०३ शरणागतिः

[तृतीयोऽध्यायः]

भागसूचना

गजेन्द्रके द्वारा भगवान‍्की स्तुति और उसका संकटसे मुक्त होना

श्लोक-१

मूलम् (वचनम्)

1श्रीशुक उवाच

विश्वास-प्रस्तुतिः

एवं व्यवसितो बुद्‍ध्या
समाधाय मनो हृदि।
जजाप परमं जाप्यं
प्राग्-जन्मन्य् अनुशिक्षितम्

मूलम्

एवं व्यवसितो बुद्‍ध्या समाधाय मनो हृदि।
जजाप परमं 2जप्यं प्राग्जन्मन्यनुशिक्षितम्॥ १ ॥

अनुवाद (हिन्दी)

श्रीशुकदेवजी कहते हैं—परीक्षित्! अपनी बुद्धिसे ऐसा निश्चय करके गजेन्द्रने अपने मनको हृदयमें एकाग्र किया और फिर पूर्वजन्ममें सीखे हुए श्रेष्ठ स्तोत्रके जपद्वारा भगवान‍्की स्तुति करने लगा॥ १॥

वीरराघवः

“तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् । यतते च ततो भूयः संसिद्धौ कुरुनन्दन । पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः” (भ.गी. 6-43,44) इति भगवद् उक्त-रीत्या एवङ्कृत-निश्चयो गजेन्द्रः पूर्व-जन्माभ्यस्तं जजापेत्य् आह मुनिः - एवमिति । एवं नमामीत्यादि-श्लोक-द्वयोक्त-रीत्या व्यवसितः निश्चित-मनाः मनो हृदि समाधाय हृदयस्थं कृत्वा विषयान्तरेभ्यः प्रत्याहृत्य प्राग्जन्मनि इन्द्र-द्युम्नाख्य-जन्मनि अनुशिक्षितं अभ्यस्तं परमं जप्यं स्तोत्रं जजाप ॥ १ ॥

श्लोक-२

मूलम् (वचनम्)

3गजेन्द्र उवाच

विश्वास-प्रस्तुतिः

ॐ नमो भगवते तस्मै
यत एतच् चिद्-आत्मकम्।
पुरुषायादि-बीजाय
परेशायाभिधीमहि॥

मूलम्

ॐ नमो भगवते तस्मै यत एतच्चिदात्मकम्।
पुरुषायादिबीजाय परेशा4याभिधीमहि॥ २ ॥

अनुवाद (हिन्दी)

गजेन्द्रने कहा—जो जगत‍्के मूल कारण हैं और सबके हृदयमें पुरुषके रूपमें विराजमान हैं एवं समस्त जगत‍्के एकमात्र स्वामी हैं, जिनके कारण इस संसारमें चेतनताका विस्तार होता है—उन भगवान‍्को मैं नमस्कार करता हूँ, प्रेमसे उनका ध्यान करता हूँ॥ २॥

वीरराघवः

जप्यम् एवाऽऽह - ओं इत्यादिना । तावत् - “कारणन्तु ध्येयः” (अथश्खिप. उ. 3) इति श्रुत्य्-उक्त-विधया जगत्-सृष्ट्यादि कारणं प्रकृति-पुरुष-विलक्षणं नमस्कृत्य शरणं व्रजति - ओमिति । “ओं तत्सदिति निर्देशो ब्रह्मणस् त्रिविधः स्मृतः” (भ.गी. 17-23) इत्य्-उक्त-रीत्या ब्रह्मणो निर्देशपरः ओङ्कारः ब्रह्मणे इत्य्-अर्थः । ओङ्काराभिप्रेत-ब्रह्म-शब्द-प्रवृत्ति-निमित्त-गुण-बृहत्त्वं भगवत इत्यनेन पूर्ण-षाड्गुण्य-वाचिना स्पष्टीकृतम् । एवं कारणत्वोपयुक्त-गुण-योग उक्तः । एवंविधाय तस्मै भगवते नमः । को ऽसौ भगवान् यं नमस्करोषि इत्यत्र तं लक्षयन् तद्ध्यानं प्रतिजानीते । यतो भगवत एतच् चिदात्मकं चित्संसृष्टम् अचेतनात्मकं चिदचिदात्मकम् इति यावत् । यत एवम् अतः आदि-बीजाय परम-कारणाय, अत एव परेषां ब्रह्मादीनाम् अपीशाय परम-पुरुषाय अभिधीमहि अभिध्यायेम ध्यायतेर् लिङि आर्षत्वाद् आत्मनेपदे विकरणाभावे सम्प्रसारणे च रूपम्। “क्रियया यम् अभिप्रैति सो ऽपि सम्प्रदानम्” (वार्तिक 829) इति वचनेन पत्यै शेते इत्य् आदाविव ध्यान-क्रियायाः सम्बध्यमान-विवक्षया सम्प्रदान-संज्ञायां पुरुषायेति चतुर्थी । सत्यं परं धीमहीत्य् आदौ तु आप्यमानत्वविवक्षया कर्म-संज्ञायां द्वितीया । यत इति हेत्व्-अर्थे पञ्चमी । हेतुत्वञ्चाऽधिकरणोपादान-कर्त्रादि-साधारणम् । ततश्च यस्मिन् यतः येनेति विवक्षितं तदन्वयानुगुणानि लीन-जात-रक्षितादि-पदानि अध्याजिहीर्षितानि ॥ २ ॥

श्लोक-३

विश्वास-प्रस्तुतिः

यस्मिन्न् इदं यतश् चेदं
येनेदं य इदं स्वयम्।
योऽस्मात् परस्माच्च परस्
तं प्रपद्ये स्वयम्भुवम्॥

मूलम्

यस्मिन्निदं यतश्चेदं येनेदं य इदं स्वयम्।
योऽस्मात् परस्माच्च परस्तं प्रपद्ये स्वयम्भुवम्॥ ३ ॥

अनुवाद (हिन्दी)

यह संसार उन्हींमें स्थित है, उन्हींकी सत्तासे प्रतीत हो रहा है, वे ही इसमें व्याप्त हो रहे हैं और स्वयं वे ही इसके रूपमें प्रकट हो रहे हैं। यह सब होनेपर भी वे इस संसार और इसके कारण—प्रकृतिसे सर्वथा परे हैं। उन स्वयंप्रकाश, स्वयंसिद्ध सत्तात्मक भगवान‍्की मैं शरण ग्रहण करता हूँ॥ ३॥

वीरराघवः

तदेतत् सर्वम् अभिप्रेत्य विशदयन् शरणं व्रजति - यस्मिन्निति । इदं चिदचिदात्मकं जगद् यस्मिन् प्रलीनं सृष्टेर् अप्ययपूर्वकत्वात् लयाधिकरणत्व-सूचनाय तावत् यस्मिन् इत्य् उक्तम् । यत उपादान-भूतात् सूक्ष्म-चिदचिद्-विशिष्टाद् एतत्-स्थूल-चिदचिद्-विशिष्टात्मकं जगज् जातं, येन कर्त्रा सृष्टं रक्षितञ्च । येनेति तन्त्रेण स्रष्टृत्वं रक्षितृत्वञ्च उभयम् अपि विवक्षितम् । तथा यस्मिन्न् इत्य् अनेन सृज्यमान-चिदचिदधिकरणत्वम् अपि विवक्षितम् । यत इदम् इत्य् अनेन जगद्-ब्रह्मणोर् उपादानोपादेय-भाव उक्तः । तत्-कृतं तयोर् मिथो ऽनन्यत्वम् आह - य इदं स्वयम् इति । इदं सर्वं यदात्मकम् इत्य्-अर्थः । उपादानत्व-प्रयुक्तं विकारित्वं परिहरति यो ऽस्मात्, परस्माच् च परः इति । अस्मात्-स्व-रूपान्यथाभावम् आपद्यमानाद् अचेतनजातात् परो विलक्षणः यः स्व-भावान्यथाभावम् आपद्यमानो जीवः तस्माच् च परो विलक्षणः स्व-रूपेण स्व-भावेन च विकार-रहितः, चिदचिद्द्वारकत्वाद् विकाराणाम् इति भावः । तम् एवम्भूतं स्वयम्भुवं स्वायत्त-सत्तादिमन्तं, न तु जीववद् अन्यायत्तसत्तादिमन्तम् इत्य्-अर्थः । प्रपद्ये 5शरणं गतो ऽस्मीत्य्-अर्थः5 । यद्य् अप्य् अत्र गत्यर्थेन पदातिना बुद्ध्य्-अर्थेन सता अध्यवसायमात्रम् उपस्थाप्यते, तथा ऽपि प्रमाणानुसारात्, अरणं तम् ईमहीति पूर्वत्र-शरण-शब्द-पर्यायस्य अरण-शब्दस्य प्रयोगाच् च प्रार्थनाद्य्-अन्वित-रक्षाभर-न्यासं करोमीत्य् उच्यते । तथा चोच्यते - “अनन्य-साध्ये स्वाभीष्टे महा-विश्वास-पूर्वकम्, तदेकोपायता याच्ञा प्रपत्तिश् शरणागतिः” (विष्वक्सेन संहिता) इति रक्षा-प्रार्थनन्तु समनन्तर-श्लोकेषु ‘अवतु मां परात्पर’ इत्यादिषु स्फुटम् । इयञ्च गजेन्द्रेण विहिता प्रपत्तिः मुक्त्यर्थैव, न तु प्राण-संरक्षणार्था - “गजेन्द्रो भगवत्-स्पर्शाद् विमुक्तो ऽज्ञान् बन्धनात्, प्राप्तो भगवतो रूपं पीतवासाच् चतुर्भुजः” (भाग. 8-4-6) इति तत् फलतया मुक्तेर् एव वक्ष्यमाणत्वाद् इति भावः ॥ ३ ॥

श्लोक-४

विश्वास-प्रस्तुतिः

यः स्वात्मनीदं निज-माययार्पितं
क्वचिद् विभातं क्व च तत् तिरोहितम्।
अविद्ध-दृक् साक्ष्य्-उभयं तदीक्षते
स आत्ममूलोऽवतु मां परात्परः॥

मूलम्

यः स्वात्मनीदं निजमाययार्पितं क्वचिद् विभातं क्व च तत् तिरोहितम्।
अविद्धदृक् साक्ष्युभयं तदीक्षते स आत्ममूलोऽवतु मां परात्परः॥ ४ ॥

अनुवाद (हिन्दी)

यह विश्वप्रपंच उन्हींकी मायासे उनमें अध्यस्त है। यह कभी प्रतीत होता है, तो कभी नहीं। परन्तु उनकी दृष्टि ज्यों-की-त्यों—एक-सी रहती है। वे इसके साक्षी हैं और उन दोनोंको ही देखते रहते हैं। वे सबके मूल हैं और अपने मूल भी वही हैं। कोई दूसरा उनका कारण नहीं है। वे ही समस्त कार्य और कारणोंसे अतीत प्रभु मेरी रक्षा करें॥ ४॥

वीरराघवः

यस्मिन् इदम् इत्य् अनेन अभिप्रेतं सृष्टि-संहार-विषय-चेतनाचेतनात्मक-जगद्-अधिकरणत्वं विवृण्वन् सृष्ट्य्-आद्युपयुक्त-सार्वज्ञ्यादि-गुण-युक्तं 6स्व-रक्षायै प्रार्थयते य इति । आत्मनि स्वस्मिन् एव यः क्वचित् कदाचित् निजमायया ऽऽत्मीय-सङ्कल्पेन विभातं प्रकाशितं देवादि-नाम-रूप-विभागत्वेन प्रकाशितम् । क्वचिच् च तिरोहितं नाम-रूप-विभाग-त्यागेन सूक्ष्म-रूपतया प्रलीनम् इत्य्-अर्थः । इदम् उभयं कार्यावस्थं कारणावस्थञ्च चिदचिदात्मकं जगत् अविद्धदृक् नित्यं सङ्कोच-विकासादि-रहितापरिच्छिन्न-धर्म-भूत-ज्ञानाश्रयः साक्षी सर्वज्ञश् च सन्न् ईक्षते स आत्ममूलः अनन्य-कारणः परात् प्रधानात् परान् जीवात् परो विलक्षणः माम् अवतु । परस्माच् च पर इत्य्-उपादानत्व-प्रयुक्त-विकार-प्रसङ्ग-परिजिहीर्षयोक्तम् । अत्र तु जीवान्तरस्यापि स्व-सदृशत्वे स्व-रक्षणासामर्थ्य-सूचनायोक्तम् । अवत्व् इति प्रार्थिता रक्षा ऽत्र यावदनिष्ट-परिहार-पूर्वकेष्ट-प्रापण-रूपा । सा च मुक्तिर् एव । ब्रह्मविदो गजेन्द्रस्य केवल-प्राण-मात्र-रक्षाप्रार्थनानुपपत्तेः । “जिजीविषे नाऽहम् इह” (भाग. 8-3-25) इति । “मादृक्-प्रपन्न-पशु-पाश-विमोक्षणाय” (भाग. 8-3-17) इति स्पष्टं तद् उक्तेश् च । अत एव सर्वज्ञो भगवान् तद् अभिप्रायम् आलोच्य मुक्तिम् एवा ऽदाद् इति 7विभावनीयम् ॥ ४ ॥

श्लोक-५

विश्वास-प्रस्तुतिः

कालेन पञ्चत्व-मितेषु कृत्स्नशो
लोकेषु पालेषु च सर्वहेतुषु।
तमस् तदा ऽऽसीद् गहनं गभीरं
यस् तस्य पारे ऽभिविराजते विभुः॥

मूलम्

कालेन पञ्चत्वमितेषु कृत्स्नशो लोकेषु पालेषु च सर्वहेतुषु।
तमस्तदाऽऽसीद् गहनं गभीरं यस्तस्य पारेऽभिविराजते विभुः॥ ५ ॥

अनुवाद (हिन्दी)

प्रलयके समय लोक, लोकपाल और इन सबके कारण सम्पूर्णरूपसे नष्ट हो जाते हैं। उस समय केवल अत्यन्त घना और गहरा अन्धकार-ही-अन्धकार रहता है। परन्तु अनन्त परमात्मा उससे सर्वथा परे विराजमान रहते हैं। वे ही प्रभु मेरी रक्षा करें॥ ५॥

वीरराघवः

“क्वचित् तिरोहितं तम् ईक्षते” (भाग. 8-3-4) इत्य् उक्तं, तज्-जगत्-तिरोभूय कां दशाम् आपद्यते, स च तद्दशायां कथम्भूतो ऽवस्थित ईक्षते ? इत्य्-अपेक्षायां तद्-दर्शयति - कालेनेति । कालेन द्विपरार्थावसान-रूपेण कालेन निमित्तेन सर्वस्य जगतो हेतुषु सर्वेषु हेतुषु वा, पृथिव्य्-आदि तत्त्वेषु, तत्-कार्येषु लोकेषु तत्-पालकेषु ब्रह्मादिषु च पञ्चत्वं लयम् इतेषु प्राप्तेषु सत्सु, गहनम् अतिसूक्ष्मत्वात् दुरवबोधं गभीरं परिच्छेत्तुम् अशक्यम् अणुत्व्-आदिना ऽपि परिच्छेत्तुम् अशक्यम् निरतिशय सूक्ष्म-दशापन्नत्वाद् इति भावः । एवं-विधं तम आसीत् । “ना ऽसदासीन्नो सदासीत् तदानीं तम आसीत्” (ऋक्. सं. 10-129-1) इति श्रुतेः । तमश् शब्दो निरतिशय सूक्ष्म-दशापन्नाचिद्द्रव्यवाची - “अक्षरं तमसि लीयते तमः परे देव एकीभवति” (सु. बा. उ. -2) इति श्रुतेः । तदैवम्भूतस्य तमसः पारे यो ऽभिविराजते । पारो ऽत्र पालनं नियमन-रूपं “पृ पालन पूरणयोः” इति धात्व्-अर्थानुरोधात् । उक्त-विध-तमो-नियमने कार्याक्षमत्वापादन-रूपे8, स्थित इति शेषः । विराजते प्रकाशते न तु जीववत् सङ्कचित-ज्ञानो भवतीत्यर्थः ॥ ५ ॥

श्लोक-६

विश्वास-प्रस्तुतिः

न यस्य देवा ऋषयः पदं विदु-
र्जन्तुः पुनः कोऽर्हति गन्तुमीरितुम्।
यथा नटस्याकृतिभिर्विचेष्टतो
दुरत्ययानुक्रमणः स मावतु

मूलम्

न यस्य देवा ऋषयः पदं विदुर्जन्तुः पुनः कोऽर्हति गन्तुमीरितुम्।
यथा नटस्याकृतिभिर्विचेष्टतो दुरत्ययानुक्रमणः स मावतु॥ ६ ॥

अनुवाद (हिन्दी)

उनकी लीलाओंका रहस्य जानना बहुत ही कठिन है। वे नटकी भाँति अनेकों वेष धारण करते हैं। उनके वास्तविक स्वरूपको न तो देवता जानते हैं और न ऋषि ही; फिर दूसरा ऐसा कौन प्राणी है जो वहाँतक जा सके और उसका वर्णन कर सके? वे प्रभु मेरी रक्षा करें॥ ६॥

वीरराघवः

क्वचिद् विभातम् ईक्षत इत्य् उक्तम् । कीदृशं तस्येक्षणम् ? इत्य्-अपेक्षायां तत्-तद्-देव-मनुष्याद्य्-अवस्थ-जीव-सम्बन्धि-नाना-विध-विचित्र-कर्मानुगुण-नियमन-रूपत्वाद् इत्थन्तया दुरवबोधम् इति वक्तुं तावत् तत्-स्व-रूपस्य दुर्ज्ञेयत्वात् तदीक्षणम् अपि दुरवबोधम् एवेति दर्शयितुं स्व-रूपस्य दुर्ज्ञेयत्वं वदन्, तं स्व-रक्षायै प्रार्थयते - न यस्येति । देवाः सत्त्व-प्रचुराः “तत्र सत्त्वं निर्मलत्वात्-प्रकाशक-मनामयम्” (भ.गी. - 14-6) इत्य्-अतीन्द्रियार्थ दर्शन-योग्यत्वं सूच्यते । ऋषयो योगिनः । अनेना ऽपि तद् एव सूच्यते । अत एव यस्य पदं, पद्यते इति पदं स्व-रूपं न विदुः अन्यो ऽर्वाचीनो जन्तुः प्राणी तत्-पदं गन्तुं यथावद् बोद्धुं ईरितुं वक्तुञ् च कः पुनर् अर्हति ? तत्र दृष्टान्तः - यथा आकृतिभिः वेषैः विचेष्टतो नटस्य ‘अयम् असौ’ इति तत्-स्व-रूपम् अतज्ज्ञाः न विदुः तथेत्य् अर्थः । स एवं दुरवबोध-स्व-रूपः अत एव दुरत्ययानुक्रमणः दुर्गम-व्यापारः इत्थन्तया दुरवबोध-नियमन-रूप-व्यापार-युक्तो मामवतु । यद् वा नटस्येवाकृतिभिः देवादि-विचित्र-शरीरैः विचेष्टतो जीव-द्वारा विचेष्टतो यस्येति वा ऽन्वयः । अकृतिभिः अवतार-विशेषैः विचेष्टतो यस्येति वा ऽर्थः ॥ ६ ॥

श्लोक-७

विश्वास-प्रस्तुतिः

दिदृक्षवो यस्य पदं सुमङ्गलं
विमुक्तसङ्गा मुनयः सुसाधवः।
चरन्त्यलोकव्रतमव्रणं वने
भूतात्मभूताः सुहृदः स मे गतिः॥

मूलम्

दिदृक्षवो यस्य पदं 9सुमङ्गलं विमुक्तसङ्गा मुनयः सुसाधवः।
चरन्त्यलोकव्रतमव्रणं वने 10भूतात्मभूताः सुहृदः स मे गतिः॥ ७ ॥

अनुवाद (हिन्दी)

जिनके परम मंगलमय स्वरूपका दर्शन करनेके लिये महात्मागण संसारकी समस्त आसक्तियोंका परित्याग कर देते हैं और वनमें जाकर अखण्डभावसे ब्रह्मचर्य आदि अलौकिक व्रतोंका पालन करते हैं तथा अपने आत्माको सबके हृदयमें विराजमान देखकर स्वाभाविक ही सबकी भलाई करते हैं—वे ही मुनियोंके सर्वस्व भगवान् मेरे सहायक हैं; वे ही मेरी गति हैं॥ ७॥

वीरराघवः

दुरवगमत्वोक्ति-प्रसक्ताम् अनुपास्यत्वशङ्कां निराचिकीर्षुः 11तस्य नटस्येति दृष्टान्त-सा12मर्थ्य-लब्धं कैश्चित् सुबोधत्वं वदन् तस्यैव स्व-रक्षोपायत्वम् अध्यवस्यति - दिदृक्षव इति । सुमङ्गलं नित्य-सुख रूपं यस्य स्व-रूपं दिदृक्षवः साक्षात्-कर्तुम् इच्छवो मुनयः विमुक्तस् सङ्गो दारागारादिषु शब्दादि-विषयेषु वा यैस् ते सुसाधवः अन्यैर् अपि साधूनां धर्मैर् युक्ताः भूतेषु उच्चावचेष्व् आत्मभूता आत्म-तुल्यतां प्राप्ताः स्वात्म-समदर्शिनस् सन्तो वने अरण्ये अव्रणम् अच्छिद्रम् अलोक-व्रतम् इतरैः जनैः कर्तुम् अशक्यं व्रतम् उपासनात्मकं चरन्ति उपासनात्मक व्रत-परिशुद्ध-मनसा तत्-पदं साक्षात्-कुर्वन्त्य् एवेति भावः । तथा च श्रुतिः - “हृदा मनीषा मनसा ऽभिक्लृप्तः” (कठ. उ. 6-3) “दृश्यते त्व् अग्नया बुद्ध्या सूक्ष्मया सूक्ष्म-दर्शिभिः (कठ.उ. 3-12) “तं दुर्दर्शं गूढम् अनुप्रविष्टम्” (कठ. उ. 2-12) “यत्-तद्-अद्रेश्यम् अग्राह्यम्” (मुण्ड. उ. 1-1-6) “न मांसचक्षुर् अभिवीक्षते तम्” “न चक्षुषा पश्यति कश्चनैनम्” (कठ.उ. 6-9) इत्याद्य्-अदृश्यत्वश्रुतयस् तु योगापरिशुद्धमतिभिर् अग्राह्यत्वं वदन्तीति भावः । स एवं-भूतो मे गतिः, रक्षोपाय इत्य् अर्थः ॥ ७ ॥

श्लोक-८

विश्वास-प्रस्तुतिः

न विद्यते यस्य च जन्म कर्म वा
न नामरूपे गुणदोष एव वा।
तथापि लोकाप्ययसंभवाय यः
स्वमायया तान्यनुकालमृच्छति॥

मूलम्

न विद्यते यस्य च जन्म कर्म वा न नामरूपे गुणदोष एव वा।
तथापि लो13काप्ययसंभवाय 14यः स्वमायया तान्यनुकालमृच्छति॥ ८ ॥

अनुवाद (हिन्दी)

न उनके जन्म-कर्म हैं और न नाम-रूप; फिर उनके सम्बन्धमें गुण और दोषकी तो कल्पना ही कैसे की जा सकती है? फिर भी विश्वकी सृष्टि और संहार करनेके लिये समय-समयपर वे उन्हें अपनी मायासे स्वीकार करते हैं॥ ८॥

वीरराघवः

एवं-दृश्यत्वादृश्यत्वश्रुतीनां विषय-विभागो ऽर्थात्प्रदर्शितः । अथ तुल्य-न्यायतया “अजायमानः” (पु.सु. 2-1) “निष्कलं निष्क्रियं” (श्वेता.उ. 6-19) “तद्-अरूपम् अनामयम्” इत्यादि जन्मादि-प्रतिषेध-पराणां “बहुधा विजायते” (पु.सू. 2-1) “यस्य चैतत्कर्म स वै वेदितव्यः” (कौषी. उ. 4-18) “सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः” (छान्दो. उ. 3-14-4) “हिरण्मयः पुरुषो दृश्यते” (छान्दो. उ. 1-6-6) इत्य् आदीनां जन्मादि प्रतिपादन-पराणाञ् च श्रुतीनां विषय-विभागं दर्शयन् स्तौति - नेति । यद्य् अपि यस्य जन्मादयो न सन्ति जीवस्येव कर्मायत्ता न सन्तीति भावः । तथा ऽपि लोकानां दुष्कृताम् अत्ययो विनाशः सम्भवः साधूनां परित्राणं तयोस् समाहारः तस्मै तद्-अर्थं तानि जन्मादीन्य् अनुकालं “यदा यदा हि धर्मस्य ग्लानिर् भवति” (भ.गी. 4-7) इत्य् आद्य्-उक्त-कालेषु इत्य् अर्थः । स्व-मायया आत्मीय-सङ्कल्पेन ऋच्छति प्राप्नोति स्वीकरोति अकर्मायत्तानि जन्मादीनि स्वेच्छयैवोपादत्तेः इत्य् अर्थः । तत्र दोषो विकारः इमम् एव विषय-विभागम् अभिप्रेत्य वरद-गुरुभिर् अयं श्लोको ऽभिहितः - “यद् ब्रह्मणो गुण-शरीर-विकार-भेद-कर्मादि-गोचर-विधि-प्रतिषेधवाचः । अन्योन्यभिन्नविषयान् अनिरोध-गन्धम् अर्हन्ति तन् न विधयः प्रतिषेधवाच्याः ॥” इति । यस्तानि ऋच्छति स मे गतिर् इति पूर्वेणान्वयः ॥ ८ ॥

श्लोक-९

विश्वास-प्रस्तुतिः

तस्मै नमः परेशाय ब्रह्मणेऽनन्तशक्तये।
अरूपायोरुरूपाय नम आश्चर्यकर्मणे॥

मूलम्

तस्मै नमः परेशाय ब्रह्मणेऽनन्तशक्तये।
अरूपायोरुरूपाय नम आश्चर्यकर्मणे॥ ९ ॥

अनुवाद (हिन्दी)

उन्हीं अनन्त शक्तिमान् सर्वैश्वर्यमय परब्रह्म परमात्माको मैं नमस्कार करता हूँ। वे अरूप होनेपर भी बहुरूप हैं। उनके कर्म अत्यन्त आश्चर्यमय हैं। मैं उनके चरणोंमें नमस्कार करता हूँ॥ ९॥

वीरराघवः

एवं शरण्यत्वोपयुक्त गुण-कथन-पूर्वकं स्व-रक्षायै शरणम् उपगम्य, अध्य पात्र-परिवेषित बहु-व्यञ्जनोपेतान्नादि-भोजन प्रवृत्त-न्यायेन झञ्झा-मारुत-विधूत-चूतादि-फलादान-प्रवृत्त-न्यायेन च पौनर् उक्त्यम् अनादृत्य उक्तैर् अनुक्तैश् च गुणैः यथा-मत्य् उपस्थितैः शरण्यत्वोपयुक्तैः स्तुवन् प्रणमति - तस्मा इति । परेषां ब्रह्मादीनाम् अपि ईशाय अनन्ताः शक्तयः सृष्ट्य्-आदि-शक्तयो यस्य, न विद्यते रूपं कर्मायत्तं शरीरं यस्य उरूणि बहूनि रूपाणि अकर्मायत्तानि स्वेच्छोपात्तान्य्-अप्रकृतानि-15रूपाणि यस्य, आश्चर्यं लोक-विसजातीयत्वेन अद्भुतं कर्मं जगद्-व्यापाराद्यात्मकं यस्य ॥ ९ ॥

श्लोक-१०

विश्वास-प्रस्तुतिः

नम आत्मप्रदीपाय साक्षिणे परमात्मने।
नमो गिरां विदूराय मनसश्चेतसामपि॥

मूलम्

नम आत्मप्रदीपाय साक्षिणे परमात्मने।
नमो गिरां विदूराय मनसश्चेतसामपि॥ १० ॥

अनुवाद (हिन्दी)

स्वयंप्रकाश, सबके साक्षी परमात्माको मैं नमस्कार करता हूँ। जो मन, वाणी और चित्तसे अत्यन्त दूर हैं—उन परमात्माको मैं नमस्कार करता हूँ॥ १०॥

वीरराघवः

आत्मनैव दीप्यत इत्य्-आत्म-दीपः तस्मै स्वयं-प्रकाशाय साक्षिणे सर्वस्य युगपत् साक्षाद्-द्रष्ट्रे परमात्मने लोक-त्रयम् आविश्य प्रशासनेन भर्त्रे, गिरां मनसश् चेतसाम् अपि विदूराय अविषयाय वाङ्मनसा ऽपरिच्छेद्य स्व-रूप-स्व-भावाय चित्तावस्थस्य मनसः सत्त्व-प्रचुरत्वेन अधिकार्य-विषयीकरण-योगत्व-सूचनाय मनसः पृथक् चेतसाम् अपीत्य् उक्तम् ॥ १० ॥

श्लोक-११

विश्वास-प्रस्तुतिः

सत्त्वेन प्रतिलभ्याय नैष्कर्म्येण विपश्चिता।
नमः कैवल्यनाथाय निर्वाणसुखसंविदे॥

मूलम्

सत्त्वेन प्रतिलभ्याय नैष्कर्म्येण विपश्चिता।
नमः कैवल्यनाथाय निर्वाणसुखसंविदे॥ ११ ॥

अनुवाद (हिन्दी)

विवेकी पुरुष कर्म-संन्यास अथवा कर्म-समर्पणके द्वारा अपना अन्तःकरण शुद्ध करके जिन्हें प्राप्त करते हैं तथा जो स्वयं तो नित्यमुक्त, परमानन्द एवं ज्ञानस्वरूप हैं ही, दूसरोंको कैवल्य-मुक्ति देनेकी सामर्थ्य भी केवल उन्हींमें है—उन प्रभुको मैं नमस्कार करता हूँ॥ ११॥

वीरराघवः

विपश्चिता ज्ञानिना कर्त्ता सत्त्वेन विशुद्धेन अनन्य-प्रयोजनेन नैष्कर्म्येण उपासनात्मक-निवृत्ति-धर्मेण उपलभ्याय कैवल्यं प्रकृति-सम्बन्ध-राहित्यं मोक्ष इति यावत्, तस्याधिपतये - निर्वाण-सुख-संविदे निर्दुःखानन्द-ज्ञान-स्व-रूपाय ॥ ११ ॥

श्लोक-१२

विश्वास-प्रस्तुतिः

नमः शान्ताय घोराय मूढाय गुणधर्मिणे।
निर्विशेषाय साम्याय नमो ज्ञानघनाय च॥

मूलम्

नमः शान्ताय घोराय 16गूढाय गुण17धर्मिणे।
निर्विशेषाय साम्याय नमो ज्ञानघनाय च॥ १२ ॥

अनुवाद (हिन्दी)

जो सत्त्व, रज, तम—इन तीन गुणोंका धर्म स्वीकार करके क्रमशः शान्त, घोर और मूढ़ अवस्था भी धारण करते हैं, उन भेदरहित समभावसे स्थित एवं ज्ञानघन प्रभुको मैं बार-बार नमस्कार करता हूँ॥ १२॥

वीरराघवः

शान्ताय अशनाया-पिपासा-शोक-मोह-जरा-मृत्यु-रूप-षडूर्मि-रहिताय । यद् वा साधूनां शान्ताय प्रसन्नाय, घोराय खलानाम् उग्राय, गूढाय संसारिणां प्रच्छन्नाय गुण-धर्मिणे सत्त्वादि-गुणाश्रयाय निर्विशेषाय हेय-गुण-रहिताय सत्त्वादि-गुणाश्रयत्वे ऽपि तद्-अवश्यायेत्य् अर्थः । साम्याय वैषम्यादि-रहिताय, ज्ञान-घनाय क्वचिद् अपि जाड्य-रहिताय । 18यद् वा, शान्ताय अति-सौम्य-माधुर्य-सौशील्यादि-गुण-गण-लक्षित-मधुर-मूर्तये, घोराय अति-भयानकात्युग्र-श्री-नृसिंह-रूपाय, गूढाय अन्तर्यामि-रूपाय उत्पादिता-प्रकटित-रूपायेत्य् अर्थः । मूढायेति पाठे केष्व् अपि स्व-स्व-रूपान्यत्र केष्व् अपि अदत्त-चित्ताय सर्वत्रानासक्ताय स्वात्मारामाय सदा स्वानन्द-तुष्टायेत्य् अर्थः18 ॥ १२ ॥

श्लोक-१३

विश्वास-प्रस्तुतिः

क्षेत्रज्ञाय नमस्तुभ्यं सर्वाध्यक्षाय साक्षिणे।
पुरुषायात्ममूलाय मूलप्रकृतये नमः॥

मूलम्

क्षेत्रज्ञाय नमस्तुभ्यं सर्वाध्यक्षाय साक्षिणे।
पुरुषायात्ममूलाय मूलप्रकृतये नमः॥ १३ ॥

अनुवाद (हिन्दी)

आप सबके स्वामी, समस्त क्षेत्रोंके एकमात्र ज्ञाता एवं सर्वसाक्षी हैं, आपको मैं नमस्कार करता हूँ। आप स्वयं ही अपने कारण हैं। पुरुष और मूल प्रकृतिके रूपमें भी आप ही हैं। आपको मेरा बार-बार नमस्कार॥ १३॥

वीरराघवः

क्षेत्रज्ञ-शरीरकाय सर्वाध्यक्षाय, सर्व-भूताधिपतये साक्षिणे सर्व-द्रंष्ट्रे पुरुषाय अन्तः प्रविश्य नियन्त्रे आत्म-मूलाय स्वयं कारणान्तर-रहिताय मूल-प्रकृतये सर्वोपादान-भूताय ॥ १३ ॥

श्लोक-१४

विश्वास-प्रस्तुतिः

सर्वेन्द्रियगुणद्रष्ट्रे सर्वप्रत्ययहेतवे।
असताच्छाययोक्ताय सदाभासाय ते नमः॥

मूलम्

सर्वेन्द्रियगुणद्रष्ट्रे सर्वप्रत्ययहेतवे।
19असताच्छाययोक्ताय19 सदाभासाय ते नमः॥ १४ ॥

अनुवाद (हिन्दी)

आप समस्त इन्द्रिय और उनके विषयोंके द्रष्टा हैं, समस्त प्रतीतियोंके आधार हैं। अहंकार आदि छायारूप असत् वस्तुओंके द्वारा आपका ही अस्तित्व प्रकट होता है। समस्त वस्तुओंकी सत्ताके रूपमें भी केवल आप ही भास रहे हैं। मैं आपको नमस्कार करता हूँ॥ १४॥

वीरराघवः

सर्वेषाम् इन्द्रियाणां तद्-गुणानां शब्दादि-विषयाणाञ् च युगपत् सदा द्रष्ट्रे सर्व-प्रत्यय-हेतवे संशय-विपर्ययादि सर्व-धर्म-प्रत्यय-हेतवे, असता सतत-परिणामिन्या छायया छायावद्-अपृथक्-सिद्धया मायया, उक्ताय सूचिताय जडत्वेन स्वयं प्रवृत्ति-शून्यया मायया प्रवर्तयितृत्वेन सूचितायेत्य् अर्थः । उक्तायेति पाठान्तरम् । तदा युक्तायेत्य् अर्थः । यद् वा, गूढाय गुण-धर्मिणे, निर्विशेषाय साम्याय, ज्ञान-घनायेति अचेतन-समष्टि-शरीरकत्वम् उक्तम् । तत्र गूढाय तमो-मयाय गुण-धर्मिणे सत्त्वादि-गुणाश्रयाय निर्विशेषाय पृथिव्यादि-विशेष-रहिताय । “महदाद्या विशेषान्ताः” (विष्णुः पु. 1-2.53) इति प्रयोगात् । साम्याय गुण-साम्यावस्थाय, अज्ञान-घनायेति वा छेदः । तदा जाड्य-स्वभावायेत्य् अर्थः । गूढत्वादिकञ् च “काठिन्यवान् यो बिभर्ति” (विष्णुः पु. 1-14-28) इतिवत् प्रकृति-द्वारकं विशेषणं क्षेत्रज्ञाय सर्वाध्यक्षाय साक्षिणे पुरुषायेति समष्टि-जीव-शरीरकत्वम् उच्यते । क्षेत्रज्ञाय “एतद् यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः” (भ.गी. 13-1) इत्य्-उक्त-विध-क्षेत्रज्ञाय सर्वाध्यक्षाय करणाधिपतये साक्षिणे बुद्धीन्द्रियादीनां साक्षाद्-द्रंष्ट्रे पुरुषाय सर्व-शरीरान्तर्-वर्तिने । एतान्य् अपि सद्वारकाण्य् एव विशेषणानि 20ज्ञेयानि । ‘सर्वेन्द्रियगुणद्रष्टे’ इति श्लोके तु व्यष्टि-जीव-शरीरक-नमस्कारः तत्रासता अनित्यया छायया छायावत्-सानुबन्धया वासनया अक्ताय रूषिताय । उक्तायेति इति पाठे सूचिताय आश्रयम् अन्तरेण वासनया अनुपचित्तेः, तथा सूचितायेति भावः । स्व-प्रकाशाय इमान्य् अपि सद्वारकाण्य् एव विशेषणानि इतराणि तु अद्वारकाणीति विवेकः ॥ १४ ॥

श्लोक-१५

विश्वास-प्रस्तुतिः

नमो नमस्तेऽखिलकारणाय
निष्कारणायाद‍्भुतकारणाय।
सर्वागमाम्नायमहार्णवाय
नमोऽपवर्गाय परायणाय॥

मूलम्

नमो नमस्तेऽखिलकारणाय 21निष्कारणायाद‍्भुतकारणाय21
सर्वागमाम्नायमहार्णवाय नमोऽपवर्गाय परायणाय॥ १५ ॥

अनुवाद (हिन्दी)

आप सबके मूल कारण हैं, आपका कोई कारण नहीं है। तथा कारण होनेपर भी आपमें विकार या परिणाम नहीं होता, इसलिये आप अनोखे कारण हैं। आपको मेरा बार-बार नमस्कार! जैसे समस्त नदी-झरने आदिका परम आश्रय समुद्र है, वैसे ही आप समस्त वेद और शास्त्रोंके परम तात्पर्य हैं। आप मोक्षस्वरूप हैं और समस्त संत आपकी ही शरण ग्रहण करते हैं; अतः आपको मैं नमस्कार करता हूँ॥ १५॥

वीरराघवः

अखिल-कारणाय सर्व-कारक-शरीरकाय, निष्कारणाय स्वयं कारकान्तरासाध्याय अद्भुत-कारणाय मृद्-आदिवत् स्व-रूप-परिणाम-रहित-कारण-स्व-रूपाय । सर्वे आगमाः पाञ्चरात्रादय, आम्नायाः 22ऋगादयो वेदाश् च तेषां महार्णवाय स्रोतसाम् इव पर्यवसान-भूमये, अपवर्गाय मोक्ष-हेतु-भूताय, परायणाय 23परमाश्रयाय23 परम-प्राप्याय 24ते तुभ्यं नमः24 ॥ १५ ॥

श्लोक-१६

विश्वास-प्रस्तुतिः

गुणारणिच्छन्नचिदूष्मपाय
तत्क्षोभविस्फूर्जितमानसाय।
नैष्कर्म्यभावेन विवर्जितागम-
स्वयंप्रकाशाय नमस्करोमि॥

मूलम्

गुणारणिच्छन्नचि25दूष्मपाय तत्क्षोभविस्फूर्जितमानसाय।
26नैष्कर्म्य27भावेन विवर्जितागम स्वयं प्रकाशाय नमस्करोमि॥ १६ ॥

अनुवाद (हिन्दी)

जैसे यज्ञके काष्ठ अरणिमें अग्नि गुप्त रहती है, वैसे ही आपने अपने ज्ञानको गुणोंकी मायासे ढक रखा है। गुणोंमें क्षोभ होनेपर उनके द्वारा विविध प्रकारकी सृष्टि रचनाका आप संकल्प करते हैं। जो लोग कर्म-संन्यास अथवा कर्म-समर्पणके द्वारा आत्मतत्त्वकी भावना करके वेद-शास्त्रोंसे ऊपर उठ जाते हैं, उनके आत्माके रूपमें आप स्वयं ही प्रकाशित हो जाते हैं। आपको मैं नमस्कार करता हूँ॥ १६॥

वीरराघवः

गुणारणिच्-छन्न-चिद्-ऊष्मपाय सत्त्वादि-गुणात्मिका प्रकृतिर् एव अरणिः तत् सञ्च्छन्नं जीव-समष्टि रूपम् ऊष्माणम् अग्निं पिबति संहार-काले स्वस्मिन् उपसंहृत्य यो निदधाति स तथोक्तस् तस्मै तत्-क्षोभ-विस्फूर्जित मानसाय । मानस-शब्दो मनः-कार्य-सङ्कल्प-परः तत्-क्षोभे चिद्-अचितोः विक्षोभ-काले सृष्टि-काले स्फुरित-सङ्कल्पाय नैष्कर्म्यं मोक्षः तत् येन भाव्यते तस्मै निवर्तितागम-स्वयं-प्रकाशाय “यतो वाचो निवर्तन्ते अप्राप्य मनसा सह” (तैत्ति. उ. 2-9) 28इत्य्-उक्त-प्रकारेण वाङ्मनसा-अपरिच्छेद्य ज्ञान-स्व-रूपायेत्य् अर्थः । नैष्कर्म्यभावेनेति पाठे नैष्कर्म्य-भावेन मोक्ष-लाभेन निवर्तितः आगमः शास्त्रं यैस् तेषां स्वयम् एव प्रकाशमानाय मुक्ति-पर्यन्ता हि शास्त्र-वश्यता । मुक्तानान् तु निवर्तितागमानाम् अकर्म-वश्यानां तत्-फलतया प्रकाशमानायेत्य् अर्थः ॥ १६ ॥

श्लोक-१७

विश्वास-प्रस्तुतिः

मादृक् प्रपन्न-पशु-पाश-विमोक्षणाय
मुक्ताय भूरिकरुणाय नमोऽलयाय।
स्वांशेन सर्वतनुभृन्मनसि प्रतीत-
प्रत्यग्दृशे भगवते बृहते नमस्ते॥

मूलम्

29मादृक् प्रपन्नपशुपाशविमोक्षणाय मुक्ताय भूरिकरुणाय 30नमोऽलयाय।
स्वांशेन सर्वतनुभृन्मनसि प्रतीत प्रत्यग्दृशे भगवते बृहते नमस्ते॥ १७ ॥

अनुवाद (हिन्दी)

जैसे कोई दयालु पुरुष फंदेमें पड़े हुए पशुका बन्धन काट दे, वैसे ही आप मेरे-जैसे शरणागतोंकी फाँसी काट देते हैं। आप नित्यमुक्त हैं, परम करुणामय हैं और भक्तोंका कल्याण करनेमें आप कभी आलस्य नहीं करते। आपके चरणोंमें मेरा नमस्कार है। समस्त प्राणियोंके हृदयमें अपने अंशके द्वारा अन्तरात्माके रूपमें आप उपलब्ध होते रहते हैं। आप सर्वैश्वर्यपूर्ण एवं अनन्त हैं। आपको मैं नमस्कार करता हूँ॥ १७॥

वीरराघवः

मादृशो यः प्रपन्नः पशुश् च तस्य यः पाशः कर्म-बन्धस् तस्य विमोक्षणं यस्मात् तस्मै, तं मोक्षयतीति वा । सः तस्मै मुक्ताय स्वयं प्रकृति-पारवश्य-रहिताय, भूरि-करुणाय दया-समुद्राय मनो-लयाय मनसो लयः शब्दादि-विषयेभ्यो वैमुख्यं यत्-प्रावण्यात् तस्मै, नमो ऽलयायेति पाठे ऽलयायेति च्छेदः । न विद्यते लयो नाशो यद्-भजनाद् इत्य् अलयः तस्मै “न मे भक्तः प्रणश्यति” (भ.गी. 9.31) इति भगवद्-उक्तेः । योग-दशायां जीव-शरीरकतया गृह्यमाणत्वम् आह - स्वांशेनेति । प्रत्यक्-शब्दो ऽहम्-बुद्धि-बोध्य-जीव-विषयः । स्वांशेनेति भाव-प्रधानो निर्देशः । स्वांशेन विशिष्टस् त्व् एकदेशत्वेन-आकारेण सर्व-योगिनां मनसि प्रतीतो यः प्रत्यक् अहम्-बुद्धि-बोध्यो जीवस् तस्य दृक् तद्-विषयकं ज्ञानं यस्य तस्मै, स्वांश-भूत-जीवान्तरात्मत्वेन तद्-रूपतया प्रतीयमानायेत्य् अर्थः ॥ १७ ॥

श्लोक-१८

विश्वास-प्रस्तुतिः

आत्मात्मजाप्तगृहवित्तजनेषु सक्तै-
र्दुष्प्रापणाय गुणसङ्गविवर्जिताय।
मुक्तात्मभिः स्वहृदये परिभाविताय
ज्ञानात्मने भगवते नम ईश्वराय॥

मूलम्

आत्मात्मजाप्तगृहवित्तजनेषु सक्तैर्दुष्प्रापणाय गुणसङ्गविवर्जिताय।
31मुक्तात्मभिः स्वहृदये परिभाविताय ज्ञानात्मने भगवते नम ईश्वराय॥ १८ ॥

अनुवाद (हिन्दी)

जो लोग शरीर, पुत्र, गुरुजन, गृह, सम्पत्ति और स्वजनोंमें आसक्त हैं—उन्हें आपकी प्राप्ति अत्यन्त कठिन है। क्योंकि आप स्वयं गुणोंकी आसक्तिसे रहित हैं। जीवन्मुक्त पुरुष अपने हृदयमें आपका निरन्तर चिन्तन करते रहते हैं। उन सर्वैश्वर्यपूर्ण ज्ञानस्वरूप भगवान‍्को मैं नमस्कार करता हूँ॥ १८॥

वीरराघवः

देह-पुत्र-मित्रादिषु सक्तैर् दुःखेनापि प्राप्तुम् अशक्याय गुणाश् शब्दादयो विषयाः, तेषु सङ्गः तेन विवर्जितस् तस्मै शब्दादि-विषय-सङ्ग-रहिता32येत्य् अर्थः । मुक्तात्मभिः रागादि-निर्मुक्त-मनोभिः स्व-हृदयं परिभाविताय मुहुर्-मुहुर् अभ्यस्ताय ज्ञान-स्व-रूपायेश्वराय सर्व-नियन्त्रे ॥ १८ ॥

श्लोक-१९

विश्वास-प्रस्तुतिः

यं धर्मकामार्थविमुक्तिकामा
भजन्त इष्टां गतिमाप्नुवन्ति।
किं त्वाशिषो रात्यपि देहमव्ययं
करोतु मेऽदभ्रदयो विमोक्षणम्॥

मूलम्

यं धर्मकामार्थविमुक्तिकामा भजन्त इष्टां गतिमाप्नुवन्ति।
कि33ञ्चाशिषो रात्यपि देहमव्ययं करोतु मेऽदभ्रदयो विमोक्षणम्॥ १९ ॥

अनुवाद (हिन्दी)

धर्म, अर्थ, काम और मोक्षकी कामनासे मनुष्य उन्हींका भजन करके अपनी अभीष्ट वस्तु प्राप्त कर लेते हैं। इतना ही नहीं, वे उनको सभी प्रकारका सुख देते हैं और अपने ही जैसा अविनाशी पार्षद शरीर भी देते हैं। वे ही परम दयालु प्रभु मेरा उद्धार करें॥ १९॥

वीरराघवः

धर्मादि-चतुर्-विध-पुरुषार्थान् कामयमाना यं भजन्तः इष्टां स्वाभिप्रेतां गतिं धर्मादि-फलं प्राप्नुवन्त्य् एव । न तु तावद् एव, किन्तु 34यस्मै अकामिता अन्या अप्य् आशिषो राति ददाति अव्ययम् अक्षरञ् च देहं राति स्व-देह-तुल्यं देहञ् च ददाति मुक्तिञ् चेति यावत् । सो ऽनन्त-दयो ऽपार-करुणो मम विमोक्षणं करोतु, मुक्तिं ददात्व् 35इत्य् अर्थः ॥ १९ ॥

श्लोक-२०

विश्वास-प्रस्तुतिः

एकान्तिनो यस्य न कञ्चनार्थं
वाञ्छन्ति ये वै भगवत्प्रपन्नाः।
अत्यद‍्भुतं तच्चरितं सुमङ्गलं
गायन्त आनन्दसमुद्रमग्नाः॥

मूलम्

एकान्तिनो यस्य न 36कञ्चनार्थं वाञ्छन्ति ये वै भगवत्प्र37पन्नाः।
अत्यद‍्भुतं 38तच्चरितं सुमङ्गलं गायन्त आनन्दसमुद्रमग्नाः॥ २० ॥

अनुवाद (हिन्दी)

जिनके अनन्यप्रेमी भक्तजन उन्हींकी शरणमें रहते हुए उनसे किसी भी वस्तुकी—यहाँतक कि मोक्षकी भी अभिलाषा नहीं करते, केवल उनकी परम दिव्य मंगलमयी लीलाओंका गान करते हुए आनन्दके समुद्रमें निमग्न रहते हैं॥ २०॥

वीरराघवः

मूर्खत्वाद् अहं मुक्तिं प्रार्थये । एकान्तिनस् तु ताम् अपि न प्रार्थयन्ते इत्य् आह - एकान्तिन इति । एकान्तिनो ऽनन्य-प्रयोजनाः भगवत्-प्रपन्नाः 39यस्य यस्मात् कञ्चनार्थं मुक्तिम् अपि न वाञ्छति वै । अनिच्छायां हेतुं वदन् तान् विशिनष्टि । अत्यद्भुतं सुमङ्गलञ् च यस्य चरित्रं गायन्तः तद्-गुणानुभवानन्द-समुद्र-मग्नाः ॥ २० ॥

श्लोक-२१

विश्वास-प्रस्तुतिः

तमक्षरं ब्रह्म परं परेश-
मव्यक्तमाध्यात्मिकयोगगम्यम्।
अतीन्द्रियं सूक्ष्ममिवातिदूर-
मनन्तमाद्यं परिपूर्णमीडे॥

मूलम्

तमक्षरं ब्रह्म परं परेशमव्यक्तमाध्यात्मिकयोगगम्यम्।
अतीन्द्रियं सूक्ष्ममिवातिदूरमनन्त40माद्यं परिपूर्णमीडे॥ २१ ॥

अनुवाद (हिन्दी)

जो अविनाशी, सर्वशक्तिमान्, अव्यक्त, इन्द्रियातीत और अत्यन्त सूक्ष्म हैं; जो अत्यन्त निकट रहनेपर भी बहुत दूर जान पड़ते हैं; जो आध्यात्मिक योग अर्थात् ज्ञानयोग या भक्तियोगके द्वारा प्राप्त होते हैं—उन्हीं आदिपुरुष, अनन्त एवं परिपूर्ण परब्रह्म परमात्माकी मैं स्तुति करता हूँ॥ २१॥

वीरराघवः

तम् अक्षरं नित्यं परं ब्रह्म 41परेशं 42परेषाम् अपीशं, अव्यक्तं चक्षुराद्य्-अगम्यम् आध्यात्मिक-योगेन भक्ति-योगेनैव गम्यम्, अत एवाऽतीन्द्रियं इन्द्रियाविषयं, सूक्ष्मम् अणोर् अप्य् अणीयांसम् । इव-शब्देन महतो महीयांसम् इति लभ्यते । अति-दूरम् उपायान्तरागम्यत्वात् । यद् वा सूक्ष्मम् अति-दूरम् च यद् वस्तु तद् एवातीन्द्रियं त्रि-विध-परिच्छेद-रहितम्, आदौ भवम् आद्यम्, परिपूर्णम् अन्तर् बहिश् च व्याप्य वर्तमानम् अवाप्त-समस्त-कामं वा स्तौमि ॥ २१ ॥

श्लोक-२२

विश्वास-प्रस्तुतिः

यस्य ब्रह्मादयो देवा वेदा लोकाश्चराचराः।
नामरूपविभेदेन फल्ग्व्या च कलया कृताः॥

मूलम्

यस्य ब्रह्मादयो देवा वेदा लोकाश्चराचराः।
नामरूपविभेदेन 43फल्ग्व्या च कलया कृताः॥ २२ ॥

वीरराघवः

चतुर्मुख-प्रभृतयो देवाश् चराचरात्मका लोका वेदाश् च नाम-रूप-विभागेन यस्य फल्ग्व्या कलया कृताः । “तस्याऽयुताऽयुत-शतैक-कलांशकांशे विश्वं विचित्र चिद्-अचित्-प्रविभाग-वृत्तम्” इत्य्-उक्त-विधया निर्माय धृता इत्य् अर्थः । यस्येत्यस्य स वै इत्य् उपरिष्टाद् अन्वयः ॥ २२ ॥

श्लोक-२३

विश्वास-प्रस्तुतिः

यथार्चिषोऽग्नेः सवितुर्गभस्तयो
निर्यान्ति संयान्त्यसकृत् स्वरोचिषः।
तथा यतोऽयं गुणसंप्रवाहो
बुद्धिर्मनः खानि शरीरसर्गाः॥

मूलम्

यथार्चिषोऽग्नेः सवितुर्गभस्तयो निर्यान्ति संयान्त्यसकृत् स्वरोचिषः।
तथा यतोऽयं गुणसंप्रवाहो बुद्धिर्मनः खानि शरीर44सर्गाः॥ २३ ॥

वीरराघवः

कथं कृता इत्य् अपेक्षायां दृष्टान्तौ । तत्राद्यः प्रवाहे द्वितीयस् त्व् आनन्त्ये दृष्टान्तः । यथा ऽग्नेर् अर्चिषः, यथा च सवितुर् गभस्तयो मरीचयो ऽसकृन् निर्यान्ति 45उद्गच्छन्ति, संयान्ति पुनस् तत्रैव लीयन्ते, स्व-रोचिषः स्वांश-भूता रोचिषः । हेतु-गर्भम् इदम् । स्व-रोचिष्ट्वान् निर्यान्ति संयान्ति चेत्य् अर्थः । तथा बुद्धिर् मनः, खानि इन्द्रियाणि, शरीर-वर्गाः देवादि-शरीर-46सङ्घाश् च इत्य् अयं गुण-सम्प्रवाहः, गुण-परिणाम-रूपः प्रपञ्चो यतो निर्याति यत्र संयाति यद्-अंशत्वाद् इति भावः ॥ २३ ॥

श्लोक-२४

विश्वास-प्रस्तुतिः

स वै न देवासुरमर्त्यतिर्यङ्
न स्त्री न षण्ढो न पुमान् न जन्तुः।
नायं गुणः कर्म न सन्न चासन्-
निषेधशेषो जयतादशेषः॥

मूलम्

स वै न देवासुरमर्त्यतिर्यक् न स्त्री न षण्ढो न पुमान् न जन्तुः।
नायं गुणः कर्म न सन्न चासन् निषेधशेषो जयतादशेषः॥ २४ ॥

अनुवाद (हिन्दी)

जिनकी अत्यन्त छोटी कलासे अनेकों नाम-रूपके भेद-भावसे युक्त ब्रह्मा आदि देवता, वेद और चराचरलोकोंकी सृष्टि हुई है, जैसे धधकती हुई आगसे लपटें और प्रकाशमान सूर्यसे उनकी किरणें बार-बार निकलती और लीन होती रहती हैं, वैसे ही जिन स्वयंप्रकाश परमात्मासे बुद्धि, मन, इन्द्रिय और शरीर—जो गुणोंके प्रवाहरूप हैं—बार-बार प्रकट होते तथा लीन हो जाते हैं, वे भगवान् न देवता हैं और न असुर। वे मनुष्य और पशु-पक्षी भी नहीं हैं। न वे स्त्री हैं, न पुरुष और न नपुंसक। वे कोई साधारण या असाधारण प्राणी भी नहीं हैं। न वे गुण हैं और न कर्म, न कार्य हैं और न तो कारण ही। सबका निषेध हो जानेपर जो कुछ बचा रहता है, वही उनका स्वरूप है तथा वे ही सब कुछ हैं। वे ही परमात्मा मेरे उद्धारके लिये प्रकट हों॥ २२—२४॥

वीरराघवः

य एवं-भूत; स वै न देवादीनां मध्ये कतमो ऽपि देवत्वादि-जाति-रहित इत्य् अर्थः । तथा स्त्रीत्वादि-लिङ्गः रहितः न जन्तुः ना ऽपि प्राणी गुणः कर्म चा ऽयं न भवति 47गुण-रहितः कर्म-रहितश् च47 इत्य् अर्थः । अत एव न सत्, न जीव-वर्गान्तर्-भूतः, न च असत् ना ऽप्य्-अचेतन-वर्गान्तर्-भूतः चिद्-अचितोर् एव जात्याद्य् आश्रयत्वाद् इति भावः । जात्यादि-रूपो न भवतीति वा ऽर्थः । किन्तु निषेध-शेषः जात्यादिषु “ओं नमो भगवते” इत्य्-आद्य्-उक्त कल्याण-गुणाश्रयत्वे ऽप्रतिषिद्धे सति यस् तद्-गुणाश्रयतया ऽवशिष्यते यश् चाशेषः अशेषाश्रयः साक्षात्-परम्परान्यतर-सम्बन्धेन जात्यादीनाम् आश्रयः । तत्र चिद्-अचितोः साक्षाद् आश्रयः, जात्यादीनान् तु चिद्-अचिद्-द्वारेति विवेकः । 48एवं-भूतः48 स जयतात् सर्वोत्कृष्टत्वं प्राप्नोतु । यद् वा, जि अभिभवे इति धातुः 49ज्ञेयः तदा49 जयतात् अभिभवतात्, मम स्व-प्राप्ति-विरोधि-वर्गं निरस्यत्व् इत्य् अर्थः ॥ २४ ॥

श्लोक-२५

विश्वास-प्रस्तुतिः

जिजीविषे नाहमिहामुया कि-
मन्तर्बहिश्चावृतयेभयोन्या।
इच्छामि कालेन न यस्य विप्लव-
स्तस्यात्मलोकावरणस्य मोक्षम्॥

मूलम्

जिजीविषे नाऽहमिहामुया किमन्तर्बहिश्चावृतयेभयोन्या।
इच्छामि कालेन न यस्य विप्लवस्तस्याऽऽत्मलोकावरणस्य मो50क्षणम्॥ २५ ॥

अनुवाद (हिन्दी)

मैं जीना नहीं चाहता। यह हाथीकी योनि बाहर और भीतर—सब ओरसे अज्ञानरूप आवरणके द्वारा ढकी हुई है, इसको रखकर करना ही क्या है? मैं तो आत्मप्रकाशको ढकनेवाले उस अज्ञानरूप आवरणसे छूटना चाहता हूँ, जो कालक्रमसे अपने-आप नहीं छूट सकता, जो केवल भगवत्कृपा अथवा तत्त्वज्ञानके द्वारा ही नष्ट होता है॥ २५॥

श्लोक-२६

विश्वास-प्रस्तुतिः

सोऽहं विश्वसृजं विश्वमविश्वं विश्ववेदसम्।
विश्वात्मानमजं ब्रह्म प्रणतोऽस्मि परं पदम्॥

मूलम्

सोऽहं विश्वसृजं विश्वमविश्वं विश्ववेदसम्।
विश्वात्मानमजं ब्रह्म प्रणतोऽ51स्मि परं पदम्॥ २६ ॥

अनुवाद (हिन्दी)

इसलिये मैं उन परब्रह्म परमात्माकी शरणमें हूँ जो विश्वरहित होनेपर भी विश्वके रचयिता और विश्वस्वरूप हैं—साथ ही जो विश्वकी अन्तरात्माके रूपमें विश्वरूप सामग्रीसे क्रीड़ा भी करते रहते हैं,उन अजन्मा परमपदस्वरूप ब्रह्मको मैं नमस्कार करता हूँ॥ २६॥

वीरराघवः

सो ऽहम् आत्म-लोकावरणस्य मोक्षणम् इच्छुर् अहं विश्वस्य स्रष्टारं विश्वं विश्व-शरीरकम्, अविश्वं विश्व-विलक्षणं, विश्व-वेदनं सर्व-विदम् । विश्व-वेदसम् इति 52पाठे विश्वस्य वेदसं धनं पुरुषार्थ-रूपम् इत्य् अर्थः । यद् वा, विश्वं वेदो धनं शेष-भूतं यस्य स तम् इत्य् अर्थः । विश्वस्यान्तः-प्रविश्य भर्तारम् अजं कर्मायत्तोत्पत्त्य्-आदि-रहितं गुण-पूर्णं परम-प्राप्यं नतो ऽस्मि, परम-प्राप्यं परं केवलं नतो ऽस्मीति वा । प्रणामम् अन्तरेण तत्-प्रसादनोपायं न जानामीति भावः ॥ २५,२६ ॥

श्लोक-२७

विश्वास-प्रस्तुतिः

योगरन्धितकर्माणो हृदि योगविभाविते।
योगिनो यं प्रपश्यन्ति योगेशं तं नतोऽस्म्यहम्॥

मूलम्

योगरन्धितकर्माणो हृदि योगविभाविते।
योगिनो यं प्रपश्यन्ति योगेशं तं नतोऽस्म्यहम्॥ २७ ॥

अनुवाद (हिन्दी)

योगीलोग योगके द्वारा कर्म, कर्मवासना और कर्मफलको भस्म करके अपने योगशुद्ध हृदयमें जिन योगेश्वरभगवान‍्का साक्षात्कार करते हैं—उन प्रभुको मैं नमस्कार करता हूँ॥ २७॥

वीरराघवः

योगेनोपासनात्मकेनरन्धितानि दग्धानि कर्माणि दर्शन-विरोधीनि पुण्य-पापात्मकानि येषां ते, योगिनः योगेन विभाविते विशोधिते हृदि यं प्रपश्यन्ति साक्षात्-कुर्वन्ति तं 53योगेशं 54योगिनाम् ईशम् अहं54 नतो ऽस्मि शक्तास् त्व् एवं योग-विशुद्ध-मनसा साक्षात्-कुर्वन्ति तत् कर्तुम् अशक्तो ऽहं तु केवलं नतो ऽस्मीति भावः ॥ २७ ॥

श्लोक-२८

विश्वास-प्रस्तुतिः

नमो नमस्तुभ्यमसह्यवेग-
शक्तित्रयायाखिलधीगुणाय।
प्रपन्नपालाय दुरन्तशक्तये
कदिन्द्रियाणामनवाप्यवर्त्मने॥

मूलम्

नमो नमस्तुभ्यमसह्यवेगशक्तित्रयायाखिलधीगुणाय।
प्रपन्नपालाय दुरन्तशक्तये 55कदिन्द्रियाणामनवाप्यवर्त्मने॥ २८ ॥

अनुवाद (हिन्दी)

प्रभो! आपकी तीन शक्तियों—सत्त्व, रज और तमके रागादि वेग असह्य हैं। समस्त इन्द्रियों और मनके विषयोंके रूपमें भी आप ही प्रतीत हो रहे हैं। इसलिये जिनकी इन्द्रियाँ वशमें नहीं हैं, वे तो आपकी प्राप्तिका मार्ग भी नहीं पा सकते। आपकी शक्ति अनन्त है। आप शरणागतवत्सल हैं। आपको मैं बार-बार नमस्कार करता हूँ॥ २८॥

वीरराघवः

असह्यो ऽप्रतिहतो वेगो व्यापारो यस्य तत् । शक्तीनां सृष्ट्य्-आदि-शक्तीनां त्रयं यस्य तस्मै । शक्ति-क्रियायेति पाठान्तरम् । तदा अप्रतिहता शक्तिः अघटित-घटनात्मिका क्रिया जगत्-सृष्ट्य्-आदि-रूपा च यस्य तस्मै, अखिलाः धी-गुणाः धी-गत-संशय-विपर्ययाद्य्-अवस्थाः यस्मात् सः तथोक्तस् तस्मै, प्रपन्नानां पालाय रक्षित्रे, दुर्-अन्ता अपारा शक्तिर् यस्य कद्-इन्द्रियाणाम् अजितेन्द्रियाणाम् अनवाप्यं दुरवगमं वर्त्म याथात्म्यं यस्य 56तस्मै तुभ्यं नमो नमः56 ॥ २८ ॥

श्लोक-२९

विश्वास-प्रस्तुतिः

नायं वेद स्वमात्मानं यच्छक्त्याहंधिया हतम्।
तं दुरत्ययमाहात्म्यं भगवन्तमितोऽस्म्यहम्॥

मूलम्

नायं वेद स्वमात्मानं यच्छक्त्याहंधिया 57हतम्।
तं दुरत्ययमाहात्म्यं भग58वन्तं नतोऽस्म्यहम्॥ २९ ॥

अनुवाद (हिन्दी)

आपकी माया अहंबुद्धिसे आत्माका स्वरूप ढक गया है, इसीसे यह जीव अपने स्वरूपको नहीं जान पाता। आपकी महिमा अपार है। उन सर्वशक्तिमान् एवं माधुर्यनिधि भगवान‍्की मैं शरणमें हूँ॥ २९॥

वीरराघवः

59अयं जनो यस्य59 शक्त्या मायया हेतु-भूतया अहन्-धिया देहात्माभिमानेन यन्-माया-मूलक-देहात्माभिमानेन हतं हत-प्रायं स्वम् आत्मानं न वेद तं दुरत्यय-माहात्म्यम् अनतिक्रमणीय-60महिमानं भगवन्तम् अहं नतो ऽस्मि 61इतो ऽस्मीति61 पाठान्तरम् । तदा प्रपन्नो 62ऽस्मीत्य् अर्थः ॥ २९ ॥

श्लोक-३०

मूलम् (वचनम्)

श्रीशुक उवाच

विश्वास-प्रस्तुतिः

एवं गजेन्द्रमुपवर्णितनिर्विशेषं
ब्रह्मादयो विविधलिङ्गभिदाभिमानाः।
नैते यदोपससृपुर्निखिलात्मकत्वात्
तत्राखिलामरमयो हरिराविरासीत्॥

मूलम्

एवं गजेन्द्रमुपवर्णितनिर्विशेषं ब्रह्मादयो विविधलिङ्गभिदाभिमानाः।
नैते यदोपससृपुर्निखिलात्मकत्वात् तत्राखिलामर63मयो हरिराविरासीत्॥ ३० ॥

अनुवाद (हिन्दी)

श्रीशुकदेवजी कहते हैं—परीक्षित्! गजेन्द्रने बिना किसी भेदभावके निर्विशेषरूपसे भगवान‍्की स्तुति की थी, इसलिये भिन्न-भिन्न नाम और रूपको अपना स्वरूप माननेवाले ब्रह्मा आदि देवता उसकी रक्षा करनेके लिये नहीं आये। उस समय सर्वात्मा होनेके कारण सर्वदेवस्वरूप स्वयं भगवान् श्रीहरि प्रकट हो गये॥ ३०॥

वीरराघवः

एवम् इत्थम् उपवर्णितं निर्-विशेषं हेय-गुण-वर्जित-भगवत्-स्व-रूपं येन तम् । यद् वा, ब्रह्मदिषु कस्यचिद् असाधारण-शब्द-विशेष-रहितत्वं येन वर्णितं स तथोक्तस् तं गजेन्द्रम् अत एवैते ब्रह्मादयो यदा नोपजग्मुः । कथम्-भूतास् सन्तः ? लिङ्गं शरीरं नाना-विध-नाम-रूपाभिमानवन्तः । यद् वा, लिङ्गं चिह्नं चतुर्मुखत्व-हंस-वाहनत्वादि-रूपं तस्य भिदा त्र्य्-अक्षत्व-वृषभ-वाहनत्व-शूल-पाणित्वादेर् व्यावृत्तिस् तस्याभिमानो येषां ते, परस्पराव्यावृत्त-चतुर्मुखत्वं हंस-वाहनत्वं त्र्य्-अक्षत्व-वृषभ-वाहनत्व-सहस्राक्षत्वैरावत-वाहनत्वादि लिङ्गाभिमान-युक्ताः गजेन्द्रेणोपवर्णित-चिह्नेषु अस्मद्-असाधारणानि लिङ्गानि न कानिचिद् अपि सन्तीत्य् अभिमान-युक्तास् सन्त इति फलितो ऽर्थः । तत्र तदा हरिः हर्य्-आख्यो भगवान् अखिलामरमयः अखिलदेवप्रचुरः । “स आत्मा अङ्गान्य् अन्या देवताः” (तैत्ति. उ. 1-5-1) इति श्रुतेः । निखिलात्मकत्वात् निखिलानां गजेन्द्रोपवर्णि64तानां गुणानाम् आत्मकत्वाद् आश्रयत्वाद् हेतोर् आविरासीद् आविर्बभूव । स्तोत्रे ब्रह्म-विष्णु-शिवादि-शब्द-रहिते ऽप्य् उक्त-विशेषणानां ब्रह्मादिष्व् असम्भवान् न ते समागताः वस्तु-सामर्थ्यात् पुरुषोत्तम एव विशेषणानाम् अन्वितत्वात् स एव आगत इति भगवतो वास्तवा ऽनवच्छिन्न-माहात्म्य-योगो दर्शितः ॥ ३० ॥

श्लोक-३१

विश्वास-प्रस्तुतिः

तं तद्वदार्त्तमुपलभ्य जगन्निवासः
स्तोत्रं निशम्य दिविजैः सह संस्तुवद‍्भिः।
छन्दोमयेन गरुडेन समुह्यमान-
श्चक्रायुधोऽभ्यगमदाशु यतो गजेन्द्रः॥

मूलम्

तं तद्वदार्त्तमुपलभ्य जगन्निवासः स्तोत्रं निशम्य दिविजैः सह संस्तुवद‍्भिः।
छन्दोमयेन गरुडेन 65समुह्यमानश्चक्रायुधो66ऽभ्यगमदाशु यतो गजेन्द्रः॥ ३१ ॥

अनुवाद (हिन्दी)

विश्वके एकमात्र आधार भगवान‍्ने देखा कि गजेन्द्र अत्यन्त पीड़ित हो रहा है। अतः उसकी स्तुति सुनकर वेदमय गरुड़पर सवार हो चक्रधारी भगवान् बड़ी शीघ्रतासे वहाँके लिये चल पड़े, जहाँ गजेन्द्र अत्यन्त संकटमें पड़ा हुआ था। उनके साथ स्तुति करते हुए देवता भी आये॥ ३१॥

वीरराघवः

ग्राहेण आविर्भाव-प्रकार67म् एव आह - तम् इति । तद्वत् तथा आर्त्तं ग्राहेण पीडितं गजेन्द्रम् उपलभ्य ज्ञात्वा दृष्ट्वा तत्-कृतं स्तोत्रं च निशम्य श्रुत्वा । कुतः ? यतो ऽयं जगन्-निवासः जगति कृत्स्ने अन्तर्-आत्मतया वसतीति तथा । अत उपलभ्य निशम्य च छन्दो-मयेन त्रि-वृद्-गायत्र्य्-आदिच्-छन्दो-रूपत्वेनोपास्यमान-शिरश्-चक्षुर्-आद्य्-अवयवत्वात् छन्दः प्रचुरस् तेन गरुडेन समुह्यमानः, अनेन शैघ्र्यातिशयः सूचितः । चक्रं सुदर्शनम् आयुधं यस्य, तादृशः संस्तुवद्भिर्-देवैस् सह यत्र गजेन्द्रः तत्राशु अभ्यगमद् अभिजगाम ॥ ३१ ॥

श्लोक-३२

विश्वास-प्रस्तुतिः

सोऽन्तःसरस्युरुबलेन गृहीत आर्तो
दृष्ट्वा गरुत्मति हरिं ख उपात्तचक्रम्।
उत्क्षिप्य साम्बुजकरं गिरमाह कृच्छ्रा-
न्नारायणाखिलगुरो भगवन् नमस्ते॥

मूलम्

सोऽन्तःसरस्युरुबलेन गृहीत आर्तो दृष्ट्वा गरुत्मति हरिं ख उपात्तचक्रम्।
उत्क्षिप्य साम्बुजकरं गिरमाह कृच्छ्रान्नारायणाखिलगुरो भगवन् नमस्ते॥ ३२ ॥

अनुवाद (हिन्दी)

सरोवरके भीतर बलवान् ग्राहने गजेन्द्रको पकड़ रखा था और वह अत्यन्त व्याकुल हो रहा था। जब उसने देखा कि आकाशमें गरुड़पर सवार होकर हाथमें चक्र लिये भगवान् श्रीहरि आ रहे हैं, तब अपनी सूँड़में कमलका एक सुन्दर पुष्प लेकर उसने ऊपरको उठाया और बड़े कष्टसे बोला—‘नारायण! जगद‍्गुरो! भगवन्! आपको नमस्कार है’॥ ३२॥

वीरराघवः

अन्तः-सरस्य् उरु-बलं यस्य तेन ग्राहेण गृहीतो अत एवाऽर्तः स गजेन्द्रो गरुत्मति गरुडे स्थितम् इति शेषः । उपात्तं धृतं चक्रं येन तं हरिं खे ऽन्तरिक्षे दृष्ट्वा साम्बुजं करं तुण्डम् उद्धृत्य “रिक्त-हस्तेन नोपेयाद् राजानं दैवतं गुरुम्” इत्य्-उक्त-न्यायेन गृही68तं सरसि-जं करम् उद्धृत्येत्य् अर्थः । कृच्छ्रात् काञ्चिद् गिरम् आह, गिरम् एव दर्शयति - नारायणायेत्यादि ॥ ३२ ॥

श्लोक-३३

विश्वास-प्रस्तुतिः

तं वीक्ष्य पीडितमजः सहसावतीर्य
सग्राहमाशु सरसः कृपयोज्जहार।
ग्राहाद् विपाटितमुखादरिणा गजेन्द्रं
संपश्यतां हरिरमूमुचदुस्रियाणाम्॥

मूलम्

तं वीक्ष्य पीडितमजः सहसावतीर्य सग्राहमाशु सरसः कृपयोज्जहार।
ग्राहाद् विपाटितमुखादरिणा गजेन्द्रं संपश्यतां हरिरमूमुचदुस्रियाणाम्॥ ३३ ॥

अनुवाद (हिन्दी)

जब भगवान‍्ने देखा कि गजेन्द्र अत्यन्त पीड़ित हो रहा है, तब वे एकबारगी गरुड़को छोड़कर कूद पड़े और कृपा करके गजेन्द्रके साथ ही ग्राहको भी बड़ी शीघ्रतासे सरोवरसे बाहर निकाल लाये। फिर सब देवताओंके सामने ही भगवान् श्रीहरिने चक्रसे ग्राहका मुँह फाड़ डाला और गजेन्द्रको छुड़ा लिया॥ ३३॥

अनुवाद (समाप्ति)

इति श्रीमद‍्भागवते महापुराणे पारमहंस्यां संहितायामष्टमस्कन्धे गजेन्द्रमोक्षणे तृतीयोऽध्यायः॥ ३॥


  1. H,V,W बादरायणिरुवाच ↩︎

  2. A,B,G,J,M,Ma,T,W जा ↩︎

  3. H,V,W, Omit ↩︎

  4. M,Ma य च धी ↩︎

  5. H,V Omit ↩︎ ↩︎

  6. A,B,J Omit स्व ↩︎

  7. A,B,J Omit वि ↩︎

  8. A,T पेण ↩︎

  9. H,V हि म ↩︎

  10. M,Ma सर्वात्मभूत ↩︎

  11. H,V Omit तस्य ↩︎

  12. A,B,J, धर्म्य ↩︎

  13. M,Ma कस्य च स ↩︎

  14. H,V,W Omit य ↩︎

  15. W Omits रूपाणि ↩︎

  16. A,B,G,J,M,Ma,T,W मू ↩︎

  17. M,Ma कर्मणे ↩︎

  18. W Omits ↩︎ ↩︎

  19. H,V असक्ताच्छाययोक्ताय, M,Ma असत्याञ्च विमुक्ताय ↩︎ ↩︎

  20. W Omits ज्ञेयानि ↩︎

  21. M,Ma नारायणायातिविनाशनाय ↩︎ ↩︎

  22. W Omits ऋगादयः ↩︎

  23. W Omits ↩︎ ↩︎

  24. W Omits ↩︎ ↩︎

  25. M,Ma दु ↩︎

  26. This half verse is not found in M,Ma Editions. ↩︎

  27. W भावाय ↩︎

  28. W इति प्र ↩︎

  29. These three half verses beginning with मादृक्प्रपन्न, स्वांशेन सर्व, आत्मात्मजाप्त are not found in M,Ma editions. ↩︎

  30. W मनोलयाय ↩︎

  31. M,Ma यु ↩︎

  32. W Omits इत्यर्थः ↩︎

  33. A,B,G,J,T न्त्वा ↩︎

  34. A,B,T यस्तै ↩︎

  35. W Omits इत्यर्थः ↩︎

  36. H,M,Ma,V किञ्च ↩︎

  37. M,Ma त्प्रधाना ↩︎

  38. M,Ma य ↩︎

  39. A,B,T Omit यस्य ↩︎

  40. H,V मीड्य ↩︎

  41. W Onits परेश ↩︎

  42. A,B,T ईशानाम ↩︎

  43. M,Ma जल्प्या, W फल्ग्वा ↩︎

  44. M,Ma सर्ग; W वर्गाः ↩︎

  45. A,B,J उद्धवन्ति ↩︎

  46. A,B,T सङ्घातश्च ↩︎

  47. A,B,T गुणैः कर्मभिश्च रहितः ↩︎ ↩︎

  48. W Omits ↩︎ ↩︎

  49. W Omits ↩︎ ↩︎

  50. A,B,G,J,T क्षम् ↩︎

  51. H,V स्मीश । ↩︎

  52. W पाठान्तरम् । ↩︎

  53. A,B,T Omit योगेशं ↩︎

  54. W Omits ↩︎ ↩︎

  55. M,Ma बुद्धीन्द्रि ↩︎

  56. A Omits ↩︎ ↩︎

  57. B तत्तम्; H,M,Ma,V,W हतः । ↩︎

  58. A,B,G,H,J,T,V वन्तमितो ↩︎

  59. Omits ↩︎ ↩︎

  60. W माहात्म्यं ↩︎

  61. A Omits ↩︎ ↩︎

  62. W Omits इत्यर्थः ↩︎

  63. M,Ma वरो ↩︎

  64. W तगु ↩︎

  65. H,V स उह्य ↩︎

  66. M,Ma ह्यग । ↩︎

  67. A,B,T माऽऽह ↩︎

  68. A,B,T ताम्भुजं ↩︎