[त्रयोदशोऽध्यायः]
भागसूचना
आगामी सात मन्वन्तरोंका वर्णन
श्लोक-१
मूलम् (वचनम्)
श्रीशुक उवाच
विश्वास-प्रस्तुतिः
मनुर्विवस्वतः पुत्रः श्राद्धदेव इति श्रुतः।
सप्तमो वर्तमानो यस्तदपत्यानि मे शृणु॥
मूलम्
मनुर्विवस्वतः पुत्रः श्राद्धदेव इति श्रुतः।
सप्तमो वर्तमानो यस्तदपत्यानि मे शृणु॥ १ ॥
अनुवाद (हिन्दी)
श्रीशुकदेवजी कहते हैं—परीक्षित्! विवस्वान् के पुत्र यशस्वी श्राद्धदेव ही सातवें (वैवस्वत) मनु हैं। यह वर्तमान मन्वन्तर ही उनका कार्यकाल है। उनकी सन्तानका वर्णन मैं करता हूँ॥ १॥
वीरराघवः
तद् एवं षष्ठं चाक्षुष-मन्वन्तरं सचरित्राजितावतारं निरूप्या ऽथ सप्तमादि-मन्वन्तराण्य् आह मुनिः यावद्-अध्याय-समाप्ति - मनुरिति । अधुना विद्यमानः सप्तमो मनुः विवस्वतः पुत्रः श्राद्ध-देव इति प्रसिद्धः । तस्य श्राद्ध-देवस्या ऽपत्यानि पुत्रान् कथयतो मे मत्तः शृणु ॥ १ ॥
श्लोक-२
विश्वास-प्रस्तुतिः
इक्ष्वाकुर्नभगश्चैव धृष्टः शर्यातिरेव च।
नरिष्यन्तोऽथ नाभागः सप्तमो दिष्ट उच्यते॥
श्लोक-३
विश्वास-प्रस्तुतिः
करूषश्च पृषध्रश्च दशमो वसुमान्स्मृतः।
मनोर्वैवस्वतस्यैते दश पुत्राः परन्तप॥
मूलम्
करू2षकः पृषध्रश्च दशमो वसुमान्स्मृतः।
मनोर्वैवस्वतस्यैते दश पुत्राः परन्तप॥ ३ ॥
अनुवाद (हिन्दी)
वैवस्वत मनुके दस पुत्र हैं—इक्ष्वाकु, नभग, धृष्ट, शर्याति, नरिष्यन्त, नाभाग, दिष्ट, करूष, पृषध्र और वसुमान॥ २-३॥
वीरराघवः
हे परन्तप ! इक्ष्वाक्-वादयश्-चैते दश वैवस्वतस्य मनोः पुत्राः ॥ २,३ ॥
श्लोक-४
विश्वास-प्रस्तुतिः
आदित्या वसवो रुद्रा विश्वेदेवा मरुद्गणाः।
अश्विनावृभवो राजन्निन्द्रस्तेषां पुरन्दरः॥
मूलम्
आदित्या वसवो रुद्रा विश्वेदेवा मरुद्गणाः।
अश्विनावृ3भवो राजन्निन्द्रस्तेषां पुरन्दरः॥ ४ ॥
अनुवाद (हिन्दी)
परीक्षित्! इस मन्वन्तरमें आदित्य, वसु, रुद्र, विश्वेदेव, मरुद्गण, अश्विनीकुमार और ऋभु—ये देवताओंके प्रधान गण हैं और पुरन्दर उनका इन्द्र है॥ ४॥
वीरराघवः
देवानाह - आदित्या इति । आदित्यादयो देवा इत्य् अन्वयः । इन्द्रम् आह - हे राजन् । तेषां 4देवानाम् अधिपतिः इन्द्रः पुरन्दराख्यः ॥ ४ ॥
श्लोक-५
विश्वास-प्रस्तुतिः
कश्यपोऽत्रिर्वसिष्ठश्च विश्वामित्रोऽथ गौतमः।
जमदग्निर्भरद्वाज इति सप्तर्षयः स्मृताः॥
मूलम्
कश्यपोऽत्रिर्वसिष्ठश्च विश्वामित्रोऽथ गौतमः।
जमदग्निर्भरद्वाज इति 5सप्तर्षयः स्मृताः॥ ५ ॥
अनुवाद (हिन्दी)
कश्यप, अत्रि, वसिष्ठ, विश्वामित्र, गौतम, जमदग्नि और भरद्वाज—ये सप्तर्षि हैं॥ ५॥
वीरराघवः
सप्तर्षीनाह - कश्यप इति ॥ ५ ॥
श्लोक-६
विश्वास-प्रस्तुतिः
अत्रापि भगवज्जन्म कश्यपाददितेरभूत्।
आदित्यानामवरजो विष्णुर्वामनरूपधृक्॥
अनुवाद (हिन्दी)
इस मन्वन्तरमें भी कश्यपकी पत्नी अदितिके गर्भसे आदित्योंके छोटे भाई वामनके रूपमें भगवान् विष्णुने अवतार ग्रहण किया था॥ ६॥
वीरराघवः
अवतारम्-आह - अत्रापीति । अत्रा ऽपि सप्तमे मन्वन्तरे कश्यपात्पितुः अदितेर्-मातुश्-च भगवज्-जन्मा ऽभूत्, भगवान् अवततारेत्य् अर्थः । स च विष्णुः उपेन्द्राख्यो वामन-रूपं धरतीति तथा आदित्यानां विवस्वानर्यमा पूषेत्य्-आदीनां षष्ठ-स्कन्धोक्तानां मध्ये अवरं जन्म यस्य सः, आदित्यानां कनीयान् इत्य् अर्थः ॥ ६ ॥
श्लोक-७
विश्वास-प्रस्तुतिः
संक्षेपतो मयोक्तानि सप्त मन्वन्तराणि ते।
भविष्याण्यथ वक्ष्यामि विष्णोः शक्त्यान्वितानि च॥
मूलम्
संक्षेपतो मयोक्तानि सप्त मन्वन्तराणि ते।
भविष्या8ण्यपि वक्ष्यामि विष्णोः श9क्त्यन्वितानि च॥ ७ ॥
अनुवाद (हिन्दी)
परीक्षित्! इस प्रकार मैंने संक्षेपसे तुम्हें सात मन्वन्तरोंका वर्णन सुनाया; अब भगवान्की शक्तिसे युक्त अगले (आनेवाले) सात मन्वन्तरोंका वर्णन करता हूँ॥ ७॥
वीरराघवः
एवं वर्तमानं सप्तम-मन्वन्तरम्-उक्तम्, षडतीतान्य्-उक्तानि । अथ भविष्याणि अष्टमादि-मन्वन्तराणि विवक्षुः उक्तान्य् अनुवदति - संक्षेपत इति । एवं सप्त मन्वन्तराणि संक्षेपतः तुभ्यं मयोक्तानि, अथ भविष्याणि वक्तुं प्रतिजानीते - भविष्याणीति । 10अथ विष्णोः शक्तिभिर् अंशैः, अवतारैर्-इति यावत् अन्वितानि भविष्याणि मन्वन्तराण्य् अष्टमादीनि वक्ष्यामि । विष्णोः शक्त्य्-अन्वितानि इत्य्-अनेन तेषाम् अवश्य-श्रोतव्यत्वं सूच्यते ॥ ७ ॥
श्लोक-८
विश्वास-प्रस्तुतिः
विवस्वतश्च द्वे जाये विश्वकर्मसुते उभे।
संज्ञा छाया च राजेन्द्र ये प्रागभिहिते तव॥
मूलम्
विवस्वतश्च द्वे 11जाये विश्वकर्मसुते उभे।
संज्ञा छाया च राजेन्द्र ये प्रागभिहिते तव॥ ८ ॥
अनुवाद (हिन्दी)
परीक्षित्! यह तो मैं तुम्हें पहले (छठे स्कन्धमें) बता चुका हूँ कि विवस्वान् (भगवान् सूर्य)-की दो पत्नियाँ थीं—संज्ञा और छाया। ये दोनों ही विश्वकर्माकी पुत्री थीं॥ ८॥
वीरराघवः
अष्टमं मन्वन्तरं वक्तुं तावत् तद् उपोद्घात-रूपाम् कथाम् आह - विवस्वत 12इत्य्-आदिभिः12 त्रिभिः । विश्व-कर्मणः प्रजापते दुहितरौ उभे संज्ञाच्छाया-नाम्न्यौ विवस्वतः द्वे भार्ये । हे राजेन्द्र ! ये संज्ञाच्छाये तव तुभ्यं मया प्राक् षष्ठ-स्कन्धे ऽभिहिते उक्ते ॥ ८ ॥
श्लोक-९
विश्वास-प्रस्तुतिः
तृतीयां वडवामेके तासां संज्ञासुतास्त्रयः।
यमो यमी श्राद्धदेवश्छायायाश्च सुताञ्छृणु॥
वीरराघवः
बडबाख्यां विवस्वतस् तृतीयां भार्याम् एके आहुः । मम तु 14नैव बडबेति मतम्14 । “सैव भूत्वा ऽथ बडबा नासत्यौ सुषुवे भुवि” (भाग. ६-६-४०) इति 15षष्ठ-स्कन्धोक्तेः15 । तासां तिसृणां भार्याणां मध्ये संज्ञायाः सुतास् त्रयः । सुता च सुतौ च सुताः । “पुमान् स्त्रिया” (अष्टा. १-२-६७) इत्य् एक-शेषः । एका सुता द्वौ सुतौ इत्य् अर्थः । अथ छायायाः सुतान् शृणु । अत्रापि पूर्ववद्-एक-शेषः । तद्-एवाह - यमश् च यमी च यमुना-नदी च श्राद्ध-देवश् चेति त्रयः सुता इत्य् अर्थः ॥ ९ ॥
श्लोक-१०
विश्वास-प्रस्तुतिः
सावर्णिस्तपती कन्या भार्या संवरणस्य या।
शनैश्चरस्तृतीयोऽभूदश्विनौ वडवात्मजौ॥
मूलम्
सावर्णिस्तपती16 कन्या भार्या संवरणस्य या।
शनैश्चरस्तृतीयोऽभूदश्विनौ वडवात्मजौ॥ १० ॥
अनुवाद (हिन्दी)
कुछ लोग ऐसा कहते हैं कि उनकी एक तीसरी पत्नी बडवा भी थी। (मेरे विचारसे तो संज्ञाका ही नाम बडवा हो गया था।) उन सूर्यपत्नियोंमें संज्ञासे तीन सन्तानें हुईं—यम, यमी और श्राद्धदेव। छायाके भी तीन सन्तानें हुईं—सावर्णि, शनैश्चर और तपती नामकी कन्या जो संवरणकी पत्नी हुई। जब संज्ञाने वडवाका रूप धारण कर लिया, तब उससे दोनों अश्विनीकुमार हुए॥ ९-१०॥
वीरराघवः
तद्-एवाह - सावर्णिः सुतः तपत्य्-आख्या कन्या सुता या तपतिः संवरणस्य भार्या कथिता । शनैश्चरस् तृतीयः, सावर्णि-शनैश्वरौ द्वौ 17पुत्रौ तपतिः एका सुता चेत्य् अर्थः । अश्विनौ तु बडबायाः सुतौ ॥ १० ॥
श्लोक-११
विश्वास-प्रस्तुतिः
अष्टमेऽन्तर आयाते सावर्णिर्भविता मनुः।
निर्मोकविरजस्काद्याः सावर्णितनया नृप॥
अनुवाद (हिन्दी)
आठवें मन्वन्तरमें सावर्णि मनु होंगे। उनके पुत्र होंगे निर्मोक, विरजस्क आदि॥ ११॥
वीरराघवः
अथ अष्टम-मन्वन्तर-षट्कम् आह - अष्टम इत्य्-आदिना, नवमो दक्ष-सावर्णिर् इत्यतः प्राक्तनेन ग्रन्थेन । अष्टमे मन्वन्तरे आयाते सति सावर्णिर् विवस्वत एव पुत्रो मनुः 22भविता भविष्यति । निर्मोहादयः सावर्णेर् मनोः पुत्रा भवितारः ॥ ११ ॥
श्लोक-१२
विश्वास-प्रस्तुतिः
तत्र देवाः सुतपसो विरजा अमृतप्रभाः।
तेषां विरोचनसुतो बलिरिन्द्रो भविष्यति॥
मूलम्
तत्र देवाः सुतपसो विरजा अमृतप्र23भाः।
तेषां विरोचनसुतो बलिरिन्द्रो भविष्यति॥ १२ ॥
अनुवाद (हिन्दी)
परीक्षित्! उस समय सुतपा, विरजा और अमृतप्रभ नामक देवगण होंगे। उन देवताओंके इन्द्र होंगे विरोचनके पुत्र बलि॥ १२॥
वीरराघवः
तत्र मन्वन्तरे सुतप-आद्याख्या देव-गणाः, तेषां देव-गणानां अधि24पतिर् इन्द्रो विरोचन-सुतो बलिः भविष्यति ॥ १२ ॥
श्लोक-१३
विश्वास-प्रस्तुतिः
दत्त्वेमां याचमानाय विष्णवे यः पदत्रयम्।
राद्धमिन्द्रपदं हित्वा ततः सिद्धिमवाप्स्यति॥
मूलम्
दत्त्वेमां याचमानाय विष्णवे यः पदत्रयम्।
राद्धमिन्द्रपदं 25हित्वा ततः सिद्धिमवाप्स्य26ति॥ १३ ॥
वीरराघवः
तं विशिनष्टि - दत्त्वेति द्वाभ्याम् । यो बलिः पद-त्रयं याचमानाय विष्णवे वामनाय इमां पृथ्वीं दत्त्वा 27विष्णोः प्रसादात् राद्धं लब्धं इन्द्र-पदं हित्वा, अनुभव-पूर्वकं हित्वेत्य् अर्थः । ततः सिद्धिं मुक्तिम् अवाप्स्यति ॥ १३ ॥
श्लोक-१४
विश्वास-प्रस्तुतिः
योऽसौ भगवता बद्धः प्रीतेन सुतले पुनः।
निवेशितोऽधिके स्वर्गादधुनाऽऽस्ते स्वराडिव॥
मूलम्
योऽसौ भगवता बद्धः प्रीतेन सुतले पुनः।
निवेशितोऽधिके स्वर्गादधुनाऽऽस्ते स्वराडिव॥ १४ ॥
अनुवाद (हिन्दी)
विष्णुभगवान्ने वामन अवतार ग्रहण करके इन्हींसे तीन पग पृथ्वी माँगी थी; परन्तु इन्होंने उनको सारी त्रिलोकी दे दी। राजा बलिको एक बार तो भगवान्ने बाँध दिया था, परन्तु फिर प्रसन्न होकर उन्होंने इनको स्वर्गसे भी श्रेष्ठ सुतल लोकका राज्य दे दिया। वे इस समय वहीं इन्द्रके समान विराजमान हैं। आगे चलकर ये ही इन्द्र होंगे और समस्त ऐश्वर्योंसे परिपूर्ण इन्द्रपदका भी परित्याग करके परम सिद्धि प्राप्त करेंगे॥ १३-१४॥
वीरराघवः
यो ऽसौ बलिर् भगवता बद्धः पुनः प्रीतेन तेनैव भगवता सुतले स्वर्गाद् अप्य् अधिके लोके निवेशितो ऽधुना स्वराड्-इन्द्र इवा ऽऽस्ते ॥ १४ ॥
श्लोक-१५
विश्वास-प्रस्तुतिः
गालवो दीप्तिमान् रामो द्रोणपुत्रः कृपस्तथा।
ऋष्यशृङ्गः पितास्माकं भगवान् बादरायणः॥
मूलम्
गालवो दीप्तिमान् रामो द्रोणपुत्रः कृपस्तथा।
ऋष्यशृङ्गः पितास्माकं भगवान् बादरायणः॥ १५ ॥
वीरराघवः
अत्र मन्वन्तरे भविष्यतः सप्तर्षीन् आह - गालव इति । रामः परशुरामः, द्रोण-पुत्रो ऽश्वत्थामा, कृपः कृपाचार्यः ॥ १५ ॥
श्लोक-१६
विश्वास-प्रस्तुतिः
इमे सप्तर्षयस्तत्र भविष्यन्ति स्वयोगतः।
इदानीमासते राजन् स्वे स्व आश्रममण्डले॥
मूलम्
इमे सप्तर्षय28स्तस्मिन् भविष्यन्ति स्वयोगतः।
इदानीमासते राजन् स्वे स्व आश्रममण्डले॥ १६ ॥
अनुवाद (हिन्दी)
गालव, दीप्तिमान्, परशुराम, अश्वत्थामा, कृपाचार्य, ऋष्यशृंग और हमारे पिता भगवान् व्यास—ये आठवें मन्वन्तरमें सप्तर्षि होंगे। इस समय ये लोग योगबलसे अपने-अपने आश्रममण्डलमें स्थित हैं॥ १५-१६॥
वीरराघवः
इमे गालवादयः स्व-योगतः स्व-योग-प्रभावात् सप्तर्षयो भविष्यन्ति । हे राजन् ! इदानीं त एते गालवादयः स्वकीया29श्रम-स्थानेषु वर्तन्ते ॥ १६ ॥
श्लोक-१७
विश्वास-प्रस्तुतिः
देवगुह्यात्सरस्वत्यां सार्वभौम इति प्रभुः।
स्थानं पुरन्दराद्धृत्वा बलये दास्यतीश्वरः॥
मूलम्
30देवगुह्यात्सरस्वत्यां सार्वभौ31म इति प्रभुः।
स्थानं पुरन्दराद्धृत्वा बलये दास्यतीश्वरः॥ १७ ॥
अनुवाद (हिन्दी)
देवगुह्यकी पत्नी सरस्वतीके गर्भसे सार्वभौम नामक भगवान्का अवतार होगा। ये ही प्रभु पुरन्दर इन्द्रसे स्वर्गका राज्य छीनकर राजा बलिको दे देंगे॥ १७॥
वीरराघवः
अवतारं तच् चरितच् चा ऽऽह - देव-गुह्याद् इति । ईश्वरो भगवान् देव-गुह्यात् सरस्वत्याम् अवतीर्णः सार्व-भौम इति प्रसिद्धो विभुः समर्थः, अत एव पुरन्दरात् सप्तम-मन्वन्तरस्थाद् इन्द्रात् स्थानम् इन्द्र-पदं हृत्वा ऽपनीय बलये दास्यति । अत्रेदम् अनुसन्धेयम् - चाक्षुषाख्ये षष्ठे मन्वन्तरे यदा दुर्वा32ससश् शापेन गतश्रीर् इन्द्रो ऽजित-शरण-वरणात् तत्-सहायो ऽमृतं प्राश्य बलिं विजित्य सश्रीकः स-देव-गणस् त्रि-लोकाधिपत्यं कृतवान् तदा बलिः भार्गवैर् आहित-बलः तम् इन्द्रम् उच्चाट्य त्रिविष्टपम् अधितस्थौ । तदा पुनर् अदित्या ऽऽराधितो भगवान् आदित्यानाम् 33अनुजो वामनो भूत्वा पद-त्रय-याच्ञा-व्याजेन बलेस् त्रि-विष्टपं गृहीत्वा इन्द्राय पुरन्दराय प्रदाय बलिम् अनुगृह्णन् इदम् आह - “एष मे प्रापितः स्थानं दुष्प्रापम् अमरैर् अपि । सावर्णेर् अन्तरस्या ऽयं भवितेन्द्रो मदाश्रयः ॥ तावत् सुतलम् अध्यास्ते विश्व-कर्म-विनिर्मितम् ॥” (भाग ८-२२-३१-३२) इति तद् एवम् अनुगृहीतस् तत्-प्रभृति-सुतले34 ऽधिवसन् आयास्यत्य् अष्टमे मन्वन्तरे तदा ऽवतरिष्यमाणेन सार्व-भौमाख्येन भगवता पुरन्दराद् अपनीय दत्तेन्द्र-पद इन्द्रो भविष्यति । ततस् तदाधिपत्यावसाने सिद्धिम् अवाप्स्यतीति ॥ १७ ॥
श्लोक-१८
विश्वास-प्रस्तुतिः
नवमो दक्षसावर्णिर्मनुर्वरुणसम्भवः।
भूतकेतुर्दीप्तकेतुरित्याद्यास्तत्सुता नृप॥
अनुवाद (हिन्दी)
परीक्षित्! वरुणके पुत्र दक्षसावर्णि नवें मनु होंगे। भूतकेतु, दीप्तकेतु आदि उनके पुत्र होंगे॥ १८॥
वीरराघवः
नवम-मन्वन्तर-षट्कम् आह - नवम इति । वरुण-सम्भवः वरुणस्य पुत्रः दक्ष-सावर्णिर् इति प्रसिद्धो मनुः 38नवमो भविता 39भविष्यति । तस्य सुताः धृतकेत्व्-आदयो 40भविष्यन्ति40 ॥ १८ ॥
श्लोक-१९
विश्वास-प्रस्तुतिः
पारा मरीचिगर्भाद्या देवा इन्द्रोऽद्भुतः स्मृतः।
द्युतिमत्प्रमुखास्तत्र भविष्यन्त्यृषयस्ततः॥
मूलम्
41पारा मरीचिगर्भाद्या दे42वा इन्द्रोऽद्भुतः स्मृतः।
द्युतिमत्प्रमुखास्तत्र भविष्यन्त्यृषयस्ततः॥ १९ ॥
अनुवाद (हिन्दी)
पार, मरीचिगर्भ आदि देवताओंके गण होंगे और अद्भुत नामके इन्द्र होंगे। उस मन्वन्तरमें द्युतिमान् आदि सप्तर्षि होंगे॥ १९॥
वीरराघवः
धात्रा43दयो देव-गणा इन्द्रस् तु श्रुतः इति प्रसिद्धो भविता द्युतिमत्-प्रभृतयस् सप्तर्षयो 44भविष्यन्ति ॥ १९ ॥
श्लोक-२०
विश्वास-प्रस्तुतिः
आयुष्मतोऽम्बुधारायामृषभो भगवत्कला।
भविता येन संराद्धां त्रिलोकीं भोक्ष्यतेऽद्भुतः॥
मूलम्
आयुष्मतोऽम्बुधारायामृषभो भग45वत्कला।
भविता येन सं46राद्धां त्रिलोकीं भोक्ष्य47तेऽद्भुतः॥ २० ॥
अनुवाद (हिन्दी)
आयुष्मान् की पत्नी अम्बुधाराके गर्भसे ऋषभके रूपमें भगवान्का कलावतार होगा। अद्भुत नामक इन्द्र उन्हींकी दी हुई त्रिलोकीका उपभोग करेंगे॥ २०॥
वीरराघवः
एवं मन्वादयः पञ्चोक्ताः स-चरित्रम् अवतारम् आह - आयुष्मत इति । अम्बुधारायां भार्यायाम् आयुष्मतः सकाशाद् भगवान् अवतीर्णः ऋषभ इति प्रसिद्धो भविता, येन ऋषभेण संरुद्धां रक्षितां त्रिलोकीं श्रुताख्य इन्द्रो भोक्ष्यते पालयिष्यति ॥ २० ॥
श्लोक-२१
विश्वास-प्रस्तुतिः
दशमो ब्रह्मसावर्णिरुपश्लोकसुतो महान्।
तत्सुता भूरिषेणाद्या हविष्मत्प्रमुखा द्विजाः॥
मूलम्
दशमो ब्रह्मसावर्णिरुपश्लोकसुतो महान्।
तत्सुता भूरिषेणाद्या हविष्मत्प्रमुखा द्विजाः॥ २१ ॥
वीरराघवः
दशम-मन्वन्तर-षट्कम् आह - दशम इति । उपश्लोकस्य सुतो महान् सुगुणः ब्रह्म-सावर्णिर् इति प्रसिद्धो दशमो मनुर् भविता । तस्य ब्रह्म-सावर्णेर् मनोः सुताः भूरिषेणाद्याः द्विजाः । सप्तर्षयस् तु हविष्मत्-प्रभृतयः ॥ २१ ॥
श्लोक-२२
विश्वास-प्रस्तुतिः
हविष्मान्सुकृतिः सत्यो जयो मूर्तिस्तदा द्विजाः।
सुवासनविरुद्धाद्या देवाः शम्भुः सुरेश्वरः॥
मूलम्
हविष्मान्सु48कृतिः सत्यो 49जटामूर्तिस्तदा द्विजाः।
50सुवासनवि51रुद्धाद्या देवाः शम्भुः सुरेश्वरः॥ २२ ॥
अनुवाद (हिन्दी)
दसवें मनु होंगे उपश्लोकके पुत्र ब्रह्मसावर्णि। उनमें समस्त सद्गुण निवास करेंगे। भूरिषेण आदि उनके पुत्र होंगे और हविष्मान्, सुकृति, सत्य, जय, मूर्ति आदि सप्तर्षि। सुवासन, विरुद्ध आदि देवताओंके गण होंगे और इन्द्र होंगे शम्भु॥ २१-२२॥
वीरराघवः
एतान् एव कांश्चिन् निर्दिशति - हविष्मानिति । सुवासनादयो देव-गणाः 52भविष्यन्ति । सुरेश्वर इन्द्रस् तु शम्भुः 53भविष्यति ॥ २२ ॥
श्लोक-२३
विश्वास-प्रस्तुतिः
विष्वक्सेनो विषूच्यां तु शम्भोःसख्यं करिष्यति।
जातः स्वांशेन भगवान् गृहे विश्वसृजो विभुः॥
मूलम्
विष्वक्सेनो विषूच्यां तु शम्भोः54सख्यं करिष्यति।
55जातोंऽशांशेन भगवान् गृहे विश्व56सृजो विभुः॥ २३ ॥
अनुवाद (हिन्दी)
विश्वसृज्की पत्नी विषूचिके गर्भसे भगवान् विष्वक्सेनके रूपमें अंशावतार ग्रहण करके शम्भु नामक इन्द्रसे मित्रता करेंगे॥ २३॥
वीरराघवः
अवतारम् आह - विष्वक्सेनो विभुर् भगवान् विश्वजितो गृहे तद्-भार्यायां विषूच्यां स्वांशेना ऽवतीर्णः शम्भोर् इन्द्रस्य सख्यं करिष्यति ॥ २३ ॥
श्लोक-२४
विश्वास-प्रस्तुतिः
मनुर्वै धर्मसावर्णिरेकादशम आत्मवान्।
अनागतास्तत्सुताश्च सत्यधर्मादयो दश॥
मूलम्
मनुर्वै धर्मसावर्णिरेकादशम आत्मवान्।
अनाग57तास्तत्सुताश्च सत्यधर्मादयो दश॥ २४ ॥
अनुवाद (हिन्दी)
ग्यारहवें मनु होंगे अत्यन्त संयमी धर्मसावर्णि। उनके सत्य, धर्म आदि दस पुत्र होंगे॥ २४॥
वीरराघवः
एकादश-मन्वन्तर-षट्कम् आह - मनुर् इति । आत्मवान् प्रशस्त-मनस्को धर्म-सावर्णिर् इति प्रसिद्धः एकादशो मनुर् भविष्यति । एकादशम् इत्य् आर्षम् । तस्य धर्म-सावर्णेस् सुताः दश सत्य-धर्मादयो ऽनागताः भवितारः ॥ २४ ॥
श्लोक-२५
विश्वास-प्रस्तुतिः
विहङ्गमाः कामगमा निर्वाणरुचयः सुराः।
इन्द्रश्च वैधृतस्तेषामृषयश्चारुणादयः॥
अनुवाद (हिन्दी)
विहंगम, कामगम, निर्वाणरुचि आदि देवताओंके गण होंगे। अरुणादि सप्तर्षि होंगे और वैधृत नामके इन्द्र होंगे॥ २५॥
वीरराघवः
विहङ्गमाद्या देव-गणाः, तेषाम् अधिपतिर् इन्द्रस् तु ध्रुव इति प्रसिद्धो भविता 60ऋषयः सप्तर्षयस् त्व् अरुणादयः ॥ २५ ॥
श्लोक-२६
विश्वास-प्रस्तुतिः
आर्यकस्य सुतस्तत्र धर्मसेतुरिति स्मृतः।
वैधृतायां हरेरंशस्त्रिलोकीं धारयिष्यति॥
अनुवाद (हिन्दी)
आर्यककी पत्नी वैधृताके गर्भसे धर्मसेतुके रूपमें भगवान्का अंशावतार होगा और उसी रूपमें वे त्रिलोकीकी रक्षा करेंगे॥ २६॥
वीरराघवः
अवतारम् आह - अर्यकस्येति । आर्यकस्य भार्यायां वैधृतायां जातो ऽवतीर्णः हरेर् अंशस् तत्र मन्वन्तरे धर्म-सेतुर् इति प्रसिद्धो 63भविष्यति । स च त्रिलोकीं धारयिष्यति 64रक्षिष्यति64 ॥ २६ ॥
श्लोक-२७
विश्वास-प्रस्तुतिः
भविता रुद्रसावर्णी राजन् द्वादशमो मनुः।
देववानुपदेवश्च देवश्रेष्ठादयः सुताः॥
अनुवाद (हिन्दी)
परीक्षित्! बारहवें मनु होंगे रुद्रसावर्णि। उनके देववान्, उपदेव और देवश्रेष्ठ आदि पुत्र होंगे॥ २७॥
वीरराघवः
हे राजन् ! द्वादशो मनुः रुद्र-सावर्णिर् इति प्रसिद्धो भविता । तस्य सुता देवादयः ॥ २७ ॥
श्लोक-२८
विश्वास-प्रस्तुतिः
ऋतधामा च तत्रेन्द्रो देवाश्च हरितादयः।
ऋषयश्च तपोमूर्तिस्तपस्व्याग्नीध्रकादयः॥
अनुवाद (हिन्दी)
उस मन्वन्तरमें ऋतुधामा नामक इन्द्र होंगे और हरित आदि देवगण। तपोमूर्ति, तपस्वी आग्नीध्रक आदि सप्तर्षि होंगे॥ २८॥
वीरराघवः
तत्र मन्वन्तरे 69ऋतुधामाख्य इन्द्रः । हरितादयो देव-गणाः । सप्तर्षयस् तु तपः प्रभृतयः ॥ २८ ॥
श्लोक-२९
विश्वास-प्रस्तुतिः
स्वधामाख्यो हरेरंशः साधयिष्यति तन्मनोः।
अन्तरं सत्यसहसः सूनृतायाः सुतो विभुः॥
मूलम्
स्वधामाख्यो हरेरंशः साधयिष्यति तन्मनोः।
अन्तरं सत्य70सहसः सूनृतायाः सुतो विभुः॥ २९ ॥
अनुवाद (हिन्दी)
सत्यसहाकी पत्नी सूनृताके गर्भसे स्वधामके रूपमें भगवान्का अंशावतार होगा और उसी रूपमें भगवान् उस मन्वन्तरका पालन करेंगे॥ २९॥
वीरराघवः
स्व-सुधामाख्यो हरेर् अंशावतारः, तस्य मनोः रुद्र-सावर्णेर् अन्तरं साधयिष्यति । स सत्य-सहस् सूनृतयोः सुतः ॥ २९ ॥
श्लोक-३०
विश्वास-प्रस्तुतिः
मनुस्त्रयोदशो भाव्यो देवसावर्णिरात्मवान्।
चित्रसेनविचित्राद्या देवसावर्णिदेहजाः॥
मूलम्
मनुस्त्रयोदशो भाव्यो देवसावर्णिरात्मवान्।
चित्रसेनविचित्राद्या देवसावर्णिदेहजाः॥ ३० ॥
अनुवाद (हिन्दी)
तेरहवें मनु होंगे परम जितेन्द्रिय देवसावर्णि। चित्रसेन, विचित्र आदि उनके पुत्र होंगे॥ ३०॥
वीरराघवः
त्रयोदशो मनुः देव-सावर्णिर् इति प्रसिद्धो भाव्यः भविता । देव-सावर्णे-देहाज्-जाताः तत्-सुताः चित्र-सेनादयः ॥ ३० ॥
श्लोक-३१
विश्वास-प्रस्तुतिः
देवाः सुकर्मसुत्रामसंज्ञा इन्द्रो दिवस्पतिः।
निर्मोकतत्त्वदर्शाद्या भविष्यन्त्यृषयस्तदा॥
मूलम्
देवाः सुकर्मसुत्रामसंज्ञा इन्द्रो दिवस्पतिः।
निर्मो71कतत्त्वदर्शाद्या भविष्यन्त्यृषयस्तदा॥ ३१ ॥
अनुवाद (हिन्दी)
सुकर्म और सुत्राम आदि देवगण होंगे तथा इन्द्रका नाम होगा दिवस्पति। उस समय निर्मोक और तत्त्वदर्श आदि सप्तर्षि होंगे॥ ३१॥
वीरराघवः
सु-कर्मादि-संज्ञकाः देव-गणाः, इन्द्रस् तु दिवस्पतिर् इति प्रसिद्धो भविता । तदा मन्वन्तरे ऋषयस् सप्त ऋषयो निर्मोकादयो भविष्यन्ति ॥ ३१ ॥
श्लोक-३२
विश्वास-प्रस्तुतिः
देवहोत्रस्य तनय उपहर्ता दिवस्पतेः।
योगेश्वरो हरेरंशो बृहत्यां सम्भविष्यति॥
मूलम्
देवहोत्रस्य तनय उपहर्ता दिवस्पतेः।
योगेश्वरो हरेरंशो बृहत्यां सम्भविष्यति॥ ३२ ॥
अनुवाद (हिन्दी)
देवहोत्रकी पत्नी बृहतीके गर्भसे योगेश्वरके रूपमें भगवान्का अंशावतार होगा और उसी रूपमें भगवान् दिवस्पतिको इन्द्रपद देंगे॥ ३२॥
वीरराघवः
देव-होत्रस्य भार्यायां बृहत्यां हरेर् अंशः सम्भविष्यति, स च योगेश्वराख्यो देव-होत्रस्य तनयो दिवस्पतेर् इन्द्रस्य उपहर्ता इष्ट-सम्पादको भविता ॥ ३२ ॥
श्लोक-३३
विश्वास-प्रस्तुतिः
मनुर्वा इन्द्रसावर्णिश्चतुर्दशम एष्यति।
उरुगम्भीरबुद्ध्याद्या इन्द्रसावर्णिवीर्यजाः॥
पादटिप्पनी
महाराज! चौदहवें मनु होंगे इन्द्रसावर्णि। उरु, गम्भीर, बुद्धि आदि उनके पुत्र होंगे॥ ३३॥
वीरराघवः
चतुर्दशो मनुस् त्व् इन्द्र-सावर्णिर् इति प्रसिद्धः एष्यति भविष्यति । तद्-वीर्यजाः तत्-सुताः उर्वादयः ॥ ३३ ॥
श्लोक-३४
विश्वास-प्रस्तुतिः
पवित्राश्चाक्षुषा देवाः शुचिरिन्द्रो भविष्यति।
अग्निर्बाहुः शुचिः शुद्धो मागधाद्यास्तपस्विनः॥
मूलम्
74पवित्राश्चाक्षुषा देवाः शुचिरिन्द्रो भविष्यति।
अग्निर्बाहुः शुचिः 75शुक्रो मागधाद्यास्तपस्विनः॥ ३४ ॥
अनुवाद (हिन्दी)
उस समय पवित्र, चाक्षुष आदि देवगण होंगे और इन्द्रका नाम होगा शुचि। अग्नि, बाहु, शुचि, शुद्ध और मागध आदि सप्तर्षि होंगे॥ ३४॥
वीरराघवः
देव-गणास् तु पवित्रादि-संज्ञिताः । इन्द्रश् शुचिर् इति प्रसिद्धः भविष्यति । तपस्विनः सप्तर्षयो अग्न्य्-आदयः ॥ ३४ ॥
श्लोक-३५
विश्वास-प्रस्तुतिः
सत्रायणस्य तनयो बृहद्भानुस्तदा हरिः।
वितानायां महाराज क्रियातन्तून्वितायिता॥
अनुवाद (हिन्दी)
उस समय सत्रायणकी पत्नी वितानाके गर्भसे बृहद्भानुके रूपमें भगवान् अवतार ग्रहण करेंगे तथा कर्मकाण्डका विस्तार करेंगे॥ ३५॥
वीरराघवः
हरिर् भगवान् सत्रायणस्य तनयो बृहद्-भानुर् इति प्रसिद्धो भविष्यति । हे महाराज ! स च बृहद्-भानुः वितानायां सत्रायणस्य भार्यायां जातः क्रिया-तन्तून् यज्ञ-कर्म-सन्तानान् वितायिता विस्तारयिष्यति ॥ ३५ ॥
श्लोक-३६
विश्वास-प्रस्तुतिः
राजंश्चतुर्दशैतानि त्रिकालानुगतानि ते।
प्रोक्तान्येभिर्मितः कल्पो युगसाहस्रपर्ययः॥
मूलम्
राजंश्चतुर्दशैतानि त्रिकालानुगतानि ते।
प्रोक्तान्येभि78र्मतः कल्पो युगसाहस्रपर्ययः॥ ३६ ॥
अनुवाद (हिन्दी)
परीक्षित्! ये चौदह मन्वन्तर भूत, वर्तमान और भविष्य—तीनों ही कालमें चलते रहते हैं। इन्हींके द्वारा एक सहस्र चतुर्युगीवाले कल्पके समयकी गणना की जाती है॥ ३६॥
अनुवाद (समाप्ति)
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामष्टमस्कन्धे मन्वन्तरानुवर्णनं नाम त्रयोदशोऽध्यायः॥ १३ ॥
वीरराघवः
मन्वन्तर-कथनम् उपसंहरति - राजन् इति । हे राजन् ! त्रि-कालानुगतानि भूत-वर्तमान-भविष्यत्-कालानुगतानि तत्र भूतानि षट् वर्तमानम् एकं भविष्याणि सप्त इत्य् एवं चतुर्दश-मन्वन्तराणि ते तुभ्यं मया प्रोक्तानि । एभिश् चतुर्-दशभिर् मन्वन्तरैः कल्पः दैनन्दिनात्मकः कल्पः । स च युग-साहस्र-परिमितः युगानां कृतादीनां सहस्र-वारं पर्ययः परिवृत्तिर् यस्मिन् स तथाभूतः ॥ ३६ ॥
इति श्रीमद्-भागवते अष्टम-स्कन्धे श्री-वीर-राघव-विदुषा लिखितायां भागवत-चन्द्र-चन्द्रिकायां व्याख्यायां त्रयोदशो ऽध्यायः ॥ १३ ॥
-
A,B,G,J,M,Ma,T षश्च , H,V शक ↩︎
-
H,V षभो ↩︎
-
A,B,T Omit देवानाम् ↩︎
-
H,V,W ते ऋषय ↩︎
-
H,V त ↩︎
-
A,B,G,J,M,Ma,T क् ↩︎
-
A,B,G,J,M,Ma,T ण्यथ ↩︎
-
A,B,G,J,T क्त्या ↩︎
-
W Omits अथ ↩︎
-
M,Ma भार्ये ↩︎
-
H,V,W तिः ↩︎
-
W सूतौ ↩︎
-
M,Ma रे यति ↩︎
-
A,B,G,J,T क ↩︎
-
A,B,G,J,T वर्णित ↩︎
-
A,B,G,J,M,Ma,T नृप! ↩︎
-
A,B,T Omit भविता ↩︎
-
M,Ma जाः ↩︎
-
W प ↩︎
-
H,V,W भुक्त्वा ↩︎
-
M,Ma सि ↩︎
-
A,B,T तत्प्र ↩︎
-
A,B,G,J,M,Ma,T स्तत्र ↩︎
-
A,B,T श्रमेषु ↩︎
-
H,V वेदगुह्यां ; B,M,Ma देवगुह्यां ↩︎
-
M,Ma मपतिः ↩︎
-
A,B,T सश्शा ↩︎
-
A,B,T मवरजो ↩︎
-
A,B,T लमधि ↩︎
-
A,B,G,J,M,Ma,T भूत ↩︎
-
W तान् ↩︎
-
A,B,G,J,M,Ma,T नृप! ↩︎
-
W Omits नवमः ↩︎
-
W Omits भविष्यति ↩︎
-
H,V परो मरीचिर्ग ; M,Ma परा मरीचिंग ; W धाता मरीचिर्ग ↩︎
-
W व इन्द्र श्रुत ↩︎
-
A,B,T द्याः ↩︎
-
A,B,T भवितारः ↩︎
-
M,Ma वान् किल ↩︎
-
M,Ma सन्त्रातो ; W संरुद्धा ↩︎
-
W ते श्रुतः ↩︎
-
M,Ma कृत ↩︎
-
A,B,G,J,M,Ma,T जयो ↩︎
-
H,V सुत्रमाणो ↩︎
-
W बुधाद्या ↩︎
-
A,B,T भवितारः ↩︎
-
A,B,T भविता ↩︎
-
श्शक्ति विधास्यति ↩︎
-
A,B,G,J,T जातस्स्वांशेन ; M,Ma जातश्शान्तस्तु ↩︎
-
M,Ma सृजां ↩︎
-
M,Ma त ↩︎
-
A,B,G,J,M,Ma‚T णरु ↩︎
-
A,B,G,J,T श्च वैधृतस्ते, M‚Ma श्चैव धृतिस्ते, W स्तु वै ध्रुवस्ते ↩︎
-
A,B,T Omit ऋषयः ↩︎
-
A,V सू ↩︎
-
H,V तो यो ↩︎
-
A,B,T भविता ↩︎
-
H,V भद्र ; M,Ma मेरु ↩︎
-
A,B,G,J,M,Ma वश्रेष्ठा ↩︎
-
A,B,G,J,M,Ma,T ऋत ↩︎
-
A,G,J,T स्व्या ; B ख्या ↩︎
-
A,B,T ऋत ↩︎
-
H‚V तपसः ↩︎
-
H‚V ह ↩︎
-
M,Ma ते ↩︎
-
A,B,G,J,T उरुगम्भीरबुद्ध्याद्या , M,Ma जन्तुभीरवर्व्याद्या ↩︎ ↩︎
-
M,Ma विचित्रा ↩︎
-
A,B,G,J,M,Ma,T श्शुद्धो ↩︎
-
M,Ma नारायणस्य ↩︎
-
H,V वितानाय ; M,Ma विनतायां ↩︎
-
A,B,G,J,M,Ma,T र्मित ↩︎