[दशमोऽध्यायः]
भागसूचना
देवासुर-संग्राम
श्लोक-१
मूलम् (वचनम्)
श्रीशुक उवाच
विश्वास-प्रस्तुतिः
इति दानवदैतेया नाविन्दन्नमृतं नृप।
युक्ताः कर्मणि यत्ताश्च वासुदेवपराङ्मुखाः॥
अनुवाद (हिन्दी)
श्रीशुकदेवजी कहते हैं—परीक्षित्! यद्यपि दानवों और दैत्योंने बड़ी सावधानीसे समुद्रमन्थनकी चेष्टा की थी, फिर भी भगवान्से विमुख होनेके कारण उन्हें अमृतकी प्राप्ति नहीं हुई॥ १॥
वीरराघवः
सम-देश-काल-हेत्वर्थ-कर्म-मतीनाम् अपि श्री-भगवन्तम् अनाश्रितानां न केवलं फलाप्राप्तिर् एव, प्रत्युत प्राण-हानिश् चेति वक्तुम् अमृतालाभ-प्रयुक्त-संरम्भाणां दैत्यानाम् आदितेयैस् सह युद्धम् आह अध्याय-द्वयेन । हे नृप ! इति इत्थं दानवा 3दैतेयाश् च अमृतं ना ऽविदन् (ना ऽविन्दन्) न लब्धवन्तः । तत्र हेतुं वदन् विशिनष्टि कर्मणि मथन-कर्मणि युक्तायत्ताश्-चानुकूल-कर्मवन्तो ऽपि वासुदेव-पराङ्मुखाः, अतो ना ऽविदन् (ना ऽविन्दन्) इत्य् अर्थः ॥ १ ॥
श्लोक-२
विश्वास-प्रस्तुतिः
साधयित्वामृतं राजन् पाययित्वा स्वकान् सुरान्।
पश्यतां सर्वभूतानां ययौ गरुडवाहनः॥
मूलम्
साधयित्वामृतं राजन् पाययि4त्वा स्वकान् सुरान्।
पश्यतां सर्वभूतानां ययौ गरुडवाहनः॥ २ ॥
अनुवाद (हिन्दी)
राजन्! भगवान्ने समुद्रको मथकर अमृत निकाला और अपने निजजन देवताओंको पिला दिया। फिर सबके देखते-देखते वे गरुड़पर सवार हुए और वहाँसे चले गये॥ २॥
वीरराघवः
हे राजन्! इत्थं भगवान् अमृतं साधयित्वा स्वकान् स्वाश्रितान् सुरान् 5सुधां पाययित्वा सर्व-भूतानां पश्यतां सतां श्री-गरुड-वाहनस् सन् जगाम ॥ २ ॥
श्लोक-३
विश्वास-प्रस्तुतिः
सपत्नानां परामृद्धिं दृष्ट्वा ते दितिनन्दनाः।
अमृष्यमाणा उत्पेतुर्देवान्प्रत्युद्यतायुधाः॥
मूलम्
सपत्नानां 6परां सिद्धिं दृष्ट्वा 7ते दितिनन्दनाः।
अमृष्यमाणा उत्पेतुर्देवान्प्रत्युद्यतायुधाः॥ ३ ॥
अनुवाद (हिन्दी)
जब दैत्योंने देखा कि हमारे शत्रुओंको तो बड़ी सफलता मिली तब वे उनकी बढ़ती सह न सके। उन्होंने तुरंत अपने हथियार उठाये और देवताओंपर धावा बोल दिया॥ ३॥
वीरराघवः
ततस् सपत्नानां देवानां परां सिद्धिं फल-प्राप्तिं दृष्ट्वा ते दैत्याः 8अमृष्यमाणाः8 9असहमानाः9 सन्तः उद्यतानि उद्धतानि आयुधानि यैस् ते देवान् प्रति उत्पेतुः अभिदुद्रुवुः ॥ ३ ॥
श्लोक-४
विश्वास-प्रस्तुतिः
ततः सुरगणाः सर्वे सुधया पीतयैधिताः।
प्रतिसंयुयुधुः शस्त्रैर्नारायणपदाश्रयाः॥
अनुवाद (हिन्दी)
इधर देवताओंने एक तो अमृत पीकर विशेष शक्ति प्राप्त कर ली थी और दूसरे उन्हें भगवान्के चरणकमलोंका आश्रय था ही। बस, वे भी अपने अस्त्र-शस्त्रोंसे सुसज्जित हो दैत्योंसे भिड़ गये॥ ४॥
वीरराघवः
ततस् सुरगणा अपि पीतया सुधया एधिता आहित-बलाः नारायण-पदाश्रयाश् च शस्त्रास्त्रैः प्रति संयुयुधुः ॥ ४ ॥
श्लोक-५
विश्वास-प्रस्तुतिः
तत्र दैवासुरो नाम रणः परमदारुणः।
रोधस्युदन्वतो राजंस्तुमुलो रोमहर्षणः॥
मूलम्
तत्र 12दैवासुरो नाम रणः परमदारुणः।
रोधस्युदन्वतो राजन्तुमुलो रोमहर्षणः॥ ५ ॥
अनुवाद (हिन्दी)
परीक्षित्! क्षीरसागरके तटपर बड़ा ही रोमांचकारी और अत्यन्त भयंकर संग्राम हुआ। देवता और दैत्योंकी वह घमासान लड़ाई ही ‘देवासुर-संग्राम’ के नामसे कही जाती है॥ ५॥
वीरराघवः
तत्रोदन्वतः 13क्षीराब्धेः रोधसि तीरे दैवासूर इति प्रसिद्धः परम-दारुणो ऽतिभीषणस् तुमुल-सङ्कलः पश्यतां शृण्वताञ् च रोम-हर्षणो रोम-हर्षण-जनको रण-सङ्ग्रामो बभूव ॥ ५ ॥
श्लोक-६
विश्वास-प्रस्तुतिः
तत्रान्योन्यं सपत्नास्ते संरब्धमनसो रणे।
समासाद्यासिभिर्बाणैर्निजघ्नुर्विविधायुधैः॥
मूलम्
तत्रान्योन्यं सपत्नास्ते संरब्धमनसो रणे।
समासाद्यासिभिर्बाणै14र्निजघ्नुर्विविधायुधैः॥ ६ ॥
अनुवाद (हिन्दी)
दोनों ही एक-दूसरेके प्रबल शत्रु हो रहे थे, दोनों ही क्रोधसे भरे हुए थे। एक-दूसरेको आमने-सामने पाकर तलवार, बाण और अन्य अनेकानेक अस्त्र-शस्त्रोंसे परस्पर चोट पहुँचाने लगे॥ ६॥
वीरराघवः
तम् एवानुवर्णयति - तत्रेति । तदा सपत्नास् ते देवासुराः संरब्धं क्रुद्धं मनः येषान्ते, रणे अन्योन्यं समासाद्य बाणैः विविधैर्-आयुधैश् च निजघ्नुः ॥ ६ ॥
श्लोक-७
विश्वास-प्रस्तुतिः
शङ्खतूर्यमृदङ्गानां भेरीडमरिणां महान्।
हस्त्यश्वरथपत्तीनां नदतां निःस्वनोऽभवत्॥
अनुवाद (हिन्दी)
उस समय लड़ाईमें शङ्ख, तुरही, मृदंग, नगारे और डमरू बड़े जोरसे बजने लगे; हाथियोंकी चिग्घाड़, घोड़ोंकी हिनहिनाहट, रथोंकी घरघराहट और पैदल सेनाकी चिल्लाहटसे बड़ा कोलाहल मच गया॥ ७॥
वीरराघवः
भेर्यादीनां शङ्खादीनाञ् च नदतां हस्त्य्-अश्व-पदातीनाञ् च महान् निस्स्वनो बभूव ॥ ७ ॥
श्लोक-८
विश्वास-प्रस्तुतिः
रथिनो रथिभिस्तत्र पत्तिभिः सह पत्तयः।
हया हयैरिभाश्चेभैः समसज्जन्त संयुगे॥
मूलम्
रथिनो रथिभिस्तत्र पत्तिभिः सह पत्तयः।
हया हयैरिभाश्चेभैः समसज्जन्त संयुगे॥ ८ ॥
अनुवाद (हिन्दी)
रणभूमिमें रथियोंके साथ रथी, पैदलके साथ पैदल, घुड़सवारोंके साथ घुड़सवार एवं हाथीवालोंके साथ हाथीवाले भिड़ गये॥ ८॥
श्लोक-९
विश्वास-प्रस्तुतिः
उष्ट्रैः केचिदिभैः केचिदपरे युयुधुः खरैः।
केचिद् गौरमृगैर्ऋक्षैर्द्वीपिभिर्हरिभिर्भटाः॥
मूलम्
उष्ट्रैः केचि19द्द्वपैः केचि20दपरेभिययुः खरैः।
केचिद् गौरमृखैर्ऋक्षैर्द्वीपिभिर्हरिभिर्भटाः॥ ९ ॥
अनुवाद (हिन्दी)
उनमेंसे कोई-कोई वीर ऊँटोंपर, हाथियोंपर और गधोंपर चढ़कर लड़ रहे थे तो कोई-कोई गौरमृग, भालू, बाघ और सिंहोंपर॥ ९॥
श्लोक-१०
विश्वास-प्रस्तुतिः
गृध्रैः कङ्कैर्बकैरन्ये श्येनभासैस्तिमिङ्गिलैः।
शरभैर्महिषैः खड्गैर्गोवृषैर्गवयारुणैः॥
मूलम्
गृध्रैः कङ्कै21र्वृकैरन्ये श्येनभासैस्तिमिङ्गिलैः।
शरभैर्महिषैः खड्गैर्गोवृषैर्गवयारुणैः॥ १० ॥
अनुवाद (हिन्दी)
कोई-कोई सैनिक गिद्ध, कंक, बगुले, बाज और भास पक्षियोंपर चढ़े हुए थे तो बहुत-से तिमिङ्गिल मच्छ, शरभ, भैंसे, गैंड़े, बैल, नीलगाय और जंगली साँड़ोंपर सवार थे॥ १०॥
वीरराघवः
तत्र देवेषु असुरेषु च केचित्, केचिद् भटाः उष्ट्रादिभिर् वाहनैः अभिसंययुः अभिदुद्रुवुः । गौर-मुखैर् इति ऋक्षैर् इत्यस्य विशेषणम् । 22रक्त-मुखैर् वानरैर् इत्य् अर्थः22 । 23हरिभिस् सिंहैः23, तिमिङ्गिलैर् मत्स्य-विशेषैः, गोभिर् धेनुभिः, वृषैर् बलीवर्दैश् च, अत्रैव गो-बलीवर्द-न्यायः प्रदर्शितः ॥ ९, १० ॥
श्लोक-११
विश्वास-प्रस्तुतिः
शिवाभिराखुभिः केचित् कृकलासैः शशैर्नरैः।
बस्तैरेके कृष्णसारैर्हंसैरन्ये च सूकरैः॥
मूलम्
शिवाभिराखुभिः केचित् कृकलासै24श्शुर्नरैः।
बस्तैरेके कृष्णसारैः हंसैरन्ये च सूकरैः॥ ११ ॥
अनुवाद (हिन्दी)
किसी-किसीने सियारिन, चूहे, गिरगिट और खरहोंपर ही सवारी कर ली थी तो बहुत-से मनुष्य, बकरे, कृष्णसार मृग, हंस और सूअरोंपर चढ़े थे॥ ११॥
वीरराघवः
शिवाः 25सृगाल-विशेषाः ताभिः, बस्तैर् मेषैः ॥ ११ ॥
श्लोक-१२
विश्वास-प्रस्तुतिः
अन्ये जलस्थलखगैः सत्त्वैर्विकृतविग्रहैः।
सेनयोरुभयो राजन् विविशुस्तेऽग्रतोऽग्रतः॥
मूलम्
अन्ये जलस्थलखगैः सत्त्वैर्विकृतविग्रहैः।
सेनयोरुभयो राजन् विविशुस्तेऽग्रतोऽग्रतः॥ १२ ॥
अनुवाद (हिन्दी)
इस प्रकार जल, स्थल एवं आकाशमें रहनेवाले तथा देखनेमें भयंकर शरीरवाले बहुत-से प्राणियोंपर चढ़कर कई दैत्य दोनों सेनाओंमें आगे-आगे घुस गये॥ १२॥
वीरराघवः
जले स्थले, खे आकाशे च गच्छन्तीति तथा तैः विकृत-विग्रहैः सत्त्वैर् जन्तुभिः वाहन-भूतैः उभयोर् देवासुर-सम्बन्धिन्योः सेनयोः अग्रतो ऽग्रतः हे राजन् ! विविशुः ॥ १२ ॥
श्लोक-१३
विश्वास-प्रस्तुतिः
चित्रध्वजपटै राजन्नातपत्रैः सितामलैः।
महाधनैर्वज्रदण्डैर्व्यजनैर्बार्हचामरैः॥
मूलम्
चित्रध्वजपटै राजन्नातपत्रैः सितामलैः।
महाधनैर्वज्रदण्डैः 26व्यजनैर्बार्हचामरैः॥ १३ ॥
वीरराघवः
हे राजन् ! 27चित्र-ध्वज-पटैः सितैश् शुभैर् अमलैर् महा-धनैर् अनघैः, वज्र-दण्डैर् आत-पत्रैः तथा वज्र-दण्डैर् व्यजनैः अनर्घैश् चामरैः ॥ १३ ॥
श्लोक-१४
विश्वास-प्रस्तुतिः
वातोद्धूतोत्तरोष्णीषैरर्चिर्भिर्वर्मभूषणैः।
स्फुरद्भिर्विशदैः शस्त्रैः सुतरां सूर्यरश्मिभिः॥
मूलम्
वा28तोद्धूतोत्तरोष्णीषैः 29अर्चिभिर्वर्मभूषणैः।
स्फुरद्भिर्वि30शदैः शस्त्रैः सुतरां सूर्यरश्मिभिः॥ १४ ॥
वीरराघवः
वातेनोद्धूतैर् उत्तरीयैर् उष्णीषैः ध्वनद्भिः कवचैर् भूषणैश् च । विशदैः निघर्षणेन निर्मलीकृतैः सूर्य-रश्मिभिः नितरां स्फुरद्भिः शस्त्रैश् च ॥ १४ ॥
श्लोक-१५
विश्वास-प्रस्तुतिः
देवदानववीराणां ध्वजिन्यौ पाण्डुनन्दन।
रेजतुर्वीरमालाभिर्यादसामिव सागरौ॥
अनुवाद (हिन्दी)
परीक्षित्! उस समय रंग-बिरंगी पताकाओं, स्फटिक मणिके समान श्वेत निर्मल छत्रों, रत्नोंसे जड़े हुए दण्डवाले बहुमूल्य पंखों, मोरपंखों, चँवरों और वायुसे उड़ते हुए दुपट्टों, पगड़ी, कलँगी, कवच, आभूषण तथा सूर्यकी किरणोंसे अत्यन्त दमकते हुए उज्ज्वल शस्त्रों एवं वीरोंकी पंक्तियोंके कारण देवता और असुरोंकी सेनाएँ ऐसी शोभायमान हो रही थीं, मानो जल-जन्तुओंसे भरे हुए दो महासागर लहरा रहे हों॥ १३—१५॥
वीरराघवः
वीराणां मालाभिश् च देवासुराणां ध्वजिन्यौ सेने रेजतुः 33यादसाम् इव सागरौ33 यथा यादसां मालाभिस् सागरौ समुद्रौ तद्वत् ॥ १५ ॥
श्लोक-१६
विश्वास-प्रस्तुतिः
वैरोचनो बलिः संख्ये सोऽसुराणां चमूपतिः।
यानं वैहायसं नाम कामगं मयनिर्मितम्॥
मूलम्
वैरो34चनिर्बलिः संख्ये सोऽसुराणां चमूपतिः।
यानं वैहायसं नाम कामगं मयनिर्मितम्॥ १६ ॥
अनुवाद (हिन्दी)
परीक्षित्! रणभूमिमें दैत्योंके सेनापति विरोचनपुत्र बलि मय दानवके बनाये हुए वैहायस नामक विमानपर सवार हुए। वह विमान चलानेवालेकी जहाँ इच्छा होती थी, वहीं चला जाता था॥ १६॥
वीरराघवः
असुराणां या चमूः सेना तस्याः पतिर् वैरोचनो बलिर् वैहायसाख्यं यानं विमानम् आस्थितः ऽधिष्ठितः, उदये उदय-गिरौ स्थितश् चन्द्र इव रेजे । यानं विशिनष्टि काम-गं कामं यथेच्छं35 गच्छतीति तथा, मयेन निर्मितम् ॥ १६ ॥
श्लोक-१७
विश्वास-प्रस्तुतिः
सर्वसाङ्ग्रामिकोपेतं सर्वाश्चर्यमयं प्रभो।
अप्रतर्क्यमनिर्देश्यं दृश्यमानमदर्शनम्॥
मूलम्
सर्वसाङ्ग्रामिकोपेतं सर्वाश्चर्यमयं 36विभो।
अप्रतर्क्यमनिर्देश्यं दृश्यमानमदर्शनम्॥ १७ ॥
अनुवाद (हिन्दी)
युद्धकी समस्त सामग्रियाँ उसमें सुसज्जित थीं। परीक्षित्! वह इतना आश्चर्यमय था कि कभी दिखलायी पड़ता तो कभी अदृश्य हो जाता। वह इस समय कहाँ है—जब इस बातका अनुमान भी नहीं किया जा सकता था तब बतलाया तो कैसे जा सकता था॥ १७॥
श्लोक-१८
विश्वास-प्रस्तुतिः
आस्थितस्तद्विमानाग्र्यं सर्वानीकाधिपैर्वृतः।
वालव्यजनछत्राग्र्यै रेजे चन्द्र इवोदये॥
मूलम्
आस्थितस्तद्विमानाग्र्यं सर्वानीकाधिपैर्वृतः।
वालव्यजन37छत्राद्यैः रेजे चन्द्र इवोदये॥ १८ ॥
अनुवाद (हिन्दी)
उसी श्रेष्ठ विमानपर राजा बलि सवार थे। सभी बड़े-बड़े सेनापति उनको चारों ओरसे घेरे हुए थे। उनपर श्रेष्ठ चमर डुलाये जा रहे थे और छत्र तना हुआ था। उस समय बलि ऐसे जान पड़ते थे, जैसे उदयाचलपर चन्द्रमा॥ १८॥
वीरराघवः
सर्वैस् सङ्ग्राम-साधनैः अस्त्र-शस्त्रादिभिर् युक्तं सर्वेषाम् अप्य् आश्चर्य-करं महद् विफलम् अप्रतर्क्यं विमानान्तर-सजातीयत्वेन तर्कितुम् 38अप्य् अशक्यम् अनिर्देश्यम् अनियत-प्रदेशावस्थानत्वेन क्वचिद् देशे नियमेन स्थितम् इति निर्देष्टुम् अशक्यं, क्वचिद् दृश्यमानम् अपि पुनर् अप्य् अदर्शनम् अदृश्यं द्रष्टुम् अशक्यं, तेजस्वित्वाद् विमा39नस्य श्रेष्ठं यद् यानं तदास्थित इत्य् अन्वयः । कथं-भूतः ? सर्वैस् सेनाधिपतिभिर् व्यजन-च्छत्र-चामरा40दिभिश् च वृतः ॥ १७, १८ ॥
श्लोक-१९
विश्वास-प्रस्तुतिः
तस्यासन्सर्वतो यानैर्यूथानां पतयोऽसुराः।
नमुचिः शम्बरो बाणो विप्रचित्तिरयोमुखः॥
मूलम्
तस्यासन्सर्वतो यानैः 41पूतनां पतयोऽसुराः।
नमुचिः शम्बरो बाणो विप्रचित्तिरयोमुखः॥ १९ ॥
श्लोक-२०
विश्वास-प्रस्तुतिः
द्विमूर्धा कालनाभोऽथ प्रहेतिर्हेतिरिल्वलः।
शकुनिर्भूतसंतापो वज्रदंष्ट्रो विरोचनः॥
मूलम्
द्विमूर्धा कालनाभोऽ42पि प्रहेतिर्हेतिरिल्वलः।
शकुनिर्भूत43सन्त्रासो वज्रदंष्ट्रो विरोचनः॥ २० ॥
श्लोक-२१
विश्वास-प्रस्तुतिः
हयग्रीवः शङ्कुशिराः कपिलो मेघदुन्दुभिः।
तारकश्चक्रदृक् शुम्भो निशुम्भो जम्भ उत्कलः॥
मूलम्
हयग्रीवः शङ्कुशिराः कपिलो मेघदुन्दुभिः।
तारक44श्चोग्रदृक् शुम्भो निशुम्भो जम्भ उत्कलः॥ २१ ॥
श्लोक-२२
विश्वास-प्रस्तुतिः
अरिष्टोऽरिष्टनेमिश्च मयश्च त्रिपुराधिपः।
अन्ये पौलोमकालेया निवातकवचादयः॥
मूलम्
अरिष्टोऽरिष्टनेमिश्च मयश्च त्रिपुराधिपः।
अन्ये पौलोमकालेया निवातकवचादयः॥ २२ ॥
अनुवाद (हिन्दी)
उनके चारों ओर अपने-अपने विमानोंपर सेनाकी छोटी-छोटी टुकड़ियोंके स्वामी नमुचि, शम्बर, बाण, विप्रचित्ति, अयोमुख, द्विमूर्धा, कालनाभ, प्रहेति, हेति, इल्वल, शकुनि, भूतसन्ताप, वज्रदंष्ट्र, विरोचन, हयग्रीव, शंकुशिरा, कपिल, मेघदुन्दुभि, तारक, चक्राक्ष, शुम्भ, निशुम्भ, जम्भ, उत्कल, अरिष्ट, अरिष्टनेमि, त्रिपुराधिपति मय, पौलोम कालेय और निवातकवच आदि स्थित थे॥ १९—२२॥
वीरराघवः
तस्य बलेस् समन्ताद् यूथानां पतयो ऽसुराः स्व-स्व-यानैस् सह ऽऽसन् परिवृत्य तस्थुः । यूथ-पतीन् एव कांश्चिन् निर्दिशति — नमुचिर् इति ॥ १९-२२ ॥
श्लोक-२३
विश्वास-प्रस्तुतिः
अलब्धभागाः सोमस्य केवलं क्लेशभागिनः।
सर्व एते रणमुखे बहुशो निर्जितामराः॥
मूलम्
अलब्धभागाः सोमस्य केवलं क्लेशभागिनः।
सर्व एते रणमुखे बहुशो निर्जितामराः॥ २३ ॥
अनुवाद (हिन्दी)
ये सब-के-सब समुद्रमन्थनमें सम्मिलित थे। परन्तु इन्हें अमृतका भाग नहीं मिला, केवल क्लेश ही हाथ लगा था। इन सब असुरोंने एक नहीं, अनेक बार युद्धमें देवताओंको पराजित किया था॥ २३॥
वीरराघवः
45एते सर्वे सोमस्या ऽमृतस्य अलब्धो भागो यैः ते केवलं क्लेश-मात्रं प्राप्तास् सन्तः पूर्वं रण-मुखे बहुशो निर्जिता अमरा यैस् ते ॥ २३ ॥
श्लोक-२४
विश्वास-प्रस्तुतिः
सिंहनादान् विमुञ्चन्तः शङ्खान् दध्मुर्महारवान्।
दृष्ट्वा सपत्नानुत्सिक्तान् बलभित् कुपितो भृशम्॥
मूलम्
सिंहना46दान् विमुञ्चन्तः शङ्खान् दध्मुर्महारवान्।
दृष्ट्वा सपत्नानुत्सिक्तान् बलभित् कुपितो भृशम्॥ २४ ॥
अनुवाद (हिन्दी)
इसलिये वे बड़े उत्साहसे सिंहनाद करते हुए अपने घोर स्वरवाले शंख बजाने लगे। इन्द्रने देखा कि हमारे शत्रुओंका मन बढ़ रहा है, ये मदोन्मत्त हो रहे हैं; तब उन्हें बड़ा क्रोध आया॥ २४॥
वीरराघवः
सिंह-47नादान् विमुञ्चन्तः कुर्वन्तः, महान् रवो येषां तान्, शङ्कान् दध्मुः ध्वनयामासुः । एवम् उद्धतान् शत्रून् असुरान् दृष्ट्वा स्वराट् बलभित् इन्द्रः नितरां कुपितः ॥ २४ ॥
श्लोक-२५
विश्वास-प्रस्तुतिः
ऐरावतं दिक्करिणमारूढः शुशुभे स्वराट्।
यथा स्रवत्प्रस्रवणमुदयाद्रिमहर्पतिः॥
मूलम्
ऐरावतं दिक्करिणमारू48ढो वियति स्वराट्।
यथा स्रवत्प्रस्रवणमुदयाद्रिमहर्पतिः॥ २५ ॥
पादटिप्पनी
वे अपने वाहन ऐरावत नामक दिग्गजपर सवार हुए। उसके कपोलोंसे मद बह रहा था। इसलिये इन्द्रकी ऐसी शोभा हुई, मानो भगवान् सूर्य उदयाचलपर आरूढ़ हों और उससे अनेकों झरने बह रहे हों॥ २५॥
वीरराघवः
दिक्करिणम् ऐरावतम् अधिरूढः वियत्य् आकाशे, अवस्थित इति शेषः । 49कः कम् इव ? स्रवन्ति प्रस्रवणानि यस्मिन् मद-धारा-सादृश्यम् अनेना ऽभिप्रेतं तम् उदयाद्रिम् आरूढो ऽहर्पतिस् सूर्यो यथा, तद्वत् ॥ २५ ॥
श्लोक-२६
विश्वास-प्रस्तुतिः
तस्यासन्सर्वतो देवा नानावाहध्वजायुधाः।
लोकपालाः सह गणैर्वाय्वग्निवरुणादयः॥
मूलम्
तस्यासन्सर्वतो देवा नानावाहध्वजायुधाः।
लोकपालाः सह गणैर्वाय्वग्निवरुणादयः॥ २६ ॥
अनुवाद (हिन्दी)
इन्द्रके चारों ओर अपने-अपने वाहन, ध्वजा और आयुधोंसे युक्त देवगण एवं अपने-अपने गणोंके साथ वायु, अग्नि, वरुण आदि लोकपाल हो लिये॥ २६॥
वीरराघवः
तस्येन्द्रस्य सर्वतः परितो देवा नाना-विधानि आयुधादीनि येषां ते आसन्, तं परिवेष्ट्य तस्थुः, स्व-गणैस् सहिता वाय्व्-आदयो लोक-पालाः ॥ २६ ॥
श्लोक-२७
विश्वास-प्रस्तुतिः
तेऽन्योन्यमभिसंसृत्य क्षिपन्तो मर्मभिर्मिथः।
आह्वयन्तो विशन्तोऽग्रे युयुधुर्द्वन्द्वयोधिनः॥
मूलम्
तेऽन्योन्यमभिसं50वृत्य क्षिपन्तो 51नामभिर्मिथः।
आह्वयन्तो विशन्तोऽग्रे युयुधुर्द्वन्द्वयोधिनः॥ २७ ॥
अनुवाद (हिन्दी)
दोनों सेनाएँ आमने-सामने खड़ी हो गयीं। दो-दोकी जोड़ियाँ बनाकर वे लोग लड़ने लगे। कोई आगे बढ़ रहा था, तो कोई नाम ले-लेकर ललकार रहा था। कोई-कोई मर्मभेदी वचनोंके द्वारा अपने प्रतिद्वन्द्वीको धिक्कार रहा था॥ २७॥
वीरराघवः
52ते दैत्याश् च52 अन्योन्यम् अभिमुखं समीपम् आगत्य परस्परं क्षिपन्तः तिरस्कुर्वन्तो नामभिर् आह्वयन्तो विशन्तश् चा ऽग्रे द्वन्द्व-योधिनो युयुधुः ॥ २७ ॥
श्लोक-२८
विश्वास-प्रस्तुतिः
युयोध बलिरिन्द्रेण तारकेण गुहोऽस्यत।
वरुणो हेतिनायुध्यन् मित्रो राजन् प्रहेतिना॥
मूलम्
युयोध बलिरिन्द्रेण तारकेण 53गुहोऽस्यत।
वरुणो हेतिनायुध्यन् मित्रो राजन् प्रहेतिना॥ २८ ॥
अनुवाद (हिन्दी)
बलि इन्द्रसे, स्वामिकार्तिक तारकासुरसे, वरुण हेतिसे और मित्र प्रहेतिसे भिड़ गये॥ २८॥
वीरराघवः
द्वन्द्वान्य् एवा ऽऽह - युयाोधेत्यादिभिस् सप्तभिः । बलिर् वैरो54चनिः 55इन्द्रेण सह55, तारकेण असुरेण गुहः कुमारः अस्यत अयुध्यत इत्य् अर्थः । हे राजन् ! मित्रः प्रहेतिना अयुध्यत ॥ २८ ॥
श्लोक-२९
विश्वास-प्रस्तुतिः
यमस्तु कालनाभेन विश्वकर्मा मयेन वै।
शम्बरो युयुधे त्वष्ट्रा सवित्रा तु विरोचनः॥
मूलम्
यमस्तु कालनाभेन विश्वकर्मा मयेन वै।
शम्बरो युयुधे त्वष्ट्रा सवित्रा तु विरोचनः॥ २९ ॥
अनुवाद (हिन्दी)
यमराज कालनाभसे, विश्वकर्मा मयसे, शम्बरासुर त्वष्टासे तथा सविता विरोचनसे लड़ने लगे॥ २९॥
श्लोक-३०
विश्वास-प्रस्तुतिः
अपराजितेन नमुचिरश्विनौ वृषपर्वणा।
सूर्यो बलिसुतैर्देवो बाणज्येष्ठैः शतेन च॥
अनुवाद (हिन्दी)
नमुचि अपराजितसे, अश्विनीकुमार वृषपर्वासे तथा सूर्यदेव बलिके बाण आदि सौ पुत्रोंसे युद्ध करने लगे॥ ३०॥
वीरराघवः
विरोचनः बलेः पिता अन्यो वा 59असुरः दैत्यः सूर्यो देव एक एव बलेस् सुतैर् 60बाण-ज्येष्ठैः60 बाणो ज्येष्ठो येषां तैः शत-संख्याकैर् अयुध्यतेत्य् अर्थः ॥ २९, ३० ॥
श्लोक-३१
विश्वास-प्रस्तुतिः
राहुणा च तथा सोमः पुलोम्ना युयुधेऽनिलः।
निशुम्भशुम्भयोर्देवी भद्रकाली तरस्विनी॥
अनुवाद (हिन्दी)
राहुके साथ चन्द्रमा और पुलोमाके साथ वायुका युद्ध हुआ। भद्रकालीदेवी निशुम्भ और शुम्भपर झपट पड़ीं॥ ३१॥
वीरराघवः
सोमश् चन्द्रः पुलोम्ना दैत्येन अनिलो वायुर् अयुध्यतानिशुम्भ-शुम्भयोस् ताभ्यां तरस्विनी बलवती भद्र-काली देवी अयुध्यत ॥ ३१ ॥
श्लोक-३२
विश्वास-प्रस्तुतिः
वृषाकपिस्तु जम्भेन महिषेण विभावसुः।
इल्वलः सह वातापिर्ब्रह्मपुत्रैररिन्दम॥
मूलम्
वृषाकपिस्तु जम्भेन महिषेण विभावसुः।
इल्वलः सह वाता63पिः ब्रह्मपुत्रैररिन्दम॥ ३२ ॥
अनुवाद (हिन्दी)
परीक्षित्! जम्भासुरसे महोदवजीकी, महिषासुरसे अग्निदेवकी और वातापि तथा इल्वलसे ब्रह्माके पुत्र मरीचि आदिकी ठन गयी॥ ३२॥
वीरराघवः
वातापि-सहित इल्वलः ब्रह्म-पुत्रैः मरीच्यादिभिः । हे अरिन्दम ! ॥ ३२ ॥
श्लोक-३३
विश्वास-प्रस्तुतिः
कामदेवेन दुर्मर्ष उत्कलो मातृभिः सह।
बृहस्पतिश्चोशनसा नरकेण शनैश्चरः॥
मूलम्
कामदेवेन दुर्मर्ष उत्कलो मातृभिः सह।
बृहस्पति64स्तूशनसा नरकेण शनैश्चरः॥ ३३ ॥
अनुवाद (हिन्दी)
दुर्मर्षकी कामदेवसे, उत्कलकी मातृगणोंसे, शुक्राचार्यकी बृहस्पतिसे और नरकासुरकी शनैश्चरसे लड़ाई होने लगी॥ ३३॥
वीरराघवः
मातृभिर् ब्राह्म्यादिभिः सह उत्कलो ऽसुरः, उशनसा शुक्रेण बृ65हस्पतिः, नरकेण असुरेण शनैश्चरः ॥ ३३ ॥
श्लोक-३४
विश्वास-प्रस्तुतिः
मरुतो निवातकवचैः कालेयैर्वसवोऽमराः।
विश्वेदेवास्तु पौलोमै रुद्राः क्रोधवशैः सह॥
मूलम्
मरुतो निवातकवचैः कालेयैर्वसवोऽमराः।
विश्वेदेवास्तु पौलोमैः रुद्राः क्रोधवशैः सह॥ ३४ ॥
अनुवाद (हिन्दी)
निवातकवचोंके साथ मरुद्गण, कालेयोंके साथ वसुगण, पौलोमोंके साथ विश्वेदेवगण तथा क्रोधवशोंके साथ रुद्रगणका संग्राम होने लगा॥ ३४॥
वीरराघवः
कालेयैः कालकेयैः ॥ ३४ ॥
श्लोक-३५
विश्वास-प्रस्तुतिः
त एवमाजावसुराः सुरेन्द्रा
द्वन्द्वेन संहत्य च युध्यमानाः।
अन्योन्यमासाद्य निजघ्नुरोजसा
जिगीषवस्तीक्ष्णशरासितोमरैः॥
मूलम्
त एवमाजावसुराः सुरेन्द्रा द्वन्द्वेन 66संहत्य 67नियुध्यमानाः।
अन्योन्यमासाद्य निजघ्नुरोजसा जिगीषवस्तीक्ष्ण68शरासितोमरैः॥ ३५ ॥
अनुवाद (हिन्दी)
इस प्रकार असुर और देवता रणभूमिमें द्वन्द्व युद्ध और सामूहिक आक्रमणद्वारा एक-दूसरेसे भिड़कर परस्पर विजयकी इच्छासे उत्साहपूर्वक तीखे बाण, तलवार और भालोंसे प्रहार करने लगे। वे तरह-तरहसे युद्ध कर रहे थे॥ ३५॥
श्लोक-३६
विश्वास-प्रस्तुतिः
भुशुण्डिभिश्चक्रगदर्ष्टिपट्टिशैः
शक्त्युल्मुकैः प्रासपरश्वधैरपि।
निस्त्रिंशभल्लैः परिघैः समुद्गरैः
सभिन्दिपालैश्च शिरांसि चिच्छिदुः॥
मूलम्
69भुशुण्डिभिश्चक्रग70दर्ष्टिप71ट्टिशैः शक्त्युल्मुकैः प्रासपरश्वधैरपि।
निस्त्रिंशभल्लैः परिघैः समुद्गरै72स्सभिण्डिपालैश्च शिरांशि चिच्छिदुः॥ ३६ ॥
अनुवाद (हिन्दी)
भुशुण्डि, चक्र, गदा, ऋष्टि, पट्टिश, शक्ति, उल्मुक, प्रास, फरसा, तलवार, भाले, मुद्गर, परिघ और भिन्दिपालसे एक-दूसरेका सिर काटने लगे॥ ३६॥
वीरराघवः
एवम् इत्थम् आजौ युद्धे त एते सुरासुर-श्रेष्ठाः द्वन्द्वेन सङ्घीभूय नियुध्यमानाः परस्परं समीपम् एत्य जेतुम् इच्छवः तीक्ष्णैः शरादिभिः बलेना ऽन्योन्यम् आजघ्नुः शिरांसि चिच्छिदुश् च ॥ ३५, ३६ ॥
श्लोक-३७
विश्वास-प्रस्तुतिः
गजास्तुरङ्गाः सरथाः पदातयः
सारोहवाहा विविधा विखण्डिताः।
निकृत्तबाहूरुशिरोधराङ्घ्रय-
श्छिन्नध्वजेष्वासतनुत्रभूषणाः॥
मूलम्
गजास्तुरङ्गाः सरथाः पदातयः सारोहवाहा विविधा विखण्डिताः।
निकृत्तबाहूरुशिरोध73राङ्घ्रयश्छिन्न74ध्वजेष्वासतनुत्रभूषणाः॥ ३७ ॥
अनुवाद (हिन्दी)
उस समय अपने सवारोंके साथ हाथी, घोड़े, रथ आदि अनेकों प्रकारके वाहन और पैदल सेना छिन्न-भिन्न होने लगी। किसीकी भुजा, किसीकी जङ्घा, किसीकी गरदन और किसीके पैर कट गये तो किसी-किसीकी ध्वजा, धनुष, कवच और आभूषण ही टुकड़े-टुकड़े हो गये॥ ३७॥
वीरराघवः
गजादयः आरोहन्तीत्य् आरोहाः तेस् सहिताः अन्ये च वाहाः नाना-विधाः खण्डिता निकृत्ताः नितरां छिन्ना बाह्रादयो येषां, छिन्नानि ध्वजादीनि येषान् ते बभूवुः तत्र इष्वासो निषङ्गः, तनुत्रं कवचम् ॥ ३७ ॥
श्लोक-३८
विश्वास-प्रस्तुतिः
तेषां पदाघातरथाङ्गचूर्णिता-
दायोधनादुल्बण उत्थितस्तदा।
रेणुर्दिशः खं द्युमणिं च छादयन्
न्यवर्ततासृक्स्रुतिभिः परिप्लुतात्॥
मूलम्
तेषां पदाघातरथाङ्गचूर्णितादायोधनादुल्बण 75उत्थितस्तदा।
रेणुर्दिशः खं द्युमणिञ् च छादयन् न्यवर्ततासृक्स्रुतिभिः परिप्लु76तात्॥ ३८ ॥
अनुवाद (हिन्दी)
उनके चरणोंकी धमक और रथके पहियोंकी रगड़से पृथ्वी खुद गयी। उस समय रणभूमिसे ऐसी प्रचण्ड धूल उठी कि उसने दिशा, आकाश और सूर्यको भी ढक दिया। परन्तु थोड़ी ही देरमें खूनकी धारासे भूमि आप्लावित हो गयी और कहीं धूलका नाम भी न रहा॥ ३८॥
वीरराघवः
तेषां देवादीनां पदाघातै रथाङ्गैश् च चूर्णिताद् आयोधनात् युद्ध-भूमेर् उत्थितो रेणुर् उल्बणो निबिडः दिशः खं द्युमणिं सूर्यञ् च छादयन् पश्चात् न्यवर्तत । निवृत्तौ हेतुवदन् आयोधनं विशिनष्टि - असृक्-स्रुतिभिः रुधिर-प्रस्रवणैः परितः प्लुतात् सिक्तात् ॥ ३८ ॥
श्लोक-३९
विश्वास-प्रस्तुतिः
शिरोभिरुद्धूतकिरीटकुण्डलैः
संरम्भदृग्भिः परिदष्टदच्छदैः।
महाभुजैः साभरणैः सहायुधैः
सा प्रास्तृता भूः करभोरुभिर्बभौ॥
मूलम्
शिरोभि77रुद्धूतकिरीटकुण्डलैः संरम्भदृग्भिः परिदष्टदच्छदैः।
महाभुजैः सा78भरणैः सहायुधैः 79सा प्रास्तृ80ता भूः करभोरुभिर्बभौ॥ ३९ ॥
अनुवाद (हिन्दी)
तदनन्तर लड़ाईका मैदान कटे हुए सिरोंसे भर गया। किसीके मुकुट और कुण्डल गिर गये थे, तो किसीकी आँखोंसे क्रोधकी मुद्रा प्रकट हो रही थी। किसी-किसीने अपने दाँतोंसे होंठ दबा रखा था। बहुतोंकी आभूषणों और शस्त्रोंसे सुसज्जित लंबी-लंबी भुजाएँ कटकर गिरी हुई थीं और बहुतोंकी मोटी-मोटी जाँघें कटी हुई पड़ी थीं। इस प्रकार वह रणभूमि बड़ी भीषण दीख रही थी॥ ३९॥
वीरराघवः
सा युद्ध-भूमिः शिरोभिर् महा-भुजैः करभ-सदृशोरुभिश् च प्रावृता सती बभौ । शिरांसि विशिनष्टि उद्धृतानि उत्क्षिप्तानि किरी81टानि येभ्यः संरम्भ-युक्ताः दृशो येषु परिदष्टा दच्छदा दन्तच्छदा अधरोष्ठा येषु तैः । भुजान् विशिनष्टि साभरणेस् सहायुधैर् इति च ॥ ३९ ॥
श्लोक-४०
विश्वास-प्रस्तुतिः
कबन्धास्तत्र चोत्पेतुः पतितस्वशिरोऽक्षिभिः।
उद्यतायुधदोर्दण्डैराधावन्तो भटान् मृधे॥
अनुवाद (हिन्दी)
तब वहाँ बहुत-से धड़ अपने कटकर गिरे हुए सिरोंके नेत्रोंसे देखकर हाथोंमें हथियार उठा वीरोंकी ओर दौड़ने और उछलने लगे॥ ४०॥
वीरराघवः
किञ्च, कबन्धा इति । तत्र मृधे युद्धे पतितानि यानि स्व-शिरांसि, तत्रत्यैर् अक्षिभिः पश्यन्तः कबन्धाः 84शिरो-रहित-देहाः84 उत्पेतुः कथम्भूताः ? 85उद्यतानि आयुधानि यैस् तैः दोर्दण्डैर् 86भुज-दण्डैस् सह धावन्तो भटा इव 87अवस्थिताः । महामृधे इति पाठान्तरम् ॥ ४० ॥
श्लोक-४१
विश्वास-प्रस्तुतिः
बलिर्महेन्द्रं दशभिस्त्रिभिरैरावतं शरैः।
चतुर्भिश्चतुरो वाहानेकेनारोहमार्च्छयत्॥
मूलम्
बलिर्महेन्द्रं दशभिस्त्रिभिरैरावतं शरैः।
चतुर्भिश्चतुरो वाहानेकेनारोह88मार्दयत्॥ ४१ ॥
अनुवाद (हिन्दी)
राजा बलिने दस बाण इन्द्रपर, तीन उनके वाहन ऐरावतपर, चार ऐरावतके चार चरण-रक्षकोंपर और एक मुख्य महावतपर—इस प्रकार कुल अठारह बाण छोड़े॥ ४१॥
वीरराघवः
89बलेः पराक्रमम् आह - बलिर् इति89 । बलिर् दशभिः 90शरैर् इन्द्रं त्रिभिः शरैः ऐरावतञ् च, चतुर्भिश् चतुरो वाहान् ऐरावत-पाद-रक्षकान्, एकेन शरेण आरोहं गजयन्तारम् आर्दयत् अपीडयत् ॥ ४१ ॥
श्लोक-४२
विश्वास-प्रस्तुतिः
स तानापततः शक्रस्तावद्भिः शीघ्रविक्रमः।
चिच्छेद निशितैर्भल्लैरसम्प्राप्तान्हसन्निव॥
मूलम्
स तानापततः शक्रस्तावद्भिः शीघ्रविक्र91मः।
चिच्छेद निशितैर्भल्लैरसम्प्राप्तान्हसन्निव॥ ४२ ॥
अनुवाद (हिन्दी)
इन्द्रने देखा कि बलिके बाण तो हमें घायल करना ही चाहते हैं। तब उन्होंने बड़ी फुर्तीसे उतने ही तीखे भल्ल नामक बाणोंसे उनको वहाँतक पहुँचनेके पहले ही हँसते-हँसते काट डाला॥ ४२॥
वीरराघवः
स शक्रः तान् आपततः शरान् असम्प्राप्तान् एव तावद्भिर् निशितैर् भल्लैशरैः प्रहसन्न् इव शीघ्र-विक्रमः धनुर्-विद्या-कुशलश् विच्छेद ॥ ४२ ॥
श्लोक-४३
विश्वास-प्रस्तुतिः
तस्य कर्मोत्तमं वीक्ष्य दुर्मर्षः शक्तिमाददे।
तां ज्वलन्तीं महोल्काभां हस्तस्थामच्छिनद्धरिः॥
मूलम्
तस्य कर्मोत्तमं वीक्ष्य 92दुर्धर्षः शक्तिमाददे।
तां ज्वलन्तीं महोल्काभां हस्तस्थामच्छिनद्धरिः॥ ४३ ॥
अनुवाद (हिन्दी)
इन्द्रकी यह प्रशंसनीय फुर्ती देखकर राजा बलि और भी चिढ़ गये। उन्होंने एक बहुत बड़ी शक्ति, जो बड़े भारी लूकेके समान जल रही थी, उठायी। किन्तु अभी वह उनके हाथमें ही थी—छूटने नहीं पायी थी कि इन्द्रने उसे भी काट डाला॥ ४३॥
वीरराघवः
तस्येन्द्रस्य तद् उत्तमं धनुः कौशलं कर्म वीक्ष्य दुर्मर्षो ऽसहमानो बलिश् शक्तिम् आददे गृहीतवान्, प्रयो93क्तुम् इति93 शेषः महो94ल्काया इव भा94 यस्यास् तां ज्वलन्तीं शक्तिं करस्थाम् एव हरिर् इन्द्रश् चिच्छेद ॥ ४३ ॥
श्लोक-४४
विश्वास-प्रस्तुतिः
ततः शूलं ततः प्रासं ततस्तोमरमृष्टयः।
यद् यच्छस्त्रं समादद्यात्सर्वं तदच्छिनद् विभुः॥
अनुवाद (हिन्दी)
इसके बाद बलिने एकके पीछे एक क्रमशः शूल, प्रास, तोमर और शक्ति उठायी। परन्तु वे जो-जो शस्त्र हाथमें उठाते, इन्द्र उन्हें टुकड़े-टुकड़े कर डालते। इस हस्तलाघवसे इन्द्रका ऐश्वर्य और भी चमक उठा॥ ४४॥
वीरराघवः
ततो बलिर् यद् यच् छूलादिकं शस्त्रम् आददे तत् सर्वं समर्थः इन्द्रश् चिच्छेद ॥ ४४ ॥
श्लोक-४५
विश्वास-प्रस्तुतिः
ससर्जाथासुरीं मायामन्तर्धानगतोऽसुरः।
ततः प्रादुरभूच्छैलः सुरानीकोपरि प्रभो॥
मूलम्
ससर्जाथासुरीं मायामन्तर्धा97नंगतोऽसुरः।
ततः प्रादुरभूच्छैलः सुरानीकोपरि प्रभो॥ ४५ ॥
अनुवाद (हिन्दी)
परीक्षित्! अब इन्द्रकी फुर्तीसे घबराकर पहले तो बलि अन्तर्धान हो गये, फिर उन्होंने आसुरी मायाकी सृष्टि की। तुरंत ही देवताओंकी सेनाके ऊपर एक पर्वत प्रकट हुआ॥ ४५॥
वीरराघवः
अथा ऽसुरो बलिः स्वयं तिरोहितः आसुरीं मायां ससर्ज । कीदृशीं 98मायाम् इत्य् अत्र ताम् एव दर्शयति तत इति 99सार्धैष् षड्भिः99 । हे प्रभो ! सुर-सैन्यस्य उपरिष्टात् शैलो ऽद्रिः मायिकः प्रादुर्-बभूव ॥ ४५ ॥
श्लोक-४६
विश्वास-प्रस्तुतिः
ततो निपेतुस्तरवो दह्यमाना दवाग्निना।
शिलाः सटङ्कशिखराश्चूर्णयन्त्यो द्विषद्बलम्॥
अनुवाद (हिन्दी)
उस पर्वतसे दावाग्निसे जलते हुए वृक्ष और टाँकी-जैसी तीखी धारवाले शिखरोंके साथ नुकीली शिलाएँ गिरने लगीं। इससे देवताओंकी सेना चकनाचूर होने लगी॥ ४६॥
वीरराघवः
तस्माच् छैलात् तरवो वृक्षाः निपेतुः । कथम्भूताः ? दवाग्निना दह्यमानाः तथा टङ्कवत्-तीक्ष्णाग्रैश् शिखरैः सहिताः शैलाः द्विषतां देवानां बलं चूर्णयन्तो निपेतुः ॥ ४६ ॥
श्लोक-४७
विश्वास-प्रस्तुतिः
महोरगाः समुत्पेतुर्दन्दशूकाः सवृश्चिकाः।
सिंहव्याघ्रवराहाश्च मर्दयन्तो महागजान्॥
मूलम्
महोरगाः समुत्पेतुर्दन्दशूकाः सवृश्चिकाः।
सिंहव्याघ्रवराहाश्च मर्दयन्तो 102महागजाः॥ ४७ ॥
अनुवाद (हिन्दी)
तत्पश्चात् बड़े-बड़े साँप, दन्दशूक, बिच्छू और अन्य विषैले जीव उछल-उछलकर काटने और डंक मारने लगे। सिंह, बाघ और सूअर देवसेनाके बड़े-बड़े हाथियोंको फाड़ने लगे॥ ४७॥
वीरराघवः
दंशन-स्वभावाः वृश्चिकैस् सहिता महोरगाश् च समुत्पेतुः । सिंहादयो महा-गजाश् च नर्दयन्तः शब्दयन्तः, समुत्पेतुर् इत्य् अनुषङ्गः ॥ ४७ ॥
श्लोक-४८
विश्वास-प्रस्तुतिः
यातुधान्यश्च शतशः शूलहस्ता विवाससः।
छिन्धि भिन्धीति वादिन्यस्तथा रक्षोगणाः प्रभो॥
अनुवाद (हिन्दी)
परीक्षित्! हाथोंमें शूल लिये ‘मारो-काटो’ इस प्रकार चिल्लाती हुई सैकड़ों नंग-धड़ंग राक्षसियाँ और राक्षस भी वहाँ प्रकट हो गये॥ ४८॥
वीरराघवः
विवाससः नग्नाः शूल-हस्ताश् शतशस् सहस्रशश् च यातु-धान्यः भिन्धि-छिन्धीतिवादिन्यः समुत्पेतुः, ततो रक्षोगणाश् च हे प्रभो ! ॥ ४८ ॥
श्लोक-४९
विश्वास-प्रस्तुतिः
ततो महाघना व्योम्नि गम्भीरपरुषस्वनाः।
अङ्गारान्मुमुचुर्वातैराहताः स्तनयित्नवः॥
मूलम्
ततो महाघना व्योम्नि गम्भीरपरुषस्वनाः।
अङ्गारान्मुमुचुर्वातैराहताः स्तनयित्नवः॥ ४९ ॥
अनुवाद (हिन्दी)
कुछ ही क्षण बाद आकाशमें बादलोंकी घनघोर घटाएँ मँडराने लगीं, उनके आपसमें टकरानेसे बड़ी गहरी और कठोर गर्जना होने लगी, बिजलियाँ चमकने लगीं और आँधीके झकझोरनेसे बादल अंगारोंकी वर्षा करने लगे॥ ४९॥
वीरराघवः
ततो व्योम्नि गम्भीरः परुषः कठोरश् च स्वनो येषान् ते 105महा-घनाः महा-मेघा वातैर् आहताः स्तनयित्नवः गर्जन्तः अङ्गारान् मुमुचुः ॥ ४९ ॥
श्लोक-५०
विश्वास-प्रस्तुतिः
सृष्टो दैत्येन सुमहान् वह्निः श्वसनसारथिः।
सांवर्तक इवात्युग्रो विबुधध्वजिनीमधाक्॥
मूलम्
सृष्टो दैत्येन सुमहान् वह्निः 106पवनसारथिः।
107सांवर्तक इवात्युग्रो विबुधध्वजिनीमधा108क्॥ ५० ॥
अनुवाद (हिन्दी)
दैत्यराज बलिने प्रलयकी अग्निके समान बड़ी भयानक आगकी सृष्टि की। वह बात-की-बातमें वायुकी सहायतासे देवसेनाको जलाने लगी॥ ५०॥
वीरराघवः
दैत्येन बलिना सृष्टो महान् विपुलः श्वसन-सारथिः वायु-सनाथो वह्निः सांवर्तकः प्रलयानल इव अत्युग्रो विबुध-ध्वजिनीं देवानां चमूम् अधाक् अदहत् ॥ ५० ॥
श्लोक-५१
विश्वास-प्रस्तुतिः
ततः समुद्र उद्वेलः सर्वतः प्रत्यदृश्यत।
प्रचण्डवातैरुद्धूततरङ्गावर्तभीषणः॥
मूलम्
ततः समुद्र उद्वेलः सर्वतः प्रत्यदृश्यत।
प्रचण्डवातै109रुद्धूततरङ्गावर्तभीषणः॥ ५१ ॥
अनुवाद (हिन्दी)
थोड़ी ही देरमें ऐसा जान पड़ा कि प्रबल आँधीके थपेड़ोंसे समुद्रमें बड़ी-बड़ी लहरें और भयानक भँवर उठ रहे हैं और वह अपनी मर्यादा छोड़कर चारों ओरसे देवसेनाको घेरता हुआ उमड़ा आ रहा है॥ ५१॥
वीरराघवः
ततः सर्वतश् चतुर्दिक्षु समुद्रः प्रत्यदृश्यत, देवैर् इति शेषः । कथम्भूतः ? उद्वेलः मर्यादातिगः 110प्रचण्डैर् मारुतैर् उद्धतैस् तरङ्गैर् आवर्तैश् च भीषणः ॥ ५१ ॥
श्लोक-५२
विश्वास-प्रस्तुतिः
एवं दैत्यैर्महामायैरलक्ष्यगतिभीषणैः।
सृज्यमानासु मायासु विषेदुः सुरसैनिकाः॥
मूलम्
एवं दैत्यैर्महा111घोयैरलक्ष्यगतिभीषणैः।
सृज्यमानासु मायासु विषेदुः सुरसैनिकाः॥ ५२ ॥
अनुवाद (हिन्दी)
इस प्रकार जब उन भयानक असुरोंने बहुत बड़ी मायाकी सृष्टि की और स्वयं अपनी मायाके प्रभावसे छिप रहे—न दीखनेके कारण उनपर प्रहार भी नहीं किया जा सकता था तब देवताओंके सैनिक बहुत दुःखी हो गये॥ ५२॥
वीरराघवः
यथा बलिना एवम् अन्यैश् च महा-मायैर् अलक्ष्य-गतिभिर् युद्धे मायासु सृज्यमानासु सतीषु सुर-सैनिकाः विषेदुः दुःखिता बभूवुः ॥ ५२ ॥
श्लोक-५३
विश्वास-प्रस्तुतिः
न तत्प्रतिविधिं यत्र विदुरिन्द्रादयो नृप।
ध्यातः प्रादुरभूत् तत्र भगवान् विश्वभावनः॥
मूलम्
न तत्प्रतिविधिं यत्र विदुरिन्द्रादयो नृप।
ध्यातः प्रादुरभूत् तत्र भग112वान् भूतभावनः॥ ५३ ॥
अनुवाद (हिन्दी)
परीक्षित्! इन्द्र आदि देवताओंने उनकी मायाका प्रतीकार करनेके लिये बहुत कुछ सोचा-विचारा, परन्तु उन्हें कुछ न सूझा। तब उन्होंने विश्वके जीवनदाता भगवान्का ध्यान किया और ध्यान करते ही वे वहीं प्रकट हो गये॥ ५३॥
वीरराघवः
हे नृप ! यत्र यदा इन्द्रादयस् तत्-प्रतिविधिं माया-प्रतिक्रियां न विदुः तदा, तैर् ध्यातो भगवान् विश्व-भावनः प्रादुर् अभूत् ॥ ५३ ॥
श्लोक-५४
विश्वास-प्रस्तुतिः
ततः सुपर्णांसकृताङ्घ्रिपल्लवः
पिशङ्गवासा नवकञ्जलोचनः।
अदृश्यताष्टायुधबाहुरुल्लस-
च्छ्रीकौस्तुभानर्घ्यकिरीटकुण्डलः॥
मूलम्
ततः सुपर्णांसकृताङ्घ्रिपल्लवः पिशङ्गवासा नवकञ्जलोचनः।
अदृश्यताष्टायुधबाहुरुल्लसच्छ्रीकौस्तुभा113नर्घ्यकिरीटकुण्डलः॥ ५४ ॥
अनुवाद (हिन्दी)
बड़ी ही सुन्दर झाँकी थी। गरुडके कंधेपर उनके चरण-कमल विराजमान थे। नवीन कमलके समान बड़े ही कोमल नेत्र थे। पीताम्बर धारण किये हुए थे। आठ भुजाओंमें आठ आयुध, गलेमें कौस्तुभमणि, मस्तकपर अमूल्य मुकुट एवं कानोंमें कुण्डल झलमला रहे थे। देवताओंने अपने नेत्रोंसे भगवान्की इस छबिका दर्शन किया॥ ५४॥
वीरराघवः
कथम्भूतः प्रादुर्-बभूवेत्य् अत्रा ऽऽह - तत इति । ततः इन्द्रादेर् ध्यानाद् अनन्तरं गरुडस्यांसे स्कन्धे कृतौ निहितौ अङ्घ्रि-पल्लवौ येन, पिशङ्गं वासो-वस्त्रं यस्य, नव-कञ्जे इव लोचने यस्य, अष्टौ आयुध-युक्ताः बाहवः यस्य, श्रीश् च कौस्तुभञ् च अनर्घ-किरीटञ् च कुण्डलं च उल्लसन्ति श्री-कौस्तुभादीनि यस्मिन् एवम्भूतो ऽदृश्यत 114इति पूर्वेणा ऽन्वयः114 ॥ ५४ ॥
श्लोक-५५
विश्वास-प्रस्तुतिः
तस्मिन्प्रविष्टेऽसुरकूटकर्मजा
माया विनेशुर्महिना महीयसः।
स्वप्नो यथा हि प्रतिबोध आगते
हरिस्मृतिः सर्वविपद्विमोक्षणम्॥
मूलम्
तस्मिन्प्रविष्टेऽसुरकूटकर्मजा माया विनेशु115र्महिना महीय116सा।
117स्वप्नो यथा हि प्रतिबोध आगते हरिस्मृतिः सर्वविपद्विमोक्ष118णम्॥ ५५ ॥
अनुवाद (हिन्दी)
परम पुरुष परमात्माके प्रकट होते ही उनके प्रभावसे असुरोंकी वह कपटभरी माया विलीन हो गयी—ठीक वैसे ही जैसे जग जानेपर स्वप्नकी वस्तुओंका पता नहीं चलता। ठीक ही है, भगवान्की स्मृति समस्त विपत्तियोंसे मुक्त कर देती है॥ ५५॥
वीरराघवः
119ततः किम् अत आह119 — तस्मिन् भगवति प्रविष्टे आविर्भूते सति असुराणां कूट-कर्म-मन्त्रादि-प्रयोगः, तस्माज् जातास् सर्वा मायाः महीय120सो ऽनेक-माया-विनाशकस्य हरेर्120 भगवतो महिना महि121म्नैव विनेशुः विनष्टा बभूवुः, यथा प्रतिबोधे आगते जागरे प्राप्ते सति स्वप्नो नश्यति, तद्वद्122 इत्य् अर्थः । हि यतः हरेः स्मृतिर् एव सर्वासां विपदां विमोक्षणम् अप123हन्तृ, किम् उत श्री-भगवतः प्रादुर्भावः आप124दाम् अपहर्तेति वक्तव्यम् इति भावः ॥ ५५ ॥
श्लोक-५६
विश्वास-प्रस्तुतिः
दृष्ट्वा मृधे गरुडवाहमिभारिवाह
आविध्य शूलमहिनोदथ कालनेमिः।
तल्लीलया गरुडमूर्ध्नि पतद् गृहीत्वा
तेनाहनन्नृप सवाहमरिं त्र्यधीशः॥
मूलम्
दृष्ट्वा मृधे गरुडवाहमि125भारिवाह आविध्य शूलमहिनोदथ कालनेमिः।
तल्लीलया गरुडमूर्ध्नि पतद् गृहीत्वा तेनाहनन्नृप सवाहमरिं त्र्यधीशः॥ ५६ ॥
अनुवाद (हिन्दी)
इसके बाद कालनेमि दैत्यने देखा कि लड़ाईके मैदानमें गरुडवाहन भगवान् आ गये हैं तब उसने अपने सिंहपर बैठे-ही-बैठे बड़े वेगसे उनके ऊपर एक त्रिशूल चलाया। वह गरुडके सिरपर लगनेवाला ही था कि खेल-खेलमें भगवान्ने उसे पकड़ लिया और उसी त्रिशूलसे उसके चलानेवाले कालनेमि दैत्य तथा उसके वाहनको मार डाला॥ ५६॥
वीरराघवः
मृधे युद्धे गरुड-वाहं श्री-भगवन्तं दृष्ट्वा इभारिवाहः सिंह-126वाहनः काल-नेमिर् असुरः शूलम् आविध्य भ्रामयित्वा ऽहिनोत् चिक्षेप, तस्य गरुडस्य मू127र्धनि आ128पतत् छूलं गृहीत्वा, हे नृप ! तेनैव शूलेन त्र्य्-अधीशः त्रिलो129केश्वरो भगवान् स-वाहम् इभारि-वाहन-सहितम् अरिं 130शत्रुं कालनेमिम् अहनत् हतवान्131 इत्य् अर्थः ॥ ५६ ॥
श्लोक-५७
विश्वास-प्रस्तुतिः
माली सुमाल्यतिबलौ युधि पेततुर्य-
च्चक्रेण कृत्तशिरसावथ माल्यवांस्तम्।
आहत्य तिग्मगदयाहनदण्डजेन्द्रं
तावच्छिरोऽच्छिनदरेर्नदतोऽरिणाऽऽद्यः॥
मूलम्
माली सुमाल्यतिबलौ युधि पेततुर्यच्चक्रेण कृत्तशिरसावथ माल्यवां132स्तु।
आहत्य तिग्मगदयाहनदण्डजेन्द्रं तावच्छिरोऽच्छिनदरेर्नदतोऽरिणाऽऽद्यः॥ ५७ ॥
अनुवाद (हिन्दी)
माली और सुमाली—दो दैत्य बड़े बलवान् थे, भगवान्ने युद्धमें अपने चक्रसे उनके सिर भी काट डाले और वे निर्जीव होकर गिर पड़े। तदनन्तर माल्यवान् ने अपनी प्रचण्ड गदासे गरुड़पर बड़े वेगके साथ प्रहार किया। परन्तु गर्जना करते हुए माल्यवान् के प्रहार करते-न-करते ही भगवान्ने चक्रसे उसके सिरको भी धड़से अलग कर दिया॥ ५७॥
अनुवाद (समाप्ति)
॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामष्टमस्कन्धे देवासुरसङ्ग्रामे दशमोऽध्यायः॥ १० ॥
वीरराघवः
ततो ऽतिबलौ मालि-सुमाल्य्-आख्यो ऽसुरो यस्य भगवतश् चक्रेण कृत-शिरसौ छिन्न-शिरसौ युधि पेततुः । तत्र मालिनो विक्रमं कथयन् तस्य शिरश् छेदनं श्री-भगवच्-चक्र-कृतम् आह - अथेति । अथ कालनेमिवधानन्तरं माल्यवान् माली तं भगवद्-अधिष्ठितम् अण्डजेन्द्रं गरुडं तीक्ष्णया गदया आहत्य सङ्घट्य अहनत् ताडितवान् । तावन् नदतो ऽरेर् 133माल्यवतः शिरो ऽरिणा चक्रेण आद्यो भगवांश् चिच्छेद । अत्र माल्यवच्-शब्दो न श्री-रामायण-प्रसिद्ध-माल्यवद्-विषयः, अपि तु असुरान्तर-134विषयः ॥ ५७ ॥
इति श्रीमद्-भागवते अष्टम-स्कन्धे श्री-वीर-राघव-विदुषा लिखितायां भागवत-चन्द्र-चन्द्रिकायां व्याख्यायां दशमो ऽध्यायः ॥ १० ॥
-
B,W विद ↩︎
-
A,B,G,J,M,Ma,T,W यत्ताश्च ↩︎
-
A,B,T देत्याश्च ↩︎
-
M,Ma त्वाऽमृतं सु ↩︎
-
W Omits सुधां ↩︎
-
A,B,G,J,M,Ma,T परामृद्धि ↩︎
-
M,Ma ष ↩︎
-
H,V र ↩︎
-
H,M,Ma,V परायणाः ↩︎
-
B,M,Ma दे ↩︎
-
W क्षीरोदधेः ↩︎
-
M,Ma र्वि ↩︎
-
A,B,J,M,Ma,T रि ↩︎
-
M,Ma य ↩︎
-
W Omits ↩︎
-
A,B,T सङ्करे । ↩︎
-
A,B,G,J,T दिभैः ; M,Ma द्द्विजे ↩︎
-
A,B,G,J,T रे युयुधुः ↩︎
-
A,B,G,J,M,Ma,T र्वकै ↩︎
-
A,B,G,J,M,Ma,T श्शशै ↩︎
-
W हरयः सिंहाः ↩︎
-
M,Ma विभाजन्वार्ह ↩︎
-
W Omits चित्र ↩︎
-
M,Ma ततमोष्णीषै ↩︎
-
M,Ma सत्कृतैर्वर्म ; H,V सुदृग्भिर्व्रज ; W वनद्भिर्वर्म ↩︎
-
H,V विधैः ↩︎
-
M,Ma चि ↩︎
-
M,Ma रे ↩︎
-
A,B,G,J,T चनो व ↩︎
-
W ष्ठं ↩︎
-
A,B,G,J,M,Ma,T प्रभो ! ↩︎
-
A,B,G,J,M,Ma,T छत्राग्रनेः ↩︎
-
W Omits अपि ↩︎
-
W नश्रे ↩︎
-
A,B,T रग्राहिभिश्च ↩︎
-
A,B,G,J,M,Ma,T यूथानां ↩︎
-
A,B,G,J,M,Ma,T थ ↩︎
-
A,B,G,J,M,Ma,T सन्तापो ↩︎
-
A,B,G,J,M,Ma,T श्चक्र ↩︎
-
A,B,T add ते ↩︎
-
M,Ma षं वि ↩︎
-
A,B,T नादं ↩︎
-
A,B,G,J,T दश्शुभे ↩︎
-
A,B,T Omit कः ↩︎
-
A,B,G,J,M,Ma,T सृत्य ↩︎
-
A,B,G,J,T मर्मभि ↩︎
-
H,V गुहस्तथा, M,Ma दिवस्पति ↩︎
-
W चनः ↩︎
-
A,B,G,J,M,Ma,T अप ↩︎
-
M,Ma ष्ठशे ↩︎
-
M,Ma सह ↩︎
-
A Omits असुरः ↩︎
-
M,Ma नलः ↩︎
-
M,Ma नराशिनी ↩︎
-
H,V पीब्र ↩︎
-
A,B,G,J,T श्चो ↩︎
-
W Omits बृहस्तपिः ↩︎
-
M,Ma संहृत्य ↩︎
-
A,B,G,J,M,Ma,T च यु ↩︎
-
M,Ma शरांश्च चिक्षिपूः ↩︎
-
A,B,G,J,T भु M,Ma भृ ↩︎
-
H,V देष्टि, M,Ma दार्ष्टि ↩︎
-
H,V पट्टसैः ↩︎
-
A,B,G,J,T सभिन्दिपालेश्च; M,Ma सभिण्डिपालैश्च ↩︎
-
M,Ma धरांत्रय ↩︎
-
H,V ध्वजज्यासित; M,Ma ध्वजज्यासत ↩︎
-
M,Ma उच्छ्रित ↩︎
-
H,M,Ma,V तः ↩︎
-
A,B,G,J,T,W रुद्धूत ↩︎
-
H,V व ↩︎
-
A,B,G,J,T सा प्रा ; M,Ma सम्प्र ↩︎
-
H,V ताज्याकर ↩︎
-
A,B,T टादीनि ↩︎
-
M,Ma तैश्च शि ↩︎
-
H,V भटामृधे ; W भटाः रणे ↩︎
-
उद्धू ↩︎
-
W Omits भुजदण्डैः ↩︎
-
W Omits अव ↩︎
-
A,B,G,J,M,Ma,T मार्च्छ ↩︎
-
A,B,T Omit शरैः ↩︎
-
H,V मेः ↩︎
-
A,B,G,J,M,Ma,T दुर्मर्ष ↩︎
-
A,B,G,J,M,Ma,T यद्मच्छत्रं समादधात् ↩︎
-
A,B,G,J,M,Ma,T तद ↩︎
-
A,B,G,J,M,Ma,T न ↩︎
-
A,B,T मायाम् ↩︎
-
M,Ma षि ↩︎
-
M,Ma यन्तो ↩︎
-
A,B,G,J,T महागजान् ; M,Ma महासुरान् ↩︎
-
H,V दा ↩︎
-
M,Ma विभो ↩︎
-
A,B,T Omit महाघनाः ↩︎
-
A,B,G,J,M,Ma,T श्वसन ↩︎
-
H,V सं ↩︎
-
H,V त् ↩︎
-
M,Ma रुद्भूत ↩︎
-
झञ्झामा ↩︎
-
A,B,G,J,M,Ma,T मायै ↩︎
-
A,B,G,J,M,Ma,T वान्विश्व ↩︎
-
M,Ma,W नर्घ ↩︎
-
M,Ma र्महतां ↩︎
-
A,B,G,J,T सः ↩︎
-
M,Ma सि M,Ma स्वानो यथाऽहिः ↩︎
-
M,Ma णी ↩︎
-
W Omits एव ↩︎
-
W Omits इत्यर्थ ↩︎
-
A,B,T हन्तृ ↩︎
-
W पदपह ↩︎
-
M,Ma हा ↩︎
-
W वाहः ↩︎
-
W मूर्ध्नि ↩︎
-
A,B,T Omit पतत् ↩︎
-
A,B,T केशो ↩︎
-
W Omits शत्रुं ↩︎
-
W Omits इत्यर्थः ↩︎
-
A,B,G,J,M,Ma,T स्तम् ↩︎
-
W र्मालिनः ↩︎
-
A,B,T परः । ↩︎