[षोडशोऽध्यायः]
भागसूचना
कश्यपजीके द्वारा अदितिको पयोव्रतका उपदेश
श्लोक-१
मूलम् (वचनम्)
श्रीशुक उवाच
विश्वास-प्रस्तुतिः
एवं पुत्रेषु नष्टेषु देवमातादितिस्तदा।
हृते त्रिविष्टपे दैत्यैः पर्यतप्यदनाथवत्॥
मूलम्
एवं पुत्रेषु नष्टेषु देवमातादितिस्तदा।
हृते त्रिविष्टपे दैत्यैः पर्यतप्यदनाथवत्॥ १ ॥
अनुवाद (हिन्दी)
श्रीशुकदेवजी कहते हैं—परीक्षित्! जब देवता इस प्रकार भागकर छिप गये और दैत्योंने स्वर्गपर अधिकार कर लिया; तब देवमाता अदितिको बड़ा दुःख हुआ। वे अनाथ-सी हो गयीं॥ १॥
वीरराघवः
एवं बलेर् इन्द्राधिपत्य-प्राप्ति-प्रकारम् अभिधाय अथ भगवतो वामनाव1तार-प्रकारं प्रस्तोष्यन् तद्-उपोद्धात-रूपां कथां तावत् प्रस्तौति मुनिः - एवम् इति । इत्थं पुत्रेष्व् इन्द्रादिषु नष्टेष्व् अदृश्येषु सत्सु दैत्यैः त्रि-विष्टपे हृते च सति देव-माता अदितिः अनाथ-वत् 2असहाया इव2 पर्यतप्यत् ॥ १ ॥
श्लोक-२
विश्वास-प्रस्तुतिः
एकदा कश्यपस्तस्या आश्रमं भगवानगात्।
निरुत्सवं निरानन्दं समाधेर्विरतश्चिरात्॥
मूलम्
एकदा कश्यपस्तस्या आश्रमं भगवानगात्।
निरुत्सवं निरानन्दं समाधेर्विरतश्चिरात्॥ २ ॥
अनुवाद (हिन्दी)
एक बार बहुत दिनोंके बाद जब परम प्रभावशाली कश्यप मुनिकी समाधि टूटी, तब वे अदितिके आश्रमपर आये। उन्होंने देखा कि न तो वहाँ सुख-शान्ति है और न किसी प्रकारका उत्साह या सजावट ही॥ २॥
वीरराघवः
एवं परितप्यन्त्याम् अदित्यां कदाचिद् भगवान् कश्यपः चिरात् समाधेर् विरतः तस्या अदितेर् आश्रमम् आजगाम । कथम्-भूतम् ? निर्गतः उत्सवः यस्मात्, निर्गत आनन्दो यस्मात्, तम् ॥ २ ॥
श्लोक-३
विश्वास-प्रस्तुतिः
स पत्नीं दीनवदनां कृतासनपरिग्रहः।
सभाजितो यथान्यायमिदमाह कुरूद्वह॥
मूलम्
स पत्नीं दीनवदनां कृतासनपरिग्रहः।
3सभाजितो यथान्यायमिदमाह कुरूद्वह॥ ३ ॥
अनुवाद (हिन्दी)
परीक्षित्! जब वे वहाँ जाकर आसनपर बैठ गये और अदितिने विधिपूर्वक उनका सत्कार कर लिया, तब वे अपनी पत्नी अदितिसे—जिसके चेहरेपर बड़ी उदासी छायी हुई थी, बोले—॥ ३॥
वीरराघवः
स कश्यपः कृत आसन-परिग्रहो येन सः, यथा-न्यायं सभाजितः सम्यक् पूजितः हे कुरुद्वह । दीनं वदनं यस्यास् ताम् पत्नीम् इदं वक्ष्यमाणम् आह ॥ ३ ॥
श्लोक-४
विश्वास-प्रस्तुतिः
अप्यभद्रं न विप्राणां भद्रे लोकेऽधुनाऽऽगतम्।
न धर्मस्य न लोकस्य मृत्योश्छन्दानुवर्तिनः॥
मूलम्
अप्यभद्रं न विप्राणां भद्रे लोकेऽधु4नागवाम्।
न धर्मस्य न लोकस्य मृत्योश्छन्दानुवर्तिनः॥ ४ ॥
अनुवाद (हिन्दी)
‘कल्याणी! इस समय संसारमें ब्राह्मणोंपर कोई विपत्ति तो नहीं आयी है? धर्मका पालन तो ठीक-ठीक होता है? कालके कराल गालमें पडे़ हुए लोगोंका कुछ अमंगल तो नहीं हो रहा है?॥ ४॥
वीरराघवः
दीन-वदनाम् आलक्ष्य बहुधा विकल्पयता कश्यपेन पृष्टम् आह - अपीति सप्तभिः । अपीति प्रश्न-द्योतकम् अव्ययम् । हे भद्रे । अधुना लोके विप्राणां गवां धर्मस्य लोकस्य जनस्य, कथम्-भूतस्य मृत्योः छन्दम् इच्छाम् अनुवर्तते इति तथा तस्य च अभद्रम् अकुशलं न हि ॥ ४ ॥
श्लोक-५
विश्वास-प्रस्तुतिः
अपि वाकुशलं किञ्चिद् गृहेषु गृहमेधिनि।
धर्मस्यार्थस्य कामस्य यत्र योगो ह्ययोगिनाम्॥
अनुवाद (हिन्दी)
प्रिये! गृहस्थाश्रम तो, जो लोग योग नहीं कर सकते, उन्हें भी योगका फल देनेवाला है। इस गृहस्थाश्रममें रहकर धर्म, अर्थ और कामके सेवनमें किसी प्रकारका विघ्न तो नहीं हो रहा है?॥ ५॥
वीरराघवः
हे गृह-मेधिनि ! अपि वा किं गृहेषु धर्मादेः किञ्चिद् अकुशलम् इति काक्वा प्रस्नः । गृहान् विशिनष्टि - यत्र येषु गृहेषु अयोगिनाम् अपि योगः स्व-धर्मादिना योग-फलं भवति । यद् वा अयोगिनाम् एव योगः आसक्तिः योगिनान् तु नेत्य् अर्थः ॥ ५ ॥
श्लोक-६
विश्वास-प्रस्तुतिः
अपि वातिथयोऽभ्येत्य कुटुम्बासक्तया त्वया।
गृहादपूजिता याताः प्रत्युत्थानेन वा क्वचित्॥
मूलम्
अपि वातिथ7योह्यत्र कुटुम्बासक्तया त्वया।
गृहादपूजिता याताः प्रत्युत्थानेन वा क्वचित्॥ ६ ॥
अनुवाद (हिन्दी)
यह भी सम्भव है कि तुम कुटुम्बके भरण-पोषणमें व्यग्र रही हो, अतिथि आये हों और तुमसे बिना सम्मान पाये ही लौट गये हों; तुम खड़ी होकर उनका सत्कार करनेमें भी असमर्थ रही हो। इसीसे तो तुम उदास नहीं हो रही हो?॥ ६॥
वीरराघवः
अतिथयः आगत्य कुटुम्बासक्तया त्वया प्रत्युत्थानादिना कदाचिद् अप्य् अपूजितास् सन्तो गृहात् याता गताः किं वा ॥ ६ ॥
श्लोक-७
विश्वास-प्रस्तुतिः
गृहेषु येष्वतिथयो नार्चिताः सलिलैरपि।
यदि निर्यान्ति ते नूनं फेरुराजगृहोपमाः॥
अनुवाद (हिन्दी)
जिन घरोंमें आये हुए अतिथिका जलसे भी सत्कार नहीं किया जाता और वे ऐसे ही लौट जाते हैं, वे घर अवश्य ही गीदड़ोंके घरके समान हैं॥ ७॥
वीरराघवः
यद्य् अतिथयो ऽभ्येत्य येषु गृहेषु सलिलैर् अपि अनर्चितास् सन्तो निर्गच्छन्ति । तर्हि ते गृहाः नूनं सृगाल-नाथ-बिल-तुल्या एव ॥ ७ ॥
श्लोक-८
विश्वास-प्रस्तुतिः
अप्यग्नयस्तु वेलायां न हुता हविषा सति।
त्वयोद्विग्नधिया भद्रे प्रोषिते मयि कर्हिचित्॥
अनुवाद (हिन्दी)
प्रिये! सम्भव है, मेरे बाहर चले जानेपर कभी तुम्हारा चित्त उद्विग्न रहा हो और समयपर तुमने हविष्यसे अग्नियोंमें हवन न किया हो॥ ८॥
वीरराघवः
हे सति ! हे भद्रे ! मयि प्रोषिते प्रस्थिते सति उद्विग्न-धिया त्वया अग्नयः आहवनीयादयः त्वद्-अधीनाः हविषा वेलायाम् उदिते सूर्ये “प्रातर् जुहोति” इत्य् उक्त-प्रातर्-आदि-काले न हुताः किं वा ? ॥ ८ ॥
श्लोक-९
विश्वास-प्रस्तुतिः
यत्पूजया कामदुघान्याति लोकान्गृहान्वितः।
ब्राह्मणोऽग्निश्च वै विष्णोः सर्वदेवात्मनो मुखम्॥
मूलम्
यत्पूजया काम12दुघान्13याति लोकान्गृ[^12]हव्रतः।
ब्राह्मणोऽग्निश्च वै विष्णोः सर्वदेवात्मनो मुखम्॥ ९ ॥
अनुवाद (हिन्दी)
सर्वदेवमय भगवान्के मुख हैं—ब्राह्मण और अग्नि। गृहस्थ पुरुष यदि इन दोनोंकी पूजा करता है तो उसे उन लोकोंकी प्राप्ति होती है, जो समस्त कामनाओंको पूर्ण करनेवाले हैं॥ ९॥
वीरराघवः
14किञ्च, अग्नीन् विशिनष्टि यत्-पूजयेति । कामान् इष्टार्थान् दोग्धीति तथा तान् तया येषाम् अग्नीनां पूजया 15गृहान्वितः गृह-स्थः पुमान् पुण्य-लोकान् याति प्राप्नोति । किञ्च, ब्राह्मणो ऽग्निश् च सर्व-देवता-शरीरकस्य विष्णोर् मुखं, वै निश्चये । “ब्राह्मणो ऽस्य मुखम् आसीत्” (पु.सू. १-६) “मुखाद् इन्द्रश् चाग्निश् च” (पु.सू. १-६) इत्य्-आदि श्रुतेः इति भावः ॥ ९ ॥
श्लोक-१०
विश्वास-प्रस्तुतिः
अपि सर्वे कुशलिनस्तव पुत्रा मनस्विनि।
लक्षयेऽस्वस्थमात्मानं भवत्या लक्षणैरहम्॥
मूलम्
अपि सर्वे कुशलिनस्तव पुत्रा मनस्विनि।
लक्षयेऽस्वस्थमात्मानं भवत्या लक्षणैरहम्॥ १० ॥
अनुवाद (हिन्दी)
प्रिये! तुम तो सर्वदा प्रसन्न रहती हो; परन्तु तुम्हारे बहुत-से लक्षणोंसे मैं देख रहा हूँ कि इस समय तुम्हारा चित्त अस्वस्थ है। तुम्हारे सब लड़के तो कुशल-मंगलसे हैं न?’॥ १०॥
वीरराघवः
हे मनस्विनि ! ते सर्वे पुत्राः कुशलिनो ऽपि कुशलिन एव हि ? किम् आलक्ष्य एवं पृच्छसीत्य् अत्रा ऽऽह - भवत्या आत्मानं मनः अस्वस्थम् अप्रकृति-स्थं वदन-दैन्यादिभिर् अहं लक्षये तव चित्तम् अस्वस्थं लक्षयित्वा ऽहं पृच्छामीति भावः ॥ १० ॥
श्लोक-११
मूलम् (वचनम्)
अदितिरुवाच
विश्वास-प्रस्तुतिः
भद्रं द्विजगवां ब्रह्मन् धर्मस्यास्य जनस्य च।
त्रिवर्गस्य परं क्षेत्रं गृहमेधिन्गृहा इमे॥
मूलम्
भद्रं द्विजगवां ब्रह्मन् धर्मस्यास्य जनस्य च।
त्रिवर्गस्य परं क्षेत्रं गृहमेधिन्गृहा इमे॥ ११ ॥
अनुवाद (हिन्दी)
अदितिने कहा—भगवन्! ब्राह्मण, गौ, धर्म और आपकी यह दासी—सब सकुशल हैं। मेरे स्वामी! यह गृहस्थ-आश्रम ही अर्थ, धर्म और कामकी साधनामें परम सहायक है॥ ११॥
श्लोक-१२
विश्वास-प्रस्तुतिः
अग्नयोऽतिथयो भृत्या भिक्षवो ये च लिप्सवः।
सर्वं भगवतो ब्रह्मन्ननुध्यानान्न रिष्यति॥
मूलम्
अग्नयोऽतिथयो भृत्या भिक्षवो ये 16च लिप्सवः।
सर्वं भगवतो ब्रह्मन्ननुध्यानान्न रिष्यति॥ १२ ॥
अनुवाद (हिन्दी)
प्रभो! आपके निरन्तर स्मरण और कल्याण-कामनासे अग्नि, अतिथि, सेवक, भिक्षुक और दूसरे याचकोंका भी मैंने तिरस्कार नहीं किया है॥ १२॥
वीरराघवः
एवं 17पृष्टा 18सती अदितिः अस्वास्थ्य-कारणम् अन्यद् इति वक्तुं तत्-पृष्टम् अभद्रादिकं ना ऽस्तीत्य् आह - भद्रम् इति द्वाभ्याम् । हे ब्रह्मन् ! द्विजादीनां भद्रम् एव तथा हे गृह-मेधिन् । त्रि-वर्गस्य धर्मार्थ-काम-19रूपस्य यत् परं क्षेत्रम् उद्भव-स्थानं तद् गृहं गृहाश्रमश् च अग्नयादयः पूजेप्सवश् चेति एतत् सर्वं हे ब्रह्मन् ! भगवतस् तव अनुध्यानात् मया क्रियमाणाद् धेतोः न रिष्यति न नङ्क्ष्यति न हीयते इत्य् अर्थः ॥ ११, १२ ॥
श्लोक-१३
विश्वास-प्रस्तुतिः
को नु मे भगवन् कामो न सम्पद्येत मानसः।
यस्या भवान् प्रजाध्यक्ष एवं धर्मान् प्रभाषते॥
मूलम्
को नु मे भगवन् कामो न सम्पद्येत मानसः।
यस्या भवान् प्रजाध्यक्ष एवं धर्मान् प्रभाषते॥ १३ ॥
अनुवाद (हिन्दी)
भगवन्! जब आप-जैसे प्रजापति मुझे इस प्रकार धर्मपालनका उपदेश करते है; तब भला मेरे मनकी ऐसी कौन-सी कामना है जो पूरी न हो जाय?॥ १३॥
वीरराघवः
अनुध्यानान् न रिष्यति इत्य् एतद् एव काक्वा दर्शयति - को न्व् इति । हे भगवन् ! मे मानसो मनो-विषयः मनसा काङ्क्षितः कामः को नु न सम्पद्येत, सर्वो ऽपि कामः सम्पत्स्यत एवेत्य् अर्थः । कुतः ? यतो भवान् प्रजाध्यक्षः प्रजानां पतिस्सन् यस्या मे त्वद्-धर्म-पत्न्याः एवं-विधान् धर्मान् प्रभाषते उपदिशति । उपदेशेनैव विधान् धर्मान् त्वय्य् अनुष्ठापयति सति को नु कामो दुर्लभ इति भावः ॥ १३ ॥
श्लोक-१४
विश्वास-प्रस्तुतिः
तवैव मारीच मनःशरीरजाः
प्रजा इमाः सत्त्वरजस्तमोजुषः।
समो भवांस्तास्वसुरादिषु प्रभो
तथापि भक्तं भजते महेश्वरः॥
मूलम्
तवैव 20मारीच मनःशरीरजाः प्रजा इमाः सत्त्वरजस्तमोजुषः।
21समो भवां22स्तास्वसुरादिषु प्रभो 23तथापि भक्तं23 भजते महेश्वरः॥ १४ ॥
अनुवाद (हिन्दी)
आर्यपुत्र! समस्त प्रजा—वह चाहे सत्त्वगुणी, रजोगुणी या तमोगुणी हो—आपकी ही सन्तान है। कुछ आपके संकल्पसे उत्पन्न हुए हैं और कुछ शरीरसे। भगवन्! इसमें सन्देह नहीं कि आप सब सन्तानोंके प्रति—चाहे असुर हों या देवता—एक-सा भाव रखते हैं, सम हैं। तथापि स्वयं परमेश्वर भी अपने भक्तोंकी अभिलाषा पूर्ण किया करते हैं॥ १४॥
वीरराघवः
तर्हि किं तव चित्तास्वास्थ्य-निमित्तम् इत्य् अपेक्षायां तद् विज्ञापयितुं, तद्-अयं ना ऽपाकुर्याद् इत्य् आशङ्कया तावत् तं प्रसादयति - तवेति । हे मारीच ! सत्त्वादि-प्रधाना इमास् सर्वाः प्रजा देवाः दैत्याश् च तवैव मनसः शरीराञ् च जाताः । अतो भवान् तासु 24सुरादिषु प्रजासु यद्य् अपि समः सम-दर्शनः तथा ऽपि हे प्रभो ! महेश्वरो भगवान् भक्तं भजते ऽनुवर्तते भक्त-पक्षपाती भगवान् इत्य् अर्थः । प्रभोर् इति पाठे प्रभोः तव भक्तं महेश्वरो भवान् भजत इत्य् अर्थः ॥ १४ ॥
श्लोक-१५
विश्वास-प्रस्तुतिः
तस्मादीश भजन्त्या मे श्रेयश्चिन्तय सुव्रत।
हृतश्रियो हृतस्थानान् सपत्नैः पाहि नः प्रभो॥
मूलम्
तस्मा25दीश भजन्त्या मे श्रेयश्चिन्तय सुव्रत।
हृतश्रियो हृतस्था26नान् सपत्नैः पाहि नः 27प्रभो॥ १५ ॥
अनुवाद (हिन्दी)
मेरे स्वामी! मैं आपकी दासी हूँ। आप मेरी भलाईके सम्बन्धमें विचार कीजिये। मर्यादापालक प्रभो! शत्रुओंने हमारी सम्पत्ति और रहनेका स्थानतक छीन लिया है। आप हमारी रक्षा कीजिये॥ १५॥
वीरराघवः
तस्मात् भक्तानुभजन-स्वभावत्वात् 28त्वं त्वां भजन्त्याः मे मम श्रेयः श्रेय-उपायं चिन्तया ऽऽलोचय । हे सुव्रत ! कस् तवा ऽधुना श्रेयो-विपर्ययः तत्रा ऽऽह सपत्नैर् दैत्यैर् हृता-श्रीर् येषां, हृतानि स्थानानि येषां तान् अस्मान् अस्मत्-पुत्रान् पाहि पालय29 । 30यतः हे प्रभो ! 31पालन-समर्थस् त्वम् इत्य् अर्थः31 ॥ १५ ॥
श्लोक-१६
विश्वास-प्रस्तुतिः
परैर्विवासिता साहं मग्ना व्यसनसागरे।
ऐश्वर्यं श्रीर्यशः स्थानं हृतानि प्रबलैर्मम॥
मूलम्
परैर्विवासिता साहं मग्ना व्यसनसागरे।
ऐश्वर्यं श्रीर्यशः स्थानं हृतानि प्रबलैर्मम॥ १६ ॥
अनुवाद (हिन्दी)
बलवान् दैत्योंने मेरे ऐश्वर्य, धन, यश और पद छीन लिये हैं तथा हमें घरसे बाहर निकाल दिया है। इस प्रकार मैं दुःखके समुद्रमें डूब रही हूँ॥ १६॥
वीरराघवः
सा त्वत्-पत्नीत्वेन असम्भावित-दुःखा ऽहम् अधुना परैर् दैत्यैर् विवासिता स्व-स्थानाद् उच्चाटिता, पुत्रेषु स्वाभेदाभि32मानेना ऽहं विवासितेत्य् उक्तम् । दुःख-सागरे मग्ना ऽभवम्, अधुना प्रबलैर् दैत्यैः मम ऐश्वर्यादीन्य् अपहृतानि । तत्र ऐश्वर्यम् आधिपत्यं, श्रीः 33भोग्यादि-सम्पत्, स्थानं निवास-देशः ॥ १६ ॥
श्लोक-१७
विश्वास-प्रस्तुतिः
यथा तानि पुनः साधो प्रपद्येरन् ममात्मजाः।
तथा विधेहि कल्याणं धिया कल्याणकृत्तम॥
मूलम्
यथा तानि पुनः साधो प्रपद्येरन् ममात्मजाः।
तथा विधेहि कल्या34ण्याधिया कल्याणकृत्तम॥ १७ ॥
अनुवाद (हिन्दी)
आपसे बढ़कर हमारी भलाई करनेवाला और कोई नहीं है। इसलिये मेरे हितैषी स्वामी! आप सोच-विचारकर अपने संकल्पसे ही मेरे कल्याणका कोई ऐसा उपाय कीजिये जिससे कि मेरे पुत्रोंको वे वस्तुएँ फिरसे प्राप्त हो जायँ॥ १७॥
वीरराघवः
एतानि मत्-पुत्राः पुनर् यथा पूर्ववत् प्रतिपद्येरन् प्राप्नुयुः यथा येनोपायेन प्रपद्येरन् इति वा । तथा हे साधो ! हे कल्याण-कृच्-छ्रेष्ठ ! कल्याणधिया शुभालोचनया विधेहि कुरु ॥ १७ ॥
श्लोक-१८
मूलम् (वचनम्)
श्रीशुक उवाच
विश्वास-प्रस्तुतिः
एवमभ्यर्थितोऽदित्या कस्तामाह स्मयन्निव।
अहो मायाबलं विष्णोः स्नेहबद्धमिदं जगत्॥
अनुवाद (हिन्दी)
श्रीशुकदेवजी कहते हैं—इस प्रकार अदितिने जब कश्यपजीसे प्रार्थना की, तब वे कुछ विस्मित-से होकर बोले—‘बड़े आश्चर्यकी बात है। भगवान्की माया भी कैसी प्रबल है! यह सारा जगत् स्नेहकी रज्जुसे बँधा हुआ है॥ १८॥
वीरराघवः
एवम् इत्थम् अदित्या प्रार्थितः कः प्रजापतिः कश्यपः स्मयन्न् इव ताम् अदितिम् आह ॥ १८ ॥
श्लोक-१९
विश्वास-प्रस्तुतिः
क्व देहो भौतिकोऽनात्मा क्वचात्मा प्रकृतेः परः।
कस्य के पतिपुत्राद्या मोह एव हि कारणम्॥
मूलम्
क्व देहो भौतिकोऽनात्मा क्वचात्मा प्रकृतेः परः।
37कस्य के पतिपुत्राद्या मोह एव हि कारणम्॥ १९ ॥
अनुवाद (हिन्दी)
कहाँ यह पंचभूतोंसे बना हुआ अनात्मा शरीर और कहाँ प्रकृतिसे परे आत्मा? न किसीका कोई पति है, न पुत्र है और न तो सम्बन्धी ही है। मोह ही मनुष्यको नचा रहा है।
वीरराघवः
तद् एवा ऽऽह - अहो इति । प्रथमं तावत् पुत्र-स्नेहम् त्याजयितुं विस्मय-व्याजेन तत्त्वम् उपदिशति अहो इति सार्धेन । 38अहो विष्णोर् मायाया बलं कियत् इदं जगत् स्नेह-बद्धं पुत्रादिषु स्नेह-पाशेन बद्धम् इत्य् एतत् भौतिकः भूत-पञ्चक-परिणाम-रूपो देहः क्व ? प्रकृतेः परो भिन्न आत्मा प्रत्यग्-आत्मा क्व ? परस्परम् एवम् अत्यन्त-विलक्षणयोः देहात्मनोर् अभेदः अत्यन्तम् असम्भावित इत्य् अर्थः । एवम् असम्भावित-भेदयोर् देहात्मनोः मध्ये कस्येमे पुत्राद्याः । कस्य सम्बन्धिनः ? किम् देह39स्य ? किं वा आत्मनः ? अयम् भावः तावन् नात्मनः साक्षात् पुत्रादिभिः सम्बन्धः, अपि तु देह-द्वारा । देहस्य भौतिकत्वेन उपचयादि-विकारित्वेन च अनित्यत्वात् तत्-सम्बन्धिषु 40पुत्रादिषु स्नेहो ऽज्ञान-मूलक इति तद् एवा ऽऽह - मोह एव हि कारणम् इति । देहात्म-भ्रम एवा ऽत्र स्नेहे कारणम् इत्य् अर्थः ॥ १९ ॥
श्लोक-२०
विश्वास-प्रस्तुतिः
उपतिष्ठस्व पुरुषं भगवन्तं जनार्दनम्।
सर्वभूतगुहावासं वासुदेवं जगद्गुरुम्॥
मूलम्
उपतिष्ठस्व पुरुषं भगवन्तं जनार्दनम्।
सर्वभूतगुहावासं वासुदेवं जगद्गुरुम्॥ २० ॥
अनुवाद (हिन्दी)
प्रिये! तुम सम्पूर्ण प्राणियोंके हृदयमें विराजमान, अपने भक्तोंके दुःख मिटानेवाले जगद्गुरु भगवान् वासुदेवकी आराधना करो॥ २०॥
वीरराघवः
एवम् तत्त्वोपदेशेन अपरितुष्यन्तीम् प्रत्य् आह - उपतिष्ठस्वेति द्वाभ्याम् । वासुदेवम् उपतिष्ठस्व आराधय, वासुदेवाराधनस्य समीहित-साधनत्वम् सूचयन् तं विशिनष्टि - जगद्-गुरुम् जगत आराधकस्य लोकस्य गुरुं हितकारिणं, 41क्वा ऽधिवसन् हितं करोति ? अतो विशिनष्टि - सर्वेषां भूतानां गुहासु हृदय-कुहरेषु आवासो यस्य तम्, अनेन वासुदेव-शब्दस्य प्रवृत्ति-निमित्तं दर्शितम् । ननु, किं विशेषेण वासुदेवम् एव उपतिष्ठस्वेति वदसि ? इत्य् अतो विशिनष्टि - जनार्दनम् इति । ‘अर्द गतौ याचने च’ इति धातुः, जनैः श्रेयस्-कामैः अर्द्यते याच्यते इति 42जनार्दनः, स एव याचनीय इति भावः । तत्र हेतुं वदन् विशिनष्टि - भगवन्तं षाड्गुण्य-पूर्णं, देवतान्तरस्य दरिद्रत्वाद् इति भावः । वदान्यत्वम् आह - पुरुषम् इति । पुरु अधिकं षणोति ददातीति पुरुषः तम् । ‘षणु दाने’ इति धातोः “अन्येभ्यो ऽपि दृश्यते” इति ङः । “य आत्म-दा बल-दाः” (नृ.पू.ता.उ. २-१२) “एको बहूनां यो विदधाति कामान्” (श्वेता. उ. ६-१३) इत्य् आत्म-पर्यन्त-दातृत्वेन प्रसिद्ध इति भावः ॥ २० ॥
श्लोक-२१
विश्वास-प्रस्तुतिः
स विधास्यति ते कामान् हरिर्दीनानुकम्पनः।
अमोघा भगवद्भक्तिर्नेतरेति मतिर्मम॥
मूलम्
स विधास्यति ते कामान् हरिर्दीनानुकम्पनः।
अमोघा भग43वद्सेवानेतरेति मतिर्मम॥ २१ ॥
अनुवाद (हिन्दी)
वे बड़े दीनदयालु हैं। अवश्य ही श्रीहरि तुम्हारी कामनाएँ पूर्ण करेंगे। मेरा यह दृढ़ निश्चय है कि भगवान्की भक्ति कभी व्यर्थ नहीं होती। इसके सिवा कोई दूसरा उपाय नहीं है’॥ २१॥
वीरराघवः
पुरुष-जनार्दन-पदाभ्याम् अभिप्रेतं विशदयन्न् आह - स इति । स पुरुषो जनार्दनः ते तव कामान् विधास्यति पूरयिष्यति । अनेन उदाहृत-श्रुत्यर्थो ऽनुसंहितः । स च पुरुष-शब्द-प्रवृत्ति-निमित्त-भूत इति च दर्शितम् । न केवलं कामानां विधाता, अपि तु हरिर् आश्रितार्ति-हरश् च । ना ऽहं तम् आराधितुम् प्रभवामीति शङ्काम् अपनुदन् विशिनष्टि - दीनानुकम्पनः दीनेषु किञ्चिद्-आनुकूल्य-युक्तेषु विपुलापराधिष्व् अपि निरतिशय-कृपा-युक्तः । भगवतः पूर्ण-षाङ्गु44ण्य-युक्तस्य अवाप्त-समस्त-कामस्यैव सेवा अमोघा सफला नेतरा 45न देवतान्तर-सेवेति मम मतिः, मतम् इत्य् अर्थः, देवतान्तरस्य अनवाप्त-समस्त-कामत्वाद् इति भावः ॥ २१ ॥
श्लोक-२२
मूलम् (वचनम्)
अदितिरुवाच
विश्वास-प्रस्तुतिः
केनाहं विधिना ब्रह्मन्नुपस्थास्ये जगत्पतिम्।
यथा मे सत्यसङ्कल्पो विदध्यात् स मनोरथम्॥
मूलम्
केनाहं विधिना ब्रह्मन्नुपस्थास्ये जग46द्गुरुम्।
यथा मे सत्यसङ्कल्पो विद47ध्यात् स मनोरथम्॥ २२ ॥
अनुवाद (हिन्दी)
अदितिने पूछा—भगवन्! मैं जगदीश्वरभगवान्की आराधना किस प्रकार करूँ, जिससे वे सत्यसंकल्प प्रभु मेरा मनोरथ पूर्ण करें॥ २२॥
वीरराघवः
एवम् उपदिष्टानिष्ट-निरसनेष्ट-प्रापण-समर्थोपाया तद्-उपायानुष्ठान-प्रकार-बुभुत्सया पृच्छत्य् अदितिः - केन इति द्वाभ्याम् । हे भगवन् ! अहम् केन विधिना जगत्-पतिं भगवन्तं 48उपस्थास्ये48 भजेयम् ? यथा येन प्रकारेण भजमानाया मम स सत्य-सङ्कल्पो भगवान् मनोरथं विदध्यात् ॥ २२ ॥
श्लोक-२३
विश्वास-प्रस्तुतिः
आदिश त्वं द्विजश्रेष्ठ विधिं तदुपधावनम्।
आशु तुष्यति मे देवः सीदन्त्याः सह पुत्रकैः॥
अनुवाद (हिन्दी)
पतिदेव! मैं अपने पुत्रोंके साथ बहुत ही दुःख भोग रही हूँ। जिससे वे शीघ्र ही मुझपर प्रसन्न हो जायँ, उनकी आराधनाकी वही विधि मुझे बतलाइये॥ २३॥
वीरराघवः
हे द्विज-श्रेष्ठ! पुत्रैस् स क्लिश्यन्त्याः मम यथा च देवो भगवान् आशु तुष्यति तथा तं तद्-भजन-प्रकारात्मकं विधिम् आदिशस्व उपदिश ॥ २३ ॥
श्लोक-२४
मूलम् (वचनम्)
कश्यप उवाच
विश्वास-प्रस्तुतिः
एतन्मे भगवान् पृष्टः प्रजाकामस्य पद्मजः।
यदाह ते प्रवक्ष्यामि व्रतं केशवतोषणम्॥
मूलम्
एतन्मे भगवान् पृष्टः प्रजाकामस्य पद्मजः।
य51दाह ते प्रवक्ष्यामि व्रतं केशवतोषणम्॥ २४ ॥
अनुवाद (हिन्दी)
कश्यपजीने कहा—देवि! जब मुझे सन्तानकी कामना हुई थी, तब मैंने भगवान् ब्रह्माजीसे यही बात पूछी थी। उन्होंने मुझे भगवान्को प्रसन्न करनेवाले जिस व्रतका उपदेश किया था, वही मैं तुम्हें बतलाता हूँ॥ २४॥
वीरराघवः
एवं पुनर् आपृष्टो भगवान् कश्यपः पयो-व्रताख्यं भगवद् आराधनात्मकं कर्मोपदेक्ष्यन् तस्मिन् विस्रम्भार्थं साम्प्रदायिकत्वं वदन् तत्-कथनं प्रतिजानीते - एतद् इति । प्रजाः पुत्रान् कामयमानस्य मे मया पृष्टो भगवान् पद्मजो ब्रह्मा यत् पयो-व्रताख्यं कर्मा ऽऽह तत् केशवस्य सन्तोष-करं कर्म ते तुभ्यम् प्रवक्ष्यामि ॥ २४ ॥
श्लोक-२५
विश्वास-प्रस्तुतिः
फाल्गुनस्यामले पक्षे द्वादशाहं पयोव्रतः।
अर्चयेदरविन्दाक्षं भक्त्या परमयान्वितः॥
मूलम्
फाल्गुनस्यामले पक्षे द्वादशाहं पयो52व्रतम्।
अर्चयेदरविन्दाक्षं भक्त्या परमयान्वितः॥ २५ ॥
अनुवाद (हिन्दी)
फाल्गुनके शुक्लपक्षमें बारह दिनतक केवल दूध पीकर रहे और परम भक्तिसे भगवान् कमलनयनकी पूजा करे॥ २५॥
वीरराघवः
एवं प्रतिज्ञाय तद् एवा ऽऽह - फाल्गुनस्येत्यादिना यावद्-अध्याय-समाप्ति । फाल्गुनस्य मासस्य अमले शुक्ले पक्षे द्वादशाहं द्वादशाह-साध्यं पयो-व्रताख्यं कर्म, कर्तव्यम् इति शेषः । तेन पयो-व्रतेन परमया अव्यभिचरितया भक्त्या युक्तो ऽरविन्दाक्षम् अर्चयेत् । अन्वित इति पुं53लिङ्ग-निर्देशेन एतन् मे पद्मज आह इत्य् अनेन ते प्रवक्ष्यामीत्य् अनेन च स्त्री-पुरुष-साधारणम् एतद्-व्रतानुष्ठानम् इति सूचयति ॥ २५ ॥
श्लोक-२६
विश्वास-प्रस्तुतिः
सिनीवाल्यां मृदाऽऽलिप्य स्नायात् क्रोडविदीर्णया।
यदि लभ्येत वै स्रोतस्येतं मन्त्रमुदीरयेत्॥
मूलम्
सिनीवाल्यां मृदाऽऽलिप्य स्नायात् क्रोडविदीर्णया।
यदि लभ्येत वै स्रोतस्येतं मन्त्र54मुदीरयेत्॥ २६ ॥
अनुवाद (हिन्दी)
अमावस्याके दिन यदि मिल सके तो सूअरकी खोदी हुई मिट्टीसे अपना शरीर मलकर नदीमें स्नान करे। उस समय यह मन्त्र पढ़ना चाहिये॥ २६॥
वीरराघवः
तत्र आदौ पूर्वेद्युः कृत्यम् आह - सिनीवाल्याम् इत्य् आदिना “ब्रह्मचार्य् अथ तद्-राभ्याम्” (भाग. ८-१६-४४) इत्य् अन्तेन । दृष्टेन्दु-कलायाम् अमावास्यायां यदि लभ्येत तर्हि क्रोड-विदीर्णया अरण्य-वराहोत्खातया मृदा मृत्तिकया देहम् आलिप्य स्रोतसि नद्याम् इमं मन्त्रं वक्ष्यमाणं जपन् स्नायाद् उदीरयेद् इति तद्-आलेपन-समये एतन्-मन्त्रम् उदीरयेद् इत्य् अर्थः ॥ २६ ॥
श्लोक-२७
विश्वास-प्रस्तुतिः
त्वं देव्यादिवराहेण रसायाः स्थानमिच्छता।
उद्धृतासि नमस्तुभ्यं पाप्मानं मे प्रणाशय॥
मूलम्
त्वं देव्यादिवराहेण रसायाः स्थानमिच्छता।
उद्धृतासि नमस्तुभ्यं पाप्मानं मे प्रणाशय॥ २७ ॥
अनुवाद (हिन्दी)
हे देवि! प्राणियोंको स्थान देनेकी इच्छासे वराहभगवान्ने रसातलसे तुम्हारा उद्धार किया था। तुम्हें मेरा नमस्कार है। तुम मेरे पापोंको नष्ट कर दो॥ २७॥
वीरराघवः
मन्त्रम् एवा ऽऽह - त्वम् इति । “उद्धृता ऽसि वराहेण कृष्णेन शत-बाहुना” (मना.उ. ४-५) इति मन्त्रार्थानुवादको ऽयं मन्त्रः । हे देवि ! हे भू-दे55वते ! स्थानं तव यथा-स्थानम् इच्छता वराहेण श्री-भगवता त्वं रसायाः रसातलाद् उद्धृता ऽसि । तुभ्यं नमः मम पापं प्रणाशय इतीयं मन्त्रम् उदीरयन् मृदा ऽऽलिप्य स्नायात् ॥ २७ ॥
श्लोक-२८
विश्वास-प्रस्तुतिः
निर्वर्तितात्मनियमो देवमर्चेत् समाहितः।
अर्चायां स्थण्डिले सूर्ये जले वह्नौ गुरावपि॥
अनुवाद (हिन्दी)
इसके बाद अपने नित्य और नैमित्तिक नियमोंको पूरा करके एकाग्रचित्तसे मूर्ति, वेदी, सूर्य, जल, अग्नि और गुरुदेवके रूपमें भगवान्की पूजा करे॥ २८॥
वीरराघवः
ततो निर्वर्तितः सम्यग् अनुष्ठितः आत्म-नियमः 58सन्ध्योपासनादिर् येन तादृशः समाहित-चित्तो हरिम् अभ्यर्चयेत् । कुत्रा ऽर्चयेत् ? इत्य् अत्रा ऽऽह - अर्चयेद् इति । स्थण्डिलादिषु पञ्चस्व् अप्य् अर्चयेत्59 । तत्र स्थण्डिलं 60रङ्गवल्यादिभिः अलङ्कृता60 भूमिः, जलं विशु61द्ध-कुम्भ-सम्भृतम् ॥ २८ ॥
श्लोक-२९
विश्वास-प्रस्तुतिः
नमस्तुभ्यं भगवते पुरुषाय महीयसे।
सर्वभूतनिवासाय वासुदेवाय साक्षिणे॥
मूलम्
नमस्तुभ्यं भगवते पुरुषाय महीयसे।
सर्वभूतनिवासाय वासुदेवाय साक्षिणे॥ २९ ॥
अनुवाद (हिन्दी)
(और इस प्रकार स्तुति करे—) ‘प्रभो! आप सर्वशक्तिमान् हैं। अन्तर्यामी और आराधनीय हैं। समस्त प्राणी आपमें और आप समस्त प्राणियोंमें निवास करते हैं। इसीसे आपको ‘वासुदेव’ कहते हैं। आप समस्त चराचर जगत् और उसके कारणके भी साक्षी हैं। भगवन्! मेरा आपको नमस्कार है॥ २९॥
वीरराघवः
तत्रा ऽऽवाहने 62नव मन्त्रान् आह - नम इति । अत्रायं विवेकः - अत्र प्रधानो मन्त्रो वासुदेव-द्वादशाक्षरः वासुदेवं जगद्-गुरुम् उपतिष्ठस्व इत्य् उक्तत्वात् “गन्ध-माल्यादिभिश् चा ऽर्चेत् द्वादशाक्षर-विद्यया" (भाग. ८-१६-३९) “जुहुयान् मूल-विद्यया जपेद् अष्टोत्तरं शतम्” (भाग. ८-१६-४०) इति वक्ष्यमाणत्वाच् च । नमस् तुभ्यम् इत्य् आदयस् तु आवाहनोपचार-मन्त्रा इति । तत्रा ऽऽद्यो मन्त्रो द्वादशाक्षरार्थानुवादी भगवद्-वासुदेव-शब्दाभ्यां तत्-प्रत्यभिज्ञानात् । सर्व-भूत-निवासाय इत्य् अनेन वासुदेव-शब्द-प्रवृत्ति-निमित्तम् उक्तम्, सर्व-भूत-निवासाय, अत एव वासुदेव-शब्द-वाच्यायेत्य् अर्थः । वसतीति वासुः, वसत्य् अस्मिन्न् इति वा वासुः । ‘वस - निवासे’ इति धातोः कर्तर्य् अधिकरणे च औणादिकः । आद्ये सर्व-भूतेषु निवसत्य् अन्तर्-आत्मतयेति सर्व-भूत-निवासः तस्मै । द्वितीये तु सर्व-भूतानाम् आधेयानाम् वासुः आधार-भूतः तथा तस्मै । साक्षिणे इत्य् अनेन देव-शब्दार्थ उच्यते । साक्षी साक्षाद्-द्रष्टा सर्वं चेतना ऽचेतनाद्यात्मकं वस्तु-जातं साक्षात् पश्यन् दृश्य-धर्मैर् अस्पृष्टः साक्षीत्य् उच्यते । देव-शब्दस्या ऽप्य् अयम् एवा ऽर्थः । स्व-तेजसा दीप्यमानो हि देवः महीयसे पुरुषाय इत्य् अनेन “वेदा ऽहम् एतं पुरुषं महान्तम्” (पु.सू. २-१) इति पुरुष-सूक्त-प्रत्यभिज्ञानात् ‘तत्र चैतम्’ इत्य् एतच्-छब्देन पूर्वोक्त-जगत्-कारणत्व-तद्-उपयुक्त-गुण-पौष्कल्यवतः परामर्शात् तस्य जगत्-कारणत्वादि-गुण-जातस्य मन्त्र-प्रतिपाद्य-वासुदेव-विशेषणत्वम् अवगम्यते, तद्-एवम्-भूताय तुभ्यं नमः । सर्वत्र मन्त्रे63षु नमश्-शब्द-प्रयोगः स्व-प्रयोक्त्र्-अभिप्रायको 64ज्ञेयः ॥ २९ ॥
श्लोक-३०
विश्वास-प्रस्तुतिः
नमोऽव्यक्ताय सूक्ष्माय प्रधानपुरुषाय च।
चतुर्विंशद्गुणज्ञाय गुणसंख्यानहेतवे॥
अनुवाद (हिन्दी)
आप अव्यक्त और सूक्ष्म हैं। प्रकृति और पुरुषके रूपमें भी आप ही स्थित हैं। आप चौबीस गुणोंके जाननेवाले और गुणोंकी संख्या करनेवाले सांख्यशास्त्रके प्रवर्तक हैं। आपको मेरा नमस्कार है॥ ३०॥
वीरराघवः
यदि 67स एवम्-भूतो भगवान् सर्व-भूत-निवासः सर्व-साक्षी च भवति67 तर्हि 68सर्वैः 69कथं न दृश्यते ? इत्य् अत्रा ऽऽह - नमो ऽव्यक्तायेति । अयं मन्त्रस् तु “यत् तद् अद्रेश्यम् अग्राह्यम् अगोत्रम् अवर्णम् अचक्षुश्-श्रोत्रं तद् अपाणि-पादं नित्यं विभुं सर्व-गतं सु-सूक्ष्मं तद् अव्ययं यद् भूत-योनिं परिपश्यन्ति धीराः” (मुण्ड. ३. १-६) इत्य् उपनिषत्-प्रतिपाद्य-परमात्म-स्व-रूप-प्रकाशकः अव्यक्तादि-शब्दैर् अद्रेश्य-सूक्ष्म-भूत-योनित्व्-आदि-प्रत्यभिज्ञानात् अव्यक्ताय व्यक्तैर् इन्द्रियैश् चक्षुरादिभिः न व्यज्यते न दृश्यते इत्य् अव्यक्तः 70तथा तस्मै अद्रेश्यायेत्य् अर्थः । तत्र हेतुः सूक्ष्माय निरतिशय-सूक्ष्म-जीवान्तरात्मतया प्रवेश-योग्यत्वेन ततो ऽपि सूक्ष्माय सूक्ष्मत्व-प्रयुक्तं परिच्छिन्नत्वं वारयति - प्रधान-पुरुषायेति । 71प्रधान-पुरुषाय71 प्रकृति-पुरुष-रूपायेत्य् अर्थः । ताद्रूप्यम् अत्र प्रकृति-पुरुष-समानाधिकृतत्वं, तच् च शरीरात्म-भावन-निबन्धनं शरीर-बुद्धि-शब्दानाम् आत्म-पर्यन्तत्वाभिप्रायेणाभेद-निर्देशः । एवञ्च सर्वान्तः-प्रवेश-योग्यतया सूक्ष्मस्याप्य् आकाशस्येव प्रकृति-पुरुषान्तरात्मतया अनुप्रविष्टस्य स्व-रूपम् अपरिच्छिन्नम् एवेति भावः । प्रधान-पुरुषायेति कारणावस्था-चिद्-रूपत्वम् उक्तम् । अथ कार्यावस्था-तद्-रूपत्वम् आह - चतुर्विंश72द्-गुण-ज्ञाय गुण-भूत-चतुर्विंशति-तत्त्वाभिज्ञाय । गुण-भावो विशेषणत्वं, शरीरत्वम् इति यावत् । शरीरम् अपि हि आकृति-गुणादिवद् अपृथक्-सिद्ध-विशेषणम् एवेत्य् अभिप्रायः । अपृथक्-सिद्ध-विशेषण-विषय-बुद्धि-शब्दयोः तद्-विशेष्य-पर्यन्तत्वम् आकृत्यधिकरण-न्याय-सिद्धम् । न केवलं चतुर्विंशति-तत्त्वान्तरात्मतया तद्-रूपत्वम्, अपि तु तत्-कारणतया ऽपीत्य् आह - गुण-संख्यान-हेतव इति । गुणानां सत्त्वादीनां चतुर्विंशति-तत्त्व-रूपेण कार्यावस्थानां संख्यानं गणनं तस्य हेतवे कारण-भूताय गुणानां चतुर्विंशतिधा गणनायास् तेषाम् कार्यतापत्ति-मूलकत्वात् तस्य तत्-कारणत्वात् तद्-हेतुत्वेन संख्यान-हेतुत्वम् अपीत्य् अवगन्तव्यम् । यद् वा संख्यानं प्रमितिः, गुण-संख्यानस्य सत्त्वादि-गुणानां प्रमितेः चतुर्विंशतिधा परिणतानां सत्त्वादि-गुणानां प्रमितेः तद्-विषयक-प्रमायाः हेतवे । तत्-प्रमा-हेतुत्वञ् च तत्-कारणत्व-द्वारा इत्य् अवगन्तव्यम् । यद् वा गुण-संख्यानयोर् हेतवे । संख्यानम् अत्र व्यष्टि-प्रत्यगात्म-स्व-रूपम् अहम् इत्य् एवं सम्यक् स्वस्मै प्रकाशमानत्वात् । गुण-शब्देन गुण-कार्य-भूतं चतुर्विंशति-तत्त्वात्मकम् अचेतन-द्रव्यम् उच्यते । तयोर् हेतवे कारण-भूतायेत्य् अर्थः ॥ ३० ॥
श्लोक-३१
विश्वास-प्रस्तुतिः
नमो द्विशीर्ष्णे त्रिपदे चतुःशृङ्गाय तन्तवे।
सप्तहस्ताय यज्ञाय त्रयीविद्यात्मने नमः॥
मूलम्
नमो द्विशी73र्णे त्रिपदे चतुःशृङ्गाय तन्तवे।
सप्तहस्ताय यज्ञाय त्रयीविद्यात्मने नमः॥ ३१ ॥
अनुवाद (हिन्दी)
आप वह यज्ञ हैं, जिसके प्रायणीय और उदयनीय—ये दो कर्म सिर हैं। प्रातः, मध्याह्न और सायं—ये तीन सवन ही तीन पाद हैं। चारों वेद चार सींग हैं। गायत्री आदि सात छन्द ही सात हाथ हैं। यह धर्ममय वृषभरूप यज्ञ वेदोंके द्वारा प्रतिपादित है और इसकी आत्मा हैं स्वयं आप! आपको मेरा नमस्कार है॥ ३१॥
वीरराघवः
एवम् “यद् भूत-योनिम्” इति श्रुति-स्थ-भूत-योनि-शब्दार्थ उक्तः । प्रधान-पुरुषायेत्य्-आदि-पद-त्रयेण कार्य-कारणो-भयावस्थ प्रकृति-पुरुष-शरीरकत्वेन तत्-कारणत्वेन च रूपात्मकस्य जगतः तद्-विशेषणत्वम् उक्तम् । अथ नामात्मक-प्रपञ्चस्य तद्-बोधकत्वेन तद्-विशेषणत्वम् आह - नम इति । अयं मन्त्रः “चत्वारि शृङ्गाः त्रयो अस्य पादाः द्वे शीर्षे सप्त-हस्तासो अस्य । त्रिधा बद्धो वृषभो रोरवीति महोदेवो मर्त्यां आविवेश” (मना.उ. ८-१०) इति मन्त्र-प्रकाशित-शब्दात्मक-प्रपञ्च-विशेषण-परमात्म-स्व-रूप-प्रकाशकः तस्मिन् हि मन्त्रे शब्दात्मक-प्रपञ्चो वृषभत्वेन रूप्यते । शब्दश् च 74वर्णात्मको ध्वन्यात्मकश् चेति द्वि-विधः74 । वर्णात्मको ऽपि पुनः साध्व्-असाधु-भेदेन द्वि-विधः, साधुश् च वेद-रूपेण, तन्-मूलक-स्मृतीतिहासादि-रूपेण च द्वि-विधः । तत्र “अनादि-निधना ह्य् एषा वाग् उत्सृष्टा स्वयम्भुवा । आदौ वेदमयी नाम्रा यतस् सर्वाः प्रसूतयः । वेद-शब्देभ्य एवा ऽऽदौ देवादीनां स निर्ममे” (भारत. १२-२३८-५६) इत्य्-आद्य्-उक्त-रीत्या कृत्स्न-जगत्-सृष्टेः वेदार्थालोचन-मूलकत्वात्, वेदस्य प्राधान्यात् स च तन्-मूलक-स्मृत्यादिश् च साधु-शब्दात्मकः प्रपञ्चो वृषभत्वेना ऽस्मिन् मन्त्रे रूप्यते । तद् अयम् मन्त्रार्थः - महो देवः महान् देवः शब्दात्मको देवः । देवस्य परमात्मनो बोधकत्वाद् वा उपचाराद् देवः मर्त्यान् नश्वरान् देव-मनुष्याद्य्-अर्थान् परमात्म-शरीर-भूतान् आविवेश बोधयितुं प्रवृत्त इत्य् अर्थः । वृषभो रोरवीति प्रसिद्ध-द्वि-शृङ्ग-चतुष्पाद्-एक-मूर्ध-वृषभ-विजातीय-वृषभ-रूपः रोरवीति शब्दं करोति शब्दात्मकताम् आपन्न इत्य् अर्थः । विजातीय-वृषभत्वेन तं रूपयति - चत्वारि इति । अस्य शब्दात्मनो वृषभस्य शृङ्गाश् चत्वारि चत्वारः नामाख्यात-निपातोपसर्गाः त्रयो भूत-भविष्य-वर्तमान-कालाः पादा आख्यातादीनां भूतादि-कालोपाधिना विहितत्वाच् छब्दानाम् काल-साहचर्याच् च तेषाम् भूतादीनां पादत्वेन रूपणम् । द्वे शीर्षे प्रवृत्ति-निमित्तं तद्-आश्रयश् चेति द्वे शिरसी । सप्त विभक्तयो हस्तासः हस्ताः “आज् जसेर् असुक्” (अष्टा. ७-१-५०) इत्य् असुगागमः । त्रिधा बद्धः उरसि कण्ठे शिरसि च बद्धः, स्थान-त्रये एवं शब्दानाम् आविर्भावाद् इति भावः इति । प्रकृत-मन्त्रार्थस् तु त्रयी-विद्यात्मने, त्रयी-विद्या वेद-विद्या तद्-आत्मने तद्-विशेषणकाय । तद्-विशेषणकत्वञ् च तद्-बोधकत्व-रूपं विवक्षितम् । रूपात्मक-प्रपञ्चस्य परमात्मनो ऽपृथक्-सिद्ध-विशेषणत्वात् अपृथक्-सिद्ध-विशेषण-वाचि-शब्दानां विशेष्य-पर्यन्त-बोधकत्व-स्वाभाव्यात् निगमागमादि-शब्द-जात-बोध्यायेति फलितो ऽर्थः । “काठिन्यवान् यो बिभर्ति” (विष्णु.पु. १-१४-२८) इत्य्-आदिवत् द्वि-शीर्षत्व्-आदिकं साक्षात्-त्रयी-विद्या-विशेषणम् परमात्मनस् तु स-द्वारकं विशेषणम् इत्य् अवगन्तव्यम् । तन्तवे तनोति यज्ञादि-क्रिया-कलापं विस्तारयति विस्तृत्य प्रकाशयतीति तन्तुस् तस्मै यज्ञाय । यज्ञो विष्णुः - “यज्ञो वै विष्णुः” (तैत्ति.सं. १-५-६) इति श्रुतेः । “यज्ञाया ऽऽचरतः कर्म समग्रं प्रविलीयते” इति स्मृतौ यज्ञ-शब्दस्य विष्णौ प्रयोगाच् च । यज्ञाय विष्णु-प्रकाशकाय । पूर्वोत्तर-भागाभ्यां कर्म-ब्रह्म-प्रतिपादकायेत्य् अर्थः । केचिद् अत्र यज्ञ-रूपेण विष्णुः स्तूयते इत्य् उक्त्वा, चत्वारि शृङ्गेति वेदा वा, एतद् उक्ताः त्रयो ऽस्य पादा इति सवनानि त्रीणि, द्वे शीर्षे प्रायणीयोदयनीये सप्त हस्तासः सप्त छन्दांसि, त्रिधा बद्धः त्रेधा बद्धो मन्त्र-ब्राह्मण-कल्पैर् बद्धो वृषभो रोरवीति रोरवणं सवन-क्रमेण ऋग्भिर् यजुर्भिस् सामभिः “यथैनम् ऋग्भिः शंसन्ति यजुर्भिर् यजन्ति सामभिः स्तुवन्ति” इति यास्क-निरुक्तम् उदाहृत्य व्याचक्षते ॥ ३१ ॥
श्लोक-३२
विश्वास-प्रस्तुतिः
नमः शिवाय रुद्राय नमः शक्तिधराय च।
सर्वविद्याधिपतये भूतानां पतये नमः॥
अनुवाद (हिन्दी)
आप ही लोककल्याणकारी शिव और आप ही प्रलयकारी रुद्र हैं। समस्त शक्तियोंको धारण करनेवाले भी आप ही हैं। आपको मेरा बार-बार नमस्कार है। आप समस्त विद्याओंके अधिपति एवं भूतोंके स्वामी हैं। आपको मेरा नमस्कार॥ ३२॥
वीरराघवः
तद् एवं नाम-रूपात्मक-जगद्-अन्तरात्मत्वेन तत्-कारणत्वेन च प्रकृत-कर्माराध्यस्य वासुदेवस्य तद्-विशेषणकत्वम् उक्तम् । ननु, जगत्-सृष्ट्यादि-कर्तृत्वं ब्रह्म-रुद्रादि-गतं न वासुदेव-गतम् इत्य्-आशङ्कायां यद् ब्रह्मादि-गतं जगत्-स्रष्टृत्वादिकं तद्-अन्तरात्मतया ऽनुप्रविष्टस्य तच्-छरीरकस्य तद्-द्वारा तस्यैव विशेषणम् इत्य् अभिप्रायेण तद्-रूपत्वम् उच्यते - नमश्-शिवायेति 76श्लोक-द्वयेन76 । तत्र शिवत्व्-आदि-धर्माणां प्रतर्दनाधिकरण-न्यायेन इन्द्र-द्वारा त्वाष्ट्र-हन्तृत्व्-आदीनाम् इव रुद्र-ब्रह्म-शरीरकस्य परमात्मनः भू77तानीति स-द्वारक-विशेषणत्वम् अवगन्तव्यम् । शक्ति-धराय अम्बिका-पतये इत्य् अर्थः ॥ ३२ ॥
श्लोक-३३
विश्वास-प्रस्तुतिः
नमो हिरण्यगर्भाय प्राणाय जगदात्मने।
योगैश्वर्यशरीराय नमस्ते योगहेतवे॥
मूलम्
नमो हिरण्यगर्भाय प्राणाय जगदात्मने।
योगैश्वर्यशरीराय नमस्ते योगहेतवे॥ ३३ ॥
अनुवाद (हिन्दी)
आप ही सबके प्राण और आप ही इस जगत्के स्वरूप भी हैं। आप योगके कारण तो हैं ही स्वयं योग और उससे मिलनेवाला ऐश्वर्य भी आप ही हैं। हे हिरण्यगर्भ! आपके लिये मेरे नमस्कार॥ ३३॥
वीरराघवः
हिरण्य-गर्भाय चतुर्-मुख-रूपेणा ऽवस्थिताय प्राणायति सर्वाणि भूतानीति प्राणः तस्मै । “को ह्य् एवा ऽन्यात् कः प्राण्याद् यद् एष आकाश आनन्दो न स्यात्” (तैत्ति. उ. २-७) इति श्रुतेः । प्राण-शरीरकत्वाद् वा प्राणः जगद्-अन्तरात्मने ब्रह्मादि-स्तम्ब-पर्यन्त-जगद्-अन्तरात्मत्वम् एव तत्-समानाधिकृति-निमित्तम् इति भावः । योगैश्वर्य-शरीराय योगैश्वर्य-निर्वाहकाय तन् निर्वाहकत्वम् योग-स्मृति-प्रणेतृत्व-रूप-कारणत्वेनेत्याह योग-हेतवे योग-स्मृति-कर्त्रे इत्य् अर्थः । इदम् विशेषण-द्वयम् साक्षाच्-चतुर्मुखस्य, तद्-द्वारा तु परमात्मन इत्य् अवगन्तव्यम् ॥ ३३ ॥
श्लोक-३४
विश्वास-प्रस्तुतिः
नमस्त आदिदेवाय साक्षिभूताय ते नमः।
नारायणाय ऋषये नराय हरये नमः॥
मूलम्
नमस्त आदिदेवाय 78देवदेवाय ते नमः।
नारायणाय ऋषये नराय हरये नमः॥ ३४ ॥
अनुवाद (हिन्दी)
आप ही आदिदेव हैं। सबके साक्षी हैं। आप ही नरनारायण ऋषिके रूपमें प्रकट स्वयं भगवान् हैं। आपको मेरा नमस्कार॥ ३४॥
वीरराघवः
उक्त-विशेषण-सामर्थ्य-लब्धैर् अन्यैर् अप्य् असाधारण-धर्मैः विशिंषन् नमस्करोति मन्त्रः नमस् ते इति आदि-देवाय ब्रह्म-रु79द्रादि-देवानाम् अपि आदि-भूताय कारण-भूतायेत्य् अर्थः । अयम् उक्त-सर्व-कारणत्व-सामर्थ्य-लब्धो ऽर्थः । शब्दार्थस् तु आदिश् चा ऽसौ देवः तस्मा इति । अत एव देवानाम् अपि देवाय अधिपतये स्व-तेजसा दीप्यमानानां ब्रह्मादि-देवानाम् अपि अन्तरात्मतया दीप्यमानायेति वा । नारायणाय नाराणां प्राप्याय प्रापकाय आधाराय च नाराय नित्याय ऋषये सर्वज्ञाय । यद् वा, नारायणाय ऋषये नराय च नर-नारायण-ऋषि-रूपेणावतीर्णाय हरये आश्रितार्ति-हन्त्रे ॥ ३४ ॥
श्लोक-३५
विश्वास-प्रस्तुतिः
नमो मरकतश्यामवपुषेऽधिगतश्रिये।
केशवाय नमस्तुभ्यं नमस्ते पीतवाससे॥
मूलम्
नमो मरकतश्यामवपुषेऽधिगतश्रिये।
केशवाय नमस्तुभ्यं नमस्ते पीतवाससे॥ ३५ ॥
अनुवाद (हिन्दी)
आपका शरीर मरकतमणिके समान साँवला है। समस्त सम्पत्ति और सौन्दर्यकी देवी लक्ष्मी आपकी सेविका हैं। पीताम्बरधारी केशव! आपको मेरा बार-बार नमस्कार॥ ३५॥
वीरराघवः
मरकत-वद् इन्द्र-नील-वत् श्यामं वपुर् यस्य अधिगता नित्य-संश्लिष्टा श्रीर्-महा-लक्ष्मीर् येन तस्मै । केशवादि-द्वादश-मूर्तीनां उपलक्षकः केशव-शब्दः केशवादि-द्वादश-मूर्ति-रूपेणावस्थितायेत्य् अर्थः । पिशङ्गं वासो 80वस्त्रं यस्य तस्मै ॥ ३५ ॥
श्लोक-३६
विश्वास-प्रस्तुतिः
त्वं सर्ववरदः पुंसां वरेण्य वरदर्षभ।
अतस्ते श्रेयसे धीराः पादरेणुमुपासते॥
मूलम्
त्वं सर्ववरदः पुंसां वरेण्य वरदर्षभ।
अतस्ते 81श्रेयसे धीराः पादरेणुमुपासते॥ ३६ ॥
अनुवाद (हिन्दी)
आप सब प्रकारके वर देनेवाले हैं। वर देनेवालोंमें श्रेष्ठ हैं। तथा जीवोंके एकमात्र वरणीय हैं। यही कारण है कि धीर विवेकी पुरुष अपने कल्याणके लिये आपके चरणोंकी रजकी उपासना करते हैं॥ ३६॥
वीरराघवः
हे वरेण्य ! अनेन गायत्री-प्रतिपाद्यत्वम् सूचितम् । हे वरद-श्रेष्ठ ! त्वम् एव यतः सर्व-वरदः ततः तवैव पाद-रेणुम् इष्ट-प्राप्तये धीरा उपासते सेवन्ते ॥ ३६ ॥
श्लोक-३७
विश्वास-प्रस्तुतिः
अन्ववर्तन्त यं देवाः श्रीश्च तत्पादपद्मयोः।
स्पृहयन्त इवामोदं भगवान् मे प्रसीदताम्॥
अनुवाद (हिन्दी)
जिनके चरणकमलोंकी सुगन्ध प्राप्त करनेकी लालसासे समस्त देवता और स्वयं लक्ष्मीजी भी सेवामें लगी रहती हैं, वे भगवान् मुझपर प्रसन्न हों’॥ ३७॥
वीरराघवः
श्रीर् लक्ष्मीः देवाः ब्रह्मादयश् च यत्-पाद-पद्मयोर् आमोदं स्पृहयन्तः कामयमाना इव यम् अनुसृतवन्तः स भगवान् पूर्ण-षाड्गुण्यो वासुदेवो मह्यं प्रसीद83ताम् ॥ ३७ ॥
श्लोक-३८
विश्वास-प्रस्तुतिः
एतैर्मन्त्रैर्हृषीकेशमावाहनपुरस्कृतम्।
अर्चयेच्छ्रद्धया युक्तः पाद्योपस्पर्शनादिभिः॥
मूलम्
एतैर्मन्त्रैर्हृषीकेशमावाहनपुर84स्कृतम्।
अर्चयेच्छ्रद्धया युक्तः पाद्योपस्पर्शनादिभिः॥ ३८ ॥
अनुवाद (हिन्दी)
प्रिये! भगवान् हृषीकेशका आवाहन पहले ही कर ले। फिर इन मन्त्रोंके द्वारा पाद्य, आचमन आदिके साथ श्रद्धापूर्वक मन लगाकर पूजा करे॥ ३८॥
वीरराघवः
इत्य् एतैर् मन्त्रैर् आवाह85नेन पुरस्कृतं सन्निधापितम् हृषीकेशं 86पाद्योपस्पर्शनं पाद्य-समर्पणं तद्-आदिर् येषां तैः आसनार्घ्यै । आदि-शब्देन ग्राह्ये 87पाठ-क्रमस् त्व् अविवक्षितः आसनार्घ्य-पाद्यैर् अर्चयेद् इत्य् अर्थः ॥ ३८ ॥
श्लोक-३९
विश्वास-प्रस्तुतिः
अर्चित्वा गन्धमाल्याद्यैः पयसा स्नपयेद् विभुम्।
वस्त्रोपवीताभरणपाद्योपस्पर्शनैस्ततः।
गन्धधूपादिभिश्चार्चेद् द्वादशाक्षरविद्यया॥
मूलम्
88अर्चयित्वा गन्धमाल्यैः88 पयसा 89स्नापयेद् विभुम्।
वस्त्रोपवीताभरणपाद्योपस्पर्शनैस्ततः।
गन्धधूपादिभिश्चार्चेद् द्वादशाक्षरविद्यया॥ ३९ ॥
अनुवाद (हिन्दी)
गन्ध, माला आदिसे पूजा करके भगवान्को दूधसे स्नान करावे। उसके बाद वस्त्र, यज्ञोपवीत, आभूषण, पाद्य, आचमन, गन्ध, धूप आदिके द्वारा द्वादशाक्षर मन्त्रसे भगवान्की पूजा करे॥ ३९॥
वीरराघवः
एवम् एतैर् अर्चित्वा गन्ध-माल्यैः गन्ध-पुष्पैस् सह पयसा गन्धादि-सहितेन क्षीरेण शुद्ध-जलेन च विभुं वासुदेवं स्नापयेद् 90इत्य् अर्थः । ततो वस्त्रादिभिर् अभ्यर्च्य गन्धादिभिर् अर्चेत् । आदि-शब्देन दीप-मधु-पर्काचमनानि ग्राह्याणि । द्वादशाक्षर-विद्ययेति पूर्वोत्तरान्वयि आसनाद्य्-उपचाराश् चा ऽनयैव कार्याः ॥ ३९ ॥
श्लोक-४०
विश्वास-प्रस्तुतिः
शृतं पयसि नैवेद्यं शाल्यन्नं विभवे सति।
ससर्पिः सगुडं दत्त्वा जुहुयान्मूलविद्यया॥
मूलम्
91शृतं पयसि नैवेद्यं शाल्यन्नं विभवे सति।
ससर्पिः सगुडं दत्त्वा जुहुयान्मूलविद्यया॥ ४० ॥
अनुवाद (हिन्दी)
यदि सामर्थ्य हो तो दूधमें पकाये हुए तथा घी और गुड़ मिले हुए शालिके चावलका नैवेद्य लगावे और उसीका द्वादशाक्षर मन्त्रसे हवन करे॥ ४०॥
वीरराघवः
तथा तथैव विद्यया विभवे सति पयसि क्षीरे 92शृतं पक्वं शाल्यन्नं स-सर्पिः 93घृतेन सहितं92 स-गुडञ् च नैवेद्यं दत्त्वा समर्प्य उक्त-द्वादशाक्षर-विद्यया जुहुयात् ॥ ४० ॥
श्लोक-४१
विश्वास-प्रस्तुतिः
निवेदितं तद् भक्ताय दद्याद् भुञ्जीत वा स्वयम्।
दत्त्वाऽऽचमनमर्चित्वा ताम्बूलं च निवेदयेत्॥
मूलम्
निवेदितं 94तद् भक्ताय दद्याद् भुञ्जीत वा स्वयम्।
दत्त्वाऽऽचमनमर्चित्वा ताम्बूलं च निवेदयेत्॥ ४१ ॥
अनुवाद (हिन्दी)
उस नैवेद्यको भगवान्के भक्तोंमें बाँट दे या स्वयं पा ले। आचमन और पूजाके बाद ताम्बूल निवेदन करे॥ ४१॥
वीरराघवः
95ततः यद् भगवते निवेदितम् अन्नं पायसं तत् सति लाभे भोक्त्रे ब्राह्मणाय दद्यात्, नो चेत् स्वयं वा भुञ्जीत । तत आचमनं दत्त्वा ताम्बूलं निवेदयेत् समर्पयेत् ॥ ४१ ॥
श्लोक-४२
विश्वास-प्रस्तुतिः
जपेदष्टोत्तरशतं स्तुवीत स्तुतिभिः प्रभुम्।
कृत्वा प्रदक्षिणं भूमौ प्रणमेद् दण्डवन्मुदा॥
मूलम्
जपेदष्टोत्तरशतं 96स्तुवीत स्तु96तिभिः प्रभुम्।
कृत्वा प्रदक्षि97णं भूमौ प्रणमेद् दण्डवन्मुदा॥ ४२ ॥
अनुवाद (हिन्दी)
एक सौ आठ बार द्वादशाक्षर मन्त्रका जप करे और स्तुतियोंके द्वारा भगवान्का स्तवन करे। प्रदक्षिणा करके बड़े प्रेम और आनन्दसे भूमिपर लोटकर दण्डवत्-प्रणाम करे॥ ४२॥
वीरराघवः
ततो द्वादशाक्षरं मन्त्रम् अष्टोत्तर-शतं जपेत् । स्तोत्रैः 98वैदिक-तान्त्रिक-स्तुतिभिः98 भगवन्तं स्तुवीत । ततः प्रदक्षिणं कृत्वा दण्डवत् भूमौ मुदा हर्षेण प्रणमेत् ॥ ४२ ॥
श्लोक-४३
विश्वास-प्रस्तुतिः
कृत्वा शिरसि तच्छेषां देवमुद्वासयेत् ततः।
द्व्यवरान्भोजयेद् विप्रान् पायसेन यथोचितम्॥
मूलम्
कृत्वा शिरसि तच्छे99षं देवमुद्वासयेत् ततः।
द्व्यवरान्भोजयेद् विप्रान् पायसेन यथोचितम्॥ ४३ ॥
अनुवाद (हिन्दी)
निर्माल्यको सिरसे लगाकर देवताका विसर्जन करे। कम-से-कम दो ब्राह्मणोंको यथोचित रीतिसे खीरका भोजन करावे॥ ४३॥
श्लोक-४४
विश्वास-प्रस्तुतिः
भुञ्जीत तैरनुज्ञातः शेषं सेष्टः सभाजितैः।
ब्रह्मचार्यथ तद्रात्र्यां श्वोभूते प्रथमेऽहनि॥
मूलम्
भुञ्जीत तैरनुज्ञातः 100शेषं सेष्टः100 सभाजितैः।
ब्रह्मचार्यथ तद्रात्र्यां श्वोभूते प्रथमेऽहनि॥ ४४ ॥
वीरराघवः
तच्-छे101षां निर्माल्यं पुष्पादिकं शिरसि धृत्वा ततो भगवन्तम् उद्वासयेत् । द्वाव्-अवरौ येषां तान् विप्रान् यथा-विधि पायसेन भोजयेत् द्व्यवरान् इत्य् अनेन असति 102सम्भवे द्वाव् अपि 103वा भोजयेत्, न त्व् एकम् इति विवक्षितम् । ततः सम्यक् पूजितैः तैर् विप्रैर् अनुज्ञातः सेष्टः बन्धुभिस् सहितः शेषं शिष्टम् अन्नादिकं भुञ्जीत । अथ तद्-रात्र्यां ब्रह्मचारी स्त्री-सङ्ग-रहितः, शयीतेति शेषः । अथ प्रथमे ऽहनि श्वो-भूते प्रभाते ॥ ४३-४४ ॥
श्लोक-४५
विश्वास-प्रस्तुतिः
स्नातः शुचिर्यथोक्तेन विधिना सुसमाहितः।
पयसा स्नापयित्वार्चेद् यावद्व्रतसमापनम्॥
अनुवाद (हिन्दी)
दक्षिणा आदिसे उनका सत्कार करे। इसके बाद उनसे आज्ञा लेकर अपने इष्ट-मित्रोंके साथ बचे हुए अन्नको स्वयं ग्रहण करे। उस दिन ब्रह्मचर्यसे रहे और दूसरे दिन प्रातःकाल ही स्नान आदि करके पवित्रतापूर्वक पूर्वोक्त विधिसे एकाग्र होकर भगवान्की पूजा करे। इस प्रकार जबतक व्रत समाप्त न हो, तबतक दूधसे स्नान कराकर प्रतिदिन भगवान्की पूजा करे॥ ४४-४५॥
वीरराघवः
स्नातः शुचिः समाहित-चित्तो यथोक्तेन विधानेन पयसा स्नापयन्, भगवन्तम् इति शेषः । 106स्नपन-ग्रहणम् आह्वानादीनाम् अप्य् उपलक्षणम् यावद्-व्रत-समाप्ति एवम् अभ्यर्चयेद् इत्य् अर्थः ॥ ४५ ॥
श्लोक-४६
विश्वास-प्रस्तुतिः
पयोभक्षो व्रतमिदं चरेद् विष्ण्वर्चनादृतः।
पूर्ववज्जुहुयादग्निं ब्राह्मणांश्चापि भोजयेत्॥
मूलम्
पयो107भक्षव्रतमिदं चरेद् विष्ण्वर्चनादृतः।
पूर्ववज्जुहुयादग्निं ब्राह्मणांश्चापि भोजयेत्॥ ४६ ॥
अनुवाद (हिन्दी)
भगवान्की पूजामें आदर-बुद्धि रखते हुए केवल पयोव्रती रहकर यह व्रत करना चाहिये। पूर्ववत् प्रतिदिन हवन और ब्राह्मण भोजन भी कराना चाहिये॥ ४६॥
वीरराघवः
पयः क्षीरम् एव भक्ष आहारो यस्य सः, 108विष्णोर् अर्चने108 आदर-युक्त इदं व्रतं कुर्यात् । पूर्ववद् अग्नौ जुहुयात्, विप्रांश् च भोजयेत् ॥ ४६ ॥
श्लोक-४७
विश्वास-प्रस्तुतिः
एवं त्वहरहः कुर्याद् द्वादशाहं पयोव्रतः।
हरेराराधनं होममर्हणं द्विजतर्पणम्॥
मूलम्
एवं त्वहरहः कुर्याद् द्वादशाहं पयो109व्रतम्।
हरेराराधनं होममर्हणं द्विजतर्पणम्॥ ४७ ॥
अनुवाद (हिन्दी)
इस प्रकार पयोव्रती रहकर बारह दिनतक प्रतिदिन भगवान्की आराधना, होम और पूजा करे तथा ब्राह्मण-भोजन कराता रहे॥ ४७॥
श्लोक-४८
विश्वास-प्रस्तुतिः
प्रतिपद्दिनमारभ्य यावच्छुक्लत्रयोदशी।
ब्रह्मचर्यमधःस्वप्नं स्नानं त्रिषवणं चरेत्॥
अनुवाद (हिन्दी)
फाल्गुन शुक्ल प्रतिपदासे लेकर त्रयोदशीपर्यन्त ब्रह्मचर्यसे रहे, पृथ्वीपर शयन करे और तीनों समय स्नान करे॥ ४८॥
वीरराघवः
एवम् अहर्-अहः द्वादश-दिन-पर्यन्तं स्वयं पयो-भक्षः हरेर् आराधनम् द्विज-भोजनम् तद्-अर्हणं ब्रह्मचर्यम् अधश्-शयनं त्रि-काल-स्नानञ् च इत्य् एतत् सर्वं यावच्-छुक्ल-त्रयोदशी-पर्यन्तं कुर्यात् । ‘द्वादशाहं पयो-व्रतम्’ इति पाठे द्वादश-दिन-साध्यम् पयो-व्रताख्यं कर्म हरेः आराधनादि-रूपं चरेद् इत्य् अर्थः ॥ ४७, ४८ ॥
श्लोक-४९
विश्वास-प्रस्तुतिः
वर्जयेदसदालापं भोगानुच्चावचांस्तथा।
अहिंस्रः सर्वभूतानां वासुदेवपरायणः॥
मूलम्
वर्जयेदसदा112लापं भोगानुच्चावचांस्तथा।
अहिंस्रः सर्वभूतानां वासुदेवपरायणः॥ ४९ ॥
अनुवाद (हिन्दी)
झूठ न बोले। पापियोंसे बात न करे। पापकी बात न करे। छोटे-बड़े सब प्रकारके भोगोंका त्याग कर दे। किसी भी प्राणीको किसी प्रकारसे कष्ट न पहुँचावे। भगवान्की आराधनामें लगा ही रहे॥ ४९॥
वीरराघवः
अथ वर्ज्यान् आह - वर्जयेत् इति । नाना-विधान् असद्भिः आलापान् वर्जयेत् । यदा वा असद्-आलापान् तथेन्द्रियान्तर-व्यापारान् असतः त्यजेद् इत्य् अर्थः । तथा सर्व-भूत-सम्बन्धि-हिंसा-रहितः वासुदेवानुसन्धान-परो भवेत् ॥ ४९ ॥
श्लोक-५०
विश्वास-प्रस्तुतिः
त्रयोदश्यामथो विष्णोः स्नपनं पञ्चकैर्विभोः।
कारयेच्छास्त्रदृष्टेन विधिना विधिकोविदैः॥
मूलम्
त्रयोदश्यामथो विष्णोः 113स्नपनं पञ्चकै113र्विभोः।
कारयेच्छास्त्रदृष्टेन विधिना विधिकोविदैः॥ ५० ॥
अनुवाद (हिन्दी)
त्रयोदशीके दिन विधि जाननेवाले ब्राह्मणोंके द्वारा शास्त्रोक्त विधिसे भगवान् विष्णुको पंचामृतस्नान करावे॥ ५०॥
वीरराघवः
एवं द्वादशसु दिनेष्व् अतीतेषु अथ त्रयोदश्यां पञ्चभिर् अमृतैः साधनैश् चतुर्भिः ऋत्विग्भिः आचार्येण चेति पञ्चभिर् वा शास्त्रोक्तेन विधिना तद्-अभिज्ञैः प्रयोज्य-कर्तृभिः विष्णोः स्नपनं कारयेत् ॥ ५० ॥
श्लोक-५१
विश्वास-प्रस्तुतिः
पूजां च महतीं कुर्याद् वित्तशाठ्यविवर्जितः।
चरुं निरूप्य पयसि शिपिविष्टाय विष्णवे॥
मूलम्
पूजां च महतीं कुर्याद् वित्तशाठ्यविवर्जितः।
चरुं निरूप्य पयसि शिपिविष्टाय विष्णवे॥ ५१ ॥
अनुवाद (हिन्दी)
उस दिन धनका संकोच छोड़कर भगवान्की बहुत बड़ी पूजा करनी चाहिये और दूधमें चरु(खीर) पकाकर विष्णुभगवान्को अर्पित करना चाहिये॥ ५१॥
श्लोक-५२
विश्वास-प्रस्तुतिः
शृतेन तेन पुरुषं यजेत सुसमाहितः।
नैवेद्यं चातिगुणवद् दद्यात्पुरुषतुष्टिदम्॥
अनुवाद (हिन्दी)
अत्यन्त एकाग्रचित्तसे उसी पकाये हुए चरुके द्वारा भगवान्का यजन करना चाहिये और उनको प्रसन्न करनेवाला गुणयुक्त तथा स्वादिष्ट नैवेद्य अर्पण करना चाहिये॥ ५२॥
वीरराघवः
वित्त-लोभम् अकुर्वाणो विष्णोर् महतीं सर्वोपचार-युक्तां पूजां कुर्यात् । क्षीरे चरुं हविः शिपिविष्ट-विष्णु-देवताकं कारयित्वा, शिपिविष्टो निरतिशय-तेजो-युक्तः सु-समाहित-चित्तः परम-पुरुषं पुरुष-सूक्तेन षोडश-ऋग्भिः यजेत होमेन तम् आराधयेद् इत्य् अर्थः । ततः परम-पुरुष-प्रीति-करं षड्-रसोपेतं नैवेद्यं भगवते समर्पयेद् 116इत्य् अर्थः ॥ ५१, ५२ ॥
श्लोक-५३
विश्वास-प्रस्तुतिः
आचार्यं ज्ञानसम्पन्नं वस्त्राभरणधेनुभिः।
तोषयेदृत्विजश्चैव तद्विद्ध्याराधनं हरेः॥
मूलम्
आचार्यं ज्ञानसम्पन्नं वस्त्राभरणधेनुभिः।
तोषयेदृत्विजश्चैव 117तद्धि ह्याराधनं हरेः॥ ५३ ॥
अनुवाद (हिन्दी)
इसके बाद ज्ञानसम्पन्न आचार्य और ऋत्विजोंको वस्त्र, आभूषण और गौ आदि देकर सन्तुष्ट करना चाहिये। प्रिये! इसे भी भगवान्की ही आराधना समझो॥ ५३॥
वीरराघवः
ततो वस्त्रादिभिर् ज्ञान-सम्पन्नम् आचार्यं यथा-वित्तम् द्विजांश् च तोषयेत् । हि यस्मात् तद्-आचार्य-द्विज-तोषणं विष्णोर् एवा ऽऽराधनम् भवति तस्मात् तांस् तोषयेद् इत्य् अर्थः ॥ ५३ ॥
श्लोक-५४
विश्वास-प्रस्तुतिः
भोजयेत् तान् गुणवता सदन्नेन शुचिस्मिते।
अन्यांश्च ब्राह्मणाञ्छक्त्या ये च तत्र समागताः॥
मूलम्
भोजयेत् तान् गुणवता सदन्नेन शुचिस्मिते।
अन्यांश्च ब्राह्मणा118न्युक्त्यान् ये च तत्र समागताः॥ ५४ ॥
अनुवाद (हिन्दी)
प्रिये! आचार्य और ऋत्विजोंको शुद्ध, सात्त्विक और गुणयुक्त भोजन कराना ही चाहिये; दूसरे ब्राह्मण और आये हुए अतिथियोंको भी अपनी शक्तिके अनुसार भोजन कराना चाहिये॥ ५४॥
वीरराघवः
गुणवता षड्-रस-युक्तेना ऽन्नेन हे शुचि-स्मिते ! तान् पूजितान् आचार्य-ब्राह्मणान् ये चा ऽन्ये तत्र समागतास् तांश् च युक्तान् भोक्तुं योग्यान् भोजयेत् ॥ ५४ ॥
श्लोक-५५
विश्वास-प्रस्तुतिः
दक्षिणां गुरवे दद्यादृत्विग्भ्यश्च यथार्हतः।
अन्नाद्येनाश्वपाकांश्च प्रीणयेत्समुपागतान्॥
मूलम्
दक्षिणां गुरवे दद्यादृत्विग्भ्यश्च यथार्हतः।
अन्नाद्येनाश्व119पाकेभ्यः प्रीणयेत्समुपागतान्॥ ५५ ॥
वीरराघवः
ततो गुरवे ऋत्विग्भ्यश् च स्व-वित्तानुसारेण दक्षिणां दद्यात् । श्वपाक-पर्यन्तेभ्यः समागतान् सर्वान् अन्नादिभिस् तोषयेत् ॥ ५५ ॥
श्लोक-५६
विश्वास-प्रस्तुतिः
भुक्तवत्सु च सर्वेषु दीनान्धकृपणेषु च।
विष्णोस्तत्प्रीणनं विद्वान् भुञ्जीत सह बन्धुभिः॥
मूलम्
भुक्त120वत्स्वथ 121सर्वेषु दीनान्धकृप122णादिषु।
विष्णोस्तत्प्रीणनं विद्वान् भुञ्जीत सह बन्धुभिः॥ ५६ ॥
अनुवाद (हिन्दी)
गुरु और ऋत्विजोंको यथायोग्य दक्षिणा देनी चाहिये। जो चाण्डाल आदि अपने-आप वहाँ आ गये हों, उन सभीको तथा दीन, अंधे और असमर्थ पुरुषोंको भी अन्न आदि देकर सन्तुष्ट करना चाहिये। जब सब लोग खा चुकें, तब उन सबके सत्कारको भगवान्की प्रसन्नताका साधन समझते हुए अपने भाई-बन्धुओंके साथ स्वयं भोजन करे॥ ५५-५६॥
वीरराघवः
एवं दीनादिष्व् अपि भुक्तवत्सु तत्-सत्कारं विष्णोर् एव तोष-करं जानन् स्वयम् अपि बन्धुभिस् सह भुञ्जीत ॥ ५६ ॥
श्लोक-५७
विश्वास-प्रस्तुतिः
नृत्यवादित्रगीतैश्च स्तुतिभिः स्वस्तिवाचकैः।
कारयेत्तत्कथाभिश्च पूजां भगवतोऽन्वहम्॥
मूलम्
123नृत्यवादित्रगीतैश्च स्तुतिभिः स्वस्तिवा124चकैः।
कारयेत्तत्कथाभिश्च पूजां भगवतोऽन्वहम्॥ ५७ ॥
अनुवाद (हिन्दी)
प्रतिपदासे लेकर त्रयोदशीतक प्रतिदिन नाच-गान, बाजे-गाजे, स्तुति, स्वस्तिवाचन और भगवत्कथाओंसे भगवान्की पूजा करे-करावे॥ ५७॥
वीरराघवः
आद्य्-अन्त-दिन-द्वयं मध्ये द्वादश इत्य् एवं चतुर्दशस्व् अहस्सु नृत्तादिभिस् सह भगवतः पूजाम् कारयेत् ॥ ५७ ॥
श्लोक-५८
विश्वास-प्रस्तुतिः
एतत्पयोव्रतं नाम पुरुषाराधनं परम्।
पितामहेनाभिहितं मया ते समुदाहृतम्॥
मूलम्
एतत्पयोव्रतं नाम पुरुषाराधनं परम्।
पितामहेनाभिहितं 125मया ते समुदाहृतम्॥ ५८ ॥
अनुवाद (हिन्दी)
प्रिये! यह भगवान्की श्रेष्ठ आराधना है। इसका नाम है ‘पयोव्रत’। ब्रह्माजीने मुझे जैसा बताया था, वैसा ही मैंने तुम्हें बता दिया॥ ५८॥
वीरराघवः
तद् एवं पयो-व्रताख्यं कर्म उपदिश्य पुनर्-विश्वासायोक्तं साम्प्रदायिकत्वं स्मारयन् निगमयन् अनेन भगवन्तम् आराधयेत्य् आह - एतद् इति । पुरुषः परम-पुरुष आराध्यते येन तत् तथा । परं श्रेष्ठम् एतत् पयो-व्रतं नाम प्रसिद्धम् मह्यम् पितामहेनोपदिष्टम् मम, मया च तुभ्यं सम्यग् अभिहितम् ॥ ५८ ॥
श्लोक-५९
विश्वास-प्रस्तुतिः
त्वं चानेन महाभागे सम्यक्चीर्णेन केशवम्।
आत्मना शुद्धभावेन नियतात्मा भजाव्ययम्॥
अनुवाद (हिन्दी)
देवि! तुम भाग्यवती हो। अपनी इन्द्रियोंको वशमें करके शुद्ध भाव एवं श्रद्धापूर्ण चित्तसे इस व्रतका भलीभाँति अनुष्ठान करो और इसके द्वारा अविनाशी भगवान्की आराधना करो॥ ५९॥
वीरराघवः
हे महा-भागे ! त्वम् अपि सम्यग् अनुष्ठितेन अनेन पयो-व्रतेन विशुद्धः भावो भक्तिर् यस्मिन् तेन आत्मना मनसा भजनीयम् अव्ययं केशवं भज आराधय ॥ ५९ ॥
श्लोक-६०
विश्वास-प्रस्तुतिः
अयं वै सर्वयज्ञाख्यः सर्वव्रतमिति स्मृतम्।
तपःसारमिदं भद्रे दानं चेश्वरतर्पणम्॥
मूलम्
अयं वै सर्वयज्ञाख्यः सर्वव्रत128मिति स्मृतम्।
तपःसारमिदं भद्रे दानं चेश्वरतर्पणम्॥ ६० ॥
अनुवाद (हिन्दी)
कल्याणी! यह व्रत भगवान्को सन्तुष्ट करनेवाला है, इसलिये इसका नाम है ‘सर्वयज्ञ’ और ‘सर्वव्रत’। यह समस्त तपस्याओंका सार और मुख्य दान है॥ ६०॥
वीरराघवः
प्रकृतं 129व्रतं स्तौति - अयम् इति । 130सर्व-यज्ञाख्यो ऽपि व्रत-रूपो यज्ञः इदं व्रतं सर्व-व्रतं स्मृतम्130 । सर्व-यज्ञ-व्रत-तुल्यम् इदम् 131एकं व्रतम् इत्य् अर्थः । किञ्च, हे भद्रे ! सर्व-तपस्-सार-तुल्यं तथा सर्व-दान-तुल्यञ् च इदं व्रतं कुतः ? च-शब्दो हेत्व्-अर्थः । च यतः 132हेतोर् इदम् ईश्वर-तर्पणम् ईश्वरः तर्प्यते ऽनेनेति 133तत् तथा ईश्वर-तृप्ति-करत्वेन सर्व-यज्ञादि-सम-कक्ष्यम् इत्य् अर्थः ॥ ६० ॥
श्लोक-६१
विश्वास-प्रस्तुतिः
त एव नियमाः साक्षात्त एव च यमोत्तमाः।
तपो दानं व्रतं यज्ञो येन तुष्यत्यधोक्षजः॥
मूलम्
त एव नियमाः साक्षात्त एव च 134क्रतूत्तमाः।
135तपो दानं व्रतं यज्ञो येन तुष्यत्यधोक्षजः135॥ ६१ ॥
अनुवाद (हिन्दी)
जिनसे भगवान् प्रसन्न हों—वे ही सच्चे नियम हैं, वे ही उत्तम यम हैं, वे ही वास्तवमें तपस्या, दान, व्रत और यज्ञ हैं॥ ६१॥
वीरराघवः
यम-नियमादयो ऽपि ईश्वर-तोष-करा एव सफलाः, अन्ये तु व्यर्था एवेत्य् आह - त एवेति । येन नियमादिना ऽधोक्षजः तुष्यति, त एव नियमादि-शब्द-वाच्याः अन्ये त्व् आभास-रूपा व्यर्था एवेत्य् अर्थः ॥ ६१ ॥
श्लोक-६२
विश्वास-प्रस्तुतिः
तस्मादेतद्व्रतं भद्रे प्रयता श्रद्धया चर।
भगवान् परितुष्टस्ते वरानाशु विधास्यति॥
मूलम्
तस्मादे136तद्व्रतं भद्रे प्रयता श्रद्धया 137यज।
भगवान् परितुष्टस्ते 138वरमाशु विधास्यति॥ ६२ ॥
अनुवाद (हिन्दी)
इसलिये देवि! संयम और श्रद्धासे तुम इस व्रतका अनुष्ठान करो। भगवान् शीघ्र ही तुमपर प्रसन्न होंगे और तुम्हारी अभिलाषा पूर्ण करेंगे॥ ६२॥
अनुवाद (समाप्ति)
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामष्टमस्कन्धेऽदितिपयोव्रतकथनं नाम षोडशोऽध्यायः॥ १६ ॥
वीरराघवः
तस्मात् सर्व-यज्ञादिभिस् तुल्यत्वात् ईश्वर-तोषकत्वाच् च, हे भद्रे ! समाहिता त्वं श्रद्धया एतद्-व्रतम् अनुतिष्ठ, तेन तुष्टो भगवांस् तवा ऽऽशु वरान् दास्यति ॥ ६२ ॥
इति श्रीमद्-भागवते अष्टम-स्कन्धे श्री-वीर-राघव-विदुषा-लिखितायाम् भागवत-चन्द्र-चन्द्रिकायाम् व्याख्यायाम् षोडशो ऽध्यायः ॥ १६ ॥
-
A,B,T तारं ↩︎
-
H,V सम्भावितो ↩︎
-
A,B,G,J,M,Ma,T नाऽऽगतम् ↩︎
-
M,Ma किं वा ↩︎
-
M,Ma नाम् ↩︎
-
A,B,G,J,M,Ma,T योऽभ्येत्य ↩︎
-
W योऽनर्चि ↩︎
-
M,Ma प्रेत ↩︎
-
M,Ma अथा ↩︎
-
A,B,G,J,M,Ma,T स्तु ↩︎
-
W दुहा ↩︎
-
M,Ma यान्ति ↩︎
-
W Omits किञ्च ↩︎
-
W Omits गृहान्वित ↩︎
-
W बलीप्सवः ↩︎
-
W adds आ ↩︎
-
A,B,T Omit सती ↩︎
-
A,B,T मस्य ↩︎
-
H,V हे देव! ↩︎
-
M,Ma मनोरथं ता ↩︎
-
A,B,G,J,T तास्वसु ↩︎
-
A,B,T असु ↩︎
-
M,Ma दंश ↩︎
-
H,M,Ma,V,W नाः स ↩︎
-
H,V प्रजाः ↩︎
-
W Omits त्वं ↩︎
-
A,B,T add इत्यर्थः ↩︎
-
W Omits यतः ↩︎
-
A,B,T प्रायेण ↩︎
-
A,B,T भोगा ↩︎
-
A,B,G,J,M,Ma,T णं ↩︎
-
A,B,G,J,M,Ma,T स्मय ↩︎
-
H,V,W add कश्यप उवाच ↩︎
-
W कश्येमे ↩︎
-
A,B,T Omit अहो ↩︎
-
W adds सम्बन्धिनः ↩︎
-
A,B,T Omit पुत्रादिषु ↩︎
-
W क्वाऽव ↩︎
-
A,B,T Omit जनार्दनः ↩︎
-
A,B,G,J,M,Ma,T वद्भक्तिर्ने ↩︎
-
W ण्यस्य ↩︎
-
A,B,T Omit न ↩︎
-
A,B,G,J,M,Ma,T त्पतिम् ↩︎
-
M,Ma धाति ↩︎
-
W शस्व ↩︎
-
H,V व! ↩︎
-
M,Ma देहं ते ↩︎
-
A,B,G,J,M,Ma,T व्रतः ↩︎
-
A,B,T Omit लिङ्ग ↩︎
-
H,V मुदाहरेत् ↩︎
-
A,T वि! ते ↩︎
-
H,M,Ma,V निव ↩︎
-
A,B,G,J,M,Ma,T अर्चायां ↩︎
-
W सन्ध्यौ ↩︎
-
W adds इत्यर्थः ↩︎
-
A,B,T द्धं ↩︎
-
W Omits नव ↩︎
-
A,B,T Omit त्र ↩︎
-
W Omits ज्ञेयः ↩︎
-
H,V,W श गु ↩︎
-
M,Ma स्था ↩︎
-
W Omits सर्व ↩︎
-
W कि ↩︎
-
W Omits तथा ↩︎
-
W गु ↩︎
-
M,Ma,W र्षे ↩︎
-
W Omits भूतानीति ↩︎
-
A,B,G,J,T साक्षीभूताय ↩︎
-
A,B,T द्रादीना ↩︎
-
W Omits वस्त्रं ↩︎
-
M,Ma तपसा ↩︎
-
W तात् । ↩︎
-
M,Ma स्सरम् ↩︎
-
A,B,T नपु ↩︎
-
A,B,T पाद्याऽऽचमनं ↩︎
-
W Omits पाठ ↩︎
-
A,B,G,J,T अर्चित्वा गन्धमाल्याद्यै, M,Ma अर्चित गन्धमाल्याद्यैः ↩︎ ↩︎
-
A,B,G,J,T स्न ↩︎
-
W Omits इत्यर्थः ↩︎
-
W श्रितं ↩︎
-
W Omits ↩︎
-
H,V तु भक्ताय ; W तु तद्भोक्त्रे ↩︎
-
W Omits ततः ↩︎
-
M,Ma णां ↩︎
-
A,B,G,J,T षां ↩︎
-
W षं ↩︎
-
A‚B,J Omit विभवे ↩︎
-
A,B,T Omit वा ↩︎
-
M,Ma प्रातः ↩︎
-
W पयन्नर्चेत् ↩︎
-
W स्ना ↩︎
-
A,B,G,J,M,Ma,T भक्षो ↩︎
-
A,B,G,J,T,W व्रतः । ↩︎
-
M,Ma चतुर्दशी ↩︎
-
M,Ma स्वापं ↩︎
-
W लापान् ↩︎
-
A,B,G,J,M,Ma,T श्रुतेन ↩︎
-
A,G,J,T ति ; B,M,Ma पि ↩︎
-
W Omits इत्यर्थः ↩︎
-
A,B,G,J,M,Ma,T तद्विद्ध्या ↩︎
-
A,B,G,J,M,Ma,T च्छक्त्या ↩︎
-
A,B,G,J,M,Ma,T पाकांश्च ↩︎
-
A,B,G,J,M,Ma,T भुक्तवत्सु च ↩︎
-
M,Ma विप्रेषु ↩︎
-
A,B,G,J,T णेषु च ↩︎
-
A,B,G,J,M,Ma,T नृत्य ↩︎
-
M,Ma बनैः ↩︎
-
M,Ma मम ↩︎
-
A,B,G,J,M,Ma,T सम्यक् चीर्णेन ↩︎
-
M,Ma भजनीयं ↩︎
-
M,Ma मिदं ↩︎
-
A,B,T Omit व्रतं ↩︎
-
A,B,T पयो ↩︎
-
W Omits हेताः ↩︎
-
A,B,T Omit तत् ↩︎
-
A,B,G,J,M,Ma,T यमोत्तमाः ↩︎
-
M,Ma वं व्रतं ↩︎
-
A,B,G,J,M,Ma,T चर ↩︎
-
A,B,G,J,M,Ma,T वरानाशु ↩︎