[पञ्चदशोऽध्यायः]
भागसूचना
राजा बलिकी स्वर्गपर विजय
श्लोक-१
मूलम् (वचनम्)
1विष्णुरात उवाच
विश्वास-प्रस्तुतिः
बलेः पदत्रयं भूमेः कस्माद्धरिरयाचत।
भूत्वेश्वरः कृपणवल्लब्धार्थोऽपि बबन्ध तम्॥
मूलम्
बलेः पदत्रयं भूमेः कस्माद्धरिरयाचत।
2भूतेश्वरः कृपणवल्लब्धार्थोऽपि बबन्ध तम्॥ १ ॥
अनुवाद (हिन्दी)
राजा परीक्षित् ने पूछा—भगवन्! श्रीहरि स्वयं ही सबके स्वामी हैं। फिर उन्होंने दीन-हीनकी भाँति राजा बलिसे तीन पग पृथ्वी क्यों माँगी? तथा जो कुछ वे चाहते थे, वह मिल जानेपर भी उन्होंने बलिको बाँधा क्यों?॥ १॥
वीरराघवः
एवं मन्वन्तराण्य् आकर्ण्य “दत्त्वेमां याचमानाय विष्णवे यः पद-त्रयम्” (भाग ८-१३-१३) इति सङ्ग्रहेणोक्तं, हरेर् वामन-3रूपस्य चरित्रं विस्तरेण बुभुत्सुः पृच्छति राजा - बलेर् इति द्वाभ्याम् । हरिः स्वयम् ईश्वरः अवाप्त-समस्त-कामो भूत्वा कृपणवत् कस्माद् धेतोः बलेः सकाशाद् भूमेः पद-त्रयम् अयाचत? लब्धार्थो ऽपि याच्ञया लब्ध-पद-त्रयो ऽपि कस्माद् धेतोः तं बलिं बबन्ध ? ॥ १ ॥
श्लोक-२
विश्वास-प्रस्तुतिः
एतद् वेदितुमिच्छामो महत् कौतूहलं हि नः।
यज्ञेश्वरस्य पूर्णस्य बन्धनं चाप्यनागसः॥
मूलम्
एतद् वेदितुमिच्छामो महत् कौतूहलं हि नः।
यज्ञेश्वरस्य पूर्णस्य बन्धनं 4चाप्यनागसः॥ २ ॥
अनुवाद (हिन्दी)
मेरे हृदयमें इस बातका बड़ा कौतूहल है कि स्वयं परिपूर्ण यज्ञेश्वरभगवान्के द्वारा याचना और निरपराधका बन्धन—ये दोनों ही कैसे सम्भव हुए? हमलोग यह जानना चाहते हैं॥ २॥
वीरराघवः
एतद् याच्ञा-बन्धनादिकं हरेः कर्म-वेदितुम् इच्छामो वयम् अत्रैतच्-छ्रुवणे नो ऽस्माकं परम् अधिकं 5कुतूहलं वर्तते । एतच्-छब्द-निर्दिष्टम् आह पूर्णस्य अवाप्त-समस्त-कामस्य यज्ञेश्वरस्य भगवतः, कर्तरि षष्टी । यज्ञेश्वरेणा ऽनागसो निरपराध6स्य बलेः बन्धनं, चकाराद् याचनं च ॥ २ ॥
श्लोक-३
मूलम् (वचनम्)
श्रीशुक उवाच
विश्वास-प्रस्तुतिः
पराजितश्रीरसुभिश्च हापितो
हीन्द्रेण राजन्भृगुभिः स जीवितः।
सर्वात्मना तानभजद् भृगून्बलिः
शिष्यो महात्मार्थनिवेदनेन॥
मूलम्
पराजितश्रीरसुभिश्च हापि7तस्त्विन्द्रेण राजन्भृगुभिः स जीवितः।
सर्वात्मना तानभजद् भृगून्बलिः शिष्यो 8महात्मार्थनिवेदनेन॥ ३ ॥
अनुवाद (हिन्दी)
श्रीशुकदेवजीने कहा—परीक्षित्! जब इन्द्रने बलिको पराजित करके उनकी सम्पत्ति छीन ली और उनके प्राण भी ले लिये, तब भृगुनन्दन शुक्राचार्यने उन्हें अपनी संजीवनी विद्यासे जीवित कर दिया। इसपर शुक्राचार्यजीके शिष्य महात्मा बलिने अपना सर्वस्व उनके चरणोंपर चढ़ा दिया और वे तन-मनसे गुरुजीके साथ ही समस्त भृगुवंशी ब्राह्मणोंकी सेवा करने लगे॥ ३॥
वीरराघवः
9एवम् आपृष्टः सविस्तरं तच्-चरित्रम् आह मुनिर् नवभिर् अध्यायैः । तत्र तावद् बलेः त्रिलोकीम् अपहर्तुम् उपायान्तरम् अपश्यन् याच्ञां कृतवान् इति वक्तुं तावद् बलेः गुरु-सेवा-बलेन स्वर्ग-प्राप्ति-क्रमम् आह - पराजितश्रीर् इत्यादिना यावद्-अध्याय-समाप्ति । हे राजन्! इन्द्रेण दैवासु10रे युद्धे पराजिता 11गृहीता श्रीः 12जयलक्ष्मीर् यस्य सः असुभिः प्राणैश् च हापितः त्याजितः । पुनर् भृगुभिः 13शुक्रादिभिः जीवितः जीवनं प्रापितो भृगूणां शिष्यो बलिः 14तान् भृगून् एव सर्वात्मना करण-त्रयैक्येन महात्मा उदारमना 15अर्थ-निवेदनेन15 धन-समर्पणेन 16न केवलं शुष्क-भक्त्येत्य् अर्थः । अभजद् आराधितवान्16 ॥ ३ ॥
श्लोक-४
विश्वास-प्रस्तुतिः
तं ब्राह्मणा भृगवः प्रीयमाणा
अयाजयन्विश्वजिता त्रिणाकम्।
जिगीषमाणं विधिनाभिषिच्य
महाभिषेकेण महानुभावाः॥
मूलम्
तं ब्राह्मणा भृगवः प्रीयमाणा अयाजयन्विश्वजिता त्रि17णाकम्।
जिगीषमाणं विधिनाभिषिच्य महाभिषेकेण महानुभावाः॥ ४ ॥
अनुवाद (हिन्दी)
इससे प्रभावशाली भृगुवंशी ब्राह्मण उनपर बहुत प्रसन्न हुए। उन्होंने स्वर्गपर विजय प्राप्त करनेकी इच्छावाले बलिका महाभिषेककी विधिसे अभिषेक करके उनसे विश्वजित् नामका यज्ञ कराया॥ ४॥
वीरराघवः
तं भजन्तं त्रिणाकं स्वर्गं जेतुम् इच्छन्तं बलिं महानुभावा ब्राह्मणा भृगवः प्रीयमाणास् सन्तः विश्वजिता यागेना ऽयाजयन् । किं कृत्वा ? महाभिषेकेण बह्वृच-ब्राह्मण प्रसिद्धेना ऽभिषिच्य ॥ ४ ॥
श्लोक-५
विश्वास-प्रस्तुतिः
ततो रथः काञ्चनपट्टनद्धो
हयाश्च हर्यश्वतुरङ्गवर्णाः।
ध्वजश्च सिंहेन विराजमानो
हुताशनादास हविर्भिरिष्टात्॥
मूलम्
ततो रथः काञ्चनपट्ट18बद्धो हयाश्च हर्यश्वतुरङ्गवर्णाः।
ध्वजश्च सिंहेन विराजमानो हुताशनादास हविर्भि19रिष्टात्॥ ५ ॥
अनुवाद (हिन्दी)
यज्ञकी विधिसे हविष्योंके द्वारा जब अग्निदेवताकी पूजा की गयी, तब यज्ञकुण्डमेंसे सोनेकी चद्दरसे मढ़ा हुआ एक बड़ा सुन्दर रथ निकला। फिर इन्द्रके घोड़ों-जैसे हरे रंगके घोड़े और सिंहके चिह्नसे युक्त रथपर लगानेकी ध्वजा निकली॥ ५॥
वीरराघवः
ततो विश्वजिद्-यागे हविर्भिर् इष्टाद् धुताशनाद् रथादय आसन् । तत्र तावत् काञ्चन-परिकर-बद्धो रथ आविर् बभूव । ततो हर्य्-अश्वस्य इन्द्रस्य तुरङ्गाणाम् इव वर्णो हरितो येषां ते हया उद्बभूवुः ततस् सिंहेन विराजमानो ध्वजः ॥ ५ ॥
श्लोक-६
विश्वास-प्रस्तुतिः
धनुश्च दिव्यं पुरटोपनद्धं
तूणावरिक्तौ कवचं च दिव्यम्।
पितामहस्तस्य ददौ च माला-
मम्लानपुष्पां जलजं च शुक्रः॥
मूलम्
धनुश्च दिव्यं पुरटोपनद्धं तूणावरिक्तौ कवचं च दिव्यम्।
पितामहस्तस्य ददौ च मालामम्लान20पद्मां जलजं च शुक्रः॥ ६ ॥
अनुवाद (हिन्दी)
साथ ही सोनेके पत्रसे मढ़ा हुआ दिव्य धनुष, कभी खाली न होनेवाले दो अक्षय तरकश और दिव्य कवच भी प्रकट हुए। दादा प्रह्लादजीने उन्हें एक ऐसी माला दी, जिसके फूल कभी कुम्हलाते न थे तथा शुक्राचार्यने एक शंख दिया॥ ६॥
वीरराघवः
21ततः पुरटोपनद्धं काञ्चन-परिकर-बद्धं धनुर् अरिक्तौ अक्षयौ तूणौ इषुधी दिव्यं कवचञ् चा ऽऽसन् । पितामहः प्रह्लादस् तस्य बलेः, सम्प्रदानस्य सम्बन्ध-विवक्षया षष्ठी । तस्मै अम्लानानि पद्मानि यस्यां तां मालां ददौ, शुक्रः जलजं शङ्खं ददौ इत्य् अनुषङ्गः ॥ ६ ॥
श्लोक-७
विश्वास-प्रस्तुतिः
एवं स विप्रार्जितयोधनार्थ-
स्तैः कल्पितस्वस्त्ययनोऽथ विप्रान्।
प्रदक्षिणीकृत्य कृतप्रणामः
प्रह्रादमामन्त्र्य नमश्चकार॥
मूलम्
एवं स विप्रार्जितयोधनार्थस्तैः कल्पितस्वस्त्ययनोऽथ विप्रान्।
प्रदक्षिणीकृत्य कृतप्रणामः प्रह्रादमामन्त्र्य नमश्चकार॥ ७ ॥
अनुवाद (हिन्दी)
इस प्रकार ब्राह्मणोंकी कृपासे युद्धकी सामग्री प्राप्त करके उनके द्वारा स्वस्तिवाचन हो जानेपर राजा बलिने उन ब्राह्मणोंकी प्रदक्षिणा की और नमस्कार किया। इसके बाद उन्होंने प्रह्लादजीसे सम्भाषण करके उनके चरणोंमें नमस्कार किया॥ ७॥
वीरराघवः
एवं विप्रैः भृगुभिः अर्जितः सम्पादितो योधनार्थो युद्ध-परिकरो यस्य स बलिस् तैर् विप्रैः कल्पितं कृतं स्वस्त्ययनं मङ्गल-वाचनादिकं यस्य तादृशो ऽथ विप्रान् परिक्रम्य तेभ्यः कृतः प्रणामो येन सः प्रह्लादम् आमन्त्र्य पृष्ट्वा 22तस्मै नमश् चकार ॥ ७ ॥
श्लोक-८
विश्वास-प्रस्तुतिः
अथारुह्य रथं दिव्यं भृगुदत्तं महारथः।
सुस्रग्धरोऽथ संनह्य धन्वी खड्गी धृतेषुधिः॥
अनुवाद (हिन्दी)
फिर वे भृगुवंशी ब्राह्मणोंके दिये हुए दिव्य रथपर सवार हुए। जब महारथी राजा बलिने कवच धारण कर धनुष, तलवार, तरकश आदि शस्त्र ग्रहण कर लिये और दादाकी दी हुई सुन्दर माला धारण कर ली, तब उनकी बड़ी शोभा हुई॥ ८॥
वीरराघवः
अथ भृगुभिः दत्तं दिव्यम् अनर्घं रथम् आरुह्य स बलिः रराजेत्य् अन्वयः । कथम्भूतः ? स्रग्धरः मालाधरः सुसन्नद्धः कवची धन्वी धनुर्धरः धृतः इषुधिः येन सः ॥ ८ ॥
श्लोक-९
विश्वास-प्रस्तुतिः
हेमाङ्गदलसद्बाहुः स्फुरन्मकरकुण्डलः।
रराज रथमारूढो धिष्ण्यस्थ इव हव्यवाट्॥
मूलम्
हेमाङ्गदलसद्बाहुः स्फुरन्मकरकुण्डलः।
रराज रथमारूढो धिष्ण्यस्थ इव हव्यवाट्॥ ९ ॥
अनुवाद (हिन्दी)
उनकी भुजाओंमें सोनेके बाजूबंद और कानोंमें मकराकृति कुण्डल जगमगा रहे थे। उनके कारण रथपर बैठे हुए वे ऐसे सुशोभित हो रहे थे, मानो अग्निकुण्डमें अग्नि प्रज्वलित हो रही हो॥ ९॥
वीरराघवः
हेमाङ्गदाभ्यां लसन्तौ बाहू यस्य स्फुरती मकर-कुण्डले यस्य तथाभूतो रथम् आरूढो रराज । क इव ? धिष्ण्यस्थः वने प्रज्वलितः हव्यवाट्-अग्निर् इव कुण्डस्थः आहवनीय इवेति वा ॥ ९ ॥
श्लोक-१०
विश्वास-प्रस्तुतिः
तुल्यैश्वर्यबलश्रीभिः स्वयूथैर्दैत्ययूथपैः।
पिबद्भिरिव खं दृग्भिर्दहद्भिः परिधीनिव॥
मूलम्
तुल्यैश्वर्य24बलश्रीभिः 25स्वयूथैर्दैत्ययूथपैः।
पिबद्भिरिव खं दृग्भिः 26दहद्भिः परिधीनिव॥ १० ॥
अनुवाद (हिन्दी)
उनके साथ उन्हींके समान ऐश्वर्य, बल और विभूतिवाले दैत्यसेनापति अपनी-अपनी सेना लेकर हो लिये। ऐसा जान पड़ता था मानो वे आकाशको पी जायँगे और अपने क्रोधभरे प्रज्वलित नेत्रोंसे समस्त दिशाओंको, क्षितिजको भस्म कर डालेंगे॥ १०॥
वीरराघवः
दैत्य-यूथपैर् वृतः स्वृद्धां इन्द्र-पुरीं ययौ इत्य् अन्वयः । कथम्भूतैः तुल्यम्-ऐश्वर्यं बलं श्रीश् च येषां तैः सयूथैः 27ससैन्यैः दृग्भिः खम् अन्तरिक्षं पिबद्भिर् इव परिधीन् दिशो दहद्भिर् इव स्थितैः ॥ १० ॥
श्लोक-११
विश्वास-प्रस्तुतिः
वृतो विकर्षन् महतीमासुरीं ध्वजिनीं विभुः।
ययाविन्द्रपुरीं स्वृद्धां कम्पयन्निव रोदसी॥
मूलम्
वृतो विकर्षन् महतीमासुरीं ध्वजिनीं विभुः।
ययाविन्द्रपु28रीमृद्धां कम्पयन्निव रोदसी॥ ११ ॥
अनुवाद (हिन्दी)
राजा बलिने इस बहुत बड़ी आसुरी सेनाको लेकर उसका युद्धके ढंगसे संचालन किया तथा आकाश और अन्तरिक्षको कँपाते हुए सकल ऐश्वर्योंसे परिपूर्ण इन्द्रपुरी अमरावतीपर चढ़ाई की॥ ११॥
वीरराघवः
कथम्भूतस् सन् विभुः समर्थः महतीम् आसुरीं ध्वजिनीं सेनां विकर्षन् प्रस्थापयन् रोदसी द्यावा-पृथिव्यौ कम्पयन् इव ॥ ११ ॥
श्लोक-१२
विश्वास-प्रस्तुतिः
रम्यामुपवनोद्यानैः श्रीमद्भिर्नन्दनादिभिः।
कूजद्विहङ्गमिथुनैर्गायन्मत्तमधुव्रतैः॥
मूलम्
रम्यामुपवनोद्यानैः श्रीमद्भिर्नन्दनादिभिः।
कूजद्विहङ्गमिथुनैर्गायन्मत्तमधुव्रतैः॥ १२ ॥
अनुवाद (हिन्दी)
देवताओंकी राजधानी अमरावतीमें बड़े सुन्दर-सुन्दर नन्दन वन आदि उद्यान और उपवन हैं। उन उद्यानों और उपवनोंमें पक्षियोंके जोड़े चहकते रहते हैं। मधुलोभी भौंरे मतवाले होकर गुनगुनाते रहते हैं॥ १२॥
वीरराघवः
समृद्धिम् एव दर्शयितुम् इन्द्र-पुरीं वर्णयति रम्याम् इति । सार्धैर् एकादशभिः । श्रीमद्भिः फल-पुष्पादि-समृद्धिमद्भिः नन्दनादिभिः उपवनैः उद्यानवनैश् च रम्याम् । तत्रोपवनानि फल-प्रधानानि निकटस्थानि वा, उद्यानानि पुष्प-प्रधानानि दूरस्थानि वा । कथम्भूतैः ? कूजन्ति विहङ्ग-मिथुनानि येषु, गायन्तो 29मधुना मत्ता मधुव्रता येषु तैः ॥ १२ ॥
श्लोक-१३
विश्वास-प्रस्तुतिः
प्रवालफलपुष्पोरुभारशाखामरद्रुमैः।
हंससारसचक्राह्वकारण्डवकुलाकुलाः।
नलिन्यो यत्र क्रीडन्ति प्रमदाः सुरसेविताः॥
मूलम्
प्रवालफलपुष्पोरुभारशाखामरद्रुमैः।
हंससारसचक्राह्वकारण्डवकुलाकुलाः।
नलिन्यो यत्र क्रीडन्ति प्रमदाः सुरसेविताः॥ १३ ॥
अनुवाद (हिन्दी)
लाल-लाल नये-नये पत्तों, फलों और पुष्पोंसे कल्पवृक्षोंकी शाखाएँ लदी रहती हैं। वहाँके सरोवरोंमें हंस, सारस, चकवे और बतखोंकी भीड़ लगी रहती है। उन्हींमें देवताओंके द्वारा सम्मानित देवांगनाएँ जलक्रीडा करती रहती हैं॥ १३॥
वीरराघवः
प्रवालादीनाम् उरु-भारो यासु ताः शाखा येषां ते अमर-द्रुमा येषु तैः, यत्र यासु सुर-सेविताः प्रमदाः क्रीडन्ति ताः हंसादि-कुलैः आकुला व्याप्ता, नलिन्यः सरांसि यत्र येषु तैः उपवनोद्यानैः, रम्याम् इति पूर्वेणान्वयः ॥ १३ ॥
श्लोक-१४
विश्वास-प्रस्तुतिः
आकाशगङ्गया देव्या वृतां परिखभूतया।
प्राकारेणाग्निवर्णेन साट्टालेनोन्नतेन च॥
मूलम्
आकाशगङ्गया देव्या वृतां परिखभूतया।
प्राकारेणाग्निवर्णेन साट्टालेनोन्नतेन च॥ १४ ॥
अनुवाद (हिन्दी)
ज्योतिर्मय आकाशगंगाने खाईकी भाँति अमरावतीको चारों ओरसे घेर रखा है। उसके चारों ओर बहुत ऊँचा सोनेका परकोटा बना हुआ है, जिसमें स्थान-स्थानपर बड़ी-बड़ी अटारियाँ बनी हुई हैं॥ १४॥
वीरराघवः
किञ्च, परिखाभूतया देव्या देवस्य त्रि-विक्रमस्य पादाङ्गुष्ठजया आकाश-गङ्गया प्राकारेण च जुष्टाम् इत्य् अन्वयः । कथम्भूतेन ? अग्निर् इव वर्णो यस्य तेन सुवर्णमयेनेति भावः । अट्टालाः प्राकारोपरि रचितानि युद्ध-स्थानानि, तत्-सहितेन उन्नतेन च 30एवम्भूतेन प्राकारेण30 ॥ १४ ॥
श्लोक-१५
विश्वास-प्रस्तुतिः
रुक्मपट्टकपाटैश्च द्वारैः स्फटिकगोपुरैः।
जुष्टां विभक्तप्रपथां विश्वकर्मविनिर्मिताम्॥
मूलम्
रुक्मपट्टक31वाटैश्च द्वारैः 32स्फटिकगोपुरैः।
जुष्टां विभक्तप्रपथां विश्वकर्मविनिर्मिताम्॥ १५ ॥
अनुवाद (हिन्दी)
सोनेके किवाड़ द्वार-द्वारपर लगे हुए हैं और स्फटिकमणिके गोपुर (नगरके बाहरी फाटक) हैं। उसमें अलग-अलग बड़े-बड़े राजमार्ग हैं। स्वयं विश्वकर्माने ही उस पुरीका निर्माण किया है॥ १५॥
वीरराघवः
रुक्म-पट्टानि क33वाटानि येषु तैः अवान्तर-द्वारैः स्फटिकमयैः गोपुरैः पुरद्वारैश् च जुष्टाम्, विभक्ताः प्रपथाः राजमार्गाः यस्यां, विश्व-कर्मणा विनिर्मिताम् ॥ १५ ॥
श्लोक-१६
विश्वास-प्रस्तुतिः
सभाचत्वररथ्याढ्यां विमानैर्न्यर्बुदैर्युताम्।
शृङ्गाटकैर्मणिमयैर्वज्रविद्रुमवेदिभिः॥
मूलम्
सभाचत्वररथ्याढ्यां विमानैर्न्यर्बुदैर्युताम्।
शृङ्गाटकैर्मणिमयैर्वज्रविद्रुमवेदिभिः॥ १६ ॥
अनुवाद (हिन्दी)
सभाके स्थान, खेलके चबूतरे और रथ चलनेके बड़े-बड़े मार्गोंसे वह शोभायमान है। दस करोड़ विमान उसमें सर्वदा विद्यमान रहते हैं और मणियोंके बड़े-बड़े चौराहे एवं हीरे और मूँगेकी वेदियाँ बनी हुई हैं॥ १६॥
वीरराघवः
सभादिभिः आढ्यां सुन्द34रीं सम्पन्नां वा तत्र सभा आवेश-स्थानानि, चत्वराणि अङ्गणानि रथ्याः उपमार्गाः, न्यर्बुदं दश-कोटयः ताभिर् गणनीयैः अनन्तैः विमानैः युतां, वज्रविद्रुममय्यो वेदयो वेदिकाः येषु तैः शृङ्गाटकैः चतुष्पथैः युताम् ॥ १६ ॥
श्लोक-१७
विश्वास-प्रस्तुतिः
यत्र नित्यवयोरूपाः श्यामा विरजवाससः।
भ्राजन्ते रूपवन्नार्यो ह्यर्चिर्भिरिव वह्नयः॥
मूलम्
यत्र नित्यवयोरूपाः श्यामा विरजवाससः।
भ्राजन्ते रूपवन्नार्यो35 ह्यर्चिर्भिरिव वह्नयः॥ १७ ॥
अनुवाद (हिन्दी)
वहाँकी स्त्रियाँ सर्वदा सोलह वर्षकी-सी रहती हैं, उनका यौवन और सौन्दर्य स्थिर रहता है। वे निर्मल वस्त्र पहनकर अपने रूपकी छटासे इस प्रकार देदीप्यमान होती हैं, जैसे अपनी ज्वालाओंसे अग्नि॥ १७॥
वीरराघवः
नित्यं वयस् तारुण्यं, रूपं सौकुमार्यं च यासां ताः श्यामाः यौवन-मध्यस्थाश् च, विरजं निर्मलं वासो यासां ताः, रूपवत्यः नार्यः स्त्रियः अर्चिर्भिः शिखाभिः वह्नय इव यत्र यस्यां राजन्ते 36ते इत्य् अर्थः36 ॥ १७ ॥
श्लोक-१८
विश्वास-प्रस्तुतिः
सुरस्त्रीकेशविभ्रष्टनवसौगन्धिकस्रजाम्।
यत्रामोदमुपादाय मार्ग आवाति मारुतः॥
मूलम्
सुरस्त्रीकेशविभ्रष्टनवसौगन्धिकस्रजाम्।
यत्रामोदमुपादाय मार्ग आवाति मारुतः॥ १८ ॥
अनुवाद (हिन्दी)
देवांगनाओंके जूड़ेसे गिरे हुए नवीन सौगन्धित पुष्पोंकी सुगन्ध लेकर वहाँके मार्गोंमें मन्द-मन्द हवा चलती रहती है॥ १८॥
वीरराघवः
यत्र यस्यां सुरस्त्रीणां केशेभ्यो विभ्रष्टानां नव-सौगन्धिक-स्रजातामोदम् उपादाय मारुतो हेम-गवाक्षेभ्यो विनिर्गच्छता धूपेनागरु-37सुगन्धिना सह मार्गे वहति ताम् ॥ १८ ॥
श्लोक-१९
विश्वास-प्रस्तुतिः
हेमजालाक्षनिर्गच्छद्धूमेनागुरुगन्धिना।
पाण्डुरेण प्रतिच्छन्नमार्गे यान्ति सुरप्रियाः॥
मूलम्
हेमजा38लविनिर्गच्छद्धू39पेना40गरुगन्धिना।
41पाण्डुरेण प्रतिच्छन्नमार्गे यान्ति सुर42स्त्रियः॥ १९ ॥
अनुवाद (हिन्दी)
सुनहली खिड़कियोंमेंसे अगरकी सुगन्धसे युक्त सफेद धूआँ निकल-निकलकर वहाँके मार्गोंको ढक दिया करता है। उसी मार्गसे देवांगनाएँ जाती-आती हैं॥ १९॥
वीरराघवः
यस्यां मार्गे पाण्डुरेण पटेन प्रतिच्छन्ने मार्गे सुरस्त्रियो ऽप्सरसः यान्ति सञ्चरन्ति ताम् ॥ १९ ॥
श्लोक-२०
विश्वास-प्रस्तुतिः
मुक्तावितानैर्मणिहेमकेतुभि-
र्नानापताकावलभीभिरावृताम्।
शिखण्डिपारावतभृङ्गनादितां
वैमानिकस्त्रीकलगीतमङ्गलाम्॥
मूलम्
मुक्तावितानैर्मणिहेमकेतुभिर्नानापताकावलभीभिरावृताम्।
शिखण्डिपारावतभृङ्गनादितां वैमानिकस्त्रीकलगीतमङ्गलाम्॥ २० ॥
अनुवाद (हिन्दी)
स्थान-स्थानपर मोतियोंकी झालरोंसे सजाये हुए चँदोवे तने रहते हैं। सोनेकी मणिमय पताकाएँ फहराती रहती हैं। छज्जोंपर अनेकों झंडियाँ लहराती रहती हैं। मोर, कबूतर और भौंरे कलगान करते रहते हैं। देवांगनाओंके मधुर संगीतसे वहाँ सदा ही मंगल छाया रहता है॥ २०॥
वीरराघवः
मुक्तामयैः वितानैः मणि-हेममयैः केतुभिश् च नाना-विधानां पताकानाम् आवलिभिश् च विराजितां, शिखण्ड्य्-आदिभिः नादितां वैमानिक-स्त्रीणां मधुर-गीतैः मण्डिताम् ॥ २० ॥
श्लोक-२१
विश्वास-प्रस्तुतिः
मृदङ्गशङ्खानकदुन्दुभिस्वनैः
सतालवीणामुरजर्ष्टिवेणुभिः।
नृत्यैः सवाद्यैरुपदेवगीतकै-
र्मनोरमां स्वप्रभया जितप्रभाम्॥
मूलम्
मृदङ्गशङ्खानकदुन्दुभिस्वनैः सतालवीणामुर43जैश्च वेणुभिः।
44नृत्यैस्सवाद्यैरुपदेवगीतकैर्मनोरमां स्वप्रभया जितप्रभाम्॥ २१ ॥
अनुवाद (हिन्दी)
मृदंग, शंख, नगारे, ढोल, वीणा, वंशी, मँजीरे और ऋष्टियाँ बजती रहती हैं। गन्धर्व बाजोंके साथ गाया करते हैं और अप्सराएँ नाचा करती हैं। इनसे अमरावती इतनी मनोहर जान पड़ती है, मानो उसने अपनी छटासे छटाकी अधिष्ठात्री देवीको भी जीत लिया है॥ २१॥
वीरराघवः
मृदङ्गादीनां स्वनैः तालादि-ध्वनि-सहितैः नृत्तैः सवाद्यैः उपदेवानां गन्धर्वादीनां गीतकैश् च मनोरमां स्वप्रभया जिता प्रभा साक्षाद् दिव्य-गीताद्य्-अधिष्ठात्री देवता यया ‘ताम् अन्यै रजितप्रभाम्’ इति वा । पाठान्तरे जिताः ग्रहाः सूर्यादयो यया ताम् ॥ २१ ॥
श्लोक-२२
विश्वास-प्रस्तुतिः
यां न व्रजन्त्यधर्मिष्ठाः खला भूतद्रुहः शठाः।
मानिनः कामिनो लुब्धा एभिर्हीना व्रजन्ति यत्॥
मूलम्
45यां न व्रजन्त्यधर्मिष्ठाः 46भूतधर्मद्रुहः शठाः।
मानिनः कामिनो लुब्धाः 47षड्भिर्हीना व्रजन्ति48 यत्॥ २२ ॥
अनुवाद (हिन्दी)
उस पुरीमें अधर्मी, दुष्ट, जीवद्रोही, ठग, मानी, कामी और लोभी नहीं जा सकते। जो इन दोषोंसे रहित हैं, वे ही वहाँ जाते हैं॥ २२॥
वीरराघवः
यद् यां, सामान्ये नपुंसकम् । अधर्मिष्ठादयो न व्रजन्ति इतः प्रेत्य न प्राप्नुवन्ति । 49खलाः दुरात्मानः शठाः मूर्खा मानिनो ऽहङ्कारिणः लुब्धाः वञ्चकाः ॥ २२ ॥
श्लोक-२३
विश्वास-प्रस्तुतिः
तां देवधानीं स वरूथिनीपति-
र्बहिः समन्ताद् रुरुधे पृतन्यया।
आचार्यदत्तं जलजं महास्वनं
दध्मौ प्रयुञ्जन्भयमिन्द्रयोषिताम्॥
मूलम्
तां देवधानीं स वरूथिनीपतिर्बहिः समन्ताद् रुरुधे पृतन्यया।
आचार्यदत्तं जलजं महास्वनं दध्मौ प्रयुञ्जन्भयमिन्द्रयोषिताम्॥ २३ ॥
अनुवाद (हिन्दी)
असुरोंकी सेनाके स्वामी राजा बलिने अपनी बहुत बड़ी सेनासे बाहरकी ओर सब ओरसे अमरावतीको घेर लिया और इन्द्रपत्नियोंके हृदयमें भयका संचार करते हुए उन्होंने शुक्राचार्यजीके दिये हुए महान् शंखको बजाया। उस शंखकी ध्वनि सर्वत्र फैल गयी॥ २३॥
वीरराघवः
ताम् एवम्भूतां देवधानीम् अमरावतीं बहिस् समन्ताद् वरूथिन्याः सेनायाः पतिः स बलिः पृतन्यया सेनया रुरुधे । तत इन्द्र-योषितां भयम् उत्पादयन् आचार्येण शुक्रेण दत्तं महास्वनं शङ्खं दध्मौ ॥ २३ ॥
श्लोक-२४
विश्वास-प्रस्तुतिः
मघवांस्तमभिप्रेत्य बलेः परममुद्यमम्।
सर्वदेवगणोपेतो गुरुमेतदुवाच ह॥
मूलम्
मघवांस्त50मभिप्रेत्य बलेः परममुद्यमम्।
सर्वदेवगणोपेतो गुरुमेतदुवाच ह॥ २४ ॥
अनुवाद (हिन्दी)
इन्द्रने देखा कि बलिने युद्धकी बहुत बड़ी तैयारी की है। अतः सब देवताओंके साथ वे अपने गुरु बृहस्पतिजीके पास गये और उनसे बोले—॥ २४॥
वीरराघवः
मघवान् इन्द्रः तं बलेः परमम् अधिकम् उद्योगं ज्ञात्वा सर्वैः देवानां गणैः उपेतो बृहस्पतिम् इत्यम् उवाच ॥ २४ ॥
श्लोक-२५
विश्वास-प्रस्तुतिः
भगवन्नुद्यमो भूयान् बलेर्नः पूर्ववैरिणः।
अविषह्यमिमं मन्ये केनासीत्तेजसोर्जितः॥
अनुवाद (हिन्दी)
‘भगवन्! मेरे पुराने शत्रु बलिने इस बार युद्धकी बहुत बड़ी तैयारी की है। मुझे ऐसा जान पड़ता है कि हमलोग उनका सामना नहीं कर सकेंगे। पता नहीं, किस शक्तिसे इनकी इतनी बढ़ती हो गयी है॥ २५॥
वीरराघवः
तद् एवा ऽऽह - भगवन्न् इति 55सार्धैस् त्रिभिः55 । हे भगवन्! पूर्ववैरिणो देवासुरे युद्धे पराजितस्य बलेर् अधुना ऽयं महानुद्यमः । इमम् उद्यमं सोढुम् अशक्यं मन्ये । केन हेतुना अयम् तेजसोर्जित आसीत् ? ॥ २५ ॥
श्लोक-२६
विश्वास-प्रस्तुतिः
नैनं कश्चित् कुतो वापि प्रतिव्योढुमधीश्वरः।
पिबन्निव मुखेनेदं लिहन्निव दिशो दश।
दहन्निव दिशो दृग्भिः संवर्ताग्निरिवोत्थितः॥
मूलम्
नै56नं कश्चित् कुतो वापि प्रतिव्योढुमधीश्वरः।
पिबन्निव मुखेनेदं लिहन्निव दिशो दश।
दहन्निव दि57शो दृग्भिः संवर्ताग्निरिवोत्थितः॥ २६ ॥
अनुवाद (हिन्दी)
मैं देखता हूँ कि इस समय बलिको कोई भी किसी प्रकारसे रोक नहीं सकता। वे प्रलयकी आगके समान बढ़ गये हैं और जान पड़ता है, मुखसे इस विश्वको पी जायँगे, जीभसे दसों दिशाओंको चाट जायँगे और नेत्रोंकी ज्वालासे दिशाओंको भस्म कर देंगे॥ २६॥
वीरराघवः
एनं बलिं को ऽपि पुमान् केना ऽप्य् उपायेन अपाकर्तुं न प्रभुः । अयं मुखेनेदं जगत् पिबन्न् इव दश दिशो लिहन्न् इव उत्थितः प्रलयाग्निर् इव दृग्भिः नभो दहन्न् इव आस्ते ॥ २६ ॥
श्लोक-२७
विश्वास-प्रस्तुतिः
ब्रूहि कारणमेतस्य दुर्धर्षत्वस्य मद्रिपोः।
ओजः सहो बलं तेजो यत एतत्समुद्यमः॥
अनुवाद (हिन्दी)
आप कृपा करके मुझे बतलाइये कि मेरे शत्रुकी इतनी बढ़तीका, जिसे किसी प्रकार भी दबाया नहीं जा सकता, क्या कारण है? इसके शरीर, मन और इन्द्रियोंमें इतना बल और इतना तेज कहाँसे आ गया है कि इसने इतनी बड़ी तैयारी करके चढ़ाई की है’॥ २७॥
वीरराघवः
मम शत्रोः बलेः दुर्धर्षत्वस्यैतस्य कारणं ब्रूहि । यतः कारणात् ओज आदिः तत्-प्रयुक्तः समुद्यमश् चेत्य् एतद् आसीत् । तत्र ओज इन्द्रिय-बलं, सह उत्साहो, मानसं, बलं दैहिकम् ॥ २७ ॥
श्लोक-२८
मूलम् (वचनम्)
गुरुरुवाच
विश्वास-प्रस्तुतिः
जानामि मघवञ्छत्रोरुन्नतेरस्य कारणम्।
शिष्यायोपभृतं तेजो भृगुभिर्ब्रह्मवादिभिः॥
मूलम्
जानामि मघवञ्छत्रोरुन्नतेरस्य कारणम्।
शिष्यायोपभृतं तेजो 60गुरुभिर्ब्रह्मवादिभिः॥ २८ ॥
अनुवाद (हिन्दी)
देवगुरु बृहस्पतिजीने कहा—‘इन्द्र! मैं तुम्हारे शत्रु बलिकी उन्नतिका कारण जानता हूँ। ब्रह्मवादी भृगुवंशियोंने अपने शिष्य बलिको महान् तेज देकर शक्तियोंका खजाना बना दिया है॥ २८॥
वीरराघवः
एवं विज्ञापित आह गुरुः - जानामीति । हे मघवन् अस्य त्वच्-छत्रोः बलेः औन्न61त्यस्य कारणम् अहं जानामि । किं तत् ? 62यत् ब्रह्मवादिभिः शुक्रादिभिः शिष्याय बलये उपभृतम् आहितं तेज इत्य् एतत् ॥ २८ ॥
श्लोक-२९
विश्वास-प्रस्तुतिः
भवद्विधो भवान्वापि वर्जयित्वेश्वरं हरिम्।
नास्य शक्तः पुरः स्थातुं कृतान्तस्य यथा जनाः॥
मूलम्
63भवद्विधो भवान्वापि वर्जयित्वेश्वरं हरिम्।
64नास्य शक्तः पुरः स्थातुं कृतान्तस्य यथा जनाः64॥ २९ ॥
अनुवाद (हिन्दी)
सर्वशक्तिमान् भगवान्को छोड़कर तुम या तुम्हारे-जैसा और कोई भी बलिके सामने उसी प्रकार नहीं ठहर सकता, जैसे कालके सामने प्राणी॥ २९॥
वीरराघवः
अतो भगवन्तं विना ऽन्यः कश्चिद् 65भवद्-विधः, भ66वादृशः साक्षाद् भवान् वा अस्य सम्मुखे क्षणम् अपि स्थातुं न शक्नोति ॥ २९ ॥
श्लोक-३०
विश्वास-प्रस्तुतिः
तस्मान्निलयमुत्सृज्य यूयं सर्वे त्रिविष्टपम्।
यात कालं प्रतीक्षन्तो यतः शत्रोर्विपर्ययः॥
मूलम्
तस्मान्निलयमुत्सृज्य यूयं सर्वे त्रिविष्टपम्।
यात कालं प्रतीक्षन्तो यतः शत्रोर्विपर्ययः॥ ३० ॥
अनुवाद (हिन्दी)
इसलिये तुमलोग स्वर्गको छोड़कर कहीं छिप जाओ और उस समयकी प्रतीक्षा करो, जब तुम्हारे शत्रुका भाग्यचक्र पलटे॥ ३०॥
वीरराघवः
मन्त्रम् आह - तस्माद् इति । तस्मात् जेतुम् अशक्यत्वात् सर्वे यूयं त्रिविष्टपं त्यक्त्वा निलयम् अदर्शनं यात गच्छत । कथम्भूताः ? यतः येन कालेन शत्रोः पराजयो नौन्नत्यं वा भविष्यति तं कालं प्रतीक्षमाणास् सन्तः ॥ ३० ॥
श्लोक-३१
विश्वास-प्रस्तुतिः
एष विप्रबलोदर्कः सम्प्रत्यूर्जितविक्रमः।
तेषामेवापमानेन सानुबन्धो विनङ्क्ष्यति॥
अनुवाद (हिन्दी)
इस समय ब्राह्मणोंके तेजसे बलिकी उत्तरोत्तर वृद्धि हो रही है। उसकी शक्ति बहुत बढ़ गयी है। जब यह उन्हीं ब्राह्मणोंका तिरस्कार करेगा, तब अपने परिवार-परिकरके साथ नष्ट हो जायगा’॥ ३१॥
वीरराघवः
को ऽसौ 69स कालः तत्रा ऽऽह अयम् अधुना विप्राणां बलेनोदर्क उत्तरोत्तरम् अधिकं फलं यस्य ऊर्जितः बलीभूतः विक्रमो यस्य, तादृश आस्ते, स पुनः तेषां विप्राणाम् एवा70वमानेन हेतुना सानुबन्धः ससमृद्धिः विनङ्क्ष्यति, तं कालं प्रती71क्षमाणा इत्य् अर्थः ॥ ३१ ॥
श्लोक-३२
विश्वास-प्रस्तुतिः
एवं सुमन्त्रितार्थास्ते गुरुणार्थानुदर्शिना।
हित्वा त्रिविष्टपं जग्मुर्गीर्वाणाः कामरूपिणः॥
मूलम्
एवं सुमन्त्रितार्थास्ते गुरुणार्थानुदर्शिना।
हित्वा त्रिविष्टपं जग्मुर्गीर्वाणाः कामरूपिणः॥ ३२ ॥
अनुवाद (हिन्दी)
बृहस्पतिजी देवताओंके समस्त स्वार्थ और परमार्थके ज्ञाता थे। उन्होंने जब इस प्रकार देवताओंको सलाह दी, तब वे स्वेच्छानुसार रूप धारण करके स्वर्ग छोड़कर चले गये॥ ३२॥
वीरराघवः
एवम् इत्थम् अर्थानुदर्शिना तत्-तत्-कालोचित-कर्तव्य-प्रयोजनाभिज्ञेन बृहस्पतिना सम्यग् आलोचिताः गीर्वाणाः सुरास् त्रि-विष्टपं त्यक्त्वा काम-रूपिणस् सन्तः जग्मुः ॥ ३२ ॥
श्लोक-३३
विश्वास-प्रस्तुतिः
देवेष्वथ निलीनेषु बलिर्वैरोचनः पुरीम्।
देवधानीमधिष्ठाय वशं निन्ये जगत्त्रयम्॥
अनुवाद (हिन्दी)
देवताओंके छिप जानेपर विरोचननन्दन बलिने अमरावतीपुरीपर अपना अधिकार कर लिया और फिर तीनों लोकोंको जीत लिया॥ ३३॥
वीरराघवः
एवं देवेष्व् अन्तर्हितेषु सत्सु, अथ वैरोचनो बलिः देवधानीं पुरीम् अधिष्ठाय लोक-त्रयं स्ववशम् अकरोत् ॥ ३३ ॥
श्लोक-३४
विश्वास-प्रस्तुतिः
तं विश्वजयिनं शिष्यं भृगवः शिष्यवत्सलाः।
शतेन हयमेधानामनुव्रतमयाजयन्॥
मूलम्
तं विश्वजयिनं शिष्यं भृगवः शिष्यवत्सलाः।
शतेन हयमेधानामनुव्रतमयाजयन्॥ ३४ ॥
अनुवाद (हिन्दी)
जब बलि विश्वविजयी हो गये, तब शिष्यप्रेमी भृगुवंशियोंने अपने अनुगत शिष्यसे सौ अश्वमेध यज्ञ करवाये॥ ३४॥
वीरराघवः
ततस् तं विश्वजयिनं शिष्यम् अनुव्रतं बलिं तद्-वत्सला भृगवो हय-मेधानां शतेन 74अश्व-मेधानां शतेन74 अयाजयन् प्राप्तम् इन्द्र-पदं स्थिरीकर्तुम् अयाजयन् 75इत्य् अर्थः ॥ ३४ ॥
श्लोक-३५
विश्वास-प्रस्तुतिः
ततस्तदनुभावेन भुवनत्रयविश्रुताम्।
कीर्तिं दिक्षु वितन्वानः स रेज उडुराडिव॥
अनुवाद (हिन्दी)
उन यज्ञोंके प्रभावसे बलिकी कीर्तिकौमुदी तीनों लोकोंसे बाहर भी दसों दिशाओंमें फैल गयी और वे नक्षत्रोंके राजा चन्द्रमाके समान शोभायमान हुए॥ ३५॥
वीरराघवः
ततो हयमेध-याग-शत-प्रभावेण लोक-त्रयव्याप्तां कीर्तिं वितन्वानः स बलिश् 78चन्द्रमा इव रराज ॥ ३५ ॥
श्लोक-३६
विश्वास-प्रस्तुतिः
बुभुजे च श्रियं स्वृद्धां द्विजदेवोपलम्भिताम्।
कृतकृत्यमिवात्मानं मन्यमानो महामनाः॥
मूलम्
बुभुजे च श्रियं 79स्वृद्धां द्विजदेवोपलम्भिताम्।
कृतकृत्यमिवात्मानं मन्यमानो महामनाः॥ ३६ ॥
अनुवाद (हिन्दी)
ब्राह्मण-देवताओंकी कृपासे प्राप्त समृद्ध राज्य-लक्ष्मीका वे बड़ी उदारतासे उपभोग करने लगे और अपनेको कृतकृत्य-सा मानने लगे॥ ३६॥
अनुवाद (समाप्ति)
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामष्टमस्कन्धे पञ्चदशोऽध्यायः॥ १५ ॥
वीरराघवः
द्विजदेवैः ब्राह्मणैः उपलम्भितां प्रापितां सुसमृद्धां श्रियं सम्पदं बुभुजे । कथम्भूतः ? महामनाः दीर्घ-सङ्कल्पः आत्मानं, कृतं कृत्यं कर्तव्य-प्रयोजनं येन तं, कृतार्थम् इव मन्यमानः ॥ ३६ ॥
इति श्रीमद्-भागवते अष्टम-स्कन्धे श्री-वीर-राघव-विदुषा लिखितायां भागवत-चन्द्र-चन्द्रिकायां व्याख्यायां पञ्चदशो ऽध्यायः ॥ १५ ॥
-
A,B,G,J,M,Ma,T राजोवाच ↩︎
-
A,G,J,T भूत्वे ↩︎
-
A,B,T Omit रूप ↩︎
-
M,Ma नं वाऽ ↩︎
-
A,B,T कौतू ↩︎
-
A,B,T विना ↩︎
-
A,B,G,J,T तो ही ; M,Ma त इ ↩︎
-
M,Ma महान्स्वार्थ ↩︎
-
A,B,T add इत्येतत् ↩︎
-
A,B,T रथु ↩︎
-
W Omits गृहीता ↩︎
-
A,B,T राज्य ↩︎
-
A‚B,T भृग्वा ↩︎
-
A,B,T add वैरोचनिः ↩︎
-
H,M,Ma,V लो ↩︎
-
A,B,G,J,T न ↩︎
-
M,Ma रिद्धात् ↩︎
-
A,B,G,J,M,Ma,T पुष्पां ↩︎
-
W Omits ततः ↩︎
-
A,T Omits तस्मै ↩︎
-
M,Ma वय ↩︎
-
H,V सरथैः ; W सयूथैः ↩︎
-
H,V हरिद्भि ; W हरद्भि ↩︎
-
A Omits ससैन्यैः ↩︎
-
A,B,G,J,T,V,W री स्वृद्धा ↩︎
-
W धुम ↩︎
-
A,B,G,J,M,Ma,T पा ↩︎
-
M,Ma स्फा ↩︎
-
A,B पा ↩︎
-
A,B,T रां ↩︎
-
H,M,Ma,V,W र्य अ ↩︎
-
W Omits सु ↩︎
-
A,B,G,J,M,Ma,T लाक्ष ↩︎
-
A,B,G,J,M,Ma,T मे ↩︎
-
A,G,J,M,Ma,T गु ↩︎
-
H,V पाण्ड ↩︎
-
A,B,G,J,T प्रिया ↩︎
-
A,B,G,J,M,Ma,T जर्ष्टि ↩︎
-
W नृत्तैः ↩︎
-
H,V न यां ; W यन्न ↩︎
-
A,B,G,J,M,Ma,T खला भूत ↩︎
-
A,B,G,J,M,Ma,T एभि ↩︎
-
H,V,W न्ति याम् ; M,Ma न्त्युत ↩︎
-
A,T omit छालाः ↩︎
-
M,Ma द ↩︎
-
M,Ma तो ↩︎
-
A,B,G,J,M,Ma,T भूयान्य ↩︎
-
M,Ma दं ↩︎
-
M,Ma सा समः ↩︎
-
H,V वं ↩︎
-
H,V यतो ; W नभो ↩︎
-
A,B,G,J,M,Ma,T म ↩︎
-
M,Ma एव स ↩︎
-
A,B,G,T भृगुभि ↩︎
-
A,B,T त्यका ↩︎
-
W Omits यत् ↩︎
-
H,V,W प्रकाशेषु पूर्वार्धमुत्तरार्धत्वेन उत्तरार्ध पूर्वार्धत्वेन मुद्रितम् । ↩︎
-
W Omits भवद्विधः ↩︎
-
A,B,T Omit भवादृशः ↩︎
-
M,Ma ए ↩︎
-
A,B,G,J,T व ↩︎
-
A,B,T Omit सः ↩︎
-
A,B,T प ↩︎
-
A,B,T क्षन्त ↩︎
-
M,Ma ति ↩︎
-
A,B,G,J,T नि ↩︎
-
W Omits इत्यर्थ ↩︎
-
A,B,G,J,M,Ma,T श्रु ↩︎
-
H,V जेद्यु ↩︎
-
A,B,T चन्द्र ↩︎
-
M,Ma ऋ ↩︎