[त्रयोदशोऽध्यायः]
भागसूचना
यतिधर्मका निरूपण और अवधूत-प्रह्लाद-संवाद
श्लोक-१
मूलम् (वचनम्)
नारद उवाच
विश्वास-प्रस्तुतिः
कल्पस्त्वेवं परिव्रज्य देहमात्रावशेषितः।
ग्रामैकरात्रविधिना निरपेक्षश्चरेन्महीम्॥
मूलम्
1कल्पस्त्वेवं परिव्रज्य देहमात्रावशेषितः।
ग्रामैकरात्रविधिना निरपेक्षश्चरेन्महीम्॥ १ ॥
अनुवाद (हिन्दी)
नारदजी कहते हैं—धर्मराज! यदि वानप्रस्थीमें ब्रह्मविचारका सामर्थ्य हो, तो शरीरके अतिरिक्त और सब कुछ छोड़कर वह संन्यास ले ले; तथा किसी भी व्यक्ति, वस्तु, स्थान और समयकी अपेक्षा न रखकर एक गाँवमें एक ही रात ठहरनेका नियम लेकर पृथ्वीपर विचरण करे॥ १॥
वीरराघवः
एवं स्वधर्मानुष्ठाने तुर्याश्रमधर्मे चाऽशक्तस्य वानप्रस्थस्यैवं अनुसन्धानपूर्वकानशनव्रतेन देहत्याग उक्तः । अथ तच्छक्तस्य तुर्याश्रमपरिग्रहं वदंस्तद्धर्मानाह त्रयोदशे2नाध्यायेन - कल्य3 इति । आश्रमान्तरधर्माननुष्ठातुं4 समर्थश्चेदेवमनुसन्दधत्परिव्रज्य सन्न्यस्य देहमात्रेणावशेषितः देहातिरिक्तं तदनुबन्धि सर्वं परित्यज्येत्यर्थः । ग्रामैकरात्रविधिना एकैकस्मिन् ग्रामे एकैकरात्रनयनविधिना निरपेक्षो महीं चरेत् ॥ १ ॥
श्लोक-२
विश्वास-प्रस्तुतिः
बिभृयाद् यद्यसौ वासः कौपीनाच्छादनं परम्।
त्यक्तं न दण्डलिङ्गादेरन्यत् किञ्चिदनापदि॥
अनुवाद (हिन्दी)
यदि वह वस्त्र पहने तो केवल कौपीन, जिससे उसके गुप्त अंग ढक जायँ। और जबतक कोई आपत्ति न आवे, तबतक दण्ड तथा अपने आश्रमके चिह्नोंके सिवा अपनी त्यागी हुई किसी भी वस्तुको ग्रहण न करे॥ २॥
वीरराघवः
यद्यसौ परिव्राट् त्यक्तं देहाद्यतिरिक्तं कि7ञ्चित् बिभृयाच्चेत् तर्हि कौपीनमाच्छाद्यते येन तच्चवासः परं केवलं बिभृयात् । दण्डकमण्डलुभ्यामन्यत्किञ्चिदपि अनापदि न बिभृयात् । दण्डपात्रग्रहणमुपवीतकटिसूत्रादेरप्यावश्यकस्योपलक्षणम् । अनापदीत्यनेन शीताद्यसहिष्णुत्वरूपापदि तु किञ्चित्तन्निवारकं वासोऽन्तरादिकमपि बिभृयादिति सूचितम् ॥ २ ॥
श्लोक-३
विश्वास-प्रस्तुतिः
एक एव चरेद् भिक्षुरात्मारामोऽनपाश्रयः।
सर्वभूतसुहृच्छान्तो नारायणपरायणः॥
मूलम्
एक एव चरेद्भिक्षुरात्मारामोऽनपाश्रयः।
सर्वभूतसुहृच्छान्तो नारायणपरायणः॥ ३ ॥
अनुवाद (हिन्दी)
संन्यासीको चाहिये कि वह समस्त प्राणियोंका हितैषी हो, शान्त रहे, भगवत्परायण रहे और किसीका आश्रय न लेकर अपने-आपमें ही रमे एवं अकेला ही विचरे॥ ३॥
वीरराघवः
अनपाश्रयः परित्यक्तनियतनिवासदेशः एकोऽसहायः भिक्षुः भिक्षान्त्रोपजीवी आत्मारामश्चरेत् । सर्वेति । सर्वभूतेषु तरतमेषु सुहृद्भगवदात्मकत्वानुसन्धानेन नितरामनुकूलः शान्तः क्रोधरहितः नारायण 8एव परायणं प्राप्यं प्रापकमाधारश्चेति अध्यवसाययुक्त 9इत्यर्थः ॥ ३ ॥
श्लोक-४
विश्वास-प्रस्तुतिः
पश्येदात्मन्यदो विश्वं परे सदसतोऽव्यये।
आत्मानं च परं ब्रह्म सर्वत्र सदसन्मये॥
मूलम्
पश्येदात्मन्यदो विश्वं परे सदसतो10ऽव्यये।
आत्मानञ्च परं ब्रह्म सर्वत्र सदसत्तमे॥ ४ ॥
अनुवाद (हिन्दी)
इस सम्पूर्ण विश्वको कार्य और कारणसे अतीत परमात्मामें अध्यस्त जाने और कार्य-कारणस्वरूप इस जगत्में ब्रह्मस्वरूप अपने आत्माको परिपूर्ण देखे॥ ४॥
वीरराघवः
सदसतः चिदचिद्भ्यां परे विलक्षणे अत एवाऽव्यये स्वरूपतः स्वभावतश्च विकाररहिते आत्मनि परमात्मनि अदः इदं विश्वं पश्येत्तदायत्तसत्तास्थितिप्रवृत्तिमत्त्वेन तच्छरीरत्वेन च पश्येदित्यर्थः । तथा परं ब्रह्म आत्मानं परमात्मानं सदसन्मये चिदचिदात्मके सर्वत्र जगति नियन्तृतयाऽऽत्मतया च स्थितं पश्येत् । एवं वासुदेवशब्दार्थानुसन्धानमुक्तम् ॥ ४ ॥
श्लोक-५
विश्वास-प्रस्तुतिः
सुप्तप्रबोधयोः सन्धावात्मनो गतिमात्मदृक्।
पश्यन्बन्धं च मोक्षं च मायामात्रं न वस्तुतः॥
मूलम्
सुप्तप्रबोधयोस्सन्धावात्मनो गतिमात्मदृक्।
पश्यन्बन्धञ्च मोक्षञ्च मायामात्रं 11न वस्तुतः॥ ५ ॥
अनुवाद (हिन्दी)
आत्मदर्शी संन्यासी सुषुप्ति और जागरणकी सन्धिमें अपने स्वरूपका अनुभव करे और बन्धन तथा मोक्ष दोनों ही केवल माया हैं, वस्तुतः कुछ नहीं—ऐसा समझे॥ ५॥
वीरराघवः
सुप्तेति । सुप्तप्रबोधयोस्सन्धौ, सायंप्रातरित्यर्थः । यद्वा, तयोस्सन्धिः मध्यमावस्था स्वप्नावस्थायामित्यर्थः । तदानीं शयानदे12हादात्मनोऽप्यतिरेकः सुग्रहः । परमात्मनो विचित्रसृष्टियोगश्च - “न तत्र रथा न रथयोगा न पन्थानो भवन्त्यथ रथान् रथयोगान्पथः सृजते” इति 13श्रूयते । एवञ्च सुप्तप्रबोधयोस्सन्धौ स्वप्नावस्थायामात्मदृक् देहविलक्षणप्रत्यगात्मस्वरूपविमर्शन परः आत्मनः परमात्मनो गतिं विचित्रपथरथयोगादिस्रष्टत्वादिप्रकारं पश्येदनुसन्दधीत । तथा बन्धं मोक्षञ्च मायामात्रं न वस्तुत इति पश्येत्, बन्धादिकमीश्वरसङ्कल्परूपज्ञानाधीनं नत्वात्मस्वरूपप्रयुक्तमिति पश्येदित्यर्थः । मायाशब्दश्च ज्ञानपर्यायः “माया वयुनं ज्ञानम्" (वेद.नि. 3-9) इति नैघण्टुकाः । बन्धमोक्षयोश्च परमात्मसङ्कल्पाधीनत्वं सूचितम् । “पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ” (ब्र.सू. 3-1-4) इति बन्धमोक्षयोः प्रकृत्यन्वयव्यतिरेकरूपत्वाच्च मायामात्रत्वम् । ननु कथं मोक्षस्य स्वरूपप्रयुक्तत्वाभावः ? बन्धप्रतियोगित्वादिति ब्रूमः । न ह्यबद्धस्य मोक्षसम्भवः ॥ ५ ॥
श्लोक-६
विश्वास-प्रस्तुतिः
नाभिनन्देद् ध्रुवं मृत्युमध्रुवं वास्य जीवितम्।
कालं परं प्रतीक्षेत भूतानां प्रभवाप्ययम्॥
मूलम्
नाऽभिनन्देद् ध्रुवं मृत्युमध्रुवं 14वाऽस्य जीवितम्।
कालं परं प्रतीक्षेत भूतानां प्रभवाप्ययम्॥ ६ ॥
अनुवाद (हिन्दी)
न तो शरीरकी अवश्य होनेवाली मृत्युका अभिनन्दन करे और न अनिश्चित जीवनका। केवल समस्त प्राणियोंकी उत्पत्ति और नाशके कारण कालकी प्रतीक्षा करता रहे॥ ६॥
वीरराघवः
ध्रुवं निश्चितं मृत्युम् अध्रुवमस्थिरं जीवितञ्च नाऽभिनन्देत् मृत्युमिति दृष्टान्तार्थं वा । यथा मृत्युं नाभिनन्दति तथा अध्रुवं जीवितमपि नाऽभिनन्देदिति परं केवलन्तु भूतानां प्रभवाप्ययौ यस्मात्, तमुत्पत्तिप्रलयहेतुं कालमेव प्रतीक्षेत कालगतिमेवाऽऽलोचयेदित्यर्थः ॥ ६ ॥
श्लोक-७
विश्वास-प्रस्तुतिः
नासच्छास्त्रेषु सज्जेत नोपजीवेत जीविकाम्।
वादवादांस्त्यजेत् तर्कान्पक्षं कं च न संश्रयेत्॥
मूलम्
नासच्छास्त्रेषु सज्जेत नोपजीवेत जीविकाम्।
15वादिवादांस्त्यजेत्तर्कान्पक्षं 16कञ्चिन्न संश्रयेत्॥ ७ ॥
अनुवाद (हिन्दी)
असत्य—अनात्मवस्तुका प्रतिपादन करनेवाले शास्त्रोंसे प्रीति न करे। अपने जीवन-निर्वाहके लिये कोई जीविका न करे, केवल वाद-विवादके लिये कोई तर्क न करे और संसारमें किसीका पक्ष न ले॥ ७॥
वीरराघवः
असच्छास्त्रेषु अनध्यात्मशास्त्रेषु न सज्जेत न सक्तो भवेत् । जीविकां जीवनोपायभूतां वृत्तिं नोपजीवेत् अतिवादान् जल्पवितण्डादिनिष्ठान् तर्कान् त्यजेत् । कमपिपक्षमाग्रहेण नाऽऽश्रयेत् ॥ ७ ॥
श्लोक-८
विश्वास-प्रस्तुतिः
न शिष्याननुबध्नीत ग्रन्थान्नैवाभ्यसेद् बहून्।
न व्याख्यामुपयुञ्जीत नारम्भानारभेत् क्वचित्॥
मूलम्
न शिष्याननुबध्नीत ग्रन्थान्नैवाऽभ्यसेद्बहून्।
न व्याख्यामुप17युञ्जीत नाऽऽरम्भानारभेत्क्वचित्॥ ८ ॥
अनुवाद (हिन्दी)
शिष्य-मण्डली न जुटावे, बहुत-से ग्रन्थोंका अभ्यास न करे, व्याख्यान न दे और बड़े-बड़े कामोंका आरम्भ न करे॥ ८॥
वीरराघवः
शिष्यान्नाऽनुबध्नीत 18वित्तलोभाभावादिति भावः । बहून् ग्रन्थान् नैवाऽभ्यसेत् नैव पठेत् । व्याख्यां नोपयुञ्जीत न पाठयेदित्यर्थः । चित्तस्याऽन्यपरत्वप्रसङ्गादिति भावः । आरम्भान् माठपत्याद्यारम्भान् क्वचिदपि नाऽऽरभेत् न कुर्यात् । निग्रहानुग्रहादि वैषम्यप्रसङ्गादिति भावः, 19यद्वा, आरम्भान् गृहाद्यारम्भान् नाऽऽरभेदित्यर्थः19 ॥ ८ ॥
श्लोक-९
विश्वास-प्रस्तुतिः
न यतेराश्रमः प्रायो धर्महेतुर्महात्मनः।
शान्तस्य समचित्तस्य बिभृयादुत वा त्यजेत्॥
मूलम्
न यतेराश्रमः प्रायो धर्महेतुर्महात्मनः।
शान्तस्य समचित्तस्य बिभृयादुत वा त्यजेत्॥ ९ ॥
अनुवाद (हिन्दी)
शान्त, समदर्शी एवं महात्मा संन्यासीके लिये किसी आश्रमका बन्धन धर्मका कारण नहीं है। वह अपने आश्रमके चिह्नोंको धारण करे, चाहे छोड़ दे॥ ९॥
वीरराघवः
शान्तस्य समचित्तस्य महात्मनो यतेराश्रमः प्रायो न धर्महेतुः, अपि तु ज्ञानप्रयोजनकः । अतो धर्म बिभृयाद्वा त्यजेद्वा । भरणत्यागौ व्यवस्थितविकल्पौ; ज्ञानहीनः सन्न्यासाश्रमनिष्ठः धर्म प्रयोजनत्वेन बिभृयात्, ज्ञानवांस्तु धर्माख्यं फलं त्यजेदित्यर्थः । यद्वा, उपवासादिदेहक्लेशकररूपधर्मः शरीरदौर्बल्यमुखेन योगविघा20तुको न चेत् 21तं बिभृयात्, विघातु22कश्चेत्तं त्यजेदित्यर्थः । यद्वा ननु शिष्यानुबन्धनग्रन्थाभ्यासव्याख्योपयोजनादिभिः कश्चिद्धर्म एव आर्जितः स्यादिति किमर्थं ते निषिध्यन्ते ? इत्यत्राऽऽह-नेति । यदि यतेराश्रमो धर्मार्थस्स्यात् तर्हि कर्तव्याः स्युः शिष्यानुबन्धनादयः । स तु प्रायशो न धर्महेतुः । यत्याश्रमस्य धर्महेतुत्वाभावे हेतुं वदन् तं विशिनष्टि - शान्तस्येति । शान्तस्य जितेन्द्रियस्य धर्मसाध्यैहिकामुष्मिकशब्दादिविषयभो23गेच्छारहितस्य समचित्तस्य अधर्मस्येव धर्मस्याऽपि स्वफलजननद्वारा मुक्तिप्रतिबन्धकत्वज्ञानवत्त्वेन धर्माधर्मयोस्समचित्तस्य । प्राय इत्यनेन क्वचिद्यत्याश्रमस्याऽपि धर्महेतुत्वमस्त्येवेति सूचितम् । अतो यदि यतिः धर्मप्रयोजनकयत्याश्रमनिष्ठश्चेत् शिष्यानुबन्धनादीन् बिभृयात् । धर्महेतुत्वाभावे तु त्यजेदित्यर्थः ॥ ९ ॥
श्लोक-१०
विश्वास-प्रस्तुतिः
अव्यक्तलिङ्गो व्यक्तार्थो मनीष्युन्मत्तबालवत्।
कविर्मूकवदात्मानं स दृष्ट्या दर्शयेन्नृणाम्॥
मूलम्
अव्यक्तलिङ्गोऽव्यक्तार्थो 24मनीष्युन्मत्तबालवत्।
कविर्मूकवदात्मानं25 सदृष्ट्या दर्शयेन्नृणाम्॥ १० ॥
अनुवाद (हिन्दी)
उसके पास कोई आश्रमका चिह्न न हो, परन्तु वह आत्मानुसन्धानमें मग्न हो। हो तो अत्यन्त विचारशील, परन्तु जान पड़े पागल और बालककी तरह। वह अत्यन्त प्रतिभाशील होनेपर भी साधारण मनुष्योंकी दृष्टिसे ऐसा जान पड़े मानो कोई गूँगा है॥ १०॥
वीरराघवः
ननु शिष्यानुबन्धनाद्यभावे स्वस्य ज्ञानित्वादिमाहात्म्यं न प्रकाशितं स्या26दित्यत आह - अव्यक्तलिङ्ग इति । अव्यक्तलिङ्गोऽस्फुटचिह्नः स्वमाहात्म्यमनाविष्कुर्वन् वर्तेत यतिरिति भावः । तथा च शारीरकं सूत्रम् - “अनाविष्कुर्वन्नन्वयात्" (ब्र. सू. 3-4-50) इति । श्रुतिश्च - “तस्माद्ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत्” (बृह. उ. 3-5-1) इति । बालस्य कर्म स्वमाहात्म्यानाविष्करणरूपं बाल्यं तेन तिष्ठासेदित्यर्थः । ज्ञानित्वाद्यनाविष्काराभिप्रायेण दृष्टान्तयति उन्मत्तबालवदिति, उन्मत्तवत् बालवच्च । किञ्च, अव्यक्तार्थः परैरविदित प्रयोजनः मुनिरालम्बसंशीलनशीलश्च वर्तेत । आलम्बसंशीलनं शुभाश्रयपरिशीलनम् । एतदेव “बाल्यञ्च पाण्डित्यञ्च निर्विद्याऽथ मुनिर्भवति” (बृह. उ. 3-5-1) इति मुनिशब्देन विहितम्, तद्विषयकञ्चेदं सूत्रम् - “सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत्” (ब्र.सू. 3-4-46) इति । न त्वत्र बालवदिति दृष्टान्तेन बालस्य यत्कर्म कामचारादिकं तदभिप्रेतम् । “नाविरतो दुश्चरितान्नाशान्तो नासमाहितः । नाशान्तमानसो वाऽपि प्रज्ञानेनैनमाप्नुयात्” (कठ. उ. 2-4) इति दुश्चरितस्य परिनिष्पन्नसाधनविरोधित्वश्रवणात् । मनीष्युन्मत्तबालवदिति 27पाठान्तरम् । 28तत्र मनीष्यप्युन्मत्तादिवच्चरेदिति यथोक्त एवार्थः । कविर्विद्वानपि सुनिपुणं भाषितुं समर्थोऽपि स्वमात्मानं मू29कवत् मूकमिव नृणां दृष्ट्या दर्शयेत् यथोन्मत्तादिरूपं मन्येरन् तथा वर्तेत । स्वदृष्ट्येति पाठे स्वदृष्ट्या देहविलक्ष30णया स्वात्मदृष्ट्येत्यर्थः ॥ १० ॥
श्लोक-११
विश्वास-प्रस्तुतिः
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
प्रह्रादस्य च संवादं मुनेराजगरस्य च॥
मूलम्
अत्राऽप्युदाहरन्तीममितिहासं पुरातनम्।
प्रह्लादस्य च संवादं मुनेराजगरस्य च॥ ११ ॥
अनुवाद (हिन्दी)
युधिष्ठिर! इस विषयमें महात्मालोग एक प्राचीन इतिहासका वर्णन करते हैं। वह है दत्तात्रेय मुनि और भक्तराज प्रह्लादका संवाद॥ ११॥
वीरराघवः
आजगरव्रतस्य सन्न्यासाश्रमानपेक्षितत्वेऽपि यदृच्छयोपनतसन्तोषस्य मोक्षविरोधिप्रवृत्त्युपरतेः ज्ञानानाविष्कारस्य च तदपेक्षितत्वात् तदवगमनाय तदितिहासं प्रस्तौति अत्रापीति । अत्र स्वमाहात्म्यानाविष्कारादिना ज्ञानिनोऽवस्थाने इतिहासमपि दृष्टान्तत्वेनोदाहरन्ति 31निदर्शयन्ति इतिहासं विशिनष्टि - पुरातनं न त्वस्मत्कपोलकल्पितं प्रह्लादस्याजगरस्य अजगरव्रत32स्थस्य मुनेश्च संवादरूपम् ॥ ११ ॥
श्लोक-१२
विश्वास-प्रस्तुतिः
तं शयानं धरोपस्थे कावेर्यां सह्यसानुनि।
रजस्वलैस्तनूदेशैर्निगूढामलतेजसम्॥
मूलम्
तं शयानं धरोपस्थे कावेर्यां सह्यसानुनि।
रजस्वलैस्तनूदेशैर्निगूढामलतेजसम्॥ १२ ॥
वीरराघवः
तमजगरव्रतस्थं सह्यपर्वतस्य सानुनि कावेर्यां कावेरीतटे धरोपस्थे भूपृष्ठे शयानं रजस्वलैर्धूलिधूसरैस्तनूदेशः देहावयवैर्निगूढं प्रच्छन्नममलं तेजो देहकान्तिर्यस्य तम्, प्रह्लादो दद33र्शेत्यन्वयः ॥ १२ ॥
श्लोक-१३
विश्वास-प्रस्तुतिः
ददर्श लोकान्विचरल्ँलोकतत्त्वविवित्सया।
वृतोऽमात्यैः कतिपयैः प्रह्रादो भगवत्प्रियः॥
मूलम्
ददर्श लोकान्विचरन् लोकतत्त्वविवित्सया।
वृतोऽमात्यैः कतिपयैः प्रह्लादो भगवत्प्रियः॥ १३ ॥
अनुवाद (हिन्दी)
एक बार भगवान्के परम प्रेमी प्रह्लादजी कुछ मन्त्रियोंके साथ लोगोंके हृदयकी बात जाननेकी इच्छासे लोकोंमें विचरण कर रहे थे। उन्होंने देखा कि सह्य पर्वतकी तलहटीमें कावेरी नदीके तटपर पृथ्वीपर ही एक मुनि पड़े हुए हैं। उनके शरीरकी निर्मल ज्योति अंगोंके धूलि-धूसरित होनेके कारण ढकी हुई थी॥ १२-१३॥
श्लोक-१४
विश्वास-प्रस्तुतिः
कर्मणाऽऽकृतिभिर्वाचा लिङ्गैर्वर्णाश्रमादिभिः।
न विदन्ति जना यं वै सोऽसाविति न वेति च॥
मूलम्
कर्मणाऽऽकृतिभिर्वाचा लिङ्गैर्वर्णाश्रमादिभिः।
34न विदन्ति जना34 यं वै सोऽसाविति न वेति च॥ १४ ॥
अनुवाद (हिन्दी)
उनके कर्म, आकार, वाणी और वर्ण-आश्रम आदिके चिह्नोंसे लोग यह नहीं समझ सकते थे कि वे कोई सिद्ध पुरुष हैं या नहीं॥ १४॥
श्लोक-१५
विश्वास-प्रस्तुतिः
तं नत्वाभ्यर्च्य विधिवत् पादयोः शिरसा स्पृशन्।
विवित्सुरिदमप्राक्षीन्महाभागवतोऽसुरः॥
मूलम्
तं नत्वाऽभ्यर्च्य विधिवत्पादयोश्शिरसा स्पृशन्।
विवित्सुरिदमप्राक्षीन्महाभागवतोऽसुरः॥ १५ ॥
अनुवाद (हिन्दी)
भगवान्के परम प्रेमी भक्त प्रह्लादजीने अपने सिरसे उनके चरणोंका स्पर्श करके प्रणाम किया और विधिपूर्वक उनकी पूजा करके जाननेकी इच्छासे यह प्रश्न किया॥ १५॥
वीरराघवः
कथम्भूतः ? भगवत्प्रियः कतिपयैरमात्यैः परिवृतो लोकानां तत्त्वस्य विवित्सया वेत्तुमिच्छया चरन् कर्मादिभिः, यं सोऽसौ भवति न भवति वेत्येवं जनाः न विदुः, तं पादयोः शिरसा स्पृशन् नत्वा विधिवदभ्यर्च्य, वेत्तुमिच्छुर्महाभागवतः प्रह्लाद इदं वक्ष्यमाणमप्राक्षीत् पृष्टवान् ॥ १३,१५ ॥
श्लोक-१६
विश्वास-प्रस्तुतिः
बिभर्षि कायं पीवानं सोद्यमो भोगवान्यथा।
वित्तं चैवोद्यमवतां भोगो वित्तवतामिह।
भोगिनां खलु देहोऽयं पीवा भवति नान्यथा॥
मूलम्
बिभर्षिकायं पीवानं सोद्यमो भोगवान्यथा।
वि36त्तञ्चैवोद्य37मवतां भोगो वित्त38वतां नु ह।
भोगिनां खलु देहोऽयं पीवा भवति नान्यथा॥ १६ ॥
अनुवाद (हिन्दी)
‘भगवन्! आपका शरीर उद्योगी और भोगी पुरुषोंके समान हृष्ट-पुष्ट है। संसारका यह नियम है कि उद्योग करनेवालोंको धन मिलता है, धनवालोंको ही भोग प्राप्त होता है और भोगियोंका ही शरीर हृष्ट-पुष्ट होता है। और कोई दूसरा कारण तो हो नहीं सकता॥ १६॥
वीरराघवः
तदेवाऽऽह 39बिभर्षीति सार्धैस्त्रिभिः39 । 40सोद्यमः उद्यमसहितः भोगवान् देहपोषणशीलो यथा तद्वत्त्वं पीवानं कायं देहं बिभर्षि-41इति सन्देहः । ननु41 उद्यमं विनैव मम 42प्रारब्धवशात् अत्रैव भोगः सम्प्राप्नोतीत्यत्राऽऽह42-इहलोके तावदुद्यमवतामेव वित्तं 43धनं भवति43, वित्तवतामेव भोगः । त्वन्तु निरुद्यमः । कुतस्तव वित्तं, कुतस्तरां भोग इति भावः । अन्तरेणाऽपि भोगं मम देहः पीवा इत्यत्राऽऽह-44भोगिनां भोगवतामिव44 देहः पीवा भवति भो45गेनेव पीवा भवति, अन्यथा तु कृशीभवति, तत्कथमन्तरेणाऽपि भोगं देहपुष्टिरिति भावः ॥ १६ ॥
श्लोक-१७
विश्वास-प्रस्तुतिः
न ते शयानस्य निरुद्यमस्य
ब्रह्मन् नु हार्थो यत एव भोगः।
अभोगिनोऽयं तव विप्र देहः
पीवा यतस्तद्वद नः क्षमं चेत्॥
मूलम्
न ते शयानस्य निरुद्यमस्य ब्रह्मन्46 नु हार्थो यत एव भो47गाः।
अभोगिनोऽयं तव विप्रदेहः पीवा यतस्तद्वद नः क्षमञ्चेत्॥ १७ ॥
अनुवाद (हिन्दी)
भगवन्! आप कोई उद्योग तो करते नहीं, यों ही पड़े रहते हैं। इसलिये आपके पास धन है नहीं। फिर आपको भोग कहाँसे प्राप्त होंगे? ब्राह्मणदेवता! बिना भोगके ही आपका यह शरीर इतना हृष्ट-पुष्ट कैसे है? यदि हमारे सुननेयोग्य हो, तो अवश्य बतलाइये॥ १७॥
वीरराघवः
48तदेव विवृण्वन् पृच्छति-नेति48 । हे ब्रह्मन् ! शयानस्य अत एव निरुद्यमस्य निर्व्यापारस्य तव । ननु हाऽर्थः नूनं वित्तं नास्ति हि, नु इति निश्चये, ह इति प्रसिद्धौ । तवार्थो नास्तीति प्रसिद्धमेवेत्यर्थः । यतो वित्तादेव हेतोर्भोगाः देहपोषणादयो भवन्ति । अतो भोगरहितस्य तव देहो हे विप्र ! यतो हेतोः पीवाऽभवत् तत्कारणं नोऽस्माकं 49क्षमञ्चेत् श्रोतुं योग्यञ्चेत् वद49 ॥ १७ ॥
श्लोक-१८
विश्वास-प्रस्तुतिः
कविः कल्पो निपुणदृक् चित्रप्रियकथः समः।
लोकस्य कुर्वतः कर्म शेषे तद्वीक्षितापि वा॥
अनुवाद (हिन्दी)
आप विद्वान्, समर्थ और चतुर हैं। आपकी बातें बड़ी अद्भुत और प्रिय होती हैं। ऐसी अवस्थामें आप सारे संसारको कर्म करते हुए देखकर भी समभावसे पड़े हुए हैं, इसका क्या कारण है?’॥ १८॥
वीरराघवः
किञ्च, त्वं कविर्विद्वान् क52ल्यः दक्षः निपुणदृक् चतुरः चित्राः प्रियाः लोकरञ्जनाः कथा यस्य सः, एवम्भूतोऽपि लोकस्य कर्म व्यापारं कुर्वतस्सतः तद्वीक्षिताऽपि सम उदासीनस्सन् तूष्णीं शेषे शयानोऽसि, तत्कारणञ्च वदेति भावः ॥ १८ ॥
श्लोक-१९
मूलम् (वचनम्)
नारद उवाच
विश्वास-प्रस्तुतिः
स इत्थं दैत्यपतिना परिपृष्टो महामुनिः।
स्मयमानस्तमभ्याह तद्वागमृतयन्त्रितः॥
मूलम्
स इत्थं दैत्यपतिना परिपृष्टो महामुनिः।
स्मयमानस्तमभ्याह तद्वागमृतयन्त्रितः॥ १९ ॥
अनुवाद (हिन्दी)
नारदजी कहते हैं—धर्मराज! जब प्रह्लादजीने महामुनि दत्तात्रेयजीसे इस प्रकार प्रश्न किया, तब वे उनकी अमृतमयी वाणीके वशीभूत हो मुसकराते हुए बोले॥ १९॥
वीरराघवः
53एवं दैत्यपतिना प्रह्लादेन पृष्टस्सन् महामुनिः तस्य प्रह्लादस्य वागेवाऽमृतं तेन यन्त्रितः चोदितः स्मयमानः तमभ्याहाऽभिमुखमुक्तवान् ॥ १९ ॥
श्लोक-२०
मूलम् (वचनम्)
ब्राह्मण उवाच
विश्वास-प्रस्तुतिः
वेदेदमसुरश्रेष्ठ भवान् नन्वार्यसम्मतः।
ईहोपरमयोर्नॄणां पदान्यध्यात्मचक्षुषा॥
अनुवाद (हिन्दी)
दत्तात्रेयजीने कहा—दैत्यराज! सभी श्रेष्ठपुरुष तुम्हारा सम्मान करते हैं। मनुष्योंको कर्मोंकी प्रवृत्ति और उनकी निवृत्तिका क्या फल मिलता है, यह बात तुम अपनी ज्ञानदृष्टिसे जानते ही हो॥ २०॥
वीरराघवः
तदेवाऽऽह-यावदध्यायसमाप्ति वेदेति । असुरश्रेष्ठ! इदं किन्तत् नृणामीहोपरमयोः प्रवृत्तिनिवृत्त्योः पदानि कारणानीति यत्तदिदं भवानध्यात्मचक्षुषा सर्वलोकमनोभिप्रायविषयकज्ञानेन वेद जानात्येव । कुतः ? यतस्त्वमार्याणामतीन्द्रियदर्शिनां सम्मतोऽग्रेसरः ॥ २० ॥
श्लोक-२१
विश्वास-प्रस्तुतिः
यस्य नारायणो देवो भगवान्हृद्गतः सदा।
भक्त्या केवलयाज्ञानं धुनोति ध्वान्तमर्कवत्॥
मूलम्
यस्य नारायणो देवो भगवान् हृद्गतस्सदा।
भक्त्या केवल56या तुष्टो धुनोति ध्वान्तमर्कवत्॥ २१ ॥
अनुवाद (हिन्दी)
तुम्हारी अनन्य भक्तिके कारण देवाधिदेव भगवान् नारायण सदा तुम्हारे हृदयमें विराजमान रहते हैं और जैसे सूर्य अन्धकारको नष्ट कर देते हैं, वैसे ही वे तुम्हारे अज्ञानको नष्ट करते रहते हैं॥ २१॥
वीरराघवः
किञ्च । भगवान् षाड्गुण्यपूर्णः स्वतेजसा दीप्यमानो नारायणोऽनन्यप्रयोजनया भक्त्या तुष्टो यस्य त्वादृशस्य सदा हृद्गतस्सन् अर्कवत् सूर्यवत् ध्वान्तमज्ञानरूपमन्धकारं धुनोति निरस्यति । निश्शेषनिरस्ताज्ञानानां सर्वज्ञानां भवादृशां किमविदितमस्तीति भावः ॥ २१ ॥
श्लोक-२२
विश्वास-प्रस्तुतिः
अथापि ब्रूमहे प्रश्नांस्तव राजन्यथाश्रुतम्।
सम्भावनीयो हि भवानात्मनः शुद्धिमिच्छताम्॥
मूलम्
अथाऽऽपि ब्रूमहे प्रश्नांस्तव राजन्यथाश्रुतम्।
सम्भा57षणीयो हि भवानात्मनश्शुद्धिमिच्छ58ता॥ २२ ॥
अनुवाद (हिन्दी)
तो भी प्रह्लाद! मैंने जैसा कुछ जाना है, उसके अनुसार मैं तुम्हारे प्रश्नोंका उत्तर देता हूँ। क्योंकि आत्मशुद्धिके अभिलाषियोंको तुम्हारा सम्मान अवश्य करना चाहिये॥ २२॥
वीरराघवः
यद्यप्येवम्, अथाऽपि हे राजन् ! यथाश्रुतं तव प्रश्नान् प्रति ब्रूमहे प्रश्नानामुत्तराणि वदाम इत्यर्थः । यथाश्रुतमित्यौद्धत्यपरिहारायोक्तम् । आत्मनः शुद्धिमिच्छता पुंसा 59भवान् त्वं अवश्यं सम्भाषणीयो हि ॥ २२ ॥
श्लोक-२३
विश्वास-प्रस्तुतिः
तृष्णया भववाहिन्या योग्यैः कामैरपूरया।
कर्माणि कार्यमाणोऽहं नानायोनिषु योजितः॥
अनुवाद (हिन्दी)
प्रह्लादजी! तृष्णा एक ऐसी वस्तु है, जो इच्छानुसार भोगोंके प्राप्त होनेपर भी पूरी नहीं होती। उसीके कारण जन्म-मृत्युके चक्करमें भटकना पड़ता है। तृष्णाने मुझसे न जाने कितने कर्म करवाये और उनके कारण न जाने कितनी योनियोंमें मुझे डाला॥ २३॥
वीरराघवः
लोकः कर्मसु प्रवर्तते, त्वन्तु निवृत्तस्सन् किं शेषे इति यत्पृष्टं तत्र तावदुत्तरमाह - तृष्णयेति चतुर्भिः । अहन्तावत् योग्यैर्यथोचितैरपि कामैरपूरया पूरयितुमशक्यया भववाहिन्या जन्मपरम्पराकारिण्या तृष्णया विषयेच्छया कर्माणि पुण्यपापात्मकानि कार्यमाणः कर्मसु प्रवर्तमानः पूर्वं नानायोनिषु योजितः 62प्रयोजितः प्रवेशितः ॥ २३ ॥
श्लोक-२४
विश्वास-प्रस्तुतिः
यदृच्छया लोकमिमं प्रापितः कर्मभिर्भ्रमन्।
स्वर्गापवर्गयोर्द्वारं तिरश्चां पुनरस्य च॥
मूलम्
यदृच्छया लोकमिमं प्रापितः कर्मभिर्भ्रमन्।
स्वर्गापवर्गयोर्द्वारं तिरश्चां पुनरस्य च॥ २४ ॥
अनुवाद (हिन्दी)
कर्मोंके कारण अनेकों योनियोंमें भटकते-भटकते दैववश मुझे यह मनुष्ययोनि मिली है, जो स्वर्ग, मोक्ष, तिर्यग्योनि तथा इस मानवदेहकी भी प्राप्तिका द्वार है—इसमें पुण्य करें तो स्वर्ग, पाप करें तो पशु-पक्षी आदिकी योनि, निवृत्त हो जायँ तो मोक्ष और दोनों प्रकारके कर्म किये जायँ तो फिर मनुष्ययोनिकी ही प्राप्ति हो सकती है॥ २४॥
वीरराघवः
तैरेव कर्मभिः भ्रमन् यदृच्छया दैवादिमं लोकं मुनुष्यजन्मप्रापितः । लोकं विशिनष्टि-स्वर्गमोक्षयोः तिरश्चां तिर्यक्त्वानां पुनरस्य मनुष्यत्वस्य च प्राप्तेः द्वारं कारणम् । धर्मेण स्वर्गस्य द्वारं ज्ञानसम्पादनेन तु अपवर्गस्य, अधर्मेण 63तिरश्चः तिर्यक्त्वस्य पूर्वसजातीयसुकृताचरणेन तु पुनर्मनुष्यत्वस्य च कारणमित्यर्थः ॥ २४ ॥
श्लोक-२५
विश्वास-प्रस्तुतिः
अत्रापि दम्पतीनां च सुखायान्यापनुत्तये।
कर्माणि कुर्वतां दृष्ट्वा निवृत्तोऽस्मि विपर्ययम्॥
मूलम्
अत्राऽपि दम्पतीनाञ्च सुखायाऽन्यापनुत्तये।
कर्माणि कुर्वतां दृष्ट्वा निवृत्तोऽस्मि विपर्ययम्॥ २५ ॥
अनुवाद (हिन्दी)
परन्तु मैं देखता हूँ कि संसारके स्त्री-पुरुष कर्म तो करते हैं सुखकी प्राप्ति और दुःखकी निवृत्तिके लिये, किन्तु उसका फल उलटा होता ही है—वे और भी दुःखमें पड़ जाते हैं। इसीलिये मैं कर्मोंसे उपरत हो गया हूँ॥ २५॥
वीरराघवः
अत्राऽपि अस्मिन्नपि मनुष्यजन्मनि स्वर्गापवर्गदेऽपि दम्पतीनां यन्मैथुनादिसुखं, तदर्थमन्यापनुत्तयो दुःखनिवृत्तये च कर्माणि कुर्वतां लोकानां विपर्ययं सुखार्थं कृतेभ्यः 64कर्मभ्यः दुःखप्राप्तिरूपं विपर्ययं दृष्ट्वा निवृत्तोऽस्मि ॥ २५ ॥
श्लोक-२६
विश्वास-प्रस्तुतिः
सुखमस्यात्मनो रूपं सर्वेहोपरतिस्तनुः।
मनः संस्पर्शजान् दृष्ट्वा भोगान्स्वप्स्यामि संविशन्॥
मूलम्
सुखमस्याऽत्मनो रूपं सर्वेहोप65रतिस्तनुः65।
मनः संस्पर्शजान् दृष्ट्वा भो66गान् स्वप्स्यामि संविशन्66॥ २६ ॥
अनुवाद (हिन्दी)
सुख ही आत्माका स्वरूप है। समस्त चेष्टाओंकी निवृत्ति ही उसका शरीर—उसके प्रकाशित होनेका स्थान है। इसलिये समस्त भोगोंको मनोराज्यमात्र समझकर मैं अपने प्रारब्धको भोगता हुआ पड़ा रहता हूँ॥ २६॥
वीरराघवः
ननु प्रवृत्त्या कदा67चित्सुखं स्यादपि, किं निवृत्त्या स्यात् ? इत्यत्राऽऽह - सुखमिति । सुखमस्याऽत्मनः प्रत्यागात्मनो रूपं स्वरूपमेव । अतो न तदर्थं यत्नः कार्य इति भावः । तर्हि स्वतः सुखरूप आत्मा तत्त्वेन किं नोपलभ्यते ? इति शङ्कां निराकरोति - सर्वासामीहानां देहगतव्यापाराणामुपरमः अभावोऽस्यात्मनः तनुराकारः निष्क्रियं सुखमेव तस्य तनुरित्यर्थः । कार्त्स्येनीहोपरमपूर्वकं तद्याथात्म्यविमर्शनेन सुखरूपतयोपलभ्यत इति भावः । यत एवमतो भोगान् शब्दादिविषयभोगान् मनसस्संस्पर्शजान् मनोरथमात्रजान् अशाश्वतान् दृष्ट्वा संविशन् आत्मयाथात्म्यावलोकने प्रविष्टोऽहं प्रारब्धानुभवे प्रविष्टो वा स्वप्स्यामि शयानोऽस्मि ॥ २६ ॥
श्लोक-२७
विश्वास-प्रस्तुतिः
इत्येतदात्मनः स्वार्थं सन्तं विस्मृत्य वै पुमान्।
विचित्रामसति द्वैते घोरामाप्नोति संसृतिम्॥
मूलम्
इत्येतदात्म68नः स्वार्थं सन्तं विस्मृत्य वै पुमान्।
विचित्रामसति द्वैते घोरामाप्नोति संसृतिम्॥ २७ ॥
अनुवाद (हिन्दी)
मनुष्य अपने सच्चे स्वार्थ अर्थात् वास्तविक सुखको, जो अपना स्वरूप ही है, भूलकर इस मिथ्या द्वैतको सत्य मानता हुआ अत्यन्त भयंकर और विचित्र जन्मों और मृत्युओंमें भटकता रहता है॥ २७॥
वीरराघवः
तर्हि सर्वोऽपि लोकस्त्वमिव सुखरूपमात्मानं किं नोपलप्स्यते ? इति शङ्कां निराकर्तुं स्वाभाविकसुखरूपात्मस्वरूपाविमर्शनमूलकदेहात्मभ्रमेण न शेते, किन्तु संसरतीत्याह - इतीति । इत्येतदात्मनः सुखात्मकं रूपं स्वार्थं स्वस्य पुरुषार्थरूपं स्वत एव सन्तं विस्मृत्य स्वत एव सन्तमात्मनः सुखरूपं स्वरूपात्मकं स्वपुरुषार्थं विस्मृत्येत्यर्थः । पुमान् देही असति स्वत आत्मन्यविद्यमानेऽपि द्वैते देवमनुष्यादिभेदे देवोऽहं, मनुष्योऽहमित्यभिमानरूपे द्वैतेभेदे निमित्ते द्वैतेनेत्यर्थः । विचित्रां गर्भजन्मजरामरणादिरूपाम् अत एव घोरां भयङ्करां संसृतिमाप्नोति ॥ २७ ॥
श्लोक-२८
विश्वास-प्रस्तुतिः
जलं तदुद्भवैश्छन्नं हित्वाज्ञो जलकाम्यया।
मृगतृष्णामुपाधावेद् यथान्यत्रार्थदृक् स्वतः॥
मूलम्
जलं तदुद्भवैश्छन्नं हित्वाज्ञो जलकाम्यया।
मृगतृष्णामुपाधावेत् 69तथान्यत्राऽर्थदृक् स्वतः॥ २८ ॥
अनुवाद (हिन्दी)
जैसे अज्ञानी मनुष्य जलमें उत्पन्न तिनके और सेवारसे ढके हुए जलको जल न समझकर जलके लिये मृगतृष्णाकी ओर दौड़ता है, वैसे ही अपनी आत्मासे भिन्न वस्तुमें सुख समझनेवाला पुरुष आत्माको छोड़कर विषयोंकी ओर दौड़ता है॥ २८॥
वीरराघवः
एतदेव दृष्टान्तमुखेनाऽऽह - जलमिति । जलं तदुद्भवैस्तृणशैवालादिभिश्छन्नं जलं हित्वा अज्ञो यथा जलकाम्यया मृगतृष्णां जलवत्प्रतीयमानामुपधावेत्तथा स्वतः सुखरूपमात्मनः स्वरूपं विस्मृत्याऽन्यत्र वैषयिकसुखेष्वर्थदृक् पुरुषार्थदृष्टिर्धावति लोकः, स्वत आत्मनोऽन्यत्र देहादौ पुरुषार्थदृग्वा ॥ २८ ॥
श्लोक-२९
विश्वास-प्रस्तुतिः
देहादिभिर्दैवतन्त्रैरात्मनः सुखमीहतः।
दुःखात्ययं चानीशस्य क्रिया मोघाः कृताः कृताः॥
अनुवाद (हिन्दी)
प्रह्लादजी! शरीर आदि तो प्रारब्धके अधीन हैं। उनके द्वारा जो अपने लिये सुख पाना और दुःख मिटाना चाहता है, वह कभी अपने कार्यमें सफल नहीं हो सकता। उसके बार-बार किये हुए सारे कर्म व्यर्थ हो जाते हैं॥ २९॥
वीरराघवः
विपर्ययं दृष्ट्वा निवृत्तोऽस्मीत्येतदेव विवृणोति देहादिभिरिति पञ्चभिः । दैवतन्त्रैः कर्मायत्तैर्देहेन्द्रियादिभिः आत्मनः स्वस्य सुखं दुःखनिवृत्तिञ्चेहतः इच्छतः अनीशस्य कर्मवशस्य पुंसः, कर्तरि षष्ठी । इच्छता कृताः कृताः पुनः पुनरारब्धाः क्रियामोघाः व्यर्थाः न सुखजनका नाऽपि दुःखनिवर्तकाश्च दृष्टा इति भावः ॥ २९ ॥
श्लोक-३०
विश्वास-प्रस्तुतिः
आध्यात्मिकादिभिर्दुःखैरविमुक्तस्य कर्हिचित्।
मर्त्यस्य कृच्छ्रोपनतैरर्थैः कामैः क्रियेत किम्॥
मूलम्
आध्यात्मिकादिभिर्दुःखैरविमुक्तस्य कर्हिचित्।
मर्त्यस्य कृच्छ्रोपनतैरर्थैः कामैः क्रियेत किम्॥ ३० ॥
अनुवाद (हिन्दी)
मनुष्य सर्वदा शारीरिक, मानसिक आदि दुःखोंसे आक्रान्त ही रहता है। मरणशील तो है ही, यदि उसने बड़े श्रम और कष्टसे कुछ धन और भोग प्राप्त कर भी लिया तो क्या लाभ है?॥ ३०॥
वीरराघवः
कथञ्चित्क्रियाणाममोघत्वेऽपि तज्जन्यं सुखमनुभूयमानदुःखेभ्योऽल्पमित्याह - आध्यात्मिकादिभिः । आदिशब्देन आधिदैविकाधिभौतिके ग्राह्ये । तैः दुःखैः कर्हिचित्कदाचिदपि अविमुक्तस्य मर्त्यस्य मरणशीलस्य कृच्छ्रोपनतैः दुःखेनार्जितैः 72अर्थैर्वित्तैः तन्निमित्तैः कामैश्च किं कियत्सुखं क्रियेत 73न किमपीत्यर्थः73 ॥ ३० ॥
श्लोक-३१
विश्वास-प्रस्तुतिः
पश्यामि धनिनां क्लेशं लुब्धानामजितात्मनाम्।
भयादलब्धनिद्राणां सर्वतोऽभिविशङ्किनाम्॥
मूलम्
पश्यामि धनिनां क्लेशं लुब्धानामजितात्मनाम्।
भयादलब्धनिद्राणां सर्वतो74ऽभिविशङ्किनाम्॥ ३१ ॥
अनुवाद (हिन्दी)
लोभी और इन्द्रियोंके वशमें रहनेवाले धनियोंका दुःख तो मैं देखता ही रहता हूँ। भयके मारे उन्हें नींद नहीं आती। सबपर उनका सन्देह बना रहता है॥ ३१॥
वीरराघवः
ननु धनार्जने हि दुःखं, लब्धधनानान्तु सुखमेवेत्यत्राऽऽह - पश्यामीति । धनिनां लब्धधनानामपि क्लेशं पश्यामि । क्लेशित्वे हेतुं वदन् धनिनो विशिनष्टि-लुब्धानामिति । लुब्धानामलब्धधनलिप्सया लब्धधनव्ययभयेन च क्लिश्यतामिति भावः । अजितात्मनामजितेन्द्रियाणां कामानामपर्याप्त्या च क्लिश्यतामिति भावः । भयादलब्धा निद्रा यैस्तेषां चौरादयो धनमपहरेयुरिति भयाद्वि75गतनिद्राणामित्यर्थः । इतोऽपि क्लेश इति भावः । भयेहेतुं वदन्विशिनष्टि- सर्वतः सर्वेभ्योऽप्यतीव विशङ्कितानामपहरेयुरिति शङ्कां कुर्वताम् ॥ ३१ ॥
श्लोक-३२
विश्वास-प्रस्तुतिः
राजतश्चोरतः शत्रोः स्वजनात्पशुपक्षितः।
अर्थिभ्यः कालतः स्वस्मान्नित्यं प्राणार्थवद्भयम्॥
मूलम्
राजतश्चोरतश्शत्रोः स्वजनात्पशुपक्षितः।
अर्थिभ्यः कालतः स्वस्मान्नित्यं प्राणार्थवद्भयम्॥ ३२ ॥
अनुवाद (हिन्दी)
जो जीवन और धनके लोभी हैं—वे राजा, चोर, शत्रु, स्वजन, पशु-पक्षी, याचक और कालसे, यहाँतक कि ‘कहीं मैं भूल न कर बैठूँ, अधिक न खर्च कर दूँ’—इस आशंकासे अपने-आप भी सदा डरते रहते हैं॥ ३२॥
वीरराघवः
एतदेव विवृणोति - राजत इति । राजादिभ्यः पशुतः 76पशुभ्यः ग77जाश्वादिभ्यः पक्षितः 78पक्षिभ्यः सस्यादिभक्षणार्थं प्रवृत्तेभ्यः कालतः स्वस्माद्दानभोगयोः प्रवृत्तात् स्वस्माच्च प्राणस्तत्तुल्यमर्थश्चैषामस्तीति तथा, तेषां नित्यं भयमनुवर्तते ॥ ३२ ॥
श्लोक-३३
विश्वास-प्रस्तुतिः
शोकमोहभयक्रोधरागक्लैब्यश्रमादयः।
यन्मूलाः स्युर्नृणां जह्यात् स्पृहां प्राणार्थयोर्बुधः॥
मूलम्
शोकमोहभयक्रो79धरागक्लैब्यश्रमादयः।
यन्मूलाः स्युर्नृणां जह्यात् स्पृहां प्राणार्थयोर्बुधः॥ ३३ ॥
अनुवाद (हिन्दी)
इसलिये बुद्धिमान् पुरुषको चाहिये कि जिसके कारण शोक, मोह, भय, क्रोध, राग, कायरता और श्रम आदिका शिकार होना पड़ता है—उस धन और जीवनकी स्पृहाका त्याग कर दे॥ ३३॥
वीरराघवः
न केवलं भयमेव, अपि तु शोकमोहभयादयः सर्वे यन्मूलाः यौ प्राणार्थाविव मूलं येषान्तं नृणां स्युर्भवेयुः । तस्माद्बुधः हेयोपादेयविवेकवान् तयोः प्राणार्थयोः स्पृहां जह्यात् त्यजेत् ॥ ३३ ॥
श्लोक-३४
विश्वास-प्रस्तुतिः
मधुकारमहासर्पौ लोकेऽस्मिन्नो गुरूत्तमौ।
वैराग्यं परितोषं च प्राप्ता यच्छिक्षया वयम्॥
मूलम्
मधुकारमहासर्पौ लोकेऽ80स्मिन्द्वौ गुरूत्तमौ।
वैराग्यं परितोषञ्च प्राप्ता यच्छिक्षया वयम्॥ ३४ ॥
अनुवाद (हिन्दी)
इस लोकमें मेरे सबसे बड़े गुरु हैं—अजगर और मधुमक्खी। उनकी शिक्षासे हमें वैराग्य और सन्तोषकी प्राप्ति हुई है॥ ३४॥
वीरराघवः
यदुपदेशात् त्वमीदृशं निवृत्तिधर्ममास्थि81तः तं कथयेत्यत्राऽऽह81 - मधुकारेति । अस्मिन् लोके नोऽस्माकं गुरुश्रेष्ठौ मधुकारमहासर्पौ मधुमाक्षिकाजगरावेव ईदृशधर्मशिक्षकौ 82भवतः; तदेवाऽऽह ययोः मधुकारमहासर्पयोः शिक्षया वृत्तिपर्यालोचनया वयं वैराग्यं परितोषं दैवाल्लब्धात् सन्तोषञ्च प्राप्ताः । तत्र मधुकाराद्वैराग्यं महासर्पात् परितोषञ्च प्राप्ता इत्यर्थः ॥ ३४ ॥
श्लोक-३५
विश्वास-प्रस्तुतिः
विरागः सर्वकामेभ्यः शिक्षितो मे मधुव्रतात्।
कृच्छ्राप्तं मधुवद् वित्तं हत्वाप्यन्यो हरेत्पतिम्॥
मूलम्
विरामः सर्वकामेभ्यः शिक्षितो मे मधुव्रतात्।
कृच्छ्राप्तं मधु83वद्वित्तं हत्वाप्यन्यो हरेत्पतिम्॥ ३५ ॥
अनुवाद (हिन्दी)
मधुमक्खी जैसे मधु इकट्ठा करती है, वैसे ही लोग बड़े कष्टसे धन-संचय करते हैं; परन्तु दूसरा ही कोई उस धन-राशिके स्वामीको मारकर उसे छीन लेता है। इससे मैंने यह शिक्षा ग्रहण की कि विषय-भोगोंसे विरक्त ही रहना चाहिये॥ ३५॥
वीरराघवः
एतदुभयं विवृणोति - विराग इति द्वाभ्याम् । तावत्सर्वेभ्यः 84कामेभ्यः विरागो मया मधुव्रतात् 85मधुमक्षिकात् शिक्षितः तच्छिक्षया मम वैराग्योदय इत्यर्थः । किं तच्छिक्षितम् ? तदाह - यथा मधुव्रतैरितस्ततः पुष्पेभ्य आनीय क्वचिन्निवेशितं मधु तत्स्वामिनो मधुव्रतान् हत्वाऽन्यो हरति तथा मधुवत् दुःखेनाऽऽर्जितं धनमन्यः पतिं धनस्य पतिं हत्वा हरेत् - इत्येतन्मधुव्रताच्छिक्षितमित्यर्थः ॥ ३५ ॥
श्लोक-३६
विश्वास-प्रस्तुतिः
अनीहः परितुष्टात्मा यदृच्छोपनतादहम्।
नो चेच्छये बह्वहानि महाहिरिव सत्त्ववान्॥
मूलम्
अनीहः परितुष्टात्मा यदृच्छोपनतादहम्।
नो चेच्छये बह्वहानि महाहिरिव सत्त्ववान्॥ ३६ ॥
अनुवाद (हिन्दी)
मैं अजगरके समान निश्चेष्ट पड़ा रहता हूँ और दैववश जो कुछ मिल जाता है, उसीमें सन्तुष्ट रहता हूँ और यदि कुछ नहीं मिलता, तो बहुत दिनोंतक धैर्य धारण कर यों ही पड़ा रहता हूँ॥ ३६॥
वीरराघवः
अजगराच्छिक्षितमाह - अनीह इति । महाहिरिव अहमप्यनीहः निर्व्यापारः यदृच्छोपनताद्दैवाल्लब्धान्नादेः परितुष्टात्मा सन्तुष्टचित्तः नो चेत् यदृच्छेपनतं 86नो प्राप्तञ्चेत्तर्हि86 सत्त्ववान् धैर्यवान् बहूनि अहानि शये शयानोऽस्मि ॥ ३६ ॥
श्लोक-३७
विश्वास-प्रस्तुतिः
क्वचिदल्पं क्वचिद् भूरि भुञ्जेऽन्नं स्वाद्वस्वादु वा।
क्वचिद् भूरिगुणोपेतं गुणहीनमुत क्वचित्॥
मूलम्
क्वचिदल्पं क्वचिद्भूरिभुञ्जेऽन्नं 87साध्वसाधु वा87।
क्वचिद्भूरिगुणोपेतं गुणहीनमुत क्वचित्॥ ३७ ॥
अनुवाद (हिन्दी)
कभी थोड़ा अन्न खा लेता हूँ तो कभी बहुत; कभी स्वादिष्ट तो कभी नीरस—बेस्वाद; और कभी अनेकों गुणोंसे युक्त, तो कभी सर्वथा गुणहीन॥ ३७॥
वीरराघवः
पीनत्वे हेतुत्वेन यदृच्छया प्राप्तात्परितोषं प्रपञ्चयति क्वचिदल्पमिति । क्वचित् कदाचित् अल्पं, कदाचिच्च भूरि बहु, क्वचिच्च साधु, क्वचिच्च असाधु असमीचीनममृष्टं, क्वचिच्च गुणवत् रसवत्, कदाचित् निर्गुणम् ॥ ३७ ॥
श्लोक-३८
विश्वास-प्रस्तुतिः
श्रद्धयोपाहृतं क्वापि कदाचिन्मानवर्जितम्।
भुञ्जे भुक्त्वाथ कस्मिंश्चिद् दिवा नक्तं यदृच्छया॥
मूलम्
श्रद्धयो88पहृतं क्वाऽपि कदाचिन्मानवर्जितम्।
भुञ्जे, 89भुक्त्वाऽथ कस्मिंश्चिद्दिवानक्तं यदृच्छया॥ ३८ ॥
अनुवाद (हिन्दी)
कभी बड़ी श्रद्धासे प्राप्त हुआ अन्न खाता हूँ तो कभी अपमानके साथ और किसी-किसी समय अपने-आप ही मिल जानेपर कभी दिनमें, कभी रातमें और कभी एक बार भोजन करके भी दुबारा कर लेता हूँ॥ ३८॥
वीरराघवः
कदाचिच्छ्रद्धयाऽऽनीतं, कदाचिन्निन्दापूर्वकमानीतं वा, अन्नादिकं भुञ्जे अद्मि । कदाचिद्दिवा नक्तञ्च यदृच्छया प्राप्तं भुञ्जे ॥ ३८ ॥
श्लोक-३९
विश्वास-प्रस्तुतिः
क्षौमं दुकूलमजिनं चीरं वल्कलमेव वा।
वसेऽन्यदपि सम्प्राप्तं दिष्टभुक् तुष्टधीरहम्॥
मूलम्
क्षौमं दुकूलमजिनं चीरं वल्कलमेव वा।
वसेऽन्यदपि सम्प्राप्तं दिष्टभुक् तुष्टधीरहम्॥ ३९ ॥
अनुवाद (हिन्दी)
मैं अपने प्रारब्धके भोगमें ही सन्तुष्ट रहता हूँ। इसलिये मुझे रेशमी या सूती, मृगचर्म या चीर, वल्कल या और कुछ—जैसा भी वस्त्र मिल जाता है, वैसा ही पहन लेता हूँ॥ ३९॥
वीरराघवः
एवं वस्त्रमपि दुकूलाद्यन्यतममन्यद्वा दैवाल्लब्धं वसे आच्छादयामि परिदधे च चीरं जीर्णवस्त्रञ्च । एवं दिष्टभुक् प्रारब्धभुक् सन्तुष्टचित्तश्चाऽऽहम् ॥ ३९ ॥
श्लोक-४०
विश्वास-प्रस्तुतिः
क्वचिच्छये धरोपस्थे तृणपर्णाश्मभस्मसु।
क्वचित् प्रासादपर्यङ्के कशिपौ वा परेच्छया॥
मूलम्
क्वचिच्छये धरोपस्थे तृणपर्णाश्मभस्मसु।
क्वचित्प्रासादपर्यङ्के कशिपौ वा परेच्छया॥ ४० ॥
अनुवाद (हिन्दी)
कभी मैं पृथ्वी, घास, पत्ते, पत्थर या राखके ढेरपर ही पड़ा रहता हूँ, तो कभी दूसरोंकी इच्छासे महलोंमें पलँगों और गद्दोंपर सो लेता हूँ॥ ४०॥
वीरराघवः
कचिद्भूपृष्ठे एव क्वचिच्च तृणादिषु शये । क्वचिच्च प्रासादोपरि पर्यङ्क्ते तत्राऽपि कशिपौ वा । तस्य दौर्लभ्यशङ्कां निराह-90परेषामिच्छयेति90 । इदमुत्तरत्राऽ91प्यनुषञ्जनीयम् ॥ ४० ॥
श्लोक-४१
विश्वास-प्रस्तुतिः
क्वचित् स्नातोऽनुलिप्ताङ्गः सुवासाः स्रग्व्यलंकृतः।
रथेभाश्वैश्चरे क्वापि दिग्वासा ग्रहवद् विभो॥
मूलम्
क्वचित्स्नातोऽनुलिप्ताङ्गः सुवासाः 92स्रगलङ्कृतः92।
रथेभाश्वैश्च93रे क्वाऽपि दिग्वासा ग्रहव94द्विभो94!॥ ४१ ॥
अनुवाद (हिन्दी)
दैत्यराज! कभी नहा-धोकर, शरीरमें चन्दन लगाकर सुन्दर वस्त्र, फूलोंके हार और गहने पहन रथ, हाथी और घोड़ेपर चढ़कर चलता हूँ, तो कभी पिशाचके समान बिलकुल नंग-धड़ंग विचरता हूँ॥ ४१॥
वीरराघवः
स्नातमनुलिप्तं चन्दनेन चाऽऽङ्गं यस्य, शोभनं वासो वस्त्रं यस्य सः, सग्भिरलङ्कृतः रथादिभिर्यानैः चरे 95सञ्चरे । क्वचिच्च दिग्वासा दिगम्बरः ग्रहवच्चरे, हे विभो ! ॥ ४१ ॥
श्लोक-४२
विश्वास-प्रस्तुतिः
नाहं निन्दे न च स्तौमि स्वभावविषमं जनम्।
एतेषां श्रेय आशासे उतैकात्म्यं महात्मनि॥
मूलम्
नाऽहं निन्दे न च स्तौमि स्वभावविषमं जनम्।
एतेषां श्रेय आशासे उतैकात्म्यं महात्मनि॥ ४२ ॥
अनुवाद (हिन्दी)
मनुष्योंके स्वभाव भिन्न-भिन्न होते ही हैं। अतः न तो मैं किसीकी निन्दा करता हूँ और न स्तुति ही। मैं केवल इनका परम कल्याण और परमात्मासे एकता चाहता हूँ॥ ४२॥
वीरराघवः
न च मानावमानादिकर्तृषु मम वैषम्यमित्याह - नाऽहमिति । स्वभावत एव विषमं जनं स्तुतिनिन्दयोः कर्तारं न स्तौमि न निन्दे च । किन्तु तेषां जनानां सर्वेषां श्रेयः धर्मादिरूपम् उताऽपि च महात्मनि भगवति ऐकात्म्यमेकचित्तत्वञ्च आशासे प्रार्थये ॥ ४२ ॥
श्लोक-४३
विश्वास-प्रस्तुतिः
विकल्पं जुहुयाच्चित्तौ तां मनस्यर्थविभ्रमे।
मनो वैकारिके हुत्वा तन्मायायां जुहोत्यनु॥
मूलम्
विकल्पं जुहुयाच्चि96त्ते 97तन्मनस्यर्थविभ्रमे।
मनोवैकारिके हुत्वा तन्मायायां जुहो98म्यनु॥ ४३ ॥
वीरराघवः
इत्थमन्यस्याऽप्यवस्थितौ उपायमाह - विकल्पमिति । विकल्पं जतिरूपादिविकल्पं चित्तं मनोव्यापारे जुहुयात् प्रलीनं भावयेत् । तच्चित्तमर्थविभ्रमे देहात्मभ्रमहेतौ मनसि, मनश्च वैकारिके सात्त्विकाहङ्कारे, तञ्च वैकारिकं मायायां मूलप्रकृतौ जुहुयात् । सर्वत्र होमो नाम लयानुसन्धानरूपः ॥ ४३ ॥
श्लोक-४४
विश्वास-प्रस्तुतिः
आत्मानुभूतौ तां मायां जुहुयात् सत्यदृङ्मुनिः।
ततो निरीहो विरमेत् स्वानुभूत्याऽऽत्मनि स्थितः॥
मूलम्
आत्मानुभूतौ तां मायां जुहुया99त्सत्यदृङ्मुनिः।
ततो निरीहो विरमेत् स्वानुभूत्याऽऽत्मनि स्थितः॥ ४४ ॥
अनुवाद (हिन्दी)
सत्यका अनुसन्धान करनेवाले मनुष्यको चाहिये कि जो नाना प्रकारके पदार्थ और उनके भेद-विभेद मालूम पड़ रहे हैं, उनको चित्तवृत्तिमें हवन कर दे। चित्तवृत्तिको इन पदार्थोंके सम्बन्धमें विविध भ्रम उत्पन्न करनेवाले मनमें, मनको सात्त्विक अहंकारमें और सात्त्विक अहंकारको महत्तत्त्वके द्वारा मायामें हवन कर दे। इस प्रकार ये सब भेद-विभेद और उनका कारण माया ही है, ऐसा निश्चय करके फिर उस मायाको आत्मानुभूतिमें स्वाहा कर दे। इस प्रकार आत्मसाक्षात्कारके द्वारा आत्मस्वरूपमें स्थित होकर निष्क्रिय एवं उपरत हो जाय॥ ४३-४४॥
वीरराघवः
ताञ्च मायां आत्मानुभूतौ जुहुयात् । ततः सत्यं स्वात्मशरीरकं परमात्मानं पश्यतीति सत्यदृक् मुनिः तन्मननशीलः, निरोहो निश्चेष्टः, स्वानुभूत्यात्मनि परमात्मात्मके परिशुद्धजीवस्वरूपे स्थितः तदनुसन्धानपर विरमेत्प्रारब्धावसाने कलेबरात् विरमेत् ॥ ४४ ॥
श्लोक-४५
विश्वास-प्रस्तुतिः
स्वात्मवृत्तं मयेत्थं ते सुगुप्तमपि वर्णितम्।
व्यपेतं लोकशास्त्राभ्यां भवान् हि भगवत्परः॥
मूलम्
स्वात्मवृत्तं मयेत्थं ते सुगुप्त100मपि वर्णितम्।
व्यपेतं लोकशास्त्राभ्यां भवान् हि भगव101त्प्रियः॥ ४५ ॥
अनुवाद (हिन्दी)
प्रह्लादजी! मेरी यह आत्मकथा अत्यन्त गुप्त एवं लोक और शास्त्रसे परेकी वस्तु है। तुम भगवान्के अत्यन्त प्रेमी हो, इसलिये मैंने तुम्हारे प्रति इसका वर्णन किया है॥ ४५॥
वीरराघवः
उक्तं स्ववृत्तमुपसंहरति - स्वात्मवृत्तमिति । इत्थं मया गुप्तमपि स्वात्मनो मम वृत्तं मन्ददृष्ट्या लोकशास्त्राभ्यां व्यपेतं, न तु तत्त्वदृष्ट्या व्यपेतं बहिर्भूतं ते तुभ्यमुपवर्णितम्, हि यस्मात् भवान् भगवत्परः, अतो 102गुप्तमपि वृत्तमु102पवर्णितमित्यर्थः ॥ ४५ ॥
श्लोक-४६
मूलम् (वचनम्)
नारद उवाच
विश्वास-प्रस्तुतिः
धर्मं पारमहंस्यं वै मुनेःश्रुत्वा सुरेश्वरः।
पूजयित्वा ततः प्रीत आमन्त्र्य प्रययौ गृहम्॥
मूलम्
धर्मं पारमहंस्यं वै मुनेः श्रुत्वाऽसुरेश्वरः।
पूजयित्वा ततः प्रीत आमन्त्र्य प्रययौ 103गृहम्॥ ४६ ॥
अनुवाद (हिन्दी)
नारदजी कहते हैं—महाराज! प्रह्लादजीने दत्तात्रेय मुनिसे परमहंसोंके इस धर्मका श्रवण करके उनकी पूजा की और फिर उनसे विदा लेकर बड़ी प्रसन्नतासे अपनी राजधानीके लिये प्रस्थान किया॥ ४६॥
अनुवाद (समाप्ति)
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां सप्तमस्कन्धे युधिष्ठिरनारदसंवादे यतिधर्मे त्रयोदशोऽध्यायः॥ १३॥
वीरराघवः
एवं मुनिनोपवर्णितं पारमहंस्यं तुर्याश्रमनिष्ठानां गुणं श्रुत्वा असुरेश्वरः प्रह्लादः तं 104यतिं प्रीतस्सन् पूजयित्वा आमन्त्र्य अनुज्ञाप्य स्वगृहं प्रति ययौ ॥ ४६ ॥
इति श्रीमद्भागवते सप्तमस्कन्धे श्रीवीरराघवदुषा लिखितायां भागवतचन्द्रचान्द्रिकायां व्याख्यायां त्रयोदशोऽध्यायः ॥ १३ ॥
-
A,B,G,J,M,Ma,T कल्प ↩︎
-
W Omits अध्यायेन ↩︎
-
A,T ल्प ↩︎
-
A,B,T न ↩︎
-
H,V यदसौ ↩︎
-
M,Ma दण्डाभ्याम ↩︎
-
A,B,T ञ्चन ↩︎
-
W Omits एव ↩︎
-
W Omits इत्यर्थः ↩︎
-
M,Ma ऽद्वये ↩︎
-
M,Ma च ↩︎
-
A,B,T हात्म ↩︎
-
A,B,T श्रुतिः ↩︎
-
M,Ma स्वजी ↩︎
-
A,B,G,J,T वाद M,Ma अति ↩︎
-
A,B,G,J,T कञ्चन ↩︎
-
M,Ma जीवेत ↩︎
-
A,B,T तद्वि ↩︎
-
A,B,T तको ↩︎
-
A,B,T Omit तं ↩︎
-
A,B,T त ↩︎
-
A,B,T गादि ↩︎
-
W मुनिरुन्मत्त ↩︎
-
M,Ma नमदृश्यो ↩︎
-
A,T दिति, B दित ↩︎
-
A,B,T पाठे ↩︎
-
A,B,T Omit तत्र ↩︎
-
A,B,T Omit मूकवत् ↩︎
-
W णस्वा ↩︎
-
W Omits नि ↩︎
-
B परस्य ↩︎
-
W Omits इत्यन्वयः ↩︎
-
A,B,G,J,T त्तञ्चैवोद्य; M,Ma त्तं नेवाद्य ↩︎
-
M,Ma भवतो ↩︎
-
A,B,G,J,Ma,Ma,T वतामिह ↩︎
-
W omits सोद्यमः ↩︎
-
A,B,T न वै । ↩︎
-
M,Ma न्निहा ↩︎
-
A,B,G,J,T गः ↩︎
-
A,B,T श्रोतुमिति शेषः । क्षमं योग्यञ्चेत्तर्हि वद कथय, अगोप्यञ्चेत्तर्हि वर्णयेत्यर्थः । ↩︎ ↩︎
-
A,B,G,J,M,Ma,T कल्पो ↩︎
-
A,B,T ल्पः ↩︎
-
W इत्थं ↩︎
-
H,M,Ma,V पदमध्या ↩︎
-
H,V वाम् ↩︎
-
A,B,G,J,T याऽज्ञानं; M,Ma याऽऽश्लिष्टो ↩︎
-
A,B,G,J,T वर्नी ↩︎
-
A,B,G,J,T ताम् ↩︎
-
W Omits भवान् ↩︎
-
M,Ma र्णया । ↩︎
-
A,B,T Omit प्रयोजितः ↩︎
-
W Omits तिरश्चः । ↩︎
-
W omits कर्मभ्यः ↩︎
-
W चिदपि सु ↩︎
-
H,V नि ↩︎
-
A,B,G,J,T य ↩︎
-
M,Ma यं वा ↩︎
-
M,Ma ताकृ ↩︎
-
W omits अर्थैः ↩︎
-
H,V तो हि; M,Ma तोऽपि; W तोऽति ↩︎
-
W द्विनि ↩︎
-
W omits पशुभ्यः ↩︎
-
W वा ↩︎
-
W omits पक्षिभ्यः ↩︎
-
M,Ma धाः ↩︎
-
A,B,G,J,M,Ma,T स्मिन्नो ↩︎
-
W Omits भवतः ↩︎
-
M,Ma त ↩︎
-
A,B,T Omit कामेभ्यः ↩︎
-
A,B,T भ्रमरात् ↩︎
-
A,B,G,J,T पा ↩︎
-
W भुञ्जेऽथ ↩︎
-
W Omits अपि ↩︎
-
M,Ma श्चरन् ↩︎
-
A,B,T सञ्चरामि ↩︎
-
A,B,G,J,T त्तौ ↩︎
-
A,B,G,J,T तां म ↩︎
-
A,B,G,J,T त्यनु; M,Ma त्यमुम् ↩︎
-
H,V त्तत्त्वदृ ↩︎
-
M,Ma मनु ↩︎
-
A,B,G,J,T त्परः ↩︎
-
M,Ma व्हान् ↩︎
-
W Omits यतिं ↩︎