०५

[पञ्चमोऽध्यायः]

भागसूचना

देवताओंका ब्रह्माजीके पास जाना और ब्रह्माकृत भगवान‍्की स्तुति

श्लोक-१

मूलम् (वचनम्)

श्रीशुक उवाच

विश्वास-प्रस्तुतिः

राजन्नुदितमेतत् ते हरेः कर्माघनाशनम्।
गजेन्द्रमोक्षणं पुण्यं रैवतं त्वन्तरं शृणु॥

मूलम्

राजन्नुदितमेतत् ते हरेः कर्माघनाशनम्।
गजेन्द्रमोक्षणं पुण्यं रैवतं त्वन्तरं शृणु॥ १ ॥

अनुवाद (हिन्दी)

श्रीशुकदेवजी कहते हैं—परीक्षित्! भगवान‍्की यह गजेन्द्रमोक्षकी पवित्र लीला समस्त पापोंका नाश करनेवाली है। इसे मैंने तुम्हें सुना दिया। अब रैवत मन्वन्तरकी कथा सुनो॥ १॥

वीरराघवः

एवं तामस-मन्वन्तर-कथन-प्रसङ्गानुप्रसक्तं1 गजेन्द्र-मोक्षोपवर्णनम् अनुवदन् पञ्चम-मन्वन्तरं श्रोतुं चोदयति मुनिः - राजन्न् इति । हे राजन् ! एतत् पुण्यतमं गजेन्द्र-मोक्षणात्मकं हरेः कर्म अघ-नाशनं दुरित-निवर्तकं मे मया 2ते तुभ्यं कथितम् । अथ पञ्चमं रैवतं मन्वन्तरं शृणु ॥ १ ॥

श्लोक-२

विश्वास-प्रस्तुतिः

पञ्चमो रैवतो नाम मनुस्तामससोदरः।
बलिविन्ध्यादयस्तस्य सुता अर्जुनपूर्वकाः॥

मूलम्

पञ्चमो रैवतो नाम मनुस्ताम3ससोदरः।
4बलिविन्ध्यादयस्तस्य सुता अर्जुनपूर्वकाः॥ २ ॥

अनुवाद (हिन्दी)

पाँचवें मनुका नाम था रैवत। वे चौथे मनु तामसके सगे भाई थे। उनके अर्जुन, बलि, विन्ध्य आदि कई पुत्र थे॥ २॥

वीरराघवः

तत्र पञ्चमो मनुः रैवत इति प्रसिद्धः । स च तामसस्य प्रियव्रतात्मजस्य सोदरः, तस्य रैवतस्य मनोः सुताः पुत्रास् तु बलि-विन्ध्यादयः । ते च अर्जुनः पूर्वोख्यो येषां तादृशाः ॥ २ ॥

श्लोक-३

विश्वास-प्रस्तुतिः

विभुरिन्द्रः सुरगणा राजन्भूतरयादयः।
हिरण्यरोमा वेदशिरा ऊर्ध्वबाह्वादयो द्विजाः॥

मूलम्

विभुरिन्द्रः सुरगणा राजन्भूतरयादयः।
हिरण्यरोमा वेदशिरा ऊर्ध्वबाह्वादयो द्विजाः॥ ३ ॥

अनुवाद (हिन्दी)

उस मन्वन्तरमें इन्द्रका नाम था विभु और भूतरय आदि देवताओंके प्रधान गण थे। परीक्षित्! उस समय हिरण्यरोमा, वेदशिरा, ऊर्ध्वबाहु आदि सप्तर्षि थे॥ ३॥

वीरराघवः

इन्द्रस् तु विभुर् इति प्रसिद्धः । हे राजन् ! भूतदयादयः भूतदय-प्रभृतयः देवाः, हिरण्यरोमादयः सप्तर्षयः ॥ ३ ॥

श्लोक-४

विश्वास-प्रस्तुतिः

पत्नी विकुण्ठा शुभ्रस्य वैकुण्ठैः सुरसत्तमैः।
तयोः स्वकलया जज्ञे वैकुण्ठो भगवान् स्वयम्॥

मूलम्

पत्नी विकुण्ठा शुभ्रस्य वैकुण्ठैः सुरसत्तमैः।
तयोः स्वकलया जज्ञे वैकुण्ठो भगवान् स्वयम्॥ ४ ॥

अनुवाद (हिन्दी)

उनमें शुभ्र ऋषिकी पत्नीका नाम था विकुण्ठा। उन्हींके गर्भसे वैकुण्ठ नामक श्रेष्ठ देवताओंके साथ अपने अंशसे स्वयं भगवान‍्ने वैकुण्ठ नामक अवतार धारण किया॥ ४॥

वीरराघवः

एवं मन्व्-आदयः पञ्चोक्ताः । 5अथावतारम् आह - पत्नीति । शुभ्रस्य भर्तुः विकुण्ठाख्या पत्नी, तयोर् विकुण्ठा-शुभ्रयोर् भगवान् कलया अंशेन वैकुण्ठ इति प्रसिद्धो ऽन्यैश् च वैकुण्ठाख्यैः सुर-सत्तमैः सह जज्ञे ऽवतीर्णः ॥ ४ ॥

श्लोक-५

विश्वास-प्रस्तुतिः

वैकुण्ठः कल्पितो येन लोको लोकनमस्कृतः।
रमया प्रार्थ्यमानेन देव्या तत्प्रियकाम्यया॥

मूलम्

वैकुण्ठः कल्पितो येन लोको6 लोकनमस्कृतः।
रमया प्रार्थ्यमानेन देव्या तत्प्रियकाम्यया॥ ५ ॥

अनुवाद (हिन्दी)

उन्हींने लक्ष्मीदेवीकी प्रार्थनासे उनको प्रसन्न करनेके लिये वैकुण्ठधामकी रचना की थी। वह लोक समस्त लोकोंमें श्रेष्ठ है॥ ५॥

वीरराघवः

वैकुण्ठाख्यं भगवन्तं विशिनष्टि - वैकुण्ठ इति । देव्या रमया लक्ष्म्या प्रार्थ्यमानेन येन वैकुण्ठेन भगवता तस्या लक्ष्म्याः प्रियं कर्तुम् इच्छया वैकुण्ठः वैकुण्ठाख्यो लोकः कश्चिद् अण्डान्तर्व7र्ती कल्पितः । स च लोकालोक-पर्वतस्यैर् जनैः नमस्कृतः लोकालोक-पर्वतोपरि निर्मित इति भावः ॥ ५ ॥

श्लोक-६

विश्वास-प्रस्तुतिः

तस्यानुभावः कथितो गुणाश्च परमोदयाः।
भौमान् रेणून्स विममे यो विष्णोर्वर्णयेद् गुणान्॥

मूलम्

तस्यानुभावः कथितो गुणाश्च परमोदयाः।
भौमान् रेणून्स विममे यो विष्णोर्वर्णयेद् गुणान्॥ ६ ॥

अनुवाद (हिन्दी)

उन वैकुण्ठनाथके कल्याणमय गुण और प्रभावका वर्णन मैं संक्षेपसे (तीसरे स्कन्धमें) कर चुका हूँ। भगवान् विष्णुके सम्पूर्ण गुणोंका वर्णन तो वह करे, जिसने पृथ्वीके परमाणुओंकी गिनती कर ली हो॥ ६॥

वीरराघवः

तस्य वैकुण्ठस्य भगवतो ऽनुभावः सनकादि-शापेन दैत्यतां प्राप्ताभ्यां जय-विजयाभ्यां वराहादि-रूपेण युद्धादि-लक्षणः प्रभावो गुणाश् च ब्रह्मण्यतादयः परमोदया; महर्द्धयश् च कथिताः । तृतीय-सप्तम-स्कन्धादिषु कथिताः 8सङ्ग्रहेण कथिताः8 कार्त्स्न्येना ऽधुना कथयेत्य् अत्रा ऽऽह - भौमान् इति यः पुमान् विष्णोः गुणान् वर्णयन् साकल्येनेति शेषः । स भौमान् भू-सम्भवान् रेणून् विममे गणयेत्, भौमानां रेणूनां गणनवद् विष्णोः गुणानां साकल्येन वर्णनम् अशक्यम् इत्य्-अर्थः । यद्य् अपि वराहावतार; स्वायम्भुव-मन्वन्तरारम्भ-कालिकः तृतीय-स्कन्धे उक्तः, जय-विजययोः सनकादि-शापेन दैत्यता-प्राप्तिस् तु रैवत-मन्वन्तरे इति तस्यानुभावः कथितः इत्य् एतद् असङ्गतम् । तथा ऽपि दंष्ट्राग्रेण भूमिम् उद्धृत्य यावद् हिरण्याक्ष-समागमस् तावत् समुद्रे विहरति सति वाराहे ऽस्मिन् मन्वन्तरे दैत्यतां प्राप्तो जयस् तेन हत इत्य् अवगन्तव्यम् । न चैवम् अपि तद्-वधस्य वराहावतारानुभावत्वात् वैकुण्ठावतारानुभावत्व-कथनम् असङ्गतम् इति वाच्यम् । अवताराणां भिन्नत्वे ऽप्य् अवतारिणो भगवतः एकत्वात् पार्षदयोः दैत्यत्व-प्राप्तेः वैकुण्ठावतार-समकालिकत्वात् तद् धननस्या ऽप्य् एतत्-सङ्कल्प-मूलकत्वाच् चेति विभावनीयम् ॥ ६ ॥

श्लोक-७

विश्वास-प्रस्तुतिः

षष्ठश्च चक्षुषः पुत्रश्चाक्षुषो नाम वै मनुः।
पूरुपूरुषसुद्युम्नप्रमुखाश्चाक्षुषात्मजाः॥

मूलम्

षष्ठ9स्तु चक्षुषः पुत्रश्चाक्षुषो नाम वै मनुः।
10पूरुः पूरुषसुद्युम्नप्रमुखाश्चाक्षुषात्मजाः॥ ७ ॥

अनुवाद (हिन्दी)

छठे मनु चक्षुके पुत्र चाक्षुष थे। उनके पूरु, पूरुष, सुद्युम्न आदि कई पुत्र थे॥ ७॥

वीरराघवः

षष्ठं मन्वन्तरम् आह - षष्ठस् त्व् इति । षष्ठस् तु मनुश् चाक्षुषः पुत्रश् चाक्षुष इति प्रसिद्धः, पूर्वादयश् चाक्षुषस्य मनोर् आत्मजाः ॥ ७ ॥

श्लोक-८

विश्वास-प्रस्तुतिः

इन्द्रो मन्त्रद्रुमस्तत्र देवा आप्यादयो गणाः।
मुनयस्तत्र वै राजन् हविष्मद्वीरकादयः॥

मूलम्

इन्द्रो 11मन्द्रद्रु12मस्तत्र देवा 13आप्यादयो गणाः।
मुनयस्तत्र वै राजन् हविष्मद्वीरकादयः॥ ८ ॥

अनुवाद (हिन्दी)

इन्द्रका नाम था मन्त्रद्रुम और प्रधान देवगण थे आप्य आदि। उस मन्वन्तरमें हविष्यमान् और वीरक आदि सप्तर्षि थे॥ ८॥

वीरराघवः

इन्द्रस् तु मन्द्रद्रुम इति प्रसिद्धः । तत्र मन्वन्तरे आप्यादयो 14गणा देव-गणा; हे राजन् ! तत्र मन्वन्तरे हविष्मद्-आदयः सप्तर्षयः । एवं मन्व्-आदयः पञ्चोक्ताः ॥ ८ ॥

श्लोक-९

विश्वास-प्रस्तुतिः

तत्रापि देवः सम्भूत्यां वैराजस्याभवत् सुतः।
अजितो नाम भगवानंशेन जगतः पतिः॥

मूलम्

तत्रापि देवः सम्भूत्यां वैराजस्याभवत् सुतः।
अजितो नाम भगवानंशेन जगतः पतिः॥ ९ ॥

अनुवाद (हिन्दी)

जगत्पति भगवान‍्ने उस समय भी वैराजकी पत्नी सम्भूतिके गर्भसे अजित नामका अंशावतार ग्रहण किया था॥ ९॥

वीरराघवः

अवतारम् आह - तत्रापीति । तत्रा ऽपि षष्ठे मन्वन्तरे वैराजस्य भर्तुः सम्भूत्य्-आख्यायां भार्यायां जगती पतिः भगवान् अंशेना ऽजित इति प्रसिद्धो ऽभवत् ॥ ९ ॥

श्लोक-१०

विश्वास-प्रस्तुतिः

पयोधिं येन निर्मथ्य सुराणां साधिता सुधा।
भ्रममाणोऽम्भसि धृतः कूर्मरूपेण मन्दरः॥

मूलम्

15पयोधिं येन निर्मथ्य सुराणां साधिता सुधा।
भ्रममाणोऽम्भसि धृतः कूर्मरूपेण मन्दरः॥ १० ॥

अनुवाद (हिन्दी)

उन्होंने ही समुद्रमन्थन करके देवताओंको अमृत पिलाया था, तथा वे ही कच्छपरूप धारण करके मन्दराचलकी मथानीके आधार बने थे॥ १०॥

वीरराघवः

अवतार-प्रश्नावसरं प्रयच्छन् 16अजिताख्यं भगवन्तं16 विशिनष्टि - पयोधिम् इति । येना ऽजितेन पयोधिं क्षीरोदधिं निर्मथ्य सुराणां सुधा-ऽमृतं साधिता सम्पादिता । येन च कूर्म-रूपेणा ऽम्भसि भ्रममाणो मन्दरो ऽद्रिः पृष्ठे धृतः ॥ १० ॥

श्लोक-११

मूलम् (वचनम्)

राजोवाच

विश्वास-प्रस्तुतिः

यथा भगवता ब्रह्मन् मथितः क्षीरसागरः।
यदर्थं वा यतश्चाद्रिं दधाराम्बुचरात्मना॥

मूलम्

यथा भगवता ब्रह्मन्! मथितः क्षीरसागरः।
यदर्थं वा यतश्चाद्रिं दधाराम्बुचरात्मना॥ ११ ॥

अनुवाद (हिन्दी)

राजा परीक्षित् ने पूछा—भगवन्! भगवान‍्ने क्षीरसागरका मन्थन कैसे किया? उन्होंने कच्छपरूप धारण करके किस कारण और किस उद्देश्यसे मन्दराचलको अपनी पीठपर धारण किया?॥ ११॥

वीरराघवः

लब्धावसरः पृच्छति राजा - यथेति त्रिभिः । हे ब्रह्मन् ! भगवताजितेन यथा क्षीरसागरो मथितः यया रीत्या मथितः, यदर्थं येषां प्रयोजनार्थं मथितः यतश् च हेतोर् अम्बुचरात्मना कूर्म-रूपेणाद्रिं मन्दरं दधार ॥ ११ ॥

श्लोक-१२

विश्वास-प्रस्तुतिः

यथामृतं सुरैः प्राप्तं किञ्चान्यदभवत् ततः।
एतद् भगवतः कर्म वदस्व परमाद‍्भुतम्॥

मूलम्

यथाऽमृतं सुरैः प्राप्तं 17किंवाऽन्यदभवत् ततः।
एतद् भगवतः कर्म वदस्व परमाद‍्भुतम्॥ १२ ॥

अनुवाद (हिन्दी)

देवताओंको उस समय अमृत कैसे मिला? और भी कौन-कौन-सी वस्तुएँ समुद्रसे निकलीं? भगवान‍्की यह लीला बड़ी ही अद‍्भुत है, आप कृपा करके अवश्य सुनाइये॥ १२॥

वीरराघवः

येन च प्रकारेण देवैर् अमृतं लब्धं, ततो मथनाद् अन्यत्, अमृताद् व्यतिरिक्तम् अपि वस्तु किं किम् अभवत्? एतत् पयो-दधि-मथनात्मकं भगवतो ऽद्भुतं कर्म वदस्व ॥ १२ ॥

श्लोक-१३

विश्वास-प्रस्तुतिः

त्वया सङ्कथ्यमानेन महिम्ना सात्वतां पतेः।
नातितृप्यति मे चित्तं सुचिरं तापतापितम्॥

मूलम्

त्वया स18ङ्कीर्त्यमानेन महिम्ना सात्त्वतां पतेः।
19नाऽतितृप्यति मे चित्तं सुचिरं तापतापितम्॥ १३ ॥

अनुवाद (हिन्दी)

आप भक्तवत्सल भगवान‍्की महिमाका ज्यों-ज्यों वर्णन करते हैं, त्यों-ही-त्यों मेरा हृदय उसको और भी सुननेके लिये उत्सुक होता जा रहा है। अघानेका तो नाम ही नहीं लेता। क्यों न हो, बहुत दिनोंसे यह संसारकी ज्वालाओंसे जलता जो रहा है॥ १३॥

वीरराघवः

स्वस्थ-शुश्रूषाम् व्यनक्ति - त्वयेति । त्वया सम्यक् कीर्त्यमानेन सात्त्वतां पतेर् भगवतो महिम्ना मे चित्तं नैव तृप्यति । अतृप्तौ हेतुं वदंश् चित्तं विशिष्टं - सुचिरं बहुकालं तापेनाध्यात्मिकादि-ताप-त्रयेण तापितं दुःखितम् ॥ १३ ॥

श्लोक-१४

मूलम् (वचनम्)

सूत उवाच

विश्वास-प्रस्तुतिः

सम्पृष्टो भगवानेवं द्वैपायनसुतो द्विजाः।
अभिनन्द्य हरेर्वीर्यमभ्याचष्टुं प्रचक्रमे॥

मूलम्

20विष्णुरातेन सम्पृष्टो भगवान् बादरायणिः20
अभिनन्द्य हरेर्वीर्य21मभ्याचष्टुं प्र21चक्रमे॥ १४ ॥

अनुवाद (हिन्दी)

सूतजीने कहा—शौनकादि ऋषियो! भगवान् श्रीशुकदेवजीने राजा परीक्षित् के इस प्रश्नका अभिनन्दन करते हुए भगवान‍्की समुद्र-मन्थन-लीलाका वर्णन आरम्भ किया॥ १४॥

वीरराघवः

एवम् आपृष्टो भगवान् बादरायणिः प्रश्नम् अभिनन्द्य कथयामासेत्य् आह सूतः - सम्पृष्ट इति । हे द्विजाः ! इत्थं सम्पृष्टो भगवान् द्वैपायनसुतश् शुकः राज्ञः प्रश्नम् अभिनन्द्य हरेर् वीर्यं माहात्म्यम् अभ्याचष्टुं कथयितुं प्रचक्रमे आरेभे ॥ १४ ॥

श्लोक-१५

मूलम् (वचनम्)

श्रीशुक उवाच

विश्वास-प्रस्तुतिः

यदा युद्धेऽसुरैर्देवा बाध्यमानाः शितायुधैः।
गतासवो निपतिता नोत्तिष्ठेरन्स्म भूयशः॥

मूलम्

यदा युद्धेऽसुरैर्देवा बा22ध्यमानाः शितायुधैः।
गतासवो निपतिता नोत्तिष्ठेर23न् पुनश्चते23॥ १५ ॥

अनुवाद (हिन्दी)

श्रीशुकदेवजी कहते हैं—परीक्षित्! जिस समयकी यह बात है, उस समय असुरोंने अपने तीखे शस्त्रोंसे देवताओंको पराजित कर दिया था। उस युद्धमें बहुतोंके तो प्राणोंपर ही बन आयी, वे रणभूमिमें गिरकर फिर उठ न सके॥ १५॥

वीरराघवः

24तदेवाह24 - यदे25त्याद्यष्टभिर् अध्यायैः । पयो-दधिनर्मथनात्मकं भगवतश् चरित्रं वक्तुं तावत् तद् उपोद्घातं प्रपञ्चयति द्वाभ्याम् अध्यायाभ्याम् । यदाऽसुरैः कर्तृभिः निशितायुधैः साधनैर् युध्यमाना देवाः गत-प्राणाः निपातिताः । बहुशः पुनर् नोत्तिष्ठेरन् ना ऽजीवन् स्म ॥ १५ ॥

श्लोक-१६

विश्वास-प्रस्तुतिः

यदा दुर्वाससः शापात् सेन्द्रा लोकास्त्रयो नृप।
निःश्रीकाश्चाभवंस्तत्र नेशुरिज्यादयः क्रियाः॥

मूलम्

यदा दुर्वास26सः शापात् सेन्द्रा लोकास्त्रयो नृप।
निःश्रीकाश्चाभवंस्तत्र नेशुरिज्यादयः क्रियाः॥ १६ ॥

अनुवाद (हिन्दी)

दुर्वासाके शापसे* तीनों लोक और स्वयं इन्द्र भी श्रीहीन हो गये थे। यहाँतक कि यज्ञ-यागादि धर्म-कर्मोंका भी लोप हो गया था॥ १६॥

पादटिप्पनी
  • यह प्रसंग विष्णुपुराणमें इस प्रकार आया है। एक बार श्रीदुर्वासाजी वैकुण्ठलोकसे आ रहे थे। मार्गमें ऐरावतपर चढ़े देवराज इन्द्र मिले। उन्हें त्रिलोकाधिपति जानकर दुर्वासाजीने भगवान‍्के प्रसादकी माला दी; किन्तु इन्द्रने ऐश्वर्यके मदसे उसका कुछ भी आदर न कर उसे ऐरावतके मस्तकपर डाल दिया। ऐरावतने उसे सूँड़में लेकर पैरोंसे कुचल डाला। इससे दुर्वासाजीने क्रोधित होकर शाप दिया कि तू तीनों लोकोंसहित शीघ्र ही श्रीहीन हो जायगा।
वीरराघवः

यदा च दुर्वाससो मुनेः शापेनेन्द्रेण सहितास् त्रयो लोकाः निःश्रीकाः निर्लक्ष्मीकाः निस्सम्पदो ऽभवन् । दुर्वाससा हि कदाचिन् मार्गे गच्छन्तम् इन्द्रं दृष्ट्वा स्व-कण्ठ-मालां कृपया तस्मै दत्ता । तेन च इन्द्रेण श्रीमदेन अनादृत्य माला ऐरावतस्य कुम्भे निक्षिप्ता । स च मत्तः पद्भ्यां मालां चूर्णीचकार । ततः कुपितो दुर्वासास् तं शशाप त्रिभिर् लोकैस् सह 27त्वं निःश्रीको भवेति तद् एतद् उक्तं - यदा दुर्वाससश् शापेनेति । तत्र तदा इज्यादयो यागादयः क्रियाः नेशुर् न समर्थाः श्रियं वर्धयितुं नाशक्नुवन्न् इत्य्-अर्थः ॥ १६ ॥

श्लोक-१७

विश्वास-प्रस्तुतिः

निशाम्यैतत् सुरगणा महेन्द्रवरुणादयः।
नाध्यगच्छन्स्वयं मन्त्रैर्मन्त्रयन्तो विनिश्चयम्॥

मूलम्

निशाम्यैतत् सुरगणा महेन्द्रवरुणादयः।
नाध्यगच्छन्स्वयं मन्त्रैः मन्त्रयन्तो विनिश्चयम्॥ १७ ॥

अनुवाद (हिन्दी)

यह सब दुर्दशा देखकर इन्द्र, वरुण आदि देवताओंने आपसमें बहुत कुछ सोचा-विचारा; परन्तु अपने विचारोंसे वे किसी निश्चयपर नहीं पहुँच सके॥ १७॥

वीरराघवः

तदा सुर-गणः इन्द्रादि-देव-गणः एतत्-त्रैलोक्यस्य निः-श्रीकत्वं पतितानां देवानाम् अनुत्थानञ् च निशाम्य दृष्ट्वा स्वयं मन्त्रैर् मन्त्रयन्तो ऽपि आलो28चनानि कुर्वन्तो ऽपि विनिश्चयं सश्रीकत्वाद्यावहोपायनिश्चयं नाध्यगच्छन् न प्रापुः29 ॥ १७ ॥

श्लोक-१८

विश्वास-प्रस्तुतिः

ततो ब्रह्मसभां जग्मुर्मेरोर्मूर्धनि सर्वशः।
सर्वं विज्ञापयाञ्चक्रुः प्रणताः परमेष्ठिने॥

मूलम्

ततो ब्रह्मसभां जग्मुर्मेरोर्मूर्धनि सर्वशः।
सर्वं विज्ञापयाञ्चक्रुः प्रणताः परमेष्ठिने॥ १८ ॥

अनुवाद (हिन्दी)

तब वे सब-के-सब सुमेरुके शिखरपर स्थित ब्रह्माजीकी सभामें गये और वहाँ उन लोगोंने बड़ी नम्रतासे ब्रह्माजीकी सेवामें अपनी परिस्थितिका विस्तृत विवरण उपस्थित किया॥ १८॥

वीरराघवः

ततो निश्चयान् अधिगमनानन्तरं मेरोर् मूर्धनि स्थितां ब्रह्मणश् चतुर्मुखस्य सभां सर्वशः सर्वे जग्मुः । तत्र गत्वा सर्वे प्रणताः कृत-प्रणामाः परमेष्ठिने ब्रह्मणे विज्ञापयाञ्चक्रुः30 ॥ १८ ॥

श्लोक-१९

विश्वास-प्रस्तुतिः

स विलोक्येन्द्रवाय्वादीन् निःसत्त्वान् विगतप्रभान्।
लोकानमङ्गलप्रायानसुरानयथा विभुः॥

मूलम्

स विलोक्येन्द्रवाय्वादीन् निःसत्त्वान् विगतप्रभान्।
लोकानमङ्गलप्राया31नसुरान31यथा विभुः॥ १९ ॥

अनुवाद (हिन्दी)

ब्रह्माजीने स्वयं देखा कि इन्द्र, वायु आदि देवता श्रीहीन एवं शक्तिहीन हो गये हैं। लोगोंकी परिस्थिति बड़ी विकट, संकटग्रस्त हो गयी है और असुर इसके विपरीत फल-फूल रहे हैं॥ १९॥

वीरराघवः

32ततः श्रुत्वा ब्रह्मा किम् अकरोद् इत्य् अत आह - स इति32 । ततः स परमेष्ठी विगत-प्रभान् निस्-तेजस्कान् निस्-सत्त्वान् बल-हीनान् इन्द्र-वाय्वादीन् देव-गणान् 33अमङ्गलान्33 34मङ्गल-रहितान् इव स्थितान्34 त्रीन् लोकांश् च विलोक्य तथा असुरान् देव35गणाद्-विलक्षणान् तेजो-बलादि-युक्तांश् च विलोक्य 36सुरान् आहेत्य् उत्तरेणान्वयः36 विभुर् ब्रह्मा ॥ १९ ॥

श्लोक-२०

विश्वास-प्रस्तुतिः

समाहितेन मनसा संस्मरन् पुरुषं परम्।
उवाचोत्फुल्लवदनो देवान् स भगवान् परः॥

मूलम्

समाहितेन मनसा संस्मरन् पुरुषं परम्।
उवाचोत्फुल्लवदनो देवान् स भगवान् परः॥ २० ॥

अनुवाद (हिन्दी)

समर्थ ब्रह्माजीने अपना मन एकाग्र करके परम पुरुष भगवान‍्का स्मरण किया; फिर थोड़ी देर रुककर प्रफुल्लित मुखसे देवताओंको सम्बोधित करते हुए कहा॥ २०॥

वीरराघवः

समीहितेनैकाग्रेण मनसा परम-पुरुषं संस्मरन् परम-पुरुष-शरण-वरणेन यथापूर्वं सर्वं प्राप्स्याम इति हर्षेणोत्फुलं विकसितं वदनं यस्य स भगवान् ब्रह्मा देवान् इन्द्र-37प्रमुखान् 38सुरान् देवान् उवाच ॥ २० ॥

श्लोक-२१

विश्वास-प्रस्तुतिः

अहं भवो यूयमथोऽसुरादयो
मनुष्यतिर्यग्द्रुमघर्मजातयः।
यस्यावतारांशकलाविसर्जिता
व्रजाम सर्वे शरणं तमव्ययम्॥

मूलम्

अहं भवो यूयम39थासुरादयो मनुष्यतिर्यग्द्रुमघर्मजा40तयः।
41यस्यावतारांशकलाविसर्जिता व्रजाम सर्वे शरणं तमव्ययम्॥ २१ ॥

अनुवाद (हिन्दी)

‘देवताओ! मैं, शंकरजी, तुमलोग तथा असुर, दैत्य, मनुष्य, पशु-पक्षी, वृक्ष और स्वेदज आदि समस्त प्राणी जिनके विराट् रूपके एक अत्यन्त स्वल्पातिस्वल्प अंशसे रचे गये हैं—हमलोग उन अविनाशी प्रभुकी ही शरण ग्रहण करें॥ २१॥

वीरराघवः

तद् एवाह - अहम् इति त्रिभिः । अस्मदादयः सर्वे यस्य भगवतो ऽवतारः सृष्ट्य्-अधिकृतो ऽनिरुद्धः तस्यां शकलया अंशांशेन ज्ञान-शक्त्य्-आदि-गुण-लेशेन विसर्जिताः उत्पादिताः, तम् एवाव्ययं भगवन्तं शरणं व्रजाम 42गच्छाम । यः स्रष्टा स एवास्माकं रक्षिता अतस् तम् एव शरणं व्रजाम । इतो ऽन्यो न कश्चिद् उपायो ऽस्तीति भावः । तत्राहं 43चतुर्मुखः, भवो रुद्रः, यूयं देवाः, द्रुमाः वृक्षाः, धर्म44जादयः स्वेदजोद्भि45ज्जादयः ॥ २१ ॥

श्लोक-२२

विश्वास-प्रस्तुतिः

न यस्य वध्यो न च रक्षणीयो
नोपेक्षणीयादरणीयपक्षः।
अथापि सर्गस्थितिसंयमार्थं
धत्ते रजःसत्त्वतमांसि काले॥

मूलम्

न यस्य वध्यो न च रक्षणीयो नोपेक्षणीयादरणीयपक्षः।
46तथाऽपि सर्गस्थितिसंयमार्थं धत्ते रजःसत्त्वतमांसि काले॥ २२ ॥

अनुवाद (हिन्दी)

यद्यपि उनकी दृष्टिमें न कोई वधका पात्र है और न रक्षाका, उनके लिये न तो कोई उपेक्षणीय है न कोई आदरका पात्र ही—फिर भी सृष्टि, स्थिति और प्रलयके लिये समय-समयपर वे रजोगुण, सत्त्वगुण और तमोगुणको स्वीकार किया करते हैं॥ २२॥

वीरराघवः

ननु तेन यथा वयं सृष्टास् तथा ऽसुरा अपि । अतस् तान् निगृह्य वैषम्यादि-प्राकृत-गुण-रहितः कथम् अस्मान् रक्षिष्यतीत्य् आशङ्कां निराह - न यस्येति द्वाभ्याम् । तत्र अर्धेनाक्षेपः, सार्धेन तु परिहारः । यद्य् अप्य् अस्य वैषम्य-नैर्घृण्यादि-प्राकृत-गुण-रहितस्य वध्यादि-पक्षो ना ऽस्ति, तथा ऽपि जगतः सृष्ट्य्-आद्यर्थं, काले सृष्ट्य्-आद्युपभुक्त-काले रजस्-सत्त्व-तमांसि धत्ते बिभर्ति । त्रिगुणोन्मेष-निमित्त-कर्मानुगुणं प्रवर्तत इत्य्-अर्थः ॥ २२ ॥

श्लोक-२३

विश्वास-प्रस्तुतिः

अयं च तस्य स्थितिपालनक्षणः
सत्त्वं जुषाणस्य भवाय देहिनाम्।
तस्माद् व्रजामः शरणं जगद‍्गुरुं
स्वानां स नो धास्यति शं सुरप्रियः॥

मूलम्

अयं 47तु तस्य स्थितिपालनक्षणः सत्त्वं जुषाणस्य भवाय देहिनाम्।
तस्माद् व्रजामः शरणं जगद‍्गुरुं स्वानां स नो 48दास्यति शं सुरप्रियः॥ २३ ॥

अनुवाद (हिन्दी)

उन्होंने इस समय प्राणियोंके कल्याणके लिये सत्त्वगुणको स्वीकार कर रखा है। इसलिये यह जगत‍्की स्थिति और रक्षाका अवसर है। अतः हम सब उन्हीं जगद‍्गुरु परमात्माकी शरण ग्रहण करते हैं। वे देवताओंके प्रिय हैं और देवता उनके प्रिय। इसलिये हम निजजनोंका वे अवश्य ही कल्याण करेंगे॥ २३॥

वीरराघवः

49तर्हि रज-आदि49 धत्तां नाम, तथा ऽपि प्रकृते किम् आयातम् इति चेत्, तत्रा ऽह - अयन् त्व् इति । देहिनां भवाय सत्तायै स्थितये इत्य्-अर्थः । सत्त्वं जुषाणस्य सत्त्व-गुणोन्मेष-निमित्त-कर्मानुगुणं प्रवृत्तस्य तस्य भगवतो ऽयं स्थिति-पालन-क्षणः, स्थित्य्-आत्मक-पालनस्य कालः, सत्त्व-प्रधान-देवादि-पालन-कालो ऽयम् इति भावः । यत एवं तस्मात् सर्वे वयं जगद्-हितकारिणं शरणं व्रजामः रक्षणोपायत्वेन अध्यवस्यामः । स्वानां शरण-व्रजन-मात्रेण स्वीयत्वेन परिगृहीतानाम् अस्माकं शं सुखं दास्यति यतो ऽयं 50भगवान्50 स्वत एव सुराः प्रिया यस्य तादृशः ॥ २३ ॥

श्लोक-२४

मूलम् (वचनम्)

श्रीशुक उवाच

विश्वास-प्रस्तुतिः

इत्याभाष्य सुरान्वेधाः सह देवैररिंदम।
अजितस्य पदं साक्षाज्जगाम तमसः परम्॥

मूलम्

इत्याभाष्य सुरान्वेधाः सह देवैररिन्दम।
अजितस्य पदं 51साक्षाज्जगाम तमसः परम्॥ २४ ॥

अनुवाद (हिन्दी)

श्रीशुकदेवजी कहते हैं—परीक्षित्! देवताओंसे यह कहकर ब्रह्माजी देवताओंको साथ लेकर भगवान् अजितके निजधाम वैकुण्ठमें गये। वह धाम तमोमयी प्रकृतिसे परे है॥ २४॥

वीरराघवः

52एवं ब्रह्मा असुरान् प्रत्युक्त्वा अजितस्य भगवतः स्थानं तैस् सुरैस् सह जगामेत्य् आह भगवान् बादरायणिः - इतीति52 । हे अरिन्दम ! 53काम-क्रोधादि-दमन ! राजन् ! इतीत्थं 54सुरान् देवान् आभाष्य वेधाः 55ब्रह्मा 56सर्वं जगद् विदधाति सृजतीति तथा तादृश-चतुर्मुखः56 देवैस् सह लोकात् यत् परम् अलोकाख्यं तमः तस्मात् तमसः परम् अजितस्य 57भगवतः57 पदं स्थानं जगाम 58ययौ ॥ २४ ॥

श्लोक-२५

विश्वास-प्रस्तुतिः

तत्रादृष्टस्वरूपाय श्रुतपूर्वाय वै विभो।
स्तुतिमब्रूत दैवीभिर्गीर्भिस्त्ववहितेन्द्रियः॥

मूलम्

तत्राऽदृष्टस्वरूपाय श्रुतपूर्वाय 59वै विभो59
स्तु60ति61मब्रूत दैवीभिर्गीर्भिस्त्ववहितेन्द्रियः॥ २५ ॥

अनुवाद (हिन्दी)

इन लोगोंने भगवान‍्के स्वरूप और धामके सम्बन्धमें पहलेसे ही बहुत कुछ सुन रखा था, परन्तु वहाँ जानेपर उन लोगोंको कुछ दिखायी न पड़ा। इसलिये ब्रह्माजी एकाग्र मनसे वेदवाणीके द्वारा भगवान‍्की स्तुति करने लगे॥ २५॥

वीरराघवः

तत्र पदे अदृष्ट-स्व-रूपाय । “न मां स-चक्षुर् अभिवीक्षते तम्” । इत्य्-आद्य्-उक्त-रीत्या स्वस्य दुर्दर्शनत्वं ज्ञापयितुम् अदृष्टं ब्रह्मादिभिः 62कदा ऽपि 63न दृष्टं63 स्व-रूपं यस्य तस्मै । श्रुत-पूर्वाय पूर्वं श्रुतः 64वेद-शास्त्रादिभिर् इति64 श्रुत-पूर्वः तस्मै । अजिताख्यो भगवान् अवतीर्णः इत्य् एतावन्मात्रं ब्रह्मादिभिः श्रुतं, न तु दृष्ट इति भावः । एवं-विधाय तस्मै, प्रणम्येति शेषः । स्तव-हितेन्द्रियः स्तवाय हितेन्द्रियः स्तोतुं समाहितेन्द्रियो ब्रह्मा दैवीभिः औपनिषदर्थानुकारिणीभिः गीर्भिः अभिभोः स्वयम् अनभिभूतः इतरान् अभिभवति जयतीत्य् अभिभूः अजितः, तस्य स्तुतं भावेक्तः, स्तुतिम् अब्रूत, उवाच अकरोद् इत्य् अर्थः ॥ २५ ॥

श्लोक-२६

मूलम् (वचनम्)

65ब्रह्मोवाच

विश्वास-प्रस्तुतिः

अविक्रियं सत्यमनन्तमाद्यं
गुहाशयं निष्कलमप्रतर्क्यम्।
मनोऽग्रयानं वचसानिरुक्तं
नमामहे देववरं वरेण्यम्॥

मूलम्

अविक्रियं सत्यमनन्तमाद्यं गुहाशयं निष्कलमप्रतर्क्यम्।
मनोऽग्रयानं वचसाऽनिरुक्तं नमामहे देववरं वरेण्यम्॥ २६ ॥

अनुवाद (हिन्दी)

ब्रह्माजी बोले—भगवन्! आप निर्विकार, सत्य, अनन्त, आदिपुरुष, सबके हृदयमें अन्तर्यामीरूपसे विराजमान, अखण्ड एवं अतर्क्य हैं। मन जहाँ-जहाँ जाता है, वहाँ-वहाँ आप पहलेसे ही विद्यमान रहते हैं। वाणी आपका निरूपण नहीं कर सकती। आप समस्त देवताओंके आराधनीय और स्वयंप्रकाश हैं। हम सब आपके चरणोंमें नमस्कार करते हैं॥ २६॥

वीरराघवः

स्तुतम् एवाह - अविक्रियम् इत्यादिना । तावत् प्रकृति-पुरुष-विलक्षणं तत्-तद्-उपनिषत्-प्रतिपाद्यं परमात्म-स्व-रूपं विशोध्य नमस्कृत्य शरणं व्रजति - अविक्रियाम् इति द्वाभ्याम् । हे देव ! त्वां मामः नमस्कुर्मः । बहु-वचनम् इन्द्रादि-देवताभिप्रायकम् । कथम्भूतम् ! वरं श्रेष्ठं, निस्समाभ्यधिकम् अत एव वरणीयम् । वरम् इत्य् अनेन - “न तत्समश् चा ऽभ्यधिकश् च दृश्यते” (श्वेता. ३. ६-८) इति श्रुत्यर्थस् सूचितः । देव-वरेण्य-शब्दाभ्यां गायत्र्य् अर्थः । वरत्वे हेतुः - मनो-ऽग्रयानम् । वचसा ऽनिरूक्तम्, मनसो ऽग्रे अविषयत्वेन यो ऽनिवर्तत इति तथा । वचसा निर्वक्तुम् अशक्यं, वाङ्मनसाविषयम् इत्य् अर्थः । सर्वं हि चेतनाचेतनात्मकं जगद्-वाङ्मनसयोः विषयम् अत एव वरम् । परमात्मा तु तद्-अविषयत्वाद् वर इत्य्-अर्थः । यद्य् अपि परमात्मा ऽपि योग-परिशुद्ध-मनोविषयो वेदान्त-वाग्-विषयश् च, तथा ऽपि इयत्तया ताभ्याम् अपि परिच्छेत्तुम् अशक्यो ऽनन्त-स्व-रूप-स्व-भावत्वाद् इति भावः । वाङ्मन-साविषयत्वे हेतुर् अप्रतर्क्यम् इति । प्रकृति-पुरुष-सजातीयत्वेन तर्कितुम् अशक्यम् । यत् प्रतर्क्यं तद् एव वाङ्मनस-विषयम् इति भावः । अप्रतर्क्ये हेतुः - निष्कलम् इति । कला अवयवाः । निरवयवं कर्मायत्त-प्राकृत-शरीर-रहितम् इत्य्-अर्थः । यत् सकलं तद् एव प्रतर्क्यम् इति भावः । आकाशादिकम् अपि सकलम् एवेति तात्पर्यम् । तर्हि ईदृशः कुत्रास्ते ? इत्य् अत आह - गुहा-शयम् अस्मद्-आदि-हृदय-गुहायाम् एव 66शयं शयानं वसन्तम् इत्य्-अर्थः । स तर्हि किं जीवः ? “हृदि ह्य् अयम् आत्मा प्रतिष्ठितः” (प्रश्न.उ. ३-६) इति श्रवणात् नेत्य् आह - आद्यम् आदौ भवम् आद्यम्, हृदयावस्थ-जीवानाम् अपि उपादान-कारणतया आदौ वर्तमानम् । गुहा-शयत्व-प्रयुक्तं परिच्छिन्नत्वं वारयति - अनन्तम् इति । उपासकानुग्रहाय, अन्तरात्मतया नियमनाय च हृदयावच्छिन्नत्वे ऽपि स्व-रूपतो देश-काल-वस्तु-परिच्छेद-रहितम् । आद्यत्व-प्रयुक्तं स्व-रूपतः स्व-भावतश् च प्रकृति-पुरुषयोर् इव प्राप्तं विकारं वारयति । अविक्रियं सत्यम् इति अविक्रियं प्रकृतिर् इव स्व-रूपान्यथाभाव-रूप-विकार-रहितम् । सत्यम्, पुरुष इव स्व-भावान्यथाभाव-67रूप-विकार67-रहितम् । स-द्वारकत्वाद् विकारस्याद्यत्वे ऽपि स्व-रूपतः स्व-भावतश् च निर्विकारम् एवेति भावः । अत्र प्रतिपदं “सत्यं ज्ञानम् अनन्तम्” (तैत्ति.उ. २-१-१) निष्क्रियं निष्कलं शान्तं निरवद्यम् (श्वेता.उ. ६-१९) “तं दुर्दर्शं गूढम् अनुप्रविष्टं गुहाहितम्” (कठ. उ. २-१२) “अनेजद् एकं मनसो जवीयो नैनद् देवा आप्नुवन्” (ईश. उ. ३-४) “यद् वाचा ऽनभ्युदितम्” (केन. उ. १-४) इत्यादि श्रुत्यर्थो ऽनुसन्धेयः ॥ २६ ॥

श्लोक-२७

विश्वास-प्रस्तुतिः

विपश्चितं प्राणमनोधियात्मना-
मर्थेन्द्रियाभासमनिद्रमव्रणम्।
छायातपौ यत्र न गृध्रपक्षौ
तमक्षरं खं त्रियुगं व्रजामहे॥

मूलम्

विपश्चितं प्राणमनोधियात्मनामर्थेन्द्रियाभासमनिद्रमव्रणम्।
छायातपौ यत्र न गृध्रपक्षौ तमक्षरं स्वं त्रियुगं व्रजामहे॥ २७ ॥

अनुवाद (हिन्दी)

आप प्राण, मन, बुद्धि और अहंकारके ज्ञाता हैं। इन्द्रियाँ और उनके विषय दोनों ही आपके द्वारा प्रकाशित होते हैं। अज्ञान आपका स्पर्श नहीं कर सकता। प्रकृतिके विकार मरने-जीनेवाले शरीरसे भी आप रहित हैं। जीवके दोनों पक्ष—अविद्या और विद्या आपमें बिलकुल ही नहीं हैं। आप अविनाशी और सुखस्वरूप हैं। सत्ययुग, त्रेता और द्वापरमें तो आप प्रकटरूपसे ही विराजमान रहते हैं। हम सब आपकी शरण ग्रहण करते हैं॥ २७॥

वीरराघवः

अन्यैर् अपि प्रकृति-पुरुषयोर् असम्भावितैः गुणैर् 68देवं विशिंषन् शरणं व्रजति - विपश्चितम् इति । प्राणादीनां विपश्चितं साक्षात्कर्तारम्, तत्रात्मानो जीवाः । न हि सर्व-प्रकृति-विकार-जीव-युगपत्-साक्षात्-कर्तृत्वम् एकस्य जीवस्य सम्भावितम् इति भावः । अर्थाः शब्दादयो विषयाः, तद्-वाहकानि श्रोत्रादीनि इन्द्रियाणि च । तेषाम् आभासं प्रकाशकं, जीवानाम् अर्थेन्द्रिय-प्रकाशकम् इत्य्-अर्थः । अनिद्रम् निद्रा-ग्रहणं जाग्रदाद्यावस्थात्रयोपलक्षणम् अवस्था-त्रय-रहितम् इत्य्-अर्थः । तत्र हेतुः - अव्रणं कर्मायत्त-शरीर-रहितम् । तत्रापि हेतुः छायातपौ अज्ञानं तत्-मिश्रं ज्ञानञ् च गृध्र-पक्षौ - “गृधू अभिकाङ्क्षायाम्” रागादि-मत्-पुरुषाश्रयौ यत्र यस्मिन् न स्तः तादृशम् अक्षरम् । अश्नोतेः सर-प्रत्ययः । सर्व-व्यापकम् । तत्र दृष्टान्तः - खम् आकाशम् इव व्याप्तम् इत्य्-अर्थः । त्रि-युगं पूर्ण-षाड्गुण्यं कृतादि-युग-त्रयाविर्भाववन्तं वा व्रजामहे, शरणम् इति शेषः ॥ २७ ॥

श्लोक-२८

विश्वास-प्रस्तुतिः

अजस्य चक्रं त्वजयेर्यमाणं
मनोमयं पञ्चदशारमाशु।
त्रिणाभि विद्युच्चलमष्टनेमि
यदक्षमाहुस्तमृतं प्रपद्ये॥

मूलम्

अजस्य चक्रं त्वजयेर्यमाणं मनोमयं पञ्चदशारमाशु।
त्रिणाभि विद्यु69च्चलमष्टनेमि यदक्षमाहुस्तमृतं प्रपद्ये॥ २८ ॥

अनुवाद (हिन्दी)

यह शरीर जीवका एक मनोमय चक्र (रथका पहिया) है। दस इन्द्रिय और पाँच प्राण—ये पंद्रह इसके अरे हैं। सत्त्व, रज और तम—ये तीन गुण इसकी नाभि हैं। पृथ्वी, जल, तेज, वायु, आकाश, मन, बुद्धि और अहंकार—ये आठ इसमें नेमि (पहियेका घेरा) हैं। स्वयं माया इसका संचालन करती है और यह बिजलीसे भी अधिक शीघ्रगामी है। इस चक्रके धुरे हैं स्वयं परमात्मा। वे ही एकमात्र सत्य हैं। हम उनकी शरणमें हैं॥ २८॥

वीरराघवः

पुनर् अप्य् असाधारणेन धर्मान्तरेण विशिंषन् शरणं व्रजित - अजस्य इति । मनोमयं चक्रं यद् अक्षं यः परमात्माक्षो यस्य तत् तथोक्तम् । यत्-शब्दस्य प्रतिनिर्देशः तम् इति तं परमात्मानम् ऋतं सत्यं प्रपद्ये शरणं व्रजाम इत्य् अन्वयः । मनो-व्यापार-मूलकं संसार-रूपं चक्रम् अजस्य भगवतो ऽजया मायया ईर्यमाणं प्रवर्त्यमानं पञ्चदशारं दशेन्द्रिय-पञ्च-वृत्ति-प्राणारम् । त्रि-णाभि त्रयस् सत्त्वादयो गुणा एव नाभिर् यस्य तत्, अनुकूल-प्रतिकूलोदासीन-वृत्त्युपेतं वा । अष्ट-नेमि “भूमिर् आपो ऽनलो वायुः खं मनो बुद्धिर् एव च अहङ्कारः” (भा.गी. ७-४) इत्य् अष्ट-प्रकृतय एव नेमिर् यस्य विद्युद् इव चलं यः परमात्मा अक्षम् आश्रयो यस्य तत्, तत्-सङ्कल्प-मूलकम् इत्य्-अर्थः । 70आशु शीघ्रं गच्छतीति तथा70 ॥ २८ ॥

श्लोक-२९

विश्वास-प्रस्तुतिः

य एकवर्णं तमसः परं त-
दलोकमव्यक्तमनन्तपारम्।
आसाञ्चकारोपसुपर्णमेन-
मुपासते योगरथेन धीराः॥

मूलम्

71यदेकवर्णं तमसः परं 72तदलोकमव्यक्तमनन्तपारम्।
आसाञ्चकारोपसुपर्ण73मेनमुपासते योगरथेन धीराः॥ २९ ॥

अनुवाद (हिन्दी)

जो एकमात्र ज्ञानस्वरूप, प्रकृतिसे परे एवं अदृश्य हैं; जो समस्त वस्तुओंके मूलमें स्थित अव्यक्त हैं और देश, काल अथवा वस्तुसे जिनका पार नहीं पाया जा सकता—वही प्रभु इस जीवके हृदयमें अन्तर्यामीरूपसे विराजमान रहते हैं। विचारशील मनुष्य भक्तियोगके द्वारा उन्हींकी आराधना करते हैं॥ २९॥

वीरराघवः

एवं बन्ध-दत्व-रूपो ऽनितर-साधारण-धर्म उक्तः । अथ मुक्ति-दत्वं सूचयन् मुक्त-गम्यं लोकं विशिनष्टि - यद् एकम् इति । यद् एक-वर्णम्-एक-प्रकारं केवलं शुद्ध-सत्त्वमयम् इत्य्-अर्थः । तमसः प्रकृति-मण्डलात् परं परस्ताद् विद्यमानम्, “क्षय-तमस्य रजसः पराके” (ऋक् ७-१००-५) “आदित्य-वर्णं तमसः परस्तात्” (श्वेता. उ. ३-८) इति श्रुतेः । स्थानम् इति शेषः । अलोकं संसारिभिर् द्रष्टुम् अशक्यम् । अव्यक्तं रागादि-दोषैर् विशेषेणा ऽक्तं न भवत्य् इत्य् अव्यक्तम् । उप-सुपर्णं “यत्र पूर्वे साध्यास् सन्ति देवाः” (पु.सू. १६) इत्य् उक्त-नित्य-सिद्धात्मकाः । सुपर्णा हंसाः, तेषां समीपं सन्निकृष्टं तद्-अधिष्ठितम् इत्य्-अर्थः । अनन्त-पारं निर्-अवधि “त्रिपाद् अस्यामृतं दिवि” (छान्दो. उ. ३-१२-६) इति श्रुतेः । एवम्भूतं पदं य आसाञ्चकार उपविवेश अधिष्ठितवान् इत्य्-अर्थः । यञ् च धीराः योग-पथेन योग-मार्गेण उक्त-विध-पद-प्राप्तये उपासते । यत्-शब्दस्य तम् इत्य् उत्तरत्रा ऽन्वयः । तम् ऋतम् इति पूर्वेण वा । उपसुवर्णम् इति पाठे उपेत्य् अस्य आसाञ्चकारेत्य् अनेन सम्बन्धः । उपसर्गस्य व्यवहितत्वेन प्रयोग आर्षः । 74सुवर्णं सुवर्णवत्-प्रकाश-बहुलं पदं य उपासाञ्चकार उपविष्टवान् [^42]इत्य्-अर्थः ॥ २९ ॥

श्लोक-३०

विश्वास-प्रस्तुतिः

न यस्य कश्चातितितर्ति मायां
यया जनो मुह्यति वेद नार्थम्।
तं निर्जितात्मात्मगुणं परेशं
नमाम भूतेषु समं चरन्तम्॥

मूलम्

न यस्य कश्चाति75तितर्ति मायां यया जनो मुह्यति वेदनार्थम्।
तं निर्जितात्मात्मगुणं परेशं नमामि76 भूतेषु समं चरन्तम्॥ ३० ॥

अनुवाद (हिन्दी)

जिस मायासे मोहित होकर जीव अपने वास्तविक लक्ष्य अथवा स्वरूपको भूल गया है, वह उन्हींकी है और कोई भी उसका पार नहीं पा सकता। परन्तु सर्वशक्तिमान् प्रभु अपनी उस माया तथा उसके गुणोंको अपने वशमें करके समस्त प्राणियोंके हृदयमें समभावसे विचरण करते रहते हैं। जीव अपने पुरुषार्थसे नहीं, उनकी कृपासे ही उन्हें प्राप्त कर सकता है। हम उनके चरणोंमें नमस्कार करते हैं॥ ३०॥

वीरराघवः

एवं मुमुक्षुभिः उपास्यत्वं मुक्त-प्राप्यत्वं नित्य-विभूत्यधिपतित्वञ् चा ऽनितर-साधारणम् उक्तम् । अनेन मुक्ति-दत्वम् अनितर-साधारणं सूचितम् । तद् एव व्यञ्जयन् नमस्करोति नेति । कश्चिद् अप्य् अयं जनो मत्-प्रभृति-जनो यस्य भगवतो मायां ना ऽतितिततिना ऽतिक्रामति - “देवी ह्य् एषा गुणमयी मम माया दुरत्यया माम् एव ये प्रपद्यन्ते मायाम् एतां तरन्ति ते” (भ.गी. ७-१४) इति भगवद्-उक्तार्थो ऽत्र अनुसन्धेयः । ना ऽतितितर्ति, किन्तु तया मुह्यति । अत एव भूतेषु समं सह-चरन्तम् अन्तर्-आत्मतया नियमयन्तम् अर्थं परम-पुरुषार्थ-स्व-रूपं यं परमात्मानं न वेद न जानाति । यत्-प्रसादात् तु अतितितर्ति न मुह्यति वेद चेति भावः । तं भूतेषु समञ्चरन्तम् अपि निर्जितात्मात्म-गुणम् । एक आत्म-शब्दो देह-परः, अपरस् तु जीव-परः । चिद्-अचिद्-दोषास्पृष्टम् इत्य्-अर्थः । अत एव परेषाम् अस्माकम् अपीशं नमामः ॥ ३० ॥

श्लोक-३१

विश्वास-प्रस्तुतिः

इमे वयं यत्प्रिययैव तन्वा
सत्त्वेन सृष्टा बहिरन्तराविः।
गतिं न सूक्ष्मामृषयश्च विद्महे
कुतोऽसुराद्या इतरप्रधानाः॥

मूलम्

इमे वयं 77यत्प्रिययैव तन्वा सत्त्वेन सृष्टा बहिरन्त78राविः।
गतिं न सूक्ष्मामृषयश्च विद्महे कुतोऽसुराद्या इतरप्रधानाः॥ ३१ ॥

अनुवाद (हिन्दी)

यों तो हम देवता एवं ऋषिगण भी उनके परम प्रिय सत्त्वमय शरीरसे ही उत्पन्न हुए हैं, फिर भी उनके बाहर-भीतर एकरस प्रकट वास्तविक स्वरूपको नहीं जानते। तब रजोगुण एवं तमोगुणप्रधान असुर आदि तो उन्हें जान ही कैसे सकते हैं? उन्हीं प्रभुके चरणोंमें हम नमस्कार करते हैं॥ ३१॥

वीरराघवः

कश्चा ऽप्य् अस्य मायां नातितरतीत्य् अनेन अस्य दुरवगम-चेष्टितंत्वं सूचितम् । तद् एव व्यक्तीकरोति - इमे इति इमे वयं देवा ऋषयश् च यस्य प्रियया तन्वा शरीर-भूतेन सृष्टा अपि “तत्र सत्त्वं निर्मलत्वात् प्रकाशकम्” (भ.गी. १४-६) इत्य् उक्त-विध-सत्त्व-गुण-प्रधाना अपीति भावः । अत एव बहिर्-अन्तरश् च आविर्-अविर्भूत-ज्ञाना अपि यस्य भगवतो गतिं चेष्टां सूक्ष्मां दुर्विभाव्यां न विद्महे । उक्त-विधां वयम् एव न विद्महे कुत इतर-प्रधानाः रजस्-तमः-प्रधाना असुराद्या जानीयुः ॥ ३१ ॥

श्लोक-३२

विश्वास-प्रस्तुतिः

पादौ महीयं स्वकृतैव यस्य
चतुर्विधो यत्र हि भूतसर्गः।
स वै महापूरुष आत्मतन्त्रः
प्रसीदतां ब्रह्म महाविभूतिः॥

मूलम्

पादौ महीयं स्वकृतैव यस्य चतुर्विधो यत्र हि भूतसर्गः।
79मे महापूरुष आत्मतन्त्रः प्रसीदतां ब्रह्म महाविभूतिः॥ ३२ ॥

अनुवाद (हिन्दी)

उन्हींकी बनायी हुई यह पृथ्वी उनका चरण है। इसी पृथ्वीपर जरायुज, अण्डज, स्वेदज और उद‍्भिज्ज—ये चार प्रकारके प्राणी रहते हैं। वे परम स्वतन्त्र, परम ऐश्वर्यशाली पुरुषोत्तम परब्रह्म हमपर प्रसन्न हों॥ ३२॥

वीरराघवः

यद्-एक-वर्णम् इति । नित्य-विभूत्यधिपतित्वम् उक्तम् । अथ लीला-विभूत्यधिपतित्वम् अनितर-साधारणं वक्तुं कृत्स्न-जगद्-अन्तर्गतानां पृथिव्य80बादिनां तद्-अवयवत्वेन तच्-छरीरकत्वं तत्-प्रभवत्वञ् च वदन् तं पुरुष-सूक्त-प्रतिपाद्य-विराड्-रूपम् उभय-विभूत्यधिपतित्व-रूप-महाविभूत्यात्मका ऽनितर-साधारण-धर्म-युक्तं वारं वारं अनुस्मरन् तत्-प्रसादं प्रार्थयते पादौ इत्यादि द्वादशभिः । इयं मही 81पृथ्वी यस्य स्व-कृतैव स्वेन सृष्टैव । “पद्भ्यां भूमिः” (पु.सू. १३) इति श्रुतेः, पादौ स महा-विभूति-ब्रह्म-शब्द-वाच्यो नः प्रसीदताम् इत्य् अन्वयः । महीं विशिनष्टि - यत्र मह्यां चतुर्-विधः जरायुजाण्डज-स्वेदजोद्भिज्ज-रूपो भूत-सर्गो भवति । “पुमान् न देवो न नरो न पशुः न च पादपः” (विष्णु. २-१३-९८) इत्य् उक्त-चतुर्-विधो वा स भगवान् आत्म-तन्त्रः स्व-तन्त्रः महा-पुरुषः परम-पुरुषो वै राज-पुरुषो वा नो ऽस्माकं प्रसन्नो भवतु ॥ ३२ ॥

श्लोक-३३

विश्वास-प्रस्तुतिः

अम्भस्तु यद्रेत उदारवीर्यं
सिध्यन्ति जीवन्त्युत वर्धमानाः।
लोकास्त्रयोऽथाखिललोकपालाः
प्रसीदतां ब्रह्म महाविभूतिः॥

मूलम्

अम्भस्तु यद्रेत उदारवीर्यं सिध्यन्ति जीवन्त्युत वर्धमानाः।
लोकास्त्रयोऽथाखिललोकपालाः प्रसीदतां 82नः स महाविभूतिः॥ ३३ ॥

अनुवाद (हिन्दी)

यह परम शक्तिशाली जल उन्हींका वीर्य है। इसीसे तीनों लोक और समस्त लोकोंके लोकपाल उत्पन्न होते, बढ़ते और जीवित रहते हैं। वे परम ऐश्वर्यशाली परब्रह्म हमपर प्रसन्न हों॥ ३३॥

वीरराघवः

तथा अम्भो83 जलं यद् रेतः84 यस्य कार्य-भूतं त्रयो लोकाः लोक-पालाश् च सिध्यन्ति,85यत इति शेषः यस्माद् उत्पद्यन्ते जीवन्ति येनेति शेषः । वर्धमानाः यत्रेति शेषः । स ब्रह्म-शब्द-वाच्यो महाविभूतिर् नः प्रसीदताम् ॥ ३३ ॥

श्लोक-३४

विश्वास-प्रस्तुतिः

सोमं मनो यस्य समामनन्ति
दिवौकसां वै बलमन्ध आयुः।
ईशो नगानां प्रजनः प्रजानां
प्रसीदतां नः स महाविभूतिः॥

मूलम्

86सोमं मनो यस्य समामनन्ति दिवौकसां वै बलमन्ध आयुः।
ईशो नगानां प्रजनः प्रजानां प्रसीदतां 87नः स महाविभूतिः॥ ३४ ॥

अनुवाद (हिन्दी)

श्रुतियाँ कहती हैं कि चन्द्रमा उस प्रभुका मन है। यह चन्द्रमा समस्त देवताओंका अन्न, बल एवं आयु है। वही वृक्षोंका सम्राट् एवं प्रजाकी वृद्धि करनेवाला है। ऐसे मनको स्वीकार करनेवाले परम ऐश्वर्यशाली प्रभु हमपर प्रसन्न हों॥ ३४॥

वीरराघवः

सोमं चन्द्रमसं यस्य मनो वदन्ति “चन्द्रमा मनसो जातः" (पु.सू.)88इत्य्-आदि-श्रुतयः88 । सोमं विशिनष्टि - यस् सोमो दिवौकसां देवानाम् अन्धम् अन्नम्, अमृत-करत्वात्89, अत एव बलम् आयुश् च । नगानां वृक्षाणां प्रजानां चराणाञ् च प्रकर्षेण जनयति वर्धयतीति प्रजनः । अत एव तेषाम् ईशो यः सोमः तं यस्य मनो वदन्ति मनसो जातं, विराड्-रूपस्य मनः-स्थानीयञ् च वदन्ति स ब्रह्म-महाविभूतिर् नः प्रसीदताम् । बलादीनि परमात्म-विशेषणानि वा । देवादीनां यश् च बलादि-हेतुः स ईशो ब्रह्म-महाविभूतिः 90प्रसीदताम् इति90 ॥ ३४ ॥

श्लोक-३५

विश्वास-प्रस्तुतिः

अग्निर्मुखं यस्य तु जातवेदा
जातः क्रियाकाण्डनिमित्तजन्मा।
अन्तःसमुद्रेऽनुपचन् स्वधातून्
प्रसीदतां नः स महाविभूतिः॥

मूलम्

अग्निर्मुखं यस्य तु जातवेदाः जातः क्रियाकाण्डनिमित्तजन्मा।
अन्तःसमुद्रे91 तु पचन्स्वधातून् प्रसीदतां नः स महाविभूतिः॥ ३५ ॥

अनुवाद (हिन्दी)

अग्नि प्रभुका मुख है। इसकी उत्पत्ति ही इसलिये हुई है कि वेदके यज्ञ-यागादि कर्मकाण्ड पूर्णरूपसे सम्पन्न हो सकें। यह अग्नि ही शरीरके भीतर जठराग्निरूपसे और समुद्रके भीतर बड़वानलके रूपसे रहकर उनमें रहनेवाले अन्न, जल आदि धातुओंका पाचन करता रहता है और समस्त द्रव्योंकी उत्पत्ति भी उसीसे हुई है। ऐसे परम ऐश्वर्यशाली भगवान् हमपर प्रसन्न हों॥ ३५॥

वीरराघवः

तथा यस्या ऽग्निर् मुखम् उच्यते । “मुखाद् इन्द्रश् चा ऽग्निश्च” (पु.स. १-६) इत्य्-आदि-श्रुतिभिः यस्य मुख-स्थानीयो मुखाज् जातश् चा ऽग्निः स ब्रह्म-महा-विभूतिः प्रसीदताम् इत्य् अन्वयः । यस्य मुखम् अग्निर् जात इति वा ऽन्वयः अग्निं विशिनष्टि - जात-वेदाः जातं स्वस्विन् निहितं चारु पुरोडाशादिकम् इन्द्रादिभ्यो वेदयति ‘विद्ललाभे’ प्रापयति इति जात-वेदाः, तथा क्रिया-काण्ड-निमित्त-जन्मा क्रिया-काण्ड-निमित्तं यज्ञादि-क्रिया-कलापात्मक-वेद-पूर्वं भागार्थानुष्ठान-निमित्तं जन्मा यस्य सः । अन्तस्-समुद्रे समुद्रो देहम् “त्र्यात्मकत्वात् तु भूयस्त्वात्” इति न्यायेन जलांश-प्रचुरत्वाद् अन्तस्-समुद्रे देह-मध्ये जाठर-रूपेण स्व-धातून् स्वाधिष्ठित-देह-स्थान् 92शुक्ल-शोणितादि-सप्त-धातून्, पचन् परिणमयन् । एवं-भूतो ऽग्निर् यस्य मुखं सः प्रसीदताम् ॥ ३५ ॥

श्लोक-३६

विश्वास-प्रस्तुतिः

यच्चक्षुरासीत् तरणिर्देवयानं
त्रयीमयो ब्रह्मण एष धिष्ण्यम्।
द्वारं च मुक्तेरमृतं च मृत्युः
प्रसीदतां नः स महाविभूतिः॥

मूलम्

यच्चक्षुरासीत् तरणिर्देवयानं त्रयीमयो ब्रह्मण एष धिष्ण्यम्।
द्वारञ् च मुक्तेर93मृतस्य मृत्युोः प्रसीदतां नस्स महाविभूतिः॥ ३६ ॥

अनुवाद (हिन्दी)

जिनके द्वारा जीव देवयानमार्गसे ब्रह्मलोकको प्राप्त होता है, जो वेदोंकी साक्षात् मूर्ति और भगवान‍्के ध्यान करनेयोग्य धाम हैं, जो पुण्यलोकस्वरूप होनेके कारण मुक्तिके द्वार एवं अमृतमय हैं और कालरूप होनेके कारण मृत्यु भी हैं—ऐसे सूर्य जिनके नेत्र हैं, वे परम ऐश्वर्यशाली भगवान् हमपर प्रसन्न हों॥ ३६॥

वीरराघवः

तथा तरणिर् आदित्यो यस्य चक्षुर् आसीत् । “चक्षोस् सूर्यो अजायत” (पु.सू. १-६) इति श्रुतेः । स महा-विभूतिः 94नो ऽस्माकं प्रसीदताम् । तरणिं विशिनष्टि - देवयानम् अर्चिर्-आदि-मार्ग-भूतः, त्रयीमयः ऋग्-यजुस्-साम-प्रचुरः, 95स एष तरणिः ब्रह्मणः परस्य धिष्ण्यं स्थानं “य एषो ऽन्तर्-आदित्ये हिरण्मयः पुरुषो दृश्यते” (छान्दो. उ. १-६-६) इति श्रुतेः । ब्रह्मण उपासन-स्थानम् इत्य्-अर्थः । मुक्तेर् द्वारं देवयानत्वात्96 अमृतञ् च अमृत-साधनं पुण्यानुष्ठान-काल-ज्ञापकत्वात्97 मृत्युः उदयास्तमयाभ्याम् आयुर्-व्यय-करत्वात् एवं-भूतस् तरणिर् यस्य चक्षुः स महा-विभूतिः प्रसीदताम् ॥ ३६ ॥

श्लोक-३७

विश्वास-प्रस्तुतिः

प्राणादभूद् यस्य चराचराणां
प्राणः सहो बलमोजश्च वायुः।
अन्वास्म सम्राजमिवानुगा वयं
प्रसीदतां नः स महाविभूतिः॥

मूलम्

प्राणादभूद् यस्य चराचराणां प्राणा98स्सहो 99बलमोजश्च वायुः।
अन्वास्म सम्राजमिवाऽ100नुगा वयं प्रसीदतां नः स महाविभूतिः॥ ३७ ॥

अनुवाद (हिन्दी)

प्रभुके प्राणसे ही चराचरका प्राण तथा उन्हें मानसिक, शारीरिक और इन्द्रियसम्बन्धी बल देनेवाला वायु प्रकट हुआ है। वह चक्रवर्ती सम्राट् है, तो इन्द्रियोंके अधिष्ठातृ-देवता हम सब उसके अनुचर। ऐसे परम ऐश्वर्यशाली भगवान् हमपर प्रसन्न हों॥ ३७॥

वीरराघवः

तथा यस्य प्राणाद् वायुर् अभूत् “प्राणाद् वायुर् अजायत” (पू.सू. १-६) इति श्रुतेः । स महा-विभूतिः प्रसीदताम् कथम्-भूतो वायुः ? चराचराणां भूतानां सह आदिर् जनयिता । तत्र सहो मनसो बलम् । 101बलं दैहिकम् । ओज इन्द्रियाणां बलं, प्राणः पञ्च-वृत्तिमान्, यं पञ्च-वृत्तिं प्राणं वायुं बुद्ध्य्-आद्यधिष्ठातृ-देवताः, सम्राजं सार्वभौमं भृत्याः इव अन्वास्म अनुवर्तिनः स एवम्-भूतो वायुः यस्य प्राणाद् अभूत् स प्रसीदताम् ॥ ३७ ॥

श्लोक-३८

विश्वास-प्रस्तुतिः

श्रोत्राद् दिशो यस्य हृदश्च खानि
प्रजज्ञिरे खं पुरुषस्य नाभ्याः।
प्राणेन्द्रियात्मासुशरीरकेतं
प्रसीदतां नः स महाविभूतिः॥

मूलम्

श्रोत्राद् दिशो यस्य हृदश्च खानि प्रजज्ञिरे खं पुरुषस्य 102नाभ्याः।
प्राणेन्द्रियात्मा103सुशरीर104केतनं प्रसीदतां नः स महाविभूतिः॥ ३८ ॥

अनुवाद (हिन्दी)

जिनके कानोंसे दिशाएँ, हृदयसे इन्द्रियगोलक और नाभिसे वह आकाश उत्पन्न हुआ है, जो पाँचों प्राण (प्राण, अपान, उदान, समान और व्यान), दसों इन्द्रिय, मन, पाँचों असु (नाग, कूर्म, कृकल, देवदत्त और धनंजय) एवं शरीरका आश्रय है—वे परम ऐश्वर्यशाली भगवान् हमपर प्रसन्न हों॥ ३८॥

वीरराघवः

तथा यस्य श्रोत्राद् दिशो जज्ञिरे - “दिशः श्रोत्रात् पुरुष-सूक्ते” (पु.सू. १-६) श्रवणात् । स्वानि देह-गत-च्छिद्राणि हृदा जज्ञिरे हृदयाद् उद्बभूवुः । पुरुषस्य वैराजस्य नाभ्याः खम् अन्तरिक्षं जज्ञे । “नाभ्या आसीद् अन्तरिक्षम्" (पु.सू. १-६) इति श्रुतेः । प्राण-शब्दः कर्मेन्द्रिय-परः, इन्द्रिय-शब्दो ज्ञानेन्द्रिय-परः आत्मा-मनः, असु-शब्दः पञ्च-वृत्ति-प्राण-वायु-परः शरीरञ् च इत्य् एतेषां केतनं आश्रयं खं यस्य नाभ्य् अजज्ञे स प्रसीदताम् ॥ ३८ ॥

श्लोक-३९

विश्वास-प्रस्तुतिः

बलान्महेन्द्रस्त्रिदशाः प्रसादा-
न्मन्योर्गिरीशो धिषणाद् विरिञ्चः।
खेभ्यश्च छन्दांस्यृषयो मेढ्रतः कः
प्रसीदतां नः स महाविभूतिः॥

मूलम्

बलान्महेन्द्रस्त्रिदशाः प्रसादान्मन्यो105र्गिरीशो धिषणाद्105 विरिञ्चः।
खेभ्यश्च छन्दांस्यृषयो मेढ्र106तः कः प्रसीदतां नः स महाविभूतिः॥ ३९ ॥

अनुवाद (हिन्दी)

जिनके बलसे इन्द्र, प्रसन्नतासे समस्त देवगण, क्रोधसे शङ्कर, बुद्धिसे ब्रह्मा, इन्द्रियोंसे वेद और ऋषि तथा लिंगसे प्रजापति उत्पन्न हुए हैं—वे परम ऐश्वर्यशाली भगवान् हमपर प्रसन्न हों॥ ३९॥

वीरराघवः

यस्य बलान् महेन्द्रो जज्ञे । प्रसादात् त्रिदशा जज्ञिरे । मन्योः क्रोधाद् गिरित्रो रुद्रः, हर्षाद् विरिञ्चो ब्रह्मा, 107खेभ्यः छन्दांसि गायत्र्यादीनि । “छन्दांसि जज्ञिरे तस्मात्" (पु.सू. १-४) इति श्रुतेः ऋषयश् च खेभ्यो विवरेभ्यः जज्ञिरे । मेढ्रात् कः प्रजापतिः, मेढ्राधिष्ठाता सः प्रसीदताम् ॥ ३९ ॥

श्लोक-४०

विश्वास-प्रस्तुतिः

श्रीर्वक्षसः पितरश्छाययाऽऽसन्
धर्मः स्तनादितरः पृष्ठतोऽभूत्।
द्यौर्यस्य शीर्ष्णोऽप्सरसो विहारात्
प्रसीदतां नः स महाविभूतिः॥

मूलम्

श्रीर्वक्षसः पितरश्छाययाऽऽसन् धर्मः स्तनादितरः पृष्ठतोऽभूत्।
द्यौर्यस्य शीर्ष्णोऽप्सरसो विहा108यात् प्रसीदतां नः स महाविभूतिः॥ ४० ॥

अनुवाद (हिन्दी)

जिनके वक्षःस्थलसे लक्ष्मी, छायासे पितृगण, स्तनसे धर्म, पीठसे अधर्म, सिरसे आकाश और विहारसे अप्सराएँ प्रकट हुई हैं, वे परम ऐश्वर्यशाली भगवान् हमपर प्रसन्न हों॥ ४०॥

वीरराघवः

तथा यस्य वक्षसः श्रीस्-सम्पत् जज्ञे । छायया छायातः पितर आसन्, स्तनाद् धर्मः, पृष्ठतः इतरो ऽधर्मः, शीर्ष्णः शिरसः द्यौः । “शीर्ष्णो द्यौस् समवर्तत” (पु.सू. १-६) इति श्रुतेः । विहा109साद् अप्सरस आसन् सः प्रसीदताम् ॥ ४० ॥

श्लोक-४१

विश्वास-प्रस्तुतिः

विप्रो मुखं ब्रह्म च यस्य गुह्यं
राजन्य आसीद् भुजयोर्बलं च।
ऊर्वोर्विडोजोऽङ्घ्रिरवेदशूद्रौ
प्रसीदतां नः स महाविभूतिः॥

मूलम्

विप्रो 110मुखाद्ब्रह्म च यस्य गुह्यं राजन्य आसीद् भुजयोर्बलं च।
ऊर्वो111र्विडोजोऽङ्घ्रिरवेदशूद्रौ111 प्रसीदतां नः स महाविभूतिः॥ ४१ ॥

अनुवाद (हिन्दी)

जिनके मुखसे ब्राह्मण और अत्यन्त रहस्यमय वेद, भुजाओंसे क्षत्रिय और बल, जंघाओंसे वैश्य और उनकी वृत्ति—व्यापारकुशलता तथा चरणोंसे वेदबाह्य शूद्र और उनकी सेवा आदिवृत्ति प्रकट हुई है—वे परम ऐश्वर्यशाली भगवान् हमपर प्रसन्न हों॥ ४१॥

वीरराघवः

तथा यस्य मुखाद् विप्रः विप्र-कुलं, गुह्यम् अतीन्द्रियार्थावबोधि ब्रह्म वेदाश् चासीत् । “ऋचस् सामनि जज्ञिरे” (पु.सू. १-४) “ब्राह्मणो ऽस्य मुखम् आसीत्” (पु.सू. १-५) इति श्रुतिः । भुजयोर् बाहुभ्यां राजन्यो, बलञ् चासीत् । “बाहू राजन्यः कृतः” (पु.सू. १-५) इति श्रुतिः । ऊर्वोर् विट् वैश्यः ओजो नैपुण्यं तस्य वृत्तिश् च, अङ्घ्रिः अङ्घ्रिजाव् इत्य्-अर्थः अवेद-शूद्रौ अवेदः वेद-व्यतिरिक्ता शुश्रूषा वृत्तिः, तद्-वृत्तिमान् शूद्रश् च । ‘विड्-अङ्घेर् अभवच् च शूद्रः’ इति पाठान्तरं सुगमम् । ‘ऊरू तद् अस्य यद् वैश्यः पद्भ्यां शूद्रो अजायत’ (पु.सू. १-६) इति श्रुतेः ॥ ४१ ॥

श्लोक-४२

विश्वास-प्रस्तुतिः

लोभोऽधरात् प्रीतिरुपर्यभूद् द्युति-
र्नस्तः पशव्यः स्पर्शेन कामः।
भ्रुवोर्यमः पक्ष्मभवस्तु कालः
प्रसीदतां नः स महाविभूतिः॥

मूलम्

लोभोऽधरात् प्रीतिरुपर्यभूद् द्युतिर्नस्तः पश112व्यः स्पर्शेन कामः।
भ्रुवोर्यमः पक्ष्मभवस्तु कालः प्रसीदतां नः स महाविभूतिः॥ ४२ ॥

अनुवाद (हिन्दी)

जिनके अधरसे लोभ और ओष्ठसे प्रीति, नासिकासे कान्ति, स्पर्शसे पशुओंका प्रिय काम, भौंहोंसे यम और नेत्रके रोमोंसे कालकी उत्पत्ति हुई है—वे परम ऐश्वर्यशाली भगवान् हमपर प्रसन्न हों॥ ४२॥

वीरराघवः

अधराद् अधरोष्ठात् लोभः, उपर्य् उत्तरोष्ठात् प्रीतिर् अभूत् । नस्तः नासिकातः द्युतिः कान्तिः । पराव्यः पशूनां हितः, कामः स्पर्शेनाभूत्, भ्रुवोर् यमः, कालः पक्ष्म-भवः पक्ष्मणो जातः । सः प्रसीदताम् ॥ ४२ ॥

श्लोक-४३

विश्वास-प्रस्तुतिः

द्रव्यं वयः कर्म गुणान्विशेषं
यद्योगमायाविहितान्वदन्ति।
यद् दुर्विभाव्यं प्रबुधापबाधं
प्रसीदतां नः स महाविभूतिः॥

मूलम्

द्रव्यं वयः कर्मगुणा113न्विशेषं यद्योगमायाविहि114तान्वदन्ति।
यद् दुर्विभाव्यं प्रबु115धापबाधं प्रसीदतां नः स महाविभूतिः॥ ४३ ॥

अनुवाद (हिन्दी)

पंचभूत, काल, कर्म, सत्त्वादि गुण और जो कुछ विवेकी पुरुषोंके द्वारा बाधित किये जानेयोग्य निर्वचनीय या अनिर्वचनीय विशेष पदार्थ हैं, वे सब-के-सब भगवान‍्की योगमायासे ही बने हैं—ऐसा शास्त्र कहते हैं। वे परम ऐश्वर्यशाली भगवान् हमपर प्रसन्न हों॥ ४३॥

वीरराघवः

किं बहुना ? द्रव्यं भूत-पञ्चकम्, वयः कालम्, कर्म-जीवादृष्टं गुणान् सत्त्वादीन्, विशेषं ब्रह्माण्डं, तद्-उपलक्षितं कार्य-वर्गञ् च यस्य योगमायया ईक्षणात्मक-सङ्कल्पेन विहितान् वदन्ति । द्रव्यादि-कारणात्मकं विशेष-रूप-कार्यात्मकञ् च सर्वं वस्तु सत्-सङ्कल्प-विहितं वदन्ति इत्य्-अर्थः । अत एव यद् यत् स्व-रूपं दुर्विभाव्यं चेतनाचेतन-सजातीयत्वेन चिन्तयितुम् अशक्यं प्रबुद्धावबोधं स महा-विभूतिर् नः प्रसीदताम् ॥ ४३ ॥

श्लोक-४४

विश्वास-प्रस्तुतिः

नमोऽस्तु तस्मा उपशान्तशक्तये
स्वाराज्यलाभप्रतिपूरितात्मने।
गुणेषु मायारचितेषु वृत्तिभि-
र्न सज्जमानाय नभस्वदूतये॥

मूलम्

नमोऽस्तु तस्मा उपशान्तशक्तये स्वाराज्यलाभ116प्रतिपूरितात्मने।
गुणेषु मायारचितेषु वृत्तिभिर्न सज्जमानाय 117नभस्स्वदूतये॥ ४४ ॥

अनुवाद (हिन्दी)

जो मायानिर्मित गुणोंमें दर्शनादि वृत्तियोंके द्वारा आसक्त नहीं होते, जो वायुके समान सदा-सर्वदा असंग रहते हैं, जिनमें समस्त शक्तियाँ शान्त हो गयी हैं—उन अपने आत्मानन्दके लाभसे परिपूर्ण आत्मस्वरूप भगवान‍्को हमारे नमस्कार हैं॥ ४४॥

वीरराघवः

एवं कार्यावस्थ-प्रपञ्च-शरीरकं वैराज-पुरुषं प्रसाद्य अथ कारणावस्थं नमस्करोति - नम इति । उपशान्त-शक्तये सर्गाद्य्-अनभिमुख-चिद्-अचित्-कालादि-शक्तये, स्वराट् स्वतन्त्रं स्व-स्व-रूपं तस्य भावो याथात्म्यं स्वाराज्यं तस्य लाभेन स्वानन्दानुभवेनेत्य्-अर्थः । तेन प्रतिपूरित आत्मा स्व-रूपं यस्य तस्मै, स्वतन्त्रानवधिकानन्द-स्व-स्व-रूपानुभव-पूर्त्यावाप्त-समस्त-कामायेत्य्-अर्थः । मायया रचितेषु गुणेषु न सज्जमानाय लीलारस-विमुखाय स्व-भूतये स्वाभाविकैश्वर्याय तस्मै नमो नमः ॥ ४४ ॥

श्लोक-४५

विश्वास-प्रस्तुतिः

स त्वं नो दर्शयात्मानमस्मत्करणगोचरम्।
प्रपन्नानां दिदृक्षुणां सस्मितं ते मुखाम्बुजम्॥

मूलम्

स त्वं नो दर्शयात्मानमस्मत्करणगोचरम्118
119प्रपन्नानां दिदृक्षूणां सस्मितं ते मुखाम्बुजम्॥ ४५ ॥

अनुवाद (हिन्दी)

प्रभो! हम आपके शरणागत हैं और चाहते हैं कि मन्द-मन्द मुसकानसे युक्त आपका मुखकमल अपने इन्हीं नेत्रोंसे देखें। आप कृपा करके हमें उसका दर्शन कराइये॥ ४५॥

वीरराघवः

एवं प्रकृति-पुरुष-विलक्षणं विभूति-द्वयाधिपं सर्व-कारणं भगवन्तं प्रसाद्य नमस्कृत्य स्वाभिप्रेतं विज्ञापयितुं तावत् तद्-दर्शनं प्रार्थयति - सत्वम् इति । उक्त-विधस् त्वम् आत्मानं दिव्य-मङ्गल-विग्रहं दिदृक्षूणां प्रपन्नानां नो ऽस्माकम् अस्मच्-चक्षुर्-आदि-करण-गोचरं यथा भवति तथा स-स्मितं ते मुखाम्बुजं दर्शय ॥ ४५ ॥

श्लोक-४६

विश्वास-प्रस्तुतिः

तैस्तैः स्वेच्छाधृतै रूपैः काले काले स्वयं विभो।
कर्म दुर्विषहं यन्नो भगवांस्तत् करोति हि॥

मूलम्

तैस्तैः स्वेच्छा120धृतै रूपैः काले कलि स्वयं विभो।
कर्म दुर्विषहं यन्नो 121भगवांस्तत्121 करोति हि॥ ४६ ॥

अनुवाद (हिन्दी)

प्रभो! आप समय-समयपर स्वयं ही अपनी इच्छासे अनेकों रूप धारण करते हैं और जो काम हमारे लिये अत्यन्त कठिन होता है, उसे आप सहजमें ही कर देते हैं। आप सर्वशक्तिमान् हैं, आपके लिये इसमें कौन-सी कठिनाई है॥ ४६॥

वीरराघवः

ननु, “न चक्षुषा पश्यति कश्चनैनम्” (कठ.उ. ६-९) इति 122श्रुत्य्-उक्त-विधया चक्षुर्-आद्यगोचरो ऽहं कथं त्वच् चक्षुर्-आदि-करण-विषयः स्याम् इत्य् अत्राह - तैस् तैर् इति । हे विभो ! काले काले “यदा यदा हि धर्मस्य ग्लानिर् भवति भारत । अभ्युत्थानम् अधर्मस्य" (भ.गी. ४-७) इत्य्-उक्त-काले स्वेच्छाधृतैः, न तु पुण्य-पापात्मक-123कर्मणा धृतैः रूपैर् अवतारैः भवान् नो ऽस्माकं दुर्विषहं दुरासदं दुष्करं कर्म करोति हि । अघटित-घटनात्मक-क्रिया-शक्तेस् तव स्व-विग्रह-दर्शयितृत्वं न दुर्घटम् इति भावः ॥ ४६ ॥

श्लोक-४७

विश्वास-प्रस्तुतिः

क्लेशभूर्यल्पसाराणि कर्माणि विफलानि वा।
देहिनां विषयार्तानां न तथैवार्पितं त्वयि॥

मूलम्

क्लेशभूर्यल्पसाराणि कर्माणि विफलानि 124हि।
देहिनां विषया125र्तानां न तथैवार्पितं त्वयि॥ ४७ ॥

अनुवाद (हिन्दी)

विषयोंके लोभमें पड़कर जो देहाभिमानी दुःख भोग रहे हैं, उन्हें कर्म करनेमें परिश्रम और क्लेश तो बहुत अधिक होता है; परन्तु फल बहुत कम निकलता है। अधिकांशमें तो उनके विफलता ही हाथ लगती है। परन्तु जो कर्म आपको समर्पित किये जाते हैं, उनके करनेके समय ही परम सुख मिलता है। वे स्वयं फलरूप ही हैं॥ ४७॥

वीरराघवः

सत्यम्, आत्मानं सकृत्-स्तुति-कर्मणा हेतुना कथं दर्शयेयम्? - इत्य् अत्राह - क्लेशेति । विषयार्तानाम् अनुकूल-विषयालाभ-दुःख-पीडितानां देहिनां क्लेशो भूरिः, येष्व् अल्पः सारः सुखं येषु, ततः कर्मधारयः तानि कर्माणि यथा विफलानि भवन्ति, तथा त्वय्य् अर्पितं कर्मं न विफलं भवति हि ॥ ४७ ॥

श्लोक-४८

विश्वास-प्रस्तुतिः

नावमः कर्मकल्पोऽपि विफलायेश्वरार्पितः।
कल्पते पुरुषस्यैष स ह्यात्मा दयितो हितः॥

मूलम्

ना126वमः कर्मकल्पोऽपि विफलायेश्वरार्पितः।
कल्पते पुरुषस्यैष127 स ह्यात्मा दयितो हितः॥ ४८ ॥

अनुवाद (हिन्दी)

भगवान‍्को समर्पित किया हुआ छोटे-से-छोटा कर्माभास भी कभी विफल नहीं होता। क्योंकि भगवान् जीवके परम हितैषी, परम प्रियतम और आत्मा ही हैं॥ ४८॥

वीरराघवः

कर्म-कल्पो ऽपि 128धर्माभासो ऽपि, अवमः लौकिक-व्यापारो ऽपि ईश्वरे त्वय्य् अर्पितश् चेत् विफलाय न कल्पते, न विफलो भवति हि, यस्मात् स एवेश्वरः पुरुषस्यात्मा अत एव दयितः प्रियः हितश् च न ह्य् आत्मनि दयिते हिते चा ऽर्पितं कर्म निष्फलं स्याद् इत्य्-अर्थः ॥ ४८ ॥

श्लोक-४९

विश्वास-प्रस्तुतिः

यथा हि स्कन्धशाखानां तरोर्मूलावसेचनम्।
एवमाराधनं विष्णोः सर्वेषामात्मनश्च हि॥

मूलम्

यथा हि स्कन्धशाखानां तरोर्मूलावसेचनम्।
एवमाराधनं विष्णोः सर्वेषामात्मनश्च हि॥ ४९ ॥

अनुवाद (हिन्दी)

जैसे वृक्षकी जड़को पानीसे सींचना उसकी बड़ी-बड़ी शाखाओं और छोटी-छोटी डालियोंको भी सींचना है, वैसे ही सर्वात्मा भगवान‍्की आराधना सम्पूर्ण प्राणियोंकी और अपनी भी आराधना है॥ ४९॥

वीरराघवः

ईश्वरार्पितस्य स्वल्पस्या ऽपि कर्मणो ऽनल्प-फलत्वम् आह - यथेति । यथा हि तरोः मूलावसेचनं मूले जलावसेचनं स्कन्धानां शाखानाञ् च भवति, एवम् आत्मनः परमात्मनः विष्णोः आराधनं सर्वेषां हि सर्व-पुरुषार्थानां साधनं भवतीत्य् अर्थः ॥ ४९ ॥

श्लोक-५०

विश्वास-प्रस्तुतिः

नमस्तुभ्यमनन्ताय दुर्वितर्क्यात्मकर्मणे।
निर्गुणाय गुणेशाय सत्त्वस्थाय च साम्प्रतम्॥

मूलम्

नमस्तुभ्यमनन्ताय दुर्वितर्क्यात्मकर्मणे।
निर्गुणाय गुणेशाय सत्त्वस्थाय च साम्प्रतम्॥ ५० ॥

अनुवाद (हिन्दी)

जो तीनों काल और उससे परे भी एकरस स्थित हैं, जिनकी लीलाओंका रहस्य तर्क-वितर्कके परे है, जो स्वयं गुणोंसे परे रहकर भी सब गुणोंके स्वामी हैं तथा इस समय सत्त्वगुणमें स्थित हैं—ऐसे आपको हम बार-बार नमस्कार करते हैं॥ ५०॥

अनुवाद (समाप्ति)

इति श्रीमद‍्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे अमृतमथने पञ्चमोऽध्यायः॥ ५ ॥

वीरराघवः

स्तुति-नमस्कारादि कर्मणा विना ना ऽन्यस् त्वत् तोष हेतुर् अस्तीत्य् अभिप्रयन् आह - नम इति । दुर्वितर्क्याणि इतर-सजातीयत्वेन विभावितुम् अशक्यानि आत्म-कर्माणि स्व-चेष्टितानि यस्य तस्मै, अनन्ताय त्रिविध-परिच्छेद-रहिताय, निर्गुणाय हेय-गुण-रहिताय, सत्त्वादि-गुणानां नियन्त्रे, सत्वस्थाय सत्त्व-गुणोन्मेष-निमित्त-कर्मानुगुणम् अधुना प्रवर्तमानाय तुभ्यं नमः । साम्प्रतं नमस्कार एव युज्यते ईदृशं त्वां प्रसादयितुं नम एव युज्यते ना ऽन्य 129उपाय इत्य्-अर्थः । यद् वा, गुण-त्रयोन्मेष-निमित्त-कर्मानुगुणं प्रवर्तमानाया ऽपि साम्प्रतम् अधुना सत्त्वस्थायेति वा ऽन्वयः ॥ ५० ॥

इति श्रीमद्-भागवते अष्टम-स्कन्धे श्री-वीर-राघव-विदुषा लिखितायां भागवत-चन्द्र-चन्द्रिकायां व्याख्यायां पञ्चमो ऽध्यायः ॥ ५ ॥


  1. W त्कतग ↩︎

  2. A,B,T Omit ते ↩︎

  3. M,Ma प ↩︎

  4. H,V प्रति, M,Ma बल ↩︎

  5. W Omits अथ ↩︎

  6. W का ↩︎

  7. A,B व ↩︎

  8. A Omits ↩︎ ↩︎

  9. A,B,G,J,M,Ma,T श्च ↩︎

  10. A,B,G,J,T पुरुपुरुष; M,Ma पुत्रः पुरुष ↩︎

  11. A,B,G,J,T मन्त्र ↩︎

  12. H,V द्युम्न, M,Ma द्रुत ↩︎

  13. H,V आपाद्ययो ↩︎

  14. W Omits गणा ↩︎

  15. M,Ma पयोब्धि ↩︎

  16. A,B,T आजितं ↩︎ ↩︎

  17. A,B,G,J,T किञ्चान्य, M,Ma किमन्य ↩︎

  18. A,B,G,J,T त्वया सङ्कय्य, M,Ma त्वयेन्यं कथ्य ↩︎

  19. W नैव ↩︎

  20. A,B,G,T,M,Ma,T सम्पृष्टो भगवानेवं द्वैपायनसुतो द्विजाः ↩︎ ↩︎

  21. H,V माख्यातुमुप ↩︎ ↩︎

  22. A,B,G,J,M,Ma,T बाध्यय ↩︎

  23. A,B,G,J,M,Ma,T स्मभूयशः ↩︎ ↩︎

  24. W Omits ↩︎ ↩︎

  25. W त्यादिना अष्ट ↩︎

  26. M,Ma स शापेन, W सश्शापेन ↩︎

  27. W Omits त्वं ↩︎

  28. A,B,T च यन्तो ↩︎

  29. A,B,T add इत्यर्थः ↩︎

  30. A,B,T add विज्ञापनं चकुः इत्यर्थः ↩︎

  31. M,Ma न्सुरां श्चैव ↩︎ ↩︎

  32. W Omits ↩︎ ↩︎

  33. तथाऽमङ्गलप्रायान् ↩︎ ↩︎

  34. W Omits ↩︎ ↩︎

  35. W णाविल ↩︎

  36. W Omits ↩︎ ↩︎

  37. A,B,T Omit प्र ↩︎

  38. W Omits सुरान् ↩︎

  39. A,B,G,J,T थोऽ ↩︎

  40. W द ↩︎

  41. B त ↩︎

  42. A,B,T च्छे ↩︎

  43. A,B,T ब्रह्मा ↩︎

  44. A,B,T त ↩︎

  45. A,B,T जा ↩︎

  46. A,B,G,J,M,Ma,T अ ↩︎

  47. A,B,G,J,T च ↩︎

  48. A,B,G,J,M,Ma,T धा ↩︎

  49. W Omits ↩︎ ↩︎

  50. W Omits ↩︎ ↩︎

  51. W लोकात ↩︎

  52. W Omits ↩︎ ↩︎

  53. W Omits ↩︎

  54. W Omits सुरान् ↩︎

  55. A,B,T Omit ब्रह्मा ↩︎

  56. W Omits ↩︎ ↩︎

  57. W Omits ↩︎ ↩︎

  58. W Omits ययौ ↩︎

  59. M,Ma चाऽभ्यधात्, W चाऽभिभोः ↩︎ ↩︎

  60. W त ↩︎

  61. M,Ma मद्भूतं ↩︎

  62. W अदृष्टं ↩︎

  63. W Omits ↩︎ ↩︎

  64. A,B,T Omit शयं ↩︎ ↩︎

  65. H,V,W Omit ↩︎

  66. W Omits कदापि ↩︎

  67. W Omits ↩︎ ↩︎

  68. W Omits देव ↩︎

  69. M,Ma द्वल ↩︎

  70. W Omits ↩︎ ↩︎

  71. A,B,G,J,T य एक ↩︎

  72. M,Ma स ↩︎

  73. M,Ma पत्र ↩︎

  74. A,B,T Omit सवर्णं ↩︎

  75. M,Ma पिपर्ति ↩︎

  76. A,B,G,J,T म ↩︎

  77. M,Ma यत्कृपयैव ↩︎

  78. M,Ma रं विभो! ↩︎

  79. A,B,G,J,M,Ma,T वे ↩︎

  80. A,B,T त्यादीनां ↩︎

  81. A,B,T Omit पृथ्वी ↩︎

  82. A,B,G,J,M,Ma,T ब्रह्म ↩︎

  83. W Omit जल ↩︎

  84. A,B,T यत्कार्य ↩︎

  85. A,B,T Omit यतः ↩︎

  86. H,V,W सोमो ↩︎

  87. H,V,W ब्रह्म ↩︎

  88. A,B,T इति श्रुतेः ↩︎ ↩︎

  89. A,B,T add इति भाव ↩︎

  90. A,B,T इत्यन्वयः ↩︎ ↩︎

  91. A,B,G,J,T द्रेऽनुणचरन्स्व M,Ma द्रे पञ्चतर स्स ↩︎

  92. A,B,T add धातून् ↩︎

  93. A,B,G,J,T,W तञ्च मृत्युः ↩︎

  94. W Omits अस्माकम् ↩︎

  95. W Omits सः ↩︎

  96. A,B,T add इति भावः ↩︎

  97. A,B,T इति भावः ↩︎

  98. A,B,G,J,M,Ma,T ण ↩︎

  99. M,Ma add वे ↩︎

  100. H,V,W नुय ↩︎

  101. A,B,T Omit बलं ↩︎

  102. M,Ma नाभे ↩︎

  103. M,Ma स्व ↩︎

  104. A,B,G,J,T केतं, M,Ma बन्धु ↩︎

  105. H,V र्गिरित्रो परुषा; M,Ma र्गिरीशोऽशरणा; W र्गिरित्रो हर्षा ↩︎ ↩︎

  106. M,Ma तस्तु प्र ↩︎

  107. W स्वयं ↩︎

  108. A,B,G,H,J,M,Ma,T,V रात् ↩︎

  109. A,B,T त ↩︎

  110. A,B,G,J,T मुखं ब्रह्म ↩︎

  111. M,Ma र्विर्शोङ्ध्रेरभवन् च शूद्राः ↩︎ ↩︎

  112. M,Ma व्य ↩︎

  113. M,Ma णाश्च ↩︎

  114. M,Ma ताः व ↩︎

  115. A,B,G,J,H,T,V धापबोधं ↩︎

  116. M,Ma परि ↩︎

  117. A,B,G,H,J,T,V नभस्वदूतये ↩︎

  118. M,Ma रः ↩︎

  119. M,Ma प्रपताना ↩︎

  120. M,Ma कृ ↩︎

  121. H,V,W भवान्वै तर्त्क, M,Ma भगवान् वै क ↩︎ ↩︎

  122. W Omits श्रुति ↩︎

  123. A,B,T कर्मधृतै ↩︎

  124. A,B,G,J,T वा, M,Ma च ↩︎

  125. H,V र्था ↩︎

  126. M,Ma ध ↩︎

  127. M,Ma व ↩︎

  128. A,B,T क ↩︎

  129. A,B,T add एव ↩︎