[सप्तमोऽध्यायः]
भागसूचना
समुद्रमन्थनका आरम्भ और भगवान् शंकरका विषपान
श्लोक-१
मूलम् (वचनम्)
श्रीशुक उवाच
विश्वास-प्रस्तुतिः
ते नागराजमामन्त्र्य फलभागेन वासुकिम्।
परिवीय गिरौ तस्मिन् नेत्रमब्धिं मुदान्विताः॥
मूलम्
ते नागराजमामन्त्र्य फलभागेन वासुकिम्।
परि1वीय गिरौ तस्मिन् नेत्रमब्धिं मुदान्विताः॥ १ ॥
वीरराघवः
ते देवासुराः फल-भागेन तवा ऽप्य् अमृत-भागो भविष्यतीत्य् एवं वासुकिम् आमन्त्र्य सम्प्रार्थ्य नेत्रीभूतं 2तं गिरौ परिवीय परिवेष्ट्य मुदा युक्ताः ॥ १ ॥
श्लोक-२
विश्वास-प्रस्तुतिः
आरेभिरे सुसंयत्ता अमृतार्थं कुरूद्वह।
हरिः पुरस्ताज्जगृहे पूर्वं देवास्ततोऽभवन्॥
अनुवाद (हिन्दी)
श्रीशुकदेवजी कहते हैं—परीक्षित्! देवता और असुरोंने नागराज वासुकिको यह वचन देकर कि समुद्रमन्थनसे प्राप्त होनेवाले अमृतमें तुम्हारा भी हिस्सा रहेगा, उन्हें भी सम्मिलित कर लिया। इसके बाद उन लोगोंने वासुकि नागको नेतीके समान मन्दराचलमें लपेटकर भलीभाँति उद्यत हो बड़े उत्साह और आनन्दसे अमृतके लिये समुद्रमन्थन प्रारम्भ किया। उस समय पहले-पहल अजित भगवान् वासुकिके मुखकी ओर लग गये, इसलिये देवता भी उधर ही आ जुटे॥ १-२॥
वीरराघवः
अमृतार्थे अब्धिं मथितुम् आरब्धाः हे कुरूद्वह । वासुकेस् तीव्रं मुखं दैत्यान् ग्राहयितुम् एव 5पूर्वं हरिः पुरस्तात् मुखं जगृहे । ततो देवा अभवन्, मुखं जगृहुः ॥ २ ॥
श्लोक-३
विश्वास-प्रस्तुतिः
तन्नैच्छन् दैत्यपतयो महापुरुषचेष्टितम्।
न गृह्णीमो वयं पुच्छमहेरङ्गममङ्गलम्॥
मूलम्
तन्नैच्छन् दैत्यपतयो महापुरुषचेष्टितम्।
न गृह्णीमो वयं पुच्छमहेरङ्गममङ्गलम्॥ ३ ॥
अनुवाद (हिन्दी)
परन्तु भगवान्की यह चेष्टा दैत्यसेनापतियोंको पसंद न आयी। उन्होंने कहा कि ‘पूँछ तो साँपका अशुभ अंग है, हम उसे नहीं पकड़ेंगे॥ ३॥
श्लोक-४
विश्वास-प्रस्तुतिः
स्वाध्यायश्रुतसम्पन्नाः प्रख्याता जन्मकर्मभिः।
इति तूष्णीं स्थितान् दैत्यान् विलोक्य पुरुषोत्तमः।
स्मयमानो विसृज्याग्रं पुच्छं जग्राह सामरः॥
मूलम्
स्वाध्यायश्रुतसम्पन्नाः प्रख्याता जन्मकर्मभिः।
इति तूष्णीं स्थितान् दैत्यान् विलोक्य पुरुषोत्तमः।
स्मयमानो विसृज्याग्रं पुच्छं जग्राह सामरः॥ ४ ॥
अनुवाद (हिन्दी)
हमने वेद-शास्त्रोंका विधिपूर्वक अध्ययन किया है, ऊँचे वंशमें हमारा जन्म हुआ है और वीरताके बड़े-बड़े काम हमने किये हैं। हम देवताओंसे किस बातमें कम हैं?’ यह कहकर वे लोग चुपचाप एक ओर खड़े हो गये। उनकी यह मनोवृत्ति देखकर भगवान्ने मुसकराकर वासुकिका मुँह छोड़ दिया और देवताओंके साथ उन्होंने पूँछ पकड़ ली॥ ४॥
वीरराघवः
तन्-मुख-ग्रहण-रूपं महा-पुरुषस्य हरेश् चेष्टितम् 6असुराधिपा नैच्छन् । स्वाध्याय-श्रुत-सम्पन्नाः वेद-शास्त्राध्ययन-सम्पन्नाः जन्मभिः कर्मभिश् च प्रसिद्धाः वयम् अमङ्गलं 7हीनम् 8अहेः अर्ङ्ग8 पुच्छं न गृह्णीम इत्य् अभिप्रायेण तूष्णीं स्थितान् दैत्यान् विलोक्य भगवान् पुरुषोत्तमः ॥ ३,४ ॥
श्लोक-५
विश्वास-प्रस्तुतिः
कृतस्थानविभागास्त एवं कश्यपनन्दनाः।
ममन्थुः परमायत्ता अमृतार्थं पयोनिधिम्॥
अनुवाद (हिन्दी)
इस प्रकार अपना-अपना स्थान निश्चित करके देवता और असुर अमृतप्राप्तिके लिये पूरी तैयारीसे समुद्रमन्थन करने लगे॥ ५॥
वीरराघवः
स्मयमानो मुखं विसृज्य अमरैस् सहितः पुच्छञ् जग्राह - एवम् इत्थं कृतो ग्रहण-स्थान-विभागो यैस् ते कश्यपस्य नन्दनाः देवासुराः ॥ ५ ॥
श्लोक-६
विश्वास-प्रस्तुतिः
मथ्यमानेऽर्णवे सोऽद्रिरनाधारो ह्यपोऽविशत्।
ध्रियमाणोऽपि बलिभिर्गौरवात् पाण्डुनन्दन॥
अनुवाद (हिन्दी)
परीक्षित्! जब समुद्रमन्थन होने लगा, तब बड़े-बड़े बलवान् देवता और असुरोंके पकड़े रहनेपर भी अपने भारकी अधिकता और नीचे कोई आधार न होनेके कारण मन्दराचल समुद्रमें डूबने लगा॥ ६॥
वीरराघवः
परम् अधिकम् आयत्ताः उद्यताः पयोनिधिम् अमृतार्थं ममन्थुः । अर्णवे पयोदधौ मथ्यमाने सति अनाधारो ऽद्रिः मन्दरो ऽपो ऽविशत्, अपाम् अधो-भागं प्रविष्टो ऽभूत् ॥ ६ ॥
श्लोक-७
विश्वास-प्रस्तुतिः
ते सुनिर्विण्णमनसः परिम्लानमुखश्रियः।
आसन् स्वपौरुषे नष्टे दैवेनातिबलीयसा॥
मूलम्
ते 13तु निर्विण्णमनसः परिम्लानमुखश्रियः।
आसन् स्वपौरुषे नष्टे दैवेनातिबलीयसा॥ ७ ॥
अनुवाद (हिन्दी)
इस प्रकार अत्यन्त बलवान् दैवके द्वारा अपना सब किया-कराया मिट्टीमें मिलते देख उनका मन टूट गया। सबके मुँहपर उदासी छा गयी॥ ७॥
वीरराघवः
हे कुरुनन्दन ! बलिष्ठैर् देवासुरैः ध्रियमाणो ऽप्य् अद्रिः गौरवाद् भार-भूयस्त्वात्, अपो ऽविशद् इति पूर्वेणान्वयः । ते देवासुरास् तु अति-बलीयसा दैवेन हेतुना स्व-पौरुषे विनष्टे सति निर्विण्ण-मनसः अत एव परिम्लान-मुख-श्रियो बभूवुः ॥ ७ ॥
श्लोक-८
विश्वास-प्रस्तुतिः
विलोक्य विघ्नेशविधिं तदेश्वरो
दुरन्तवीर्योऽवितथाभिसन्धिः।
कृत्वा वपुः काच्छपमद्भुतं महत्
प्रविश्य तोयं गिरिमुज्जहार॥
मूलम्
विलोक्य विघ्नेश14विधिं 15स ईश्वरो दुरन्तवीर्योऽवितथाभिसन्धिः।
कृत्वा वपुः काच्छपमद्भुतं महत् प्रविश्य तोयं गिरिमुज्जहार॥ ८ ॥
अनुवाद (हिन्दी)
उस समय भगवान्ने देखा कि यह तो विघ्नराजकी करतूत है। इसलिये उन्होंने उसके निवारणका उपाय सोचकर अत्यन्त विशाल एवं विचित्र कच्छपका रूप धारण किया और समुद्रके जलमें प्रवेश करके मन्दराचलको ऊपर उठा दिया। भगवान्की शक्ति अनन्त है। वे सत्यसंकल्प हैं। उनके लिये यह कौन-सी बड़ी बात थी॥ ८॥
वीरराघवः
विघ्नेशस्य विघ्नाधिदैवतस्य विष्वक्सेनस्य तत्-पार्षदस्य वा कस्यचिद् द्विरद-वक्त्रादेर् विधिं चरितं तद्-विघ्नं16 विलोक्य तथा सत्य-सङ्कल्पः दुरन्त-वीर्यः अपार-बलो भगवान् ईश्वरो ऽजितः महत् बृहद् अद्भुतञ् च कच्छपं वपुर् धृत्वा तोयं जलं प्रविश्य गिरिं मन्दरम् 17उज्जहार, उद्धृतवान् इत्य्-अर्थः ॥ ८ ॥
श्लोक-९
विश्वास-प्रस्तुतिः
तमुत्थितं वीक्ष्य कुलाचलं पुनः
समुत्थिता निर्मथितुं सुरासुराः।
दधार पृष्ठेन स लक्षयोजन-
प्रस्तारिणा द्वीप इवापरो महान्॥
मूलम्
तमुत्थितं वीक्ष्य कुलाचलं पुनः समु18द्यता निर्मथितुं सुरासुराः।
दधार पृष्ठेन स लक्षयोजनप्रस्तारिणा द्वीप इवापरो महान्॥ ९ ॥
अनुवाद (हिन्दी)
देवता और असुरोंने देखा कि मन्दराचल तो ऊपर उठ आया है, तब वे फिरसे समुद्र-मन्थनके लिये उठ खड़े हुए। उस समय भगवान्ने जम्बूद्वीपके समान एक लाख योजन फैली हुई अपनी पीठपर मन्दराचलको धारण कर रखा था॥ ९॥
वीरराघवः
तमुत्थितं कुलाचलं मन्दरं वीक्ष्य सुराश् चा ऽसुराश् च पुनर्निर्मथितुं समुत्थिता बभूवुः । गिरिं बिभ्रतं कूर्म-रूपिणं वर्णयति - दधारेति । लक्षं योजनानि प्रस्तारो विस्तारो ऽस्यास्तीति तथा तेन पृष्टेन दधार, 19मन्दरम् इति शेषः19 कथम्भूतः? अपरो द्वीप इव जम्ब्व्-आदि-द्वीप इव । महान्-विपुल-देहः ॥ ९ ॥
श्लोक-१०
विश्वास-प्रस्तुतिः
सुरासुरेन्द्रैर्भुजवीर्यवेपितं
परिभ्रमन्तं गिरिमङ्ग पृष्ठतः।
बिभ्रत् तदावर्तनमादिकच्छपो
मेनेऽङ्गकण्डूयनमप्रमेयः॥
मूलम्
सुरासुरेन्द्रैर्भुज20वीर्यवेपितं परिभ्रमन्तं गिरिमङ्ग पृष्ठतः।
बिभ्रत् तदावर्तनमादिकच्छपो मेनेऽङ्गकण्डूयनमप्रमेयः॥ १० ॥
अनुवाद (हिन्दी)
परीक्षित्! जब बड़े-बड़े देवता और असुरोंने अपने बाहुबलसे मन्दराचलको प्रेरित किया, तब वह भगवान्की पीठपर घूमने लगा। अनन्त शक्तिशाली आदिकच्छप भगवान्को उस पर्वतका चक्कर लगाना ऐसा जान पड़ता था, मानो कोई उनकी पीठ खुजला रहा हो॥ १०॥
वीरराघवः
सुरासुर-श्रेष्ठैः कर्तृभिः भुजानां वेगेन बलेन वेपितं कम्पितं भ्रमन्तं गिरिं, अङ्ग ! हे राजन् ! पृष्ठे बिभ्रद् अप्रमेयो ऽपरिच्छिन्न बल-शक्त्य्-आदि-युक्तादि-कच्छप-रूप स् तदावर्तनं गिरि-भ्रमणम् अङ्ग-कण्डूयनं मेने ॥ १० ॥
श्लोक-११
विश्वास-प्रस्तुतिः
तथासुरानाविशदासुरेण
रूपेण तेषां बलवीर्यमीरयन्।
उद्दीपयन् देवगणांश्च विष्णु-
र्दैवेन नागेन्द्रमबोधरूपः॥
मूलम्
21तदासुरा22नाविशदासुरेण रूपेण तेषां बलवीर्यमीरयन्।
उद्दीपय23न् देवगणांश्च विष्णुर्दैवेन नागेन्द्रमबोधरूपः॥ ११ ॥
अनुवाद (हिन्दी)
साथ ही समुद्रमन्थन सम्पन्न करनेके लिये भगवान्ने असुरोंमें उनकी शक्ति और बलको बढ़ाते हुए असुररूपसे प्रवेश किया। वैसे ही उन्होंने देवताओंको उत्साहित करते हुए उनमें देवरूपसे प्रवेश किया और वासुकिनागमें निद्राके रूपसे॥ ११॥
वीरराघवः
एवं जले कच्छप-वपुषा गिरिं बिभ्रद् एव विष्णुः पुनर् असुरान् असुर-रूपेणाविशत् । कथम्भूतः ? तेषाम् असुराणां बल-वीर्यञ् च ईरयन्नेधयमानः, तथा दैवेन रूपेण देव-गणान् बल-वीर्यादिकम् मुद्दीपयन् आविशत् नागेन्द्रं वासुकिम् अबोध-रूपः निद्रा-रूपः 24चकारात् नागेन्द्र-रूपश् चेत्य् अर्थः । अज्ञः पृथक्-स्व-रूप एव सर्व-बलोत्साह वीर्याणि प्रावर्धयद् इति भावः । इन्द्रादि-रूपः24 प्राविशत् ॥ ११ ॥
श्लोक-१२
विश्वास-प्रस्तुतिः
उपर्यगेन्द्रं गिरिराडिवान्य
आक्रम्य हस्तेन सहस्रबाहुः।
तस्थौ दिवि ब्रह्मभवेन्द्रमुख्यै-
रभिष्टुवद्भिः सुमनोऽभिवृष्टः॥
मूलम्
उपर्यगेन्द्रं गिरिराडिवान्य आक्रम्य हस्तेन सहस्रबाहुः।
तस्थौ दिवि ब्रह्मभवेन्द्रमुख्यैरभिष्टुवद्भिः सुमनोऽभि25वृष्टः॥ १२ ॥
अनुवाद (हिन्दी)
इधर पर्वतके ऊपर दूसरे पर्वतके समान बनकर सहस्रबाहु भगवान् अपने हाथोंसे उसे दबाकर स्थित हो गये। उस समय आकाशमें ब्रह्मा, शंकर, इन्द्र आदि उनकी स्तुति और उनके ऊपर पुष्पोंकी वर्षा करने लगे॥ १२॥
वीरराघवः
अगेन्द्रम् उपरि गिरेर् उपरि अपरो गिरिराड् इव सहस्र-बाहुर् एकेन हस्तेन गिरिम् आक्रम्य पुनर् दिव्य् अभितः स्तुवद्भिः ब्रह्मादिभिः कर्तृभिः सुमनोभिः पुष्पैः 26करणैर् अभिवृष्टः तस्थौ ॥ १२ ॥
श्लोक-१३
विश्वास-प्रस्तुतिः
उपर्यधश्चात्मनि गोत्रनेत्रयोः
परेण ते प्राविशता समेधिताः।
ममन्थुरब्धिं तरसा मदोत्कटा
महाद्रिणा क्षोभितनक्रचक्रम्॥
मूलम्
उपर्यधश्चात्मनि गोत्रनेत्रयोः परेण ते प्राविशता समेधिताः।
ममन्थुरब्धिं तरसा मदोत्कटा महाद्रिणा क्षोभितनक्रचक्रम्॥ १३ ॥
अनुवाद (हिन्दी)
इस प्रकार भगवान्ने पर्वतके ऊपर उसको दबा रखनेवालेके रूपमें, नीचे उसके आधार कच्छपके रूपमें, देवता और असुरोंके शरीरमें उनकी शक्तिके रूपमें, पर्वतमें दृढ़ताके रूपमें और नेती बने हुए वासुकिनागमें निद्राके रूपमें—जिससे उसे कष्ट न हो—प्रवेश करके सब ओरसे सबको शक्तिसम्पन्न कर दिया। अब वे अपने बलके मदसे उन्मत्त होकर मन्दराचलके द्वारा बड़े वेगसे समुद्रमन्थन करने लगे। उस समय समुद्र और उसमें रहनेवाले मगर, मछली आदि जीव क्षुब्ध हो गये॥ १३॥
वीरराघवः
27गिरेर् उपर् अधस्-तद्-गोत्र-नेत्रयोः गिरि-नेत्रयोर् आत्मनि देवासुरेषु च प्राविशत् आपरेण परमात्मना समेधिताः समुपोद्वलिताः अत एव मदोत्कटा देवासुराः तरसा बलेन महाद्रिणा मन्दरेण क्षोभितं नक्राणां चक्रं 28समूहो यस्मिन् तमन्द्रिं ममन्थुः ॥ १३ ॥
श्लोक-१४
विश्वास-प्रस्तुतिः
अहीन्द्रसाहस्रकठोरदृङ्मुख-
श्वासाग्निधूमाहतवर्चसोऽसुराः।
पौलोमकालेयबलील्वलादयो
दावाग्निदग्धाः सरला इवाभवन्॥
मूलम्
अहीन्द्रसाहस्रक29ठोरदृङ्मुखश्वासाग्निधूमाहतवर्चसोऽसुराः।
पौलोमकालेयबलील्वलादयो 30दावाग्निदग्धा31स्सरला इवाभवन्31॥ १४ ॥
अनुवाद (हिन्दी)
नागराज वासुकिके हजारों कठोर नेत्र, मुख और श्वासोंसे विषकी आग निकलने लगी। उनके धूएँसे पौलोम, कालेय, बलि, इल्वल आदि असुर निस्तेज हो गये। उस समय वे ऐसे जान पड़ते थे, मानो दावानलसे झुलसे हुए साखूके पेड़ खड़े हों॥ १४॥
वीरराघवः
32तथा दृशः 33नेत्राणि च मुखानि च श्वासाश् च अहीन्द्रस्य वासुकेः साहस्रम् अपरिमिताः कठोरा ये दृग्-आदयः तेभ्यो निर्गताभ्याम् अग्नि-धूमाभ्यां हतं वर्चो येषां ते ऽसुराः पौलोम् आदयः दावाग्नि-दग्धाः सरला द्रुम-विशेषाः, त इवा ऽभवन् ॥ १४ ॥
श्लोक-१५
विश्वास-प्रस्तुतिः
देवांश्च तच्छ्वासशिखाहतप्रभान्
धूम्राम्बरस्रग्वरकञ्चुकाननान्।
समभ्यवर्षन् भगवद्वशा घना
ववुः समुद्रोर्म्युपगूढवायवः॥
मूलम्
देवांश्च तच्छ्वासशिखाहतप्रभान् धू34म्राम्बरस्रग्वरकञ्चुकाननान्।
समभ्यवर्ष35न्भगवद्वशा घना ववुः समुद्रोर्म्युपगूढवायवः॥ १५ ॥
अनुवाद (हिन्दी)
देवता भी उससे न बच सके। वासुकिके श्वासकी लपटोंसे उनका भी तेज फीका पड़ गया। वस्त्र, माला, कवच एवं मुख धूमिल हो गये। उनकी यह दशा देखकर भगवान्की प्रेरणासे बादल देवताओंके ऊपर वर्षा करने लगे एवं वायु समुद्रकी तरंगोंका स्पर्श करके शीतलता और सुगन्धिका संचार करने लगी॥ १५॥
वीरराघवः
देवांस्तु मघवद्-वशाः 36इन्द्राधीनाः घना मेघाः समभ्यवर्षन् । कथम्भूतान् ? तस्य वासुकेर् यः श्वासस् तस्य शिखया हता प्रभा येषां, धूम्राणि निश्वास-धूमाक्तानि अम्बराणि वस्त्राणि स्रग्-वराणि कञ्चुकानि आननानि च येषां तान् । किञ्च, समुद्रस्योर्मिभिः तरङ्गैः उपगूढाः संवृताः वायवः पवनाश् च वव्रुः प्रसस्रुः ॥ १५ ॥
श्लोक-१६
विश्वास-प्रस्तुतिः
मथ्यमानात् तथा सिन्धोर्देवासुरवरूथपैः।
यदा सुधा न जायेत निर्ममन्थाजितः स्वयम्॥
अनुवाद (हिन्दी)
इस प्रकार देवता और असुरोंके समुद्रमन्थन करनेपर भी जब अमृत न निकला, तब स्वयं अजितभगवान् समुद्रमन्थन करने लगे॥ १६॥
वीरराघवः
यदा देवासुरैर्-मध्यमानाद् अप्य् अब्धेः अमृतं न जायेत तदा भगवान् अजितः स्वयम् एव निर्ममन्थ 39मन्थनं चकार39 ॥ १६ ॥
श्लोक-१७
विश्वास-प्रस्तुतिः
मेघश्यामः कनकपरिधिः
कर्णविद्योतविद्यु-
न्मूर्ध्नि भ्राजद्विलुलितकचः
स्रग्धरो रक्तनेत्रः।
जैत्रैर्दोर्भिर्जगदभयदै-
र्दन्दशूकं गृहीत्वा
मथ्नन् मथ्ना प्रतिगिरिरिवा-
शोभताथोद्धृताद्रिः॥
मूलम्
मेघश्यामः कनकपरिधिः 40कर्णविद्योतविद्यु41न्मूर्ध्नि भ्राजद्विलुलितकचः स्रग्धरो41 रक्त42नेत्रः।
जैत्रैर्दोर्भिर्जगदभयदैर्दन्दशूकं गृहीत्वा मथ्नन् मथ्ना प्रतिगिरिरिवाऽशोभताऽ43थोद्धृताद्रिः॥ १७ ॥
अनुवाद (हिन्दी)
मेघके समान साँवले शरीरपर सुनहला पीताम्बर, कानोंमें बिजलीके समान चमकते हुए कुण्डल, सिरपर लहराते हुए घुँघराले बाल, नेत्रोंमें लाल-लाल रेखाएँ और गलेमें वनमाला सुशोभित हो रही थी। सम्पूर्ण जगत्को अभयदान करनेवाले अपने विश्वविजयी भुजदण्डोंसे वासुकिनागको पकड़कर तथा कूर्मरूपसे पर्वतको धारणकर जब भगवान् मन्दराचलकी मथानीसे समुद्रमन्थन करने लगे, उस समय वे दूसरे पर्वतराजके समान बड़े ही सुन्दर लग रहे थे॥ १७॥
वीरराघवः
मथ्नन्तम् अजितं वर्णयति - मेघ-श्याम इति । मेघ इव श्यामः “उपमानानि सामान्य वचनैः” (अष्टा. 2-1-55) इति समासः । कनक-परिधिः कनक-परिधानः पीताम्बरः । कण्ठे द्योतमान-विद्युन्निभाभरणः वियत्य् आकाशे मूर्ध्ना सकिरीटेनाक्रामन् चलितां स्रजं वन-मालां बिभर्तीति तादृशः । रक्ते नेत्रे यस्य सः । जगताम् अभय-प्रदैः दोर्भिर् दन्दशूकं सर्पं गृहीत्वा मथ्ना गिरिणा आब्धिं मथ्नन् 44अधो-धृताद्रिः44 अजितो ऽपरो गिरिर् इवा ऽशोभत ॥ १७ ॥
श्लोक-१८
विश्वास-प्रस्तुतिः
निर्मथ्यमानादुदधेरभूद्विषं
महोल्बणं हालहलाह्वमग्रतः।
सम्भ्रान्तमीनोन्मकराहिकच्छपात्
तिमिद्विपग्राहतिमिङ्गिलाकुलात्॥
मूलम्
निर्मर्थ्यमानादुदधेरभूद्विषं महोल्बणं हालहला45ह्वमग्रतः।
सम्भ्रान्तमीनोन्मकराहिकच्छपात् तिमिद्विपग्राहतिमिङ्गिलाकुलात्॥ १८ ॥
अनुवाद (हिन्दी)
जब अजितभगवान्ने इस प्रकार समुद्र मन्थन किया, तब समुद्रमें बड़ी खलबली मच गयी। मछली, मगर, साँप और कछुए भयभीत होकर ऊपर आ गये और इधर-उधर भागने लगे। तिमि-तिमिंगिल आदिमच्छ, समुद्री हाथी और ग्राह व्याकुल हो गये। उसी समय पहले-पहल हालाहल नामका अत्यन्त उग्र विष निकला॥ १८॥
वीरराघवः
एवं निर्मथ्यमानाद् उदधेः प्रथमम् उल्बणं दुस्सहं हाल-हलाख्यं विषम् उदभूत् । कथम्भूताद् उदधेः ? सम्भ्रान्ता मीना उद्गता मकरादयश् च यस्मिंस् तस्मात् । तिम्यादिभिर् मत्स्य-विशेषैर् आकुलाच् च ॥ १८ ॥
श्लोक-१९
विश्वास-प्रस्तुतिः
तदुग्रवेगं दिशि दिश्युपर्यधो
विसर्पदुत्सर्पदसह्यमप्रति।
भीताः प्रजा दुद्रुवुरङ्ग सेश्वरा
अरक्ष्यमाणाः शरणं सदाशिवम्॥
मूलम्
तदुग्रवेगं दिशि दिश्युपर्यधो विसर्पदुत्सर्पदसह्य46मप्रति।
भीताः प्रजा दुद्रुवुरङ्ग सेश्वरा अरक्ष्यमाणाश्शरणं सदाशिवम्॥ १९ ॥
अनुवाद (हिन्दी)
वह अत्यन्त उग्र विष दिशा-विदिशामें, ऊपर-नीचे सर्वत्र उड़ने और फैलने लगा। इस असह्य विषसे बचनेका कोई उपाय भी तो न था। भयभीत होकर सम्पूर्ण प्रजा और प्रजापति किसीके द्वारा त्राण न मिलनेपर भगवान् सदाशिवकी शरणमें गये॥ १९॥
वीरराघवः
विषं विशिंषतस् ततो भीतानां प्रजानां सदाशिव-प्रपत्तिम् आह - तद् इति तद् विषम् अप्रति-प्रतिक्रिया-शून्यम् अप्रतिमं वा । कुतः ? उग्रः वेगो यस्य तद् एवाह - दिशि दिशि प्रतिदिशम् उपर्य् अधश् च विसर्पत् उत्सर्पद् उद्गच्छच् च । एवं विधं तद् विषं, दृष्ट्वेति शेषः । अङ्ग हे राजन् । सेश्वरास् सपालाः प्रजाः त्रि-लोकस्था अरक्ष्यमाणास् सदा-शिवं शरणं दुद्रुवुः जग्मुः ॥ १९ ॥
श्लोक-२०
विश्वास-प्रस्तुतिः
विलोक्य तं देववरं त्रिलोक्या
भवाय देव्याभिमतं मुनीनाम्।
आसीनमद्रावपवर्गहेतो-
स्तपो जुषाणं स्तुतिभिः प्रणेमुः॥
मूलम्
विलोक्य तं देववरं त्रिलोक्या भवाय देव्याभि47मतं मुनीनाम्।
आसीनमद्रावपवर्गहेतोस्तपो जुषाणं स्तुतिभिः प्रणेमुः॥ २० ॥
अनुवाद (हिन्दी)
भगवान् शंकर सतीजीके साथ कैलास पर्वतपर विराजमान थे। बड़े-बड़े ऋषि-मुनि उनकी सेवा कर रहे थे। वे वहाँ तीनों लोकोंके अभ्युदय और मोक्षके लिये तपस्या कर रहे थे। प्रजापतियोंने उनका दर्शन करके उनकी स्तुति करते हुए उन्हें प्रणाम किया॥ २०॥
वीरराघवः
त्रिलोक्याः भवाय समृद्ध्यै दैव्या भवान्या सह ऽद्रौ कैलासे आसीनम् अपवर्ग-हेतोस् तपो जुषाणं मुनीनाम् अभिमतं देव-वरं सदा-शिवं विलोक्य स्तुतिभिः प्रणेमुः तुष्टुवुः प्रणेमुश् च ॥ २० ॥
श्लोक-२१
मूलम् (वचनम्)
प्र48जापतय ऊचुः
विश्वास-प्रस्तुतिः
देवदेव महादेव भूतात्मन् भूतभावन।
त्राहि नः शरणापन्नांस्त्रैलोक्यदहनाद् विषात्॥
मूलम्
देवदेव महादेव भूतात्मन् भूतभावन।
त्राहि नः शरणापन्नांस्त्रैलोक्यदहनाद् विषात्॥ २१ ॥
अनुवाद (हिन्दी)
प्रजापतियोंने भगवान् शंकरकी स्तुति की—देवताओंके आराध्यदेव महादेव! आप समस्त प्राणियोंके आत्मा और उनके जीवनदाता हैं। हमलोग आपकी शरणमें आये हैं। त्रिलोकीको भस्म करनेवाले इस उग्र विषसे आप हमारी रक्षा कीजिये॥ २१॥
वीरराघवः
स्तुतिम् एवाह - देव-देवेत्य् आदिना व्यक्तिस् ते अव्यक्त-कर्मण इत्य् अन्तेन । तत्र परम-कारण-भूत-भगवद्-असाधारणैः धर्मैः, आरोपितैर् वा तैः स्तुतिः क्रियते इति सर्वम् उपपन्नम्, रुद्र-वाचि-शब्दानां शास्त्र-दृष्ट्या रुद्र-शरीरक-परमात्म-पर्यन्तत्वेन वा, रुद्रस्य परमात्मावेशावतार-रूपत्वाद् वा सर्वं घटते । हे देवानाम् अपि देव ! हे सर्व-भूतान्तर् आत्मन् । हे भूत-भावन ! भूत-स्रष्टः । शरणं गतान् अस्मान् त्रैलोक्यं दहतीति त्रैलोक्य-दहनः । कर्तरि ल्युः । तस्माद् विषात् त्राहि पाहि ॥ २१ ॥
श्लोक-२२
विश्वास-प्रस्तुतिः
त्वमेकः सर्वजगत ईश्वरो बन्धमोक्षयोः।
तं त्वामर्चन्ति कुशलाः प्रपन्नार्तिहरं गुरुम्॥
मूलम्
त्वमेकः सर्वजग49तामीश्वरो बन्धमोक्षयोः।
तं त्वामर्चन्ति कुशलाः प्रपन्नार्तिहरं गुरुम्॥ २२ ॥
अनुवाद (हिन्दी)
सारे जगत्को बाँधने और मुक्त करनेमें एकमात्र आप ही समर्थ हैं। इसलिये विवेकी पुरुष आपकी ही आराधना करते हैं। क्योंकि आप शरणागतकी पीड़ा नष्ट करनेवाले एवं जगद्गुरु हैं॥ २२॥
वीरराघवः
सर्वस्य जगतो बन्ध-मोक्षयोस् त्वम् एक एवेश्वरः तम् एवम्भूतं प्रपन्न-दुःख-हरं त्वाम् एव कुशलाः सुधियः अर्चन्त्याराधयन्ति । मोक्षेश्वरत्वम् उपायोपदेशद्वारकम् इत्य् अभिप्रायेण विशिनष्टि - गुरुम् इति ॥ २२ ॥
श्लोक-२३
विश्वास-प्रस्तुतिः
गुणमय्या स्वशक्त्यास्य सर्गस्थित्यप्ययान्विभो।
धत्से यदा स्वदृग् भूमन् ब्रह्मविष्णुशिवाभिधाम्॥
मूलम्
गुणमय्या स्वशक्त्याऽस्य सर्गस्थित्यप्ययान्विभो।
धत्से यदा स्वदृग् भूमन् ब्रह्मविष्णुशिवाभिधाम्॥ २३ ॥
अनुवाद (हिन्दी)
प्रभो! अपनी गुणमयी शक्तिसे इस जगत्की सृष्टि, स्थिति और प्रलय करनेके लिये आप अनन्त, एकरस होनेपर भी ब्रह्मा, विष्णु, शिव आदि नाम धारण कर लेते हैं॥ २३॥
वीरराघवः
गुणमय्या त्रिगुणात्मिकया स्व-शक्त्या स्वांशभूतया मायया अस्य जगतः यदा सर्गादीन् विधत्से करोषि, तदा हे विभोः ! हे स्व-दृक् स्व-प्रकाश, हे भूमन् ! ब्रह्म-विष्णु-शिवाभिधां धत्से बिभर्षि ॥ २३ ॥
श्लोक-२४
विश्वास-प्रस्तुतिः
त्वं ब्रह्म परमं गुह्यं सदसद्भावभावनः।
नानाशक्तिभिराभातस्त्वमात्मा जगदीश्वरः॥
अनुवाद (हिन्दी)
आप स्वयंप्रकाश हैं। इसका कारण यह है कि आप परम रहस्यमय ब्रह्मतत्त्व हैं। जितने भी देवता, मनुष्य, पशु, पक्षी आदि सत् अथवा असत् चराचर प्राणी हैं—उनको जीवनदान देनेवाले आप ही हैं। आपके अतिरिक्त सृष्टि भी और कुछ नहीं है। क्योंकि आप आत्मा हैं। अनेक शक्तियोंके द्वारा आप ही जगत् रूपमें भी प्रतीत हो रहे हैं। क्योंकि आप ईश्वर हैं, सर्वसमर्थ हैं॥ २४॥
वीरराघवः
गुह्यम् औपनिषदं परमं सद्-असद्-भावनं चिद्-अचिद्-रूप-पदार्थ-भावनं परं ब्रह्मत्वम् एव । “ब्रह्म दृष्टिर् उत्कर्षात्” (ब्र.सू. 4-1-5) इति न्यायेन एवं विषाद्-भीताः स्तुवन्ति, अत एव ब्रह्मत्वेन स्तुतम् अप्य् आत्मानम् अब्रह्म-भूतं ज्ञात्वा वक्ष्यति रुद्रः- “अहो बत । भवान्य् एतत् प्रजानां पश्य वैशसम् ……. पुंसः कृपयतो भद्रे ! सर्वात्मा प्रीयते हरिः प्रीते हरौ भगवति” (भाग 8-7-37 & 40) इति । आपन्नानाम् अब्रह्मणि मयि ब्रह्मत्वेन स्तुतिं पश्येति भवान्यै दर्शयित्वा अवश्यं भूत-दयया भगवान् सर्वान्तर् आत्मा पर-ब्रह्म-भूतः तुष्यतीति वक्ष्यति । तस्मात् न रुद्रे परत्व-भ्रमः कार्यः । तस्माद् रुद्र-शरीरक-परमात्म-गताः सर्वे चैतत्-प्रकरणोदिता धर्माः इत्य् अवगन्तव्यम् “भूयसां स्याद् बलीयस्त्वम्” इति न्यायेन भगवत्-पारम्यस्य प्रायशो ऽस्मिन् पुराणे प्रतिपादनात् । नाना-शक्तिभिर् आभातश् चिद्-अचित्-कालादि-शक्ति-विशिष्टतया ऽऽभातः प्रपञ्चस् त्वम् एव जगदीश्वरस् तद् अन्तर् आत्मा च त्वम् एव ॥ २४ ॥
श्लोक-२५
विश्वास-प्रस्तुतिः
त्वं शब्दयोनिर्जगदादिरात्मा
प्राणेन्द्रियद्रव्यगुणस्वभावः।
कालः क्रतुः सत्यमृतं च धर्म-
स्त्वय्यक्षरं यत् त्रिवृदामनन्ति॥
मूलम्
त्वं शब्दयोनिर्जगदादिरात्मा प्राणेन्द्रियद्रव्यगुणस्वभावः।
कालः क्रतुः सत्यमृतं च धर्मस्त्वय्यक्षरं यत् त्रिवृदामनन्ति॥ २५ ॥
अनुवाद (हिन्दी)
समस्त वेद आपसे ही प्रकट हुए हैं। इसलिये आप समस्त ज्ञानोंके मूल स्रोत स्वतःसिद्ध ज्ञान हैं। आप ही जगत्के आदिकारण महत्तत्त्व और त्रिविध अहंकार हैं एवं आप ही प्राण, इन्द्रिय, पंचमहाभूत तथा शब्दादि विषयोंके भिन्न-भिन्न स्वभाव और उनके मूल कारण हैं। आप स्वयं ही प्राणियोंकी वृद्धि और ह्रास करनेवाले काल हैं, उनका कल्याण करनेवाले यज्ञ हैं एवं सत्य और मधुर वाणी हैं। धर्म भी आपका ही स्वरूप है। आप ही ‘अ, उ, म्’ इन तीनों अक्षरोंसे युक्त प्रणव हैं अथवा त्रिगुणात्मिका प्रकृति हैं—ऐसा वेदवादी महात्मा कहते हैं॥ २५॥
वीरराघवः
52त्वम् एव शब्द-योनिः शास्त्र-प्रमाणकः जगद्-आदिः जगत्-कारण-भूतः आत्मा “आत्मन आकाशस् सम्भूतः” (तैत्ति. उ. 2-1-1) इत्युक्तस् त्वम् एव द्रव्यं भूत-पञ्चकं स्व-भावो विशेषणं प्राणेन्द्रिय-द्रव्य-गुण-स्व-भावः प्राणादि-विशेषणवान् इत्य् अर्थः । कालादि-शरीरकश् च त्वम् एव । त्वच्-छरीरको यः परमात्मा स एव कालादि-शरीरक इति तात्पर्यं, सत्यम् ऋतं “ऋतं सत्यं परं ब्रह्म” (म.ना.उ. 10-10) इत्य्-उक्तं निर्विकारं सर्वान्तरात्म-भूतं ब्रह्म त्वम् एवेत्य् अर्थः, धर्मः धर्म-शरीरकस् तद्-आराध्यो वा त्वम् एव । त्रिवृत्-त्रयाणां वृत्-वर्तनं यस्मिंस् तत् । अकारोकारम्-अकारात्मकम् अक्षरं प्रणवं त्वय्य् एवामनन्ति त्वद्-विषयकम् एवामनन्तीत्य् अर्थः ॥ २५ ॥
श्लोक-२६
विश्वास-प्रस्तुतिः
अग्निर्मुखं तेऽखिलदेवतात्मा
क्षितिं विदुर्लोकभवाङ्घ्रिपङ्कजम्।
कालं गतिं तेऽखिलदेवतात्मनो
दिशश्च कर्णौ रसनं जलेशम्॥
मूलम्
अग्निर्मुखं तेऽखिलदेवतात्मा क्षितिं विदुर्लोकभवाङ्घ्रिपङ्कजम्।
53कालं गतिं तेऽ53खिलदेवता54त्मन् दिशश्च कर्णौ 55रसनां जले56शम्॥ २६ ॥
अनुवाद (हिन्दी)
सर्वदेवस्वरूप अग्नि आपका मुख है। तीनों लोकोंके अभ्युदय करनेवाले शंकर! यह पृथ्वी आपका चरणकमल है। आप अखिल देवस्वरूप हैं। यह काल आपकी गति है, दिशाएँ कान हैं और वरुण रसनेन्द्रिय है॥ २६॥
वीरराघवः
विराड्-रूपं स्तुवन्ति - अग्निर् इति । अखिल-देवतात्मा “अग्निस् सर्वा देवता” इति सर्व-देवतामयत्वेन श्रुतो ऽग्निस् ते तव मुखम् क्षितिं पृथ्वीं हे लोकभव ! तवाङ्घ्रि-पङ्कजं 57पादपद्मं57 विदुः । कालं तु अखिल-देवतात्मनः तव गतिं विदुः । तथा दिशस् तव कर्णौ 58विदुः । जलेशं वरुणं तव रसनं 59जिह्वां विदुः ॥ २६ ॥
श्लोक-२७
विश्वास-प्रस्तुतिः
नाभिर्नभस्ते श्वसनं नभस्वान्
सूर्यश्च चक्षूंषि जलं स्म रेतः।
परावरात्माश्रयणं तवात्मा
सोमो मनो द्यौर्भगवञ्छिरस्ते॥
मूलम्
नाभिर्नभस्ते श्वसनं नभस्वान् सूर्यश्च चक्षूंषि जलं स्म रेतः।
परा60वरात्माश्रयणं तवात्मा सोमो मनो द्यौर्भगवञ्छिरस्ते॥ २७ ॥
अनुवाद (हिन्दी)
आकाश नाभि है, वायु श्वास है, सूर्य नेत्र हैं और जल वीर्य है। आपका अहंकार नीचे-ऊँचे सभी जीवोंका आश्रय है। चन्द्रमा मन है और प्रभो! स्वर्ग आपका सिर है॥ २७॥
वीरराघवः
नभ 61आकाशस् तव नाभिः, नमस्वान् वायुः, तव 62श्वसनं श्वासः, सूर्यस् तव चक्षूंषि नेत्राणि, जलं तव रेतः, तवात्मा परे ऽवरे च ये आत्मानो जीवास् तेषाम् आश्रयणम् आश्रयः आधारः सोमश् चन्द्रस् तव मनः, हे भगवन् ! द्यौः 63स्वर्लोकस् तव शिरः ॥ २७ ॥
श्लोक-२८
विश्वास-प्रस्तुतिः
कुक्षिः समुद्रा गिरयोऽस्थिसङ्घा
रोमाणि सर्वौषधिवीरुधस्ते।
छन्दांसि साक्षात् तव सप्त धातव-
स्त्रयीमयात्मन् हृदयं सर्वधर्मः॥
मूलम्
कुक्षिः समुद्रा गिरयोऽस्थिसङ्घा रोमाणि सर्वौषधिवीरुधस्ते।
छन्दांसि साक्षात् तव सप्त धातवस्त्रयीमयात्मन् हृदयं 64स धर्मः॥ २८ ॥
अनुवाद (हिन्दी)
वेदस्वरूप भगवन्! समुद्र आपकी कोख हैं। पर्वत हड्डियाँ हैं। सब प्रकारकी ओषधियाँ और घास आपके रोम हैं। गायत्री आदि छन्द आपकी सातों धातुएँ हैं और सभी प्रकारके धर्म आपके हृदय हैं॥ २८॥
वीरराघवः
समुद्रास् तव कुक्षिः, गिरयः पर्वतास् तु अस्थि-समुदायाः सर्वा ओषधयो वीरुधश् च तव रोमाणि, छन्दांसि गायत्र्य् आदीनि साक्षात् तव सप्त धातवः । हे त्रयीमयात्मन् ! वेद-प्रचुर-मूर्ते ! स प्रसिद्धो वेदोदितो धर्मः तव हृदयम् ॥ २८ ॥
श्लोक-२९
विश्वास-प्रस्तुतिः
मुखानि पञ्चोपनिषदस्तवेश
यैस्त्रिंशदष्टोत्तरमन्त्रवर्गः।
यत् तच्छिवाख्यं परमार्थतत्त्वं
देव स्वयंज्योतिरवस्थितिस्ते॥
मूलम्
मुखानि पञ्चोपनि65षदस्तवेश यैस्त्रिंशदष्टोत्तरमन्त्रवर्गः।
य66त् तच्छिवाख्यं पर67मात्मतत्त्वं देव स्वयंज्योतिरवस्थितिस्ते॥ २९ ॥
अनुवाद (हिन्दी)
स्वामिन्! सद्योजातादि पाँच उपनिषद् ही आपके तत्पुरुष, अघोर, सद्योजात, वामदेव और ईशान नामक पाँच मुख हैं। उन्हींके पदच्छेदसे अड़तीस कलात्मक मन्त्र निकले हैं। आप जब समस्त प्रपंचसे उपरत होकर अपने स्वरूपमें स्थित हो जाते हैं, तब उसी स्थितिका नाम होता है ‘शिव’। वास्तवमें वही स्वयंप्रकाश परमार्थतत्त्व है॥ २९॥
वीरराघवः
हे ईश ! पञ्चोपनिषदः तत्-पुरुषाघोर-सद्योजात-वाम-देवेशानात्म68काः, पञ्चानुवाकास् तव मुखानि मुख-व्यापारात्मका इत्य् अर्थः । मुखानि विशिनष्टि - यैर् मुखैः त्रिंशद्-अष्टोत्तर-मन्त्र-वर्गाः अष्टोत्तर-त्रिंशन्-मन्त्र-वर्गाः तेषाम् एव मन्त्राणां परिच्छेदेन अष्टोत्तर-त्रिंशत्-कलात्मका-मन्त्रा इत्य् अर्थः । हे देव ! यत्-स्व-प्रकाशं शिवाख्यं “पतिं विश्वस्यात्मेश्वरं शाश्वतं शिवम् अच्युतम्” (म.ना.उ. 9,3) इति प्रसिद्धं परमात्म-तत्त्वं तत् ते तवा ऽवस्थितिः स्व-स्थानं परमात्म-शरीरत्वेन तद्-अपृथक्-सिद्धत्वेन अवस्थितिः त्वम् 69इति तात्पर्यम् ॥ २९ ॥
श्लोक-३०
विश्वास-प्रस्तुतिः
छाया त्वधर्मोर्मिषु यैर्विसर्गो
नेत्रत्रयं सत्त्वरजस्तमांसि।
सांख्यात्मनः शास्त्रकृतस्तवेक्षा
छन्दोमयो देव ऋषिः पुराणः॥
मूलम्
छाया त्वधर्मो70र्मिषु यैर्विसर्गो नेत्रत्रयं सत्त्वरजस्तमांसि।
71साक्षान्मनुश्शास्त्रकृतस्तवेक्षा छन्दोमयो 72देव ऋषिः पुराणः॥ ३० ॥
अनुवाद (हिन्दी)
अधर्मकी दम्भ-लोभ आदि तरंगोंमें आपकी छाया है जिनसे विविध प्रकारकी सृष्टि होती है, वे सत्त्व, रज और तम—आपके तीन नेत्र हैं। प्रभो! गायत्री आदि छन्दरूप सनातन वेद ही आपका विचार है। क्योंकि आप ही सांख्य आदि समस्त शास्त्रोंके रूपमें स्थित हैं और उनके कर्ता भी हैं॥ ३०॥
वीरराघवः
अधर्मस्योर्मिषु दम्भ-लोभादिषु तव छाया अप्रकाशः अधर्मोमयस् तव छायाभूता इत्य् अर्थः । यैस् सत्त्वादिभिः गुणैः विसर्गः प्रपञ्च-सृष्टिः तानि सत्त्व-रजस्-तमांसि तव नेत्र-त्रयम् । हे देव! छन्दोमयः गायत्र्यादि-छन्दः-प्रचुरः पुरातनः ऋषिर्-वेदः साक्ष्यात्मनः सर्वज्ञस्या ऽत्मनः शास्त्र-प्रणेतुस् ईक्षा ईक्षणं 73ज्ञानम् इत्य् अर्थः73 ॥ ३० ॥
श्लोक-३१
विश्वास-प्रस्तुतिः
न ते गिरित्राखिललोकपाल-
विरिञ्चवैकुण्ठसुरेन्द्रगम्यम्।
ज्योतिः परं यत्र रजस्तमश्च
सत्त्वं न यद् ब्रह्म निरस्तभेदम्॥
मूलम्
न ते गिरित्राखिललोकपालविरिञ्चवैकुण्ठसुरेन्द्रगम्यम्।
ज्योतिः परं यत्र रजस्तमश्च सत्त्वं न यद् ब्रह्म निरस्तभेदम्॥ ३१ ॥
अनुवाद (हिन्दी)
भगवन्! आपका परम ज्योतिर्मय स्वरूप स्वयं ब्रह्म है। उसमें न तो रजोगुण, तमोगुण एवं सत्त्वगुण हैं और न किसी प्रकारका भेदभाव ही। आपके उस स्वरूपको सारे लोकपाल—यहाँतक कि ब्रह्मा, विष्णु और देवराज इन्द्र भी नहीं जान सकते॥ ३१॥
वीरराघवः
हे गिरित्र ! हे अखिल-लोकपाल ! ते तव परं ज्योतिः स्व-प्रकाशं स्व-रूपं विरिञ्च्य्-आदिभिर् गम्यं न भवति, वैकुण्ठः उपेन्द्रः सुरेन्द्रः सुरेन्द्र-समभिव्याहारात् तस्या ऽप्य् अगम्यत्वम् इति स्तुतिः । यद् वा, अस्य प्रकरणस्य रुद्र-शरीरक-परमात्म-स्तुति-परत्वात् परमात्म-स्व-रूपस्य अपरिच्छिन्नत्वेन तेना ऽपीयत्तया ऽवगन्तुम् अशक्यत्वात् - वैकुण्ठेना ऽप्य् अगम्यत्वम् उक्तम् । ज्योतिर् विशिनष्टि - यत्र ज्योतिषि रज-आदयः प्राकृत-गुणाः न सन्ति यद् ब्रह्म यच् च निरस्त-देव-मनुष्यादि-भेदम् ॥ ३१ ॥
श्लोक-३२
विश्वास-प्रस्तुतिः
कामाध्वरत्रिपुरकालगराद्यनेक-
भूतद्रुहः क्षपयतः स्तुतये न तत् ते।
यस्त्वन्तकाल इदमात्मकृतं स्वनेत्र-
वह्निस्फुलिङ्गशिखया भसितं न वेद॥
मूलम्
कामाध्वरत्रिपुरकाल74गराद्यनेकभूतद्रुहः क्षपयतः स्तुतये न तत् ते।
75यस्त्वन्तकाल इदमात्मकृतं स्वनेत्रवह्निस्फुलिङ्गशिखया भसितं 76न वेद॥ ३२ ॥
अनुवाद (हिन्दी)
आपने कामदेव, दक्षके यज्ञ, त्रिपुरासुर और कालकूट विष (जिसको आप अभी-अभी अवश्य पी जायँगे) और अनेक जीवद्रोही असुरोंको नष्ट कर दिया है। परन्तु यह कहनेसे आपकी कोई स्तुति नहीं होती। क्योंकि प्रलयके समय आपका बनाया हुआ यह विश्व आपके ही नेत्रसे निकली हुई आगकी चिनगारी एवं लपटसे जलकर भस्म हो जाता है और आप इस प्रकार ध्यानमग्न रहते हैं कि आपको इसका पता ही नहीं चलता॥ ३२॥
वीरराघवः
कामश् चाध्वरश् च दक्षश् च त्रि-पुरादयश् च ये ऽनेक-भूत-द्रुहः तान् क्षपयतः संहरतस् ते तव स्तुतये तत्-कामादि-क्षपणात्मकं कर्म न भवति, तत्-कर्मत्वत्-स्तुतये न भवति । अत्यल्पम् एतद् इत्य् अर्थः । तद् एव वक्तुं विशिनष्टि - यो भवांस् तु आत्म-कृतं स्व-सृष्टम् इदं जगत् अन्त-काले स्व-नेत्र-वह्नि-स्फुलिङ्गस्य शिखया भसितं भस्मसाज् जातं न वेद न जानातीत्य् अर्थः ॥ ३२ ॥
श्लोक-३३
विश्वास-प्रस्तुतिः
ये त्वात्मरामगुरुभिर्हृदि चिन्तिताङ्घ्रि-
द्वन्द्वं चरन्तमुमया तपसाभितप्तम्।
कत्थन्त उग्रपरुषं निरतं श्मशाने
ते नूनमूतिमविदंस्तव हातलज्जाः॥
मूलम्
ये त्वात्मरामगुरुभिर्हृदि चिन्तिताङ्घ्रिद्वन्द्वं चरन्तमुमया तप77साभितप्तम्।
78कत्थन्त उग्र79परुषं 80निरतं श्मशाने ते 81नूनमूतिमविदंस्तव81 हा82तलज्जाः॥ ३३ ॥
अनुवाद (हिन्दी)
जीवन्मुक्त आत्माराम पुरुष अपने हृदयमें आपके युगल चरणोंका ध्यान करते रहते हैं तथा आप स्वयं भी निरन्तर ज्ञान और तपस्यामें ही लीन रहते हैं। फिर भी सतीके साथ रहते देखकर जो आपको आसक्त एवं श्मशानवासी होनेके कारण उग्र अथवा निष्ठुर बतलाते हैं—वे मूर्ख आपकी लीलाओंका रहस्य भला क्या जानें। उनका वैसा कहना निर्लज्जतासे भरा है॥ ३३॥
वीरराघवः
एवम्भूतं त्वां ये निन्दन्ति ते मूर्खा इत्याह - ये त्व् इति । ये तु त्वां उमया भवान्या सह चरन्तं नितरां कामिनं कत्थन्ते प्रलपन्ति । तथा श्मशाने चरन्तम् उग्रं क्रूरं परुषं हिंस्रञ् च कत्थन्ते । कथम्भूतम् ? आत्मारामाश् च ये गुरवो विश्व-हितोपदेष्टारः तैर् हृदि-चिन्तितम् अङ्घ्रि-द्वन्द्वं यस्य तथाभूतम् अपि तपसा ऽभितप्तं ते नूनं तव ऊतिम्, अविदन् इति काकुः । त्वद् ईहितं नैव विदुर् इत्य् अर्थः । अतस् ते हात-लज्जाः गत-त्रपाः यानि कानिचित् त्वन्-निन्दा-वचनानि तेषां निन्दा-न्यायेन इतर-स्तुतौ तात्पर्यम् इति भावः ॥ ३३ ॥
श्लोक-३४
विश्वास-प्रस्तुतिः
तत् तस्य ते सदसतोः परतः परस्य
नाञ्जःस्वरूपगमने प्रभवन्ति भूम्नः।
ब्रह्मादयः किमुत संस्तवने वयं तु
तत्सर्गसर्गविषया अपि शक्तिमात्रम्॥
मूलम्
तत् तस्य ते सदसतोः परतः परस्य 83नाञ्जस्स्वरूपगमने प्रभवन्ति भूम्नः।
ब्रह्मादयः किमुत संस्तवने वयं तु तत्सर्गसर्गविषया अपि 84शक्तिमात्रम्॥ ३४ ॥
अनुवाद (हिन्दी)
इस कार्य और कारणरूप जगत्से परे माया है और मायासे भी अत्यन्त परे आप हैं। इसलिये प्रभो! आपके अनन्त स्वरूपका साक्षात् ज्ञान प्राप्त करनेमें सहसा ब्रह्मा आदि भी समर्थ नहीं होते, फिर स्तुति तो कर ही कैसे सकते हैं। ऐसी अवस्थामें उनके पुत्रोंके पुत्र हमलोग कह ही क्या सकते हैं। फिर भी अपनी शक्तिके अनुसार हमने आपका कुछ गुणगान किया है॥ ३४॥
वीरराघवः
एवम्भूतं त्वां ब्रह्मादयो बोद्धुम् एव न प्रभवः, किं पुनः स्तोतुम् वयन् तु न सुतरां प्रभव इत्य् आहुः - तद् इति । तत् तस्मात् उक्त-विधत्वात् तव सत्-असतोः चिद्-अचितोः कार्यावस्थयोः परतः कारणावस्थयोश् च परस्य विलक्षणस्य भूम्नो व्यापकस्य ते तव स्व-रूपावगमने स्व-रूपावबोधने ब्रह्मादयो ऽप्य् अञ्जसा न प्रभवन्ति किम् उत संस्तवने न प्रभवन्तीति तत्र वयं कथं प्रभवेम? कुतः यतस् तेषां सर्ग-सर्ग-विषयाः वयं तत्-सृष्ट-सृष्टाः वयम् इत्य् अर्थः । अतो यद् एतत् त्वत्-स्तवनम् 85अपि अस्मच्-छक्ति-मात्रं शक्त्य्-अनुसार-मात्रेण कृतम् इत्य् अर्थः ॥ ३४ ॥
श्लोक-३५
विश्वास-प्रस्तुतिः
एतत् परं प्रपश्यामो न परं ते महेश्वर।
मृडनाय हि लोकस्य व्यक्तिस्तेऽव्यक्तकर्मणः॥
मूलम्
एतत् परं प्रपश्यामो 86न परं ते महेश्वर।
मृडनाय हि लोकस्य व्यक्तिस्तेऽव्यक्तकर्मणः॥ ३५ ॥
अनुवाद (हिन्दी)
हमलोग तो केवल आपके इसी लीलाविहारी रूपको देख रहे हैं। आपके परम स्वरूपको हम नहीं जानते। महेश्वर! यद्यपि आपकी लीलाएँ अव्यक्त हैं, फिर भी संसारका कल्याण करनेके लिये आप व्यक्तरूपसे भी रहते हैं॥ ३५॥
वीरराघवः
नन्व् एते सर्वे धर्मास् त्वद्-उक्ताः परमात्मा-साधारणाः, अहन् तु पुण्योपचिताधिकार-विशेष-भाक् कश्चिज्-जीव इत्य् अत्रा ऽऽहुः - एतद् इति । हे परमेश्वर ! ते त्वत्तः परम् उत्कृष्टम् अपरम् अधमञ् च तत्त्वं न पश्यामः न जानीमः । किन्तु लोकस्य मृडनाय सुखापादनाय तत्रा ऽव्यक्त-कर्मणो व्यक्तिर् इत्य् एतत् तु जानीम इत्य् अर्थः । 87नूनं भवान्87 परमात्मा भवतु मा वा सर्वस्यापि चिद्-अचिद्-आत्मकस्य जगतस् तद् आत्मकत्वात् तद्-आयत्त-सत्तादि-मत्त्वेन विना स्व-निष्ठ-स्व-रूप-स्व-भावयोर् अभावात् तत्-दृष्ट्या तद्-धर्मैर् एव सर्वं वस्तु स्तोतव्यम् इत्य् एव तुष्टुवमेति 88भावः ॥ ३५ ॥
श्लोक-३६
मूलम् (वचनम्)
श्रीशुक उवाच
विश्वास-प्रस्तुतिः
तद्वीक्ष्य व्यसनं तासां कृपया भृशपीडितः।
सर्वभूतसुहृद् देव इदमाह सतीं प्रियाम्॥
मूलम्
तद्वीक्ष्य व्यसनं तासां कृपया भृशपीडितः।
सर्वभूतसुहृद् देव इदमाह सतीं प्रियाम्॥ ३६ ॥
अनुवाद (हिन्दी)
श्रीशुकदेवजी कहते हैं—परीक्षित्! प्रजाका यह संकट देखकर समस्त प्राणियोंके अकारण बन्धु देवाधिदेव भगवान् शंकरके हृदयमें कृपावश बड़ी व्यथा हुई। उन्होंने अपनी प्रिया सतीसे यह बात कही॥ ३६॥
वीरराघवः
89एवम् उक्तो देवः प्रियाम् आहेत्य् आह शुकः - तद् इति89 । एवं भृशम् अधिकम् ईडितः स्वस्मिन् अविद्यमानैर् अपि परमात्मा-साधारणैर्-गुणैर् ईडितः स्तुतो देवो रुद्रः तासां प्रजानां तत्-कालकूटाद् उपस्थितं व्यसनं दुःखं वीक्ष्य सर्व-भूत-सुहृत् प्रियां सतीं भवानीम् इदं वक्ष्यमाणम् आह ॥ ३६ ॥
श्लोक-३७
मूलम् (वचनम्)
90श्रीशिव उवाच
विश्वास-प्रस्तुतिः
अहो बत भवान्येतत् प्रजानां पश्य वैशसम्।
क्षीरोदमथनोद्भूतात् कालकूटादुपस्थितम्॥
मूलम्
अहो बत भवान्येतत् प्रजानां पश्य वैशसम्।
क्षीरोदमथनोद्भूतात् कालकूटादुपस्थितम्॥ ३७ ॥
अनुवाद (हिन्दी)
शिवजीने कहा—देवि! यह बड़े खेदकी बात है। देखो तो सही, समुद्रमन्थनसे निकले हुए कालकूट विषके कारण प्रजापर कितना बड़ा दुःख आ पड़ा है॥ ३७॥
वीरराघवः
विष-पाने प्रवृत्तं मां इयं प्रिया वारयेद् इति शङ्कया तां मनु-ज्ञापयन्न् - अहो इति सार्धैश् चतुर्भिः । हे भवानि ! अहो बत, महत्-कष्टम् एतत् प्रजानां वैशसं दुःखं पश्य । वैशसं विशिनष्टि - क्षीराब्धेर् मथनात् - यद् उद्भूतं कालकूटाख्यं विषं तस्मात् समुपास्थितं सम्प्राप्तम्91 ॥ ३७ ॥
श्लोक-३८
विश्वास-प्रस्तुतिः
आसां प्राणपरीप्सूनां विधेयमभयं हि मे।
एतावान्हि प्रभोरर्थो यद् दीनपरिपालनम्॥
अनुवाद (हिन्दी)
ये बेचारे किसी प्रकार अपने प्राणोंकी रक्षा करना चाहते हैं। इस समय मेरा यह कर्तव्य है कि मैं इन्हें निर्भय कर दूँ। जिनके पास शक्ति-सामर्थ्य है, उनके जीवनकी सफलता इसीमें है कि वे दीन-दुःखियोंकी रक्षा करें॥ ३८॥
वीरराघवः
प्राण-परीप्सूनां जिजीविषूणां आसां प्रजानां मे मया अभयं विधेयं हि, यस्मात् प्रभोः समर्थस्यार्थः कर्तव्य-प्रयोजनम् एतावान् एव कियान् यद् धीनानां परिपालनम् इत्य् एतावान् एव ॥ ३८ ॥
श्लोक-३९
विश्वास-प्रस्तुतिः
प्राणैः स्वैः प्राणिनः पान्ति साधवः क्षणभङ्गुरैः।
बद्धवैरेषु भूतेषु मोहितेष्वात्ममायया॥
मूलम्
प्राणैः स्वैः प्राणिनः पान्ति साधवः क्षणभङ्गुरैः।
बद्धवैरेषु भूतेषु मोहितेष्वात्ममायया॥ ३९ ॥
अनुवाद (हिन्दी)
सज्जन पुरुष अपने क्षणभंगुर प्राणोंकी बलि देकर भी दूसरे प्राणियोंके प्राणकी रक्षा करते हैं। कल्याणि! अपने ही मोहकी मायामें फँसकर संसारके प्राणी मोहित हो रहे हैं और एक-दूसरेसे वैरकी गाँठ बाँधे बैठे हैं॥ ३९॥
वीरराघवः
तथाहि साधवः क्षण-भङ्गुरैः हेतु-गर्भम् इदं, स्वैः स्वकीयैः प्राणैः प्राणिनः पान्ति रक्षन्ति, किं प्राणि-रक्षयेत्य् अत आह - आत्म-मायया भगवन्-मायया मोहितेषु अत एव परस्परं बद्ध-वैरेषु भूतेषु ॥ ३९ ॥
श्लोक-४०
विश्वास-प्रस्तुतिः
पुंसः कृपयतो भद्रे सर्वात्मा प्रीयते हरिः।
प्रीते हरौ भगवति प्रीयेऽहं सचराचरः।
तस्मादिदं गरं भुञ्जे प्रजानां स्वस्तिरस्तु मे॥
मूलम्
पुंसः कृपयतो भद्रे सर्वात्मा प्रीयते हरिः।
प्रीते हरौ भगवति प्रीयेऽहं सचराचरः।
तस्मादिदं गरं भुञ्जे प्रजानां स्वस्तिरस्तु मे॥ ४० ॥
अनुवाद (हिन्दी)
उनके ऊपर जो कृपा करता है, उसपर सर्वात्मा भगवान् श्रीकृष्ण प्रसन्न होते हैं और जब भगवान् प्रसन्न हो जाते हैं, तब चराचर जगत्के साथ मैं भी प्रसन्न हो जाता हूँ। इसलिये अभी-अभी मैं इस विषको भक्षण करता हूँ, जिससे मेरी प्रजाका कल्याण हो॥ ४०॥
वीरराघवः
कृपयतः कृपां कुर्वतः पुंसः हे भद्रे ! सर्वान्तर् आत्मा भगवान् प्रीयते । किं तत्-प्रीत्या? अत आह - षाड्गुण्य-पूर्णे हरौ प्रीते सति सचराचरो ऽहम् अपि प्रीये नितराम् आनन्द-युक्तो भवामि । तस्माद् इदं गरं विषं भुञ्जे भोक्ष्ये मे मत्तः प्रजानां स्वस्तिर् अस्तु । अयम् अनव्ययः स्वस्ति-शब्दः सुखार्थकः । अत एव प्रयोगात् । “दैवी स्वस्तिर् अस्तु नः” (पु.सू. शान्ति पाठः 7) इत्य्-आदि श्रुति-प्रयोगाच् च ॥ ४० ॥
श्लोक-४१
मूलम् (वचनम्)
श्रीशुक उवाच
विश्वास-प्रस्तुतिः
एवमामन्त्र्य भगवान् भवानीं विश्वभावनः।
तद् विषं जग्धुमारेभे प्रभावज्ञान्वमोदत॥
अनुवाद (हिन्दी)
श्रीशुकदेवजी कहते हैं—विश्वके जीवनदाता भगवान् शंकर इस प्रकार सती देवीसे प्रस्ताव करके उस विषको खानेके लिये तैयार हो गये। देवी तो उनका प्रभाव जानती ही थीं, उन्होंने हृदयसे इस बातका अनुमोदन किया॥ ४१॥
वीरराघवः
एवम् इत्थं भवानीम् आमन्त्र्य-ऽनुज्ञाप्य विश्व-सुख-करो भगवान् रुद्रः तद्-विषं जग्धुम् अत्तुम् आरेभे । तत्-प्रभावज्ञा भवानी अन्वमोदत अनुमोदितवती ॥ ४१ ॥
श्लोक-४२
विश्वास-प्रस्तुतिः
ततः करतलीकृत्य व्यापि हालाहलं विषम्।
अभक्षयन्महादेवः कृपया भूतभावनः॥
मूलम्
ततः करतलीकृत्य व्यापि हालाहलं विषम्।
अभक्षयन्महादेवः कृपया भूतभावनः॥ ४२ ॥
अनुवाद (हिन्दी)
भगवान् शंकर बड़े कृपालु हैं। उन्हींकी शक्तिसे समस्त प्राणी जीवित रहते हैं। उन्होंने उस तीक्ष्ण हालाहल विषको अपनी हथेलीपर उठाया और भक्षण कर गये॥ ४२॥
वीरराघवः
ततः तद्-अनुमोदनानन्तरं सर्वतो व्यापि हालाहलाख्यं विषं करतली-कृत्य कर-तल-मात्र-परिमितं कृत्वा भूत-सुख-करो महा-देवः कृपया अभक्षयत् ॥ ४२ ॥
श्लोक-४३
विश्वास-प्रस्तुतिः
तस्यापि दर्शयामास स्ववीर्यं जलकल्मषः।
यच्चकार गले नीलं तच्च साधोर्विभूषणम्॥
अनुवाद (हिन्दी)
वह विष जलका पाप—मल था। उसने शंकरजीपर भी अपना प्रभाव प्रकट कर दिया, उससे उनका कण्ठ नीला पड़ गया, परन्तु वह तो प्रजाका कल्याण करनेवाले भगवान् शंकरके लिये भूषणरूप हो गया॥ ४३॥
वीरराघवः
जल-कल्मष-रूपं विषं स्व-वीर्यं स्व-बलं तस्यापि रुद्रस्यापि दर्शयामास, यस्मात् तं रुद्रं गले नीलं चकार । तच् च नैल्यं साधोः रुद्रस्य विशेषेण भूषणम् एवा ऽभूत् । जड-कल्मष इति पाठान्तरम् । तदा दुस्सहं विषं कथं जरयामासेत्य् अत्राह - जड-कल्मषः जडानाम् इतरेषाम् एव कल्मषो बाधकम् इत्य्-अर्थः ॥ ४३ ॥
श्लोक-४४
विश्वास-प्रस्तुतिः
तप्यन्ते लोकतापेन साधवः प्रायशो जनाः।
परमाराधनं तद्धि पुरुषस्याखिलात्मनः॥
मूलम्
तप्यन्ते लोकतापेन साधवः प्रायशो जनाः।
परमाराधनं तद्धि पुरुषस्याखिलात्मनः॥ ४४ ॥
अनुवाद (हिन्दी)
परोपकारी सज्जन प्रायः प्रजाका दुःख टालनेके लिये स्वयं दुःख झेला ही करते हैं। परन्तु यह दुःख नहीं है, यह तो सबके हृदयमें विराजमान भगवान्की परम आराधना है॥ ४४॥
वीरराघवः
कृपालूनाम् इयं परिपाटीत्य् आह - तप्यन्त इति । 98प्रायशः साधवः साधु कुर्वन्ति पर-कार्यम् इति साधवः, स्वार्थ-निरपेक्ष-परकार्य-प्रसाधन-स्व-भावाः जनाः प्रायशो लोक-तापेन स्वयम् अपि तप्यन्ते न तद् व्यर्थम्, अपि तु अखिलान्तर् आत्मनः परम-पुरुषस्या ऽऽराधनं तोष-हेतुः ॥ ४४ ॥
श्लोक-४५
विश्वास-प्रस्तुतिः
निशम्य कर्म तच्छम्भोर्देवदेवस्य मीढुषः।
प्रजा दाक्षायणी ब्रह्मा वैकुण्ठश्च शशंसिरे॥
मूलम्
निशम्य कर्म तच्छम्भोर्देवदेवस्य मीढुषः।
प्रजा दाक्षायणी ब्रह्मा वैकुण्ठश्च शशंसिरे॥ ४५ ॥
अनुवाद (हिन्दी)
देवाधिदेव भगवान् शंकर सबकी कामना पूर्ण करनेवाले हैं। उनका यह कल्याणकारी अद्भुत कर्म सुनकर सम्पूर्ण प्रजा, दक्षकन्या सती, ब्रह्माजी और स्वयं विष्णुभगवान् भी उनकी प्रशंसा करने लगे॥ ४५॥
वीरराघवः
मीढुषः आश्रिताशीर्-वर्षुकस्य शम्भोर् देवस्य तद्-विष-पान-रूपं कर्म श्रुत्वा प्रजाः दाक्षायणी भवानी ब्रह्मा च वैकुण्ठो भगवांश् च शशंसिरे प्रशंसितवन्तः99 ॥ ४५ ॥
श्लोक-४६
विश्वास-प्रस्तुतिः
प्रस्कन्नं पिबतः पाणेर्यत् किञ्चिज्जगृहुः स्म तत्।
वृश्चिकाहिविषौषध्यो दन्दशूकाश्च येऽपरे॥
मूलम्
प्रस्कन्नं पिबतः 100पाणेः यत् किञ्चिज्जगृहुः स्म तत्।
वृश्चिकाहिविषौषध्यो दन्दशूकाश्च येऽपरे॥
अनुवाद (हिन्दी)
जिस समय भगवान् शंकर विषपान कर रहे थे, उस समय उनके हाथसे थोड़ा-सा विष टपक पड़ा था। उसे बिच्छू, साँप तथा अन्य विषैले जीवोंने एवं विषैली ओषधियोंने ग्रहण कर लिया॥ ४६॥
अनुवाद (समाप्ति)
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायाम् अष्टमस्कन्धेऽमृतमथने सप्तमोऽध्यायः॥ ७ ॥
वीरराघवः
शम्भोर् विषं पिबतस् सतो यत्-किञ्चित्-प्रस्कन्नं गलितं विषं तत् वृश्चिकादयः प्राणैः जगृहुः । विषौषध्यः काक-तुण्ड-करवीरादयः दन्दशूकाः दंशन-स्व-भावाः अन्ये जन्तवः, सर्पाणाम् उक्तत्वात् ॥ ४६ ॥
इति श्रीमद्-भागवते अष्टम-स्कन्धे श्री-वीर-राघव-विदुषा-लिखितायां भागवत-चन्द्र-चन्द्रिकायां व्याख्यायां सप्तमो ऽध्यायः ॥ ७ ॥
-
M,Ma धाय ↩︎
-
A,B,T Omit तं ↩︎
-
A,B,G,J,T सं ↩︎
-
W Omits पूर्वं ↩︎
-
A,B,T दैत्या ↩︎
-
A,B,T निकृष्टं ↩︎
-
A,B,G,J,M,Ma,T स्त एवं ↩︎
-
A,B,G,J,T तार्थ ↩︎
-
H,V नाऽर्ण ↩︎
-
A यो ↩︎
-
A,B,G,J,M,Ma,T सु ↩︎
-
M,Ma गतिं ↩︎
-
A,B,G,J,M,Ma,T तदेश्वरो ↩︎
-
A,B,T add अपि ↩︎
-
W Omits उज्जहार ↩︎
-
A,B,G,J,M,Ma,T त्थि ↩︎
-
W वेग ↩︎
-
A,B,G,J,M,Ma,T तथा ↩︎
-
M,Ma णां वि ↩︎
-
H,V लेख ↩︎
-
H,V सृष्टः; M,Ma वृष्ट्या ↩︎
-
W Omits करणैः ↩︎
-
A,B,J गिरि ↩︎
-
W Omits समूहः ↩︎
-
M,Ma करालादि ↩︎
-
A,B,G,H,J,T,V द ↩︎
-
W Omits तथा ↩︎
-
W Omits नेत्राणि ↩︎
-
M,Ma माम्ब ↩︎
-
W न्मघ ↩︎
-
W इन्द्रवशाः ↩︎
-
H,V न ↩︎
-
H,V न्धो ↩︎
-
W कण्ठ ↩︎
-
H,V कण्ठः ↩︎
-
A,B,G,J,M,Ma,T धो धृ ↩︎
-
W ख्य ↩︎
-
M,Ma वीर्यम् ↩︎
-
M,Ma युतं ↩︎
-
जा ऊ ↩︎
-
A,B,G,J,M,Ma,T त ई ↩︎
-
A,B,G,J,T न ↩︎
-
M,Ma स ↩︎
-
W Omits त्वमेव ↩︎
-
A,B,G,J,M,Ma,T त्मनो ↩︎
-
A,B,G,J,M,Ma,T रसनं ↩︎
-
M,Ma शः ↩︎
-
W Omits विदुः ↩︎
-
W Omits जिह्वा ↩︎
-
H,V परा ↩︎
-
W Omits आकाशः ↩︎
-
W Omits श्वसन ↩︎
-
W Omits स्वर्लोकः ↩︎
-
A,B,G,J,T सर्वधर्मः ↩︎
-
M,Ma षत्तवे ↩︎
-
H,V चिदाख्यं ↩︎
-
A,B,G,J,T मार्थ ↩︎
-
A,B,T क ↩︎
-
A,B,T तः ↩︎
-
M,Ma र्मृडयै ↩︎
-
A,B,G,J,T साख्यात्मनः; W साक्ष्यात्मन ↩︎
-
W वेद ↩︎
-
M,Ma ह ↩︎
-
M,Ma यत्त्व ↩︎
-
M,Ma तवेश । ↩︎
-
M,Ma से ↩︎
-
M,Ma कथ्यन्त ↩︎
-
M,Ma वपु ↩︎
-
H,V नितरां ↩︎
-
H,M,Ma,V हीन ↩︎
-
M,Ma नाऽन्तः ↩︎
-
M,Ma भक्ति ↩︎
-
W Omits अपि ↩︎
-
W नाऽप ↩︎
-
A,B,J Omit भाव ↩︎
-
H,M,Ma,V,W Omit ↩︎
-
A,B,J add इत्यर्थः । ↩︎
-
A,B,G,J,M,Ma,T मे । ↩︎
-
H,V वांश्च ↩︎
-
A,B,G,J,M,Ma,T पालनम् ↩︎
-
M,Ma गत ↩︎
-
A,B,G,J,M,Ma,T षः ↩︎
-
W Omits प्रायशः ↩︎
-
A,B,T add इत्यर्थः ↩︎
-
W प्राणै ↩︎