१२ शंकरमोहनम्

[द्वादशोऽध्यायः]

भागसूचना

मोहिनीरूपको देखकर महादेवजीका मोहित होना

श्लोक-१

मूलम् (वचनम्)

1श्रीशुक उवाच

विश्वास-प्रस्तुतिः

वृषध्वजो निशम्येदं योषिद्रूपेण दानवान्।
मोहयित्वा सुरगणान् हरिः सोममपाययत्॥

मूलम्

वृषध्वजो निशम्येदं योषिद्रूपेण दानवान्।
मोहयित्वा सुरगणान् हरिः सोममपाययत्॥ १ ॥

श्लोक-२

विश्वास-प्रस्तुतिः

वृषमारुह्य गिरिशः सर्वभूतगणैर्वृतः।
सह देव्या ययौ द्रष्टुं यत्रास्ते मधुसूदनः॥

मूलम्

वृषमारुह्य गिरिशः सर्वभूतगणैर्वृतः।
2सह देव्या2 ययौ द्रष्टुं यत्रास्ते मधुसूदनः॥ २ ॥

अनुवाद (हिन्दी)

श्रीशुकदेवजी कहते हैं—परीक्षित्! जब भगवान् शंकरने यह सुना कि श्रीहरिने स्त्रीका रूप धारण करके असुरोंको मोहित कर लिया और देवताओंको अमृत पिला दिया, तब वे सतीदेवीके साथ बैलपर सवार हो समस्त भूतगणोंको लेकर वहाँ गये, जहाँ भगवान् मधुसूदन निवास करते हैं॥ १-२॥

वीरराघवः

भगवन् मायया दैत्या मुमुहुर् इति न विचित्रम्, यतो रुद्र एव मुमोह इति वक्तुम् अध्यायः प्रवर्तते - वृषध्वज इति । हरिर् योषिद्-रूपेण दानवान् मोहयित्वा सुर-गणान् सोमम् अपाययद् इतीदं 3निशम्य श्रुत्वा वृष-ध्वजो रुद्रो भवान्या सह वृषम् आरुह्य सर्वैर्-भूत-गणैः प्रमथादिभिः परिवृतो यत्र मधु-सूदनो वर्तते तत्र योषिद्-रुपम् द्रष्टुं जगाम ॥ १,२ ॥

श्लोक-३

विश्वास-प्रस्तुतिः

सभाजितो भगवता सादरं सोमया भवः।
सूपविष्ट उवाचेदं प्रतिपूज्य स्मयन्हरिम्॥

मूलम्

सभाजितो भगवता सादरं सोमया भवः।
सूपविष्ट उवाचेदं प्रतिपूज्य स्मयन्हरिम्॥ ३ ॥

अनुवाद (हिन्दी)

भगवान् श्रीहरिने बड़े प्रेमसे गौरी-शंकरभगवान‍्का स्वागत-सत्कार किया। वे भी सुखसे बैठकर भगवान‍्का सम्मान करके मुसकराते हुए बोले॥ ३॥

वीरराघवः

सोमया उमया सह सादरं यथा तथा भगवता सभाजितः सत्-कृते । भवो रुद्रः सम्यग्-उपविष्टो हरिं प्रतिपूज्य स्मयन्न् इदं वक्ष्यमाणम् उवाच । प्रतिपूजा ऽत्र स्तुतिः ॥ ३ ॥

श्लोक-४

मूलम् (वचनम्)

4श्रीमहादेव उवाच

विश्वास-प्रस्तुतिः

देवदेव जगद्व्यापिञ्जगदीश जगन्मय।
सर्वेषामपि भावानां त्वमात्मा हेतुरीश्वरः॥

मूलम्

देवदेव जगद्व्यापिञ्जगदीश जगन्मय।
सर्वेषामपि भावानां त्वमात्मा हेतुरीश्वरः॥ ४ ॥

अनुवाद (हिन्दी)

श्रीमहादेवजीने कहा—समस्त देवोंके आराध्यदेव! आप विश्वव्यापी, जगदीश्वर एवं जगत्स्वरूप हैं। समस्त चराचर पदार्थोंके मूल कारण, ईश्वर और आत्मा भी आप ही हैं॥ ४॥

वीरराघवः

ताम् एवाह - देव-देवेत्यादिभिर् 5अष्टाभिः । तत्र असुर-सम्मोहनाय धृतं योषिद्-रूपं 6मह्यं दर्शयेति प्रार्थयितु-कामो नटेनेव बलान् असुरान् वञ्चयितुं मया धृतं कपट-पुंश्चली-रूपं द्रष्टुं किम् इच्छसीति मा प्रत्याचष्टेति अभिप्रयन् कृत्स्न-जगद्-उदय-विभव-लय-बन्ध-मोक्ष-लीलस्य अचिन्त्य-विविध-विचित्र-शक्तेस् तव तद् योषिद्-रूपं धर्म-प्रतिपक्ष-जगद्-उपद्रव-कृद् असुर-मोहनेन तद्-विनाशार्थत्वात् राम-कृष्णादि-रूपवत् लीलया आत्मीय-सङ्कल्पेन धृतं दर्शनीयम् एव । अन्यथा प्रकृति-पुरुष-विलक्षणस्य अवाप्त-समस्त-कामस्य निरतिशयानन्द-महोदधेः तवेदं प्राकृतस्येव न घटते इति वक्तुम् अनितर-साधारणैर् धर्मैः सम्बोधयति देव-देवेति । हे देव-देव! देवानाम् अस्मद्-आदीनाम् अपि देव! हे जगद्-व्यापिन् । जगद्-व्यापित्वं न वाय्व्-आकाशादिवत् तूष्णीम्, अपि तु प्रशासनेत्य् अभिप्रायेण सम्बोधयति जगदीशेति । 7हे जगदीश ! हे जगत्-प्रशासितः ! जगच्-छब्दः कार्यावस्थ-चिद्-अचिद्-आत्मक-जगत्-परः । न केवलं जगदीशः, अपि तु तद्-रूपश्-चेत्य् अभिप्रायेण सम्बोधयति जगन्-मयेति । हे जगत्-प्रचुर ! तत्-प्रचुरत्वञ् च तच्-छरीरकत्वेनेत्य् अभिप्रेत्य तत्-प्रतिसम्बन्ध्य्-आत्मत्वम् एवेत्य् आह - सर्वेषाम् अपि चेतनाचेतनात्मकानां भावानां पदार्थानाम् आत्मा त्वम् एव । आत्मत्वम् अन्तः प्रविश्य धारकत्वम् । न केवलम् आत्मैव अपि तु हेतुः कारण-भूत ईश्वरः कारणावस्थ-चिदचिन्-नियन्ता च त्वम् 8एवेत्य् अर्थः ॥ ४ ॥

श्लोक-५

विश्वास-प्रस्तुतिः

आद्यन्तावस्य यन्मध्यमिदमन्यदहं बहिः।
यतोऽव्ययस्य नैतानि तत् सत्यं ब्रह्म चिद् भवान्॥

मूलम्

9आद्यन्तौ10 चास्य यन्मध्यमिदमन्यदहं बहिः।
11यस्याव्ययस्य नैतानि तत् सत्यं ब्रह्म चिद् भवान्॥ ५ ॥

अनुवाद (हिन्दी)

इस जगत‍्के आदि, अन्त और मध्य आपसे ही होते हैं; परन्तु आप आदि, मध्य और अन्तसे रहित हैं। आपके अविनाशी स्वरूपमें द्रष्टा, दृश्य, भोक्ता और भोग्यका भेदभाव नहीं है। वास्तवमें आप सत्य, चिन्मात्र ब्रह्म ही हैं॥ ५॥

वीरराघवः

एवं कार्य-कारणोभयावस्थ-चिद्-अचिद्-आत्मकत्वं 12कृत्स्न-जगत्-कारणत्वञ् चोक्तम्12 । तत्र कारणत्वम् उपादानत्व-रूपं निमित्तत्व-रूपञ् चेति द्वि-विधम् अभिप्रेतम् । तत्र तावद् उपादानत्वम् उपपादयन् तत्-प्रयुक्तं विकारं परिहरति - आद्य्-अन्ताव् इति । यत इति ‘सार्व-विभक्तिकस् तसिः’ । ततश् च यतो यस्मिन् येन यद् इति लभ्यते । अस्य जगत आद्य्-अन्तौ - आदिः सृष्टिः उत्पत्तिः, यतः सूक्ष्म-चिद्-अचिद्-विशिष्टात् अस्यान्तो लयो यस्मिन्, अस्य मध्यं स्थितिर् येन, यच् चेदं विश्वं, यच् चा ऽन्यत् जगतो विलक्षणम् अहं प्रत्यग्-अर्थ-शरीरकं बहिः पराग्-अर्थ-शरीरकञ् च, यस्याव्ययस्य प्रकृति-पुरुष-गत-विकार-रहितस्य च एतान्य् आद्य्-अन्त-मध्यानि न सन्ति एतेषां शरीर-भूत-चिद्-अचिद्-गतत्वाद् इति भावः । तद् एवम्भूतं सत्यं स्व-रूपतः स्व-भावतश् च विकार-रहितं चित् नित्यासङ्कुचितापरिच्छिन्न-ज्ञानाश्रयं, तद्-आत्मकत्वञ् च ब्रह्म-स्व-रूपेण गुणैश् च निरतिशय-बृहत् भवान् एव । आद्य्-अन्ताव् इत्य्-आदिना जगत्-कारणत्वेनोक्तस्य स्व-रूपं विशोध्यते - तत् सत्यं ब्रह्म-चिद् इति । यथा “सत्यं ज्ञानम् अनन्तं ब्रह्म” (तैत्ति. उ. 2.1.1) इत्य्-अनेन जगत्-कारणत्व-वादि-वाक्योक्तं स्व-रूपं विशोध्यते । तद्-वत् सत्यादि-वाक्यार्थो ऽत्रानुसन्धेयः ॥ ५ ॥

श्लोक-६

विश्वास-प्रस्तुतिः

तवैव चरणाम्भोजं श्रेयस्कामा निराशिषः।
विसृज्योभयतः सङ्गं मुनयः समुपासते॥

मूलम्

तवैव चरणाम्भोजं श्रेयस्कामा निराशिषः।
विसृज्योभयतः सङ्गं मुनयः समुपासते॥ ६ ॥

अनुवाद (हिन्दी)

कल्याणकामी महात्मालोग इस लोक और परलोक दोनोंकी आसक्ति एवं समस्त कामनाओंका परित्याग करके आपके चरणकमलोंकी ही आराधना करते हैं॥ ६॥

वीरराघवः

सत्य-शब्देन सत्य-शब्दस्य चिद्-ब्रह्म-शब्दाभ्यां ज्ञानान्-अन्त-पदयोश् चात्र प्रत्यभिज्ञानात् । कश् च ध्येयः, “कारणन् तु ध्येयः” (अथ. शिखा. उ. 2.17) इति जगत्-कारणत्वं समनियतत्वम् उपास्यत्वम् अनितर-साधार13णत्वाच् चा ऽऽह तवैवेति । यतो जगत्-कारण-भूतस् त्वम् अतस् तवैव चरणाम्भोजं निःश्रेयस-कामा मुमुक्षवः उभयत इहा-मुत्र च सङ्गं त्यक्त्वा निराशिषः अनन्य-प्रयोजना मुनयो 14मनन-शीला भक्ताः14 त्वत्-स्व-रूप-रूप-गुण-विभूति-मनन-शीला 15इत्य् अर्थः । समुपासते सम्यक् विघ्नैर् अनभिभूयमानास्-सन्तः उपासते समीपम् आसते इत्य् अर्थः15 ॥ ६ ॥

श्लोक-७

विश्वास-प्रस्तुतिः

त्वं ब्रह्म पूर्णममृतं विगुणं विशोक-
मानन्दमात्रमविकारमनन्यदन्यत्।
विश्वस्य हेतुरुदयस्थितिसंयमाना-
मात्मेश्वरश्च तदपेक्षतयानपेक्षः॥

मूलम्

त्वं ब्रह्म पूर्णममृतं विगुणं विशोकमानन्दमात्रमविकारमनन्यदन्यत्।
विश्वस्य हेतुरुदयस्थितिसंयमानामात्मेश्वरश्च त16दपेक्षतयानपेक्षः॥ ७ ॥

अनुवाद (हिन्दी)

आप अमृतस्वरूप, समस्त प्राकृत गुणोंसे रहित, शोककी छायासे भी दूर, स्वयं परिपूर्ण ब्रह्म हैं। आप केवल आनन्दस्वरूप हैं। आप निर्विकार हैं। आपसे भिन्न कुछ नहीं है, परन्तु आप सबसे भिन्न हैं। आप विश्वकी उत्पत्ति, स्थिति और प्रलयके परम कारण हैं। आप समस्त जीवोंके शुभाशुभ कर्मका फल देनेवाले स्वामी हैं। परन्तु यह बात भी जीवोंकी अपेक्षासे ही कही जाती है; वास्तवमें आप सबकी अपेक्षासे रहित, अनपेक्ष हैं॥ ७॥

वीरराघवः

अथ लीलार्थम् एव योषिद्-रूपम् उपात्तम्, अन्यथा प्रकृति-पुरुष-विलक्षणस्य प्राकृतवन् न घटते इत्य् अभिप्रयन् प्रकृति-पुरुषयोर् असम्भावितैर् धर्मैर् विशिष्टं वेदान्त-वेद्यं जगन्-निमित्त-कारणं स्तौति - त्वम् इति । त्वं ब्रह्म-स्व-रूपेण गुणैश् च निरतिशय-बृहत् ब्रह्म-शब्द-वाच्यं परमात्म-तत्त्वं त्वम् एव । किं तत् ब्रह्म, यत् पूर्णं सर्व-व्याप्य् अमृतं स्व-रूपतः स्व-भावतश् च विकार-रहितं ब्रह्मामृत-शब्दाभ्यां सत्यादि-वाक्योदितं प्रत्यभिज्ञापितम् । पूर्ण-पदेन “तेनेदं पूर्णं पुरुषेण सर्वम्” (श्वेता. उ. 3-9) इति वाक्योदितम् । अत्र पूर्ण-शब्दः कर्तरिक्तान्तः । विगुणं स्थौल्यादि-गुण-रहितम् । अनेन “अस्थूलम् अनण्वह्रस्वम्” (बृह. उ. 3-8-8) इत्य्-आद्य्-अस्थूलादि-वाक्योदितं प्रत्यभिज्ञापितम् । विशोकम् इत्य्-अनेन “य एष आत्मा ऽपहतपाप्मा” (मैत्रा. उ. 7-7) इत्य्-आदि-दहर-वाक्योदितम्, आनन्द-मात्रम् इत्य्-अनेन “विज्ञानम् आनन्दम्” (बृह. उ. 3-9-28) इत्य्-आदि-वाक्यादितम् । मात्रचा दुःख-सम्भेद-व्युदासः । अविकारम् इत्य्-अनेन “निष्क्रियं निष्कलम्” (श्वेता. उ. 6-19) इत्य्-आदि-वाक्यादितं निरवद्यत्वं प्रत्यभिज्ञानात् अन्यत् सर्व-शरीरकत्वात् सर्व-कारणत्वात् च सर्वस्मात् प्रकृति-पुरुषात्मकान् जगतो ऽनन्यत् । अनेन “एतद्-आत्म्यम् इदं सर्वम्” (छान्दो. उ. 6-8-7) “तत् सत्यम्” (छान्दो. उ. 6-8-7) “स आत्मा” (छान्दो. उ. 6-8-7) “अयम् आत्मा ब्रह्म” (बृह. उ. 6-4-5) “तत्त्वम्-असि” (छान्दो. उ. 6-8-7) “सर्वं खल्व्-इदं ब्रह्म” (छान्दो. उ. 3-14-1) इत्य्-आदि-वाक्यार्थः प्रत्यभिज्ञापितः । अन्यत् शरीराच् छरीरिणो भिन्नत्वात् अन्यत् । अनेन “य आत्मनि तिष्ठन्” (ब्रह्म. उ. 3-7-22) “यः पृथिव्यां तिष्ठन्” (बृह. उ. 3-7-3) इत्य्-आदि-श्रुत्य्-अर्थः प्रत्यभिज्ञापितः । विश्वस्योदय-स्थिति-संयमानां सृष्टि-स्थिति-लयानां हेतुर् इत्य्-अनेन “सद् एव सौम्येदम् अग्र आसीत्” (छान्दो. उ. 6-2-1) “अनेन जीवेना ऽऽत्मना ऽनुप्रविश्य सन्-मूलाः सौम्येमाः सर्वाः प्रजाः सदायतनास् सत्-प्रतिष्ठाः” (छान्दो. उ. 6-3-2) इत्य्-आदि-कारण-वाक्यार्थः आत्मेश्वर अनन्येश्वरः 17अनेन “पतिं विश्वस्यात्मेश्वरम्” (म. ना. उ. 93) “न तत्-समश् चा ऽभ्यधिकश् च दृश्यते” (श्वेता. उ. 6-8) “स्वे महिम्नि प्रतिष्ठितः” (छान्दो. उ. 7-24-1) इत्य्-आदि-श्रुत्य्-अर्थो ऽनुसंहितः । यद् वा, विश्वस्य चिद्-अचिद्-आत्मकस्य आत्मा तद्-उदय-स्थिति-संयमानां व्यापाराणां तद्-अपेक्षतया कर्म-भूतोक्त-विध-परमात्म-स्व-रूपापेक्षतया तद्-उदयादीनाम् ईश्वरः कर्तृ-भूतश् चेत्य् अर्थः । अनेन पूर्वम् अभिप्रेतं निमित्त-कारणत्वम् उपपादितं भवति । एवम्भूतो ऽपि त्वम् अनपेक्षः अपेक्षा-रहितः अनादरः सर्वम् इदं कल्याण-गुण-जातम् अभ्याददानो ऽप्य् अनादरः । अनेन “सर्वम् इदम् अभ्यातो ऽवाक्यनादरः” (छान्दो. उ. 3-14-2) इति श्रुत्यर्थो ऽनुसंहितः । अवाप्त-समस्त-कामत्वेन अपेक्षणीयत्वाभावाद् अनादरः । अत एव अवाक् अजल्पाकः, परिपूर्णैश्वर्यत्वात् “ब्रह्मादि-स्तम्ब-पर्यन्तं निखिलं जगत् तृणीकृत्य जोषम् आसीनः” इति श्रुत्य्-अर्थः 18प्रत्यभिज्ञापित इत्य् अर्थः18 ॥ ७ ॥

श्लोक-८

विश्वास-प्रस्तुतिः

एकस्त्वमेव सदसद् द्वयमद्वयं च
स्वर्णं कृताकृतमिवेह न वस्तुभेदः।
अज्ञानतस्त्वयि जनैर्विहितो विकल्पो
यस्माद् गुणैर्व्यतिकरो निरुपाधिकस्य॥

मूलम्

एकस्त्वमेव सदसद् द्वयमद्वयं च स्वर्णं कृताकृतमिवेह न वस्तुभेदः।
अज्ञानतस्त्वयि जनैर्विहितो विकल्पो यस्माद्19 गुणैर्व्यतिकरो निरुपाधिक20स्य॥ ८ ॥

अनुवाद (हिन्दी)

स्वामिन्! कार्य और कारण, द्वैत और अद्वैत—जो कुछ है, वह सब एकमात्र आप ही हैं; ठीक वैसे ही जैसे आभूषणोंके रूपमें स्थित सुवर्ण और मूल सुवर्णमें कोई अन्तर नहीं है,—दोनों एक ही वस्तु हैं। लोगोंने आपके वास्तविक स्वरूपको न जाननेके कारण आपमें नाना प्रकारके भेदभाव और विकल्पोंकी कल्पना कर रखी है। यही कारण है कि आपमें किसी प्रकारकी उपाधि न होनेपर भी गुणोंको लेकर भेदकी प्रतीति होती है॥ ८॥

वीरराघवः

अनन्यद् अन्यद् इत्य् उक्ते अनन्यत्वान्यत्वे उपपादयति - एक इति । सद्-असत्-चिद्-अचिद्-उभयात्मकं जगत् त्वम् एक एव । कार्य-भूताच्-चिद्-अचिद्-उभयात्मकत्वात् जगतः तत्-कारण-भूतस् त्वम् अभिन्न एवेत्य् अर्थः । कार्य-कारणयोर् अभेदाद् इति भावः । ननु कार्य-कारणाभ्यां सजातीयाभ्याम् एव भवितव्यम् । कार्यञ् च जगत् चिद्-अचिद्-आत्मकम् । अहन् तु तद्-उभय-विलक्षणत्वेन त्वयैवाभिहित इत्य्-आशङ्कां निराचिकीर्षुर् विशिनष्टि - एक इति । एकः नाम-रूप-विभागानर्ह-सूक्ष्म-चिद्-अचिच्-छरीरकत्वेन एकः सद्-असद्-आत्मक-जगद्-गत-भेदस्य नाना-रूप-विभाग-प्रयुक्तत्वेन तत्-प्रतिसम्बन्ध्य्-एकत्वं तद्-अभाव-प्रयुक्तम् अत्रैक-शब्दार्थः एवञ् च सालक्षण्यात् कार्य-कारण-भावस् तयोर् अभेदश् चोपपन्न इति भावः । कार्य-कारणयोर् अभेदे दृष्टान्तम् आह - अद्वयम् इति । कृताकृतं कार्य-कारणावस्थं स्वर्णम् अद्वयम् एकम् एव, तद्-वत् । इह कार्य-कारणयोर् जगद्-ब्रह्मणोर् न वस्तु-भेदः । न वस्तु-भेद इत्य्-अनेन कार्यत्व-कारणत्वावस्थयोर् अवस्था-तद्-वतोश् च भेदे ऽपि अवस्थावतोर् वस्तुनोः कार्य-कारणयोः 21न भेदः । कारण-द्रव्यम् एव अवस्थान्तर्-आपन्नं कार्यम् इत्य् उक्तम् । अनेनासत्-कार्य-वाद-व्युदासः सूचितः तम् एवोपपादयति - त्वयि कार्य-कारण-रूपं त्वयि, विकल्पो 22विभेदः जनैर् वैशेषिकादिभिः अज्ञान-कल्पितः बुद्धि-शब्दान्तर्-आदीनाम् अवस्था-भेदेनाप्य् उपपत्तेर् वस्तु-भेदो ऽज्ञान-कल्पित इति भावः । यतो ऽयं गुण-व्यतिकरः गुण-परिणामात्मकः प्रपञ्चः निरुपाधिकस्य प्रकृति-पुरुषाभ्यां निष्कृष्ट-स्व-रूपस्य तव सम्बन्धी त्वच्-छरीर-भूतः ततस् त्वत्-स्व-रूपं शरीर-भूतात् गुण-व्यतिकराद् द्वयं भिन्नञ् चेत्य् अर्थः ॥ ८ ॥

श्लोक-९

विश्वास-प्रस्तुतिः

त्वां ब्रह्म केचिदवयन्त्युत धर्ममेके
एके परं सदसतोः पुरुषं परेशम्।
अन्येऽवयन्ति नवशक्तियुतं परं त्वां
केचिन्महापुरुषमव्ययमात्मतन्त्रम्॥

मूलम्

त्वां ब्रह्म केचिदवयन्त्युत धर्ममेके 23एके परं सदसतोः पुरुषं परेशम्।
24अन्ये वदन्ति24 नवशक्तियुतं परं त्वां केचिन्महापुरुषमव्ययमा25त्मतत्त्वम्॥ ९ ॥

अनुवाद (हिन्दी)

प्रभो! कोई-कोई आपको ब्रह्म समझते हैं, तो दूसरे आपको धर्म कहकर वर्णन करते हैं। इसी प्रकार कोई आपको प्रकृति और पुरुषसे परे परमेश्वर मानते हैं तो कोई विमला, उत्कर्षिणी, ज्ञाना, क्रिया, योगा, प्रह्वी, सत्या, ईशाना और अनुग्रहा—इन नौ शक्तियोंसे युक्त परम पुरुष तथा दूसरे क्लेश-कर्म आदिके बन्धनसे रहित, पूर्वजोंके भी पूर्वज, अविनाशी पुरुषविशेषके रूपमें मानते हैं॥ ९॥

वीरराघवः

एवम् अनन्यत्वान्यत्वे उपपादिते । तद् एवं प्रकृति-पुरुष-विलक्षणत्वेन वेदान्त-वेद्यस् त्वम् एवेति स्तुतम् । किं बहुना? “सर्वे वेदा यत्-पदम् आमनन्ति, वेदश् च सर्वैर् अहम् एव वेद्यः वेदान्त-कृद् वेद-विद् एव चाहम्” । (भ.गी. 15-15) इत्य् आद्य्-उक्त-रीत्या निगमागमादिषु सर्वत्र धर्म-ब्रह्मादि-शब्दैः व्यवह्रियमाणस् त्वम् एवेत्य् आह - त्वां ब्रह्मेति । केचिद् वेदोत्तर-भागाः त्वां ब्रह्म अवयन्ति; मन्यन्ते ब्रह्मेति बोधयन्ति । केचिद् वेदान्तिनो ब्रह्मेति व्यवहरन्तीत्य्-अर्थः । एके मीमांसकाः धर्मम् अवयन्ति । यद्य्-अप्य् अपूर्वाख्यं क्रिया-जन्यं ते धर्मं मन्यन्ते, तथा ऽपि “फलम् अत उपपत्तेः” (ब्र.सू. 3.7.37) इति शारीरक-न्यायेन अपूर्वस्या ऽपि भगवत्-प्रसाद-रूपत्वम् अकामेना ऽपि तैर् अवश्यं वाच्यम् इति यागादि-क्रियाया भगवद्-आराधन-रूपत्वेन तत्-प्रतिपादकस्य वेद-पूर्व-भागस्य आराध्ये अलौकिक-श्रेयस्-साधने सिद्ध-धर्म-रूपे तस्मिन् एव पर्यवसानात्, तत्रा ऽपि तात्पर्य-वृत्त्या भगवान् एव प्रतिपाद्यते इत्य्-अभिप्रायेण धर्मम् एके ऽवयन्तीत्य् उक्तम् । तथा चोक्तम् - “ये च वेद-विदो विप्राः ये चा ऽध्यात्म-विदो जनाः । ते वदन्ति महात्मानं कृष्णं धर्मं सनातनम्” (भारत. उ. 48 26) इति । एके सेश्वर-सांख्याः यौगिकाश् च तत्र वेदान्त-विरुद्ध-तत्त्वापोहेन इतरद् ग्राह्यम् । निरीश्वर-सांख्य-स्मृतिस् तु निर्मूलैवेति भावः । सद्-असतोः प्रकृति-पुरुषयोः परं विलक्षणं परेश-शब्द-वाच्यम् अवयन्ति । अन्ये केचित् पाञ्चरात्रास् तु नव-शक्ति-युतम् - “विमलोत्कर्षिणी ज्ञाना क्रिया योगा ततः परम् । प्रह्वा सत्या तथेशाना ऽनुग्रहा नव-शक्तयः” इत्य्-उक्तं नव-शक्ति-युतं परं निस्समाभ्यधिकं अव्ययं निर्विकारं स्वतन्त्रं महा-पुरुषम् अवयन्ति ॥ ९ ॥

श्लोक-१०

विश्वास-प्रस्तुतिः

नाहं परायुर्ऋषयो न मरीचिमुख्या
जानन्ति यद्विरचितं खलु सत्त्वसर्गाः।
यन्मायया मुषितचेतस ईश दैत्य-
मर्त्यादयः किमुत शश्वदभद्रवृत्ताः॥

मूलम्

नाहं परायुर्ऋषयो न मरीचिमुख्या जानन्ति यद्विरचितं खलु सत्त्वसर्गाः।
यन्मायया मुषितचेतस ईश दैत्यमर्त्यादयः किमुत शश्वदभद्रवृत्ताः॥ १० ॥

अनुवाद (हिन्दी)

प्रभो! मैं, ब्रह्मा और मरीचि आदि ऋषि—जो सत्त्वगुणकी सृष्टिके अन्तर्गत हैं—जब आपकी बनायी हुई सृष्टिका भी रहस्य नहीं जान पाते, तब आपको तो जान ही कैसे सकते हैं। फिर जिनका चित्त मायाने अपने वशमें कर रखा है और जो सर्वदा रजोगुणी और तमोगुणी कर्मोंमें लगे रहते हैं, वे असुर और मनुष्य आदि तो भला जानेंगे ही क्या॥ १०॥

वीरराघवः

न कार्त्स्न्येन त्वद्-गुणान् स्तोतुं वयं प्रभवामः, यतस् त्वया सृष्टं विश्वम् एव तत्त्वतो न जानीमः 26इत्य् अत आह - नेति । अहं रुद्रः, परायुर् ब्रह्मा मरीच्यादयो ऋषयः त एते वयं सत्त्व-27वर्गाः जन्तु-समूहाः यस्य तव मायया सङ्कुचित-ज्ञानाः यत् त्वया विरचितं विश्वम् एव तत्त्वतो न जानीमः, किं पुनर् अनन्त-त्वत्-स्व-रूप-गुणादिकम् अस्मदादय एव न जानन्ति । किं पुनः शश्वत्-सदा अभद्र-वृत्ताः ज्ञान-सङ्कोचकात्मका ऽमङ्गल-कर्म-परायणाः दैत्य-मर्त्यादयो न जानन्तीति ॥ १० ॥

श्लोक-११

विश्वास-प्रस्तुतिः

स त्वं समीहितमदः स्थितिजन्मनाशं
भूतेहितं च जगतो भवबन्धमोक्षौ।
वायुर्यथा विशति खं च चराचराख्यं
सर्वं तदात्मकतयावगमोऽवरुन्त्से॥

मूलम्

स त्वं 28समीहितमदः28 स्थितिजन्म29नाशं भूतेहितं च जगतो भवबन्धमोक्षौ।
वायुर्यथा विशति खं च चराचराख्यं सर्वं 30तदात्मकतयावग31मोऽवरुन्त्से॥ ११ ॥

अनुवाद (हिन्दी)

प्रभो! आप सर्वात्मक एवं ज्ञानस्वरूप हैं। इसीलिये वायुके समान आकाशमें अदृश्य रहकर भी आप सम्पूर्ण चराचर जगत‍्में सदा-सर्वदा विद्यमान रहते हैं तथा इसकी चेष्टा, स्थिति, जन्म, नाश, प्राणियोंके कर्म एवं संसारके बन्धन, मोक्ष—सभीको जानते हैं॥ ११॥

वीरराघवः

त्वम् एक एव अपरिच्छिन्न-स्व-रूप-स्व-भावः सर्वज्ञ इत्य् आह - स इति । स त्वम् उक्त-विधस् त्वं सर्वं तद् आत्मकतया सर्वान्तर्-आत्मकतया, व्याप्येति शेषः, अवरुन्त्से जानासि । कथम्भूतः? अवगमः ज्ञान-स्व-रूपः, सर्वात्मकतया शास्त्रेणा ऽवगम्यो वा । किं तत् सर्वं समीहितं स्व-कृतम् अदो ऽमुष्य जगतः स्थिति-सृष्टि-नाशानां समाहारः । तत् भूतानाम् ईहितं च जगतो भव-रूपं बन्धं मोक्षं - इत्येतत् सर्वम् । अवभुङ्क्षे इति पाठान्तरम् । तदा अन्तर्-आत्मतया अवगमः । अवगच्छतीत्यवगमः, कर्तरि पचाद्यजन्तः । जानन्न् अवभुङ्क्षे, लीला-रसम् अनुभवसीत्य् अर्थः । व्योप्तौ दृष्टान्तः - चराचरात्मकं वस्तु वायुः खम् आकाशं च यथा अविशति तद्-वद् इति ॥ ११ ॥

श्लोक-१२

विश्वास-प्रस्तुतिः

अवतारा मया दृष्टा रममाणस्य ते गुणैः।
सोऽहं तद् द्रष्टुमिच्छामि यत् ते योषिद्वपुर्धृतम्॥

मूलम्

अवतारा मया दृष्टा रममाणस्य ते 32गुणैः।
सोऽ33हं तद् द्रष्टुमिच्छामि यत् ते योषिद्वपुर्धृतम्॥ १२ ॥

अनुवाद (हिन्दी)

प्रभो! आप जब गुणोंको स्वीकार करके लीला करनेके लिये बहुत-से अवतार ग्रहण करते हैं, तब मैं उनका दर्शन करता ही हूँ। अब मैं आपके उस अवतारका भी दर्शन करना चाहता हूँ, जो आपने स्त्रीरूपमें ग्रहण किया था॥ १२॥

वीरराघवः

एवं प्रतिपूज्य प्रस्तुतं विज्ञापयति - अवतारा इति द्वाभ्याम् । गुणैः सर्वज्ञत्व-सर्वान्तर्-आत्मत्वादिभिः कल्याण-गुणैः रममाणस्य लीला-रसम् अनुभवतः तवा ऽवतारा वराहादयो बहवो मया दृष्टाः । योषिद्-रूपं तु न दृष्टम् । सो ऽहं दृष्ट-बहु-भवद्-अवतारो ऽहम् अधुना यत् ते त्वया धृतं योषिद्-वपुः तत् द्रष्टुम् इच्छामि ॥ १२ ॥

श्लोक-१३

विश्वास-प्रस्तुतिः

येन सम्मोहिता दैत्याः पायिताश्चामृतं सुराः।
तद् दिदृक्षव आयाताः परं कौतूहलं हि नः॥

मूलम्

येन सम्मोहिता दैत्याः पायिताश्चामृतं सुराः।
34तं दिदृक्षव आयाताः परं कौतूहलं हि नः॥ १३ ॥

अनुवाद (हिन्दी)

जिससे दैत्योंको मोहित करके आपने देवताओंको अमृत पिलाया, स्वामिन्! उसीको देखनेके लिये हम सब आये हैं। हमारे मनमें उसके दर्शनका बड़ा कौतूहल है॥ १३॥

वीरराघवः

येन योषिद्-वपुषा दैत्यास् सम्मोहिताः सुरास् त्व् अमृतं पायिताः, तद् योषिद्-वपुः द्रष्टुम् इच्छवो वयम् आगताः । तद्-दर्शने ऽस्माकम् अधिकं कौतूहलं वर्तते ॥ १३ ॥

श्लोक-१४

मूलम् (वचनम्)

श्रीशुक उवाच

विश्वास-प्रस्तुतिः

एवमभ्यर्थितो विष्णुर्भगवान् शूलपाणिना।
प्रहस्य भावगम्भीरं गिरिशं प्रत्यभाषत॥

मूलम्

एवमभ्यर्थितो विष्णुर्भगवान् शूलपाणिना।
प्रहस्य भावगम्भीरं गिरिशं प्रत्यभाषत॥ १४ ॥

अनुवाद (हिन्दी)

श्रीशुकदेवजी कहते हैं—जब भगवान् शंकरने विष्णुभगवान‍्से यह प्रार्थना की, तब वे गम्भीरभावसे हँसकर शंकरजीसे बोले॥ १४॥

वीरराघवः

35एवम् उक्तो भगवान् रुद्रं प्रत्यभाषतेत्य् आह शुकः - एवम् इति3536एवम् इत्थं शूल-पाणिना रुद्रेणाभ्यर्थितः 37प्रार्थितो भगवान् भाव-गम्भीरं केनचिद् अभिप्रायेण गम्भीरं यथा तथा प्रहस्य रुद्रं प्रत्यभाषत ॥ १४ ॥

श्लोक-१५

मूलम् (वचनम्)

श्रीभगवानुवाच38

विश्वास-प्रस्तुतिः

कौतूहलाय दैत्यानां योषिद्वेषो मया कृतः।
पश्यता सुरकार्याणि गते पीयूषभाजने॥

मूलम्

कौतूहलाय दैत्यानां योषिद्वेषो मया 39धृतः।
पश्यता सुरकार्याणि 40गते पीयूषभाजने॥ १५ ॥

अनुवाद (हिन्दी)

श्रीविष्णुभगवान‍्ने कहा—शंकरजी! उस समय अमृतका कलश दैत्योंके हाथमें चला गया था। अतः देवताओंका काम बनानेके लिये और दैत्योंका मन एक नये कौतूहलकी ओर खींच लेनेके लिये ही मैंने वह स्त्रीरूप धारण किया था॥ १५॥

वीरराघवः

तद् एवाह कौतूहलायेति द्वाभ्याम् । पीयूष-भाजने अमृत-कलशे गते दैत्यैर् अपहृते सति सुर-कार्याणि योषिद्-वेषेण भविष्यन्तीति पश्यता आलोचयता मया दैत्यानां कौतूहलाय योषिद्-वेषः 41धृतः उपात्तः ॥ १५ ॥

श्लोक-१६

विश्वास-प्रस्तुतिः

तत्तेऽहं दर्शयिष्यामि दिदृक्षोः सुरसत्तम।
कामिनां बहु मन्तव्यं सङ्कल्पप्रभवोदयम्॥

मूलम्

तत्तेऽहं दर्शयिष्यामि दिदृक्षोः सुरसत्तम।
42कामिनां बहु42 मन्तव्यं सङ्कल्पप्रभवोदयम्॥ १६ ॥

अनुवाद (हिन्दी)

देवशिरोमणे! आप उसे देखना चाहते हैं, इसलिये मैं आपको वह रूप दिखाऊँगा। परन्तु वह रूप तो कामी पुरुषोंका ही आदरणीय है, क्योंकि वह कामभावको उत्तेजित करनेवाला है॥ १६॥

वीरराघवः

तत् ते दिदृक्षोर् अहं दर्शयिष्यामीत्य् अन्वयः । पश्यतेत्यस्यायं भावः - अवश्यं तावद् उन्मत्तान् दैत्यान् वञ्चयिन्वा देवेभ्यो ऽमृतं देयम् । न चेदं वैषम्यम् । रूपान्तरेण 43तथा कर्तुम् उचितम् । अतो वञ्चन-मोहनादि-सारं कामिनी-रूपं मया धृतम् इति । कथम्भूतं योषिद्-44वपुः? कामिनां बहु-मन्तव्यम्, कामुकैर् बहुमाननीयम् । सङ्कल्प-प्रभवः कामः, तस्योदयो यस्मात् तादृशम् ॥ १६ ॥

श्लोक-१७

मूलम् (वचनम्)

45श्रीशुक उवाच

विश्वास-प्रस्तुतिः

इति ब्रुवाणो भगवांस्तत्रैवान्तरधीयत।
सर्वतश्चारयंश्चक्षुर्भव आस्ते सहोमया॥

मूलम्

इति ब्रुवाणो भगवांस्तत्रैवान्तरधीयत।
सर्वतश्चारयंश्चक्षुर्भव आस्ते सहोमया॥ १७ ॥

अनुवाद (हिन्दी)

श्रीशुकदेवजी कहते हैं—इस तरह कहते-कहते विष्णुभगवान् वहीं अन्तर्धान हो गये और भगवान् शंकर सती देवीके साथ चारों ओर दृष्टि दौड़ाते हुए वहीं बैठे रहे॥ १७॥

वीरराघवः

इत्थम् उक्त्वा ऽन्तर्हितो भगवान् योषितं स्व-निर्मितां काश्चिद्46 उपवने दर्शयामासेत्य्-आह मुनिः - इतीति इत्थं 47ब्रुवाणो ऽभिदधानो भगवान् तत्रैवान्तर्हितो बभूव, रुद्रस् तु उमया भवान्या सह सर्वतः 48परितः चक्षुः प्रसारयन् परितः पश्यन्न् आस्ते 49तत्रैवासाञ्चक्रे ॥ १७ ॥

श्लोक-१८

विश्वास-प्रस्तुतिः

ततो ददर्शोपवने वरस्त्रियं
विचित्रपुष्पारुणपल्लवद्रुमे।
विक्रीडतीं कन्दुकलीलया लसद्
दुकूलपर्यस्तनितम्बमेखलाम्॥

मूलम्

ततो ददर्शोपवने वरस्त्रियं विचित्रपुष्पारुणपल्लवद्रुमे।
विक्रीडतीं कन्दुकलीलया लसद् दुकूलपर्यस्तनितम्बमेखलाम्॥ १८ ॥

अनुवाद (हिन्दी)

इतनेमें ही उन्होंने देखा कि सामने एक बड़ा सुन्दर उपवन है। उसमें भाँति-भाँतिके वृक्ष लग रहे हैं, जो रंग-बिरंगे फूल और लाल-लाल कोंपलोंसे भरे-पूरे हैं। उन्होंने यह भी देखा कि उस उपवनमें एक सुन्दरी स्त्री गेंद उछाल-उछालकर खेल रही है। वह बड़ी ही सुन्दर साड़ी पहने हुए है और उसकी कमरमें करधनीकी लड़ियाँ लटक रही हैं॥ १८॥

वीरराघवः

ततस् तत्र विचित्राणि पुष्पाणि अरुणाः प्रल्लवाश् च येषां ते द्रुमा यस्मिन् तस्मिन्न् उपवने वर-स्त्रियं श्रेष्ठां स्त्रियं ददर्श । भव इति 50अनुषङ्गः । भगवन्-निर्मिता काचिद् इयं स्त्री न तु स्वयं पुरुषोत्तम एव स्त्री-रूपं, 51परिजग्राहेति विज्ञायते । “प्राद्रवत् सा पृथु-श्रोणी माया देव-विनिर्मिता” (भाग. 8-12-30) “आत्मानं देव-मायया जडीकृतं” (भाग. 8-12-35) “यन् मे दुस्तरया स्वैरं मोहितो ऽस्य् अङ्ग मायया” (भाग. 8-12-38) इत्य् अनन्तरोक्तिभिः तथा ऽवगमात् । 52कथम्भूतां वर-स्त्रियम् 53कन्दुक-लीलया53 कन्दुकस्य क्रीडया विक्रीडन्तीम्, पाकं पचतीतिवत् निर्देशः । कन्दुक-क्रीडां कुर्वतीम् इत्यर्थः । यद् वा कन्दुक-लीलयेति हेत्वर्थे तृतीया कन्दुक-क्रीडा-जन्य-रसानुभवार्थं कन्दुक-क्रीडां कुर्वतीम् इत्य्-अर्थः । लसद्-दुकूलेन पर्यस्ते परिवीते नितम्बे मेखला यस्यास् ताम् ॥ १८ ॥

श्लोक-१९

विश्वास-प्रस्तुतिः

आवर्तनोद्वर्तनकम्पितस्तन-
प्रकृष्टहारोरुभरैः पदे पदे।
प्रभज्यमानामिव मध्यतश्चलत्
पदप्रवालं नयतीं ततस्ततः॥

मूलम्

आवर्तनोद्वर्तनकम्पितस्तनप्रकृष्टहारोरुभरैः पदे पदे।
54प्रभज्यमानामिव मध्यतश्चलत् पदप्रवालं नयतीं ततस्ततः॥ १९ ॥

अनुवाद (हिन्दी)

गेंदके उछालने और लपककर पकड़नेसे उसके स्तन और उनपर पड़े हुए हार हिल रहे हैं। ऐसा जान पड़ता था, मानो इनके भारसे उसकी पतली कमर पग-पगपर टूटते-टूटते बच जाती है। वह अपने लाल-लाल पल्लवोंके समान सुकुमार चरणोंसे बड़ी कलाके साथ ठुमुक-ठुमुक चल रही थी॥ १९॥

वीरराघवः

उत्पतत्-कन्दुक-लीला-वशेन ये आवर्तनोद्-वर्तने नमनोन्नमने, ताभ्यां कम्पितयोः स्तनयोः प्रकृष्ट-हाराणाञ् च उरु-भरैः पदे पदे 55प्रति-पदं55 मध्ये प्रभज्यमानाम् इव स्थितां 56चलत्-पद-प्रवालम् इव-पद-प्रवालं56, तद् इतस् ततः नयन्तीम् ॥ १९ ॥

श्लोक-२०

विश्वास-प्रस्तुतिः

दिक्षु भ्रमत्कन्दुकचापलैर्भृशं
प्रोद्विग्नतारायतलोललोचनाम्।
स्वकर्णविभ्राजितकुण्डलोल्लसत्
कपोलनीलालकमण्डिताननाम्॥

मूलम्

दि57क्षु भ्रमत्कन्दुकचापलैर्भृशं प्रोद्विग्नतारायतलोललोचनाम्।
स्वकर्णविभ्राजित58कुण्डलोल्लसत् कपोलनीलालक58मण्डिताननाम्॥ २० ॥

अनुवाद (हिन्दी)

उछलता हुआ गेंद जब इधर-उधर छलक जाता था, तब वह लपककर उसे रोक लेती थी। इससे उसकी बड़ी-बड़ी चंचल आँखें कुछ उद्विग्न-सी हो रही थीं। उसके कपोलोंपर कानोंके कुण्डलोंकी आभा जगमगा रही थी और घुँघराली काली-काली अलकें उनपर लटक आती थीं, जिससे मुख और भी उल्लसित हो उठता था॥ २०॥

वीरराघवः

59दिक्षुद्-भ्रमतः कन्दुकस्य चापलैश् चाञ्चल्यैः भृशं प्रोद्विग्ने तारे कनीनिके ययोस् ते आयते लोचने यस्यास् तां स्व-कर्णाभ्यां विभ्राजिते कुण्डले ताभ्याम् ताम् उल्लसन्तौ कपोलौ ताभ्याञ् च नीलालकैश् च मण्डितम् आननं यस्यास् ताम् ॥ २० ॥

श्लोक-२१

विश्वास-प्रस्तुतिः

श्लथद् दुकूलं कबरीं च विच्युतां
सन्नह्यतीं वामकरेण वल्गुना।
विनिघ्नतीमन्यकरेण कन्दुकं
विमोहयन्तीं जगदात्ममायया॥

मूलम्

श्लथद् दुकूलं60 कबरीं च विच्युतां सन्नह्यतीं वामकरेण वल्गुना।
विनिघ्नती61मन्यकरेण61 कन्दुकं विमोहयन्तीं जगदात्ममायया॥ २१ ॥

अनुवाद (हिन्दी)

जब कभी साड़ी सरक जाती और केशोंकी वेणी खुलने लगती, तब अपने अत्यन्त सुकुमार बायें हाथसे वह उन्हें सम्हाल-सँवार लिया करती। उस समय भी वह दाहिने हाथसे गेंद उछाल-उछालकर सारे जगत‍्को अपनी मायासे मोहितकर रही थी॥ २१॥

वीरराघवः

श्लथद्-विच्युतं दुकूलं विच्युतां कबरीं धम्मिल्लञ् च वल्गुना सुन्दरेण वाम-हस्तेन सन्नह्यतीं बध्नतीम् । अन्य-तरेण 62दक्षिण-करेण कन्दुकं निघ्नतीम् आत्मनः स्व-सम्बन्धिन्या मायया कपट-वृत्त्या जगत् विमोहयन्तीम् ॥ २१ ॥

श्लोक-२२

विश्वास-प्रस्तुतिः

तां वीक्ष्य देव इति कन्दुकलीलयेषद्
व्रीडास्फुटस्मितविसृष्टकटाक्षमुष्टः।
स्त्रीप्रेक्षणप्रतिसमीक्षणविह्वलात्मा
नात्मानमन्तिक उमां स्वगणांश्च वेद॥

मूलम्

तां वीक्ष्य देव इति कन्दुकलीलयेषद् व्रीडास्फुटस्मितविसृष्टकटाक्ष63मुष्टः।
स्त्रीप्रेक्षणप्रतिसमीक्षण64विह्वलात्मा नात्मानमन्तिक उमां स्वगणांश्च वेद॥ २२ ॥

अनुवाद (हिन्दी)

गेंदसे खेलते-खेलते उसने तनिक सलज्जभावसे मुसकराकर तिरछी नजरसे शंकरजीकी ओर देखा। बस, उनका मन हाथसे निकल गया। वे मोहिनीको निहारने और उसकी चितवनके रसमें डूबकर इतने विह्वल हो गये कि उन्हें अपने-आपकी भी सुधि न रही। फिर पास बैठी हुई सती और गणोंकी तो याद ही कैसे रहती॥ २२॥

वीरराघवः

तां वीक्ष्य देवो रुद्रः आत्मानम्, अन्तिक-स्थिताम् उमां स्व-गणांश् च न वेद कथम्भूतः 65देव इति? या कन्दुक-लीला तया ईषद्-व्रीडा तया अस्फुटम् 66अप्रकटं स्मितं तेन सह विसृष्टो यः कटाक्षः तेन मुष्टो वञ्चितः, अत एव स्वयं यत् स्त्रियाः प्रेक्षणं तया च प्रतिसमीक्षणं ताभ्यां विह्वलः 67परवश आत्मा मनो यस्य तथाभूतः ॥ २२ ॥

श्लोक-२३

विश्वास-प्रस्तुतिः

तस्याः कराग्रात् स तु कन्दुको यदा
गतो विदूरं तमनुव्रजत्स्त्रियाः।
वासः ससूत्रं लघु मारुतोऽहरद्
भवस्य देवस्य किलानुपश्यतः॥

मूलम्

तस्याः कराग्रात् स तु कन्दुको यदा गतो विदूरं तमनु68व्रजन्त्याः।
वासस् 69ससूत्रं लघु मारुतोऽहरद् भवस्य देवस्य किलानुपश्यतः॥ २३ ॥

मूलम् - तिरुपदि

तस्याः कराग्रान्दुत् कसको यदा गतो विदूरं तमनुव्रजत्स्त्रियाः।
वासस्ससूत्रं लघु मारुतोऽहरद् भवस्य देवस्य किलानुपश्यतः॥ २३ ॥

अनुवाद (हिन्दी)

एक बार मोहिनीके हाथसे उछलकर गेंद थोड़ी दूर चला गया। वह भी उसीके पीछे दौड़ी। उसी समय शंकरजीके देखते-देखते वायुने उसकी झीनी-सी साड़ी करधनीके साथ ही उड़ा ली॥ २३॥

वीरराघवः

स क्रीड्यमानः कन्दुकः यदा तस्याः कराग्रात् विदूरं गतः तदा तं कन्दुकम् अनुव्रजन्त्याः स्त्रियाः लघु सूक्ष्मं वासः ससूत्रं काञ्ची-सहितं मारुतो देवस्य रुद्रस्य पश्यतस् सतः 70अहरत् 71जहार किल ॥ २३ ॥

श्लोक-२४

विश्वास-प्रस्तुतिः

एवं तां रुचिरापाङ्गीं दर्शनीयां मनोरमाम्।
दृष्ट्वा तस्यां मनश्चक्रे विषज्जन्त्यां भवः किल॥

मूलम्

एवं तां रुचिरापाङ्गीं दर्शनीयां मनोरमाम्।
दृष्ट्वा तस्यां मनश्चक्रे वि72लज्जन्त्यां भवः किल॥ २४ ॥

अनुवाद (हिन्दी)

मोहिनीका एक-एक अंग बड़ा ही रुचिकर और मनोरम था। जहाँ आँखें लग जातीं, लगी ही रहतीं। यही नहीं, मन भी वहीं रमण करने लगता। उसको इस दशामें देखकर भगवान् शंकर उसकी ओर अत्यन्त आकृष्ट हो गये। उन्हें मोहिनी भी अपने प्रति आसक्त जान पड़ती थी॥ २४॥

वीरराघवः

एवम् एवम्भूतां मारुतेनापहृत-वाससम्, नग्नाम् इति यावत्, रुचिरस् सुन्दरो ऽपाङ्गो यस्याः दर्शनीयाम्, अति-सुन्दरीत्वाद् इति भावः । मनोरमां 73मनोज्ञां तां दृष्ट्वा रुद्रः तस्यां विलज्जत्याम्, लज्जया कुञ्चित-कटाक्षैर् आत्मानं निरीक्षमाणायां मनश् चक्रे किल ॥ २४ ॥

श्लोक-२५

विश्वास-प्रस्तुतिः

तयापहृतविज्ञानस्तत्कृतस्मरविह्वलः।
भवान्या अपि पश्यन्त्या गतह्रीस्तत्पदं ययौ॥

मूलम्

तयापहृतविज्ञानस्तत्कृतस्मरविह्वलः।
भवान्या अपि पश्यन्त्या गतह्रीस्तत्पदं ययौ॥ २५ ॥

मूलम् - तिरुपदि

ततोऽपहृतविज्ञानस्तत्कृतस्मरविह्वलः।
भवान्या अपि पश्यन्त्या गतह्रीस्तत्पदं ययौ॥ २५ ॥

अनुवाद (हिन्दी)

उसने शंकरजीका विवेक छीन लिया। वे उसके हाव-भावोंसे कामातुर हो गये और भवानीके सामने ही लज्जा छोड़कर उसकी ओर चल पड़े॥ २५॥

वीरराघवः

तया ऽपहृत-विवेकः अत एव तया कृत उत्पादितः स्मरः कामः तेन विह्वलः, अत एव गता ह्रीर् यस्य - “कामातुराणां न भयं न लज्जा” इति न्यायात् । एवम्भूतो रुद्रो भवान्याः पश्यन्त्यास् सत्या अपि तत्-पदं तस्याः समीपं ययौ गतः ॥ २५ ॥

श्लोक-२६

विश्वास-प्रस्तुतिः

सा तमायान्तमालोक्य विवस्त्रा व्रीडिता भृशम्।
निलीयमाना वृक्षेषु हसन्ती नान्वतिष्ठत॥

मूलम्

सा तमायान्तमालोक्य विवस्त्रा व्रीडिता भृशम्।
निलीयमाना वृक्षेषु हसन्ती नान्वतिष्ठत॥ २६ ॥

अनुवाद (हिन्दी)

मोहिनी वस्त्रहीन तो पहले ही हो चुकी थी, शंकरजीको अपनी ओर आते देख बहुत लज्जित हो गयी। वह एक वृक्षसे दूसरे वृक्षकी आड़में जाकर छिप जाती और हँसने लगती। परन्तु कहीं ठहरती न थी॥ २६॥

वीरराघवः

तम् आयान्तं रुद्रं विलोक्य सा स्त्री विगत-वस्त्रा, अत एव भृशं व्रीडिता 74अत एव वृक्षेषु निलीयमाना 75तिरोभवन्ती हसन्ती ना ऽन्वतिष्ठत क्वचित् स्थिरं न तस्थौ ॥ २६ ॥

श्लोक-२७

विश्वास-प्रस्तुतिः

तामन्वगच्छद् भगवान् भवः प्रमुषितेन्द्रियः।
कामस्य च वशं नीतः करेणुमिव यूथपः॥

मूलम्

तामन्वगच्छद् भगवान् भवः प्र76मथितेन्द्रियः।
कामस्य च वशं नीतः करेणुमिव यूथपः॥ २७ ॥

अनुवाद (हिन्दी)

भगवान् शंकरकी इन्द्रियाँ अपने वशमें नहीं रहीं, वे कामवश हो गये थे; अतः हथिनीके पीछे हाथीकी तरह उसके पीछे-पीछे दौड़ने लगे॥ २७॥

वीरराघवः

ताम् अननुतिष्ठन्तीं भगवान् भवो ऽन्वगच्छत् । कथम्भूतः? प्रमथितानि क्षोभितानीन्द्रियाणि यस्य काम-वश्यतां प्राप्तः यथा यूथपो गजः करेणुम् इभीम् अनुगच्छति तद्वत् ॥ २७ ॥

श्लोक-२८

विश्वास-प्रस्तुतिः

सोऽनुव्रज्यातिवेगेन गृहीत्वानिच्छतीं स्त्रियम्।
केशबन्ध उपानीय बाहुभ्यां परिषस्वजे॥

मूलम्

सोऽनुव्रज्यातिवेगेन गृहीत्वानिच्छतीं स्त्रियम्।
केशबन्ध उपानीय बाहुभ्यां परिषस्वजे॥ २८ ॥

अनुवाद (हिन्दी)

उन्होंने अत्यन्त वेगसे उसका पीछा करके पीछेसे उसका जूड़ा पकड़ लिया और उसकी इच्छा न होनेपर भी उसे दोनों भुजाओंमें भरकर हृदयसे लगा लिया॥ २८॥

वीरराघवः

सो ऽनुगतो रुद्रो ऽतिवेगेन समीपम् एत्य अनिच्छन्तीम् अपि स्त्रियं केश-बन्धे गृहीत्वा 77आत्म-समीपं प्रापय्य बाहुभ्याम् आलिङ्गितवान् ॥ २८ ॥

श्लोक-२९

विश्वास-प्रस्तुतिः

सोपगूढा भगवता करिणा करिणी यथा।
इतस्ततः प्रसर्पन्ती विप्रकीर्णशिरोरुहा॥

मूलम्

सोपगूढा भगवता करिणा करिणी यथा।
इतस्ततः प्रसर्पन्ती विप्रकीर्णशिरोरुहा॥ २९ ॥

अनुवाद (हिन्दी)

जैसे हाथी हथिनीका आलिंगन करता है, वैसे ही भगवान् शंकरने उसका आलिंगन किया। वह इधर-उधर खिसककर छुड़ानेकी चेष्टा करने लगी, इसी छीना-झपटीमें उसके सिरके बाल बिखर गये॥ २९॥

श्लोक-३०

विश्वास-प्रस्तुतिः

आत्मानं मोचयित्वाङ्ग सुरर्षभभुजान्तरात्।
प्राद्रवत्सा पृथुश्रोणी माया देवविनिर्मिता॥

मूलम्

आत्मानं मोचयि78त्वाङ्ग सुरर्षभभुजान्तरात्।
प्राद्रवत्सा पृथुश्रोणी माया 79देवविनिर्मिता॥ ३० ॥

अनुवाद (हिन्दी)

वास्तवमें वह सुन्दरी भगवान‍्की रची हुई माया ही थी, इससे उसने किसी प्रकार शंकरजीके भुजपाशसे अपनेको छुड़ा लिया और बड़े वेगसे भागी॥ ३०॥

वीरराघवः

यथा करिणा गजेन करिणी तथा भगवता रुद्रेण उपगूढा परिष्वक्ता विप्रकीर्णाः शिरो-रुहाः केशाः यस्यास् सा । इतस् ततः प्रसर्पन्ती सुरर्षभस्य रुद्रस्य भुजयोर् अन्तरान् मध्यात् आत्मानं बलान् मोचयित्वा, अङ्ग हे राजन्! देवेन भगवता विनिर्मिता सा पृथु-श्रोणी माया-मोहिनी, भगवन्-माया-निर्मिता वा सा योषित् प्राद्रवत् प्राधावत् ॥ २९,३० ॥

श्लोक-३१

विश्वास-प्रस्तुतिः

तस्यासौ पदवीं रुद्रो विष्णोरद‍्भुतकर्मणः।
प्रत्यपद्यत कामेन वैरिणेव विनिर्जितः॥

मूलम्

तस्यासौ पदवीं रुद्रो विष्णोरद‍्भुतकर्मणः।
प्रत्यपद्यत कामेन वैरिणेव80 विनिर्जितः॥ ३१ ॥

अनुवाद (हिन्दी)

भगवान् शंकर भी उन मोहिनी वेषधारी अद‍्भुतकर्मा भगवान् विष्णुके पीछे-पीछे दौड़ने लगे। उस समय ऐसा जान पड़ता था, मानो उनके शत्रु कामदेवने इस समय उनपर विजय प्राप्त कर ली है॥ ३१॥

वीरराघवः

वैरिणा कामेन विनिर्जित इवासौ रुद्रस् तस्या ऽद्भुत-कर्मणः विष्णोर् विष्णु-विनिर्मितायाः योषितः पदवीम् अन्वगच्छत् ॥ ३१ ॥

श्लोक-३२

विश्वास-प्रस्तुतिः

तस्यानुधावतो रेतश्चस्कन्दामोघरेतसः।
शुष्मिणो यूथपस्येव वासितामनु धावतः॥

मूलम्

तस्यानुधावतो रेतश्चस्कन्दामोघरेतसः।
शुष्मिणो यूथपस्येव वासितामनु धावतः॥ ३२ ॥

अनुवाद (हिन्दी)

कामुक हथिनीके पीछे दौड़नेवाले मदोन्मत्त हाथीके समान वे मोहिनीके पीछे-पीछे दौड़ रहे थे। यद्यपि भगवान् शंकरका वीर्य अमोघ है, फिर भी मोहिनीकी मायासे वह स्खलित हो गया॥ ३२॥

वीरराघवः

शुष्मिणः मत्तस्य यूथपस्य 81गजस्य वाशितां पुष्पवतीं गजाम् अनुधावत इव तस्य ताम् अनुधावतो ऽमोघ-रेतसो रुद्रस्य रेतश् च स्कन्द अक्षरत् ॥ ३२ ॥

श्लोक-३३

विश्वास-प्रस्तुतिः

यत्र यत्रापतन्मह्यां रेतस्तस्य महात्मनः।
तानि रूप्यस्य हेम्नश्च क्षेत्राण्यासन्महीपते॥

मूलम्

यत्र यत्रापत82न्मार्गे रेतस्तस्य महात्मनः।
तानि 83रौप्यस्य हेम्नश्च क्षेत्राण्यासन्महीपते॥ ३३ ॥

अनुवाद (हिन्दी)

भगवान् शंकरका वीर्य पृथ्वीपर जहाँ-जहाँ गिरा, वहाँ-वहाँ सोने-चाँदीकी खानें बन गयीं॥ ३३॥

वीरराघवः

अमोघ-रेतस्त्वम् एव आह - यत्रेति । मह्यां यत्र यत्र स्थले महात्मनस् तस्य रुद्रस्य रेतो ऽपतत्, तानि स्थलानि हे महीपते! रौप्यस्य रजतस्य 84हेम्नस् सुवर्णस्य च क्षेत्राण्य् आसन् बभूवुः ॥ ३३ ॥

श्लोक-३४

विश्वास-प्रस्तुतिः

सरित्सरस्सु शैलेषु वनेषूपवनेषु च।
यत्र क्व चासन्नृषयस्तत्र संनिहितो हरः॥

मूलम्

सरित्सरस्सु शैलेषु वनेषूपवनेषु च।
यत्र क्व चासन्नृषयस्तत्र संनिहितो हरः॥ ३४ ॥

अनुवाद (हिन्दी)

परीक्षित्! नदी, सरोवर, पर्वत, वन और उपवनमें एवं जहाँ-जहाँ ऋषि-मुनि निवास करते थे, वहाँ वहाँ मोहिनीके पीछे-पीछे भगवान् शंकर गये थे॥ ३४॥

वीरराघवः

किञ्च । यत्र क्व च यत्र सरिदादिषु रेतो ऽपतत् तत्र रुद्रस् सन्निहितो बभूव । तत्र तद्-उपासका ऋषयश् च आसन्, 85अवात्सुः ॥ ३४ ॥

श्लोक-३५

विश्वास-प्रस्तुतिः

स्कन्ने रेतसि सोऽपश्यदात्मानं देवमायया।
जडीकृतं नृपश्रेष्ठ संन्यवर्तत कश्मलात्॥

मूलम्

स्कन्ने रेतसि सोऽपश्यदात्मानं 86देवमायया।
जडीकृतं नृपश्रेष्ठ संन्यवर्तत कश्मलात्॥ ३५ ॥

अनुवाद (हिन्दी)

परीक्षित्! वीर्यपात हो जानेके बाद उन्हें अपनी स्मृति हुई। उन्होंने देखा कि अरे, भगवान‍्की मायाने तो मुझे खूब छकाया! वे तुरंत उस दुःखद प्रसंगसे अलग हो गये॥ ३५॥

वीरराघवः

एवं रेतसि स्कन्ने सति देव-मायया योषिता जडीकृतम् आत्मानं स रुद्रो ऽपश्यत् । ततः हे नर-श्रेष्ठ! कश्मलात् कामात् सन्न्यवर्तत ॥ ३५ ॥

श्लोक-३६

विश्वास-प्रस्तुतिः

अथावगतमाहात्म्य आत्मनो जगदात्मनः।
अपरिज्ञेयवीर्यस्य न मेने तदु हाद‍्भुतम्॥

मूलम्

अथावगतमाहात्म्य आत्मनो जगदात्मनः।
अपरिज्ञेयवीर्यस्य न मेने 87तदु हाद‍्भुतम्87॥ ३६ ॥

अनुवाद (हिन्दी)

इसके बाद आत्मस्वरूप सर्वात्मा भगवान‍्की यह महिमा जानकर उन्हें कोई आश्चर्य नहीं हुआ। वे जानते थे कि भला, भगवान‍्की शक्तियोंका पार कौन पा सकता है॥ ३६॥

वीरराघवः

अथानन्तरम्, अपरिज्ञेयं परितो ज्ञातुम् अशक्यं वीर्यं चेष्टितं यस्य तस्य जगद्-आत्मनः परमात्मनो यन् माहात्म्यं तद् अवगतं 88ज्ञातं येन स तथाभूतो रुद्रः तद् उह तद् धि योषिद्-रूपं तच्-चेष्टितञ् च महद् अद्भुतम् अदृष्टाश्रुत-पूर्वं मेने ऽमन्यत ॥ ३६ ॥

श्लोक-३७

विश्वास-प्रस्तुतिः

तमविक्लवमव्रीडमालक्ष्य मधुसूदनः।
उवाच परमप्रीतो बिभ्रत्स्वां पौरुषीं तनुम्॥

मूलम्

तमविक्लवमव्रीडमालक्ष्य मधुसूदनः।
उवाच परमप्रीतो बिभ्रत्स्वां पौरुषीं तनुम्॥ ३७ ॥

अनुवाद (हिन्दी)

भगवान‍्ने देखा कि भगवान् शंकरको इससे विषाद या लज्जा नहीं हुई है, तब वे पुरुषशरीर धारण करके फिर प्रकट हो गये और बड़ी प्रसन्नतासे उनसे कहने लगे॥ ३७॥

वीरराघवः

89ततो भगवान् मधु-सूदनः स्वां तिरोधापितां पौरुषीं तनुं बिभ्रद् आविर्भावयन्, स्वयम् आवि90र्भूत इत्यर्थः । अविक्लवं दृष्टम् अव्रीडं निर्लज्जञ् च तं रुद्रम् आलक्ष्य नितरां प्रीतस् 91सन् जगाद ॥ ३७ ॥

श्लोक-३८

मूलम् (वचनम्)

श्रीभगवानुवाच

विश्वास-प्रस्तुतिः

दिष्ट्या त्वं विबुधश्रेष्ठ स्वां निष्ठामात्मना स्थितः।
यन्मे स्त्रीरूपया स्वैरं मोहितोऽप्यङ्ग मायया॥

मूलम्

दिष्ट्या त्वं विबुधश्रेष्ठ स्वां निष्ठामात्मना स्थितः।
92यन्मे स्त्रीरूपया92 स्वैरं मोहितोऽ93पस्यङ्ग मायया॥ ३८ ॥

अनुवाद (हिन्दी)

श्रीभगवान‍्ने कहा—देवशिरोमणे! मेरी स्त्रीरूपिणी मायासे विमोहित होकर भी आप स्वयं ही अपनी निष्ठामें स्थित हो गये। यह बड़े ही आनन्दकी बात है॥ ३८॥

वीरराघवः

तद् एवाह - दिष्ट्ये94त्यादिभिः त्रिभिः । हे विबुध-श्रेष्ठ! त्वं स्वां निष्ठां प्रकृतिं काम-विकार-राहित्यं दैवाद् आत्मना स्वेनैवावस्थितः स्थितः लब्धवान् मन्-मायाया दुरत्ययत्वाद् इति भावः । 95तद्-दुरत्ययत्वम् एवाह - यद् इति95 । अङ्ग हे रुद्र! यद् यस्मात् त्वं मे मम मायया दुस्तरया स्वैरं यथेच्छं, नितराम् इत्यर्थः । मोहितो ऽसि, 96मोहं प्रापितो ऽसि इत्यर्थः96 । एवं मोहितस्य स्व-निष्ठा-लाभो दैवात् सम्पन्न इति भावः ॥ ३८ ॥

श्लोक-३९

विश्वास-प्रस्तुतिः

को नु मेऽतितरेन्मायां विषक्तस्त्वदृते पुमान्।
तांस्तान्विसृजतीं भावान् दुस्तरामकृतात्मभिः॥

मूलम्

को नु मेऽतितरेन्मायां विषक्तस्त्वदृते पुमान्।
तांस्तान्विसृजतीं भावान् दुस्तरामकृतात्मभिः॥ ३९ ॥

अनुवाद (हिन्दी)

मेरी माया अपार है। वह ऐसे-ऐसे हाव-भाव रचती है कि अजितेन्द्रिय पुरुष तो किसी प्रकार उससे छुटकारा पा ही नहीं सकते। भला, आपके अतिरिक्त ऐसा कौन पुरुष है, जो एक बार मेरी मायाके फंदेमें फँसकर फिर स्वयं ही उससे निकल सके॥ ३९॥

वीरराघवः

दुस्तरत्वम् एवाह - को न्व् इति । त्वां विना को नु पुमान् मम मायां विषक्त 97आसक्तः, विषयासक्तो ऽतितरेत्? विषक्त इत्य्-अनेन जितेन्द्रियस् तु मत्-प्रपन्नो ऽतितरेद् एवेति सूचितम् । कथम्भूताम्? अकृतात्मभिः अजितेन्द्रियैः दुस्तरांस् तांस् तान् भावान् काम-क्रोधादीन् विसृ98जन्तीम् ॥ ३९ ॥

श्लोक-४०

विश्वास-प्रस्तुतिः

सेयं गुणमयी माया न त्वामभिभविष्यति।
मया समेता कालेन कालरूपेण भागशः॥

मूलम्

सेयं गुणमयी माया न त्वामभिभविष्यति।
मया समेता कालेन कालरूपेण भागशः॥ ४० ॥

अनुवाद (हिन्दी)

यद्यपि मेरी यह गुणमयी माया बड़ों-बड़ोंको मोहित कर देती है, फिर भी अब यह आपको कभी मोहित नहीं करेगी। क्योंकि सृष्टि आदिके लिये समयपर उसे क्षोभित करनेवाला काल मैं ही हूँ, इसलिये मेरी इच्छाके विपरीत वह रजोगुण आदिकी सृष्टि नहीं कर सकती॥ ४०॥

वीरराघवः

एवं स्व-मायया दुस्तरत्वम् अभिधाय तां विशिंषन् तया तस्य अनभिभवम् अनुगृह्णाति - सेयम् इति । सेयम् उक्त-विधा त्रि-गुणात्मिका कालेन काल-शरीरकेण मया सृष्ट्य्-आद्य्-उचित-कालेन भागशः रजाद्य्-अंशेन समेता व्याप्ता माया त्वां नाभिभविष्यति मोहितं न करिष्यतीत्य् अर्थः ॥ ४० ॥

श्लोक-४१

मूलम् (वचनम्)

श्रीशुक उवाच

विश्वास-प्रस्तुतिः

एवं भगवता राजन् श्रीवत्साङ्केन सत्कृतः।
आमन्त्र्य तं परिक्रम्य सगणः स्वालयं ययौ॥

मूलम्

एवं भगवता राजन् श्रीवत्साङ्केन सत्कृतः।
आमन्त्र्य तं परिक्रम्य सगणः स्वालयं ययौ॥ ४१ ॥

अनुवाद (हिन्दी)

श्रीशुकदेवजी कहते हैं—परीक्षित्! इस प्रकार भगवान् विष्णुने भगवान् शंकरका सत्कार किया। तब उनसे विदा लेकर एवं परिक्रमा करके वे अपने गणोंके साथ कैलासको चले गये॥ ४१॥

वीरराघवः

एवम् इत्थं हे राजन् ! भगवता श्रीवत्साङ्केन यत्कृतो ऽनुगृहीतो रुद्रस् तं श्रीवत्साङ्कम् आमन्त्र्य अनुज्ञाप्य तेनानुज्ञातस् तं परिक्रम्य प्रणम्य च सगणः सप्रमथादि-गणः स्वालयं कैलासाद्रिं जगाम ॥ ४१ ॥

श्लोक-४२

विश्वास-प्रस्तुतिः

आत्मांशभूतां तां मायां भवानीं भगवान् भवः।
शंसतामृषिमुख्यानां प्रीत्याऽऽचष्टाथ भारत॥

मूलम्

99आत्मांशभूतां तां मायां भवानीं भगवान् भवः।
100शृण्वतां ऋषिमुख्यानां 101प्रीत्याऽऽचष्टाथ भारत101॥ ४२ ॥

अनुवाद (हिन्दी)

भरतवंश शिरोमणे! भगवान् शंकरने बड़े-बड़े ऋषियोंकी सभामें अपनी अर्द्धांगिनी सती देवीसे अपने विष्णुरूपकी अंशभूता मायामयी मोहिनीका इस प्रकार बड़े प्रेमसे वर्णन किया॥ ४२॥

वीरराघवः

अथानन्तरं हे भारत ! ऋषि-मुख्यानां 102शृण्वतां भगवान् भवः आत्मनोंऽश-भूतां शरीरार्ध-भूतां तां भवानीं प्रत्यचष्ट उवाच ॥ ४२ ॥

श्लोक-४३

मूलम् (वचनम्)

101श्रीरुद्र उवाच

विश्वास-प्रस्तुतिः

अपि व्यपश्यस्त्वमजस्य मायां
परस्य पुंसः परदेवतायाः।
अहं कलानामृषभो विमुह्ये
ययावशोऽन्ये किमुतास्वतन्त्राः॥

मूलम्

103अयि 104ह्यपश्यस्त्वमजस्य मायां परस्य पुंसः परदेवतायाः।
अहं कलानामृषभो विमुह्ये ययावशोऽन्ये किमुतास्वतन्त्राः॥ ४३ ॥

अनुवाद (हिन्दी)

‘देवि! तुमने परम पुरुष परमेश्वर भगवान् विष्णुकी माया देखी? देखो, यों तो मैं समस्त कलाकौशल, विद्या आदिका स्वामी और स्वतन्त्र हूँ, फिर भी उस मायासे विवश होकर मोहित हो जाता हूँ। फिर दूसरे जीव तो परतन्त्र हैं ही; अतः वे मोहित हो जायँ—इसमें कहना ही क्या है॥ ४३॥

वीरराघवः

तत् एवाह - अपीति द्वाभ्याम् । पर-देवताया अजस्य कर्मायत्तोत्पत्ति-रहितस्य परम-पुरुषस्य मायां त्वम् अप्य्-अपश्यः माया-माहात्म्यं अपश्यः किम् इत्य्-अर्थः । तद्-एव दर्शयति - कलानां विद्यानाम् ऋषभो ऽधिपतिः अवशः पारवश्य-रहितो105 ऽप्य् अहं यथा मायया मुह्ये मोहितवान् अस्मि । किम् पुनः अस्वतन्त्राः मर्त्य-दैत्यादयो मुह्यन्तीति ॥ ४३ ॥

श्लोक-४४

विश्वास-प्रस्तुतिः

यं मामपृच्छस्त्वमुपेत्य योगात्
समासहस्रान्त उपारतं वै।
स एष साक्षात् पुरुषः पुराणो
न यत्र कालो विशते न वेदः॥

मूलम्

यं मामपृच्छस्त्वमुपेत्य योगात् 106समासहस्रान्त उपारतं वै।
107एष साक्षात् पुरुषः पुराणो न यत्र कालो विशते 108न वेदः॥ ४४ ॥

अनुवाद (हिन्दी)

जब मैं एक हजार वर्षकी समाधिसे उठा था, तब तुमने मेरे पास आकर पूछा था कि तुम किसकी उपासना करते हो। वे यही साक्षात् सनातन पुरुष हैं। न तो काल ही इन्हें अपनी सीमामें बाँध सकता है और न वेद ही इनका वर्णन कर सकता है। इनका वास्तविक स्वरूप अनन्त और अनिर्वचनीय है’॥ ४४॥

वीरराघवः

समासहस्रान्ते अनेक-संवत्सर-सहस्र-पर्यन्तं तपस् तप्त्वा तद् अन्ते योगात् तपो-योगाद् उपारतं निवृत्तं मां त्वं यद् अपृच्छः त्वद्-उपास्यं वस्तु किम् इति पृष्टवत्य् असि । स मया उपासितः साक्षाद् एव एव पुराणः पुरुषः यत्र यस्मिन् पुराणे पुरुषे कालो न विशति यं कालेन कलयति, काला ऽपरिच्छिन्न इत्य्-अर्थः । यश् च कालादिकं सर्वं वस्तु-जातं युगपत् साक्षाद् वेद सर्वज्ञ 109इत्य्-अर्थः ॥ ४४ ॥

श्लोक-४५

मूलम् (वचनम्)

श्रीशुक उवाच

विश्वास-प्रस्तुतिः

इति तेऽभिहितस्तात विक्रमः शार्ङ्गधन्वनः।
सिन्धोर्निर्मथने येन धृतः पृष्ठे महाचलः॥

मूलम्

इति तेऽभिहितस्तात विक्रमः शार्ङ्गधन्वनः।
सिन्धोर्निर्मथने येन धृतः पृष्ठे महाचलः॥ ४५ ॥

अनुवाद (हिन्दी)

श्रीशुकदेवजी कहते हैं—प्रिय परीक्षित्! मैंने विष्णुभगवान‍्की यह ऐश्वर्यपूर्ण लीला तुमको सुनायी, जिसमें समुद्रमन्थनके समय अपनी पीठपर मन्दराचल धारण करनेवाले भगवान‍्का वर्णन है॥ ४५॥

वीरराघवः

अष्टाध्याय्य्-अर्थं निगमयति 110मुनिः - इतीति । हे तात! 111इति वात्सल्यात् सम्बोधनम्111 । हे राजन् ! 112इति इत्थं शार्ङ्गधन्वनो ऽजितस्य विक्रमः ते तुभ्यं मया अभिहितः 113कथितः । को ऽसौ ? येनाजितेन कर्म-रूपिणा सिन्धोः क्षीरोदधेः निर्मथने 114कर्मणि महाचलो मन्दराचलः पृष्ठे धृतः ॥ ४५ ॥

श्लोक-४६

विश्वास-प्रस्तुतिः

एतन्मुहुः कीर्तयतोऽनुशृण्वतो
न रिष्यते जातु समुद्यमः क्वचित्।
यदुत्तमश्लोकगुणानुवर्णनं
समस्तसंसारपरिश्रमापहम्॥

मूलम्

एतन्मुहुः कीर्तयतोऽनुशृण्वतो न रिष्यते जातु समुद्यमः क्वचित्।
यदुत्तमश्लोकगुणानुवर्णनं समस्तसंसारपरि115श्रमापहम्॥ ४६ ॥

अनुवाद (हिन्दी)

जो पुरुष बार-बार इसका कीर्तन और श्रवण करता है, उसका उद्योग कभी और कहीं निष्फल नहीं होता। क्योंकि पवित्रकीर्ति भगवान‍्के गुण और लीलाओंका गान संसारके समस्त क्लेश और परिश्रमको मिटा देनेवाला है॥ ४६॥

वीरराघवः

116तदाष्टाध्याय्याः कीर्तनादि फलम् आह - एतद् इति । एतत् सिन्धोः निर्मथनादिकं पुनः पुनः कीर्तयतः कथयत; शृण्वतश् च समुद्यमः 117प्रयत्नः क्वचिद् अपि देशे जातु कदाचिद् अपि काले न रिष्यति, रीङ्क्षये, न नङ्क्ष्यति 118न विफलो भविष्यतीत्य्-अर्थः । कुतः ? यद् यस्मात् उत्तम-श्लोकस्य भगवतो गुणानाम् अनुवर्णनं समस्तानां संसार-श्रमाणां त्रयाणाम् आध्यात्मि119कादीनां तापानाम् अपहन्तृ ॥ ४६ ॥

श्लोक-४७

विश्वास-प्रस्तुतिः

असदविषयमङ्घ्रिं भावगम्यं प्रपन्ना-
नमृतममरवर्यानाशयत् सिन्धुमथ्यम्।
कपटयुवतिवेषो मोहयन्यः सुरारीं-
स्तमहमुपसृतानां कामपूरं नतोऽस्मि॥

मूलम्

असदविषयमङ्घ्रिं भावगम्यं प्रपन्नानमृतममरवर्यानाशयत् सिन्धुमथ्यम्।
कपटयुवतिवेषो मोहयन्यः सुरारींस्तमहमुपसृतानां कामपूरं नतोऽस्मि॥ ४७ ॥

अनुवाद (हिन्दी)

दुष्ट पुरुषोंको भगवान‍्के चरणकमलोंकी प्राप्ति कभी हो नहीं सकती। वे तो भक्तिभावसे युक्त पुरुषको ही प्राप्त होते हैं। इसीसे उन्होंने स्त्रीका मायामय रूप धारण करके दैत्योंको मोहित किया और अपने चरणकमलोंके शरणागत देवताओंको समुद्रमन्थनसे निकले हुए अमृतका पान कराया। केवल उन्हींकी बात नहीं—चाहे जो भी उनके चरणोंकी शरण ग्रहण करे, वे उसकी समस्त कामनाएँ पूर्ण कर देते हैं। मैं उन प्रभुके चरणकमलोंमें नमस्कार करता हूँ॥ ४७॥

अनुवाद (समाप्ति)

इति श्रीमद‍्भागवते महापुराणे पारमहंस्यां संहितायामष्टमस्कन्धे शंकरमोहनं नाम द्वादशोऽध्यायः॥ १२ ॥

वीरराघवः

भक्त-पक्ष-पातं स्मरन् नमस्करोति - असदिति । मधो मथनं, तत्र जातं मथ्यं सिन्धोर् मथने जातम् अमृतं यः कपट-युवति-वेषः सुरारीन् दैत्यान् मोहयन् प्रपन्नान् अमर-श्रेष्ठान् आशयद् अपाययत्, तम् असताम् अजितेन्द्रियाणाम् अविषयो ऽङ्घ्रिः यस्य तं भावेन भक्त्या गम्यम् उपसृतानाम् आत्मानम् अनुवर्तमानानां कामानिष्टार्थान् पूरयतीति तथा, तं नतो ऽस्मि । कर्तरि क्तः । नमस्कृतवान् अ120स्मीत्य्-अर्थः ॥ ४७ ॥

इति श्रीमद्-भागवते अष्टम-स्कन्धे श्री-वीर-राघव-विदुषा-लिखितायां भागवत-चन्द्र-चन्द्रिकायां व्याख्यायां द्वादशो ऽध्यायः ॥ १२ ॥


  1. A,B,G,J,T श्री बादरायणिरुवाच ↩︎

  2. W सहोमया ↩︎ ↩︎

  3. A,B,T Omit निशम्य ↩︎

  4. H,M,Ma,V,W Omit ↩︎

  5. A,B,T ष्ट ↩︎

  6. W मे ↩︎

  7. W Omits हे जगदीश ! ↩︎

  8. W Omits इत्यर्थः ↩︎

  9. This verse is not found in M,Ma Edns. ↩︎

  10. A,B,G,J,T न्तावस्य ↩︎

  11. A,B,G,J,T यतोऽव्य ↩︎

  12. A,B,T Omit ↩︎ ↩︎

  13. W णमाऽऽह ↩︎

  14. W Omits ↩︎ ↩︎

  15. W उपासते ↩︎ ↩︎

  16. M,Ma दु ↩︎

  17. A Omits अनेन ↩︎

  18. W Omits ↩︎ ↩︎

  19. A,B,G,J,T द्गुणैर्व्य ↩︎

  20. M,Ma श्च ↩︎

  21. A,B,T अ ↩︎

  22. A,B,T Omit वि ↩︎

  23. H,V अन्ये ↩︎

  24. A,B,G,J,T,W अन्येऽवयन्ति ↩︎ ↩︎

  25. A,B,G,J,M,Ma,T तन्मम् ↩︎

  26. W इत्याह ↩︎

  27. A स ↩︎

  28. M,Ma समीहसितत् ↩︎ ↩︎

  29. M,Ma नाशान् ↩︎

  30. M,Ma त्वं ↩︎

  31. M,Ma मोनुतिस्ते; W मोऽनुभुङ्क्ते ↩︎

  32. B गुणा ↩︎

  33. M,Ma यं ↩︎

  34. A,B,G,J,M,Ma,T तद्दि ↩︎

  35. W Omits ↩︎ ↩︎

  36. A,B,T इति ↩︎

  37. Omits प्रार्थित ↩︎

  38. A,B,G,J,M,Ma,T श्री भगवानुवाच ↩︎

  39. A,B,G,J,M,Ma,T कृतः ↩︎

  40. M,Ma हृते ↩︎

  41. W Omits धृतः ↩︎

  42. M,Ma तत्कामिनाच्च ↩︎ ↩︎

  43. W Omits तथा ↩︎

  44. A,B,T द्रूपम् ↩︎

  45. H,V,W श्री नारद उवाच ↩︎

  46. W Omits उपवने ↩︎

  47. W Omits ब्रुवाणः ↩︎

  48. A,B,T सर्वत ↩︎

  49. W Omits तत्रैव ↩︎

  50. A,B,T शेष ↩︎

  51. A,B,T Omit परि ↩︎

  52. A,T Omit ↩︎

  53. A,B,T Omit ↩︎ ↩︎

  54. M,Ma वि ↩︎

  55. W Omits ↩︎ ↩︎

  56. A,B,T चलत्पदमेव प्रवालवत्कोमलं ↩︎ ↩︎

  57. W क्षुद्भ्र ↩︎

  58. M,Ma लालकुण्डलोल्लसत्कपोलालक ↩︎ ↩︎

  59. A,B,T क्षु भ्र ↩︎

  60. M,Ma लां ↩︎

  61. H,V,W श्चान्यतमेन ↩︎ ↩︎

  62. A,B,T Omit दक्षिण ↩︎

  63. M,Ma मूढः ; W मुष्णः ↩︎

  64. M,Ma निर्वृतात्मा ↩︎

  65. W Omits देवः ↩︎

  66. W Omits अप्रकटं ↩︎

  67. W Omits परवशः ↩︎

  68. A,B,G,J,T व्रजस्त्रियः ↩︎

  69. M,Ma स्सू सूक्ष्मं ↩︎

  70. A,B,T Omit अहरत् ↩︎

  71. W Omits जहार ↩︎

  72. A,B,G,H,J,T,V ष ↩︎

  73. A,B,T Omit मनोज्ञां ↩︎

  74. A,B,T Omit अत एव ↩︎

  75. A,B,T दधाना ↩︎

  76. A,B,G,J,T मुषिते, M,Ma व्यथिते ↩︎

  77. A,B,T स्व ↩︎

  78. W त्वा सा ↩︎

  79. H,V विष्णु ↩︎

  80. M,Ma णा च ↩︎

  81. A,B,T Omit गजस्य ↩︎

  82. A,B,G,J,M,Ma,T न्मह्यां ↩︎

  83. A,B,G,J,T सूपस्य , M,Ma रुद्रस्य ↩︎

  84. W Omits हेम्नः ↩︎

  85. A,B,T बभूवुः ↩︎

  86. H,V विष्णु ↩︎

  87. H,V दिहाद्भुतम् , M,Ma तदुदाहृतम् (ताम्) ↩︎ ↩︎

  88. W Omits ज्ञातं ↩︎

  89. W Omits ततः ↩︎

  90. A,B,T रेभूदेव ↩︎

  91. W Omits सन् ↩︎

  92. M,Ma यतो दुस्तरया ↩︎ ↩︎

  93. A,B,G‚J‚T प्य ↩︎

  94. A,B,T तित्रिभिः ↩︎

  95. W तदेवाह ↩︎ ↩︎

  96. W Omits ↩︎ ↩︎

  97. A,B,T Omit आसक्तः ↩︎

  98. A जतीम् ↩︎

  99. H,V स्वात्मानु ; W स्वात्माश ↩︎

  100. A,B,G,J,M,Ma,T शसता ↩︎

  101. M,Ma प्रीत्यामुष्टामुवाचह, W प्रत्याचष्टाऽच भारत ↩︎ ↩︎ ↩︎

  102. A,B,T पश्यतां ↩︎

  103. A,B,G,J,T अपि ↩︎

  104. A,B,G,J,M,Ma,T व्यप ↩︎

  105. A,B,T तवानप्यहं ↩︎

  106. H,M,Ma,V समास्य ↩︎

  107. H,V एव ↩︎

  108. W यश्चवेद ; H,V न वेद ↩︎

  109. A,B,T add अपिवेद ↩︎

  110. W Omits मुनिः ↩︎

  111. W Omits ↩︎ ↩︎

  112. A,B,T Omits इति ↩︎

  113. W Omits कथितः ↩︎

  114. A,B,T काले ↩︎

  115. B भ्र ↩︎

  116. A,B,T Omit तत् ↩︎

  117. Omits प्र ↩︎

  118. A,B,T add न नश्यति ↩︎

  119. A,B,T कादिता ↩︎

  120. W Omits इत्यर्थः ↩︎