[षष्ठोऽध्यायः]
भागसूचना
देवताओं और दैत्योंका मिलकर समुद्रमन्थनके लिये उद्योग करना
श्लोक-१
विश्वास-प्रस्तुतिः
एवं स्तुतः सुरगणैर्भगवान् हरिरीश्वरः।
तेषामाविरभूद् राजन् सहस्रार्कोदयद्युतिः॥
मूलम्
एवं स्तुतः सुरगणैर्भगवान् हरिरीश्वरः।
तेषामाविरभूद् राजन् सहस्रार्कोदयद्युतिः॥ १ ॥
अनुवाद (हिन्दी)
श्रीशुकदेवजी कहते हैं—परीक्षित्! जब देवताओंने सर्वशक्तिमान् भगवान् श्रीहरिकी इस प्रकार स्तुति की, तब वे उनके बीचमें ही प्रकट हो गये। उनके शरीरकी प्रभा ऐसी थी, मानो हजारों सूर्य एक साथ ही उग गये हों॥ १॥
वीरराघवः
एवं संस्तुतो भगवान् आविर्बभूवेत्य् आह मुनिः - एवम् इति । हे राजन् । इत्थं 1संस्तुतः सम्यक्-स्तुतः हरिर् ईश्वरो भगवान् सहस्राणाम् अर्काणाम् सूर्याणाम् उदये द्युतिर् इव 2द्युतिर् यस्य सः । अभूतोपमेयम् तेषां ब्रह्मादीनाम्, पुर इति शेषः । आविर्बभूव 3प्रकटो ऽभूत्3 ॥ १ ॥
श्लोक-२
विश्वास-प्रस्तुतिः
तेनैव महसा सर्वे देवाः प्रतिहतेक्षणाः।
नापश्यन्खं दिशः क्षोणिमात्मानं च कुतो विभुम्॥
अनुवाद (हिन्दी)
भगवान्की उस प्रभासे सभी देवताओंकी आँखें चौंधिया गयीं। वे भगवान्को तो क्या—आकाश, दिशाएँ, पृथ्वी और अपने शरीरको भी न देख सके॥ २॥
वीरराघवः
तेन महसा तेजसा प्रतिहतानि ईक्षणानि येषां ते, सर्वे देवाः स्वादीनेवना ऽपश्यन्, कुतः विभुम् आविर्भूतं पश्येयुर् इत्य्-अर्थः ॥ २ ॥
श्लोक-३
विश्वास-प्रस्तुतिः
विरिञ्चो भगवान् दृष्ट्वा सह शर्वेण तां तनुम्।
स्वच्छां मरकतश्यामां कञ्जगर्भारुणेक्षणाम्॥
मूलम्
विरिञ्चो भगवान् दृष्ट्वा सह शर्वेण 7तां तनुम्7।
स्व8च्छां मरकत9श्यामां कञ्जगर्भारुणेक्ष10णाम्॥ ३ ॥
वीरराघवः
भगवान् विरिञ्चो ब्रह्मा, शर्वेण रुद्रेण सह तां भगवतस् तनुं दृष्ट्वा तुष्टावेति पञ्चमेनान्वयः । तनुं विशिनष्टि निर्मलाम् इन्द्र-नीलवच्-छायां कञ्ज-गर्भवद्-अरुणे ईक्षणे यस्यास् ताम् ॥ ३ ॥
श्लोक-४
विश्वास-प्रस्तुतिः
तप्तहेमावदातेन लसत्कौशेयवाससा।
प्रसन्नचारुसर्वाङ्गीं सुमुखीं सुन्दरभ्रुवम्॥
वीरराघवः
तप्त-हेमवद्-अवदातेन विशुद्धेन पिशङ्गेन च लसता कौशेय-वाससा, युक्तम् इति शेषः । प्रसन्नानि चारूणि सुन्दराणि च सर्वाण्यङ्गानि यस्याः, सुन्दरं मुखं यस्याः, सुन्दरे भ्रुवौ यस्याम् ॥ ४ ॥
श्लोक-५
विश्वास-प्रस्तुतिः
महामणिकिरीटेन केयूराभ्यां च भूषिताम्।
कर्णाभरणनिर्भातकपोलश्रीमुखाम्बुजाम्॥
वीरराघवः
महान्तो मणयो यस्मिन्, तेन किरीटेन केयूराभ्याञ् च अलङ्कृतां कर्णाभरणे कुण्डले ताभ्याम् नितरां भातौ 15यौ कपोलौ ताभ्यां श्रीः शोभा मुखाम्बुजे यस्यास् ताम् ॥ ५ ॥
श्लोक-६
विश्वास-प्रस्तुतिः
काञ्चीकलापवलयहारनूपुरशोभिताम्।
कौस्तुभाभरणां लक्ष्मीं बिभ्रतीं वनमालिनीम्॥
अनुवाद (हिन्दी)
केवल भगवान् शंकर और ब्रह्माजीने उस छबिका दर्शन किया। बड़ी ही सुन्दर झाँकी थी। मरकतमणि (पन्ने)-के समान स्वच्छ श्यामल शरीर, कमलके भीतरी भागके समान सुकुमार नेत्रोंमें लाल-लाल डोरियाँ और चमकते हुए सुनहले रंगका रेशमी पीताम्बर! सर्वांगसुन्दर शरीरके रोम-रोमसे प्रसन्नता फूटी पड़ती थी। धनुषके समान टेढ़ी भौंहें और बड़ा ही सुन्दर मुख। सिरपर महामणिमय किरीट और भुजाओंमें बाजूबंद। कानोंके झलकते हुए कुण्डलोंकी चमक पड़नेसे कपोल और भी सुन्दर हो उठते थे, जिससे मुखकमल खिल उठता था। कमरमें करधनीकी लड़ियाँ, हाथोंमें कंगन, गलेमें हार और चरणोंमें नूपुर शोभायमान थे। वक्षःस्थलपर लक्ष्मी और गलेमें कौस्तुभमणि तथा वनमाला सुशोभित थीं॥ ३—६॥
वीरराघवः
काञ्ची-कलापादिभिः शोभितां कौस्तुभम् आभरणं कण्ठे यस्यास् तां लक्ष्मीं वक्षसि बिभ्रतीं, वनमाला अस्याम् अस्तीति तथा ताम् ॥ ६ ॥
श्लोक-७
विश्वास-प्रस्तुतिः
सुदर्शनादिभिः स्वास्त्रैर्मूर्तिमद्भिरुपासिताम्।
तुष्टाव देवप्रवरः सशर्वः पुरुषं परम्।
सर्वामरगणैः साकं सर्वाङ्गैरवनिं गतैः॥
मूलम्
सुदर्शनादिभिः स्वास्त्रैर्मूर्तिमद्भिरुपासि20ताम्।
तुष्टाव देवप्रवरः सशर्वः पुरुषं परम्।
सर्वामरगणैः 21साकं सर्वाङ्गैरव22नीङ्गतैः॥ ७ ॥
अनुवाद (हिन्दी)
भगवान्के निज अस्त्र सुदर्शन चक्र आदि मूर्तिमान् होकर उनकी सेवा कर रहे थे। सभी देवताओंने पृथ्वीपर गिरकर साष्टांग प्रणाम किया फिर सारे देवताओंको साथ ले शंकरजी तथा ब्रह्माजी परम पुरुष भगवान्की स्तुति करने लगे॥ ७॥
वीरराघवः
मूर्तिमद्भिः पुरुषाकृतिभिः स्व-कीयैस् सर्वैः सुदर्शनादिभिर् अस्त्रैः रुपासितां सेव्यमानां 23स-शर्वः रुद्रेण सहितः23 देवप्रवरो ब्रह्मा सर्वाङ्गैर् अवनीं भूमिं गतः प्राप्तैः 24देवैः साष्टाङ्ग-प्रणतैः देवैस् सह परं पुरुषं तुष्टाव ॥ ७ ॥
श्लोक-८
मूलम् (वचनम्)
ब्रह्मोवाच
विश्वास-प्रस्तुतिः
अजातजन्मस्थितिसंयमाया-
गुणाय निर्वाणसुखार्णवाय।
अणोरणिम्नेऽपरिगण्यधाम्ने
महानुभावाय नमो नमस्ते॥
मूलम्
अजात25जन्मस्थितिसंयमा26याऽगुणाय निर्वाणसुखार्णवाय।
अणोरणिम्नेऽपरिगण्यधाम्ने महानुभावाय नमो नमस्ते॥ ८ ॥
अनुवाद (हिन्दी)
ब्रह्माजीने कहा—जो जन्म, स्थिति और प्रलयसे कोई सम्बन्ध नहीं रखते, जो प्राकृत गुणोंसे रहित एवं मोक्षस्वरूप परमानन्दके महान् समुद्र हैं, जो सूक्ष्मसे भी सूक्ष्म हैं और जिनका स्वरूप अनन्त है—उनपर ऐश्वर्यशाली प्रभुको हमलोग बार-बार नमस्कार करते हैं॥ ८॥
वीरराघवः
तावत् स्तोतुं प्रवृत्तः कर्मायत्त-जन्मादि-रहितं निरस्त-निखिल-दोषं ज्ञानानन्दादि कल्याण-गुणोदधिं सर्वान्तरात्मानम् परिच्छिन्न-स्व-रूपं महा-प्रभावं नमस्करोति - अजातेति । न जाता जन्मादयः कर्मायत्ताः यस्य । तत्र हेतुर् अगुणाय, सत्त्वादि-प्राकृत-गुण-वश्यत्व प्रतिभटाय, निर्वाण-सुखार्णवाय, निर्दुःखानन्दमहोदधये, अणोर् जीवाद् अप्य् अणिम्ने अन्तरात्मतया तद्-अन्तः-प्रवेश-योग्याय अपरिच्छेद्य-स्व-रूपाय महा-प्रभावाय तुभ्यं नमो नमः ॥ ८ ॥
श्लोक-९
विश्वास-प्रस्तुतिः
रूपं तवैतत् पुरुषर्षभेज्यं
श्रेयोऽर्थिभिर्वैदिकतान्त्रिकेण।
योगेन धातः सह नस्त्रिलोकान्
पश्याम्यमुष्मिन् नु ह विश्वमूर्तौ॥
मूलम्
रूपं तवैतत् पुरुषर्षभेज्यं श्रेयोऽर्थिभिर्वैदिकतान्त्रि27केण।
योगेन धातः सह नस्त्रिलोकान् पश्याम्यमुष्मि28न्नु ह विश्वमूर्तौ29॥ ९ ॥
अनुवाद (हिन्दी)
पुरुषोत्तम! अपना कल्याण चाहनेवाले साधक वेदोक्त एवं पांचरात्रोक्त विधिसे आपके इसी स्वरूपकी उपासना करते हैं। मुझे भी रचनेवाले प्रभो! आपके इस विश्वमय स्वरूपमें मुझे समस्त देवगणोंके सहित तीनों लोक दिखायी दे रहे हैं॥ ९॥
वीरराघवः
अजात-जन्म-स्थिति-संयमायेत्य् अनेन प्रकृतस्य दर्शित-रूपस्य कर्मायत्तत्वं सूचितम् । तद् एव रूपं विशिंषन् स्तौति - रूपम् इति । हे पुरुषर्षभ ! तवै तद् रूपं श्रेयोर्थिभिः कर्तृभिः वैदिक-तान्त्रिकेण वेद-पञ्च-रात्रादि-तन्त्राभ्याम् अवबोधितेन योगेन साधनेन इत्थम् आराधनीयं तस्मिन् रूपे विश्वं साक्षात्कृत्या ऽह - हे धातः ! अमुष्मिन् नुह 30अस्मिन् हि रूपे सह-त्रि-लोकान् त्रिलोकैस् सह नो ऽस्मान् पश्यामि । आर्षत्वात् सह-योगे ऽपि तृतीयाया अभावः । त्रि-लो31कान् इत्य् अत्र कर्म-धारयः । दर्शन-हेतुं वदन् रूपं विशिनष्टि - विश्वमूर्ती विश्वाश्रय-मूर्तौ विश्वमूर्ते ! इति पाठान्तरम् । तदा हे विश्वमूर्ते ! 32इति सम्बोधनम्32 ॥ ९ ॥
श्लोक-१०
विश्वास-प्रस्तुतिः
त्वय्यग्र आसीत् त्वयि मध्य आसीत्
त्वय्यन्त आसीदिदमात्मतन्त्रे।
त्वमादिरन्तो जगतोऽस्य मध्यं
घटस्य मृत्स्नेव परः परस्मात्॥
मूलम्
33त्वय्यग्र आसीत् त्वयि मध्य आसीत् त्वय्यन्त आसीदिदमात्मतन्त्रे।
त्वमादिरन्तो जगतोऽस्य मध्यं घटस्य मृत्स्नेव परः परस्मात्॥ १० ॥
अनुवाद (हिन्दी)
आपमें ही पहले यह जगत् लीन था, मध्यमें भी यह आपमें ही स्थित है और अन्तमें भी यह पुनः आपमें ही लीन हो जायगा। आप स्वयं कार्य-कारणसे परे परम स्वतन्त्र हैं। आप ही इस जगत्के आदि, अन्त और मध्य हैं—वैसे ही जैसे घड़ेका आदि, मध्य और अन्त मिट्टी है॥ १०॥
वीरराघवः
विश्व-मूर्तित्वम् एव प्रपञ्चयति - त्वयीति । इदं विश्वम् अग्रे मध्ये अन्ते च त्वय्य् एवाश्रय-भूते ऽन्तर्-आत्मन्य् आसीत्, अविनाभूतम् आसीत् । अत एवाद्याद्य् अवस्था-विश्वं त्वम् एव । यद् यद् अवस्थं यद् अपृथक्-सिद्धं तत् ततो ऽभिन्नम् इति भावः । अनेन जगद्-उपादानत्वम् उक्तम् । उपादानोपादेययोर् अभेद-प्रसिद्धं दृष्टान्तम् आह । घटस्योपादेयस्य मृद् उपादान-भूता यथा न तस्माद् भिन्ना तथेत्य्-अर्थः । उपादानत्व-प्रयुक्तं विकारित्वं वारयति - परः परस्माद् इति । परस्मात् स्व-रूपाद् अन्यथा भाववद्-अचेतनाद्यः परः विलक्षणो जीवः तस्माद् अपि स्व-भावान्यथाभाववतः परो विलक्षणः स्वभावतो ऽपि विकार-रहित इत्य्-अर्थः । उपादानत्वे ऽपि तस्य स-द्वारकत्वात् निर्विकारत्वम् इति भावः ॥ १० ॥
श्लोक-११
विश्वास-प्रस्तुतिः
त्वं माययाऽऽत्माश्रयया स्वयेदं
निर्माय विश्वं तदनुप्रविष्टः।
पश्यन्ति युक्ता मनसा मनीषिणो
गुणव्यवायेऽप्यगुणं विपश्चितः॥
मूलम्
त्वं माययाऽऽत्माश्रयया स्वयेदं निर्माय विश्वं तदनुप्रविष्टः।
पश्यन्ति युक्ता मनसा मनीषिणो गुणव्य34पायेऽप्यगुणं विपश्चितः॥
अनुवाद (हिन्दी)
आप अपने ही आश्रय रहनेवाली अपनी मायासे इस संसारकी रचना करते हैं और इसमें फिरसे प्रवेश करके अन्तर्यामीके रूपमें विराजमान होते हैं। इसीलिये विवेकी और शास्त्रज्ञ पुरुष बड़ी सावधानीसे अपने मनको एकाग्र करके इन गुणोंकी, विषयोंकी भीड़में भी आपके निर्गुण स्वरूपका ही साक्षात्कार करते हैं॥ ११॥
वीरराघवः
एवं विश्वोपादानत्वात् त्वं विश्व-मूर्तिर् इत्य् उक्तम् । अथ विश्वस्यान्तर्-आत्मत्वाद् अपि त्वं विश्व-मूर्तिर् इति वक्तुं विश्वस्य स्रष्टृत्वं तद्-अन्तर्-आत्मतया ऽनुप्रवेशञ् च आह - त्वम् इति । आत्माश्रयया स्वापृथक्-सिद्धया स्वया स्व-नियाम्यया माययेदं जगन् निर्माय सृष्ट्वा तद् अनुप्रविष्टः । “तत् सृष्ट्वा तद् एवानुप्राविशत्” (तैति. उ. २-६) इति श्रुत्यर्थो ऽत्रानुसन्धेयः । अनुप्रविष्टम् अपि अनुप्रवेष्टव्य-गत-दोषास्पृष्टं “सत्यञ् चा ऽनृतञ् च सत्यम् अभवत्” (तैति.उ. २-६) इति श्रुत्य् अर्थ-याथात्म्य-विदः पश्यन्तीत्य् आह । पश्यन्तीति गुण-व्य35पायो ऽपि, गुणानां व्य36पायो ऽन्यथाभावः परिणाम इति यावत् । गुणानां परिणामे ऽपि त्वां, तत्रा ऽनुप्रविष्टं त्वाम् अगुणं चेतनाचेतन-गत-हेय-गुण-रहितं विपश्चितः “सत्यञ् चानृतञ् च सत्यम् अभवत्” इत्यादि शास्त्रार्थ-याथात्म्य-विदः मनीषिणः तत्-प्रतिपाद्यार्थ-याथात्म्योपासन-पराः युक्ताः सुसमाहित-चित्ताः मनसा यो37ग-परिशुद्धेन मनसा साधनेन पश्यन्ति साक्षात् कुर्वन्ति । ‘सत्यञ् च’ इत्यादि-श्रुतेर् अयम् अर्थः - परमात्मनः चिद्-अचित्-सङ्घात-रूप-जगद्-आकार-परिणामे च परमात्म-शरीर-भूत-चिद्-अंश-गताः सर्व एवा ऽपुरुषार्थाः, तथा अचिद्-अंश-गतास् सर्वे विकाराः परमात्मनि कार्यत्वं तद्-अवस्थयोस् तयोर् नियन्तृत्वेनात्मत्वम् । परमात्मा च तयोः स्व-शरीर-भूतयोर् नियन्तृतया ऽत्म-भूतः तद्-गत-पुरुषार्थैर् विकारैश् च न स्पृश्यते । अपरिच्छिन्न-ज्ञानानन्दमयः सर्वदैक-रूप एव जगत्-परिवर्तन-लीलया ऽवतिष्ठते । विचित्र-चिद्-अचिद्-रूपेण विक्रियमाणम् अपि ब्रह्म सत्यम् एवा ऽभवत्, निरस्त-निखिल-दोष-गन्धम् अपरिच्छिन्न-ज्ञानानन्दम् एक-रूपम् एवा ऽभवद् 38इति ॥ ११ ॥
श्लोक-१२
विश्वास-प्रस्तुतिः
यथाग्निमेधस्यमृतं च गोषु
भुव्यन्नमम्बूद्यमने च वृत्तिम्।
योगैर्मनुष्या अधियन्ति हि त्वां
गुणेषु बुद्ध्या कवयो वदन्ति॥
मूलम्
यथाग्निमेधस्यमृतं च गोषु भुव्यन्नमम्बू39द्यमने 40न वृत्तिम्।
योगैर्मनुष्या अधियन्ति हि त्वां गुणेषु बुद्ध्या कव41योऽधियन्ति॥ १२ ॥
अनुवाद (हिन्दी)
जैसे मनुष्य युक्तिके द्वारा लकड़ीसे आग, गौसे अमृतके समान दूध, पृथ्वीसे अन्न तथा जल और व्यापारसे अपनी आजीविका प्राप्त कर लेते हैं—वैसे ही विवेकी पुरुष भी अपनी शुद्ध बुद्धिसे भक्तियोग, ज्ञानयोग आदिके द्वारा आपको इन विषयोंमें ही प्राप्त कर लेते हैं और अपनी अनुभूतिके अनुसार आपका वर्णन भी करते हैं॥ १२॥
वीरराघवः
मनसा साधनेन पश्यन्तीत्य् अत्र दृष्टान्तान् वदन् उक्तम् एवा ऽर्थम् उपपादयति - यथेति । काष्ठादिष्व् अग्न्य् आदीन् यथा योगैर् उपायैः; तत्र यथा ऽग्निम् एधसि काष्ठे मथनेनोपायेन, यथा चा ऽमृतं क्षीरं गोषु दोहनेन, यथा भुव्य् अन्नं कृष्याद्युपायेन, यथा वा वृत्तिं जीवन-भूतम् अम्बु-जलं मुत्य्व् अननेनोपायेन पश्यन्ति । उद्यमनेनेति पाठे स एवार्थः । तथा 42कवयः विपश्चितो मनीषिणो मनुष्या बुद्ध्या योग-विशुद्धया गुणेषु गुण-परिणामात्मकेषु स-चेतनेषु पदार्थेषु त्वाम् अविक्रियम् एक-रूपम् अधियन्ति । “इक् स्मरणे” इति धातुः, विदन्ति साक्षात् कुर्वन्तीत्य्-अर्थः ॥ १२ ॥
श्लोक-१३
विश्वास-प्रस्तुतिः
तं त्वां वयं नाथ समुज्जिहानं
सरोजनाभातिचिरेप्सितार्थम्।
दृष्ट्वा गता निर्वृतिमद्य सर्वे
गजा दवार्ता इव गाङ्गमम्भः॥
मूलम्
तं 43त्वां वयं नाथ! समुज्जिहानं सरोजनाभातिचिरेप्सितार्थम्।
दृष्ट्वा गता निर्वृतिमद्य सर्वे गजादवार्ता इव गाङ्गमम्भः॥ १३ ॥
अनुवाद (हिन्दी)
कमलनाभ! जिस प्रकार दावाग्निसे झुलसता हुआ हाथी गंगाजलमें डुबकी लगाकर सुख और शान्तिका अनुभव करने लगता है, वैसे ही आपके आविर्भावसे हमलोग परम सुखी और शान्त हो गये हैं। स्वामी! हमलोग बहुत दिनोंसे आपके दर्शनोंके लिये अत्यन्त लालायित हो रहे थे॥ १३॥
वीरराघवः
तद्-दर्शनेना ऽत्मनो नितरां सुखितत्वं वदन् मत्-प्रयोजनं कुर्व् इति प्रार्थयते - तम् इति द्वाभ्याम् । हे नाथ ! हे सरोज-नाभ ! अति-चिराद् ईप्सितम् अर्थ-पुरुषार्थ-स्व-रूपम् उज्जिहानम् आविर्भवन्तं तम् उक्त-विधं त्वां दृष्ट्वा सर्वे वयं निर्वृतिम् आनन्दं गताः, यथा दवार्ताः दावाग्नि-पीडिताः गजाः गाङ्गम् 44अम्भः जलं प्राप्य निर्वृतिं प्राप्नुवन्ति ॥ १३ ॥
श्लोक-१४
विश्वास-प्रस्तुतिः
स त्वं विधत्स्वाखिललोकपाला
वयं यदर्थास्तव पादमूलम्।
समागतास्ते बहिरन्तरात्मन्
किं वान्यविज्ञाप्यमशेषसाक्षिणः॥
मूलम्
स त्वं विधत्स्वाखिललोकपाला वयं यदर्थास्तव पादमूलम्।
समागतास्ते बहिरन्तरात्मन् 45किंवाऽद्य विज्ञाप्यमशेषसाक्षिणः॥ १४ ॥
अनुवाद (हिन्दी)
आप ही हमारे बाहर और भीतरके आत्मा हैं। हम सब लोकपाल जिस उद्देश्यसे आपके चरणोंकी शरणमें आये हैं, उसे आप कृपा करके पूर्ण कीजिये। आप सबके साक्षी हैं, अतः इस विषयमें हमलोग आपसे और क्या निवेदन करें॥ १४॥
वीरराघवः
तथा स त्वम् उक्त-विधः त्वं, हे अखिल-लोकपाल ! यद्-अर्था यत्-प्रयोजनाः यत्-कामयमानाः वयं तव पाद-मूलं समागताः शरणं गताः, तत्-प्रयोजनं विधत्स्व कुरु । यद् विधेयं तत् कथयेत्य् अत्रा ऽह - हे बहिर्-अन्तर्-आत्मन् ! बहिर् अन्तश् च व्यापिन् ! अशेष-साक्षिणः सर्वं युगपत् साक्षात् कुर्वतः तव सर्वज्ञस्य विज्ञाप्यं किं वा ऽस्ति । न किम् इत्य्-अर्थः ॥ १४ ॥
श्लोक-१५
विश्वास-प्रस्तुतिः
अहं गिरित्रश्च सुरादयो ये
दक्षादयोऽग्नेरिव केतवस्ते।
किं वा विदामेश पृथग्विभाता
विधत्स्व शं नो द्विजदेवमन्त्रम्॥
मूलम्
अहं गिरित्रश्च सुरादयो ये दक्षादयोऽग्नेरिव केतवस्ते।
किं वा वि46दामेश! पृथग्वि47भाविता विधत्स्व शं नो द्विजदेव48मन्त्रम्॥ १५ ॥
अनुवाद (हिन्दी)
प्रभो! मैं, शंकरजी, अन्य देवता, ऋषि और दक्ष आदि प्रजापति—सब-के-सब अग्निसे अलग हुई चिनगारीकी तरह आपके ही अंश हैं और अपनेको आपसे अलग मानते हैं। ऐसी स्थितिमें प्रभो! हमलोग समझ ही क्या सकते हैं। ब्राह्मण और देवताओंके कल्याणके लिये जो कुछ करना आवश्यक हो, उसका आदेश आप ही दीजिये और आप वैसा स्वयं कर भी लीजिये॥ १५॥
वीरराघवः
तर्हि यूयम् एव किञ्चित् कुरुतेत्य् अत्रा ऽह - अहम् इति । अहं ब्रह्मा गिरित्रो रुद्रः ये च सुरादयो दक्षादयश् च प्रजापतयश् च सर्वे वयम् अग्नेः केतवः विस्फुलिङ्गा इव । ते त्वत्तः पृथग्-भावितास् सन्तः आत्मनः 49स्वानां शं सुखं किं वा विद्मः, न किम् अपि । आत्म-सुख-साधनं न विद्म इत्य्-अर्थः । अतस् त्वम् एव, हे ईश ! द्विजानां देवानाञ् च मन्त्रं सुख-कारिणीम् आलोचनां विधत्स्व । इदं कुरुतेत्य् उपायम् उपदिशेत्य्-अर्थः ॥ १५ ॥
श्लोक-१६
मूलम् (वचनम्)
श्रीशुक उवाच
विश्वास-प्रस्तुतिः
एवं विरिञ्चादिभिरीडितस्तद्
विज्ञाय तेषां हृदयं तथैव।
जगाद जीमूतगभीरया गिरा
बद्धाञ्जलीन् संवृतसर्वकारकान्॥
मूलम्
एवं विरिञ्चादिभिरीडितस्तद् विज्ञाय तेषां हृदयं 50यथैव।
जगाद जीमूतगभीरया गिरा बद्धाञ्जलीन्सं51वृतसर्व52कारकान्॥ १६ ॥
अनुवाद (हिन्दी)
श्रीशुकदेवजी कहते हैं—ब्रह्मा आदि देवताओंने इस प्रकार स्तुति करके अपनी सारी इन्द्रियाँ रोक लीं और सब बड़ी सावधानीके साथ हाथ जोड़कर खड़े हो गये। उनकी स्तुति सुनकर और उसी प्रकार उनके हृदयकी बात जानकर भगवान् मेघके समान गम्भीर वाणीसे बोले॥ १६॥
वीरराघवः
एवं स्तुतो विज्ञापितञ् च तान् आह भगवान् इत्य् आह मुनिः - एवम् इत्थं ब्रह्मादिभिः ईडितः स्तुतो भगवांस् तेषां विरिञ्च्यादीनां तद् हृदयम् अभिप्रायं यथावद् विज्ञाय मेघ-निर्ह्रादवद्-गभीरया गिरा, बद्धा अञ्जलयो यैः, संवृतानि नियमितानि कारकाणीन्द्रियाणि यैः, तान् विरिञ्च्यादीन् जगाद ॥ १६ ॥
श्लोक-१७
विश्वास-प्रस्तुतिः
एक एवेश्वरस्तस्मिन् सुरकार्ये सुरेश्वरः।
विहर्तुकामस्तानाह समुद्रोन्मथनादिभिः॥
मूलम्
एक एवेश्वरस्तस्मिन् सुरकार्ये सुरेश्वरः।
विहर्तुकामस्तानाह समुद्रोन्मथनादिभिः॥ १७ ॥
अनुवाद (हिन्दी)
परीक्षित्! समस्त देवताओंके तथा जगत्के एकमात्र स्वामी भगवान् अकेले ही उनका सब कार्य करनेमें समर्थ थे, फिर भी समुद्रमन्थन आदि लीलाओंके द्वारा विहार करनेकी इच्छासे वे देवताओंको सम्बोधित करके इस प्रकार कहने लगे॥ १७॥
वीरराघवः
सुरेश्वरो भगवान् स्वयम् एक एव सुराणां कार्ये ईश्वरः कर्तुं समर्थो ऽपि समुद्रोन्मथनादिभिः विहर्तुकामः विहर्तुम् इच्छुः तान् आह ॥ १७ ॥
श्लोक-१८
मूलम् (वचनम्)
श्रीभगवानुवाच
विश्वास-प्रस्तुतिः
हन्त ब्रह्मन्नहो शम्भो हे देवा मम भाषितम्।
शृणुतावहिताः सर्वे श्रेयो वः स्याद् यथा सुराः॥
मूलम्
हन्त ब्रह्मन्नहो शम्भो! हे देवा! मम भाषितम्।
शृणुतावहिताः सर्वे श्रेयो वः स्याद् यथा 53सुराः॥ १८ ॥
अनुवाद (हिन्दी)
श्रीभगवान्ने कहा—ब्रह्मा, शंकर और देवताओ! तुमलोग सावधान होकर मेरी सलाह सुनो। तुम्हारे कल्याणका यही उपाय है॥ १८॥
वीरराघवः
उक्तिम् एवाह - हन्तेति । हन्तेति दुर्लभ-स्व-प्रसाद-लाभ-प्रयुक्तम् आश्चर्यं द्योतयति । हे ब्रह्मन् ! हे शम्भो ! हे देवाः ! हे सुराः ! अवान्तर-भेदाभिप्रायेण सुरा देवाश् चेति सम्बोधन-द्वयम् ! अन्ये गन्धर्वादयश् च सर्वे यूयं वो युष्माकं यथा श्रेयस् स्यात् तथा मम भाषितम् अवहित-चित्तास् सन्तः शृणुत । अमरा इति पाठान्तरम् । तदा श्रेयो दर्शयति - यथा अमरा मृत्यु-रहिताः स्युर् इति ॥ १८ ॥
श्लोक-१९
विश्वास-प्रस्तुतिः
यात दानवदैतेयैस्तावत् सन्धिर्विधीयताम्।
कालेनानुगृहीतैस्तैर्यावद् वो भव आत्मनः॥
मूलम्
54यात दानवदैतेयैस्तावत् सन्धिर्विधीयताम्।
कालेनानुगृहीतैस्तैर्यावद् वो भव आत्मनः॥ १९ ॥
अनुवाद (हिन्दी)
इस समय असुरोंपर कालकी कृपा है। इसलिये जबतक तुम्हारे अभ्युदय और उन्नतिका समय नहीं आता, तबतक तुम दैत्य और दानवोंके पास जाकर उनसे सन्धि कर लो॥ १९॥
वीरराघवः
तावद् दानवैर्-दैतेयैश् च सन्धिर् विधीयताम् । सख्यं क्रियताम् । 55कीदृशैः ? कालेना ऽनुगृहीतैः कालवशाद् अनुकूलतां प्राप्तैः, न ते सन्धिं यास्यन्तीति शङ्का न कार्येति भावः । तैर् असुरैर् वो युष्माकम् आत्मनः स्वत एव यावद्भवो वृद्धिः स्यात्, तावत् सन्धिर् विधीयताम् इति पूर्वेणा ऽन्वयः ॥ १९ ॥
श्लोक-२०
विश्वास-प्रस्तुतिः
अरयोऽपि हि सन्धेयाः सति कार्यार्थगौरवे।
अहिमूषकवद् देवा ह्यर्थस्य पदवीं गतैः॥
अनुवाद (हिन्दी)
देवताओ! कोई बड़ा कार्य करना हो तो शत्रुओंसे भी मेल-मिलाप कर लेना चाहिये। यह बात अवश्य है कि काम बन जानेपर उनके साथ साँप और चूहेवाला बर्ताव कर सकते हैं*॥ २०॥
पादटिप्पनी
- किसी मदारीकी पिटारीमें साँप तो पहलेसे था ही, संयोगवश उसमें एक चूहा भी जा घुसा। चूहेके भयभीत होनेपर साँपने उसे प्रेमसे समझाया कि तुम पिटारीमें छेद कर दो, फिर हम दोनों भाग निकलेंगे। पहले तो साँपकी इस बातपर चूहेको विश्वास न हुआ, परन्तु पीछे उसने पिटारीमें छेद कर दिया। इस प्रकार काम बन जानेपर साँप चूहेको निगल गया और पिटारीसे निकल भागा।
वीरराघवः
“कार्यार्थिनः कुतो ऽगर्वः" इति न्यायेन अरयो ऽपि सन्धेया एवेत्य् आह - अरयोपीति । कर्तव्य-प्रयोजनस्य गौरवे भूयस्त्वे सति तदर्थम् अरयश् शत्रवो ऽपि सन्धेया एव हि । हे देवाः ! अर्थस्य प्रयोजनस्य पदवीं सिद्धिं गतैः प्राप्तैः पश्चाद् अहि-मूषकवत् वध्य-घातुक-भावेन, वर्तितव्यम् इति शेषः । यद् वा पेटिकायां निरुद्धो ऽहिर् यथा निर्गम-द्वार-विधानार्थे मूषकेण सन्धिं विधत्ते, पश्चात् तम् एव भक्षयति । तथा अर्थस्य पदवीं प्रवृत्तः प्रथमं सन्धेया इत्य्-अर्थः ॥ २० ॥
श्लोक-२१
विश्वास-प्रस्तुतिः
अमृतोत्पादने यत्नः क्रियतामविलम्बितम्।
यस्य पीतस्य वै जन्तुर्मृत्युग्रस्तोऽमरो भवेत्॥
मूलम्
अमृतोत्पादने यत्नः क्रियतामविलम्बितम्।
यस्य पीतस्य वै जन्तुर्मृत्युग्रस्तोऽ57मरो भवेत्॥ २१ ॥
अनुवाद (हिन्दी)
तुमलोग बिना विलम्बके अमृत निकालनेका प्रयत्न करो। उसे पी लेनेपर मरनेवाला प्राणी भी अमर हो जाता है॥ २१॥
वीरराघवः
ततस् तैस् सह यत् कार्यं तद् आह - अमृतेति । स्पष्टो ऽर्थः । अमृतं विशिनष्टि - यस्या ऽमृतस्य पीतस्य सतः मृत्यु-ग्रस्तो ऽपि अमरो मृत्यु-रहितो भवेत् । यस्य पीतस्येति सम्बन्ध-मात्रेण षष्ठी । येन पीतेनामृतेन मृत्यु-ग्रस्तोर् अमरो भवेद् इत्य्-अर्थः ॥ २१ ॥
श्लोक-२२
विश्वास-प्रस्तुतिः
क्षिप्त्वा क्षीरोदधौ सर्वा वीरुत्तृणलतौषधीः।
मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा तु वासुकिम्॥
मूलम्
क्षिप्त्वा क्षीरोदधौ सर्वा वीरुत्तृणलतौषधीः।
मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा 58च वासुकिम्॥ २२ ॥
वीरराघवः
अमृतोत्पादन-यत्नं विवृणोति - क्षिप्त्वेति । वीरुधः गुल्मानि, तृणानि लताश् चौषधयश् च, इमास् सर्वाः क्षीरोदधौ क्षिप्त्वा मन्दरं पर्वतं मन्थानं मन्थन-दण्डं कृत्वा वासुकिं नेत्रं रज्जुं कृत्वा ॥ २२ ॥
श्लोक-२३
विश्वास-प्रस्तुतिः
सहायेन मया देवा निर्मन्थध्वमतन्द्रिताः।
क्लेशभाजो भविष्यन्ति दैत्या यूयं फलग्रहाः॥
मूलम्
सहायेन मया देवा निर्मन्थध्वमतन्द्रिताः।
क्लेशभाजो भविष्यन्ति दैत्या यूयं फलग्रहाः॥ २३ ॥
अनुवाद (हिन्दी)
पहले क्षीरसागरमें सब प्रकारके घास, तिनके, लताएँ और ओषधियाँ डाल दो। फिर तुमलोग मन्दराचलकी मथानी और वासुकि नागकी नेती बनाकर मेरी सहायतासे समुद्रका मन्थन करो। अब आलस्य और प्रमादका समय नहीं है। देवताओ! विश्वास रखो—दैत्योंको तो मिलेगा केवल श्रम और क्लेश, परन्तु फल मिलेगा तुम्हीं लोगोंको॥ २२-२३॥
वीरराघवः
मया सहायेन, हे देवाः । अतन्द्रिताः यूयं निर्मन्थध्वम् । ननु ते ऽप्य् अमृत-पानेन अमराः स्युः । तत्रा ऽऽह - क्लेशभाज इति । दैत्यास् तु केवलं क्लेश-भाजो भविष्यन्ति, यूयम् एव फल-ग्राहाः अमृत-पासिनो भविष्यथेत्य्-अर्थः ॥ २३ ॥
श्लोक-२४
विश्वास-प्रस्तुतिः
यूयं तदनुमोदध्वं यदिच्छन्त्यसुराः सुराः।
न संरम्भेण सिध्यन्ति सर्वेऽर्थाः सान्त्वया यथा॥
मूलम्
यूयं तदनुमोदध्वं 59यदिच्छन्त्यसुराः सुराः।
न संरम्भेण सिध्यन्ति सर्वेऽर्थाः सान्त्वया यथा॥ २४ ॥
अनुवाद (हिन्दी)
देवताओ! असुरलोग तुमसे जो-जो चाहें, सब स्वीकार कर लो। शान्तिसे सब काम बन जाते हैं, क्रोध करनेसे कुछ नहीं होता॥ २४॥
वीरराघवः
बलिभिस्-सहकारिभिः साध्या अर्थाः तद्-अनुसरणं विना न सेत्स्यन्तीति सामादिकम् उपदिशति - यूयम् इति द्वाभ्याम् । हे सुराः, यद् असुरा इच्छन्ति तद् एव यूयम् अनुमोदध्वम्, सान्त्वया साधु-मार्गेण सर्वे ऽर्था यथा सिध्यन्ति न तथा संरम्भेण क्रोधेन सिध्यन्ति60 ॥ २४ ॥
श्लोक-२५
विश्वास-प्रस्तुतिः
न भेतव्यं कालकूटाद् विषाज्जलधिसम्भवात्।
लोभः कार्यो न वो जातु रोषः कामस्तु वस्तुषु॥
अनुवाद (हिन्दी)
पहले समुद्रसे कालकूट विष निकलेगा, उससे डरना नहीं। और किसी भी वस्तुके लिये कभी भी लोभ न करना। पहले तो किसी वस्तुकी कामना ही नहीं करनी चाहिये, परन्तु यदि कामना हो और वह पूरी न हो तो क्रोध तो करना ही नहीं चाहिये॥ २५॥
वीरराघवः
63किञ्च । जलधि-सम्भवात् काल-कूटाख्याद् विषात् न भेतव्यं नोद्वेजितव्यं, रुद्रो ग्रसिष्यतीति भावः । तथा वस्तुषु मथनाद् उत्पन्नेषु लोभः, कामः जातु कदाचिद् अपि रोषश् च न वै कार्यः ॥ २५ ॥
श्लोक-२६
मूलम् (वचनम्)
श्रीशुक उवाच
विश्वास-प्रस्तुतिः
इति देवान् समादिश्य भगवान् पुरुषोत्तमः।
तेषामन्तर्दधे राजन् स्वच्छन्दगतिरीश्वरः॥
मूलम्
इति देवान् समादिश्य भगवान् पुरुषोत्तमः।
तेषामन्तर्दधे राजन्। स्वच्छन्दगतिरीश्वरः॥ २६ ॥
अनुवाद (हिन्दी)
श्रीशुकदेवजी कहते हैं—परीक्षित्! देवताओंको यह आदेश देकर पुरुषोत्तम भगवान् उनके बीचमें ही अन्तर्धान हो गये। वे सर्वशक्तिमान् एवं परम स्वतन्त्र जो ठहरे। उनकी लीलाका रहस्य कौन समझे॥ २६॥
वीरराघवः
इतीत्थं देवान् समादिश्य आज्ञाप्य भगवान् पुरुषोत्तमः अजितः तेषां ब्रह्मादीनां, पश्यतां सताम् इति शेषः । हे राजन् ! अन्तर्दधे अन्तर्हितवान् यतः स्वच्छन्द-गतिर् यथेच्छा-व्यापारः ईश्वरः ॥ २६ ॥
श्लोक-२७
विश्वास-प्रस्तुतिः
अथ तस्मै भगवते नमस्कृत्य पितामहः।
भवश्च जग्मतुः स्वं स्वं धामोपेयुर्बलिं सुराः॥
मूलम्
अथ तस्मै भगवते नमस्कृत्य पितामहः।
भवश्च जग्मतुः स्वं स्वं 64धामोपेयुर्बलिं सुराः॥ २७ ॥
अनुवाद (हिन्दी)
उनके चले जानेपर ब्रह्मा और शंकरने फिरसे भगवान्को नमस्कार किया और वे अपने-अपने लोकोंको चले गये, तदनन्तर इन्द्रादि देवता राजा बलिके पास गये॥ २७॥
वीरराघवः
अथ भगव65तो ऽन्तर्धानानन्तरं तस्मै तिरोहिताय भगवते नमस्कृत्य पितामहो ब्रह्मा, भवो रुद्रश् च स्वं स्वं स्थानं जग्मतुः, सुरा इन्द्रादयस् तु बलिं वैरोचनिं उपेयुर् उपजग्मुः ॥ २७ ॥
श्लोक-२८
विश्वास-प्रस्तुतिः
दृष्ट्वारीनप्यसंयत्ताञ्जातक्षोभान्स्वनायकान्।
न्यषेधद्दैत्यराट् श्लोक्यः सन्धिविग्रहकालवित्॥
मूलम्
दृष्ट्वारी66नप्यसंयत्ताञ्जातक्षोभान्स्व66नायकान्।
न्यषेधद्दैत्य67राट् श्लोक्यः67 सन्धिविग्रहकालवित्॥ २८ ॥
अनुवाद (हिन्दी)
देवताओंको बिना अस्त्र-शस्त्रके सामने आते देख दैत्यसेनापतियोंके मनमें बड़ा क्षोभ हुआ। उन्होंने देवताओंको पकड़ लेना चाहा। परन्तु दैत्यराज बलि सन्धि और विरोधके अवसरको जाननेवाले एवं पवित्र कीर्तिसे सम्पन्न थे। उन्होंने दैत्योंको वैसा करनेसे रोक दिया॥ २८॥
वीरराघवः
अरीन् शत्रून् अप्य् असंयत्तान् युद्धायानुद्यतान् देवान् दृष्ट्वा श्लोक्यः, स्तुत्यः, दैत्य-राट् बलिः, जात-क्षोभान् सुरान् हन्तुम् उद्यतांश् च स्व-नायकान् असुर-सेना-मुख्यान् न्यषेधत् न्यवारयत् । यतस् सः सन्धि-विग्रहयोः सन्धि-वैरयोः कालम् उचितं वेत्ति इति तथा ॥ २८ ॥
श्लोक-२९
विश्वास-प्रस्तुतिः
ते वैरोचनिमासीनं गुप्तं चासुरयूथपैः।
श्रिया परमया जुष्टं जिताशेषमुपागमन्॥
मूलम्
ते वैरोचनिमासीनं गुप्तं चासुरयूथपैः।
श्रिया परमया जुष्टं जिताशेषमुपागमन्॥ २९ ॥
अनुवाद (हिन्दी)
इसके बाद देवतालोग बलिके पास पहुँचे। बलिने तीनों लोकोंको जीत लिया था। वे समस्त सम्पत्तियोंसे सेवित एवं असुर सेनापतियोंसे सुरक्षित होकर अपने राजसिंहासनपर बैठे हुए थे॥ २९॥
वीरराघवः
ते देवा असुर-यूथपैः गुप्तम् आसीनं परमया श्रिया सम्पदा जुष्टं युक्तं, जिता अशेषा देवादयो येन तं वैरोचनिं बलिं उपागमन् 68समीपम् उपविविशुः68 ॥ २९ ॥
श्लोक-३०
विश्वास-प्रस्तुतिः
महेन्द्रःश्लक्ष्णया वाचा सान्त्वयित्वा महामतिः।
अभ्यभाषत तत् सर्वं शिक्षितं पुरुषोत्तमात्॥
मूलम्
महेन्द्रःश्लक्ष्णया वाचा सान्त्वयित्वा महामतिः।
अभ्यभाषत तत् सर्वं शिक्षितं पुरुषोत्तमात्॥ ३० ॥
अनुवाद (हिन्दी)
बुद्धिमान् इन्द्रने बड़ी मधुर वाणीसे समझाते हुए राजा बलिसे वे सब बातें कहीं, जिनकी शिक्षा स्वयं भगवान्ने उन्हें दी थी॥ ३०॥
वीरराघवः
तत इन्द्रो महामतिः श्लक्ष्णया मृद्व्या वाचा सान्त्वयित्वा सामोपायेन प्रसन्नं कृत्वा पुरुषोत्तमा69द् अजितात् यच् शिक्षितं तत् सर्वम् अमृतोत्पादन-प्रयत्न-रूपम् अकथयत् ॥ ३० ॥
श्लोक-३१
विश्वास-प्रस्तुतिः
तदरोचत दैत्यस्य तत्रान्ये येऽसुराधिपाः।
शम्बरोऽरिष्टनेमिश्च ये च त्रिपुरवासिनः॥
मूलम्
70तदरोचत दैत्यस्य तत्रान्ये येऽसुराधिपाः।
शम्बरोऽरिष्टनेमिश्च ये च त्रिपुरवासिनः॥ ३१ ॥
अनुवाद (हिन्दी)
वह बात दैत्यराज बलिको जँच गयी। वहाँ बैठे हुए दूसरे सेनापति शम्बर, अरिष्टनेमि और त्रिपुरनिवासी असुरोंको भी यह बात बहुत अच्छी लगी॥ ३१॥
वीरराघवः
तद् इन्द्रोक्तं दैत्यस्य बलेर् ये च शम्बरादयो ऽसुराधिपाः ये च त्रिपुर-वासिनः तेषाञ् च अरोचत 71रुचिकरम् अभूत्71 ॥ ३१ ॥
श्लोक-३२
विश्वास-प्रस्तुतिः
ततो देवासुराः कृत्वा संविदं कृतसौहृदाः।
उद्यमं परमं चक्रुरमृतार्थे परन्तप॥
मूलम्
ततो देवासुराः कृत्वा संविदं कृतसौहृदाः।
उद्यमं परमं चक्रुरमृतार्थे 72परस्परम्॥ ३२ ॥
अनुवाद (हिन्दी)
तब देवता और असुरोंने आपसमें सन्धि समझौता करके मित्रता कर ली और परीक्षित्! वे सब मिलकर अमृत मन्थनके लिये पूर्ण उद्योग करने लगे॥ ३२॥
वीरराघवः
ततो देवाश् चासुराश् च ते सर्वे संविदं समयं सङ्केतं कृत्वा परस्परं कृतं सौहृदं यैस्ते, हे परन्तप ! अमृतार्थं परमम् उद्यमं यत्नं चक्रुः ॥ ३२ ॥
श्लोक-३३
विश्वास-प्रस्तुतिः
ततस्ते मन्दरगिरिमोजसोत्पाट्य दुर्मदाः।
नदन्त उदधिं निन्युः शक्ताः परिघबाहवः॥
मूलम्
ततस्ते मन्दरगिरिमोजसोत्पाट्य दुर्मदाः।
नदन्त उदधिं निन्युः शक्ताः परिघबाहवः॥ ३३ ॥
अनुवाद (हिन्दी)
इसके बाद उन्होंने अपनी शक्तिसे मन्दराचलको उखाड़ लिया और ललकारते तथा गरजते हुए उसे समुद्रतटकी ओर ले चले। उनकी भुजाएँ परिघके समान थीं, शरीरमें शक्ति थी और अपने-अपने बलका घमंड तो था ही॥ ३३॥
वीरराघवः
उद्यमम् एवाह - ततस् ते देवासुराः दुर्मदाः परिघा इव बाहवो येषां ते मन्दर-गिरिम् ओजसा बलेनोत्पाट्य नदन्तः शक्त्या धारण-शक्त्या क्षीरोदधिं निन्युः प्रापयितुं प्रवृत्ता बभूवुः ॥ ३३ ॥
श्लोक-३४
विश्वास-प्रस्तुतिः
दूरभारोद्वहश्रान्ताः शक्रवैरोचनादयः।
अपारयन्तस्तं वोढुं विवशा विजहुः पथि॥
मूलम्
दूरभारोद्वहश्रान्ताः शक्रवैरोचनादयः।
अपारयन्तस्तं वोढुं विवशा विजहुः पथि॥ ३४ ॥
अनुवाद (हिन्दी)
परन्तु एक तो वह मन्दरपर्वत ही बहुत भारी था और दूसरे उसे ले जाना भी बहुत दूर था। इससे इन्द्र, बलि आदि सब-के-सब हार गये। जब ये किसी प्रकार भी मन्दराचलको आगे न ले जा सके, तब विवश होकर उन्होंने उसे रास्तेमें ही पटक दिया॥ ३४॥
वीरराघवः
शक्र-वैरोचनि-प्रभृतयः सर्वे दूर-भारोद्वहनेन श्रान्ताः अत एव मन्दर-गिरिं वोढुम् अपारयन्तो ऽशक्नुवन्तः विवशाः पथि गिरिं विजह्लुस् तत्यजुः ॥ ३४ ॥
श्लोक-३५
विश्वास-प्रस्तुतिः
निपतन्स गिरिस्तत्र बहूनमरदानवान्।
चूर्णयामास महता भारेण कनकाचलः॥
मूलम्
73निपतन्स गिरिस्तत्र बहूनमरदानवान्।
चूर्णयामास महता भारेण कनकाचलः॥ ३५ ॥
अनुवाद (हिन्दी)
वह सोनेका पर्वत मन्दराचल बड़ा भारी था। गिरते समय उसने बहुत-से देवता और दानवोंको चकनाचूर कर डाला॥ ३५॥
वीरराघवः
निपतन् स च गिरिः तत्र 74पात्यमानो74 बहून् अमरान् असुरांश् च चूर्णयामास, यतस् स गिरिः महता भारेण कनकाचलः मेरु-तुल्यः ॥ ३५ ॥
श्लोक-३६
विश्वास-प्रस्तुतिः
तांस्तथा भग्नमनसो भग्नबाहूरुकन्धरान्।
विज्ञाय भगवांस्तत्र बभूव गरुडध्वजः॥
मूलम्
तांस्तथा भग्नमनसो भग्नबाहूरुकन्धरान्।
विज्ञाय भगवांस्तत्र बभूव गरुडध्वजः॥ ३६ ॥
अनुवाद (हिन्दी)
उन देवता और असुरोंके हाथ, कमर और कंधे टूट ही गये थे, मन भी टूट गया। उनका उत्साह भंग हुआ देख गरुड़पर चढ़े हुए भगवान् सहसा वहीं प्रकट हो गये॥ ३६॥
वीरराघवः
तदा 75तान् 76असुर-दानवान् भग्न-मनसः भग्नोत्साहान् कांश्चित् भग्ना बाहव ऊरवः कन्धराश् च येषां तान् विज्ञाय भगवान् गरुड-ध्वजो गरुडारूढः आविर्बभूव ॥ ३६ ॥
श्लोक-३७
विश्वास-प्रस्तुतिः
गिरिपातविनिष्पिष्टान् विलोक्यामरदानवान्।
ईक्षया जीवयामास निर्जरान् निर्व्रणान् यथा॥
मूलम्
गिरिपातविनिष्पिष्टान् विलोक्यामरदानवान्।
77कटाक्षैर्जी77वयामास निर्जरान् निर्व्रणान् यथा॥ ३७ ॥
अनुवाद (हिन्दी)
उन्होंने देखा कि देवता और असुर पर्वतके गिरनेसे पिस गये हैं। अतः उन्होंने अपनी अमृतमयी दृष्टिसे देवताओंको इस प्रकार जीवित कर दिया, मानो उनके शरीरमें बिलकुल चोट ही न लगी हो॥ ३७॥
वीरराघवः
गिरि-पातेन विनिष्पिष्टांश् चूर्णी-कृतान् 78असुरान् दानवांश् च विलोक्य ईक्षया मृत-दृष्ट्या निर्जरान् देवान् निर्व्रणान् यथावज् जीवयामास । असुरांस् तु नाजीवयद् इति भावः ॥ ३७ ॥
श्लोक-३८
विश्वास-प्रस्तुतिः
गिरिं चारोप्य गरुडे हस्तेनैकेन लीलया।
आरुह्य प्रययावब्धिं सुरासुरगणैर्वृतः॥
मूलम्
गिरिं चारोप्य गरुडे हस्तेनैकेन लीलया।
आरुह्य प्रययावब्धिं सुरासुरगणैर्वृतः॥ ३८ ॥
अनुवाद (हिन्दी)
इसके बाद उन्होंने खेल-ही-खेलमें एक हाथसे उस पर्वतको उठाकर गरुड़पर रख लिया और स्वयं भी सवार हो गये। फिर देवता और असुरोंके साथ उन्होंने समुद्रतटकी यात्रा की॥ ३८॥
वीरराघवः
तत एकेनैव हस्तेन लीलया गिरिम् उद्धृत्य गरुडे आरोप्य स्वयम् अप्य् आरुह्य सुर-गणैर् वृतः पयोधिं प्रययौ ॥ ३८ ॥
श्लोक-३९
विश्वास-प्रस्तुतिः
अवरोप्य गिरिं स्कन्धात् सुपर्णः पततां वरः।
ययौ जलान्त उत्सृज्य हरिणा स विसर्जितः॥
मूलम्
अवरोप्य गिरिं स्कन्धात् सुपर्णः पततां वरः।
ययौ जलान्त उत्सृज्य हरि79णा स विसर्जितः॥ ३९ ॥
अनुवाद (हिन्दी)
पक्षिराज गरुड़ने समुद्रके तटपर पर्वतको उतार दिया। फिर भगवान्के विदा करनेपर गरुड़जी वहाँसे चले गये॥ ३९॥
अनुवाद (समाप्ति)
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धेऽमृतमथने मन्दराचलानयनं नाम षष्ठोऽध्यायः॥ ६ ॥
वीरराघवः
ततः पततां पक्षिणां वरः श्रेष्ठस् सुपर्णो गरुडः स्कन्धाद् गिरिम् अवरोप्य जलान्ते जल-समीपे उत्सृज्य निधाय हरिणा ऽनुविसर्जितः प्रस्थापितः ययाव् अगात् । सुपर्णे तत्र-स्थिते वासुकेर् आगमनासम्भवात् तद्-आगमनाय विसर्जितो ययाव् इति भावः ॥ ३९ ॥
इति श्रीमद्-भागवते अष्टम-स्कन्धे श्री-वीर-राघव-विदुषा-लिखितायां भागवत-चन्द्र-चन्द्रिकायां व्याख्यायां षष्ठो ऽध्यायः ॥ ६ ॥
-
W Omits संस्तुतः ↩︎
-
A,B,T Omit द्युतिरिव ↩︎
-
M,Ma स ↩︎
-
A,G णि ↩︎
-
M,Ma श्चाग्रतो ↩︎
-
M,Ma च्छं ↩︎
-
M,Ma श्यामं ↩︎
-
M,Ma णम् ↩︎
-
M,Ma ङ्ग ↩︎
-
M,Ma स्वं ↩︎
-
M,Ma तम् ↩︎
-
M,Ma जम् ↩︎
-
A,B,T Omit यो ↩︎
-
M,Ma तम् ↩︎
-
M,Ma तं ↩︎
-
M,Ma नम् । ↩︎
-
M,Ma तम् ↩︎
-
M,Ma स्सार्घ ↩︎
-
A,B,G,J,M,Ma,T नि ↩︎
-
A,B,T add युक्तैः ↩︎
-
M,Ma य ↩︎
-
H,M,Ma,V,W यगु ↩︎
-
M,Ma कैश्चा ↩︎
-
M,Ma न्भव ↩︎
-
M,Ma ते ↩︎
-
A,B,T आमृष्मिन् ↩︎
-
W काद्व ↩︎
-
This verse is found in M,Ma edition as follows - त्वथ्यग्रआसी दिदमात्मतन्त्रेत्वमादिरन्तो जगतोऽस्य मध्यम् । घटस्य मृत्स्नेन परः परस्मात् त्वमेवचाऽशेषमशेषनामा । ↩︎
-
A,B,G,J,M,Ma,T वाये ↩︎
-
A वा ↩︎
-
A वा ↩︎
-
W Omits सु ↩︎
-
A,B,T त्यर्थः ↩︎
-
M,Ma त्स्वनने ↩︎
-
A,B,G,J,T चवृत्तिम् । M,Ma तथोर्व्या ↩︎
-
A,B,G,J,T योवदन्ति।; M,Ma यो वयन्ति। ↩︎
-
A,B,T Omits कवयो ↩︎
-
H,M,Ma,V,W त्वा ↩︎
-
A,B,T Omit अम्भः ↩︎
-
A,B,G,J,T किं वाऽन्य; H,V किञ्चाद्य ↩︎
-
M,Ma धे ↩︎
-
A,G,J भाता ↩︎
-
M,Ma मित्रा ↩︎
-
W Omits स्वानां ↩︎
-
A,B,G,J,T त ↩︎
-
A म्भृ ↩︎
-
M,Ma कामान् ↩︎
-
M,Ma पूरा । ↩︎
-
M,Ma यातुधानैश्च ↩︎
-
W omits कीहशैः । ↩︎
-
H,V,S मृतो ↩︎
-
A,B,G,J,M,Ma,T तु ↩︎
-
A,B,G,J,M,Ma,T यदि ↩︎
-
A,B,T add इत्यर्थः । ↩︎
-
B वै ↩︎
-
A,B,G,J,M,Ma,T स्तु ↩︎
-
W Omits किञ्च ↩︎
-
M,Ma धामधेयुः ↩︎
-
A,B,T दन्त ↩︎
-
W Omits अजितात् ↩︎
-
M,Ma तेऽन्व रोचन्त ↩︎
-
A,B,G,J,M,Ma,T परन्तप। ↩︎
-
H,V न्यपतत्स ↩︎
-
A,B,T Omit तान् ↩︎
-
A,B,T सुर ↩︎
-
A,B,T सुरा ↩︎
-
W णानु ↩︎