[दशमोऽध्यायः]
भागसूचना
प्रह्लादजीके राज्याभिषेक और त्रिपुरदहनकी कथा
श्लोक-१
मूलम् (वचनम्)
नारद उवाच
विश्वास-प्रस्तुतिः
भक्तियोगस्य तत् सर्वमन्तरायतयार्भकः।
मन्यमानो हृषीकेशं स्मयमान उवाच ह॥
मूलम्
भक्तियोगस्य तत्सर्वमन्तरायतयाऽर्भकः।
मन्यमानो हृषीकेशं स्मयमान उवाच ह1॥ १ ॥
अनुवाद (हिन्दी)
नारदजी कहते हैं—प्रह्लादजीने बालक होनेपर भी यही समझा कि वरदान माँगना प्रेम-भक्तिका विघ्न है; इसलिये कुछ मुसकराते हुए वे भगवान्से बोले॥ १॥
वीरराघवः
2वरानिच्छायां हेतुं वदन् तं विशिंषन् भगवन्तं 3प्रह्लादः 4प्राहेत्याह देवर्षिः - भक्तियोगस्येति । तद्भगवता चोदितं धर्मादिवरजातं सर्वमनन्यप्रयोजनभक्तियोगस्यान्तरायतया विघ्नरूपतया मन्यमानः समयमानः, अहो मदभिप्रायज्ञो मदन्तरात्मा सन् मामेवं प्रलोभयतीति स्मयमानो हृषीकेशं भगवन्तमुवाच ॥ १ ॥
श्लोक-२
मूलम् (वचनम्)
प्रह्राद उवाच
विश्वास-प्रस्तुतिः
मा मां प्रलोभयोत्पत्त्याऽऽसक्तं कामेषु तैर्वरैः।
तत्सङ्गभीतो निर्विण्णो मुमुक्षुस्त्वामुपाश्रितः॥
मूलम्
5मा मां प्रलोभयोत्पत्त्याऽऽसक्तं कामेषु तैर्वरैः।
तत्सङ्गभीतो निर्विण्णो 6मुमुक्षुस्त्वामुपा6श्रितः॥ २ ॥
अनुवाद (हिन्दी)
प्रह्लादजीने कहा—प्रभो! मैं जन्मसे ही विषयभोगोंमें आसक्त हूँ, अब मुझे इन वरोंके द्वारा आप लुभाइये नहीं। मैं उन भोगोंके संगसे डरकर, उनके द्वारा होनेवाली तीव्र वेदनाका अनुभव कर उनसे छूटनेकी अभिलाषासे ही आपकी शरणमें आया हूँ॥ २॥
वीरराघवः
तदेवाह - मेति दशभिः । उत्पत्त्या स्वभावेनैव । कामेषु सक्तमासक्तमिति वा छेदः । उत्पत्तिप्रभृति कामेष्वासक्तं मां तैः कामरूपैः वरैः मा प्रलोभय प्रलुब्धं मा कुरु । यतोऽहं तत्सङ्गेन कामासक्त्या अनर्थावहया भीतः तत्र कामेषु निर्विण्णः संसृतिबन्धान्मोक्तुं इच्छुः त्वामुपाश्रितः शरणं गतः ॥ २ ॥
श्लोक-३
विश्वास-प्रस्तुतिः
भृत्यलक्षणजिज्ञासुर्भक्तं कामेष्वचोदयत्।
भवान् संसारबीजेषु हृदयग्रन्थिषु प्रभो॥
अनुवाद (हिन्दी)
भगवन्! मुझमें भक्तके लक्षण हैं या नहीं—यह जाननेके लिये आपने अपने भक्तको वरदान माँगनेकी ओर प्रेरित किया है। ये विषय-भोग हृदयकी गाँठको और भी मजबूत करनेवाले तथा बार-बार जन्म-मृत्युके चक्करमें डालनेवाले हैं॥ ३॥
वीरराघवः
वरं वृणीष्व 9अभिमतम् इति वराय चोदयतः तव चोदनाद्वारा याचमानाय मह्यं न वरप्रदानेऽभिप्रायः, किन्तु भृत्यस्य मम मनःपरीक्षायामित्याह - भृत्येति । कामेषु भृत्यं मां चोदयन् भवान् भृत्यस्य अनन्यप्रयोजनत्वरूपं लक्षणं जिज्ञासुः सर्वज्ञोऽपि भवान् मन्मुखेन मन्मनः परिजिज्ञासुरेव भृत्यं मां मन्मनः परीक्षार्थमेव मां भृत्यं कामेषु भवान् चोदितवानित्यर्थः । अचोदर्यादित पाठः सुगमः । अन्यथा कारुण्यजलधेर्हितोपदेष्टुः भक्तानुग्राहकस्य अनर्थावहेषु कामेषु भृत्यं प्रति वरयाच्ञायै चोदना न घटत इत्याह - अन्यथा एवं चोदयतः तव भृत्यलक्षणजिज्ञासुत्वाभावे तव करुणात्मनः कारुण्यमूर्तेरखिललोकहितोपदेष्टुः अहितरूपेषु दुःखरूपगर्भजन्म10जरामरणादिरूपसंसारस्य बीजभूतेषु 11हृदयग्रन्थिषु11 हृदयग्रन्थिवद्दुर्मो12चेषु न घटेत चोदनेति शेषः । अतो भृत्यलक्षणजिज्ञासुस्सन्नेव कामेषु मामचोदयदित्यर्थः । अत्र घटते करुणात्मन इत्यस्यानन्तरं क्वचित् “नष्टदृष्टेस्तमस्यन्धे त्वमेकः पारदर्शनः” इति पठ्यते । तत्राऽयमर्थः - इतोऽपि न कामेषु चोदना भवतो घटत इत्याह - नष्टदृष्टेरिति । अन्धे तमसि संसारात्मके नरके नष्टदृष्टेः स्वात्मपरमात्मयाथात्म्यज्ञानरहितस्य 13पुंसः अन्धतमस्तरणोपायानभिज्ञस्य वा पुंसः त्वमेवैकः पारदर्शनोऽन्धतमसः पारभूतमात्मानं दर्शयतीति तादृशः । यत एवम्भूतः त्वं ततः तव न घटत इति ॥ ३ ॥
श्लोक-४
विश्वास-प्रस्तुतिः
नान्यथा तेऽखिलगुरो घटेत करुणात्मनः।
यस्त आशिष आशास्ते न स भृत्यः स वै वणिक्॥
अनुवाद (हिन्दी)
जगद्गुरो! परीक्षाके सिवा ऐसा कहनेका और कोई कारण नहीं दीखता; क्योंकि आप परम दयालु हैं। (अपने भक्तको भोगोंमें फँसानेवाला वर कैसे दे सकते हैं?) आपसे जो सेवक अपनी कामनाएँ पूर्ण करना चाहता है, वह सेवक नहीं; वह तो लेन-देन करनेवाला निरा बनिया है॥ ४॥
वीरराघवः
न तु आशिषः कामयमानोऽपि भृत्यो मम दृश्यत एवेत्य आह - य इति । ते त्वत्तः निरतिशयपुरुषार्थस्वरूपात् यः पुमान् आशिषः कामानाशास्ते त्वत्सेवापूर्वकं प्रार्थयते । स तव न भृत्यः न भृत्यलक्षणलक्षितः । किं तर्हि ? स तु 16वणिक् वणिक्तुल्यः । यथा वणिक् यावत्स्वप्रयोजनमन्यमनुवर्तते तद्वत्सोपाधिकानुवृत्तिमानित्यर्थः ॥ ४ ॥
श्लोक-५
विश्वास-प्रस्तुतिः
आशासानो न वै भृत्यः स्वामिन्याशिष आत्मनः।
न स्वामी भृत्यतः स्वाम्यमिच्छन् यो राति चाशिषः॥
मूलम्
आशासानो न वै भृत्यः स्वामिन्याशिष आत्मनः।
न स्वामी भृत्यतः स्वाम्यमिच्छन् यो राति चाऽऽशिषः॥ ५ ॥
अनुवाद (हिन्दी)
जो स्वामीसे अपनी कामनाओंकी पूर्ति चाहता है, वह सेवक नहीं; और जो सेवकसे सेवा करानेके लिये, उसका स्वामी बननेके लिये उसकी कामनाएँ पूर्ण करता है, वह स्वामी नहीं॥ ५॥
वीरराघवः
एवं भृत्यात्किञ्चित्प्रयोजनमपेक्ष्य तस्मै कामान्ददतः स्वमित्वमपि निरुपाधिकं नास्तीत्याह - आशासान इति । आत्मनः स्वस्य स्वामिन्याशिषः कामानाशासानः कामयमानः न वै भृत्यः भृत्यो न भवति । इदं दृष्टान्तार्थम्, अस्यार्थस्य पूर्वमुक्तत्वात्, यथाऽयं भृत्यो न भवति इत्यर्थः । तथा भृत्यात्स्वाम्यं स्वामिनः प्रयोजनं स्वाम्यं, तदिच्छन् कामयमानो यो भृत्यायाऽऽशिषो राति ददाति स वै न स्वामी स्वामिशब्दवाच्य एव न भवति नित्यं निरुपाधिकं स्वमस्यास्तीति स्वामी इति नित्ययोगार्थमत्वर्थीयाऽऽमिनच् प्रत्ययान्त स्वामिशब्द वाच्य एव न भवति, तस्य सोपाधिकस्वामित्वादिति भावः । अत्र “राति चाऽऽशिषः" इत्यस्यानन्तरं “स वै स्वामी स वै भृत्यो गुणलुब्धौ न कामुकौ" इति क्वचित्पठयते । तत्राऽयमर्थः - कौ तर्हि स्वामिभृत्यौ इत्यत आह - स वा इति । यौ गुणलुब्धौ परस्परानुरागजनक सद्गुणमात्रमोहितौ न कामुकौ परस्परं प्रयोजनान्तरमनपेक्षमाणौ अनुवर्तेते स एव भृत्यः, स एव स्वामीति ॥ ५ ॥
श्लोक-६
विश्वास-प्रस्तुतिः
अहं त्वकामस्त्वद्भक्तस्त्वं च स्वाम्यनपाश्रयः।
नान्यथेहावयोरर्थो राजसेवकयोरिव॥
मूलम्
अहन्त्वकामस्त्वद्भक्तस्त्वञ्च स्वाम्यनपाश्रयः।
नाऽन्यथेहावयोरर्थो राजसेवकयोरिव॥ ६ ॥
अनुवाद (हिन्दी)
मैं आपका निष्काम सेवक हूँ और आप मेरे निरपेक्ष स्वामी हैं। जैसे राजा और उसके सेवकोंका प्रयोजनवश स्वामी-सेवकका सम्बन्ध रहता है, वैसा तो मेरा और आपका सम्बन्ध है नहीं॥ ६॥
वीरराघवः
आवयोस्तु 17स्वस्वामिभावः स्वाभाविक इत्याह - अहमिति । अहन्तु कीदृशो वा भवतु लोके भृत्यः, अहन्तु अकामोऽनन्यप्रयोजनः त्व18द्भक्त इति 19शब्दार्थः । त्वमनपाश्रयः स्वामीति । त्वद्भक्तोऽहमकामोऽनन्यप्रयोजनः । “स्वत्वमात्मनि सञ्जातं स्वामित्वं ब्रह्मणि स्थितम् ।” (विष्णुधर्मे) “नाऽन्यथालक्षणं तेषां बन्धे मोक्षे तथैव च” (विष्वक्सेन संहिता) इत्युक्तरीत्या प्रबुद्धनित्यनिरुपाधिकत्वद्दास्योऽहम् त्वन्तु निरुपाधिकस्वामीत्यध्यवसायपूर्वकं नित्यं स्वस्य स्वाम्यनुवर्तनं स्वस्वरूपानुबन्धीत्यध्यवसायेन परिहृतान्यप्रयोजनः त्वद्भक्तोऽस्मीत्यर्थः । अतोऽन्यथा प्रकारान्तरेण आवयोरिह स्वस्वामिभावे अर्थः प्रयोजनं नास्ति । राजसेवकयोरिवेति व्यतिरेकदृष्टान्तः । यथा राजसेवकयोः प्रयोजनान्तरमूलकः स्वस्वामिभावः, तथा नाऽवयोरिति, तदेतत् 20सर्वं सर्वज्ञस्त्वं जानास्येवेति भावः ॥ ६ ॥
श्लोक-७
विश्वास-प्रस्तुतिः
यदि रासीश मे कामान् वरांस्त्वं वरदर्षभ।
कामानां हृद्यसंरोहं भवतस्तु वृणे वरम्॥
मूलम्
यदि रासीश मे कामान् वरांस्त्वं वरदर्षभ21।
कामानां हृद्यसंरोहं भवतस्तु वृणे वरम्॥ ७ ॥
अनुवाद (हिन्दी)
मेरे वरदानिशिरोमणि स्वामी! यदि आप मुझे मुँहमाँगा वर देना ही चाहते हैं तो यह वर दीजिये कि मेरे हृदयमें कभी किसी कामनाका बीज अंकुरित ही न हो॥ ७॥
वीरराघवः
अहो सर्वज्ञस्याऽपि किमेतद्वरयाच्ञायै चोदयतः सत्यसङ्कल्पस्य मम वचसः प्रत्याख्यानं तव शोभते ? इति भगवदभिप्रायमभि22प्रयन् यदि भवतो मह्यं वरप्रदानेऽभिलाषः । तर्हीदं वरये इत्याह - यदीति । हे ईश ! वरदश्रेष्ठः त्वं 23यदि मह्यं कामानिष्टान्वरान् रासि 24ददासि, तर्हि भवतः त्वत्तोऽहं मद्धृदये कामानां कामाङ्कुराणां असंरोहं अनुत्पत्तिरूपं वरं वृणे धर्मादिपुरुषार्थेच्छानुदयरूपं वरं याचे इत्यर्थः ॥ ७ ॥
श्लोक-८
विश्वास-प्रस्तुतिः
इन्द्रियाणि मनः प्राण आत्मा धर्मो धृतिर्मतिः।
ह्रीः श्रीस्तेजः स्मृतिः सत्यं यस्य नश्यन्ति जन्मना॥
मूलम्
इन्द्रियाणि मनःप्रा25णा आत्मा धर्मो धृतिर्मतिः।
ह्रीः श्रीस्तेजः स्मृतिस्सत्यं 26यस्य नश्यन्ति जन्मना॥ ८ ॥
अनुवाद (हिन्दी)
हृदयमें किसी भी कामनाके उदय होते ही इन्द्रिय, मन, प्राण, देह, धर्म, धैर्य, बुद्धि, लज्जा, श्री, तेज, स्मृति और सत्य—ये सब-के-सब नष्ट हो जाते हैं॥ ८॥
वीरराघवः
ननु कामोत्प27त्तौ सत्यां को दोषः ? तत्राऽह - इन्द्रियाणीति । यस्य 28हृदये सञ्जातकामाङ्कुरस्य कामान्कामयमानस्य इन्द्रियादीनि जन्मना जन्मपरम्परया नश्यन्ति, कामिनोऽन्ततः स्थावरत्वप्राप्तौ इन्द्रियमनः प्राणात्मन एव असत्प्राया भवन्ति, किं पुनः धर्मादय इति भावः । न हि इतोऽन्यः कश्चिदनर्थो विद्यत इति तात्पर्यम् । तत्र आत्मा प्रत्यगात्मा । धर्मो वर्णाश्रमानुगुणो भगवदाराधनरूपः, धृतिः धैर्यमिन्द्रियजयो द्वन्द्वसहिष्णुता वा । मतिः स्वात्मपरमात्मविषया । ह्रीः अनुचितकृत्यविषया लज्जा, श्रीः ज्ञानसम्पत्तिः ऐश्वर्य वा । तेजोऽनन्यापेक्षता । स्मृतिः हेयोपादेयाऽविस्मरणात्मिका । सत्यं भूतहितत्वं, सत्यवचनं वा ॥ १८ ॥
श्लोक-९
विश्वास-प्रस्तुतिः
विमुञ्चति यदा कामान् मानवो मनसि स्थितान्।
तर्ह्येव पुण्डरीकाक्ष भगवत्त्वाय कल्पते॥
अनुवाद (हिन्दी)
कमलनयन! जिस समय मनुष्य अपने मनमें रहनेवाली कामनाओंका परित्याग कर देता है, उसी समय वह भगवत्स्वरूपको प्राप्त कर लेता है॥ ९॥
वीरराघवः
निष्कामस्तु त्वां भजन् त्वत्साधर्म्यं 32प्राप्नोतीत्याह - विमुञ्चतीति । यदा मानवो मनुष्यः स्वहृदि स्थितान् कामान् विमुञ्चति अनन्यप्रयोजनेन त्वां भजतीति भावः । हे पुण्डरीकाक्ष ! तर्हि तदा स मानवः 33भगवत्त्वाय भगवतो भावः भगवत्त्वं तस्मै कल्पते । अपहतपाप्मत्वादिधर्माऽविर्भावाय कल्पते आविर्भूत गुणाष्ट34कत्वेन भग35वता समानधर्मो मुक्तो भवतीति यावत् ॥ ९ ॥
श्लोक-१०
विश्वास-प्रस्तुतिः
नमो भगवते तुभ्यं पुरुषाय महात्मने।
हरयेऽद्भुतसिंहाय ब्रह्मणे परमात्मने॥
मूलम्
नमो भगवते तुभ्यं पुरुषाय महात्मने।
हरयेऽद्भुतसिंहाय ब्रह्मणे परमात्मने॥ १० ॥
अनुवाद (हिन्दी)
भगवन्! आपको नमस्कार है। आप सबके हृदयमें विराजमान, उदारशिरोमणि स्वयं परब्रह्म परमात्मा हैं। अद्भुत नृसिंहरूपधारी श्रीहरिके चरणोंमें मैं बार-बार प्रणाम करता हूँ॥ १०॥
वीरराघवः
मम हृदि कामानुदयरूपात् वरात् अन्यं वरं सर्वथा मा दा इति प्रार्थनाभिप्रायेण भगवन्तं नमस्करोति । ओमिति । भगवते पूर्णषाड्गुण्याय पुरुषाय स36र्वात्मने महात्मने केवलं भक्तानुग्रहैकस्वभावाय हरये आश्रितार्तिहराय अद्भुतसिंहाय 37मादृशसाधुपरित्राणार्थमुपात्तनृसिंहरूपाय ब्रह्मणे स्वरूपेण गुणैश्च निरतिशयबृहते परमात्मने लोकत्रयस्यान्तः प्रवेशेन भर्त्रे प्रणवप्रतिपाद्याय तुभ्यं नमः ॥ १० ॥
श्लोक-११
विश्वास-प्रस्तुतिः
नैकान्तिनो मे मयि जात्विहाशिष
आशासतेऽमुत्र च ये भवद्विधाः।
अथापि मन्वन्तरमेतदत्र
दैत्येश्वराणामनुभुङ्क्ष्व भोगान्॥
मूलम्
नैकान्तिनो 39मे मयि जात्विहाशिष 40आशासतेऽमुत्र 41च वै भवद्विधाः41।
42तथापि मन्वन्तरमेतदत्र43 दैत्येश्वराणामनुभुङ्क्ष्व भोगान्॥ ११ ॥
अनुवाद (हिन्दी)
श्रीनृसिंहभगवान्ने कहा—प्रह्लाद! तुम्हारे-जैसे मेरे एकान्तप्रेमी इस लोक अथवा परलोककी किसी भी वस्तुके लिये कभी कोई कामना नहीं करते। फिर भी अधिक नहीं, केवल एक मन्वन्तरतक मेरी प्रसन्नताके लिये तुम इस लोकमें दैत्याधिपतियोंके समस्त भोग स्वीकार कर लो॥ ११॥
वीरराघवः
एवं प्रत्याख्यातवरयाच्ञं प्रह्लादमाह भगवान् 44श्रीनृसिंहः - नैकान्तिन इति चतुर्भिः । भवद्विधाः त्वादृशा मयि एकान्तिन एकान्तभक्ता अनन्यप्रयोजनेन भजन्तः मे मत्तः जातु कदाचिदपि इहाऽमुत्र च लोके आशिषः कामान्नाऽशासते यद्यपि न प्रार्थयन्ते तथापि एतन्मन्वन्तरपर्यन्तं अत्रैव लोके दैत्येश्वराणामधिपो, भूत्वेति शेषः । भोगान् भुङ्क्ष्व ॥ ११ ॥
श्लोक-१२
विश्वास-प्रस्तुतिः
कथा मदीया जुषमाणः प्रियास्त्व-
मावेश्य मामात्मनि सन्तमेकम्।
सर्वेषु भूतेष्वधियज्ञमीशं
यजस्व योगेन च कर्म हिन्वन्॥
मूलम्
कथा मदीया जुषमाणः प्रियास्त्वमावेश्य मामात्मनि सन्तमेकम्।
सर्वेषु भूतेष्वधियज्ञमीशं यजस्व योगेन च कर्म हिन्वन्॥ १२ ॥
अनुवाद (हिन्दी)
समस्त प्राणियोंके हृदयमें यज्ञोंके भोक्ता ईश्वरके रूपमें मैं ही विराजमान हूँ। तुम अपने हृदयमें मुझे देखते रहना और मेरी लीला-कथाएँ, जो तुम्हें अत्यन्त प्रिय हैं, सुनते रहना। समस्त कर्मोंके द्वारा मेरी ही आराधना करना और इस प्रकार अपने प्रारब्ध-कर्मका क्षय कर देना॥ १२॥
वीरराघवः
तर्हि बद्धः स्याम् इत्यत्राऽऽह - कथाइति । प्रियः मम निरतिशय प्रियः त्वं मदीयाः कथाः जुषमाणः सेवमानः, प्रिया इति पाठे, कथाविशेषणम् । मत्कथाः शृण्वन् त्वं न बद्धः स्या इति भावः । ननु अनिच्छन्तमपि बलात्कामेषु किमर्थं योजयसि इत्यत आह - आत्मनि सर्वेषु भूतेषु चान्तरात्मतया सन्तमधियज्ञं यज्ञाधिपतिं ईश्वरं मां भक्तियोगेन यजस्व आराधयस्व । किं कुर्वन् ? मत्प्राप्तिविरोधिपुण्यपापात्मकं कर्म हिन्वन्नपनुदन् । मुमुक्षोरपि अभ्युपगतमत्प्राप्तिविरोधिप्रारब्धफलस्य सुखदुःखात्मकस्य अवश्यमनुभाव्यत्वात् अनिच्छन्तमपि त्वां कामेषु योजयामीति भावः ॥ १२ ॥
श्लोक-१३
विश्वास-प्रस्तुतिः
भोगेन पुण्यं कुशलेन पापं
कलेवरं कालजवेन हित्वा।
कीर्तिं विशुद्धां सुरलोकगीतां
विताय मामेष्यसि मुक्तबन्धः॥
मूलम्
भोगेन पुण्यं कुशलेन पापं कलेबरं काल45बलेन हित्वा।
कीर्तिं विशुद्धां सुरलोकगीतां विताय मामेष्यसि मुक्तबन्धः॥ १३ ॥
अनुवाद (हिन्दी)
भोगके द्वारा पुण्यकर्मोंके फल और निष्काम पुण्यकर्मोंके द्वारा पापका नाश करते हुए समयपर शरीरका त्याग करके समस्त बन्धनोंसे मुक्त होकर तुम मेरे पास आ जाओगे। देवलोकमें भी लोग तुम्हारी विशुद्ध कीर्तिका गान करेंगे॥ १३॥
वीरराघवः
एतदेव व्यनक्ति - भोगेनेति । पुण्यमभ्युपगतप्रारब्धपुण्यकर्म तत्फलभोगेन हित्वा त्यक्त्वा अपनुद्य, पापमभ्युपगतप्रारब्धाख्यं पापं कर्म कुशलेन भोगेन हित्वा भोगकौशलेन हित्वेत्यर्थः । पापफलभोगस्य दुःखरूपत्वात् मनोविकारः स्यादिति यथामनो न विक्रियते तथा भोगकौशलेनेत्यर्थः । “दुखेष्वनुद्विग्रमनाः सुखेषु विगतस्पृहः… (भ.गी. 2.5.6) ..समदुःखसुखं धीरम्” (भ.गी. 2-15) इत्याद्युक्तरीत्या अनुद्वेगवत्त्वादि भोगकौशलेनेति यावत् । कुशलेन पुण्येन यज्ञादिकर्मणा पापमभ्युपगतप्रारब्धमपुण्यं कर्म हित्वेति वाऽर्थः, अनुभवैकविनाश्यस्य पुण्यकर्मणा निवृत्त्यनुपपत्तेः । न चाऽत्र पापशब्दः सञ्चिताऽनभ्युपगतादि पापपरः तस्य भक्तियोगेनैव निवृत्तेः । न च भक्तियोगप्रतिबन्धकपापपरः, परिपूर्णभक्तियोगनिष्ठत्वात् प्रह्लादस्य तन्निवृत्तेः पूर्वमेव जातत्वात् । तस्मात् यथोक्त एवाऽर्थः । काल46बलेन कालवेगेन कलेबरं हित्वा कालवेगेन निर्मितेनानुभूतप्रारब्धावसाने कलेबरं हित्वेत्यर्थः । सुरलोकेऽपि गीयमानां स्वीयां कीर्ति वित्तार्य विस्तीर्य मुक्तबन्धः मद्भक्तियोगेन विनष्टाश्लिष्टपूर्वोत्तराघरूपमत्प्राप्तिप्रतिबन्धको मामेष्यसि प्राप्स्यसि47 ॥ १३ ॥
श्लोक-१४
विश्वास-प्रस्तुतिः
य एतत् कीर्तयेन्मह्यं त्वया गीतमिदं नरः।
त्वां च मां च स्मरन्काले कर्मबन्धात् प्रमुच्यते॥
मूलम्
य एतत्कीर्तयेन्मह्यं त्वया गीतमिदं नरः।
त्वाञ्च माञ्च स्मरन्काले कर्मबन्धा48द्विमुच्यते॥ १४ ॥
अनुवाद (हिन्दी)
तुम्हारे द्वारा की हुई मेरी इस स्तुतिका जो मनुष्य कीर्तन करेगा और साथ ही मेरा और तुम्हारा स्मरण भी करेगा, वह समयपर कर्मोंके बन्धनसे मुक्त हो जायगा॥ १४॥
वीरराघवः
किञ्च, यः पुमान् त्वाञ्च माञ्च स्मरन् यदिदं मह्यं त्वया गीतं मत्स्तुत्यात्मकं स्तोत्रं कीर्तयेत् सोऽपि पुमान् काले प्रारब्धानुभवावसानकाले कर्मबन्धात् मत्प्राप्तिप्रतिबन्धकात् पुण्यपापात्मककर्मरूपात् 49बन्धात् विमुच्यते त्व50द्गीतकीर्तन सञ्जात मद्भक्तियोगनिरस्तमत्प्राप्तिप्रतिबन्धककर्मबन्धाद्विमुक्तो भवतीत्यर्थः ॥ १४ ॥
श्लोक-१५
विश्वास-प्रस्तुतिः
वरं वरय एतत् ते वरदेशान्महेश्वर।
यदनिन्दत् पिता मे त्वामविद्वांस्तेज ऐश्वरम्॥
मूलम्
वरं वरय एतत्ते वरदे52शान्महेश्वर।
यदनिन्दत्पिता मे त्वामविद्वांस्तेज ऐश्वरम्॥ १५ ॥
वीरराघवः
ईश्वराज्ञया प्राप्तदैत्याधिपत्यः स्वपितुः निष्कृतिं प्रार्थयते त्रिभिः प्रह्लादः - वरमिति । हे महेश्वर ! वरदानां ब्रह्मादीनामपि ईश्वरात् ते त्वत्तोऽहं एतद्वरं वृणे । किं तत् ? यन्मे पिता ईश्वरस्य तव सम्बन्धितेजः प्रभावं अविद्वान् अजानन् ॥ १५ ॥
श्लोक-१६
विश्वास-प्रस्तुतिः
विद्धामर्षाशयः साक्षात् सर्वलोकगुरुं प्रभुम्।
भ्रातृहेति मृषादृष्टिस्त्वद्भक्ते मयि चाघवान्॥
मूलम्
53बद्धामर्षाशयः साक्षात् सर्वलोकगुरुं प्रभुम्।
भ्रातृहेति मृषादृष्टिस्त्वद्भक्ते मयि चाघवान्॥ १६ ॥
अनुवाद (हिन्दी)
प्रह्लादजीने कहा—महेश्वर! आप वर देनेवालोंके स्वामी हैं। आपसे मैं एक वर और माँगता हूँ। मेरे पिताने आपके ईश्वरीय तेजको और सर्वशक्तिमान् चराचरगुरु स्वयं आपको न जानकर आपकी बड़ी निन्दा की है। ‘इस विष्णुने मेरे भाईको मार डाला है’ ऐसी मिथ्यादृष्टि रखनेके कारण पिताजी क्रोधके वेगको सहन करनेमें असमर्थ हो गये थे। इसीसे उन्होंने आपका भक्त होनेके कारण मुझसे भी द्रोह किया॥ १५-१६॥
वीरराघवः
सर्वलोकहितोपदेष्टारं प्रभुं त्वामनिन्दत् निन्दितवान् । कथम्भूतः ? त्वं भ्रातृहेति मृषादृष्टिः दुरभिमानयुक्तः, अत एव वृद्धामर्षाशयः प्रवृद्धो योऽमर्षः क्रोधः तद्युक्त आशयोऽन्तःकरणं यस्य तादृशः । इद्धेति पाठेऽपि अयमेवाऽर्थः । विद्धेति पाठे, विद्धो व्यथितः स चासौ अमर्षयुक्तान्तःकरणश्चेत्यर्थः । एवम्भूतस्त्वां सर्वलोक54हितकरं प्रभुमनिन्दत् इति यत्, यच्च त्वद्भक्ते मयि अघवान् द्रोहीति द्रोहं कृतवानिति ॥ १६ ॥
श्लोक-१७
विश्वास-प्रस्तुतिः
तस्मात् पिता मे पूयेत दुरन्ताद् दुस्तरादघात्।
पूतस्तेऽपाङ्गसंदृष्टस्तदा कृपणवत्सल॥
अनुवाद (हिन्दी)
दीनबन्धो! यद्यपि आपकी दृष्टि पड़ते ही वे पवित्र हो चुके, फिर भी मैं आपसे प्रार्थना करता हूँ कि उस जल्दी नाश न होनेवाले दुस्तर दोषसे मेरे पिता शुद्ध हो जायँ॥ १७॥
वीरराघवः
तस्माद्दुस्तरा दघात् पापान्मे पिता पूयेत विशुद्धेत्, एतद्वरं वरये इत्यन्वयः । यद्यपि ते तवाऽपाङ्गेन सन्दृष्टोऽत एव पूत एव मम पिता तथापि हे कृपणवत्सल ! कार्पण्येन प्रार्थये इत्यर्थः ॥ १७ ॥
श्लोक-१८
मूलम् (वचनम्)
श्रीभगवानुवाच
विश्वास-प्रस्तुतिः
त्रिःसप्तभिः पिता पूतः पितृभिः सह तेऽनघ।
यत् साधोऽस्य गृहे जातो भवान्वै कुलपावनः॥
अनुवाद (हिन्दी)
श्रीनृसिंहभगवान्ने कहा—निष्पाप प्रह्लाद! तुम्हारे पिता स्वयं पवित्र होकर तर गये, इसकी तो बात ही क्या है, यदि उनकी इक्कीस पीढ़ियोंके पितर होते तो उन सबके साथ भी वे तर जाते; क्योंकि तुम्हारे-जैसा कुलको पवित्र करनेवाला पुत्र उनको प्राप्त हुआ॥ १८॥
वीरराघवः
एवं 58प्रह्लादेन प्रार्थितो भगवान् 59तमाह त्रिस्सप्तभिरिति षड्भिः । न केवलं तव पितैव पूतः, अपि तु हे अनघ ! सप्तभिः पित्तृभिस्सह तव पिता त्रिः पूत इति त्रिवारमनुगृह्णामीत्यर्थः । त्रिसप्तभिरितिपाठे एकविंशतिपर्यन्तैः पितृभिस्सह पूत इत्यर्थः । कुतः ? यत् यस्मात् हे साधो । 60महाभागवतः60 कुलपावनो भवान् 61तस्य हिरण्यकशिपोः61 गृहे जातः । यद्यपि हिरण्यकशिपोः पितरः कश्यपो मरीचिर्ब्रह्माचेति त्रय एव, तथाऽपि प्राक्कल्पगतपित्राद्यभिप्रायेण त्रिसप्तभिरित्युक्तम् । मद्भक्तस्य तवजननात् एव इदं त्वत्कुलं पूतं इत्यभिप्रायः ॥ १८ ॥
श्लोक-१९
विश्वास-प्रस्तुतिः
यत्र यत्र च मद्भक्ताः प्रशान्ताः समदर्शिनः।
साधवः समुदाचारास्ते पूयन्त्यपि कीकटाः॥
मूलम्
यत्र यत्र च मद्भक्ताः प्रशान्तास्समदर्शिनः।
साधवस्स62मुदाचारास्ते पू63यन्तेऽपि की64कटान्॥ १९ ॥
अनुवाद (हिन्दी)
मेरे शान्त, समदर्शी और सुखसे सदाचार पालन करनेवाले प्रेमी भक्तजन जहाँ-जहाँ निवास करते हैं, वे स्थान चाहे कीकट ही क्यों न हों, पवित्र हो जाते हैं॥ १९॥
वीरराघवः
एतदेव स्वभक्तप्रभाव प्रदर्शनमुखेनाऽऽह - यत्रेति । समदर्शिनः कृत्स्नं जगत् ब्रह्मात्मकत्वेन पश्यन्तः प्रशान्ताः जितेन्द्रियाः, सम्यगुत्तमः आचारो येषां ते, साधवः परोपकारशीला मद्भक्ताः यत्र यत्र देशेसन्ति, ते कीकटा अपि कीकटकल्पा म्लेच्छदेशाः, अपिशब्दात्तत्प्रभवा अपि पूयन्ते शुद्धा भवन्ति ॥ १९ ॥
श्लोक-२०
विश्वास-प्रस्तुतिः
सर्वात्मना न हिंसन्ति भूतग्रामेषु किञ्चन।
उच्चावचेषु दैत्येन्द्र मद्भावेन गतस्पृहाः॥
मूलम्
सर्वात्मना न हिंसन्ति भूतग्रामेषु किञ्चन।
उच्चावचेषु दैत्येन्द्र मद्भा65वेन गतस्पृहाः॥ २० ॥
अनुवाद (हिन्दी)
दैत्यराज! मेरे भक्तिभावसे जिनकी कामनाएँ नष्ट हो गयी हैं, वे सर्वत्र आत्मभाव हो जानेके कारण छोटे-बड़े किसी भी प्राणीको किसी भी प्रकारसे कष्ट नहीं पहुँचाते॥ २०॥
श्लोक-२१
विश्वास-प्रस्तुतिः
भवन्ति पुरुषा लोके मद्भक्तास्त्वामनुव्रताः।
भवान्मे खलु भक्तानां सर्वेषां प्रतिरूपधृक्॥
मूलम्
भवन्ति 66पुरुषा लोके मद्भक्तास्त्वामनुव्रताः।
भवान्मे खलु भक्तानां सर्वेषां प्रतिरूप67धृक्॥ २१ ॥
अनुवाद (हिन्दी)
संसारमें जो लोग तुम्हारे अनुयायी होंगे, वे भी मेरे भक्त हो जायँगे। बेटा! तुम मेरे सभी भक्तोंके आदर्श हो॥ २१॥
वीरराघवः
ननु, त्वद्भक्तानामयं प्रभाव इति न चित्रं, नाऽहं तु तादृशः इति चेत् तत्राऽऽह - सर्वात्मनेति द्वाभ्याम् । हे दैत्येन्द्र! लोके ये मद्भक्ताः पुरुषाः ते त्वां मद्भक्तश्रेष्ठमनुव्रता अनुवर्तमाना भवन्ति । त्वं यथा मद्भक्तश्रेष्ठः तथा वयमपि भगवद्भक्ता भवेम इति त्वत्पदवीमनुवर्तमाना मद्भक्ता भवन्ति । अतः सर्वेषां भक्तानां भवान् प्रतिरूपधृक् दृष्टान्तभूतः । अतस्त्वं भागवतोत्तमोत्तम इति भावः । तदनुवृत्तिप्रकार68मेवाह - उत्कृष्टेषु 69अपकृष्टेषु च भूतग्रामेषु देवमनुष्यादिभूतसङ्घेषु सर्वात्मना करणत्रयेण न किञ्चिदपि हिंसन्ति, मद्भावेन मद्भक्त्या विगता स्पृहा येषां, मत्साम्यापत्तिनिस्पृहा इति वा । तादृशाश्चभवन्ति । त्वद्दृष्टान्तेनैवाऽत्मानं शिक्षयन्तीत्यर्थः ॥ २०, २१ ॥
श्लोक-२२
विश्वास-प्रस्तुतिः
कुरु त्वं प्रेतकार्याणि पितुः पूतस्य सर्वशः।
मदङ्गस्पर्शनेनाङ्ग लोकान्यास्यति सुप्रजाः॥
मूलम्
कुरु70ते त्वं प्रेतकार्याणि पितुः पूतस्य सर्वशः।
मदङ्गस्पर्शनेनाऽङ्ग लोका71न्यास्यति सुप्रजाः॥ २२ ॥
अनुवाद (हिन्दी)
यद्यपि मेरे अंगोंका स्पर्श होनेसे तुम्हारे पिता पूर्णरूपसे पवित्र हो गये हैं, तथापि तुम उनकी अन्त्येष्टि-क्रिया करो। तुम्हारे-जैसी सन्तानके कारण उन्हें उत्तम लोकोंकी प्राप्ति होगी॥ २२॥
वीरराघवः
अतस्सर्वथा पूतस्य विशुद्धस्य तव पितुः प्रेतकार्याणि दाहादिकर्माणि कुरु । अङ्ग! हे प्रह्लाद! शोभना प्रजाः 72पुत्राः त्वद्रूपो यस्य सः त्वत्पिता मदङ्गस्पर्शनेन मच्छरीरसंस्पर्शनेन हेतुना लोकान्पुण्यलोकान् यास्यति प्राप्स्यति । पश्यतीति पाठे द्रक्ष्यतीत्यर्थः । वर्तमान सामीप्यं भविष्यति लट् ॥ २२ ॥
श्लोक-२३
विश्वास-प्रस्तुतिः
पित्र्यं च स्थानमातिष्ठ यथोक्तं ब्रह्मवादिभिः।
मय्यावेश्य मनस्तात कुरु कर्माणि मत्परः॥
मूलम्
पित्र्यञ्च स्थानमातिष्ठ यथोक्तं ब्रह्मवादिभिः।
मय्यावेश्य मनस्तात कुरु कर्माणि मत्परः॥ २३ ॥
अनुवाद (हिन्दी)
वत्स! तुम अपने पिताके पदपर स्थित हो जाओ और वेदवादी मुनियोंकी आज्ञाके अनुसार मुझमें अपना मन लगाकर और मेरी शरणमें रहकर मेरी सेवाके लिये ही अपने सारे कार्य करो॥ २३॥
वीरराघवः
पित्र्यं पितृसम्बन्धि पित्राधिष्टितं महेन्द्रभवनं विहाय पित्र्यं दानवाधिपत्यस्थानमधितिष्ठेत्यर्भः । हे तात! मयि मन आवेश्य ब्रह्मवादिभिरुक्तमनतिक्रम्य कर्माणि मदाराधनरूपाणि, मत्परः अहमेव परस्तेषां कर्मणां फलं यस्य तादृश73स्सन् कुरु ॥ २३ ॥
श्लोक-२४
विश्वास-प्रस्तुतिः
प्रह्रादोऽपि तथा चक्रे पितुर्यत्साम्परायिकम्।
यथाऽऽह भगवान् राजन्नभिषिक्तो द्विजोत्तमैः॥
मूलम्
प्रह्रादोऽपि तथा चक्रे पितुर्यत्साम्परायिकम्।
यथाऽऽह भगवान्राजन्नभिषिक्तो द्विजोत्तमैः॥ २४ ॥74
अनुवाद (हिन्दी)
नारदजी कहते हैं—युधिष्ठिर! भगवान्की आज्ञाके अनुसार प्रह्लादजीने अपने पिताकी अन्त्येष्टि-क्रिया की, इसके बाद श्रेष्ठ ब्राह्मणोंने उनका राज्याभिषेक किया॥ २४॥
वीरराघवः
एवमुक्तः प्रह्लादो यथोक्तमकरोदित्याह नारदः - प्रह्लादोऽपीति । हे राजन् ! युधिष्ठिर! यथा भगवानाह तथैव प्रह्लादः पितुः यत्साम्परायिकं प्रेतोद्देशेन कर्तव्यं तत्सर्वं चक्रे । ततो द्विजोत्तमैः अभिषिक्तश्च बभूव दानवादीनां आधिप75त्यं अकरोदित्यर्थः75 ॥ २४ ॥
श्लोक-२५
विश्वास-प्रस्तुतिः
प्रसादसुमुखं दृष्ट्वा ब्रह्मा नरहरिं हरिम्।
स्तुत्वा वाग्भिः पवित्राभिः प्राह देवादिभिर्वृतः॥
मूलम्
प्रसादसुमुखं दृष्ट्वा ब्रह्मा नरहरिं हरिम्।
स्तुत्वावाग्भिः पवित्राभिः प्राह देवादिभिर्वृतः॥ २५ ॥
अनुवाद (हिन्दी)
इसी समय देवता, ऋषि आदिके साथ ब्रह्माजीने नृसिंहभगवान्को प्रसन्नवदन देखकर पवित्र वचनोंके द्वारा उनकी स्तुति की और उनसे यह बात कही॥ २५॥
वीरराघवः
ततः प्रसादाभिमुखं सुन्दरं मुखं यस्य तं नरहरिं श्रीनृसिंहरूपं हरिं आश्रितार्तिहरं भगवन्तं दृष्ट्वा ब्रह्मा चतुर्मुखः देवादिभिः परिवृतः पवित्राभिः वाग्भिः स्तुत्वा वाचां भगवद्गुणविषयकत्वेन लोकपावनकरत्वात् पवित्राभिः इत्युक्तम् । प्राहोवाच ॥ २५ ॥
श्लोक-२६
मूलम् (वचनम्)
ब्रह्मोवाच
विश्वास-प्रस्तुतिः
देवदेवाखिलाध्यक्ष भूतभावन पूर्वज।
दिष्ट्या ते निहतः पापो लोकसन्तापनोऽसुरः॥
मूलम्
देवदेवाऽखिलाध्यक्ष! भूतभावन! पूर्वज!
दिष्ट्या ते निहतः पापो लोकसन्तापनोऽसुरः॥ २६ ॥
अनुवाद (हिन्दी)
ब्रह्माजीने कहा—देवताओंके आराध्यदेव! आप सर्वान्तर्यामी, जीवोंके जीवनदाता और मेरे भी पिता हैं। यह पापी दैत्य लोगोंको बहुत ही सता रहा था। यह बड़े सौभाग्यकी बात है कि आपने इसे मार डाला॥ २६॥
वीरराघवः
76तदेवं चतुर्मुखोक्तमाह76 - देवेति चतुर्भिः । हे देवदेव! देवानामपिदेव ! ननु, त्वम् इन्द्रादिदेवानामपि देवो नाऽहं तत्राह - हे अखिलाध्यक्ष! ननु सोऽपि त्वमेव तत्राऽऽह - हे भूतभावन! भूतानि भावयति उत्पादयतीति तथा । ननु, सोऽपि त्वमेव77 हे पूर्वज ! ममाऽपि पूर्व कारणत्वेनावस्थित! लोकानां सन्तापनकरोऽत एव पापोऽयमसुरो दिष्ट्या दैवात्, ते त्वया निहतः । दिष्ट्या हत इति तद्वरस्य दुष्करत्वं सूचितम् ॥ २६ ॥
श्लोक-२७
विश्वास-प्रस्तुतिः
योऽसौ लब्धवरो मत्तो न वध्यो मम सृष्टिभिः।
तपोयोगबलोन्नद्धः समस्तनिगमानहन्॥
अनुवाद (हिन्दी)
मैंने इसे वर दे दिया था कि मेरी सृष्टिका कोई भी प्राणी तुम्हारा वध न कर सकेगा। इससे यह मतवाला हो गया था। तपस्या, योग और बलके कारण उच्छृङ्खल होकर इसने वेदविधियोंका उच्छेद कर दिया था॥ २७॥
वीरराघवः
तदेवाऽऽविष्कुर्वन् असुरं विशिनष्टि योऽसाविति । योऽसावसुरः मत्तः लब्धो वरो येन तादृशाः मम सृष्टिभिः मया सृष्टैः भूतैः न वध्यः हन्तुमशक्यः तपोयोग एव बलं तेनोन्नद्धः गर्वितः समस्तनिगमान् शास्त्रीयधर्मान् अहन् विनाशितवान् । स तु त्वया विनाशितः एतद्दिष्ट्या जातमिति भावः ॥ २७ ॥
श्लोक-२८
विश्वास-प्रस्तुतिः
दिष्ट्यास्य तनयः साधुर्महाभागवतोऽर्भकः।
त्वया विमोचितो मृत्योर्दिष्ट्या त्वां समितोऽधुना॥
मूलम्
दिष्ट्याऽस्य तनयस्साधुर्महाभागवतोऽर्भकः।
त्वया विमोचितो मृत्योर्दिष्ट्या 81त्वां समितोऽधुना81॥ २८ ॥
अनुवाद (हिन्दी)
यह भी बड़े सौभाग्यकी बात है कि इसके पुत्र परमभागवत शुद्धहृदय नन्हे-से शिशु प्रह्लादको आपने मृत्युके मुखसे छुड़ा दिया; तथा यह भी बड़े आनन्द और मंगलकी बात है कि वह अब आपकी शरणमें है॥ २८॥
वीरराघवः
82अस्यऽसुरस्य तनयो महाभागवतोऽर्भकः प्रह्लादः त्वया मृत्योः सकाशात् विमोचित इति, स च त्वामतीव क्रोधाविष्टं सम्यगितः प्राप्तोऽधुनेति चैतदपि दिष्ट्या जातमित्यर्थः ॥ २८ ॥
श्लोक-२९
विश्वास-प्रस्तुतिः
एतद् वपुस्ते भगवन् ध्यायतः प्रयतात्मनः।
सर्वतो गोप्तृ संत्रासान् मृत्योरपि जिघांसतः॥
मूलम्
एतद्वपुस्ते भगवन् ध्यायतः प्रयतात्मनः।
सर्वतोगोप्तृ सन्त्रासान्मृत्योरपि जिघांसतः॥ २९ ॥83
अनुवाद (हिन्दी)
भगवन्! आपके इस नृसिंहरूपका ध्यान जो कोई एकाग्र मनसे करेगा, उसे यह सब प्रकारके भयोंसे बचा लेगा। यहाँतक कि मारनेकी इच्छासे आयी हुई मृत्यु भी उसका कुछ न बिगाड़ सकेगी॥ २९॥
वीरराघवः
हे भगवन्, तवैतद्वपुः नृसिंहरूपं ध्यायतः प्रयतात्मनः समाहितमनसः पुंसस्सर्वतः सन्त्रासात् भयाद्गोप्तृ रक्षकं जिघांसतः हन्तुमिच्छतः मृत्योरपि सकाशाद्गोप्तृ । एतच्च प्रह्लाददृष्टान्तेन अस्माभिरनुमितमिति भावः ॥ २९ ॥
श्लोक-३०
विश्वास-प्रस्तुतिः
मैवं वरोऽसुराणां ते प्रदेयः पद्मसम्भव।
वरः क्रूरनिसर्गाणामहीनाममृतं यथा॥
अनुवाद (हिन्दी)
श्रीनृसिंहभगवान् बोले—ब्रह्माजी! आप दैत्योंको ऐसा वर न दिया करें। जो स्वभावसे ही क्रूर हैं, उनको दिया हुआ वर तो वैसा ही है जैसा साँपोंको दूध पिलाना॥ ३०॥
वीरराघवः
एवमभिहितः तमाह श्रीभगवान्नेति । हे पद्मसम्भव ! इतः प्रभृति एवंविधो वरोऽसुराणां ते त्वया न प्रदेयः । क्रूरो निसर्गः स्वभावो येषां तेषां अहीनां सर्पाणाम् अमृतं क्षीरं, यथा क्षीरप्र87दानेन तद्वर्धनं यथा लोकोपद्रवकारि तद्वदिदं तेषां वरप्रदानमित्यर्थः ॥ ३० ॥
श्लोक-३१
मूलम् (वचनम्)
नारद उवाच
विश्वास-प्रस्तुतिः
इत्युक्त्वा भगवान्राजंस्तत्रैवान्तर्दधे हरिः।
अदृश्यः सर्वभूतानां पूजितः परमेष्ठिना॥
मूलम्
इत्युक्त्वा भगवान् राजन् 88ततश्चान्तर्दधे हरिः।
अदृश्यस्सर्वभूतानां पूजितः परमेष्ठिना॥ ३१ ॥
अनुवाद (हिन्दी)
नारदजी कहते हैं—युधिष्ठिर! नृसिंहभगवान् इतना कहकर और ब्रह्माजीके द्वारा की हुई पूजाको स्वीकार करके वहीं अन्तर्धान—समस्त प्राणियोंके लिये अदृश्य हो गये॥ ३१॥
वीरराघवः
एवं ब्रह्माणमनुज्ञाप्य 89भगवान् अन्तर्दधे89 इत्याह - 90देवर्षिः इतीति । हे राजन्! इति इत्थमुक्त्वा 91परमेष्ठिना 92ब्रह्मणा पूजितः 93भगवान् हरिः तत्रैव सर्वभूतानाम् पश्यताम् अदृश्यः दर्शनाविषयो भवतीति तथा अन्तर्हितवान्93 ॥ ३१ ॥
श्लोक-३२
विश्वास-प्रस्तुतिः
ततः सम्पूज्य शिरसा ववन्दे परमेष्ठिनम्।
भवं प्रजापतीन् देवान् प्रह्रादो भगवत्कलाः॥
अनुवाद (हिन्दी)
इसके बाद प्रह्लादजीने भगवत्स्वरूप ब्रह्मा-शंकरकी तथा प्रजापति और देवताओंकी पूजा करके उन्हें माथा टेककर प्रणाम किया॥ ३२॥
वीरराघवः
ततः प्रह्लादः परमेष्ठिनं ब्रह्माणं भवं रुद्रं प्रजापतीन् मरीच्यादीन् देवानिन्द्रादींश्च भगवत्कलाः भगवदंशभूतान् सम्पूज्य शिरसा ववन्दे ननाम ॥ ३२ ॥
श्लोक-३३
विश्वास-प्रस्तुतिः
ततः काव्यादिभिः सार्धं मुनिभिः कमलासनः।
दैत्यानां दानवानां च प्रह्रादमकरोत् पतिम्॥
मूलम्
ततः काव्यादिभिस्सार्धं मुनिभिः कमलासनः।
दैत्यानां दानवानाञ्च प्रह्लादमकरोत्पतिम्॥ ३३ ॥
अनुवाद (हिन्दी)
तब शुक्राचार्य आदि मुनियोंके साथ ब्रह्माजीने प्रह्लादजीको समस्त दानव और दैत्योंका अधिपति बना दिया॥ ३३॥
वीरराघवः
ततः 96कमलासनो96 ब्रह्मा काव्यादिभिः 97भार्गवादिभिः 98मुनिभिः सहितः प्रह्लादं दैत्यानां दानवानाञ्च पतिमकरोत् ॥ ३३ ॥
श्लोक-३४
विश्वास-प्रस्तुतिः
प्रतिनन्द्य ततो देवाः प्रयुज्य परमाशिषः।
स्वधामानि ययू राजन् ब्रह्माद्याः प्रतिपूजिताः॥
मूलम्
प्रतिनन्द्यततो देवाः प्रयुज्य परमाशिषः।
स्वधामानि ययूराजन्! ब्रह्माद्याः 99प्रतिपूजिताः॥ ३४ ॥
अनुवाद (हिन्दी)
फिर ब्रह्मादि देवताओंने प्रह्लादका अभिनन्दन किया और उन्हें शुभाशीर्वाद दिये। प्रह्लादजीने भी यथायोग्य सबका सत्कार किया और वे लोग अपने-अपने लोकोंको चले गये॥ ३४॥
वीरराघवः
हे राजन् ! ततो ब्रह्मादयः सर्वे देवाः प्रह्लादं प्रतिनन्द्य, अहो त्वत्प्रभावोऽनितरसाधारण इत्त्यभिनन्द्य परमाः 100श्रेष्ठाः आशिषः प्रयुज्य प्रह्लादेन प्रतिपूजिताः स्वधामानि स्वकीयस्थानानि ययुः ॥ ३४ ॥
श्लोक-३५
विश्वास-प्रस्तुतिः
एवं तौ पार्षदौ विष्णोः पुत्रत्वं प्रापितौ दितेः।
हृदि स्थितेन हरिणा वैरभावेन तौ हतौ॥
मूलम्
एवं तौ पार्षदौ विष्णोः पुत्रत्वं प्रापितौ दितेः।
हृदि स्थितेन हरिणा वैरभावेन तौ हतौ॥ ३५ ॥
अनुवाद (हिन्दी)
युधिष्ठिर! इस प्रकार भगवान्के वे दोनों पार्षद जय और विजय दितिके पुत्र दैत्य हो गये थे। वे भगवान्से वैरभाव रखते थे। उनके हृदयमें रहनेवाले भगवान्ने उनका उद्धार करनेके लिये उन्हें मार डाला॥ ३५॥
वीरराघवः
तदेवं शिशुपालदन्तवक्त्रयोः भगवन्तं द्विषतोः कथं मुक्तिरिति युधिष्ठरप्रश्नस्य तत्पूर्वजन्मकथनादिमुखे नोक्तमुत्तरमुपसंहराति - एवमिति सप्तभिः । विष्णोः पार्षदौ स्थितौ, विप्रशापेन सनकादीनां शापेन दितेः पुत्रत्वमेवं प्रापितौ । वैरभावेन हेतुना स्वहृदि स्थितेन हरिणा नृसिंहरूपं बिभ्रता हतौ ॥ ३५ ॥
श्लोक-३६
विश्वास-प्रस्तुतिः
पुनश्च विप्रशापेन राक्षसौ तौ बभूवतुः।
कुम्भकर्णदशग्रीवौ हतौ तौ रामविक्रमैः॥
अनुवाद (हिन्दी)
ऋषियोंके शापके कारण उनकी मुक्ति नहीं हुई, वे फिरसे कुम्भकर्ण और रावणके रूपमें राक्षस हुए। उस समय भगवान् श्रीरामके पराक्रमसे उनका अन्त हुआ॥ ३६॥
वीरराघवः
पुनः कुम्भकर्णरावणाख्यौ राक्षसौ बभूवतुः तौ च 104रामस्य दाशरथेः विक्रमैः 105हतौ अभिभूतौ 106इत्यर्थः ॥ ३६ ॥
श्लोक-३७
विश्वास-प्रस्तुतिः
शयानौ युधि निर्भिन्नहृदयौ रामसायकैः।
तच्चित्तौ जहतुर्देहं यथा प्राक्तनजन्मनि॥
मूलम्
शयानौ हृदि निर्भिन्नहृदयौ रामसायकैः।
तच्चित्तौ जहतुर्देहं यथा प्राक्तनजन्मनि॥ ३७ ॥
अनुवाद (हिन्दी)
युद्धमें भगवान् रामके बाणोंसे उनका कलेजा फट गया। वहीं पड़े-पड़े पूर्वजन्मकी भाँति भगवान्का स्मरण करते-करते उन्होंने अपने शरीर छोड़े॥ ३७॥
वीरराघवः
107तौ च रामस्य 108राघवस्य 109सायकैः 110बाणैः निर्भिन्नं हृदयं ययोस्तौ युधि 111युद्धे शयानौ तच्चित्तौ तस्मिन् श्रीरामे एव चित्तं ययोस्तौ यथा प्राक्तनजन्मनि तद्वद्देहं जहतुः त111त्यजतुः ॥ ३७ ॥
श्लोक-३८
विश्वास-प्रस्तुतिः
ताविहाथ पुनर्जातौ शिशुपालकरूषजौ।
हरौ वैरानुबन्धेन पश्यतस्ते समीयतुः॥
अनुवाद (हिन्दी)
वे ही अब इस युगमें शिशुपाल और दन्तवक्त्रके रूपमें पैदा हुए थे। भगवान्के प्रति वैरभाव होनेके कारण तुम्हारे सामने ही वे उनमें समा गये॥ ३८॥
वीरराघवः
तावेवेहशिशुपालकरूषजौ, करूषजो दन्तवक्त्रः शिशुपालदन्तवक्त्ररूपेण जातो पुनर्हरिणा हतौ वैरानुबन्धेन हेतुना ते तव पश्यतस्सतः समीयतुः सायुज्यं प्रापतुः ॥ ३८ ॥
श्लोक-३९
विश्वास-प्रस्तुतिः
एनः पूर्वकृतं यत् तद् राजानः कृष्णवैरिणः।
जहुस्त्वन्ते तदात्मानः कीटः पेशस्कृतो यथा॥
अनुवाद (हिन्दी)
युधिष्ठिर! श्रीकृष्णसे शत्रुता रखनेवाले सभी राजा अन्तसमयमें श्रीकृष्णके स्मरणसे तद्रूप होकर अपने पूर्वकृत पापोंसे सदाके लिये मुक्त हो गये। जैसे भृंगीके द्वारा पकड़ा हुआ कीड़ा भयसे ही उसका स्वरूप प्राप्त कर लेता है॥ ३९॥
वीरराघवः
न केवलं शिशुपालकरूषजावेव समीयतुः अपि त्वन्येऽपि राजानः कृष्ण वैरिणस्ते सर्वेऽपि यदेनः पापं पूर्वं कृतं 116तज्जहुः116 तत्यजुः, तदात्मानः कृष्णात्मानश्चाभवन् । यथा पेशस्कृतश्चिन्त्यमानाद्धेतोः कीटः स्तदात्मा भवति, तद्वत् । तदात्मानस्तत्तुल्यस्वभावा अभवन्नित्यर्थः । आत्मशब्दः स्वभाववाची । तस्यैवाऽऽत्मा स्वभावो येषान्ते इत्युपमानबहुव्रीहिः । अन्यथा दृष्टान्तवैघट्यात् । न हि कीटः पेशस्कृता ऐक्यं याति । किन्तु तस्य समानाकारो भवति । अत एव ह्यनन्तरग्रन्थे साम्यं ययुरित्युक्तम् ॥ ३९ ॥
श्लोक-४०
विश्वास-प्रस्तुतिः
यथा यथा भगवतो भक्त्या परमयाभिदा।
नृपाश्चैद्यादयः सात्म्यं हरेस्तच्चिन्तया ययुः॥
मूलम्
यथा 117यथा भगवतो भक्त्या परमयाऽभिदा117।
नृपाश्चेद्यादय118स्सात्म्यं हरेस्तच्चिन्तया ययुः॥ ४० ॥
अनुवाद (हिन्दी)
जिस प्रकार भगवान्के प्यारे भक्त अपनी भेद-भावरहित अनन्य भक्तिके द्वारा भगवत्स्वरूपको प्राप्त कर लेते हैं, वैसे ही शिशुपाल आदि नरपति भी भगवान्के वैरभावजनित अनन्य चिन्तनसे भगवान्के सारूप्यको प्राप्त हो गये॥ ४०॥
वीरराघवः
यथा अभिदा अनन्यया भक्त्या भगवतस्साम्यं यान्ति तद्भक्ता, स्तथा चैद्यादयोऽपि नृपास्तस्य भगवतश्चिन्तया संरम्भपूर्वकचिन्तया हरेस्साम्यं ययुः ॥ ४० ॥
श्लोक-४१
विश्वास-प्रस्तुतिः
आख्यातं सर्वमेतत् ते यन्मां त्वं परिपृष्टवान्।
दमघोषसुतादीनां हरेः सात्म्यमपि द्विषाम्॥
मूलम्
आख्यातं सर्वमेतत्ते यन्मां त्वं 119परिपृष्टवान्119।
दमघोषसुतादीनां हरेः 120साम्यमपि द्विषाम्॥ ४१ ॥
अनुवाद (हिन्दी)
युधिष्ठिर! तुमने मुझसे पूछा था कि भगवान्से द्वेष करनेवाले शिशुपाल आदिको उनके सारूप्यकी प्राप्ति कैसे हुई। उसका उत्तर मैंने तुम्हें दे दिया॥ ४१॥
वीरराघवः
हे नृप! त्वं मां यत्पृष्टवान् किं तद्द्विषतामपि दमघोषसुतादीनां 121शिशुपालादीनां121 हरेस्साम्यमित्येतत्सर्वं ते तुभ्यम् आख्यातं कथितम्, मयेति शेषः ॥ ४१ ॥
श्लोक-४२
विश्वास-प्रस्तुतिः
एषा ब्रह्मण्यदेवस्य कृष्णस्य च महात्मनः।
अवतारकथा पुण्या वधो यत्रादिदैत्ययोः॥
मूलम्
एषा ब्रह्मण्यदेवस्य कृष्णस्य च महात्मनः।
अवतारकथा पुण्या वधो यत्रादिदैत्ययोः॥ ४२ ॥
अनुवाद (हिन्दी)
ब्रह्मण्यदेव परमात्मा श्रीकृष्णका यह परम पवित्र अवतार-चरित्र है। इसमें हिरण्याक्ष और हिरण्यकशिपु इन दोनों दैत्योंके वधका वर्णन है॥ ४२॥
वीरराघवः
तदेवं प्रश्नस्योत्तरमुपसंहृत्य तदेतदाख्यानं विशिषन् तत्कीर्तनश्रवणादि फलमाह - 122एषेत्यादिभिष्षड्भिः । ब्रह्मणि ब्रह्मकुले साधुर्ब्रह्मण्यः सचाऽसौ देवस्तस्य लोकत्रयमन्तःप्रविश्य बिभ्रतः कृष्णस्य इयमवतारकथा पुण्यापुण्यावहा यत्र कथायामादिदैत्ययोः हिरण्याक्षहिरण्यकशिप्वोः वधः प्रतिपाद्यते ॥ ४२ ॥
श्लोक-४३
विश्वास-प्रस्तुतिः
प्रह्रादस्यानुचरितं महाभागवतस्य च।
भक्तिर्ज्ञानं विरक्तिश्च याथात्म्यं चास्य वै हरेः॥
मूलम्
प्रह्लादस्यानुचरितं महाभागवतस्य च।
भर्क्तिर्ज्ञानं विरक्तिश्च याथात्म्यञ्चाऽस्य वै हरेः॥ ४३ ॥
वीरराघवः
तथा यत्र महाभागवतस्य प्रह्लादस्य चरित्रं भक्तिर्ज्ञानं विरक्तिश्च । भक्तिशब्देन भक्तियोगानुष्ठानप्रकारो विवक्षितः । विरक्तिशब्देन तदुत्पत्तिप्रकारः, ज्ञानशब्देन आत्मयाथात्म्यविवेचनपूर्वक तदनुसन्धानप्रकारः । एतत्सर्वं यत्र कथायां प्रतिपाद्यते इत्यर्थः ॥ ४३ ॥
श्लोक-४४
विश्वास-प्रस्तुतिः
सर्गस्थित्यप्ययेशस्य गुणकर्मानुवर्णनम्।
परावरेषां स्थानानां कालेन व्यत्ययो महान्॥
मूलम्
सर्गस्थित्यप्ययेशस्य गुणकर्मानु123वर्णनम्।
परा124वरेषां स्थानानां 125कालेन126 व्यत्ययो महान्॥ ४४ ॥
अनुवाद (हिन्दी)
इस प्रसंगमें भगवान्के परम भक्त प्रह्लादका चरित्र, भक्ति, ज्ञान, वैराग्य एवं संसारकी सृष्टि, स्थिति और प्रलयके स्वामी श्रीहरिके यथार्थ स्वरूप तथा उनके दिव्य गुण एवं लीलाओंका वर्णन है। इस आख्यानमें देवता और दैत्योंके पदोंमें कालक्रमसे जो महान् परिवर्तन होता है, उसका भी निरूपण किया गया है॥ ४३-४४॥
वीरराघवः
तथा जगत्सर्गस्थितिलयकारणस्य हरेर्याथात्म्यं तत्त्ववर्णनं तस्य गुणानां कर्मणाञ्च वर्णनम्, परावरेषां देवासुरादीनां यानि स्थानानि तेषां कालेन निमित्तेन महान्व्यत्ययो विपर्यासश्च ॥ ४४ ॥
श्लोक-४५
विश्वास-प्रस्तुतिः
धर्मो भागवतानां च भगवान्येन गम्यते।
आख्यानेऽस्मिन्समाम्नातमाध्यात्मिकमशेषतः॥
मूलम्
धर्मो भागवतानाञ्च भगवान्येन गम्यते।
आख्यानेऽस्मिन्समा127ख्यातमाध्यात्मिकमशेषतः॥ ४५ ॥
अनुवाद (हिन्दी)
जिसके द्वारा भगवान्की प्राप्ति होती है, उस भागवत-धर्मका भी वर्णन है। अध्यात्मके सम्बन्धमें भी सभी जाननेयोग्य बातें इसमें हैं॥ ४५॥
वीरराघवः
भगवान् येन गम्यते लभ्यते स भागवतानां धर्मश्च यच्च आध्यात्मिकमात्मानमधिकृत्य वर्तमानं वस्तु चेति तदेतत्सर्वमस्मिन्नाख्याने सम्यगाख्यातम् ॥ ४५ ॥
श्लोक-४६
विश्वास-प्रस्तुतिः
य एतत् पुण्यमाख्यानं विष्णोर्वीर्योपबृंहितम्।
कीर्तयेच्छ्रद्धया श्रुत्वा कर्मपाशैर्विमुच्यते॥
मूलम्
य एतत्पुण्यमाख्यानं विष्णोर्वीर्योपबृंहितम्।
कीर्तयेच्छ्रद्धया श्रुत्वा कर्म128पाशैर्विमुच्यते॥ ४६ ॥
अनुवाद (हिन्दी)
भगवान्के पराक्रमसे पूर्ण इस पवित्र आख्यानको जो कोई पुरुष श्रद्धासे कीर्तन करता और सुनता है, वह कर्मबन्धनसे मुक्त हो जाता है॥ ४६॥
वीरराघवः
यः पुमान् एतद्विष्णोः वीर्येण पराक्रमादि गुणजातेन उपबृंहितं तत्प्रतिपादनेन विस्तीर्णम् अत एव पुण्यमाख्यानं श्रद्धया श्रुत्वा कीर्त129येत्, स पुमान्कर्मपाशैः पुण्यपापात्मकैः कर्मभिरेव पाशैः विमुच्यते ॥ ४६ ॥
श्लोक-४७
विश्वास-प्रस्तुतिः
एतद् य आदिपुरुषस्य मृगेन्द्रलीलां
दैत्येन्द्रयूथपवधं प्रयतः पठेत।
दैत्यात्मजस्य च सतां प्रवरस्य पुण्यं
श्रुत्वानुभावमकुतोभयमेति लोकम्॥
मूलम्
एतद्य आदिपुरुषस्य मृगेन्द्रलीलां दैत्येन्द्रयूथपवधं प्रयतः पठेत।
दैत्यात्मजस्य च सतां प्रवरस्य पुण्यं श्रुत्वानुभावमकुतोभयमेति लोकम्॥ ४७ ॥
अनुवाद (हिन्दी)
जो मनुष्य परम पुरुष परमात्माकी यह श्रीनृसिंहलीला, सेनापतियों सहित हिरण्यकशिपुका वध और संतशिरोमणि प्रह्लादजीका पावन प्रभाव एकाग्र मनसे पढ़ता और सुनता है, वह भगवान्के अभयपद वैकुण्ठको प्राप्त होता है॥ ४७॥
वीरराघवः
किञ्च । यः पुमानादिपुरुषस्य मृगेन्द्रस्य सिंहस्येव या लीला दैत्येन्द्रयूथपवधात्मिका प्रतिपाद्या, यस्मिन् तदे तदाख्यानं प्रयतस्समाहितचित्तः सतां प्रवरस्य दैत्यात्मजस्य प्रह्लादस्य पुण्यं प्रभावञ्च श्रुत्वा पठेत पठेत् सोऽकुतो भयं कुतश्चिद्भयरहितं लोकं वैकु130ण्ठाख्यं एति प्राप्नोति । पूर्वं कर्मपाशैः विमुच्यत इत्युक्तम् । अत्राऽकृतोभयं लोकमेतीत्युक्तम् कर्मपाशविमोचनद्वारा अकुतोभयं लोकमेतीत्यर्थः । अतोऽत्र न पौनरुक्त्यम् ॥ ४७ ॥
श्लोक-४८
विश्वास-प्रस्तुतिः
यूयं नृलोके बत भूरिभागा
लोकं पुनाना मुनयोऽभियन्ति।
येषां गृहानावसतीति साक्षाद्
गूढं परं ब्रह्म मनुष्यलिङ्गम्॥
मूलम्
यूयं नृलोके बत भूरिभागा लोकं पुनाना मुनयोभि131यान्ति।
येषां गृहानावसतीति साक्षात् गूढं परं ब्रह्म मनुष्यलिङ्गम्॥ ४८ ॥
अनुवाद (हिन्दी)
युधिष्ठिर! इस मनुष्यलोकमें तुमलोगोंके भाग्य अत्यन्त प्रशंसनीय हैं, क्योंकि तुम्हारे घरमें साक्षात् परब्रह्म परमात्मा मनुष्यका रूप धारण करके गुप्तरूपसे निवास करते हैं। इसीसे सारे संसारको पवित्र कर देनेवाले ऋषि-मुनि बार-बार उनका दर्शन करनेके लिये चारों ओरसे तुम्हारे पास आया करते हैं॥ ४८॥
वीरराघवः
अहो प्रह्लादस्य भाग्यं येन भगवान् दृष्टः वयन्तु मन्दभाग्या इति विषीदन्तं युधिष्ठिरमाह - यूयमिति त्रिभिः । नृलोके यूय132महो बत भूरिभागाः अहो बहुभाग्यवन्तः, तदेवव्यञ्जयन् तान्विशिनष्टि, येषां युष्माकं गृहान् लोकं पुनानाः मुनयोऽभियान्ति सर्वतस्समायान्ति । तत्कुतः ? मनुष्यलिङ्गं मनुष्यस्येव लिङ्गं शरीरं यस्य तत् परं ब्रह्म श्रीकृष्णरूपं गूढं प्रच्छन्नं सर्वेषां युष्माकं गृहानावसति इति हेतोस्समायान्ति ॥ ४८ ॥
श्लोक-४९
विश्वास-प्रस्तुतिः
स वा अयं ब्रह्म महद्विमृग्य-
कैवल्यनिर्वाणसुखानुभूतिः।
प्रियः सुहृद् वः खलु मातुलेय
आत्मार्हणीयो विधिकृद् गुरुश्च॥
मूलम्
स वा अयं ब्रह्म महद्वि133मृग्यं कैवल्यनिर्वाणसुखानुभूतिः।
प्रियस्सुहृद्वः खलु मातुलेय 134आत्मार्हणीयो विधिकृद्गुरुश्च॥ ४९ ॥
अनुवाद (हिन्दी)
बड़े-बड़े महापुरुष निरन्तर जिनको ढूँढ़ते रहते हैं, जो मायाके लेशसे रहित परम शान्त परमानन्दानुभवस्वरूप परब्रह्म परमात्मा हैं—वे ही तुम्हारे प्रिय, हितैषी, ममेरे भाई, पूज्य, आज्ञाकारी, गुरु और स्वयं आत्मा श्रीकृष्ण हैं॥ ४९॥
वीरराघवः
ननु श्रीकृष्णोऽस्माकं मातुलेयः कथं ब्रह्मेत्युच्यते ? तत्राऽह - स वा इति । 135स वै सोऽयं श्रीकृष्णो ब्रह्मैव । किं तद्ब्रह्म ? यदभिन्नः श्रीकृष्णो 136यन्महद्भिः विमृग्यम् अन्वेषणीयं केवलं ध्येयमित्यर्थः । केवलनिर्दुःखसुखात्मकज्ञानरूपम् एवम्भूतब्रह्माभिन्नः श्रीकृष्णः136 वो युष्माकं न केवलं मातुलेयोऽपि तु प्रियस्सुहच्च । आत्मा अन्तरात्मा, अर्हणीयः पूज्यः विधिकृन्नियोगकारी, गुरुर्हितोपदेष्टा च । एवमनेकधा युष्माकं तत्सम्बन्धिनां भाग्यं कियदिति वक्तव्यमिति भावः । महद्विमृग्यमित्यनेन महतामपि तत्स्वरूपं यथावद्दुरवगममित्युक्तम् । प्रियसुहृदित्यनेन तन्महद्विमृग्यं ब्रह्म स्वयमेव युष्माकं प्रसन्नमिति च ॥ ४९ ॥
श्लोक-५०
विश्वास-प्रस्तुतिः
न यस्य साक्षाद् भवपद्मजादिभी
रूपं धिया वस्तुतयोपवर्णितम्।
मौनेन भक्त्योपशमेन पूजितः
प्रसीदतामेष स सात्वतां पतिः॥
मूलम्
न यस्य साक्षाद्भवपद्मजादिभी रूपं धिया वस्तुतयोपवर्णितम्।
मौनेन भक्त्योपशमेन पूजितः प्रसीदतामेष स सात्वतां पतिः॥ ५० ॥137
अनुवाद (हिन्दी)
शंकर, ब्रह्मा आदि भी अपनी सारी बुद्धि लगाकर ‘वे यह हैं’—इस रूपमें उनका वर्णन नहीं कर सके, फिर हम तो कर ही कैसे सकते हैं। हम तो मौन, भक्ति और संयमके द्वारा ही उनकी पूजा करते हैं। कृपया हमारी यह पूजा स्वीकार करके भक्तवत्सल भगवान् हमपर प्रसन्न हों॥ ५०॥
वीरराघवः
तन्महद्विमृग्यमेव प्रपञ्चयन् तत्प्रसादं प्रार्थयते - नेति । यस्य भगवतो रूपं भवपद्मजादिभिः 138रुद्रब्रह्मादिभिः138 धिया स्वमनीषया वस्तुतया याथात्म्येन नोपवर्णितम् उपवर्णितं विषयीकृतं न भवति, वाङ्मनसगोचरस्त्ररूपस्वभावत्वात् तैरेतावदित्युपवर्णितुमशक्यमित्यर्थः । किन्तु केवलं मौनेन शुभाश्रयसंशीलनरूपेण भक्त्योपासनात्मिकया प्रीतिरूपया उपशमेनेन्द्रियजयादिना च पूजितः आराधितः सः सात्त्वतां योगेश्वराणां पतिर्भगवान् मे मह्यं प्रसीदतां प्रसन्नो भवतु ॥ ५० ॥
श्लोक-५१
विश्वास-प्रस्तुतिः
स एष भगवान् राजन् व्यतनोद् विहतं यशः।
पुरा रुद्रस्य देवस्य मयेनानन्तमायिना॥
अनुवाद (हिन्दी)
युधिष्ठिर! यही एकमात्र आराध्यदेव हैं। प्राचीन कालमें बहुत बड़े मायावी मयासुरने जब रुद्रदेवकी कमनीय कीर्तिमें कलंक लगाना चाहा था, तब इन्हीं भगवान् श्रीकृष्णने फिरसे उनके यशकी रक्षा और विस्तार किया था॥ ५१॥
वीरराघवः
एवं सम्प्रार्थ्य श्रीकृष्णस्य मनुष्यलिङ्गस्य परब्रह्मत्वसूचकमितिहासं प्रस्तोष्यन् तत्प्रश्रावसरप्रदानाय श्रीकृष्णं विशिनष्टि - स इति । हे राजन् ! स एष भगवान् ज्ञानशक्तिबलैश्वर्यादिषाड्गुण्ययुक्तः श्रीकृष्णः पुरा अनन्तमायिना अनन्ता बह्व्यो माया यस्य तेन मयेन निमित्तभूतेन रुद्रस्य देवस्य यद्विहतं यशः तद्व्यतनोत् । 143तेनानेन रुद्रादीनामपि यश आदिगुणबृहत्त्वाधायकत्वकथनेन स्वयमबृहत् इतरेषां तदाधायकत्वायोगात् सामर्थ्यात्तस्याऽपि तल्लाभेन च परब्रह्मत्वं सूचितम् ॥ ५१ ॥
श्लोक-५२
मूलम् (वचनम्)
राजोवाच
विश्वास-प्रस्तुतिः
कस्मिन् कर्मणि देवस्य मयोऽहञ्जगदीशितुः।
यथा चोपचिता कीर्तिः कृष्णेनानेन कथ्यताम्॥
अनुवाद (हिन्दी)
राजा युधिष्ठिरने पूछा—नारदजी! मयदानव किस कार्यमें जगदीश्वर रुद्रदेवका यश नष्ट करना चाहता था और भगवान् श्रीकृष्णने किस प्रकार उनके यशकी रक्षा की? आप कृपा करके बतलाइये॥ ५२॥
वीरराघवः
तदेवं लब्धप्रश्रावसरो युधिष्ठिरः 146विहतयश उपचयप्रकारं बुभुत्सुः पृच्छति - कस्मिन्निति । जगदीशितुः भगवदायत्तजगदीशितृत्वस्य “विलोक्य भग्नसङ्कल्पं विमनस्कं वृषध्वजम्” (भाग 7-10-61) इत्यादिना भगवदायत्तसामर्थ्यस्य वक्ष्यमाणत्वाद्देवस्य रुद्रस्य कीर्तिः कस्मिन् कर्मणि अनेन श्रीकृष्णेन कर्त्रा मयेन निमित्तेन उपचिता वर्धिता तत्कथ्यताम् ॥ ५२ ॥
श्लोक-५३
मूलम् (वचनम्)
नारद उवाच
विश्वास-प्रस्तुतिः
निर्जिता असुरा देवैर्युध्यनेनोपबृंहितैः।
मायिनां परमाचार्यं मयं शरणमाययुः॥
अनुवाद (हिन्दी)
नारदजीने कहा—एक बार इन्हीं भगवान् श्रीकृष्णसे शक्ति प्राप्त करके देवताओंने युद्धमें असुरोंको जीत लिया था। उस समय सब-के-सब असुर मायावियोंके परमगुरु मयदानवकी शरणमें गये॥ ५३॥
वीरराघवः
इति पृष्ट आह देवर्षिः - निर्जिता इत्यादिना । अनेन रुद्रेणोपबृंहितैराहितबलैर्देवैः निर्जिता असुरा मायिनां 149परमाचार्यं149 परमाचार्याणामप्याचार्यमयं शरणं जग्मुः ॥ ५३ ॥
श्लोक-५४
विश्वास-प्रस्तुतिः
स निर्माय पुरस्तिस्रो हैमीरौप्यायसीर्विभुः।
दुर्लक्ष्यापायसंयोगा दुर्वितर्क्यपरिच्छदाः॥
मूलम्
स नि150र्ममे पुरस्तिस्रो 151हैमीरौप्याय152सीर्विभुः।
दुर्ल153क्ष्यापायसंयो154गा 155दुर्वितर्क्यपरिच्छदाः॥ ५४ ॥
अनुवाद (हिन्दी)
शक्तिशाली मयासुरने सोने, चाँदी और लोहेके तीन विमान बना दिये। वे विमान क्या थे, तीन पुर ही थे। वे इतने विलक्षण थे कि उनका आना-जाना जान नहीं पड़ता था। उनमें अपरिमित सामग्रियाँ भरी हुई थीं॥ ५४॥
वीरराघवः
ततस्स विभुः समर्थो मयः, हेम्नो विकृतिर्हैमी, रूप्यस्य रजतस्य रौप्या, अयसो लोहस्य आयसी त्रयाणामितरेतरयोगद्वन्द्वः | तास्तिस्रः पुरो निर्माय, असुरेभ्यो ददाविति शेषः । पुरो विशिनष्टि । दुर्लक्ष्यः दर्शनाविषयः अपायः संयोगश्च यासां ता इमाः पुरः अत्राऽगताः, इतो गताश्चेति जनैरलक्षिता इत्यर्थः । तथा दुर्वितर्क्याः सार्वजनीनसाधारण्येन तर्कितुमशक्याः परिच्छदा उपकरणानि यासां ताः ॥ ५४ ॥
श्लोक-५५
विश्वास-प्रस्तुतिः
ताभिस्तेऽसुरसेनान्यो लोकांस्त्रीन्सेश्वरान् नृप।
स्मरन्तो नाशयाञ्चक्रुः पूर्ववैरमलक्षिताः॥
मूलम्
ताभिस्तेऽसुरसेनान्यो लोकांस्त्रीन् सेश्वरान्नृपः।
स्मरन्तो नाशयाञ्चक्रुः पूर्ववैरमलक्षिताः॥ ५५ ॥
अनुवाद (हिन्दी)
युधिष्ठिर! दैत्यसेनापतियोंके मनमें तीनों लोक और लोकपतियोंके प्रति वैरभाव तो था ही, अब उसकी याद करके उन तीनों विमानोंके द्वारा वे उनमें छिपे रहकर सबका नाश करने लगे॥ ५५॥
वीरराघवः
ताभिर्विमानरूपाभिः अपेक्षितदेशगमनक्षमाभिः पुरीभिरसुरसेनान्यः 156दैत्यसेनानायकाः हे नृप ! अलक्षिताः देवैरदृश्यमानाः पूर्ववैरं स्मरन्तः सेश्वरान् सपालान् त्रीन् लोकान् नाशयाञ्चक्रुः नाशयितुमारब्धवन्त इत्यर्थः ॥ ५५ ॥
श्लोक-५६
विश्वास-प्रस्तुतिः
ततस्ते सेश्वरा लोका उपासाद्येश्वरं विभोः।
त्राहि नस्तावकान्देव विनष्टांस्त्रिपुरालयैः॥
मूलम्
ततस्ते सेश्वरा लोका उपा157साद्येश्वरं विभोः157!।
त्राहि नस्तावकान्देव! विन158ष्टांस्त्रिपुरालयैः॥ ५६ ॥
अनुवाद (हिन्दी)
तब लोकपालोंके साथ सारी प्रजा भगवान् शंकरकी शरणमें गयी और उनसे प्रार्थना की कि ‘प्रभो! त्रिपुरमें रहनेवाले असुर हमारा नाश कर रहे हैं। हम आपके हैं; अतः देवाधिदेव! आप हमारी रक्षा कीजिये’॥ ५६॥
वीरराघवः
ततस्ते सेश्वरा इन्द्रादिलोकपालैस्सहिता लोका जनाः ईश्वरं रुद्रमुपासाद्य प्राप्य आनतास्सन्त ऊचुः । तदेवाऽह - हे विभो ! त्रीणि पुराणि आलयाः स्थानानि येषां तैर्विनष्टान् तावकान् त्वदीयान् अस्मान् हे देव । 159रुद्र ! पाहि पालयेति ॥ ५६ ॥
श्लोक-५७
विश्वास-प्रस्तुतिः
अथानुगृह्य भगवान् मा भैष्टेति सुरान्विभुः।
शरं धनुषि सन्धाय पुरेष्वस्त्रं व्यमुञ्चत॥
मूलम्
अथाऽनुगृह्य भगवान्मा भैष्टेति सुरान्विभुः।
शरं धनुषि सन्धाय 160पुरेष्वस्त्रं व्यमुञ्चत॥ ५७ ॥
अनुवाद (हिन्दी)
उनकी प्रार्थना सुनकर भगवान् शंकरने कृपापूर्ण शब्दोंमें कहा—‘डरो मत।’ फिर उन्होंने अपने धनुषपर बाण चढ़ाकर तीनों पुरोंपर छोड़ दिया॥ ५७॥
वीरराघवः
अथ तद्विज्ञापनानन्तरं तान् सुरान् माभैष्ट भयमाकार्ष्ट इत्यनुगृह्य भगवान् विभू रुद्रः धनुषि शरं बाणं सन्धाय अस्त्रं पाशुपतं तस्मिन्, संयोज्येति शेषः । पुरेषु व्यमुञ्चत ॥ ५७ ॥
श्लोक-५८
विश्वास-प्रस्तुतिः
ततोऽग्निवर्णा इषव उत्पेतुः सूर्यमण्डलात्।
यथा मयूखसंदोहा नादृश्यन्त पुरो यतः॥
मूलम्
ततोऽग्निवर्णा इषव उत्पेतुः सूर्यमण्डलात्।
यथा मयूखसन्दोहा नादृश्यन्त पुरो यतः॥ ५८ ॥
अनुवाद (हिन्दी)
उनके उस बाणसे सूर्यमण्डलसे निकलनेवाली किरणोंके समान अन्य बहुत-से बाण निकले। उनमेंसे मानो आगकी लपटें निकल रही थीं। उनके कारण उन पुरोंका दीखना बंद हो गया॥ ५८॥
वीरराघवः
ततश्शरात् यथा सूर्यमण्डलात् मयूखसन्दोहाः रश्मिसमूहाः, तथा अग्रिवर्णा इषवो बाणा उत्पेतुः । यतो येभ्य इषुभ्यः पुरो नाऽदृश्यन्त, 161जनैरिति शेषः । तावद्भिः इषुभिः प्रच्छन्ना161 बभूवुरित्यर्थः ॥ ५८ ॥
श्लोक-५९
विश्वास-प्रस्तुतिः
तैः स्पृष्टा व्यसवः सर्वे निपेतुः स्म पुरौकसः।
तानानीय महायोगी मयः कूपरसेऽक्षिपत्॥
मूलम्
तैः 162स्पृष्टा व्यसवस्सर्वे निपे163तुस्त्रिपुरौकसः।
तानानीय महायो164गी मयः कूपरसेऽक्षिपत्॥ ५९ ॥
अनुवाद (हिन्दी)
उनके स्पर्शसे सभी विमानवासी निष्प्राण होकर गिर पड़े। महामायावी मय बहुत-से उपाय जानता था, वह उन दैत्योंको उठा लाया और अपने बनाये हुए अमृतके कुएँमें डाल दिया॥ ५९॥
वीरराघवः
165ततः किम् ? अत आह165 - तैरिषुभिः स्पृष्टास्ताडिताः त्रीणि पुराणि ओकांसि स्थानानि येषां ते असुराः सर्वे व्यसवः विगता असवः प्राणा येषां तादृशास्सन्तो निपेतुः पतितवन्तः । तान् व्यसूनसुरानानीय महायोगी मयः कूपरसे स्वयं 166विनिर्मितकूपणते रसे मृतसञ्जीवयितिर, अक्षिपदपातयत् ॥ ५९ ॥
श्लोक-६०
विश्वास-प्रस्तुतिः
सिद्धामृतरसस्पृष्टा वज्रसारा महौजसः।
उत्तस्थुर्मेघदलना वैद्युता इव वह्नयः॥
अनुवाद (हिन्दी)
उस सिद्ध अमृत-रसका स्पर्श होते ही असुरोंका शरीर अत्यन्त तेजस्वी और वज्रके समान सुदृढ़ हो गया। वे बादलोंको विदीर्ण करनेवाली बिजलीकी आगकी तरह उठ खड़े हुए॥ ६०॥
वीरराघवः
ते च सिद्धामृतरसेन स्पृष्टा असुराः वज्रसारवत् दृढाङ्गाः महौजसः महाबलास्सन्तः मेघदलनात् मेघच्छेदात् विद्युद्रुपा बह्नय इव उत्तस्थुः उत्थितवन्तः ॥ ६० ॥
श्लोक-६१
विश्वास-प्रस्तुतिः
विलोक्य भग्नसङ्कल्पं विमनस्कं वृषध्वजम्।
तदायं भगवान्विष्णुस्तत्रोपायमकल्पयत्॥
मूलम्
विलोक्य भग्नसङ्कल्पं विमनस्कं वृषध्वजम्।
तदायं भगवान्विष्णु169स्तत्रोपायमकल्पयत्॥ ६१ ॥
अनुवाद (हिन्दी)
इन्हीं भगवान् श्रीकृष्णने जब देखा कि महादेवजी तो अपना संकल्प पूरा न होनेके कारण उदास हो गये हैं, तब उन असुरोंपर विजय प्राप्त करनेके लिये इन्होंने एक युक्ति की॥ ६१॥
वीरराघवः
तथा भग्नस्सङ्कल्पो यस्य अत एव विमनस्कं दुःखितमनस्कं वृषध्वजं रुद्रं विलोक्याऽयं भगवान् श्रीकृष्णरूपो विष्णुः तत्र सिद्धामृतस्य विनाशे उपायमकल्पयत् ॥ ६१ ॥
श्लोक-६२
विश्वास-प्रस्तुतिः
वत्स आसीत्तदा ब्रह्मा स्वयं विष्णुरयं हि गौः।
प्रविश्य त्रिपुरं काले रसकूपामृतं पपौ॥
मूलम्
वत्स आसीत्तदा ब्रह्मा स्वयं विष्णुरयं हि गौः।
प्रविश्य त्रिपुरं काले 170रसकूपामृतं पपौ॥ ६२ ॥
अनुवाद (हिन्दी)
यही भगवान् विष्णु उस समय गौ बन गये और ब्रह्माजी बछड़ा बने। दोनों ही मध्याह्नके समय उन तीनों पुरोंमें गये और उस सिद्धरसके कुएँका सारा अमृत पी गये॥ ६२॥
वीरराघवः
तदेवाऽह - वत्स इति । अयं श्रीकृष्णरूपो विष्णुः स्वयं गौः 171धेनुः आसीत् । ब्रह्मा चतुर्मुखो वत्स आसीत् । ततो गोरूपोऽयं विष्णुः सवत्सः त्रिपुरं त्रयाणां पुराणां समाहारः, तत्प्रविश्य काले मध्याह्ने रसकृपामृतं 172रसरूपं कुपगतममृतं172 पपावपिबत् ॥ ६२ ॥
श्लोक-६३
विश्वास-प्रस्तुतिः
तेऽसुरा ह्यपि पश्यन्तो न न्यषेधन्विमोहिताः।
तद् विज्ञाय महायोगी रसपालानिदं जगौ॥
मूलम्
173तेऽसुरा ह्यपि पश्यन्तो न न्यषे174धन्विमोहिताः।
175तद्विज्ञाय 176मयो योगी रसपालानिदं जगौ॥ ६३ ॥
वीरराघवः
तेऽसुराः पिबन्तीं गां पश्यन्तोऽपि भगवन्मायाविमोहिताः न न्यषेधन् न न्यवारयन् । तत्पानं ज्ञात्वा महायोगी मयः रसं कूपामृतरसं पालयन्तीति तथा, तानसुरान् शोकार्तान् तां दैवगतिं स्मरन् अत एव विगतशोकः स्वयं स्मयन् इदं वक्ष्यमाणं 177जगौ 178उवाच ॥ ६३ ॥
श्लोक-६४
विश्वास-प्रस्तुतिः
स्वयं विशोकः शोकार्तान्स्मरन्दैवगतिं च ताम्।
देवोऽसुरो नरोऽन्यो वा नेश्वरोऽस्तीह कश्चन॥
मूलम्
179स्मयन्विशोकश्शोकार्तान्स्मरन्दैवगतिंञ्च ताम्।
देवोऽसुरो 180नरोऽन्यो वा नेश्वरोऽस्तीह कश्चन॥ ६४ ॥
श्लोक-६५
विश्वास-प्रस्तुतिः
आत्मनोऽन्यस्य वा दिष्टं दैवेनापोहितुं द्वयोः।
अथासौ शक्तिभिः स्वाभिः शम्भोः प्राधानिकं व्यधात्॥
मूलम्
आत्मनोऽन्यस्य वा दिष्टं दैवेनापोहितुं द्वयोः।
अथासौ शक्तिभिः स्वाभिश्शम्भोः प्रा181धनिकं व्यधात्॥ ६५ ॥
अनुवाद (हिन्दी)
यद्यपि उसके रक्षक दैत्य इन दोनोंको देख रहे थे, फिर भी भगवान्की मायासे वे इतने मोहित हो गये कि इन्हें रोक न सके। जब उपाय जाननेवालोंमें श्रेष्ठ मयासुरको यह बात मालूम हुई, तब भगवान्की इस लीलाका स्मरण करके उसे कोई शोक न हुआ। शोक करनेवाले अमृत-रक्षकोंसे उसने कहा—‘भाई! देवता, असुर, मनुष्य अथवा और कोई भी प्राणी अपने, पराये अथवा दोनोंके लिये जो प्रारब्धका विधान है, उसे मिटा नहीं सकता। जो होना था, हो गया। शोक करके क्या करना है?’ इसके बाद भगवान् श्रीकृष्णने अपनी शक्तियोंके द्वारा भगवान् शंकरके युद्धकी सामग्री तैयार की॥ ६३—६५॥
वीरराघवः
तदेवाऽह - देव इति । आत्मनोऽन्यस्य वा द्वयोरपि दैवेनेश्वरेण दिष्टमुपकल्पितं सुखं दुःखं वा अपोहितुमिह लोके दैवादन्यतमो यः कश्चि182द्देवादिर्नेश्वरः न प्रभुर्न समर्थः । 183दैवमेव सुखदुःखादिहेतुरित्यर्थः183 । अथ निश्शेषकृपामृतरसपानानन्तरम् असौ श्रीकृष्णः धर्मादिभिः स्वाभिश्शक्तिभिः शम्भो रुद्रस्य प्राधनिकं प्रधनं सङ्ग्रामः तत्साधनं यत् रथसूतादिरूपं तद्व्यधात् । क्रमेण धर्मादिशक्तिरेव रथादिरूपेणाऽकरोदित्यर्थः । स्वशक्त्याहितशक्तिमकरोदिति यावत् ॥ ६४,६५ ॥
श्लोक-६६
विश्वास-प्रस्तुतिः
धर्मज्ञानविरक्त्यृद्धितपोविद्याक्रियादिभिः।
रथं सूतं ध्वजं वाहान् धनुर्वर्म शरादि यत्॥
मूलम्
धर्मज्ञानविर184क्त्यृद्धितपोविद्याक्रियादिभिः।
रथं सूतं ध्वजं वा185हान् धनुर्वर्मशरादि यत्॥ ६६ ॥
अनुवाद (हिन्दी)
उन्होंने धर्मसे रथ, ज्ञानसे सारथि, वैराग्यसे ध्वजा, ऐश्वर्यसे घोड़े, तपस्यासे धनुष, विद्यासे कवच, क्रियासे बाण और अपनी अन्यान्य शक्तियोंसे अन्यान्य वस्तुओंका निर्माण किया॥ ६६॥
वीरराघवः
तत्र शक्तिर्नाम स्वापृथक्सिद्धविशेषणभूतकार्योपयुक्ता सा च धर्मादिरूपेण बहुविधा । तत्र धर्मशक्तिर्नाम साधुपरित्राणसामर्थ्यात्मिका । ज्ञानशक्तिरिह - “यस्सर्वज्ञस्सर्ववित् सर्वदर्शः स्वाधीनोऽनादिः सर्वेश्वरः सर्वदृक” (मुण्ड. उ. 2-2-7) इत्यादिभ्योऽवगता सर्वसाक्षात्कारसामर्थ्यात्मिका । तथाचोक्तं श्रीमन्नाथमुनिभिः “योवेत्ति युगपत्सर्वं प्रत्यक्षेण सदा स्वतः” (न्यायतत्वम्- 1) इति । “विरक्तिर्नाम सर्वमिदमभ्यात्तोऽवाक्यनादरः” (छान्दो.उ. 3-14-2) इति श्रुत्यवगतावाप्तसमस्तकामत्वेऽपि तदनादरेणाऽवस्थानसाम्मर्थ्यात्मिका ऋद्धिनमैिश्वर्यम् “एष सर्वेश्वरः कृष्णः” इत्यादि प्रमाणावगतं सर्वान्तरात्मत्वेन नियन्तृसामर्थ्यम्, 186तपश्शक्तिर्नाम186 “स तपोऽतप्यत, सतपस्तप्त्वा, इदं सर्वमसृजत” (तैत्ति. उ. 2-6) इत्याद्यवगता जगद्रक्षणोपयुक्तसङ्कल्परूपज्ञानात्मिका, विद्या नाम “सत्यकामः सत्यसङ्कल्पः " ( छान्दो. उ. 8-1-5) इत्याद्यवगता सत्यसङ्कल्पात्मिका, सत्यसङ्कल्पत्वञ्च स्वावताराद्यपूर्वभोग्यान्तरसृष्टौ जगद्व्यापारादिषु चाऽमोघसङ्कल्पत्वम्, क्रिया नाम अघटितघटनात्मिका “स्वाभाविकी ज्ञानबलक्रिया च” (श्वेता. उ. 6-8) इत्याद्यवगता । आदिशब्देन बलवीर्यतेजआदयः । तत्र बलं श्रमप्रसङ्गरहितं सर्वधारणसामर्थ्यम्, “एष सेतुर्विधारणः” (मैत्र. उ. 77) इत्यादिभ्योऽवगतम्, वीर्यं नाम सर्वधारणेऽपि विकाररहितत्वम्, तेजः अस्वाधीनसहकार्यनपेक्षत्वम् । रथमिति वाहानश्वान्, वर्म कवचम्, आदिशब्देन प्रग्रहादिकं गृह्यते ॥ ६६ ॥
श्लोक-६७
विश्वास-प्रस्तुतिः
सन्नद्धो रथमास्थाय शरं धनुरुपाददे।
शरं धनुषि सन्धाय मुहूर्तेऽभिजितीश्वरः॥
वीरराघवः
भगवद्धर्मशक्त्यात्मकं रथमारुह्य सन्नद्धः क्वचित् ईश्वरो रुद्रः शरं धनुश्चोपाददे स्वीकृतवान् । ततो धनुषि शरं सन्धाय अभिजित मुहूर्ते अभिजिन्नामके मुहूर्ते 188दिवसस्याष्टमे मुहूर्ते188 ॥ ६७ ॥
श्लोक-६८
विश्वास-प्रस्तुतिः
ददाह तेन दुर्भेद्या हरोऽथ त्रिपुरो नृप।
दिवि दुन्दुभयो नेदुर्विमानशतसङ्कुलाः॥
अनुवाद (हिन्दी)
इन सामग्रियोंसे सज-धजकर भगवान् शंकर रथपर सवार हुए एवं धनुष-बाण धारण किया। भगवान् शंकरने अभिजित् मुहूर्तमें धनुषपर बाण चढ़ाया और उन तीनों दुर्भेद्य विमानोंको भस्म कर दिया। युधिष्ठिर! उसी समय स्वर्गमें दुन्दुभियाँ बजने लगीं। सैकड़ों विमानोंकी भीड़ लग गयी॥ ६७-६८॥
वीरराघवः
भगवतः श्रीकृष्णस्य तेजसोक्तविधेन युक्तस्त्रिपुरं ददाह बाणप्रयोगद्वारेण दग्धवान्। हे नृप ! तदा दिविदुन्दुभयो नेदुः दध्वनुः । विमानशतानि सङ्कुलानि येषां ते ॥ ६८ ॥
श्लोक-६९
विश्वास-प्रस्तुतिः
देवर्षिपितृसिद्धेशा जयेति कुसुमोत्करैः।
अवाकिरञ्जगुर्हृष्टा ननृतुश्चाप्सरोगणाः॥
मूलम्
देवर्षिपितृसिद्धेशा जयेति कुसुमोत्करैः।
अवाकिरञ्जगुर्हृष्टा ननृतुश्चाऽप्सरोगणाः॥ ६९ ॥
अनुवाद (हिन्दी)
देवता, ऋषि, पितर और सिद्धेश्वर आनन्दसे जय-जयकार करते हुए पुष्पोंकी वर्षा करने लगे। अप्सराएँ नाचने और गाने लगीं॥ ६९॥
वीरराघवः
देवर्ष्यादयः, जयेति वदन्त इति शेषः । उत्कर्षेण वर्तस्वेति वदन्तः कुसुमोत्करैः पुष्पवर्षैः शम्भुमवाकिरन् ववृषुः । अप्सरसां गणाश्च जगुर्ननृतुश्च ॥ ६९ ॥
श्लोक-७०
विश्वास-प्रस्तुतिः
एवं दग्ध्वा पुरस्तिस्रो भगवान्पुरहा नृप।
ब्रह्मादिभिः स्तूयमानः स्वधाम प्रत्यपद्यत॥
मूलम्
एवं दग्ध्वा पुरस्तिस्रो भगवान्पुरहा नृप।
ब्रह्मादिभिः स्तूयमानः 192स्वधाम प्रत्यपद्यत॥ ७० ॥
अनुवाद (हिन्दी)
युधिष्ठिर! इस प्रकार उन तीनों पुरोंको जलाकर भगवान् शंकरने ‘पुरारि’ की पदवी प्राप्त की और ब्रह्मादिकोंकी स्तुति सुनते हुए अपने धामको चले गये॥ ७०॥
वीरराघवः
हे नृप ! एवमित्थं तिस्रः पुरः पुरीर्दग्ध्वा पुरहा भगवान् रुद्रः ब्रह्मादिभिः स्तूयमानः स्वस्थानं प्रत्यपद्यत प्राप्तवान् ॥ ७० ॥
श्लोक-७१
विश्वास-प्रस्तुतिः
एवंविधान्यस्य हरेः स्वमायया
विडम्बमानस्य नृलोकमात्मनः।
वीर्याणि गीतान्यृषिभिर्जगद्गुरो-
र्लोकान् पुनानान्यपरं वदामि किम्॥
मूलम्
एवंविधान्यस्य हरेः स्वमायया विडम्बमानस्य नृलोकमात्मनः।
वीर्याणि गीतान्यृषिभिर्जगद्गुरोर्लोकान् पुनानान्यपरं व193दामि किम्॥
अनुवाद (हिन्दी)
आत्मस्वरूप जगद्गुरु भगवान् श्रीकृष्ण इस प्रकार अपनी मायासे जो मनुष्योंकी-सी लीलाएँ करते हैं, ऋषिलोग उन्हीं अनेकों लोकपावन लीलाओंका गान किया करते हैं। बताओ, अब मैं तुम्हें और क्या सुनाऊँ?॥ ७१॥
अनुवाद (समाप्ति)
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां सप्तमस्कन्धे युधिष्ठिरनारदसंवादे त्रिपुरविजयो नाम दशमोऽध्यायः॥ १० ॥
वीरराघवः
श्रीकृष्णस्य परब्रह्माभिन्नत्वसूचकप्रभावप्रतिपादनमुपसंहरन् प्रश्रान्तरावसरं प्रयच्छति - एवमिति । आत्मनः स्वस्य मायया सङ्कल्पेन, न तु कर्मणेति भावः । नृलोकं विडम्बमानस्य अनुकुर्वतः, इतरसजातीयचेष्टां कुर्वत इत्यर्थः । हरेराश्रितार्तिहरस्य लोकस्य हितोपदेष्टुरस्य श्रीकृष्णस्य ऋषिभिरस्मदादिभिर्गीतान्येवंविधानि वीर्याणि लोकं पुनानानि बहूनि सन्तीति शेषः । साकल्येन केनाऽपि वक्तुं न शक्यानीति भावः । अपरमन्यत्किं वदाम, अतोऽन्यत्किञ्चित्त्वया प्रष्टव्यमस्तीति चेत् तत्कथयामेत्यर्थः ॥ ७१ ॥
इति श्रीमद्भागवते सप्तमस्कन्धे श्रीवीरराघवदुषालिखितायां भागवतचन्द्रचन्द्रिकायां व्याख्यायां दशमोऽध्यायः ॥ १० ॥
-
विजय ध्वज पाठः ‘उवाच हि’ इति स्यादिति जायते ↩︎
-
W अनिच्छा ↩︎
-
W प्रह्लादं ↩︎
-
W उवाचे ↩︎
-
M,Ma मा मा ↩︎
-
H,V भृत्यं ↩︎
-
A,B,G,J,T चचोदयत्; M,Ma ष्वचोदयात् ↩︎
-
A,B,T omit अभिमतम् ↩︎
-
A,B,T omit जरा ↩︎
-
A,B,T च्ये ↩︎
-
A,B,T omit पुंसः ↩︎
-
M,Ma रोर्घ ↩︎
-
H,M,Ma,V टते ↩︎
-
A,B,T omit वणिक् ↩︎
-
A,B,T भृत्यस्वा ↩︎
-
A,B,T द्भृत्य ↩︎
-
A,B,T add तु ↩︎
-
A,B,T omit सर्व ↩︎
-
W भः ↩︎
-
A,B,T प्रेत्य ↩︎
-
A,B,T omit यदि ↩︎
-
W दास्यसि ↩︎
-
A,B,G,J,T णः ↩︎
-
M,Ma येषां ↩︎
-
W त्त्यां ↩︎
-
A,B,T हृदि ↩︎
-
M,Ma श्रितान् ↩︎
-
The following extra half verse is found in M,Ma Editions only. नारदेनोपदिष्टं मे तव मन्त्रमिमं स्मरे । ↩︎
-
W आ ↩︎
-
A omits भगवत्त्वाय ↩︎
-
A,B,T कवत्त्वे ↩︎
-
A,B,T वत्साधर्म्यमागतो ↩︎
-
A,B,T र्वान्तरात्मने ↩︎
-
W द्विजसा ↩︎
-
W ये ↩︎
-
H,V ह्या ↩︎
-
A,B,G,J,T अथा ↩︎
-
H,V add वे ↩︎
-
W omits श्रीनृसिंहः ↩︎
-
A,B,G,H,J,M,Ma,T,V जवेन ↩︎
-
A,B,T जवेन ↩︎
-
A,B,T add इत्यर्थः ↩︎
-
A,B,G,J,T त्प्र ↩︎
-
A,B,T omit बन्धात् ↩︎
-
A,B,T द्गत ↩︎
-
H,V श म ↩︎
-
A,B,G,J,T वि, W वृ ↩︎
-
A,B,T हितोपदेष्टारं ↩︎
-
W त्रि स ↩︎
-
A,B,G,J,T,W गृहे ↩︎
-
W omits प्रह्लादेन ↩︎
-
W omits तं ↩︎
-
H,V म्मता ↩︎
-
A,B,G,J,M,Ma,T यन्त्यपि ↩︎
-
A,B,G,J,T,W टाः ↩︎
-
W व विगत ↩︎
-
M.Ma पू ↩︎
-
H,V दृक् ↩︎
-
A,B,T माह ↩︎
-
A,B,T omit अपकृष्टेषु ↩︎
-
A,B,G,J,T,W त्वं ↩︎
-
H,V न्पश्यन्ति ↩︎
-
A,B,T omit पुत्रः । ↩︎
-
W omits सन् ↩︎
-
A,B,T add तत्राऽऽह ↩︎
-
H,V न्मत्तः ↩︎
-
H,V स्तान्नि ↩︎
-
H,V मान्न ↩︎
-
A,B,T add किं तदाऽपि दिष्ट्या जातं किम् ? ↩︎
-
The following three half verses are found in H,V Eds only. अहोऽयं सुहृद्धन्यः तेन लब्धोऽमुना लयः । सर्ववेदमये साक्षात् सर्वयज्ञतपोमये ॥ सर्वतीर्थमयोत्सङ्गे स्रातोऽग्राविव काञ्चनम् ॥ ↩︎
-
W नैवं ↩︎
-
H,V सुरासु; M,Ma विधोऽस ↩︎
-
A,B,T दत्वेन ↩︎
-
A,B,G,J,T तत्रैवान्त ↩︎
-
A,B,T नारदः ↩︎
-
W omits परमेष्ठिना ↩︎
-
A,B,T omit ब्रह्मणा ↩︎
-
A,B,T सर्वप्राणिनां अदृश्यः हरिः, इत्युक्त्वाऽन्तर्दधेऽदृश्योऽभूत् ॥ ↩︎ ↩︎
-
H,V गिरिशं; M,Ma विधिवत् ↩︎
-
A,B,G,J,M,Ma,T पतीन् ↩︎
-
W omits भार्गवादिभिः ↩︎
-
A,B,T omit मुनिभिः ↩︎
-
H,V परि ↩︎
-
W omits श्रेष्ठाः ↩︎
-
H,M,Ma न स्तौ ↩︎
-
M,Ma पूर्व ↩︎
-
H,V द्वौ ↩︎
-
W राघवस्य ↩︎
-
W omits हतौ ↩︎
-
W इति शेषः ↩︎
-
W omits तौच ↩︎
-
W omits राघवस्य ↩︎
-
A,B,T omit सायकैः ↩︎
-
W omits बाणैः ↩︎
-
H,V हाऽपि; M,Ma हाऽध्य ↩︎
-
W हतौ ↩︎
-
A,B,G,J,T स्त्वन्ते; H,V स्तेऽपि ↩︎
-
A,B,G,J,T,W टः ↩︎
-
भगवतो भक्त्या परया चाऽभिदा यथा; M,Ma यथा भागवता भक्त्या परमयाऽभिदा ↩︎ ↩︎
-
A,B,G,J,T,V स्सात्म्यं ↩︎
-
A,B,G,J,T सात्म्य ↩︎
-
A,B,T एषेति । ↩︎
-
W वर्णितम् ↩︎
-
H,V प ↩︎
-
H,V कात्स्न्येन ↩︎
-
M,Ma ना ↩︎
-
A,B,G,J,T माम्ना ↩︎
-
B पाशाद्वि ↩︎
-
A,B,T यन् ↩︎
-
W ण्ठलोकं ↩︎
-
A,B,G,J,T,W यन्ति । ↩︎
-
W omits अहो ↩︎
-
A,G,J,T मृग्य ↩︎
-
H,V आत्मा हरिर्यो ↩︎
-
W Omits स वै ↩︎
-
According to M,Ma editions 10th canto ends here ↩︎
-
According to M,Ma edition 11th canto begins here. ↩︎
-
A,B,G,J,T,W द्विहतं ↩︎
-
H,V भवस्य ↩︎
-
H,V नामित ↩︎
-
W Omits तेन ↩︎
-
M,Ma यशोऽभूज्ज ↩︎
-
H,V न मम ↩︎
-
A,B,T बृहद्यशः ↩︎
-
H,V द्धे येनो ↩︎
-
H,V मभ्ययुः ↩︎
-
A,B,G,J,T,W निर्माय ↩︎
-
H,V हेम; M,Ma हैम ↩︎
-
H,V सीः प्रभुः ↩︎
-
W क्षोपाः ↩︎
-
W ग ↩︎
-
H,V दुर्लक्ष्योरु ↩︎
-
W असुरसेना ↩︎
-
H,V साद्योचिरे विभुम्; M,Ma साद्येश्वरं ततः; W साद्योचुरीश्वरम् ↩︎ ↩︎
-
H,V ष्टाः ↩︎
-
W Omits रुद्र ! ↩︎
-
M,Ma पुर्यमस्त्रं ↩︎
-
M,Ma सृ ↩︎
-
A,B,G,J,T,W तुः स्म पु ↩︎
-
M,Ma गैः ↩︎
-
A,B,T Omit वि ↩︎
-
H,V से क्षिप्ताः ↩︎
-
W नात् ↩︎
-
M,Ma स्तस्यो ↩︎
-
H,V तच्च कू ↩︎
-
A,B,T धेनुरूपः ↩︎
-
H,V असुरा ↩︎
-
W धन्त मो ↩︎
-
H,V तं वि ↩︎
-
A,B,G,J,M,Ma,T महा ↩︎
-
W Omits जगौ ↩︎
-
W adds जगाद ↩︎
-
A,B,G,J,T स्वयं वि; M,Ma स्मरन्वि ↩︎
-
W नरः को वा ↩︎
-
H,M,Ma,V धा ↩︎
-
W Omits देयादिः ↩︎
-
H,V क्त्यर्थीः; M,Ma क्त्यादि ↩︎
-
M,Ma हं ↩︎
-
H,V शिवः ↩︎
-
M,Ma ले ↩︎
-
H,V स्वं ↩︎
-
W दाम ↩︎