[चतुर्थोऽध्यायः]
भागसूचना
गज और ग्राहका पूर्वचरित्र तथा उनका उद्धार
श्लोक-१
मूलम् (वचनम्)
श्रीशुक उवाच
विश्वास-प्रस्तुतिः
तदा देवर्षिगन्धर्वा ब्रह्मेशानपुरोगमाः।
मुमुचुः कुसुमासारं शंसन्तः कर्म तद्धरेः॥
मूलम्
तदा देवर्षिगन्धर्वा ब्रह्मेशानपुरोगमाः।
मुमुचुः कुसुमासारं शंसन्तः कर्म तद्धरेः॥ १ ॥
अनुवाद (हिन्दी)
श्रीशुकदेवजी कहते हैं—परीक्षित्! उस समय ब्रह्मा, शंकर आदि देवता, ऋषि और गन्धर्व श्रीहरि भगवान्के इस कर्मकी प्रशंसा करने लगे तथा उनके ऊपर फूलोंकी वर्षा करने लगे॥ १॥
वीरराघवः
1तदा किमभूत् ? तदाह1 - तदेति । तदा गजेन्द्र-मोचन-दशायां ब्रह्म-रुद्र-मुख्या देवादयः तत् गजेन्द्र-मो2क्षण-रूपं हरेः कर्म अद्भुतं शंसन्तः प्रशंसन्तः कुसुम-वर्षं मुमुचुः ॥ १ ॥
श्लोक-२
विश्वास-प्रस्तुतिः
नेदुर्दुन्दुभयो दिव्या गन्धर्वा ननृतुर्जगुः।
ऋषयश्चारणाः सिद्धास्तुष्टुवुः पुरुषोत्तमम्॥
मूलम्
नेदुर्दुन्दुभयो दिव्या गन्धर्वा ननृतुर्जगुः।
ऋषयश्चारणाः सिद्धास्तुष्टुवुः पुरुषोत्तमम्॥ २ ॥
अनुवाद (हिन्दी)
स्वर्गमें दुन्दुभियाँ बजने लगीं, गन्धर्व नाचने-गाने लगे, ऋषि, चारण और सिद्धगण भगवान् पुरुषोत्तमकी स्तुति करने लगे॥ २॥
वीरराघवः
3तथा दिव्याः दुन्दुभयः नेदुः गन्धर्वा ननृतुः जगुश् च ऋषि-प्रभृतयः पुरुषोत्तमं हरिं तुष्टुवुः ॥ २ ॥
श्लोक-३
विश्वास-प्रस्तुतिः
योऽसौ ग्राहः स वै सद्यः परमाश्चर्यरूपधृक्।
मुक्तो देवलशापेन हूहूर्गन्धर्वसत्तमः॥
मूलम्
योऽसौ ग्राहः स वै सद्यः परमाश्चर्यरूपधृत्4।
मुक्तो देवलशापेन हूहूर्गन्धर्वसत्तमः॥ ३ ॥
अनुवाद (हिन्दी)
इधर वह ग्राह तुरंत ही परम आश्चर्यमय दिव्य शरीरसे सम्पन्न हो गया। यह ग्राह इसके पहले ‘हूहू’ नामका एक श्रेष्ठ गन्धर्व था। देवलके शापसे उसे यह गति प्राप्त हुई थी। अब भगवान्की कृपासे वह मुक्त हो गया॥ ३॥
वीरराघवः
यो ऽसौ ग्राहः 5स पूर्वस्मिन् जन्मनि हूहूर् नाम गन्धर्व-श्रेष्ठः सः देवलस्य शापेन निमित्तेन ग्राहो जातः स वै ग्राहो देवलस्य शापेन मुक्तः, सद्यः परमाश्चर्य-रूप-धृत् प्राक्तनाद्भुततम-गन्धर्व-रूप-धृत् ॥ ३ ॥
श्लोक-४
विश्वास-प्रस्तुतिः
प्रणम्य शिरसाधीशमुत्तमश्लोकमव्ययम्।
अगायत यशोधाम कीर्तन्यगुणसत्कथम्॥
मूलम्
प्रणम्य शिरसाधीशमुत्तमश्लोकमव्ययम्।
अगायत यशोधाम कीर्त6न्यगुणसत्कथम्॥ ४ ॥
अनुवाद (हिन्दी)
उसने सर्वेश्वर भगवान्के चरणोंमें सिर रखकर प्रणाम किया, इसके बाद वह भगवान्के सुयशका गान करने लगा। वास्तवमें अविनाशी भगवान् ही सर्वश्रेष्ठ कीर्तिसे सम्पन्न हैं। उन्हींके गुण और मनोहर लीलाएँ गान करनेयोग्य हैं॥ ४॥
वीरराघवः
उत्तम-श्लोकम् अव्ययं यशसो धाम आश्रयम् अतः कीर्तन्याः कीर्तनीयाः गुणाः सत्कथाश् च यस्य तम् अधीशं हरिं शिरसा प्रणम्यागायतेत्य् अन्वयः ॥ ४ ॥
श्लोक-५
विश्वास-प्रस्तुतिः
सोऽनुकम्पित ईशेन परिक्रम्य प्रणम्य तम्।
लोकस्य पश्यतो लोकं स्वमगान्मुक्तकिल्बिषः॥
मूलम्
सोऽनुकम्पित ईशेन परिक्रम्य प्रणम्य तम्।
लोकस्य पश्यतो लोकं 7स्वमगान्मुक्तकिल्बिषः॥ ५ ॥
अनुवाद (हिन्दी)
भगवान्के कृपापूर्ण स्पर्शसे उसके सारे पाप-ताप नष्ट हो गये। उसने भगवान्की परिक्रमा करके उनके चरणोंमें प्रणाम किया और सबके देखते-देखते अपने लोककी यात्रा की॥ ५॥
वीरराघवः
एवम् इतिहासोत्तमे कथा सरसि स्त्रीभिः सह क्रीडन्न् असौ हूहूः स्नातुं प्रविष्टं देवलं प्रगृह्य विचकर्ष स च प्रकुपितो ग्राहो भवेति शशाप स च प्रसादितस् सन् उवाच एवम् एव गजेन्द्रं गृह्णीष्व, ततश् च गजेन्द्रम् उद्धरन् हरिः त्वाम् अपि मोचयिष्यतीति ईशेन हरिणा गान-प्रीतेनानुकम्पितः अनुकम्पा-विषयीकृतः स गन्धर्वस् तम् ईशं परिक्रम्य प्रदक्षणीकृत्य प्रणम्य च लोकस्य ब्रह्मादि-जनस्य पश्यतः सतः मुक्तं किल्बिषं देवल-शाप-रूपं यस्य तादृशस् 8सन् 9स्व-लोकम् अगात् ॥ ५ ॥
श्लोक-६
विश्वास-प्रस्तुतिः
गजेन्द्रो भगवत्स्पर्शाद् विमुक्तोऽज्ञानबन्धनात्।
प्राप्तो भगवतो रूपं पीतवासाश्चतुर्भुजः॥
मूलम्
गजेन्द्रो भगवत्स्पर्शाद् विमुक्तोऽज्ञानबन्धनात्।
प्राप्तो भगवतो रूपं पीतवासाश्चतुर्भुजः॥ ६ ॥
अनुवाद (हिन्दी)
गजेन्द्र भी भगवान्का स्पर्श प्राप्त होते ही अज्ञानके बन्धनसे मुक्त हो गया। उसे भगवान्का ही रूप प्राप्त हो गया। वह पीताम्बरधारी एवं चतुर्भुज बन गया॥ ६ ॥
वीरराघवः
गजेन्द्रस् तु भगवतो हरेः स्पर्शाद् धेतोर् अज्ञान-बन्धनात् कर्म-बन्धनाद् विमुक्तः भगवतः रूपं प्राप्तः भग10वतः सारूप्यं प्राप्तः । तद् एव दर्शयति पीतं पिशङ्गं वासो वस्त्रं यस्य चत्वारो भुजा यस्य सः ॥ ६ ॥
श्लोक-७
विश्वास-प्रस्तुतिः
स वै पूर्वमभूद् राजा पाण्ड्यो द्रविडसत्तमः।
इन्द्रद्युम्न इति ख्यातो विष्णुव्रतपरायणः॥
मूलम्
स वै पूर्वमभूद् राजा पाण्ड्यो द्रविडसत्तमः।
इन्द्रद्युम्न इति ख्यातो विष्णुव्रतपरायणः॥ ७ ॥
अनुवाद (हिन्दी)
गजेन्द्र पूर्वजन्ममें द्रविडदेशका पाण्ड्यवंशी राजा था। उसका नाम था इन्द्रद्युम्न। वह भगवान्का एक श्रेष्ठ उपासक एवं अत्यन्त यशस्वी था॥ ७॥
वीरराघवः
गजे11न्द्रस्य पूर्व-जन्म-वृत्तान्तम् आह - स वा इति । स वै गजेन्द्रः पूर्वस्मिन् जन्मनि पाण्ड्य-देश-पतिः द्रविडेषु श्रेष्ठः इन्द्रद्युम्नाख्यः राजा बभूव । स च विष्णु-व्रत-परायणः विष्णु-व्रतं श्री-विष्णु-भजनात्मकं तद् एव परम् उत्कृष्टम् अयम् अनुष्ठेयं यस्य तादृशः आसीत् ॥ ७ ॥
श्लोक-८
विश्वास-प्रस्तुतिः
स एकदाऽऽराधनकाल आत्मवान्
गृहीतमौनव्रत ईश्वरं हरिम्।
जटाधरस्तापस आप्लुतोऽच्युतं
समर्चयामास कुलाचलाश्रमः॥
मूलम्
स एकदाऽऽराधनकाल आत्मवान् गृहीतमौनव्रत ईश्वरं हरिम्।
जटाधरस्तापस आप्लुतोऽच्युतं 12तम13र्चयामास कुलाचलाश्रमः14॥ ८ ॥
अनुवाद (हिन्दी)
एक बार राजा इन्द्रद्युम्न राजपाट छोड़कर मलयपर्वतपर रहने लगे थे। उन्होंने जटाएँ बढ़ा लीं, तपस्वीका वेष धारण कर लिया। एक दिन स्नानके बाद पूजाके समय मनको एकाग्र करके एवं मौनव्रती होकर वे सर्वशक्तिमान् भगवान्की आराधना कर रहे थे॥ ८॥
वीरराघवः
एवं स्थिते जटा 15धरतीति तथा तापसः तपो-निष्ठः कुलाचले मलयाद्राव् आश्रमः आश्रयो यस्य तादृशः स इन्द्रद्युम्नः एकदा भगवद्-आराधन-काले समाहित-चित्तस् सन् गृहीतं मौनात्मकं व्रतं येन तादृश ईश्वरं हरिं समर्चयामास ॥ ८ ॥
श्लोक-९
विश्वास-प्रस्तुतिः
यदृच्छया तत्र महायशा मुनिः
समागमच्छिष्यगणैः परिश्रितः।
तं वीक्ष्य तूष्णीमकृतार्हणादिकं
रहस्युपासीनमृषिश्चुकोप ह॥
मूलम्
यदृच्छया तत्र महायशा मुनिः समागमच्छिष्यगणैः परिश्रितः।
तं वीक्ष्य तूष्णीमकृतार्हणादिकं रहस्युपासीनमृषिश्चुकोप ह॥ ९ ॥
अनुवाद (हिन्दी)
उसी समय दैवयोगसे परम यशस्वी अगस्त्य मुनि अपनी शिष्यमण्डलीके साथ वहाँ आ पहुँचे। उन्होंने देखा कि यह प्रजापालन और गृहस्थोचित अतिथिसेवा आदि धर्मका परित्याग करके तपस्वियोंकी तरह एकान्तमें चुपचाप बैठकर उपासना कर रहा है, इसलिये वे राजा इन्द्रद्युम्नपर क्रुद्ध हो गये॥ ९॥
वीरराघवः
तदा शिष्य-गणैः परिवृतो महा-यशा मुनिर् अगस्त्यो यदृच्छया तत्रेन्द्रद्युम्नाश्रमे समागतः तम् इन्द्रद्युम्नं तूष्णीम् अवस्थितम् अकृतम् असमर्पितम् अर्ध्यादिकं येन तं रहसि एकान्ते उपासीनम् उपविष्टं वीक्ष्य ऋषिर् अगस्त्यश्चुकोप हेति कष्टे ईदृशस्यापि म16हन्निग्रह-विषयता बभूवेति खिद्यति मुनिः ॥ ९ ॥
श्लोक-१०
विश्वास-प्रस्तुतिः
तस्मा इमं शापमदादसाधु-
रयं दुरात्माकृतबुद्धिरद्य।
विप्रावमन्ता विशतां तमोऽन्धं
यथा गजः स्तब्धमतिः स एव॥
मूलम्
तस्मा इमं शापमदादसाधुरयं दुरात्माकृतबुद्धि17रत्र।
18विप्रावमन्ता विशतां तमोऽन्धं18 यथा गजः स्तब्धमतिः 19स एव॥ १० ॥
अनुवाद (हिन्दी)
उन्होंने राजाको यह शाप दिया—‘इस राजाने गुरुजनोंसे शिक्षा नहीं ग्रहण की है, अभिमानवश परोपकारसे निवृत्त होकर मनमानी कर रहा है। ब्राह्मणोंका अपमान करनेवाला यह हाथीके समान जडबुद्धि है, इसलिये इसे वही घोर अज्ञानमयी हाथीकी योनि प्राप्त हो’॥ १०॥
वीरराघवः
तस्मै इन्द्रद्युम्नाय शापम् अदाद् ऋषिर् इत्यनुषङ्गः । शापम् एवाह - असाधुर् इति । अयम् इन्द्रद्युम्नो ऽसाधुः दुरात्मा अकृता अशिक्षिता बुद्धिर् यस्य तादृशो ऽद्याधुना विप्रावमन्ता विप्रान् अस्मान् अवमन्यते परिभवतीति तथा, अतो हेतोः तमिस्रम् अज्ञानं विशतां प्राप्नोतु, यथा गजः स्तब्ध-मतिः तथैवायम् अज्ञो भवतु स एव गज एव भवत्व् इति शेषः ॥ १० ॥
श्लोक-११
मूलम् (वचनम्)
श्रीशुक उवाच
विश्वास-प्रस्तुतिः
एवं शप्त्वा गतोऽगस्त्यो भगवान् नृप सानुगः।
इन्द्रद्युम्नोऽपि राजर्षिर्दिष्टं तदुपधारयन्॥
मूलम्
एवं शप्त्वा गतोऽगस्त्यो भगवान् नृप सानुगः।
इन्द्रद्युम्नोऽपि राजर्षिर्दिष्टं तदुपधार20यन्॥ ११ ॥
अनुवाद (हिन्दी)
श्रीशुकदेवजी कहते हैं—परीक्षित्! शाप एवं वरदान देनेमें समर्थ अगस्त्य ऋषि इस प्रकार शाप देकर अपनी शिष्यमण्डलीके साथ वहाँसे चले गये। राजर्षि इन्द्रद्युम्नने यह समझकर सन्तोष किया कि यह मेरा प्रारब्ध ही था॥ ११॥
श्लोक-१२
विश्वास-प्रस्तुतिः
आपन्नः कौञ्जरीं योनिम्
आत्म-स्मृति-विनाशिनीम्।
हर्य्-अर्चनानुभावेन
यद् गजत्वे ऽप्य् अनुस्मृतिः॥
मूलम्
आपन्नः कौञ्जरीं योनिमात्मस्मृतिविनाशिनीम्।
हर्यर्चनानुभावेन यद्गजत्वेऽप्यनुस्मृतिः॥ १२ ॥
अनुवाद (हिन्दी)
इसके बाद आत्माकी विस्मृति करा देनेवाली हाथीकी योनि उन्हें प्राप्त हुई। परन्तु भगवान्की आराधनाका ऐसा प्रभाव है कि हाथी होनेपर भी उन्हें भगवान्की स्मृति हो ही गयी॥ १२॥
वीरराघवः
हे नृप ! 21एवं इत्थं शप्त्वा भगवान् अगस्त्यः सानुगः सशिष्यो गतः ययौ तत इन्द्रद्युम्नो ऽपि राजर्षिः तद् अगस्त्य-शापात्मकं दिष्टं प्रारब्धम् एव उपधारयन् निश्चिन्वन् आत्मनः परमात्मनः स्मृति-विनाशिनीं कौञ्जरीं योनिम् आपन्नः प्राप्तः तर्हि पश्चात् कथं 22तत्-स्मृतिर् जाता तत्राह - गजत्वे ऽप्य् अनुस्मृतिर् इति यत् तत् हर्य्-अर्चनानुभावेन पूर्व-जन्मनि भगवद्-आराधन-प्रभावेण अभूद् इत्य्-अर्थः ॥ ११,१२ ॥
श्लोक-१३
विश्वास-प्रस्तुतिः
एवं विमोक्ष्य गजयूथपमब्जनाभ-
स्तेनापि पार्षदगतिं गमितेन युक्तः।
गन्धर्वसिद्धविबुधैरुपगीयमान-
कर्माद्भुतं स्वभवनं गरुडासनोऽगात्॥
मूलम्
एवं विमोक्ष्य गजयूथपमब्जनाभस्तेनापि पार्षदगतिं गमितेन युक्तः।
गन्धर्वसिद्धविबुधै23रनुगीयमानकर्माद्भुतं स्व24भवनं गरुडासनोऽगात्॥ १३ ॥
अनुवाद (हिन्दी)
भगवान् श्रीहरिने इस प्रकार गजेन्द्रका उद्धार करके उसे अपना पार्षद बना लिया। गन्धर्व, सिद्ध, देवता उनकी इस लीलाका गान करने लगे और वे पार्षदरूप गजेन्द्रको साथ ले गरुड़पर सवार होकर अपने अलौकिक धामको चले गये॥ १३॥
वीरराघवः
एवम् इत्थं गज-यूथ-पं गजेन्द्रं विमोक्ष्य पार्षदत्वं प्रापितेन तेनापि गजेन्द्राख्य-जीवेनापि अपि-शब्दात् स्व-पार्षदैश् च युक्तो ऽब्जनाभो हरिर् गन्धर्वादिभिर् उपगीयमानं कर्म यस्य गरुड आसनं वाहनं यस्य सः अद्भुतं स्व-भवनम् 25अगात् ययौ इत्य्-अर्थः ॥ १३ ॥
श्लोक-१४
विश्वास-प्रस्तुतिः
एतन्महाराज तवेरितो मया
कृष्णानुभावो गजराजमोक्षणम्।
स्वर्ग्यं यशस्यं कलिकल्मषापहं
दुःस्वप्ननाशं कुरुवर्य शृण्वताम्॥
मूलम्
26एवं महाराज तवेरितो मया कृष्णानुभावो गजराजमोक्षणम्।
स्वर्ग्यं यशस्यं कलिकल्मषापहं दुःस्वप्ननाशं कुरुवर्य शृण्वताम्॥ १४ ॥
अनुवाद (हिन्दी)
कुरुवंशशिरोमणि परीक्षित्! मैंने भगवान् श्रीकृष्णकी महिमा तथा गजेन्द्रके उद्धारकी कथा तुम्हें सुना दी। यह प्रसंग सुननेवालोंके कलिमल और दुःस्वप्नको मिटानेवाला एवं यश, उन्नति और स्वर्ग देनेवाला है॥ १४॥
वीरराघवः
यत् पृष्टं “बादरायण एतत् ते” (भाग. 8-1-31) इत्यादिना तस्योत्तरम् उक्तम् उपसंहरन् गजेन्द्र-मोक्ष-कथा-श्रवण-फलम् आह - एतद् इति । हे महाराज ! एतद् गजेन्द्र-मोक्षण-रूपः कृष्णानुभावः हरि-प्रभावः तव तुभ्यं मयेरितः कथितः । इदं 27गजेन्द्र-मोक्षणं शृण्वतां जनानां स्वर्ग्यं स्वर्ग-साधनं यशस्-करं कलि-कल्मषापहं कलौ युगे यत् कल्मषं तद् अपहन्तीति तथा, कलिः कलहः तन्-निमित्तं पापं 28हन्तीति 29तथा तद् इति29 वा । हे कुरु-वर्य ! दुस्स्वप्न-नाशं दुस्स्वप्नं नाशयतीति तथा ॥ १४ ॥
श्लोक-१५
विश्वास-प्रस्तुतिः
यथानुकीर्तयन्त्येतच्छ्रेयस्कामा द्विजातयः।
शुचयः प्रातरुत्थाय दुःस्वप्नाद्युपशान्तये॥
मूलम्
30यथानुकीर्तयन्त्येतच्छ्रेयस्कामा 31द्विजातयः।
शुचयः प्रातरुत्थाय दुःस्वप्नाद्युपशान्तये॥ १५ ॥
अनुवाद (हिन्दी)
इसीसे कल्याणकामी द्विजगण दुःस्वप्न आदिकी शान्तिके लिये प्रातःकाल जगते ही पवित्र होकर इसका पाठ करते हैं॥ १५॥
वीरराघवः
अतः श्रेयस्-कामा द्वि-जातयः त्रैवर्णिकाः प्रातर् उत्थाय शुचयः शुचीभूताः दुस्स्वप्नाद्य्-उपशान्तये एतद् यथावद् अनुकीर्तयन्ति ॥ १५ ॥
श्लोक-१६
विश्वास-प्रस्तुतिः
इदमाह हरिः प्रीतो गजेन्द्रं कुरुसत्तम।
शृण्वतां सर्वभूतानां सर्वभूतमयो विभुः॥
मूलम्
इदमाह हरिः प्रीतो गजेन्द्रं कुरुसत्तम।
शृण्वतां सर्वभूतानां सर्वभूतमयो विभुः॥ १६ ॥
अनुवाद (हिन्दी)
परीक्षित्! गजेन्द्रकी स्तुतिसे प्रसन्न होकर सर्वव्यापक एवं सर्वभूतस्वरूप श्रीहरिभगवान्ने सब लोगोंके सामने ही उसे यह बात कही थी॥ १६॥
वीरराघवः
अनेन कीर्तितेन दुस्स्वप्नाद्य्-उपशान्तिर् भवति इति कुतो ज्ञायते ? इत्य्-अपेक्षायां भगवद्-वचनाद् एवेत्य् आह - इदम् इति । हे कुरु-सत्तम ! सर्व-भूतानां शृण्वतां 32सतां सर्व-भूत-प्रचुरो विभुर् हरिः प्रीतो गजेन्द्रं प्रति इदं वक्ष्यमाणम् आह ॥ १६ ॥
श्लोक-१७
मूलम् (वचनम्)
श्रीभगवानुवाच
विश्वास-प्रस्तुतिः
ये मां त्वां च सरश्चेदं गिरिकन्दरकाननम्।
वेत्रकीचकवेणूनां गुल्मानि सुरपादपान्॥
मूलम्
ये मां त्वां च सरश्चेदं गिरिकन्दरकाननम्।
वेत्रकीचकवेणूनां गुल्मानि सुरपादपान्॥ १७ ॥
वीरराघवः
भगवद्-उक्तिम् एव दर्शयति । य इत्यादिना विमलां मतिम् इत्य्-अन्तेन । ये जनाः त्वां मां च एतत्-सरोवरादींश् चापररात्रान्ते प्रभाते उत्थाय स्मरन्ति ते ऽखिलांहसो मुच्यन्ते इत्य् उत्तरत्रान्वयः, गिर्यादीनां समाहार-द्वन्द्वः, वेत्रादीनाम् इतरेतर-योग-द्वन्द्वः तेषां गुल्मानि सन्दर्भ-विशेषात्मकानि सुर-पादपान् मन्दारादीन् ॥ १७ ॥
श्लोक-१८
विश्वास-प्रस्तुतिः
शृङ्गाणीमानि धिष्ण्यानि ब्रह्मणो मे शिवस्य च।
क्षीरोदं मे प्रियं धाम श्वेतद्वीपं च भास्वरम्॥
मूलम्
शृङ्गाणीमानि धिष्ण्यानि ब्रह्मणो मे शिवस्य च।
क्षीरोदं मे प्रियं धाम श्वेतद्वीपं च भास्वरम्॥ १८ ॥
वीरराघवः
इमानि त्रिकूटस्य शृङ्गाणि प्रसङ्गाद् अन्येषाम् अपि प्रातः स्मर्तव्यताम् आह - ब्रह्मणश् चतुर्मुखस्य मे हरेः शिवस्य च धिष्ण्यानि स्थानानि त्रयाणां त्रिकूट-गिरि-शृङ्गाणां ब्रह्मादि-स्थानाभिप्रायेण वा इमानीत्य् उक्तं क्षीरोदं क्षीर-सागरं मम प्रियं स्थानं भास्वरं श्वेत-द्वीपञ् च ॥ १८ ॥
श्लोक-१९
विश्वास-प्रस्तुतिः
श्रीवत्सं कौस्तुभं मालां गदां कौमोदकीं मम।
सुदर्शनं पाञ्चजन्यं सुपर्णं पतगेश्वरम्॥
मूलम्
श्रीवत्सं कौस्तुभं मालां गदां कौमोदकीं मम।
सुदर्शनं पाञ्चजन्यं सुपर्णं पतगेश्वरम्॥ १९ ॥
वीरराघवः
तथा मम श्रीवत्सादीन् तत्र मालां वन-मालां कौमोदकी-नाम्नीं गदां 33पतगेश्वरं33 पतगानां पक्षिणाम् ईश्वरं सुपर्णं गरुडम् ॥ १९ ॥
श्लोक-२०
विश्वास-प्रस्तुतिः
शेषं च मत्कलां सूक्ष्मां श्रियं देवीं मदाश्रयाम्।
ब्रह्माणं नारदमृषिं भवं प्रह्रादमेव च॥
मूलम्
शेषं च मत्कलां सूक्ष्मां श्रियं देवीं मदाश्रयाम्।
ब्रह्माणं नारदमृषिं भवं प्रह्रादमेव च॥ २० ॥
वीरराघवः
शेषम् अनन्तं कथम्भूतं मत्-कलां सूक्ष्मां दुष्प्रतर्क्य-मत्-कला-भूतम् इत्य्-अर्थः । अहम् एवाश्रयो यस्यास् तां देवीं श्रियं महा-लक्ष्मीं, ब्रह्माणं चतुर्मुखं, ऋषिं नारदं, भवं रुद्रम् ॥ २० ॥
श्लोक-२१
विश्वास-प्रस्तुतिः
मत्स्यकूर्मवराहाद्यैरवतारैः कृतानि मे।
कर्माण्यनन्तपुण्यानि सूर्यं सोमं हुताशनम्॥
वीरराघवः
मम मत्स्याद्य्-अवतारैः कृतान्य् अनन्त-पुण्यानि शृण्वताम् इति शेषः । यानि कर्माणि चरितानि तानि च सोमं चन्द्रं हुताशनम् अग्निम् ॥ २१ ॥
श्लोक-२२
विश्वास-प्रस्तुतिः
प्रणवं सत्यमव्यक्तं गोविप्रान् धर्ममव्ययम्।
दाक्षायणीर्धर्मपत्नीः सोमकश्यपयोरपि॥
वीरराघवः
प्रणवं ओङ्कारं, सत्यं भूत-हित-रूपं धर्मं, अव्यक्तं प्रधानम् अव्ययं धर्मं भगवद्-भक्ति-38योग-लक्षणं, दाक्षायणीः दक्ष-दुहितृृः, धर्मस्य पत्नीः सोम-कश्यपयोर् अपि पत्नीः ॥ २२ ॥
श्लोक-२३
विश्वास-प्रस्तुतिः
गङ्गां सरस्वतीं नन्दां कालिन्दीं सितवारणम्।
ध्रुवं ब्रह्मऋषीन्सप्त पुण्यश्लोकांश्च मानवान्॥
मूलम्
गङ्गां सरस्वतीं नन्दां कालिन्दीं सितवारणम्।
ध्रुवं ब्रह्मऋषीन्सप्त पुण्यश्लोकांश्च मानवान्॥ २३ ॥
वीरराघवः
नन्दाम् अलकनन्दां, कालिन्दीं यमुनां, सित-वारणम् ऐरावतं, ध्रुवम् औत्तानपादिं, सप्त-ब्रह्मऋषीन् 39पुण्य-श्लोकान्39, पुण्येन श्लोक्यन्ते कथ्यन्त इति पुण्य-श्लोकास् तान् धार्मिकान् मानवांश् च ॥ २३ ॥
श्लोक-२४
विश्वास-प्रस्तुतिः
उत्थायापररात्रान्ते प्रयताः सुसमाहिताः।
स्मरन्ति मम रूपाणि मुच्यन्ते ह्येनसोऽखिलात्॥
मूलम्
उत्थायापररात्रान्ते प्रयताः सुसमाहिताः।
स्मरन्ति मम रूपाणि मुच्यन्ते 40तेऽहसोऽखिलात्॥ २४ ॥
अनुवाद (हिन्दी)
श्रीभगवान्ने कहा—जो लोग रातके पिछले पहरमें उठकर इन्द्रियनिग्रहपूर्वक एकाग्र चित्तसे मेरा, तेरा तथा इस सरोवर, पर्वत एवं कन्दरा, वन, बेंत, कीचक और बाँसके झुरमुट, यहाँके दिव्य वृक्ष तथा पर्वतशिखर, मेरे, ब्रह्माजी और शिवजीके निवासस्थान, मेरे प्यारे धाम क्षीरसागर, प्रकाशमय श्वेतद्वीप, श्रीवत्स, कौस्तुभमणि, वनमाला, मेरी कौमोदकी गदा, सुदर्शन चक्र, पांचजन्य शंख, पक्षिराज गरुड़, मेरे सूक्ष्म कलास्वरूप शेषजी, मेरे आश्रयमें रहनेवाली लक्ष्मीदेवी, ब्रह्माजी, देवर्षि नारद, शंकरजी तथा भक्तराज प्रह्लाद, मत्स्य, कच्छप, वराह आदि अवतारोंमें किये हुए मेरे अनन्त पुण्यमय चरित्र, सूर्य, चन्द्रमा, अग्नि, ॐकार, सत्य, मूलप्रकृति, गौ, ब्राह्मण, अविनाशी सनातनधर्म, सोम, कश्यप और धर्मकी पत्नी दक्षकन्याएँ, गंगा, सरस्वती, अलकनन्दा, यमुना, ऐरावत हाथी, भक्तशिरोमणि ध्रुव, सात ब्रह्मर्षि और पवित्रकीर्ति (नल, युधिष्ठिर, जनक आदि) महापुरुषोंका स्मरण करते हैं—वे समस्त पापोंसे छूट जाते हैं; क्योंकि ये सब-के-सब मेरे ही रूप हैं॥ १७—२४॥
वीरराघवः
प्रातर् उत्थाय ये स्मरन्ति कथम्भूताः प्रयताः सुसमाहिताश् च नियमितान्तर्-बाह्येन्द्रियाः कथम्भूतानि सर आदीनि मम रूपाणि मच्-छरीर-भूतानि ते स्मर्तारो ऽखिलाद् अंहसः पापान् मुच्यन्ते दुःस्वप्नादि-निमित्तेभ्यः सर्व-पापेभ्यो मुच्यन्ते इत्य्-अर्थः ॥ २४ ॥
श्लोक-२५
विश्वास-प्रस्तुतिः
ये मां स्तुवन्त्यनेनाङ्ग प्रतिबुध्य निशात्यये।
तेषां प्राणात्यये चाहं ददामि विमलां मतिम्॥
मूलम्
ये मां स्तुवन्त्यनेनाङ्ग! प्रतिबुध्य निशात्यये।
तेषां प्राणात्यये चाहं ददामि वि41पुलां 42मतिम्॥ २५ ॥
अनुवाद (हिन्दी)
प्यारे गजेन्द्र! जो लोग ब्राह्ममुहूर्तमें जगकर तुम्हारी की हुई स्तुतिसे मेरा स्तवन करेंगे, मृत्युके समय उन्हें मैं निर्मल बुद्धिका दान करूँगा॥ २५॥
वीरराघवः
ये च जनाः निशात्यये निशापगमे प्रभाते प्रतिबुद्ध्य अनेन त्वत्-कृतेन स्तोत्रेण मां स्तुवन्ति तेषां प्राणात्यये प्रयाण-काले विमलां मद्-विषयां मतिम् अहं ददामि ॥ २५ ॥
श्लोक-२६
मूलम् (वचनम्)
श्रीशुक उवाच
विश्वास-प्रस्तुतिः
इत्यादिश्य हृषीकेशः प्रध्माय जलजोत्तमम्।
हर्षयन्विबुधानीकमारुरोह खगाधिपम्॥
मूलम्
इत्यादिश्य हृषीकेशः 43प्राध्माय जलजोत्तमम्।
हर्षयन्विबुधानीकमारुरोह खगाधिपम्॥ २६ ॥
अनुवाद (हिन्दी)
श्रीशुकदेवजी कहते हैं—परीक्षित्! भगवान् श्रीकृष्णने ऐसा कहकर देवताओंको आनन्दित करते हुए अपना श्रेष्ठ शंख बजाया और गरुड़पर सवार हो गये॥ २६॥
अनुवाद (समाप्ति)
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे गजेन्द्रमोक्षणं नाम चतुर्थोऽध्यायः॥ ४ ॥
वीरराघवः
इतीत्थम् आदिश्य आज्ञाप्य हृषीकेशो हरिः जलजोत्तमं शङ्ख-श्रेष्ठं प्राध्माय ध्वनयित्वा ब्रह्मादि-देवता-वर्गं हर्षयन् खगाधिपं गरुडम् अरुरोह आरुह्य स्व-भवनम् अगाद् इत्य्-अर्थः ॥ २६ ॥
इति श्रीमद्-भागवते अष्टम-स्कन्धे श्री-वीर-राघव-विदुषा-लिखितायां भागवत-चन्द्र-चन्द्रिकायां व्याख्यायां चतुर्थो ऽध्यायः ॥ ४ ॥
-
A क्षरू ↩︎
-
W Omits तथा ↩︎
-
A,B,G,J,M,Ma,T क् ↩︎
-
W Omits सः ↩︎
-
H,V व्य ↩︎
-
H,V स्वमा W, समा ↩︎
-
W Omits सन् ↩︎
-
W स्वकीयं लो ↩︎
-
W वत्सा ↩︎
-
A,B,T द्वपू ↩︎
-
A,B,G,J,M,Ma,T सम ↩︎
-
H,V र्प ↩︎
-
M,Ma यः ↩︎
-
A,B,T बिभर्तिति ↩︎
-
A,B,T हा ↩︎
-
A,B,G,J,M,Ma,T द्य ↩︎
-
M,Ma सदोषः ↩︎
-
M,Ma यत् ↩︎
-
A,B,T Omit ↩︎
-
A,B,T Omit तत् ↩︎
-
A,B,G,J,M,Ma,T रुप ↩︎
-
H,M,Ma,V भु ↩︎
-
A,B,T Omit अगात् ↩︎
-
A,B,G,J,T एतन्म ↩︎
-
W गजराज ↩︎
-
A,B,T हरतीति ↩︎
-
M,Ma अ ↩︎
-
W द्विजोत्तमा ↩︎
-
A,B,T Omit सतां ↩︎
-
M,Ma मक्षयम् ↩︎
-
M,Ma णी ध ↩︎
-
M,Ma त्नी ↩︎
-
W Omits योग ↩︎
-
A,B,G,J,T ह्येनसो ↩︎
-
A‚B‚G,J,M‚Ma‚T म ↩︎
-
M,Ma ग ↩︎
-
A,B,G,J‚T प्र ↩︎