[एकादशोऽध्यायः]
भागसूचना
मानवधर्म, वर्णधर्म और स्त्रीधर्मका निरूपण
श्लोक-१
मूलम् (वचनम्)
श्रीशुक उवाच
विश्वास-प्रस्तुतिः
श्रुत्वेहितं साधुसभासभाजितं
महत्तमाग्रण्य उरुक्रमात्मनः।
युधिष्ठिरो दैत्यपतेर्मुदा युतः
पप्रच्छ भूयस्तनयं स्वयम्भुवः॥
मूलम्
श्रुत्वेहितं साधुसभासभाजितं महत्तमाग्रण्य 1उरुक्रमात्मनः।
युधिष्ठिरो दैत्यपतेर्मुदा2 युतः पप्रच्छभूयस्तनयं स्वयम्भुवः॥ १ ॥
अनुवाद (हिन्दी)
श्रीशुकदेवजी कहते हैं—भगवन्मय प्रह्लादजीके साधुसमाजमें सम्मानित पवित्र चरित्र सुनकर संतशिरोमणि युधिष्ठिरको बड़ा आनन्द हुआ। उन्होंने नारदजीसे और भी पूछा॥ १॥
वीरराघवः
तदेवं श्रुतप्रह्लादचरि3तोऽपरं वदाम किमिति प्रश्नाय चोदितो युधिष्ठिरः वर्णाश्रमादि धर्मान् तत्र तत्र भगवद्भक्तियोगाङ्गत्वेनोक्तन् बुभुत्सुः पप्रच्छ देवर्षिमित्याह भगवान्बादरायणः श्रुत्वेति । ऊरुविक्रमे भगवति आत्मा मनो यस्य तस्य दैत्यपतेः प्रह्लादस्य साधुसभाभिः सभाजितमनुसेवितम् 4आदृतं वा4 ईहितं चरित्रं श्रुत्वा मुदाहर्षेण अन्वितो युक्तो युधिष्ठिरः पुनर्महत्तमानामग्रण्यं प्रथमतो गण्यं स्वयम्भुवो 5ब्रह्मणस्तनयं नारदं पप्रच्छ-“साधुसभासभाजितं महत्तमाग्रण्य उरुक्रमात्मनः” इति पाठान्तरम् । तत्र महत्तमानामग्रण्यः मुख्यस्य उरुक्रमे भगवति आत्मा मनो यस्य दैत्यपतेः प्रह्लादस्येहितं साधूनां सभायां सभाजितं सत्कृतं श्रुत्वेत्यर्थः ॥ १ ॥
श्लोक-२
मूलम् (वचनम्)
युधिष्ठिर उवाच
विश्वास-प्रस्तुतिः
भगवञ्छ्रोतुमिच्छामि नृणां धर्मं सनातनम्।
वर्णाश्रमाचारयुतं यत् पुमान्विन्दते परम्॥
मूलम्
भगवञ्छ्रोतुमिच्छामि नृणां धर्मं सनातनम्।
वर्णाश्रमाचारयुतं यत्पुमान्विन्दते परम्॥ २ ॥
अनुवाद (हिन्दी)
युधिष्ठिरजीने कहा—भगवन्! अब मैं वर्ण और आश्रमोंके सदाचारके साथ मनुष्योंके सनातनधर्मका श्रवण करना चाहता हूँ, क्योंकि धर्मसे ही मनुष्यको ज्ञान, भगवत्प्रेम और साक्षात् परम पुरुष भगवान्की प्राप्ति होती है॥ २॥
वीरराघवः
प्रश्नमेवाह - भगवन्निति 6त्रिभिः । हे भगवन् ! अहं वर्णानां ब्राह्मणादीनाम् आश्रमाणां ब्रह्मचर्याद्याश्रमनिष्ठानां च आचारैर्युतं नृणां सनातनमनादिपरम्परागतं 7नत्वर्वाचीनपाषण्डिकल्पितं वर्णाश्रमाचारयुतं न तूत्पथप्रतिपन्न जनाचारयुतम् । एवंविधाद्धर्मादेव परमात्मानं विन्दत इति भावः । “वर्णाश्रमाचारवता पुरुषेण परः पुमान् । विष्णुराराध्यते नाऽन्यः पन्थास्तत्तोषकारणम्” (विष्णु. पु. 3-8-9) इति स्मृतेः7 । धर्मं श्रोतुमिच्छामि तच्छ्रवणेच्छायां हेतुं वदन्विशिनष्टि-यद्यस्माद्धर्मात्परं परमपुरुषं विन्दते भक्तियोगनिष्पत्तिद्वारा प्राप्नोतीत्यर्थः ॥ २ ॥
श्लोक-३
विश्वास-प्रस्तुतिः
भवान्प्रजापतेः साक्षादात्मजः परमेष्ठिनः।
सुतानां सम्मतो ब्रह्मंस्तपोयोगसमाधिभिः॥
मूलम्
भवान् प्रजापतेस्साक्षादात्मजः परमेष्ठिनः।
सुतानां सम्मतो ब्रह्मंस्तपो8ज्ञानसमाधिभिः॥ ३ ॥
अनुवाद (हिन्दी)
आप स्वयं प्रजापति ब्रह्माजीके पुत्र हैं और नारदजी! आपकी तपस्या, योग एवं समाधिके कारण वे अपने दूसरे पुत्रोंकी अपेक्षा आपका अधिक सम्मान भी करते हैं॥ ३॥
वीरराघवः
नन्वेतद्धर्मविदो बहवस्सन्ति, अतस्तं प्रतिनाऽहं प्रष्टव्यस्तत्राह - भवानिति । त्वमिवाऽन्ये धर्मं गुह्यं न विदु:, अतस्त्वमेव ब्रूहीति भावः । तदेव व्यञ्जयं9स्तं विशिनष्टि-प्रजानां पत्युः परमेष्ठिनः साक्षाद्भवानात्मजः पुत्रः सर्वोऽपि धर्मः परमेष्ठिमुखोपदिष्ट इति ततो गृहीतधर्मरहस्यस्त्वमेव तद्वक्तुं समर्थ इति भावः । ननु परमेष्ठिनः सुता अपि बहवस्सन्तीत्य10त्राऽऽह- हे ब्रह्मन् ! सुतानां मध्ये भवान् परमेष्ठिनः सम्मतः सुतः नितरां प्रीतिविषयः सुतः, अतो धर्मरहस्यं तेन तुभ्यमुपदिष्टं भवेदिति भावः ॥ ३ ॥
श्लोक-४
विश्वास-प्रस्तुतिः
नारायणपरा विप्रा धर्मं गुह्यं परं विदुः।
करुणाः साधवः शान्तास्त्वद्विधा न तथापरे॥
अनुवाद (हिन्दी)
आपके समान नारायण-परायण, दयालु, सदाचारी और शान्त ब्राह्मण धर्मके गुप्त-से-गुप्त रहस्यको जैसा यथार्थरूपसे जानते हैं, दूसरे लोग वैसा नहीं जानते॥ ४॥
वीरराघवः
ननु उपदिष्टधर्मरहस्योऽप्यहं तद्विस्मृतवानस्मि इत्यत्राऽऽह - तपआदिभिरुपायैः नारायणपराः नारायणः पर उत्कृष्ट उपास्यो येषां तादृशा विप्रा यूयं 13परं धर्मगुह्यं विदुः भगवद्भक्त्यङ्गत्वेन वर्णाश्रमादिधर्ममनुतिष्ठतां युष्माकं न तद्विषया विस्मृतिरिति भावः । जानन्तो वयं रहस्यत्वादेव न कथयाम इति चेत् तत्राह - करुणा इति । करुणाः करुणावन्तः 14करुणावतां मम धर्मरहस्याज्ञानप्रयुक्तदुःखस्य निराचिकीर्षा युक्तैवेति भावः । 15ननु तच्छ्रवणे त्वमनधिकारीति शङ्कां निराकुर्वन्विशिनष्टि शान्ता रागादिप्रयुक्तवैषम्यरहिताः किं तवैतद्रहस्योपदेशेन मम प्रयोजनं, तत्राऽऽह15-साधवः स्वार्थनिरपेक्षपरोपकारशीलाः एवम्भूतास्त्वद्विधा एव न त्वपरे सन्तीत्यर्थः ॥ ४ ॥
श्लोक-५
मूलम् (वचनम्)
नारद उवाच
विश्वास-प्रस्तुतिः
नत्वा भगवतेऽजाय लोकानां धर्महेतवे।
वक्ष्ये सनातनं धर्मं नारायणमुखाच्छ्रुतम्॥
वीरराघवः
एवमापृष्टो धर्मान्, भगवान् नारदस्तान्विवक्षुः स्वस्य साक्षात्तदुपदेष्टारं श्रीमन्नारायणं नमस्कुर्वन् प्रतिज्ञाय तं विशिनष्टि - नत्वेति द्वाभ्याम् । अजाय 18कर्मायत्तोत्पत्तिरहिताय, भगवते नारायणाय लोकानां यो धर्मस्तस्य हेतवे नारायणाय प्रवर्तकाय नत्वा नारायणमुखाच्छुतं सनातनं धर्ममहं वक्ष्ये ॥ ५ ॥
श्लोक-६
विश्वास-प्रस्तुतिः
योऽवतीर्यात्मनोंऽशेन दाक्षायण्यां तु धर्मतः।
लोकानां स्वस्तयेऽध्यास्ते तपो बदरिकाश्रमे॥
मूलम्
योऽवतीर्यात्मनोंऽशेन दाक्षायण्यान्तु धर्मतः।
लोकानां स्वस्तयेऽध्यास्ते तपो बदरिकाश्रमे॥ ६ ॥
अनुवाद (हिन्दी)
नारदजीने कहा—युधिष्ठिर! अजन्मा भगवान् ही समस्त धर्मोंके मूल कारण हैं। वही प्रभु चराचर जगत्के कल्याणके लिये धर्म और दक्षपुत्री मूर्तिके द्वारा अपने अंशसे अवतीर्ण होकर बदरिकाश्रममें तपस्या कर रहे हैं। उन नारायणभगवान्को नमस्कार करके उन्हींके मुखसे सुने हुए सनातनधर्मका मैं वर्णन करता हूँ॥ ५-६॥
वीरराघवः
एवं प्रतिज्ञां कृत्वाऽ19थ तन्मुखादात्मनः श्रवणं सम्भावयन् तं विशिनष्टि-य इति । यो भगवानात्मनोऽशभूतेन नरेण सह दाक्षायण्यां दक्षदुहितरि मूर्तौ धर्मतो मूर्त्यां भर्तुर्धर्मादवतीर्य लोकानां स्वस्तये बदरिकाश्रमेऽद्याप्यध्यास्ते ॥ ६ ॥
श्लोक-७
विश्वास-प्रस्तुतिः
धर्ममूलं हि भगवान् सर्ववेदमयो हरिः।
स्मृतं च तद्विदां राजन्येन चात्मा प्रसीदति॥
मूलम्
धर्ममूलं हि भगवान् सर्ववेदमयो हरिः।
स्मृ20तिश्च तद्विदां राजन्येन चाऽऽत्मा प्रसीदति॥ ७ ॥
अनुवाद (हिन्दी)
युधिष्ठिर! सर्ववेदस्वरूप भगवान् श्रीहरि, उनका तत्त्व जाननेवाले महर्षियोंकी स्मृतियाँ और जिससे आत्मग्लानि न होकर आत्मप्रसादकी उपलब्धि हो, वह कर्म धर्मके मूल हैं॥ ७॥
वीरराघवः
तावद्विवक्षिते धर्मे प्रमाणमाह-धर्ममूलमिति । धर्मस्य मूलं प्रमाणं धर्मप्रमापको भगवानेवेत्यर्थः । ननु, भगवतः प्रत्यक्षादि प्रमाणान्तर्भूतत्वात्कथं तस्य धर्मप्रमापकत्वमिति शङ्कां निराकुर्वन् तं विशिनष्टि । सर्ववेदमयः ऋग्यजुस्सामादिसर्ववेदप्रचुरः न साक्षाद्धर्मे भगवान् प्रमाणमपि तु साक्षात्प्रमाणभृतसर्ववेदाविष्कारद्वारेति भावः । तदाविष्कारकत्वञ्च तस्य श्रूयते - “तस्य ह वा एतस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदः" (सुबा. 3.2-1) इत्यादि । किञ्च, हे राजन् ! तद्विदां वेदविदां स्मृतिश्च तद्धर्ममूलमित्यर्थः । तद्विदामित्यनेन स्मृतीनां स्वमूलभूतश्रुत्यनुमापनद्वारा धर्मप्रमापकत्वमिति सूचितम् । तद्विदां स्मृतस्य इत्यनेन अतद्वेदनमूलकशाक्यादिस्मृतिव्यावृत्तिः । स्मृतिश्चेति चशब्देन शिष्टाचा21रादिसङ्ग्रहः । तदुक्तं मनुना “वेदोऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम् । आचारश्चैव साधूनामात्मनस्तुष्टिरेव च” (मनु. स्मृ. 2-6) इति याज्ञवल्क्यस्य “श्रुतिस्मृतिस्सदाचारः स्वस्य च प्रियमात्मनः । सम्यक्सङ्कल्पजः कामो धर्ममूलमिदं स्मृतम्” (याज्ञ. स्मृ. 1-7) इति । धर्म विशिनष्टि । येन धर्मेण स्वाराधनभूतेनाऽऽत्मा परमात्मा प्रसीदति परमात्मप्रसादहेतुत्वात् अवश्यं तच्छ्रवर्णा22दिकं कर्तव्यमिति भावः ॥ ७ ॥
श्लोक-८
विश्वास-प्रस्तुतिः
सत्यं दया तपः शौचं तितिक्षेक्षा शमो दमः।
अहिंसा ब्रह्मचर्यं च त्यागः स्वाध्याय आर्जवम्॥
मूलम्
सत्यं दया तपश्शौचं तितिक्षे23क्षा शमो दमः।
अहिंसा ब्रह्मचर्यञ्च त्यागः स्वाध्याय आर्जवम्॥ ८ ॥
वीरराघवः
एवं धर्मप्रमाणान्यभिधाय तावन्नृणां ये साधारणाः धर्माः तानाह - सत्यमित्यादिभिः पञ्चभिः । सत्यं भूतहितत्वं, दया स्वार्थनिरपेक्षपरदुःखासहिष्णुत्वम्, तपः अनशनादिरूपम्, शौचं स्नानादिजं शुचित्वम्, तितिक्षा शीतोष्णादिद्वन्द्वसहिष्णुता, ईक्षा हेयोपादेयविवेकः, शमोऽन्तरिन्द्रियजयः, दमो बाह्येन्द्रियजयः, अहिंसा करणत्रयेणापि परपीडानिवृत्तिः, ब्रह्मचर्यमनुचितकालेषु स्त्रीसङ्गराहित्यं, त्यागो लोभराहित्यं, स्वाध्यायो यथोचितमन्त्रजपः, आर्जवं मनोवाक्कायानामैकरूप्यम् ॥ ८ ॥
श्लोक-९
विश्वास-प्रस्तुतिः
सन्तोषः समदृक् सेवा ग्राम्येहोपरमः शनैः।
नृणां विपर्ययेहेक्षा मौनमात्मविमर्शनम्॥
मूलम्
सन्तोषः समदृक् सेवा ग्राम्येहोपरमः शनैः।
नृणां विपर्ययेहेक्षा मौनमात्मविमर्शनम्॥ ९ ॥
वीरराघवः
सन्तोषो दैवाल्लब्धेनाऽलम्बुद्धिः । समदृक्सेवा, समदृशां महतां सेवा ग्राम्येहाभ्यः प्रवृत्तिकर्म 24चेष्टाभ्य उपरमो निवृत्तिः, नृणां विपर्ययेहेक्षा निष्फलचेष्टानिरूपणम् । मौनं मितभाषणम् । आत्मविमर्शनं देहविलक्षणात्मयाथात्म्यपरिशीलनम् ॥ ९ ॥
श्लोक-१०
विश्वास-प्रस्तुतिः
अन्नाद्यादेः संविभागो भूतेभ्यश्च यथार्हतः।
तेष्वात्मदेवताबुद्धिः सुतरां नृषु पाण्डव॥
मूलम्
अन्नाद्यादेः संविभागो भूतेभ्यश्च यथाऽर्हतः।
तेष्वात्मदेवताबुद्धिः सुतरां नृषु पाण्डव!॥ १० ॥
वीरराघवः
भूतेभ्यो यथायोग्यमन्नाद्यम् 25अन्नं तदादेः संविभागः विभज्य प्रदानम् । तेषु भूतेषु आत्मदेवता बुद्धिः आत्मेति च देवतेति च बुद्धिः आत्मनः स्वस्य देवता दैवतं परमात्मा तद्बुद्धिः, ब्रह्मात्मकत्वबुद्धिरिति वा । स्वात्मतुल्यता बुद्धिः देवताबुद्धिचेति वा, 26हे पाण्डव! भूतानां मध्ये नृषु 27मनुष्येषु तु सुतराम् अतीव आत्मदेवताबुद्धिः 28इत्यर्थः ॥ १० ॥
श्लोक-११
विश्वास-प्रस्तुतिः
श्रवणं कीर्तनं चास्य स्मरणं महतां गतेः।
सेवेज्यावनतिर्दास्यं सख्यमात्मसमर्पणम्॥
मूलम्
श्रवणं कीर्तनञ्चाऽस्य स्मरणं महतां गतेः।
सेवेज्याऽवनतिर्दास्यं सख्यमात्मसमर्पणम्॥ ११ ॥
श्लोक-१२
विश्वास-प्रस्तुतिः
नृणामयं परो धर्मः सर्वेषां समुदाहृतः।
त्रिंशल्लक्षणवान्राजन् सर्वात्मा येन तुष्यति॥
अनुवाद (हिन्दी)
युधिष्ठिर! धर्मके ये तीस लक्षण शास्त्रोंमें कहे गये हैं—सत्य, दया, तपस्या, शौच, तितिक्षा, उचित-अनुचितका विचार, मनका संयम, इन्द्रियोंका संयम, अहिंसा, ब्रह्मचर्य, त्याग, स्वाध्याय, सरलता, सन्तोष, समदर्शी महात्माओंकी सेवा, धीरे-धीरे सांसारिक भोगोंकी चेष्टासे निवृत्ति, मनुष्यके अभिमानपूर्ण प्रयत्नोंका फल उलटा ही होता है—ऐसा विचार, मौन, आत्मचिन्तन, प्राणियोंको अन्न आदिका यथायोग्य विभाजन, उनमें और विशेष करके मनुष्योंमें अपने आत्मा तथा इष्टदेवका भाव, संतोंके परम आश्रय भगवान् श्रीकृष्णके नाम-गुण-लीला आदिका श्रवण, कीर्तन, स्मरण, उनकी सेवा, पूजा और नमस्कार; उनके प्रति दास्य, सख्य और आत्मसमर्पण—यह तीस प्रकारका आचरण सभी मनुष्योंका परम धर्म है। इसके पालनसे सर्वात्मा भगवान् प्रसन्न होते हैं॥ ८—१२॥
वीरराघवः
महतां गतेः 30भक्तानां30 शरण्यस्य भगवतः श्रवणं गुणश्रवणं, कीर्तनं गुणप्रतिपादकनामादि कीर्तनम् स्मरणं स्वरूपगुणविभूति स्मरणम्, सेवा पादपीडनादिरूपा, इज्या अर्घ्यपाद्यादि निवेदनरूपा, अवनतिः नमस्कृतिः प्रह्वीभावो वा, सख्यं सर्वात्मना आनुकूल्यम्, आत्मसमर्पणम् स्वात्मनस्तदनुबन्धिनश्च तदायत्तसत्तादिमत्त्वानुसन्धानं चेत्ययं त्रिंशल्लक्षणवान् सर्वेषां नृणां साधारणः परः उत्कृष्टो धर्मः उदाहतः प्रदर्शितः, येन धर्मेण सर्वान्तरात्मा भगवान् तुष्यति 31प्रसन्नो भवति31 सोऽयं त्रिंशल्लक्षणवानित्यर्थः ॥ ११,१२ ॥
श्लोक-१३
विश्वास-प्रस्तुतिः
संस्कारा यदविच्छिन्नाः स द्विजोऽजो जगाद यम्।
इज्याध्ययनदानानि विहितानि द्विजन्मनाम्।
जन्मकर्मावदातानां क्रियाश्चाश्रमचोदिताः॥
मूलम्
संस्कारा 32यदविच्छिन्नाः स द्वि33जोऽजो जगाद यम्33।
इज्याऽध्ययनदानानि विहितानि द्विजन्मनाम्।
जन्मकर्मावदातानां क्रिया34श्चऽऽश्रमचोदिताः॥ १३ ॥
अनुवाद (हिन्दी)
धर्मराज! जिनके वंशमें अखण्डरूपसे संस्कार होते आये हैं और जिन्हें ब्रह्माजीने संस्कारके योग्य स्वीकार किया है, उन्हें द्विज कहते हैं। जन्म और कर्मसे शुद्ध द्विजोंके लिये यज्ञ, अध्ययन, दान और ब्रह्मचर्य आदि आश्रमोंके विशेष कर्मोंका विधान है॥ १३॥
वीरराघवः
एवं नृणां साधारणं धर्ममभिधाय अथ नरविशेषाणां ब्राह्मणादीनां वर्णानां त्रयाणामावश्यकान् धर्मान् विवक्षुस्तावत् त्रैवर्णिकसाधारण्येन द्विजत्वलक्षणमाह-संस्कारा इति । यद्यत्र संस्काराः गर्भाधानादयः षोडश अविच्छिन्नाः स द्विजः । ननु शूद्रस्यापि तदविच्छेदे द्विजत्वं स्यात्; तत्राह-अजो ब्रह्मा यमे35वं संस्कारयुक्तं जगाद । श्रुतिस्मृतिमुखेन स द्विजः । शूद्रन्तु न मन्त्रवत्संस्कारयुक्तं जगाद । न चोपनयनवन्तम् । अतो “नाऽसौ द्विजः” तथा च स्मृतिः- “विवाहमात्रं संस्कारं शूद्रोऽपि लभतां सदा । न केनचित्समसृजत् छन्दसा तं प्रजापतिः” इति । श्रुतिश्च “गायत्र्या ब्राह्मणमसृजत् त्रिष्टुभा राजन्यम्, जगत्या वैश्यम्, न केनचिच्छूद्रम्”36 इति । अतो विवाह व्यतिरिक्तसंस्कारस्याऽभावात्, उपनयनस्य निषेधात् न तस्य द्विजत्वम् इति व्याचक्षते । वस्तुतस्तु द्विजत्वादिक मदृष्टविशेषसम्बन्धरूपं न जातिरूपं, न ब्राह्मणादेः, ब्राह्मण्यादिषु उत्पत्तिमात्ररूपं केवलसंस्कारमात्रवत्वं वा, अन्यथाऽऽदिकाले ब्रह्मणो मुखबाहू37रुप्रभवानां पश्चाद्विश्वामित्रप्रभृतीनाञ्च ब्राह्मण्याद्यभावप्रसङ्गात् । सन्तान विशेषप्रसूतत्त्वादिकं च तादृगदृष्टविशेषवत्वसूचकं, सन्तानविशेषोत्पतेः तन्मूलकसंस्कारादेश्च प्रकृष्टादृष्टकार्यत्वादलौकिकप्रकर्षविशेषकारणत्वाच्च । एवञ्च ‘कार्येण कारणानुमानम्’ इति न्यायेन यत्र कार्यभूतास्संस्काराः अविच्छिन्नाः पित्रादिपरम्परयाऽविच्छिन्ना दृष्टाः स द्विज इत्यर्थः । सन्तानविशेषप्रभवत्वतन्मूलक संस्कारादिमत्त्वानुमितादृष्टसम्बन्धविशेषवान् द्विज इति यावत् । संस्काराश्च ब्राह्मणादेः ब्राह्मण्यादिषु प्रसूतस्यैव कर्तव्यत्वेन प्रजापतिना “अष्टवर्षं ब्राह्मणमुपनयीत” इत्यादि श्रुतिस्मृत्यादिमुखेन प्रगदिताः । तथा च येत्सन्तानविशेषप्रभावं संस्कारम् अजो जगाद तत्सन्तानप्रभावत्वानुमितादृष्टविशेषसम्बन्धवान् द्विज इति फलितोऽर्थः । त्रैवर्णिकानामावश्यकान् धर्मानाह- इज्येति । जन्मना कुलेन कर्मणा चाऽवदातानां शुद्धानां 38द्विजानां त्रैवर्णिकानामिज्यादीनि स्वाश्रमचोदिताः ब्रह्मचर्याद्याश्रमेषु विहिताः क्रियाः चोदितानि विहितानि, एषामकरणे प्रत्यवायः इति भावः । तुर्याश्रमिणामनग्नित्वेन इज्याया अभावात् तदभिप्रयेण स्वाश्रमचोदिताः क्रियाः इत्युक्तम् । साग्नित्वे इज्यादीनि त्रीणि स्वाश्रमचोदिताः क्रियाश्चेत्येतानि विहितानि अनग्नित्वेत्वाश्रमचोदिताः क्रिया विहिता इत्यर्थः । अनाश्रमिणां विधुरादीनान्तु पूर्वोक्तत्रिंशल्लक्षणवान् धर्म इति भावः ॥ १३ ॥
श्लोक-१४
विश्वास-प्रस्तुतिः
विप्रस्याध्ययनादीनि षडन्यस्याप्रतिग्रहः।
राज्ञो वृत्तिः प्रजागोप्तुरविप्राद् वा करादिभिः॥
मूलम्
विप्रस्या39ध्यापनादीनि 40ततोऽन्यस्याऽप्रतिग्रहः।
राज्ञो वृत्तिः प्रजागोप्तुरविप्राद्वा करादिभिः॥ १४ ॥
अनुवाद (हिन्दी)
अध्ययन, अध्यापन, दान लेना, दान देना और यज्ञ करना, यज्ञ कराना—ये छः कर्म ब्राह्मणके हैं। क्षत्रियको दान नहीं लेना चाहिये। प्रजाकी रक्षा करनेवाले क्षत्रियका जीवन-निर्वाह ब्राह्मणके सिवा और सबसे यथायोग्य कर तथा दण्ड (जुर्माना) आदिके द्वारा होता है॥ १४॥
वीरराघवः
एवं त्रैवर्णिकानां आवश्यकान् धर्मानभिधाय अथ तत्र विप्रस्य जीविकाधर्मानाह - विप्रस्याध्यापनादीनीति । आदिशब्देन याजनप्रतिग्रहौ विवक्षितौ । याजनाध्यापनप्रतिग्रहाः जीविकाधर्माः इज्याध्ययनदानानि त्वावश्यकाधर्मा इत्यर्थः । एवं सम्भूय विप्रस्य षट् धर्माः । तथा चोक्तं मनुना- “षण्णान्तु कर्मणामस्य त्रीणि कर्माणि जीविका । याजनाध्यापने चैव विशुद्धाच्च प्रतिग्रहः” (मनु. स्मृ. 10-76) इति । अथ क्षत्रियस्य जीविकाधर्मानाह अन्यस्याऽप्रतिग्रह इति । अत्र अन्यस्य क्षत्रियस्य अप्रतिग्रह इति । प्रतिग्रहातिरिक्तं याजनमध्यापनञ्च अनुजानाति । वक्ष्यति चाऽनन्तरमेव ‘ऋते राजन्य’मिति । श्रूयते च अश्वपति कैकयप्रभृतीनां क्षत्रियाणामुपदेष्टृत्वादि । प्रजापालनेऽधिकृतस्य क्षत्रियस्य वृत्त्यन्तरमाह - राज्ञ इतीति व्याचक्षते । तच्चिन्त्यम् “प्रभुत्वादार्त्विज्यं सर्ववर्णानां स्यात्" इति द्वादशाध्यायान्त्याधिकरणे क्षत्रियादेर्याजनाध्यापनयोः प्रतिषिद्धत्वात्, तत्र हि दर्शपौर्णमासज्योतिष्टोमादिषु किं त्रिभिरपि द्विजातिभिरार्त्विज्यं कारयितव्यमुत ब्राह्मणैरेवेति संशय्य, तत्र त्रयोऽप्यार्त्त्विज्यमर्हन्ति विद्वत्त्वाद्वरणं पुनः पुरुषार्थमतः कर्मवैगुण्यं नास्ति । किञ्च याजनाध्यापन प्रतिग्रहाः ब्राह्मणस्यैव वृत्त्युपाया इति नियमः, पुरुषार्थतया स्मर्यते न क्रत्वर्थतया । तेन क्षत्रियवैश्यो आर्त्त्विज्यं कुर्वन्तौ नियमातिक्रमात् कामं स्वधर्मात्प्रत्त्यवेयातां न क्रतोः कदाचित् गुणहानिः । तस्मात् त्रिभिरप्यार्त्त्विज्यं कारयितव्यमिति पूर्वपक्षं प्रापय्य “द्विजोत्तमानामार्त्त्विज्यं न तु क्षत्रियवैश्ययोः । ब्राह्मणार्त्त्विज्यनियमः क्रत्वर्थेनापि हि स्मृतः” ॥ यज्ञं व्याख्यास्याम इत्युपक्रम्य “ब्राह्मणानामार्त्विज्यम्” इति यज्ञसूत्रकाराः क्रत्वर्थेन स्मरन्तीति स्पष्टमेतत् । तथा च भगवद्रामायणेऽपि - “क्षत्रियो याजको यस्य चण्डालस्य विशेषतः । कथं सदसि भोक्तारो हविस्तस्य सुरर्षयः” (रामा. 1-59-13,14) इति । सुरा देवता ऋषयश्च ऋत्विग्भूता इति देवताहविर्भागनिराकरणात् क्रतुवैगुण्यमेव दर्शितम् । “राज याजक याज्यस्य विनश्यति यथा हविः” इति ब्राह्मणार्त्त्विज्ये हविर्विनाशः स्मृतः, लिङ्गानि च दर्शितानि “ब्राह्मणानामिदं हविः” इत्येवमादीनि । तस्मात् ब्राह्मणानामेव आर्त्त्विज्यं सिद्धमिति राद्धान्तितम् । तस्मात् न राजन्यवैश्ययोः याजनाध्यापनाधिकारः अश्वपतिकैकयप्रभृतीनां यद्वेदान्तेषु उपदेष्टृत्वमवगतम् न तदध्यापनरूपं, किन्तु सूतादीनामिव ब्रह्मस्वरूपतदुपासनाद्युपदेष्ट्रुत्वरूपम्, अध्यापनं नाम स्वोच्चारणानुच्चारणाय शिष्योद्देश्येन भागद्वयात्मकवेदराशेः साङ्गस्य स्वरवर्णाद्यनपभ्रंशपूर्वकमुच्चारणम् । तस्मात् अप्रतिग्रह इत्यस्यायमर्थः । प्रतिग्रह ग्रहणं याजनाध्यापनयोरप्युपलक्षणम् । ये ब्राह्मणानां याजनाध्यापनप्रतिग्रहरूपा वार्तारूपा धर्माः न ते राजन्यादेर्जीविकाधर्मा इति । का तर्हि राजन्यादेः वृत्तिरित्याह - राज्ञ इति । तत्र राजन्यो द्विविधः प्रजापालनाधिकृतः, तदनधिकृतश्चेति, तावदाद्यस्य वृत्तिरनेनोच्यते । द्वितीयस्य तु ऋतानृताभ्यामित्यनेन वक्ष्यति । प्रजागोप्तुः प्रजापालनाधिकृतस्य राज्ञो राजन्यस्य अविप्रात् विप्रेतरात् करादिभिः वृत्तिः । स्वामिग्राह्यभागः करः तदादिभिः आदिशब्देन दण्डशुल्कादिकं विवक्षितम् । वाशब्देन प्रजापालनाधिकृतस्य तु वृत्त्यन्तरमेवेति सूचयति ॥ १४ ॥
श्लोक-१५
विश्वास-प्रस्तुतिः
वैश्यस्तु वार्तावृत्तिश्च नित्यं ब्रह्मकुलानुगः।
शूद्रस्य द्विजशुश्रूषा वृत्तिश्च स्वामिनो भवेत्॥
मूलम्
वैश्यस्तु वार्तावृत्तिः41स्यात् नित्यं ब्रह्मकुलानुगः।
शूद्रस्य द्विजशुश्रूषा वृत्तिश्च स्वामिनो भवेत्॥ १५ ॥
अनुवाद (हिन्दी)
वैश्यको सर्वदा ब्राह्मणवंशका अनुयायी रहकर गोरक्षा, कृषि एवं व्यापारके द्वारा अपनी जीविका चलानी चाहिये। शूद्रका धर्म है द्विजातियोंकी सेवा। उसकी जीविकाका निर्वाह उसका स्वामी करता है॥ १५॥
वीरराघवः
अथ वैश्यस्याह- वैश्य इति । नित्यं ब्रह्मकुलं विप्रकुलमनुगच्छत्यनुवर्तते इति अनुगः तादृशस्सन् वार्ताकृषिवाणिज्यादिलक्षणा वृत्तिर्यस्य स भवेत् । अथ शूद्रस्य आवश्यकं धर्मं वृत्तिरूपञ्चाह - शूद्रस्येति । तत्र द्विजशुश्रूषा शूद्रस्यावश्यको धर्मः स्वामिनो वृत्तिश्च भवेत् । स्वामिदत्तेन अन्नादिना जीवनं भवेदित्यर्थः ॥ १५ ॥
श्लोक-१६
विश्वास-प्रस्तुतिः
वार्ता विचित्रा शालीनयायावरशिलोञ्छनम्।
विप्रवृत्तिश्चतुर्धेयं श्रेयसी चोत्तरोत्तरा॥
मूलम्
वार्ता विचि42त्रा शाली43नं याया44वर्यं शिलोञ्छनम्।
विप्रवृत्तिश्चतुर्धेयं श्रेयसी चोत्तरोत्तरा॥ १६ ॥
अनुवाद (हिन्दी)
ब्राह्मणके जीवन-निर्वाहके साधन चार प्रकारके हैं—वार्ता१, शालीन२, यायावर३ और शिलोञ्छन४। इनमेंसे पीछे-पीछेकी वृत्तियाँ अपेक्षाकृत श्रेष्ठ हैं॥ १६॥
पादटिप्पनी
१. यज्ञाध्ययनादि कराकर धन लेना। २. बिना माँगे जो कुछ मिल जाय, उसीमें निर्वाह करना। ३. नित्यप्रति धान्यादि माँग लाना। ४. किसानके खेत काटकर अन्न घरको ले जानेपर पृथ्वीपर जो कण पड़े रह जाते हैं, उन्हें ‘शिल’ तथा बाजारमें पड़े हुए अन्नके दानोंको ‘उञ्छ’ कहते हैं। उन शिल और उञ्छोंको बीनकर अपना निर्वाह करना ‘शिलोञ्छन’ वृत्ति है।
वीरराघवः
एवं चतुर्णा वर्णानामावश्यकान् जीविकारूपांश्च धर्मानाभिधायाऽथ तेषामेव उक्तवृत्त्यलाभे वृत्त्यन्तराणि विवक्षुः तावद्ब्राह्मणस्य मुख्यानुकल्पभेदेन वृत्त्यन्तराण्याह-वार्तेति । विचित्रा वार्ता कृषिक्षादि रूपा, शालीनं धार्ष्ट्यं विनैव, प्राप्तमयाचितमित्यर्थः “शालीन कौपीने अधृष्टाकार्ययोः” (अष्टा. 5-2-20) इति निपातितः शालीनशब्दः इदं द्वितीयं यायावर्यं यायावरः प्रवासी तस्य कर्म यायावर्यं प्रवासादिना याच्ञापूर्वकमर्जनम् । तृतीयं शिलोज्छनम् । “उञ्छो धान्यशः आदानं, कणिशाद्यर्जनं शिलम्” (वैज को. 3-8-2) तदुभयमेकीकृत्य चतुर्धेयं विप्रस्य वृत्तिः इत्युक्तम् । आसां चतसृणां वृत्तीनां पूर्वपूर्वोपेक्षया उत्तरोत्तरा श्रेयसी, ज्यायसी उत्तमेति यावत् । यद्यपि पूर्वं “विप्रस्याध्ययनादीनि षडन्यस्याऽप्रतिग्रहः” इति विप्रस्य प्रतिग्रहवृत्तेः कथितत्त्वात्, अत्र शालीनं यायावर्यमिति च न कथनीयम् तथाऽपि स एव प्रतिग्रहो याच्ञापूर्वकस्तदपूर्वकश्चेति द्विविध इति वक्तुं शालीनं यायावर्यञ्चोक्तम् ॥ १६ ॥
श्लोक-१७
विश्वास-प्रस्तुतिः
जघन्यो नोत्तमां वृत्तिमनापदि भजेन्नरः।
ऋते राजन्यमापत्सु सर्वेषामपि सर्वशः॥
मूलम्
जघन्यो नोत्तमां वृत्तिमनापदि भजेन्नरः।
ऋते राजन्यमापत्सु सर्वेषामपि सर्वशः॥ १७ ॥
अनुवाद (हिन्दी)
निम्नवर्णका पुरुष बिना आपत्तिकालके उत्तम वर्णकी वृत्तियोंका अवलम्बन न करे। क्षत्रिय दान लेना छोड़कर ब्राह्मणकी शेष पाँचों वृत्तियोंका अवलम्बन ले सकता है। आपत्तिकालमें सभी सब वृत्तियोंको स्वीकार कर सकते हैं॥ १७॥
वीरराघवः
एवं विप्रस्य याजनाद्यलाभे वार्तादिरूपा वृत्तिः तत्रापि उत्तरोत्तरोत्तमत्वञ्चोक्तम् । अर्थात्तरोत्तरवर्णस्य स्वस्ववृत्त्यलाभरूपा यदि पूर्वपूर्ववर्णस्य चोत्तरोत्तरस्य वा वृत्त्याश्रयं वक्तुं तावदनापदि तदाश्रयणं निषेधति- जघन्य इति । जघन्यवर्णो नरः अनापदि स्वस्ववृत्त्यलाभरूपाऽऽपदभावे उत्तमां पूर्वपूर्ववर्णसम्बन्धिनी वृत्तिं न भजेन्नाऽश्रयेत् । आपत्सु तु राजन्यं विना राजन्यव्यतिरिक्तानां सर्वेषामपि यथालाभं सर्वा अपि वृत्तयः आश्रयणीया भवन्ति । सर्वेषां सर्वश इत्येतावत्युक्ते राजन्यस्य प्रजापालनप्रयुक्तकरादानरूपस्ववृत्त्यलाभरूपापदि यजनाध्यापन प्रतिग्रहादिरूप पूर्ववर्णवृत्त्याश्रयणं वार्ता शुश्रूषयोरुत्तरवर्णवृत्त्यांश्चाऽऽश्रयणं प्रसक्तम् ऋतेराजन्यमिति निषिध्यते ॥ १७ ॥
श्लोक-१८
विश्वास-प्रस्तुतिः
ऋतामृताभ्यां जीवेत मृतेन प्रमृतेन वा।
सत्यानृताभ्यां जीवेत न श्ववृत्त्या कथञ्चन॥
अनुवाद (हिन्दी)
ऋत, अमृत, मृत, प्रमृत और सत्यानृत—इनमेंसे किसी भी वृत्तिका आश्रय ले, परन्तु श्वानवृत्तिका अवलम्बन कभी न करे॥ १८॥
वीरराघवः
अथ विप्रराजन्ययोः स्वस्ववृत्त्यलाभरूपाऽऽपद्युपादेयां वृत्तिं निष्कृष्य दर्शयन्नुत्तरोत्तरवर्णसेवारूपां वृत्तिं प्रतिषेधति ऋतामृताभ्यामिति । ऋताद्यन्यतमेन जीवेत श्ववृत्त्या तु कथञ्चन न जीवेत । सर्वथा श्ववृत्तिं नाऽऽश्रयेदित्यर्थः ॥ १८ ॥
श्लोक-१९
विश्वास-प्रस्तुतिः
ऋतमुञ्छशिलं प्रोक्तममृतं यदयाचितम्।
मृतं तु नित्ययाच्ञा स्यात् प्रमृतं कर्षणं स्मृतम्॥
मूलम्
ऋतमुञ्छशिलं प्रोक्तममृतं यदयाचितम्।
मृतन्तु नित्ययाच्ञा स्यात्प्रमृतं कर्षणं स्मृतम्॥ १९ ॥
अनुवाद (हिन्दी)
बाजारमें पड़े हुए अन्न (उञ्छ) तथा खेतोंमें पड़े हुए अन्न (शिल)-को बीनकर ‘शिलोञ्छ’ वृत्तिसे जीविका-निर्वाह करना ‘ऋत’ है। बिना माँगे जो कुछ मिल जाय, उसी अयाचित (शालीन) वृत्तिके द्वारा जीवन-निर्वाह करना ‘अमृत’ है। नित्य माँगकर लाना अर्थात् ‘यायावर’ वृत्तिके द्वारा जीवनयापन करना ‘मृत’ है। कृषि आदिके द्वारा ‘वार्ता’ वृत्तिसे जीवन-निर्वाह करना ‘प्रमृत’ है॥ १९॥
वीरराघवः
ऋतादिपदार्थानाह - ऋतमित्यादिना सार्धेन । स्पष्टोऽर्थः ॥ १९ ॥
श्लोक-२०
विश्वास-प्रस्तुतिः
सत्यानृतं तु वाणिज्यं श्ववृत्तिर्नीचसेवनम्।
वर्जयेत् तां सदा विप्रो राजन्यश्च जुगुप्सिताम्।
सर्ववेदमयो विप्रः सर्वदेवमयो नृपः॥
मूलम्
सत्यानृतन्तु वाणिज्यं श्ववृत्तिर्नीचसेवनम्।
वर्जयेत्तां सदा विप्रो राजन्यश्च जुगुप्सिताम्।
सर्ववेदमयो विप्रः सर्वदेवमयो नृपः॥ २० ॥
अनुवाद (हिन्दी)
वाणिज्य ‘सत्यानृत’ है और निम्नवर्णकी सेवा करना ‘श्वानवृत्ति’ है। ब्राह्मण और क्षत्रियको इस अन्तिम निन्दित वृत्तिका कभी आश्रय नहीं लेना चाहिये। क्योंकि ब्राह्मण सर्ववेदमय और क्षत्रिय (राजा) सर्वदेवमय है॥ २०॥
वीरराघवः
न कथञ्चनेति व्याचष्टे - वर्जयेदिति । विप्रो राजन्यश्च तां नीचसेवां स्वोत्तरवर्णसेवां जुगुप्सितां निन्दितां परिवर्जयेत् । जुगुप्सितत्त्वमेव वदन् विप्रराजन्यौ विशिनष्टि - सर्ववेदमय इति । प्राचुर्ये मयट्, पूज्ययोः पूजकसेवा निन्दितेति भावः ॥ २० ॥
श्लोक-२१
विश्वास-प्रस्तुतिः
शमो दमस्तपः शौचं संतोषः क्षान्तिरार्जवम्।
ज्ञानं दयाच्युतात्मत्वं सत्यं च ब्रह्मलक्षणम्॥
मूलम्
शमो दमस्तपश्शौचं संतोषः क्षान्तिरार्जवम्।
46ज्ञानं दयाऽच्युतात्मत्वं सत्यञ्च ब्रह्मलक्षणम्॥ २१ ॥
अनुवाद (हिन्दी)
शम, दम, तप, शौच, सन्तोष, क्षमा, सरलता, ज्ञान, दया, भगवत्परायणता और सत्य—ये ब्राह्मणके लक्षण हैं॥ २१॥
वीरराघवः
अथ वर्णानामभिव्यञ्जकान् धर्मानाह-शम इति चतुर्भिः । शमादिपदानामर्थास्त्रिंशल्लक्षणधर्मा व्याख्याया मुक्ताः । तत्र शान्तिरक्रोधः, अच्युतात्मत्वमच्युतप्रवणचित्तत्त्वम् । शमादिकं ब्रह्मलक्षणम् ब्राह्मणकुलाभिव्यञ्जकमित्यर्थः ॥ २१ ॥
श्लोक-२२
विश्वास-प्रस्तुतिः
शौर्यं वीर्यं धृतिस्तेजस्त्याग आत्मजयः क्षमा।
ब्रह्मण्यता प्रसादश्च रक्षा च क्षत्रलक्षणम्॥
मूलम्
शौर्यं वीर्यं धृति47स्तेजस्त्याग आत्मजयः क्षमा।
ब्रह्मण्यता प्रसादश्च रक्षा च क्षत्रलक्षणम्॥ २२ ॥
अनुवाद (हिन्दी)
युद्धमें उत्साह, वीरता, धीरता, तेजस्विता, त्याग, मनोजय, क्षमा, ब्राह्मणोंके प्रति भक्ति, अनुग्रह और प्रजाकी रक्षा करना—ये क्षत्रियके लक्षण हैं॥ २२॥
वीरराघवः
शौर्यमिति । शौर्यादिक्षत्रलक्षणं क्षत्रियत्वाभिव्यञ्जकम् । तत्र शौर्यं स्वगृहे इव युद्धे प्रवेशसामर्थ्यम् । वीर्यं परैरनभिभाव्यत्वम् । धृतिः धैर्यमापद्यदुःखित्वम् । तेजः पराभि48भवनसामर्थ्यम् । त्यागः लोभराहित्यं दानशीलता, आत्मजयो देहजयः देहधर्मैः अनभिभाव्यत्वम् क्षमा सहिष्णुता । ब्रह्मण्यता ब्राह्मणकुलानुवृत्तिः । प्रसादोऽनुग्रहः रक्षा प्रजापालनम् ॥ २२ ॥
श्लोक-२३
विश्वास-प्रस्तुतिः
देवगुर्वच्युते भक्तिस्त्रिवर्गपरिपोषणम्।
आस्तिक्यमुद्यमो नित्यं नैपुणं वैश्यलक्षणम्॥
मूलम्
देव49गुर्वार्यगोभक्ति स्त्रि50वर्गपरि51तोषणम्।
आस्तिक्यमुद्यमो नित्यं नै52पुण्यं वैश्यलक्षणम्॥ २३ ॥
अनुवाद (हिन्दी)
देवता, गुरु और भगवान्के प्रति भक्ति, अर्थ, धर्म और काम—इन तीनों पुरुषार्थोंकी रक्षा करना; आस्तिकता, उद्योगशीलता और व्यावहारिक निपुणता—ये वैश्यके लक्षण हैं॥ २३॥
वीरराघवः
एवं देवादिभक्त्यादिकं वैश्यलक्षणम् । तत्र देवगुर्वार्यगोभक्तिः देवाश्च गुरवश्च आर्या ज्ञानवृद्धाः गावश्च एषां भक्तिः त्रिवर्गेण धर्मादिपुरुषार्थत्रयेण परितोषणं परितुष्टिः, अस्ति परलोक इति मतिः यस्य सः आस्तिकः, तस्य भावः आस्तिक्यम्, नित्यमुद्यमः अर्थार्जने प्रयत्नः तत्र नैपुण्यम् ॥ २३ ॥
श्लोक-२४
विश्वास-प्रस्तुतिः
शूद्रस्य संनतिः शौचं सेवा स्वामिन्यमायया।
अमन्त्रयज्ञो ह्यस्तेयं सत्यं गोविप्ररक्षणम्॥
मूलम्
शूद्रस्य 53सन्नतिश्शौचं सेवा स्वामिन्यमायया।
अमन्त्रयज्ञो ह्यस्तेयं 54सत्यं गोविप्र54रक्षणम्॥ २४ ॥
अनुवाद (हिन्दी)
उच्च वर्णोंके सामने विनम्र रहना, पवित्रता, स्वामीकी निष्कपट सेवा, वैदिक मन्त्रोंसे रहित यज्ञ, चोरी न करना, सत्य तथा गौ, ब्राह्मणोंकी रक्षा करना—ये शूद्रके लक्षण हैं॥ २४॥
वीरराघवः
शूद्रस्य सन्नत्यादिकं लक्षणमित्यनुषङ्गः । सन्नतिः पूर्ववर्णविषये नम्रता, शौचं स्नानादिजम्, स्वस्वामिन्यमायया निष्कपटभावेन सेवा | अमन्त्रयज्ञः नमस्कारेणैव च यज्ञानुष्ठानम् । तथा च याज्ञवल्क्यः- “नमस्कारेण मन्त्रेण पञ्च यज्ञान्न हापयेत्” (याज्ञ. स्मृ. 1-121) इति । अस्तेयमचौर्यम्, सत्यमनृतावदनम् । गवां विप्राणाञ्च रक्षणम् ॥ २४ ॥
श्लोक-२५
विश्वास-प्रस्तुतिः
स्त्रीणां च पतिदेवानां तच्छुश्रूषानुकूलता।
तद्बन्धुष्वनुवृत्तिश्च नित्यं तद्व्रतधारणम्॥
मूलम्
स्त्रीणा55न्तु पतिदेवानां तच्छुश्रूषाऽनुकूलता।
तद्बन्धुष्वनुवृत्तिश्च नित्यं तद्व्रतधारणम्॥ २५ ॥
अनुवाद (हिन्दी)
पतिकी सेवा करना, उसके अनुकूल रहना, पतिके सम्बन्धियोंको प्रसन्न रखना और सर्वदा पतिके नियमोंकी रक्षा करना—ये पतिको ही ईश्वर माननेवाली पतिव्रता स्त्रियोंके धर्म हैं॥ २५॥
वीरराघवः
अथ स्त्रीणां धर्मानाह-स्त्रीणामिति । पतिरेव देवो दैवतं यासां तासां स्त्रीणाम् । तस्य पत्युः शुश्रूषा परिचर्या तदनुकूलता च तस्य पत्युर्बन्धुषु पितृभ्रात्रादिषु अनुवृत्तिः । तस्य तु यद्व्रतं पत्यर्थं यो नियमस्तस्य धारणमेतच्चतुष्टयं पतिदेवतानां 56पतिव्रतानां56 लक्षणं धर्मश्चेत्यर्थः ॥ २५ ॥
श्लोक-२६
विश्वास-प्रस्तुतिः
संमार्जनोपलेपाभ्यां गृहमण्डलवर्तनैः।
स्वयं च मण्डिता नित्यं परिमृष्टपरिच्छदा॥
मूलम्
सम्मार्जनोपलेपाभ्यां गृहमण्ड57नवर्तनैः।
स्वयञ्च मण्डिता नित्यं परिमृष्टपरिच्छदा॥ २६ ॥
अनुवाद (हिन्दी)
साध्वी स्त्रीको चाहिये कि झाड़ने-बुहारने, लीपने तथा चौक पूरने आदिसे घरको और मनोहर वस्त्राभूषणोंसे अपने शरीरको अलंकृत रखे। सामग्रियोंको साफ-सुथरी रखे॥ २६॥
वीरराघवः
किञ्च सम्मार्जनोपलेपाभ्याम् गृहस्येति शेषः । गृहसम्मार्जनादिभिः पतिं भजेदित्युत्तरेणान्वयः । सेकः जलविक्षेपः, मण्डनं पिष्टैरलङ्कारः, वर्तनं नित्यं स्वगृह एवाऽवस्थानम् - एतैः कथम्भूता ? स्वयं मण्डिता अलङ्कृता परिमृष्टाः विशोधिताः परिच्छदाः पात्र58वस्त्रभूषणादयो यया तादृशी ॥ २६ ॥
श्लोक-२७
विश्वास-प्रस्तुतिः
कामैरुच्चावचैः साध्वी प्रश्रयेण दमेन च।
वाक्यैः सत्यैः प्रियैः प्रेम्णा काले काले भजेत् पतिम्॥
मूलम्
कामैरुच्चावचैस्साध्वी प्रश्रयेण दमेन च।
वाक्यैस्सत्यैः प्रियैः प्रेम्णा काले काले भजेत्पतिम्॥ २७ ॥
अनुवाद (हिन्दी)
अपने पतिदेवकी छोटी-बड़ी इच्छाओंको समयके अनुसार पूर्ण करे। विनय, इन्द्रिय-संयम, सत्य एवं प्रिय वचनोंसे प्रेमपूर्वक पतिदेवकी सेवा करे॥ २७॥
वीरराघवः
उच्चावचैर्नानाविधैः पत्युरपेक्षितैः कामैः प्रश्रयेण विनयेन दमेन उपशान्त्या सत्यैः प्रियैश्च वाक्यैः प्रेम्णा च काले काले उचितकालेषु सन्तुष्टा यथालाभेन तावन्मात्रभोगेऽप्यलोलुपा, दक्षाऽनलसा, धर्मज्ञा भर्तृशुश्रूषणमेव परं धर्मं जानातीति, प्रिया तथोक्ता सत्या च वाग्यस्याः सा वाक्यैः सत्यैरिति पतिविषये सत्यवाक्यमुक्तम् । प्रियसत्यवागित्यनेन तदितरविषयेऽपीत्यतो न पौनरुक्त्यम् ॥ २७ ॥
श्लोक-२८
विश्वास-प्रस्तुतिः
संतुष्टालोलुपा दक्षा धर्मज्ञा प्रियसत्यवाक्।
अप्रमत्ता शुचिः स्निग्धा पतिं त्वपतितं भजेत्॥
मूलम्
सन्तुष्टाऽलोलुपा दक्षा धर्मज्ञा प्रियसत्यवाक्।
अप्रमत्ता शुचिः स्निग्धा पतिन्त्वपतितं भजेत्॥ २८ ॥
अनुवाद (हिन्दी)
जो कुछ मिल जाय, उसीमें सन्तुष्ट रहे; किसी भी वस्तुके लिये ललचावे नहीं। सभी कार्योंमें चतुर एवं धर्मज्ञ हो। सत्य और प्रिय बोले। अपने कर्तव्यमें सावधान रहे। पवित्रता और प्रेमसे परिपूर्ण रहकर, यदि पति पतित न हो तो, उसका सहवास करे॥ २८॥
वीरराघवः
सर्वत्राऽप्यप्रमत्ता अवहिता, शुचिः परिशुद्धा स्निग्धा अनुरक्ता पतिं भजेत् । अपतितं महापातकरहितं पतिं भजेत् । तुशब्देन पतितं न भजेदिति सूचितम् । यदाऽऽह याज्ञवल्क्यः “आशुद्धेः सम्प्रतीक्ष्यो हि महापातकदूषितः” (याज्ञ. स्मृ. 1-77) इति ॥ २८ ॥
श्लोक-२९
विश्वास-प्रस्तुतिः
या पतिं हरिभावेन भजेच्छ्रीरिव तत्परा।
हर्यात्मना हरेर्लोके पत्या श्रीरिव मोदते॥
मूलम्
या पतिं हरिभावेन भजेच्छ्रीरिव तत्परा।
हर्यात्मना हरेर्लोके पत्या श्रीरिव मोदते॥ २९ ॥
अनुवाद (हिन्दी)
जो लक्ष्मीजीके समान पतिपरायणा होकर अपने पतिकी उसे साक्षात् भगवान्का स्वरूप समझकर सेवा करती है, उसके पतिदेव वैकुण्ठलोकमें भगवत्सारूप्यको प्राप्त होते हैं और वह लक्ष्मीजीके समान उनके साथ आनन्दित होती है॥ २९॥
वीरराघवः
एवंविधस्य भर्तृभजनस्य फलमाह येति । श्रीर्लक्ष्मीः हरिमिव या स्त्री हरिभावेन तत्परा, स पतिरेव परो दैवतं यस्याः सा पतिं भजेत्, सा हर्यात्मना हरिरूपेण हरिसमानरूपेण पत्या सह श्रीर्हरिणा सहैव हरेर्लोके मोदते शनैः पत्या सह मुक्ता भवेदित्यर्थः ॥ २९ ॥
श्लोक-३०
विश्वास-प्रस्तुतिः
वृत्तिः सङ्करजातीनां तत्तत्कुलकृता भवेत्।
अचौराणामपापानामन्त्यजान्तेऽवसायिनाम्॥
अनुवाद (हिन्दी)
युधिष्ठिर! जो चोरी तथा अन्यान्य पाप-कर्म नहीं करते—उन अन्त्यज तथा चाण्डाल आदि अन्तेवसायी वर्णसंकर जातियोंकी वृत्तियाँ वे ही हैं, जो कुल-परम्परासे उनके यहाँ चली आयी हैं॥ ३०॥
वीरराघवः
अथ सङ्करजातीनां वृत्तिमाह-वृत्तिरिति । सङ्करजातयः प्रतिलोमजाः अनुलोमजाश्चेति द्विविधाः । तत्रोत्तरवर्णात् पूर्ववर्णायां स्त्रियां जाताः प्रतिलोमजाः । पूर्ववर्णा दुत्तरवर्णायां जातास्त्वनुलोमजाः । तेषां तत्कुलकृता कुलपरम्परा प्राप्तैव वृत्तिर्भवेदिति, कुलक्रमागतमपि चौर्यहिंसादिकं निषेधन् तान्विशिनष्टि-अचोराणामपापानाञ्चेति । तत्र प्रदर्शनार्थं काश्चित्प्रतिलोमजविशेषानाह - अन्त्यजाश्च अन्तेऽवसायिनश्च तेषां सङ्करजातीनामित्यन्वयः । तत्र “रजकश्चर्मकारश्च नटो बुरुड एव च । कैवर्त मेदभिल्लाश्च सप्तैते अन्त्यजातयः” अन्तेऽवसायिनस्तु चण्डाल पुल्कसमातङ्गादयः, तेषां परम्पराप्राप्तैव वस्त्रनिर्णेजनादि वृत्तिरित्यर्थः ॥ ३० ॥
श्लोक-३१
विश्वास-प्रस्तुतिः
प्रायः स्वभावविहितो नृणां धर्मो युगे युगे।
वेददृग्भिः स्मृतो राजन् प्रेत्य चेह च शर्मकृत्॥
मूलम्
प्रायः स्वभावविहितो नृणां धर्मो युगे युगे।
वेददृग्भिः स्मृतो राजन् प्रेत्य चेह च शर्मकृत्॥ ३१ ॥
अनुवाद (हिन्दी)
वेददर्शी ऋषि-मुनियोंने युग-युगमें प्रायः मनुष्योंके स्वभावके अनुसार धर्मकी व्यवस्था की है। वही धर्म उनके लिये इस लोक और परलोकमें कल्याणकारी है॥ ३१॥
वीरराघवः
“श्रेयान् स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्” (भ.गी. 18-47) इति भगवदुक्तमर्थमाह-प्राय इति द्वाभ्याम् । हे राजन् ! नृणां ब्रह्मक्षत्रादिरूपेणावस्थितानां सर्वेषामपि प्रायशः स्वभावविहितः सात्त्विकादि स्वभावानुसारेण विहितः । यद्वा भावः प्रकारः वर्णाश्रमादिरूपः स्वस्ववर्णाश्रमोद्देशेन विहित इत्यर्थः । इज्याध्ययनादिरूपः स एव धर्म इहलोके प्रेत्याऽमुत्र च लोके शर्मकृत् सुखकृत् वेददृग्भिः मन्वादिभिः स्मृतः 61कथितः ॥ ३१ ॥
श्लोक-३२
विश्वास-प्रस्तुतिः
वृत्त्या स्वभावकृतया वर्तमानः स्वकर्मकृत्।
हित्वा स्वभावजं कर्म शनैर्निर्गुणतामियात्॥
मूलम्
वृत्त्या स्वभावकृतया वर्तमानः स्वकर्म62कृत्।
हित्वा स्वभावजं कर्म शनैर्निर्गुणतामियात्॥ ३२ ॥
अनुवाद (हिन्दी)
जो स्वाभाविक वृत्तिका आश्रय लेकर अपने स्वधर्मका पालन करता है, वह धीरे-धीरे उन स्वाभाविक कर्मोंसे भी ऊपर उठ जाता है और गुणातीत हो जाता है॥ ३२॥
वीरराघवः
एवं वृत्तिरपि प्रातिस्विकी ज्यायसीति वदन् एवं वर्तमानस्य फलमाह-वृत्त्येति । स्वभावकृतया वर्णाश्रमादि 63प्रयुक्तया63 वृत्त्या अध्यापनादिरूपया जीविकया स्वकर्मणि इज्यादिरूपे वर्तमानः स्वस्वकर्माऽनुतिष्ठन् स्वभावजं सात्त्विकादि स्वभावप्रयुक्तं प्राकृतसत्त्वादि गुणवश्यताप्रयुक्तं बन्धकं, पुण्यपापात्मकं कर्म हित्वा । “धर्मेण पापमपनुदति” (मना. उ. 17-6) “अविद्यया मृत्युं तीर्त्त्वा (ईश. उ. 11) इत्यदिश्रुत्यर्थोऽत्र अभिसंहितः । शनैः निर्गुणतां सत्त्वादिगुणराहित्यं प्रकृतिसम्बन्धराहित्यं मुक्तिमिति यावत् । इयात् प्राप्नुयादिति । शनैरित्यस्य भगवदुपासननिर्वृतिद्वारा प्राप्नुयादित्याशयः ॥ ३२ ॥
श्लोक-३३
विश्वास-प्रस्तुतिः
उप्यमानं मुहुः क्षेत्रं स्वयं निर्वीर्यतामियात्।
न कल्पते पुनः सूत्यै उप्तं बीजं च नश्यति॥
मूलम्
उप्यमानं मुहुः क्षेत्रं स्वयं निर्वीर्यतामियात्।
न कल्पते पुनस्सू64त्या उप्तं बीजञ्च नश्यति॥ ३३ ॥
वीरराघवः
ननु स्वभावकृतया वृत्त्या स्वकर्मणि वर्तमानस्य पुनः कामक्रोधादि वर्धकबन्धककर्मसम्भावनया कथं नैर्गुण्यप्राप्तिरिति शङ्कां निराकर्तुं गृहस्थस्य ज्ञानवैराग्यवतः शास्त्राऽविरुद्धान्नपानादिसेवया रागवर्धकत्वाभावे तावद्दृष्टान्तमाह-उप्यमानमिति । यथा मुहुर्मुहुरुप्यमानं क्षेत्रं निर्वीर्यतामसारतां प्राप्नुयात्, पुनस्सूत्यै सस्यप्र65सवाय न कल्पते न समर्थम् । अत एव उप्तं बीजञ्च नश्यति ॥ ३३ ॥
श्लोक-३४
विश्वास-प्रस्तुतिः
एवं कामाशयं चित्तं कामानामतिसेवया।
विरज्येत यथा राजन्नाग्निवत् कामबिन्दुभिः॥
अनुवाद (हिन्दी)
महाराज! जिस प्रकार बार-बार बोनेसे खेत स्वयं ही शक्तिहीन हो जाता है और उसमें अंकुर उगना बंद हो जाता है, यहाँतक कि उसमें बोया हुआ बीज भी नष्ट हो जाता है—उसी प्रकार यह चित्त, जो वासनाओंका खजाना है, विषयोंका अत्यन्त सेवन करनेसे स्वयं ही ऊब जाता है। परन्तु स्वल्प भोगोंसे ऐसा नहीं होता। जैसे एक-एक बूँद घी डालनेसे आग नहीं बुझती, परन्तु एक ही साथ अधिक घी पड़ जाय तो वह बुझ जाती है॥ ३३-३४॥
वीरराघवः
तथा कामानामाशयमाश्र68यः चित्तं पुनः 69पुनः कामानामतीव सेवया विरज्येत नाग्निवदिति । घृतबिन्दुभिः अग्निरिव न वर्धत इत्यर्थः । 70यद्वा, यथा प्रज्वलितोऽग्निः घृतबिन्दुभिः न शाम्यति, किन्तु महता घृतपूरेण, तथा 71चित्तं 72कामबिन्दुभिः 73कामलेशैः न शाम्यति, महद्भिः कामैः इत्यर्थः ॥ ३४ ॥
श्लोक-३५
विश्वास-प्रस्तुतिः
यस्य यल्लक्षणं प्रोक्तं पुंसो वर्णाभिव्यञ्जकम्।
यदन्यत्रापि दृश्येत तत् तेनैव विनिर्दिशेत्॥
मूलम्
यस्य यल्लक्षणं प्रोक्तं पुंसो वर्णा74भि75व्यञ्जकम्।
यदन्यत्रापि दृश्येत तत्तेनैव विनिर्दिशेत्॥ ३५ ॥
अनुवाद (हिन्दी)
जिस पुरुषके वर्णको बतलानेवाला जो लक्षण कहा गया है, वह यदि दूसरे वर्णवालेमें भी मिले तो उसे भी उसी वर्णका समझना चाहिये॥ ३५॥
अनुवाद (समाप्ति)
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां सप्तमस्कन्धे युधिष्ठिरनारदसंवादे सदाचारनिर्णयो नामैकादशोऽध्यायः॥ ११ ॥
वीरराघवः
शमादिभिरेव ब्राह्मणादिव्यवहारो मुख्यो न जातिमात्रादित्याऽऽह-यस्येति । यस्य पुंसो यल्लक्षणं वर्णाभिव्यञ्जकं प्रोक्तुं “शमो दम स्तपः शौचम्” (भ.गी. 18-42) इत्यादिना, तद्यत् यद्यन्यत्रापि वर्णान्तरेपि दृश्येत तर्हि तद्वर्णान्तरं तेनैव लक्षणनिमित्तेनैव वर्णेन निर्दिशेत् न जातिनिमित्तेनेत्यर्थः ॥ ३५ ॥
इति श्रीमद्भागवते सप्तमस्कन्धे श्रीवीरराघविदुषालिखितायां भागवतचन्द्रचन्द्रिकायां व्याख्यायां एकादशाऽध्यायः ॥ ११ ॥
-
W मु ↩︎
-
M,Ma दान्वित ↩︎
-
W त्रो ↩︎
-
W omits ब्रह्मणः ↩︎
-
W omits त्रिभिः ↩︎
-
A,B,G,J,T,W याग ↩︎
-
W omits तं ↩︎
-
W तआ ↩︎
-
W धर्म ↩︎
-
A,B,G,J,T परं ↩︎
-
W omits परं ↩︎
-
W कारुण्यवतां ↩︎
-
H,V सेतवे ↩︎
-
A,B,G,H,T,V च्छ्रुतम् ↩︎
-
W कर्मोत्पत्ति ↩︎
-
W omits अथ ↩︎
-
A,B,G,H,J,T,V तं च ↩︎
-
W रसं ↩︎
-
A,B,T दि क ↩︎
-
M,Ma ज्या ↩︎
-
W omits चेष्टा ↩︎
-
A,B,T अन्नभक्षणं ↩︎
-
A,B,T add इष्टदेवताबुद्धिः ↩︎
-
W omits मनुष्येषु ↩︎
-
W omits इत्यर्थः ↩︎
-
H,V यर्ह्यवि; M,Ma यद्यवि ↩︎
-
M,Ma श्च निगमोदिताः ↩︎
-
A,B,T व ↩︎
-
A,B,T add उच्यते ↩︎
-
A,B,T रुपत्प्र ↩︎
-
W द्विजन्मनां ↩︎
-
A,B,G,J,T ध्ययनादीनि ↩︎
-
A,B,G,J,T,W षडन्य ↩︎
-
A,B,G,J,T,W श्च ↩︎
-
M,Ma त्र ↩︎
-
A,B,G,J,T न ↩︎
-
A,B,G,H,J,T,V वर ↩︎
-
M,Ma दानं ↩︎
-
W स्स्नेह ↩︎
-
A,B,T भवसा ↩︎
-
A,B,G,J,T गुर्वच्युते ↩︎
-
H,V वर्ण ↩︎
-
A,B,G,J,T पो ↩︎
-
A,G,J,T पुणं ↩︎
-
M,Ma अन्ततः ↩︎
-
A,B,G,J,T ञ्च ↩︎
-
A,G,J,T ल ↩︎
-
A,B,T वस्त्राभू ↩︎
-
H,V जातानां ↩︎
-
W omits कथितः ↩︎
-
M,Ma णि । ↩︎
-
A,B,G,J,M,Ma,T त्यै ↩︎
-
W भ ↩︎
-
B तथा ↩︎
-
H,V द्धृत ↩︎
-
A,B,T यं ↩︎
-
A,B,T omit पुनः ↩︎
-
A,B,T omit यद्वा ↩︎
-
W omits चित्तं ↩︎
-
A,B,T omit कामबिन्दुभिः ↩︎
-
W omits कामलेशैः ↩︎
-
M,Ma दि ↩︎
-
H,V सूचकम् ↩︎