[एकादशोऽध्यायः]
भागसूचना
देवासुर-संग्रामकी समाप्ति
श्लोक-१
मूलम् (वचनम्)
श्रीशुक उवाच
विश्वास-प्रस्तुतिः
अथो सुराः प्रत्युपलब्धचेतसः
परस्य पुंसः परयानुकम्पया।
जघ्नुर्भृशं शक्रसमीरणादय-
स्तांस्तान्रणे यैरभिसंहताः पुरा॥
मूलम्
अथो 1सुरास्ते प्रतिलब्धचेतसः परस्य पुंसः पर2मानुकम्पया।
जघ्नुर्भृशं शक्रसमीरणादयस्तांस्तान्रणे यैरभिस3ङ्गताः पुरा॥ १ ॥
अनुवाद (हिन्दी)
श्रीशुकदेवजी कहते हैं—परीक्षित्! परम पुरुष भगवान्की अहैतुकी कृपासे देवताओंकी घबराहट जाती रही, उनमें नवीन उत्साहका संचार हो गया। पहले इन्द्र, वायु आदि देवगण रणभूमिमें जिन-जिन दैत्योंसे आहत हुए थे, उन्हींके ऊपर अब वे पूरी शक्तिसे प्रहार करने लगे॥ १॥
वीरराघवः
अथ परम-पुरुषस्य 4परया उत्कृष्टया कृपया प्रत्युपलब्धम् आसुरीभिर् मायाभिर् अभिभूतं चेतो येषां ते शक्र-वाय्व्-आदयो देवा युद्धे पुरा पूर्वं येर् दैत्यैर् विरोचनादिभिः अभिसंहिताः द्वन्द्वशः सङ्गताः, योद्धुम् इति शेषः, तान् भृशं जघ्नुः ॥ १ ॥
श्लोक-२
विश्वास-प्रस्तुतिः
वैरोचनाय संरब्धो भगवान् पाकशासनः।
उदयच्छद् यदा वज्रं प्रजा हाहेति चुक्रुशुः॥
मूलम्
वैरोचनाय संरब्धो भगवान् पाकशासनः।
उदयच्छद् यदा वज्रं प्रजा हाहेति चुक्रुशुः॥ २ ॥
अनुवाद (हिन्दी)
परम ऐश्वर्यशाली इन्द्रने बलिसे लड़ते-लड़ते जब उनपर क्रोध करके वज्र उठाया तब सारी प्रजामें हाहाकार मच गया॥ २॥
वीरराघवः
तद् एव प्रपञ्चयति - वैरोचनायेति । भगवान् पाक-शासन इन्द्रः सुसंरब्धः नितरां क्रुद्धः वैरोचनाय बलये यदा वज्रम् उदयच्छत् बलिं हन्तुम् उद्धृतवान् तदा प्रजाः 5हाहेति हाहाकारं कुर्वत्यश् चुक्रुशुः रुरुदुः ॥ २ ॥
श्लोक-३
विश्वास-प्रस्तुतिः
वज्रपाणिस्तमाहेदं तिरस्कृत्य पुरःस्थितम्।
मनस्विनं सुसम्पन्नं विचरन्तं महामृधे॥
मूलम्
वज्रपाणिस्तमाहेदं तिरस्कृत्य पुरःस्थितम्।
मनस्विनं 6सुसरब्धं विचरन्तं महामृधे॥ ३ ॥
अनुवाद (हिन्दी)
बलि अस्त्र-शस्त्रसे सुसज्जित होकर बड़े उत्साहसे युद्धभूमिमें बड़ी निर्भयतासे डटकर विचर रहे थे। उनको अपने सामने ही देखकर हाथमें वज्र लिये हुए इन्द्रने उनका तिरस्कार करके कहा—॥ ३॥
वीरराघवः
वज्रं पाणौ यस्य स इन्द्रः महा-युद्धे विचरन्नं सुसंरब्धं मनस्विनं युयुत्सुं पुरतः स्थितं वैरोचनिं तिरस्कृत्य इदं वक्ष्यमाणम् आह ॥ ३ ॥
श्लोक-४
विश्वास-प्रस्तुतिः
नटवन्मूढ मायाभिर्मायेशान् नो जिगीषसि।
जित्वा बालान् निबद्धाक्षान् नटो हरति तद्धनम्॥
मूलम्
नटवन्दूढ मायाभिर्मायेशान् नो जिगीषसि।
जित्वा बालान् निबद्धाक्षान् 7नटो हरति तद्धनम्॥ ४ ॥
अनुवाद (हिन्दी)
‘मूर्ख! जैसे नट बच्चोंकी आँखें बाँधकर अपने जादूसे उनका धन ऐंठ लेता है वैसे ही तू मायाकी चालोंसे हमपर विजय प्राप्त करना चाहता है। तुझे पता नहीं कि हमलोग मायाके स्वामी हैं, वह हमारा कुछ नहीं बिगाड़ सकती॥ ४॥
वीरराघवः
तावत् तिरस्कार-प्रकारम् आह - नटवद् इति द्वाभ्याम् - तत एकेन वच आह - सोहम् इति । हे मूढ ! मायेशान् नः अस्मान् नटवत् मायाभिर् जेतुम् इच्छसि । दृष्टान्तम् एवोपपादयति - जित्वेति । निबद्धानि अक्षीणि येषां तान् बालान् अज्ञान् जित्वा नटः कपट-वृत्तिः यथा तेषां धनम् 8अपहरति, तथा ॥ ४ ॥
श्लोक-५
विश्वास-प्रस्तुतिः
आरुरुक्षन्ति मायाभिरुत्सिसृप्सन्ति ये दिवम्।
तान्दस्यून्विधुनोम्यज्ञान् पूर्वस्माच्च पदादधः॥
मूलम्
आरुरुक्षन्ति मायाभि9रुत्सिसृप्सन्ति 10ये दिवम्।
तान्दस्यून्विधुनोम्य11ज्ञ! पूर्वस्मा12च्च पदादधः॥ ५ ॥
अनुवाद (हिन्दी)
जो मूर्ख मायाके द्वारा स्वर्गपर अधिकार करना चाहते हैं और उसको लाँघकर ऊपरके लोकोंमें भी धाक जमाना चाहते हैं—उन लुटेरे मूर्खोंको मैं उनके पहले स्थानसे भी नीचे पटक देता हूँ॥ ५॥
वीरराघवः
मत्-प्रभावं शृण्व् इति वदंस् तिरस्करोति — हे अज्ञ ! 13मूढ ! पूर्वस्मात् पूर्व-लब्धाद् अधो ऽधस्तनात् पदात् स्थानात् ये आरुरुक्षन्ति आरोढुम् इच्छन्ति उत्तरोत्तरं लोकम् आरोढुम् इच्छन्ति असुराः, ये च मायाभिर् दिवं 14स्वर्गम् उत्सिसृप्सन्ति उत्सर्पितुम् इच्छन्ति तान् दस्यु-प्रायान् दुष्ट-जन्तु-तुल्यान् अधुना विधुनोमि हन्मि ॥ ५ ॥
श्लोक-६
विश्वास-प्रस्तुतिः
सोऽहं दुर्मायिनस्तेऽद्य वज्रेण शतपर्वणा।
शिरो हरिष्ये मन्दात्मन् घटस्व ज्ञातिभिः सह॥
मूलम्
सोऽहं दुर्मायिनस्तेऽद्य वज्रेण शतपर्वणा।
शिरो हरिष्ये मन्दात्मन् घटस्व ज्ञातिभिः सह॥ ६ ॥
अनुवाद (हिन्दी)
नासमझ! तूने मायाकी बड़ी-बड़ी चालें चली है। देख, आज मैं अपने सौ धारवाले वज्रसे तेरा सिर धड़से अलग किये देता हूँ। तू अपने भाई-बन्धुओंके साथ जो कुछ कर सकता हो, करके देख ले’॥ ६॥
वीरराघवः
दुर्मायिनस् तव शिरः सो ऽहं शतं पर्वाणि यस्य तेन वज्रेण आयुधेन हरिष्ये । हे मन्दात्मन् ! ज्ञातिभिस् सह घटस्व यथा-बलं विक्रमस्व ॥ ६ ॥
श्लोक-७
मूलम् (वचनम्)
बलिरुवाच
विश्वास-प्रस्तुतिः
सङ्ग्रामे वर्तमानानां कालचोदितकर्मणाम्।
कीर्तिर्जयोऽजयो मृत्युः सर्वेषां स्युरनुक्रमात्॥
मूलम्
सङ्ग्रामे वर्तमानानां काल15चोदितकर्मणाम्।
कीर्तिर्जयोऽजयो मृत्युः सर्वेषां स्युरनुक्रमात्॥ ७ ॥
अनुवाद (हिन्दी)
बलिने कहा—इन्द्र! जो लोग कालशक्तिकी प्रेरणासे अपने कर्मके अनुसार युद्ध करते हैं—उन्हें जीत या हार, यश या अपयश अथवा मृत्यु मिलती ही है॥ ७॥
वीरराघवः
इत्थं तिरस्कृत उक्तश् चा ऽऽह बलिः - सङ्ग्राम इति त्रिभिः । कालेन चोदितानि सुख-दुःख-जयापजयादि-फल-दानाय प्रवर्तितानि कर्माणि येषां तेषां सङ्ग्रामे युद्धे वर्तमानानां कीर्त्यादयः सर्वेषाम् अनुक्रमात् कीर्त्यादि-निमित्त-कर्म-परिपाकानुक्रमात् स्युर् एव । भवताम् अपि न सर्वदा कीर्त्य्-आदयो बभूवुः । किन्तु तत्-तत्-निमित्त-कर्म-परिपाक-दशायाम् एवेति, अस्माकम् अपि तथैवेति भावः ॥ ७ ॥
श्लोक-८
विश्वास-प्रस्तुतिः
तदिदं कालरशनं जनाः पश्यन्ति सूरयः।
न हृष्यन्ति न शोचन्ति तत्र यूयमपण्डिताः॥
अनुवाद (हिन्दी)
इसीसे ज्ञानीजन इस जगत्को कालके अधीन समझकर न तो विजय होनेपर हर्षसे फूल उठते हैं और न तो अपकीर्ति, हार अथवा मृत्युसे शोकके ही वशीभूत होते हैं। तुमलोग इस तत्त्वसे अनभिज्ञ हो॥ ८॥
वीरराघवः
तम् इमम् अनुक्र19मेण कीर्त्य्-आदिमन्तं जनं काल-रशनं काल-यान्त्रितं कालोन्मिषित-कर्म-फल-भोक्तारं सूरयः पण्डिताः पश्यन्ति । अतस् ते कीर्ति-जय-मृत्युषु न हृष्यन्ति, तद्-विपरीते तु न शोचन्ति च । तत्रैवंविधे विवेके यूयम् अपण्डिताः अनिपुणाः ॥ ८ ॥
श्लोक-९
विश्वास-प्रस्तुतिः
न वयं मन्यमानानामात्मानं तत्र साधनम्।
गिरो वः साधुशोच्यानां गृह्णीमो मर्मताडनाः॥
मूलम्
न वयं मन्यमानानामात्मानं तत्र साधनम्।
गिरो वः साधुशोच्यानां गृह्णीमो मर्मताडनाः॥ ९ ॥
अनुवाद (हिन्दी)
तुम लोग अपनेको जय-पराजय आदिका कारण—कर्ता मानते हो, इसलिये महात्माओंकी दृष्टिसे तुम शोचनीय हो। हम तुम्हारे मर्मस्पर्शी वचनको स्वीकार ही नहीं करते, फिर हमें दुःख क्यों होने लगा?॥ ९॥
वीरराघवः
तत्र कीर्त्य्-आदाव् आत्मानं देहं साधनं साधकं मन्यमानानाम्, अत एव साधुभिः शोच्यानाम्, अहो ! अज्ञा एते इत्य् एवं शोच्यानां वो युष्माकं मर्म-ताडनाः मर्मसु ताडनं याभिस् ताः गिरो वयं न गृह्णीमो न साधु मन्यामहे ॥ ९ ॥
श्लोक-१०
मूलम् (वचनम्)
20श्रीशुक उवाच
विश्वास-प्रस्तुतिः
इत्याक्षिप्य विभुं वीरो नाराचैर्वीरमर्दनः।
आकर्णपूर्णैरहनदाक्षेपैराहतं पुनः॥
अनुवाद (हिन्दी)
श्रीशुकदेवजी कहते हैं—वीर बलिने इन्द्रको इस प्रकार फटकारा। बलिकी फटकारसे इन्द्र कुछ झेंप गये। तबतक वीरोंका मान मर्दन करनेवाले बलिने अपने धनुषको कानतक खींच-खींचकर बहुत-से बाण मारे॥ १०॥
वीरराघवः
इत्थं विभुम् इन्द्रम् आक्षिप्य अधिक्षिप्य वीराणाम् आनदो वीरो वैरोचनिः आक्षेपैर् अधिक्षेप-वाक्यैः आहतं पुनः आकर्णान्तम् आकृष्टैः नाराचैर् आहनत् ॥ १० ॥
श्लोक-११
विश्वास-प्रस्तुतिः
एवं निराकृतो देवो वैरिणा तथ्यवादिना।
नामृष्यत् तदधिक्षेपं तोत्राहत इव द्विपः॥
मूलम्
एवं निराकृतो देवो वैरिणा तथ्यवादिना।
नामृष्यत् तदधिक्षेपं तोत्राहत इव द्विपः॥ ११ ॥
अनुवाद (हिन्दी)
सत्यवादी देवशत्रु बलिने इस प्रकार इन्द्रका अत्यन्त तिरस्कार किया। अब तो इन्द्र अंकुशसे मारे हुए हाथीकी तरह और भी चिढ़ गये। बलिका आक्षेप वे सहन न कर सके॥ ११॥
वीरराघवः
यथार्थवादिना वैरिणा बलिना एवं निराकृतः 23तिरस्कृतो देव इन्द्रः तेन बलिना कृतम् अधिक्षेपं ना ऽमृष्यत् ना ऽसहत । तोत्रम् अङ्कुशः24, तेन आहतो द्विपो गज इव ॥ ११ ॥
श्लोक-१२
विश्वास-प्रस्तुतिः
प्राहरत् कुलिशं तस्मा अमोघं परमर्दनः।
सयानो न्यपतद् भूमौ छिन्नपक्ष इवाचलः॥
मूलम्
25प्राहिणोत् कुलिशं त26स्मा अमो27घमपरिमर्द28नम्।
सयानो 29न्यपतद् भूमौ 30छिन्नपक्ष इवाचलः॥ १२ ॥
अनुवाद (हिन्दी)
शत्रुघाती इन्द्रने बलिपर अपने अमोघ वज्रका प्रहार किया। उसकी चोटसे बलि पंख कटे हुए पर्वतके समान अपने विमानके साथ पृथ्वीपर गिर पड़े॥ १२॥
श्लोक-१३
विश्वास-प्रस्तुतिः
सखायं पतितं दृष्ट्वा जम्भो बलिसखः सुहृत्।
अभ्ययात् सौहृदं सख्युर्हतस्यापि समाचरन्॥
मूलम्
सखायं पतितं दृष्ट्वा जम्भो बलिसखः सुहृत्।
अभ्ययात् 31सौहृदं सख्युर्हतस्यापि 32विचिन्तयन्॥ १३ ॥
अनुवाद (हिन्दी)
बलिका एक बड़ा हितैषी और घनिष्ठ मित्र जम्भासुर था। अपने मित्रके गिर जानेपर भी उनको मारनेका बदला लेनेके लिये वह इन्द्रके सामने आ खड़ा हुआ॥ १३॥
वीरराघवः
किन्तु, तस्मै बलये अमोघम् अप्रतिहतम् अरीणां मर्दनं 33घातुकं वज्रं कुलिशं प्राहरत् प्रायुङ्क्त । हे नृप ! तस्मात् कुलिश-प्रहारात् छिन्न-पक्षः पर्वत इव स-विमानो भूमौ, न्यपतद् इति शेषः । “शयानो न्यपतद् भूमौ” इति पाठान्तरे तु न शेषः । “शयानो नृप !” इति पाठे तु शयानो 34बभूवेत्य् अर्थः । बलेः सखा सुहृच्च जम्भो ऽसुरः सखायं बलिं भूमौ पतितं दृष्ट्वा हतस्या ऽपि सख्युर् बलेः सुहृदम्, भाव-प्रधानो निर्देशः, सौहार्दम् आचरन् अभ्ययात् इन्द्रस्या ऽभिमुखम्, अगाद् इत्य् अर्थः ॥ १२,१३ ॥
श्लोक-१४
विश्वास-प्रस्तुतिः
स सिंहवाह आसाद्य गदामुद्यम्य रंहसा।
जत्रावताडयच्छक्रं गजं च सुमहाबलः॥
मूलम्
स सिंहवाह आसाद्य गदामुद्यम्य रंहसा।
जत्रावताडयच्छक्रं गजं च सुमहाबलः॥ १४ ॥
अनुवाद (हिन्दी)
सिंहपर चढ़कर वह इन्द्रके पास पहुँच गया और बड़े वेगसे अपनी गदा उठाकर उनके जत्रुस्थान (हँसली)-पर प्रहार किया। साथ ही उस महाबलीने ऐरावतपर भी एक गदा जमायी॥ १४॥
वीरराघवः
सिंहो 35वाहो वाहनं यस्य सः महाबलो जम्भः समीपम् आगत्य रंहसा बलेन वेगेन वा गदाम् उद्यम्य शत्रुम् इन्द्रं जत्रौ कण्टस्य मूल-देशे अताडयत्, तथा गजञ् च अताडयत् ॥ १४ ॥
श्लोक-१५
विश्वास-प्रस्तुतिः
गदाप्रहारव्यथितो भृशं विह्वलितो गजः।
जानुभ्यां धरणीं स्पृष्ट्वा कश्मलं परमं ययौ॥
मूलम्
गदाप्रहारव्यथितो भृशं विह्वलितो गजः।
जानुभ्यां धरणीं स्पृष्ट्वा कश्मलं परमं ययौ॥ १५ ॥
अनुवाद (हिन्दी)
गदाकी चोटसे ऐरावतको बड़ी पीड़ा हुई, उसने व्याकुलतासे घुटने टेक दिये और फिर मूर्च्छित हो गया!॥ १५॥
वीरराघवः
भृशं गदा-प्रहारेण व्यथितः अत एव विह्वलितो गज ऐरावतो जानुभ्याम् अवनीं स्पृष्ट्वा परं दुःखं लेभे ॥ १५ ॥
श्लोक-१६
विश्वास-प्रस्तुतिः
ततो रथो मातलिना हरिभिर्दशशतैर्वृतः।
आनीतो द्विपमुत्सृज्य रथमारुरुहे विभुः॥
अनुवाद (हिन्दी)
उसी समय इन्द्रका सारथि मातलि हजार घोड़ोंसे जुता हुआ रथ ले आया और शक्तिशाली इन्द्र ऐरावतको छोड़कर तुरंत रथपर सवार हो गये॥ १६॥
वीरराघवः
ततो गजस्य 38कश्मलं 39दुःखं दृष्टवता मातलिना हरिद्-वर्णैर् दश-शतैः सहस्र-संख्याकैर् अश्वैर् युक्तो रथ आनीतः । तम् आनीतं रथं विभुर् इन्द्रो गजम् ऐरावतम् उत्सृज्य आरुरुहे आरूढवान् ॥ १६ ॥
श्लोक-१७
विश्वास-प्रस्तुतिः
तस्य तत् पूजयन् कर्म यन्तुर्दानवसत्तमः।
शूलेन ज्वलता तं तु स्मयमानोऽहनन्मृधे॥
मूलम्
तस्य तत् पूजयन् कर्म 40यन्तुर्दानवसत्तमः।
शूलेन ज्वलता तं तु स्मयमानोऽहनन्मृधे॥ १७ ॥
अनुवाद (हिन्दी)
दानवश्रेष्ठ जम्भने रणभूमिमें मातलिके इस कामकी बड़ी प्रशंसा की और मुसकराकर चमकता हुआ त्रिशूल उसके ऊपर चलाया॥ १७॥
वीरराघवः
तस्य यन्तुर् मातलेः तत् कर्म रथा-नयन-रूपं कर्म पूजयन् अहो ! एवं विधेन सारथिना भवितव्यम् इत्य् एवं बहु मानयन् ज्वलता प्रकाशमानेन शूलेन तं मातलिं स्मयमानो युद्धे अहनत् ॥ १७ ॥
श्लोक-१८
विश्वास-प्रस्तुतिः
सेहे रुजं सुदुर्मर्षां सत्त्वमालम्ब्य मातलिः।
इन्द्रो जम्भस्य संक्रुद्धो वज्रेणापाहरच्छिरः॥
मूलम्
सेहे रुजं सुदुर्म41र्षां सत्त्वमालम्ब्य मातलिः।
इन्द्रो जम्भस्य संक्रुद्धो वज्रेणापाहरच्छिरः॥ १८ ॥
अनुवाद (हिन्दी)
मातलिने धैर्यके साथ इस असह्य पीड़ाको सह लिया। तब इन्द्रने क्रोधित होकर अपने वज्रसे जम्भका सिर काट डाला॥ १८॥
वीरराघवः
सत्त्वं धैर्यम् अवलम्ब्य मातलिर् दुस्सहाम् अपि रुजं शूल-घात-जां व्यथां सेहे असहत । ततः संक्रुद्ध इन्द्रो वज्रेण जम्भस्य शिरः अपाहरत् चिच्छेद ॥ १८ ॥
श्लोक-१९
विश्वास-प्रस्तुतिः
जम्भं श्रुत्वा हतं तस्य ज्ञातयो नारदादृषेः।
नमुचिश्च बलः पाकस्तत्रापेतुस्त्वरान्विताः॥
मूलम्
जम्भं श्रुत्वा हतं तस्य ज्ञातयो नारदादृषेः।
नमुचिश्च बलः पाक42स्तत्रापेयुस्त्वरान्विताः॥ १९ ॥
अनुवाद (हिन्दी)
देवर्षि नारदसे जम्भासुरकी मृत्युका समाचार जानकर उसके भाई-बन्धु नमुचि, बल और पाक झटपट रणभूमिमें आ पहुँचे॥ १९॥
वीरराघवः
तस्य जम्भस्य ज्ञातयो नमुचि-बल-पाकाख्यास् त्रयो नारदाद् ऋषेः जम्भं हतं श्रुत्वा त्वरया ऽन्विताः तत्र युद्ध-देशे उपेयुर् आजग्मुः ॥ १९ ॥
श्लोक-२०
विश्वास-प्रस्तुतिः
वचोभिः परुषैरिन्द्रमर्दयन्तोऽस्य मर्मसु।
शरैरवाकिरन् मेघा धाराभिरिव पर्वतम्॥
अनुवाद (हिन्दी)
अपने कठोर और मर्मस्पर्शी वाणीसे उन्होंने इन्द्रको बहुत कुछ बुरा-भला कहा और जैसे बादल पहाड़पर मूसलाधार पानी बरसाते हैं, वैसे ही उनके ऊपर बाणोंकी झड़ी लगा दी॥ २०॥
वीरराघवः
ते परुषैर् वचोभिर् इन्द्रं 45घट्टयन्तः ताडयन्तः तिरस्कुर्वन्तः अस्य इन्द्रस्य मर्मसु स्थानेषु मेघा जल-धाराभिः पर्वतम् इव शरैर् अवाकिरन् ॥ २० ॥
श्लोक-२१
विश्वास-प्रस्तुतिः
हरीन्दशशतान्याजौ हर्यश्वस्य बलः शरैः।
तावद्भिरर्दयामास युगपल्लघुहस्तवान्॥
अनुवाद (हिन्दी)
बलने बड़े हस्तलाघवसे एक साथ ही एक हजार बाण चलाकर इन्द्रके एक हजार घोड़ोंको घायल कर दिया॥ २१॥
वीरराघवः
बल-पाक-नमुचीनां त्रयाणां विक्रमान् क्रमेणैकैकेना ऽऽह हरिम् इति । बलो ऽसुरः आजौ 48युद्धे हर्य्-अश्वस्येन्द्रस्य दश-शतानि, अश्वानाम् इति शेषः । हरिम् इन्द्रश् च तावद्भिः एकाधिक-दश-शतैश् शरैः युगपत् अर्दयामास 49ताडयामास49 । असौ बलो लघु-हस्तवान् शर-सन्धानोपयुक्त-कौशलाख्य-लाघव-युक्त-हस्तवान् इत्य् अर्थः ॥ २१ ॥
श्लोक-२२
विश्वास-प्रस्तुतिः
शताभ्यां मातलिं पाको रथं सावयवं पृथक्।
सकृत्सन्धानमोक्षेण तदद्भुतमभूद् रणे॥
अनुवाद (हिन्दी)
पाकने सौ बाणोंसे मातलिको और सौ बाणोंसे रथके एक-एक अंगको छेद डाला। युद्धभूमिमें यह बड़ी अद्भुत घटना हुई कि एक ही बार इतने बाण उसने चढ़ाये और चलाये॥ २२॥
वीरराघवः
पाको ऽसुरः शताभ्यां, शराणाम् इति शेषः । मातलिं रथञ् च पृथक् पृथक् अवयवशश् च युगपद् एव शर-सन्धान-तन्-मोक्षण-योगेन, रणे अर्दयामासेत्य् अनुषङ्गः । तत् सकृत्-सन्धान-मोक्षणं पृथग्-अवयवशो ऽर्दनात्मकञ् च कर्म अद्भुतम् अभवत् ॥ २२ ॥
श्लोक-२३
विश्वास-प्रस्तुतिः
नमुचिः पञ्चदशभिः स्वर्णपुङ्खैर्महेषुभिः।
आहत्य व्यनदत्संख्ये सतोय इव तोयदः॥
मूलम्
नमुचिः पञ्चदशभिः स्वर्णपुङ्खैर्महेषुभिः।
आहत्य व्यनदत्संख्ये सतोय इव तोयदः॥ २३ ॥
अनुवाद (हिन्दी)
नमुचिने बड़े-बड़े पंद्रह बाणोंसे, जिनमें सोनेके पंख लगे हुए थे, इन्द्रको मारा और युद्धभूमिमें वह जलसे भरे बादलके समान गरजने लगा॥ २३॥
वीरराघवः
नमुचिस् तु स्वर्ण-मयाः पुङ्खाः मूल-प्रान्त-देशाः येषां तैः पञ्च-दशभिर् महद्भिर् इषुभिर् इन्द्रम् आहत्य प्रताड्य सजलो मेघ इव स्वयं संख्ये व्यनदद् अध्वान ॥ २३ ॥
श्लोक-२४
विश्वास-प्रस्तुतिः
सर्वतः शरकूटेन शक्रं सरथसारथिम्।
छादयामासुरसुराः प्रावृट्सूर्यमिवाम्बुदाः॥
मूलम्
सर्वतः शरकूटेन 51शत्रुं सरथसारथिम्।
छादयामासुरसुराः प्रावृट्सूर्यमिवाम्बुदाः॥ २४ ॥
अनुवाद (हिन्दी)
जैसे वर्षाकालके बादल सूर्यको ढक लेते हैं, वैसे ही असुरोंने बाणोंकी वर्षासे इन्द्र और उनके रथ तथा सारथिको भी चारों ओरसे ढक दिया॥ २४॥
वीरराघवः
ततः सर्वे ऽसुराः प्रावृट्-कालिकं सूर्यं मेघा इव रथ-सारथि-युक्तम् इन्द्रं सर्वतः शर-वर्षेण छादयामासुः ॥ २४ ॥
श्लोक-२५
विश्वास-प्रस्तुतिः
अलक्षयन्तस्तमतीव विह्वला
विचुक्रुशुर्देवगणाः सहानुगाः।
अनायकाः शत्रुबलेन निर्जिता
वणिक्पथा भिन्ननवो यथार्णवे॥
मूलम्
अलक्षयन्तस्तमतीव विह्वला विचुक्रुशुर्देवगणाः सहानुगाः।
अनायकाः शत्रु52बलेन निर्जिताः52 वणिक्पथा भिन्ननवो यथार्णवे॥ २५ ॥
अनुवाद (हिन्दी)
इन्द्रको न देखकर देवता और उनके अनुचर अत्यन्त विह्वल होकर रोने-चिल्लाने लगे। एक तो शत्रुओंने उन्हें हरा दिया था और दूसरे अब उनका कोई सेनापति भी न रह गया था। उस समय देवताओंकी ठीक वैसी ही अवस्था हो रही थी, जैसे बीच समुद्रमें नाव टूट जानेपर व्यापारियोंकी होती है॥ २५॥
वीरराघवः
तदा तम् इन्द्रम् अक्षयन्तो ऽपश्यन्तः सहानुगाः सर्वे देव-गणाः अतीव विह्वल53-चित्ता अनायका विचुक्रुशुः । यथा महार्णवे भिन्ना नौर् येषां ते । (भिन्न-नावः) दीर्घाभाव आर्षः । अत एवं विसर्जिता वणिक्-पथाः वाणिज्य-वृत्तयः क्रोशन्ति, तद्वत् ॥ २५ ॥
श्लोक-२६
विश्वास-प्रस्तुतिः
ततस्तुराषाडिषुबद्धपञ्जराद्
विनिर्गतः साश्वरथध्वजाग्रणीः।
बभौ दिशः खं पृथिवीं च रोचयन्
स्वतेजसा सूर्य इव क्षपात्यये॥
मूलम्
ततस्तुराषाडिषु54बद्धपञ्जराद् विनिर्गतः साश्वरथध्वजाग्रणीः।
बभौ दिशः खं पृथि55वीञ् च रोचयन् स्वतेजसा सूर्य इव क्षपात्यये॥ २६ ॥
अनुवाद (हिन्दी)
परन्तु थोड़ी ही देरमें शत्रुओंके बनाये हुए बाणोंके पिंजड़ेसे घोड़े, रथ, ध्वजा और सारथिके साथ इन्द्र निकल आये। जैसे प्रातःकाल सूर्य अपनी किरणोंसे दिशा, आकाश और पृथ्वीको चमका देते हैं, वैसे ही इन्द्रके तेजसे सब-के-सब जगमगा उठे॥ २६॥
वीरराघवः
ततस् तुराषाड् इन्द्रः बाण-पुङ्खानां पञ्जरात् साश्व-रथ-ध्वज-सारथिर् विनिर्गतः क्षपात्यये निशावसाने सूर्य इव स्व-तेजसा दिशः खम् आकाशं पृथिवीञ् च प्रकाशयन् बभौ ॥ २६ ॥
श्लोक-२७
विश्वास-प्रस्तुतिः
निरीक्ष्य पृतनां देवः परैरभ्यर्दितां रणे।
उदयच्छद् रिपुं हन्तुं वज्रं वज्रधरो रुषा॥
अनुवाद (हिन्दी)
वज्रधारी इन्द्रने देखा कि शत्रुओंने रणभूमिमें हमारी सेनाको रौंद डाला है, तब उन्होंने बड़े क्रोधसे शत्रुको मार डालनेके लिये वज्रसे आक्रमण किया॥ २७॥
वीरराघवः
असुराणां शरैर् अभ्यर्दितां पीडितां स्व-सेनां निरीक्ष्य देवो वज्र-धरः शक्रो रणे रिपून् असुरान् हन्तुं रुषा वज्रम् उदयच्छत् उद्धृतवान् ॥ २७ ॥
श्लोक-२८
विश्वास-प्रस्तुतिः
स तेनैवाष्टधारेण शिरसी बलपाकयोः।
ज्ञातीनां पश्यतां राजञ्जहार जनयन्भयम्॥
अनुवाद (हिन्दी)
परीक्षित्! उस आठ धारवाले पैने वज्रसे उन दैत्योंके भाई-बन्धुओंको भी भयभीत करते हुए उन्होंने बल और पाकके सिर काट लिये॥ २८॥
वीरराघवः
59स इन्द्रो ऽष्टौ धारा यस्य तेनैव वज्रेणैव बल-पाकयोर् असुरयोः शिरसी मूर्धानौ जहार चिच्छेद । किं कुर्वन् ? हे राजन् ! पश्यतां बल-पाकयोः ज्ञातीनां, महत् भयं जनयन् ॥ २८ ॥
श्लोक-२९
विश्वास-प्रस्तुतिः
नमुचिस्तद्वधं दृष्ट्वा शोकामर्षरुषान्वितः।
जिघांसुरिन्द्रं नृपते चकार परमोद्यमम्॥
मूलम्
नमुचिस्तद्वधं दृष्ट्वा शोकामर्षरुषान्वितः।
जिघांसुरिन्द्रं नृपते चकार परमोद्यमम्॥ २९ ॥
अनुवाद (हिन्दी)
परीक्षित्! अपने भाइयोंको मरा हुआ देख नमुचिको बड़ा शोक हुआ। वह क्रोधके कारण आपेसे बाहर होकर इन्द्रको मार डालनेके लिये जी-जानसे प्रयास करने लगा॥ २९॥
वीरराघवः
ततो नमुचिः तयोर् बल-पाकयोर् वधं दृष्ट्वा शोकामर्षाभ्यां युक्तया रुषा युक्तः, हे नृप ! तं शक्रं हन्तुम् इच्छुः परमम् उद्यमं यत्नं चकार ॥ २९ ॥
श्लोक-३०
विश्वास-प्रस्तुतिः
अश्मसारमयं शूलं घण्टावद्धेमभूषणम्।
प्रगृह्याभ्यद्रवत् क्रुद्धो हतोऽसीति वितर्जयन्।
प्राहिणोद् देवराजाय निनदन् मृगराडिव॥
मूलम्
अश्मसारमयं शूलं घण्टावद्धेमभूषणम्।
60प्रगृह्याभ्यद्रवत् क्रुद्धो हतोऽसीति 61विभर्त्सयन्।
प्राहिणोद् देवराजाय 62निनदन् मृगराडिव॥ ३० ॥
अनुवाद (हिन्दी)
‘इन्द्र! अब तुम बच नहीं सकते’—इस प्रकार ललकारते हुए एक त्रिशूल उठाकर वह इन्द्रपर टूट पड़ा। वह त्रिशूल फौलादका बना हुआ था, सोनेके आभूषणोंसे विभूषित था और उसमें घण्टे लगे हुए थे। नमुचिने क्रोधके मारे सिंहके समान गरजकर इन्द्रपर वह त्रिशूल चला दिया॥ ३०॥
वीरराघवः
उद्यमम् एवा ऽऽह - अश्मेति । अश्म-सारमयं लोहमयं घण्टावद् घण्टाभिर् युक्तं हेम-भूषणं शूलं प्रगृह्य क्रुद्धो ऽभ्यद्रवत् । ततो हतो ऽसीति 63विभर्त्सयन् भ्रामयन् सिंह इव 64विनदन् 65विनर्दन् देव-राजायेन्द्राय प्राहिणोत् प्रायुङ्क्त ॥ ३० ॥
श्लोक-३१
विश्वास-प्रस्तुतिः
तदापतद् गगनतले महाजवं
विचिच्छिदे हरिरिषुभिः सहस्रधा।
तमाहनन्नृप कुलिशेन कन्धरे
रुषान्वितस्त्रिदशपतिः शिरो हरन्॥
मूलम्
तदापतद् गगनतले 66महाजवं 67विचिच्छिदे हरिरिषुभिः सहस्रधा।
68तमाहनन्नृप68 कुलिशेन कन्धरे रुषान्वितस्त्रिदशपतिः शिरो69हरत्॥ ३१ ॥
अनुवाद (हिन्दी)
परीक्षित्! इन्द्रने देखा कि त्रिशूल बड़े वेगसे मेरी ओर आ रहा है। उन्होंने अपने बाणोंसे आकाशमें ही उसके हजारों टुकड़े कर दिये और इसके बाद देवराज इन्द्रने बड़े क्रोधसे उसका सिर काट लेनेके लिये उसकी गर्दनपर वज्र मारा॥ ३१॥
वीरराघवः
गगन-तले महोल्कावत् आपतच् छूलम् इन्द्रः शरैस् सहस्रधा विचिच्छिदे चिच्छेद । हे नृप ! 70ततः रुषा-युक्तः त्रिदश-पतिर् इन्द्रः तं नमुचिं कन्धरे कण्ठे 71कुलिशेन वज्रेण आसमन्तात् हनन् भिन्दन् तस्य शिरो ऽहरत् हर्तुम् आरब्धवान् ॥ ३१ ॥
श्लोक-३२
विश्वास-प्रस्तुतिः
न तस्य हि त्वचमपि वज्र ऊर्जितो
बिभेद यः सुरपतिनौजसेरितः।
तदद्भुतं परमतिवीर्यवृत्रभित्
तिरस्कृतो नमुचिशिरोधरत्वचा॥
मूलम्
72न तस्य हि72 त्वचमपि वज्र ऊर्जितो बिभेद यः सुरपतिनौजसेरितः।
तदद्भुतं परमतिवीर्यवृत्रभित् तिरस्कृतो नमुचिशिरोधरत्वचा॥ ३२ ॥
अनुवाद (हिन्दी)
यद्यपि इन्द्रने बड़े वेगसे वह वज्र चलाया था, परन्तु उस यशस्वी वज्रसे उसके चमड़ेपर खरोंचतक नहीं आयी। यह बड़ी आश्चर्यजनक घटना हुई कि जिस वज्रने महाबली वृत्रासुरका शरीर टुकड़े-टुकड़े कर डाला था, नमुचिके गलेकी त्वचाने उसका तिरस्कार कर दिया॥ ३२॥
वीरराघवः
यः सुर-पतिनेन्द्रेण ओजसा बलेन ईरितः प्रयुक्तुः ऊर्जितः बलवान् वज्रस् सः, तस्य नमुचेस् त्वचं चर्मा ऽपि न बिभेद भेत्तुं ना ऽशक्रोद् इत्य् अर्थः । अतिवीर्यं वृत्रम् अभिनद् इति तथाभूतो वज्रः नमुचेश् शिरोधर-त्वचा तिरस्कृत इत्य् एतत् परमम् अद्भुतम्, आसीद् इति शेषः ॥ ३२ ॥
श्लोक-३३
विश्वास-प्रस्तुतिः
तस्मादिन्द्रोऽबिभेच्छत्रोर्वज्रः प्रतिहतो यतः।
किमिदं दैवयोगेन भूतं लोकविमोहनम्॥
अनुवाद (हिन्दी)
जब वज्र नमुचिका कुछ न बिगाड़ सका, तब इन्द्र उससे डर गये। वे सोचने लगे कि ‘दैवयोगसे संसारभरको संशयमें डालनेवाली यह कैसी घटना हो गयी!॥ ३३॥
वीरराघवः
तस्माच् छत्रोः नमुचेः इन्द्रो ऽबिभेत् भीतः 74बभूव । कुतः ? यतो वज्रः प्रतिहतो बभूव । तस्य भय-निमित्तां चिन्तां दर्शयति । इदं 75वज्र विहतिः इत्य् एतत् किं देव-योगेन भूतं जातम् । किं वा लोकं विमोहयज् जातम् ? लोक-मोहनार्थं जातम् इत्य् अर्थः ॥ ३३ ॥
श्लोक-३४
विश्वास-प्रस्तुतिः
येन मे पूर्वमद्रीणां पक्षच्छेदः प्रजात्यये।
कृतो निविशतां भारैः पतत्त्रैः पततां भुवि॥
मूलम्
76येन मे पूर्वमद्रीणां76 पक्षच्छेदः प्रजा77क्षये।
कृतो नि78विशतां भारैः पतत्त्रैः पततां भुवि॥ ३४ ॥
अनुवाद (हिन्दी)
पहले युगमें जब ये पर्वत पाँखोंसे उड़ते थे और घूमते-फिरते भारके कारण पृथ्वीपर गिर पड़ते थे, तब प्रजाका विनाश होते देखकर इसी वज्रसे मैंने उन पहाड़ोंकी पाँखें काट डाली थीं॥ ३४॥
वीरराघवः
अन्यथा क्वा ऽपि अप्रतिहतेन वज्रेण नैवं भवितव्यम् इत्य् आह येनेति । मे मया कर्त्रा येन वज्रेण । यच्-छब्दस्य सो ऽयम् इत्य् उपरिष्टात् तच्-छब्देना ऽन्वयः । पूर्वम् अद्रीणां पक्ष-च्छेदः कृतः, कथम्भूतानाम् ? भारैः पतत्रैः पक्षैः भुवि पततां प्रजात्यये प्रजा-नाशने निमित्ते विशताञ् च ॥ ३४ ॥
श्लोक-३५
विश्वास-प्रस्तुतिः
तपःसारमयं त्वाष्ट्रं वृत्रो येन विपाटितः।
अन्ये चापि बलोपेताः सर्वास्त्रैरक्षतत्वचः॥
मूलम्
तपःसारमयं त्वाष्ट्रं वृत्रो येन विपाटितः।
अन्ये चा79ति बलोपेताः सर्वास्त्रैरक्षतत्वचः॥ ३५ ॥
अनुवाद (हिन्दी)
त्वष्टाकी तपस्याका सार ही वृत्रासुरके रूपमें प्रकट हुआ था! उसे भी मैंने इसी वज्रके द्वारा काट डाला था। और भी अनेकों दैत्य, जो बहुत बलवान् थे और किसी अस्त्र-शस्त्रसे जिनके चमड़ेको भी चोट नहीं पहुँचायी जा सकी थी, इसी वज्रसे मैंने मृत्युके घाट उतार दिये थे॥ ३५॥
वीरराघवः
किञ् च ! त्वाष्ट्रं त्वष्टुस् सम्बन्धि सारमयं वीर्याधिकं यत् तपः स एव वृत्रः त्वाष्ट्रं तप एव वृत्रः स येन वज्रेण विपाटितः । किञ् च अन्ये चा ऽधुना बलि-जम्भ-पाक-बलादयो ऽतिबलाः अत एव सर्वैर्-वज्रेतरैर्-अस्त्रैर्-अक्षताः त्वक् येषां ते निपातिताः ॥ ३५ ॥
श्लोक-३६
विश्वास-प्रस्तुतिः
सोऽयं प्रतिहतो वज्रो मया मुक्तोऽसुरेऽल्पके।
नाहं तदाददे दण्डं ब्रह्मतेजोऽप्यकारणम्॥
मूलम्
सोऽयं प्रतिहतो वज्रो मया मुक्तोऽसुरेऽल्पके।
नाहं तदाददे दण्डं ब्रह्मतेजोऽप्यकारणम्॥ ३६ ॥
अनुवाद (हिन्दी)
वही मेरा वज्र मेरे प्रहार करनेपर भी इस तुच्छ असुरको न मार सका, अतः अब मैं इसे अंगीकार नहीं कर सकता। यह ब्रह्मतेजसे बना है तो क्या हुआ, अब तो निकम्मा हो चुका है’॥ ३६॥
वीरराघवः
सो ऽयम् एवंविधो वज्रो मया तेनैव मया प्रयुक्तो ऽल्पके तुच्छो ऽसुरे नमुचौ प्रतिहतो बभूव । ब्रह्म-तेजः दधीच80 ऋषेः सामर्थ्य-रूपम् अपि अधुना अकारणं निष्कारणं दण्डं लगुड-तुल्यं जातम् । 81तं वज्रं ना ऽऽददे न परिगृह्णामि ॥ ३६ ॥
श्लोक-३७
विश्वास-प्रस्तुतिः
इति शक्रं विषीदन्तमाह वागशरीरिणी।
नायं शुष्कैरथो नार्द्रैर्वधमर्हति दानवः॥
मूलम्
इति शक्रं विषीदन्तमाह वागशरीरिणी।
नायं शुष्कैरथो नार्द्रैर्वधमर्हति दानवः॥ ३७ ॥
अनुवाद (हिन्दी)
इस प्रकार इन्द्र विषाद करने लगे। उसी समय यह आकाशवाणी हुई—‘‘यह दानव न तो सूखी वस्तुसे मर सकता है, न गीलीसे॥ ३७॥
वीरराघवः
इति विषीदन्तम् इत्थं क्लिश्यन्तम् इन्द्रम् अशरीरिणी परा देवता वाक् उवाच । तद् एवा ऽऽह नेति सार्धेन । अयं दानवो नमुचिः शुष्कैर् अथो आद्रैर् अपि वधं ना ऽर्हति ॥ ३७ ॥
श्लोक-३८
विश्वास-प्रस्तुतिः
मयास्मै यद् वरो दत्तो मृत्युर्नैवार्द्रशुष्कयोः।
अतोऽन्यश्चिन्तनीयस्ते उपायो मघवन् रिपोः॥
मूलम्
मयास्मै यद् वरो दत्तो मृ82त्युर्वेनार्द्रशुष्कयोः।
अतोऽन्यश्चिन्तनीयस्ते 83ह्युपायो मघवन् रिपोः॥ ३८ ॥
अनुवाद (हिन्दी)
इसे मैं वर दे चुका हूँ कि ‘सूखी या गीली वस्तुसे तुम्हारी मृत्यु न होगी।’ इसलिये इन्द्र! इस शत्रुको मारनेके लिये अब तुम कोई दूसरा उपाय सोचो!’’॥ ३८॥
वीरराघवः
कुतः यतो मया ऽस्मै नमुचये 84यो वरो दत्तः । को ऽसौ? आर्द्र-शुष्काभ्यां मृत्युर् अस्य नैव भूयाद् इत्य् एषः । अतो वज्रस्य शुष्कत्वात् न तेना ऽयं हन्यते । किन्तु हे मघवन् ! अस्य रिपोर् वधार्थं त्वया अन्य एवोपायः चिन्तनीयः ॥ ३८ ॥
श्लोक-३९
विश्वास-प्रस्तुतिः
तां दैवीं गिरमाकर्ण्य मघवान् सुसमाहितः।
ध्यायन् फेनमथापश्यदुपायमुभयात्मकम्॥
मूलम्
तां दैवीं गिरमाकर्ण्य मघ85वा सुसमाहितः।
ध्यायन् फेनमथापश्यदुपायमुभयात्मकम्॥ ३९ ॥
अनुवाद (हिन्दी)
उस आकाशवाणीको सुनकर देवराज इन्द्र बड़ी एकाग्रतासे विचार करने लगे। सोचते-सोचते उन्हें सूझ गया कि समुद्रका फेन तो सूखा भी है, गीला भी;॥ ३९॥
वीरराघवः
86एवम्भूतां दैवीं गिरं श्रुत्वा मघवान् इन्द्रः सुसमाहितो भूत्वा ध्यायन् ना ऽर्द्र - शुष्कात्मकं वस्तु चिन्तयन् तद् उभयात्मकं वस्तु फेनम् अपश्यत्, फेनम् उभयात्मकं निश्चितवान् ॥ ३९ ॥
श्लोक-४०
विश्वास-प्रस्तुतिः
न शुष्केण न चार्द्रेण जहार नमुचेः शिरः।
तं तुष्टुवुर्मुनिगणा माल्यैश्चावाकिरन्विभुम्॥
मूलम्
न शुष्केण न चार्द्रेण जहार नमुचेः शिरः।
तं तुष्टुवुर्मुनिगणा 87माल्यैश्चावाकिरन्विभुम्॥ ४० ॥
अनुवाद (हिन्दी)
इसलिये न उसे सूखा कह सकते हैं, न गीला। अतः इन्द्रने उस न सूखे और न गीले समुद्र फेनसे नमुचिका सिर काट डाला। उस समय बड़े-बड़े ऋषि-मुनि भगवान् इन्द्रपर पुष्पोंकी वर्षा और उनकी स्तुति करने लगे॥ ४०॥
वीरराघवः
तद् एवा ऽऽह — न शुष्केण न चार्द्रेण, किन्तु भयात्मकेन फेनेन तद्-उपलिप्तेन वज्रेण नमुचेश् शिरो जहारेत्य् अर्थः । तं नमुचेर् हन्तारम् इन्द्रं मुनि-गणास् तुष्टुवुः । माल्यानि पुष्पाणि च 88अकिरन् ववर्षुः ॥ ४० ॥
श्लोक-४१
विश्वास-प्रस्तुतिः
गन्धर्वमुख्यौ जगतुर्विश्वावसुपरावसू।
देवदुन्दुभयो नेदुर्नर्तक्यो ननृतुर्मुदा॥
मूलम्
गन्धर्वमुख्यौ जगतुर्विश्वावसुपरावसू।
देवदुन्दुभयो नेदुर्नर्त89क्यो ननृतुर्मुदा॥ ४१ ॥
अनुवाद (हिन्दी)
गन्धर्वशिरोमणि विश्वावसु तथा परावसु गान करने लगे, देवताओंकी दुन्दुभियाँ बजने लगीं और नर्तकियाँ आनन्दसे नाचने लगीं॥ ४१॥
वीरराघवः
गन्धर्व-श्रेष्ठौ 90विश्वावसु-परावसू90 जगतुः गानं चक्रतुः । देव-दुन्दुभयो नेदुर् दध्वनुः, नर्तक्यः स्त्रियः मुदा ननृतुः ॥ ४१ ॥
श्लोक-४२
विश्वास-प्रस्तुतिः
अन्येऽप्येवं प्रतिद्वन्द्वान् वाय्वग्निवरुणादयः।
सूदयामासुरस्त्रौघैर्मृगान् केसरिणो यथा॥
मूलम्
अन्येऽप्येवं प्रतिद्वन्द्वान् वाय्वग्निवरुणादयः।
सूदयामासुरस्त्रौघैर्मृगान् केसरिणो यथा॥ ४२ ॥
अनुवाद (हिन्दी)
इसी प्रकार वायु, अग्नि, वरुण आदि दूसरे देवताओंने भी अपने अस्त्र-शस्त्रोंसे विपक्षियोंको वैसे ही मार गिराया जैसे सिंह हरिनोंको मार डालते हैं॥ ४२॥
वीरराघवः
यथेन्द्रस् तथा ऽन्ये ऽपि वाय्व्-आदयः प्रतिद्वन्द्वा न स्त्रौघैः सिंहाः क्षुद्र-मृगान् इव, सूदयामासुर् जघ्नुः ॥ ४२ ॥
श्लोक-४३
विश्वास-प्रस्तुतिः
ब्रह्मणा प्रेषितो देवान् देवर्षिर्नारदो नृप।
वारयामास विबुधान् दृष्ट्वा दानवसंक्षयम्॥
मूलम्
ब्रह्मणा प्रेषितो 91देवान् देवर्षि91र्नारदो नृप।
वारयामास विबुधान् दृष्ट्वा दानवसंक्षयम्॥ ४३ ॥
अनुवाद (हिन्दी)
परीक्षित्! इधर ब्रह्माजीने देखा कि दानवोंका तो सर्वथा नाश हुआ जा रहा है। तब उन्होंने देवर्षि नारदको देवताओंके पास भेजा और नारदजीने वहाँ जाकर देवताओंको लड़नेसे रोक दिया॥ ४३॥
वीरराघवः
एवं देवैर् दानवेषु हन्यमानेषु दानव-संक्षयं दृष्ट्वा यावद् दानव-संक्षयो भविष्यतीत्य् आलोचितवता ब्रह्मणा चतुर्मुखेन प्रेषितो भगवान् नारदः हे नृप ! विबु92धान् इन्द्रादीन् 93वारयामास ॥ ४३ ॥
श्लोक-४४
मूलम् (वचनम्)
नारद उवाच
विश्वास-प्रस्तुतिः
भवद्भिरमृतं प्राप्तं नारायणभुजाश्रयैः।
श्रिया समेधिताः सर्व उपारमत विग्रहात्॥
मूलम्
भवद्भिरमृतं प्राप्तं नारायणभुजाश्रयैः।
श्रिया समेधिताः सर्व उपारमत विग्रहात्॥ ४४ ॥
अनुवाद (हिन्दी)
नारदजीने कहा—देवताओ! भगवान्की भुजाओंकी छत्रछायामें रहकर आपलोगोंने अमृत प्राप्त कर लिया है और लक्ष्मीजीने भी अपनी कृपा-कोरसे आपकी अभिवृद्धि की है, इसलिये आपलोग अब लड़ाई बंद कर दें॥ ४४॥
वीरराघवः
नारद-कृत-निवारण-प्रकारम् 94एवा ऽऽह — भवद्भिर् इति । नारायणस्य भुज एवा ऽऽश्रयो येषां तैः, हेतु-गर्भम् इदम् । भवद्भिर् अमृतं लब्धं पीतम् इति यावत् । तथा श्रिया त्रैलोक्य-लक्ष्म्या च सर्वे समेधिताः । अतो ऽधुना विग्रहात् कलहाद् उपारमत ॥ ४४ ॥
श्लोक-४५
मूलम् (वचनम्)
श्रीशुक उवाच
विश्वास-प्रस्तुतिः
संयम्य मन्युसंरम्भं मानयन्तो मुनेर्वचः।
उपगीयमानानुचरैर्ययुः सर्वे त्रिविष्टपम्॥
मूलम्
संयम्य मन्युसंरम्भं मानयन्तो मुनेर्वचः।
95उपगीयमानानुचरैर्ययुः सर्वे त्रिविष्टपम्॥ ४५ ॥
अनुवाद (हिन्दी)
श्रीशुकदेवजी कहते हैं—देवताओंने देवर्षि नारदकी बात मानकर अपने क्रोधके वेगको शान्त कर लिया और फिर वे सब-के-सब अपने लोक स्वर्गको चले गये। उस समय देवताओंके अनुचर उनके यशका गान कर रहे थे॥ ४५॥
वीरराघवः
एवम्भूतं मुनेर् नारदस्य वचो मानयन्तो देवाः मन्युं तत्-प्रयुक्तं युद्धोद्यमञ् 96संयम्य उपसंहृत्य सर्वे इन्द्रादयो देवाः अनुचरैर् उपगीयमानाः सन्धिर् आर्षः । त्रिविष्टपं स्वर्ग-लोकं ययुः ॥ ४५ ॥
श्लोक-४६
विश्वास-प्रस्तुतिः
येऽवशिष्टा रणे तस्मिन् नारदानुमतेन ते।
बलिं विपन्नमादाय अस्तं गिरिमुपागमन्॥
मूलम्
येऽवशिष्टा रणे तस्मिन् नारदानुमतेन ते।
बलिं विपन्नमादाय 97ह्यस्तं गिरिमुपागमन्॥ ४६ ॥
अनुवाद (हिन्दी)
युद्धमें बचे हुए दैत्योंने देवर्षि नारदकी सम्मतिसे वज्रकी चोटसे मरे हुए बलिको लेकर अस्ताचलकी यात्रा की॥ ४६॥
वीरराघवः
ततस् तस्मिन् रणे ये हतावशिष्टा दानवाः दैत्याश् च ते सर्वे नारदस्या ऽनुज्ञया विपन्नं वज्र-प्रहारेण भूमौ शयानं बलिम् आदाय अस्ताद्रिम् 98उपजग्मुः ॥ ४६ ॥
श्लोक-४७
विश्वास-प्रस्तुतिः
तत्राविनष्टावयवान् विद्यमानशिरोधरान्।
उशना जीवयामास संजीविन्या स्वविद्यया॥
मूलम्
99तदाविनष्टावयवान् विद्यमानशिरोधरान्।
उशना जीवयामास संजीविन्या स्वविद्यया॥ ४७ ॥
अनुवाद (हिन्दी)
वहाँ शुक्राचार्यने अपनी संजीवनी विद्यासे उन असुरोंको जीवित कर दिया, जिनके गरदन आदि अंग कटे नहीं थे, बच रहे थे॥ ४७॥
वीरराघवः
तत्रा ऽस्ताद्रौ उशना भार्गवः 100अविनष्टा अवयवाः येषां, विद्यमाना शिरो-धरा येषां तान् असुरान् आत्मनः 101स्वस्य सम्बन्धिन्या । अनेन अनितर-साधारणत्वं सूचितम् । मृत-सञ्जीविन्याख्यया विद्यया मन्त्र-विद्यया जीवयामास102 ॥ ४७ ॥
श्लोक-४८
विश्वास-प्रस्तुतिः
बलिश्चोशनसा स्पृष्टः प्रत्यापन्नेन्द्रियस्मृतिः।
पराजितोऽपि नाखिद्यल्लोकतत्त्वविचक्षणः॥
मूलम्
बलिश्चोशनसा स्पृष्टः प्रत्यापन्नेन्द्रियस्मृतिः।
पराजितोऽपि नाखिद्यल्लोकतत्त्वविचक्षणः॥ ४८ ॥
अनुवाद (हिन्दी)
शुक्राचार्यके स्पर्श करते ही बलिकी इन्द्रियोंमें चेतना और मनमें स्मरणशक्ति आ गयी। बलि यह बात समझते थे कि संसारमें जीवन-मृत्यु, जय-पराजय आदि उलट-फेर होते ही रहते हैं। इसलिये पराजित होनेपर भी उन्हें किसी प्रकारका खेद नहीं हुआ॥ ४८॥
अनुवाद (समाप्ति)
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामष्टमस्कन्धे देवासुरसंग्रामे एकादशोऽध्यायः॥ ११ ॥
वीरराघवः
बलिश् च उशनसा संस्पृष्टः प्रत्यापन्नानि पुनः प्राप्तानि इन्द्रियाणि स्मृतिश् च येन सः । पराजितो ऽपि ना ऽखिद्यत् 103ना ऽखिद्यत । 104तत् कुतः यतो105 ऽसौ लोक-तत्त्व-विचक्षणः लोकानां प्रकृति-संसृष्ट-जीवानां यत् तत्त्वं कर्मायत्त-जयापजय-सुख-दुःखादि-फल-भोक्तृत्व-रूपं, तत्र विचक्षणः तत्-परिशीलन-निपुणः ॥ ४८ ॥
इति श्रीमद्-भागवते अष्टम-स्कन्धे श्री-वीर-राघव-विदुषा लिखितायां भागवत-चन्द्र-चन्द्रिकायां व्याख्यायाम् एकादशो ऽध्यायः ॥ ११ ॥
-
A,B,G,J,M,Ma,T राः प्रत्युपल ↩︎
-
A,G,J,M,Ma,T या ↩︎
-
A,B,G,J,M,Ma,T सह ↩︎
-
A,B,T परमया ↩︎
-
A,B,T Omit हाहेति ↩︎
-
A,B,G,J,M,Ma,T सु सम्पन्नं ↩︎
-
M,Ma मभो ↩︎
-
W Omits अप ↩︎
-
H,V रुत्सर्पत्नि च, M,Ma रुल्सि सृक्ष्यन्ति ↩︎
-
W add च ↩︎
-
A,B,G,J,M,Ma,T ज्ञान् ↩︎
-
H,V ज्ञापरादधः ↩︎
-
W Omits मूढ ↩︎
-
W Omits स्वर्गं ↩︎
-
M,Ma लनो ↩︎
-
A,B,G,J,T तदिदं ↩︎
-
A,B,G,J,M,Ma,T जना ↩︎
-
M,Ma न ↩︎
-
W मकी ↩︎
-
H,V,W Omit ↩︎
-
A,B,G,J,M,Ma,T मर्दनः ↩︎
-
M,Ma दाशुगैः ↩︎
-
W Omits तिरस्कृतः ↩︎
-
A,B,T श ↩︎
-
A,B,G,J,M,Ma,T प्राहरत् ↩︎
-
H,V स्मैह्यमो ↩︎
-
A,B,G,J,M,Ma घम्पर ↩︎
-
A,B,G,J नः ↩︎
-
W टपात ↩︎
-
H,V भिन्न ↩︎
-
W त्सु ↩︎
-
A,B,G,J,T समाचरन्; M,Ma स्वमाचरन् ↩︎
-
A,B,T त ↩︎
-
A,B,T अभूदित्यर्थः ↩︎
-
A,B,T Omit वाहो ↩︎
-
H,V हयैर्द, M,Ma हरिर्द ↩︎
-
A,B,G,J,M,Ma,T र्वृतः ↩︎
-
A,B,T Omit कश्मलं ↩︎
-
W Omit दुःखं ↩︎
-
M,Ma शत्रोर्दा ↩︎
-
M,Ma णं ↩︎
-
A,G,J,T स्तत्राऽऽपेतु ↩︎
-
H,V पो ↩︎
-
A,B,G,J,M,Ma,T न्द्र मर्द ↩︎
-
A,B,T अर्दयन्तः ↩︎
-
W हरिं ↩︎
-
M,Ma नाजौ ↩︎
-
A,B,T सङ्ग्रामे ↩︎
-
A,B,G,J,M,Ma,T शक्रं ↩︎
-
A,B,T लितचि ↩︎
-
H,V पुञ्ज, W पुङ्ख ↩︎
-
M,Ma वी वि ↩︎
-
W शरैः ↩︎
-
A,B,G,J,M,Ma,T रणे ↩︎
-
A,B,T Omit सः ↩︎
-
विजयध्वजरीत्या श्लोकानुपूर्वी इत्यमस्ति - प्रगृह्याऽभ्यद्रवत्क्रुद्धो नमुचि दनिवोत्तमः । तदा विध्य महावीर्यो हतोसीति विसर्जयन् । ↩︎
-
A,B,G,J,T वितर्जयन् ↩︎
-
H,V,M विनदन् ↩︎
-
A,B,T वितर्जयन् ↩︎
-
W Omits विनदन् ↩︎
-
A,B,T Omit विनर्दन् ↩︎
-
H,V महाबलात्, W महोल्कवत् ↩︎
-
M,Ma नि ↩︎
-
A,B,G,J,M,Ma,T हरन् ↩︎
-
W Omits ततः ↩︎
-
A,B,T add शितेन ↩︎
-
A,B,T अभवत् ↩︎
-
A,B,T प्रतिहतिः ↩︎
-
A,B,G,J,M,Ma,T त्य ↩︎
-
H,V वस ↩︎
-
A,B,G,J,M,Ma,T ऽणि ↩︎
-
A,B,T चेः सा ↩︎
-
A,B,T Omit त ↩︎
-
A,B,G,J,M,Ma,T त्युनेवा ↩︎
-
A,B,G,J,M,Ma,T उ ↩︎
-
W यद्वरो ↩︎
-
A,B,G,J,M,Ma,T वान्सु ↩︎
-
A,B,T add इति ↩︎
-
W माल्यानिचाऽकि ↩︎
-
A,B,T अवा किं ↩︎
-
H,V काः ↩︎
-
A,B,T धर्वभानी ↩︎
-
A,B,T निवा ↩︎
-
A,B,T माऽऽह ↩︎
-
B,M,Ma गीयमाना अनु ↩︎
-
A,B,T Omit संयम्य ↩︎
-
A,B,G,J,M,Ma,T अ ↩︎
-
A,B‚T ययुः ↩︎
-
A,B,G,J,M,Ma,T तत्राऽ; H,V तदा वि ↩︎
-
A‚T Omit अविनष्टाः ↩︎
-
A,B,T स्वस ↩︎
-
A,B,T add इत्यर्थः ↩︎
-
A,B,T Omit नाऽखिद्यत् ↩︎
-
W Omits तत् ↩︎
-
A,B,T Omit असौ ↩︎