१२ सदाचारनिर्णयः

[द्वादशोऽध्यायः]

भागसूचना

ब्रह्मचर्य और वानप्रस्थ आश्रमोंके नियम

श्लोक-१

मूलम् (वचनम्)

नारद उवाच

विश्वास-प्रस्तुतिः

ब्रह्मचारी गुरुकुले वसन्दान्तो गुरोर्हितम्।
आचरन्दासवन्नीचो गुरौ सुदृढसौहृदः॥

मूलम्

ब्रह्मचारी गुरुकुले वसन् दान्तो गुरोर्हितम्।
आच1रन् दासवन्नीचो गुरौ सुदृढसौहृदः॥ १ ॥

अनुवाद (हिन्दी)

नारदजी कहते हैं—धर्मराज! गुरुकुलमें निवास करनेवाला ब्रह्मचारी अपनी इन्द्रियोंको वशमें रखकर दासके समान अपनेको छोटा माने, गुरुदेवके चरणोंमें सुदृढ़ अनुराग रखे और उनके हितके कार्य करता रहे॥ १॥

वीरराघवः

तदेवं चातुर्वर्ण्यादिधर्मानभिधाय अथ चातुराश्रम्यधर्मान् विवक्षुस्तावत् ब्रह्मचर्याश्रमधर्मानाह - ब्रह्मचारीति । ब्रह्मचर्यं द्विविधमौपकुर्वाणं नैष्ठिकञ्चेति । तत्र गार्हस्थ्यादिवन्नैष्ठिकमप्यौपकुर्वाणपूर्वकमेवेति दर्शयितुं तावदौपकुर्वाणब्रह्मचर्यधर्मा उच्यन्ते । यो गुरुकुले वसन् स ब्रह्मचारी उपकु2र्वद्ब्रह्मचारीत्यर्थः । कथम्भूतो वसन्? दान्त उपशान्तः दासवन्नीचः स्वनैच्यमनुसन्दधत् गुरोर्हितमाचरन् गुरौ सुदृढं सौहार्दं यस्य 3तादृशः ॥ १ ॥

श्लोक-२

विश्वास-प्रस्तुतिः

सायं प्रातरुपासीत गुर्वग्न्यर्कसुरोत्तमान्।
उभे सन्ध्ये च यतवाग् जपन्ब्रह्म समाहितः॥

मूलम्

सायं प्रातरुपासीत गुर्वग्न्यर्कसुरोत्तमान्।
सन्ध्ये उभे च यतवाक् जपन् ब्रह्म समाहितः॥ २ ॥

अनुवाद (हिन्दी)

सायंकाल और प्रातःकाल गुरु, अग्नि, सूर्य और श्रेष्ठ देवताओंकी उपासना करे और मौन होकर एकाग्रतासे गायत्रीका जप करता हुआ दोनों समयकी सन्ध्या करे॥ २॥

वीरराघवः

किञ्च सायम्प्रातश्च गुरुमग्नीनर्कं सूर्यं सुरोत्तमं भगवन्तञ्च उपासीत । उभे सन्ध्ये प्रातः सायं च, यतवाङ्मौनी समाहितचित्तो ब्रह्म गायत्रीं जपन् गुर्वादीनुपासीतेत्यन्वयः ॥ २ ॥

श्लोक-३

विश्वास-प्रस्तुतिः

छन्दांस्यधीयीत गुरोराहूतश्चेत् सुयन्त्रितः।
उपक्रमेऽवसाने च चरणौ शिरसा नमेत्॥

मूलम्

छन्दांस्यधीयीत गुरोराहूत4श्चेत् सुयन्त्रितः।
उपक्रमेऽवसाने च चरणौ शिरसा नमेत्॥ ३ ॥

अनुवाद (हिन्दी)

गुरुजी जब बुलावें तभी पूर्णतया अनुशासनमें रहकर उनसे वेदोंका स्वाध्याय करे। पाठके प्रारम्भ और अन्तमें उनके चरणोंमें सिर टेककर प्रणाम करे॥ ३॥

वीरराघवः

आहूतश्चेत्सुयन्त्रितः समाहितो गुरोः छन्दांसि वेदानधीयीत नित्यमध्ययनोपक्रमसमाप्त्योः गुरोः चरणौ शिरसा नमेत् ॥ ३ ॥

श्लोक-४

विश्वास-प्रस्तुतिः

मेखलाजिनवासांसि जटादण्डकमण्डलून्।
बिभृयादुपवीतं च दर्भपाणिर्यथोदितम्॥

मूलम्

मेखलाजिनवासांसि जटादण्डकमण्डलून्।
बिभृयादुपवीतं च दर्भपाणिर्यथोदितम्॥ ४ ॥

अनुवाद (हिन्दी)

शास्त्रकी आज्ञाके अनुसार मेखला, मृगचर्म, वस्त्र, जटा, दण्ड, कमण्डलु, यज्ञोपवीत तथा हाथमें कुश धारण करे॥ ४॥

वीरराघवः

यथाविहितं मेखलादी5न् बिभृयात् जटाधारणं तु केशप्रसाधनाभावमात्रं, दर्भं पवित्रं पाणौ यस्य सः ॥ ४ ॥

श्लोक-५

विश्वास-प्रस्तुतिः

सायं प्रातश्चरेद‍्भैक्षं गुरवे तन्निवेदयेत्।
भुञ्जीत यद्यनुज्ञातो नो चेदुपवसेत् क्वचित्॥

मूलम्

सायं प्रातश्चरेद‍्भैक्षं गुरवे तन्निवेदयेत्।
भुञ्जीत यद्यनुज्ञातो नो चेदुपवसेत् क्वचित्॥ ५ ॥

अनुवाद (हिन्दी)

सायंकाल और प्रातःकाल भिक्षा माँगकर लावे और उसे गुरुजीको समर्पित कर दे। वे आज्ञा दें, तब भोजन करे और यदि कभी आज्ञा न दें तो उपवास कर ले॥ ५॥

वीरराघवः

सायं प्रातश्च भैक्षं भिक्षाकर्म चरेत् कुर्यात् तद्भिक्षया लब्धमन्नं गुरवे निवेदयेत् गुरोः पुरतो निदध्यात् ततो यदि गुरुणाऽभ्यनुज्ञातश्चेत् तदन्नं भुञ्जीत नोचेत् कदाचिदुपवसेत् । कदाचिदित्यनेन तन्मनः परीक्षायै कदाचित् गुरुः नाज्ञापयेदिति सूच्यते ॥ ५ ॥

श्लोक-६

विश्वास-प्रस्तुतिः

सुशीलो मितभुग्दक्षःश्रद्दधानो जितेन्द्रियः।
यावदर्थं व्यवहरेत् स्त्रीषु स्त्रीनिर्जितेषु च॥

मूलम्

सुशीलो मितभुक्दक्षः श्रद्दधानो जितेन्द्रियः।
यावदर्थं व्यवहरेत् स्त्रीषु स्त्रीनिर्जितेषु च॥ ६ ॥

अनुवाद (हिन्दी)

अपने शीलकी रक्षा करे। थोड़ा खाये। अपने कामोंको निपुणताके साथ करे। श्रद्धा रखे और इन्द्रियोंको अपने वशमें रखे। स्त्री और स्त्रियोंके वशमें रहनेवालोंके साथ जितनी आवश्यकता हो, उतना ही व्यवहार करे॥ ६॥

वीरराघवः

मितं भुङ्क्ते इति यथा सुशीलः सुस्वभावः सदाचारो वा दक्षोऽनलसः श्रद्दधानः गुरूपदिष्टार्थेषु विश्वासयुक्तः जितानीन्द्रियाणि येन स्त्रीषु, स्त्रीभिर्निर्जिता ये स्त्रीवश्यास्तेषु च यावदर्थं यावत्प्रयोजनं व्यवहरेन्नाधिकं ताभिस्तैश्च सम्भाषेतेत्यर्थः ॥ ६ ॥

श्लोक-७

विश्वास-प्रस्तुतिः

वर्जयेत् प्रमदागाथामगृहस्थो बृहद्‍व्रतः।
इन्द्रियाणि प्रमाथीनि हरन्त्यपि यतेर्मनः॥

मूलम्

वर्जयेत् प्रमदागाथामगृहस्थो बृहद्‍व्रतः।
इन्द्रियाणि प्रमाथीनि हरन्त्यपि यतेर्मनः॥ ७ ॥

अनुवाद (हिन्दी)

जो गृहस्थ नहीं है और ब्रह्मचर्यका व्रत लिये हुए है, उसे स्त्रियोंकी चर्चासे ही अलग रहना चाहिये। इन्द्रियाँ बड़ी बलवान् हैं। ये प्रयत्नपूर्वक साधन करनेवालोंके मनको भी क्षुब्ध करके खींच लेती हैं॥ ७॥

वीरराघवः

प्रमदागाथां स्त्रीविषयां वार्तां वर्जयेत् यतः स्वयमगृहस्थो बृहद्व्रतः ब्रह्मचर्यवान् स्त्रीसङ्गादिरहितः । ननु तद्गाथामात्रेण को दोषः ? तत्राह - इन्द्रियाणीति । इन्द्रियाणि, प्रमाथीनि बलवन्ति । अतः संयतचित्तस्यापि मनः, प्रमदागाथाश्रवणकथनादिना स्ववशङ्कुर्वन्ति अतस्तां परिवर्जयेत् 6इत्यर्थः ॥ ७ ॥

श्लोक-८

विश्वास-प्रस्तुतिः

केशप्रसाधनोन्मर्दस्नपनाभ्यञ्जनादिकम्।
गुरुस्त्रीभिर्युवतिभिः कारयेन्नात्मनो युवा॥

मूलम्

केशप्रसाधनोन्मर्दस्नपनाभ्यञ्जनादिकम्।
गुरुस्त्रीभिर्युवतिभिः कारयेन्नात्मनो युवा॥ ८ ॥

अनुवाद (हिन्दी)

युवक ब्रह्मचारी युवती गुरुपत्नियोंसे बाल सुलझवाना, शरीर मलवाना, स्नान करवाना, उबटन लगवाना इत्यादि कार्य न करावे॥ ८॥

वीरराघवः

गुरुस्त्रीभिः गुरुपत्नीभिः अन्याभिश्च युवतिभिः 7स्त्रीभिः केशप्रसाधनादिकं न कारयेत् ॥ ८ ॥

श्लोक-९

विश्वास-प्रस्तुतिः

नन्वग्निः प्रमदा नाम घृतकुम्भसमः पुमान्।
सुतामपि रहो जह्यादन्यदा यावदर्थकृत्॥

मूलम्

नन्वग्निः प्रमदा नाम घृत8कुम्भपुमानतः।
सुतामपि रहो जह्यादन्यदा यावदर्थकृत्॥ ९ ॥

अनुवाद (हिन्दी)

स्त्रियाँ आगके समान हैं और पुरुष घीके घड़ेके समान। एकान्तमें तो अपनी कन्याके साथ भी न रहना चाहिये। जब वह एकान्तमें न हो, तब भी आवश्यकताके अनुसार ही उसके पास रहना चाहिये॥ ९॥

वीरराघवः

कुतस्तन्मात्रकरणे दोषः ? तत्राऽह-नन्विति । अग्निः अग्रिसदृशी 9प्रमदा यथा चाऽतीवाग्निसहचरितं घृतकुम्भं क्षरति, तथा पुमानपि 10प्रमदासाहचर्यात् स्खले10दित्यर्थः । अतः सुतामपि 11पुत्रीमपि11 पुमान् रह एकान्ते जह्यात् त्यजेत् । अन्यदा केशप्रसाधनादिव्यतिरिक्तावसरे अनेकान्तावसरे वा यावत्तदुक्तं अर्थं प्रयोजनं 12तावन्मात्रं करोतीति तादृशो भवेत् ॥ ९ ॥

श्लोक-१०

विश्वास-प्रस्तुतिः

कल्पयित्वाऽऽत्मना यावदाभासमिदमीश्वरः।
द्वैतं तावन्न विरमेत् ततो ह्यस्य विपर्ययः॥

मूलम्

कल्प13यित्वाऽऽत्मना13 यावदाभासमिदमीश्वरः।
द्वैतं तावन्न विरमेत् ततो ह्यस्य विपर्ययः॥ १० ॥

अनुवाद (हिन्दी)

जबतक यह जीव आत्मसाक्षात्कारके द्वारा इन देह और इन्द्रियोंको प्रतीतिमात्र निश्चय करके स्वतन्त्र नहीं हो जाता, तबतक ‘मैं पुरुष हूँ और यह स्त्री है’—यह द्वैत नहीं मिटता और तबतक यह भी निश्चित है कि ऐसे पुरुष यदि स्त्रीके संसर्गमें रहेंगे, तो उनकी उनमें भोग्यबुद्धि हो ही जायगी॥ १०॥

वीरराघवः

एवं ब्रह्मचारिणो धर्मानाभिधाय, यदुक्तं “सुशीलो मितभुक्” (भाग 7-12-6) इत्यादि तद्यतिगृहस्थयोरपि ब्रह्मोपासननिष्ठयोरतिदेक्ष्यन् तावत् यावच्छरीरावसानमेवं धर्मा अनुष्ठेया इत्याह - कल्पयतीति । ईश्वरो भगवान् यावदिदमात्मन आभासं दृश्यं शरीरं कल्पयति प्रवृत्तिसमर्थं करोति । तावद्द्वैतं देवत्व, मनुष्यत्व ब्राह्मणत्वाद्यभिमानरूपं 14द्वैतं, भेदज्ञानमनुवर्तत इति शेषः । 15ननु अनुवर्तताम्, ततः किम्? तत्राह - अस्य पुंसस्ततोऽध्यासाद्विपर्ययः उत्तरोत्तरविपर्ययः देहात्मभ्रमः पुरुषार्थविपर्ययो वा भवति । तस्मात् यावद्द्वैतानुवृत्तिः स्वधर्मेभ्यो न विरमेत् । कल्पयित्वेति पाठान्तरम् । तत्र यावदिदं आभासं शरीरं तावदीश्वरः प्रभुः 16समर्थः स्वधर्मानुष्ठानशक्तस्सन् आत्मनः स्वस्य द्वैतं मनुष्यत्वब्राह्मणत्वादिभेदं कल्पयित्वा, स्थित इतिशेषः । देहात्माभिमानयुक्त इत्यर्थः । अत एव तावन्न विरमेत्, 17स्वधर्मादिति शेषः । विरामे बाधकमाह हि यस्मादध्यासात् विरमाद्वाऽस्य विपर्ययः उत्तरोत्तरदेहात्मभ्रमः । यद्वा, यावदिदं शरीरमनुवर्तते तावदिदं द्वैतं मनुष्यत्वादिकमात्मन आभासमात्रं कल्पयित्वा द्वैतं देहाकारो न तु आत्माकार इति कल्पयित्वा देहविलक्षणमात्मानमनुसन्धायेत्यर्थः । ईश्वरः कर्तुं समर्थः न विरमेत् स्वधर्मात् 18न विरमेदित्यर्थः ॥ १० ॥

श्लोक-११

विश्वास-प्रस्तुतिः

एतत् सर्वं गृहस्थस्य समाम्नातं यतेरपि।
गुरुवृत्तिर्विकल्पेन गृहस्थस्यर्तुगामिनः॥

मूलम्

एत19त्सर्वं 20व्रतस्थस्य समाम्नातं यतेरपि।
गुरुवृत्तिर्विकल्पेन गृहस्थस्यर्तुगामिनः॥ ११ ॥

अनुवाद (हिन्दी)

ये सब शील-रक्षादि गुण गृहस्थके लिये और संन्यासीके लिये भी विहित हैं। गृहस्थके लिये गुरुकुलमें रहकर गुरुकी सेवा-शुश्रूषा वैकल्पिक है, क्योंकि ऋतुगमनके कारण उसे वहाँसे अलग भी होना पड़ता है॥ ११॥

वीरराघवः

उक्तं यतिगृहस्थयोरप्यतिदिशति - एतदिति । एतत्सुशील इत्यादिवोक्तं सर्वं व्रतस्थस्य ब्रह्मोपासन रूपव्रत21निष्ठस्य यतेः तुर्याश्रमिणः, अपि शब्दात् गृहस्थस्यापि समाम्नातम् । तत्र गृहस्थस्य क22ञ्चिद्विशेषमाह - गुरुवृत्तिरिति । गुर्वी वृत्तिः गुर्वनुवृत्तिः स्त्रीसङ्गराहि23त्यादिरूपा ब्रह्मचर्यवृत्तिः गृहस्थस्य तु विकल्पेन कदाचिद्भवेत्, कदाचिन्नस्यात् । कदा न भवेत् ? इत्यपेक्षायां 24तु काले निर्दिशन् विकल्पे हेतुं च वदन् गृहस्थं विशिनष्टि - ऋतुगामिन इति । ऋतुगामित्वाद्गुरुवृत्तिविकल्प इति भावः । ऋतुकालेषु गुरुवृत्तिर्नास्तीति च भावः । अस्या उक्तेः दुष्करत्वाभिप्रायेण गुर्वितिविशेषणमुपात्तम् ॥ ११ ॥

श्लोक-१२

विश्वास-प्रस्तुतिः

अञ्जनाभ्यञ्जनोन्मर्दस्त्र्यवलेखामिषं मधु।
स्रग्गन्धलेपालंकारांस्त्यजेयुर्ये धृतव्रताः॥

मूलम्

अञ्जनाभ्यञ्जनोन्मर्दस्त्र्यवले25ख्यामिषं मधु।
स्रग्गन्धलेपालङ्कारांस्त्यजेयुर्ये धृतव्रताः॥ १२ ॥

अनुवाद (हिन्दी)

जो ब्रह्मचर्यका व्रत धारण करें, उन्हें चाहिये कि वे सुरमा या तेल न लगावें। उबटन न मलें। स्त्रियोंके चित्र न बनावें। मांस और मद्यसे कोई सम्बन्ध न रखें। फूलोंके हार, इत्र-फुलेल, चन्दन और आभूषणोंका त्याग कर दें॥ १२॥

वीरराघवः

किञ्च । ये धृतव्रताः गृहस्थास्ते अञ्जनादीन् त्यजेयुः । अञ्जनाद्यामिषान्तानां द्वन्द्वैक्यम् । तत्र अञ्जन शरीरस्य तैलाद्यञ्जनम् शिरसः, अभ्यञ्जनमवशिष्टदेहस्य, उन्मर्दः उद्वर्तः, स्त्र्यवले26ख्या कुड्यादिषु स्त्रीप्रतिकृति लेखनम् । आमिषं मांस, मधु मद्यम् । इदं क्षत्रियाद्यभिप्रायकम् । स्रक् च गन्धलेपश्च अलङ्कारश्च तान् ॥ १२ ॥

श्लोक-१३

विश्वास-प्रस्तुतिः

उषित्वैवं गुरुकुले द्विजोऽधीत्यावबुध्य च।
त्रयीं साङ्गोपनिषदं यावदर्थं यथाबलम्॥

मूलम्

उषित्वैवं गुरुकुले द्विजोऽधीत्यावबुध्य च।
त्रयीं साङ्गोपनिषदं यावदर्थं यथाबलम्॥ १३ ॥

अनुवाद (हिन्दी)

इस प्रकार गुरुकुलमें निवास करके द्विजातिको अपनी शक्ति और आवश्यकताके अनुसार वेद, उनके अंग—शिक्षा, कल्प आदि और उपनिषदोंका अध्ययन तथा ज्ञान प्राप्त करना चाहिये॥ १३॥

वीरराघवः

एवं ब्रह्मचर्याश्रमधर्मानभिधाय, अथ आश्रमान्तरधर्मान् विवक्षुः तावदाश्रमान्तराणाम् उक्तविध ब्रह्मचर्याश्रमपूर्वकत्वमाह - उषित्वैवमिति द्वाभ्याम् । द्विजः त्रैवर्णिकः एवमित्थं गुरुकुले उषित्वा साङ्गोपनिषदं साङ्गसशिरस्कां त्रयीं यथा बुद्धिबलं यावत्स्वापेक्षितमधीत्य अवबुध्य तदर्थं ज्ञात्वा । अवबध्येति पाठस्तु उचितः । “वेदमधीत्य अभिसमावृत्य कुटुम्बे शुचौ देशे” (छान्दो. उ. 8-15-1) इति श्रुत्यर्थस्याऽत्र प्रत्यभिज्ञानादवबध्य समावर्तनं कृत्वा ॥ १३ ॥

श्लोक-१४

विश्वास-प्रस्तुतिः

दत्त्वा वरमनुज्ञातो गुरोः कामं यदीश्वरः।
गृहं वनं वा प्रविशेत् प्रव्रजेत् तत्र वा वसेत्॥

मूलम्

दत्त्वा वरमनुज्ञातो गुरोः कामं यदीश्वरः।
गृहं वनं वा प्रविशेत् प्रवजेत् तत्र वा वसेत्॥ १४ ॥

अनुवाद (हिन्दी)

फिर यदि सामर्थ्य हो तो गुरुको मुँहमाँगी दक्षिणा देनी चाहिये। इसके बाद उनकी आज्ञासे गृहस्थ, वानप्रस्थ अथवा संन्यास-आश्रममें प्रवेश करे या आजीवन ब्रह्मचर्यका पालन करते हुए उसी आश्रममें रहे॥ १४॥

वीरराघवः

यदीश्वरः शक्तश्चेत्तर्हि गुरोः काममपेक्षितं वरं दत्त्वा गुरुणाऽभ्यनुज्ञातः गृहं वनं वा प्रविशेत्, गृहस्थाश्रमं सन्न्यासाश्रमं वा स्वीकुर्यादित्यर्थः । वनशब्दः शुचिदेशोपलक्षकः कुटुम्बे शुचौ देशे इति श्रुत्यनुरोधात्, न तु वानप्रस्थाश्रमोपलक्षकः । ब्रह्मचर्यानन्तरं तत्परिग्रहानुपपत्तेः, स हि गार्हस्थ्यानन्तरभावी “ब्रह्मचर्यं समाप्य गृही भवेत्, गृहाद्वनी भूत्वा प्रव्रजेत्, यदिवेतरथा ब्रह्मचर्यादेव प्रव्रजेत् गृहाद्वनाद्वा” (जाबा. उ. 4) इति जाबालिश्रुतेः, गार्हस्थ्यानन्तरं प्रव्रजेत् । प्रव्रजन27मत्र सन्न्यासाश्रमपरिग्रहो वानप्रस्थाश्रमपरिग्रहश्चेत्युभयविधं विवक्षितम् । यथेष्ठं सन्न्यसेद्वनं वा प्रतिष्ठेतेत्यर्थः । तत्र वा वसेत् तत्र शब्देन ब्रह्मचर्यं गार्हस्थ्यञ्च विवक्षितम् । ब्रह्मचर्ये एव वा निष्ठितो भवेत्, गृहं प्रविश्यतत्रैव वा स्थितो भवेदित्यर्थः ॥ १४ ॥

श्लोक-१५

विश्वास-प्रस्तुतिः

अग्नो गुरावात्मनि च सर्वभूतेष्वधोक्षजम्।
भूतैः स्वधामभिः पश्येदप्रविष्टं प्रविष्टवत्॥

मूलम्

अग्नौ गुरावात्मनि च सर्वभूतेष्वधोक्षजम्।
भूतैः स्वधामभिः पश्येदप्रविष्टं प्रविष्टवत्॥ १५ ॥

अनुवाद (हिन्दी)

यद्यपि भगवान् स्वरूपतः सर्वत्र एकरस स्थित हैं, अतएव उनका कहीं प्रवेश करना या निकलना नहीं हो सकता—फिर भी अग्नि, गुरु, आत्मा और समस्त प्राणियोंमें अपने आश्रित जीवोंके साथ वे विशेषरूपसे विराजमान हैं। इसलिये उनपर सदा दृष्टि जमी रहनी चाहिये॥ १५॥

वीरराघवः

एवं यथेष्टं परिगृहीतानां सर्वाश्रमाणां अनुगतं धर्मं तत्फलञ्चाऽह-द्वाभ्याम् - अग्नाविति । अग्ग्राविति तुर्याश्रमव्यतिरिक्ताश्रमाभिप्रायकम्, तस्याऽनग्नित्वात् । गुरौ अग्रौ आत्मनि स्वस्मिन् सर्वभूतेषु च अन्तः प्रविश्य नियमनपूर्वकं धारकतया, स्थितमिति शेषः । स्थितमधोक्षजं भगवन्तं पश्येत् अद्योक्षजो धाम आधारो येषां तैः भूतैः अप्रविष्टं पश्येत् व्याप्यवस्तुगतदोषासंस्पृष्टं पश्येत् प्रविष्टवच्च पश्येत् अन्तर्बहिश्च व्याप्य स्थितत्वादिति भावः ॥ १५ ॥

श्लोक-१६

विश्वास-प्रस्तुतिः

एवंविधो ब्रह्मचारी वानप्रस्थो यतिर्गृही।
चरन्विदितविज्ञानः परं ब्रह्माधिगच्छति॥

मूलम्

एवंविधो ब्रह्मचारी वानप्रस्थो यतिर्गृही।
28चरन् विदितविज्ञानः28 परं ब्रह्माऽधिगच्छति॥

अनुवाद (हिन्दी)

इस प्रकार आचरण करनेवाला ब्रह्मचारी, वानप्रस्थ, संन्यासी अथवा गृहस्थ विज्ञानसम्पन्न होकर परब्रह्मतत्त्वका अनुभव प्राप्त कर लेता है॥ १६॥

वीरराघवः

एवंविधदर्शी ब्रह्मचर्याद्यन्य29तमः 30चरन् स्वाश्रमधर्मान् अनुतिष्ठन् विदितं विज्ञानं विज्ञेयं स्वात्मपरमात्मादि30 याथात्म्यं येन तादृशः परं ब्रह्माधिगच्छति प्राप्नोति ॥ १६ ॥

श्लोक-१७

विश्वास-प्रस्तुतिः

वानप्रस्थस्य वक्ष्यामि नियमान्मुनिसम्मतान्।
यानातिष्ठन् मुनिर्गच्छेदृषिलोकमिहाञ्जसा॥

मूलम्

31वानप्रस्थस्य31 वक्ष्यामि32 नियमान्मुनिसम्मतान्।
यानातिष्ठन्मुनिर्गच्छेदृषिलोकमिहाञ्जसा॥ १७ ॥

अनुवाद (हिन्दी)

अब मैं ऋषियोंके मतानुसार वानप्रस्थ-आश्रमके नियम बतलाता हूँ। इनका आचरण करनेसे वानप्रस्थ-आश्रमीको अनायास ही ऋषियोंके लोक महर्लोककी प्राप्ति हो जाती है॥ १७॥

वीरराघवः

तावद्वानप्रस्थधर्मान् वक्तुं प्रतिजानीते - वानप्रस्थस्येति । मुनीनां सम्मतान् वानप्रस्थस्य नियमान् धर्मान् वक्ष्यामि । नियमान्विशिनष्टि - यान्नियमानिह लोकेऽनुतिष्ठन् मुनिरञ्जसा ऋषीणां लोकं महर्लोकं प्राप्यं भगवल्लोकं वा गच्छेत् ॥ १७ ॥

श्लोक-१८

विश्वास-प्रस्तुतिः

न कृष्टपच्यमश्नीयादकृष्टं चाप्यकालतः।
अग्निपक्वमथामं वा अर्कपक्वमुताहरेत्॥

मूलम्

न कृष्टपच्यमश्नीयादकृष्टं33 वाऽप्यकालतः।
अग्निपक्वमथाऽमं वा 34ह्यर्कपक्वमुताऽहरेत्॥ १८ ॥

अनुवाद (हिन्दी)

वानप्रस्थ-आश्रमीको जोती हुई भूमिमें उत्पन्न होनेवाले चावल, गेहूँ आदि अन्न नहीं खाने चाहिये। बिना जोते पैदा हुआ अन्न भी यदि असमयमें पका हो, तो उसे भी न खाना चाहिये। आगसे पकाया हुआ या कच्चा अन्न भी न खाय। केवल सूर्यके तापसे पके हुए कन्द, मूल, फल आदिका ही सेवन करे॥ १८॥

वीरराघवः

नियमानाह - नेति । कृष्टपच्यं कृष्याद्युपायैः निष्पन्नं शाल्यन्नादिकं नाऽश्नीयात्, वनस्थ इति शेषः । अकृष्टपच्यमपि फलमूलादिकमकालतः पाककालात्पूर्वमेव परिपाकावस्थायाः पूर्वमेव । तथा अग्निपक्वमामञ्च नाश्नीयात् । उत अपि तु अर्कपक्वं सूर्यकिरणपक्वं फलादिकमेव आहरेत् अश्नीयात् ॥ १८ ॥

श्लोक-१९

विश्वास-प्रस्तुतिः

वन्यैश्चरुपुरोडाशान् निर्वपेत् कालचोदितान्।
लब्धे नवे नवेऽन्नाद्ये पुराणं तु परित्यजेत्॥

मूलम्

वन्यैश्चरुपुरोडाशान् निर्वपे35न्नित्यचोदितान्।
लब्धे 36नवे नवेऽन्नाद्ये36 पुराणन्तु परित्यजेत्॥ १९ ॥

अनुवाद (हिन्दी)

जंगलोंमें अपने-आप पैदा हुए धान्योंसे नित्य-नैमित्तिक चरु और पुरोडाशका हवन करे। जब नये-नये अन्न, फल, फूल आदि मिलने लगें, तब पहलेके इकट्ठे किये हुए अन्नका परित्याग कर दे॥ १९॥

वीरराघवः

एवं 37वानप्रस्थस्य धर्म उक्तः । अथ आवश्यकान्नियमानाह - वन्यैरिति । वन्यैः नीवारादिभिः चरुपुरोडाशान् कालचोदितान्नित्यान्निर्वपेत् । नीवारादिनिष्पन्नैरेव चरुपुरोडाशैः यथोदितधर्मान् कुर्यादित्यर्थः । नवे नवे नूतने नूतने अन्नाद्ये अन्ने लब्धे पुराणं पूर्वसञ्चितमन्नाद्यं परित्यजेत् ॥ १९ ॥

श्लोक-२०

विश्वास-प्रस्तुतिः

अग्न्यर्थमेव शरणमुटजं वाद्रिकन्दराम्।
श्रयेत हिमवाय्वग्निवर्षार्कातपषाट् स्वयम्॥

मूलम्

अग्न्यर्थमेव शरणमुटजं वाऽद्रिकन्द38रम्।
श्रयेत हिमवाय्वग्निवर्षार्कातप39षाट् स्वयम्॥ २० ॥

अनुवाद (हिन्दी)

अग्निहोत्रके अग्निकी रक्षाके लिये ही घर, पर्णकुटी अथवा पहाड़की गुफाका आश्रय ले। स्वयं शीत, वायु, अग्नि, वर्षा और घामका सहन करे॥ २०॥

वीरराघवः

अग्न्यर्थमग्नीनां रक्षणार्थमेव उटजं पर्णशालात्मकं शरणं स्वगृहं कुर्यात् । अथवा अद्रिकन्दरं पर्वतगुहां वा श्रयेत, स्वयन्तु हिमञ्च वायुश्च अग्निश्च वर्षञ्च सूर्यातपश्च तान् सहत इति हिमवाय्वग्निवर्षार्कातपषाट् ॥ २० ॥

श्लोक-२१

विश्वास-प्रस्तुतिः

केशरोमनखश्मश्रुमलानि जटिलो दधत्।
कमण्डल्वजिने दण्डवल्कलाग्निपरिच्छदान्॥

मूलम्

केशरोमनखश्मश्रुमलानि जटिलो दधत्।
कमण्डल्वजिने दण्डवल्कला40दिपरिच्छदान्॥ २१ ॥

अनुवाद (हिन्दी)

सिरपर जटा धारण करे और केश, रोम, नख एवं दाढ़ी-मूँछ न कटवाये तथा मैलको भी शरीरसे अलग न करे। कमण्डलु, मृगचर्म, दण्ड, वल्कल-वस्त्र और अग्निहोत्रकी सामग्रियोंको अपने पास रखे॥ २१॥

वीरराघवः

जटाः अस्य सन्तीति तादृशः केशादीन् देहमलञ्च अघमर्षणेन धारयन् कमण्डल्वादीश्च दधत् अग्निपरिच्छदाः स्रुक्स्रुवाद्युपकरणानि 41च दधत्41 ॥ २१ ॥

श्लोक-२२

विश्वास-प्रस्तुतिः

चरेद् वने द्वादशाब्दानष्टौ वा चतुरो मुनिः।
द्वावेकं वा यथा बुद्धिर्न विपद्येत कृच्छ्रतः॥

मूलम्

चरेद्वनेद्वादशाब्दानष्टौ वा चतुरो मुनिः।
द्वावेकं वा यथा बुद्धिर्न विपद्येत कृच्छ्रतः॥ २२ ॥

अनुवाद (हिन्दी)

विचारवान् पुरुषको चाहिये कि बारह, आठ, चार, दो या एक वर्षतक वानप्रस्थ-आश्रमके नियमोंका पालन करे। ध्यान रहे कि कहीं अधिक तपस्याका क्लेश सहन करनेसे बुद्धि बिगड़ न जाय॥ २२॥

वीरराघवः

कृच्छ्रतः क्लेशात् यथा बुद्धिः न विपद्येत न नश्येत्तथा द्वादशाब्दान् संवत्सरान्, अष्टौ वा चतुरो वा अब्दौ द्वौ वा एकं वा 42अब्दं चरेत्, नियमानिति 42अर्थः ॥ २२ ॥

श्लोक-२३

विश्वास-प्रस्तुतिः

यदाकल्पः स्वक्रियायां व्याधिभिर्जरयाथवा।
आन्वीक्षिक्यां वा विद्यायां कुर्यादनशनादिकम्॥

मूलम्

यदाऽक43ल्यः स्वक्रियायां व्याधिभिर्जर44याऽथवा।
आन्वीक्षिक्यां 45च विद्यायां कुर्यादनशनादिकम्॥ २३ ॥

अनुवाद (हिन्दी)

वानप्रस्थी पुरुष जब रोग अथवा बुढ़ापेके कारण अपने कर्म पूरे न कर सके और वेदान्त-विचार करनेकी भी सामर्थ्य न रहे, तब उसे अनशन आदि व्रत करने चाहिये॥ २३॥

वीरराघवः

यदा द्वादशाब्दाद्यनन्तरं, व्याध्यादिभिरुतजरया वा स्वक्रियायां स्वकीयधर्माचरणे आन्वीक्षिक्यां आत्मविचाररूपायां विद्यायां तुरीयाश्रमधर्मे च अशक्तस्तदा अनशनादिकम्, आदिशब्देनाग्न्यारोपणादिकं वक्ष्यमाणं विवक्षितम् । तत्कुर्यात् ॥ २३ ॥

श्लोक-२४

विश्वास-प्रस्तुतिः

आत्मन्यग्नीन्समारोप्य संन्यस्याहंममात्मताम्।
कारणेषु न्यसेत् सम्यक् संघातं तु यथार्हतः॥

मूलम्

आत्मन्य46ग्नीन् समारोप्य सन्न्यस्याऽहम्ममात्मताम्।
कारणेषु न्यसेत् सम्यक् सङ्घातं तु यथार्हतः॥ २४ ॥

अनुवाद (हिन्दी)

अनशनके पूर्व ही वह अपने आहवनीय आदि अग्नियोंको अपनी आत्मामें लीन कर ले। ‘मैंपन’ और ‘मेरेपन’ का त्याग करके शरीरको उसके कारणभूत तत्त्वोंमें यथायोग्य भलीभाँति लीन करे॥ २४॥

वीरराघवः

तदेवाऽह - आत्मनीति । अग्नीनात्मनि समारोप्य अहङ्कारममकारौ सन्न्यस्य त्यक्त्वा यथायोग्यं स्वस्वकारणे सङ्घातं भूतसङ्घातरूपं शरीरेन्द्रियजातादिकं सम्यक् न्यसेत् लीनमनुसन्दधीत ॥ २४ ॥

श्लोक-२५

विश्वास-प्रस्तुतिः

खे खानि वायौ निःश्वासांस्तेजस्यूष्माणमात्मवान्।
अप्स्वसृक्श्लेष्मपूयानि क्षितौ शेषं यथोद‍्भवम्॥

मूलम्

खे खानि वायौ निःश्वासांस्तेजस्यूष्माणमात्मवान्।
अप्स्वसृक्श्लेष्मपूयानि क्षितौ शेषं यथोद‍्भवम्॥ २५ ॥

अनुवाद (हिन्दी)

जितेन्द्रिय पुरुष अपने शरीरके छिद्राकाशोंको आकाशमें, प्राणोंको वायुमें, गरमीको अग्निमें, रक्त, कफ, पीब आदि जलीय तत्त्वोंको जलमें और हड्डी आदि ठोस वस्तुओंको पृथ्वीमें लीन करे॥ २५॥

वीरराघवः

तदेव सविस्तारमाह - इत्यादिना खे आकाशे खानि शरीरगतच्छिद्राणि प्रलीनानि भावयेत् निःश्वासान् देहगतानुच्छ्वासादीन् प्राणान् वायौ तथा ऊष्माणं तेजसि न्यसेत् । आत्मवान् धीमान् असृग्रुधिरं च श्लेष्म च पूयं मूत्रादिकञ्चेत्येतानि अप्सु शेषमस्थिमांसादिकं कठिनांशं क्षितौ - इत्येवं यथोद्भवं यद्यत उत्पन्नं तथा तदनतिक्रमेण स्वकारणेषु प्रलीनानि अनुसन्दधीत ॥ २५ ॥

श्लोक-२६

विश्वास-प्रस्तुतिः

वाचमग्नौ सवक्तव्यामिन्द्रे शिल्पं करावपि।
पदानि गत्या वयसि रत्योपस्थं प्रजापतौ॥

मूलम्

वाचमग्नौ स वक्तव्यामिन्द्रे शिल्पं करावपि।
47पदानि48गत्या वयसि48 रत्योपस्थं प्रजापतौ॥ २६ ॥

वीरराघवः

एवम्भूतसङ्घातात्मकशरीरावयवानां यथोद्भवं स्वस्वकारणे लयानुसन्धानमुक्तं, अथ सव्यापारणां वागादीन्द्रियाणां स्वाऽधिदैवतेषु लयानुसन्धानप्रकारमाह - वाचमिति । यद्यप्यधिदैवतेभ्यो नेन्द्रियाणामुत्पत्तिरिति तत्र तेषां लयानुसन्धानमसङ्गतं, तथाऽपि तेषां तत् प्रवर्तकत्वेन प्राधान्यात्तैः तावत्संश्लेषानुसन्धानं तेषामपि स्वकारणे लयानुसन्धानाय कथ्यते । वक्तव्यमुक्तिः भावेतव्यः सवक्तव्यां सोक्तिकां वाचं वागिन्द्रियमग्नौ अधिदैवते, विनिर्दिशेदित्युत्तरेणान्वयः । करौ शिल्पमादानादिरूपं व्यापारञ्च इन्द्रे तदधिदैवते गत्या सह पादौ वयसि कालात्मके विष्णौरत्या सह उपस्थमिन्द्रियं प्रजापती अधिदैवते ॥ २६ ॥

श्लोक-२७

विश्वास-प्रस्तुतिः

मृत्यौ पायुं विसर्गं च यथास्थानं विनिर्दिशेत्।
दिक्षु श्रोत्रं सनादेन स्पर्शमध्यात्मनि त्वचम्॥

मूलम्

मृत्यौ 49पायुञ्च सोत्सर्गं49 यथास्थानं विनिर्दिशेत्।
दिक्षुश्रोत्रं 50सनादेन स्प51र्शेनाध्यात्मनि त्वचम्॥ २७ ॥

श्लोक-२८

विश्वास-प्रस्तुतिः

रूपाणि चक्षुषा राजन् ज्योतिष्यभिनिवेशयेत्।
अप्सु प्रचेतसा जिह्वां घ्रेयैर्घ्राणं क्षितौ न्यसेत्॥

मूलम्

रूपाणि चक्षुषा राजन् ज्योतिष्यभिनिवेशयेत्।
अप्सु प्रचेतसा जिह्वां घ्रेयैर्घ्राणं क्षितौ न्यसेत्॥ २८ ॥

अनुवाद (हिन्दी)

इसी प्रकार वाणी और उसके कर्म भाषणको उसके अधिष्ठातृदेवता अग्निमें, हाथ और उसके द्वारा होनेवाले कला-कौशलको इन्द्रमें, चरण और उसकी गतिको कालस्वरूप विष्णुमें, रति और उपस्थको प्रजापतिमें एवं पायु और मलोत्सर्गको उनके आश्रयके अनुसार मृत्युमें लीन कर दे। श्रोत्र और उसके द्वारा सुने जानेवाले शब्दको दिशाओंमें, स्पर्श और त्वचाको वायुमें, नेत्रसहित रूपको ज्योतिमें, मधुर आदि रसके सहित* रसनेन्द्रियको जलमें और युधिष्ठिर! घ्राणेन्द्रिय एवं उसके द्वारा सूँघे जानेवाले गन्धको पृथ्वीमें लीन कर दे॥ २६—२८॥

पादटिप्पनी
  • यहाँ मूलमें ‘प्रचेतसा’ पद है, जिसका अर्थ ‘वरुणके सहित’ होता है। वरुण रसनेन्द्रियके अधिष्ठाता हैं। श्रीधर-स्वामीने भी इसी मतको स्वीकार किया है। परन्तु इस प्रसंगमें सर्वत्र इन्द्रिय और उसके विषयका अधिष्ठातृदेवमें लय करना बताया गया है, फिर रसनेन्द्रियके लिये ही नया क्रम युक्तियुक्त नहीं जँचता। इसलिये यहाँ श्रीविश्वनाथ चक्रवर्तीके मतानुसार ‘प्रचेतसा’ पदका (‘प्रकृष्टं चेतो यत्र स प्रचेतो मधुरादिरसस्तेन’—जिसकी ओर चित्त अधिक आकृष्ट हो, वह मधुरादि रस ‘प्रचेतस्’ है, उसके सहित) इस विग्रहके अनुसार प्रस्तुत अर्थ किया गया है और यही युक्तियुक्त मालूम होता है।

श्लोक-२९

विश्वास-प्रस्तुतिः

मनो मनोरथैश्चन्द्रे बुद्धिं बोध्यैः कवौ परे।
कर्माण्यध्यात्मना रुद्रे यदहंममताक्रिया।
सत्त्वेन चित्तं क्षेत्रज्ञे गुणैर्वैकारिकं परे॥

मूलम्

मनो मनोरथैश्चन्द्रे बु52द्धिं बोध्यैः कवौ परे।
कर्माण्यध्यात्मना रुद्रे यदहं 53ममता क्रि54याः।
सत्त्वेन चित्तं क्षेत्रज्ञे गुणैर्वैकारिकं परे॥ २९ ॥

अनुवाद (हिन्दी)

मनोरथोंके साथ मनको चन्द्रमामें, समझमें आनेवाले पदार्थोंके सहित बुद्धिको ब्रह्मामें तथा अहंता और ममतारूप क्रिया करनेवाले अहंकारको उसके कर्मोंके साथ रुद्रमें लीन कर दे। इसी प्रकार चेतना-सहित चित्तको क्षेत्रज्ञ (जीव)-में और गुणोंके कारण विकारी-से प्रतीत होनेवाले जीवको परब्रह्ममें लीन कर दे॥ २९॥

वीरराघवः

जिह्वां रसनेन्द्रियमप्सु रसेषु विषयभूतेषु अप् शब्दो रसोपलक्षकः प्रचेतसा वरुणेन अधिदैवतेन सह, अभिनिवेशयेदित्यनुषङ्गः । त्रयाणां संश्लेषमात्रविवक्षया प्रचेतसेत्यप्रधाने तृतीया । घ्रेयैर्गन्धैर्विषयस्सह घ्राणमिन्द्रियं क्षितौ, क्षितिशब्दोपलक्षितयोरश्विनोः न्यसेत् । मनोरथैः व्यापारैस्सह मन इन्द्रियं चन्द्रेऽधिदैवते, बोध्यैः विषयैस्सह बुद्धिं परे श्रेष्ठे कवौ चतुर्मुखे, अध्यात्मना आत्मनि देहे वर्तमानेनाऽहङ्कारेण सह तत्कर्माणि देहात्माभिमान रूपाणि अहङ्काराधिदैवते रुद्रे न्यसेत् । अहङ्कारकर्माण्येव दर्शयति - यद्यस्मादहङ्कारात् अहम्ममताक्रियाः । देहेऽहम्बुद्धिः देहानुबन्धिषु ममकारः, तन्मूलाः क्रियाः प्रवृत्तयश्च भवन्ति । चित्तं चित्तावस्थमन्तःकरणं सत्त्वेन सत्त्वगुणकार्यभूतस्वच्छत्व प्रकाशत्वादिरूपचित्तवृत्त्या सह क्षेत्रज्ञेऽधिदैवते न्यसेत् ततो वैकारिकं सात्त्विकाहङ्कारं गुणैः स्वकार्यभूतैः इन्द्रियैस्सह परे तत्कारणे महत्तत्त्वे न्यसेत् ॥ २८, २९ ॥

श्लोक-३०

विश्वास-प्रस्तुतिः

अप्सु क्षितिमपो ज्योतिष्यदो वायौ नभस्यमुम्।
कूटस्थे तच्च महति तदव्यक्तेऽक्षरे च तत्॥

मूलम्

अप्सु क्षितिमपो ज्योतिष्यदे वायौ नभस्यमुम्।
कूटस्थे तच्च महति तदव्यक्तेऽक्षरे 55तु तत्॥ ३० ॥

अनुवाद (हिन्दी)

साथ ही पृथ्वीका जलमें, जलका अग्निमें, अग्निका वायुमें, वायुका आकाशमें, आकाशका अहंकारमें, अहंकारका महत्तत्त्वमें, महत्तत्त्वका अव्यक्तमें और अव्यक्तका अविनाशी परमात्मामें लयकर दे॥ ३०॥

वीरराघवः

एवं वैकारिकाहङ्कारस्य महति लयानुसन्धानमुक्तम्, पूर्वं खे खानीत्यादिना तत्तत्कार्यप्रलयानुसन्धानमुक्तम् । अथ तत्त्वैस्सह तत्कारणभूतस्य तामसाहङ्कारस्य महति लयानुसन्धानप्रकारमाह - अप्स्वित्यादिना । तावत्क्षितिमासु, अपो ज्योतिषि, अदः ज्योतिर्वायौ, अमुं वायुं नभसि आकाशे, तच्च कूटस्थे तामसाहङ्कारे, तञ्च महति महत्तत्त्वे, तच्च महत्तत्त्वं अव्यक्ते अचित्समष्टिसंसृष्टे अचित्समष्ट्यात्मके प्रधाने, तच्चाक्षरे परमात्मात्मके जीवे न्यसेत् ॥ ३० ॥

श्लोक-३१

विश्वास-प्रस्तुतिः

इत्यक्षरतयाऽऽत्मानं चिन्मात्रमवशेषितम्।
ज्ञात्वाद्वियोऽथ विरमेद् दग्धयोनिरिवानलः॥

मूलम्

इत्यक्षरतयाऽऽत्मानं चिन्मात्रमवशेषितम्।
ज्ञात्वाऽद्वियोऽथ विरमेद् दग्धयोनि56र्यथाऽनलः॥ ३१ ॥

अनुवाद (हिन्दी)

इस प्रकार अविनाशी परमात्माके रूपमें अवशिष्ट जो चिद्वस्तु है, वह आत्मा है, वह मैं हूँ—यह जानकर अद्वितीय भावमें स्थित हो जाय। जैसे अपने आश्रय काष्ठादिके भस्म हो जानेपर अग्नि शान्त होकर अपने स्वरूपमें स्थित हो जाता है, वैसे ही वह भी उपरत हो जाय॥ ३१॥

अनुवाद (समाप्ति)

इति श्रीमद‍्भागवते महापुराणे पारमहंस्यां संहितायां सप्तमस्कन्धे युधिष्ठिरनारदसंवादे सदाचारनिर्णयो नाम द्वादशोऽध्यायः॥ १२ ॥

वीरराघवः

57अत एवमवशेषितं प्रत्यगात्मानमक्षरतया परमा58त्मात्मकत्व58स्वाभाविकस्वरूपतया ज्ञात्वाऽद्वयः आत्मनि जातिगुणाद्यभिमानरहितः विरमेत् । दग्धयोनिः 59निर्दग्धकाष्ठोऽनलोऽग्निः यथा विरमति तद्वद्धर्मानुष्ठानेऽशक्तो वानप्रस्थ एवमनुसन्दधानो देहत्यागाय अनशनव्रतं कुर्यादित्यर्थः ॥ ३१ ॥

इति श्रीमद्भागवते सप्तमस्कन्धे श्रीवीरराघवविदुषा लिखितायां भागवतचन्द्रचन्द्रिकायां व्याख्यायां द्वादशोऽध्यायः ॥ १२ ॥


  1. M,Ma रेद्दा ↩︎

  2. A,B,T र्वन् ब्र ↩︎

  3. W सः ↩︎

  4. M,Ma श्च सु ↩︎

  5. A,B,T नि ↩︎

  6. W omits इत्यर्थः । ↩︎

  7. A,B,T omit स्त्रीभिः ↩︎

  8. A,G,J कुम्भसमः पुमान्; B कुम्भ मयः पुमान्; M,Ma कुम्भः पुमान्यतः ↩︎

  9. W omits प्रमदा ↩︎

  10. A,B,T सहचारी सम्मुह्ये ↩︎ ↩︎

  11. W omits ↩︎ ↩︎

  12. W तन्मा ↩︎

  13. M,Ma येदाऽऽत्मनो; W यत्याऽऽत्मना ↩︎ ↩︎

  14. A,B,T omit द्वैतं ↩︎

  15. W Omits ननु ↩︎

  16. W omits समर्थः ↩︎

  17. A,B,T omit स्व ↩︎

  18. W omits न विरमेत् ↩︎

  19. M,Ma एतञ्चाऽन्यत् ↩︎

  20. A,B,G,J,M,Ma,T गृह ↩︎

  21. W स्थस्य ↩︎

  22. A,B,T कि ↩︎

  23. W त्यरूप ↩︎

  24. A,B तं ↩︎

  25. A,B,G,J,T खा; M,Ma पा ↩︎

  26. A,B,T खा ↩︎

  27. A,B,T न्तु ↩︎

  28. M,Ma परं विन्दति विज्ञानं ↩︎ ↩︎

  29. W त्तमं ↩︎

  30. A,T omit ↩︎ ↩︎

  31. H,V,W वनस्थस्य तु ↩︎ ↩︎

  32. H,V,W मो ↩︎

  33. A,B,G,J,T ष्टञ्चाऽ ↩︎

  34. A,B,G,J,M,Ma,T अ ↩︎

  35. A,B,G,J,M,Ma,T त्काल ↩︎

  36. M,Ma नयेन चान्नेन ↩︎ ↩︎

  37. B,W वानस्थो ↩︎

  38. A,B,G,J,T राम् ↩︎

  39. M,Ma नात् ↩︎

  40. A,B,G,J,M,Ma,T ग्नि ↩︎

  41. W omits ↩︎ ↩︎

  42. A,B,T omit अब्दं ↩︎ ↩︎

  43. A,B,G,J,M,Ma,T ल्पः ↩︎

  44. W या तदा ↩︎

  45. A,B,G,J,T वा ↩︎

  46. H,V ग्निं ↩︎

  47. W पादौ च ↩︎

  48. M,Ma गतिभिर्विष्णौ ↩︎ ↩︎

  49. A,B,G,J,M,Ma,T पायुं विसर्गञ्च ↩︎ ↩︎

  50. W च स ↩︎

  51. A,B,G,J,T स्पर्शम ↩︎

  52. H,V द्धिर्बो ↩︎

  53. M,Ma सम्मता ↩︎

  54. A,B,G,J,T या । ↩︎

  55. A,B,G,J,T च ↩︎

  56. A,B,G,J,M,Ma,T रिवा ↩︎

  57. W omits अतः ↩︎

  58. A,B,T त्मशरीरात्मकत्व ↩︎ ↩︎

  59. W दग्ध ↩︎