०२ गजेन्द्रोपाख्याने

[द्वितीयोऽध्यायः]

भागसूचना

ग्राहके द्वारा गजेन्द्रका पकड़ा जाना

श्लोक-१

मूलम् (वचनम्)

श्रीशुक उवाच

विश्वास-प्रस्तुतिः

आसीद् गिरिवरो राजंस्त्रिकूट इति विश्रुतः।
क्षीरोदेनावृतः श्रीमान् योजनायुतमुच्छ्रितः॥

मूलम्

आसीद् गिरिवरो राजंस्त्रिकूट इति विश्रुतः।
क्षीरोदेनावृतः श्रीमान् योजनायुतमुच्छ्रितः॥ १ ॥

मूलम् - तिरुपदि

आसीद्गिरिवरो राजन् त्रिकूट इति विश्रुतः।
क्षीरोदेनावृतः श्रीमान् योजनायुतमुच्छ्रितः॥ १ ॥

अनुवाद (हिन्दी)

श्रीशुकदेवजीने कहा—परीक्षित्! क्षीरसागरमें त्रिकूट नामका एक प्रसिद्ध सुन्दर एवं श्रेष्ठ पर्वत था। वह दस हजार योजन ऊँचा था॥ १॥

वीरराघवः

उक्तम् एवाह । आसीद् इत्यादिना अध्याय-त्रयेण । ग्राह-ग्रहणात् प्राक्तनीं गजेन्द्रस्यावस्थां वक्तुं तावत् तद्-आवास-स्थानं त्रिकूटाचलं वर्णयति - आसीद् इति । हे राजन् ! त्रिकूट इति प्रसिद्धः कश्चिद् गिरि-श्रेष्ठः, आसीत् । स च क्षीर-समुद्रेणा ऽऽवृतः, क्षीराब्धि-द्वीपस्थ इत्य् अर्थः । श्रीमान् शोभावान् रत्नादि-समृद्धिमान् वा योजनायुतोन्नतः ॥ १ ॥

श्लोक-२

विश्वास-प्रस्तुतिः

तावता विस्तृतः पर्यक् त्रिभिः शृङ्गैः पयोनिधिम्।
दिशः खं रोचयन्नास्ते रौप्यायसहिरण्मयैः॥

मूलम्

तावता विस्तृतः पर्यक् त्रिभिः शृङ्गैः पयोनिधिम्।
1दिशश्च रोचयन्नास्ते रौप्यायसहिरण्मयैः॥ २ ॥

अनुवाद (हिन्दी)

उसकी लंबाई-चौड़ाई भी चारों ओर इतनी ही थी। उसके चाँदी, लोहे और सोनेके तीन शिखरोंकी छटासे समुद्र, दिशाएँ और आकाश जगमगाते रहते थे॥ २॥

वीरराघवः

परितस् तावता योजनायुतेन विस्तृतश् च । त्रिकूट-समाख्या-बीजम् आह - रौप्याय-स-हिरण्मयैः त्रिभिः शृङ्गैः मुख्यैः पयोनिधिं दिशश् च रोचयन्न् अद्याप्य् आस्ते ॥ २ ॥

श्लोक-३

विश्वास-प्रस्तुतिः

अन्यैश्च ककुभः सर्वा रत्नधातुविचित्रितैः।
नानाद्रुमलतागुल्मैर्निर्घोषैर्निर्झराम्भसाम्॥

मूलम्

अन्यैश्च ककुभः सर्वा रत्नधातुविचित्रितैः।
नानाद्रुमलतागुल्मैर्निर्घोषैर्निर्झराम्भसाम्॥ ३ ॥

मूलम् - तिरुपदि

अन्यैश्च ककुभस्सर्वा रत्नधातुविचित्रितैः।
नानाद्रुमलतागुल्मैः निर्घोषैर्निर्झराम्भसाम्॥ ३ ॥

अनुवाद (हिन्दी)

और भी उसके कितने ही शिखर ऐसे थे जो रत्नों और धातुओंकी रंग-बिरंगी छटा दिखाते हुए सब दिशाओंको प्रकाशित कर रहे थे। उनमें विविध जातिके वृक्ष, लताएँ और झाड़ियाँ थीं। झरनोंकी झर-झरसे वह गुंजायमान होता रहता था॥ ३॥

वीरराघवः

तथा रत्नैर् धातुभिर् गैरिकादिभिर् विचित्रैर् अन्यैश् च शृङ्गैः ककुभां दिशः रोचयन् आस्ते इति पूर्वेणान्वयः । नानाविधैर्-द्रुम-लतानां गुल्मैर् लताभिर् गुल्मैश् च इति वा । निर्झराम्भसां गिरि-नदी-जलानां घोषैश् च रोचयन्न् आस्ते इति पूर्वेणान्वयः ॥ ३ ॥

श्लोक-४

विश्वास-प्रस्तुतिः

स चावनिज्यमानाङ्घ्रिः समन्तात् पयऊर्मिभिः।
करोति श्यामलां भूमिं हरिन्मरकताश्मभिः॥

मूलम्

2स चावनिज्यमानाङ्घ्रिः समन्तात् पयऊर्मिभिः।
करोति श्यामलां भूमिं 3हरिन्मरकताश्मभिः॥ ४ ॥

अनुवाद (हिन्दी)

सब ओरसे समुद्रकी लहरें आ-आकर उस पर्वतके निचले भागसे टकरातीं, उस समय ऐसा जान पड़ता मानो वे पर्वतराजके पाँव पखार रही हों। उस पर्वतके हरे पन्नेके पत्थरोंसे वहाँकी भूमि ऐसी साँवली हो गयी थी, जैसे उसपर हरी-भरी दूब लग रही हो॥ ४॥

वीरराघवः

स च त्रिकूटः 4पयोदधेर् ऊर्मिभिः परितः अवनिज्यमाना विशोध्यमाना अङ्घ्रयः प्रत्यन्त-पर्वता यस्य । सदेति 5पाठान्तरम् । तदा5 सदा नित्यम् अवनिज्यमानाङ्घ्रिर् इत्य् अर्थः । हरिद्भिः पलाश-वर्णैर् मरकतात्मकैः अश्मभिः पाषाणैः श्यामलां भूमिं करोति बिभर्तीत्य् अन्वयः ॥ ४ ॥

श्लोक-५

विश्वास-प्रस्तुतिः

सिद्धचारणगन्धर्वविद्याधरमहोरगैः।
किन्नरैरप्सरोभिश्च क्रीडद‍्भिर्जुष्टकन्दरः॥

मूलम्

सिद्धचारणगन्धर्व6विद्याधरमहोरगैः।
किन्नरैरप्सरोभिश्च क्रीडद‍्भिर्जुष्ट7कन्दरः॥ ५ ॥

अनुवाद (हिन्दी)

उसकी कन्दराओंमें सिद्ध, चारण, गन्धर्व, विद्याधर, नाग, किन्नर और अप्सराएँ आदि विहार करनेके लिये प्रायः बने ही रहते थे॥ ५॥

श्लोक-६

विश्वास-प्रस्तुतिः

यत्र संगीतसन्नादैर्नदद‍्गुहममर्षया।
अभिगर्जन्ति हरयः श्लाघिनः परशङ्कया॥

मूलम्

यत्र संगीतसन्नादैर्नदद‍्गुहममर्षया।
अभिगर्जन्ति हरयः श्लाघिनः परशङ्कया॥ ६ ॥

अनुवाद (हिन्दी)

जब उसके संगीतकी ध्वनि चट्टानोंसे टकराकर गुफाओंमें प्रतिध्वनित होने लगती थी, तब बड़े-बड़े गर्वीले सिंह उसे दूसरे सिंहकी ध्वनि समझकर सह न पाते और अपनी गर्जनासे उसे दबा देनेके लिये और जोरसे गरजने लगते थे॥ ६॥

वीरराघवः

क्रीडद्भिः सिद्धादिभिः जुष्टा द्रोणयः यस्य कन्दरेति पाठान्तरम् । तदा सिद्धादिभिः जुष्टा सेविता कन्दरा शिखर-मूल-भूमिः यस्येत्य् अर्थः । किन्नरादीनां सङ्गीत-सन्नादैः नदन्त्यो गुहा यस्मिन् प्रदेशे तम् अभिगर्जन्ति प्रतिगर्जन्ति हरयः सिंहाः । कथम्भूताः? पर-शङ्कया सिंहान्तरागमन-शङ्कया निमित्ते8न अमर्षया असहनेन श्लाघिनः स्व-वीर्य-श्लाघा9-युक्ताः ॥ ५,६ ॥

श्लोक-७

विश्वास-प्रस्तुतिः

नानारण्यपशुव्रातसङ्कुलद्रोण्यलङ्कृतः।
चित्रद्रुमसुरोद्यानकलकण्ठविहङ्गमः॥

मूलम्

नानारण्यपशुव्रातसङ्कुलद्रोण्यलङ्कृतः।
चित्रद्रुमसुरोद्यानकलकण्ठविहङ्गमः॥ ७ ॥

अनुवाद (हिन्दी)

उस पर्वतकी तलहटी तरह-तरहके जंगली जानवरोंके झुंडोंसे सुशोभित रहती थी। अनेकों प्रकारके वृक्षोंसे भरे हुए देवताओंके उद्यानमें सुन्दर-सुन्दर पक्षी मधुर कण्ठसे चहकते रहते थे॥ ७॥

वीरराघवः

नानाविधा ये आरण्या अरण्य-प्रभवाः पशवो महिषादयः तेषां व्रातैस् सङ्घैः सङ्कुलाभिः व्याप्ताभिः द्रोणीभिः अलङ्कृतः10 किञ्च, चित्रा द्रुमा येषु तेषु देवोद्यान-वनेषु कल-कण्ठा मधुर-स्वराः विहङ्गमा यस्मिन् ॥ ७ ॥

श्लोक-८

विश्वास-प्रस्तुतिः

सरित्सरोभिरच्छोदैः पुलिनैर्मणिवालुकैः।
देवस्त्रीमज्जनामोदसौरभाम्ब्वनिलैर्युतः॥

मूलम्

सरित्सरोभिरच्छोदैः पुलिनैर्मणिवालुकैः।
देवस्त्रीमज्जनामोदसौर11भाम्ब्वनिलैर्युतः॥ ८ ॥

अनुवाद (हिन्दी)

उसपर बहुत-सी नदियाँ और सरोवर भी थे। उनका जल बड़ा निर्मल था। उनके पुलिनपर मणियोंकी बालू चमकती रहती थी। उनमें देवांगनाएँ स्नान करती थीं जिससे उनका जल अत्यन्त सुगन्धित हो जाता था। उसकी सुरभि लेकर भीनी-भीनी वायु चलती रहती थी॥ ८॥

वीरराघवः

किञ्च । सरितश् च सरांसि च तैर् अच्छोदैः निर्मलोदक-युक्तैः मणय एव वालुका येषु तैः पुलिनैश् च देव-स्त्रीणां मज्जनेन य आमोदः तेन सौरभेण युक्तान्य् अम्बून्य् अनिलाश् च तैश् च युक्तः आस्ते ॥ ८ ॥

श्लोक-९

विश्वास-प्रस्तुतिः

तस्य द्रोण्यां भगवतो वरुणस्य महात्मनः।
उद्यानमृतुमन्नाम आक्रीडं सुरयोषिताम्॥

मूलम्

तस्य द्रोण्यां भगवतो वरुणस्य महात्मनः।
उद्यानमृतुमन्नाम 12ह्याक्रीडं सुरयोषिताम्॥ ९ ॥

अनुवाद (हिन्दी)

पर्वतराज त्रिकूटकी तराईमें भगवत्प्रेमी महात्मा भगवान् वरुणका एक उद्यान था। उसका नाम था ऋतुमान्। उसमें देवांगनाएँ क्रीडा करती रहती थीं॥ ९॥

वीरराघवः

“ये मां त्वाञ् च सरश्चेदम्” (भाग ८-४-१७) इत्य् आदिना गिर्यादि-वर्णनं सर्वं ध्येयम् इति वक्ष्यति भगवान् अतो गिरिम् उपवर्ण्य वनं वर्णयति - तस्य उक्त-विधस्य त्रि-कूटस्य द्रोण्यां महात्मनो वरुणस्य ऋतुमद्-आख्यम् उद्यान-वनम् अस्ति । कथम्भूतम् ? सुर-योषिताम् आक्रीडं 13विहार-स्थानम् ॥ ९ ॥

श्लोक-१०

विश्वास-प्रस्तुतिः

सर्वतोऽलङ्कृतं दिव्यैर्नित्यं पुष्पफलद्रुमैः।
मन्दारैः पारिजातैश्च पाटलाशोकचम्पकैः॥

मूलम्

सर्वतोऽलङ्कृतं दिव्यैर्नित्यं14 पुष्पफलद्रुमैः।
मन्दारैः पारिजातैश्च पाटलाशोकचम्पकैः॥ १० ॥

मूलम् - तिरुपदि

सर्वतोऽलङ्कृतैर्दिव्यैः नित्यपुष्पफलद्रुमैः।
मन्दारैः पारिजातैश्च पाटलाशोकचम्पकैः॥ १० ॥

श्लोक-११

विश्वास-प्रस्तुतिः

चूतैः प्रियालैः पनसैराम्रैराम्रातकैरपि।
क्रमुकैर्नालिकेरैश्च खर्जूरैर्बीजपूरकैः॥

मूलम्

चूतैः प्रियालैः पनसैराम्रैराम्रातकैरपि।
क्रमुकैर्नालिकेरैश्च खर्जूरैर्बीजपूरकैः॥ ११ ॥

श्लोक-१२

विश्वास-प्रस्तुतिः

मधूकैः सालतालैश्च तमालैरसनार्जुनैः।
अरिष्टोदुम्बरप्लक्षैर्वटैः किंशुकचन्दनैः॥

मूलम्

मधूकैः सालतालैश्च तमालैरसनार्जुनैः।
अरिष्टोदुम्बरप्लक्षैर्वटैः किंशुकचन्दनैः॥ १२ ॥

श्लोक-१३

विश्वास-प्रस्तुतिः

पिचुमन्दैः कोविदारैः सरलैः सुरदारुभिः।
द्राक्षेक्षुरम्भाजम्बूभिर्बदर्यक्षाभयामलैः॥

मूलम्

पिचुमन्दैः कोविदारैः सरलैः सुरदारुभिः।
द्राक्षेक्षुरम्भाजम्बूभिर्बदर्यक्षाभयामलैः॥ १३ ॥

मूलम् - तिरुपदि

पिचुमन्दैः कोविदारैः सरलैस्सुरदारुभिः।
द्राक्षेक्षुरम्भाजम्बूभिर्बदर्यक्षाभयामलैः॥ १३ ॥

श्लोक-१४

विश्वास-प्रस्तुतिः

बिल्वैः कपित्थैर्जम्बीरैर्वृतो भल्लातकादिभिः।
तस्मिन्सरः सुविपुलं लसत्काञ्चनपङ्कजम्॥

मूलम्

बिल्वैः कपित्थैर्जम्बीरैर्वृतो भल्लातकै15रपि।
तस्मिन्सरः सुविपुलं लसत्काञ्चनपङ्कजम्॥ १४ ॥

अनुवाद (हिन्दी)

उसमें सब ओर ऐसे दिव्य वृक्ष शोभायमान थे, जो फलों और फूलोंसे सर्वदा लदे ही रहते थे। उस उद्यानमें मन्दार, पारिजात, गुलाब, अशोक, चम्पा, तरह-तरहके आम, प्रियाल, कटहल, आमड़ा, सुपारी, नारियल, खजूर, बिजौरा, महुआ, साखू, ताड़, तमाल, असन, अर्जुन, रीठा, गूलर, पाकर, बरगद, पलास,चन्दन, नीम, कचनार, साल, देवदारु, दाख, ईख, केला, जामुन, बेर, रुद्राक्ष, हर्रे, आँवला, बेल, कैथ, नीबू और भिलावे आदिके वृक्ष लहराते रहते थे। उस उद्यानमें एक बड़ा भारी सरोवर था। उसमें सुनहले कमल खिल रहे थे॥ १०—१४॥

वीरराघवः

नित्यं फलानि पुष्पाणि च येषां तैः द्रुमैः परितो ऽलङ्कृतं, द्रुमान् एव कांश्चिद् दर्शयति - मन्दारैर् इति । मन्दारादिभिः 16परिवृतः । वन-प्रदेशापेक्षया पुंलिङ्ग-निर्देशः । तस्मिन्न् उद्याने सरो ऽस्ति । कथम्भूतम् ? सुविपुलं विस्तृतं, लसन्ति काञ्चनमयानि पद्मानि यस्मिन् ॥ १०-१४ ॥

श्लोक-१५

विश्वास-प्रस्तुतिः

कुमुदोत्पलकह्लारशतपत्रश्रियोर्जितम्।
मत्तषट्पदनिर्घुष्टं शकुन्तैश्च कलस्वनैः॥

मूलम्

कुमुदोत्पलकह्लारशतपत्रश्रियोर्जितम्।
मत्तषट्पद17निर्घुष्टं शकुन्तै18श्च कलस्वनैः18॥ १५ ॥

वीरराघवः

कुमुदादीनां श्रियोर्जितं समृद्धं, मत्तैर् मधुपान-मत्तैः षट्पदैः भृङ्गैः कलो मधुरः स्वनो येषां तैः । शकुन्तैः पक्षिभिश् च निर्घुष्टं ध्वनितम् ॥ १५ ॥

श्लोक-१६

विश्वास-प्रस्तुतिः

हंसकारण्डवाकीर्णं चक्राह्वैः सारसैरपि।
जलकुक्‍कुटकोयष्टिदात्यूहकुलकूजितम्॥

मूलम्

हंसकारण्डवाकीर्णं चक्राह्वैः सारसैरपि।
जलकुक्‍कुटकोयष्टिदात्यूहकुलकूजितम्॥ १६ ॥

वीरराघवः

हंसैः कारण्डवैश् च आकीर्णं सङ्कुलं चक्रवाकैः सारसैर् अप्य् आकीर्णम् । समस्तेनाप्य् आकीर्ण-पदेन प्रधानत्वात् सापेक्षेण अप्य् अन्वयः । जल-कुक्कुटादीनां कुलैः कूजितम् । कलेति पाठान्तरम् । तत्र कलं मधुरं भवति यथा तथा कूजितम् ॥ १६ ॥

श्लोक-१७

विश्वास-प्रस्तुतिः

मत्स्यकच्छपसञ्चारचलत्पद्मरजःपयः।
कदम्बवेतसनलनीपवञ्जुलकैर्वृतम्॥

मूलम्

मत्स्यकच्छपसञ्चारचलत्पद्मरजः पयः।
कदम्बवेतस19नलनीपवञ्जुलकैर्वृतम्॥ १७ ॥

अनुवाद (हिन्दी)

और भी विविध जातिके कुमुद, उत्पल, कह्लार, शतदल आदि कमलोंकी अनूठी छटा छिटक रही थी। मतवाले भौंरे गूँज रहे थे। मनोहर पक्षी कलरव कर रहे थे। हंस, कारण्डव, चक्रवाक और सारस दल-के-दल भरे हुए थे। पनडुब्बी, बतख और पपीहे कूज रहे थे। मछली और कछुओंके चलनेसे कमलके फूल हिल जाते थे, जिससे उनका पराग झड़कर जलको सुन्दर और सुगन्धित बना देता था। कदम्ब, बेंत, नरकुल, कदम्बलता, बेन आदि वृक्षोंसे वह घिरा था॥ १५—१७॥

वीरराघवः

मत्स्यानां कच्छपानाञ् च सञ्चारेण च चलतां चलानां पद्मानां रजसा युक्तं पयो जलं यस्मिन् कदम्बादिभिः युतम् ॥ १७ ॥

श्लोक-१८

विश्वास-प्रस्तुतिः

कुन्दैः कुरबकाशोकैः शिरीषैः कुटजेङ्गुदैः।
कुब्जकैः स्वर्णयूथीभिर्नागपुन्नागजातिभिः॥

मूलम्

कुन्दैः कुरबकाशोकैः शिरीषैः कुटजेङ्गुदैः।
कुब्जकैः स्वर्णयूथीभिर्नागपुन्नागजातिभिः॥ १८ ॥

वीरराघवः

कुन्दादिभिश् शोभितम् इत्य् उत्तरेणान्वयः ॥ १८ ॥

श्लोक-१९

विश्वास-प्रस्तुतिः

मल्लिकाशतपत्रैश्च माधवीजालकादिभिः।
शोभितं तीरजैश्चान्यैर्नित्यर्तुभिरलं द्रुमैः॥

मूलम्

मल्लिकाशतपत्रैश्च माधवीजालकादिभिः।
शोभितं तीरजैश्चान्यैर्नित्यर्तुभिरलं द्रुमैः॥ १९ ॥

अनुवाद (हिन्दी)

कुन्द, कुरबक (कटसरैया), अशोक, सिरस, वनमल्लिका, लिसौड़ा, हरसिंगार, सोनजूही, नाग, पुन्नाग, जाती, मल्लिका, शतपत्र, माधवी और मोगरा आदि सुन्दर-सुन्दर पुष्पवृक्ष एवं तटके दूसरे वृक्षोंसे भी—जो प्रत्येक ऋतुमें हरे-भरे रहते थे—वह सरोवर शोभायमान रहता था॥ १८-१९॥

वीरराघवः

नित्यम् ऋतवः फल-पुष्पादि-सम्पत्ति-हेतवो येषां तैर् अन्यैश् च नीरजैर् द्रुमैर् अलम् अलङ्कृतम्, अलम् अत्यर्थं शोभितम् इति वा ऽन्वयः ॥ १९ ॥

श्लोक-२०

विश्वास-प्रस्तुतिः

तत्रैकदा तद‍्गिरिकाननाश्रयः
करेणुभिर्वारणयूथपश्चरन्।
सकण्टकान् कीचकवेणुवेत्रवद्
विशालगुल्मं प्ररुजन्वनस्पतीन्॥

मूलम्

तत्रैकदा तद‍्गिरिकाननाश्रयः करेणुभिर्वारणयूथपश्चरन्।
सकण्ट20कं कीचकवेणुवेत्रवद् विशालगुल्मं प्ररुजन्वनस्पतीन्॥ २० ॥

अनुवाद (हिन्दी)

उस पर्वतके घोर जंगलमें बहुत-सी हथिनियोंके साथ एक गजेन्द्र निवास करता था। वह बड़े-बड़े शक्तिशाली हाथियोंका सरदार था। एक दिन वह उसी पर्वतपर अपनी हथिनियोंके साथ काँटेवाले कीचक, बाँस, बेंत, बड़ी-बड़ी झाड़ियों और पेड़ोंको रौंदता हुआ घूम रहा था॥ २०॥

वीरराघवः

तत्रैवं स्थिते एकदा तद्-गिरि-काननाश्रयः वारण-यूथपः गजेन्द्रः करेणुभिः गजीभिश् चरन् तृषार्दितेन स्व-यूथेन वृतस् तस्य सरोवरस्याभ्याशं समीपम् अगमद् इति पञ्चमेनान्वयः । किं कुर्वन् ? कण्टकैस् सहितं कीचक-वेणु-वेत्रवन्तं विशालं गुल्मं लतादि सन्दर्भं वनस्पतींश् च प्ररुजन् प्रभञ्जन् ॥ २० ॥

श्लोक-२१

विश्वास-प्रस्तुतिः

यद‍्गन्धमात्राद्धरयो गजेन्द्रा
व्याघ्रादयो व्यालमृगाः सखड्गाः।
महोरगाश्चापि भयाद् द्रवन्ति
सगौरकृष्णाः शरभाश्चमर्यः॥

मूलम्

यद‍्गन्धमात्राद्धरयो गजेन्द्रा व्याघ्रादयो व्यालमृगाः सखड्गाः।
महोरगाश्चापि भयाद् द्रवन्ति सगौरकृष्णाः शरभाश्चमर्यः॥ २१ ॥

अनुवाद (हिन्दी)

उसकी गन्धमात्रसे सिंह, हाथी, बाघ, गैंड़े आदि हिंस्र जन्तु, नाग तथा काले-गोरे शरभ और चमरी गाय आदि डरकर भाग जाया करते थे॥ २१॥

वीरराघवः

तम् एव विशिनष्टि - यस्य गजेन्द्रस्य गन्ध-मात्रात् वायु-प्रसार-मात्रात् सिंह-प्रभृतयो मृगाः प्रतिपक्षिणो गजाश् च भयात् पलायन्ते ॥ २१ ॥

श्लोक-२२

विश्वास-प्रस्तुतिः

वृका वराहा महिषर्क्षशल्या
गोपुच्छसालावृकमर्कटाश्च।
अन्यत्र क्षुद्रा हरिणाः शशादय-
श्चरन्त्यभीता यदनुग्रहेण॥

मूलम्

वृ21का वराहा महिषर्क्षशल्या गोपुच्छ22सालावृकमर्कटाश्च।
23अन्यत्र क्षुद्रा हरिणाः शशादयश्चरन्त्यभीता यदनुग्रहेण॥ २२ ॥

अनुवाद (हिन्दी)

और उसकी कृपासे भेड़िये, सूअर, भैंसे, रीछ, शल्य, लंगूर तथा कुत्ते, बंदर, हरिन और खरगोश आदि क्षुद्र जीव सब कहीं निर्भय विचरते रहते थे॥ २२॥

वीरराघवः

अन्ये क्षुद्रा हरिण्यादयो मृगास् तु यस्य गजेन्द्रस्य अनुग्रहेणा ऽनुज्ञानेन अभीता निर्भयाश् चरन्ति चेरुः ॥ २२ ॥

श्लोक-२३

विश्वास-प्रस्तुतिः

स घर्मतप्तः करिभिः करेणुभि-
र्वृतो मदच्युत्कलभैरनुद्रुतः।
गिरिं गरिम्णा परितः प्रकम्पयन्
निषेव्यमाणोऽलिकुलैर्मदाशनैः॥

मूलम्

स घर्मतप्तः करिभिः करेणुभिर्वृतो मदच्युत्कलभैर24भिद्रुतः।
गिरिं गरिम्णा परितः प्रकम्पयन् निषेव्यमाणोऽलिकुलैर्मदाशनैः॥ २३ ॥

वीरराघवः

स गजेन्द्रो घर्मेणा ऽऽतपेन तप्तः मद-स्रावि-करिभिः करेणुभिः कलभैश् च अनुद्रुतः, मद-स्राविभिः कलभैश् चा ऽनुद्रुत इति वा । गरिम्णा स्थौल्येन गिरिं प्रकम्पयन्, मदम् अश्रन्तीति तथा तैर् अलिकुलैर् निषेव्यमाणः ॥ २३ ॥

श्लोक-२४

विश्वास-प्रस्तुतिः

सरोऽनिलं पङ्कजरेणुरूषितं
जिघ्रन्विदूरान्मदविह्वलेक्षणः।
वृतः स्वयूथेन तृषार्दितेन तत्
सरोवराभ्याशमथागमद् द्रुतम्॥

मूलम्

सरोऽनिलं पङ्कजरेणुरूषितं जिघ्रन्वि25दूरान्मदविह्वलेक्षणः।
वृतः स्वयूथेन तृषार्दितेन तत् सरोवराभ्याशमथागमद् द्रुतम्॥ २४ ॥

अनुवाद (हिन्दी)

उसके पीछे-पीछे हाथियोंके छोटे-छोटे बच्चे दौड़ रहे थे। बड़े-बड़े हाथी और हथिनियाँ भी उसे घेरे हुए चल रही थीं। उसकी धमकसे पहाड़ एकबारगी काँप उठता था। उसके गण्डस्थलसे टपकते हुए मदका पान करनेके लिये साथ-साथ भौंरे उड़ते जा रहे थे। मदके कारण उसके नेत्र विह्वल हो रहे थे। बड़े जोरकी धूप थी, इसलिये वह व्याकुल हो गया और उसे तथा उसके साथियोंको प्यास भी सताने लगी। उस समय दूरसे ही कमलके परागसे सुवासित वायुकी गन्ध सूँघकर वह उसी सरोवरकी ओर चल पड़ा, जिसकी शीतलता और सुगन्ध लेकर वायु आ रही थी। थोड़ी ही देरमें वेगसे चलकर वह सरोवरके तटपर जा पहुँचा॥ २३-२४॥

वीरराघवः

सरसः सम्बन्धिनम् अनिलं वायुं पङ्कज-रेणुभिः रूषितं व्याप्तं विदूराद् एव जिघ्रन् मदेन विह्वले चलिते ईक्षणे यस्य तृषा पिपासया अर्दितेन पीडितेन स्व-यूथेन वृतः तत्-सरोवराभ्याशं द्रुतं सत्वरम् अगात् ॥ २४ ॥

श्लोक-२५

विश्वास-प्रस्तुतिः

विगाह्य तस्मिन्नमृताम्बु निर्मलं
हेमारविन्दोत्पलरेणुवासितम्।
पपौ निकामं निजपुष्करोद्‍धृत-
मात्मानमद‍्भिः स्नपयन्गतक्लमः॥

मूलम्

विगाह्य तस्मिन्नमृताम्बु निर्मलं हेमारविन्दोत्पलरेणुवासितम्।
पपौ निकामं निजपुष्करोद्‍धृतं 26ह्यात्मानमद‍्भिः स्नपयन्गतक्लमः॥ २५ ॥

अनुवाद (हिन्दी)

उस सरोवरका जल अत्यन्त निर्मल एवं अमृतके समान मधुर था। सुनहले और अरुण कमलोंकी केसरसे वह महक रहा था। गजेन्द्रने पहले तो उसमें घुसकर अपनी सूँड़से उठा-उठा जी भरकर जल पिया, फिर उस जलमें स्नान करके अपनी थकान मिटायी॥ २५॥

वीरराघवः

तस्मिन् सरसि विगाह्य प्रवेश-पूर्वकं विलोड्य कह्लारादीनाम् अणुभिर् वासितं परिमलितं निर्मलं 27जलं स्व-पुष्करेण तुण्डाग्रेण उद्धृत्य कामं यथेष्टं पपौ अपिबत् अद्भिः सरसि-जले आत्मानं स्नपयन् गतश्रमः बभूव, गत-क्लमः पपाव् इति वा ऽन्वयः ॥ २५ ॥

श्लोक-२६

विश्वास-प्रस्तुतिः

स्वपुष्करेणोद्‍धृतशीकराम्बुभि-
र्निपाययन्संस्नपयन्यथा गृही।
घृणी करेणूः कलभांश्च दुर्मदो
नाचष्ट कृच्छ्रं कृपणोऽजमायया॥

मूलम्

28स्वपुष्करेणोद्‍धृतशीकराम्बुभिर्निपाययन्संस्नपयन्यथा गृही।
घृणी करेणूः कलभांश्च दुर्मदो नाऽचष्ट कृच्छ्रं कृपणोऽजमायया॥ २६ ॥

अनुवाद (हिन्दी)

गजेन्द्र गृहस्थ पुरुषोंकी भाँति मोहग्रस्त होकर अपनी सूँड़से जलकी फुहारें छोड़-छोड़कर साथकी हथिनियों और बच्चोंको नहलाने लगा तथा उनके मुँहमें सूँड़ डालकर जल पिलाने लगा। भगवान‍्की मायासे मोहित हुआ गजेन्द्र उन्मत्त हो रहा था। उस बेचारेको इस बातका पता ही न था कि मेरे सिरपर बहुत बड़ी विपत्ति मँडरा रही है॥ २६॥

वीरराघवः

स्व-पुष्करेणोद्धृतैः शीकराम्बुभिः जल-बिन्दुभिः दुर्मदान् कलभान् करिपोतकान् करेणूश् च यथा गृही गृहासक्तिस् तथा29 30निपाययन् 31संस्त्रपयंश् च गृणन् बृंहितं कुर्वन्, अज-मायया भगवन्-मायया यद् आगतं कृच्छ्रं दुःखं तत्राचष्ट ना ऽलोचितवान्32 इत्य् अर्थः ॥ २६ ॥

श्लोक-२७

विश्वास-प्रस्तुतिः

तं तत्र कश्चिन्नृप दैवचोदितो
ग्राहो बलीयांश्चरणे रुषाग्रहीत्।
यदृच्छयैवं व्यसनं गतो गजो
यथाबलं सोऽतिबलो विचक्रमे॥

मूलम्

तं तत्र कश्चिन्नृप दैवचोदितो ग्राहो बलीयांश्चरणे रुषाऽग्रहीत्।
यदृच्छयैवं व्यसनं गतो गजो यथाबलं सोऽतिबलो विचक्रमे॥ २७ ॥

अनुवाद (हिन्दी)

परीक्षित्! गजेन्द्र जिस समय इतना उन्मत्त हो रहा था, उसी समय प्रारब्धकी प्रेरणासे एक बलवान् ग्राहने क्रोधमें भरकर उसका पैर पकड़ लिया। इस प्रकार अकस्मात् विपत्तिमें पड़कर उस बलवान् गजेन्द्रने अपनी शक्तिके अनुसार अपनेको छुड़ानेकी बड़ी चेष्टा की, परन्तु छुड़ा न सका॥ २७॥

वीरराघवः

कृच्छ्रम् एव दर्शयन् आह - इति । हे नृप ! तत्र सरसि दैवेन प्रारब्ध-कर्मानुगुणं प्रवृत्तेनेश्वरेण चोदितः - कश्चिद् बलीयान् ग्राहो मकरः तं गजेन्द्रं चरणे पादे रुषा क्रोधेना ऽग्रहीज् जग्राह । यदृच्छया दैवात् प्राप्तं व्यसनं दुःखं गतः प्राप्तः, सो ऽतिबलः गजेन्द्रो यथाबलं विचक्रमे त्याजयितुं पराक्रमम् अकरोत् ॥ २७ ॥

श्लोक-२८

विश्वास-प्रस्तुतिः

तथाऽऽतुरं यूथपतिं करेणवो
विकृष्यमाणं तरसा बलीयसा।
विचुक्रुशुर्दीनधियोऽपरे गजाः
पार्ष्णिग्रहास्तारयितुं न चाशकन्॥

मूलम्

तथाऽऽतुरं यूथपतिं करेणवो विकृष्यमाणं तरसा बलीयसा।
विचुक्रुशुर्दीनधियोऽपरे गजाः पार्ष्णिग्रहास्तारयितुं न चाशकन्॥ २८ ॥

अनुवाद (हिन्दी)

दूसरे हाथी, हथिनियों और उनके बच्चोंने देखा कि उनके स्वामीको बलवान् ग्राह बड़े वेगसे खींच रहा है और वे बहुत घबरा रहे हैं। उन्हें बड़ा दुःख हुआ। वे बड़ी विकलतासे चिग्घाड़ने लगे। बहुतोंने उसे सहायता पहुँचाकर जलसे बाहर निकाल लेना चाहा, परन्तु इसमें भी वे असमर्थ ही रहे॥ २८॥

वीरराघवः

तदा बलीयसा ग्राहेण तरसा बलेन विकृष्यमाणम् अत एव आतुरं दुःखितं गजेन्द्रं प्रति दीनधियः करेणवो विचुक्रुशुः रुरुदुः । प्रार्ष्णिग्रहाः पृष्ठतः उपोद्बलका अन्ये गजास् तारयितुं दुःखात् तारयितुं मोचयितुं 33न चा ऽशकन्33 ना ऽशक्नुवन् ॥ २८ ॥

श्लोक-२९

विश्वास-प्रस्तुतिः

नियुध्यतोरेवमिभेन्द्रनक्रयो-
र्विकर्षतोरन्तरतो बहिर्मिथः।
समाः सहस्रं व्यगमन् महीपते
सप्राणयोश्चित्रममंसतामराः॥

मूलम्

नियुध्यतोरेवमिभेन्द्रनक्रयोर्विकर्षतोरन्तरतो बहिर्मिथः।
समाः सहस्रं व्यगमन् महीपते सप्राणयोश्चित्रममंसतामराः॥ २९ ॥

अनुवाद (हिन्दी)

गजेन्द्र और ग्राह अपनी-अपनी पूरी शक्ति लगाकर भिड़े हुए थे। कभी गजेन्द्र ग्राहको बाहर खींच लाता तो कभी ग्राह गजेन्द्रको भीतर खींच ले जाता। परीक्षित्! इस प्रकार उनको लड़ते- लड़ते एक हजार वर्ष बीत गये और दोनों ही जीते रहे। यह घटना देखकर देवता भी आश्चर्यचकित हो गये॥ २९॥

वीरराघवः

हे महीपते ! इत्थं गजेन्द्र-ग्राहयोर् मिथो ऽन्तरतो बहिश् च विकर्षतोस् सतोः सहस्रं समास् संवत्सरा व्यगमन्न् अतिक्रान्ताः बभूवुः । सप्राणयोस् तयोस् समान-बलयोः तद्-विकर्षण-रूपं कर्म तदा सुराः चित्रं विचित्रं मेनिरे ॥ २९ ॥

श्लोक-३०

विश्वास-प्रस्तुतिः

ततो गजेन्द्रस्य मनोबलौजसां
कालेन दीर्घेण महानभूद् व्ययः।
विकृष्यमाणस्य जलेऽवसीदतो
विपर्ययोऽभूत् सकलं जलौकसः॥

मूलम्

ततो गजेन्द्रस्य मनोबलौजसां कालेन दीर्घेण महानभूद् व्ययः।
विकृष्यमाणस्य जलेऽवसीदतो विपर्ययोऽभूत् सकलं जलौकसः॥ ३० ॥

अनुवाद (हिन्दी)

अन्तमें बहुत दिनोंतक बार-बार जलमें खींचे जानेसे गजेन्द्रका शरीर शिथिल पड़ गया। न तो उसके शरीरमें बल रह गया और न मनमें उत्साह। शक्ति भी क्षीण हो गयी। इधर ग्राह तो जलचर ही ठहरा। इसलिये उसकी शक्ति क्षीण होनेके स्थानपर बढ़ गयी, वह बड़े उत्साहसे और भी बल लगाकर गजेन्द्रको खींचने लगा॥ ३०॥

वीरराघवः

ततः सहस्र-समानन्तरं दीर्घेण भूयसा कालेन जले विकृष्यमाणस्य अत एव अवसीदतः खिद्यतो गजेन्द्रस्य मन-आदीनां व्ययः क्षयो ऽभूत् । तत्र मन उत्साह-शक्तिः, बलं शरीरम्, ओज ऐन्द्रियम् । जलम् ओक आश्रयो यस्य तस्य ग्राहस्य तु इदं हेतु-गर्भम् । सकलं मन-आदिकं विपर्ययो ऽभूत्, अधिकम् अभूद् इत्य् अर्थः ॥ ३० ॥

श्लोक-३१

विश्वास-प्रस्तुतिः

इत्थं गजेन्द्रः स यदाऽऽप संकटं
प्राणस्य देही विवशो यदृच्छया।
अपारयन्नात्मविमोक्षणे चिरं
दध्याविमां बुद्धिमथाभ्यपद्यत॥

मूलम्

इत्थं गजेन्द्रः स यदाऽऽप संकटं प्राणस्य देही विवशो यदृच्छया।
अपारयन्नात्मविमोक्षणे चिरं दध्याविमां बुद्धिमथाभ्यपद्यत॥ ३१ ॥

अनुवाद (हिन्दी)

इस प्रकार देहाभिमानी गजेन्द्र अकस्मात् प्राण संकटमें पड़ गया और अपनेको छुड़ानेमें सर्वथा असमर्थ हो गया। बहुत देरतक उसने अपने छुटकारेके उपायपर विचार किया, अन्तमें वह इस निश्चयपर पहुँचा॥ ३१॥

वीरराघवः

स गजेन्द्र इत्थं प्राणस्य सङ्कटं संशयं यदा प्राप, यतः सो ऽपि देही देहभृत् तदा विवश आत्मनः स्वस्य मोक्षणे ऽपारयन्न् असमर्थस् सन् चिरं दध्यौ चिन्तितवान् । अथ चिन्तनानन्तरम् इमां वक्ष्यमाणां बुद्धिम् 34अभ्यपद्यत कृतवान् ॥ ३१ ॥

श्लोक-३२

विश्वास-प्रस्तुतिः

न मामिमे ज्ञातय आतुरं गजाः
कुतः करिण्यः प्रभवन्ति मोचितुम्।
ग्राहेण पाशेन विधातुरावृतो-
ऽप्यहं च तं यामि परं परायणम्॥

मूलम्

न मामिमे ज्ञातय आतुरं गजाः कुतः करिण्यः प्रभवन्ति मोचितुम्।
ग्राहेण पाशेन विधातुरावृतोह्यहञ्च35 तं यामि परं परायणम्॥ ३२ ॥

अनुवाद (हिन्दी)

‘यह ग्राह विधाताकी फाँसी ही है। इसमें फँसकर मैं आतुर हो रहा हूँ। जब मुझे मेरे बराबरके हाथी भी इस विपत्तिसे न उबार सके तब ये बेचारी हथिनियाँ तो छुड़ा ही कैसे सकती हैं। इसलिये अब मैं सम्पूर्ण विश्वके एकमात्र आश्रय भगवान‍्की ही शरण लेता हूँ॥ ३२॥

वीरराघवः

ताम् एवाह - नेति । आतुरं पीडितं माम् इमे ज्ञातयो गजा एव मोचितुं न प्रभवन्ति । अहं तु प्रभुर् एव न, कुतः कथं करिण्यः प्रभवेयुः? अतो विधातुः 36दैवस्य पाश-रूपेण ग्राहेणा ऽवृतो ऽहं तम् एव विधातारं केवलं परम् उत्कृष्टम् अयनं शरणं रक्षणोपायं यामि अध्यवस्यामीत्य् अर्थः । यत्-सङ्कल्पाद् ममा ऽयं ग्राह-ग्रहस् तम् एव शरणं व्रजामीत्य् अर्थः ॥ ३२ ॥

श्लोक-३३

विश्वास-प्रस्तुतिः

यः कश्चनेशो बलिनोऽन्तकोरगात्
प्रचण्डवेगादभिधावतो भृशम्।
भीतं प्रपन्नं परिपाति यद‍्भया-
न्मृत्युः प्रधावत्यरणं तमीमहि॥

मूलम्

यः कश्चनेशो बलिनोऽन्तकोरगात् प्रचण्डवेगादभिधावतो भृशम्।
भीतं प्रपन्नं परिपाति यद‍्भयान्मृत्युः प्रधावत्यरणं तमीमहि॥ ३३ ॥

अनुवाद (हिन्दी)

काल बड़ा बली है। यह साँपके समान बड़े प्रचण्ड वेगसे सबको निगल जानेके लिये दौड़ता ही रहता है। इससे अत्यन्त भयभीत होकर जो कोई भगवान‍्की शरणमें चला जाता है, उसे वे प्रभु अवश्य-अवश्य बचा लेते हैं। उनके भयसे भीत होकर मृत्यु भी अपना काम ठीक-ठीक पूरा करता है। वही प्रभु सबके आश्रय हैं। मैं उन्हींकी शरण ग्रहण करता हूँ’॥ ३३॥

अनुवाद (समाप्ति)

इति श्रीमद‍्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे मन्वन्तरानुवर्णने गजेन्द्रोपाख्याने द्वितीयोऽध्यायः॥ २ ॥

वीरराघवः

को ऽसौ शरण्यः? विधातेत्य् अत आह - इति । बलिनो ऽन्तं करोतीत्य् अन्तकः । “अन्येष्व् अपि दृश्यते” (अष्टा. ३-२-१०१) इति डः । अन्तको मृत्युः स एव उरगः महा-सर्पः तस्मात् प्रचण्ड-वेगाद् दुस्सह-वेगाद् अभिधावतो निमित्तात् भृशं नितरां भीतं प्रपन्नञ् च यः कश्चन यो ऽयम् ईशः परिपाति यस्य च भयान् मृत्युर् अपि प्रधावति, तद्-आदिष्ट-स्व-व्यापारे प्रवर्तते तम् अरणं शरणम् ईमहि प्राप्नुयाम । यद्वा यः कश्चनेशः अवश्यं यः कश्चिद् ईश्वरो भविता को ऽसौ यो ऽन्तकोरगाद् भीतं प्रपन्नं 37पाति यस्य च भयान् मृत्युः प्रधावति तं शरणं व्रजेम इत्य् अर्थः । ईशे इति सप्तम्यन्त-पाठो ऽपि दृश्यते । तदा यस्येशे ईशने यः कश्चिन् नास्ति, “न तस्येशे कश्चन” (म.ना.उ. १-१०) इति श्रुतेः । यश् च मृत्यु-भयाद् भीतं प्रपन्नं परिपाति यस्य च भयान् मृत्युः प्रधावति “मृत्युर् धावति पञ्चमः” (कठ. उ. ६-३) इति श्रुतेः । तम् अरणम् ईमहीत्य् अर्थः । इति बुद्धिम् अभ्यपद्यतेत्य् अन्वयः ॥ ३३ ॥

इति श्रीमद्-भागवते अष्टम-स्कन्धे श्री-वीर-राघव-विदुषा लिखितायां भागवत-चन्द्र-चन्द्रिकायां व्याख्यायां द्वितीयो ऽध्यायः ॥ २ ॥


  1. A,B,G,J,T दिश ख ↩︎

  2. H,V सदविनिज्य, M,Ma सदा निणिज्य ↩︎

  3. M,Ma शुभेम ↩︎

  4. A,B,I पयोध क्षीराब्ध ↩︎

  5. A,B,T पाठ ↩︎ ↩︎

  6. A,B,G,J,M,Ma,T व ↩︎

  7. W द्राणिक ↩︎

  8. A,B,T त्तभूतया ↩︎

  9. W घिन ↩︎

  10. A,B,T add अस्ति ↩︎

  11. M,Ma भाक्तानि ↩︎

  12. A,B,G,J,M,Ma,T आ ↩︎

  13. W क्रीडा ↩︎

  14. A,B,G,J,T त्य ↩︎

  15. A,B,G,J,M,Ma,T कादिभि ↩︎

  16. A,B,T Omit परि ↩︎

  17. M,Ma बु ↩︎

  18. A,B,G,J,T न्तैश्च कलस्वनै ↩︎ ↩︎

  19. M,Ma र ↩︎

  20. A,B,G,J,T कान् ↩︎

  21. M,Ma षा ↩︎

  22. M,Ma शा ↩︎

  23. M,Ma अन्ये च ↩︎

  24. A,B,G,J,M,Ma,T नु ↩︎

  25. M,Ma न्न ↩︎

  26. A,B,G,J,M,Ma,I आ ↩︎

  27. A,B,T अमृताम्बु ↩︎

  28. This verse No 26 is not found in M edition. ↩︎

  29. A,B,T add कृपावान् ↩︎

  30. W Omits नि ↩︎

  31. W Omits स ↩︎

  32. W Omits इत्यर्थः ↩︎

  33. A,B,T Omit ↩︎ ↩︎

  34. A,B,T मन्व ↩︎

  35. A,B,G,J,M,Ma,T तोऽप्य ↩︎

  36. A,B,T द ↩︎

  37. A,B,T add परि ↩︎