्रतीच्छ ↩︎ ↩︎