०१

[प्रथमोऽध्यायः]

भागसूचना

मन्वन्तरोंका वर्णन

श्लोक-१

मूलम् (वचनम्)

1राजोवाच

विश्वास-प्रस्तुतिः

स्वायम्भुवस्येह गुरो वंशोऽयं विस्तराच्छ्रुतः।
यत्र विश्वसृजां सर्गो मनूनन्यान्वदस्व नः॥

मूलम्

स्वायम्भुवस्येह 2गुरो वंशोऽयं विस्तराच्छ्रुतः।
यत्र विश्वसृजां सर्गो मनूनन्यान्वदस्व नः॥

अनुवाद (हिन्दी)

राजा परीक्षित् ने पूछा—गुरुदेव! स्वायम्भुव मनुका वंश-विस्तार मैंने सुन लिया। इसी वंशमें उनकी कन्याओंके द्वारा मरीचि आदि प्रजापतियोंने अपनी वंशपरम्परा चलायी थी। अब आप हमसे दूसरे मनुओंका वर्णन कीजिये॥ १॥

वीरराघवः

तृतीयं “स्वायम्भुवस्य च मनोवंशः परम-सम्मतः” इति पृष्टं तद्-वंश-कथनं प्रक्रम्य तावत् तत्र तद्-दुहितुः देवहूत्या वंशः कथितः । चतुर्थे तु आकृति-देवहूत्योस् तद्-दुहित्रोर् देवहूति-दुहितॄणां वंशम् अभिधाय अथ स्वायम्भुव-पुत्र-वंशम् उपक्रम्य तावद् उत्तान3पद-सन्ततिं सावशेषाम् अभिधाय अन्तरा गर्भिणी-न्यायेन प्रसङ्गात् प्रिय-व्रतस्य वंशः पञ्चमे कथितः । षष्ठे तु पुनः प्रसक्तानुप्रसक्त-कथनानन्तरम् उत्तान-पद एव वंशो ऽवशिष्टः कथितः । सप्तमे तु तद्-अनुप्रसक्तम् उक्तम् । तद् एवं स्वायम्भुव-मनु-वंश-कथन-व्याजेन बहुधा भगवतो जन्म-कर्म-गुणादिषु4-पवर्णितेषु पुनस् तान् शुश्रूषुः तुल्य-न्यायाद् अन्येष्व् अपि मनु-वंशेषु कथ्यमानेषु हरेर् जन्मादि-कथनम् अर्थात् प्रसक्तम् एव भविष्यतीति आलोच्य प्राधान्येना ऽन्यान् मनून् स-वंशान् पृच्छति राजा - स्वायम्भुवस्येति त्रिभिः । तत्रोक्तम् अनुवदति पाद-त्रयेण हे गुरो! गुरोर् इति पाठे गुरोस् त्वत इह वृत्ते ग्रन्थे स्वायम्भुवस्य मनोवंशो विस्तराच् छ्रुतः । वंशं विशिनष्टि । यत्र वंशे विश्व-सृजां मरीच्यादीनां मनु-कन्यासु पुत्र-पौत्रदि-रूपः सर्गः अथ नो ऽस्मभ्यम् अन्यान् मनून् वदस्व स-चरित्रान् स-वंशान् कथयेत्य् अर्थः ॥ १ ॥

श्लोक-२

विश्वास-प्रस्तुतिः

यत्र यत्र हरेर्जन्म कर्माणि च महीयसः।
गृणन्ति कवयो ब्रह्मंस्तानि नो वद शृण्वताम्॥

मूलम्

5यत्र यत्र हरेर्जन्म कर्माणि च महीयसः।
गृणन्ति कवयो ब्रह्मंस्तानि नो वद शृण्वताम्॥ २ ॥

अनुवाद (हिन्दी)

ब्रह्मन्! ज्ञानी महात्मा जिस-जिस मन्वन्तरमें महामहिम भगवान‍्के जिन-जिन अवतारों और लीलाओंका वर्णन करते हैं, उन्हें आप अवश्य सुनाइये। हम बड़ी श्रद्धासे उनका श्रवण करना चाहते हैं॥ २॥

वीरराघवः

यत्र यत्र मन्वन्तरे महीयसः निस्-समाभ्यधिकस्य हरेः जन्मानि अवतार-रूपाणि कर्माणि चेष्टितानि च कवयो विद्वांसः गायन्ति । तान्य् अपि चरित्राणि शृण्वतां श्रोतुं प्रवृत्तानां नः अस्माकं वद कथय ॥ २ ॥

श्लोक-३

विश्वास-प्रस्तुतिः

यद्यस्मिन्नन्तरे ब्रह्मन् भगवान् विश्वभावनः।
कृतवान्कुरुते कर्ता ह्यतीतेऽनागतेऽद्य वा॥

मूलम्

6सर्वमन्वन्तरे6 ब्रह्मन्भगवान्विश्वभावनः।
कृतवान्कुरुते कर्ता ह्यतीतेऽनागतेऽद्य वा॥ ३ ॥

अनुवाद (हिन्दी)

भगवन्! विश्वभावनभगवान् बीते हुए मन्वन्तरोंमें जो-जो लीलाएँ कर चुके हैं, वर्तमान मन्वन्तरमें जो कर रहे हैं और आगामी मन्वन्तरोंमें जो कुछ करेंगे, वह सब हमें सुनाइये॥ ३॥

वीरराघवः

हे ब्रह्मन् ! यस्मिन् मन्वन्तरे मनोर् अन्तरम् अवस्थान-दशा तस्मिन्, विश्व-भावनः विश्व-पालको भगवान् कृतवान् यस्मिन्नतीते यत् कृतवान् यस्मिन्ननागते यत् कर्ता करिष्यति । यस्मिन्न् अद्य वर्तमाने यत् करोति तद् वदेत्य् अन्वयः ॥ ३ ॥

श्लोक-४

मूलम् (वचनम्)

7ब्रह्मरातः उवाच

विश्वास-प्रस्तुतिः

मनवोऽस्मिन्व्यतीताः षट् कल्पे स्वायम्भुवादयः।
आद्यस्ते कथितो यत्र देवादीनां च सम्भवः॥

मूलम्

मनवोऽस्मिन्व्यतीताष्षट् कल्पे स्वायम्भुवादयः।
आद्य8स्तु कथितो यत्र देवादीनाञ्च सम्भवः॥ ४ ॥

अनुवाद (हिन्दी)

श्रीशुकदेवजीने कहा—इस कल्पमें स्वायम्भुव आदि छः मन्वन्तर बीत चुके हैं। उनमेंसे पहले मन्वन्तरका मैंने वर्णन कर दिया, उसीमें देवता आदिकी उत्पत्ति हुई थी॥ ४॥

वीरराघवः

एवम् आपृष्टो मुनिर् आह - मनव इति । अस्मिन् कल्पे स्वायम्भुवादयः षण्मनवो व्यतीताः । तत्रा ऽऽद्यः स्वायम्भुवो मनुः तुभ्यं कथितः, स-चरित्रः 9स्व-वंशश्च9 कथितः ॥ ४ ॥

श्लोक-५

विश्वास-प्रस्तुतिः

आकूत्यां देवहूत्यां च दुहित्रोस्तस्य वै मनोः।
धर्मज्ञानोपदेशार्थं भगवान्पुत्रतां गतः॥

मूलम्

आकूत्यां देवहूत्यां च दुहित्रोस्तस्य वै मनोः।
10धर्मज्ञानोपदेशार्थं भगवान्पुत्रतां गतः10॥ ५ ॥

अनुवाद (हिन्दी)

स्वायम्भुव मनुकी पुत्री आकूतिसे यज्ञपुरुषके रूपमें धर्मका उपदेश करनेके लिये तथा देवहूतिसे कपिलके रूपमें ज्ञानका उपदेश करनेके लिये भगवान‍्ने उनके पुत्ररूपसे अवतार ग्रहण किया था॥ ५॥

वीरराघवः

तस्य स्वायम्भुवस्य मनोर् दुहित्रोः आकूत्यां देव-हूत्यां च भगवान् महेश्वरः 11सर्वेश्वरो मूर्तिभ्यां 12कपिलाख्य यज्ञाख्य12 मूर्तिभ्यां पुत्रत्वं प्राप्तः ॥ ५ ॥

श्लोक-६

विश्वास-प्रस्तुतिः

कृतं पुरा भगवतः कपिलस्यानुवर्णितम्।
आख्यास्ये भगवान्यज्ञो यच्चकार कुरूद्वह॥

मूलम्

13कृतं पुरा13 भगवतः कपिलस्यानु14वर्णितम्।
आख्यास्ये भगवान्यज्ञो यच्चकार कुरूद्वह!॥ ६ ॥

अनुवाद (हिन्दी)

परीक्षित्! भगवान् कपिलका वर्णन मैं पहले ही (तीसरे स्कन्धमें) कर चुका हूँ। अब भगवान् यज्ञपुरुषने आकूतिके गर्भसे अवतार लेकर जो कुछ किया, उसका वर्णन करता हूँ॥ ६॥

वीरराघवः

तत्र भगवतः कपिलस्य 15अनुवर्णितं तृतीय-स्कन्धे इति शेषः । अनुवर्णितं चरित्रं त्वया 16हे भरतर्षभ16! श्रुतम् एव अधुना यज्ञाख्यो भगवान् यच् चकार तच् चेष्टितं, हे कुरूद्वह ! आख्यास्ये कथयिष्यामि । यद्य् अपि मन्वन्तरान्तर-कथनम् एव प्रतिज्ञातव्यं तेषाम् एव प्राधान्येन पृष्टत्वात् । तथा ऽपि भावज्ञो मुनिः भगवद्-गुण-कर्म-जन्मादि-शुश्रूषयैवा ऽपृष्टम् इत्य् आलोच्याद्य मन्वन्तरस्थस्य यज्ञाख्यस्य भगवतश्-चरित्रस्याकथितत्वात् तद् एव कथयितुं प्रतिजानीते, अर्थात् तत्-17कथनेन मन्वन्तर18न्तर-कथनम् अपि प्रसक्तम् एव भविष्यतीति मुनेर् अभिप्रायः ॥ ६ ॥

श्लोक-७

विश्वास-प्रस्तुतिः

विरक्तः कामभोगेषु शतरूपापतिः प्रभुः।
विसृज्य राज्यं तपसे सभार्यो वनमाविशत्॥

मूलम्

विरक्तः कामभोगेषु शतरूपापतिः प्रभुः।
विसृज्य राज्यं तपसे सभार्यो वनमाविशत्॥ ७ ॥

अनुवाद (हिन्दी)

परीक्षित्! भगवान् स्वायम्भुव मनुने समस्त कामनाओं और भोगोंसे विरक्त होकर राज्य छोड़ दिया। वे अपनी पत्नी शतरूपाके साथ तपस्या करनेके लिये वनमें चले गये॥ ७॥

वीरराघवः

तत्र यज्ञस्य भगवतः चरित्रं विवक्षुस् तद्-उपोद्घाततया स्वायम्भुवस्य मनोर् वृत्तान्तम् आह - विरक्त इत्यादिना । यद्य् अपि कपिलो ऽपि तन्-मन्वन्तरावतार-रूप एव, तथा ऽपि तस्य जगत्-पालनानधिकृतत्वात् केवलं ज्ञान-योग-प्रवर्तनाधिकृतत्वात् तच्-चरित्रस्य कथितत्व-प्रदर्शनाच् च यज्ञो यच् चकार तद् आख्यास्य इत्य् उक्तम् । शत-रूपायाः पतिः भर्ता विभुः स्वायम्भुवो मनुः, काम्यन्त इति कामाः शब्दादयो विषयाः, तेषां भोगेषु विरक्तः, राज्यं विसृज्य तपसे तप कर्तुं सभार्यो वनम् आविशत् ॥ ७ ॥

श्लोक-८

विश्वास-प्रस्तुतिः

सुनन्दायां वर्षशतं पदैकेन भुवं स्पृशन्।
तप्यमानस्ततो घोरमिदमन्वाह भारत॥

मूलम्

सुनन्दायां वर्षशतं पदैकेन भुवं स्पृशन्।
तप्यमानस्ततो घोरमिदम19न्वाह भारत!॥ ८ ॥

अनुवाद (हिन्दी)

परीक्षित्! उन्होंने सुनन्दा नदीके किनारे पृथ्वीपर एक पैरसे खड़े रहकर सौ वर्षतक घोर तपस्या की। तपस्या करते समय वे प्रतिदिन इस प्रकार भगवान‍्की स्तुति करते थे॥ ८॥

वीरराघवः

सुनन्दायां सनन्द-तीरे पदेनैकनैव भुवं स्पृशन् वर्ष-शतं घोर दुश्चरं तपस् तप्यमानः कुर्वाणो हे भारत ! इदं वक्ष्यमाणम् अन्वाह जजाप ॥ ८ ॥

श्लोक-९

मूलम् (वचनम्)

मनुरुवाच

विश्वास-प्रस्तुतिः

येन चेतयते विश्वं विश्वं चेतयते न यम्।
यो जागर्ति शयानेऽस्मिन्नायं तं वेद वेद सः॥

मूलम्

20 21येन चेतयते21 विश्वं 22विश्वं चेतयते न यम्22
यो जागर्ति शयानेऽस्मिन्नायं तं वेद वेद सः॥ ९ ॥

अनुवाद (हिन्दी)

मनुजी कहा करते थे—जिनकी चेतनाके स्पर्शमात्रसे यह विश्व चेतन हो जाता है, किन्तु यह विश्व जिन्हें चेतनाका दान नहीं कर सकता; जो इसके सो जानेपर प्रलयमें भी जागते रहते हैं, जिनको यह नहीं जान सकता, परन्तु जो इसे जानते हैं—वही परमात्मा हैं॥ ९॥

वीरराघवः

तत्-जपितां मन्त्रोपनिषदम् एवाह - येनेति । विश्वं जगद् येन परमात्मना चेतयते प्रवृत्तिक्षमं भवति सत्ता-स्थिति-प्रवृत्तिमद् भवतीत्य् अर्थः । यं परमात्मानं विश्वं कर्तृ न चेतयते तत्रोभयत्र हेतुम् आह - य इति । अस्मिन् लोके शयाने सति स्वात्म-परमात्म-याथात्म्य-ज्ञानाभावेन माया-पारवश्येन देहात्म-भ्रमादिना च शयान-तुल्ये सति यो जागर्ति सर्व युग-पत् साक्षात्करोति अयं लोकस् तं परमात्मानं न वेद स तु परमात्मा लोके वेद अत्र विश्व-शब्दो जीव-वर्ग-परः अचेतन-वर्गस्य परमात्मनो ऽपि चेतनीकर्तुम्-अशक्यत्वात् तस्य ज्ञातृत्व-प्रसक्त्यभावेन नायं वेदेति निषेधायोगाच् च । यथा अचेतनं न वेद तद्वत् चेतनो ऽपि, न तं वेदेति दृष्टान्ताभिप्रायेण चिद्-अचिदात्मक-जगत्-परो वा, 23चेतयते इत्यत्र ‘चिती संज्ञाने’ इति ण्यन्ताण्णिचश्चेति कर्तर्यात्मनेपदं, तत्र शब्दादि-विषय-साक्षात्कारात्मकं ज्ञानं प्रकृत्यर्थस् तदाश्रया जीववर्गस् तत्र कर्ता तदनुकूल-व्यापारो ऽन्तःप्रविश्य नियमनादि-रूपो ण्यन्तार्थः तत्र कर्ता येनेति निर्दिष्टः परमात्मा, एव च यद् एतत् सर्व-शब्दादि-विषय-साक्षात्कारात्मकं ज्ञानं तदनुकूलतयान्तःप्रविश्य नियन्तुः परमात्मन अधीनम् इति फलिता ऽर्थः । एवं शब्दतः प्रवृत्तिस् तदधीनत्युक्तम्, अन्तःप्रविश्य नियन्तृ-स्व-रूप-प्रयोजक-कर्तृत्व-कथनेनैव जीव-वर्गस्य तम्प्रति शरीरत्व-प्रतीत्या शरीरस्य आत्मायत्त-सत्ता-स्थितित्व-लाभात्23, 24एव च ‘येन चेतयते विश्वं’ इत्यनेन कृत्स्नं जगत्24 तदायत्त-सत्ता-स्थिति-प्रवृत्तिमद् इत्युक्तं भवति । यतो यदधीन-सत्तादिम् अजगद् अत एव यं न चेतयते न ते 25स्वायत्त-सत्तादिमन्तं करोतीति विश्वं चेतयते न यम् इत्य् अस्यार्थः । परमात्मनश् चेतयितृत्वे विश्वस्य तद् अभावे च नित्यं प्रकृत्यपारवश्येन युगपत् सर्व-साक्षात्कर्तृत्वं हेतुतयोच्यते यो जागर्ति शयान ऽस्मिन्न् इत्यनेन यतो जागर्ति अत एव तं शयानो न वेद किन्तु जाग्रत् स एव तद् विश्वं वेदेत्यर्थः । येन चेतयते इत्यस्य श्लोकस्य स्थाने क्वचित् पुस्तकेषु - वासुदेवो वसत्येष सर्व-देहेष्व् अनन्य-दृक् । येनायं तपते विश्वं विश्व-वीर्यं यतस् तपः ॥ इति श्लोकः पठ्यते । तत्रायम् अर्थः - अनन्यो दृग् 26अनन्यापेक्षः, युगपत् सर्व-साक्षात्कर्ता - सर्वेषु चिद्-अचिदात्मकेषु देहेषु वसति यतस् तत 27एव वासुदेवः । वासुदेव-शब्द-प्रवृत्ति-निमित्ताश्रयः तत्र अनन्य-दृग् इत्य् अनेन देव-शब्दार्थ उक्तः । अन्यान् अपेक्ष-स्व-तेजसा दीप्यमानत्वं हि देव-शब्दार्थः, वसत्येषु सर्व-देहष्व् इत्य् अनेन वासु शब्दार्थ उक्तः इदम् अधिकरण-व्युत्पत्तेर् अप्य् उपलक्षणं वसतीति वासुः वसत्य् अस्मिन्न् इति वा वासुर् इति द्वेधा व्युत्पत्तेस् तत्र तत्र प्रदर्शितत्वात् । अनन्य-दर्शनं विशिनष्टि - येनानन्यद्-अदर्शनेनायं वासुदेवो विश्वं तपते पर्यालोचयति विश्वस्य सृष्टि - स्थित्यादिकम् आलोचयतीत्य् अर्थः । यत एवम्भूतम् अनन्य-दर्शनं ततः तपः विश्व-पर्यालोचनात्मकत्वम् आपन्नम् । अनन्य-दर्शनं विश्व-वीर्यं कृत्स्नस्य चिद्-अचिदात्मक-विश्वस्य कारण-भूतम् इति येन चेतयते इत्य् अनेनान्तः-प्रविश्य नियन्तृत्व-रूपं प्रयोजयितृत्वं सूचितम् ॥ ९ ॥

श्लोक-१०

विश्वास-प्रस्तुतिः

आत्मावास्यमिदं विश्वं यत् किञ्चिज्जगत्यां जगत्।
तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनम्॥

मूलम्

आत्मावास्यमिदं 28सर्वं यत् किञ्चिज्जगत्यां जगत्।
तेन त्यक्तेन भुञ्जीथा मा गृधः कस्य स्विद्धनम्॥ १० ॥

अनुवाद (हिन्दी)

यह सम्पूर्ण विश्व और इस विश्वमें रहनेवाले समस्त चर-अचर प्राणी—सब उन परमात्मासे ही ओतप्रोत हैं। इसलिये संसारके किसी भी पदार्थमें मोह न करके उसका त्याग करते हुए ही जीवन-निर्वाहमात्रके लिये उपभोग करना चाहिये। तृष्णाका सर्वथा त्याग कर देना चाहिये। भला, ये संसारकी सम्पत्तियाँ किसकी हैं?॥ १०॥

वीरराघवः

तद् अयं व्यञ्जयन् लोकं शिक्षयमाणम् “ईशावास्यम् इदं सर्वम्” (ईशा. उ. 1) इति मन्त्रम् एव श्लोक-रूपेण 29पठति आत्मति । ईश-शब्द-स्थाने आत्म-शब्द-पाठे एव विशेषः । जगत्यां यज् जगत् चेतनाचेतनात्मकं सर्वम् इदं यस्तु आत्मना परमात्मना ऽन्तःप्रविश्य नियमन-पूर्वकं भर्त्रा आवास्यम् अधिष्ठेयं यतः सर्वम् आत्मवास्यम् अतस् तेन परमात्मना त्यक्ते अनधिष्ठिते ऽब्रह्मात्मके स्वतन्त्रे वस्तुनि न भुञ्जीथाः, नानुभवेः, अब्रह्मात्मकं स्वतन्त्रं वस्तु न मन्यस्येत्यर्थः । कर्मण एवानुभोग-विषयत्वं विवक्षया त्यक्ते इति सप्तमी प्रयुक्ता, मागृधः तच्छेष-भूतं सर्वं देह-तद् अनुबन्ध्यादिकं स्वात्म-शेषत्वेन माकाङ्क्षीर् इत्य् अर्थः । कृत्स्नस्य तच् छेषत्वम् एव काक्वा दर्शयति - कस्य स्विद् धनम् इति । कृत्स्नम् आत्मात्मीयादिकं कस्य स्विद् धनं न कस्यापि स्वं किन्तु तस्यैवेति भावः ॥ १० ॥

श्लोक-११

विश्वास-प्रस्तुतिः

यं न पश्यति पश्यन्तं चक्षुर्यस्य न रिष्यति।
तं भूतनिलयं देवं सुपर्णमुपधावत॥

मूलम्

30यं न पश्यति31 पश्यन्तं चक्षुर्यस्य न रिष्यति।
तं भूतनिलयं देवं सुपर्णमुपधावत॥ ११ ॥

अनुवाद (हिन्दी)

भगवान् सबके साक्षी हैं। उन्हें बुद्धि-वृत्तियाँ या नेत्र आदि इन्द्रियाँ नहीं देख सकतीं। परन्तु उनकी ज्ञानशक्ति अखण्ड है। समस्त प्राणियोंके हृदयमें रहनेवाले उन्हीं स्वयंप्रकाश असंग परमात्माकी शरण ग्रहण करो॥ ११॥

वीरराघवः

यो जागर्तीति सर्वस्-साक्षात्कर्तृत्वं सूचितम् । तद् एव व्यञ्जयन् तम् एव भजनीयं भजते, हे लोकाः ! इत्य् आह - यम् इति । यस्य चक्षुर् ज्ञानं न रिष्यति न क्षयम् एष्यति जीवस्येव न सङ्कोचं यास्यतीत्यर्थः । अत एव नित्यम् असङ्कुचितापरिच्छिन्न-ज्ञानेन युगपत् सर्वं पश्यन्तं साक्षात्कुर्वन्तं ये न पश्यति कर्मणा सङ्कुचित-ज्ञानो लोकः न साक्षात्करोति तं सर्वज्ञम् इष्ट-प्रापणा ऽनिष्ट-निवर्तन-क्षमद् एवं स्व-तेजसा दीप्यमानं भूतानां निलयम् आश्रमं धारकम् इति यावत् सुपर्णद् “वा सुपर्णा सुयुजा सुखाया समानं वृक्षं परिषस्वजाते” (मुण्ड. उ. ३-१-१) इति सुपर्णत्वेन रूपितम् । अनेन जीवाविनाभावेन तद्-अन्तरात्मतया तद्-हितकारितया च अवस्थितम् इति लभ्यते, उपधावत भजत32 ॥ ११ ॥

श्लोक-१२

विश्वास-प्रस्तुतिः

न यस्याद्यन्तौ मध्यं च स्वः परो नान्तरं बहिः।
विश्वस्यामूनि यद् यस्माद् विश्वं च तदृतं महत्॥

मूलम्

33न यस्याद्यन्त मध्यानि33 स्वः परो नान्तरं बहिः।
विश्वस्यामूनि यद् यस्माद् विश्वं च तदृतं महत्॥ १२ ॥

अनुवाद (हिन्दी)

जिनका न आदि है न अन्त, फिर मध्य तो होगा ही कहाँसे? जिनका न कोई अपना है और न पराया और न बाहर है न भीतर, वे विश्वके आदि, अन्त, मध्य, अपने-पराये, बाहर और भीतर—सब कुछ हैं। उन्हींकी सत्तासे विश्वकी सत्ता है। वही अनन्त वास्तविक सत्य परब्रह्म हैं॥ १२॥

वीरराघवः

‘तेन त्यक्तेन भुञ्जीथाः’ इति सर्वस्य तदात्मकत्वेन तद्-व्यतिरिक्तं स्व-निष्ठं वस्तु नास्तीत्युक्तम् । अथ सर्वस्य तत्-कारणकत्वाच् च न तद्-अन्यद् इत्य् आह - नेति । तस्य सर्व-कारणत्वं वक्तुं तस्यापि कारणान्तर-शङ्कां व्युदस्यति । न यस्याद्यन्तौ मध्यञ् चेति, कार्यम् एव वस्त्व् आद्य् अन्तादि-मध्यवत् स्वयं आद्य् आदि-विरहात् सर्व-कारणम् इत्यर्थः । कारणत्वञ् च निमित्तत्व-रूपम् उपादानत्व-रूपं चोभयम् अप्य् अभिप्रेतं तत्र निमित्तत्व-प्रयुक्तं वैषम्यं परिहरति - स्वः परश् च यस्य नास्तीति, देव-मनुष्यादि-वैचित्र्यस्य तत्-तज्-जीव-कर्म-मूलकत्वात् न तस्यानुग्राह्यो निग्राह्यश् च स्वतो ऽस्तीति भावः । “अनेन जीवेनात्मनानुप्रविश्य” (छान्दो. उ. ६-३-२) इत्यादि श्रुत्यवगतं सृष्टेः अनुप्रवेश-पूर्वकत्वं सूचयन् जीवानुप्रवेश-योग्यताम् आह - यस्य नान्तरं बहिर् इति तिलेषु तैलस्येव वैद्याम् अग्नेर् इव न व्यवस्थिता व्याप्तिः किन्तु बहिर् अन्तस्-साधारण्येन यस्य जीवादिषु व्याप्तिर् इत्यर्थः । यस्माद् एवं भूतात् परमात्मनः विश्वस्या ऽमूनि आद्यन्त-मध्यानि सृष्टि-लय-रक्षणानि भवन्ति । यस्माद् इति हेत्वर्थे पञ्चमी । यतो हेतु-भूताद् उपादानाद् विश्वस्यादिः यतो यस्मिन् हेतु-भूते ऽधिकरणे विश्वस्य लयः यतो येन हेतु-भूतेन कर्त्रा, विश्वस्य रक्षणं भवतीत्यर्थः । यत् यत एवं विश्वोपादान-भूतस् तस्माद् विश्वम् अपि तद् एव तद्-अनन्यद् एव जगद्-आकारेण परिणतः स एव अवतिष्ठते इति ततो ऽनन्यद् एव जगद् इत्यर्थः उपादानत्व-प्रयुक्तं विकारित्वं परिहरति - ऋतम् इति । ऋतं सत्यं स्व-रूपतः स्वभावतश् च विकार-रहितम् इत्यर्थः । विकाराणां स्व-शरीर-भूत-चिद्-अचिद्-द्वारकत्वात् स्वतो निर्विकारम् एव कारणत्वोपयुक्त-सर्वज्ञत्व-सर्व-शक्तित्वादि-गुण-योगम् आह - महद् इति । गुणैर् महत् निरतिशय-बृहद् इत्य् अर्थः ॥ १२ ॥

श्लोक-१३

विश्वास-प्रस्तुतिः

स विश्वकायः पुरुहूत ईशः
सत्यः स्वयंज्योतिरजः पुराणः।
धत्तेऽस्य जन्माद्यजयाऽऽत्मशक्त्या
तां विद्ययोदस्य निरीह आस्ते॥

मूलम्

स विश्वकायः पुरुहूत ईशः 34सर्वस्य गोप्ता ह्यरजः34 पुराणः।
धत्तेऽस्य जन्माद्य जयाऽऽत्मशक्त्या तां विद्ययोदस्य निरीह आस्ते॥ १३ ॥

अनुवाद (हिन्दी)

वही परमात्मा विश्वरूप हैं। उनके अनन्त नाम हैं। वे सर्वशक्तिमान् सत्य, स्वयंप्रकाश, अजन्मा और पुराणपुरुष हैं। वे अपनी मायाशक्तिके द्वारा ही विश्वसृष्टिके जन्म आदिको स्वीकार कर लेते हैं और अपनी विद्याशक्तिके द्वारा उसका त्याग करके निष्क्रिय, सत्स्वरूपमात्र रहते हैं॥ १३॥

वीरराघवः

श्लोक-चतुष्टय-प्रतिपादित विशेषण - सामर्थ्य-लब्ध-गुण-विशेषैः सम्भूय विशिनष्टि - इति । स श्लोक चतुष्टय-गत-यच्-छब्दैर्-निर्दिष्टस्य प्रतिनिर्देश-परः तच्-छब्दः विश्वं कार्यः शरीरं यस्य विश्वकायः, अत एव पुरुभिर् देव-मनुष्यादि-नामाभिः शरीर-वाचिभिः आत्म-पर्यन्त-बोधकैः 35शब्दैर् हूयते ऽभिधीयते इति पुरुहूतः, सत्यः निर्विकारः, विश्वकायो ऽपि विश्व-गत-विकारैः अस्पृष्ट इत्यर्थः । ईशः सर्वावस्था चेतनाचेतनयोः नियन्ता, स्वयं ज्योतिः । स्व-प्रकाशः अनन्यापेक्ष-प्रकाश इत्य् अर्थः । अजः जीववत् कर्मायत्तोत्पत्ति-रहितः पुराणः जगत्-कारण-भूतः पुरापि न वो वा, अस्य विश्वस्य जन्मादिकाम् आत्मनः स्वस्य शक्त्या अंश-भूतया अजया प्रकृत्या करोति, ताञ् च अजां विद्यया नित्याविर्भूतापरिच्छिन्न-स्व-याथात्म्य-विषयक ज्ञानेनोदस्य परिहृत्य तदपरवंशो भूत्वा निरीहः जीववद् ईहा-रहितः स्वानन्दानुभव-पूर्त्याः अवाप्त-समस्त-कामा ऽनाहृत-कामः “सर्वम् इदम् अभ्यात्तो ऽवाक्यनादरः” (छान्दो. उ. ३-१४-२,३) इति श्रुतेः । आस्ते सर्वान्तरात्मतया ऽवतिष्ठतीत्य् अर्थः ॥ १३ ॥

श्लोक-१४

विश्वास-प्रस्तुतिः

अथाग्रे ऋषयः कर्माणीहन्तेऽकर्महेतवे।
ईहमानो हि पुरुषः प्रायोऽनीहां प्रपद्यते॥

मूलम्

अथाग्रे ऋषयः 36कर्माणीहन्तेऽकर्म हेतवे।
ईहमानो37ऽपि पुरुषः प्रायोऽनीहां प्रपद्यते॥ १४ ॥

अनुवाद (हिन्दी)

इसीसे ऋषि-मुनि नैष्कर्म्य स्थिति अर्थात् ब्रह्मसे एकत्व प्राप्त करनेके लिये पहले कर्मयोगका अनुष्ठान करते हैं। प्रायः कर्म करनेवाला पुरुष ही अन्तमें निष्क्रिय होकर कर्मोंसे छुट्टी पा लेता है॥ १४॥

वीरराघवः

निरीह आस्ते इत्य् एतद् एव व्यञ्जयितुं तावज् जीवस्य तदभावम् आह - अथेति । अथ नन्व् अग्रे प्रथमम् ऋषयो जीवा द्रष्टृत्वात् कर्म हेतवे कर्म-हेतुर् यस्य तस्मै कर्म-साध्य-सुख-रूप-फलार्थं कर्माणी-हन्ते फल-साधनतया कुर्वन्तीत्य् अर्थः । अनेन जीवस्यापरिपूर्णत्वं सूचितं, कर्मानुसारि बुद्ध्यायत्त प्रवृत्ति-मज्-जीव प्रेरयितृत्वाच् च परमात्मनः प्रथमं जीवस्येव प्रवृत्तेर् अग्रे ऋषयः कर्माणी-हन्ते इत्य् उक्तम् । एवम् ईहामानो ऽपि पुरुषो जीवः प्रायशो ऽनीहां प्रपद्यते, स्व-विहित-कर्म-साध्यं फलं निःस्पृहां प्रायः प्रपद्यते, सुखार्थतया कृतैः कर्मभिः दुःख-प्राप्तौ तत्र निःस्पृहाम् एव, प्रायशः प्रतिपद्यते इत्य् अर्थः । सुखार्थतया विहितानां कर्मणां प्रायशो दुःख-जनकत्व-दर्शनात् “प्रायो ऽनीहां प्रपद्यते” इत्य् उक्तम् ॥ १४ ॥

श्लोक-१५

विश्वास-प्रस्तुतिः

ईहते भगवानीशो न हि तत्र विषज्जते।
आत्मलाभेन पूर्णार्थो नावसीदन्ति येऽनु तम्॥

मूलम्

ईहते भगवानीशो न हि तत्र विषज्जते।
आत्मलाभेन पूर्णार्थो नावसीदन्ति येऽनु तम्॥ १५ ॥

अनुवाद (हिन्दी)

यों तो सर्वशक्तिमान् भगवान् भी कर्म करते हैं, परन्तु वे आत्मलाभसे पूर्णकाम होनेके कारण उन कर्मोंमें आसक्त नहीं होते। अतः उन्हींका अनुसरण करके अनासक्त रहकर कर्म करनेवाले भी कर्मबन्धनसे मुक्त ही रहते हैं॥ १५॥

वीरराघवः

भगवान् षाड्गुण्य-परिपूर्णः ईशः परमात्मा तु ईहते जीव-कर्मानुगुणम् अन्तरात्मतया यद्यपि प्रेरयति तथा ऽपि न हि तत्र विषद्-भूते स्व-प्रयोजीव-कर्म-साध्ये फले रक्तो न भवति तत्र हेतुं वदन् तं विशिनष्टि । आत्म-लाभेन नित्यं स्वानन्दानुभव-लाभेनैव पूर्णः समग्रः अर्थः पुरुषार्थो यस्य तादृशः अतो न विषज्जते इत्यर्थः । न केवलं स एव न विषज्जते ऽपि तु तम् अन्यतम् अनुवर्तमाना ये जनास् ते ऽपि नावसीदन्ति कर्म-फलेषु सक्ता न खिद्यन्ति परमात्मन आत्म-लाभ-परिपूर्णार्थत्वेन कामानाम् असत्तयोक्त्या जीवस्या ऽपूर्णत्वम् एव संहत्वे हेतुर् इत्य् उक्तं भवति ईहामानाप्यनीहा प्रपद्यते इत्य् अनेन जीवस्य सुख स्पृहा दुःखं तु निःस्पृहेत्य् उक्तम् ॥ १५ ॥

श्लोक-१६

विश्वास-प्रस्तुतिः

तमीहमानं निरहङ्कृतं बुधं
निराशिषं पूर्णमनन्यचोदितम्।
नॄञ्छिक्षयन्तं निजवर्त्मसंस्थितं
प्रभुं प्रपद्येऽखिलधर्मभावनम्॥

मूलम्

तमीहमानं निरहङ्कृतं 38बुधं निराशिषं पूर्णमनन्यचोदितम्।
39नॄन् शिक्षयन्तं निजवर्त्मसंस्थितं प्रभुं प्रपद्येऽखिल धर्मभावनम्॥ १६ ॥

अनुवाद (हिन्दी)

भगवान् ज्ञानस्वरूप हैं, इसलिये उनमें अहंकारका लेश भी नहीं है। वे सर्वतः परिपूर्ण हैं, इसलिये उन्हें किसी वस्तुकी कामना नहीं है। वे बिना किसीकी प्रेरणाके स्वच्छन्दरूपसे ही कर्म करते हैं। वे अपनी ही बनायी हुई मर्यादामें स्थित रहकर अपने कर्मोंके द्वारा मनुष्योंको शिक्षा देते हैं। वे ही समस्त धर्मोंके प्रवर्तक और उनके जीवनदाता हैं। मैं उन्हीं प्रभुकी शरणमें हूँ॥ १६॥

वीरराघवः

उक्त विशेषण-सामर्थ्य लब्ध-गुण विशेषैः विशिषन् शरणं व्रजति तम् इति । तम् उक्त-विधम् ईहमानं जीव-कर्मानुगुणं प्रयत्नं निरहद्भूतम् अहङ्कार-रहितः बुधं सर्वज्ञं निराशिषं निरीहं पूर्णम् आत्म-लाभेनेव पूर्णम् अनन्य-चोदितम् अनन्यप्रयं स्वान् स्वानुवर्तिनो भक्त-जनान् शिक्षयन्तं स्व-समानान् आपादयन्तं निजवर्त्म-संस्थितं स्व-स्व-भावं-स्थितं प्रभुं सर्व-शक्तिम् अखिलान् धर्मान् भावयति पालयतीति तम् अहं प्रपद्ये शरणं व्रजामि ॥ १६ ॥

श्लोक-१७

मूलम् (वचनम्)

श्रीशुक उवाच

विश्वास-प्रस्तुतिः

इति मन्त्रोपनिषदं व्याहरन्तं समाहितम्।
दृष्ट्वासुरा यातुधाना जग्धुमभ्यद्रवन् क्षुधा॥

मूलम्

इति मन्त्रोपनिषदं व्याहरन्तं समाहितम्।
दृष्ट्वाऽसुरा यातुधाना जग्धुमभ्यद्रवन् 40क्षुधा॥ १७ ॥

अनुवाद (हिन्दी)

श्रीशुकदेवजी कहते हैं—परीक्षित्! एक बार स्वायम्भुव मनु एकाग्रचित्तसे इस मन्त्रमय उपनिषत् स्वरूप श्रुतिका पाठ कर रहे थे। उन्हें नींदमें अचेत होकर बड़बड़ाते जान भूखे असुर और राक्षस खा डालनेके लिये उनपर टूट पड़े॥ १७॥

वीरराघवः

इति इत्थं मन्त्रात्मिकाम् उपनिषदं व्याहरन्तं जपन्तं समाहित-चित्तं स्वयम्भुवं मनुं दृष्ट्वा असुरा यातु-धानाश् च क्षुधा निमित्तेन जग्धुम् अत्तुम् अभ्यद्रवन् ॥ १७ ॥

श्लोक-१८

विश्वास-प्रस्तुतिः

तांस्तथावसितान् वीक्ष्य यज्ञः सर्वगतो हरिः।
यामैः परिवृतो देवैर्हत्वाशासत् त्रिविष्टपम्॥

मूलम्

तांस्तथावसितान् वीक्ष्य यज्ञः सर्वगतो हरिः।
यामैः परिवृतो देवैर्हत्वाशासत् त्रिविष्टपम्॥

मूलम् - तिरुपदि

तांस्तथाऽवसितान् वीक्ष्य यज्ञस्सर्वगतो हरिः।
यामैः परिवृतो देवैर्हत्वाऽशासत् त्रिविष्टपम्॥ १८ ॥

अनुवाद (हिन्दी)

यह देखकर अन्तर्यामी भगवान् यज्ञपुरुष अपने पुत्र याम नामक देवताओंके साथ वहाँ आये। उन्होंने उन खा डालनेके निश्चयसे आये हुए असुरोंका संहार कर डाला और फिर वे इन्द्रके पदपर प्रतिष्ठित होकर स्वर्गका शासन करने लगे॥ १८॥

वीरराघवः

तथा ऽवसितान् मनुं हन्तु समुन्नद्धांस् तान् असुरान् यातु-धानाश् च दृष्ट्वा सर्व-गतः सर्वान्तरात्मा भगवान् यज्ञाख्यः यामे युगपत् प्रसुते स्व-पुत्र-देवैः परिवृतः तान् हत्वा त्रिविष्टपं स्वर्गम् अशासत् अपालयत् स्वयम् एव इन्द्रो बभूवेत्य् अर्थः । तव प्रतिमन्वन्तरं मन्वादयः षड् अन्ये भवन्ति तथा हि सृता द्वादशे वक्ष्यति - “मन्वन्तरं मनुदेवा मनु-पुत्राः सुरेश्वराः । ऋषयांऽशावताराश् च हरेः षड्विधम् उच्यते” ॥ (भाग १२.७-१५) इति । तत्राद्ये स्वायम्भुवो मनु प्रिय-व्रतोत्तान-पादौ मनु-पुत्रौ, तोष-प्रतोष-सन्तोष-भद्र-शान्तीडस्पतीध्म-कवि-विभु-स्व-हनु-सुदेव-रोचनाख्या द्वादश यज्ञस्य पुत्रा एतत्-प्रभृतयो देवाः, मरीचि-प्रमुखाः सप्तर्षयः, यज्ञो हरेर् अवतार इन्द्रश् च स एव यद्यपि पृथग् इन्द्राभावात् षाड्विध्यं नास्ति, तथा ऽपि अत्र मन्वन्तरे यज्ञो भगवान् एव इन्द्राधिपत्ये जगद्-रक्षणे ऽधिकृतत्वाद् इति तद्-अधिकार-द्वयम् अपेक्ष्य षाड्विध्यम् उपपादनीयम् ॥ १८ ॥

श्लोक-१९

विश्वास-प्रस्तुतिः

स्वारोचिषो द्वितीयस्तु मनुरग्नेः सुतोऽभवत्।
द्युमत्सुषेणरोचिष्मत्प्रमुखास्तस्य चात्मजाः॥

मूलम्

स्वारोचिषो द्वितीयस्तु मनुरग्नेः सुतोऽभवत्।
द्युमत्सुषेणरोचिष्मत्प्रमुखास्तस्य चात्मजाः॥ १९ ॥

अनुवाद (हिन्दी)

परीक्षित्! दूसरे मनु हुए स्वारोचिष। वे अग्निके पुत्र थे। उनके पुत्रोंके नाम थे—द्युमान्, सुषेण और रोचिष्मान् आदि॥ १९॥

वीरराघवः

द्वितीयादिषु त्रिषु मन्वन्तरेषु मन्वादिकम् आह - स्वारोचिष इति । यावद् वज्रेन्द्र-मोक्ष-प्रश्नम् । अग्नेः सुतः स्वारोचिषाख्यो मनुर् द्वितीयो ऽभवत् । द्युमत्-आदयस्- तस्यात्मजाः ॥ १९ ॥

श्लोक-२०

विश्वास-प्रस्तुतिः

तत्रेन्द्रो रोचनस्त्वासीद् देवाश्च तुषितादयः।
ऊर्जस्तम्भादयः सप्त ऋषयो ब्रह्मवादिनः॥

मूलम्

तत्रेन्द्रो रोचन41स्त्वासीद् देवाश्च तुषितादयः।
ऊर्जस्तम्भादयः सप्त ऋषयो ब्रह्मवादिनः॥ २० ॥

अनुवाद (हिन्दी)

उस मन्वन्तरमें इन्द्रका नाम था रोचन, प्रधान देवगण थे तुषित आदि। ऊर्जस्तम्भ आदि वेदवादीगण सप्तर्षि थे॥ २०॥

वीरराघवः

तत्र द्वितीये मन्वन्तरे रोचनो भगवतो यज्ञस्य पुत्र एवेन्द्रो बभूव, देवास् तु तद्-व्यतिरिक्तास् तुषित-संज्ञास् तोषादय एकादश, आदि-शब्दाद् अन्ये च अभवन् ओजः-स्तम्भादयः सप्त ब्रह्म-वादिनो ऋषयो बभूवुः । एवं मन्वादयः पञ्चोक्ताः ॥ २० ॥

श्लोक-२१

विश्वास-प्रस्तुतिः

ऋषेस्तु वेदशिरसस्तुषिता नाम पत्न्यभूत्।
तस्यां जज्ञे ततो देवो विभुरित्यभिविश्रुतः॥

मूलम्

ऋषेस्तु वेदशिरसस्तुषिता नाम पत्न्यभूत्।
तस्यां जज्ञे ततो देवो विभुरित्यभिविश्रुतः॥ २१ ॥

अनुवाद (हिन्दी)

उस मन्वन्तरमें वेदशिरा नामके ऋषिकी पत्नी तुषिता थीं। उनके गर्भसे भगवान‍्ने अवतार ग्रहण किया और विभु नामसे प्रसिद्ध हुए॥ २१॥

वीरराघवः

अथावतारम् आह - ऋषेर् इति । वेद-शिरसः ऋषेस् तुषितेति प्रसिद्धा भार्या बभूव । तस्यां तुषितायां भगवान् देवैः प्रार्थित 42इति शेषः42 । विभुर् इति प्रसिद्धो जज्ञे ॥ २१ ॥

श्लोक-२२

विश्वास-प्रस्तुतिः

अष्टाशीतिसहस्राणि मुनयो ये धृतव्रताः।
अन्वशिक्षन्व्रतं तस्य कौमारब्रह्मचारिणः॥

मूलम्

अष्टाशीतिसहस्राणि मुनयो ये धृतव्रताः।
अन्वशिक्षन्व्रतं तस्य कौमारब्रह्मचारिणः॥ २२ ॥

मूलम् - तिरुपदि

अष्टाशीति सहस्राणि मुनयो ये धृतव्रताः।
अन्वशिक्षन्व्रतं तस्य कौमारब्रह्मचारिणः॥ २२ ॥

अनुवाद (हिन्दी)

वे आजीवन नैष्ठिक ब्रह्मचारी रहे। उन्हींके आचरणसे शिक्षा ग्रहण करके अठासी हजार व्रतनिष्ठ ऋषियोंने भी ब्रह्मचर्यव्रतका पालन किया॥ २२॥

वीरराघवः

विभोर् भगवतो ऽसाधारणं चरित्रम् आह - अष्टाशीतीति । तस्य कौमार-ब्रह्म-चारिणः तस्य विश्वाख्यस्य भगवतो व्रतम् आचारम् अन्वशिक्षन्न् अनुसृतवन्तः ॥ २२ ॥

श्लोक-२३

विश्वास-प्रस्तुतिः

तृतीय उत्तमो नाम प्रियव्रतसुतो मनुः।
पवनः सृञ्जयो यज्ञहोत्राद्यास्तत्सुता नृप॥

मूलम्

तृतीय उत्तमो नाम प्रियव्रतसुतो मनुः।
43पवनः सृञ्जयो यज्ञहोत्राद्यास्तत्सुता नृप॥ २३ ॥

मूलम् - तिरुपदि

तृतीय उत्तमो नाम प्रियव्रतसुतो मनुः।
पवनः सृञ्जयो यज्ञ होत्राद्यास्तत्सुता नृप॥ २३ ॥

अनुवाद (हिन्दी)

तीसरे मनु थे उत्तम। वे प्रियव्रतके पुत्र थे। उनके पुत्रोंके नाम थे—पवन, सृंजय, यज्ञहोत्र आदि॥ २३॥

वीरराघवः

प्रिय-व्रतस्य सुतः उत्तमाख्यस् तृतीयो मनुः, तस्योत्तमस्य मनोः सुताः पवनादयः 44अभवन् ॥ २३ ॥

श्लोक-२४

विश्वास-प्रस्तुतिः

वसिष्ठतनयाः सप्त ऋषयः प्रमदादयः।
सत्या वेदश्रुता भद्रा देवा इन्द्रस्तु सत्यजित्॥

मूलम्

वसिष्ठतनयाः सप्त ऋषयः प्रमदा45दयः।
सत्या 46देवश्रुता भद्रा देवा इन्द्रस्तु सत्यजित्॥ २४ ॥

अनुवाद (हिन्दी)

उस मन्वन्तरमें वसिष्ठजीके प्रमद आदि सात पुत्र सप्तर्षि थे। सत्य, वेदश्रुत और भद्र नामक देवताओंके प्रधान गण थे और इन्द्रका नाम था सत्यजित्॥ २४॥

वीरराघवः

प्रमदादयः वसिष्ठस्य सुताः सप्तर्षयः सत्यादि-47संज्ञिकाः देव-गणाः, इन्द्रस् तु सत्यजिद्-आख्यः ॥ २४ ॥

श्लोक-२५

विश्वास-प्रस्तुतिः

धर्मस्य सूनृतायां तु भगवान् पुरुषोत्तमः।
सत्यसेन इति ख्यातो जातः सत्यव्रतैः सह॥

मूलम्

धर्मस्य सूनृतायां तु भगवान् पुरुषोत्तमः।
सत्यसेन इति ख्यातो जातः सत्यव्रतैः सह॥ २५ ॥

मूलम् - तिरुपदि

धर्मस्य सूनृतायां तु भगवान्पुरुषोत्तमः।
सत्यसेन इति ख्यातो जातः सत्यव्रतैस्सह॥ २५ ॥

अनुवाद (हिन्दी)

उस समय धर्मकी पत्नी सूनृताके गर्भसे पुरुषोत्तमभगवान‍्ने सत्यसेनके नामसे अवतार ग्रहण किया था। उनके साथ सत्यव्रत नामके देवगण भी थे॥ २५॥

वीरराघवः

अवतारम् आह - धर्मस्य सूनृताख्यायां भार्यायां भगवान् पुरुषोत्तमः सत्य-सेनाख्यो जातः, सः सत्य-व्रतादिभिर् देवैः सहितः सत्यजित् इन्द्रस्य सखा भूत्वा यक्ष-राक्षसान् अवधीत् ॥ २५ ॥

श्लोक-२६

विश्वास-प्रस्तुतिः

सोऽनृतव्रतदुःशीलानसतो यक्षराक्षसान्।
भूतद्रुहो भूतगणांस्त्ववधीत् सत्यजित्सखः॥

मूलम्

सोऽनृतव्रतदुःशीलानसतो यक्षराक्षसान्।
भूतद्रुहो भूतगणां48स्त्ववधीत् सत्यजि49त्सखः॥ २६ ॥

अनुवाद (हिन्दी)

उस समयके इन्द्र सत्यजित् के सखा बनकर भगवान‍्ने असत्यपरायण, दुःशील और दुष्ट यक्षों, राक्षसों एवं जीवद्रोही भूतगणोंका संहार किया॥ २६॥

वीरराघवः

तान् विशिनष्टि - इति । अनृतम् एव व्रतं येषां ते दुष्टं शीलं येषां ते दुःशीलाः, ते च ते तान् असतः दुरात्मनः भूतानि द्रुह्यन्तीति तथा तान् ॥ २६ ॥

श्लोक-२७

विश्वास-प्रस्तुतिः

चतुर्थ उत्तमभ्राता मनुर्नाम्ना च तामसः।
पृथुः ख्यातिर्नरः केतुरित्याद्या दश तत्सुताः॥

मूलम्

चतुर्थ उत्तमभ्राता मनुर्नाम्ना50ऽथ ताम51सः।
[^m32]वृषा ख्यातिर्नरः केतुरित्याद्या दश तत्सुताः॥ २७ ॥

अनुवाद (हिन्दी)

चौथे मनुका नाम था तामस। वे तीसरे मनु उत्तमके सगे भाई थे। उनके पृथु, ख्याति, नर, केतु इत्यादि दस पुत्र थे॥ २७॥

वीरराघवः

चतुर्थस् तु मनुर् उत्तमस्य भ्राता प्रिय-व्रत-सुतः, स च नाम्ना तामस इति प्रसिद्धः । वृषादयो दश तस्य तामसस्य मनोः सुताः ॥ २७ ॥

श्लोक-२८

विश्वास-प्रस्तुतिः

सत्यका हरयो वीरा देवास्त्रिशिख ईश्वरः।
ज्योतिर्धामादयः सप्त ऋषयस्तामसेऽन्तरे॥

मूलम्

सत्यका हरयो वीरा देवास्त्रिशिख ईश्वरः।
ज्योति52र्व्योमादयः सप्त ऋषयस्तामसेऽन्तरे॥ २८ ॥

मूलम् - तिरुपदि

सत्यका हरयो वीरा देवास्त्रिशिख ईश्वरः।
ज्योतिर्व्योमादयस्सप्त ऋषयस्तामसेऽन्तरे॥ २८ ॥

अनुवाद (हिन्दी)

सत्यक, हरि और वीर नामक देवताओंके प्रधान गण थे। इन्द्रका नाम था त्रिशिख। उस मन्वन्तरमें ज्योतिर्धाम आदि सप्तर्षि थे॥ २८॥

वीरराघवः

सत्यकादि-संज्ञा देवगणाः, त्रिशिख ईश्वर इन्द्रः ॥ २८ ॥

श्लोक-२९

विश्वास-प्रस्तुतिः

देवा वैधृतयो नाम विधृतेस्तनया नृप।
नष्टाः कालेन यैर्वेदा विधृताः स्वेन तेजसा॥ २९ ॥

मूलम्

देवा वैधृतयो नाम विधृतेस्तनया नृप।
नष्टाः कालेन यैर्वेदा विधृताः स्वेन तेजसा॥ २९ ॥

अनुवाद (हिन्दी)

परीक्षित्! उस तामस नामके मन्वन्तरमें विधृतिके पुत्र वैधृति नामके और भी देवता हुए। उन्होंने समयके फेरसे नष्टप्राय वेदोंको अपनी शक्तिसे बचाया था, इसीलिये ये ‘वैधृति’ कहलाये॥ २९॥

वीरराघवः

अन्यान् अपि विशिष्ट-पराक्रमान् सुरान् आह - देवा इति । हे नृप ! विधृतेस् तनयाः वैधृतय इति प्रसिद्धास् तामसे मन्वन्तरे देवा बभूवुः । तान् विशिनष्टि - यैर् वैधृतिभिः स्वेन तेजसा स्व-बुद्धि-बलेन वेदा विधृताः, कथम्भूताः । कालेन नष्टा विप्लुता अध्येतृ-परम्पराद्य् अभावाद् इति भावः । एवं मन्वादयः पञ्चोक्ताः ॥ २९ ॥

श्लोक-३०

विश्वास-प्रस्तुतिः

तत्रापि जज्ञे भगवान् हरिण्यां हरिमेधसः।
हरिरित्याहृतो येन गजेन्द्रो मोचितो ग्रहात्॥

मूलम्

तत्रापि जज्ञे भगवान् हरिण्यां हरिमेधसः।
हरिरित्याहृतो येन गजेन्द्रो मोचितो ग्रहात्॥ ३० ॥

मूलम् - तिरुपदि

तत्रापि जज्ञे भगवान्हरिण्यां हरिमेधसः।
हरिरित्याहृतो येन गजेन्द्रो मोचितो ग्रहात्॥ ३० ॥

अनुवाद (हिन्दी)

इस मन्वन्तरमें हरिमेधा ऋषिकी पत्नी हरिणीके गर्भसे हरिके रूपमें भगवान‍्ने अवतार ग्रहण किया। इसी अवतारमें उन्होंने ग्राहसे गजेन्द्रकी रक्षा की थी॥ ३०॥

वीरराघवः

अवतारम् आह - तत्रापीति । चतुर्थे ऽपि मन्वन्तरे हरिमेधसो भर्तुर् हरिण्यां भार्यायां भगवान् हरिर् इत्याहृत् व्याहृत् ह्य् आख्यो जज्ञे प्रश्नावसरं प्रयच्छन् तं विशिनष्टि - येन हरि-नाम्ना भगवता ग्रहात् मकरात् गजेन्द्रो मोचितः ॥ ३० ॥

श्लोक-३१

मूलम् (वचनम्)

53परिक्षिदुवाच53

विश्वास-प्रस्तुतिः

बादरायण एतत् ते श्रोतुमिच्छामहे वयम्।
हरिर्यथा गजपतिं ग्राहग्रस्तममूमुचत्॥

मूलम्

बादरायण एतत् ते श्रोतुमिच्छामहे वयम्।
हरिर्यथा गजपतिं ग्राहग्रस्तममूमुचत्॥ ३१ ॥

अनुवाद (हिन्दी)

राजा परीक्षित् ने पूछा—मुनिवर! हम आपसे यह सुनना चाहते हैं कि भगवान‍्ने गजेन्द्रको ग्राहके फंदेसे कैसे छुड़ाया था॥ ३१॥

वीरराघवः

लब्धावसरः पृच्छति राज्ञा - बादरायण इति । हे बादरायणे ! वयं मतच् श्रोतुम् इच्छामहे । किन्तत् ? हर्याख्यो भगवान् यथा ग्राह-ग्रस्तं गजेन्द्रम् अमुमुचत् मोचयामासेत्य् एतत् ॥ ३१ ॥

श्लोक-३२

विश्वास-प्रस्तुतिः

तत्कथा सुमहत् पुण्यं धन्यं स्वस्त्ययनं शुभम्।
यत्र यत्रोत्तमश्लोको भगवान् गीयते हरिः॥

मूलम्

54तत्कथा सुमहत् पुण्यं54 धन्यं स्वस्त्यय55नं 56शुभम्।
यत्र यत्रोत्तमश्लोको भगवान् गीयते हरिः॥ ३२ ॥

अनुवाद (हिन्दी)

सब कथाओंमें वही कथा परम पुण्यमय, प्रशंसनीय, मंगलकारी और शुभ है, जिसमें महात्माओंके द्वारा गान किये हुए भगवान् श्रीहरिके पवित्र यशका वर्णन रहता है॥ ३२॥

वीरराघवः

श्रवणेच्छायां हेतुं वदन् पृष्टं विशिनष्टि - तद् इति । तन् मया पृष्टं गजेन्द्र-मोक्षण-रूपं हरेश् चरित्रं कथासु मध्ये महत्-पुण्यम् । यद् वा तत्-कथा गजेन्द्र-मोक्षण-रूपा मया पृष्टा कथा सुमहत्-पुण्यं महा-पुण्यावहं महच्-शब्दस्य आत्वाभाव आर्षः । सामान्याभिप्रायेण प्रतिनिर्देशः नपुंसक-निर्देशः । धन्यं धनावहं कृतार्थत्वावहं वा, स्वस्त्ययनं शुभावहम् ! अत एव महत् गुणवत्तमं पुण्यत्वादिकं श्रवण-पठन-द्वारेत्य् अवगन्तव्यम् । पुण्यत्वादौ हेतुम् आह - यत्रेति । यासु यासु कथासु हरिर् आश्रिताघ-हरो भगवान् गीयते सा सा कथा पुण्यादि-गुण-युक्ता हीत्य् अर्थः । यद् वा - यत्र यत्र कथायां हरिर् गीयते सा सा पुण्यादि-गुण-युक्ता । अतो गजेन्द्र-मोक्ष-कथायाम् अपि हरिर् गीयते एवेति सा ऽपि पुण्यावहा । अतस् ताम् अपि शुश्रूषितां कथयेत्य् अर्थः ॥ ३२ ॥

श्लोक-३३

मूलम् (वचनम्)

57सूत उवाच

विश्वास-प्रस्तुतिः

परीक्षितैवं स तु बादरायणिः
प्रायोपविष्टेन कथासु चोदितः।
उवाच विप्राः प्रतिनन्द्य पार्थिवं
मुदा मुनीनां सदसि स्म शृण्वताम्॥

मूलम्

परीक्षितैवं स तु बादरायणिः प्रायोपविष्टेन कथासु चोदितः।
उवाच विप्राः प्रतिनन्द्य पार्थिवं मुदा मुनीनां सदसि स्म शृण्वताम्॥ ३३ ॥

अनुवाद (हिन्दी)

सूतजी कहते हैं—शौनकादि ऋषियो! राजा परीक्षित् आमरण अनशन करके कथा सुननेके लिये ही बैठे हुए थे। उन्होंने जब श्रीशुकदेवजी महाराजको इस प्रकार कथा कहनेके लिये प्रेरित किया, तब वे बड़े आनन्दित हुए और प्रेमसे परीक्षित् का अभिनन्दन करके मुनियोंकी भरी सभामें कहने लगे॥ ३३॥

अनुवाद (समाप्ति)

इति श्रीमद‍्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे मन्वन्तरानुचरिते प्रथमोऽध्यायः॥ १ ॥

वीरराघवः

एवम् आपृष्ट-गजेन्द्र-मोक्ष-कथां भगवान् बादरायणिः मां कथयाम् आसेत्य् आह सूतः - परीक्षितेति । हे विप्राः ! प्रायोपविष्टेन परीक्षिता राज्ञा कथासु हरि-कथा-कथने चोदितः प्रवर्तितः स बादरायणिः व्यास-पुत्रः एवम् इत्थं, पृष्ट इति शेषः । प्रार्थितं परीक्षितं प्रतिनन्द्य, अहो साधु पृष्टम् इत्य् अभिनन्द्य सदसि सभायां मुनीनां शृण्वतां स ताम् उवाच, पृष्टां, कथाम् इति शेषः ॥ ३३ ॥

इति श्रीमद्-भागवते अष्टम-स्कन्धे श्री-वीर-राघव-विदुषा लिखितायां भागवत-चन्द्र-चन्द्रिकायां व्याख्यायां प्रथमो ऽध्यायः ॥ १ ॥


  1. H,V विष्णुरात उवाच ↩︎

  2. M,Ma मना ↩︎

  3. A,B,J “पाद स” ↩︎

  4. A,B,J “षु व” ↩︎

  5. M,Ma मन्वन्तरे ↩︎

  6. A,B,G,J,M,Ma यद्यस्मिन्नन्तरे ↩︎ ↩︎

  7. A,B,G,J,M,Ma,T ऋषि ↩︎

  8. A,B,G,J,M,Ma,T स्ते ↩︎

  9. A,B,Tयंत्र देवादीना सम्भवश्च । ↩︎ ↩︎

  10. W मूर्तिभ्यां पुत्रतां प्राप्तो भगवान् स महेश्वरः ↩︎ ↩︎

  11. T Omit सर्वेश्वरो ↩︎

  12. A,B,T लयज्ञरूपाभ्यां ↩︎ ↩︎

  13. W शुभ त्वयाः ↩︎ ↩︎

  14. H,V वर्णनम् ↩︎

  15. A,B,T Omit अनुवर्णित ↩︎

  16. W Omit ↩︎ ↩︎

  17. W थन ↩︎

  18. A,B,T रन्तर ↩︎

  19. M,Ma “माह स । ↩︎

  20. An additional half verse is found in H,V ends as follows - वासुदेवा वसत्यष मव दहष्यनन्यदृक ↩︎

  21. M,Ma येनाय तपत ↩︎ ↩︎

  22. M,Ma विश्ववीर्य यतस्तप ↩︎ ↩︎

  23. W omit ↩︎ ↩︎

  24. A,B,J कृत्स्न ↩︎ ↩︎

  25. A,B,T स्वात्माय ↩︎

  26. A,B,I ‘तन्यान्य’ ↩︎

  27. A,B,I एव ↩︎

  28. A,B,G,J,M,Ma,T विश्वं ↩︎

  29. A,B,I पठयति ↩︎

  30. M,Ma यन्न ↩︎

  31. M,Ma न्ति ↩︎

  32. A,B,I add इति ↩︎

  33. A,B,G,H न यस्याद्यन्तौ मध्यं च, M,Ma यस्याद्यन्तौ न मध्यं च ↩︎ ↩︎

  34. A,B,G,J,T सत्यः स्वयंज्योतिरजः, M,Ma सत्यः परज्योतिरजः ↩︎ ↩︎

  35. W Omit शब्द ↩︎

  36. H,V कर्मणी ↩︎

  37. A,B,G,J,T,M,Ma,I नो हि ↩︎

  38. M,Ma बुधे ↩︎

  39. M,Ma नृृच्छि, W न्यन् शि ↩︎

  40. M,Ma क्रुधा ↩︎

  41. M,Ma श्रा ↩︎

  42. W Omits ↩︎ ↩︎

  43. H,V पा ↩︎

  44. W Omits अभुवन् ↩︎

  45. H,V था ↩︎

  46. A,B,G,J,M,Ma,T वेद ↩︎

  47. A,B,T मज्ञिका ↩︎

  48. A,B,G,J,M,Ma,T स्त्वव ↩︎

  49. M,Ma त्मृत ↩︎

  50. M,Ma प ↩︎

  51. A,B,G,J,T पृथुः M‚Ma वृष ↩︎

  52. A,B,G,J,T र्धामाद, M,Ma र्धानाद ↩︎

  53. A,B,G,J,M,Ma,T राजोवाच ↩︎ ↩︎

  54. M,Ma तत्कथास्सुमहा पुण्या धन्या ↩︎ ↩︎

  55. M,Ma ना ↩︎

  56. H,V शिवम् W महत, M,Ma शुभा । ↩︎

  57. W श्रीशुक ↩︎