[चतुर्दशोऽध्यायः]
भागसूचना
मनु आदिके पृथक्-पृथक् कर्मोंका निरूपण
श्लोक-१
मूलम् (वचनम्)
1राजोवाच
विश्वास-प्रस्तुतिः
मन्वन्तरेषु भगवन् यथा मन्वादयस्त्विमे।
यस्मिन्कर्मणि ये येन नियुक्तास्तद्वदस्व मे॥
अनुवाद (हिन्दी)
राजा परीक्षित् ने पूछा—भगवन्! आपके द्वारा वर्णित ये मनु, मनुपुत्र, सप्तर्षि आदि अपने-अपने मन्वन्तरमें किसके द्वारा नियुक्त होकर कौन-कौन-सा काम किस प्रकार करते हैं—यह आप कृपा करके मुझे बतलाइये॥ १॥
वीरराघवः
एवं मन्वन्तरेषु कथितेषु प्रसङ्गाद् मन्वादीनां कृत्यं पृच्छति राजा - मन्वन्तरेष्व् इति । हे भगवन् ! मन्वन्तरेष्व् अमी उक्ता मन्वादयः, आदि-शब्द-ग्राह्यास् तत्-पुत्रादयः पञ्चमी मन्वादयः येन यस्मिन् कर्मणि ये नियुक्ताः तन् नो ऽस्मभ्यं वदस्व प्रत्येकं मन्वादीनां कृत्यं 5वदेत्य् अर्थः ॥ १ ॥
श्लोक-२
मूलम् (वचनम्)
6ब्रह्मरात उवाच
विश्वास-प्रस्तुतिः
मनवो मनुपुत्राश्च मुनयश्च महीपते।
इन्द्राः सुरगणाश्चैव सर्वे पुरुषशासनाः॥
मूलम्
मनवो मनुपुत्राश्च मुनयश्च महीपते।
इन्द्राः सुरगणाश्चैव सर्वे पुरुषशासनाः॥ २ ॥
अनुवाद (हिन्दी)
श्रीशुकदेवजी कहते हैं—परीक्षित्! मनु, मनुपुत्र, सप्तर्षि और देवता—सबको नियुक्त करनेवाले स्वयं भगवान् ही हैं॥ २॥
वीरराघवः
तत्र येनेति पृष्टं नियोक्तारं तावद् आह मुनिः - मनव इति । हे महीपते ! मन्वादयः पञ्चैते सर्वे पुरुषेणेश्वरेण यज्ञाद्यवतारैः शास्यन्ते नियुज्यन्ते इति तथा ॥ २ ॥
श्लोक-३
विश्वास-प्रस्तुतिः
यज्ञादयो याः कथिताः पौरुष्यस्तनवो नृप।
मन्वादयो जगद्यात्रां नयन्त्याभिः प्रचोदिताः॥
मूलम्
यज्ञादयो याः कथिताः पौरुष्यस्तनवो नृप।
मन्वादयो जगद्यात्रां नयन्त्याभिः प्रचोदिताः॥ ३ ॥
अनुवाद (हिन्दी)
राजन्! भगवान्के जिन यज्ञपुरुष आदि अवतारशरीरोंका वर्णन मैंने किया है, उन्हींकी प्रेरणासे मनु आदि विश्व-व्यवस्थाका संचालन करते हैं॥ ३॥
वीरराघवः
तद् एवा ऽऽह - यज्ञादय इति । हे नृप । पौरुष्यः परम-पुरुषस्य सम्बन्धिन्यः तनवो ऽवताराः या यज्ञादयः कथिताः आभिस् तनुभिः प्रचोदिता नियुक्ता मन्वादयः जगद्यात्रां नयन्ति जगत्-पोषणं कुर्वन्तीत्य् अर्थः ॥ ३ ॥
श्लोक-४
विश्वास-प्रस्तुतिः
चतुर्युगान्ते कालेन ग्रस्ताञ्छ्रुतिगणान्यथा।
तपसा ऋषयोऽपश्यन्यतो धर्मः सनातनः॥
मूलम्
चतुर्युगान्ते कालेन ग्रस्ताञ्छ्रुतिगणान्यथा।
तपसा ऋषयोऽपश्यन्यतो धर्मः सनातनः॥ ४ ॥
अनुवाद (हिन्दी)
चतुर्युगीके अन्तमें समयके उलट-फेरसे जब श्रुतियाँ नष्टप्राय हो जाती हैं, तब सप्तर्षिगण अपनी तपस्यासे पुनः उनका साक्षात्कार करते हैं। उन श्रुतियोंसे ही सनातनधर्मकी रक्षा होती है॥ ४॥
वीरराघवः
एवं भगवद्-अवतारो नियोक्ता, मन्वादयो नियोज्याः जगद्यात्रानयनं तेषां कर्मेत्य् उक्तम् । अथ कथं जगद्यात्रां नयन्तीत्य् अपेक्षायां तावद् ऋषीणां कर्मा ऽऽह - चतुर्युगान्त इति । पूर्व-पूर्व-मन्वन्तरावसाने कालेना ऽध्येत्र-भाव-युक्त-कालेन प्रस्तान् विप्लुतान् श्रुति-गणान् पुनर् यथावद् ऋषयः सप्त ऋषयः तपः-प्रभावेना ऽपश्यन् साक्षात्कृत्य प्रवर्तितवन्तः इत्य् अर्थः । श्रुति-गणान् विशिनष्टि - यतो येभ्यः श्रुति-गणेभ्यः सनातनो धर्मः, अवबुध्यते इति शेषः ॥ ४ ॥
श्लोक-५
विश्वास-प्रस्तुतिः
ततो धर्मं चतुष्पादं मनवो हरिणोदिताः।
युक्ताः सञ्चारयन्त्यद्धा स्वे स्वे काले महीं नृप॥
मूलम्
ततो धर्मं चतुष्पादं मनवो हरिणोदिताः।
युक्ताः सञ्चारयन्त्यद्धा स्वे स्वे काले महीं नृप॥ ५ ॥
अनुवाद (हिन्दी)
राजन्! भगवान्की प्रेरणासे अपने-अपने मन्वन्तरमें बड़ी सावधानीसे सब-के-सब मनु पृथ्वीपर चारों चरणसे परिपूर्ण धर्मका अनुष्ठान करवाते हैं॥ ५॥
वीरराघवः
मनूनां कर्मा ऽऽह - तत इति । ततः ऋषिभिः यथावत् श्रुति-गण-दर्शनानन्तरं तद् अवबोधितं स्वं 7स्वप्रवर्त्यं चतुष्पादं धर्मं हरिणा यज्ञादि-रूपिणा उदिता उक्ता नियुक्ता इत्य् अर्थः । संयतास् सन्तो मनवः अद्धा साक्षात् स्वे स्वे काले युगानुरूपं महीं मह्यां सञ्चारयन्ति उप8देशेन प्रवर्तयन्ति ॥ ५ ॥
श्लोक-६
विश्वास-प्रस्तुतिः
पालयन्ति प्रजापाला यावदन्तं विभागशः।
यज्ञभागभुजो देवा ये च तत्रान्विताश्च तैः॥
अनुवाद (हिन्दी)
मनुपुत्र मन्वन्तरभर काल और देश दोनोंका विभाग करके प्रजापालन तथा धर्मपालनका कार्य करते हैं। पंच-महायज्ञ आदि कर्मोंमें जिन ऋषि, पितर, भूत और मनुष्य आदिका सम्बन्ध है—उनके साथ देवता उस मन्वन्तरमें यज्ञका भाग स्वीकार करते हैं॥ ६॥
वीरराघवः
मनु-पुत्राणां कृत्यम् आह - पालयन्तीति । प्रजापाला मनु-पुत्राः तं धर्मं यावद् अन्तम् यावन्-मन्वन्तरावसानं विभागशः पुत्र-पौत्रादि-क्रमेण वर्णाश्रम-विभागेन च पालयन्ति । देवानां कर्मा ऽऽह - यज्ञेति । ये च ऋषि-पितृ-भूत-मनुष्याः यत्र पञ्च-महायज्ञादौ कर्मण्य् अन्विताः भोक्तृत्वेना ऽन्विताः तैस् सह देवा यज्ञ-भागभुजः तद्-भोक्तारः ॥ ६ ॥
श्लोक-७
विश्वास-प्रस्तुतिः
इन्द्रो भगवता दत्तां त्रैलोक्यश्रियमूर्जिताम्।
भुञ्जानः पाति लोकांस्त्रीन् कामं लोके प्रवर्षति॥
मूलम्
इन्द्रो भगवता दत्तां त्रैलोक्यश्रियमूर्जिताम्।
भुञ्जानः पाति लोकांस्त्रीन् कामं लोके प्रवर्षति॥ ७ ॥
अनुवाद (हिन्दी)
इन्द्र भगवान्की दी हुई त्रिलोकीकी अतुल सम्पत्तिका उपभोग और प्रजाका पालन करते हैं। संसारमें यथेष्ट वर्षा करनेका अधिकार भी उन्हींको है॥ ७॥
वीरराघवः
इन्द्रस्य 10कृत्यम् ऽऽह - इन्द्र इति । भगवता यज्ञादि-रूपिणा दत्तां अत एवोर्जितां प्रभूतां त्रैलोक्यश्रियम् अनुभवन् त्रीन् लोकान् पाति । कथं पातीत्य् अत्राह कामं यथेष्टं लोके ऽभिवर्षति वृष्ट्या पातीत्य् अर्थः ॥ ७ ॥
श्लोक-८
विश्वास-प्रस्तुतिः
ज्ञानं चानुयुगं ब्रूते हरिः सिद्धस्वरूपधृक्।
ऋषिरूपधरः कर्म योगं योगेशरूपधृक्॥
अनुवाद (हिन्दी)
भगवान् युग-युगमें सनक आदि सिद्धोंका रूप धारण करके ज्ञानका, याज्ञवल्क्य आदि ऋषियोंका रूप धारण करके कर्मका और दत्तात्रेय आदि योगेश्वरोंके रूपमें योगका उपदेश करते हैं॥ ८॥
वीरराघवः
अथा ऽवतारस्य कृत्यम् आह - ज्ञानम् इति । च-शब्देन मन्वादि-नियोजनं समुच्चीयते । हरिर् यज्ञाद्यवतार-रूपः सिद्ध-रूपधृत् कपिलादि-रूपधृत्15 ज्ञानं युगानुरूपं ब्रूते उपदिशति ॥ ८ ॥
श्लोक-९
विश्वास-प्रस्तुतिः
सर्गं प्रजेशरूपेण दस्यून्हन्यात् स्वराड्वपुः।
कालरूपेण सर्वेषामभावाय पृथग्गुणः॥
अनुवाद (हिन्दी)
वे मरीचि आदि प्रजापतियोंके रूपमें सृष्टिका विस्तार करते हैं, सम्राट्के रूपमें लुटेरोंका वध करते हैं और शीत, उष्ण आदि विभिन्न गुणोंको धारण करके कालरूपसे सबको संहारकी ओर ले जाते हैं॥ ९॥
वीरराघवः
प्रजेश-रूपेण मरीच्यादि-रूपेण, सर्गं करोतीति शेषः । स्वराड्-वपुः राज-मूर्तिस् सन् तद्-अनुप्रवेशेने19त्य् अर्थः । दस्यून् दुष्ट-सत्त्वान् हन्यात् पुनः काल-रूपेण सर्वेषाम् अभावाय लयाय च भवति । कथम्भूतः ? पृथग्-गुणः सृष्ट्य्-आद्य्-उपयुक्त-गुण-विशिष्टः ॥ ९ ॥
श्लोक-१०
विश्वास-प्रस्तुतिः
स्तूयमानो जनैरेभिर्मायया नामरूपया।
विमोहितात्मभिर्नानादर्शनैर्न च दृश्यते॥
मूलम्
स्तूयमानो जनैरेभिर्मायया नामरूपया।
विमोहितात्मभिर्नानादर्शनैर्न च दृश्यते॥ १० ॥
अनुवाद (हिन्दी)
नाम और रूपकी मायासे प्राणियोंकी बुद्धि विमूढ़ हो रही है। इसलिये वे अनेक प्रकारके दर्शनशास्त्रोंके द्वारा महिमा तो भगवान्की ही गाते हैं, परन्तु उनके वास्तविक स्वरूपको नहीं जान पाते॥ १०॥
वीरराघवः
नाम-रूपया नाम-रूपभाजा मायया विमोहितानि मनांसि येषां तैः अत एव नाना-दर्शनैः ज्ञानैकाकारेषु आत्मसु देव-मनुष्यादि-नाना-बुद्धिं कुर्वद्भिर् एभिर् जनैः केवलं स्तूयमान एव शास्त्रेण निरूप्यमाण एव । न तु दृश्यते इत्य् अर्थः ॥ १० ॥
श्लोक-११
विश्वास-प्रस्तुतिः
एतत् कल्पविकल्पस्य प्रमाणं परिकीर्तितम्।
यत्र मन्वन्तराण्याहुश्चतुर्दश पुराविदः॥
मूलम्
एतत् कल्पविकल्पस्य प्रमाणं परिकीर्तितम्।
यत्र मन्वन्तराण्याहुश्चतुर्दश पुराविदः॥ ११ ॥
अनुवाद (हिन्दी)
परीक्षित्! इस प्रकार मैंने तुम्हें महाकल्प और अवान्तर कल्पका परिमाण सुना दिया। पुराणतत्त्वके विद्वानोंने प्रत्येक अवान्तर कल्पमें चौदह मन्वन्तर बतलाये हैं॥ ११॥
अनुवाद (समाप्ति)
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामष्टमस्कन्धे चतुर्दशोऽध्यायः॥ १४ ॥
वीरराघवः
प्रासङ्गिकं निरूप्य “मनवो ऽस्मिन् व्यतीताः स्युः कल्पे स्वायम्भुवादयः” (भाग ८-१-४) इति मन्वन्तर-कथनार्थतया प्रस्तुतं कल्पम् एवोपसंहरति - एतद् इति । कल्प-विकल्पस्य कल्प-भेदस्य अवान्तर-कल्पस्य, दैनन्दिन-कल्पस्येत्य् अर्थः । एतच् चतुर्दश-मन्वन्तरात्मकं प्रमाणं परिकीर्तितम्, को ऽसौ कल्प-विकल्पः पुराविदः कल्प-विकल्प-याथात्म्यविदः यत्र कल्प-विकल्पे मन्वन्तराणि चतुर्दश आहुर् ऊचुः ॥ ११ ॥
इति श्रीमद्-भागवते अष्टम-स्कन्धे श्री-वीर-राघव-विदुषा लिखितायां भागवत-चन्द्र-चन्द्रिकायां व्याख्यायां चतुर्दशो ऽध्यायः ॥ १४ ॥
-
A,B,G,J,M,Ma,T राजोवाच ↩︎
-
M,Ma वान् ↩︎
-
W स्त्वमी ↩︎
-
A,B,G,J,M,Ma,T मे ↩︎
-
A,B,T वदस्वेत्यर्थः ↩︎
-
A,B,G,J,M,Ma,T ऋषिरुवाच ↩︎
-
A,T एवं ↩︎
-
A,T शान् ↩︎
-
A,B,G,J,T ये च तत्राऽन्विताश्च तैः ; M,Ma ये च तत्राऽनुकीर्तिताः ↩︎ ↩︎
-
A,B,T कर्माऽऽह ↩︎
-
M,Ma श्चातुर्युगं ↩︎
-
H,V स्सिद्धेश ↩︎
-
A,B,G,J,M,Ma,T क् ↩︎
-
A,B,G,J,M,Ma,T क् ↩︎
-
A,B,T क् ↩︎
-
M,Ma सर्व ↩︎
-
M,Ma हन्ति ↩︎
-
H,M,Ma,V,W भ ↩︎
-
W ति भावः ↩︎