[नवमोऽध्यायः]
भागसूचना
मोहिनीरूपसे भगवान्के द्वारा अमृत बाँटा जाना
श्लोक-१
मूलम् (वचनम्)
श्रीशुक उवाच
विश्वास-प्रस्तुतिः
तेऽन्योन्यतोऽसुराः पात्रं हरन्तस्त्यक्तसौहृदाः।
क्षिपन्तो दस्युधर्माण आयान्तीं ददृशुः स्त्रियम्॥
मूलम्
1अन्योन्यतस्सुधा पात्रं1 हरन्तस्त्यक्तसौहृदाः।
क्षिपन्तो द2स्युधर्मेण ह्या2यान्तीं ददृशुः स्त्रियम्॥ १ ॥
अनुवाद (हिन्दी)
श्रीशुकदेवजी कहते हैं—परीक्षित्! असुर आपसके सद्भाव और प्रेमको छोड़कर एक-दूसरेकी निन्दा कर रहे थे और डाकूकी तरह एक-दूसरेके हाथसे अमृतका कलश छीन रहे थे। इसी बीचमें उन्होंने देखा कि एक बड़ी सुन्दरी स्त्री उनकी ओर चली आ रही है॥ १॥
वीरराघवः
एवं विधं रूपं विभ्रती आयान्तीं तां स्त्रियम् अन्योन्यं त्यक्त-सौहृदाः, अत एव क्षिपन्तः सुधा-पात्रं चौर्य-धर्मेण हरन्तः 3ते दैत्या ददृशुः ॥ १ ॥
श्लोक-२
विश्वास-प्रस्तुतिः
अहो रूपमहो धाम अहो अस्या नवं वयः।
इति ते तामभिद्रुत्य पप्रच्छुर्जातहृच्छयाः॥
अनुवाद (हिन्दी)
वे सोचने लगे—‘कैसा अनुपम सौन्दर्य है। शरीरमेंसे कितनी अद्भुत छटा छिटक रही है! तनिक इसकी नयी उम्र तो देखो!’ बस, अब वे आपसकी लाग-डाँट भूलकर उसके पास दौड़ गये। उन लोगोंने काममोहित होकर उससे पूछा—॥ २॥
वीरराघवः
दृष्ट्वा च अहो रूपं सौन्दर्यम्, अहो धाम द्युतिः, अहो अस्या योषितो नवं वयः इति वदन्तस् ते दैत्याः तां योषितम् अभिद्रुत्य अभिमुखम् आगत्य जात-हृच्छयाः सञ्जात-कामाः पप्रच्छुः ॥ २ ॥
श्लोक-३
विश्वास-प्रस्तुतिः
का त्वं कञ्जपलाशाक्षि कुतो वा किं चिकीर्षसि।
कस्यासि वद वामोरु मथ्नन्तीव मनांसि नः॥
मूलम्
का त्वं कञ्जपलाशाक्षि! कुतो वा किं चिकीर्षसि।
कस्यासि वद वामोरु! मथ्नन्तीव मनांसि नः॥ ३ ॥
अनुवाद (हिन्दी)
‘कमलनयनी! तुम कौन हो? कहाँसे आ रही हो? क्या करना चाहती हो? सुन्दरी! तुम किसकी कन्या हो? तुम्हें देखकर हमारे मनमें खलबली मच गयी है॥ ३॥
वीरराघवः
प्रश्न-प्रकारम् एवाह - का त्वम् इत्य्-आदिना । हे कञ्ज-पलाशाक्षि ! का त्वम्? किञ्-जातीया? कुत आगता? त्वं किं चिकीर्षसि कर्तुम् इच्छसि? कस्या ऽसि कस्य सम्बन्धिन्य् असि? वद, हे वामोरु ! नो ऽस्माकं मनांसि मथ्नन्तीव क्षोभयन्तीव वर्तसे ॥ ३ ॥
श्लोक-४
विश्वास-प्रस्तुतिः
न वयं त्वामरैर्दैत्यैः सिद्धगन्धर्वचारणैः।
नास्पृष्टपूर्वां जानीमो लोकेशैश्च कुतो नृभिः॥
मूलम्
न वयं त्वामरैर्दैत्यैः सिद्धगन्धर्वचारणैः।
6नास्पृष्टपूर्वां6 जानीमो 7योगेशैश्च कुतो नृभिः॥ ४ ॥
अनुवाद (हिन्दी)
हम समझते हैं कि अबतक देवता, दैत्य, सिद्ध, गन्धर्व, चारण और लोकपालोंने भी तुम्हें स्पर्शतक न किया होगा। फिर मनुष्य तो तुम्हें कैसे छू पाते?॥ ४॥
वीरराघवः
कस्या ऽसीत्य-युक्त-मुक्तम् अस्माभिः, यतस् त्वं न केनचित् स्पृष्ट-पूर्वा इत्य् ऊचुः । नेति । त्वाम् अमरादिभिर् अस्पृष्टपूर्वां न जानीम इति न, किन्तु जानीम एव । अमरादिभिर् एषास्पृष्टपूर्वा, कुतो नृभिः स्पृष्ट-पूर्वा भवेर् 8इत्य्-अर्थः ॥ ४ ॥
श्लोक-५
विश्वास-प्रस्तुतिः
नूनं त्वं विधिना सुभ्रूः प्रेषितासि शरीरिणाम्।
सर्वेन्द्रियमनःप्रीतिं विधातुं सघृणेन किम्॥
मूलम्
नूनं त्वं विधिना 7सुभ्रू! प्रेषितासि शरीरिणाम्।
सर्वेन्द्रियमनःप्रीतिं विधातुं सघृणेन किम्॥ ५ ॥
अनुवाद (हिन्दी)
सुन्दरी! अवश्य ही विधाताने दया करके शरीरधारियोंकी सम्पूर्ण इन्द्रियों एवं मनको तृप्त करनेके लिये तुम्हें यहाँ भेजा है॥ ५॥
वीरराघवः
आस्ताम् इदं त्वद्-दर्शनं तु ईश्वरेणैव कारितम् इत्य् आहुः — नूनम् इति । हे सुभ्रु ! शरीरिणाम् अस्माकं सर्वेन्द्रियाणां प्रीतिं विधातुं 9सघृणेन सकृपेण विधिना ईश्वरेण त्वं प्रेषिता किम्? नूनं न यदृच्छया आगता ऽसि, 10किन्तु नूनं दैवेनैव प्रेषि11ता ऽसि इत्य्-अर्थः ॥ ५ ॥
श्लोक-६
विश्वास-प्रस्तुतिः
सा त्वं नः स्पर्धमानानामेकवस्तुनि मानिनि।
ज्ञातीनां बद्धवैराणां शं विधत्स्व सुमध्यमे॥
मूलम्
सा त्वं नः स्पर्धमानानामेकवस्तुनि 12मानिनि।
ज्ञातीनां बद्धवैराणां शं विधत्स्व सुमध्यमे॥ ६ ॥
अनुवाद (हिन्दी)
मानिनी! वैसे हमलोग एक ही जातिके हैं। फिर भी हम सब एक ही वस्तु चाह रहे हैं, इसलिये हममें डाह और वैरकी गाँठ पड़ गयी है। सुन्दरी! तुम हमारा झगड़ा मिटा दो॥ ६॥
वीरराघवः
हे मानिनि ! अत्रैकस्मिन् वस्तुनि अमृत-निमित्ते स्पर्धमानानां परस्परम् अभिभवतां बद्धवैराणां ज्ञातीनाम् अस्माकं, हे सुमध्यमे, सं विधत्स्व सन्धिं कुरु, सम्यग् विभजस्व इति वा ॥ ६ ॥
श्लोक-७
विश्वास-प्रस्तुतिः
वयं कश्यपदायादा भ्रातरः कृतपौरुषाः।
बिभजस्व यथान्यायं नैव भेदो यथा भवेत्॥
मूलम्
वयं 13काश्यपदायादा भ्रातरः कृतपौरुषाः।
विभजस्व यथान्यायं नैव भेदो यथा भवेत्॥ ७ ॥
अनुवाद (हिन्दी)
हम सभी कश्यपजीके पुत्र होनेके नाते सगे भाई हैं। हमलोगोंने अमृतके लिये बड़ा पुरुषार्थ किया है। तुम न्यायके अनुसार निष्पक्षभावसे इसे बाँट दो, जिससे फिर हमलोगोंमें किसी प्रकारका झगड़ा न हो’॥ ७॥
वीरराघवः
14कश्यपस्य दायादाः पुत्राः भ्रातरश् च अधुना कृतं पौरुषं कलह-निमित्तं येस् ते वयम् अतो यथा-न्यायं अमृतं विभजस्व, 15भेदः कलहो यथा न भवेत् त16था विभजस्व ॥ ७ ॥
श्लोक-८
विश्वास-प्रस्तुतिः
इत्युपामन्त्रितो दैत्यैर्मायायोषिद्वपुर्हरिः।
प्रहस्य रुचिरापाङ्गैर्निरीक्षन्निदमब्रवीत्॥
मूलम्
इत्युपामन्त्रितो दैत्यैर्मायायोषिद्वपुर्हरिः।
प्रहस्य रुचिरापाङ्गैर्निरीक्षन्निदमब्रवीत्॥ ८ ॥
मूलम् - तिरुपदि
इत्युपामन्त्रितो दैत्यैर्मायायोषिद्वपुर्हरिः।
प्रहस्य रुभिरापाङ्गैर्निरीक्षन्निदमब्रवीत्॥ ८ ॥
अनुवाद (हिन्दी)
असुरोंने जब इस प्रकार प्रार्थना की, तब लीलासे स्त्रीवेष धारण करनेवाले भगवान्ने तनिक हँसकर और तिरछी चितवनसे उनकी ओर देखते हुए कहा—॥ ८॥
वीरराघवः
दैत्यैर् इत्थम् उपामन्त्रितश् चोदितः 17प्रमोदितः श्लाघितो ऽलभ्य-लाभ-भूतो17 माया योषिद् वपुः आत्मीय-सङ्कल्पोपात्त स्त्रीवपुर् हरिः प्रहस्य सुन्दरैर् अपाङ्गैर् निरीक्षन् निरीक्षमाणः इदं वक्ष्यमाणम् अब्रवीत् ॥ ८ ॥
श्लोक-९
मूलम् (वचनम्)
श्रीभगवानुवाच
विश्वास-प्रस्तुतिः
कथं कश्यपदायादाः पुंश्चल्यां मयि सङ्गताः।
विश्वासं पण्डितो जातु कामिनीषु न याति हि॥
मूलम्
18कथं कश्यपदायादाः पुंश्च19ल्यां मयि सङ्गताः।
विश्वासं पण्डि20ता जातु कामिनीषु न 21याति हि॥ ९ ॥
अनुवाद (हिन्दी)
श्रीभगवान्ने कहा—आपलोग महर्षि कश्यपके पुत्र हैं और मैं हूँ कुलटा। आपलोग मुझपर न्यायका भार क्यों डाल रहे हैं? विवेकी पुरुष स्वेच्छाचारिणी स्त्रियोंका कभी विश्वास नहीं करते॥ ९॥
वीरराघवः
तद् एवा ऽऽह - कथम् इति । हे कश्यप-दायादाः ! पुंश्चल्यां मयि कथं सङ्गताः अनुसृताः हि यस्मात् पण्डितः कदाचिद् अपि कामिनीषु पुंश्चलीषु विश्वासं न याति, न प्राप्नोति न कुरुते इत्य्-अर्थः ॥ ९ ॥
श्लोक-१०
विश्वास-प्रस्तुतिः
सालावृकाणां स्त्रीणां च स्वैरिणीनां सुरद्विषः।
सख्यान्याहुरनित्यानि नूत्नं नूत्नं विचिन्वताम्॥
मूलम्
सालावृकाणां स्त्रीणां च स्वैरिणीनां सुरद्विषः।
सख्यान्याहुरनित्यानि नूत्नं नूत्नं विचिन्वताम्॥ १० ॥
अनुवाद (हिन्दी)
दैत्यो! कुत्ते और व्यभिचारिणी स्त्रियोंकी मित्रता स्थायी नहीं होती। वे दोनों ही सदा नये-नये शिकार ढूँढ़ा करते हैं॥ १०॥
वीरराघवः
हे सुरद्विषः ! सालावृकाणां स्वैरिणीनां स्त्रीणां च सख्यान्य् अनित्यान्य् आहुः । अनित्यत्वे हेतुं वदन् सालावृकान् स्त्रीश् च विशिनष्टि — नवं नवं विचिन्वताम् अन्वेषताम् ॥ १० ॥
श्लोक-११
मूलम् (वचनम्)
श्रीशुक उवाच
विश्वास-प्रस्तुतिः
इति ते क्ष्वेलितैस्तस्या आश्वस्तमनसोऽसुराः।
जहसुर्भावगम्भीरं ददुश्चामृतभाजनम्॥
मूलम्
इति ते क्ष्वेलितैस्तस्या आश्वस्तमनसोऽसुराः।
जहसुर्भावगम्भीरं ददुश्चामृतभाजनम्॥ ११ ॥
अनुवाद (हिन्दी)
श्रीशुकदेवजी कहते हैं—परीक्षित्! मोहिनीकी परिहास भरी वाणीसे दैत्योंके मनमें और भी विश्वास हो गया। उन लोगोंने रहस्यपूर्ण भावसे हँसकर अमृतका कलश मोहिनीके हाथमें दे दिया॥ ११॥
वीरराघवः
इतीत्थं तस्या मोहिन्याः क्ष्वेलितैः परिहास-वचनैः विश्वस्तं मनो येषान् ते ऽसुराः भावेन केना ऽप्य् अभिप्रायेण गम्भीरं यथा भवत्य् एवं जहसुः हसितवन्तः, अमृत-पात्रञ् च ददुः ॥ ११ ॥
श्लोक-१२
विश्वास-प्रस्तुतिः
ततो गृहीत्वामृतभाजनं हरि-
र्बभाष ईषत्स्मितशोभया गिरा।
यद्यभ्युपेतं क्व च साध्वसाधु वा
कृतं मया वो विभजे सुधामिमाम्॥
मूलम्
ततो गृहीत्वामृतभाजनं हरिर्बभाष ईषत्स्मितशोभया गिरा।
यद्यभ्युपेतं क्व च साध्वसाधु वा कृतं मया वो विभ22जे सुधामिमाम्॥ १२ ॥
अनुवाद (हिन्दी)
भगवान्ने अमृतका कलश अपने हाथमें लेकर तनिक मुसकराते हुए मीठी वाणीसे कहा—‘मैं उचित या अनुचित जो कुछ भी करूँ, वह सब यदि तुमलोगोंको स्वीकार हो तो मैं यह अमृत बाँट सकती हूँ’॥ १२॥
वीरराघवः
ततो ऽमृत-भाजनं गृहीत्वा योषिद्-रूपो हरिर् ईषत्-स्मितेन शोभा यस्यास् तया गिरा बभाषे । तद् एवा ऽऽह - यदीति । क्वचित् साध्व्-असाधु वा मया कृतं यद्य् अभ्युपेतं युष्माभिर् अङ्गीकृतं स्यात्, तर्हीमाम् सुधां वो युष्मभ्यं विभजे ॥ १२ ॥
श्लोक-१३
विश्वास-प्रस्तुतिः
इत्यभिव्याहृतं तस्या आकर्ण्यासुरपुङ्गवाः।
अप्रमाणविदस्तस्यास्तत् तथेत्यन्वमंसत॥
मूलम्
इत्यभिव्याहृतं तस्या आकर्ण्यासुर23यूथपाः।
अप्रमाणविदस्तस्यास्तत् तथेत्यन्वमंसत॥ १३ ॥
अनुवाद (हिन्दी)
बड़े-बड़े दैत्योंने मोहिनीकी यह मीठी बात सुनकर उसकी बारीकी नहीं समझी, इसलिये सबने एक स्वरसे कह दिया ‘स्वीकार है।’ इसका कारण यह था कि उन्हें मोहिनीके वास्तविक स्वरूपका पता नहीं था॥ १३॥
वीरराघवः
इतीत्थं तस्या मोहिन्या अभिव्याहृतं वाक्यम् आकर्ण्य असुर-श्रेष्ठाः तस्या अप्रमाणविदः प्रमाणं तद्-वाक्य-24निश्चयः, तम् अजानन्तस् तथेति यथेच्छं कुर्व् इति अन्वमंसत अनुजज्ञिरे ॥ १३ ॥
श्लोक-१४
विश्वास-प्रस्तुतिः
अथोपोष्य कृतस्नाना हुत्वा च हविषानलम्।
दत्त्वा गोविप्रभूतेभ्यः कृतस्वस्त्ययना द्विजैः॥
मूलम्
अथोपोष्य कृतस्नाना हुत्वा च हविषानलम्।
दत्त्वा गोविप्रभूतेभ्यः कृतस्वस्त्ययना द्विजैः॥ १४ ॥
अनुवाद (हिन्दी)
इसके बाद एक दिनका उपवास करके सबने स्नान किया। हविष्यसे अग्निमें हवन किया। गौ, ब्राह्मण और समस्त प्राणियोंको घास-चारा, अन्न-धनादिका यथायोग्य दान दिया तथा ब्राह्मणोंसे स्वस्त्ययन कराया॥ १४॥
वीरराघवः
अतः तस्या अनुज्ञया उपोष्य कृतं स्नानं यैस् ते ऽसुराः सुराश् च हविषा चरुणा अनलम् अग्निं हुत्वा विप्रेभ्यो भूतेभ्यो ऽन्येभ्यश् च गाः गवादीनि यथा-योग्यं दत्वा द्विजैः कृतं कारितं स्वत्स्ययनं येषाम् ॥ १४ ॥
श्लोक-१५
विश्वास-प्रस्तुतिः
यथोपजोषं वासांसि परिधायाहतानि ते।
कुशेषु प्राविशन्सर्वे प्रागग्रेष्वभिभूषिताः॥
मूलम्
यथोपजोषं वासांसि परिधायाहतानि ते।
कुशेषु प्राविशन्सर्वे 23प्राक्कूलेष्वभिभूषिताः॥ १५ ॥
अनुवाद (हिन्दी)
अपनी-अपनी रुचिके अनुसार सबने नये-नये वस्त्र धारण किये और इसके बाद सुन्दर-सुन्दर आभूषण धारण करके सब-के-सब उन कुशासनोंपर बैठ गये, जिनका अगला हिस्सा पूर्वकी ओर था॥ १५॥
वीरराघवः
ते देवा असुराश् च यथोपजोषं यथा-प्रीति अहतानि नूतनानि सद्यो यन्त्रान् निर्मुक्तानि वस्त्राणि परिधाय 25वसित्वा अभितो भूषिताः सर्वे प्राक्-कूलेषु प्राग्-अग्रेषु कुशेषु सर्वे प्राविशन् उपविविशुः ॥ १५ ॥
श्लोक-१६
विश्वास-प्रस्तुतिः
प्राङ्मुखेषूपविष्टेषु सुरेषु दितिजेषु च।
धूपामोदितशालायां जुष्टायां माल्यदीपकैः॥
मूलम्
प्राङ्गुखेषूपविष्टेषु सुरेषु दितिजेषु च।
धूपामोदितशालायां जुष्टा26यां माज्यदीपकैः॥ १६ ॥
वीरराघवः
ततो धूपैर् आमोदितायां, माल्यैर्-दीपैश् च जुष्टायाम् अलङ्कृतायां दीपितायाञ् च शालायां, 27प्राग्-अग्रेषु दर्भेषु27 28पूर्वाभिमुखेषु28 सुरासुरेषु उपविष्टेषु सत्सु ॥ १६ ॥
श्लोक-१७
विश्वास-प्रस्तुतिः
तस्यां नरेन्द्र करभोरुरुशद्दुकूल-
श्रोणीतटालसगतिर्मदविह्वलाक्षी।
सा कूजती कनकनूपुरशिञ्जितेन
कुम्भस्तनी कलशपाणिरथाविवेश॥
मूलम्
तस्यां नरेन्द्र करभो29रुरुशद्दुकूलश्रोणीतटालसगतिर्मदविह्वलाक्षी।
सा कूजती कनकनूपुरशिञ्जितेन कुम्भस्तनी कलशपाणिरथाविवेश॥ १७ ॥
अनुवाद (हिन्दी)
जब देवता और दैत्य दोनों ही धूपसे सुगन्धित, मालाओं और दीपकोंसे सजे-सजाये भव्य भवनमें पूर्वकी ओर मुँह करके बैठ गये, तब हाथमें अमृतका कलश लेकर मोहिनी सभामण्डपमें आयी। वह एक बड़ी सुन्दर साड़ी पहने हुए थी। नितम्बोंके भारके कारण वह धीरे-धीरे चल रही थी। आँखें मदसे विह्वल हो रही थीं। कलशके समान स्तन और गजशावककी सूँड़के समान जंघाएँ थीं। उसके स्वर्णनूपुर अपनी झनकारसे सभा भवनको मुखरित कर रहे थे॥ १६-१७॥
वीरराघवः
अथ तस्यां शालायां हे नरेन्द्र ! अमृत-कल30शः पाणौ यस्याः सा मोहिनी आविवेश । कथम्भूता ? “करस्य करभो बहिः” (अम.को.2-341) करभ-सदृशौ सुवृत्तौ ऊरू यस्यास् सा । उशत् कमनीयं दुकूलं यस्मिंस् तेन श्रोणी-तटेन, विशालया श्रोण्या अलसा मन्दा गतिर् यस्यास् सा । पाठान्तरे - करभ-सदृशयोर् ऊर्वोः लसद्-दुकूलं यस्यास् सा चा ऽसौ श्रोणीतटेना ऽलसा गतिर् यस्यास् सा च, मदेन विह्वले अक्षिणी यस्यास् सा, कनक-नूपुराणां शिञ्जितेन कूजती ध्वनन्ती, कुम्भाव् इव स्तनौ यस्यास् सा ॥ १७ ॥
श्लोक-१८
विश्वास-प्रस्तुतिः
तां श्रीसखीं कनककुण्डलचारुकर्ण-
नासाकपोलवदनां परदेवताख्याम्।
संवीक्ष्य सम्मुमुहुरुत्स्मितवीक्षणेन
देवासुरा विगलितस्तनपट्टिकान्ताम्॥
मूलम्
तां श्री31सखीं कनककुण्डलचारुकर्णनासाकपोलवदनां परदेवताख्याम्।
संवीक्ष्य सम्मुमुहु32रुत्स्मित33वीक्षितेन देवासुरा विगलितस्तनपट्टिकान्ताम्॥ १८ ॥
अनुवाद (हिन्दी)
सुन्दर कानोंमें सोनेके कुण्डल थे और उसकी नासिका, कपोल तथा मुख बड़े ही सुन्दर थे। स्वयं परदेवता भगवान् मोहिनीके रूपमें ऐसे जान पड़ते थे मानो लक्ष्मीजीकी कोई श्रेष्ठ सखी वहाँ आ गयी हो। मोहिनीने अपनी मुसकानभरी चितवनसे देवता और दैत्योंकी ओर देखा, तो वे सब-के-सब मोहित हो गये। उस समय उनके स्तनोंपरसे अंचल कुछ खिसक गया था॥ १८॥
वीरराघवः
तां श्री-सखीं श्रियम् इव स्थितां श्री-सहायिनीं वा भगवद्-रूपत्वात् । कनकमयो कुण्डले यस्यास् सा च ऽसौ चारवः कर्णादयो यस्यास् सा च ताम्, विगलितो विस्त्रस्तः स्तन-पट्टिकाया अन्तो यस्यास् तां पर-देवताख्यां पर-देवता-रूपां तां संवीक्ष्य देवासुरास् तस्या उत्स्मय-34वीक्षितेन सास्मित34-वीक्षणेन सम्मुमुहुः ॥ १८ ॥
श्लोक-१९
विश्वास-प्रस्तुतिः
असुराणां सुधादानं सर्पाणामिव दुर्नयम्।
मत्वा जातिनृशंसानां न तां व्यभजदच्युतः॥
मूलम्
असुराणां सुधादानं सर्पाणामिव दुर्नयम्।
मत्वा जातिनृशंसानां न 35तां व्यभजदच्युतः॥ १९ ॥
अनुवाद (हिन्दी)
भगवान्ने मोहिनीरूपमें यह विचार किया कि असुर तो जन्मसे ही क्रूर स्वभाववाले हैं। इनको अमृत पिलाना सर्पोंको दूध पिलानेके समान बड़ा अन्याय होगा। इसलिये उन्होंने असुरोंको अमृतमें भाग नहीं दिया॥ १९॥
वीरराघवः
एवं तान् मोहयित्वा यत्कृतवांस् तद् आह - असुराणाम् इति त्रिभिः । जाति-नृशंसानां स्व-भावतः क्रूराणाम् असुराणां सुधा-दानं36 सर्पाणां क्षीरम् इव दुर्नयम् अन्याय्यं मत्वा तां सुधाम् असुरेभ्यो न व्यभजत् अच्युतः, यतो ऽसाव् आश्रितान् न च्यावयतीत्य् अच्युतः । अयं भावः - दैत्यैर् मदीयं साध्वसाधु वा सर्वम् अनुमतम् एव । अतो माम् आश्रितान् देवान् एव सुधां पाययिष्यामि । किञ्च तैर् यथा-न्यायं विभजस्व इति चोक्तम्, न तेभ्यो जात्यैव क्रूरेभ्यो ऽमृत-दानं न्याय्याम् । अतस् तेभ्यस् सुधाम् न दास्यामीति ॥ १९ ॥
श्लोक-२०
विश्वास-प्रस्तुतिः
कल्पयित्वा पृथक् पङ्क्तिरुभयेषां जगत्पतिः।
तांश्चोपवेशयामास स्वेषु स्वेषु च पङ्क्तिषु॥
मूलम्
कल्पयित्वा पृथक् पङ्क्तिरुभयेषां जगत्पतिः।
तांश्चोपवेशयामास स्वासु 37स्वासु च पङ्क्तिषु॥ २० ॥
अनुवाद (हिन्दी)
भगवान्ने देवता और असुरोंकी अलग-अलग पंक्तियाँ बना दीं और फिर दोनोंको कतार बाँधकर अपने-अपने दलमें बैठा दिया॥ २०॥
वीरराघवः
उभयेषां पङ्क्तीः पृथग्-विभक्ताः कल्पयित्वा तान् देवान् असुरांश् च स्वासु स्वासु पङ्क्तिषु उपवेशयामास ॥ २० ॥
श्लोक-२१
विश्वास-प्रस्तुतिः
दैत्यान्गृहीतकलशो वञ्चयन्नुपसञ्चरैः।
दूरस्थान् पाययामास जरामृत्युहरां सुधाम्॥
अनुवाद (हिन्दी)
इसके बाद अमृतका कलश हाथमें लेकर भगवान् दैत्योंके पास चले गये। उन्हें हाव-भाव और कटाक्षसे मोहित करके दूर बैठे हुए देवताओंके पास आ गये तथा उन्हें वह अमृत पिलाने लगे, जिसे पी लेनेपर बुढ़ापे और मृत्युका नाश हो जाता है॥ २१॥
वीरराघवः
गृहीत-कलशः श्री-भगवान् योषिद्-रूपः उपसञ्चरैः समीप-गमन-बहु39मान-प्रिय-वाक्यादिभिः दैत्यान् वञ्चयन् दूरस्थान् अपि देवान् एव 40जरा-मृत्यु-हरां40 सुधां पाययामास ॥ २१ ॥
श्लोक-२२
विश्वास-प्रस्तुतिः
ते पालयन्तः समयमसुराः स्वकृतं नृप।
तूष्णीमासन्कृतस्नेहाः स्त्रीविवादजुगुप्सया॥
मूलम्
ते पालयन्तः समयमसुरा41स्तत्कृतं नृप।
तूष्णीमासन्कृतस्नेहाः स्त्रीविवादजुगुप्सया॥ २२ ॥
अनुवाद (हिन्दी)
परीक्षित्! असुर अपनी की हुई प्रतिज्ञाका पालन कर रहे थे। उनका स्नेह भी हो गया था और वे स्त्रीसे झगड़नेमें अपनी निन्दा भी समझते थे। इसलिये वे चुपचाप बैठे रहे॥ २२॥
वीरराघवः
ते अलब्ध-सुधा अपि दैत्याः स्व-कृतं समयं साध्व् असाधु वा त्वत्-कृतम् अनुमन्यामहे इति पूर्व-कृतं सङ्केतं पालयन्तः हे नृप ! कृतस्-तस्यां स्नेहो यैस् ते तादृशाश् च, स्त्री-विवादस्य जुगुप्सिततया च तूष्णीम् 42एवा सन् ॥ २२ ॥
श्लोक-२३
विश्वास-प्रस्तुतिः
तस्यां कृतातिप्रणयाः प्रणयापायकातराः।
बहुमानेन चाबद्धा नोचुः किञ्चन विप्रियम्॥
मूलम्
तस्यां कृतातिप्रणयाः प्रणयापायकातराः।
बहुमानेन चाबद्धा नोचुः किञ्चन विप्रियम्॥ २३ ॥
अनुवाद (हिन्दी)
मोहिनीमें उनका अत्यन्त प्रेम हो गया था। वे डर रहे थे कि उससे हमारा प्रेमसम्बन्ध टूट न जाय। मोहिनीने भी पहले उन लोगोंका बड़ा सम्मान किया था, इससे वे और भी बँध गये थे। यही कारण है कि उन्होंने मोहिनीको कोई अप्रिय बात नहीं कही॥ २३॥
वीरराघवः
तस्यां कृतः अति-प्रणयः अति-स्नेहो यैस् ते प्रणयापायेन कातराः भीताः ‘एते तावत्-कृपणाः पूर्वं किञ्चिद् पिबन्तु, यूयं तु धीराः क्षणं प्रतीक्षध्वम्’ इत्य्-आदि बहु-मानेन च आबद्धाः नियन्त्रिताश् च किञ्चिद् अपि विप्रियं नोचुः समय-पालनादिभिः षड्भिर् एतैः कारणैर् अप्रियं किञ्चिद् अपि नोचुः । किन्तु तूष्णीम् 43आसुर् इत्य्-अर्थः ॥ २३ ॥
श्लोक-२४
विश्वास-प्रस्तुतिः
देवलिङ्गप्रतिच्छन्नः स्वर्भानुर्देवसंसदि।
प्रविष्टः सोममपिबच्चन्द्रार्काभ्यां च सूचितः॥
मूलम्
देवलिङ्गप्रतिच्छन्नः स्वर्भानुर्देवसंसदि।
44प्रविष्टस्सोममपिबच्चन्द्रार्काभ्याञ्च सूचितः॥ २४ ॥
अनुवाद (हिन्दी)
जिस समय भगवान् देवताओंको अमृत पिला रहे थे, उसी समय राहु दैत्य देवताओंका वेष बनाकर उनके बीचमें आ बैठा और देवताओंके साथ उसने भी अमृत पी लिया। परन्तु तत्क्षण चन्द्रमा और सूर्यने उसकी पोल खोल दी॥ २४॥
वीरराघवः
देव-लिङ्गेन देवता-वेषेण प्रतिच्छन्नः तिरोधापि45त-स्व-वेषः स्वर्भानुः राहुः देवानां पङ्क्तौ प्रविष्टः सोमम् अमृतम् अपिबत् । चन्द्रार्काभ्यां सूचितः ॥ २४ ॥
श्लोक-२५
विश्वास-प्रस्तुतिः
चक्रेण क्षुरधारेण जहार पिबतः शिरः।
हरिस्तस्य कबन्धस्तु सुधयाप्लावितोऽपतत्॥
मूलम्
चक्रेण क्षुरधारेण जहार पिबतः शिरः।
हरिस्तस्य कबन्धस्तु सुधयाप्लावितोऽपतत्॥ २५ ॥
अनुवाद (हिन्दी)
अमृत पिलाते-पिलाते ही भगवान्ने अपने तीखी धारवाले चक्रसे उसका सिर काट डाला। अमृतका संसर्ग न होनेसे उसका धड़ नीचे गिर गया॥ २५॥
वीरराघवः
हरिः सोमं पिबतः स्वर्भानोः शिरः क्षुरस्येव धारा यस्य तेन चक्रेण जहार चिच्छेद । तस्य स्वर्भानोः कबन्धः सुधया अप्लावितः असंस्पृष्टो ऽपतत् । अमृतस्य कण्ठाद् अधो निस्सरणात् पूर्वम् एव 46अस्य शिरसः छिन्नत्वाद् अमृत-संस्पर्शाभावात् कबन्धः पतितः ॥ २५ ॥
श्लोक-२६
विश्वास-प्रस्तुतिः
शिरस्त्वमरतां नीतमजो ग्रहमचीक्लृपत्।
यस्तु पर्वणि चन्द्रार्कावभिधावति वैरधीः॥
मूलम्
शिरस्त्वमरतां नीतमजो ग्रहमची47क्लपत्।
यस्तु पर्वणि चन्द्रार्कावभिधावति वैरधीः॥ २६ ॥
अनुवाद (हिन्दी)
परन्तु सिर अमर हो गया और ब्रह्माजीने उसे ‘ग्रह’ बना दिया। वही राहु पर्वके दिन (पूर्णिमा और अमावस्याको) वैर-भावसे बदला लेनेके लिये चन्द्रमा तथा सूर्यपर आक्रमण किया करता है॥ २६॥
वीरराघवः
शिरस् तु अमृत-संस्पर्शाद् अमरत्वं प्राप्तम् । अजो ब्रह्मा ग्रहम् अचीक्लृपत् अकल्पयत् सूर्यादिवच्चारेण 48प्रजानां शुभाशुभ-सूचकं ग्रहम् अचीकरद् इत्य्-अर्थः । यस् तु ग्रहत्वं प्रापितो राहोर् मूर्धा वैरधीः पर्वसु चन्द्राकौ अभिधावति ॥ २६ ॥
श्लोक-२७
विश्वास-प्रस्तुतिः
पीतप्रायेऽमृते देवैर्भगवाल्ँलोकभावनः।
पश्यतामसुरेन्द्राणां स्वं रूपं जगृहे हरिः॥
अनुवाद (हिन्दी)
जब देवताओंने अमृत पी लिया, तब समस्त लोकोंको जीवनदान करनेवाले भगवान्ने बड़े-बड़े दैत्योंके सामने ही मोहिनीरूप त्यागकर अपना वास्तविक रूप धारण कर लिया॥ २७॥
वीरराघवः
देवै स्मृते पीत-प्राये सति । प्राय-ग्रहणाद् अमृतस्य अवशेषस् सूच्यते लोक-भावनः लोक-पालको भगवान् विभुः सुरेन्द्राणां पश्यतां सतां स्व-रूपं51 पौरुषं रूपं जगृहे 52गृहीतवान्52 ॥ २७ ॥
श्लोक-२८
विश्वास-प्रस्तुतिः
एवं सुरासुरगणाः समदेशकाल-
हेत्वर्थकर्ममतयोऽपि फले विकल्पाः।
तत्रामृतं सुरगणाः फलमञ्जसाऽऽपु-
र्यत्पादपङ्कजरजः श्रयणान्न दैत्याः॥
मूलम्
एवं सुरासुरगणाः समदेशकालहेत्व53र्थकर्ममतयोऽपि53 फले विकल्पाः।
तत्रामृतं सुरगणाः फलमञ्जसाऽऽपुर्यत्पादपङ्कजरजः श्रयणान्न दैत्याः॥ २८ ॥
अनुवाद (हिन्दी)
परीक्षित्! देखो—देवता और दैत्य दोनोंने एक ही समय एक स्थानपर एक प्रयोजन तथा एक वस्तुके लिये एक विचारसे एक ही कर्म किया था, परन्तु फलमें बड़ा भेद हो गया। उनमेंसे देवताओंने बड़ी सुगमतासे अपने परिश्रमका फल—अमृत प्राप्त कर लिया, क्योंकि उन्होंने भगवान्के चरणकमलोंकी रजका आश्रय लिया था। परन्तु उससे विमुख होनेके कारण परिश्रम करनेपर भी असुरगण अमृतसे वंचित ही रहे॥ २८॥
वीरराघवः
श्री-भगवन्त54म् आश्रितानाम् एव उद्यम-फलं ना ऽन्येषाम् इति एवम् आख्यान-तात्पर्यम् आह - एवम् इति । एवम् इत्थं समास् तुल्या देशादयो येषां तादृशा अपि । तत्र देशः क्षीरोदधि-तीरम् । कालः मथन-55समयः, हेतुः मन्दराद्रिणा मथनम् । अर्थः ऽमृत-रूपं प्रयोजनम्, कर्म मथनानुकूलं, मतिः अन्योन्यम् एक-प्रयोजन-विषया - एवंविधा अपि फले विकल्पाः फल-वैषम्यवन्तो बभूवुः । केषाञ्चित् फलम्, अन्येषां नेति वैषम्यम् अभवद् इत्य्-अर्थः । तद् एवा ऽह - तत्र देवासुराणां मध्ये देव-गणा एव अमृत-रूपं फलम्, अञ्जसा सुखेना ऽपुः प्रापुः । कुतः? यस्य भगवतः पाद-पङ्कजयो रजसस् समाश्रयणात्56 । तद्-अनाश्रयणात् दैत्यास् तु न प्रापुः 57वैषम्यं जीव-निष्ठम् एव, न तु परमात्म-निष्ठम् इति दिक्57 ॥ २८ ॥
श्लोक-२९
विश्वास-प्रस्तुतिः
यद् युज्यतेऽसुवसुकर्ममनोवचोभि-
र्देहात्मजादिषु नृभिस्तदसत् पृथक्त्वात्।
तैरेव सद् भवति यत् क्रियतेऽपृथक्त्वात्
सर्वस्य तद् भवति मूलनिषेचनं यत्॥
मूलम्
58यद् युज्यतेऽसुव58सुकर्ममनोवचोभिर्दे59हात्मजादिषु नृभिस्तदसत् 60पृथक्त्वात्।
तैरेव सद् भवति यत् क्रि61यतेऽपृथक्त्वात् सर्वस्य तद् भवति मूलनिषेचनं यत्॥ २९ ॥
अनुवाद (हिन्दी)
मनुष्य अपने प्राण, धन, कर्म, मन और वाणी आदिसे शरीर एवं पुत्र आदिके लिये जो कुछ करता है—वह व्यर्थ ही होता है; क्योंकि उसके मूलमें भेदबुद्धि बनी रहती है। परन्तु उन्हीं प्राण आदि वस्तुओंके द्वारा भगवान्के लिये जो कुछ किया जाता है, वह सब भेदभावसे रहित होनेके कारण अपने शरीर, पुत्र और समस्त संसारके लिये सफल हो जाता है। जैसे वृक्षकी जड़में पानी देनेसे उसका तना, टहनियाँ और पत्ते—सब-के-सब सिंच जाते हैं, वैसे ही भगवान्के लिये कर्म करनेसे वे सबके लिये हो जाते हैं॥ २९॥
अनुवाद (समाप्ति)
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामष्टमस्कन्धेऽमृतमथने नवमोऽध्यायः॥ ९ ॥
वीरराघवः
62किञ्च यद् इति । असुः प्राणः, वसु धनम्, देहात्मजादिषु निमित्तेषु देहाद्य्-अर्थे नृभिः प्राणादिभिर् यद् उज्यते यत् क्रियते इत्य्-अर्थः । तद् एतद् असत् व्यर्थम्, शाखा-निषेचनवद् व्यर्थं भवति । कुतः? पृथक्त्वात्, तस्य कर्मणः अहम्-ममतादि-पृथग्-अभिमान-गर्भत्वात् । तैर् एव प्राणादिभिर् यत् क्रियते सर्वान्तर्-आत्मनो भगवतः सर्व-कारणस्य प्रीतये, क्रियते तत् तु सत् महा-फलं भवति । कुतः? अपृथक्त्वात्, सर्वान्तर्-आत्मतया सर्व-मूलतया च सर्वत्रा ऽनुस्यूतत्वात् । तत्र दृष्टान्तः - यत् तरोर् मूले सेचनं यथा सर्वस्य स्कन्ध-शाखादेर् अपि भवति तद्वत् । यद्वा - 63पृथक्त्वाद् अपृथक्त्वात् इति च ल्यब्-लोपे पञ्चमी । देहात्मजादीनां पृथक्त्वम् आलोच्य अब्रह्मात्मकत्वं पश्यन् केवल-देहाद्य्-अर्थं प्राणादिभिर् यत् क्रियते कर्म, तद् विफलम्, ब्रह्मात्मकत्वम् आलोच्य तद्-आराधन-बुद्ध्या तु कृतं लौकिकम् अपि कर्म सफलम् एवेत्य्-अर्थः ॥ २९ ॥
इति श्रीमद्-भागवते अष्टम-स्कन्धे श्री-वीर-राघव-विदुषा लिखितायां भागवत-चन्द्र-चन्द्रिकायां व्याख्यायां नवमो ऽध्यायः ॥ ९ ॥
-
A,B,G,J,T तेन्योन्यतोऽसुरा पात्रं, M,Ma तेऽन्योज्य तस्सुभदापात्र ↩︎ ↩︎
-
W Omits ते ↩︎
-
A,B,G,J,M,Ma,T अहो ↩︎
-
A,B,G,J,M,Ma,T मभि ↩︎
-
W Omits इत्यर्थः ↩︎
-
W Omits सघृणेन ↩︎
-
A,B,T Omit किन्तु ↩︎
-
W तेत्यर्थः ↩︎
-
M,Ma भामिनि ↩︎
-
A,B,G,J,Ma,T क ↩︎
-
W का ↩︎
-
A,B,T Omit भेदः ↩︎
-
A,B,T Omit विभजस्व ↩︎
-
A,B,G,J,M,Ma,T क ↩︎
-
Ma,M ल्यामपि ↩︎
-
A,B,G,J,T तो ↩︎
-
A,B,G,J,T याति ↩︎
-
M,Ma जेत्सु ↩︎
-
A,B,T add निर्णयः ↩︎
-
W Omits वसित्वा ↩︎
-
A,B,G,J,M,Ma,T या माल्या ↩︎
-
M,Ma लस ↩︎
-
W श ↩︎
-
M,Ma मु ↩︎
-
H,V रुद्भय, W रुत्समय ↩︎
-
A,B,G,J,M,Ma,T वीक्ष्णेन ↩︎
-
M,Ma तान् ↩︎
-
A,B,T ने ↩︎
-
A,B,G,H,T,V स्वेषु स्वेषु ↩︎
-
A,B,T नेन्द्रियव्यापारादर ↩︎
-
A,B,G,J,M,Ma,T स्स्वकृतं ↩︎
-
W Omits एव ↩︎
-
W मासन् । ↩︎
-
M,Ma प्रविश्य सो ↩︎
-
A,B,T तात्मरोष । ↩︎
-
W Omits अस्य ! ↩︎
-
H,V करत् ↩︎
-
A,B,T प्राणिनां ↩︎
-
A,B,G,J,T स्वं रू ↩︎
-
A,B,G,J,T हरिः ↩︎
-
A,B,T add स्वकीयं ↩︎
-
A,B,T add एव ↩︎
-
W कालः ↩︎
-
A,B,T add हेतोः ↩︎
-
M,Ma वा ↩︎
-
M,Ma पुरस्तात् ↩︎
-
M,Ma च तस्मिन् ↩︎
-
W Omits किञ्च ↩︎
-
W लवदेवे ↩︎