[अष्टमोऽध्यायः]
भागसूचना
समुद्रसे अमृतका प्रकट होना और भगवान्का मोहिनी-अवतार ग्रहण करना
श्लोक-१
मूलम् (वचनम्)
श्रीशुक उवाच
विश्वास-प्रस्तुतिः
पीते गरे वृषाङ्केण प्रीतास्तेऽमरदानवाः।
ममन्थुस्तरसा सिन्धुं हविर्धानी ततोऽभवत्॥
मूलम्
पीते गरे वृषाङ्केण प्रीता1स्तेऽमरदानवाः।
ममन्थुस्तरसा सिन्धुं हविर्धानी ततोऽभवत्॥ १ ॥
अनुवाद (हिन्दी)
श्रीशुकदेवजी कहते हैं—इस प्रकार जब भगवान् शंकरने विष पी लिया, तब देवता और असुरोंको बड़ी प्रसन्नता हुई। वे फिर नये उत्साहसे समुद्र मथने लगे। तब समुद्रसे कामधेनु प्रकट हुई॥ १॥
वीरराघवः
इत्थं वृषाङ्केण रुद्रेण गरे विषे पीते भक्षिते सति ते सर्वे2 अमराः दानवाश् चेन्द्रादयो वैरोचनादयश् च 3प्रीताः हृष्टास् सन्तः3 तरसा बलेन सिन्धुं ममन्थुः । ततस् तस्मिन् सिन्धाव् एवं मथ्यमाने सति ततो विवादनन्तरं हविर्धानी सुरभिः कामधेनुर् अभवत् ॥ १ ॥
श्लोक-२
विश्वास-प्रस्तुतिः
तामग्निहोत्रीमृषयो जगृहुर्ब्रह्मवादिनः।
यज्ञस्य देवयानस्य मेध्याय हविषे नृप॥
मूलम्
तामग्निहोत्रीमृषयो जगृहुर्ब्रह्मवादिनः।
यज्ञस्य देव4यानस्य मेध्याय हविषे नृप॥ २ ॥
अनुवाद (हिन्दी)
वह अग्निहोत्रकी सामग्री उत्पन्न करनेवाली थी। इसलिये ब्रह्मलोकतक पहुँचानेवाले यज्ञके लिये उपयोगी पवित्र घी, दूध आदि प्राप्त करनेके लिये ब्रह्मवादी ऋषियोंने उसे ग्रहण किया॥ २॥
वीरराघवः
तां हविर्धानीम् अग्नि-होत्रीं-दधि-पयो-घृतादि-हविः-प्रदानेन अग्नि-होत्रादि-वैदिक-कर्म-निष्पादिनीं ब्रह्मवादिनः ऋषयः जगृहुः स्वीकृतवन्तः । किमर्थम् ? हे नृप । देव-यानस्य देवा यान्त्य् अस्मिन् कर्मणि इति देव-यानं तस्य यज्ञस्य सम्बन्धिने मेध्याय हविषे पय आदि हविर्-अर्थम् ॥ २ ॥
श्लोक-३
विश्वास-प्रस्तुतिः
तत उच्चैःश्रवा नाम हयोऽभूच्चन्द्रपाण्डुरः।
तस्मिन्बलिः स्पृहां चक्रे नेन्द्र ईश्वरशिक्षया॥
मूलम्
तत उच्चैःश्रवा नाम हयोऽभूच्चन्द्रपा5ण्डुरः।
तस्मिन्बलिः स्पृहां चक्रे नेन्द्र ईश्वरशिक्षया॥ ३ ॥
अनुवाद (हिन्दी)
उसके बाद उच्चैःश्रवा नामका घोड़ा निकला। वह चन्द्रमाके समान श्वेतवर्णका था। बलिने उसे लेनेकी इच्छा प्रकट की। इन्द्रने उसे नहीं चाहा; क्योंकि भगवान्ने उन्हें पहलेसे ही सिखा रखा था॥ ३॥
वीरराघवः
ततो हविर्धान्य्-उद्भवानन्तरं चन्द्रवत्-पाण्डुरः शुभ्रो हयः उच्चैःश्रवा इति प्रसिद्ध 6उद्बभूव । तस्मिन्न् उच्चैःश्रवसि हये ईश्वर-शिक्षया “लोभः कार्यो न वै जातु रोषः कामस् तु वस्तुषु” (भाग-8-6-25) 7इत्य्-आद्य्-उक्त-रीत्या7 शिक्षया इन्द्रः स्पृहां न चक्रे । उच्चैःश्रवस्य्-उत्पन्नाम् अपि स्पृहाम् अभिव्यक्तां न चक्रे । किन्तु मनस्य् एवाधादिति भावः । 8बलिः स्पृहां चक्रे इत्य् अर्थः8 ॥ ३ ॥
श्लोक-४
विश्वास-प्रस्तुतिः
तत ऐरावतो नाम वारणेन्द्रो विनिर्गतः।
दन्तैश्चतुर्भिः श्वेताद्रेर्हरन्भगवतो महिम्॥
अनुवाद (हिन्दी)
तदनन्तर ऐरावत नामका श्रेष्ठ हाथी निकला। उसके बड़े-बड़े चार दाँत थे, जो उज्ज्वलवर्ण कैलासकी शोभाको भी मात करते थे॥ ४॥
वीरराघवः
तत उच्चैःश्रवस उदयानन्तरं ऐरावताख्यो वारणेन्द्रो गज-श्रेष्ठः विनिर्गतः । कथम्भूतः भगवतो रुद्रस्य श्वेता10द्रिः कैलासं तस्य10 महिं माहात्म्यं शोभां चतुर्भिर् दन्तैः शिखर-तुल्यैर् हरन् चन्द्रवत्-पाण्डुर इत्य् अनुषङ्गः ॥ ४ ॥
श्लोक-५
विश्वास-प्रस्तुतिः
कौस्तुभाख्यमभूद् रत्नं पद्मरागो महोदधेः।
तस्मिन्हरिः स्पृहां चक्रे वक्षोऽलङ्करणे मणौ॥
मूलम्
11 12कौस्तुभाख्यमभूद् रत्नं पद्मरागो महोदधेः।
तस्मिन्हरिः12 स्पृहां चक्रे वक्षोऽलङ्करणे मणौ॥ ५ ॥
अनुवाद (हिन्दी)
तत्पश्चात् कौस्तुभ नामक पद्मराग मणि समुद्रसे निकली। उस मणिको अपने हृदयपर धारण करनेके लिये अजितभगवान्ने लेना चाहा॥ ५॥
वीरराघवः
ततो ऽष्टौ दिग्गजा अभवन् । ततो हे नृप ! अभ्रम्व्-आदयो ऽष्टौ करिण्यो ऽभवन् । ततो महोदधेः कौस्तुभाख्यं रत्नम् अभूत्, स च पद्म-रागो13 मणिः तस्मिन् महामणौ भगवान् हरिः वक्षसो ऽलङ्करणे निमित्ते स्पृहाञ् चक्रे ॥ ५ ॥
श्लोक-६
विश्वास-प्रस्तुतिः
ततोऽभवत् पारिजातः सुरलोकविभूषणम्।
पूरयत्यर्थिनो योऽर्थैः शश्वद् भुवि यथा भवान्॥
मूलम्
ततोऽभवत् पारिजातः सुरलोकविभूष14णः।
पूरयत्यर्थिनो योऽर्थैः शश्वद् भुवि यथा भवान्॥ ६ ॥
अनुवाद (हिन्दी)
परीक्षित्! इसके बाद स्वर्गलोककी शोभा बढ़ानेवाला कल्पवृक्ष निकला। वह याचकोंकी इच्छाएँ उनकी इच्छित वस्तु देकर वैसे ही पूर्ण करता रहता है, जैसे पृथ्वीपर तुम सबकी इच्छाएँ पूर्ण करते हो॥ ६॥
वीरराघवः
ततः पारिजातो वृक्षः सुर-लोकस्य विभूषण-15रूपो ऽभवत् । कथम्भूतः ? यः शश्वत् सदा ऽर्थिनः अर्थैः 16पूरयति । पूरयन् अर्थान् पूरयन् भुवि भवान् यथा 17ऽर्थान् पूरयति अर्थिनाम् अर्थान् तथा18भूत इत्य् अर्थः18 ॥ ६ ॥
श्लोक-७
विश्वास-प्रस्तुतिः
ततश्चाप्सरसो जाता निष्ककण्ठ्यः सुवाससः।
रमण्यः स्वर्गिणां वल्गुगतिलीलावलोकनैः॥
मूलम्
ततश्चाप्सरसो जाता निष्क19ग्रीवास्सुवाससः।
रमण्यः स्वर्गिणां वल्गुगतिलीलावलोकनैः॥ ७ ॥
अनुवाद (हिन्दी)
तत्पश्चात् अप्सराएँ प्रकट हुईं। वे सुन्दर वस्त्रोंसे सुसज्जित एवं गलेमें स्वर्णहार पहने हुए थीं। वे अपनी मनोहर चाल और विलासभरी चितवनसे देवताओंको सुख पहुँचानेवाली हुईं॥ ७॥
वीरराघवः
ततश् चाप्सरसः उद्बभूवुः । कथम्भूताः ? 20निष्कग्रीवाः20 स्वर्णाभरण-विशेष-21कण्ठ्यः शोभनानि वासांसि यासां ताः स्वर्गिणां स्वर्गतानां सुन्दर-गतिभिर् लीलावलोकनकैश् च रमण्यः प्रियाः स्वर्गिणां रतिकार्त्र्य 22इत्य् अर्थः ॥ ७ ॥
श्लोक-८
विश्वास-प्रस्तुतिः
ततश्चाविरभूत् साक्षाच्छ्री रमा भगवत्परा।
रञ्जयन्ती दिशः कान्त्या विद्युत् सौदामनी यथा॥
मूलम्
ततश्चाविरभूत् साक्षाच्छ्री रमा भग23वत्परा।
रञ्जयन्ती दिशः कान्त्या विद्युत् सौदा24मनी यथा॥ ८ ॥
अनुवाद (हिन्दी)
इसके बाद शोभाकी मूर्ति स्वयं भगवती लक्ष्मीदेवी प्रकट हुईं। वे भगवान्की नित्यशक्ति हैं। उनकी बिजलीके समान चमकीली छटासे दिशाएँ जगमगा उठीं॥ ८॥
वीरराघवः
ततः साक्षात् श्रीर्लक्ष्मीर् आविर् अभूत् । कथम्भूता ? भगवत्परा भगवद् अनन्यार्हा कान्त्या दिशो रञ्जयन्ती प्रकाशयन्ती यथा सौदा25मनी विद्युत् तद्वत् । सुदामा-पर्वतः 26तेनैकस्यां दिशि जाता सौदामनी स्फटिकादि-मय-गिरि-शुङ्गेष्व् अधिकं स्फुरन्ती विद्युद् इव कान्त्या दिशो रजयन्तीत्य् अर्थः ॥ ८ ॥
श्लोक-९
विश्वास-प्रस्तुतिः
तस्यां चक्रुः स्पृहां सर्वे ससुरासुरमानवाः।
रूपौदार्यवयोवर्णमहिमाक्षिप्तचेतसः॥
मूलम्
तस्यां चक्रुः स्पृहां सर्वे ससुरासुरमानवाः।
रूपौदार्यवयोवर्णमहिमाक्षिप्तचेतसः॥ ९ ॥
अनुवाद (हिन्दी)
उनके सौन्दर्य, औदार्य, यौवन, रूप-रंग और महिमासे सबका चित्त खिंच गया। देवता, असुर, मनुष्य—सभीने चाहा कि ये हमें मिल जायँ॥ ९॥
वीरराघवः
तस्यां रूपादि-महिम्ना आक्षिप्तं 27चेतश् 28चित्तं येषां ते सर्वे ससुरासुर-दानवाः स्पृहाञ् चक्रुः ॥ ९ ॥
श्लोक-१०
विश्वास-प्रस्तुतिः
तस्या आसनमानिन्ये महेन्द्रो महदद्भुतम्।
मूर्तिमत्यः सरिच्छ्रेष्ठा हेमकुम्भैर्जलं शुचि॥
मूलम्
तस्या 29आसनमानिन्ये महेन्द्रो महदद्भुतम्।
मूर्तिमत्यः सरिच्छ्रेष्ठा हेमकुम्भैर्जलं शुचि॥ १० ॥
अनुवाद (हिन्दी)
स्वयं इन्द्र अपने हाथों उनके बैठनेके लिये बड़ा विचित्र आसन ले आये। श्रेष्ठ नदियोंने मूर्तिमान् होकर उनके अभिषेकके लिये सोनेके घड़ोंमें भर-भरकर पवित्र जल ला दिया॥ १०॥
वीरराघवः
भगवद्-व30क्षसि स्थितया श्रिया विलोकितानां देवादीनां यथा-पूर्वं सर्व-सम्पत्-प्राप्तिम् असुराणां तद्विपर्ययञ् च वक्तुं तस्या अभिषेकादि-महोत्सव-पूर्वकं ब्रह्मादि-परिहारेण भगवत्-प्राप्ति-प्रकारम् आह - तस्या आसनम् इत्य् आदिना अथा ऽसीद् वारुणी इत्य् अतः प्राक्तनेन ग्रन्थेन । तस्या रमायाः उपवेशनार्थं महद् अद्भुतं च सिंहासनम् इन्द्र आनीय समर्पितवान् । 31गङ्गा-यमुनादयः सरिच्-छ्रेष्ठाः 32मूर्तिमत्यः 33देह-युक्ताः सत्यः हेम-कुम्भैः शुद्धं जलम् आनिन्यिरे ॥ १० ॥
श्लोक-११
विश्वास-प्रस्तुतिः
आभिषेचनिका भूमिराहरत् सकलौषधीः।
गावः पञ्च पवित्राणि वसन्तो मधुमाधवौ॥
मूलम्
आभिषेचनिका भूमिराहरत् सकलौषधीः।
गावः पञ्च पवित्राणि वसन्तो मधुमाध34वौ॥ ११ ॥
अनुवाद (हिन्दी)
पृथ्वीने अभिषेकके योग्य सब ओषधियाँ दीं। गौओंने पंचगव्य और वसन्त ऋतुने चैत्र-वैशाखमें होनेवाले सब फूल-फल उपस्थित कर दिये॥ ११॥
वीरराघवः
भूमिर् अपि मूर्तिमती सती अभिषेचनिका अभिषेकोचिता ओषधीः सकला आहरद् आनिन्ये । गावस् तु पञ्च-पवित्राणि पञ्च-गव्यानि आजह्रुः । वसन्तः ऋतुः मूर्तिमान् मधु-माधवौ चैत्र-वैशाख-भव-फल-पुष्पाणि 35आहरद् इत्य् अनुषङ्गः । पाठान्तरे द्वन्द्वैक्ये ऽपि स एवा ऽर्थः । मधु-मासे भवं मध्व् इति वा ॥ ११ ॥
श्लोक-१२
विश्वास-प्रस्तुतिः
ऋषयः कल्पयाञ्चक्रुरभिषेकं यथाविधि।
जगुर्भद्राणि गन्धर्वा नट्यश्च ननृतुर्जगुः॥
मूलम्
ऋषयः कल्पयाञ्चक्रुरभिषेकं यथाविधि।
जगुर्भद्राणि गन्धर्वा 36नटयश्च नतनृतुर्जगुः॥ १२ ॥
अनुवाद (हिन्दी)
इन सामग्रियोंसे ऋषियोंने विधिपूर्वक उनका अभिषेक सम्पन्न किया। गन्धर्वोंने मंगलमय संगीतकी तान छेड़ दी। नर्तकियाँ नाच-नाचकर गाने लगीं॥ १२॥
वीरराघवः
ततः ऋषयो ऽभिषेकं 37यथाविधि37 अभिषेकोचित-विधिं यथावत् कल्पयाञ् चक्रुः । गन्धर्वा भद्राणि मङ्गलानि जगुः नट्यः नटानां स्त्रियः ननृतुः जगुश् च ॥ १२ ॥
श्लोक-१३
विश्वास-प्रस्तुतिः
मेघा मृदङ्गपणवमुरजानकगोमुखान्।
व्यनादयञ्छङ्खवेणुवीणास्तुमुलनिःस्वनान्॥
अनुवाद (हिन्दी)
बादल सदेह होकर मृदंग, डमरू, ढोल, नगारे, नरसिंगे, शंख, वेणु और वीणा बड़े जोरसे बजाने लगे॥ १३॥
वीरराघवः
मेघा मूर्तिमन्तो मृदङ्गादीन् वाद्य-विशेषान् शङ्ख-वेणु-वीणाश् च व्यनादयन् । तुमुलो-निस्स्वनो येषां तान् मृदङ्गादींश् च ॥ १३ ॥
श्लोक-१४
विश्वास-प्रस्तुतिः
ततोऽभिषिषिचुर्देवीं श्रियं पद्मकरां सतीम्।
दिगिभाः पूर्णकलशैः सूक्तवाक्यैर्द्विजेरितैः॥
मूलम्
ततोऽभिषिषिचुर्देवीं श्रियं पद्मकरां सतीम्।
40दिग्गभाः पूर्णकलशैः सूक्तवा41कैर्द्विजेरितैः॥ १४ ॥
अनुवाद (हिन्दी)
तब भगवती लक्ष्मीदेवी हाथमें कमल लेकर सिंहासनपर विराजमान हो गयीं। दिग्गजोंने जलसे भरे कलशोंसे उनको स्नान कराया। उस समय ब्राह्मणगण वेदमन्त्रोंका पाठ कर रहे थे॥ १४॥
वीरराघवः
ततः पद्म-करां सतीं श्रियं दिग्गजाः पूर्ण-कलशैः सर्वौषधी-युक्तैः सरिच्-छ्रेष्ठानीतैः द्विजेरितैः सूक्त-वाक्यैर् अभिषेचनिक-मन्त्रैस् सह अभिषिविचुः अभिषिक्तवन्तः ॥ १४ ॥
श्लोक-१५
विश्वास-प्रस्तुतिः
समुद्रः पीतकौशेयवाससी समुपाहरत्।
वरुणः स्रजं वैजयन्तीं मधुना मत्तषट्पदाम्॥
मूलम्
समुद्रः पीतकौशेयवाससी समुपाहरत्।
वरुणः स्रजं वैजयन्तीं मधुना मत्तषट्पदाम्॥ १५ ॥
अनुवाद (हिन्दी)
समुद्रने पीले रेशमी वस्त्र उनको पहननेके लिये दिये। वरुणने ऐसी वैजयन्ती माला समर्पित की, जिसकी मधुमय सुगन्धसे भौंरे मतवाले हो रहे थे॥ १५॥
वीरराघवः
ततस् समुद्रः पीत-कौशेय-वाससी समर्पितवान् । ततो वरुणः मधुना मधु-पानेन मत्ताः षट्पदाभृङ्गाः यस्यां तां वैजयन्तीं वन-मालां, समुपाहरद् इत्य् अनुषङ्गः ॥ १५ ॥
श्लोक-१६
विश्वास-प्रस्तुतिः
भूषणानि विचित्राणि विश्वकर्मा प्रजापतिः।
हारं सरस्वती पद्ममजो नागाश्च कुण्डले॥
मूलम्
भूषणानि विचित्राणि विश्वकर्मा प्रजापतिः।
हारं सरस्वती पद्ममजो नागाश्च कुण्डले॥ १६ ॥
अनुवाद (हिन्दी)
प्रजापति विश्वकर्माने भाँति-भाँतिके गहने, सरस्वतीने मोतियोंका हार, ब्रह्माजीने कमल और नागोंने दो कुण्डल समर्पित किये॥ १६॥
वीरराघवः
विश्वकर्मा प्रजापतिः भूषणानि, सरस्वती हारम् अजो ब्रह्मा पद्मं, नागाश् च कुण्डले समुपाहरन् ॥ १६ ॥
श्लोक-१७
विश्वास-प्रस्तुतिः
ततः कृतस्वस्त्ययनोत्पलस्रजं
नदद्द्विरेफां परिगृह्य पाणिना।
चचाल वक्त्रं सुकपोलकुण्डलं
सव्रीडहासं दधती सुशोभनम्॥
मूलम्
ततः कृतस्वस्त्ययनोत्पलस्रजं नदद्द्विरेफां परिगृह्य पाणिना।
चचाल वक्त्रं सुकपोलकुण्डलं सव्रीडहासं दधती सुशोभनम्॥ १७ ॥
अनुवाद (हिन्दी)
इसके बाद लक्ष्मीजी ब्राह्मणोंके स्वस्त्ययन-पाठ कर चुकनेपर अपने हाथोंमें कमलकी माला लेकर उसे सर्वगुणसम्पन्न पुरुषके गलेमें डालने चलीं। मालाके आसपास उसकी सुगन्धसे मतवाले हुए भौंरे गुंजार कर रहे थे। उस समय लक्ष्मीजीके मुखकी शोभा अवर्णनीय हो रही थी। सुन्दर कपोलोंपर कुण्डल लटक रहे थे। लक्ष्मीजी कुछ लज्जाके साथ मन्द-मन्द मुसकरा रही थीं॥ १७॥
वीरराघवः
ततः कृत-स्वस्त्ययना कृत-मङ्गलाश्रया श्रीः नदन्ते द्वि-रेफा भ्रमरा यस्यां ताम्, उत्पल-स्रजं पाणिना परिगृह्य निरस्त-निखिल-दोषस्य समस्त-कल्याण-गुणाकरस्य स्वाभिमतस्य पुंसः कण्ठे निधातुं परिगृह्येति भावः । चञ्चाल कथम्भूता सती शोभनयोः कपोलयोः कुण्डले 42प्रतिफलन्ती42 यस्मिन्, सव्रीडो हासः यस्मिंस् तत् सुशोभनम् अति-सुन्दरं वक्त्रं दधती ॥ १७ ॥
श्लोक-१८
विश्वास-प्रस्तुतिः
स्तनद्वयं चातिकृशोदरी समं
निरन्तरं चन्दनकुङ्कुमोक्षितम्।
ततस्ततो नूपुरवल्गुशिञ्जितै-
र्विसर्पती हेमलतेव सा बभौ॥
मूलम्
स्तनद्वयं 43चारुकुशोदरी समं निरन्तरं चन्दनकुङ्कुमोक्षितम्।
44इतस्ततो नूपुरवल्गुशिञ्जितैः विसर्पती हेमलतेव सा बभौ॥ १८ ॥
अनुवाद (हिन्दी)
उनकी कमर बहुत पतली थी। दोनों स्तन बिल्कुल सटे हुए और सुन्दर थे। उनपर चन्दन और केसरका लेप किया हुआ था। जब वे इधर-उधर चलती थीं, तब उनके पायजेबसे बड़ी मधुर झनकार निकलती थी। ऐसा जान पड़ता था, मानो कोई सोनेकी लता इधर-उधर घूम-फिर रही है॥ १८॥
वीरराघवः
तथा चन्दन-कुङ्कुमाभ्याम् उक्षितं सिक्तं लिप्तं समं निरन्तरञ् च यत् स्तन-द्वयं तच्च चारु सुन्दरं कृशञ्चोदरञ् च दधती ततः सा श्रीः नूपुराणां वल्गुभिः मधुरैः शिञ्जितैः विसर्पती इतस्ततः चलन्ती हेम-लतेव बभौ ॥ १८ ॥
श्लोक-१९
विश्वास-प्रस्तुतिः
विलोकयन्ती निरवद्यमात्मनः
पदं ध्रुवं चाव्यभिचारिसद्गुणम्।
गन्धर्वयक्षासुरसिद्धचारण-
त्रैविष्टपेयादिषु नान्वविन्दत॥
मूलम्
विलोकयन्ती निरवद्यमात्मनः पदं ध्रुवं चाव्यभिचारिसद्गुणम्।
गन्धर्वयक्षासुरसिद्धचारणत्रैविष्टपे45यादिषु नान्वविन्दत॥ १९ ॥
अनुवाद (हिन्दी)
वे चाहती थीं कि मुझे कोई निर्दोष और समस्त उत्तम गुणोंसे नित्ययुक्त अविनाशी पुरुष मिले तो मैं उसे अपना आश्रय बनाऊँ, वरण करूँ। परन्तु गन्धर्व, यक्ष, असुर, सिद्ध, चारण, देवता आदिमें कोई भी वैसा पुरुष उन्हें न मिला॥ १९॥
वीरराघवः
तत आत्मनः स्वस्याः पदम् आश्रयं ध्रुवं नित्यम् अव्यभिचारिणो नित्याः 46स्वाभाविकाः46 सन्तः कल्या47णाः गुणाः यस्मिंस् तत् । निरवद्यं निरस्त-हेय-गुणम् । एवम्भूतं पदं गन्धर्वादि-मध्ये विलोकयन्ती विचारयन्ती ना ऽन्वविन्दत ना ऽपश्यत् । क्वचित् कस्यचिद् दोषस्य दर्शनेन ना ऽन्वविन्दतेति भावः ॥ १९ ॥
श्लोक-२०
विश्वास-प्रस्तुतिः
नूनं तपो यस्य न मन्युनिर्जयो
ज्ञानं क्वचित् तच्च न सङ्गवर्जितम्।
कश्चिन्महांस्तस्य न कामनिर्जयः
स ईश्वरः किं परतो व्यपाश्रयः॥
मूलम्
नूनं तपो यस्य न मन्युनिर्जयो ज्ञानं क्वचित् 48तच्च न सङ्गवर्जितम्।
कश्चिन्महांस्तस्य न कामनिर्जयाः स ईश्वरः किं परतो व्यपाश्रयः॥ २० ॥
अनुवाद (हिन्दी)
(वे मन-ही-मन सोचने लगीं कि) कोई तपस्वी तो हैं, परन्तु उन्होंने क्रोधपर विजय नहीं प्राप्त की है। किन्हींमें ज्ञान तो है, परन्तु वे पूरे अनासक्त नहीं हैं। कोई-कोई हैं तो बड़े महत्त्वशाली, परन्तु वे कामको नहीं जीत सके हैं। किन्हींमें ऐश्वर्य भी बहुत है; परन्तु वह ऐश्वर्य ही किस कामका, जब उन्हें दूसरोंका आश्रय लेना पड़ता है॥ २०॥
वीरराघवः
तद् एवा ऽऽह - नूनम् इति त्रिभिः । यस्य रुद्र-दुर्वासः-प्रभृतेस् तपस् त्व् अस्ति, तस्य मन्यु-नि49र्जयस् तु नास्ति । नूनम् इति निश्चये । यस्य तु गुरु-शुक्रादेः ज्ञानम् अस्ति, न तस्य ज्ञानं सङ्ग-वर्जितम् किन्तु फल-सङ्गादि-युक्तम् एव । कश्चिद् ब्रह्मादिर् महान् तथा ऽपि न तस्य कामनिर्जयो ऽस्ति, दुहितुर् एव पत्नीत्वेन गृहीतत्वाद् इति भावः । यः परतो व्यपाश्रयः परापेक्षैश्वर्याश्रय इन्द्रादिः स किम् ईश्वरः ? अनीश्वर एवैति भावः ॥ २० ॥
श्लोक-२१
विश्वास-प्रस्तुतिः
धर्मः क्वचित् तत्र न भूतसौहृदं
त्यागः क्वचित् तत्र न मुक्तिकारणम्।
वीर्यं न पुंसोऽस्त्यजवेगनिष्कृतं
न हि द्वितीयो गुणसङ्गवर्जितः॥
मूलम्
धर्मः क्वचि50त्तस्य न भूतसौहृदं त्यागः क्वचि51त्तस्य न मुक्तिकारणम्।
वीर्यं न पुंसोऽस्त्यजवेगनिष्कृतं न हि द्वितीयो गुणसङ्गवर्जितः॥ २१ ॥
अनुवाद (हिन्दी)
किन्हींमें धर्माचरण तो है; परन्तु प्राणियोंके प्रति वे प्रेमका पूरा बर्ताव नहीं करते। त्याग तो है, परन्तु केवल त्याग ही तो मुक्तिका कारण नहीं है। किन्हीं-किन्हींमें वीरता तो अवश्य है, परन्तु वे भी कालके पंजेसे बाहर नहीं हैं। अवश्य ही कुछ महात्माओंमें विषयासक्ति नहीं है, परन्तु वे तो निरन्तर अद्वैत-समाधिमें ही तल्लीन रहते हैं॥ २१॥
वीरराघवः
क्वचिद् 52यमादौ धर्मो ऽस्ति तथा ऽपि न भूत-सौहृदम् अस्ति । त्यागः क्वचित् शिबि-प्रभृतिष्व् अस्ति यस् त्यागः शिब्यादि-गतः स न मुक्ति-कारणं न मुक्ति-हेतुः । पुंसः कार्तवीर्यादेः वीर्यम् अस्ति तथा ऽपि तद् अज-वेगेन 53काल-वेगेन53 निष्कृतं परिहृतन्तु न भवति । द्वितीयः भगवतो ऽन्यः क्वश्चिद् अपि सनकादिभिर् अपि सत्त्वादि-प्राकृत-गुण-सङ्ग-वर्जितो न भवति । “न तद् अस्ति पृथिव्यां वा दिवि-देवेषु वा पुनः । सत्त्वं प्रकृतिजैर् मुक्तं यद् एभिः स्यात् त्रिभिर् गुणैः ॥” (भ.गी. 18-40) इत्य्-उक्त-रीत्या गुण-त्रय-निर्मुक्तस्य श्री-भगवद् अन्यस्य कस्या ऽपि जन्तोर् अभावात् इति भावः ॥ २१ ॥
श्लोक-२२
विश्वास-प्रस्तुतिः
क्वचिच्चिरायुर्न हि शीलमङ्गलं
क्वचित् तदप्यस्ति न वेद्यमायुषः।
यत्रोभयं कुत्र च सोऽप्यमङ्गलः
सुमङ्गलः कश्च न काङ्क्षते हि माम्॥
मूलम्
क्वचिच्चिरायुर्न हि शीलमङ्गलं क्वचित् तदप्यस्ति न वेद्यमायुषः।
यत्रोभयं कुत्र च सोऽप्यमङ्गलः सुमङ्गलः कश्च न काङ्क्षते हि माम्॥ २२ ॥
अनुवाद (हिन्दी)
किसी-किसी ऋषिने आयु तो बहुत लंबी प्राप्त कर ली है, परन्तु उनका शील-मंगल भी मेरे योग्य नहीं है। किन्हींमें शील-मंगल भी है परन्तु उनकी आयुका कुछ ठिकाना नहीं। अवश्य ही किन्हींमें दोनों ही बातें हैं, परन्तु वे अमंगल-वेषमें रहते हैं। रहे एक भगवान् विष्णु—उनमें सभी मंगलमय गुण नित्य निवास करते हैं, परन्तु वे मुझे चाहते ही नहीं॥ २२॥
वीरराघवः
क्वचिन् मार्कण्डे54यादौ चिरायुर् अस्ति न तु शीलं मङ्गलञ् चास्ति इन्द्रिय-55दमन-धर्म-शीलत्वाद् इति भावः । क्वचिद् अप्य् अस्ति चेद् आयुषः स्थैर्यं न वेद्यं न निश्चेयम् । कुत्रचिद् रुद्रादौ उभयं चिरायुष्यं शीलञ् चा 56ऽस्ति, तथापि सरुद्रादिः अमङ्गलः अमङ्गल-वेषः । श्री-भगवन्तं लक्ष्यीकृत्या ऽऽह - यश् च कार्त्स्न्येन सद्-गुणाश्रय-निरवद्य-निरतिशय-मङ्गल-मूर्तिर् भगवान्, स तु मां न हि काङ्क्षते, स्वत एव पूर्णत्वाद् इति भावः ॥ २२ ॥
श्लोक-२३
मूलम् (वचनम्)
57श्रीशुक उवाच
विश्वास-प्रस्तुतिः
एवं विमृश्याव्यभिचारिसद्गुणै-
र्वरं निजैकाश्रयताऽगुणाश्रयम्।
वव्रे वरं सर्वगुणैरपेक्षितं
रमा मुकुन्दं निरपेक्षमीप्सितम्॥
मूलम्
एवं विमृश्याव्यभिचारिसद्गु58णैः वरं निजै59राश्रयतोऽ59गुणाश्रयम्।
वव्रे वरं सर्वगुणैरपेक्षितं रमा मुकुन्दं निरपेक्षमीप्सितम्॥ २३ ॥
अनुवाद (हिन्दी)
इस प्रकार सोच-विचारकर अन्तमें श्रीलक्ष्मीजीने अपने चिर अभीष्ट भगवान्को ही वरके रूपमें चुना; क्योंकि उनमें समस्त सद्गुण नित्य निवास करते हैं। प्राकृत गुण उनका स्पर्श नहीं कर सकते और अणिमा आदि समस्त गुण उनको चाहा करते हैं; परन्तु वे किसीकी भी अपेक्षा नहीं रखते। वास्तवमें लक्ष्मीजीके एकमात्र आश्रय भगवान् ही हैं। इसीसे उन्होंने उन्हींको वरण किया॥ २३॥
वीरराघवः
एवम् इत्थं विमृश्य रमा लक्ष्मीः निरपेक्षम् अपि मुकुन्दम् एव वरं पतिं वव्रे । तत्र हेतुं वदन् मुकुन्दं विशिनष्टि अव्यभिचारिभिः अनितर-साधारणैर् मङ्गल-गुणैर् निजैः स्वकीयैः निरुपाधिकैः आश्रयतः आश्रयणात् वरं सर्वोत्कृष्टम् अगुणाश्रयं सत्त्वादि-प्राकृत-गुणानाश्रयञ् च । निजैर् आश्रयतस् गुणाश्रयम् इति पाठान्तरम् । तदा निजैर् अव्यभिचारि-सद्गुणैर् आश्रयतया-ऽप्राकृत-गुणाश्रयं वरम् उत्कृष्टम् इत्य् अर्थः । सर्व-गुणैर् आश्रयण-सौकर्यावहैः आश्रयणीयत्वेना ऽपेक्षितम् अत एव ईप्सितम् आप्तुम् इच्छा-विषयं मुकुन्दं वरं वव्रे ॥ २३ ॥
श्लोक-२४
विश्वास-प्रस्तुतिः
तस्यांसदेश उशतीं नवकञ्जमालां
माद्यन्मधुव्रतवरूथगिरोपघुष्टाम्।
तस्थौ निधाय निकटे तदुरः स्वधाम
सव्रीडहासविकसन्नयनेन याता॥
मूलम्
तस्यांसदेश उशतीं नवकञ्जमालां माद्यन्मधुव्रतवरूथगिरोपघुष्टाम्।
तस्थौ 60निधाय निकटे तदुरः स्वधाम सव्रीडहासविकसन्नयनेन 61याता॥
अनुवाद (हिन्दी)
लक्ष्मीजीने भगवान्के गलेमें वह नवीन कमलोंकी सुन्दर माला पहना दी, जिसके चारों ओर झुंड-के-झुंड मतवाले मधुकर गुंजार कर रहे थे। इसके बाद लज्जापूर्ण मुसकान और प्रेमपूर्ण चितवनसे अपने निवासस्थान उनके वक्षःस्थलको देखती हुई वे उनके पास ही खड़ी हो गयीं॥ २४॥
वीरराघवः
उक्त-वरण-प्रकारम् एवा ऽऽह - तस्येति । तस्य मुकुन्दस्य असंदेशे स्कन्ध-प्रदेशे कमनीयां नव-कञ्जमालां निधाय तद्-अनुग्रहं प्रतीक्षमाणा तूष्णीं तस्य निकटे तस्थौ । कथम्भूतां मालाम् ? माद्यतां मधु-पान-मत्तानां मधु-व्रतानां भ्रमराणां वरूथस्य समुदायस्य गिरोपघुष्टां ध्वनिताम् । कथम्भूता 56श्रीः ? सव्रीड-हासेन विकसत्-यन्नयनं तेन तस्य भगवत उरो वक्षः स्वधाम स्वाश्रयं याता तद् वक्षः स्वाश्रयत्वेन प्रतीक्षमाणा सतीत्य् अर्थः ॥ २४ ॥
श्लोक-२५
विश्वास-प्रस्तुतिः
तस्याः श्रियस्त्रिजगतो जनको जनन्या
वक्षोनिवासमकरोत् परमं विभूतेः।
श्रीः स्वाः प्रजाः सकरुणेन निरीक्षणेन
यत्र स्थितैधयत साधिपतींस्त्रिलोकान्॥
मूलम्
62तस्याः श्रियस्त्रिजगतो जनको जनन्या वक्षोनिवासमकरोत् परमं विभूतेः।
श्रीः 63स्वाः प्रजाः सकरुणेन निरीक्षणेन यत्र स्थितैधयत साधिपतींस्त्रिलोकान्॥ २५ ॥
अनुवाद (हिन्दी)
जगत्पिता भगवान्ने जगज्जननी, समस्त सम्पत्तियोंकी अधिष्ठातृदेवता श्रीलक्ष्मीजीको अपने वक्षःस्थलपर ही सर्वदा निवास करनेका स्थान दिया। लक्ष्मीजीने वहाँ विराजमान होकर अपनी करुणाभरी चितवनसे तीनों लोक, लोकपति और अपनी प्यारी प्रजाकी अभिवृद्धि की॥ २५॥
वीरराघवः
त्रि-जगतो जनन्यास् तस्या अखिल-विभूत्याश्रय-भूतायाः श्रियः, त्रि-जगज्-जनको भगवान् स्वं वक्ष एव परं निवास-स्थानम् अकरोत्, यत्र वक्षसि स्थिता श्रीः सकरुणेन निरीक्षणेन स्वाः प्रजाः साधिपतींस् त्रि-लोकांश् च ऐधयत अवर्धयत् ॥ २५ ॥
श्लोक-२६
विश्वास-प्रस्तुतिः
शङ्खतूर्यमृदङ्गानां वादित्राणां पृथुः स्वनः।
देवानुगानां सस्त्रीणां नृत्यतां गायतामभूत्॥
मूलम्
शङ्खतूर्यमृदङ्गानां वादित्राणां 64च निस्स्वनः।
देवानुगानां सस्त्रीणां नृत्यतां गायतामभूत्॥ २६ ॥
अनुवाद (हिन्दी)
उस समय शंख, तुरही, मृदंग आदि बाजे बजने लगे। गन्धर्व अप्सराओंके साथ नाचने-गाने लगे। इससे बड़ा भारी शब्द होने लगा॥ २६॥
वीरराघवः
तदा शङ्खादीनां वाद्यानां सस्त्रीणां देवानुगानां गन्धर्वादीनां नृत्यतां गायतां च पृथक् पृथक् महान् ध्वनिर् अभूत् ॥ २६ ॥
श्लोक-२७
विश्वास-प्रस्तुतिः
ब्रह्मरुद्राङ्गिरोमुख्याः सर्वे विश्वसृजो विभुम्।
ईडिरेऽवितथैर्मन्त्रैस्तल्लिङ्गैः पुष्पवर्षिणः॥
मूलम्
ब्रह्मरुद्राङ्गिरोमुख्याः सर्वे विश्वसृजो विभुम्।
ईडिरेऽवितथैर्मन्त्रैस्तल्लिङ्गैः पुष्पवर्षिणः॥ २७ ॥
अनुवाद (हिन्दी)
ब्रह्मा, रुद्र, अंगिरा आदि सब प्रजापति पुष्पवर्षा करते हुए भगवान्के गुण, स्वरूप और लीला आदिके यथार्थ वर्णन करनेवाले मन्त्रोंसे उनकी स्तुति करने लगे॥ २७॥
वीरराघवः
तदा ब्रह्मादयस् सर्वे विश्वस्य स्रष्टारः पुष्पाणि वर्षन्तः विभुं भगवन्तं तल्लिङ्गैर् भगवद्-गुण-प्रतिपादकैर् अवितथैस् सत्यैः यथावत्स्थितार्थ-प्रतिपादकैः न त्व् आरोपित-गुण-प्रतिपादकैर् इत्य् अर्थः । मन्त्रैर् ईडिरे तुष्टुवुः ॥ २७ ॥
श्लोक-२८
विश्वास-प्रस्तुतिः
श्रिया विलोकिता देवाः सप्रजापतयः प्रजाः।
शीलादिगुणसम्पन्ना लेभिरे निर्वृतिं पराम्॥
मूलम्
श्रिया विलोकिता देवाः सप्रजापतयः प्रजाः।
शीलादिगुणसम्पन्ना लेभिरे निर्वृतिं पराम्॥ २८ ॥
अनुवाद (हिन्दी)
देवता, प्रजापति और प्रजा—सभी लक्ष्मीजीकी कृपा दृष्टिसे शील आदि उत्तम गुणोंसे सम्पन्न होकर बहुत सुखी हो गये॥ २८॥
वीरराघवः
देवाः स-प्रजापतयः प्रजाश् च श्रिया विलोकिताः शीलादि-गुण-सम्पन्नाः परां निर्वृतिम् आनन्दं लेभिरे ॥ २८ ॥
श्लोक-२९
विश्वास-प्रस्तुतिः
निःसत्त्वा लोलुपा राजन् निरुद्योगा गतत्रपाः।
यदा चोपेक्षिता लक्ष्म्या बभूवुर्दैत्यदानवाः॥
मूलम्
निःसत्त्वा लोलुपा राजन् निरुद्योगा 65हतत्विषः।
यदा चोपेक्षिता लक्ष्म्या बभूवुर्दैत्यदानवाः॥ २९ ॥
अनुवाद (हिन्दी)
परीक्षित्! इधर जब लक्ष्मीजीने दैत्य और दानवोंकी उपेक्षा कर दी, तब वे लोग निर्बल, उद्योगरहित, निर्लज्ज और लोभी हो गये॥ २९॥
वीरराघवः
दैत्या दानवाश् च यदा लक्ष्म्योपेक्षिताः तदैव हे राजन् निस्सत्त्वाः निर्बलाः अत एव निरुद्योगाः त्यक्त-लज्जाः लोलुपाः विमोह-शीलाः बभूवुः ॥ २९ ॥
श्लोक-३०
विश्वास-प्रस्तुतिः
अथासीद् वारुणी देवी कन्या कमललोचना।
असुरा जगृहुस्तां वै हरेरनुमतेन ते॥
मूलम्
अथासीद् वारुणी देवी कन्या कमललोचना।
असुरा जगृहुस्तां वै हरेरनुमतेन ते॥ ३० ॥
अनुवाद (हिन्दी)
इसके बाद समुद्रमन्थन करनेपर कमलनयनी कन्याके रूपमें वारुणीदेवी प्रकट हुईं। भगवान्की अनुमतिसे दैत्योंने उसे ले लिया॥ ३०॥
वीरराघवः
अथ श्रिय उद्गमनानन्तरं वारुणी देवी वरुण-दैवत्यं यत् तन्मयी सुराधिदेवता कन्या कमले इव लोचने 66यस्याः सा आसीद् उद्बभूव । ताञ् हरेर् अनुज्ञया ते असुरा जगृहुः ॥ ३० ॥
श्लोक-३१
विश्वास-प्रस्तुतिः
अथोदधेर्मथ्यमानात् काश्यपैरमृतार्थिभिः।
उदतिष्ठन्महाराज पुरुषः परमाद्भुतः॥
मूलम्
अथोदधेर्मथ्यमानान् काश्यपैरमृतार्थिभिः।
उदतिष्ठन्महाराज पुरुषः परमाद्भुतः॥ ३१ ॥
अनुवाद (हिन्दी)
तदनन्तर महाराज! देवता और असुरोंने अमृतकी इच्छासे जब और भी समुद्रमन्थन किया, तब उसमेंसे एक अत्यन्त अलौकिक पुरुष प्रकट हुआ॥ ३१॥
वीरराघवः
अथ अमृतार्थिभिः काश्यपैर् देवासुरैः मध्यमानाद् उदधेः हे राजन् ! परमाद्भुतः पुरुषः उदतिष्ठद् उद्बभूव ॥ ३१ ॥
श्लोक-३२
विश्वास-प्रस्तुतिः
दीर्घपीवरदोर्दण्डः कम्बुग्रीवोऽरुणेक्षणः।
श्यामलस्तरुणः स्रग्वी सर्वाभरणभूषितः॥
मूलम्
दीर्घपीवरदोर्दण्डः कम्बुग्रीवोऽरुणेक्षणः।
श्यामलस्तरुणः स्रग्वी सर्वाभरणभूषितः॥ ३२ ॥
वीरराघवः
तं विशिनष्टि - दीर्घौ पीवरौ च दोर्दण्डौ 67भुजौ यस्य कम्बुवच्-छङ्खवत् त्रि-रेखा-वृत्ता च ग्रीवा यस्य, अरुणे ईक्षणे यस्य 68श्यामलः मेघ इव श्यामः तरुणो युवा स्रग्वी वन-माली सर्वैर् आभरणैर् अलङ्कृतः ॥ ३२ ॥
श्लोक-३३
विश्वास-प्रस्तुतिः
पीतवासा महोरस्कः सुमृष्टमणिकुण्डलः।
स्निग्धकुञ्चितकेशान्तः सुभगः सिंहविक्रमः॥
मूलम्
पीतवासा महोरस्कः सुमृष्टमणिकुण्डलः।
69स्निग्धकुञ्चितकोशान्तः सुभगः सिंहविक्रमः॥ ३३ ॥
अनुवाद (हिन्दी)
उसकी भुजाएँ लंबी एवं मोटी थीं। उसका गला शङ्खके समान उतार-चढ़ाववाला था और आँखोंमें लालिमा थी। शरीरका रंग बड़ा सुन्दर साँवला-साँवला था। गलेमें माला, अंग-अंग सब प्रकारके आभूषणोंसे सुसज्जित, शरीरपर पीताम्बर, कानोंमें चमकीले मणियोंके कुण्डल, चौड़ी छाती, तरुण अवस्था, सिंहके समान पराक्रम, अनुपम सौन्दर्य, चिकने और घुँघराले बाल लहराते हुए उस पुरुषकी छबि बड़ी अनोखी थी॥ ३२-३३॥
वीरराघवः
पीते वाससी यस्य बृहद् विपुलम् उरो वक्षो यस्य सुमृष्टे निर्णिक्ते मणिमये कुण्डले यस्य, नीलः कुञ्चितः कुटिलः केशानाम् अन्तो ऽग्रभागो यस्य सः सुभगः सुकुमारः सर्वावयव-सुन्दरो वा, सिंहस्येव विक्रमः पाद-विन्यासो यस्य ॥ ३३ ॥
श्लोक-३४
विश्वास-प्रस्तुतिः
अमृतापूर्णकलशं बिभ्रद् वलयभूषितः।
स वै भगवतः साक्षाद्विष्णोरंशांशसम्भवः॥
मूलम्
अमृ70तापूर्णकलशं बिभ्रद् वलयभूषितः।
स वै भगवतः साक्षाद्विष्णोरंशांशसम्भवः॥ ३४ ॥
अनुवाद (हिन्दी)
उसके हाथोंमें कंगन और अमृतसे भरा हुआ कलश था। वह साक्षात् विष्णुभगवान्के अंशांश अवतार थे॥ ३४॥
वीरराघवः
अमृतेन पूर्णं कलशं बिभ्राणः वलयैः अलङ्कृतः । को ऽसाव् इत्य् अत्रा ऽऽह - 71स वै इति । स वै साक्षाद् भगवतो हरेर् अंशांशेन सम्भवो यस्य ॥ ३४ ॥
श्लोक-३५
विश्वास-प्रस्तुतिः
धन्वन्तरिरिति ख्यात आयुर्वेददृगिज्यभाक्।
तमालोक्यासुराः सर्वे कलशं चामृताभृतम्॥
मूलम्
धन्वन्तरिरिति ख्यातः आयुर्वेददृगिज्यभाक्।
तमालोक्यासुराः सर्वे कलशं चामृता72भृतम्॥ ३५ ॥
श्लोक-३६
विश्वास-प्रस्तुतिः
लिप्सन्तः सर्ववस्तूनि कलशं तरसाहरन्।
नीयमानेऽसुरैस्तस्मिन् कलशेऽमृतभाजने॥
मूलम्
लिप्सन्तः सर्ववस्तूनि कलशं तरसाहरन्।
नीयमानेऽसुरैस्तस्मिन् कलशेऽमृतभाजने॥ ३६ ॥
वीरराघवः
स तु धन्वन्तरिर् इति प्रसिद्धः आयुर्वेदस्य द्रष्टा इज्य-भाग् याग-भोक्ता । तम् अमृत-कलशं बिभ्रतं धन्वन्तरिम् आलोक्य सर्वे ऽसुराः सर्व-वस्तूनि मथनाद् उत्पन्नानि लिप्सन्तः, अमृतेन आभृतं सम्पूर्णं कलशं तरसा बलेन, आशु वा 73आहरन् 74आहृतवन्तः74 । अमृत-भाजने तस्मिन् कलशे दैत्यैर् नीयमाने हृते सति ॥ ३५, ३६ ॥
श्लोक-३७
विश्वास-प्रस्तुतिः
विषण्णमनसो देवा हरिं शरणमाययुः।
इति तद्दैन्यमालोक्य भगवान् भृत्यकामकृत्।
मा खिद्यत मिथोऽर्थं वः साधयिष्ये स्वमायया॥
मूलम्
विषण्णमनसो देवाः हरिं शरणम75भ्ययुः।
इति तद्दैन्यमालोक्य भगवान् भृत्यकामकृत्।
मा खिद्यता76मृतार्थं वः साधयिष्ये स्वमायया॥ ३७ ॥
अनुवाद (हिन्दी)
वे ही आयुर्वेदके प्रवर्तक और यज्ञभोक्ता धन्वन्तरिके नामसे सुप्रसिद्ध हुए। जब दैत्योंकी दृष्टि उनपर तथा उनके हाथमें अमृतसे भरे हुए कलशपर पड़ी, तब उन्होंने शीघ्रतासे बलात् उस अमृतके कलशको छीन लिया। वे तो पहलेसे ही इस ताकमें थे कि किसी तरह समुद्रमन्थनसे निकली हुई सभी वस्तुएँ हमें मिल जायँ। जब असुर उस अमृतसे भरे कलशको छीन ले गये, तब देवताओंका मन विषादसे भर गया। अब वे भगवान्की शरणमें आये। उनकी दीन दशा देखकर भक्तवाञ्छाकल्पतरु भगवान्ने कहा—‘देवताओ! तुमलोग खेद मत करो। मैं अपनी मायासे उनमें आपसकी फूट डालकर अभी तुम्हारा काम बना देता हूँ’॥ ३५—३७॥
वीरराघवः
देवा विषण्ण-मनसः खिन्न-चित्ता हरिं शरणम् आययुः । इत्थं तेषां देवानां दैन्यम् आलोक्य 77भृत्यानां कामम् इष्टम् 78अभीष्टं करोतीति तथा । भगवान् मिथो दैत्यानां परस्परं कलहोत्पादनेन योगमायया मोहिन्या वो युष्माकम् अर्थं साधयिष्यामि, अतो मा खिद्यतेत्य् आह - इतीत्थम् उक्त्वा देवान् सान्त्वयन् हरिः तत्रैवान्तर्दधे ॥ ३७ ॥
श्लोक-३८
विश्वास-प्रस्तुतिः
मिथः कलिरभूत्तेषां तदर्थे तर्षचेतसाम्।
अहं पूर्वमहं पूर्वं न त्वं न त्वमिति प्रभो॥
मूलम्
मिथः कलिरभूत्तेषां तदर्थे तर्षचेतसाम्।
अहं पूर्वमहं पूर्वं न त्वं न त्वमिति प्रभो॥ ३८ ॥
अनुवाद (हिन्दी)
परीक्षित्! अमृतलोलुप दैत्योंमें उसके लिये आपसमें झगड़ा खड़ा हो गया। सभी कहने लगे ‘पहले मैं पीऊँगा, पहले मैं; तुम नहीं, तुम नहीं’॥ ३८॥
वीरराघवः
मिथः कलहम् एवाह - मिथ इति । 79मिथः तद्-अर्थे ऽमृत-निमित्ते तर्षः कामः तद्-युक्तानि चेतांसि येषां तेषां दैत्यानां 80परस्परं कलिः कलहो बभूव । कलह-81प्रकारम् आह - अहम् इति । हे प्रभो राजन् ! अहं पूर्वम् अहम् एव पूर्वं पास्यामि न त्वम् इत्य्-आदि, एवं कलिर् अभूद् इत्य् अर्थः ॥ ३८ ॥
श्लोक-३९
विश्वास-प्रस्तुतिः
देवाः स्वं भागमर्हन्ति ये तुल्यायासहेतवः।
सत्रयाग इवैतस्मिन्नेष धर्मः सनातनः॥
वीरराघवः
तत्र दुर्बलानां दैत्यानाम् आक्रोश-प्रकारम् आह - देवा इति । देवा अपि स्वम् अमृत-भागम् अर्हन्ति; कुतः ? यतो ये ऽपि देवास् तुल्यायास-हेतवस् तुल्येनायासेन हेतवस्-साधकाः यथा सत्र-यागे - ‘य एव यजमानाः त एव ऋत्विजः’ इति यजमानाभिन्न-ऋत्विक्-कर्तृके बहु-यजमानके च सर्वेषां समं फलं तद्वद् अयम् एव सनातनो धर्मः ॥ ३९ ॥
श्लोक-४०
विश्वास-प्रस्तुतिः
इति स्वान्प्रत्यषेधन्वै दैतेया जातमत्सराः।
दुर्बलाः प्रबलान् राजन् गृहीतकलशान् मुहुः॥
मूलम्
इति स्वान्प्र84त्यषेधन्वै दैतेया जातमत्सराः।
दुर्बलाः प्रबलान् राजन् गृहीतकलशान् मुहुः॥ ४० ॥
अनुवाद (हिन्दी)
उनमें जो दुर्बल थे, वे उन बलवान् दैत्योंका विरोध करने लगे, जिन्होंने कलश छीनकर अपने हाथमें कर लिया था, वे ईर्ष्यावश धर्मकी दुहाई देकर उनको रोकने और बार-बार कहने लगे कि ‘भाई! देवताओंने भी हमारे बराबर ही परिश्रम किया है, उनको भी यज्ञभागके समान इसका भाग मिलना ही चाहिये। यही सनातनधर्म है’॥ ३९-४०॥
वीरराघवः
इतीत्थं हे राजन् ! स्वान् गृहीत-कलशान् प्रबलान् दैत्यान् दुर्बला दैतेया जात-मत्सरास् सन्तो मुहुर् मुहुः प्रत्यषेधन् न्यवारयन् ॥ ४० ॥
श्लोक-४१
विश्वास-प्रस्तुतिः
एतस्मिन्नन्तरे विष्णुः सर्वोपायविदीश्वरः।
योषिद्रूपमनिर्देश्यं दधार परमाद्भुतम्॥
मूलम्
एतस्मिन्नन्तरे विष्णुः सर्वोपायविदीश्वरः।
योषिद्रूपमनिर्देश्यं दधार परमाद्भुतम्॥ ४१ ॥
अनुवाद (हिन्दी)
इस प्रकार इधर दैत्योंमें ‘तू-तू, मैं-मैं’ हो रही थी और उधर सभी उपाय जाननेवालोंके स्वामी चतुरशिरोमणि भगवान्ने अत्यन्त अद्भुत और अवर्णनीय स्त्रीका रूप धारण किया॥ ४१॥
वीरराघवः
एतस्मिन् समये सर्वोपायविद् भगवान् ईश्वरो विष्णुः परमाद्भुतं केनाप्य् अदृष्ट-पूर्वम् अनिर्देश्यं देवादि85स्त्री-सजातीयत्वेन निर्देष्टुम् अशक्यं योषिद्-रूपं दधार ॥ ४१ ॥
श्लोक-४२
विश्वास-प्रस्तुतिः
प्रेक्षणीयोत्पलश्यामं सर्वावयवसुन्दरम्।
समानकर्णाभरणं सुकपोलोन्नसाननम्॥
मूलम्
प्रेक्षणीयोत्पलश्यामं सर्वावयवसुन्दरम्।
समानकर्णाभरणं सुकपोलोन्नसाननम्॥ ४२ ॥
अनुवाद (हिन्दी)
शरीरका रंग नील कमलके समान श्याम एवं देखने ही योग्य था। अंग-प्रत्यंग बड़े ही आकर्षक थे। दोनों कान बराबर और कर्णफूलसे सुशोभित थे। सुन्दर कपोल, ऊँची नासिका और रमणीय मुख॥ ४२॥
वीरराघवः
तद् रूपं वर्णयति पञ्चभिः । प्रेक्षणीयम् उत्पलम् 86इव श्यामं सर्वेष्व्-अवयवेषु सुन्दरम्, समानयोः कर्णयोः आभरणे यस्मिन् सुकपोलञ् च तद् उन्नत-नासिकञ् चाननञ् च यस्मिन् ॥ ४२ ॥
श्लोक-४३
विश्वास-प्रस्तुतिः
नवयौवननिर्वृत्तस्तनभारकृशोदरम्।
मुखामोदानुरक्तालिझङ्कारोद्विग्नलोचनम्॥
अनुवाद (हिन्दी)
नयी जवानीके कारण स्तन उभरे हुए थे और उन्हींके भारसे कमर पतली हो गयी थी। मुखसे निकलती हुई सुगन्धके प्रेमसे गुनगुनाते हुए भौंरे उसपर टूटे पड़ते थे, जिससे नेत्रोंमें कुछ घबराहटका भाव आ जाता था॥ ४३॥
वीरराघवः
नव-यौवनेन निर्वृत्तयोः प्रवृत्योः वर्तुलयोश् च स्तनयोर्-भारेण-कृशम् उदरं यस्मिन्, मुखस्यामोदेन अनुरक्तानाम् अलीनां झङ्कारेणोद्विग्ने चञ्चले लोचने यस्मिन् ॥ ४३ ॥
श्लोक-४४
विश्वास-प्रस्तुतिः
बिभ्रत् स्वकेशभारेण मालामुत्फुल्लमल्लिकाम्।
सुग्रीवकण्ठाभरणं सुभुजाङ्गदभूषितम्॥
मूलम्
बिभ्रत् स्वकेशभारेण मालामुत्फुल्लमल्लिकाम्।
सुग्रीवकण्ठाभरणं सु89भुजाङ्गदभूषितम्॥ ४४ ॥
अनुवाद (हिन्दी)
अपने लंबे केशपाशोंमें उन्होंने खिले हुए बेलेके पुष्पोंकी माला गूँथ रखी थी। सुन्दर गलेमें कण्ठके आभूषण और सुन्दर भुजाओंमें बाजूबंद सुशोभित थे॥ ४४॥
वीरराघवः
उत्फुल्लानि मल्लिका-कुसुमानि यस्यां तां मालां स्व-केश-भारेण केश-पाशेन बिभ्राणं शोभना ग्रीवा यस्मिन् तत् कण्ठे आभरणानि च यस्मिन् तच् च शोभनयोः भुजयोः अङ्गदाभ्यां भूषितम् ॥ ४४ ॥
श्लोक-४५
विश्वास-प्रस्तुतिः
विरजाम्बरसंवीतनितम्बद्वीपशोभया।
काञ्च्या प्रविलसद्वल्गुचलच्चरणनूपुरम्॥
अनुवाद (हिन्दी)
इनके चरणोंके नूपुर मधुर ध्वनिसे रुनझुन-रुनझुन कर रहे थे और स्वच्छ साड़ीसे ढके नितम्बद्वीपपर शोभायमान करधनी अपनी अनूठी छटा छिटका रही थी॥ ४५॥
वीरराघवः
विरजो ऽम्बरेण संवीतः नितम्ब एव द्वीपः विशालत्वात् तद्वच्-शोभा यस्याः तथा काञ्च्या प्रकर्षेण विलसत् वल्गु सुन्दरं यथा भवति, एवं 94चलतोः चरणयोः नूपुरे यस्मिन् ॥ ४५ ॥
श्लोक-४६
विश्वास-प्रस्तुतिः
सव्रीडस्मितविक्षिप्तभ्रूविलासावलोकनैः।
दैत्ययूथपचेतःसु काममुद्दीपयन् मुहुः॥
मूलम्
सव्रीडस्मितविक्षिप्तभ्रूविलासावलोकनैः।
दैत्ययूथपचेतस्सु काममुद्दीपयन् मुहुः॥ ४६ ॥95
अनुवाद (हिन्दी)
अपनी सलज्ज मुसकान, नाचती हुई तिरछी भौंहें और विलासभरी चितवनसे मोहिनी-रूपधारी भगवान् दैत्यसेनापतियोंके चित्तमें बार-बार कामोद्दीपन करने लगे॥ ४६॥
अनुवाद (समाप्ति)
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे भगवन्मायोपलम्भनं नाम अष्टमोऽध्यायः॥ ८ ॥
वीरराघवः
सव्रीड-स्मितेन सह विक्षिप्ता कम्पिता या भ्रूः तस्याः विलासेन सह यान्य् अवलोकनानि तैः दैत्य-यूथ-पानां चेतस्सु मुहुर् मुहुः कामम् उद्दीपयत् ॥ ४६ ॥
इति श्रीमद्-भागवते अष्टम-स्कन्धे श्री-वीर-राघव-विदुषा लिखितायां भागवत-चन्द्र-चन्द्रिकायां व्याख्यायां अष्टमो ऽध्यायः ॥ ८ ॥
-
H,V ते सुर ↩︎
-
A,B,T सुरा ↩︎
-
M,Ma पा ↩︎
-
H,V ण्डरः ↩︎
-
A,T उद्भूतः । ↩︎
-
A,B,G,J,T द्रर्हरन्भगवतो महिम्; H,V द्रेर्हरन् शृङ्गतोमहि, M,Ma भो हरिस्तं तु समग्रहीत् ↩︎ ↩︎
-
This verse is not found in H,M,Ma,V Edns. ↩︎
-
W गः म ↩︎
-
A,B,G,J,T णम् ↩︎
-
A,B,T भूतो ↩︎
-
W Omits पूरयन् ↩︎
-
W Omits अर्थान् । ↩︎
-
A,B,G,J,M,Ma,T कण्ठ्य ↩︎
-
B,W कण्डाः ↩︎
-
W Omits इत्यर्थः । ↩︎
-
M,Ma वत्प्रिया ↩︎
-
B,H,V मि ↩︎
-
A,B‚T मि ↩︎
-
A‚B‚T तत्रै ↩︎
-
A,B,T Omit चेतः ↩︎
-
W Omits चित्तं ↩︎
-
M‚Ma श्चाऽऽ ↩︎
-
A,B,T क्षःस्थि ↩︎
-
A,B,T गङ्गादयः ↩︎
-
A,B,T Omit मूर्तिमत्यः ↩︎
-
W Omits देहयुक्ताः ↩︎
-
M‚Ma वम् ↩︎
-
A,B,T add उप ↩︎
-
M,Ma नार्यश्चा । ↩︎
-
M,Ma रु ↩︎
-
M,Ma तु ↩︎
-
A,B,G,J,M,Ma,T दिगिभाः ↩︎
-
A,B,G,J,T वाक्यैः ↩︎
-
A,B,G,J,M,Ma,T चाऽति ↩︎
-
A,B,G,J,M,Ma,T त ↩︎
-
M,Ma शा ↩︎
-
A,B,T णगु ↩︎
-
H.V त्तस्य ↩︎
-
A,B,T ग्रह ↩︎
-
A,B,G,J‚T त्तत्र ↩︎
-
A,B,G,J,T त्तत्र M,Ma त्तच्च ↩︎
-
A,B,T परशुरामादौ ↩︎
-
A,B,T यादिषु ↩︎
-
W Omits वमन ↩︎
-
A,G,J,T Omit ↩︎
-
M,Ma णं पदं ↩︎
-
A,B,G,J,T काश्रयतया गु; H,V कश्रयता गु, M,Ma काश्रयि सहु ↩︎ ↩︎
-
M,Ma निवीय ↩︎
-
M,Ma भीता ↩︎
-
M,Ma स्व ↩︎
-
M,Ma स्वप्न ↩︎
-
A,B,G,J,T पृथुस्स्वनः ; M,Ma पृथक्स्वनः ↩︎
-
A,B,G,J,M,Ma,T गतत्रपाः ↩︎
-
A,B,T add नेत्रे ↩︎
-
W Omits भुजौ ↩︎
-
A,B,T Omit श्यामलः ↩︎
-
M,Ma नील ↩︎
-
M,Ma तस्य पू ↩︎
-
W Omits स ↩︎
-
M,Ma हृ ↩︎
-
W अ ↩︎
-
A,B,G,J,M,Ma,T माययुः ↩︎
-
A,B,G,J,M,Ma,T त मिथोऽर्थ ↩︎
-
A,B,T भक्तानां ↩︎
-
W Omits अभीष्टं ↩︎
-
W Omits मिथः ↩︎
-
A,B,T मिथः ↩︎
-
A,B,T मेवाऽऽह । ↩︎
-
M,Ma स्व ↩︎
-
A,B,G,J,M‚Ma‚T इवैतस्मि ↩︎
-
H‚V ति ↩︎
-
A,B,T Omit श्री ↩︎
-
A,B,T वत् । ↩︎
-
M,Ma निष्पन्द ↩︎
-
H,V,W हु ↩︎
-
M,Ma भूषणम् । ↩︎
-
W जोऽम्ब ↩︎
-
H,V कषोल्लस ↩︎
-
M,Ma स्फुटञ्च ↩︎
-
A,B,T चञ्चलयोः ↩︎
-
अनेन श्लोकेन विजयध्वजरीत्या अष्टमोऽध्यायः न परिसमाप्यते परन्तु अनुवर्तते । ↩︎