[चतुर्दशोऽध्यायः]
भागसूचना
गृहस्थसम्बन्धी सदाचार
श्लोक-१
मूलम् (वचनम्)
युधिष्ठिर उवाच
विश्वास-प्रस्तुतिः
गृहस्थ एतां पदवीं विधिना येन चाञ्जसा।
याति देवऋषे ब्रूहि मादृशो गृहमूढधीः॥
अनुवाद (हिन्दी)
राजा युधिष्ठिरने पूछा—देवर्षि नारदजी! मेरे जैसा गृहासक्त गृहस्थ बिना विशेष परिश्रमके इस पदको किस साधनसे प्राप्त कर सकता है, आप कृपा करके मुझे बतलाइये॥ १॥
वीरराघवः
एवमाश्रुताश्रमत्रयधर्मो गृहस्थाश्रमधर्मान् बुभुत्सुः पृच्छति युधिष्ठिरः गृहस्थ इति । हे देवऋषे ! 4गृहेष्वेव मूढा धीर्यस्य गृहासक्तचित्तो 5मादृशो गृहाश्रमस्थः पुमान् येन विधिना एतां पदवीं तुर्याश्रमिगम्यां पदवी 6मार्ग, मुक्तिमित्यर्थः । यायात् प्राप्नुयात् तं विधिं ब्रूहि ॥ १ ॥
श्लोक-२
मूलम् (वचनम्)
नारद उवाच
विश्वास-प्रस्तुतिः
गृहेष्ववस्थितो राजन् क्रियाः कुर्वन् गृहोचिताः।
वासुदेवार्पणं साक्षादुपासीत महामुनीन्॥
मूलम्
गृहेष्ववस्थितो राजन् क्रियाः कुर्वन् गृहोचिताः।
वासुदेवार्पणं साक्षादुपासीत महामुनीन्॥ २ ॥
अनुवाद (हिन्दी)
नारदजीने कहा—युधिष्ठिर! मनुष्य गृहस्थाश्रममें रहे और गृहस्थधर्मके अनुसार सब काम करे, परन्तु उन्हें भगवान्के प्रति समर्पित कर दे और बड़े-बड़े संत-महात्माओंकी सेवा भी करे॥ २॥
वीरराघवः
एवं प्रतिज्ञाय गार्हस्थ्यधर्मानाह - गृहेष्वित्यादिना यावदध्यायसमाप्ति । यद्यपि प्रथमाश्रमधर्मकथनानन्तरमेव एतदाश्रमधर्मवर्णनं युक्तं क्रमप्राप्तत्वात्, तथाऽपि गार्हस्थ्यधर्माणां बाहुल्यात्, महता प्रबन्धेन वर्णनीयत्वात् आश्रमान्तरधर्मवर्णनानन्तरं ते कथ्यन्ते, क्रमानादराद्वा । अत्रकेचिद्वदन्ति मोक्षान्तरङ्गत्वेन प्रथमं वनस्थयति धर्मानभिधाय पश्चाद्गृहस्थधर्मानभिदधातीति तन्मन्दम्-“अतस्त्वितरज्ज्यायो लिङ्गाञ्च” (ब्र.सू. 3-4-39) इति शारीरकन्यायेन ब्रह्मविद्यानुग्राहकाल्पधर्माश्रमान्तरापेक्षया तदनुग्राहकबहुधर्मकगार्हस्थ्यस्यैव अन्तरङ्गत्वात्, अतो यथोक्त एवाऽऽशयः । हे राजन् ! गृहेष्ववस्थितः गृहाश्रमस्थः गृहोचिता आश्रमानुगुणाः क्रियाः कर्माणि सन्ध्योपासनपञ्चमहायज्ञादीनि आवश्यकानि साक्षाद्वासुदेवार्पणं यथा भवति तथा कुर्वन् फलसङ्गकर्तृत्वत्यागपूर्वकंकुर्वन् महामुनीन् उपासीत भगवद्गुणमननशीलान् महाभागवतान् उपासीत 7सेवेतेत्यर्थः7 ॥ २ ॥
श्लोक-३
विश्वास-प्रस्तुतिः
शृण्वन्भगवतोऽभीक्ष्णमवतारकथामृतम्।
श्रद्दधानो यथाकालमुपशान्तजनावृतः॥
मूलम्
शृण्वन् भगवतोऽभीक्ष्णमवतारकथामृतम्।
श्रद्दधानो यथाकालमुपशान्तजना8वृतः॥ ३ ॥
अनुवाद (हिन्दी)
अवकाशके अनुसार विरक्त पुरुषोंमें निवास करे और बार-बार श्रद्धापूर्वक भगवान्के अवतारोंकी लीला-सुधाका पान करता रहे॥ ३॥
वीरराघवः
कथम्भूतः ? तेभ्यो भगवतः अवतारकथामृतमभीक्ष्णं पुनः पुनः यथाकालमावश्यकधर्मानुष्ठानावशेषितं कालमुपशान्तजनैस्सहितः श्रद्धापूर्वकं श्रृण्वन् ॥ ३ ॥
श्लोक-४
विश्वास-प्रस्तुतिः
सत्सङ्गाच्छनकैः सङ्गमात्मजायात्मजादिषु।
विमुच्येन्मुच्यमानेषु स्वयं स्वप्नवदुत्थितः॥
अनुवाद (हिन्दी)
जैसे स्वप्न टूट जानेपर मनुष्य स्वप्नके सम्बन्धियोंसे आसक्त नहीं रहता—वैसे ही ज्यों-ज्यों सत्संगके द्वारा बुद्धि शुद्ध हो, त्यों-ही-त्यों शरीर, स्त्री, पुत्र, धन आदिकी आसक्ति स्वयं छोड़ता चले। क्योंकि एक-न-एक दिन ये छूटनेवाले ही हैं॥ ४॥
वीरराघवः
एवं सतां सङ्गात् देहदारपुत्रादिषु शनकैस्सङ्गं विमुञ्चेत्, तेषु अहम्ममताद्यभिमानं त्यजेत् । एवमुच्यमानेषु उक्ताभिमानविषयेषु सत्सु देहादिषु स्वप्नवदुत्थितो यथा स्वप्ने तद्विषये पुत्रादौ, तस्मादुत्थितः तत्कालमात्रानुभाव्यतां 11मन्यते ॥ ४ ॥
श्लोक-५
विश्वास-प्रस्तुतिः
यावदर्थमुपासीनो देहे गेहे च पण्डितः।
विरक्तो रक्तवत् तत्र नृलोके नरतां न्यसेत्॥
मूलम्
यावदर्थमुपासीनो देहे गेहे च पण्डितः।
विरक्तो रक्तवत्तत्र नृलोके नरतां न्यसेत्॥ ५ ॥
अनुवाद (हिन्दी)
बुद्धिमान् पुरुषको आवश्यकताके अनुसार ही घर और शरीरकी सेवा करनी चाहिये, अधिक नहीं। भीतरसे विरक्त रहे और बाहरसे रागीके समान लोगोंमें साधारण मनुष्यों-जैसा ही व्यवहार करे॥ ५॥
वीरराघवः
तथा देहे गेहे च, चशब्दात् दारादिषु च पण्डितः अस्थितरत्वात्पुरुषार्थज्ञानवान्, तत्र देहादौ स्वयं विरक्तोऽपि रक्तवदासक्तवत् यावदर्थं प्राणधारणापेक्षितमर्थमुपासीनः स्वीकुर्वन् नृलोके 12नरशरीरे नरतां न्यसेत् अनुसन्दधीत, नरत्वादिकं देहगतं 13पश्येत्, नत्वात्मन्यनुसन्दधीतेत्यर्थः ॥ ५ ॥
श्लोक-६
विश्वास-प्रस्तुतिः
ज्ञातयः पितरौ पुत्रा भ्रातरः सुहृदोऽपरे।
यद् वदन्ति यदिच्छन्ति चानुमोदेत निर्ममः॥
अनुवाद (हिन्दी)
माता-पिता, भाई-बन्धु, पुत्र-मित्र, जातिवाले और दूसरे जो कुछ कहें अथवा जो कुछ चाहें, भीतरसे ममता न रखकर उनका अनुमोदन कर दे॥ ६॥
वीरराघवः
ज्ञात्यादयस्तेभ्योऽन्ये च यद्वदन्ति यच्चेच्छन्ति तत्स्वयं निर्ममः ममकाररहितो मोदेत अनुमोदेत ॥ ६ ॥
श्लोक-७
विश्वास-प्रस्तुतिः
दिव्यं भौमं चान्तरिक्षं वित्तमच्युतनिर्मितम्।
तत् सर्वमुपभुञ्जान एतत् कुर्यात् स्वतो बुधः॥
मूलम्
दिव्यं भौमञ्चान्तरिक्षं वित्तमच्युतनिर्मितम्।
तत्सर्वमुप16युञ्जान 17एतत्कुर्यात्स्वतो बुधः॥ ७ ॥
अनुवाद (हिन्दी)
बुद्धिमान् पुरुष वर्षा आदिके द्वारा होनेवाले अन्नादि, पृथ्वीसे उत्पन्न होनेवाले सुवर्ण आदि, अकस्मात् प्राप्त होनेवाले द्रव्य आदि तथा और सब प्रकारके धन भगवान्के ही दिये हुए हैं—ऐसा समझकर प्रारब्धके अनुसार उनका उपभोग करता हुआ संचय न करे, उन्हें पूर्वोक्त साधुसेवा आदि कर्मोंमें लगा दे॥ ७॥
वीरराघवः
यावदर्थपरिग्रह इत्येतदेव विवृणोति - यद्यद्भगवता निर्मितं प्रापितं दिव्यादिभेदभिन्नं वित्तं तत्र दिव्यं वित्तं वृष्ट्यादिभिर्जातं धान्यादि, भौमं भूम्यां जातं सुवर्णादिरूपम्, आन्तरिक्षमकस्मादेव प्राप्तम् । यद्वा-दिव्यं वित्तमर्कालोकादि, आन्तरिक्षं वर्षं, भौमं तृणादि । तथैतत्सर्वमुपयुञ्जानो विनियुञ्जान अबुधोऽविवेकी चेत् स्वतः स्वत्वेन कुर्यात् । अबुधश्चेत्तदेतत्सर्वं स्वत्वेनाभिमन्येतेत्यर्थः । यद्वा बुध इत्यवच्छेदः । विवेकी तत्सर्वमुपयुञ्जानः एतद्यथोपयुक्तं स्वतः कुर्यात्, स्वत्वेन स्वीकुर्यात् देहधारणमात्रोपयुक्तमेव स्वीकुर्यादित्यर्थः ॥ ७ ॥
श्लोक-८
विश्वास-प्रस्तुतिः
यावद् भ्रियेत जठरं तावत् स्वत्वं हि देहिनाम्।
अधिकं योऽभिमन्येत स स्तेनो दण्डमर्हति॥
मूलम्
यावद्भ्रियेत जठरं तावत्स्वत्वं हि देहिनाम्।
अधिकं योऽ18भिमन्येत सस्तेनो दण्डमर्हति॥ ८ ॥
अनुवाद (हिन्दी)
मनुष्योंका अधिकार केवल उतने ही धनपर है, जितनेसे उनकी भूख मिट जाय। इससे अधिक सम्पत्तिको जो अपनी मानता है, वह चोर है, उसे दण्ड मिलना चाहिये॥ ८॥
वीरराघवः
अधिकं न स्वीकुर्यादित्यभिप्रयन् न तस्मिन् स्वत्वाभिमानं कुर्यादित्याह - यावदिति । 19हि यस्मात्, यावज्जठरमुदरं भ्रियेत पूर्येत तावदेव स्वत्वं देहिनामुदरभरणोपयुक्ते एव हि देहिनां स्वत्वाभिमान इत्यर्थः । 20योऽधिकमपि स्वत्वेनाऽभिमन्येत सपुमान् स्तेनश्चोर एव, यत एवं ततो दण्डमेवाऽर्हति । इह दण्डाभावेऽपि अमुत्रदण्डमर्हत्येव । यद्वा, संसृतिरूपं दण्डमर्हतीति भावः ॥ ८ ॥
श्लोक-९
विश्वास-प्रस्तुतिः
मृगोष्ट्रखरमर्काखुसरीसृप्खगमक्षिकाः।
आत्मनः पुत्रवत् पश्येत्तैरेषामन्तरं कियत्॥
अनुवाद (हिन्दी)
हरिन, ऊँट, गधा, बंदर, चूहा, सरीसृप (रेंगकर चलनेवाले प्राणी), पक्षी और मक्खी आदिको अपने पुत्रके समान ही समझे। उनमें और पुत्रोंमें अन्तर ही कितना है॥ ९॥
वीरराघवः
यतोऽधिके स्वत्वाभिमानो दण्डहेतुः, अत एव तद्भक्षणे प्रवृत्तान्मृगोष्ट्रादीन् आत्मनः स्वस्य पुत्रवत्पश्येत् पुत्रानिव मन्येत, न तु निगृह्णीयादित्यर्थः । तथाहि - तैः पुत्रैस्सह एषां मृगादीनां कियदन्तरं, न किञ्जिदप्यन्तरं न किञ्चिदपि तारतम्यमस्तीत्यर्थः । तत्र मृगाः शुनकमार्जारादयः, मर्को मर्कटः, आखुः मूषकः सरीसृपा अन्ये सर्पणस्वभावा जन्तवः, विमक्षिकाः विशब्दः पादपूरणार्थः विशिष्टमक्षिका इति वा । 25सरीसृप्खगेत वा पाठः25 ॥ ९ ॥
श्लोक-१०
विश्वास-प्रस्तुतिः
त्रिवर्गं नातिकृच्छ्रेण भजेत गृहमेध्यपि।
यथादेशं यथाकालं यावद्दैवोपपादितम्॥
मूलम्
त्रिवर्गं नाऽतिकृच्छ्रेण भजेत गृहमेध्यपि।
यथादेशं यथाकालं यावद्दैवोपपादितम्॥ १० ॥
अनुवाद (हिन्दी)
गृहस्थ मनुष्योंको भी धर्म, अर्थ और कामके लिये बहुत कष्ट नहीं उठाना चाहिये; बल्कि देश, काल और प्रारब्धके अनुसार जो कुछ मिल जाय, उसीसे सन्तोष करना चाहिये॥ १०॥
वीरराघवः
विवृतमर्थमुपसंहरति - त्रिवर्गमिति । स्वयं गृहस्थोऽप्यनेन तदुपयुक्तवर्गत्रयनिष्ठता सूच्यते । अतिकृच्छ्रेणाऽतिप्रयासेन त्रिवर्गं धर्मार्थकामान् न भजेत न सेवेत । दैवात्प्राप्तैरेव तुष्येदित्यर्थः । तदेवाऽऽह - यावद्दैवेन देशकालानुगुण्येन प्रापितं तदेव यथोपयुक्तं भजे ॥ १० ॥
श्लोक-११
विश्वास-प्रस्तुतिः
आश्वाघान्तेऽवसायिभ्यः कामान्संविभजेद् यथा।
अप्येकामात्मनो दारां नृणां स्वत्वग्रहो यतः॥
मूलम्
आ26श्वाघा27न्तावसायिभ्यः कामान् संविभजेद्यथा।
28अप्येकामात्मनो दारां28 नृणां 29स्वत्वग्रहो यतः॥ ११ ॥
अनुवाद (हिन्दी)
अपनी समस्त भोग-सामग्रियोंको कुत्ते, पतित और चाण्डालपर्यन्त सब प्राणियोंको यथायोग्य बाँटकर ही अपने काममें लाना चाहिये। और तो क्या, अपनी स्त्रीको भी—जिसे मनुष्य समझता है कि यह मेरी है—अतिथि आदिकी निर्दोष सेवामें नियुक्त रखे॥ ११॥
वीरराघवः
धर्मान्तरमाह - श्वानश्चाघा अतिपाप्मानश्च 30अन्तावसायिनः चाण्डालादयश्च तानभिव्याप्य तेभ्यो यथोचितं कामान् संविभजेत् यथाशक्ति तदपेक्षितानन्नादीन् दद्यादित्यर्थः । सङ्गमात्मजायासुतादिषु विमुञ्चेदित्युक्तम्, जायासङ्गत्यागमुपपादयति - अपीति । आत्मनः स्वस्वदारान् भार्यामिकामपि जह्यात् । तस्यां स्वत्वाभिमानं त्यजेदित्यर्थः । एतदेव वक्तुं तावत्तस्या दुस्त्यजत्वमाह - यतो यस्यां भार्यायां नृणां स्वत्वग्रहः ममेवेयमिति आग्रहः ॥ ११ ॥
श्लोक-१२
विश्वास-प्रस्तुतिः
जह्याद् यदर्थे स्वप्राणान् हन्याद् वा पितरं गुरुम्।
तस्यां स्वत्वं स्त्रियां जह्याद् यस्तेन ह्यजितो जितः॥
मूलम्
जह्याद्यदर्थे 31स्वान्प्राणान् हन्याद्वा पितरं गुरुम्।
तस्यां स्वत्वं स्त्रियां जह्यात् 32यस्तया ह्यजितो जितः॥ १२ ॥
अनुवाद (हिन्दी)
लोग स्त्रीके लिये अपने प्राणतक दे डालते हैं। यहाँतक कि अपने मा-बाप और गुरुको भी मार डालते हैं। उस स्त्रीपरसे जिसने अपनी ममता हटा ली, उसने स्वयं नित्यविजयी भगवान् पर भी विजय प्राप्त कर ली॥ १२॥
वीरराघवः
यदर्थे यद्भार्यार्थ स्वकीयान्प्राणान् पितरं गुरुं वा हन्यात् । एवं दुस्त्यजाभार्येत्युक्तम् । एवम्भूतायां तस्यां स्त्रियां भार्यायां स्वत्वं जह्यात् स्वत्वाभिमानं न कुर्यादित्यर्थः । यः पुमानेवं जह्यात् तेन पुंसा अजितः कैरप्यजितः परमात्मा जितः 33वशीकृतो भवति33 ॥ १२ ॥
श्लोक-१३
विश्वास-प्रस्तुतिः
कृमिविड्भस्मनिष्ठान्तं क्वेदं तुच्छं कलेवरम्।
क्व तदीयरतिर्भार्या क्वायमात्मा नभश्छदिः॥
मूलम्
क्रि34मिविङ्भस्मनिष्ठान्तं क्वेदं 35नु स्वकलेबरम्।
क्व तदीयरतिर्भार्या क्वाऽयमात्मा नभश्छ36दः॥ १३ ॥
अनुवाद (हिन्दी)
यह शरीर अन्तमें कीड़े, विष्ठा या राखकी ढेरी होकर रहेगा। कहाँ तो यह तुच्छ शरीर और इसके लिये जिसमें आसक्ति होती है वह स्त्री, और कहाँ अपनी महिमासे आकाशको भी ढक रखनेवाला अनन्त आत्मा!॥ १३॥
वीरराघवः
कथमेवं तस्यां स्वत्वाभिमानस्त्यक्तुं शक्यः । तत्त्वविचारेणेत्याह - 37क्रिमीति । 38क्रिमिविङ्भस्मसु निष्ठापर्यवसानमन्तो यस्या तदिदं कलेबरं क्व ? तदीयादेहार्थारतिर्यस्यास्सा भार्या क्व ? नभश्छदः आकाशस्याऽपि छादयिता आकाशतुल्यो निर्लेप इत्यर्थः, ईदृश आत्मा क्व ? इत्येवं तत्त्वविचारेण जह्यादित्यर्थः ॥ १३ ॥
श्लोक-१४
विश्वास-प्रस्तुतिः
सिद्धैर्यज्ञावशिष्टार्थैः कल्पयेद् वृत्तिमात्मनः।
शेषे स्वत्वं त्यजन्प्राज्ञः पदवीं महतामियात्॥
मूलम्
सिद्धैर्यज्ञावशिष्टार्थैः कल्पयेद्वृत्तिमात्मनः।
शेषे स्वत्वं त्य39जन्प्राज्ञः पदवीं महता मियात्॥ १४ ॥
अनुवाद (हिन्दी)
गृहस्थको चाहिये कि प्रारब्धसे प्राप्त और पंचयज्ञ आदिसे बचे हुए अन्नसे ही अपना जीवन-निर्वाह करे। जो बुद्धिमान् पुरुष इसके सिवा और किसी वस्तुमें स्वत्व नहीं रखते, उन्हें संतोंका पद प्राप्त होता है॥ १४॥
वीरराघवः
यावदर्थपरिग्रह इति, दैवाल्लब्धेष्वपि प्राणमात्रोपयुक्तान्नादिपरिग्रह उक्तः । इदानीं तैरपि यजावशिष्टैरेवाऽर्थैरात्मनो वृत्तिं कल्पयेदित्याह - सिद्धैरिति । सिद्धैर्देवाल्लब्धैः यज्ञावशिष्टैः पञ्चमहायज्ञादिभिः अवशेषितैरेवार्थेः अन्नादिभिः आत्मनः स्वस्य वृत्तिं प्राणधारणरूपां कल्पयेत् । शेषे यज्ञाद्यनुपयुक्ते स्ववृत्त्यनुपयुक्ते च दैवालब्धेऽप्यर्थे स्वत्वाभिमानं त्यजेत् । प्राज्ञः एवंविधज्ञानवान् महतां पदवीं महद्भिर्गम्यां मुक्तिरूपां पदवीं प्राप्नुयात् ॥ १४ ॥
श्लोक-१५
विश्वास-प्रस्तुतिः
देवानृषीन् नृभूतानि पितॄनात्मानमन्वहम्।
स्ववृत्त्यागतवित्तेन यजेत पुरुषं पृथक्॥
मूलम्
देवानृषीन् नृभूतानि पितॄनात्मानमन्वहम्।
स्ववृत्त्या ग40तवृत्तेन यजेत पुरुषं पृथक्॥ १५ ॥
अनुवाद (हिन्दी)
अपनी वर्णाश्रमविहित वृत्तिके द्वारा प्राप्त सामग्रियोंसे प्रतिदिन देवता, ऋषि, मनुष्य, भूत और पितृगणका तथा अपने आत्माका पूजन करना चाहिये। यह एक ही परमेश्वरकी भिन्न-भिन्न रूपोंमें आराधना है॥ १५॥
वीरराघवः
एतद्विवृण्वन्नाह - देवानृषीन् नृृन् मनुष्यान्भूतानि पितॄंश्च 41महायज्ञदेवता आत्मानञ्च स्ववृत्त्या याजनाध्यापनादि पूर्वोक्तवृत्त्या आगतेनार्जितेन वित्तेनाऽन्वहमहरहः पृथक् पुरुषं देवाद्यन्तरात्मानं परमपुरुषं यजेत, एकमेव परमपुरुषं देवादिशरीरभेदेनाऽन्तरात्मत्वेनाऽवस्थितमाराधयेदित्यर्थः ॥ १५ ॥
श्लोक-१६
विश्वास-प्रस्तुतिः
यर्ह्यात्मनोऽधिकाराद्याः सर्वाः स्युर्यज्ञसम्पदः।
वैतानिकेन विधिना अग्निहोत्रादिना यजेत्॥
मूलम्
यर्ह्यात्मं नोऽधि42काराद्याः सर्वास्स्युर्यज्ञ सम्पदः।
वैतानिकेन विधिना 43ह्यग्निहोत्रादिना यजेत्॥ १६ ॥
अनुवाद (हिन्दी)
यदि अपनेको अधिकार आदि यज्ञके लिये आवश्यक सब वस्तुएँ प्राप्त हों तो बड़े-बड़े यज्ञ या अग्निहोत्र आदिके द्वारा भगवान्की आराधना करनी चाहिये॥ १६॥
वीरराघवः
किञ्च । यर्हि यदाऽऽत्मनः स्वस्याऽधिकारः “अर्थी समर्थो विद्वांश्च" इत्युक्तोऽधिकारः स्यात्, तदा सर्वा यज्ञसम्पदः स्युरेव । यथाधिकारं सर्वे यज्ञाः कर्तव्या एवेत्यर्थः । वितानो यज्ञग्रन्थः श्रौतकल्पसूत्रादिरूपः तदुक्तेन विधिना अग्रिहोत्रादिकर्मणा परमपुरुषं यजेत ॥ १६ ॥
श्लोक-१७
विश्वास-प्रस्तुतिः
न ह्यग्निमुखतोऽयं वै भगवान् सर्वयज्ञभुक्।
इज्येत हविषा राजन् यथा विप्रमुखे हुतैः॥
मूलम्
न ह्यग्निमुखतोऽयं वै भगवान्सर्वयज्ञभुक्।
इज्येत हविषा राजन् यथा विप्रमुखे हुतैः॥ १७ ॥
अनुवाद (हिन्दी)
युधिष्ठिर! वैसे तो समस्त यज्ञोंके भोक्ता भगवान् ही हैं; परन्तु ब्राह्मणके मुखमें अर्पित किये हुए हविष्यान्नसे उनकी जैसी तृप्ति होती है, वैसी अग्निके मुखमें हवन करनेसे नहीं॥ १७॥
वीरराघवः
अग्निमुखाराधनाद्विप्रमुखाराधनमतीव भगवतस्तोषकृदित्याह - नहीति । हे राजन् ! विप्रमुखे हुतैरन्नादिभिर्यथाऽयं सर्वयज्ञभुक् भगवानिज्येताऽऽराध्येत न तथाऽग्निमुखतो हविषाऽऽराध्येत ॥ १७ ॥
श्लोक-१८
विश्वास-प्रस्तुतिः
तस्माद् ब्राह्मणदेवेषु मर्त्यादिषु यथार्हतः।
तैस्तैः कामैर्यजस्वैनं क्षेत्रज्ञं ब्राह्मणाननु॥
मूलम्
तस्माद्ब्राह्मणदेवेषु मर्त्यादिषु यथार्हतः।
तैस्तैः कामैर्य44जस्वैनं क्षेत्रज्ञं ब्राह्म45णाननम्॥ १८ ॥
अनुवाद (हिन्दी)
इसलिये ब्राह्मण, देवता, मनुष्य आदि सभी प्राणियोंमें यथायोग्य, उनके उपयुक्त सामग्रियोंके द्वारा सबके हृदयमें अन्तर्यामीरूपसे विराजमान भगवान्की पूजा करनी चाहिये। इनमें प्रधानता ब्राह्मणोंकी ही है॥ १८॥
वीरराघवः
तस्माद्ब्राह्मणेषु दे46वेषु पञ्चमहायज्ञदेवेषुमर्त्यादिषु46 च यथाशक्ति यथायोग्यञ्च तैस्तेः कामैरन्नादिभिः ब्राह्मणाननं ब्राह्मणा एवाऽऽननं मुखं यस्य तमेनं क्षेत्रज्ञं परमात्मानं देवाद्यवस्थजीवशरीरकं वा यजस्वाऽऽराधय । ब्राह्मणानन्विति पाठे ब्राह्मणेषु यजनानन्तरमन्येषु मर्त्यादिषु यजस्वेत्यर्थः । युधिष्ठिरस्य गृहस्थत्वात् तवाऽप्येवमाराधनमवश्यं कर्तव्यमित्यभिप्राये47णाऽऽह - यजस्वेतिमध्यमपुरुष प्रयोगः ॥ १८ ॥
श्लोक-१९
विश्वास-प्रस्तुतिः
कुर्यादापरपक्षीयं मासि प्रौष्ठपदे द्विजः।
श्राद्धं पित्रोर्यथावित्तं तद्बन्धूनां च वित्तवान्॥
मूलम्
कुर्या48दपरपक्षीयं मासि 49प्रोष्ठपदे द्विजः।
श्राद्धं पित्रोर्यथावित्तं तद्बन्धूनाञ्च वित्तवान्॥ १९ ॥
अनुवाद (हिन्दी)
धनी द्विजको अपने धनके अनुसार आश्विन मासके कृष्णपक्षमें अपने माता-पिता तथा उनके बन्धुओं (पितामह, मातामह आदि)-का भी महालय श्राद्ध करना चाहिये॥ १९॥
वीरराघवः
किञ्च 50प्रौष्ठपदे भाद्रपदेमासि द्विजः त्रैवर्णिको धनवांश्चेत् यथावित्तं वित्तानुसारेण पित्रोर्मातापित्रोः तद्वन्धूनाञ्च अपरपक्षीयं कृष्णपक्षीयं श्राद्धं महालयाख्यं कुर्यात् ॥ १९ ॥
श्लोक-२०
विश्वास-प्रस्तुतिः
अयने विषुवे कुर्याद् व्यतीपाते दिनक्षये।
चन्द्रादित्योपरागे च द्वादशीश्रवणेषु च॥
मूलम्
अयने विषुवे 51कुर्यात् व्यतीपाते दिनक्षये।
चन्द्रादित्योपरागे च 52द्वादश्यां श्रवणे53ऽपि च॥ २० ॥
वीरराघवः
किञ्च । अयनादिषु कालेषु पित्रोः श्राद्धं कुर्यादित्यन्वयः । तत्राऽयनं कर्कटसङ्क्रान्तिर्मकरसङ्क्रान्तिश्च । मेषतुले विषुवसंज्ञिके । तथा च वृद्धवसिष्ठः - “झषकर्कटसङ्क्रान्ती द्वे तूदग्दक्षिणायने । विषुवे तु तुलामेषे गोलमध्ये ततोऽपराः" इति कुहुर्नष्टेन्दुकला चन्द्रादित्ययो रुपरागो ग्रहः ॥ २० ॥
श्लोक-२१
विश्वास-प्रस्तुतिः
तृतीयायां शुक्लपक्षे नवम्यामथ कार्तिके।
चतसृष्वप्यष्टकासु हेमन्ते शिशिरे तथा॥
मूलम्
तृतीयायां शुक्लपक्षे नवम्यामथ कार्तिके।
चतसृष्वप्यष्टकासु हेमन्ते शिशिरे तथा॥ २१ ॥
वीरराघवः
शुक्लपक्षे तृतीयायां अक्ष54तृतीयायामित्यर्थः । कार्तिकेमासे55, शुक्लपक्षे नवम्यां हेमन्ते शिशिरे च ऋतौ चतसृष्वप्यष्टकासु मार्गशीर्षादिमासचतुष्टयकृष्णाष्टमीषु ॥ २१ ॥
श्लोक-२२
विश्वास-प्रस्तुतिः
माघे च सितसप्तम्यां मघाराकासमागमे।
राकया चानुमत्या वा मासर्क्षाणि युतान्यपि॥
मूलम्
माघे च सितसप्तम्यां मघाराका समागमे।
56राकयाचानुमत्या वा मासर्क्षाणि युतान्यपि॥ २२ ॥
वीरराघवः
माघे मासि सितसप्तम्यां शुक्लसप्तम्यां मघानक्षत्रपौर्णमास्योस्संयोगकाले च । सम्पूर्णचन्द्रा पौर्णमासी राका कलाहीनचन्द्रा पौर्णमासी अनुमतिः, ताभ्यां युक्तानि यानिमासर्क्षाणि मासनामप्रवृत्तिनिमित्तानि नक्षत्राणि तदुपलक्षितेषु च कालेषु ॥ २२ ॥
श्लोक-२३
विश्वास-प्रस्तुतिः
द्वादश्यामनुराधा स्याच्छ्रवणस्तिस्र उत्तराः।
तिसृष्वेकादशी वाऽऽसु जन्मर्क्षश्रोणयोगयुक्॥
मूलम्
द्वादश्याम57नूराधा स्याच्छ्रवणस्तिस्र उत्तराः।
तिसृष्वेकादशी 58वाऽस्तु ज59न्मर्क्षश्रोणयोगयुक्॥ २३ ॥
वीरराघवः
यद्वा-द्वादश्यामनूराधाश्रवणमुत्तरा 60फल्गुनी उत्तराषाढोत्तराभाद्रेति तिस्र उत्तरा वा स्युः । आसूत्तरासूक्तासु तिसृषु एकादशी वा यदा स्यात् तदा च जन्मर्क्षश्रोणयोगयुक् जन्मनक्षत्रस्य श्रवणनक्षत्रस्य वा योगेन युक्तः कालः तदा च योगग्रहणं सम्बन्धबाहुल्यज्ञापनाय61 ॥ २३ ॥
श्लोक-२४
विश्वास-प्रस्तुतिः
त एते श्रेयसः काला नृणां श्रेयोविवर्धनाः।
कुर्यात् सर्वात्मनैतेषु श्रेयोऽमोघं तदायुषः॥
मूलम्
त एते श्रेयसः काला नृणां श्रेयोविवर्धनाः।
कुर्यात्सर्वात्मनैतेषु श्रेयोऽमोघं तदायुषः॥ २४ ॥
अनुवाद (हिन्दी)
इसके सिवा अयन (कर्क एवं मकरकी संक्रान्ति), विषुव (तुला और मेषकी संक्रान्ति), व्यतीपात, दिनक्षय, चन्द्रग्रहण या सूर्यग्रहणके समय, द्वादशीके दिन, श्रवण, धनिष्ठा और अनुराधा नक्षत्रोंमें, वैशाख शुक्ला तृतीया (अक्षय तृतीया), कार्तिक शुक्ला नवमी (अक्षय नवमी), अगहन, पौष, माघ और फाल्गुन—इन चार महीनोंकी कृष्णाष्टमी, माघशुक्ला सप्तमी, माघकी मघा नक्षत्रसे युक्त पूर्णिमा और प्रत्येक महीनेकी वह पूर्णिमा, जो अपने मास-नक्षत्र, चित्रा, विशाखा, ज्येष्ठा, आदिसे युक्त हो—चाहे चन्द्रमा पूर्ण हों या अपूर्ण; द्वादशी तिथिका अनुराधा, श्रवण, उत्तराफाल्गुनी, उत्तराषाढ़ा और उत्तराभाद्रपदाके साथ योग, एकादशी तिथिका तीनों उत्तरा नक्षत्रोंसे योग अथवा जन्मनक्षत्र या श्रवण नक्षत्रसे योग—ये सारे समय पितृगणोंका श्राद्ध करने योग्य एवं श्रेष्ठ हैं। ये योग केवल श्राद्धके लिये ही नहीं, सभी पुण्यकर्मोंके लिये उपयोगी हैं। ये कल्याणकी साधनाके उपयुक्त और शुभकी अभिवृद्धि करनेवाले हैं। इन अवसरोंपर अपनी पूरी शक्ति लगाकर शुभ कर्म करने चाहिये। इसीमें जीवनकी सफलता है॥ २०—२४॥
वीरराघवः
न केवलं श्राद्धस्यैवेते कालाः, किन्तु धर्ममात्रस्येत्याह - त इति द्वाभ्याम् । त एते अयनादयः नृणां श्रेयसः श्रेयस्साधनधर्मानुष्ठानस्य योग्या श्रेयो वर्धयन्तीति तथा । तादृशाः कालाः । तस्मात्सर्वात्मना करणत्रयैक्येन एषु कालेषु श्रेयः श्रेयस्साधनं वक्ष्यमाणं स्नानादिकमनुतिष्ठेत् । तदेवह्यायुषः अमोघममोघत्वं साफल्यमित्यर्थः ॥ २४ ॥
श्लोक-२५
विश्वास-प्रस्तुतिः
एषु स्नानं जपो होमो व्रतं देवद्विजार्चनम्।
पितृदेवनृभूतेभ्यो यद् दत्तं तद्ध्यनश्वरम्॥
मूलम्
एषु स्नानं जपो हो56मस्तपो देवद्विजार्चनम्।
पितृदेवनृभूतेभ्यो यद्दत्तं तद्ध्यनश्वरम्॥ २५ ॥
अनुवाद (हिन्दी)
इन शुभ संयोगोंमें जो स्नान, जप, होम, व्रत तथा देवता और ब्राह्मणोंकी पूजा की जाती है अथवा जो कुछ देवता, पितर, मनुष्य एवं प्राणियोंको समर्पित किया जाता है, उसका फल अक्षय होता है॥ २५॥
वीरराघवः
एषु कालेषु कृतं यज्जपादिकं यच्च पित्राद्युद्देशेन दत्तम्, भावे क्तः । दानञ्च तद्ध्यनश्वरमक्षय्यफलसाधनम् ॥ २५ ॥
श्लोक-२६
विश्वास-प्रस्तुतिः
संस्कारकालो जायाया अपत्यस्यात्मनस्तथा।
प्रेतसंस्था मृताहश्च कर्मण्यभ्युदये नृप॥
मूलम्
संस्कारकालो जायाया अपत्यस्याऽऽत्मनस्तथा।
प्रेतसंस्थामृता57हश्च कर्मण्यभ्युदये नृप॥ २६ ॥
अनुवाद (हिन्दी)
युधिष्ठिर! इसी प्रकार स्त्रीके पुंसवन आदि, सन्तानके जातकर्मादि तथा अपने यज्ञ-दीक्षा आदि संस्कारोंके समय, शव-दाहके दिन या वार्षिक श्राद्धके उपलक्ष्यमें अथवा अन्य मांगलिक कर्मोंमें दान आदि शुभकर्म करने चाहिये॥ २६॥
वीरराघवः
किञ्च । हे नृप ! जायाऽपत्यात्मनां संस्कारकाले-तत्र जायायाः संस्कारः पुंसवनादिः, अपत्यस्य संस्कारो जातकर्मादिः, आत्मनः स्वस्य संस्कारो यज्ञदीक्षादिः - एतेषां कालेषु यदा प्रेतस्य संस्थादहनादि कर्ममृताहश्च तदा अन्यस्मिन्नभ्युदयार्थे कर्मणि कृतं स्नानादिकम् अनश्वरमिति पूर्वेणान्वयः ॥ २६ ॥
श्लोक-२७
विश्वास-प्रस्तुतिः
अथ देशान्प्रवक्ष्यामि धर्मादिश्रेयआवहान्।
स वै पुण्यतमो देशः सत्पात्रं यत्र लभ्यते॥
मूलम्
अथ देशान्प्रवक्ष्यामि धर्मादिश्रेय आवहान्।
स वै पुण्यतमो देशः सत्पात्रं यत्र लभ्यते॥ २७ ॥
अनुवाद (हिन्दी)
युधिष्ठिर! अब मैं उन स्थानोंका वर्णन करता हूँ, जो धर्म आदि श्रेयकी प्राप्ति करानेवाले हैं। सबसे पवित्र देश वह है, जिसमें सत्पात्र मिलते हों॥ २७॥
वीरराघवः
एवं श्रेयस्कराः काला उक्ताः । अथ देशान्वक्तुं प्रतिजानीते - अथेति । कर्मादिश्रेयस आवाहनाधायकान् देशान् प्रवक्ष्यामि । तावदयं मुख्यो देशः श्रेयस्कर इत्याह स इति । यत्र देशे सत्पात्रं लभ्यते ॥ २७ ॥
श्लोक-२८
विश्वास-प्रस्तुतिः
बिम्बं भगवतो यत्र सर्वमेतच्चराचरम्।
यत्र ह ब्राह्मणकुलं तपोविद्यादयान्वितम्॥
वीरराघवः
यत्र यस्मिन् सर्वमेतच्चराचरमाधेयतया नियाम्यतया चाऽस्ति, तस्य भगवतो बिम्बं, यत्र च देशे वर्तते, यत्र च देशे तपोविद्यादयाभिर्युक्तं ब्राह्मणकुलं वर्तते ॥ २८ ॥
श्लोक-२९
विश्वास-प्रस्तुतिः
यत्र यत्र हरेरर्चा स देशःश्रेयसां पदम्।
यत्र गङ्गादयो नद्यः पुराणेषु च विश्रुताः॥
मूलम्
यत्र यत्र हरेरर्चा स देशः श्रेयसां पदम्।
यत्र गङ्गादयो नद्यः पुराणेषु च विश्रुताः॥ २९ ॥
अनुवाद (हिन्दी)
जिनमें यह सारा चर और अचर जगत् स्थित है, उन भगवान्की प्रतिमा जिस देशमें हो, जहाँ तप, विद्या एवं दया आदि गुणोंसे युक्त ब्राह्मणोंके परिवार निवास करते हों तथा जहाँ-जहाँ भगवान्की पूजा होती हो और पुराणोंमें प्रसिद्ध गंगा आदि नदियाँ हों, वे सभी स्थान परम कल्याणकारी हैं॥ २८-२९॥
वीरराघवः
यत्र यत्र देशे हरेर्भगवतोऽर्चा पूजाप्रवर्तते स सर्वोऽपि देशः पुण्यतमः श्रेयसां पदं श्रेयस्साधनधर्मानुष्ठान योग्यं स्थानम् । किञ्च । यत्र येषु देशेषु पुराणेषु प्रसिद्धाः गङ्गादयो नद्यस्सन्ति ॥ २९ ॥
श्लोक-३०
विश्वास-प्रस्तुतिः
सरांसि पुष्करादीनि क्षेत्राण्यर्हाश्रितान्युत।
कुरुक्षेत्रं गयशिरः प्रयागः पुलहाश्रमः॥
मूलम्
सरांसि पुष्करादीनि क्षेत्राण्यर्हाश्रितान्युत।
कुरुक्षेत्रं 63गय शिरः प्रयागः पुलहाश्रमः॥ ३० ॥
वीरराघवः
तथा पुष्कर प्रभृतीनि सरांसि च 64यत्र सन्ति 65इति पूर्वेण सम्बन्धः65 । उत किञ्च । यानि चार्हाश्रितानि महात्मभिरधिष्ठितानि क्षेत्राणि 66सन्ति । तान्येव 67प्रदर्शयति - कुरुक्षेत्रमिति । यद्वा, कुरुक्षेत्रादिव्यतिरिक्तक्षेत्राभिप्रायेणोक्त मर्हाश्रितानीति । गयस्यासुरस्य शिरः तत्पतनस्थानं, गयेत्यर्थः । प्रयागो गङ्गायमुनयोस्सङ्गमस्थानं, पुलहाश्रमः शालग्रामक्षेत्रम् ॥ ३० ॥
श्लोक-३१
विश्वास-प्रस्तुतिः
नैमिषं फाल्गुनं सेतुः प्रभासोऽथ कुशस्थली।
वाराणसी मधुपुरी पम्पा बिन्दुसरस्तथा॥
वीरराघवः
फल्गुनी नदी गयायामेव तत्स्थानं फाल्गुनम् । सेतुः रामसेतुः प्रभासः प्रत्यक्सरस्वतीसङ्गमस्थानं, कुशस्थलीद्वारवती, पम्पा 70पम्पातटम्70 बिन्दुसरः कर्दमाश्रमः ॥ ३१ ॥
श्लोक-३२
विश्वास-प्रस्तुतिः
नारायणाश्रमो नन्दा सीतारामाश्रमादयः।
सर्वे कुलाचला राजन् महेन्द्रमलयादयः॥
मूलम्
नारायणाश्रमो नन्दा सीतारामाश्रमादयः।
सर्वे कुलाचला राजन्! महेन्द्रमलयादयः॥ ३२ ॥
वीरराघवः
नारायणाश्रमो बदरिकाश्रमः, नन्दा अलकनन्दातटं सीतारामयोराश्रमः चित्रकूटाद्रिः । एतत्प्रभृतयः तथा हे राजन् ! महेन्द्रमलयादयः, सर्वे कुलगिरयश्च ॥ ३२ ॥
श्लोक-३३
विश्वास-प्रस्तुतिः
एते पुण्यतमा देशा हरेरर्चाश्रिताश्च ये।
एतान् देशान् निषेवेत श्रेयस्कामो ह्यभीक्ष्णशः।
धर्मो ह्यत्रेहितः पुंसां सहस्राधिफलोदयः॥
मूलम्
एते पुण्यतमादेशा हरेरर्चाश्रिताश्च ये।
एतान्देशान्निषेवेत श्रेयस्कामो ह्यभीक्ष्णशः।
धर्मो 71ह्यत्रेहितः पुंसां सहस्राधिफलोदयः॥ ३३ ॥
अनुवाद (हिन्दी)
पुष्कर आदि सरोवर, सिद्ध पुरुषोंके द्वारा सेवित क्षेत्र, कुरुक्षेत्र, गया, प्रयाग, पुलहाश्रम (शालग्राम क्षेत्र), नैमिषारण्य, फाल्गुनक्षेत्र, सेतुबन्ध, प्रभास, द्वारका, काशी, मथुरा, पम्पासर, बिन्दुसरोवर, बदरिकाश्रम, अलकनन्दा, भगवान् सीतारामजीके आश्रम—अयोध्या, चित्रकूटादि, महेन्द्र और मलय आदि समस्त कुलपर्वत और जहाँ-जहाँ भगवान्के अर्चावतार हैं—वे सब-के-सब देश अत्यन्त पवित्र हैं। कल्याणकामी पुरुषको बार-बार इन देशोंका सेवन करना चाहिये। इन स्थानोंपर जो पुण्यकर्म किये जाते हैं, मनुष्योंको उनका हजार गुना फल मिलता है॥ ३०—३३॥
वीरराघवः
तथा ये हरेरर्चास्थिरा पूजा प्रतिमा वा तया आश्रिताः अधिष्ठिता स्त एते सर्वे पुण्यतमादेशाः बिम्बं भगवतो यत्रेति शालग्रामशिलाद्यर्चनदेश उक्तः । अत्रतु वेङ्कटाद्रिस्थानादीन्युच्यन्ते इत्यपौनरुक्त्यम् । श्रेयस्कामः पुमानभीक्ष्णशः पुनः पुनरेतान् देशान्नितरां सेवेत ॥ ३३ ॥
श्लोक-३४
विश्वास-प्रस्तुतिः
पात्रं त्वत्र निरुक्तं वै कविभिः पात्रवित्तमैः।
हरिरेवैक उर्वीश यन्मयं वै चराचरम्॥
अनुवाद (हिन्दी)
युधिष्ठिर! पात्रनिर्णयके प्रसंगमें पात्रके गुणोंको जाननेवाले विवेकी पुरुषोंने एकमात्र भगवान्को ही सत्पात्र बतलाया है। यह चराचर जगत् उन्हींका स्वरूप है॥ ३४॥
वीरराघवः
पुंसां यत्फलसाधनत्वे यो धर्म उदितो विहितः स एषु देशेषु कृतः सहस्रगुणमधिकस्य फलस्य उदयो यस्मात्तादृशो भवेत् । एवं देशकालावुक्तौ । अथ पात्रमाह - पात्रन्त्विद्यादिना । हे उर्वीश ! पात्रवित्तमैः सत्पात्रयाथात्म्यविद्भिः कविभिः हरिरेक एव पात्रं निरुक्तम्, हरिरेक एव सत्पात्रमिति निर्णीतमित्यर्थः । पात्रं पूज्य समर्हणीयं वस्तु । हरिं विशिनष्टि - एतच्चराचरात्मकं जगद्यन्मयं यद्धरिप्रचुरम् । 74एतेन तत्समर्हणेन सर्वे समर्हिता भवन्तीति सूचितम् ॥ ३४ ॥
श्लोक-३५
विश्वास-प्रस्तुतिः
देवर्ष्यर्हत्सु वै सत्सु तत्र ब्रह्मात्मजादिषु।
राजन्यदग्रपूजायां मतः पात्रतयाच्युतः॥
मूलम्
75देवर्ष्यर्हत्सु वै सत्सु75 76तत्र ब्रह्मात्मजादिषु।
राजन्यदग्रपूजायां मतः पात्रतयाच्युतः॥ ३५ ॥
अनुवाद (हिन्दी)
अभी तुम्हारे इसी यज्ञकी बात है; देवता, ऋषि, सिद्ध और सनकादिकोंके रहनेपर भी अग्रपूजाके लिये भगवान् श्रीकृष्णको ही पात्र समझा गया॥ ३५॥
वीरराघवः
हरेरेव पात्रत्वं यतो राजसूयेऽधुनात्वयैव दृष्टमित्याऽऽह - देवेष्विति । हे राजन् ! देवेषु ऋषिषु अर्हत्सु तपोयोगादिसिद्धेषु ब्रह्मादिषु सनकादिष्वपि सत्सु, तत्रत्वदीयराजसूये यद्यस्मादच्युत एवाऽग्रपूजायां पात्रतया मतोज्ञातः ॥ ३५ ॥
श्लोक-३६
विश्वास-प्रस्तुतिः
जीवराशिभिराकीर्ण आण्डकोशाङ्घ्रिपो महान्।
तन्मूलत्वादच्युतेज्या सर्वजीवात्मतर्पणम्॥
मूलम्
जीवराशिभिराकीर्ण 77आण्डकोशाङ्घ्रिपो महान्।
तन्मूलत्वादच्युतेज्या सर्वजीवात्मतर्पणम्॥ ३६ ॥
अनुवाद (हिन्दी)
असंख्य जीवोंसे भरपूर इस ब्रह्माण्डरूप महावृक्षके एकमात्र मूल भगवान् श्रीकृष्ण ही हैं। इसलिये उनकी पूजासे समस्त जीवोंकी आत्मा तृप्त हो जाती है॥ ३६॥
वीरराघवः
हरेस्समर्हणेन सर्वेषामर्हणं कृतप्रायमित्याह - जीवेति । जीवराशिभिराकीर्णो व्याप्तः ब्रह्माण्डकोश एव यो महानाङ्घ्रिपोवृक्षः, तस्य मूलत्वात् कारणत्वात् अच्युतस्येज्याऽऽराधनं सर्वेषां जीवात्मनां तर्पणं तृप्तिकरं, यथाङ्घ्रिपस्य मूलेऽर्पितं जलं तच्छाखोपशाखानां वृद्धिकरं तथा ब्रह्माण्डकोशमूलभूतेऽच्यते कृते कृतमर्हण मण्डान्तर्गतेषु सर्वेषु कृतप्रायमेवेत्यर्थः । अतः स एवोत्तमं पात्रमिति भावः । इतरत्राऽपि तद्दृष्ट्यैवार्हणं कार्यमिति च ॥ ३६ ॥
श्लोक-३७
विश्वास-प्रस्तुतिः
पुराण्यनेन सृष्टानि नृतिर्यगृषिदेवताः।
शेते जीवेन रूपेण पुरेषु पुरुषो ह्यसौ॥
मूलम्
पुराण्यनेन सृष्टानि नृतिर्यगृषिदेवताः।
शेते जीवेन रूपेण पुरेषु पुरुषो ह्यसौ॥ ३७ ॥
अनुवाद (हिन्दी)
उन्होंने मनुष्य, पशु-पक्षी, ऋषि और देवता आदिके शरीररूप पुरोंकी रचना की है तथा वे ही इन पुरोंमें जीवरूपसे शयन भी करते हैं। इसीसे उनका एक नाम ‘पुरुष’ भी है॥ ३७॥
वीरराघवः
एतदेव पुरुष नाम निरुक्त्या द्रडयति - पुराणीति । मनुष्यतिर्यगृषिदेवतारूपाणि पुराणि शरीरात्मकानि अनेन भगवता सृष्टानि । सृष्टेषु च पुरेषु यतो भगवान् जीवेन रूपेण जीवाख्येन शरीरेण “यस्याऽऽत्मा शरीरम्" (वृह. उ. 3-7-22) इति श्रुतेः । पुरे शेते अतोऽसौ पुरुषः । पुरुषशब्दः पुष्कलप्रवृत्तिनिमित्ताश्रायः । पुरे शेते इति पुरुषः, शकारस्य षकारः अकारस्य उकारश्च व्यत्ययात् । “अन्येष्वपि दृश्यते” (अष्टा. 3-2-101) इति डश्च । जीवेन रूपेणेत्यनेन केवलं सर्वकारणत्वादेव तदर्हण तत्कार्यपर्यन्तपर्यवसन्नम् । अपि तु तत्तदन्तरात्मतया तत्तद्रूपेणाऽवस्थितत्वाच्चेत्युक्तं 78भवति ॥ ३७ ॥
श्लोक-३८
विश्वास-प्रस्तुतिः
तेष्वेषु भगवान् राजंस्तारतम्येन वर्तते।
तस्मात् पात्रं हि पुरुषो यावानात्मा यथेयते॥
मूलम्
79तेष्वीशो भगवान्राजन्! तारतम्येन वर्तते।
तस्मात्पात्रं हि पुरुषो यावानात्मा यथेयते॥ ३८ ॥
अनुवाद (हिन्दी)
युधिष्ठिर! एकरस रहते हुए भी भगवान् इन मनुष्यादि शरीरोंमें उनकी विभिन्नताके कारण न्यूनाधिकरूपसे प्रकाशमान हैं। इसलिये पशु-पक्षी आदि शरीरोंकी अपेक्षा मनुष्य ही श्रेष्ठ पात्र हैं और मनुष्योंमें भी, जिसमें भगवान्का अंश—तप-योगादि जितना ही अधिक पाया जाता है, वह उतना ही श्रेष्ठ है॥ ३८॥
वीरराघवः
इतोऽपि पुरुषशब्दवाच्यः स्वसमर्हणेन अन्येषां तदाधायकश्चेत्याह - तेष्विति । हे राजन् ! तिर्यगादिभ्य स्तेषु पुरुषेषु तारतम्येन स्वकीयज्ञानशक्त्यादिगुणाविर्भाव तारतम्येन वर्तते भगवान् । अतोऽसौ पुरुषः पुरु अधिकं पुरुषेषु शेते इति पुरुषः; यत एवम्भूतोऽतस्तद्दृष्ट्यैवाऽर्हणमर्हणीयेषु सर्वेषु पुरुषेषु विधेयमिति भावः । यतो देवमनुष्यादि 80पुरेष्वन्तर्यामितया जीवशरीरकतया च भगवान् वर्तते । यतश्च सर्वे पुरुषदेवादयो भगवच्छरीरभूताः, तेन 81तारतम्यं व्याप्ताश्च । तस्मादात्मा परमात्मा पुरुषः परमपुरुषो यावान् यावद्गुणाविर्भाववान् यथा यत्र यत्र ईयते प्रतीयते तत्तत्पात्रं यत्र यत्राऽधिकं भगवतो ज्ञानशक्त्यादिगुणाविर्भावस्तत्तदुत्तमं पात्रं, न्यूनाविर्भाववत्तु अनुत्तममिति भावः । तदेवं भगवत एवोत्तमपात्रत्वमितरेषामपि तदात्मकत्वेनैवाऽर्हणीयत्वं, तदाविर्भावानुसारेण व्यवस्थितमिति चोक्तम् ॥ ३८ ॥
श्लोक-३९
विश्वास-प्रस्तुतिः
दृष्ट्वा तेषां मिथो नॄणामवज्ञानात्मतां नृप।
त्रेतादिषु हरेरर्चा क्रियायै कविभिः कृता॥
मूलम्
दृष्ट्वातेषां मिथो नॄणामव82ज्ञानात्मतां नृप।
त्रेतादिषु हरेरर्चा क्रियायै कविभिः कृता॥ ३९ ॥
अनुवाद (हिन्दी)
युधिष्ठिर! त्रेता आदि युगोंमें जब विद्वानोंने देखा कि मनुष्य परस्पर एक-दूसरेका अपमान आदि करते हैं, तब उन लोगोंने उपासनाकी सिद्धिके लिये भगवान्की प्रतिमाकी प्रतिष्ठा की॥ ३९॥
वीरराघवः
ननु भगवतस्तदात्मकानां पुरुषाणामेवार्हणीयत्वे स्मृतिकारादिभिराराधनीयत्वे विहिता हरिप्रतिकृतिः पूजिता न फलदा स्यादिति चेत् भूतद्रोहिणां व्यर्थैवेत्याह - दृष्ट्वेति द्वाभ्याम् । मिथोऽवज्ञानं तिरस्कारः । तस्मिन्नात्मा बुद्धिर्येषां तेषां भावं दृष्ट्वा, हे नृप ! हरेः क्रियायै पूजार्थमर्चा प्रतिमा कविभिः त्रेतादिषु युगेषु कृता पूज्यत्वेन विहिता । त्रेतादिष्वित्यनेन प्रायशः कृते सर्वात्मना ब्राह्मोपासनमेव विहितमिति सूचितम् ॥ ३९ ॥
श्लोक-४०
विश्वास-प्रस्तुतिः
ततोऽर्चायां हरिं केचित् संश्रद्धाय सपर्यया।
उपासत उपास्तापि नार्थदा पुरुषद्विषाम्॥
मूलम्
ततोऽर्चायां हरिं केचित् 83श्रद्धाय च83 सपर्यया।
उपासत उपा84स्ताऽपि नाऽर्थदा पुरुषद्विषाम्॥ ४० ॥
अनुवाद (हिन्दी)
तभीसे कितने ही लोग बड़ी श्रद्धा और सामग्रीसे प्रतिमामें ही भगवान्की पूजा करते हैं। परन्तु जो मनुष्यसे द्वेष करते हैं, उन्हें प्रतिमाकी उपासना करनेपर भी सिद्धि नहीं मिल सकती॥ ४०॥
वीरराघवः
85ततः तत्राऽऽर्चायां पूजार्थप्रतिमायां केचिद्धरिं 86श्रद्धाय श्रद्धापूर्वकमुपासते । एवमुपास्ता आराधिताऽप्यर्चा पुरुषद्विषां भगवदात्मकान् पुरुषान् द्विषन्तीति पुरुषद्विषः तेषां नार्थदा न पुरुषार्थदा भवति, पुरुषान् बहुमन्यमानानामेव अर्चाराधनं फलवदित्यर्थः ॥ ४० ॥
श्लोक-४१
विश्वास-प्रस्तुतिः
पुरुषेष्वपि राजेन्द्र सुपात्रं ब्राह्मणं विदुः।
तपसा विद्यया तुष्ट्या धत्ते वेदं हरेस्तनुम्॥
मूलम्
पुरुषेष्वपि राजेन्द्र! सुपात्रं ब्राह्मणं विदुः।
तपसा विद्यया तुष्ट्या धत्तेवेदं हरेस्तनुम्॥ ४१ ॥
अनुवाद (हिन्दी)
युधिष्ठिर! मनुष्योंमें भी ब्राह्मण विशेष सुपात्र माना गया है। क्योंकि वह अपनी तपस्या, विद्या और सन्तोष आदि गुणोंसे भगवान्के वेदरूप शरीरको धारण करता है॥ ४१॥
वीरराघवः
यदुक्तं, “तस्मात्पात्रं हि 87पुरुषः यावानात्मा यथेयते” इति87 तद्विवृणोति - पुरुषेष्विति । हे राजेन्द्र ! पुरुषेष्वपि ब्राह्मणं सुपात्रं विदुः सुपात्रयाथात्म्यविदः । सुपात्रत्वे हेतुं वदन् विशिनष्टि - इदं ब्राह्मणात्मकं सुपात्रं तपसाऽनशनेन विद्यया आत्मयाथात्म्यज्ञानपूर्वकभगवदुपासनरूपविद्यया, तुष्ट्या दैवाल्लब्धसन्तोषेण च । इदं स्वधर्मशमदमादीनामप्युपलक्षणम् । एभिर्गुणैर्हरेस्तनुं धत्ते बिभर्ति । व शब्दः पादपूरणार्थः, एवकारार्थो वा । हरेरेव तनुं धत्ते इत्यर्थः ॥ ४१ ॥
श्लोक-४२
विश्वास-प्रस्तुतिः
नन्वस्य ब्राह्मणा राजन् कृष्णस्य जगदात्मनः।
पुनन्तः पादरजसा त्रिलोकीं दैवतं महत्॥
मूलम्
नन्वस्य ब्राह्मणा राजन्! कृष्णस्य जगदात्मनः।
88पुनन्तः पादरजसा त्रिलोकीं दैवतं महत्॥ ४२ ॥
अनुवाद (हिन्दी)
महाराज! हमारी और तुम्हारी तो बात ही क्या—ये जो सर्वात्मा भगवान् श्रीकृष्ण हैं, इनके भी इष्टदेव ब्राह्मण ही हैं। क्योंकि उनके चरणोंकी धूलसे तीनों लोक पवित्र होते रहते हैं॥ ४२॥
अनुवाद (समाप्ति)
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां सप्तमस्कन्धे सदाचारनिर्णयो नाम चतुर्दशोऽध्यायः॥ १४ ॥
वीरराघवः
एतदेव कै89मुतिकन्यायेन द्रढयति - नन्वस्येति । ननु90 हे राजन् ! न त्रिलोकीं पादरजसा पुन91तः पवित्रीकुर्व92तः जगदन्तरात्मनः श्रीकृष्णस्यापि ब्राह्मणा महद्दैवतं किमुताऽन्येषामस्मद्विधानां ब्राह्मणा दैवतमित्यर्थः ॥ ४२ ॥
इति श्रीमद्भागवते सप्तमस्कन्धे श्रीवीरराघवविदुषा लिखितायां भागवतचन्द्रचन्द्रिकायां व्याख्यायां चतुर्दशोऽध्यायः । । १४ । ।
-
H,V संवृतः ↩︎
-
A,B,G,J,T यातिदे ↩︎
-
H,V,W रू ↩︎
-
A,B,T add सन्ध्यभाव आर्षः ↩︎
-
A,B,T या ↩︎
-
W omits मार्ग ↩︎
-
M,Ma द्रुतम् ↩︎
-
M,Ma त ↩︎
-
A,B,G,J,M,Ma,T च्य ↩︎
-
A,B,T भाव्यत ↩︎
-
A,B,T नृ ↩︎
-
A,B,T अनुसन्दधीत ↩︎
-
A,B,G,J,M,Ma,T दो परे ↩︎
-
M,Ma अनु ↩︎
-
A,B,G,J,T भुञ्जानः, M,Ma भुञ्जीरन् ↩︎
-
M,Ma न स्वीकु ↩︎
-
H,V धि ↩︎
-
W omits हि ↩︎
-
A,B,T add एवं हि ↩︎
-
M,Ma खराश्व ↩︎
-
A,B,G,J,T पुखगम ↩︎
-
M,Ma कान् ↩︎
-
A,B,G,J,M,Ma,T नः पु ↩︎
-
M,Ma श्वभ्योन्ते ↩︎
-
A,B,J न्ते ↩︎
-
A,M,Ma स ↩︎
-
A,B,T अन्तेऽव ↩︎
-
A,B,G,J,T स्वप्रा ↩︎
-
A,B,G,J,M,Ma,T यस्तेन ↩︎
-
A,B,G,J,M,Ma,T कृ ↩︎
-
A,B,G,J,M,Ma,T तुच्छ ↩︎
-
A,B,G,J,M, Ma,T दि ↩︎
-
A,B,T कृ ↩︎
-
A,B,T कृ ↩︎
-
M,Ma जेत्प्र ↩︎
-
A,B,G,J,M,Ma,T वि ↩︎
-
A,B,T add पञ्च ↩︎
-
M,Ma करोऽस्ति; W कारस्स्यात् ↩︎
-
A,B,G,J,M,Ma,T अ ↩︎
-
M,Ma जेच्चैनं ↩︎
-
A,B,G,H,J,T,V णाननु ↩︎
-
W Omits आह ↩︎
-
A,B,G,J,T दा ↩︎
-
A,B,G,J,T प्रौ ↩︎
-
W प्रो ↩︎
-
M,Ma कुह्वां ↩︎
-
A,B,G,J,T दशी ↩︎
-
A,B,G,J,M,Ma,T पु ↩︎
-
A,B,T क्षयतृ ↩︎
-
W सि ↩︎
-
A,B,T फा ↩︎
-
A,B,T Add इति सूचितम् । ↩︎
-
A,B,G,J,M,Ma,T ह ↩︎
-
H,V,W हय ↩︎
-
W Omits यत्र ↩︎
-
W Omits सन्ति ↩︎
-
A,B,T Omit प्र ↩︎
-
A,B,G,J,M, Ma,T षं ↩︎
-
A,B,G,J,T,W, फा ↩︎
-
M,Ma ह्यत्रोदितः ↩︎
-
A,B,G,J,T त्वत्र; M,Ma चाऽत्र ↩︎
-
A,B,G,J,T वैः, M,Ma च ↩︎
-
W अनेन ↩︎
-
H,V,W ब्रह्म ↩︎
-
H,V,W अ ↩︎
-
W Omits भवति । ↩︎
-
A,B,G,J,T तेष्वेषु ↩︎
-
A,B,T पुरुषेष्व ↩︎
-
W तरतमं ↩︎
-
M,Ma ज्ञामात्मनो, A,B,G,J,T ज्ञानात्मतां ↩︎
-
M,Ma साहि ↩︎
-
A,B,T Omit ततः ↩︎
-
A,B,T Omit संश्र ↩︎
-
H,V पुरतः; W पुनतः ↩︎
-
W मुत्यन्या ↩︎
-
A,B,T Omit ननु ↩︎
-
A,B,T न्तः ↩︎
-
A,B,T न्तः । ↩︎