[पञ्चदशोऽध्यायः]
भागसूचना
गृहस्थोंके लिये मोक्षधर्मका वर्णन
श्लोक-१
मूलम् (वचनम्)
नारद उवाच
विश्वास-प्रस्तुतिः
कर्मनिष्ठा द्विजाः केचित् तपोनिष्ठा नृपापरे।
स्वाध्यायेऽन्ये प्रवचने ये केचिज्ज्ञानयोगयोः॥
मूलम्
कर्मनिष्ठा द्विजाः केचित्तपोनिष्ठा नृपाऽपरे।
स्वाध्या1यने प्रवचने 2ह्यन्ये च ज्ञान2योगयोः॥ १ ॥
अनुवाद (हिन्दी)
नारदजी कहते हैं—युधिष्ठिर! कुछ ब्राह्मणोंकी निष्ठा कर्ममें, कुछकी तपस्यामें, कुछकी वेदोंके स्वाध्याय और प्रवचनमें, कुछकी आत्मज्ञानके सम्पादनमें तथा कुछकी योगमें होती है॥ १॥
वीरराघवः
तपसा विद्ययेत्यादिना ब्राह्मणेष्वपि तप आदिगुण तारतम्येन पात्रत्वं तारतम्येन व्यवस्थितमिति सूचितम् । 3तदेव विवृण्वन् सुपात्रायैव श्राद्धादिष्वन्नादिकं दद्यादिति वदन्नन्यानपि श्राद्धीयनियमानाह देवर्षिः कर्मनिष्ठा इत्यादिना । हे नृप ! केचिद्द्विजाः त्रैवर्णिकाः कर्मनिष्ठाः स्ववर्णाश्रमोचितकर्मनिष्ठाः । केचिच्च अनशनादितपोनिष्ठाः, केचित् स्वाध्याये प्रवचने अध्यापने च परिनिष्ठिताः । केचिच्च ज्ञानयोगयोरुभयोरपि, निष्ठिता इति शेषः । ज्ञानमात्मयाथाम्यज्ञानपूर्वकं भगवदुपासनात्मकम् । यागोऽनभिसंहितफलकर्मयोगः ॥ १ ॥
श्लोक-२
विश्वास-प्रस्तुतिः
ज्ञाननिष्ठाय देयानि कव्यान्यानन्त्यमिच्छता।
दैवे च तदभावे स्यादितरेभ्यो यथार्हतः॥
मूलम्
ज्ञाननिष्ठाय देयानि कव्यान्यानन्त्यमिच्छता।
दैवे च तदभावे स्यात् इतरेभ्यो यथाऽर्हतः॥ २ ॥
अनुवाद (हिन्दी)
गृहस्थ पुरुषको चाहिये कि श्राद्ध अथवा देवपूजाके अवसरपर अपने कर्मका अक्षय फल प्राप्त करनेके लिये ज्ञाननिष्ठ पुरुषको ही हव्य-कव्यका दान करे। यदि वह न मिले तो योगी, प्रवचनकार आदिको यथायोग्य और यथाक्रम देना चाहिये॥ २॥
वीरराघवः
तत्र ज्ञाननिष्ठाय ज्ञानकर्मयोगानुगृहीतभगवदुपासनात्मकज्ञानयोगनिष्ठाय पितृृनुद्दिश्य देयानि कव्यानि श्राद्धान्नादीनि आनन्त्यमपरिमितं फलं मोक्षरूपं फलमिच्छतां पुंसां देयानि । तथा दैवे च कर्मणि हव्यान्यपि ज्ञाननिष्ठायैव देयानि । तदभावे ज्ञाननिष्ठ4स्याऽलाभे इतरेभ्यः कर्मनिष्ठादिभ्योऽपि यथायोग्यं ज्ञानादितारतम्येन 5देयानि ॥ २ ॥
श्लोक-३
विश्वास-प्रस्तुतिः
द्वौ दैवे पितृकार्ये त्रीनेकैकमुभयत्र वा।
भोजयेत् सुसमृद्धोऽपि श्राद्धे कुर्यान्न विस्तरम्॥
मूलम्
द्वौ दैवे पितृकार्ये त्रीनेकैकमुभयत्र वा।
भोजयेत्सुसमृद्धोऽपि श्राद्धे कुर्यान्नविस्तरम्॥ ३ ॥
Misc Detail
देवकार्यमें दो और पितृकार्यमें तीन अथवा दोनोंमें एक-एक ब्राह्मणको भोजन कराना चाहिये। अत्यन्त धनी होनेपर भी श्राद्धकर्ममें अधिक विस्तार नहीं करना चाहिये॥ ३॥
वीरराघवः
दैवे विश्वेदेवस्थाने द्वौ ब्राह्मणौ पितृकार्ये पितृप्रयोजने, पित्रर्थमिति यावत् । त्रीन् ब्राह्मणानुभयत्र द्वयोरपि स्थानयोरेकैकं वा ब्राह्मणं भोजयेत् । सुसमृद्धोऽपि धनाढ्योऽपि एवं ब्राह्मणान् भोजयेत्, न तु श्राद्धे विस्तरं कुर्यात् ॥ ३ ॥
श्लोक-४
विश्वास-प्रस्तुतिः
देशकालोचितश्रद्धाद्रव्यपात्रार्हणानि च।
सम्यग् भवन्ति नैतानि विस्तरात् स्वजनार्पणात्॥
मूलम्
देशकालोचितश्रद्धा द्रव्यपात्रार्हणानि च।
सम्यग्भवन्ति नैतानि विस्तरात्स्वजनार्पणात्॥ ४ ॥
अनुवाद (हिन्दी)
क्योंकि सगे-सम्बन्धी आदि स्वजनोंको देनेसे और विस्तार करनेसे देश-कालोचित श्रद्धा, पदार्थ, पात्र और पूजन आदि ठीक-ठीक नहीं हो पाते॥ ४॥
वीरराघवः
6श्राद्धे विस्तराद्दोषमाह - देशेति । देशकालपात्राणि यथोक्तान्येव । उचिता श्रद्धा विश्वासः, कर्तव्यविषयात्वरा वा, अर्हणं पूजासाधनं तानि समीचीनान्यपि स्वजनार्पणाद्विस्तारान्नसम्यग्भवन्ति, विगुणा7न्येव स्युरित्यर्थः । ननु कुतो विस्तरः प्राप्तः येन निषिध्यते - इति शङ्कां वारयितुं स्वजनार्पणात् इत्युक्तम् स्वजनानामर्पणात् दौहित्रो निमन्त्रितश्चेत् तत्पुत्रादयः कथं वर्ज्या इत्याद्येवम्प्राप्ताद्विस्तरादित्यर्थः ॥ ४ ॥
श्लोक-५
विश्वास-प्रस्तुतिः
देशे काले च सम्प्राप्ते मुन्यन्नं हरिदैवतम्।
श्रद्धया विधिवत् पात्रे न्यस्तं कामधुगक्षयम्॥
मूलम्
देशे काले च सम्प्रा8प्ते मुन्यन्यं8 हरिदैवतम्।
श्रद्धया विधिवत्पाप्ते न्यस्तं कामधुगक्षयम्॥ ५ ॥
अनुवाद (हिन्दी)
देश और कालके प्राप्त होनेपर ऋषि-मुनियोंके भोजन करनेयोग्य शुद्ध हविष्यान्न भगवान्को भोग लगाकर श्रद्धासे विधिपूर्वक योग्य पात्रको देना चाहिये। वह समस्त कामनाओंको पूर्ण करनेवाला और अक्षय होता है॥ ५॥
वीरराघवः
श्राद्धे विष्वर्थमपि ब्राह्मणं भोजयेदित्याह - देशइति । देशे पूर्वोक्ते, कालेऽपरपक्षादिरूपं मृताहादिरूपे च काले प्राप्ते कर्तव्यत्वेन प्राप्ते श्राद्धे पात्रे सत्पात्रे विधिवच्छ्रद्धया न्यस्तं मुन्यन्नमारण्यं व्रीह्यादिजमप्यन्नं कामधुक् कामदमक्षयफलदं मुक्तिसाधनञ्चेत्यर्थः ॥ ५ ॥
श्लोक-६
विश्वास-प्रस्तुतिः
देवर्षिपितृभूतेभ्य आत्मने स्वजनाय च।
अन्नं संविभजन्पश्येत् सर्वं तत् पुरुषात्मकम्॥
अनुवाद (हिन्दी)
देवता, ऋषि, पितर, अन्य प्राणी, स्वजन और अपने-आपको भी अन्नका विभाजन करनेके समय परमात्मस्वरूप ही देखे॥ ६॥
वीरराघवः
सर्वाश्रमसाधारणान् कांश्चिद्धर्मानाह - देवर्षीति । देवादिभ्य आत्मने स्वजनाय बन्धुजनाय चाऽन्नं विभजेत् विभज्य दद्यात् । तद्देवादिकं सर्वं प्राणिजातं पुरुषात्मकं भगवदात्मकं पश्येत् ॥ ६ ॥
श्लोक-७
विश्वास-प्रस्तुतिः
न दद्यादामिषं श्राद्धे न चाद्याद् धर्मतत्त्ववित्।
मुन्यन्नैः स्यात्परा प्रीतिर्यथा न पशुहिंसया॥
मूलम्
न दद्यादामिषं श्राद्धे न चाद्याद्धर्मतत्त्ववित्।
10मुन्यन्ने स्यात्पराप्रीतिः यथा न पशुहिंसया॥ ७ ॥
अनुवाद (हिन्दी)
धर्मका मर्म जाननेवाला पुरुष श्राद्धमें मांसका अर्पण न करे और न स्वयं ही उसे खाय; क्योंकि पितरोंको ऋषि-मुनियोंके योग्य हविष्यान्नसे जैसी प्रसन्नता होती है, वैसी पशु-हिंसासे नहीं होती॥ ७॥
वीरराघवः
आमिषं मांसं श्राद्धे पित्राद्युद्देशेन न दद्यात् । इदं क्षत्रियाभिप्रायकम् । 11धर्मयाथात्म्यवित् स्वयमप्यामिषं 12नाद्यात् नाऽश्नीयात् । यथा मुन्यन्नैरपि परा उत्कृष्टा पित्रादीनां प्रीतिः स्यात्, तथा पशुहिंसया न स्यात् ॥ ७ ॥
श्लोक-८
विश्वास-प्रस्तुतिः
नैतादृशः परो धर्मो नृणां सद्धर्ममिच्छताम्।
न्यासो दण्डस्य भूतेषु मनोवाक्कायजस्य यः॥
मूलम्
नैतादृशः परो धर्मो नृणां सद्धर्ममिच्छताम्।
न्यासो दण्डस्य भूतेषु मनोवाक्कायजस्य यः॥ ८ ॥
अनुवाद (हिन्दी)
जो लोग सद्धर्मपालनकी अभिलाषा रखते हैं, उनके लिये इससे बढ़कर और कोई धर्म नहीं है कि किसी भी प्राणीको मन, वाणी और शरीरसे किसी प्रकारका कष्ट न दिया जाय॥ ८॥
वीरराघवः
किञ्च । सद्धर्ममिच्छतां नृणामेतादृश एव पर उत्कृष्टो धर्मः । कोऽसौ ? यो भूतेषु मनोवाक्कायजस्य दण्डस्य न्यासस्त्यागः करणत्रयेण भूतद्रोहाभाव एव नृणां परो धर्म इत्यर्थः । एतादृशः अन्यः परो धर्मो नास्तीति भावः । न दद्यादामिषमित्यनेन पशुमृगादिहिंसागर्भमांसादिद्रव्यकश्राद्धादेरपि मुन्यन्नेनापि कृतं श्राद्धादिकं नितरां पित्रादीनां प्रीतिकृदित्युक्तम् । नैतादृश इत्यनेन भूतहितमेवोत्कृष्टधर्म इत्यु13क्तम् ॥ ८ ॥
श्लोक-९
विश्वास-प्रस्तुतिः
एके कर्ममयान् यज्ञान् ज्ञानिनो यज्ञवित्तमाः।
आत्मसंयमनेऽनीहा जुह्वति ज्ञानदीपिते॥
मूलम्
एके कर्ममयान् यज्ञान् ज्ञानिनो यज्ञवित्तमाः।
आत्मसंयमनेऽनीहा जुह्वति ज्ञानदीपिते॥ ९ ॥
अनुवाद (हिन्दी)
इसीसे कोई-कोई यज्ञतत्त्वको जाननेवाले ज्ञानी ज्ञानके द्वारा प्रज्वलित आत्मसंयमरूप अग्निमें इन कर्ममय यज्ञोंका हवन कर देते हैं और बाह्य कर्म-कलापोंसे उपरत हो जाते हैं॥ ९॥
वीरराघवः
यत 14एव केचिज्ज्ञाननिष्ठा हिंसागर्भद्रव्ययज्ञान् जहति, ज्ञाननिष्ठाश्च भवन्तीत्याह - एक इति । यज्ञवित्तमा यज्ञयाथाम्त्यविदः अनीहा निष्कामाः केचित् ज्ञानिनः पूर्वोक्तोत्कृष्टधर्मज्ञानवन्तः कर्ममयान् यज्ञान् पशुपुरोडाशादि द्रव्यकान् यज्ञान् ज्ञानदीपिते आत्मसंयमने जुह्वति, ज्ञानेन परमात्मोपासनात्मकेन दीपिते प्रज्वलिते आत्मनो मनसः सं15यमनो नियमस्तस्मिन् योगाग्नावित्यर्थः । तत्रजुह्वति । “तस्यैवं विदुषो यज्ञस्याऽऽत्मा यजमानः, श्रद्धा पत्नी शरीरमिध्ममुरो वेदि मालोमानि बर्हिः” (म.ना. 3-18-1) इत्यादि पुरुषविद्योक्तविधया क्रियामयान् यज्ञान् हित्वा ज्ञानमयान् यज्ञान् अनुतिष्ठन्तीत्यर्थः ॥ ९ ॥
श्लोक-१०
विश्वास-प्रस्तुतिः
द्रव्ययज्ञैर्यक्ष्यमाणं दृष्ट्वा भूतानि बिभ्यति।
एष माकरुणो हन्यादतज्ज्ञो ह्यसुतृब् ध्रुवम्॥
मूलम्
द्रव्ययज्ञैर्यक्ष्य16माणान् दृष्ट्वा भूतानि बिभ्यति।
एष माऽकरुणो हन्यादतज्ज्ञो ह्यसुतृब्ध्रुवम्॥ १० ॥
अनुवाद (हिन्दी)
जब कोई इन द्रव्यमय यज्ञोंसे यजन करना चाहता है, तब सभी प्राणी डर जाते हैं; वे सोचने लगते हैं कि यह अपने प्राणोंका पोषण करनेवाला निर्दयी मूर्ख मुझे अवश्य मार डालेगा॥ १०॥
वीरराघवः
एवं जुह्वतामयं भाव इत्याह - द्रव्ययज्ञा इति द्रव्ययज्ञैः पशुपुरोडाशादियज्ञैः यक्ष्यमाणं दृष्ट्वा भूतानि पश्वादीनि एष यक्ष्यमाणो निर्घृणोऽज्ञश्चासुतृप् अस्माकमसुभिः तृप्यतीति तादृशः मां ध्रुवं हन्यादिति बिभ्यतीत्यशयेन द्रव्ययज्ञान् हित्वा ज्ञानयज्ञाननुतिष्ठन्तीत्यर्थः ॥ १० ॥
श्लोक-११
विश्वास-प्रस्तुतिः
तस्माद् दैवोपपन्नेन मुन्यन्नेनापि धर्मवित्।
सन्तुष्टोऽहरहः कुर्यान्नित्यनैमित्तिकीः क्रियाः॥
मूलम्
तस्माद्दैवोपपन्नेन मुन्यन्ने17नाऽपि धर्मवित्।
सन्तुष्टोऽहरहः कुर्यान्नित्यनैमि18त्तिकाः क्रियाः॥ ११ ॥
अनुवाद (हिन्दी)
इसलिये धर्मज्ञ मनुष्यको यही उचित है कि प्रतिदिन प्रारब्धके द्वारा प्राप्त मुनिजनोचित हविष्यान्नसे ही अपने नित्य और नैमित्तिक कर्म करे तथा उसीसे सर्वदा सन्तुष्ट रहे॥ ११॥
वीरराघवः
तस्मात्पूर्वोक्तभूतसुहृत्त्वरूपोत्कृष्टधर्मवित्पुमान् दैवादुपनतेन मुन्यन्नेनापि, न तु मांसादिना अहरहः नित्यनैमित्तिकाश्च क्रियाः सन्तुष्टः कुर्यात् । यद्यप्यत्र “मुन्यन्नैः स्यात्परा प्रीतिस्तथा न पशुहिंसया” (भाग 7-15-7) इत्यनेन “द्रव्ययज्ञैर्यक्ष्यमाणम्” (भाग 7-15-10) इत्यनेन च मांसश्राद्धाग्नीषोमीयादि कर्मणां हिंसागर्भत्वेन पापमिश्रत्वं प्रतीयते । तच्च “अशुद्धमिति चेन्न शब्दात्” (ब्र.सू. 3-1-25) इति शारीरकाधिकरणन्यायविरुद्धम् । तत्र ह्यग्नीषोमीयादिकर्मणां पशुहिंसादिरूप19पापमिश्रत्वेनाऽशुद्धियुक्तत्वं परिचोद्य, नैतद्युक्तम् कुतः ? शब्दात् अग्नीषोमीयादेः संज्ञपनस्य स्वर्गलोकप्रीतिहेतुतया हिंसात्वाभावशब्दात्पशोर्हि संज्ञपननिमित्तां स्वर्गलोकप्राप्तिं वदन्तं शब्दमामनन्ति “हिरण्यशरीरं ऊर्ध्वं स्वर्गं लोकमेति” इत्यादिकमतिशयिताभ्युदयसाधनभूतो व्यापारोऽल्पदुःखदोऽपि न हिंसा, प्रत्युत रक्षणमेव । तथा च मन्त्रवर्णः “न वा उ वैतत्प्रयासेन रिष्यसि देवा इदेषी पथिभि सुगेभिः यत्र यान्ति सुकृतो नापि दुष्कृतस्तत्रत्वादेवः सविता दधातु” इति चिकित्सितञ्च । तादात्विकाल्पदुःखकारिणमपि रक्षकमेव वदन्ति पूजयन्ति च तज्ज्ञा इति हिंसात्वाभावस्सिद्धान्तितः । तथाऽप्यत्र हिंसागर्भत्वमात्रे पश्वादिहिंसायाश्च सर्वभूतसुहृदां ज्ञानिनामननुरूपत्वे च तात्पर्यं, न तु यागीयहिंसायाः पापत्वेऽपि । अत एव केवलं भूतानि बिभ्यतीत्येतावदेवोक्तं, न तु तद्धिंसायाः पापत्वमपीत्यतो न शारीरकन्यायविरोधः ॥ ११ ॥
श्लोक-१२
विश्वास-प्रस्तुतिः
विधर्मः परधर्मश्च आभास उपमा छलः।
अधर्मशाखाः पञ्चेमा धर्मज्ञोऽधर्मवत् त्यजेत्॥
मूलम्
विधर्मः परध20र्मश्चाऽप्याभास उपमा छलः।
अधर्मशाखाः पञ्चेमा धर्मज्ञोऽधर्मवत्त्यजेत्॥ १२ ॥
अनुवाद (हिन्दी)
अधर्मकी पाँच शाखाएँ हैं—विधर्म, परधर्म, आभास, उपमा और छल। धर्मज्ञ पुरुष अधर्मके समान ही इनका भी त्याग कर दे॥ १२॥
वीरराघवः
तदेवं प्रातिस्विकान् साधारणांश्च वर्णाश्रमधर्मानभिधाय, अथ तेषां धर्माभासेभ्यो विवक्तत्वज्ञापनाय तान् सङ्गृह्य दर्शयन् तेषां त्याज्यत्वमाह - विधर्म इति । विधर्मादयः 21पञ्चैते धर्माभासा अधर्मस्य वृक्षरूपस्य शाखाः शाखाभूताः । ततस्तान् धर्मयाथात्म्यवित् अधर्मवत् त्यजेत् ॥ १२ ॥
श्लोक-१३
विश्वास-प्रस्तुतिः
धर्मबाधो विधर्मः स्यात् परधर्मोऽन्यचोदितः।
उपधर्मस्तु पाखण्डो दम्भो वा शब्दभिच्छलः॥
अनुवाद (हिन्दी)
जिस कार्यको धर्मबुद्धिसे करनेपर भी अपने धर्ममें बाधा पड़े, वह ‘विधर्म’ है। किसी अन्यके द्वारा अन्य पुरुषके लिये उपदेश किया हुआ धर्म ‘परधर्म’ है। पाखण्ड या दम्भका नाम ‘उपधर्म’ अथवा ‘उपमा’ है। शास्त्रके वचनोंका दूसरे प्रकारका अर्थ कर देना ‘छल’ है॥ १३॥
वीरराघवः
विधर्मादीन् पञ्च व्याचष्टे - धर्मबाध इति । धर्मबुद्ध्या यस्मिन् क्रियमाणे स्वधर्मबाधः स्यात् स विधर्म इत्यर्थः । अन्यस्य क्षत्रियादेश्चोदितो विहितो धर्मः स ब्राह्मणादेः परधर्मः । उपधर्म इति पाषण्डः वेदविरुद्धागमोक्तः दम्भो वा परवञ्चनार्थो वा उपधर्म इत्यर्थः । छलं व्याचष्टे शब्दभिच्छल इति । शब्दस्य प्रमापकस्य भित् अन्यथा व्याख्यानं यस्मिन् । यद्वा द्वादशावरान् भोजयेदित्युक्ते द्वादशसंख्याकेभ्योऽवरान् एकादश दश वेत्यादि । शब्दभृदिति पाठे धर्मशब्दमात्रं बिभर्तीति तथा यथा गां दद्यादित्युक्ते मरिष्यन्त्या गोर्दान24मिति ॥ १३ ॥
श्लोक-१४
विश्वास-प्रस्तुतिः
यस्त्विच्छया कृतः पुम्भिराभासो ह्याश्रमात् पृथक्।
स्वभावविहितो धर्मः कस्य नेष्टः प्रशान्तये॥
मूलम्
25यस्त्विच्छया कृतः पुम्भिराभासो ह्या26श्रमः पृथक्।
स्वभावविहितो धर्मः 27कल्पतेऽस्यो27पशान्तये॥ १४ ॥
अनुवाद (हिन्दी)
मनुष्य अपने आश्रमके विपरीत स्वेच्छासे जिसे धर्म मान लेता है, वह ‘आभास’ है। अपने-अपने स्वभावके अनुकूल जो वर्णाश्रमोचित धर्म हैं, वे भला किसे शान्ति नहीं देते॥ १४॥
वीरराघवः
आभासं व्याचष्टे - यस्त्विति पुम्भिः स्वेच्छया पृथक् चतुर्भ्यः आश्रमेभ्यः पृथक्कल्पितः आश्रमोऽवधूतादिः स्वधर्मानुष्ठानानन्तरमपि, धर्मभूयस्त्वार्थमपि परधर्मो नाऽनुष्ठेयोऽनुपयोगादित्याह - स्वभावेति । स्वभावेन 28विहितः ब्राह्मणादिस्वभावानुगुण्येनाऽभिहित इज्यादिरूपः, स एवास्योपशान्तये मनःप्रशान्तये कल्पते, अतो न परधर्मस्योपयोग इत्यर्थः ॥ १४ ॥
श्लोक-१५
विश्वास-प्रस्तुतिः
धर्मार्थमपि नेहेत यात्रार्थं वाधनो धनम्।
अनीहानीहमानस्य महाहेरिव वृत्तिदा॥
मूलम्
धर्मार्थमपि नेहेत यात्रार्थं वाऽधनो धनम्।
अनीहानीहमानस्य महाहेरिव वृत्तिदा॥ १५ ॥
अनुवाद (हिन्दी)
धर्मात्मा पुरुष निर्धन होनेपर भी धर्मके लिये अथवा शरीर-निर्वाहके लिये धन प्राप्त करनेकी चेष्टा न करे। क्योंकि जैसे बिना किसी प्रकारकी चेष्टा किये अजगरकी जीविका चलती ही है, वैसे ही निवृत्तिपरायण पुरुषकी निवृत्ति ही उसकी जीविकाका निर्वाह कर देती है॥ १५॥
वीरराघवः
एवं भगवदुपासनाङ्गभूतावर्णाश्रमधर्मा उक्ताः । अथ प्रधानभूतभगवदुपासनात्मकाष्टाङ्गयुक्तभक्तियोगानुष्ठानप्रकारं वक्ष्यन् तावत्तद्विरोधिनां कामक्रोधलोभभयशोकमोहदम्भतापत्रयनिद्रादीनां जयोपायानाह - धर्मार्थमपीत्यादिना, “पूर्तमिष्टं तथा सत्” इत्यन्तेन । तत्र तावदसन्तोषस्य लोभात्मकस्यानर्थावहत्वं तन्निमित्ताया धनलिप्सायास्त्याज्यत्वञ्च वक्तुं दैवादुपनते नैव द्रव्येण स्वधर्मं देहधारणञ्च कुर्यात्, न तु तदर्थं धनं कामयेतेत्याह - धर्मार्थमिति । अधनो निर्धनः पुमान् स्वधर्मार्थमपि यात्रार्थं देहधारणार्थमपि वा धनं वित्तं नेहेत न कामयेत । यत्रार्थमपि नेहेतेत्येतत्प्रपञ्चयति - अनीहेति सार्धेष्वभिः । महाहेरिव अनीहमानस्य यात्रार्थं धनार्थ29मपि चेष्टामकुर्वतः दैवोपनतेन प्राणान् धारयमाणस्येत्यर्थः । अनीहाऽकामना एव वृत्तिदा जीवनावहा दैवादुपनतेन जीवतोऽकामयमानस्याऽकामनैव नितरां सुखजननद्वारा वृत्तिदेति भावः ॥ १५ ॥
श्लोक-१६
विश्वास-प्रस्तुतिः
सन्तुष्टस्य निरीहस्य स्वात्मारामस्य यत् सुखम्।
कुतस्तत् कामलोभेन धावतोऽर्थेहया दिशः॥
मूलम्
सन्तुष्टस्य निरीहस्य स्वात्मारामस्य यत्सुखम्।
कुतस्तत्कामलोभेन धावतोऽर्थेहया दिशः॥ १६ ॥
अनुवाद (हिन्दी)
जो सुख अपनी आत्मामें रमण करनेवाले निष्क्रिय सन्तोषी पुरुषको मिलता है, वह उस मनुष्यको भला कैसे मिल सकता है, जो कामना और लोभसे धनके लिये हाय-हाय करता हुआ इधर-उधर दौड़ता फिरता है॥ १६॥
वीरराघवः
तदेवाह - सन्तुष्टस्येति । निरीहस्य सन्तुष्टस्य दैवाल्लब्धेन सन्तुष्टस्य स्वात्मारामस्य स्वस्यात्मान्तरात्मापरमपुरुषः तस्मिन् रममाणस्य स्वशरीरकब्रह्मानन्दानुभवपरस्य यत्सुखं तत्कामलोभेन, काम्यन्त इति कामाः, शब्दादयो विषयाः तेषु लोभेन सङ्गेन निमित्तेन अर्थेहया धनेच्छया कामलोभनिमित्तकधनेच्छया सर्वा दिशः प्रतिधावतो भ्राम्यमाणस्य पुंसः कुतो हेतोर्भवति; अनीहया यत्सुखं तदीहया नास्तीत्यर्थः ॥ १६ ॥
श्लोक-१७
विश्वास-प्रस्तुतिः
सदा सन्तुष्टमनसः सर्वाः सुखमया दिशः।
शर्कराकण्टकादिभ्यो यथोपानत्पदः शिवम्॥
मूलम्
सदा सन्तुष्टमनसः सर्वाः 30शिवमया दिशः।
शर्कराकण्टकादिभ्यो यथोपानत्पदश्शिवम्॥ १७ ॥
अनुवाद (हिन्दी)
जैसे पैरोंमें जूता पहनकर चलनेवालेको कंकड़ और काँटोंसे कोई डर नहीं होता—वैसे ही जिसके मनमें सन्तोष है, उसके लिये सर्वदा और सब कहीं सुख-ही-सुख है, दुःख है ही नहीं॥ १७॥
वीरराघवः
एवं दैवोपनतया यात्रयाऽर्थेच्छायास्त्याज्यत्व मुक्तम् । अथाऽसन्तोषस्य दुःखहेतुत्वं वक्तुं तावत् सन्तोषस्य सुखहेतुत्वमाह - सदेति । सदा सन्तुष्टं दैवादुपनतेनैव सन्तुष्टं मनो यस्य तस्य पुंसस्सर्वादिशः सुखमयाः, यत्र क्वाऽपि गतस्य तस्य सुखमेवेत्यर्थः । यथा उपान हौ पाद31त्राणे पादयोः यस्य स उपानत्पत् तस्योपानत्पदः शर्करादिभ्योऽपि शिवं सुखमेव तद्वत् ॥ १७ ॥
श्लोक-१८
विश्वास-प्रस्तुतिः
सन्तुष्टः केन वा राजन् न वर्तेतापि वारिणा।
औपस्थ्यजैह्व्यकार्पण्याद् गृहपालायते जनः॥
अनुवाद (हिन्दी)
युधिष्ठिर! न जाने क्यों मनुष्य केवल जलमात्रसे ही सन्तुष्ट रहकर अपने जीवनका निर्वाह नहीं कर लेता। अपितु रसनेन्द्रिय और जननेन्द्रियके फेरमें पड़कर यह बेचारा घरकी चौकसी करनेवाले कुत्तेके समान हो जाता है॥ १८॥
वीरराघवः
हे राजन्! सन्तुष्टश्चेत्कोनु पुमान् वारिणाऽपि न वर्तेत, सन्तुष्ट35श्चेत् वारिणाऽपि यात्रां विधाय सुख्यतीत्यर्थः । असन्तुष्टश्चेज्जनः औपस्थ्यजैह्व्यकार्पण्यादुपस्थाजिह्वासुखार्थदैन्यान्निमित्तात् गृहपालायते गृहपालः श्वा, तद्वत् आचरति ॥ १८ ॥
श्लोक-१९
विश्वास-प्रस्तुतिः
असन्तुष्टस्य विप्रस्य तेजो विद्या तपो यशः।
स्रवन्तीन्द्रियलौल्येन ज्ञानं चैवावकीर्यते॥
मूलम्
असन्तुष्टस्य विप्रस्य तेजो विद्या तपो यशः।
स्र36वन्तीन्द्रियलौल्येन ज्ञानञ्चैवावकीर्यते॥ १९ ॥
अनुवाद (हिन्दी)
जो ब्राह्मण सन्तोषी नहीं है, इन्द्रियोंकी लोलुपताके कारण उसके तेज, विद्या, तपस्या और यश क्षीण हो जाते हैं और वह विवेक भी खो बैठता है॥ १९॥
वीरराघवः
किञ्च । असन्तुष्टस्य ब्राह्मणस्य तेज आदयः स्रवन्ति । तेजो ब्रह्मवर्चसं विद्या शास्त्रजन्यं ज्ञानं, तप अनशनादि रूपं, यशः प्रथा तथेन्द्रियलौल्येन इन्द्रियार्थासक्त्या, ज्ञानं विवेकादिजन्यमवकीर्यते च विक्षिप्यते च अपगच्छतीत्यर्थः ॥ १९ ॥
श्लोक-२०
विश्वास-प्रस्तुतिः
कामस्यान्तं च क्षुत्तृड्भ्यां क्रोधस्यैतत्फलोदयात्।
जनो याति न लोभस्य जित्वा भुक्त्वा दिशो भुवः॥
मूलम्
कामस्यान्तं 37हि क्षुत्तृङ्भ्यां क्रोध38स्यान्तं फलोदयात्।
जनो याति न लोभस्य जित्वा भुक्त्वा दिशो भुवः॥ २० ॥
अनुवाद (हिन्दी)
भूख और प्यास मिट जानेपर खाने-पीनेकी कामनाका अन्त हो जाता है। क्रोध भी अपना काम पूरा करके शान्त हो जाता है। परन्तु यदि मनुष्य पृथ्वीकी समस्त दिशाओंको जीत ले और भोग ले, तब भी लोभका अन्त नहीं होता॥ २०॥
वीरराघवः
किञ्च । कामक्रोधादयः सावधिकाः, लोभस्त्वसन्तोषात्मको निरवधिक इत्याह - कामस्येति । जनः कामक्रोधलोभवान् जनः क्षुत्तृड्भ्यां, निवृत्ताभ्यां इति शेषः । निवृत्ताभ्यां क्षुत्तृड्भ्यां निमित्तभूताभ्यां कामस्यान्तं याति अन्नोदकादिना क्षुत्पिपासादौ निवृत्तेसति अन्नादिव्यतिरिक्तकामान्तराभावात् कामस्यान्तं गच्छतीति भावः । तथा क्रोधस्याऽऽप्यन्तं तत्फलोदयात् तस्य क्रोधस्य यत्फलं परपीडनादि रूपं तस्योदयान्निष्पत्तेर्हेतोर्याति, लोभस्यान्तं तु भुवो दिशो जित्वा भुक्त्वाऽपि नैव याति ॥ २० ॥
श्लोक-२१
विश्वास-प्रस्तुतिः
पण्डिता बहवो राजन् बहुज्ञाः संशयच्छिदः।
सदसस्पतयोऽप्येके असन्तोषात् पतन्त्यधः॥
मूलम्
पण्डिता बहवो राजन् बहुज्ञास्संशयच्छिदः।
सदसस्पतयोप्येके असन्तोषात्पतन्त्यधः॥ २१ ॥
अनुवाद (हिन्दी)
अनेक विषयोंके ज्ञाता, शंकाओंका समाधान करके चित्तमें शास्त्रोक्त अर्थको बैठा देनेवाले और विद्वत्सभाओंके सभापति बड़े-बड़े विद्वान् भी असन्तोषके कारण गिर जाते हैं॥ २१॥
वीरराघवः
अत एव हे राजन् ! बहवः पण्डिताः शास्त्रजन्यज्ञानवन्तः बहुज्ञाः बहुविधलौकिकवैदिकन्यायाभिज्ञाः अत एव संशयान् छिन्दन्तीति तथा, अत एव सदसः सभायाः पतयोऽप्येके जना असन्तोषाद्धेतोरधो नरके पतन्ति ॥ २१ ॥
श्लोक-२२
विश्वास-प्रस्तुतिः
असङ्कल्पाज्जयेत् कामं क्रोधं कामविवर्जनात्।
अर्थानर्थेक्षया लोभं भयं तत्त्वावमर्शनात्॥
मूलम्
असङ्कल्पाज्जयेत्कामं क्रोधं कामविवर्जनात्।
39अर्थेनर्थेक्षयालोभं भयं तत्त्वावमर्शनात्॥॥ २२ ॥
अनुवाद (हिन्दी)
धर्मराज! संकल्पोंके परित्यागसे कामको, कामनाओंके त्यागसे क्रोधको, संसारी लोग जिसे ‘अर्थ’ कहते हैं उसे अनर्थ समझकर लोभको और तत्त्वके विचारसे भयको जीत लेना चाहिये॥ २२॥
वीरराघवः
एवमसन्तोषस्य अनर्थावहत्वमुक्तम्, अथ कामादीनां जयोपाया नाह - असङ्कल्पादिति चतुर्भिः । असङ्कल्पात् भोगार्हताबुद्धिवर्जनात् कामं शब्दादिविषयस्पृहां जयेत् । क्रोधन्तु कामविवर्जनात्, जयेदित्यनुषङ्गः । क्रोधः कामानुभवविरोधिविषयकोऽमर्षः । लोभन्त्वसन्तोषात्मकम् अर्थानर्थेक्षया अर्थे धने अनर्थेक्षया अनर्थहेतुत्वदर्शनेन 40जयेत् । भयन्तु तत्त्वावमर्शनात् चिदचिदीश्वरयाथात्म्यरूपतत्त्वत्रयानुसन्धानात् ॥ २२ ॥
श्लोक-२३
विश्वास-प्रस्तुतिः
आन्वीक्षिक्या शोकमोहौ दम्भं महदुपासया।
योगान्तरायान् मौनेन हिंसां कायाद्यनीहया॥
अनुवाद (हिन्दी)
अध्यात्मविद्यासे शोक और मोहपर, संतोंकी उपासनासे दम्भपर, मौनके द्वारा योगके विघ्नोंपर और शरीर-प्राण आदिको निश्चेष्ट करके हिंसापर विजय प्राप्त करनी चाहिये॥ २३॥
वीरराघवः
आन्वीक्षिक्या “जातस्य हि ध्रुवो मृत्युः ध्रुवं जन्म मृतस्य च । तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि” (भ.गी. 2-27) इत्यादि पर्यालोचनयेत्यर्थः । जातस्य विनाशो ध्रुव इति पर्यालोचनया शोकमोहौ, दम्भन्तु महता मदाम्भिकानां ज्ञानिनामुपासनया सेवया योगान्तरायान् योगस्यान्तरायभूतान् लोकवार्तादीस्तु मौनेन, भूतहिंसां कायाद्यनीहया स्वदेहादिषु निस्पृहया 43जयेत् ॥ २३ ॥
श्लोक-२४
विश्वास-प्रस्तुतिः
कृपया भूतजं दुःखं दैवं जह्यात् समाधिना।
आत्मजं योगवीर्येण निद्रां सत्त्वनिषेवया॥
मूलम्
कृपया भूतजं दुःखं दैवं जह्यात्समाधिना।
आत्मजं योगवीर्येण निद्रां सत्त्वनिषेवया॥ २४ ॥
अनुवाद (हिन्दी)
आधिभौतिक दुःखको दयाके द्वारा, आधिदैविक वेदनाको समाधिके द्वारा और आध्यात्मिक दुःखको योगबलसे एवं निद्राको सात्त्विक भोजन, स्थान, संग आदिके सेवनसे जीत लेना चाहिये॥ २४॥
वीरराघवः
भूतजं दुःखमाधिभौतिकं दुःखं कृपया येभ्यो भूतेभ्यः स्वस्य दुःखं तेष्वेव कृपया, दैवमाधिदैविकं दुःखं समाधिना इदं प्राप्तमेव किमस्माभिर्विधेयमिति एवं मनस्समाधानेन, आत्मजं देहजमाध्यात्मिकं दुःखं योगवीर्येण योगबलेन प्राणायामादिना, निद्रां सत्त्वनिषेवया सात्त्विकाहारसेवनेन जह्यात् ॥ २४ ॥
श्लोक-२५
विश्वास-प्रस्तुतिः
रजस्तमश्च सत्त्वेन सत्त्वं चोपशमेन च।
एतत् सर्वगुरौ भक्त्या पुरुषो ह्यञ्जसा जयेत्॥
मूलम्
रजस्तमश्च सत्त्वेन सत्त्वञ्चोपशमेन च।
एतत्सर्वं गुरौ भक्त्या पुरुषो 44ह्यञ्जसा जयेत्॥ २५ ॥
अनुवाद (हिन्दी)
सत्त्वगुणके द्वारा रजोगुण एवं तमोगुणपर और उपरतिके द्वारा सत्त्वगुणपर विजय प्राप्त करनी चाहिये। सर्वगुरु भगवान्की भक्तिके द्वारा साधक इन सभी दोषोंपर सुगमतासे विजय प्राप्त कर सकता है॥ २५॥
वीरराघवः
रजस्तमश्च सत्त्वेन सात्त्विकाहाराद्युपजातसत्त्वगुणवृद्ध्या सत्त्वमन्तःकरणमुपशमेन हर्षाजनन मुखेन एतदुक्तं कामादिरूपं सर्वं पुरुषो गुरौ भक्त्या त्वञ्जसा सुखेनैव जयेत् ॥ २५ ॥
श्लोक-२६
विश्वास-प्रस्तुतिः
यस्य साक्षाद् भगवति ज्ञानदीपप्रदे गुरौ।
मर्त्यासद्धीः श्रुतं तस्य सर्वं कुञ्जरशौचवत्॥
अनुवाद (हिन्दी)
हृदयमें ज्ञानका दीपक जलानेवाले गुरुदेव साक्षात् भगवान् ही हैं। जो दुर्बुद्धि पुरुष उन्हें मनुष्य समझता है, उसका समस्त शास्त्र-श्रवण हाथीके स्नानके समान व्यर्थ है॥ २६॥
वीरराघवः
गुरुभक्त्यभावे सर्वं कामादि जयात्मकं व्यर्थमित्याह - यस्येति । साक्षाद्भगवति “आचार्यं मां विजानीयात्” इत्युक्तरीत्या भगवदभिन्नत्वेन दर्शनीये, ज्ञानमेव दीपः, तत्प्रदे महोपकर्तरि गुरौ यस्य पुंसो मर्त्यबुद्धिः “सोऽपि मादृश एव कश्चिन्मर्त्यः” इति बुद्धिः तस्य श्रुतमध्ययनं सर्वं कामादिजयादिकञ्च कुञ्जरशौचतुल्यं, यथा कुञ्जरस्य स्नानं पुनर्धूलिप्रक्षेपेण कृतमप्यकृ46तं, तद्वदित्यर्थः ॥ २६ ॥
श्लोक-२७
विश्वास-प्रस्तुतिः
एष वै भगवान् साक्षात् प्रधानपुरुषेश्वरः।
योगेश्वरैर्विमृग्याङ्घ्रिर्लोको यं मन्यते नरम्॥
मूलम्
एष वै भगवान् साक्षात् प्रधानपुरुषेश्वरः।
योगेश्वरैर्विमृश्याङ्घ्रिर्लोकोऽयं मन्यते नरम्॥ २७ ॥
अनुवाद (हिन्दी)
बड़े-बड़े योगेश्वर जिनके चरणकमलोंका अनुसन्धान करते रहते हैं, प्रकृति और पुरुषके अधीश्वर वे स्वयं भगवान् ही गुरुदेवके रूपमें प्रकट हैं। इन्हें लोग भ्रमसे मनुष्य मानते हैं॥ २७॥
वीरराघवः
गुरोर्भगवत्त्वं श्रीकृष्णदृष्टान्तेनाऽऽह - एष इति । एषश्रीकृष्णः साक्षात्प्रकृतिपुरुषयोरीश्वरोऽत एव योगेश्वरैरस्मदादिभिः विमृग्यौ ध्येयौ अङ्घ्री पादौ यस्य सः भगवानेव, नाऽऽत्र सन्देहः । एवम्भूतमपि यं श्रीकृष्णं नरं मन्यते, तत्स्वरूपानभिज्ञो लोकस्तथा गुरुयाथात्म्यानभिज्ञस्तं नरं मन्यते तद्याथत्म्यवित्तु साक्षाद्भगवन्तं मन्यते इत्यर्थः ॥ २७ ॥
श्लोक-२८
विश्वास-प्रस्तुतिः
षड्वर्गसंयमैकान्ताः सर्वा नियमचोदनाः।
तदन्ता यदि नो योगानावहेयुः श्रमावहाः॥
मूलम्
षड्वर्गसंयमैकान्ताः सर्वा नि47यमचोदनाः।
तदन्ता यदि नो योगानावहेयुः श्रमावहाः॥ २८ ॥
अनुवाद (हिन्दी)
शास्त्रोंमें जितने भी नियमसम्बन्धी आदेश हैं, उनका एकमात्र तात्पर्य यही है कि काम, क्रोध, लोभ, मोह, मद और मत्सर—इन छः शत्रुओंपर विजय प्राप्त कर ली जाय अथवा पाँचों इन्द्रिय और मन—ये छः वशमें हो जायँ। ऐसा होनेपर भी यदि उन नियमोंके द्वारा भगवान्के ध्यान-चिन्तन आदिकी प्राप्ति नहीं होती, तो उन्हें केवल श्रम-ही-श्रम समझना चाहिये॥ २८॥
वीरराघवः
एवं गुरुभक्त्यभावे सर्वं विफलमित्युक्तम् । अथ आवश्यकानां सर्वेषां 48वर्णाश्रमधर्माणां48 इन्द्रियजयार्थत्वं तदभावे तद्वैयर्थ्यमिन्द्रियपर्यन्तानामपि, तेषां भगवदुपासनात्मकयोगनिष्पादकत्व एव साफल्यम्, अन्यथा वैफल्यञ्चाऽऽह - षड्वर्गेति । सर्वा नियमचोदनाः वर्णाश्रमानुगुणावश्यकधर्मनियमविधयः । चोदनाशब्देन चोद्यमुपलक्ष्यते, चोदिता धर्मा इत्यर्थः यद्वा, नियमस्य चोदना येषु ते धर्माः । षड्वर्गः मनः पर्यन्तषडिन्द्रियवर्गः, तस्य संयमो नियमः तदेकान्ताः तदेकप्रयोजना इत्यर्थः । अन्यथा तेषां वैफल्यमेवेति भावः । तदन्ताः षड्वर्गनियमपर्यन्ता अपि 49यदियोगान् योगावयवान् धारणाध्यानसमाधीन् नाऽऽवहेयुः न साधयेयुः तर्हि केवलं श्रमावहा एवेत्यर्थः ॥ २८ ॥
श्लोक-२९
विश्वास-प्रस्तुतिः
यथा वार्तादयो ह्यर्था योगस्यार्थं न बिभ्रति।
अनर्थाय भवेयुस्ते पूर्तमिष्टं तथासतः॥
मूलम्
यथा वार्तादयो 50ह्यर्था 51योगस्यार्थं न बिभ्रति।
अनर्थाय भवेयु52स्ते पूर्तमिष्टं तथा सतः॥ २९ ॥
अनुवाद (हिन्दी)
जैसे खेती, व्यापार आदि और उनके फल भी योग-साधनाके फल भगवत्प्राप्ति या मुक्तिको नहीं दे सकते—वैसे ही दुष्ट पुरुषके श्रौत-स्मार्त कर्म भी कल्याणकारी नहीं होते, प्रत्युत उलटा फल देते हैं॥ २९॥
वीरराघवः
एवमावश्यकधर्माणामिन्द्रियजयद्वारा योगावहत्त्वमेव साफल्याम्, अन्यथा केवलश्रमफलत्वञ्चोक्तम् । अथ वृत्तिधर्माणामपि योगप्रयो53जनकत्वाभावे वैयर्थ्यं, प्रत्युत अनर्थावहत्वं तैस्सहावश्यकानामपि वैयर्थ्यञ्चाऽऽह - यदेति । वार्तादयो ह्यर्थावृत्तेर्जीवनस्येमे वार्ता अर्था याजनादयः यदा योगस्यार्थं न बिभ्रति योगानुष्ठानैकप्रयोजनं जीवनं न बिभ्रति न पुष्णन्ति न कुर्वन्ति, तदाऽनर्थाय नैरर्थक्याय भवेयुः । असदर्थव्ययरूपानर्थाय भवेयुरिति वा । तथा सतः तथा वर्तमानस्य वार्तानर्थान् योगैकप्रयोजनजीवनमात्रोपयुक्तानकुर्वतः पुरुषस्य पूर्तं स्मार्तं कर्म, इष्टं यागादिकं वैदिककर्मचाऽनर्थक्याय भवेताम् ॥ २९ ॥
श्लोक-३०
विश्वास-प्रस्तुतिः
यश्चित्तविजये यत्तः स्यान्निःसङ्गोऽपरिग्रहः।
एको विविक्तशरणो भिक्षुर्भिक्षामिताशनः॥
मूलम्
यश्चित्तविज54ये यत्तः स्यान्निस्सङ्गो55ऽपरिग्रहः।
एको विविक्तशरणो भिक्षु56र्भैक्षामिताशनः॥ ३० ॥
अनुवाद (हिन्दी)
जो पुरुष अपने मनपर विजय प्राप्त करनेके लिये उद्यत हो, वह आसक्ति और परिग्रहका त्याग करके संन्यास ग्रहण करे। एकान्तमें अकेला ही रहे और भिक्षा-वृत्तिसे शरीर-निर्वाहमात्रके लिये स्वल्प और परिमित भोजन करे॥ ३०॥
वीरराघवः
अथेन्द्रियजयपर्यन्तस्ववर्णाश्रमधर्मकामादिजयनिष्ठस्य भगवद्भक्तियोगानुष्ठानप्रकारमाह - य इत्यादिना । यः पुमान् चित्तस्य विजये यत्त आयत्तो दक्षः स्यात् तर्हि निःसङ्गः त्यक्तकुलपुत्रादिसङ्गोऽपरिग्रहः शरीरमात्रावशेषितः भिक्षुस्तुर्याश्रमीभूयात् । भिक्षुर्भूत्वा चैकोऽसहायः विविक्तशरणः निर्जनदेशेऽवस्थितः भैक्षं भिक्षयालब्धं मितञ्चाशनमन्नं यस्य । भैक्षं मितञ्चाश्नातीति वा । कर्तरि ल्युः ॥ ३० ॥
श्लोक-३१
विश्वास-प्रस्तुतिः
देशे शुचौ समे राजन् संस्थाप्यासनमात्मनः।
स्थिरं समं सुखं तस्मिन्नासीतर्ज्वङ्ग ओमिति॥
मूलम्
देशे शुचौ समे 57राजन्नास्थाप्यासनमात्मनः।
स्थिरं समं सुखं तस्मिन् आसीतर्ज्वङ्ग ओमिति॥ ३१ ॥
अनुवाद (हिन्दी)
युधिष्ठिर! पवित्र और समान भूमिपर अपना आसन बिछाये और सीधे स्थिर-भावसे समान और सुखकर आसनसे उसपर बैठकर ॐ कारका जप करे॥ ३१॥
वीरराघवः
शुचौ परिशुद्धे समे अनिम्नोन्नते च देशे हे राजन् ! आत्मनः स्वस्याऽऽसनं “चैलाजिनकुशोत्तरम्” इत्युक्तविधमास्थाप्य स्थिरं चाञ्चल्यरहितं सुखञ्च यथा भवति तथा, तस्मिन्नासने आसीत उपविशेत् । ऋज्वङ्गः ऋजु अवक्रमङ्गं यस्य ऋजुकायस्सन्, ओमित्यनुसन्दधदिति शेषः ॥ ३१ ॥
श्लोक-३२
विश्वास-प्रस्तुतिः
प्राणापानौ सन्निरुन्ध्यात् पूरकुम्भकरेचकैः।
यावन्मनस्त्यजेत् कामान् स्वनासाग्रनिरीक्षणः॥
मूलम्
प्राणापानौ सन्निरु58न्ध्यात्पूरकुम्भकरेचकैः।
यावन्मनस्त्यजेत्कामान् स्वनासाग्रनिरीक्षणः॥ ३२ ॥
अनुवाद (हिन्दी)
जबतक मन संकल्प-विकल्पोंको छोड़ न दे, तबतक नासिकाके अग्रभागपर दृष्टि जमाकर पूरक, कुम्भक और रेचकद्वारा प्राण तथा अपानकी गतिको रोके॥ ३२॥
वीरराघवः
पूरकुम्भकरेचकैः प्राणापानौ वायू सम्यक् निरुन्ध्यात् । अपानेन प्राणाभिभवो रेचकः प्राणेन अपानाभिभवः पूरकः, उभयोस्समानः कुम्भकः । यावन्मनः कामान् शब्दादि विषयांस्त्यजेत्, नाऽनुसन्दधीत, तावत् स्वस्य नासाया अग्रं निरीक्षते इति निरीक्षणः, कर्तरि ल्युः ॥ ३२ ॥
श्लोक-३३
विश्वास-प्रस्तुतिः
यतो यतो निःसरति मनः कामहतं भ्रमत्।
ततस्तत उपाहृत्य हृदि रुन्ध्याच्छनैर्बुधः॥
मूलम्
यतो यतो निस्सरति मनः 59कामहतं भ्रमत्।
ततस्तत उपाहृत्य हृदिरुन्ध्याच्छनैर्बुधः॥ ३३ ॥
अनुवाद (हिन्दी)
कामकी चोटसे घायल चित्त इधर-उधर चक्कर काटता हुआ जहाँ-जहाँ जाय, विद्वान् पुरुषको चाहिये कि वह वहाँ-वहाँसे उसे लौटा लाये और धीरे-धीरे हृदयमें रोके॥ ३३॥
वीरराघवः
कामैश्शब्दादिविषयज्ञानैः हृतं विक्षिप्तं सत् मनोभ्रमत् यतो यतः यं यं विषयं निस्सरति विषयीकरोति, ततस्ततो विषयात् तन्मनः उपाहृत्य प्रत्याहृत्य बुधस्तत्प्रत्याहारवित् हृदि हृदयस्थे शुभाश्रये शनैर्निरुन्ध्यात् शुभाश्रयचिन्ताप्रवणं कुर्यत् । अत्र नियमोऽर्थसिद्धः । चित्तविजय इति नियम उक्तः । स्थिरं सुखमासीतेत्यासनम् । प्राणापानावित्यादिना प्राणायामः यावन्मन इत्यादिना । ततस्तत उपाहृत्य इत्यन्तेन प्रत्याहारः, निरुन्ध्याच्छनैर्बुध इत्यनेन ध्यान धारणे चोक्ते ॥ ३३ ॥
श्लोक-३४
विश्वास-प्रस्तुतिः
एवमभ्यसतश्चित्तं कालेनाल्पीयसा यतेः।
अनिशं तस्य निर्वाणं यात्यनिन्धनवह्निवत्॥
अनुवाद (हिन्दी)
जब साधक निरन्तर इस प्रकारका अभ्यास करता है, तब ईंधनके बिना जैसे अग्नि बुझ जाती है, वैसे ही थोड़े समयमें उसका चित्त शान्त हो जाता है॥ ३४॥
वीरराघवः
अथ समाधिमाह - एवमिति द्वाभ्याम् । एवमनिश महरहः सर्वदा नाऽभ्यसतः तस्य यतेश्चित्तमल्पीय सैवकालेन निर्वाणं याति, बहिर्वृत्तिविनाशं याति । अनिन्धनवह्निवत् यथाऽनिन्धनः ज्वालाधूमादिरहितोऽङ्गाररूपेणा वशेषितोऽग्निस्तद्वत् इत्यर्थः ॥ ३४ ॥
श्लोक-३५
विश्वास-प्रस्तुतिः
कामादिभिरनाविद्धं प्रशान्ताखिलवृत्ति यत्।
चित्तं ब्रह्मसुखस्पृष्टं नैवोत्तिष्ठेत कर्हिचित्॥
मूलम्
कामादिभिरनाविद्धं प्रशान्ताखिलवृत्ति यत्।
चित्तं ब्रह्मसुखस्पृष्टं नैवोत्तिष्ठेत कर्हिचित्॥ ३५ ॥
अनुवाद (हिन्दी)
इस प्रकार जब काम-वासनाएँ चोट करना बंद कर देती हैं और समस्त वृत्तियाँ अत्यन्त शान्त हो जाती हैं, तब चित्त ब्रह्मानन्दके संस्पर्शमें मग्न हो जाता है और फिर उसका कभी उत्थान नहीं होता॥ ३५॥
वीरराघवः
न तु विक्षिप्तम्भवतीत्याह - कामेति । यद्यस्मात् कामादिभिः शब्दादिविषयानुध्यानादिभिः अनाविद्धमसङ्क्रान्तं प्रशान्ता अपगता अखिला वृत्तयो व्यापारात्मका यस्य तादृशं चित्तमभूत् । तस्मात्तचित्तं ब्रह्मसुखस्पृष्टं ब्रह्मानुभवसुखाविद्धं सत् कर्हिचिदपि नैवोत्तिष्ठेत शुभाश्रयान्न प्रच्युतं भवति । अयमेव समाधिर्यत् ब्रह्मानुभवमग्नचित्ततेति ॥ ३५ ॥
श्लोक-३६
विश्वास-प्रस्तुतिः
यः प्रव्रज्य गृहात् पूर्वं त्रिवर्गावपनात् पुनः।
यदि सेवेत तान्भिक्षुः स वै वान्ताश्यपत्रपः॥
मूलम्
यः प्रव्रज्य गृहात्पूर्वं त्रिवर्गवपनात्पुनः।
62यदि सेवेत तान्भिक्षुः 63सवान्ताश्यपत्रपः63॥ ३६ ॥
अनुवाद (हिन्दी)
जो संन्यासी पहले तो धर्म, अर्थ और कामके मूल कारण गृहस्थाश्रमका परित्याग कर देता है और फिर उन्हींका सेवन करने लगता है, वह निर्लज्ज अपने उगले हुएको खानेवाला कुत्ता ही है॥ ३६॥
वीरराघवः
एवमष्टाङ्गयुक्तभगवद्भक्तियोगनिष्ठं तत्फलत्वेन त्रिवर्गं कामयमानं यतिं निन्दति - य इति । त्रिवर्गस्य धर्मार्थकामरूपस्य अवपनात् क्षेत्रभूतात् गृहात्प्रव्रज्य पुनर्यः पुमान् तान् धर्मादीनेव सेवेत स वै भिक्षुर्निरपत्रपो निर्लज्जो वान्ताशी छर्दितान्नभक्षी उद्गीर्णान्नभक्षयितृतुल्य इत्यर्थः । यद्वा प्रव्रज्याऽपि पुनर्भोगासक्तं यतिं निन्दति य इति ॥ ३६ ॥
श्लोक-३७
विश्वास-प्रस्तुतिः
यैः स्वदेहः स्मृतो नात्मा मर्त्यो विट्कृमिभस्मसात्।
त एनमात्मसात्कृत्वा श्लाघयन्ति ह्यसत्तमाः॥
मूलम्
64यैः स्वदेहः स्मृतो नाऽऽत्माऽमर्त्यो विट्क्रि65मिभस्म66सात्।
67त एवामुं स्व67सात्कृत्वा श्लाघयन्ति ह्यसत्तमाः॥ ३७ ॥
अनुवाद (हिन्दी)
जिन्होंने अपने शरीरको अनात्मा, मृत्युग्रस्त और विष्ठा, कृमि एवं राख समझ लिया था—वे ही मूढ़ फिर उसे आत्मा मानकर उसकी प्रशंसा करने लगते हैं॥ ३७॥
वीरराघवः
न चेदमघटितं दृष्टत्वा दित्याह - यैरिति । यैः परिव्राड्भिः पूर्वं स्वदेहो नाऽऽत्मा स्मृतः, आत्मत्वेन न निश्चितः किन्तु, आत्मनः व्यतिरिक्तो मर्त्यः मरणशीलः विट्क्रि68मिभस्मसाञ्च अन्ततः क्रिम्याद्यवस्थामापत्स्यमानश्चिन्तितः । त एव पुनस्तमेनं देहमेव आत्मसात्कृत्वा आत्माभिन्नं कृत्वा श्लाघयन्ति हि केचिदसत्तमाः परिव्राज इत्यर्थः ॥ ३७ ॥
श्लोक-३८
विश्वास-प्रस्तुतिः
गृहस्थस्य क्रियात्यागो व्रतत्यागो वटोरपि।
तपस्विनो ग्रामसेवा भिक्षोरिन्द्रियलोलता॥
मूलम्
गृहस्थस्य क्रियात्यागो व्रतत्यागो वटोरपि।
तपस्विनो ग्रामसेवा भिक्षोरिन्द्रिय69लोलता॥ ३८ ॥
वीरराघवः
भोगासक्तयतिनिन्दाप्रसङ्गात्तेन सह आश्रमान्तरस्थानपि स्वधर्मादित्यागिनो निन्दति - गृहस्थस्येति । क्रियात्यागः स्ववर्णाश्रमोचितक्रियात्यागः । वटोर्ब्रह्मचारिणो व्रतत्यागः गुरुकुलवासादिव्रतत्यागः, तपस्विनो वानप्रस्थस्य ग्रामसेवा पुनः ग्रामवासः भिक्षोः सन्न्यासिन इन्द्रियलोलता ॥ ३८ ॥
श्लोक-३९
विश्वास-प्रस्तुतिः
आश्रमापसदा ह्येते खल्वाश्रमविडम्बकाः।
देवमायाविमूढांस्तानुपेक्षेतानुकम्पया॥
अनुवाद (हिन्दी)
कर्मत्यागी गृहस्थ, व्रतत्यागी ब्रह्मचारी, गाँवमें रहनेवाला तपस्वी (वानप्रस्थ) और इन्द्रियलोलुप संन्यासी—ये चारों आश्रमके कलंक हैं और व्यर्थ ही आश्रमोंका ढोंग करते हैं। भगवान्की मायासे विमोहित उन मूढ़ोंपर तरस खाकर उनकी उपेक्षा कर देनी चाहिये॥ ३८-३९॥
वीरराघवः
एते आश्रमाप72शदा येषां गृहस्थादीनां चतुर्णां क्रियात्यागादयः त एते आश्रमेषु आश्रमस्थेषु अप73शदा निकृष्टा इत्यर्थः । एते ह्याश्रमान् विडम्बयन्त्यनुकुर्वन्तीत्याश्रमविडम्बिनः । विडम्बनमात्रमेवैषां नत्वाश्रम सिद्धिरित्यर्थः । अतस्तान् भगवन्मायया विमूढान्, अनेन नित्यनिरतिशयानन्दरूपपरमात्मप्राप्तिसाधनभूततदुपासन तदङ्गधर्मानुष्ठानोपयुक्तमनुष्यजन्मवर्णाश्रमादिरूपसामग्रीं लब्ध्वाऽपि ये स्वधर्मादित्यागिनस्ते नूनं देवमायामोहिता इत्युक्तं भवति । अनुकम्पया अहो इमे उच्चपतिताः, किं विधेयमित्येवमनुकम्पापूर्वकचिन्तया तान् 74उपेक्षेत नाऽनुवर्तेतेत्यर्थः ॥ ३९ ॥
श्लोक-४०
विश्वास-प्रस्तुतिः
आत्मानं चेद् विजानीयात् परं ज्ञानधुताशयः।
किमिच्छन्कस्य वा हेतोर्देहं पुष्णाति लम्पटः॥
मूलम्
आत्मानञ्चेद्विजानीयात् 75परं ज्ञान76धुताशयः।
किमिच्छन्कस्य वा हेतोर्देहं पुष्णाति लम्पटः॥ ४० ॥
अनुवाद (हिन्दी)
आत्मज्ञानके द्वारा जिसकी सारी वासनाएँ निर्मूल हो गयी हैं और जिसने अपने आत्माको परब्रह्मस्वरूप जान लिया है, वह किस विषयकी इच्छा और किस भोक्ताकी तृप्तिके लिये इन्द्रियलोलुप होकर अपने शरीरका पोषण करेगा?॥ ४०॥
वीरराघवः
स्वात्मपरमात्मतत्त्वज्ञस्य ब्रह्मानुभवसुखतृप्तस्य तु यतेरिन्द्रियलौल्यमेवाऽसम्भावितं, तस्य देवमायया मोहाभावादित्याह - आत्मानमिति । परं प्रकृतिपुरुषविलक्षणमात्मानम्, यद्वा, आत्मानं परंपरमपुरुषञ्च विजानीयाच्चेत् तज्ज्ञानेन निर्धूतवासनः कस्य कामाय इष्टसम्पत्तये लम्पटः किमिच्छन् देहं पुष्णाति देहपोषणेन स्वात्मनः परमपुरुषस्य च नेष्टं सम्पद्यते । अतः तत्त्यजत्येवेत्यर्थः । यद्वा इच्छन् शब्दादिविषयान् कामयमानः कस्य स्वपरयोरन्यतरस्य कस्य कामायेष्टार्थं देहं पुष्णाति किम् ? न पुष्णात्येवेत्यर्थः । कस्य कामायेत्यनेन देहपोषणं न स्वात्मनो नाऽपि परमात्मनश्च सुखाधायकं, तयोः स्वत एव निरतिशयसुखरूपत्वादिति सूच्यते । निरतिशयानन्दपरमात्मोपासनात्मकतदनुभवतृप्तो 77निहीनदेहपोषणज सुखार्थं न यतत एव । किन्तु परमात्मप्राप्तय एव यतत इति सूचितम् । देवमायाविमूढानित्यनेन परमानन्दरूपपरमाप्तप्राप्तिसाधनानुष्ठानोपयुक्त शरीरेन्द्रियादिसामग्रीं लब्ध्वाऽपि येन यतन्ते ते देवमायाविमूढा इति चोक्तम् ॥ ४० ॥
श्लोक-४१
विश्वास-प्रस्तुतिः
आहुः शरीरं रथमिन्द्रियाणि
हयानभीषून् मन इन्द्रियेशम्।
वर्त्मानि मात्रा धिषणां च सूतं
सत्त्वं बृहद् बन्धुरमीशसृष्टम्॥
मूलम्
आहुश्शरीरं रथमिन्द्रियाणि हयानभू78षून् मन इन्द्रियेशम्।
वर्त्मानि मात्रा धिषणाञ्च सूतं सत्त्वं बृहद्बन्धुरमीश79सृष्टम्॥ ४१ ॥
वीरराघवः
न केवलं मयैव शरीरेन्द्रियादेः परमात्मप्राप्तिसाधनानुष्ठानोपयुक्तसामग्रीत्वमुच्यते, अपि तु उपनिषद्वाक्यान्यपि - “आत्मानं रथिनं विद्धि शरीरं रथमेव चाबुद्धिन्तु सारथिं विद्धि मनः प्रग्रहमेव च । इन्द्रियाणि हयानाहुर्विषयां स्तुषे गोचरान्। सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्” (कठ. उ. 3-3) इत्यादीनि संसाराध्वनः पारं वैष्णवं पदं प्रे80प्सुः तमात्मानं रथित्वेन तच्छरीरादीनि रथरथाङ्गत्वेन रूपयित्वा तदाहुरित्याह - आहुरिति । शरीरादीन् रथादिभावेन रूपयन्तस्तेषां परमात्मप्राप्तिसाधनानुष्ठानोपयुक्तसामग्रीत्वमभीष्टदेशप्रेप्सोर्विजिगीषोश्च प्रसिद्धरथादीनां साधनत्वमि81त्याहुर्वेदान्ता इत्यर्थः । शरीरं रथं रथस्थानीयम्, इन्द्रियाणि हयानश्वान्, इन्द्रियाणामश्वस्थानीयाोनामीशं मुख्यं मनः, अभीषून् रश्मीन्, रज्जूरिति यावत् । मात्राः शब्दादीन् वर्त्मनि मार्गस्थानीयान्, धिषणां बुद्धिं सूतं सारथिं, सत्त्वं बलं बृहत् दृढं बन्धुरं देहादीनां बन्धनम् । ईशसृष्टमिति यथायोग्यं विभक्तिविपरिणामेन शरीरादीनां विशेषणम् । ईशेन परमात्मनासृष्टमीशसृष्टम् ॥ ४१ ॥
श्लोक-४२
विश्वास-प्रस्तुतिः
अक्षं दशप्राणमधर्मधर्मौ
चक्रेऽभिमानं रथिनं च जीवम्।
धनुर्हि तस्य प्रणवं पठन्ति
शरं तु जीवं परमेव लक्ष्यम्॥
मूलम्
अक्षं दशप्राणमधर्मधर्मौ चक्रेऽभिमानं रथिनञ्च जीवम्।
धनुर्हितस्य प्रणवं पठन्ति शरन्तु जीवं परमेव लक्ष्यम्॥ ४२ ॥
अनुवाद (हिन्दी)
उपनिषदोंमें कहा गया है कि शरीर रथ है, इन्द्रियाँ घोड़े हैं, इन्द्रियोंका स्वामी मन लगाम है, शब्दादि विषय मार्ग हैं, बुद्धि सारथि है, चित्त ही भगवान्के द्वारा निर्मित बाँधनेकी विशाल रस्सी है, दस प्राण धुरी हैं, धर्म और अधर्म पहिये हैं और इनका अभिमानी जीव रथी कहा गया है। ॐ कार ही उस रथीका धनुष है, शुद्ध जीवात्मा बाण और परमात्मा लक्ष्य है। (इस ॐ कारके द्वारा अन्तरात्माको परमात्मामें लीन कर देना चाहिये)॥ ४१-४२॥
वीरराघवः
दशानां प्राणानां समाहारो दशप्राणं, प्राणादिपञ्चक नागकूर्मकृकर82देवदत्तधनञ्जयाख्योपप्राणप्रञ्चकात्मकम् अक्षमक्षस्थानीयम् अधर्मधर्मो पुण्यपापे चक्रे पुण्यपापात्मकयोः कर्मणोरेव रथत्वरूपितशरीरप्रवृत्तिहेतुत्वात्तदायत्तत्वेन च चक्रत्वेन रूपणम् । अभिमानिनं देहाभिमानिनं जीवं रथिनमाहुः । तस्य रथिनः प्रणवमोङ्कारं धनुः पठन्त्याहुः । शरन्तु जीवं, परं परमात्मानन्तु लक्ष्यं पठन्ति । “प्रणवो धनुश्शरोह्यात्मा ब्रह्मतल्लक्ष्यमुच्यते । अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् ।" (मुण्ड. उ. 2-2-4) इति ह्यन्यत्राप्युक्तम् । विप्रकृष्टयोश्शरलक्ष्ययोरिव जीवपरयोः सम्बन्ध ज्ञापनहेतुत्वात् प्रणवो धनुरुक्तम् । रथित्वेन रूपित एव जीवः शरत्वेनाऽपि रूप्यते ॥ ४२ ॥
श्लोक-४३
विश्वास-प्रस्तुतिः
रागो द्वेषश्च लोभश्च शोकमोहौ भयं मदः।
मानोऽवमानोऽसूया च माया हिंसा च मत्सरः॥
मूलम्
रागोद्वेषश्च लोभश्च शोकमोहौ भयं मदः।
मानोऽ83वमानोऽसूया च माया हिंसा च मत्सरः॥ ४३ ॥
वीरराघवः
84तत्र जेतव्यानाह - राग इति । रागः शब्दादिविषयासक्तिः द्वेषः तद्विरोधिविषयाऽप्रीतिः लोभोऽसन्तोषः, मोहः कार्याकार्याऽविवेकः, भयमागामिदुःखदर्शनजं प्रतिकूलज्ञानं, मदो गर्वः, मानो बहुमानः, अवमान स्तिरस्कारः, असूया गुणेषु सत्स्वपि दोषाविष्कारः, माया वञ्चनं, हिंसा भूतद्रोहः, मत्सरः परकृतद्रोहचिन्ता ॥ ४३ ॥
श्लोक-४४
विश्वास-प्रस्तुतिः
रजः प्रमादः क्षुन्निद्रा शत्रवस्त्वेवमादयः।
रजस्तमःप्रकृतयः सत्त्वप्रकृतयः क्वचित्॥
मूलम्
रजः प्रमादः क्षुन्निद्रा शत्रवस्त्वेवमादयः।
रजस्तमः प्रकृतयः सत्त्वप्रकृतयः क्वचित्॥ ४४ ॥
अनुवाद (हिन्दी)
राग, द्वेष, लोभ, शोक, मोह, भय, मद, मान, अपमान, दूसरेके गुणोंमें दोष निकालना, छल, हिंसा, दूसरेकी उन्नति देखकर जलना, तृष्णा, प्रमाद, भूख और नींद—ये सब, और ऐसे ही जीवोंके और भी बहुत-से शत्रु हैं। उनमें रजोगुण और तमोगुणप्रधान वृत्तियाँ अधिक हैं, कहीं-कहीं कोई-कोई सत्त्वगुणप्रधान ही होती हैं॥ ४३-४४॥
वीरराघवः
रजः क्रोधः स चामर्षः, प्रमादोऽनवधानता, एवमादयः एतत्प्रभृतयश्शत्रवो जेतव्याः । त एते रजस्तमः प्रकृतयः, क्वचित्सत्त्वप्रकृतयश्च, रजस्तमसी प्रकृती कारणे येषां ते, सत्त्वं प्रकृतिः कारणं येषान्ते चेति बहुव्रीहिः । रजस्तमसोरन्यतरमिश्रसत्त्वप्रकृतय इत्यर्थः ॥ ४४ ॥
श्लोक-४५
विश्वास-प्रस्तुतिः
यावन्नृकायरथमात्मवशोपकल्पं
धत्ते गरिष्ठचरणार्चनया निशातम्।
ज्ञानासिमच्युतबलो दधदस्तशत्रुः
स्वाराज्यतुष्ट उपशान्त इदं विजह्यात्॥
मूलम्
यावन्नृकाय85रथमान्नवशोप86क्लृप्तं धत्ते गरिष्ठचरणार्चनया निशातम्।
ज्ञानासिमच्युतब87लोऽथ निरस्त87शत्रुः स्वारा88ज्यतुष्ट उपशान्त इदं विजह्यात्॥ ४५ ॥
अनुवाद (हिन्दी)
यह मनुष्य-शरीररूप रथ जबतक अपने वशमें है और इसके इन्द्रिय मन-आदि सारे साधन अच्छी दशामें विद्यमान हैं, तभीतक श्रीगुरुदेवके चरणकमलोंकी सेवा-पूजासे शान धरायी हुई ज्ञानकी तीखी तलवार लेकर भगवान्के आश्रयसे इन शत्रुओंका नाश करके अपने स्वाराज्य-सिंहासनपर विराजमान हो जाय और फिर अत्यन्त शान्तभावसे इस शरीरका भी परित्याग कर दे॥ ४५॥
वीरराघवः
तदेवं शरीरेन्द्रियमनोविषयबुद्धिबलप्राणधर्माधर्मजीवाः रथरथाङ्गादिरथ्यादिभावेन परमात्म प्राप्त्युपायसाधनानुष्ठानोपयुक्तत्वज्ञापनाय रूपिताः । प्रणवजीवेशास्तुजीवपरयोस्सम्बन्धज्ञानजनकत्वपरमात्मैक शेषत्वप्राप्यत्वज्ञापनाय धनुश्शरलक्ष्यभावेन रूपिताः । हेयत्वज्ञापनाय रागादयश्शत्रुत्वेन रूपिताः । अथ यस्यैते रथादयो वशे तिष्ठन्ति स एवाऽध्वनः पारं वैष्णवं89 पदमाप्नोतीति “सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्” (कठ. उ. 3-9) इति श्रुतेरर्थमभिप्रयन् 90रथादिकमपि उपेक्षेत इत्याह - यावदिति90 । यावच्छरीरं समीहित साधने दक्षं स्ववशञ्च तावदेव ज्ञानासिना जितरागादिशत्रुः मुक्तिसाधनमनुतिष्ठन् शरीरादिषु निःस्पृहो भवेदित्याह - यावदिति नृकायरथं नरशरीररूपं रथं यावदात्मवशोपक्लृप्तं स्वाधीनतयोपक्लृप्तं यथा भवति तथा धत्ते । तावदेव गरिष्ठानां महतां चरणार्चनया लब्धं निशातं ज्ञानरूपं खड्गं दधत् बिभ्राणः अस्त्राः निरस्ताः शत्रवो रागादयो येन, अच्युतः 91स्वाश्रितान्नच्यावयतीति अच्युतः । भगवानेव बलं यस्य तादृश उपशान्तः रागाद्यकलुषितचित्तः स्वाराज्यतुष्टः स्वराडकर्मवश्यः तस्यभावः स्वाराज्यं मुक्तैश्वर्यं तेन तुष्टः अवश्यमच्युतः स्वाराज्यं दास्यतीति सन्तुष्ट इदं नृकाय रथादिकं विजह्यादुपेक्षेत, तेषु स्पृहारहितो भवेदित्यर्थः । 92इदमिति92 संसारकफलं वा विवक्षितम् ॥ ४५ ॥
श्लोक-४६
विश्वास-प्रस्तुतिः
नो चेत् प्रमत्तमसदिन्द्रियवाजिसूता
नीत्वोत्पथं विषयदस्युषु निक्षिपन्ति।
ते दस्यवः सहयसूतममुं तमोऽन्धे
संसारकूप उरुमृत्युभये क्षिपन्ति॥
मूलम्
नोचेत्प्रमत्तमसदिन्द्रियवाजिसूता नीत्वोत्पथं विषयदस्युषु निक्षिपन्ति।
ते दस्यवः सहयसूतममुं तमोऽन्धे संसारकूप उरुमृत्युभये क्षिपन्ति॥ ४६ ॥
अनुवाद (हिन्दी)
नहीं तो, तनिक भी प्रमाद हो जानेपर ये इन्द्रियरूप दुष्ट घोड़े और उनसे मित्रता रखनेवाला बुद्धिरूप सारथि रथके स्वामी जीवको उलटे रास्ते ले जाकर विषयरूपी लुटेरोंके हाथोंमें डाल देंगे। वे डाकू सारथि और घोड़ोंके सहित इस जीवको मृत्युसे अत्यन्त भयावने घोर अन्धकारमय संसारके कुएँमें गिरा देंगे॥ ४६॥
वीरराघवः
यद्युक्तविधो न स्यात् तदा तस्याऽनर्थमाह - नेति । नोचेदुक्तविधो न 93भवेत् तदा प्रमत्तमिमं देहिनमसन्तो बहिर्मुखा इन्द्रियवाजिनः इन्द्रियाण्येवाऽश्वाः, सूतो बुद्धिश्चैते उत्पथं प्रवृत्तिमार्गं नीत्वा विषयरूपेषु दस्युषु निक्षिपन्ति । ते विषयाख्या दस्यवः हयैस्सूतेन च सह वर्तमान ममुं प्रमत्तं देहिनम् उर्वधिकं मृत्युभयं यस्मिन्नन्धे तमसि अन्धतामिस्रनरकतुल्ये संसारकूपे क्षिपन्ति ॥ ४६ ॥
श्लोक-४७
विश्वास-प्रस्तुतिः
प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम्।
आवर्तेत प्रवृत्तेन निवृत्तेनाश्नुतेऽमृतम्॥
मूलम्
प्रवृत्तञ्च निवृत्तञ्च द्विविधं कर्मवैदिकम्।
आव88र्तते प्रवृत्तेन निवृत्तेनाऽश्नुतेऽमृतम्॥ ४७ ॥
अनुवाद (हिन्दी)
वैदिक कर्म दो प्रकारके हैं—एक तो वे जो वृत्तियोंको उनके विषयोंकी ओर ले जाते हैं—प्रवृत्तिपरक और दूसरे वे जो वृत्तियोंको उनके विषयोंकी ओरसे लौटाकर शान्त एवं आत्म-साक्षात्कारके योग्य बना देते हैं—निवृत्तिपरक। प्रवृत्तिपरक कर्ममार्गसे बार-बार जन्म-मृत्युकी प्राप्ति होती है और निवृत्तिपरक भक्तिमार्ग या ज्ञानमार्गके द्वारा परमात्माकी प्राप्ति होती है॥ ४७॥
वीरराघवः
तदेवं वर्णाश्रमधर्मान् तदनुग्राह्यं भक्तियोगं शरीरेन्द्रियादीनां तदनुष्ठानोपयुक्तत्वं तैरनुष्ठितेन वर्णाश्रमधर्मानुगृहीतेन भक्तियोगेन स्वाराज्यप्राप्तिं सांसारिकफललिप्सयाऽनुष्ठितानान्तु धर्माणां संसृतिरूपानर्थावहत्वञ्चाऽभिधाय अथ तेषामेव धर्माणामिष्टापूर्तभेदेन द्वैविध्यं सांसारिकफलसाधनत्वेन कृतानां प्रवृत्तकर्माख्यत्वं, पुनरावृत्तिहेतुत्वम्, उपसनानुग्राहकतया कृतानान्तु निवृ94त्तकर्माख्यत्वं, तस्याऽपुनरावृत्तिहेतुत्वञ्चाऽह - प्रवृत्तमिति । वैदिकं वेदविहितं कर्मप्रवृत्तं निवृत्तमिति द्विविधम् । तत्र प्रवृत्तेन कर्मणा आवर्तते फलानुभवाय लोकान्तरं प्राप्य तत्र तदनुभूय अवशिष्टेन कर्मणा ततः पुनरिहाऽवर्तते । निवृत्तेन तु अमृतमश्नुते, तत्फलरूपममृतं मुक्तिं प्राप्य ततः पुनर्नाऽवर्तते ॥ ४७ ॥
श्लोक-४८
विश्वास-प्रस्तुतिः
हिंस्रं द्रव्यमयं काम्यमग्निहोत्राद्यशान्तिदम्।
दर्शश्च पूर्णमासश्च चातुर्मास्यं पशुः सुतः॥
मूलम्
हिंस्रं द्रव्यमयं काम्यमग्निहोत्राद्यशान्तिदम्।
दर्शश्च पूर्णमासश्च चातुर्मास्यं95 पशुः 96सुतः॥ ४८ ॥
वीरराघवः
प्रवृत्तनिवृत्तभेदभिन्नस्य वैदिकस्यैव कर्मणः तत्स्वरूपमिष्टसंज्ञकत्वञ्च वक्तुं तद्विशिंषन् तदवान्तरभेदान्दर्शयति - हिंस्रमिति । अग्रिहोत्रनामधेयकं कर्म आदिर्यस्य तदग्निहोत्रादि । आदिशब्दग्राह्यान्दर्शयति - दर्शश्चेति । दर्शादयश्शब्दाः कर्मनामधेयानि । पशुः पशुयागः । सुतः सोमयागः ॥ ४८ ॥
श्लोक-४९
विश्वास-प्रस्तुतिः
एतदिष्टं प्रवृत्ताख्यं हुतं प्रहुतमेव च।
पूर्तं सुरालयारामकूपाजीव्यादिलक्षणम्॥
मूलम्
एतदिष्टं प्रवृत्ताख्यं हुतं प्र97हुतमेव च।
पूर्वं सुरालयारामकूपाजीव्यादिलक्षणम्॥ ४९ ॥
अनुवाद (हिन्दी)
श्येनयागादि हिंसामय कर्म, अग्निहोत्र, दर्श, पूर्णमास, चातुर्मास्य, पशुयाग, सोमयाग, वैश्वदेव, बलिहरण आदि द्रव्यमय कर्म ‘इष्ट’ कहलाते हैं और देवालय, बगीचा, कुआँ आदि बनवाना तथा प्याऊ आदि लगाना ‘पूर्त्तकर्म’ हैं। ये सभी प्रवृत्तिपरक कर्म हैं और सकामभावसे युक्त होनेपर अशान्तिके ही कारण बनते हैं॥ ४८-४९॥
वीरराघवः
हुतं वैश्वदेवं, प्रहुत्तं बलिहरणम् । तदेतत्सर्वं वैदिकं कर्म 98इष्टमिष्टाख्यम् । यद्येतदेव कर्म हिंस्रद्रव्यमयं हिंसाविषयद्रव्यप्रचुरम् । हिंस्रमितिपाठे पश्वादिहिंसागर्भं पुरोडाशादिद्रव्यप्रचुरचकाम्यं स्वर्गादिकामार्थमशान्तिदं पूर्वोक्तरागाद्यनिवृत्तिदं स्यात्, तदा प्रवृ99त्ताख्यम् अकाम्यं शान्तिदं स्यात् तदा निवृत्ताख्यमित्यर्थः । अथ पूर्तसंज्ञकं कर्माऽह - पूर्तमिति । देवालयादिनिर्माणरूपं कर्मपूर्तम् । आजीव्यमाजीविका ॥ ४९ ॥
श्लोक-५०
विश्वास-प्रस्तुतिः
द्रव्यसूक्ष्मविपाकश्च धूमो रात्रिरपक्षयः।
अयनं दक्षिणं सोमो दर्श ओषधिवीरुधः॥
मूलम्
द्रव्य100सूक्ष्मविपाकश्च धूमो रात्रिरपक्षयः।
अयनं दक्षिणं सोमो दर्श ओषधि वीरुधः॥ ५० ॥
श्लोक-५१
विश्वास-प्रस्तुतिः
अन्नं रेत इति क्ष्मेश पितृयानं पुनर्भवः।
एकैकश्येनानुपूर्वं भूत्वा भूत्वेह जायते॥
मूलम्
अन्नं रेत इति क्ष्मेशः पितृया101नं पुनर्भवः।
एकैकश102श्चानुपूर्व्या102त् भूत्वा भूत्वेहजायते॥ ५१ ॥
अनुवाद (हिन्दी)
प्रवृत्तिपरायण पुरुष मरनेपर चरु-पुरोडाशादि यज्ञ-सम्बन्धी द्रव्योंके सूक्ष्मभागसे बना हुआ शरीर धारणकर धूमाभिमानी देवताओंके पास जाता है। फिर क्रमशः रात्रि, कृष्णपक्ष और दक्षिणायनके अभिमानी देवताओंके पास जाकर चन्द्रलोकमें पहुँचता है। वहाँसे भोग समाप्त होनेपर अमावस्याके चन्द्रमाके समान क्षीण होकर वृष्टिद्वारा क्रमशः ओषधि, लता, अन्न और वीर्यके रूपमें परिणत होकर पितृयानमार्गसे पुनः संसारमें ही जन्म लेता है॥ ५०-५१॥
वीरराघवः
तत्र प्रवृत्तिधर्मपरायणस्य त्रैवर्णिकस्य तत्फलानुभवाय लोकान्तरारोहणमार्गं, फलानुभवावसाने, ततः पुनरेव रोहणमार्गमेवं सञ्चरतो भूतसूक्ष्मपरिष्वक्तत्वञ्चाऽह द्रव्येत्यादिना सार्धद्वयेन । निषेकादिश्मशानान्तैः गर्भाधानादिश्मशानान्तैः 103संस्कारैः संस्कृतो द्विजस्त्रैवर्णिकः इष्टापूर्तं दत्तकारी देहात्यागानन्तरं द्रव्यसूक्ष्मविपाकः द्रव्याणां पृथिव्यादिभूतानां सू104क्ष्मा विपाकाः सूक्ष्मावस्था यस्य सूक्ष्मावस्थपृथिव्यादिभूतयुक्तः भूतसूक्ष्मपरिष्वक्त इति यावत् । हे क्ष्मेश ! पृथिवीपते ! धूमादयश्शब्दाः तदभिमानिदेवतापराः । तत्र अपक्षयः अपरपक्षः अयनं दक्षिणं दक्षिणायनं सोमश्चन्द्रः । इति शब्दः प्रत्येकमन्वेति । धूम इति रात्रिरिति तानेकैकश आनुपूर्व्येण भूत्वा भूत्वा । भूप्राप्तावात्मनेपदीति भवतिरत्र प्राप्त्यर्थकः । प्राप्य प्राप्येत्यर्थः । धूमादिक्रमेणचन्द्रं प्राप्य तत्राऽमृतमयशरीरयुक्त इष्टादि कर्मफलमनुभूय ततः दर्शः दर्शस्य चन्द्रकलाक्षयहेतुत्वादिना दर्शशब्देन चन्द्रं प्राप्तस्याऽमृतमय शरीरनाशो लक्ष्यते । विनष्टामृतमयशरीर इत्यर्थः । चन्द्रमसः स्थानात् क्रमेणौषध्यादीन् प्राप्येहलोके जायते । एतच्च पितृयानं पुनर्भवहेतुरित्यर्थः । यद्वा, चन्द्रपर्यन्तं पितृयानं ततो रेतः पर्यन्तं पुनर्भवयानमित्यर्थः । तत्र दक्षिणायनसोमयोर्मध्ये पितृलोकः आकाशश्च द्रष्टव्यः । ओषधेः पूर्वं क्रमेणाऽकाशवायुधूमाभ्रमेघवर्षाणि द्रष्टव्यानि । तत्राऽरोहणं धूमरात्र्यपरपक्षदक्षिणायनषण्मासपितृलोकाकाशचन्द्रक्रमेण । अवरोहणन्तु चन्द्रमसः स्थानात् आकाशवायुधूमाभ्रमेघवर्षौषधीवीरुदन्यतरान्नरेतः क्रमेणेत्यर्थः । यथा च श्रूयते छान्दोग्ये- “अथ य इमे ग्रामे इष्टापूर्ते दत्तमित्युपासते ते धूममभिसम्भवन्ति धूमाद्रात्रिं रात्रेरपरपक्षमपरपक्षाद्यान् षड् दक्षिणेति मासां स्तानेवैते संवत्सरमभिप्राप्नुवन्ति मासेभ्यः पितृलोकं पितृलोकादाकाशमाकाशाच्चन्द्रमसमेष सोमो राजा तद्देवानामन्नं तं देवा भक्षयन्ति तस्मिन् यावत्सम्पातमुषित्वाथैतमेवाऽध्वानं पुनर्निवर्तन्ते यथैतमाकाशमाकाशाद्वायुं वायुर्भूत्वा धूमो भवति धूमो भूत्वा अभ्रं भवति अभ्रं भूत्वा मेघो भवति मेघो भूत्वा प्रवर्षति । इह व्रीहि यवा ओषधिवनस्पतयस्तिलमाषाजायन्तेऽतो वै खलुदुर्निष्प्रपतरं योयो ह्यन्नमत्ति योयोरेतस्सिञ्चति तद्भय एव भवति तद्य इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयां योनिमापद्येरन् ब्राह्मणयोनिं वा क्षत्रिययोनिं वा वैश्ययोनिं वा चाण्डालयोनिं वा अथ य इह कपूयचरणा अभ्याशो ह यत्ते कपूयां योनिमापद्येरन् श्वयोनिं वा सूकरयोनिं वा चाण्डालयोनि वा” (छान्दो, उ. 5-10-3to7) इति । तत्रारोहणदशायां धूमाद्यभिमानिदेवतालोकगमनमेव धूमादि भावः । अवरोहणे त्वाकाशवायुधूमाभ्रमेघवर्षेषु तद्भावो नाम तत्संसर्गकृततत्सादृश्यापत्तिरेव “तत्स्वाभाव्यापत्तिरुपपत्तेः” (ब्र.सू. 3-1-22) इति शारीरकन्यायात् । व्रीह्यादिभावो नाम जीवान्तराधिष्ठित व्रीह्यादिसंश्लेषमात्रम् “अन्याधिष्ठिते पूर्ववदभिलापात्” (ब्र.सू.3-1-24) इति न्यायात् । एवं वाऽन्वयः द्रव्यसूक्ष्मविपाक इति द्रव्यसूक्ष्मविपाकादय इत्येते सोमपर्यन्ताः पितृयानं, दर्शादयोरेतः पर्यन्ता पुनर्भवः गर्भाधानादिश्मशानान्तैः संस्कृत इष्टादिकारी आनुपूर्व्यात् क्रमेण भूत्वा भूत्वा रात्र्यादीन् प्राप्य प्राप्य पुनरिह जायते इति ॥ ५०,५१ ॥
श्लोक-५२
विश्वास-प्रस्तुतिः
निषेकादिश्मशानान्तैः संस्कारैः संस्कृतो द्विजः।
इन्द्रियेषु क्रियायज्ञान् ज्ञानदीपेषु जुह्वति॥
मूलम्
निषेकादिश्मशानान्तैः संस्कारैस्संस्कृतोद्विजः।
इन्द्रियेषु क्रियायज्ञान् ज्ञानदीपेषु जुह्वति॥ ५२ ॥
अनुवाद (हिन्दी)
युधिष्ठिर! गर्भाधानसे लेकर अन्त्येष्टिपर्यन्त सम्पूर्ण संस्कार जिनके होते हैं, उनको ‘द्विज’ कहते हैं। (उनमेंसे कुछ तो पूर्वोक्त प्रवृत्तिमार्गका अनुष्ठान करते हैं और कुछ आगे कहे जानेवाले निवृत्तिमार्गका।) निवृत्तिपरायण पुरुष इष्ट, पूर्त्त आदि कर्मोंसे होनेवाले समस्त यज्ञोंको विषयोंका ज्ञान करानेवाले इन्द्रियोंमें हवन कर देता है॥ ५२॥
श्लोक-५३
विश्वास-प्रस्तुतिः
इन्द्रियाणि मनस्यूर्मौ वाचि वैकारिकं मनः।
वाचं वर्णसमाम्नाये तमोङ्कारे स्वरे न्यसेत्।
ओङ्कारं बिन्दौ नादे तं तं तु प्राणे महत्यमुम्॥
मूलम्
इन्द्रियाणिमन105स्यूर्मौ वाचि वैकारिकं मनः।
106वाचं वर्णसमाम्नाये तमोङ्कारे स्वरे न्यसेत्।
ओङ्कारं 107बिन्दुनादे108तु तन्तु प्राणेमहत्यमुम्॥ ५३ ॥
अनुवाद (हिन्दी)
इन्द्रियोंको दर्शनादि-संकल्परूप मनमें, वैकारिक मनको परा वाणीमें और परा वाणीको वर्णसमुदायमें, वर्णसमुदायको ‘अ उ म्’ इन तीन स्वरोंके रूपमें रहनेवाले ॐ कारमें, ॐ कारको बिन्दुमें, बिन्दुको नादमें, नादको सूत्रात्मारूप प्राणमें तथा प्राणको ब्रह्ममें लीन कर देता है॥ ५३॥
वीरराघवः
अथापुनर्भवं देवयानं वक्तुं तेन जिगमिषोर्निवृत्तधर्मनिष्ठस्य तावत्कृत्यमनुसन्धानमाह - इन्द्रियेष्विति द्वाभ्याम् । ज्ञानदीपेषु ज्ञानदीपकेषु चक्षुरादीन्द्रियेषु क्रियायज्ञान् कर्मेन्द्रियव्यापारान् जुह्वति, देवयानेन जिग्मिषव इति शेषः । चक्षुरादिभिर्ज्ञानेन्द्रियैः पाणिपादादिकर्मेन्द्रियाणि नियच्छेयुरित्यर्थः । इन्द्रियाणि चक्षुरादीनि ज्ञानेन्द्रियाणि सङ्कल्पविकल्पादिरूपोर्मिमति मनसि जुह्वति मनसा तानि नियच्छेयुरित्यर्थः । वैकारिकं सत्त्वोत्तरं वाचि शास्त्रात्मिकायां मनः मनसः उच्छास्त्रप्रवृत्तिं निरु109न्ध्युः इत्यर्थः । वाचं वर्णसमाम्नायमोङ्कारेऽन्तर्गतं विदुः तमोङ्कारं बिन्दुनादे चतुर्थ्यां मात्रायां, बिन्दुनादञ्च प्राणिप्राणसहचारिणिमकारवाच्ये जीवे वाचकत्वेनान्तर्भावयेयुः । अमुं जीवं महति महदात्मनि परब्रह्मणि समर्पयेयुरिति मुमुक्षोरनुसन्धानप्रकार उक्तः ॥ ५२,५३ ॥
श्लोक-५४
विश्वास-प्रस्तुतिः
अग्निः सूर्यो दिवा प्राह्णः शुक्लो राकोत्तरं स्वराट्।
विश्वश्च तैजसः प्राज्ञस्तुर्य आत्मा समन्वयात्॥
मूलम्
अग्निस्सूर्योदिवा110प्राह्णः शुक्लोराकोत्त111रं स्वराट्।
112विश्वोऽथ तैजसः प्राज्ञस्तुर्य आत्मासमन्व113यात्॥ ५४ ॥
अनुवाद (हिन्दी)
वह निवृत्तिनिष्ठ ज्ञानी क्रमशः अग्नि, सूर्य, दिन, सायंकाल, शुक्लपक्ष, पूर्णमासी और उत्तरायणके अभिमानी देवताओंके पास जाकर ब्रह्मलोकमें पहुँचता है और वहाँके भोग समाप्त होनेपर वह स्थूलोपाधिक ‘विश्व’ अपनी स्थूल उपाधिको सूक्ष्ममें लीन करके सूक्ष्मोपाधिक ‘तैजस’ हो जाता है। फिर सूक्ष्म उपाधिको कारणमें लय करके कारणोपाधिक ‘प्राज्ञ’ रूपसे स्थित होता है; फिर सबके साक्षीरूपसे सर्वत्र अनुगत होनेके कारण साक्षीके ही स्वरूपमें कारणोपाधिका लय करके ‘तुरीय’ रूपसे स्थित होता है। इस प्रकार दृश्योंका लय हो जानेपर वह शुद्ध आत्मा रह जाता है। यही मोक्षपद है॥ ५४॥
वीरराघवः
अथ तस्य गतिहेतुभूतमर्चिरादिमार्गमंशतोदर्शयति - अग्रिरिति । अग्र्यादिशब्दाः तदाभिमा114नि देवतापराः । अत्र न क्रमविवक्षा, श्रौतक्रमविरोधात् । ननु सर्योऽग्निरनन्तरं दिवसादिभ्यः पूर्वं श्रूयते, किन्त्वेवं “तद्य इत्थं विदुर्येचेमेऽरण्ये श्रद्धां तप इत्युपासते, तेऽर्चिषमभिसम्भवन्ति, अर्चिषोऽहरह्न आपूर्यमाणपक्षाद्यान् षडुदङ्डेतिमासांस्तान्मासेभ्यः संवत्सरं संवत्सरादादित्यमादित्याच्चन्द्रमसं, चन्द्रमसो विद्युतं तत्पुरुषोऽमानवः स एनान् ब्रह्म गमयत्येष देवयानः पन्थाः” (छन्दो. उ. 5-10-1,2) इति । अत्र संवत्सरादनन्तरं वायुं विद्युतोऽनन्तरं वरुणेन्द्रौ च जानीयात् । कौषीतकिब्राह्मणे “एतं देवयानं पन्थानमापद्याऽग्निलोकमागच्छति 115सवायुलोकं115 सवरुणलोकं स आदित्यलोकं स इन्द्रलोकं स प्रजापतिलोकम्” (कौषी. उ. 1-3) इति श्रवणात्, स्वराडत्रामानवः प्रजापतिर्वा । अयञ्च सकलश्रुत्यविरोधेन निर्णीतः क्रमो वरदगुरुभिरभिहितः - “अग्रिरहस्सित पक्षानुदगयनाब्दमरुदर्केन्दुन् । अपि वैद्युतवरुणेन्द्रप्रजापती - नातिवाहिकानाहुः" इति पूर्वाह्नोराका चाऽनधीत शाखान्तरेष्वामन्तव्यौ । उत्तरं उत्तरायणम् । एवं मुक्तप्राप्यभगवल्लोकमार्गो दर्शितः । तत्र प्राप्यस्य भगवतः चतुर्व्यूहविशिष्टतामाह - विश्व इति । यथा सर्वज्ञसंहितायाम् “सृष्टिस्थित्यन्तकारिण्यश्शक्तयस्तत्र ऊर्जिताः” इत्युपक्रम्य “अकारशक्तिर्विश्वाख्या उकाराख्यातु तैजसी । मकारशक्तिः प्राज्ञाख्या तासां रूपं पुनः शृणु” इत्यादिना जाग्रदाद्यवस्थान्वयादिक मुक्त्वा “एतस्तिस्रो दशास्तिस्रः शक्तीः सम्प्रीणयन्ति ताः । अनिरुद्धादिरूपा स्ता भोक्तुश्शक्तीर्विचिन्तयेत् । अर्धमात्रा धिया दिव्याऽप्रकाशार्थप्रकाशिका । वासुदेवमयीं शक्तिं विद्धितामनुपस्कृताम्” इत्युक्तम् । अतः सृष्ट्यधिष्ठाता जाग्रदवस्थानिर्वाहकोऽनिरुद्धो विश्वस्थित्याधिष्ठाता, स्वननिर्वाहकः प्रद्युम्नस्तैजसः संहृतिशक्त्यधिष्ठाता सुषुप्तिनिर्वाहकः सङ्कर्षणः प्राज्ञः । एतेचाकारोकारमकारवाच्याः । सर्वकारणभूतः सर्वशक्तिर्मोक्षप्रदः प्रणवार्थ मात्रावाच्यो वासुदेवस्तुर्यश्चतुर्थमात्रासहितप्रणवस्य पूर्वमनुसन्धेयतया प्रकृतत्वादेवं तस्यार्थः फलदशायां प्राप्यतयोक्तः । इदं प्रदर्शनार्थमुक्तम् । परव्यूहविभवादि सर्वावस्थाविशिष्टो भगवान्मुक्तप्राप्य इत्यर्थः । समन्वयात्सर्वेषां व्यूहादीनां प्राप्यान्तर्भावादित्यर्थः ॥ ५४ ॥
श्लोक-५५
विश्वास-प्रस्तुतिः
देवयानमिदं प्राहुर्भूत्वा भूत्वानुपूर्वशः।
आत्मयाज्युपशान्तात्मा ह्यात्मस्थो न निवर्तते॥
मूलम्
देवयानमिदं प्राहुर्भूत्वाभूत्वाऽनुपूर्वशः।
आत्मयाज्युपशान्तात्मा ह्यात्मस्थो न निवर्तते॥ ५५ ॥
अनुवाद (हिन्दी)
इसे ‘देवयान’ मार्ग कहते हैं। इस मार्गसे जानेवाला आत्मोपासक संसारकी ओरसे निवृत्त होकर क्रमशः एकसे दूसरे देवताके पास होता हुआ ब्रह्मलोकमें जाकर अपने स्वरूपमें स्थित हो जाता है। वह प्रवृत्तिमार्गीके समान फिर जन्म-मृत्युके चक्करमें नहीं पड़ता॥ ५५॥
वीरराघवः
इदं देवयानं प्राहुः, वेदान्ता इति शेषः । आत्मयाजी परमात्मोपासकः अनुपूर्वशः क्रमेणार्चिरादीन् प्राप्य उपशान्तः निश्शेषनिवृत्त आत्मा प्रकृतिर्यस्य तादृशः आत्मनि परमात्मनिस्थितः आधेयतयास्थितः आत्मन्याविर्भूतापहतपाप्मत्वादिगुणाष्टकयुक्ते ब्रह्मात्मके स्वस्वरूपे स्थितः उक्तविधब्रह्मशेषत्वेनाऽऽत्मानमनुभवन्नित्यर्थः पुनस्ततो न निवर्तते । एवं देवयानपथगो भूत्वा न निवर्तते जन्ममरणादिकं तद्धेतुभूतपुनरावृत्तिञ्च न प्राप्नोतीत्यर्थः ॥ ५५ ॥
श्लोक-५६
विश्वास-प्रस्तुतिः
य एते पितृदेवानामयने वेदनिर्मिते।
शास्त्रेण चक्षुषा वेद जनस्थोऽपि न मुह्यति॥
मूलम्
य एते पितृदेवानामयने वेदनिर्मिते।
शास्त्रेण चक्षुषावेद जनस्थोऽपि न मुह्यति॥ ५६ ॥
अनुवाद (हिन्दी)
ये पितृयान और देवयान दोनों ही वेदोक्त मार्ग हैं। जो शास्त्रीय दृष्टिसे इन्हें तत्त्वतः जान लेता है, वह शरीरमें स्थित रहता हुआ भी मोहित नहीं होता॥ ५६॥
वीरराघवः
“नैते सृती पार्थ जानन्योगी मुह्यति कश्चन । तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन !” (भ.गी. 8-27) इति श्रीभगवदुक्तमार्गद्वयचिन्ताफलमाह - य एत इति । यः पुमान्मुमुक्षुः वेदनिर्मिते वेदबोधिते एते पितृदेवानामयने वर्त्मनि देवयानपितृयाने शास्त्रात्मकेन चक्षुषा वेद । सोऽपि पुमान्न मुह्यति । जनस्थोऽपीति पाठे देहस्थोऽपीत्यर्थः । स्वानुष्ठेयभगवद्भक्तियोगे मोहं न प्राप्नोतीत्यर्थः ॥ ५६ ॥
श्लोक-५७
विश्वास-प्रस्तुतिः
आदावन्ते जनानां सद् बहिरन्तः परावरम्।
ज्ञानं ज्ञेयं वचो वाच्यं तमो ज्योतिस्त्वयं स्वयम्॥
मूलम्
आदावन्ते ज116नानां सद् बहिरन्तः परावरम्।
ज्ञानं ज्ञेयं वचो वाच्यं तमो ज्योति117श्च यत्स्वयम्117॥ ५७ ॥
अनुवाद (हिन्दी)
पैदा होनेवाले शरीरोंके पहले भी कारणरूपसे और उनका अन्त हो जानेपर भी उनकी अवधिरूपसे जो स्वयं विद्यमान रहता है, जो भोगरूपसे बाहर और भोक्तारूपसे भीतर है तथा ऊँच और नीच, जानना और जाननेका विषय, वाणी और वाणीका विषय, अन्धकार और प्रकाश आदि वस्तुओंके रूपमें जो कुछ भी उपलब्ध होता है, वह सब स्वयं यह तत्त्ववेत्ता ही है। इसीसे मोह उसका स्पर्श नहीं कर सकता॥ ५७॥
वीरराघवः
अथ प्राप्यतया प्रकृतस्य भगवतः सर्वात्मकत्वमाह - आदाविति । आदौ सृष्ट्यादौ अन्ते प्रलये च मध्यस्थानां जनानामन्तर्बहिश्च सन् वर्तमानः । किञ्च यत् परावर118 उत्कृष्टापकृष्टं वा । तत्रोत्कृष्टमाह - ज्ञानं ज्ञानात्मकं जीवस्वरूपं ज्ञेयमचिद्वस्तु, परं वचोनाम वाच्यं रूपं नाम रूपात्मकं चिदचिदात्मकं सर्वं वस्तु इत्यर्थः । तमो मूलप्रकृतिः, ज्योतिः समष्टिजीवश्चेति एतत्सर्वं साक्षादयमेव परमात्मैव परमात्मात्मकमेवेत्यर्थः ॥ ५७ ॥
श्लोक-५८
विश्वास-प्रस्तुतिः
आबाधितोऽपि ह्याभासो यथा वस्तुतया स्मृतः।
दुर्घटत्वादैन्द्रियकं तद्विदर्थविकल्पितम्॥
मूलम्
119अबाधितोऽपि ह्याभासो यथा वस्तुतया स्मृतः।
दुर्घटत्वादैन्द्रियकं तद्वदर्थविकल्पितम्॥ ५८ ॥
अनुवाद (हिन्दी)
दर्पण आदिमें दीख पड़नेवाला प्रतिबिम्ब विचार और युक्तिसे बाधित है, उसका उनमें अस्तित्व है नहीं; फिर भी वस्तुके रूपमें तो वह दीखता ही है। वैसे ही इन्द्रियोंके द्वारा दीखनेवाला वस्तुओंका भेदभाव भी विचार, युक्ति और आत्मानुभवसे असम्भव होनेके कारण वस्तुतः न होनेपर भी सत्य-सा प्रतीत होता है॥ ५८॥
वीरराघवः
एवं सर्वात्मकत्वमभिधाय तस्यैव प्राप्यस्य ब्रह्मणो निरतिशयपुरुषार्थत्वज्ञापनाय प्राकृतदेहस्य तदनुभाव्यशब्दादिविषयाणाञ्च अपुरुषार्थत्वमाह - अबाधित इति । आभासो दृश्यो देहः स अबाधितोऽविनष्टोऽपि, अनुवर्तमानेऽपि अवस्तुतया अपुरुषार्थतया स्मृतः । एवं शब्दाद्यर्थरूपेण विकल्पितमैन्द्रियकवस्तुजातमप्यवस्तु अपुरुषार्थम् । यद्वा - अहङ्कारगोचरं शरीरं यथाऽनित्यहेयं, तथा ममकारगोचरः शब्दादिरप्यपुरुषार्थः, न स्थिरः, तस्य अनित्यपुरुषार्थतया दुर्घटत्वादित्यर्थः । यद्वा - आभासः स्वप्रदेहः स तदानीमनिवृत्तोऽपि प्रबोधवेलायामवस्तुतया अनात्मतया स्मृतः जात्यादिविकल्पितजाग्रच्छरीरमपि तद्वदनात्मा आत्मधर्माणां नित्यत्वादीनां तत्र दुर्घटत्वादित्यर्थः ॥ ५८ ॥
श्लोक-५९
विश्वास-प्रस्तुतिः
क्षित्यादीनामिहार्थानां छाया न कतमापि हि।
न संघातो विकारोऽपि न पृथङ्नान्वितो मृषा॥
मूलम्
क्षित्यादीनामिहार्थानां 120छाया न कत121माऽपि हि।
न सङ्घातो विकारोऽपि न पृथक् नान्वि122तो मृषा॥ ५९ ॥
अनुवाद (हिन्दी)
पृथ्वी आदि पंचभूतोंसे इस शरीरका निर्माण नहीं हुआ है। वास्तविक दृष्टिसे देखा जाय तो न तो वह उन पंचभूतोंका संघात है और न विकार या परिणाम ही। क्योंकि यह अपने अवयवोंसे न तो पृथक् है और न उनमें अनुगत ही है, अतएव मिथ्या है॥ ५९॥
वीरराघवः
शरीरस्य सर्वत्र सर्वकाले सर्वस्मिन्नपि आत्मना विना स्थित्यभावात् शरीरमप्यात्मा स्यादिति । शङ्कानिरासार्थमाह - क्षित्यादीनामिति । क्षित्यादीनां पृथिव्यादिपरिणामरूपाणां वृक्षाणां छाया सङ्घातादिष्वर्थेषु न कतमोऽपि सङ्घातविकारपृथग्भूततया यावद्द्द्रव्यभाविषु न कश्चिदपीत्यर्थः । तदेव विवृणोति - न सङ्घात इति । वृक्षसङ्घातो न छाया, नाऽपि वृक्षविकारः, नाऽपि वृक्षात्पृथक्, वृक्षं हित्वा स्थातुं न योग्य नाऽन्वितः नाऽविनाभूतः यावद्वृक्षसत्ताकं नाऽन्वितोऽपि, अर्थाभिप्रायः पुंलिङ्गनिर्देशः । मृषा अनित्या एवं शरीरमप्यात्मना विना स्थित्यभावात् प्रतिच्छायासदृशं, न चाऽत्मसङ्घातः शरीरं न चाऽत्म विकारः नचाऽत्मानं हित्वा तिष्ठति, न यावदात्मभावी अनित्यत्वात्; अतो नाऽत्मा शरीरमित्यर्थः ॥ ५९ ॥
श्लोक-६०
विश्वास-प्रस्तुतिः
धातवोऽवयवित्वाच्च तन्मात्रावयवैर्विना।
न स्युर्ह्यसत्यवयविन्यसन्नवयवोऽन्ततः॥
अनुवाद (हिन्दी)
इसी प्रकार शरीरके कारणरूप पंचभूत भी अवयवी होनेके कारण अपने अवयवों—सूक्ष्मभूतोंसे भिन्न नहीं हैं, अवयवरूप ही हैं। जब बहुत खोजबीन करनेपर भी अवयवोंके अतिरिक्त अवयवीका अस्तित्व नहीं मिलता—वह असत् ही सिद्ध होता है, तब अपने-आप ही यह सिद्ध हो जाता है कि ये अवयव भी असत्य ही हैं॥ ६०॥
वीरराघवः
शरीरस्याऽनित्यत्वादात्मप्रतिपत्त्यर्थं तत्तुल्यन्यायेषु पृथिव्यादिष्वनित्यत्वमुपपादयति - धातव इति । पृथिव्यादयो धातवः अवयवित्वात् सङ्घातरूपत्वात् तन्मात्रावयवैर्विना न स्युः, अवयविनाशे सङ्घातो नश्यतीत्यर्थः । सङ्घातरूपत्वमेव प्रतिपादयति - असतीति । यतोऽवयवसङ्घातरूपोऽवयवी । अत एवावयविन्यसति विनष्टे अन्ततोऽवयवोऽसन्नेव । अवयविन्यनुपलभ्यमानेऽवयवा एव धातवो नह्युपालभ्यन्ते । एवमवयवित्वादनित्यं शरीरं, नित्यमात्मा न भवतीत्यर्थः ॥ ६० ॥
श्लोक-६१
विश्वास-प्रस्तुतिः
स्यात् सादृश्यभ्रमस्तावद् विकल्पे सति वस्तुनः।
जाग्रत्स्वापौ यथा स्वप्ने तथा विधिनिषेधता॥
मूलम्
स्यात्सादृश्यभ्रमस्तावद्विकल्पे सति वस्तुनः।
जाग्र124त्स्वाप्नौ यथा स्वप्ने तथा विधिनिषेधता॥ ६१ ॥
अनुवाद (हिन्दी)
जबतक अज्ञानके कारण एक ही परमतत्त्वमें अनेक वस्तुओंके भेद मालूम पड़ते रहते हैं, तबतक यह भ्रम भी रह सकता है कि जो वस्तुएँ पहले थीं, वे अब भी हैं और स्वप्नमें भी जिस प्रकार जाग्रत्, स्वप्न आदि अवस्थाओंके अलग-अलग अनुभव होते ही हैं तथा उनमें भी विधि-निषेधके शास्त्र रहते हैं—वैसे ही जबतक इन भिन्नताओंके अस्तित्वका मोह बना हुआ है, तबतक यहाँ भी विधि-निषेधके शास्त्र हैं ही॥ ६१॥
वीरराघवः
तर्हि स्थूलोऽहमिति प्रतीतिः कथम्? इत्यपेक्षायां भ्रान्तिरित्याह - स्यात्सादृश्यमिति । तत्र संसर्गनिमित्ता भ्रान्तिरिति प्रतिपत्त्यर्थं सादृश्यनिमित्तत्वं प्रतिक्षिपति - स्यादिति । द्वयोरप्यर्थयोर्ज्ञानादिगुणविकल्पे सति कस्यचिद्वस्तुनः केनचित्सादृश्यं भ्रममभेदनिमित्तं स्यात् । देहात्मनोस्तु समानजातिगुणाद्यभावात् सादृश्यमनुपपन्नम् । उष्ण जलमितिवत्125 संसर्गभ्रम इत्यर्थसिद्धम् । एवमात्मविषयकज्ञानाभावेऽपि जानामि न जानामीति विभागप्रतिपत्तौ दृष्टान्तमाह - जाग्रत्स्वप्नाविति । कश्चित्सुप्तिवेलायामेव सुप्तं प्रबुद्धञ्चाऽत्मानं पश्यति । यदा प्रबुध्यते तदा स्वप्नदृष्टप्रबोधो न वास्तव इति बुध्यते । एवमनात्मविदां संसारिणां कदाचित् अहञ्जानामीति ज्ञानं निषेधश्च आत्मयाथात्म्यज्ञानाननुवृत्तावेव भवत इति विधिनिषेधता विधिनिषेधौ स्वप्नदृष्टस्वप्नप्रबोधतुल्यावित्यर्थः । संसारिणामात्मज्ञानाभावात् बाह्यार्थविषयज्ञानमपि अज्ञानतुल्यमित्युक्तं भवति । यथा - “तज्ज्ञानमज्ञानमतोऽन्यदुक्तम्” इति । शास्त्रविरुद्धार्थविषयज्ञानभ्रान्तिरियं ज्ञानिनां नाऽस्तीत्याह - भावाद्वैतमिति । यद्वा एवं देहविलक्षणात्मज्ञानिनामपि यावत् स्थूलोऽहं ब्राह्मणोऽहमिति देहात्मभ्रमानुवृत्तिराप्रयाणं तावद्विधिनिषेधात्मकशास्त्रावश्यकतेत्याह जाग्रत्स्वप्नाविति । यथा स्वप्ने जाग्रत्स्वप्नौ जाग्रत्स्वप्नावस्थे स्वप्नपर्यन्तावेव । प्रबुद्धस्य तु तावुभौ निवर्तेते, 126तद्वदित्यर्थः126 ॥ ६१ ॥
श्लोक-६२
विश्वास-प्रस्तुतिः
भावाद्वैतं क्रियाद्वैतं द्रव्याद्वैतं तथाऽऽत्मनः।
वर्तयन्स्वानुभूत्येह त्रीन्स्वप्नान्धुनुते मुनिः॥
मूलम्
भावाद्वैतं क्रियाद्वैतं द्रव्याद्वैतं तथाऽऽत्मनः।
वर्तयत्स्वानुभूत्येह त्रीन्स्वप्नान्धुनुते मुनिः॥ ६२ ॥
अनुवाद (हिन्दी)
जो विचारशील पुरुष स्वानुभूतिसे आत्माके त्रिविध अद्वैतका साक्षात्कार करते हैं—वे जाग्रत्, स्वप्न, सुषुप्ति और द्रष्टा, दर्शन तथा दृश्यके भेदरूप स्वप्नको मिटा देते हैं। ये अद्वैत तीन प्रकारके हैं—भावाद्वैत, क्रियाद्वैत और द्रव्याद्वैत॥ ६२॥
वीरराघवः
एवं यावद्देहात्मभ्रमानुवृत्तिस्तावद्विधिनिषेधता स्थूलोऽहं ब्राह्मणोऽहमिति प्रतीतेर्देहात्मनोरभेदे भ्रममूलकत्वेन प्रतिषिद्धे किमेवमेव सर्वमद्वैतं भ्रमविषयम् । उत किञ्चित्प्रमितिविषयं 127अपि अस्तीत्याशङ्कायां यच्छास्त्रानुमतमद्वैतं तत्प्रमाविषयं तन्मुमुक्षोरनुसन्धेयमेवेति वक्तुं तदनुमतं त्रिविधमद्वैतं दर्शयन् तदनुसन्धानस्य भ्रममूलकद्वैतत्रयनिरासकत्वमाह - भावाद्वैतमिति । यथा देहात्मनोर्भेदः शास्त्रानुमतोऽनुसन्धेयः तथा भावाद्वैतादिरूपं त्रिविधमद्वैतमात्मनः स्वस्य वर्तयन् । यद्वा - आत्मनो मनसो वर्तयन् मनसि प्रतिष्ठितं कुर्वन्नध्यवस्यन्निति यावत् । इह मुनिः परपरमात्मोपासकः स्वानुभूत्या देहविलक्षणब्रह्मात्मकस्वात्मयाथात्म्यानुभवेन त्रीन् स्वप्नान् भावाद्वैत, कर्माद्वैत, द्रव्याद्वैतनामानि भ्रमात्मकानि धुनुते निरस्यति ॥ ६२ ॥
श्लोक-६३
विश्वास-प्रस्तुतिः
कार्यकारणवस्त्वैक्यमर्शनं पटतन्तुवत्।
अवस्तुत्वाद् विकल्पस्य भावाद्वैतं तदुच्यते॥
मूलम्
कार्यकारणवस्त्वैक्य128दर्शनं पटतन्तुवत्।
अवस्तुत्वाद्विकल्पस्य भावाद्वैतं तदुच्यते॥ ६३ ॥
अनुवाद (हिन्दी)
जैसे वस्त्र सूतरूप ही होता है, वैसे ही कार्य भी कारणमात्र ही है। क्योंकि भेद तो वास्तवमें है नहीं। इस प्रकार सबकी एकताका विचार ‘भावाद्वैत’ है॥ ६३॥
वीरराघवः
भावाद्वैतादिस्वरूपं विवृण्वन् त्रिविधभ्रान्तिनिरासं श्लोकत्रयेण विवृणोति - कार्येति । तत्रोपादानस्य कार्यस्य चानन्यत्वपरो भावाद्वैतविषयः श्लोकः यत्कार्यकारणयोर्वस्तुनोरैक्यदर्शनं तद्भावाद्वैतं कार्यकारणयोरैक्ये पटतन्तुवदिति दृष्टान्तः । यथा तन्तूनामेव व्यतिषङ्गविशेषभाजां नामरूपात्मकावस्थान्तरापत्त्या पटावस्थत्वमिति पटस्य तेभ्योऽनन्यत्वं तद्वत्कृत्स्त्नं जगञ्चिदचिदीश्वरात्मकं सूक्ष्मचिदचिद्विशिष्टात् ब्रह्मणोऽनन्यत् इत्येतद्भावाद्वैतं; भावयोः कार्यकारणवस्तुनोरद्वैतं भावाद्वैतम् । अवस्तुत्वाद्विकल्पस्येत्यनेन भावाद्वैतं निरस्यति । विकल्पस्य उपादानातिरिक्तद्रव्यकल्पनरूप129ज्ञानस्याऽवस्तुत्वाद्वस्तुशून्यत्वान्न भावयोर्द्वैतं, किन्तु अद्वैतमेवेत्यर्थः । एवमसत्कार्यवादभ्रमो निरस्तः ॥ ६३ ॥
श्लोक-६४
विश्वास-प्रस्तुतिः
यद् ब्रह्मणि परे साक्षात् सर्वकर्मसमर्पणम्।
मनोवाक्तनुभिः पार्थ क्रियाद्वैतं तदुच्यते॥
मूलम्
यद्ब्रह्मणि परे साक्षात्सर्वकर्मसमर्पणम्।
मनोवाक्तनुभिः पार्थ! क्रियाद्वैतं तदुच्यते॥ ६४ ॥
अनुवाद (हिन्दी)
युधिष्ठिर! मन, वाणी और शरीरसे होनेवाले सब कर्म स्वयं परब्रह्म परमात्मामें ही हो रहे हैं, उसीमें अध्यस्त हैं—इस भावसे समस्त कर्मोंको समर्पित कर देना ‘क्रियाद्वैत’ है॥ ६४॥
वीरराघवः
क्रियाद्वैतं विवृणोति - यदिति । हे पार्थ! साक्षात्परे ब्रह्मणि यत्करणत्रयेण सर्वकर्मणां समर्पणं तत्क्रियाणामद्वैतम् । भगवदाराधनत्वेन सर्वकर्मणामेकफलाव130च्छेदः क्रियाद्वैतम् । अनेन कर्मणामीश्वरप्रीतिमनपेक्ष्य स्वातन्त्र्येण फलवत्तभ्रमो निरस्तः ॥ ६४ ॥
श्लोक-६५
विश्वास-प्रस्तुतिः
आत्मजायासुतादीनामन्येषां सर्वदेहिनाम्।
यत् स्वार्थकामयोरैक्यं द्रव्याद्वैतं तदुच्यते॥
मूलम्
आत्मजायासुतादीनामन्ये131षां सर्वदेहिनाम्।
यत् स्वार्थकामयोरैक्यं द्रव्याद्वैतं तदुच्यते॥ ६५ ॥
अनुवाद (हिन्दी)
स्त्री-पुत्रादि सगे-सम्बन्धी एवं संसारके अन्य समस्त प्राणियोंके तथा अपने स्वार्थ और भोग एक ही हैं, उनमें अपने और परायेका भेद नहीं है—इस प्रकारका विचार ‘द्रव्याद्वैत’ है॥ ६५॥
वीरराघवः
द्रव्याद्वैतं विवृणोति - आत्मेति । अर्थशब्दो धनपरः । कामशब्दः काम्यस्रक्चन्दनादिभोग्यवस्तुविषयः । स च भोगोपकरणभोगस्थानादि प्रदर्शनार्थः । यदर्थकामयोरात्मजायादिसर्वदेहिनामैक्यं तद्द्रव्याद्वैतम् । वित्तगृहक्षेत्रपात्रस्रक्चन्दनादीनामात्मजायाद्यनेकभोक्तृवर्गसाधारणत्वं द्रव्याद्वैतमित्यर्थः । ते एतेन गृहादीनां स्वासाधारणत्वभ्रमो निरस्तः । यद्वा द्रव्ययोः चिदचिद्द्रव्ययोरद्वैतं द्रव्याद्वैतम् । तत्र चिदचिद्द्वैतं दर्शयति - आत्मजायेति । आत्मादीनां सर्वदेहिनां जीवानां ज्ञानैकाकारत्वेनैकरूपेण दर्शनं चिद्द्वैतं प्रकाराद्वैतम् । अर्थकामादीनां 132सर्वेषां अचित्परिणामरूपत्वेन दर्शनमचिदद्वैतम् - एवं प्रतिशरीरं जीवानामन्याकारभ्रमः अर्थकामादीनां132 अचिदन्यपरिणामरूपत्वभ्रमश्च निरस्तः । ज्ञानाद्वैतमिति पाठेऽप्येवंविधदर्शनं ज्ञानाद्वैतमित्यर्थः ॥ ६५ ॥
श्लोक-६६
विश्वास-प्रस्तुतिः
यद् यस्य वानिषिद्धं स्याद् येन यत्र यतो नृप।
स तेनेहेत कर्माणि नरो नान्यैरनापदि॥
मूलम्
यद्यस्य 133चानिषिद्धं स्याद्येन यत्र यतो नृप।
स ते नेहेत कर्माणि नरो नाऽन्यैरनापदि॥ ६६ ॥
अनुवाद (हिन्दी)
युधिष्ठिर! जिस पुरुषके लिये जिस द्रव्यको जिस समय जिस उपायसे जिससे ग्रहण करना शास्त्राज्ञाके विरुद्ध न हो, उसे उसीसे अपने सब कार्य सम्पन्न करने चाहिये; आपत्तिकालको छोड़कर इससे अन्यथा नहीं करना चाहिये॥ ६६॥
वीरराघवः
न केवलं त्रिविधमेवाऽद्वैतमनुसन्धेयम्, अपि तु अन्यदपि शास्त्रानुमतञ्चेत्तदपीत्याह - यदिति । हे नृप! येन शास्त्रेण यस्य पुंसो यस्य वस्तुनो यतो यस्माद्वस्तुनः सकाशाद्यदद्वैतमनिषिद्धं किन्त्वनुमतं, स पुमान् तेनाऽद्वैतेनाऽनुसन्धीयमानेनेति शेषः । तदनुसन्धानपूर्वकमेव कर्माणि कर्तव्यानीहेत कुर्यात् । अन्यैः शास्त्र134निषिद्वैस्तु न कुर्यात् । यतोऽयमनापदि न विद्यते । आपत्संसारो यतस्तस्यां ज्ञाननिष्ठायां वर्तमानः । यथा - “वाचारम्भणं विकारो नामधेयम्” (छान्दो. उ. 6-4-1) “यावत्सर्वात्मिका बुद्धिरेकेह कुरुनन्दन !” इत्यादि शास्त्रेण भावाद्वैतादिकं प्रतिपाद्यते, न तथा प्रकाराद्वैतप्रकार्यद्वैतगुरुदेवताद्वैतादिकमपि शास्त्रैः प्रतिपाद्यत इति तदप्युपादेयमेवेत्यभिप्रायेणाऽयं श्लोकः प्रवृत्तः । तत्र प्रकार्यद्वैतं नामब्रह्माद्वैतं “सर्वं खल्विदं ब्रह्म” (छान्दो. उ. 3-14-1) इत्यादि ब्रह्मप्रकर135णेषु सामानाधिकरण्येन ब्रह्माद्वैतप्रतिपादनात्, सामानाधिकरण्यस्य च प्रकारभेदविशिष्टप्रकारैकपरत्वाच्च ब्रह्माद्वैतमेव प्रकार्यद्वैतं “नित्यो नित्यानां चेतनश्चेतनानाम्” (कठ.उ. 5-13) इत्यादिश्रुतिभिः जीवस्वरूपभेदप्रतिपादनेन स्वरूपेणाभेदानुपपत्तेः, बद्धमुक्तादिव्यवस्थानुपपत्तेः, सुखादिव्यवस्थानुपपत्तेश्च क्वचिज्जीवैकत्वप्रतिपादनं प्रकारैक्याभिप्रायकमेवेति तदद्वैतमेव प्रकाराद्वैतम् । “आचार्यं मां विजानीयात्” “आचार्यदेवो भव” (तैत्ति. उ. 1-11-1) “आचार्यस्सहरिस्साक्षात् चररूपो न संशयः” इत्यादिभिर्गुरु136देवतादीनामद्वैतं प्रतिपाद्यत एव ॥ ६६ ॥
श्लोक-६७
विश्वास-प्रस्तुतिः
एतैरन्यैश्च वेदोक्तैर्वर्तमानः स्वकर्मभिः।
गृहेऽप्यस्य गतिं यायाद् राजंस्तद्भक्तिभाङ्नरः॥
मूलम्
एतैरन्यैश्च वेदोक्तैर्वर्तमानः स्वकर्मभिः।
गृहेऽप्यस्य गतिं यायाद्राजंस्तद्भक्ति137भाङ्नरः॥ ६७ ॥
अनुवाद (हिन्दी)
महाराज! भगवद्भक्त मनुष्य वेदमें कहे हुए इन कर्मोंके तथा अन्यान्य स्वकर्मोंके अनुष्ठानसे घरमें रहते हुए भी श्रीकृष्णकी गतिको प्राप्त करता है॥ ६७॥
वीरराघवः
यत्पृष्टं “गृहस्थ एतां पदवीं विधिना येन चाऽञ्जसा । यायाद्देव ऋषे ब्रूहि; मादृशो गृहमूढधीः” (भाग. 7-14-1) इति तस्योत्तरमुपसंहरति - एतैरिति । हे राजन् ! वेदोक्तैरिति । वेदशब्दस्तन्मूलकस्मृतिपुराणादीनामपि प्रदर्शनार्थः । वेदादिभिरुक्तैः कर्तव्यत्वेनोक्तैरेतैर्भावाद्वैतानुसन्धानादिभिरित्यन्यैर्देहात्मजीवेश्वरादिभेदानुसन्धानैः स्वस्ववर्णाश्रमोचितकर्मभिश्च तस्य भगवतो भक्तिभाक् भक्तिं कुर्वन् गृहेऽपि जनः गृहस्थोऽपि जनोऽस्य श्रीकृ138ष्णस्य गतिं138 यायान्मुक्तिं प्राप्नुयादित्यर्थः ॥ ६७ ॥
श्लोक-६८
विश्वास-प्रस्तुतिः
यथा हि यूयं नृपदेव दुस्त्यजा-
दापद्गणादुत्तरतात्मनः प्रभोः।
यत्पादपङ्केरुहसेवया भवा-
नहार्षीन्निर्जितदिग्गजः क्रतून्॥
मूलम्
यथा हि यूयं नृपदेव! दुस्त्यजादापद्गणादुत्त139रताऽऽत्मनः 140प्रभोः।
यत्पादपङ्केरुहसेवया भवा141नहार्षीन्निर्जित142दिग्गजः क्र143तून्॥ ६८ ॥
अनुवाद (हिन्दी)
युधिष्ठिर! जैसे तुम अपने स्वामी भगवान् श्रीकृष्णकी कृपा और सहायतासे बड़ी-बड़ी कठिन विपत्तियोंसे पार हो गये हो और उन्हींके चरणकमलोंकी सेवासे समस्त भूमण्डलको जीतकर तुमने बड़े-बड़े राजसूय आदि यज्ञ किये हैं॥ ६८॥
वीरराघवः
“मादृशो गृहमूढधीः” (भाग. 7-14-1) इत्यनेनाभिप्रेतां स्वस्य मुक्तिदौर्लभ्यशङ्कां किम्पुनर्न्यायेन निराकरिष्यमाणः तावच्छ्रीकृष्णसेवयैव तरिष्यसीत्याह - यूयमिति । हे नृप देव ! यथा प्रभोः सर्वशक्तेरात्मनोऽन्तरात्मनः श्रीकृष्णादेव हेतोर्यूयं दुस्त्यजादापदां गणादुत्तरत । अडभावः, अन्तादेशाभाव, आत्मनेपदञ्च आर्षाणि । उदतरत उत्तीर्णाः यथा च भवान् यस्य श्रीकृष्णस्य पादपङ्कजयोः सेवया हेतुभूतया निर्जिता दिग्जना दिक्पालका येन तादृशस्सन् महर्षिभिः स क्रतूनकार्षीदिति शेषः । तथा तस्यैव सेवया मोक्ष्यसे इत्यध्याहारः ॥ ६८ ॥
श्लोक-६९
विश्वास-प्रस्तुतिः
अहं पुराभवं कश्चिद् गन्धर्व उपबर्हणः।
नाम्नातीते महाकल्पे गन्धर्वाणां सुसम्मतः॥
मूलम्
अहं पुराऽभवं कश्चिद्गन्धर्व उपबर्हणः।
नाम्नाऽतीते महाकल्पे गन्धर्वाणां सुसम्मतः॥ ६९ ॥
अनुवाद (हिन्दी)
पूर्वजन्ममें इसके पहलेके महाकल्पमें मैं एक गन्धर्व था। मेरा नाम था उपबर्हण और गन्धर्वोंमें मेरा बड़ा सम्मान था॥ ६९॥
वीरराघवः
लब्धतदीयसेवामात्रेण हेतुना मादृशानां मुक्तिसम्भवे, किं पुनस्साक्षाल्लब्धतत्सेवानां तादृ144शानामिति प्रतिपादनार्थं 145स्वस्य पूर्वजन्मवृत्तान्तमाह - अहमिति । अतीते ब्रह्मकल्पे पूर्वजन्मन्यहं नाम्नोपबर्हण इति प्रसिद्धः कश्चिद्गन्धर्वः अभूवम् । आत्मानं विशिनष्टि - गन्धर्वाणां सुसम्मतः ॥ ६९ ॥
श्लोक-७०
विश्वास-प्रस्तुतिः
रूपपेशलमाधुर्यसौगन्ध्यप्रियदर्शनः।
स्त्रीणां प्रियतमो नित्यं मत्तस्तु पुरुलम्पटः॥
मूलम्
रूपपेशलमाधुर्यसौगन्ध्यप्रयिदर्शनः।
स्त्रीणां प्रियतमो नित्यं मत्तस्तु146 पुरुलम्पटः॥ ७० ॥
अनुवाद (हिन्दी)
मेरी सुन्दरता, सुकुमारता और मधुरता अपूर्व थी। मेरे शरीरमेंसे सुगन्धि निकला करती और देखनेमें मैं बहुत अच्छा लगता। स्त्रियाँ मुझसे बहुत प्रेम करतीं और मैं सदा प्रमादमें ही रहता। मैं अत्यन्त विलासी था॥ ७०॥
वीरराघवः
रूपादिभिः प्रियदर्शनः प्रियं यथा भवति तथा दृश्यत इति तथा । रूपं सौन्दर्यम् पेशलं सौकुमार्यम्, दृष्टिचित्तापहारित्वेन रसावहत्वम्, सौगन्ध्यं स्रक्चन्दनादि गन्धवत्त्वम् । रूपादिभिप्रियं दर्शनं यस्येति वा । स्त्रीणां नित्यं सदा प्रियतमः मत्तः उर्वधिकं लम्पटः विषयलालसः, एवम्भूतोऽहं स्थितः ॥ ७० ॥
श्लोक-७१
विश्वास-प्रस्तुतिः
एकदा देवसत्रे तु गन्धर्वाप्सरसां गणाः।
उपहूता विश्वसृग्भिर्हरिगाथोपगायने॥
मूलम्
एकदा देवसत्रे तु गन्धर्वाप्सरसां गणाः।
उपहूता विश्वसृग्भिर्हरिगाथोपगायने॥ ७१ ॥
अनुवाद (हिन्दी)
एक बार देवताओंके यहाँ ज्ञानसत्र हुआ। उसमें बड़े-बड़े प्रजापति आये थे। भगवान्की लीलाका गान करनेके लिये उन लोगोंने गन्धर्व और अप्सराओंको बुलाया॥ ७१॥
वीरराघवः
तत्रैकदा देवसत्रे हरिगुणानुभवात्मकब्रह्मसत्रे विश्वसृङ्भिः प्रजापतिभिः हरिकथागायने निमित्ते तदर्थमप्सरसां गणाः उपहूताः ॥ ७१ ॥
श्लोक-७२
विश्वास-प्रस्तुतिः
अहं च गायंस्तद्विद्वान् स्त्रीभिः परिवृतो गतः।
ज्ञात्वा विश्वसृजस्तन्मे हेलनं शेपुरोजसा।
याहि त्वं शूद्रतामाशु नष्टश्रीः कृतहेलनः॥
मूलम्
147अहञ्च गायंस्तद्विद्वा147न् स्त्रीभिः परिवृतो गतः।
ज्ञात्वा विश्वसृजस्तन्मे हेलनं शेपुरोजसा।
याहि त्वं शूद्रतामाशु नष्टश्रीः कृतहेलनः॥ ७२ ॥
अनुवाद (हिन्दी)
मैं जानता था कि वह संतोंका समाज है और वहाँ भगवान्की लीलाका ही गान होता है। फिर भी मैं स्त्रियोंके साथ लौकिक गीतोंका गान करता हुआ उन्मत्तकी तरह वहाँ जा पहुँचा। देवताओंने देखा कि यह तो हम लोगोंका अनादर कर रहा है। उन्होंने अपनी शक्तिसे मुझे शाप दे दिया कि ‘तुमने हमलोगोंकी अवहेलना की है, इसलिये तुम्हारी सारी सौन्दर्य-सम्पत्ति नष्ट हो जाय और तुम शीघ्र ही शूद्र हो जाओ’॥ ७२॥
वीरराघवः
तथाऽहमपि तद्गन्धर्वाह्वानं जानन् स्त्रीभिः परिवृतः गायन् हरीतरगाथा गायन् तत्र गतः । अगायन्निति पाठे अगायन्नेव गत इत्यर्थः । तत् ते मम हेलनमपराधं ज्ञात्वा विश्वसृजः ओजसा तपोबलेन शेपुः । शापमेवाऽह - याहीति । कृतं हेलनं येन सत्वं नष्टा श्रीः गन्धर्वशोभा यस्य स तादृशः आशु शूद्रयोनिं प्राप्नुहीति ॥ ७२ ॥
श्लोक-७३
विश्वास-प्रस्तुतिः
तावद्दास्यामहं जज्ञे तत्रापि ब्रह्मवादिनाम्।
शुश्रूषयानुषङ्गेण प्राप्तोऽहं ब्रह्मपुत्रताम्॥
मूलम्
तावद्दास्यामहं जज्ञे तत्राऽपि ब्रह्मवादिनाम्।
शुश्रूषयाऽनुषङ्गेण प्राप्तोऽहं ब्रह्मपुत्रताम्॥ ७३ ॥
अनुवाद (हिन्दी)
उनके शापसे मैं दासीका पुत्र हुआ। किन्तु उस शूद्र-जीवनमें किये हुए महात्माओंके सत्संग और सेवा-शुश्रूषाके प्रभावसे मैं दूसरे जन्ममें ब्रह्माजीका पुत्र हुआ॥ ७३॥
वीरराघवः
तावत्तदाऽहं दास्यां शूद्र्यां जज्ञे जातः । तत्राऽपि शूद्रजन्मन्यपि ब्रह्मवादिनां शुश्रूषयाऽनुषङ्गेण तत्सङ्गेन च हेतुनाऽस्मिन्कल्पे ब्रह्मणश्चतुर्मुखस्य पुत्रतां प्राप्तः ॥ ७३ ॥
श्लोक-७४
विश्वास-प्रस्तुतिः
धर्मस्ते गृहमेधीयो वर्णितः पापनाशनः।
गृहस्थो येन पदवीमञ्जसा न्यासिनामियात्॥
मूलम्
धर्मस्ते गृहमेधीयो वर्णितः पापनाशनः।
गृहस्थो येन पदवीमञ्जसा न्यासिनामियात्॥ ७४ ॥
अनुवाद (हिन्दी)
संतोंकी अवहेलना और सेवाका यह मेरा प्रत्यक्ष अनुभव है। संत-सेवासे ही भगवान् प्रसन्न होते हैं। मैंने तुम्हें गृहस्थोंका पापनाशक धर्म बतला दिया। इस धर्मके आचरणसे गृहस्थ भी अनायास ही संन्यासियोंको मिलनेवाला परमपद प्राप्त कर लेता है॥ ७४॥
वीरराघवः
अध्यायद्वयोक्तार्थमुपसंहरन् तच्छ्रवणतदनुष्ठानफलमाह - धर्म इति । ते तुभ्यं गृहमेधीयो धर्मो वर्णितः । 148कथम्भूतः148 ? पापनाशनः येन गृहमेधीयेन धर्मेण श्रुतेनाऽनुष्ठितेन च गृहस्थः न्यासिनां भगवति सन्न्यस्तात्मनां पदवीं मुक्तिरूपां इयात्प्राप्नुया149दित्यर्थः ॥ ७४ ॥
श्लोक-७५
विश्वास-प्रस्तुतिः
यूयं नृलोके बत भूरिभागा
लोकं पुनाना मुनयोऽभियन्ति।
येषां गृहानावसतीति साक्षाद्
गूढं परं ब्रह्म मनुष्यलिङ्गम्॥
मूलम्
यूयं नृलोके बत भूरिभागा लोकं पुनाना मुनयोऽभि150यान्ति।
येषां गृहानावसतीति साक्षाद् गूढं परं ब्रह्म मनुष्यलिङ्गम्॥ ७५ ॥
अनुवाद (हिन्दी)
युधिष्ठिर! इस मनुष्यलोकमें तुमलोगोंके भाग्य अत्यन्त प्रशंसनीय हैं; क्योंकि तुम्हारे घरमें साक्षात् परब्रह्म परमात्मा मनुष्यका रूप धारण करके गुप्तरूपसे निवास करते हैं। इसीसे सारे संसारको पवित्र कर देनेवाले ऋषि-मुनि बार-बार उनका दर्शन करनेके लिये चारों ओरसे तुम्हारे पास आया करते हैं॥ ७५॥
श्लोक-७६
विश्वास-प्रस्तुतिः
स वा अयं ब्रह्म महद्विमृग्यं
कैवल्यनिर्वाणसुखानुभूतिः।
प्रियः सुहृद् वः खलु मातुलेय
आत्मार्हणीयो विधिकृद् गुरुश्च॥
मूलम्
स वा अयं ब्रह्म महद्विमृग्यं कैवल्यनिर्वाणसुखानुभूतिः।
प्रियस्सुहृद्वः खलु मातुलेय आत्माऽर्हणीयो विधिकृद्गुरुश्च॥ ७६ ॥
अनुवाद (हिन्दी)
बड़े-बड़े महापुरुष निरन्तर जिनको ढूँढते रहते हैं, जो मायाके लेशसे रहित परम शान्त परमानन्दानुभवस्वरूप परब्रह्म परमात्मा हैं—वे ही तुम्हारे प्रिय, हितैषी, ममेरे भाई, पूज्य, आज्ञाकारी, गुरु और स्वयं आत्मा श्रीकृष्ण हैं॥ ७६॥
श्लोक-७७
विश्वास-प्रस्तुतिः
न यस्य साक्षाद्भवपद्मजादिभी
रूपं धिया वस्तुतयोपवर्णितम्।
मौनेन भक्त्योपशमेन पूजितः
प्रसीदतामेष स सात्वतां पतिः॥
मूलम्
न यस्य साक्षाद्भवपद्मजादिभी रूपं धिया वस्तुतयोपवर्णितम्।
मौनेन भक्त्योपशमेन पूजितः प्रसीदतामेष स सात्वतां पतिः॥ ७७ ॥
अनुवाद (हिन्दी)
शंकर, ब्रह्मा आदि भी अपनी सारी बुद्धि लगाकर ‘वे यह हैं’—इस रूपमें उनका वर्णन नहीं कर सके। फिर हम तो कर ही कैसे सकते हैं। हम मौन, भक्ति और संयमके द्वारा ही उनकी पूजा करते हैं। कृपया हमारी यह पूजा स्वीकार करके भक्तवत्सल भगवान् हमपर प्रसन्न हों॥ ७७॥
वीरराघवः
त्वन्तु कृतार्थ एव इति हर्षेण पूर्वश्लोकानेव पुनः पठति - यूयमिति । श्लोकाः पुरस्तादेव व्याख्याताः । कैवल्यनिर्वाणसुखानुभूतिः निर्दोषनिर्दुःखसुखरूपविज्ञानमयः विधिकृन्नियोगकारी, वस्तुतया इदन्तया ॥ ७५, ७७ ॥
श्लोक-७८
मूलम् (वचनम्)
श्रीशुक उवाच
विश्वास-प्रस्तुतिः
इति देवर्षिणा प्रोक्तं निशम्य भरतर्षभः।
पूजयामास सुप्रीतः कृष्णं च प्रेमविह्वलः॥
मूलम्
इति देवर्षिणा प्रोक्तं निशम्य भरतर्षभः।
पूजयामास सुप्रीतः कृष्णञ्च प्रेमविह्वलः॥ ७८ ॥
अनुवाद (हिन्दी)
श्रीशुकदेवजी कहते हैं—परीक्षित्! देवर्षि नारदका यह प्रवचन सुनकर राजा युधिष्ठिरको अत्यन्त आनन्द हुआ। उन्होंने प्रेम-विह्वल होकर देवर्षि नारद और भगवान् श्रीकृष्णकी पूजा की॥ ७८॥
वीरराघवः
स्कन्धादौ उपक्रान्तम् - “अत्रैवोदाहृतः पूर्वमितिहासः सुरर्षिणा” (भाग 7-1-12) इति नारदयुधिष्ठिरसंवादमुपसंहरति भगवान् शुकः - इतीति । 151इति इत्थं देवर्षिणा प्रोक्तं निशाम्याऽऽकर्ण्य भरतर्षभो युधिष्ठिरः 152सुप्रीतः कृष्णं श्रवणवेलायां पार्श्वे स्थितं, चशब्दाद्देवर्षिञ्च प्रेम्णा विह्वलः पूजयामास ॥ ७८ ॥
श्लोक-७९
विश्वास-प्रस्तुतिः
कृष्णपार्थावुपामन्त्र्य पूजितः प्रययौ मुनिः।
श्रुत्वा कृष्णं परं ब्रह्म पार्थः परमविस्मितः॥
मूलम्
कृष्णपार्थावुपामन्त्र्य पूजितः प्रययौ मुनिः।
श्रुत्वा कृष्णं परं ब्रह्म पार्थः परमविस्मितः॥ ७९ ॥
अनुवाद (हिन्दी)
देवर्षि नारद भगवान् श्रीकृष्ण और राजा युधिष्ठिरसे विदा लेकर और उनके द्वारा सत्कार पाकर चले गये। भगवान् श्रीकृष्ण ही परब्रह्म हैं, यह सुनकर युधिष्ठिरके आश्चर्यकी सीमा न रही॥ ७९॥
वीरराघवः
ततः पूजितो देवर्षिः कृष्णपार्थावुपामन्त्र्य अनुज्ञाप्य ताभ्यामनुज्ञातः प्रययौ । पार्थो युधिष्ठिरः श्रीकृष्णं परब्रह्माभिन्नं श्रुत्वा परमविस्मितः निरतिशयाश्चर्ययुक्तो बभूव ॥ ७९ ॥
श्लोक-८०
विश्वास-प्रस्तुतिः
इति दाक्षायणीनां ते पृथग्वंशाः प्रकीर्तिताः।
देवासुरमनुष्याद्या लोका यत्र चराचराः॥
मूलम्
इति दाक्षायणीनान्ते पृथग्वंशाः प्रकीर्तिताः।
देवासुरमनुष्याद्या लोका यत्र चराचराः॥ ८० ॥
अनुवाद (हिन्दी)
परीक्षित्! इस प्रकार मैंने तुम्हें दक्षपुत्रियोंके वंशोंका अलग-अलग वर्णन सुनाया। उन्हींके वंशमें देवता, असुर, मनुष्य आदि और सम्पूर्ण चराचरकी सृष्टि हुई है॥ ८०॥
अनुवाद (समाप्ति)
इति श्रीमद्भागवते महापुराणे वैयासिक्यामष्टादशसाहस्र्यां पारमहंस्यां संहितायां सप्तमस्कन्धे प्रह्लादानुचरिते युधिष्ठिरनारदसंवादे सदाचारनिर्णयो नाम पञ्चदशोऽध्यायः॥ १५ ॥
॥ इति सप्तमः स्कन्धः समाप्तः॥
॥ हरिः ॐ तत्सत्॥
वीरराघवः
यत्पृष्टं षष्ठस्य तृतीयाध्यायादौ “देवासुरनृणां सर्गो नागानां मृगपक्षिणाम्” (भा.गी. 6-4-1) इत्यादिना तस्योत्तरं ततः प्रभृत्येतावत्पर्यन्तेनोक्तम् । उत्तरप्रश्नान्तराऽवसरप्रदानाय उपसंहरति - इतीति । 153इति इत्थं दाक्षायणीनांदित्यादीनां वंशाः पृथक् तत्तत्परम्परानुपूर्व्या प्रकीर्तिताः । 154कथम्भूताः154 यत्र वंशेषु देवादयश्चराचरात्मकाः, जाता इति शेषः । यद्यपि दाक्षायणी वंशवर्णनोपसंहारः षष्ठान्त एव कर्तव्यस्तत्रैव समाप्तेः । तथाऽपि तद्वंशान्तर्भूतदितिजप्रसङ्गानुप्रसक्तशङ्कापरिहारतदनुप्रसक्तवर्णनात्मकत्वादस्य स्कन्धस्यैतदन्त एव दाक्षायणीवंशवर्णनमुपसंहृतमित्यवगन्तव्यम् ॥ ८० ॥
इति श्रीवत्सान्वयपयः पारावारराकासुधाकरस्य सर्वाविद्यानिधेश्चक्रवर्तिनः श्रीशैलगुरोस्सुतेन तचरणकमलपरिचर्याप्रसादिततत्सूक्तिसमधिगत श्रीमद्भागवतार्थहृदयेन श्रीवैष्णवदासेन श्रीवीरराघवविदुषा लिखितायां श्रीमद्भागवतचन्द्रचन्द्रिकायां व्याख्यायां सप्तमस्कन्धे पञ्चदशोऽध्यायः ॥ १५ ॥
-
A,B,G,J,M,Ma,T येऽन्ये ↩︎
-
A,B,T एत ↩︎
-
A,B,T ऽभावे । ↩︎
-
A,B,T देयं स्यात् । ↩︎
-
A,B,T श्राद्धविस्तरात् । ↩︎
-
W omits एच । ↩︎
-
A,B,G,J,T मुन्यन्नैः, M,Ma मुनीनां ↩︎
-
A,B,T add तथा ↩︎
-
A,B,T Omit नाद्यात् ↩︎
-
W omits उक्तम् । ↩︎
-
A,B,T add एवमत ↩︎
-
A,B,T संयमो । ↩︎
-
A,B,G,J,M,Ma,T माण ↩︎
-
M,Ma नैव । ↩︎
-
H,M,Ma,V,W काः । ↩︎
-
W Omits पाप ↩︎
-
A,B,G,J,M,Ma,T श्च आ ↩︎
-
A,B,T पञ्चेमे । ↩︎
-
A,B,G,J,M,Ma,T ख । ↩︎
-
M,Ma धर्मभि । ↩︎
-
W Omits इति । ↩︎
-
W यस्स्वेच्छया । ↩︎
-
A,B,G,J,T मात्पृ । ↩︎
-
A,B,G,J,T कस्यनेष्टः प्र, H,V कल्पतोऽन्योप; M,Ma कल्पतेऽस्योप ↩︎ ↩︎
-
A,B,T Omits विहितः । ↩︎
-
W Omits अपि ↩︎
-
A,B,G,J,T सुखं ↩︎
-
W क्षणे ↩︎
-
A,B,G,J,M,Ma,T केन ↩︎
-
W स्थ ↩︎
-
H,V,W हृ ↩︎
-
A,B,T स्तु ↩︎
-
M,Ma वती ↩︎
-
A,B,G,J,T च ↩︎
-
A,B,G,J,M,Ma,T स्यैनत्फ ↩︎
-
A,B,G,J,M,Ma,T अर्थान ↩︎
-
W omits जयेत् ↩︎
-
A,B,G,J,T प्यासया ↩︎
-
M,Ma कामा ↩︎
-
W omits जयेत् ↩︎
-
M,Ma मनसा ↩︎
-
W कृतवत् ↩︎
-
M,Ma ग ↩︎
-
A Omits यदि ↩︎
-
H,V ह्यर्थान्; M,Ma विद्याः ↩︎
-
M,Ma पुंसस्स्वार्थं ↩︎
-
M,Ma श्च ↩︎
-
A,B,T जक ↩︎
-
M,Ma येच्छुः ↩︎
-
M,Ma निष्प ↩︎
-
A,B,G,J,T र्भिक्षा ↩︎
-
A,B,G,J,T राजन्संस्थां ↩︎
-
H,V,W रुध्या । ↩︎
-
A,B,G,J,M,Ma,T म ↩︎
-
M,Ma मुनेः ↩︎
-
M,Ma यदा ↩︎
-
M,Ma यस्य दे ↩︎
-
A,B,G,J,M,Ma,T कृ ↩︎
-
M,Ma वत् ↩︎
-
A,B,T कृ ↩︎
-
B,M,Ma लौल्यता ↩︎
-
A,B,G,J,M,Ma,T स ↩︎
-
A,B,G,J,T म्बकाः M,Ma म्बिनः ↩︎
-
A,B,T स ↩︎
-
A,B,T स ↩︎
-
W Omits उपेक्षेत ↩︎
-
M,Ma एवं ↩︎
-
M,Ma धृ ↩︎
-
A,B,T निरीहो ↩︎
-
M,Ma षुं ↩︎
-
M,Ma धाम ↩︎
-
W प्सन्त ↩︎
-
W वा ↩︎
-
A,B,T ल ↩︎
-
M,Ma ऽथि ↩︎
-
W Omits तत्र ↩︎
-
H,V मिम ↩︎
-
A,B,G,J,M,Ma,T कल्पं ↩︎
-
A,B,T व ↩︎
-
W आ ↩︎
-
W चेत् ↩︎
-
W त्ति ↩︎
-
M,Ma स्यः ↩︎
-
M,Ma पुनः ↩︎
-
H,V वृ ↩︎
-
W omits इष्टं ↩︎
-
W त्या ↩︎
-
M,Ma मूष्म ↩︎
-
W णं ↩︎
-
A omits संस्कारः ↩︎
-
W क्ष्मविं ↩︎
-
M,Ma स्येवं ↩︎
-
M,Ma तां तु ↩︎
-
A,B,G,J,T बिन्दौ ↩︎
-
A,B,G,J,T तं ↩︎
-
A,B,T ध्यात् ↩︎
-
M,Ma वायुः ↩︎
-
M,Ma रः ↩︎
-
A,B,G,J,T विश्वश्च ↩︎
-
M,Ma यः ↩︎
-
W न ↩︎
-
A,B,G,J,T नां सत्; M,Ma नाशं ↩︎
-
W परं ↩︎
-
A,B,G,J,T,V आ ↩︎
-
H,V अद्वयः ↩︎
-
H,V मोडं ↩︎
-
M,Ma तोऽपिवा ↩︎
-
A,B,G,J,T त्स्वापौ ↩︎
-
A,B,T Omit वत् ↩︎
-
A,B,T Omit अपि ↩︎
-
A,B,G,J,T म ↩︎
-
A,B,T पा ↩︎
-
A,B,T लाच्छे ↩︎
-
A,B,G,J,M,Ma,T षां सर्व ↩︎
-
A,B,G,J,M,Ma,T वा ↩︎
-
A,B,T प्रतिषि ↩︎
-
A,B,T णे सा ↩︎
-
B,T दै ↩︎
-
H,V मान्नरः ↩︎
-
M,Ma रिताननु ↩︎
-
A,M,Ma,T प्रभो! ↩︎
-
H,V नहारिषीन्नि; W न्महर्षिभिर्नि ↩︎
-
W दिग्जनः ↩︎
-
M,Ma तुः ↩︎
-
A,B,T शामि ↩︎
-
A,B,T स्वपू ↩︎
-
H,V स्सन्पुरु; M,Ma स्तत्पुर; W श्च पुरु ↩︎
-
W Omits इत्यर्थः ↩︎
-
A,G यन्ति । ↩︎
-
A,B,T Omit इति ↩︎
-
A,B,T सुशान्तः ↩︎
-
A,B,T Omit इति ↩︎